[[सूक्तयः Source: EB]]
[
लोकोक्तयः - सूक्तयः - विशिष्टव्यावहारिकाश्च
१. अक्षाश्च नामानभिजातेश्वरा इव न सर्वकाल सुमुखा भवन्ति \। (
धूर्तविटसं)
२. अङ्कोलबीजस्येव दर्शनमपूर्वं किलभवतः (मदनसं-घनश्यामः)
३. अङ्गणस्थितायाः मल्लिकायाः सौरभ्यं नास्तीति जगत्प्रसिद्धिः (रससदनं न्युवराजः)
४. अङ्गीकारवचः पराम्बुजदृशां केन श्रुतं कथ्यताम् (मुकुन्दानन्दः)
५. अतिगाढोविरोधो न केनापि निवार्यते (शृ.शेखर-अभि-कालिदासः)
६. अति चिरस्थायी किल वैरानुबन्धः स्थावराणामपि (वसन्ततिलकं)
७. अत्यन्तपरिशीलनात् विशिष्टवस्तुन्यपि क्रमेणावज्ञा भवति (रससंयुवराजः)
८. अत्यायतं छिद्यते (पद्मप्राभृतिकं)
९. अथवा कुलाङ्गनेत्येव न विश्वसनीया स्त्रीजातिः (शृं. तिलकं रामभद्रं)
१०. अथवा दुर्विचार्यं किल नारीधैर्यम् (रसिकरञ्चं श्रीनिवासां)
११. अथवा शम्बूकजातिरपि किं न प्रसूते मुक्ताफलं शुक्तिः (वसन्ततिलकं)
१२. अनपहासक्षममेतत् राजयौतकम् (पद्मप्राभृतकम्)
१३. अनवरतजडाशयपरिचयादेव नूनमेषां श्रोत्रियाणां प्रतिदिनमतिशेतेमतिजाड्यम् \। (
मुकुन्दानन्दं)
१४. अथवा लज्जानाम विलासयौतकं प्रमदाजनस्य,
विशेषतश्चाप्रौढकामिनीनाम् (पद्मप्राभृतकं)
१५. अनभिमतसपत्नी समृद्धिः दुस्सहाकिल कुलाङ्गनानाम् (पञ्चबाणं)
१६. अनागतसुखाशया प्रत्युपस्थितसुखत्यागो न पुरुषार्थः (पद्मप्राभृतकं)
१७. अनुचितं चारभ्य मध्ये विरमणम् (रससदं युवराजः)
१८. अनुवृत्तिर्हि कामे मूलम् (धूर्तविटं)
१९. अन्यद्धि शास्त्रमन्यथा पुरुषप्रकृतिः (पादताडिं)
२०. अन्यपापं कुरुते अन्यः फलं भुङ्क्ते (कन्दर्पदर्पं-ना.वेङ्कटा.)
२१. अन्यार्थसिद्धये सद्भिः क्वचिद्वन्यव्यमध्वना \।
नीचैरप्ययते नाधिं परार्थव्यसनी जनः \।\। (
रतिकर)
२२. अन्यस्सम्पादयति अन्योऽनुभवति (कन्दर्पदर्प.-ना.वेङ्कटा.)
२३. अपि गुरुमपि दैवं वा न विजानाति स्वसन्निधिं प्राप्तम् \।
न गणयति तृट्क्षुधौ वा प्रसभं क्रीडापिशाचिकाविष्टः \।\। (
मदनमञ्जरी - वेङ्कटेश)
२४. अपित्वार्तानुपातानि प्रायश्चित्तानि (पादताडितक.)
२५. अपिनाम पराशयज्ञत्वं सुलभम् \।
मूर्खास्तु सर्वज्ञतामभिनयन्ति \। (
पञ्चबाणभाणः)
२६. अपि शक्नोषि कालभुजङ्गफणान्मणिमादातुम् (शृ. तिलक-रामभद्र)
२७. अपुमान् शब्दकामः (पादताडितक.)
२८. अभ्यास एव पाटवमुदञ्चयत्यखिलकार्येषु (शृ. तर. श्रीनि.)
२९. अमृतास्वादने कस्य सन्तृणिरूपजायते (शृ. सुधा. ईश्वर.)
३०. अमृदङ्गो नाटकाङ्कः संवृत्तः (पद्मप्रा.)
—————————————————-
]