अग्निपुराणम् सुभाषितसङ्ग्रहः

[[अग्निपुराणम् सुभाषितसङ्ग्रहः Source: EB]]

[

अग्निपुराणम्

<64,42-44>

अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ।

एकाहं स्थापयेत् तोयं तत्पुण्यमयुतायुतम् ॥

विमाने मोदते स्वर्गे नरकं न स गच्छति ।

गवादि पिबते यस्मात् तस्मात्कर्तुर्न पातकम् ॥

</64,42-44>

<111,9>

दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः ।

तेषां सान्निध्यमत्रैव प्रयागं परमं ततः ॥

</111,9>

<111,10-11>

गवां कोटिप्रदानात् यत् त्र्यहं स्नानस्य तत्फलम् ।

प्रयागे माघमासे तु एवमाहुर्मनीषिणः ॥

</111,10-11>

<112,6-7>

द्वियोजनं तु पूर्वं स्यात् योजनार्द्धं तदन्यथा ।

वरणा च नदी चासौ मध्ये वाराणसी तयोः ॥

अत्र स्नानं जपो होमो मरणं देवपूजनम् ।

श्राद्धं दानं निवासश्च यद्यत् स्याद् भुक्तिमुक्तिकृत् ॥

</112,6-7>

<159,7-8>

मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम् ।

जायावर्जं हि सर्वस्य याम्यः पन्था विभिद्यते ॥

धर्म एको व्रजत्येनं यत्र क्वचन गामिनम् ।

श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ॥

</159,7-8>

<159,11-12>

आमुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ।

नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ॥

कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ।

औषधानि न मन्त्राद्यास्त्रायन्ते मृत्युनान्वितम् ॥

</159,11-12>

<209,29>

कुलानां तु शतं हन्यादप्रयच्छन् प्रतिश्रुतम् ।

देवानां च गुरूणां च मातापित्रोस्तथैव च ॥

</209,29>

<209,30-31>

पुण्यं देयं प्रयत्नेन यत् पुण्यं चार्जितं क्वचित् ।

प्रतिलाभेच्छया दत्तं यद्धनं तदपार्थकम् ॥

श्रद्धया साध्यते धर्मो दत्तं वार्यपि चाक्षयम् ।

ज्ञानशीलगुणोपेतः परपीडाबहिष्कृतः ॥

</209,30-31>

<211,52>

ब्राह्मीं सरस्वतीं दत्वा निर्मलो ब्रह्मलोकभाक् ।

सप्तद्वीपमहीदः स ब्रह्मज्ञानं ददाति यः ॥

</211,52>

<211,54>

लिखित्वा पुस्तकं दत्वा भुक्तिमुक्तिमवाप्नुयात् ।

वेदशास्त्रं नृत्यगीतं योऽध्यापयति नाकभाक् ॥

</211,54>

<211,63>

येन जीवति तद् दत्वा फलस्यान्तो न विद्यते ।

लोके श्रेष्ठतमं सर्वमात्मनश्चापि यत् प्रियम् ॥

</211,63>

<224,15-6>

दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ।

रागे दर्पे च माने च द्रोहे पापे च कर्मणि ॥

अप्रिये चैव वक्तव्ये दीर्घसूत्रः प्रशस्यते ॥

</224,15-6>

<224,27-29>

विश्वासयेच्चापि परं तत्त्वभूतेन हेतुना ।

बकवच्चिन्तयेदर्थं सिंहवच्च पराक्रमेत् ॥

वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ।

दृढप्रहारश्च भवेत् यथा शूकरवन्नृपः ॥

चित्राकारश्च शिखिवत् दृढभक्तिस्तथाश्ववत् ।

भवेच्च मधुराभाषी तथा कोकिलवन्नृपः ॥

</224,27-29>

<237,6>

प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनम् ।

ज्ञानाङ्कुशेन कुर्वीत वश्यमिन्द्रियदन्तिनम् ॥

</237,6>

<237,10>

अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।

वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥

</237,10>

<238,18-22>

सद्भावेन हरेन्मित्रं सम्भ्रमेण च बान्धवान् ।

स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येनेतरं जनम् ॥

अनिन्दा परकृत्येषु स्वधर्मपरिपालनम् ।

कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः ॥

प्राणैरप्युपकारित्वं मित्रायाव्यभिचारिणे ।

गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता ॥

स्वसमृद्धिष्वनुत्सेकः परवृद्धिष्वमत्सरः ।

अपरोपतापि वचनं मौनव्रतचरिष्णुता ॥

बन्धुभिर्बद्धसंयोगः स्वजने चतुरश्रता ।

उचितानुविधायित्वमिति वृत्तं महात्मनाम् ॥

</238,18-22>

<239,46>

आमु(यु?)

क्तिकेभ्यश्चौरेभ्यः पौरेभ्यो राजवल्लभात् ।

पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयम् ॥

</239,46>

<240,19>

सापत्न्यं वास्तुजं स्त्रीजं वाग्जातमपराधजम् ।

वैरं पञ्चविधं प्रोक्तं साधनैः प्रशमनं नयेत् ॥

</240,19>

<337,3-4>

नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा ।

कवित्वं दुर्लभं तत्र शक्तिस्तत्र च दुर्लभा ॥

व्युत्पत्तिर्दुर्लभा तत्र विवेकस्तत्र दुर्लभः ।

सर्वं शास्त्रमविद्वद्भिर्मृग्यमाणं न सिद्ध्यति ॥

</337,3-4>

======================

]