श्रीनीलकण्ठदीक्षितप्रणीतम् कलिविडम्बनम्
वादः
विश्वास-प्रस्तुतिः - १
न भेतव्यं न बोद्धव्यं
न श्राव्यं वादिनो वचः।
झट्इति प्रतिवक्तव्यं
सभासु विजिगीषुभिः॥ १+++(5)+++
मूलम् - १
न भेतव्यं न बोद्धव्यं
न श्राव्यं वादिनो वचः।
झटिति प्रतिवक्तव्यं
सभासु विजिगीषुभिः॥ १
विषयः
वादः
विश्वास-प्रस्तुतिः - २
अ-सम्भ्रमो विलज्जत्वम्
अवज्ञा प्रतिवादिनि।
हासो, राज्ञः स्तवश् चेति
पञ्चैते जय-हेतवः॥ २ +++(5)+++
मूलम् - २
असम्भ्रमो विलज्जत्वम्
अवज्ञा प्रतिवादिनि।
हासो राज्ञः स्तवश्चेति
पञ्चैते जयहेतवः॥ २
विषयः
वादः
विश्वास-प्रस्तुतिः - ३
उच्चैर् उद्घोष्य जेतव्यं
मध्यस्थश् चेद् अपण्डितः।
पण्डितो यदि तत्रैव
पक्षपातो ऽधिरोप्यताम्॥ ३
मूलम् - ३
उच्चैरुद्घोष्य जेतव्यं
मध्यस्थश्चेदपण्डितः।
पण्डितो यदि तत्रैव
पक्षपातोऽधिरोप्यताम्॥ ३
विषयः
वादः
विश्वास-प्रस्तुतिः - ४
लोभो हेतुर्, धनं साध्यं
दृष्टान्तस् तु पुरोहितः।
आत्मोत्कर्षो निगमनम्
अनुमानेष्व् अयं विधिः॥ ४+++(5)+++
मूलम् - ४
लोभो हेतुर्धनं साध्यं
दृष्टान्तस्तु पुरोहितः।
आत्मोत्कर्षो निगमनम्
अनुमानेष्वयं विधिः॥ ४
विषयः
वादः
विश्वास-प्रस्तुतिः - ५
अभ्यास्यं लज्जमानेन
तत्त्वं जिज्ञासुना चिरम्।
जिगीषुणा ह्रियं त्यक्त्वा
कार्यः कोलाहलो महान्॥ ५+++(5)+++
मूलम् - ५
अभ्यास्यं लज्जमानेन
तत्त्वं जिज्ञासुना चिरम्।
जिगीषुणा ह्रियं त्यक्त्वा
कार्यः कोलाहलो महान्॥ ५
विषयः
वादः
विश्वास-प्रस्तुतिः - ६
पाठनैर् ग्रन्थ-निर्माणैः
प्रतिष्ठा तावद् आप्यते।
एवं च तथ्य-व्युत्पत्तिर्
आयुषो ऽन्ते भवेन् न वा॥ ६+++(5)+++
मूलम् - ६
पाठनैर्ग्रन्थनिर्माणैः
प्रतिष्ठा तावदाप्यते।
एवं च तथ्यव्युत्पत्तिर्
आयुषोऽन्ते भवेन्न वा॥ ६
विषयः
वादः
आत्म-स्तुतिः
विश्वास-प्रस्तुतिः - ७
स्तोतारः के भविष्यन्ति
मूर्खस्य जगती-तले।
न स्तौति चेत् स्वयं च स्वं
कदा तस्यास्तु निर्वृतिः॥ ७ +++(5)+++
मूलम् - ७
स्तोतारः के भविष्यन्ति
मूर्खस्य जगतीतले।
न स्तौति चेत्स्वयं च स्वं
कदा तस्यास्तु निर्वृतिः॥ ७
विषयः
आत्म-स्तुतिः
पाठनम्, शिक्षा
विश्वास-प्रस्तुतिः - ८
“वाच्यतां”, “समयो ऽतीतः”
“स्पष्टम् अग्रे भविष्यति” ।
इति पाठयतां ग्रन्थे
काठिन्यं कुत्र वर्तते॥ ८ +++(5)+++
मूलम् - ८
वाच्यतां समयोऽतीतः
स्पष्टमग्रे भविष्यति ।
इति पाठयतां ग्रन्थे
काठिन्यं कुत्र वर्तते॥ ८
विषयः
पाठनम्, शिक्षा
विश्वास-प्रस्तुतिः - ९
अ-गतित्वम्, अतिश्रद्धा,
ज्ञानाभासेन तृप्तता।
त्रयः शिष्य-गुणा ह्य् एते
मूर्खाचार्यस्य भाग्य-जाः॥ ९ +++(5)+++
मूलम् - ९
अगतित्वमतिश्रद्धा
ज्ञानाभासेन तृप्तता।
त्रयः शिष्यगुणा ह्येते
मूर्खाचार्यस्य भाग्यजाः॥ ९
विषयः
पाठनम्, शिक्षा
मान्त्रिकः, योगी, यतिः
विश्वास-प्रस्तुतिः - १०
यदि न क्वापि विद्यायां
सर्वथा क्रमते मतिः।
मान्त्रिकास् तु भविष्यामो
योगिनो यतयोऽपि वा॥ १०+++(5)+++
मूलम् - १०
यदि न क्वापि विद्यायां
सर्वथा क्रमते मतिः।
मान्त्रिकास्तु भविष्यामो
योगिनो यतयोऽपि वा॥ १०
विषयः
मान्त्रिकः, योगी, यतिः
विश्वास-प्रस्तुतिः - ११
अविलम्बेन संसिद्धौ
मान्त्रिकैर् आप्यते यशः।
विलम्बे कर्म-बाहुल्यं
विख्याप्यावाप्यते धनम्॥ ११+++(5)+++
मूलम् - ११
अविलम्बेन संसिद्धौ
मान्त्रिकैराप्यते यशः।
विलम्बे कर्मबाहुल्यं
विख्याप्यावाप्यते धनम्॥ ११
विषयः
मान्त्रिकः, योगी, यतिः
विश्वास-प्रस्तुतिः - १२
सुखं सुखिषु, दुःखेऽपि
जीवनं दुःख-शालिषु ।
अनुग्रहायते येषां +++(मन्त्राः)+++
ते धन्याः खलु मान्त्रिकाः॥ १२ +++(4)+++
मूलम् - १२
सुखं सुखिषु दुःखेऽपि
जीवनं दुःखशालिषु ।
अनुग्रहायते येषां
ते धन्याःखलु मान्त्रिकाः॥ १२
विषयः
मान्त्रिकः, योगी, यतिः
विश्वास-प्रस्तुतिः - १३
यावद् अज्ञानतो मौनम्,
आचारो वा विलक्षणः।
तावन् माहात्म्य-रूपेण
पर्यवस्यति मान्त्रिके॥ १३
मूलम् - १३
यावदज्ञानतो मौनम्
आचारो वा विलक्षणः।
तावन्माहात्म्यरूपेण
पर्यवस्यति मान्त्रिके॥ १३
विषयः
मान्त्रिकः, योगी, यतिः
ज्यौतिषिकः
विश्वास-प्रस्तुतिः - १४
चारान् विचार्य देवज्ञैर्
वक्तव्यं भू-भुजां फलम्।
ग्रह-चार+++(←श्लेषः)+++-परिज्ञानं
तेषाम् आवश्यकं यतः॥ १४+++(5)+++
मूलम् - १४
चारान्विचार्य देवज्ञैर्
वक्तव्यं भूभुजां फलम्।
ग्रहचारपरिज्ञानं
तेषामावश्यकं यतः॥ १४
विषयः
ज्यौतिषिकः
विश्वास-प्रस्तुतिः - १५
पुत्र इत्येव पितरि
कन्यकेत्येव मातरि।
गर्भ-प्रश्नेषु कथयन्
दैवज्ञो विजयी भवेत्॥ १५+++(5)+++
मूलम् - १५
पुत्र इत्येव पितरि
कन्यकेत्येव मातरि।
गर्भप्रश्नेषु कथयन्
दैवज्ञो विजयी भवेत्॥ १५
विषयः
ज्यौतिषिकः
विश्वास-प्रस्तुतिः - १६
आयुः-प्रश्ने दीर्घम् आयुर्
वाच्यं मौहूर्तिकैर् जनैः।
जीवन्तो बहु मन्यन्ते
मृताः प्रक्ष्यन्ति कं पुनः॥ १६+++(5)+++
मूलम् - १६
आयुःप्रश्ने दीर्घमायुर्
वाच्यं मौहूर्तिकैर्जनैः।
जीवन्तो बहुमन्यन्ते
मृताः प्रक्ष्यन्ति कं पुनः॥ १६
विषयः
ज्यौतिषिकः
विश्वास-प्रस्तुतिः - १७
सर्वं कोटि-द्वयोपेतं
सर्वं काल-द्वयावधि।
सर्वं व्यामिश्रम् इव च
वक्तव्यं दैव-चिन्तकैः॥ १७ +++(5)+++
मूलम् - १७
सर्वं कोटिद्वयोपेतं
सर्वं कालद्वयावधि।
सर्वं व्यामिश्रमिव च
वक्तव्यं दैवचिन्तकैः॥ १७
विषयः
ज्यौतिषिकः
विश्वास-प्रस्तुतिः - १८
निर्धनानां धनावाप्तिं
धनिनाम् अधिकं धनम्।
ब्रुवाणाः सर्वथा ग्राह्या
लोकैर् ज्यौतिषिका जनाः॥ १८+++(5)+++
मूलम् - १८
निर्धनानां धनावाप्तिं
धनिनामधिकं धनम्।
ब्रुवाणाः सर्वथा ग्राह्या
लोकैर्ज्यौतिषिका जनाः॥ १८
विषयः
ज्यौतिषिकः
विश्वास-प्रस्तुतिः - १९
शतस्य लाभे ताम्बूलं
सहस्रस्य तु भोजनम्।
दैवज्ञानाम् उपालम्भो
नित्यं कार्य-विपर्यये॥ १९
मूलम् - १९
शतस्य लाभे ताम्बूलं
सहस्रस्य तु भोजनम्।
दैवज्ञानामुपालम्भो
नित्यं कार्यविपर्यये॥ १९
विषयः
ज्यौतिषिकः
विश्वास-प्रस्तुतिः - २०
अपि सागर-पर्यन्ता
विचेतव्या वसुंधरा।
देशो ह्य् अरत्नि-मात्रेऽपि
नास्ति दैवज्ञ-वर्जितः॥ २० +++(4)+++
मूलम् - २०
अपि सागरपर्यन्ता
विचेतव्या वसुंधरा।
देशो ह्यरत्निमात्रेऽपि
नास्ति दैवज्ञवर्जितः॥ २०
विषयः
ज्यौतिषिकः
विश्वास-प्रस्तुतिः - २१
वारान् केचिद्, ग्रहान् केचित्,
केचिद् ऋक्षाणि जानते।
त्रितयं ये विजानन्ति
ते वाचस्पतयः स्वयम्॥ २१+++(5)+++
मूलम् - २१
वारान्केचिद्ग्रहान्केचित्
केचिदृक्षाणि जानते।
त्रितयं ये विजानन्ति
ते वाचस्पतयः स्वयम्॥ २१
विषयः
ज्यौतिषिकः
ज्यौतिषिकः, नैमित्तिकः, स्वप्न-दृक्, देवतोपासकः
विश्वास-प्रस्तुतिः - २२
नैमित्तिकाः स्वप्न-दृशो
देवतोपासका इति।
निसर्ग-शत्रवः सृष्टा
दैवज्ञानाम् अमी त्रयः॥ २२+++(4)+++
मूलम् - २२
नैमित्तिकाः स्वप्नदृशो
देवतोपासका इति।
निसर्गशत्रवः सृष्टा
दैवज्ञानाममी त्रयः॥ २२
विषयः
ज्यौतिषिकः
वैद्यः
विश्वास-प्रस्तुतिः - २३
स्वस्थैर् असाध्य-रोगैश् च
जन्तुभिर् नास्ति किञ्चन।
कातरा दीर्घ-रोगाश् च
भिषजां भाग्य-हेतवः॥ २३+++(5)+++
मूलम् - २३
स्वस्थैरसाध्यरोगैश्च
जन्तुभिर्नास्ति किञ्चन।
कातरा दीर्घरोगाश्च
भिषजां भाग्यहेतवः॥ २३
विषयः
वैद्यः
विश्वास-प्रस्तुतिः - २४
नातिधैर्यं प्रदातव्यं
नातिभीतिश् च रोगिणि।
नैश्चिन्त्यान् नादिमे दानं
नैराश्याद् एव नान्तिमे॥ २४ +++(5)+++
मूलम् - २४
नातिधैर्यं प्रदातव्यं
नातिभीतिश्च रोगिणि।
नैश्चिन्त्यान्नादिमे दानं
नैराश्यादेव नान्तिमे॥ २४
विषयः
वैद्यः
विश्वास-प्रस्तुतिः - २५
भैषज्यं तु यथा-कामं
पथ्यं तु कठिनं वदेत्।
आरोग्यं वैद्य-माहात्म्याद्
अन्यथात्वम् अपथ्यतः॥ २५+++(5)+++
मूलम् - २५
भैषज्यं तु यथाकामं
पथ्यं तु कठिनं वदेत्।
आरोग्यं वैद्यमाहात्म्याद्
अन्यथात्वमपथ्यतः॥ २५
विषयः
वैद्यः
विश्वास-प्रस्तुतिः - २६
निदानं रोग-नामानि
सात्म्यासात्म्ये चिकित्सितम्।
सर्वम् अप्य् उपदेक्ष्यन्ति
रोगिणः सदने स्त्रियः॥ २६
मूलम् - २६
निदानं रोगनामानि
सात्म्यासात्म्ये चिकित्सितम्।
सर्वमप्युपदेक्ष्यन्ति
रोगिणः सदनेस्त्रियः॥ २६
विषयः
वैद्यः
विश्वास-प्रस्तुतिः - २७
जृम्भमाणेषु रोगेषु
म्रियमाणेषु जन्तुषु।
रोग-तत्त्वेषु शनकैर्
व्युत्पद्यन्ते चिकित्सकाः॥ २७ +++(5)+++
मूलम् - २७
जृम्भमाणेषु रोगेषु
म्रियमाणेषु जन्तुषु।
रोगतत्त्वेषु शनकैर्
व्युत्पद्यन्ते चिकित्सकाः॥ २७
विषयः
वैद्यः
विश्वास-प्रस्तुतिः - २८
प्रवर्तनार्थम् आरम्भे
मध्ये त्वौषध-हेतवे।
बहुमानार्थम् अन्ते च
जिहीर्षन्ति चिकित्सकाः॥ २८ +++(4)+++
मूलम् - २८
प्रवर्तनार्थमारम्भे
मध्ये त्वौषधहेतवे।
बहुमानार्थमन्ते च
जिहीर्षन्ति चिकित्सकाः॥ २८
विषयः
वैद्यः
वैद्यः, मान्त्रिकः, दायादः, ज्यौतिषिकः
विश्वास-प्रस्तुतिः - २९
लिप्समानेषु वैद्येषु
चिराद् आसाद्य रोगिणम्।
दायादाः संप्ररोहन्ति
दैवज्ञा मान्त्रिका अपि॥ २९
मूलम् - २९
लिप्समानेषु वैद्येषु
चिरादासाद्य रोगिणम्।
दायादाः संप्ररोहन्ति
दैवज्ञा मान्त्रिका अपि॥ २९
विषयः
वैद्यः
विश्वास-प्रस्तुतिः - ३०
रोगस्योपक्रमे सान्त्वं
मध्ये किञ्चिद् धन-व्ययः।
शनैर् अनादरः शान्तौ,
स्नातो वैद्यं न पश्यति॥ ३० +++(5)+++
मूलम् - ३०
रोगस्योपक्रमे सान्त्वं
मध्ये किञ्चिद्धनव्ययः।
शनैरनादरः शान्तौ
स्नातो वैद्यं न पश्यति॥ ३०
विषयः
वैद्यः
विश्वास-प्रस्तुतिः - ३१
दैव-ज्ञत्वं मान्त्रिकता
भैषज्यं चाटु-कौशलम्।
एकैकम् अर्थलाभाय
द्वि-त्रि-योगस्तु दुर्लभः॥ ३१
मूलम् - ३१
दैवज्ञत्वं मान्त्रिकता
भैषज्यं चाटुकौशलम्।
एकैकमर्थलाभाय-
द्वित्रियोगस्तु दुर्लभः॥ ३१
विषयः
वैद्यः
कविः, चाटु, सत्यम्, असत्यम्
विश्वास-प्रस्तुतिः - ३२
अनृतं चाटुवादश् च
धन-योगो महान् अयम्।
सत्यं वैदुष्यम् इत्य् एष
योगो दारिद्र्य-कारकः॥ ३२ +++(4)+++
मूलम् - ३२
अनृतं चाटुवादश्च
धनयोगो महानयम्।
सत्यं वैदुष्यमित्येष
योगो दारिद्र्यकारकः॥ ३२
विषयः
कविः, चाटु, सत्यम्, असत्यम्
विश्वास-प्रस्तुतिः - ३३
कातर्यं दुर्विनीतत्वं
कार्पण्यम् अविवेकताम्।
सर्वं मार्जन्ति कवयः
शालीनां मुष्टि-किङ्कराः॥ ३३ +++(5)+++
मूलम् - ३३
कातर्यं दुर्विनीतत्वं
कार्पण्यमविवेकताम्।
सर्व मार्जन्ति कवयः
शालीनां मुष्टिकिङ्कराः॥ ३३
विषयः
कविः, चाटु, सत्यम्, असत्यम्
विश्वास-प्रस्तुतिः - ३४
न कारणम् अपेक्षन्ते
कवयः स्तोतुम् उद्यताः।
किञ्चिद् अ-स्तुवतां तेषां
जिह्वा फुर-फुरायते॥ ३४
मूलम् - ३४
न कारणमपेक्षन्ते
कवयः स्तोतुमुद्यताः।
किञ्चिदस्तुवतां तेषां
जिह्वा फुरफुरायते॥ ३४
विषयः
कविः, चाटु, सत्यम्, असत्यम्
विश्वास-प्रस्तुतिः - ३५
स्तुतं स्तुवन्ति कवयो
न स्वतो गुण-दर्शिनः।
कीटः कश्चिद् अलिर् नाम
कियती तत्र वर्णना॥ ३५ +++(5)+++
मूलम् - ३५
स्तुतं स्तुवन्ति कवयो
न स्वतो गुणदर्शिनः।
कीटः कश्चिदलिर्नाम
कियती तत्र वर्णना॥ ३५
विषयः
कविः, चाटु, सत्यम्, असत्यम्
विश्वास-प्रस्तुतिः - ३६
+++(बहूनाम् प्रणयने ऽसामर्थ्यात्, गृहीतॄणां वासामर्थ्यात्)+++
एकैव कविता पुंसां
ग्रामायाश्वाय हस्तिने।
अन्ततो ऽन्नाय वस्त्राय
ताम्बूलाय च कल्पते॥ ३६
मूलम् - ३६
एकैव कविता पुंसां
ग्रामायाश्वाय हस्तिने।
अन्ततोऽन्नाय वस्त्राय
ताम्बूलाय च कल्पते॥ ३६
विषयः
कविः, चाटु, सत्यम्, असत्यम्
विश्वास-प्रस्तुतिः - ३७
शब्दाख्यम् अपरं ब्रह्म
संदर्भेण परिष्कृतम्।
विक्रीयते कतिपयैर्
वृथान्यैर् विनियुज्यते॥ ३७ +++(4)+++
मूलम् - ३७
शब्दाख्यमपरं ब्रह्म
संदर्भेण परिष्कृतम्।
विक्रीयते कतिपयैर्
वृथान्यैर् विनियुज्यते॥ ३७
विषयः
कविः, चाटु, सत्यम्, असत्यम्
विश्वास-प्रस्तुतिः - ३८
वर्णयन्ति नराभासान्
वाणीं लब्ध्वापि ये जनाः।
लब्ध्वापि कामधेनुं ते
लाङ्गले विनियुञ्जते॥ ३८ +++(5)+++
मूलम् - ३८
वर्णयन्ति नराभासान्
वाणीं लब्ध्वापि ये जनाः।
लब्ध्वापि कामधेनुं ते
लाङ्गले विनियुञ्जते॥ ३८
विषयः
कविः, चाटु, सत्यम्, असत्यम्
विश्वास-प्रस्तुतिः - ३९
प्रशंसन्तो नराभासान्
प्रलपन्तो ऽन्यथाऽन्यथा।
कथं तरन्तु कवयः
काम-पारम्य-वादिनः॥ ३९ +++(4)+++
मूलम् - ३९
प्रशंसन्तो नराभासान्
प्रलपन्तोऽन्यथान्यथा।
कथं तरन्तु कवयः
कामपारम्यवादिनः॥ ३९
विषयः
कविः, चाटु, सत्यम्, असत्यम्
देव-स्तुतिः
विश्वास-प्रस्तुतिः - ४०
यत्-संदर्भे यद्-उल्लेखे
यद्-व्यङ्ग्ये निभृतं मनः।
समाधेर् अपि तज् ज्यायः
शङ्करो यदि वर्ण्यते॥ ४०
मूलम् - ४०
यत्संदर्भे यदुल्लेखे
यद्व्यङ्ग्ये निभृतं मनः।
समाधेरपि तज्ज्यायः
शङ्करो यदि वर्ण्यते॥ ४०
विषयः
कविः, चाटु, सत्यम्, असत्यम्
बन्धुः
बन्धुः, श्वश्रूः, श्यालः
विश्वास-प्रस्तुतिः - ४१
गृहिणी, भगिनी तस्याः,
श्वशुरी, श्याल इत्यपि।
प्राणिनां कलिना सृष्टाः
पञ्च प्राणा इमे ऽपरे॥ ४१
मूलम् - ४१
गृहिणी भगिनी तस्याः
श्वशुरी श्याल इत्यपि।
प्राणिनां कलिना सृष्टाः
पञ्च प्राणा इमेऽपरे॥ ४१
विषयः
बन्धुः
बन्धुः, जामाता, मातुलः
विश्वास-प्रस्तुतिः - ४२
जामातरो, भागिनेया,
मातुला, दार-बान्धवाः।
अ-ज्ञाता एव गृहिणां
भक्षयन्त्य् आखुवद् गृहे॥ ४२
मूलम् - ४२
जामातरो भागिनेया
मातुला दारबान्धवाः।
अज्ञाता एव गृहिणां
भक्षयन्त्याखुवद्गृहे॥ ४२
विषयः
बन्धुः
बन्धुः, जामाता, मातुलः, श्वशुरः, अतिथिः
विश्वास-प्रस्तुतिः - ४३
मातुलस्य बलं माता,
जामातुर् दुहिता बलम्।
श्वशुरस्य बलं भार्या
स्वयम् +++(अवश्यं सेवनीयस्य)+++ एवातिथेर् बलम्॥ ४३
मूलम् - ४३
मातुलस्य बलं माता
जामातुर्दुहिता बलम्।
श्वशुरस्य बलं भार्या
स्वयमेवातिथेर्बलम्॥ ४३
विषयः
बन्धुः
बन्धुः, जामाता, श्यालः
विश्वास-प्रस्तुतिः - ४४
जामातुर् वक्रता तावद्
यावच् छ्यालस्य बालता।
प्रबुध्यमाने सारल्यं
प्रबुद्धे ऽस्मिन् पलायनम्॥ ४४
मूलम् - ४४
जामातुर्वक्रता तावद्
यावच्छ्यालस्य बालता।
प्रबुध्यमाने सारल्यं
प्रबुद्धेऽस्मिन्पलायनम्॥ ४४
विषयः
बन्धुः
बन्धुः, जामाता, श्यालः, श्वशुरः, श्वश्रूः
विश्वास-प्रस्तुतिः - ४५
भार्या ज्येष्ठा, शिशुः श्यालः
श्वश्रूः स्वातन्त्र्य-शालिनी।
श्वशुरस् तु प्रवासीति
जामातुर् भाग्य-धोरणी॥ ४५ +++(5)+++
मूलम् - ४५
भार्या ज्येष्ठा शिशुः श्यालः
श्वश्रूः स्वातन्त्र्यशालिनी।
श्वशुरस्तु प्रवासीति
जामातुर्भाग्यधोरणी॥ ४५
विषयः
बन्धुः
बन्धुः, कन्या
विश्वास-प्रस्तुतिः - ४६
भूषणैर् वसनैः पात्रैः
पुत्राणाम् उपलालनैः।
सकृद् आगत्य गच्छन्ती
कन्या निर्मार्ष्टि मन्दिरम्॥ ४६ +++(4)+++
मूलम् - ४६
भूषणैर्वसनैः पात्रैः
पुत्राणामुपलालनैः।
सकृदागत्य गच्छन्ती
कन्या निर्मार्ष्टि मन्दिरम्॥ ४६
विषयः
बन्धुः
बन्धुः, भार्या, भगिनी
विश्वास-प्रस्तुतिः - ४७
गृहिणी स्वजनं वक्ति
शुष्काहारं मिताशनम्।
पति-पक्ष्यांस् तु बह्वाशान्
क्षीरपांस् तस्करान् अपि॥ ४७ +++(5)+++
मूलम् - ४७
गृहिणी स्वजनं वक्ति
शुष्काहारं मिताशनम्।
पतिपक्ष्यांस्तु बह्वाशान्
क्षीरपांस्तस्करानपि॥ ४७
विषयः
बन्धुः
विश्वास-प्रस्तुतिः - ४८
भार्ये द्वे पुत्र-शालिन्यौ
भगिनी पति-वर्जिता।
अ-श्रान्त-कलहो नाम
योगोऽयं गृह-मेधिनाम्॥ ४८ +++(4)+++
मूलम् - ४८
भार्ये द्वे पुत्रशालिन्यौ
भगिनी पतिवर्जिता।
अश्रान्तकलहो नाम
योगोऽयं गृहमेधिनाम्॥ ४८
विषयः
बन्धुः
विश्वास-प्रस्तुतिः - ४९
भार्ये द्वे बहवः पुत्रा
दारिद्र्यं रोग-सम्भवः।
जीर्णौ च माता-पितराव्
एकैकं नरकाधिकम्॥ ४९ +++(4)+++
मूलम् - ४९
भार्ये द्वे बहवः पुत्रा
दारिद्र्यं रोगसम्भवः।
जीर्णौ च मातापितराव्
एकैकं नरकाधिकम्॥ ४९
विषयः
बन्धुः
उत्तमर्णाः
विश्वास-प्रस्तुतिः - ५०
स्मृते सीदन्ति गात्राणि
दृष्टे प्रज्ञा विनश्यति।
अहो महद् इदं भूतम्
उत्तमर्णाभिशब्दितम्॥ ५० +++(5)+++
मूलम् - ५०
स्मृते सीदन्ति गात्राणि
दृष्टे प्रज्ञा विनश्यति।
अहो महदिदं भूतम्
उत्तमर्णाभिशब्दितम्॥ ५०
विषयः
उत्तमर्णाः
विश्वास-प्रस्तुतिः - ५१
अन्तकोऽपि हि जन्तुनाम्
अन्त-कालम् अपेक्षते।
न काल-नियमः कश्चिद्
उत्तमर्णस्य विद्यते॥ ५१ +++(4)+++
मूलम् - ५१
अन्तकोऽपि हि जन्तुनाम्
अन्तकालमपेक्षते।
न कालनियमः कश्चिद्
उत्तमर्णस्य विद्यते॥ ५१
विषयः
उत्तमर्णाः
विश्वास-प्रस्तुतिः - ५२
न पश्यामो मुखे दंष्ट्रां
न पाशं वा कराञ्चले।
उत्तमर्णम् अवेक्ष्यैव
तथाप्य् उद्विजते मनः॥ ५२
मूलम् - ५२
न पश्यामो मुखे दंष्ट्रां
न पाशं वा कराञ्चले।
उत्तमर्णमवेक्ष्यैव
तथाप्युद्विजते मनः॥ ५२
विषयः
उत्तमर्णाः
दारिद्र्यम्
विश्वास-प्रस्तुतिः - ५३
शत्रौ सान्त्वं प्रतीकारः,
सर्वरोगेषु भेषजम्।
मृत्योर् मृत्युञ्-जय-ध्यानं
दारिद्र्ये तु न किञ्चन॥ ५३
मूलम् - ५३
शत्रौ सान्त्वं प्रतीकारः
सर्वरोगेषु भेषजम्।
मृत्योर्मृत्युञ्जयध्यानं
दारिद्र्ये तु न किञ्चन॥ ५३
विषयः
दारिद्र्यम्
विश्वास-प्रस्तुतिः - ५४
शक्तिं करोति संचारे
शीतोष्णे मर्षयत्य् अपि।
दीपयत्य् उदरे वह्निं
दारिद्र्यं परमौषधम्॥ ५४ +++(5)+++
मूलम् - ५४
शक्तिं करोति संचारे
शीतोष्णे मर्षयत्यपि।
दीपयत्युदरे वह्निं
दारिद्र्यं परमौषधम्॥ ५४
विषयः
दारिद्र्यम्
विश्वास-प्रस्तुतिः - ५५
गिरं स्खलन्तीं, मीलन्तीं
दृष्टिं, पादौ विसंस्फुटौ।
प्रोत्साहयति याच्ञायां
राजाज्ञेव दरिद्रता॥ ५५ +++(5)+++
मूलम् - ५५
गिरं स्खलन्तीं मीलन्तीं
दृष्टिं पादौ विसंस्फुटौ।
प्रोत्साहयति याच्ञायां
राजाज्ञेव दरिद्रता॥ ५५
विषयः
दारिद्र्यम्
विश्वास-प्रस्तुतिः - ५६
जीर्यन्ति राज-विद्वेषा
जीर्यन्त्य् अविहितान्य् अपि।
आकिञ्चन्य-बलाढ्यानाम्
अन्ततो ऽश्मापि जीर्यति॥ ५६ +++(5)+++
मूलम् - ५६
जीर्यन्ति राजविद्वेषा
जीर्यन्त्यविहितान्यपि।
आकिञ्चन्यबलाढ्यानाम्
अन्ततोऽश्मापि जीर्यति॥ ५६
विषयः
दारिद्र्यम्
विश्वास-प्रस्तुतिः - ५७
नास्य चोरा, न पिशुना,
न दायादा, न पार्थिवाः।
दैन्यं राज्याद् अपि ज्यायो
यदि तत्त्वं प्रबुध्यते॥ ५७ +++(4)+++
मूलम् - ५७
नास्य चोरा न पिशुना
न दायादा न पार्थिवाः।
दैन्यं राज्यादपि ज्यायो
यदि तत्त्वं प्रबुध्यते॥ ५७
विषयः
दारिद्र्यम्
धनिकः
विश्वास-प्रस्तुतिः - ५८
प्रकाशयत्य् अहङ्कारं
प्रवर्तयति तस्करान्।
प्रोत्साहयति दायादाल्ँ
लक्ष्मीः किञ्चिद् उपस्थिता॥ ५८ +++(4)+++
मूलम् - ५८
प्रकाशयत्यहङ्कारं
प्रवर्तयति तस्करान्।
प्रोत्साहयति दायादांल्
लक्ष्मीः किञ्चिदुपस्थिता॥ ५८
विषयः
धनिकः
विश्वास-प्रस्तुतिः - ५९
विडम्बयन्ति ये नित्यं
विदग्धान् धनिनो जनाः।
त एव तु विडम्ब्यन्ते
श्रिया किञ्चिद् उपेक्षिताः॥ ५९
मूलम् - ५९
विडम्बयन्ति ये नित्यं
विदग्धान्धनिनो जनाः।
त एव तु विडम्ब्यन्ते
श्रिया किञ्चिदुपेक्षिताः॥ ५९
विषयः
धनिकः
विश्वास-प्रस्तुतिः - ६०
प्रामाण्य-बुद्धिः स्तोत्रेषु
देवता-बुद्धिर् आत्मनि।
कीट-बुद्धिर् मनुष्येषु
नूतनायाः श्रियः फलम्॥ ६० +++(5)+++
मूलम् - ६०
प्रामाण्यबुद्धिः स्तोत्रेषु
देवताबुद्धिरात्मनि।
कीटबुद्धिर्मनुष्येषु
नूतनायाः श्रियः फलम्॥ ६०
विषयः
धनिकः
विश्वास-प्रस्तुतिः - ६१
शृण्वन्त एव पृच्छन्ति
पश्यन्तो ऽपि न जानते।
विडम्बनानि धनिकाः
स्तोत्राणीत्य् एव मन्यते॥ ६१ +++(5)+++
मूलम् - ६१
शृण्वन्त एव पृच्छन्ति
पश्यन्तोऽपि न जानते।
विडम्बनानि धनिकाः
स्तोत्राणीत्येव मन्यते॥ ६१
विषयः
धनिकः
विश्वास-प्रस्तुतिः - ६२
आवृत्य श्री-मदेनान्धान्
अन्योऽन्य-कृत-संविदः।
स्वैरं हसन्ति पार्श्व-स्था
बालोन्मत्त-पिशाचवत्॥ ६२
मूलम् - ६२
आवृत्य श्रीमदेनान्धान्
अन्योन्यकृतसंविदः।
स्वैरं हसन्ति पार्श्वस्था
बालोन्मत्तपिशाचवत्॥ ६२
विषयः
धनिकः
विश्वास-प्रस्तुतिः - ६३
स्तोतव्यैः स्तूयते नित्यं
सेवनीयैश् च सेव्यते।
न बिभेति न जिह्रेति
तथापि धनिको जनः॥ ६३ +++(5)+++
मूलम् - ६३
स्तोतव्यैः स्तूयते नित्यं
सेवनीयैश्च सेव्यते।
न बिभेति नजिह्रेति
तथापि धनिको जनः॥ ६३
विषयः
धनिकः
विश्वास-प्रस्तुतिः - ६४
क्षण-मात्रं ग्रहावेशो
याम-मात्रं सुरा-मदः ।
लक्ष्मी-मदस् तु मूर्खाणाम्
आदेहम् अनुवर्तते॥ ६४ +++(4)+++
मूलम् - ६४
क्षणमात्रं ग्रहावेशो
याममात्रं सुरामदः ।
लक्ष्मीमदस्तु मूर्खाणाम्
आदेहमनुवर्तते॥ ६४
विषयः
धनिकः
विश्वास-प्रस्तुतिः - ६५
श्रीर् मासम् अर्ध-मासं वा
चेष्टित्वा विनिवर्तते।
विकारस् तु तदा ऽऽरब्धो
नित्यो लशुन-गन्धवत्॥ ६५ +++(4)+++
मूलम् - ६५
श्रीर्मासमर्धमासं वा
चेष्टित्वा विनिवर्तते।
विकारस्तु तदारब्धो
नित्यो लशुनगन्धवत्॥ ६५
विषयः
धनिकः
विश्वास-प्रस्तुतिः - ६६
कण्ठे मदः कोद्रव-जो
हृदि ताम्बूल-जो मदः।
लक्ष्मी-मदस् तु सर्वाङ्गे
पुत्र-दार-मुखेष्व् अपि॥ ६६ +++(5)+++
मूलम् - ६६
कण्ठे मदः कोद्रवजो
हृदि ताम्बूलजो मदः।
लक्ष्मीमदस्तु सर्वाङ्गे
पुत्रदारमुखेष्वपि॥ ६६
विषयः
धनिकः
विश्वास-प्रस्तुतिः - ६७
यत्रासीद् अस्ति वा लक्ष्मीस्
तत्रोन्मादः प्रवर्तताम्।
कुलेऽप्य् अवतरत्य् एष
कुष्ठापस्मारवत्+++(=epilepsy)+++ कथम्॥ ६७ +++(5)+++
मूलम् - ६७
यत्रासीदस्ति वा लक्ष्मीस्
तत्रोन्मादः प्रवर्तताम्।
कुलेऽप्यवतरत्येष
कुष्ठापस्मारवत्कथम्॥ ६७
विषयः
धनिकः
विश्वास-प्रस्तुतिः - ६८
अध्यापयन्ति शास्त्राणि
तृणी-कुर्वन्ति पण्डितान्।
विस्मारयन्ति जाति स्वां
वराटाः पञ्चषाः करे॥ ६८ +++(5)+++
मूलम् - ६८
अध्यापयन्ति शास्त्राणि
तृणीकुर्वन्ति पण्डितान्।
विस्मारयन्ति जाति स्वां
वराटाः पञ्चषाः करे॥ ६८
विषयः
धनिकः
विश्वास-प्रस्तुतिः - ६९
बिभर्तु भृत्यान् धनिको
दत्तां वा देयम् अर्थिषु।
यावद् याचक-साधर्म्यं
तावल् लोको न मृष्यति +++(गत-श्रियम्)+++॥ ६९
मूलम् - ६९
बिभर्तु भृत्यान्धनिको
दत्तां वा देयमर्थिषु।
यावद्याचकसाधर्म्यं
तावल्लोको न मृष्यति॥ ६९
विषयः
धनिकः
पिशुनः, धनिकः
विश्वास-प्रस्तुतिः - ७०
धन-भारो हि लोकस्य
पिशुनैर् एव धार्यते।
कथं ते तं +++(धन-भारं)+++ लघू कर्तुं
यतन्ते ऽपरथा स्वतः॥ ७०
मूलम् - ७०
धनभारो हि लोकस्य
पिशुनैरेव धार्यते।
कथं ते तं लघूकर्तुं
यतन्तेऽपरथा स्वतः॥ ७०
विषयः
पिशुनः, धनिकः
पिशुनः, राजा
विश्वास-प्रस्तुतिः - ७१
श्रमानुरूपं पिशुने
किम् +++(बहुमानैः)+++ उपक्रियते नृपैः।
द्वि-गुणं त्रि-गुणं वापि
कृतान्तो लालयिष्यति +++(दण्डैः)+++॥ ७१
मूलम् - ७१
श्रमानुरूपं पिशुने
किमुपक्रियते नृपैः।
द्विगुणं त्रिगुणं वापि
कृतान्तो लालयिष्यति॥ ७१
विषयः
पिशुनः, राजा
पिशुनः, राजा
विश्वास-प्रस्तुतिः - ७२
गोकर्णे भद्रकर्णे च
जपो दुष्-कर्म-नाशनः।
राजकर्णे जपः सद्यः
सर्व-कर्म-विनाशनः॥ ७२ +++(5)+++
मूलम् - ७२
गोकर्णे भद्रकर्णे च
जपो दुष्कर्मनाशनः।
राजकर्णेजपः सद्यः
सर्वकर्मविनाशनः॥ ७२
विषयः
पिशुनः, राजा
विश्वास-प्रस्तुतिः - ७३
न स्वार्थं किञ्चिद् इच्छन्ति
न प्रेर्यन्ते च केनचित्।
परार्थेषु प्रवर्तन्ते
शठाः सन्तश् च तुल्यवत्॥ ७३ +++(5)+++
मूलम् - ७३
न स्वार्थं किञ्चिदिच्छन्ति
न प्रेर्यन्ते च केनचित्।
परार्थेषु प्रवर्तन्ते
शठाः सन्तश्च तुल्यवत्॥ ७३
विषयः
पिशुनः, राजा
विश्वास-प्रस्तुतिः - ७४
कालान्तरे ह्य् अनर्थाय
गृध्रो गेहोपरि स्थितः।
खलो गृह-समीप-स्थः
सद्यो ऽनर्थाय देहिनाम्॥ ७४ +++(4)+++
मूलम् - ७४
कालान्तरे ह्यनर्थाय
गृध्रो गेहोपरि स्थितः।
खलो गृहसमीपास्थः
सद्योऽनर्थाय देहिनाम्॥ ७४
विषयः
पिशुनः, राजा
कृपणः
विश्वास-प्रस्तुतिः - ७५
शुष्कोपवासो धर्मेषु
भैषज्येषु च लङ्घनम्।
जप-यज्ञश् च यज्ञेषु
रोचते लोभ-शालिनाम्॥ ७५ +++(5)+++
मूलम् - ७५
शुष्कोपवासो धर्मेषु
भैषज्येषु च लङ्घनम्।
जपयज्ञश्च यज्ञेषु
रोचते लोभशालिनाम्॥ ७५
विषयः
कृपणः
विश्वास-प्रस्तुतिः - ७६
किं वक्ष्यतीति धनिको
यावद् उद्विजते मनः।
किं प्रक्ष्यतीति लुब्धोऽपि
तावद् उद्विजते ततः॥ ७६ +++(5)+++
मूलम् - ७६
किं वक्ष्यतीति धनिको
यावदुद्विजते मनः।
किं प्रक्ष्यतीति लुब्धोऽपि
तावदुद्विजते ततः॥ ७६
विषयः
कृपणः
विश्वास-प्रस्तुतिः - ७७
सर्वम् आतिथ्य-शास्त्रार्थं
साक्षात् कुर्वन्ति लोभिनः।
भिक्षा-कवलम् एकैकं
ये हि पश्यन्ति मेरुवत्॥ ७७ +++(4)+++
English
The greedy householders consider each morsel of food offered to their guests (as part of their hospitality) as if they are giving something equivalent to Mount Meru. (it is said in Sastras that even a morsel of food offered to an atithi, ie. a guest is equivalent to Mount Meru. (they feel as if they give mount Meru itself to the guests).
मूलम् - ७७
सर्वमातिथ्यशास्त्रार्थं
साक्षात्कुर्वन्ति लोभिनः।
भिक्षाकवलमेकैकं
ये हि पश्यन्ति मेरुवत्॥ ७७
विषयः
कृपणः
विश्वास-प्रस्तुतिः - ७८
धन-पालः पिशाचो हि
दत्ते स्वामिन्य् उपस्थिते।
धन-लुब्धः पिशाचस् तु
न कस्मैचन दित्सते॥ ७८
English
There are two types of ghosts namely, the Ghost which guards the wealth and the Ghost which is attached to the wealth. The first ghost will, after guarding the wealth, hand over the same to the owner. But the second ghost which is attached to wealth will not part with that wealth to anyone. (These two ghosts can be compared to two types of people to whom wealth may be given for safe-guarding. The first type will return the wealth. The second type due to deep attachment to the wealth, will not part with the same).
मूलम् - ७८
धनपालः पिशाचो हि
दत्ते स्वामिन्युपस्थिते।
धनलुब्धः पिशाचस्तु
न कस्मैचन दित्सते॥ ७८
विषयः
कृपणः
विश्वास-प्रस्तुतिः - ७९
दातारो ऽर्थिभिर् अर्थ्यन्ते,
+++(पुण्य-काङ्क्षिभिर्)+++ दातृभिः पुनर् अर्थिनः।
कर्तृ-कर्म-व्यतीहाराद्
अहो निम्नोन्नतं कियत्॥ ७९ +++(4)+++
मूलम् - ७९
दातारोऽर्थिभिरर्थ्यन्ते
दातृभिः पुनरर्थिनः।
कर्तृकर्मव्यतीहाराद्
अहो निम्नोन्नतं कियत्॥ ७९
विषयः
कृपणः
विश्वास-प्रस्तुतिः - ८०
स्वस्मिन्न् असति नार्थस्य
रक्षकः संभवेद् इति।
निश्चित्यैव स्वयम् अपि
भुङ्क्ते लुब्धः कथञ्चन॥ ८० +++(5)+++
English
A miser, believes that no one would take care of his wealth after his time. Hence, he protects it to the best extent possible. He even eats only as much required to keep the breath in his body.
मूलम् - ८०
स्वस्मिन्नसति नार्थस्य
रक्षकः संभवेदिति।
निश्चित्यैव स्वयमपि
भुङ्क्ते लुब्धः कथञ्चन॥ ८०
विषयः
कृपणः
अतिथिः
विश्वास-प्रस्तुतिः - ८१
प्रस्थास्यमानः प्रविशेत्
प्रतिष्ठेत दिने दिने।
विचित्रान् उल्लिखेद् विघ्नांस्
तिष्ठासुर् अतिथिश् चिरम्॥ ८१
English
A guest who has come down to stay longer,
will go away if persuaded by some means by the holder.
But he will again come back without being invited.
He will recount strange instances of obstacles that he faced in his travel.
मूलम् - ८१
प्रस्थास्यमानः प्रविशेत्
प्रतिष्ठेन दिने दिने।
विचित्रानुल्लिखेद्विघ्नांस्
तिष्ठासुरतिथिश्चिरम्॥ ८१
विषयः
अतिथिः
श्रोत्रियः, विद्वान्
विश्वास-प्रस्तुतिः - ८२
प्रदीयते विदुष्य् एकं
कवौ दश, नटे शतम्।
सहस्रं दाम्भिके लोके
श्रोत्रिये तु न किञ्चन॥ ८२
मूलम् - ८२
प्रदीयते विदुष्येकं
कवौ दश नटे शतम्।
सहस्रं दाम्भिके लोके
श्रोत्रिये तु न किञ्चन॥ ८२
विषयः
श्रोत्रियः, विद्वान्
धर्मध्वजः
विश्वास-प्रस्तुतिः - ८३
+++(??पूजादि-)+++घटकं सम्यग् आराध्य
वैराग्यं परमं वहेत्।
तावद् अर्थाः प्रसिध्यन्ति
यावच् चापलम् आवृतम्॥ ८३
मूलम् - ८३
घटकं सम्यगाराध्य
वैराग्यं परमं वहेत्।
तावदर्थाः प्रसिध्यन्ति
यावच्चापलमावृतम्॥ ८३
विषयः
धर्मध्वजः
विश्वास-प्रस्तुतिः - ८४
+++(धनार्जन-विषये)+++
एकतः सर्व-शास्त्राणि
तुलसी-काष्ठम् एकतः।
वक्तव्यं किञ्चिद् इत्य् उक्तं
वस्तुतस् तुलसी परा॥ ८४
मूलम् - ८४
एकतः सर्वशास्त्राणि
तुलसीकाष्ठमेकतः।
वक्तव्यं किञ्चिदित्युक्तं
वस्तुतस्तुलसी परा॥ ८४
विषयः
धर्मध्वजः
विश्वास-प्रस्तुतिः - ८५
विस्मृतं +++(वैद्यगुरुणा)+++ वाहटेनेदं
तुलस्याः पठता गुणान्।
विश्व-संमोहिनी वित्त-
दायिनीति गुण-द्वयम्॥ ८५ +++(4)+++
मूलम् - ८५
विस्मृतं वाहटेनेदं
तुलस्याः पठता गुणान्।
विश्वसंमोहिनी वित्त-
दायिनीऽति गुणद्वयम्॥ ८५
विषयः
धर्मध्वजः
विश्वास-प्रस्तुतिः - ८६
कौपीनं भसितालेपो
दर्भा रुद्राक्ष-मालिका।
मौनम् एकासिका चेति
मूर्ख-संजीवनानि षट्॥ ८६
मूलम् - ८६
कौपीनं भसितालेपो
दर्भा रुद्राक्षमालिका।
मौनमेकासिका चेति
मूर्खसंजीवनानि षट्॥ ८६
विषयः
धर्मध्वजः
विश्वास-प्रस्तुतिः - ८७
वासः पुण्येषु तीर्थेषु
प्रसिद्धश् च मृतो गुरुः।
अध्यापनावृत्तयश् च,
कीर्तनीया धनार्थिभिः॥ ८७ +++(4)+++
English
People who want to make money should state that they come from very holy towns, their guru or teacher was a great Saint, who passed away long ago and they have taught a number of disciples. (Making these assertions will make one eligible as an object of veneration. As a result, money will be showered on them)
मूलम् - ८७
वासः पुण्येषु तीर्थेषु
प्रसिद्धश्च मृतो गुरुः।
अध्यापनावृत्तयश्च
कीर्तनीया धनार्थिभिः॥ ८७
विषयः
धर्मध्वजः
विश्वास-प्रस्तुतिः - ८८
मन्त्र-भ्रंशे संप्रदायः
प्रयोगश् च्युत-संस्कृतौ।
देश-धर्मस् त्व् अनाचारे
पृच्छतां सिद्धम् उत्तरम्॥ ८८ +++(5)+++
मूलम् - ८८
मन्त्रभ्रंशे संप्रदायः
प्रयोगश्च्युतसंस्कृतौ।
देशधर्मस्त्वनाचारे
पृच्छतां सिद्धमुत्तरम्॥ ८८
विषयः
धर्मध्वजः
विश्वास-प्रस्तुतिः - ८९
यथा जानन्ति बहवो
यथा वक्ष्यन्ति दातरि।
तथा धर्मं चरेत् सर्वं
न वृथा किञ्चिद् आचरेत्॥ ८९ +++(5)+++
मूलम् - ८९
यथा जानन्ति बहवो
यथा वक्ष्यन्ति दातरि।
तथा धर्मं चरेत्सर्वं
न वृथा किञ्चिदाचरेत्॥ ८९
विषयः
धर्मध्वजः
विश्वास-प्रस्तुतिः - ९०
सदा जप-पटो हस्ते
मध्ये मध्ये ऽक्षि-मीलनम्।
सर्वं ब्रह्मेति वादश् च
सद्यः प्रत्यय-हेतवः॥ ९० +++(5)+++
मूलम् - ९०
सदा जपपटो हस्ते
मध्ये मध्येऽक्षिमीलनम्।
सर्वं ब्रह्मेति वादश्च
सद्यः प्रत्ययहेतवः॥ ९०
विषयः
धर्मध्वजः
विश्वास-प्रस्तुतिः - ९१
आमध्याह्नं नदी-वासः
समाजे देवताऽर्चनम्।
सततं शुचि-वेषश् चेत्य् एतद्
दम्भस्य जीवितम्॥ ९१
मूलम् - ९१
आमध्याह्नं नदीवासः
समाजे देवतार्चनम्।
सततं शुचिवेषश्चेत्येतद्
दम्भस्य जीवितम्॥ ९१
विषयः
धर्मध्वजः
विश्वास-प्रस्तुतिः - ९२
तावद् दीर्घं नित्य-कर्म
यावत् स्याद् द्रष्टृ-मेलनम्।
तावत् संक्षिप्यते सर्वं
यावद् द्रष्टा न विद्यते॥ ९२ +++(5)+++
मूलम् - ९२
तावद्दीर्घं नित्यकर्म
यावत्स्याद्द्रष्टृमेलनम्।
तावत्संक्षिप्यते सर्वं
यावद्द्रष्टा न विद्यते॥ ९२
विषयः
धर्मध्वजः
विश्वास-प्रस्तुतिः - ९३
आनन्द-बाष्प–रोमाञ्चौ
यस्य स्वेच्छा-वशं-वदौ।
किं तस्य साधनैर् अन्यैः
किङ्कराः सर्व-पार्थिवाः॥ ९३ +++(5)+++
मूलम् - ९३
आनन्दबाष्परोमाञ्चौ
यस्य स्वेच्छावशंवदौ।
किं तस्य साधनैरन्यैः
किङ्कराः सर्वपार्थिवाः॥ ९३
विषयः
धर्मध्वजः
दुष्टः
विश्वास-प्रस्तुतिः - ९४
दण्ड्यमाना विकुर्वन्ति
लाल्यमानास् ततस्तराम्।
दुर्जनानाम् अतो न्याय्यं
दूराद् एव विसर्जनम्॥ ९४ +++(5)+++
मूलम् - ९४
दण्ड्यमाना विकुर्वन्ति
लाल्यमानास्ततस्तराम्।
दुर्जनानामतो न्याय्यं
दूरादेव विसर्जनम्॥ ९४
विषयः
दुष्टः
विश्वास-प्रस्तुतिः - ९५
अ-दानम् ईषद्-दानं च
किञ्चित् कोपाय दुर्-धियाम्।
सम्पूर्ण-दानं प्रकृतिर्+++(=स्वास्थ्यम्)+++,
+++(दानाद्)+++ विरामो वैर-कारणम्॥ ९५
मूलम् - ९५
अदानमीषद्दानं च
किञ्चित्कोपाय दुर्धियाम्।
सम्पूर्णदानं प्रकृतिर्
विरामो वैरकारणम्॥ ९५
विषयः
दुष्टः
दुष्टः, स्तुतिः
विश्वास-प्रस्तुतिः - ९६
ज्यायान् असंस्तवो दुष्टैर्
ईर्ष्यायै संस्तवः पुनः।
अपत्य-सम्बन्ध-विधिस्
त्व् अनर्थायैव केवलम्॥ ९६
मूलम् - ९६
ज्यायानसंस्तवो दुष्टैर्
ईर्ष्यायै संस्तवः पुनः।
अपत्यसम्बन्धविधिस्
त्वनर्थायैव केवलम्॥ ९६
विषयः
दुष्टः
बन्धुः, पिशुनः, मूर्खः, दरिद्रः
विश्वास-प्रस्तुतिः - ९७
ज्ञातेयं ज्ञान-हीनत्वं
पिशुनत्वं दरिद्रता।
मिलन्ति यदि चत्वारि
तद्-दिशेऽपि नमो नमः॥ ९७ +++(5)+++
मूलम् - ९७
ज्ञातेयं ज्ञानहीनत्वं
पिशुनत्वं दरिद्रता।
मिलन्ति यदि चत्वारि
तद्दिशेऽपि नमो नमः॥ ९७
विषयः
दुष्टः
पिशुनः, दुष्टः
विश्वास-प्रस्तुतिः - ९८
परच्छिद्रेषु हृदयं
पर-वार्तासु च श्रवः।
पर-मर्मसु वाचं च
खलानाम् असृजद् विधिः॥ ९८
मूलम् - ९८
परच्छिद्रेषु हृदयं
परवार्तासु च श्रवः।
परमर्मसु वाचं च
खलानामसृजद्विधिः॥ ९८
विषयः
दुष्टः
कलिः
विश्वास-प्रस्तुतिः - ९९
विषेण पुच्छ-लग्नेन
वृश्चिकः प्राणिनाम् इव।
कलिना दशमांशेन
सर्वः कालो ऽपि दारुणः॥ ९९ +++(4)+++
मूलम् - ९९
विषेण पुच्छलग्नेन
वृश्चिकः प्राणिनामिव।
कलिना दशमांशेन
सर्वः कालोऽपि दारुणः॥ ९९
विषयः
कलिः
विश्वास-प्रस्तुतिः - १००
यत्र भार्या-गिरो वेदा
यत्र धर्मो ऽर्थ-साधनम्।
यत्र स्व-प्रतिभा मानं+++(=प्रमाणम्)+++
तस्मै श्री-कलये नमः॥ १०० +++(5)+++
मूलम् - १००
यत्र भार्यागिरो वेदा
यत्र धर्मोऽर्थसाधनम्।
यत्र स्वप्रतिभा मानं
तस्मै श्रीकलये नमः॥ १००
विषयः
कलिः
शिवः
विश्वास-प्रस्तुतिः - १०१
कामम् अस्तु जगत् सर्वं
कालस्यास्य वशं-वदम्।
काल-कालं +++(=शिवं)+++ प्रपन्नानां
कालः किं नः करिष्यति॥ १०१
मूलम् - १०१
काममस्तु जगत्सर्वं
कालस्यास्य वशंवदम्।
कालकालं प्रपन्नानां
कालः किं नः करिष्यति॥ १०१
विषयः
शिवः
समाप्तिः
विश्वास-प्रस्तुतिः - १०२
कविना नीलकण्ठेन
कलेर् एतद् विडम्बनम्।
रचितं विदुषां प्रीत्यै
राजास्थानानुमोदनम्॥ १०२
मूलम् - १०२
कविना नीलकण्ठेन
कलेरेतद्विडम्बनम्।
रचितं विदुषां प्रीत्यै
राजास्थानानुमोदनम्॥ १०२
विषयः
समाप्तिः
इति कलिविडम्बनं सम्पूर्णम्॥