विष्णुपुराणम् सुभाषितसङ्ग्रहः

[[विष्णुपुराणम् सुभाषितसङ्ग्रहः Source: EB]]

[

** विष्णुपुराणम् **

<1,11,18>

राजासनं तथा छत्रं वराश्वा वरवारणाः ।

यस्य पुण्यानि तस्यैते मत्वैतत् शाम्य पुत्रक ॥

</1,11,18>

<1,11,21>

यस्य यावत् स ते नैव स्वेन तुष्यति बुद्धिमान् ।

</1,11,21>

<1,11,42>

अनाराधितगोविन्दैः नरैः स्थानं नृपात्मज ।

न हि सम्प्राप्येत श्रेष्ठं तस्मादाराधयाच्युतम् ॥

</1,11,42>

<1,11,43>

परः पराणां पुरुषो यस्य तुष्टो जनार्दनः ।

स प्राप्नोत्यक्षयस्थानं एतत् सत्यं मयोदितम् ॥

</1,11,43>

<1,11,45>

परं ब्रह्म परं धाम योऽसौ ब्रह्म तथा परम् ।

तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभाम् ॥

</1,11,45>

<1,11,48>

प्राप्नोत्याराधिते विष्णौ मनसा यद् यदिच्छति ।

त्रैलोक्यान्तर्गतं स्थानं किमु वत्सोत्तमोत्तमम् ॥

</1,11,48>

<1,11,52>

बाह्यार्थानखिलांश्चित्तं त्याजयेत् प्रथमं नरः ।

तस्मिन्नेव जगद्धाम्नि ततः कुर्वीत निश्चलम् ॥

</1,11,52>

<1,19,5>

अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा ।

तस्य पापागमस्तात हेत्वभावान्न विद्यते ॥

</1,19,5>

<1,19,6>

कर्मणा मनसा वाचा परपीडां करोति यः ।

तद् बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥

</1,19,6>

<1,19,9>

एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी ।

कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ॥

</1,19,9>

<1,19,37>

सर्वभूतात्मके तात जगन्नाथे जगन्मये ।

परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥

</1,19,37>

<1,19,41>

तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये ।

आयासायापरं कर्म विद्यान्या शिल्पिनैपुणम् ॥

</1,19,41>

<1,19,43>

न चिन्तयति को राज्यं को धनं नाभिवाञ्छति ।

तथापि भाव्यमेवैतत् उभयं प्राप्यते नरैः ॥

</1,19,43>

<1,19,44>

सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः ।

तथापि पुंसां भाग्यानि नोद्यमा भूतिहेतवः ॥

</1,19,44>

<1,19,45>

जडानामविवेकानाम् अशूराणामपि प्रभो ।

भाग्यभोज्यानि राज्यानि सन्त्यनीतिमतामपि ॥

</1,19,45>

<1,19,46>

तस्माद् यतेत पुण्येषु य इच्छेन्महतीं श्रियम् ।

यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥

</1,19,46>

<1,19,47>

देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः ।

रूपमेतदनन्तस्य विष्णोर्भिन्नमिव स्थितम् ॥

</1,19,47>

<2,6,44>

मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः ।

नरकस्वर्गसञ्ज्ञे वै पापपुण्ये द्विजोत्तम ॥

</2,6,44>

<2,6,45>

वस्त्वेकमेव दुःखाय सुखायेर्ष्योद्भवाय च ।

कोपाय च यतस्तस्माद् वस्तु दुःखात्मकं कुतः ॥

</2,6,45>

<2,6,46>

तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ।

तदेव कोपाय ततः प्रमादाय च जायते ॥

</2,6,46>

<2,6,47>

तस्माद्दुःखात्मकं नास्ति न च किञ्चित् सुखात्मकम् ।

मनसः परिणामोऽयं सुखदुःखादिलक्षणः ॥

</2,6,47>

<4,10,11>

यदा न कुरुते भावं सर्वभूतेषु पापकम् ।

समदृष्टेस्तथा पुंसः सर्वा एव सुखा दिशः ॥

</4,10,11>

<4,10,12>

या दुस्त्यजा दुर्मतिर्भार्या न जीर्यति जीर्यतः ।

तां तृष्णां सन्त्यजन् प्राज्ञः सुखेनैवाभिपूर्यते ॥

</4,10,12>

<4,10,13>

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।

धनाशा जीविताशा च जीर्यतोऽपि न जीर्यति ॥

</4,10,13>

<5,10,30>

विद्यया यो यया युक्तस्तस्य सा दैवतं महत् ।

सैव पूज्यार्चनीया च सैव तस्योपकारिका ॥

</5,10,30>

<5,10,31>

योऽन्यस्य फलमश्नन् वै पूजयत्यपरं नरः ।

इह च प्रेत्य चैवासौ तात नाप्नोति शोभनम् ॥

</5,10,31>

<6,1,13>

येन तेनैव योगेन द्विजातिर्दीक्षितः कलौ ।

यैव सैव च मैत्रेय प्रायश्चित्तक्रिया कलौ ॥

</6,1,13>

<6,1,14>

सर्वमेव कलौ शास्त्रं यस्य यद् वचनं द्विज ।

देवताश्च कलौ सर्वाः सर्वः सर्वस्य चाश्रमः ॥

</6,1,14>

<6,1,16>

वित्तेन भविता पुंसां स्वल्पेनाढ्यमदः कलौ ।

स्त्रीणां रुपमदश्चैव केशैरेव भविष्यति ॥

</6,1,16>

<6,1,17>

सुवर्णमणिरत्नादौ वस्त्रे चापि क्षयं गते ।

कलौ स्त्रियो भविष्यन्ति तदा केशैरलङ्कृताः ॥

</6,1,17>

<6,1,18>

परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः ।

भर्ता भविष्यति कलौ वित्तवानेव योषिताम् ॥

</6,1,18>

<6,1,19>

यो यो ददाति बहुलं स स स्वामी तदा नृणाम् ।

स्वामित्वहेतुः सम्बन्धी भावी नाभिजनस्तदा ॥

</6,1,19>

<6,1,20>

गृहान्ता द्रव्यसङ्घाता द्रव्यान्ता च तथा मतिः ।

अर्थाश्चात्मोपभोगान्ता भविष्यन्ति कलौ युगे ॥

</6,1,20>

<6,1,22>

अभ्यर्थितोऽपि सुहृदा स्वार्थहानिं न मानवः ।

पणार्धार्धार्धमात्रेण करिष्यति तदा द्विज ॥

</6,1,22>

<6,1,28>

लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः ।

बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥

</6,1,28>

<6,1,42>

पलितोद्भवश्च भविता तदा द्वादशवार्षिकः ।

नातिजीवति वै कश्चित् कलौ वर्षाणि विंशतिम् ॥

</6,1,42>

<6,1,50>

किं वेदैः किं द्विजैर्देवैः किं शौचेनाम्बुजन्मना ।

इत्येवं विप्र वक्ष्यन्ति पाषण्डोपहता नराः ॥

</6,1,50>

<6,1,51>

स्वल्पाम्बुवृष्टिः पर्जन्यः सस्यं स्वल्पफलं तथा ।

फलं तथाल्पसारं च विप्र प्राप्ते कलौ युगे ॥

</6,1,51>

<6,1,52>

शाणप्रायाणि वस्त्राणि शमीप्राया महीरुहाः ।

शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥

</6,1,52>

<6,1,53>

अणुप्रायाणि धान्यानि आजप्रायं तथा पयः ।

भविष्यति कलौ प्राप्ते उषीरं चानुलेपनम् ॥

</6,1,53>

<6,2,15>

यत्कृते दशभिर्वर्षैस्त्रेतायां हायनेन यत् ।

द्वापरे यच्च मासेन अहोरात्रेण तत् कलौ ॥

</6,2,15>

<6,2,16>

तपसो ब्रह्मचर्यस्य जपादेश्च फलं द्विजाः ।

प्राप्नोति पुरुषस्तेन कलिः साध्विति भाषितम् ॥

</6,2,16>

<6,2,17>

ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।

यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥

</6,2,17>

<6,2,18>

धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ ।

अल्पायासेन धर्मज्ञास्तेन तुष्टोऽस्म्यहं कलेः ॥

</6,2,18>

<6,2,20>

वृथा कथा वृथा भोज्यं वृथेज्या च द्विजन्मनाम् ।

पतनाय तथा भाव्यं तैस्त्वसंयमिभिः सदा ॥

</6,2,20>

<6,2,34>

स्वल्पेनैव प्रयत्नेन धर्मः सिध्यति वै कलौ ।

नरैरात्मगुणाम्भोभिः क्षालिताखिलकिल्बिषैः ॥

</6,2,34>

—————————————–

]