[[मत्स्यपुराणम् सुभाषितसङ्ग्रहः Source: EB]]
[
मत्स्यपुराणम्
सुभाषितसङ्ग्रहः
<36,12>
नास्तीदृशं संवननं त्रिषु लोकेषु किञ्चन ।
यथा मैत्री च लोकेषु दानं च मधुरा च वाक् ॥
</36,12>
<38,6>
नानाभावा बहवो जीवलोके
दैवाधीना नष्टचेष्टाधिकाराः ।
तत्तत्प्राप्य न विहन्येत धीरो
दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥
</38,6>
<38,8>
दुःखे न तप्येत सुखे न हृष्येत
समेन वर्तेत सदैव धीरः ।
दिष्टं बलीय इति मन्यमानो
न सञ्ज्वरेन्नापि हृष्येत् कदाचित् ॥
</38,8>
<39,25>
चत्वारि कर्माणि भयङ्कराणि
भयं प्रयच्छन्त्यन्यथा कृतानि ।
मानाग्निहोत्रमुत मानमौनं
मानेनाधीतमुत मानयज्ञः ॥
</39,25>
<154,512>
दशकूपसमा वापी दशवापीसमो ह्रदः ।
दशह्रदसमः पुत्रो दशपुत्रसमो द्रुमः ॥
</154,512>
<175,37>
ब्रह्मचर्याद् ब्राह्मणस्य ब्राह्मणत्वं विधीयते ।
एवमाहुः परे लोके ब्रह्मचर्यविदो जनाः ॥
</175,37>
<175,40>
नास्ति योगं विना सिद्धिः न वा सिद्धिं विना यशः ।
नास्ति लोके यशोमूलं ब्रह्मचर्यात् परं तपः ॥
</175,40>
<210,11>
इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया चैव ब्रह्मलोकं समश्नुते ॥
</210,11>
<210,17>
पतिर्हि दैवतं स्त्रीणां पतिरेव परायणम् ।
अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वरः ॥
</210,17>
<210,18>
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य प्रदातारं भर्तारं का न पूजयेत् ॥
</210,18>
<220,22-24>
न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ।
न भाव्यं दारुणेनातितीक्ष्णादुद्विजते जनः ॥
काले मृदुर्यो भवति काले भवति दारुणः ।
राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ॥
</220,22-24>
<220,24,25>
भृत्यैः सह महीपालः परिहासं विवर्जयेत् ।
भृत्याः परिभवन्तीह नृपं हर्षवशं गतम् ॥
</220,24,25>
<220,28-29>
भाव्यं धर्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभुजा ।
स्थूललक्ष्यस्य वशगा सर्वा भवति मेदिनी ॥
</220,28-29>
<220,29-31>
अदीर्घसूत्रश्च भवेत् सर्वकर्मसु पार्थिवः ।
दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ॥
रागे दर्पे च माने च द्रोहे पापे च कर्मणि ।
अप्रिये चैव कर्तव्ये दीर्घसूत्रः प्रशस्यते ॥
</220,29-31>
<221,2-5>
स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् ।
तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥
प्रतिकूलं तथा दैवं पौरुषेण विहन्यते ।
मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ॥
येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम ।
पौरुषेण विना तेषां केषाञ्चित् दृश्यते फलम् ॥
कर्मणा प्राप्यते लोके राजसस्य तथा फलम् ।
कृच्छ्रेण कर्मणा विद्धि तामसस्य तथा फलम् ॥
</221,2-5>
<221,8-12>
दैवं पुरुषकारश्च कालश्च पुरुषोत्तम ।
त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहम् ॥
कृष्टिवृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः ।
तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥
तस्मात् सदैव कर्तव्यं सधर्मं पौरुषं नरैः ।
विपत्तावपि यस्येह परलोके ध्रुवं फलम् ॥
नालसाः प्राप्नुवन्त्यर्थान् न च दैवपरायणाः ।
तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥
त्यक्त्वालसान् दैवपरान् मनुष्यान्
उत्थानयुक्तान् पुरुषान् हि लक्ष्मीः ।
अन्विष्य यत्नाद् वृणुयान्नरेन्द्र
तस्मात्सदोत्थानवता हि भाव्यम् ॥
</221,8-12>
<222,10>
ये शुद्धवंशा ऋजवः प्रणीता
धर्मे स्थिताः सत्यपरा विनीताः ।
ते सामसाध्याः पुरुषाः प्रदिष्टाः
मानोन्नता ये सततं च राजन् ॥
</222,10>
————————————–
]