[[मञ्जुला-सुभाषितसङ्ग्रहः Source: EB]]
[
मञ्जुला-सुभाषितसङ्ग्रहः
(1)
अकर्त्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम् ।
तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥
(2)
अकर्मशीलं च महाशनं च,
लोक-द्विष्टं बहुमायं नृशंसम् ।
अदेशकालज्ञमनिष्ट वेषम्,
एतान् गृहे न प्रतिवासयेत् ॥
महाभा/उद्योग,/37/35
॥
(3)
अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः ।
त्वं तस्यामित्रहन्वधर्दासस्य दम्भय ॥
ऋ./10/22/8
(4)
अकामो धीरो अमृतः स्वयम्भू रसेन तृप्तो न कुतश्चिदूनः ।
तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥
अथर्व,/10/8/44
(5)
अकालेऽ
तिप्रसङ्गाच्च,
न च निद्रा निषेवितााा ।
सुखायुषा परा कुर्यात्कालरात्रिरिवापरा ॥
चरक. / सूत्रस्थान /36
(6)
अकिञ्चनाश्च दृश्यन्ते,
पुरुषाश्चिरजीविनः ।
समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ॥
महाभाः /शा. प. /28 /22
(7)
अकृत्यं नैव कर्त्तव्यं प्राणत्यागेऽ
पि संस्थिते ।
न च कृत्यं परित्याज्यम्,
एष धर्मः सनातनः ॥
(8)
अकृत्वा परसन्तापमगत्वा खलनम्रताम् ।
अनुत्सृज्य सतां मार्गं,
यत्स्वल्पमपि तद् बहु ॥
(9)
अक्रन् कर्म कर्मकृतः,
सह वाचा मयोभुवा ।
देवेभ्यः कर्म कृत्वाऽ
स्तं प्रेत सचाभुवः ॥
यजु. /3 /47
(10)
अक्रोधना धर्मपराः,
सत्यनित्या दमे रताः ।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥
महाभा, /
अनु./22/33
(11)
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदघ्रास उपकक्षास उ त्वे,
ह्रदा इव स्नात्वा उ त्वे ददृशिरे ॥
ऋग्. /10 /71 /7
(12)
अक्षरस्यापि चैकस्य पदार्धस्य पदस्य वा ।
दातारं विस्मरन् पापी,
किं पुनर्धर्मदेशिनम् ॥
हरिवंशपु. /21 /15 / 6
(13)
अक्षासं इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः ।
कुमारदेष्णा जयतः पुनर्हणो मध्वः संपृक्ताः कितवस्य बर्हणाः ॥
ऋ /10 /34 / 7
(14)
अक्षैर्मा दीव्यः कृषिमित्कृषस्व,
वित्ते रमस्व बहु मन्यमानः ।
तत्र गावः कितव तत्र जाया,
तन्मे विचष्टे सवितायमर्यः ॥
ऋ. /10 / 34 / 13
(15)
अगाधे विमले शुद्धे,
सत्यतोये श्रुतिह्रदे ।
स्नातव्यं मानसे तीर्थे,
सत्यमालम्ब्य शाश्वतम् ॥
महाभा. /अनुशा. / 2 /9
(16)
अग्निहोत्रफला वेदाः,
शीलवृत्त-फलं श्रुतम् ।
रति-पुत्रफला दाराः,
दत्तभुक्तफलं धनम् ॥
(17)
अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा ।
दर्शेन चार्धमासान्ते,
पौर्णमासेन चैव हि ॥
मनु. / 4 / 25
(18)
अग्ने तपस्तप्यामहे,
उपतप्यामहे तपः ।
श्रुतानि शृण्वन्तो,
वयमायुष्मन्तः समेधसः ॥
अथर्व /7 / 61 /2
(19)
अग्ने त्वं सुजागृहि वयं सु मन्दिषीमहि ।
रक्षा णो अप्रयुच्छन् प्रबुधे नः पुनस्कृधि ॥
यजु. /4 /14
(20)
अग्ने व्रतपते व्रतं चरिष्यामि,
तच्छकेयम्,
तन्मे राध्यताम् ।
इदमहमनृतात् सत्यमुपैमि ॥
यजु. /1 / 5
(21)
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥
मनु. / 3 /76
(22)
अङ्गं गलितं पलितं मुण्डम्,
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डम्,
तदपि न मुञ्चत्याशा पिण्डम् ॥
चर्पटपञ्जरिका / 6
(23)
अङ्गारसदृशी नारी,
घृतकुम्भसमः पुमान् ।
तस्मान्नारीषु संसर्गं दूरतः परिवर्जयते ॥
लिङ्गपुराण / 8 / 23
(24)
अचोद्यमानानि यथा,
पुष्पाणि फलानि च ।
स्वं कालं नातिवर्त्तन्ते,
तथा कर्म पुरा कृतम् ॥
महाभा. / शान्ति. / 181 / 12
(25)
अच्छेद्योऽ
यमदाह्योऽ
यमक्लेद्योऽ
शोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोनयं सनातनः ॥
महाभा. / भूष्म. / 26 / 24
(26)
अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु,
मृत्युना धर्ममाचरेत् ॥
हितोपदेश / मित्रलाभ / 3
(27)
अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।
यतस्तौ स्वल्पदुःखाय,
यावज्जीवं जडो दहेत् ॥
पञ्चत. / कथामुख / 4
(28)
अजानन् माहात्म्यं पततु शलभो दीपदहने,
स मीनोऽ
प्यज्ञानाद् बडिशयुतमशनातु पिशितम् ।
विजानन्तोऽ
प्येते वयमिह विपज्जालजटिलान्,
न मुञ्चामः कामानहह । गहनो मोहमहिमा ॥
वैरग्यशतक / 19
(29)
अजीर्णे भेषजं वारि,
जीर्णे वारि बलप्रदम् ।
भोजने चामृतं वारि,
भोजनान्ते विषप्रदम् ॥
(30)
अज्ञः सुखमाराध्यः,
सुकतरमाराध्यते विशेषज्ञः ।
ज्ञान-लवदुर्विदग्धं,
ब्रह्नापि नरं न रञ्जयति ॥
नीतिशतक / 2
(31)
अञ्जनस्य क्षयं दृष्ट्वा,
वल्मीकस्य च सञ्चयम् ।
अवन्ध्यं दिवसं कुर्यात्,
दानाध्ययन-कर्मभिः ॥
(32)
अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
हेम्नः कठिनस्यापि द्रवणोपायोऽ
स्ति न तृणानाम् ॥
(33)
अतिथिर्यस्य भग्नाशो,
गृहात्प्रतिनिवर्त्तते ।
स दत्त्वा दुष्कृतं तस्मै,
पुण्यमादाय गच्छति ॥
महाभा. / शा. / 191 / 12
(34)
अतिथीनन्नपानेेन,
भृत्यानत्यशनेन च ।
सम्भोज्य शेषश्नीमस्तस्मान्मृत्युभयं न नः ॥
(35)
अतिदानाद् बलिर्बद्धो,
नष्टो मानात् सुयोधनः ।
विनष्टो रावणो लौल्याद्,
अति सर्वत्र वर्जयेत् ॥
(36)
अतिद्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा ।
अथा पितन्त्सुविदत्राँ उपेहि यमेन ये सधमादं मदन्ति ॥
ऋ. / 10 / 14 / 10
(37)
अतिपरिचयादवज्ञा भवति विशिष्टेऽ
पि वस्तुनि प्रायः ।
लोकः प्रयागवासी कूपस्नानं सदाचरति ॥
(38)
अतिमानोऽ
तिवादश्च,
तथाऽ
त्यागो नराधिप ।
क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट् ॥
एत एवासयस्तीक्ष्णः,
कृन्तन्त्यायूंषि देहिनाम् ।
एतानि मानवान् घ्रन्ति,
न मृत्युर्भद्रमस्तु ते ॥
महाभा. / उद्योगपर्व / 37 / 10 - 11
(39)
अतिवाहितमतिगहनं,
विनापवादेन यौवनं येन ।
दोषनिधाने जन्मनि किं न प्राप्तं फलं तेन ॥
(40)
अतृणे पतितो वह्रिः स्वयमेवोपशाम्यति ।
अक्षमावान् परं दोषैरात्मानं चैव योजयेत् ॥
(41)
अत्यम्बुपानान्न विपच्यतेऽ
न्नम्,
निरम्बुपानाच्च स एव दोषः ।
तस्मान्नरो वह्रिविवर्धनाय,
मुहुर्मुहुर्वारि पिबेद् भूरि ॥
क्षेमकुतूहल
(42)
अत्यम्बुपानाद्विषमाशनाच्च,
सन्धारणात् स्वप्नविपर्ययाच्च ।
कालेऽ
पि सात्म्यं लघु चापि भुक्तम्,
अन्नं न पाकं भजते नरस्य ॥
(43)
अत्यन्तवैराग्यवतः समाधिः,
समाहितस्यैव दृढः प्रबोधः ।
प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः ,
मुक्तात्मनो नित्यसुखानुभूतिः ॥
विवेकचूडामणि - 376
(44)
अदान्तः पुरुषः क्लेशमभूक्ष्णं प्रतिपद्यते ।
अनर्थांश्च बहूनन्यान्,
प्रसृजत्यातात्मदोषजान् ॥
(45)
अदान्तो ब्राह्नणोऽ
साधुर्निस्तेजाः क्षत्रियो मृतः ।
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥
महाभा. / सौप्तिकपर्व / 320
(46)
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं,
तत्तामसमुदाहृतम् ॥
महाभारत / भीष्मप. / 22
(47)
अद्भिर्गात्राणि शुध्यन्ति,
मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा,
बुद्धिर्ज्ञानेन शुध्यति ॥
मनु. / 5 / 109
(48)
अद्भिः शुध्यन्ति गात्राणि,
बद्धिर्ज्ञानेन शुद्धयति ।
अहिसया च भूतात्मा,
मनः सत्येन शुद्धति ॥
बौधायन / धर्मसूत्र / 1 /5 /1
(49)
अद्यापि नोज्झति हरः किल कालकूटम्,
कूर्मो बिभर्ति धरणीं खलु चात्मपृष्ठे ।
अम्भोनिधिर्वहति दुृःसहवाडवाग्निम्,
अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥
(50)
अद्यैव कुरु तच्छ्रेयो,
मात त्वां कालोऽ
तिगान्महान् ।
को हि जाानाति कस्याद्य,
मृत्युकालो भविष्यति ॥
महाभा. / शान्तिप. / 277 / 14
(51)
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च,
शीलमेतद् विदुर्बुधाः ॥
(52)
अधः पश्यस्व मोपरि सन्तरां पादकौ हर ।
मा ते कशप्लकौ दृशन्,
स्त्री हि ब्रह्ना बभूविथ ॥
ऋ. / 8 . 33 / 19
(53)
अधर्मं धर्ममिति या,
मन्यते तमसावृता ।
सर्वार्थान् विपरीतांश्च,
बुद्धिः सा पार्थ तामसी ॥
महाभा. / भीष्मप. / 42 / 32
(54)
अधर्मं नात्र पश्यन्ति,
धर्मतत्त्वार्थदर्शिनः ।
यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि ॥
महाभा. / कर्णपर्व / 31 / 63
(55)
अधर्मस्तु महांस्तात,
भवेत्तस्य महीपतेः ।
यो हरेद् बलिषडभागं,
न च रक्षति पुत्रवत् ॥
वा. रामा. / 3 / 6 / 11
(56)
अधर्मेणैधते तावत्,
ततो भद्राणि पश्यति ।
ततः सपत्न्नाञ्जयति,
समूलस्तु विनश्यति ॥
मनु / 4 / 174
(57)
अध्यापिता ये गुरुन्नाद्रियन्ते,
विप्रा वाचा मनसा कर्मणा वा ।
यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति श्रुतं तत् ॥
निरुक्त / 2 / 4
(58)
अनन्तपारं किल शब्दशास्त्रम्,
स्वल्पं तथायुर्बहवश्च विघ्राः ।
(59)
अनन्तशास्त्रं बहु वेदितव्यम् ,
अल्पश्च कालो बहवश्च विघ्राः ।
यत्सारभूतं तदुपासितव्यम्,
हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥
नराभरण / 994
(60)
अनभ्यासाच्च वेदानाम्,
आचारस्य च वर्जनात् ।
आलस्यादन्नदोषाच्च,
मृत्युर्विप्रान् जिघांसति ॥
(61)
अनभ्यासेन विद्यानामसंसर्गेण धीमताम् ।
अनिग्रहेण चाक्षाणां,
जायते व्यसनं नृणाम् ॥
काव्यालंकार
(62)
अनभ्यासे विषं विद्या,
अजीर्णे भोजनं विषम् ।
विषं सभा दरिद्रस्य,
वृद्धस्य तरुणी विषम् ॥
हितोपदेश / प्र. / 22
(63)
अनर्थकं विप्रवासं गृहेभ्यः,
पापैः सन्धिं परदाराभिमर्शम् ।
दम्भं स्तैन्यं पैशुनं मद्यपानम्,
न सेवते यः स सुखी सदैव ॥
महाभा. / उद्योगपर्व / 33 / 113
(64)
अनागतविधाता प्रत्युत्पन्नमतिश्च यः ।
द्वावेव सुखमेधेते,
दीर्घसूत्री विनश्यति ॥
महाभा. / शान्तिप. / 936 / 9
(65)
अनादेयं नाददीत,
परिक्षीणोऽ
पि पार्थिवः ।
आदेयं न समृद्धोऽ
पि सूक्ष्ममप्यर्थमुत्सृजेत् ॥
(66)
अन्नाद् भवन्ति भूतानि,
पर्जन्यादन्नसम्भवः ।
यज्ञाद् भवति पर्जन्यो,
यज्ञः कर्मसमुदभवः ॥
महाभा. / भीष्मप. /27 / 14
(67)
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं,
तस्मात्तत् परिवर्जयेत् ॥
महाभा. / भीष्मपर्व / 41 / 8
(68)
अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् ।
अनर्थाः क्षिप्रमायान्ति,
वाग्दुष्टं क्रोधनं तथा ॥
महाभा. / उद्योगपर्व / 38 / 35
(69)
अनाहूतः प्रविशति,
ह्यपृष्टो बहु भाषते ।
अविश्वस्ते विश्वसिति,
मूढचेता नराधमः ॥
महाभा. / उद्यो. / 33 / 36
(70)
अनित्यानि शरीराणि,
विभवो नैव शाश्वतः ।
नित्यं सन्निहितो मृत्युृः,
कर्त्तव्यो धर्मसञ्चयः ॥
पञ्चतन्त्र / काकोलूकीयम् / 92
(71)
अनिर्वेदः श्रियो मूलं,
लाभस्य च शुभस्य च ।
महान् भवत्यनिर्विण्णः,
सुखं चानन्त्यमश्नुते ॥
महाभा. / उद्योग / 39 / 57
(72)
अनिर्वेदं च दाक्ष्यं च,
मनसश्चापराजयम् ।
कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम् ॥
महाभा. / वनपर्व / 313 / 116
(73)
अनुमन्ता विशसिता,
निहन्ता क्रयविक्रयी ।
संस्कर्त्ता चोपहर्त्ता च,
खादकश्चेति घातकाः ॥
मनु. / 5 / 5
(74)
अनुगन्तुं सतां वर्त्म,
कृत्स्नं यदि न शक्यते ।
स्वल्पमप्यनुगन्तव्यं,
मार्गस्थो नावसीदति ॥
(75)
अनुव्रतः पितुः पुत्रो,
मात्रा भवतु सम्मनाः ।
जाया पत्ये मधुमतीं,
वाचं वदतु शन्तिवाम् ॥
अथर्व. / 3 / 30 / 2
(76)
अनृणा अस्मिन्ननृणाः परस्मिन् तृतीये लोके अनृणाः स्याम ।
ये देवयानाः पितृयाणाश्च लोकाः,
सर्वान् पथो अनृणा आ क्षियेम ॥
अथर्व. / 6 /117 / 3
(77)
अनेकदोषदुष्टोऽ
पि,
कायः कस्य न वल्लभः ।
कुर्वन्नपि व्यलीकानि,
यः प्रियः प्रिय एव सः ॥
पञ्चतन्त्र / मित्रभेद / 186
(78)
अनेकसंशयोच्छेदि,
परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं,
यस्य नास्त्यन्ध एव सः ॥
हितो. / प्र. / 10
(79)
अनेन किं न पर्याप्तं मांसस्य परिवर्जनम् ।
यत्पादितं तृणेनापि स्वमङ्गं परिदूयते ॥
(80)
अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।
देवस्य पश्य काव्यं न ममार न जीर्यति ॥
अथर्व / 10 / 8 / 32
(81)
अन्तवन्त इमे देहाः,
नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽ
प्रमेयस्य,
तस्माद् युध्यस्व भारत ॥
महाभा. / भीष्म / 26 / 18
(82)
अन्धीकरोमि भुवनं बधिरीकरोमि,
धीरं सचेतनमचेतनतां नयामि ।
कृत्यं न पश्यति न येन हितं श्रृणोति,
धीमानधीतमपि न प्रतिसन्दधाति ॥
प्रबोध. / 2 / 29
(83)
अन्नेन धार्यते देहः,
कुलं शीलेन धार्यते ।
प्राणा मित्रेण धार्यन्ते,
क्रोधः सत्येन धार्यते ॥
पट्नपुराण
(84)
अन्यदीये तृणे रत्ने मौक्तिकेऽ
पि च ।
मनसो विनिवृत्तिर्या,
तदस्तेयं विदुर्बुधाः ॥
जाबालयोग / 1 / 11
(85)
अन्यान् परिवदन् साधुर्यथा हि परितप्यते ।
तथा परिवदन्नन्यान्,
तुष्टो भवति दुर्जनः ॥
कवितामृतकूप / 80
(86)
अन्ये जायां परिमृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः ।
पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥
ऋ. / 10 / 34 / 4
(87)
अपकुर्वन्नपि प्रायः प्राप्नोति महतः शुभम् ।
दहन्तमप्यौर्वमग्निं सन्तर्पयति वारिधिः ॥
(88)
अपत्यं धर्मकार्याणि,
शुश्रूषा रतिरुत्तमा ।
दाराधीनस्तथा स्वर्गः,
पितृणामात्मनश्च ह ॥
मनु. / 9 / 28
(89)
अपरे बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा ।
आत्मवत् वर्तनं यत् स्यात्,
सा दया परिकीर्तिता ॥
भविष्यपुराण / 1 / 2 / 158
(90)
अपहृत्यार्त्तिमार्त्तानां,
सुखं यदुपजायते ।
तस्य स्वर्गोऽ
पवर्गो वा,
कलां नार्हति षोडशीम् ॥
महाभा. / अनुशासन / 50 / 20
(91)
अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम् ।
मृडा सुक्षत्र मृडय ॥ ऋ. / 7 / 89 / 4
(92)
अपां समीपे नियतो,
नैत्यकं विधिमास्थितः ।
सावित्रीमप्यधीयीत,
गत्वारण्यं समाहितः ॥
मन. / 2 / 104
(93)
अपूजिताश्च यत्रैताः,
सर्वास्तत्राफलाः क्रियाः ।
तदा चैतत् कुलं नास्ति,
यदा शोचन्ति जामयः ॥
महाभा. / अनुशासन / 46 / 6
(94)
अपूज्या यत्र पूज्यन्ते,
पूज्यानामवमानना ।
त्रीणि तत्र प्रवर्तन्ते,
दुर्भिक्षं मरणं भयम् ॥
पञ्चतन्त्र / काकोलूकीय / 183
(95)
अपूर्वः कोऽ
पि कोशोऽ
यं विद्यते तव भारति ।
व्ययतो वृद्धिमायाति,
क्षयमायाति सञ्चयात् ॥
(96)
अपेक्षन्ते न च स्नेहम्,
न पात्रं न दशान्तरम् ।
सदा लोकहिते युक्ता,
रत्नदीपा इवोत्तमाः ॥
(97)
अप्रणोद्योऽ
तिथिः सायं,
सूर्योढो गृहमेधिना ।
काले प्राप्तस्त्वकाले वा,
नास्यानश्नन् गृहे वसेत् ॥
मनु. / 3 / 105
(98)
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बुद्धयवज्ञानमवमानं च भारत ॥
महाभा. / उद्योग / 39 / 2
(99)
अप्रियवचनदरिद्रैः प्रियवचनाढयैः स्वदारपरितुष्टैः ।
परपरिवादनिवृत्तैः क्वचित् क्वचिन्मण्डिता वसुधा ॥
नीतिशतक / 106
(100)
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।
असद्भिः सम्प्रयोगश्च,
तद्दुःखं चिरजीविनाम् ॥
महाभा. / वनपर्व / 193 / 18
(101)
अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे ।
अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥
अथर्व. / 19 / 15 / 5
(102)
अभयं मित्रादभयममित्रादभयं ज्ञातादभयं परोक्षात् ।
अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥
अथर्व. / 19 / 15 / 6
(103)
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्द्धन्ते,
आयुर्विद्या यशो बलम् ॥
मनु. 2/ 122
(104)
अभ्यासः कर्मणां सम्यगुत्पादयति कौशलम् ।
विधिना तावदभ्यस्तं यावत्सृष्टा मृगेक्षणा ॥
सुभाषितावलि
(105)
अभ्रच्छाया खलप्रीतिः सिद्धमन्नं च योषितः ।
किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ॥
हितोपदेश
(106)
अभ्यूर्णौति यन्नग्नं भिषक्ति विश्वं यत्तुरम् ।
प्रेमन्धः ख्यन् निःश्रोणो भूत् ॥
ऋ. / 8 79 / 2
(107)
अमित्रं कुरुते मित्रम्,
मित्रं द्वेष्टि हिनस्ति च ।
शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः ॥
पञ्चतन्त्र / काकोलूकीय / 196
(108)
अमीषां प्राणानां तुलितबिसनीपत्रपयसाम्,
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
यदाढयानामग्रे द्रविणमदनिःशङ्कमनसाम्,
कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥
वै. शतक / 32
(109)
अमृतं शिशिरे वह्रिरमृतं प्रियदर्शनम् ।
अमृतं राजसम्मानममृतं क्षीरभोजनम् ॥
पञ्चतन्त्र / मित्रभेद / 135
(110)
अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित् ।
विषस्येवोद्विजेन्नित्यं,
सम्मानस्य विचक्षणः ॥
महाभा. / शान्ति . / 229 / 2
(111)
अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽ
प्यरक्षितः ।
पैशुन्याद् भिद्यते स्नेहो,
भिद्यते वाग्भिरातुरः ॥
पञ्चतन्त्र / मित्रभेद / 107
(112)
अम्भोजिनी - वनविहार - विलासमेव,
हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविौ प्रसिद्धाम्,
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥
नीतिशतक / 17
(113)
अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।
नराणां यत्र हूयन्ते यौवनानि धानानि च ॥
मृच्छकटिक
(114)
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानान्तु वसुधैव कुटुम्बकम् ॥
पञ्चतन्त्र / अपरीक्षितकारकम् / 35
(115)
अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।
अयं मे विश्यवभेषजोऽ
यं शिवाभिमर्शनः ॥
ऋ. / 10 / 60 / 12
(116)
अया पवस्व धारया,
यया सूर्यमरोचयः ।
हिन्वानो मानुषीरपः ॥ ऋ. / 9 / 63 / 7
(117)
अयि मलयज. महिमाऽ
यं कस्य गिरामस्तु विषयस्ते ।
उदगिरतो यदगरलं फणिनः पुष्णासि परिमलोदगारैः ॥
भामिनीविलास / 1 / 10
(118)
अरक्षितं तिष्ठति दैवरक्षितम्,
सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोऽ
पिवने विसर्जितः,
कृतप्रयत्नोऽ
पि गृहे विनश्यति ॥
पञ्चतन्त्र / मित्रभेद / 273
(119)
अरक्षितारं नृपतिं ब्राह्नणं चातपस्विनम् ।
धनिकं चाप्रदातारं देवा घ्नन्ति त्यजन्त्यधः ॥
शुक्रनीति / 1 / 120
(120)
अरणीमन्थने जातु यो विरन्तुं न चेष्टते ।
स एव लभते वह्रिमेवं सिद्धेरपि प्रथा ॥
बुद्धिचरितम् / 26 / 64
(121)
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
दिवेदिव ईडयो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥
ऋ. / 1 / 29 / 2
(122)
अरविन्दमशोकं च चूतं च नवल्लिका ।
नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥
(123)
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥
चाणक्यशतक / 34
(124)
अर्थसिद्धिं परामिच्छन्,
धर्ममेवादितश्चरेत् ।
न हि धर्मादपेत्यर्थः,
स्वर्गलोकादिवामृतम् ॥
महाभा. / उद्योग / 37 / 48
(125)
अर्थहीनोऽ
पि मधुरः,
शब्दो लोकप्रियङकरः ।
वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः ॥
सभारञ्जनशतक / 24
(126)
अर्थागमो नित्यमरोगिता च ,
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽ
र्थकरी च विद्या,
षड् जीवलोकस्य सुखानि राजन् ॥
महाभा. / उद्योग. / 33 / 82
(127)
अर्थातुराणां न गुरुर्न बन्धुः,
कामातुराणां न भयं न लज्जा ।
चिन्तातुराणां न सुखं न निद्रा,
क्षुधातुराणां न बलं न तेजः ॥
चाणक्यराजनीतिशास्त्र
(128)
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
नाशे दुःखं व्यये दुःखं धिगर्थान् कष्टसंश्रयान् ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 15
(129)
अर्थाः पादरजोनिभा,
गिरिनदी-वेगोपमं यौवनम् ।
आयुष्यं जलबिन्दुलोलचपलं,
फेनोपमं जीवनम् ॥
धर्मं यो न करोति निन्दितमतिः,
स्वर्गर्गलोदघाटनम् ।
पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते ॥
हितोपदेश / मित्रलाभ / 153
(130)
अर्थार्थी जीवलोकोऽ
यं श्मशानमपि सेवते ।
त्यक्त्वा जनयितारं स्वं निःस्वं गच्छति दूरतः ॥
पञ्चतन्त्र / मित्रभेद / 9
(131)
अर्थार्थी यानि कष्टानि मूढोऽ
यं सहते जनः ।
शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 116
(132)
अर्थेन किं कृपणहस्तगतेन तेन,
रूपेण किं गुणपराक्रमवर्जितेन ।
ज्ञानेन किं बहुजनैः कृतमत्सरेण,
मित्रेण किं व्यसनकालपराङमुखेन ॥
नराभरण / 14
(133)
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः ।
व्युच्छिद्यन्ते क्रियाः सर्वाः ग्रीष्मे कुसरितो यथा ॥
वा. रामायण / 6 / 83 / 33
(134)
अर्थभ्यो हि निष्ठेभ्यः संवृत्तेभ्यस्ततस्ततः ।
क्रियाः सर्वाः प्रवर्त्तन्ते,
पर्वतेभ्यः इवापगाः ॥
वा. रामायण/ 6 / 83 / 32
(135)
अर्थेभ्यो हि वृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।
प्रवर्त्तन्ते क्रियाः सर्वाः,
पर्वतेभ्य इवापगाः ॥
पञ्चतन्त्र / मित्रभेद / 6
(136)
अर्थो न सम्भृतः कश्चिन्न विद्या काचिदर्जिता ।
न तपः सञचितं किञ्चिदगतं च सकलं वयः ॥
काव्यादर्श / 2 / 161
(137)
अलब्धं चैव लिप्सेत,
लब्धं रक्षेदवेक्षया ।
रक्षितं वर्धयेत् सम्यक्,
वृद्धं तीर्थेषु निक्षिपेत् ॥
हितोपदेश / 2 / 8
(138)
अलभ्यं लब्धुकामस्य जनस्य गतिरीदृशी ।
अलभ्येषु मनस्तापः,
सञ्चितार्थो विनश्यति ॥
कवितामृतकूप / 60
(139)
अलुब्धाः शुचयो वैद्या,
ह्रीमन्तः सत्यवादिनः ।
स्वकर्मनिरता ये च,
तेभ्यो दत्तं महाफलम् ॥
महाभा./ अनुशासन / 22 / 35
(140)
अल्पं वा बहु वा यस्य,
श्रुतस्योपकरोति यः ।
तमपीह गुरुं विद्यात् श्रुतोपक्रियया तया ॥
मनु. / 2 / 149
(141)
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥
हितोपदेश / 1 / 36
(142)
अवन्ध्यकोपस्य विहन्तुरापदो भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्यस्य जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥
किरातार्जुनीय / 1 / 33
(143)
अवलिप्तेषु मूर्खेषु,
रौद्रसाहसिकेषु च ।
तथैवापेतधर्मेषु,
न मैत्रीमाचरेद् बुधः ॥
महाभा. / उद्योग / 39 / 49
(144)
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥
हितोप. / मित्र. / 18
(145)
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
नाऽ
भूक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥
अत्रिस्मृतिः
(146)
अवश्यमेव लभते,
फलं पापस्य कर्मणः ।
भर्त्तः. पर्यागते काले,
कर्त्ता नास्त्यत्र संशयः ॥
वाल्मीकिरा. / युद्धकाण्ड / 25
(147)
अवश्यं यातारश्चिरतमुषित्वाऽ
पि विषयाः ।
वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ॥
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः ।
स्वयं त्यक्तास्त्वेते शमसुखमनन्तं विदधति ॥
वैराग्यशतक / 16
(148)
अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि ।
क्षुधि कदशनमपि नितरां भोक्तुः सम्पद्यते स्वादु ॥
(149)
अविज्ञाय फलं यो हि कर्मण्येवानुधावति ।
स शोचेत्फलवेलायां यथा किंशुकलेवकः ॥
वा. रामायण / 63 / 9
(150)
अविद्यानाशिनी विद्या,
भावना भावनाशिनी ।
दारिद्रयनाशनं दानम्,
शीलंं दुर्गतिनाशनम् ॥
(151)
अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः ।
गच्छन्नभिमुखो नाशं याति वह्रौ पतङ्गवत् ॥
पञ्चतन्त्र / मित्रभेद / 18
(152)
अवृत्तिभयमन्त्यानां मध्यानां मरणाद् भयम् ।
उत्तमानां तु सत्त्वानामवमानात् परं भयम् ॥
(153)
अव्यसश्च व्यचस्श्च बिलं विष्यामि मायया ।
ताभ्यामुदधृत्य वेदमथ कर्माणित कृण्महे ॥
अथर्व / 19 / 68 / 1
(154)
अव्रतानाममन्त्राणां,
जातिमात्रोपजीविनाम् ।
सहस्त्रशः समेतानां,
परिषत्त्वं न विद्यते ॥
मनु. / 12 / 114
(155)
अशक्तैः बलिनः शत्रोः कर्त्तव्यं प्रपलायनम् ।
श्रयितव्योऽ
थवा दुर्गो नान्या तेषां गतिर्भवेत् ॥
पञ्चतन्त्र / मित्रभेद / 269
(156)
अशठमलोलमजिह्यं त्यागिनमनुरागिणं विशेषज्ञम् ।
यदि नाश्रयति नरं श्रीः,
श्रीरेव वञ्चिता तत्र ॥
श्री हर्षदेव
(157)
अश्नीयात्तन्मना भूत्वा,
पूर्वन्तु मधुरं रसम् ।
मध्येऽ
म्ललवणौ,
पश्चात् कटुतिक्तकषायकम् ॥
चरक / विमान-स्थान / 1 / 31
(158)
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥
पञ्चतन्त्र / मित्रभेद / 115
(159)
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥
(160)
अश्रद्धा परमं पापं,
श्रद्धा पापप्रमोचनी ।
जहाति पापं श्रद्धावान् ,
सर्पो जीर्णमिव त्वचाम् ॥
महाभा. / शान्ति. / 264 / 15
(161)
अष्टौ गुणाः पुरुषं दीपयन्ति,
प्रज्ञा कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहुभाषिता च,
दानं यथाशक्ति कृतज्ञता च ॥
महाभा. / उद्योग / 35 / 52
(162)
असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् ।
दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ॥
पञ्चतन्त्र / मित्रभेद / 195
(163)
असतो मा सदगमय,
तमसो मा ज्योतिर्गमय ।
मृत्योर्माऽ
मृतं गमय ॥
बृहदारण्यकोपनिषद् / 1 /
ब्राह्नण 3
(164)
असत्यवचनं प्राज्ञः प्रमादेनापि नो वदेत् ।
श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः ॥
योगशास्त्र / 2 / 57
(165)
असत्यवचनाद् वैरविषादाप्रत्ययादयः ।
प्रदुष्यन्ति न के दोषाः कुपथ्याद् व्याधयो यथा ॥
(166)
असम्भवं हेम-मृगस्य जन्म तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्न-विपत्तिकाले धियोऽ
पि पुंसां मलिनाः भवन्ति ॥
हितोपदेश / 1 / 28
(167)
असहायः समर्थोऽ
पि,
तेजस्वी किं करिष्यति ।
निवाते ज्वलितोऽ
प्यग्निः,
स्वयमेव प्रशाम्यति ॥
पञ्चतन्त्र / काकोलूकीयम् / 55
(168)
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे ।
सुरतरुवरशाखा लेखनी पत्रमुर्वी ॥
लिखति यदि गृहीत्वा शारदा सर्वकालम् ।
तदपि तव गुणानामीश पारं न याति ॥
पुष्पदन्त-शिवमहिम्नः स्तोत्र / 32
(169)
असुर्या नाम ते लोका,
अन्धेन तमसाऽऽ
वृताः ।
तांस्ते प्रेत्यापिगच्छन्ति,
ये के चात्महनो जनाः ॥
यजु. / 40 / 3
(170)
असूयैकपदं मृत्युरतिवादः श्रियो वधः ।
अशुश्रूषा त्वारा श्लाघा,
विद्यायाः शत्रवस्त्रयः ॥
महाभा. / उद्योग / 40 / 4
(171)
अस्तीत्येव कृषिं कुर्यात्,
अस्ति नास्तीति वाणिज्यम् ।
नास्तीत्येव ऋणं दद्यान्नाहमस्मीति साहसम् ॥
नराभरण / 80
(172)
अस्मिन् महामोहमये कटाहे,
सूर्याग्निना रात्रि-दिवेन्धनेन ।
मासर्त्तुदर्वीपरिघट्टनेन,
भूतानि कालः पचतीति वार्त्ता ॥
महाभा. / वनपर्व / 313 / 88
(173)
अहन्यहनि भूतानि,
गच्छन्तीह यमालयम् ।
शेषाः स्थावरमिच्छन्ति,
किमाश्चर्यमतः परम् ॥
महाभा. / वनपर्व / 313 / 116
(174)
अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ । अहं
सूर्य इवाजनि ॥
ऋ. / 8 / 6 / 10
(175)
अहिंसा निर्मलं धर्मं सेवन्ते ये विपशिचतः ।
तेषामेवोर्ध्वगमनं,
यान्ति तिर्यगधोऽ
न्यथा ॥
पट्नपुराण / 4 / 41
(176)
अहिंसा सत्यमस्तेयं शौयमिन्द्रियनिग्रहः ।
एतं सामासिकं धर्मं चातुर्विर्ण्येऽ
ब्रवीन्मनुः ॥
मनु. / 10 / 63
(177)
अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।
वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥
अग्निपुराण / 237 / 10
(178)
अहिंसा सत्यमस्तेयमकामक्रोधलोभता ।
भूतप्रियहितेहा च धर्मोऽ
यं सार्ववर्णिकृः ॥
श्रीमदभागवत / 11 / 17 / 21
(179)
अहो खलभुजङ्गस्य विपरीतो वधक्रमः ।
कर्णे लगति चैकस्य प्राणैरन्यो वियुज्यते ॥
पञ्चतन्त्र / मित्रभेद / 250
(180)
अहो सुसदृशी वृत्तिर्मर्दलस्य खलस्य च ।
यावन्मुखगतं पिण्डं तावन्मधुरभाषणम् ॥
नीतिशास्त्र / 152
(181)
अहौ वा हारे वा कुसुमशयने वा दृषदि वा,
मणौ वा लोष्ठे वा बलवति रिपौ वा सुह्यदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः,
कदा पुण्येऽ
रण्ये शिव शिव शिवेति प्रलपतः ॥
(182)
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकारैश्च लक्ष्यतेऽ
न्तर्गतं मनः ॥
पञ्चतन्त्र / मित्रभेद / 42
(183)
आक्रान्तं मरणेन जन्म,
जरसा विद्युच्चलं यौवनम् ,
सन्तोषो धनलिप्सया,
शमसुखं प्रौढाङ्गनाविभ्रमैः ।
लोके मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैः,
अस्थैर्येण विभूतयोऽ
प्युपहता ग्रस्तं न किं केन वा ॥
वैराग्यशतक / 91
(184)
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति,
सुकृतं चास्य विन्दति ॥
महाभारत / उद्योग / 36 / 5
(185)
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान ।
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥
महाभा. / उद्योग / 34 / 70
(186)
आखेटकं वृथाक्लेशं,
मूर्खं व्यसनसंस्थितम् ।
आलापयति यो मूढः,
स गच्छति पराभवम् ॥
(187)
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते ।
शब्दब्रह्नागममयं परं ब्रह्न विवेकजम् ॥
विष्णुपुराण / 6 / 5 / 6
(188)
आगारदाही मित्रघ्नः,
शाकुनिर्ग्रामयाजकः ।
रुदिरान्धे पतन्त्येते ,
सोमं विक्रीणेत च यः ॥
विष्णुपुराण / 2 / 6 / 23
(189)
आचारः कुलमाख्याति,
वपुराख्याति भोजनम् ।
वचनं श्रुतमाख्याति,
स्नेहमाख्याति लोचनम् ॥
शिवपुराण
(190)
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त्त एव च ।
तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥
मनु. / 1 / 108
(191)
आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।
आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् ॥
मनु. / 1 / 109
(192)
आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः ।
आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥
मनु. / 4 / 156
(193)
आचारो भूतिजनन आचारः कीर्तिवर्दनः ।
आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥
(194)
आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदोऽ
नुजीविनाम् ।
पृथक् शय्या च नारीणामशस्त्रो वध उच्यते ॥
प्रबन्ध-चिन्तामणि / 14
(195)
आढयानां मांसपरमं मध्यानां गोरसोत्तमम् ।
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥
महाभा. / उद्योग / 34 / 49
(196)
आढयो वापि दरिद्रो वा,
दुःखितः सुखितोऽ
पि वा ।
निर्दोषश्च सदोषश्च,
वयस्यः परमा गतिः ॥
वाल्मीकि / किन्किन्धा / 8 / 8
(197)
आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता ।
यमर्था नापकर्षन्ति स वै पण्डित उच्यते ॥
महा. / उद्योग / 33 / 17
(198)
आत्मनाऽ
त्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतः ।
आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥
महाभा. / उद्योग / 34 / 65
(199)
आत्मनो मुखदोषेण,
बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते,
मौनं सर्वार्थसाधनम् ॥
पञ्चतन्त्र / लब्धप्रणाश / 37
(200)
आत्मनो बलमविज्ञाय धर्मार्थपरिवर्जितम् ।
अलभ्यमिच्छन् नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥
महाभा / उद्योग / 33 / 38
(201)
आत्मन्यनात्मभावेन,
व्यवहारविवर्जितम् ।
यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते ॥
जाबालोपनिषद्. / 1 / 12
(202)
आत्माधीनशरीराणां स्वपतां निद्रया स्वया ।
कदन्नमपि मर्त्यानाममृतत्वाय कल्पते ॥
(203)
आत्मा नदी संयमपुण्यतीर्था,
सत्योदका शीलतटा दयोर्मिः ।
तत्राभिषेकं कुरु पाण्डुपुत्र . न वारिणा शुध्यति चान्तरात्मा ॥
(204)
आत्मानमेव प्रथमं द्वेष्यरूपेण यो जयेत् ।
ततोऽ
मात्यानमित्रांश्च न मोघं विजिगीषते ॥
महाभा. / उद्योग / 33 / 57
(205)
आत्मैव ह्यात्मनः साक्षी,
गतिरात्मा तथात्मनः ।
मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥
मनु. / 8 / 84
(206)
आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः ।
विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधिभ्रशत् ॥
ऋ. / 10 / 173 / 1
(207)
आदरेण यथा स्तैति,
धनवन्तं धनेच्छया ।
तथा चेद् विश्वकर्त्तारं,
को न मुच्येत् बन्धनात् ॥
(208)
आदरात् संगृहीतेन शत्रुणा शत्रुमुद्घरेत् ।
पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥
(209)
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितम्,
व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ।
दृष्ट्वा जन्म-जरा-विपत्तिमरणं त्रासश्च नोत्पद्यते,
पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥
वैराग्यशतक. / 7
(210)
आदिमध्यनिधनेषु सौहार्दं सज्जने भवति नेतरे जने ।
छेद-ताडन-निघर्ष-तापनैर्नान्यभावमुपयाति काञ्चनम् ॥
(211)
आदौ तु मोक्षो ज्ञानेन,
द्वितीयो रागसंक्षयात् ।
कृच्छ्रत्रयात् तृतीयस्तु,
व्याख्यातं मोक्षलक्षणम् ॥
(212)
आदौ न वा प्रणयिनां प्रणयो विधेयो,
दत्तोऽ
थवा प्रतिदिनं परिपोषणीयः ।
उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां,
भूमौ स्थितस्य पतनादभयमेव नास्ति ॥
पञ्चतन्त्र / मित्रभेद / 190
(213)
आदौ साम प्रयोक्तव्यं पुरुषेण विजानता ।
सामसाध्यानि कार्यणि,
विक्रियां यान्ति न क्वचित् ॥
पञ्चतन्त्र / मित्रभेद / 330
(214)
आधत्त पितरो गर्भं कुमारं पुष्करस्त्रजम् ।
यथेह पुरुषोऽ
सत् ॥ यजु. / 2 / 33
(215)
आधि-व्याधिपरीताय,
ह्यद्य श्वो वा विनाशिने ।
को हि नाम शरीराय,
धर्मापेतं समाचरेत् ॥
कामन्दकनीतिसार / 3 / 9
(216)
आनन्दवाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ ।
किं तस्य साधनैरन्यैः किङकराः सर्वपार्थिवाः ॥
वाल्मीकिरामा. / 6 / 111 / 66
(217)
आ देवानामुपवेतु शंसो विश्वेभिस्तुरैरवसे यजत्राः ।
तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥
ऋ. / 10 / 31 / 1
(218)
आ नो भद्राः क्रतवो यन्तु विश्वतोऽ
दब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदमिदवृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥
ऋ. 1 / 89 / 1
(219)
आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती ।
तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु ॥
ऋ. / 10 / 110 / 8
(220)
आपत्काले तु सम्प्राप्ते,
यन्मित्रं मित्रमेव तत् ।
वृद्धिकाले तु सम्प्राप्ते,
दुर्जनोऽ
पि सुहृदभवेत् ॥
पञ्चतन्त्र / सुहृदभेद / 10
(221)
आपदर्थे धनं रक्षेद्,
दारान् रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्,
दारैरपि धनैरपि ॥
पञ्चतन्त्र/मित्रभेद/308/
महाभा./उद्योग /37 / 18
(222)
आपदामापतन्तीनां हितोऽ
प्यायाति हेतुताम् ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥
हितोपदेश
(223)
आपदां कथितः पन्था इन्द्रियाणामसंयमः ।
तज्जयः सम्पदां मार्गोो,
येनेष्टं तेन गम्यताम् ॥
(224)
आपादि येनापकृतं येन च हसितं विषमासु दशासु ।
अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥
पञ्चतन्त्र / मित्रभेद / 280
(225)
आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।
कल्यामवचनं ब्रूयादपृष्टोऽ
पि हितो नरः ॥
हितोपदेश
(226)
आपन्नाशाय विबुधैः कर्त्तव्याः सुहृदोऽ
मलाः ।
न तरत्यापदं कश्चिद् योऽ
त्र मित्रविवर्जितः ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 169
(227)
आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूत एमि ॥
ऋ. / 10 / 17 / 10
(228)
आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः ।
अतीते कार्यशेषज्ञो नरोऽ
र्थैर्न प्रहीयते ॥
महाभा. / उद्योग / 39 / 54
(229)
आयुः कल्लोललोलं,
कतिपयदिवस-स्थायिनी यौवनश्रीः,
अर्थाः सङ्कल्पकल्पाः घनसमयतडिद्विभ्रमा भोगपूगाः ।
कण्ठाश्लेषोगूढं तदपि च न चिरं,
यत्प्रियाभिः प्रणीतम्,
ब्रह्नण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥
वैराग्यशतक. / 74
(230)
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतम्,
तस्यार्ध्दस्य परस्य चार्ध्दमपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुः खसहितं सेवादिभिर्नीयते,
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥
वैराग्यशतक / 94
(231)
आयुर्वित्तं गृहच्छिद्रं मन्त्रमौषधसमागभाः ।
दानमानापमानाश्च सदा गोप्या मनीषिभिः ॥
नीतिशास्त्र. / 14
(232)
आयुषः क्षणमेकोऽ
पि न लभ्यः स्वर्णकोटिभिः ।
स वृथा नीयते येन,
तस्मै नृपशवे नमः ॥
(233)
आयुष्प्रदान्यामयनाशनानि,
बलाग्निवर्णस्वरवर्धकानि ।
मेध्यानि चैतानि रसायनानि,
मेध्या विशेषेण च शंखपुष्पी ॥
चरक / चिकित्सा - स्थान / 1 (3) / 3/ 1
(234)
आरभन्तेऽ
ल्पमेवाज्ञाः कामं व्यग्राः भवन्ति च ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥
हितोपदेश / विग्रह / 122
(235)
आरम्भगुर्वी क्षयिणी क्रमेण ,
लध्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना,
धायेव मैत्री खलसज्जनानाम् ॥
पञ्चतन्त्र/ मित्रसम्प्राप्ति / 40
(236)
आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।
स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥
दामोदरगुप्त
(237)
आरोग्यमानृण्यमविप्रवासः,
सदभिर्मनुष्यैः सह सम्प्रयोगः ।
स्वप्रत्यया वृत्तिरभीतवासः,
षडजीवलोकस्य सुखानि राजन् ॥
महाभारत / उद्योग / 33 / 89
(238)
आरोप्यते शिला-शैले यत्नेन महता यथा ।
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥
(239)
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥
महाभा. / उद्योग / 33 / 25
(240)
आर्षं धर्मोपदेशं च,
वेदशास्त्राविरोधिना ।
यस्तर्केणानुसन्धत्ते,
स धर्मं वेद नेतरः ॥
मनु. / 12 / 106
(241)
आलस्यं हि मनुष्यणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुर्यं कृत्वा नावसीदति ॥
नीतिशतक / 8 / 1
(242)
आविर्भूतानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः,
पत्रच्छायैः पुरस्तादुपवनतरवो दूरमाश्वेव गत्वा ।
एते तस्मिन्निवृत्ताः पुनरितककुप्-प्रान्त-पर्यस्तबिम्बे,
प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं स्वामिनं सेवमानाः ॥
मुद्राराक्षस. / 4 / 21
(243)
आवेपते भ्रमति रोदिति मोहमेति,
कान्तं विलोकयति कूजति दीनदीनम् ।
अस्ते हि भानुमति गच्छति चक्रवाकी,
हा. जीवितेऽ
पि मरणं प्रिय-विप्रयोगः ॥
(244)
आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला,
रागग्राहवती वितर्क-विहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तराऽ
तिगहना प्रोत्तुङ्गचिन्तातटी,
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥
वैराग्यशतक. / 40
(245)
आशा हि परमं दुःखं,
नैराश्यं परमं सुखम् ।
यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥
सांख्य / विज्ञानभिक्षु - भाष्य
(246)
आश्रमांस्तुलया सर्वान् धृतानाहुर्मनीषिणः ।
एकतश्च त्रयो राजन् . गृहस्थाश्रम एकतः ॥
महाभारत / शान्ति / 121 / 12
(247)
आसनाच्छयनाच्चैव संजल्पात् सहभोजनात् ।
पुंसां संक्रमते पापं,
घटाद् घटमिवोदकम् ॥
चाणक्यराजनीति
(248)
आस्तां तावदिदं प्रसूतिसमये दुर्वारशूलव्यथा,
नैरुच्ये तनुशोषणं मलमयी शय्या च सांवत्सरी ।
एकस्यापि न कष्टभार-भरण-क्लेशस्य यस्याः क्षमो
दातुं निष्कृतिमुन्नतोऽ
पि तनयस्तस्यै जनन्यै नमः ॥
(249)
आहारनिद्राः भयमैथुनानि सामान्यमेदतद् पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेषो,
धर्मेण हीनाः पशुभिः समानाः ॥
हितोपदेश / कथामुख / 25
(250)
आहारस्य परं धाम,
शुक्रं तद्रक्ष्यमात्मनः ।
क्षयोह्यस्य बहून् रोगान्,
मरणं वा नियच्छति ॥
चरक / निदानस्थान / 6 / 10
(251)
आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्त्रग्व्यपि द्विजोऽ
धीते,
स्वाध्यायं शक्तितोऽ
न्वहम् ॥
मनु. / 2 16
(252)
इक्षोरग्रात् क्रमशः पर्वणि पर्वणि यथा रसविशेषः ।
तद्वत्सज्जनमैत्री,
विपरीतानां तु विपरीता ॥
पञ्च. / मित्रसम्प्रा.
(253)
इच्छति शती सहस्रं,
सहस्री लक्षमीहते ।
लक्षाधिपस्तथा राज्यम्,
राज्यस्थः स्वर्गमीहते ॥
पञ्च. / अपरीक्षितकारक / 75
(254)
इच्छन्ति त्वा सोम्यासः सखायः ।
सुन्वन्ति सोमं दधति प्रयांसि ।
तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ॥
यजु. / 34 / 18
(255)
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
यन्ति प्रमादमतन्द्राः ॥
ऋ. 8 / 2 / 18
(256)
इच्छेच्चोद्विपुलां मैत्रीं,
त्रीणि तत्र न कारयेत् ।
वाग्वादमर्थसम्बन्धं,
तत्पत्नीपरिभाषणम् ॥
(257)
इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा ।
अलोभ इति मार्गोऽ
यं धर्मस्याष्टविधः स्मृतः ॥
महाभारत / उद्योग / 35 / 56
(258)
इड एह्यदित एहि काम्या एत ।
मयि वः कामधरणं भूयात् ॥
यजु. / 3 / 27
(259)
इडे रन्ते हव्ये काम्ये चन्द्रे ज्योतेऽ
दिते सरस्वति महि विश्रुति ।
एता ते अध्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात् ॥
यजु. / 8 / 43
(260)
इदञ्च त्वां सर्वपरं ब्रवीमि,
पण्यं पदं तात महाविशिष्टम् ।
न जातु कामान्न भयान्न लोभाद्,
धर्मं जह्येज्जीवितस्यापि हेतोः ॥
महाभा. / उद्योग / 40 / 12
(261)
इदन्त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व ।
संवेशने तन्वश्चारुरेधि प्रियो देवानां परमे जनित्रे ॥
ऋ. / 10 / 56 / 1
(262)
इदं मे ब्रह्न च क्षत्रं चोभे श्रियमश्नुताम् ।
मयि देवा दधतु श्रियमुत्तमां तस्यै ते स्वाहा ॥
यजु. / 32 / 16
(263)
इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत ।
मयोभुवः वृष्टयः सन्तस्मे सपिप्पला ओषधीर्देवगोपाः ॥
ऋ. / 7 / 101 / 5
(264)
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्य पांसुरे ॥
ऋ. / 1 / 22 / 17
(265)
इदं श्रेष्ठं ज्योतिषां ज्येतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
यथा प्रसूता सवितुः सवाय एवा रात्र्युषसे योनिमारैक् ॥
ऋ. / 1 / 113 / 1
(266)
इदं हिरण्यं बिभृहि यत् ते पिताऽ
बिभः पुरा ।
स्वर्गं यतः पितुर्हस्तं निर्मृडढि दक्षिणम् ॥
अथर्व. / 18 / 4 / 56
(267)
इदमापः प्रवहत यत्किञ्च दुरितं मयि ।
यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥
ऋ. / 1 / 23 /22
(268)
इदं मे ज्योतिरमृतं हिरण्यं ,
पक्वं क्षेत्रात् कामदुघा म एषा ।
इदं धनं निदधे ब्राह्नणेषु,
कृण्वे पन्थां पितृषु यः स्वर्गः ॥
अथर्व. / 11 / 1 / 28
(269)
इन्दुं रिहन्ति महिषा अदब्धा पदे रेभन्ति कवयो न गृध्राः ।
हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥
ऋ. / 9 / 97 / 57
(270)
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
एकं सद् विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥
ऋ. 1 / 164 / 46
(271)
इनद्रं वर्धन्तु नो गिर इन्द्र सुतास इन्दवः ।
इन्द्रे हविष्मतीर्विशो अराणिषुः ॥
ऋ. / 8 / 13 / 16
(272)
इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् ।
अपघ्नन्तो अराव्णः ॥
ऋ. / 9 / 63 / 5
(273)
इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च ।
चन्द्रस्याग्ने पृथिव्याश्च तेजो वृत्तं नृपश्चरेत् ॥
मनु. / 9 / 303
(274)
इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् ।
जेता शत्रून् विचर्षणिः ॥
ऋ. / 2 / 41 / 12
(275)
इन्द्र क्रतुं न आभर पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्येतिरशीमहि ॥
ऋ. / 7 / 32 / 26
(276)
इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।
विग्रीवासो मूरदेवा ऋदन्तु,
मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥
ऋ. / 7 / 104 / 24
(277)
इन्द्र त्रिधातु शरणं त्रिवरूथम् स्वस्तिमत् ।
छर्दिर्यच्छ मघवदभ्यश्च मह्नं च यावया दिद्युमेभ्यः ॥
अथर्व. / 20 / 83 / 1
(278)
इन्द्रमिदगाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥
ऋ. / 1 / 7 / 1
(279)
इन्द्र वाजेषु नोऽ
व सहस्रप्रधनेषु च ।
उग्र उग्राभिरुतिभिः ॥
ऋ. / 1 / 7 / 4
(280)
इन्द्र शुद्धो न आ गहि शुद्धो शुद्धाभिरूतिभिः ।
शुद्धो रयिं नि धारय शुद्धो ममद्धिः सोम्यः ॥
ऋ. / 8 / 95 / 8
(281)
इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।
पोषं रयीणामरिष्टिं तनूनां स्वाट्नानं वाचः सुदिनत्वमह्राम् ॥
ऋ. / 2 / 21 / 6
(282)
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥
कठोपनिषद / 6 / 6
(283)
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।
सन्नियम्य तु तान्येव,
ततः सिद्धिं नियच्छति ॥
मनु. / 2 / 93
(284)
इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
संयमे यत्नमातिष्ठेद्,
विद्वान् यन्तेव वाजिनाम् ॥
मनु. / 2 / 88
(285)
इन्द्रियाणां हि चरतां यन्मनोऽ
नु विधीयते ।
तदस्य हरति प्रज्ञां,
वायुर्नावमिवाम्भसि ॥
महाभा. / भीष्म. / 26 / 67
(286)
इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते ।
अत्यर्थं पुनरुत्सर्गः सादयेद् देवतामपि ॥
महभा. / उद्योग / 39 / 5
(287)
इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः ।
वर्जयित्वा तु रसनं,
तन्निरन्नस्य वर्धते ॥
भागवतपु. / 11 / 8 / 20
(288)
इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ ।
आहृत्य यो निगृहणाति,
प्रत्याहारः स उच्यते ॥
अग्निपुराण/ द्वि. भाग/ 184 / 20
(289)
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
इन्द्र तानि त आ वृणे ॥
ऋ. / 3 / 37 / 9
(290)
इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥
अग्निपुराण / द्वि. खंड / 184 / 16
(291)
इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।
अतिप्रसक्तिं चैतेषां मनसा सन्निवर्तयेत् ॥
मनु. / 4 / 16
(292)
इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै ।
चर्कृत्य ईडयो वन्द्यश्चोपसद्यो नमस्यो भवेह ॥
अर्थव. / 6 / 98 / 1
(293)
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
जघान नवतीर्नव ॥
ऋ. / 1 /84 / 13
(294)
इन्धानास्त्वा शतं हिमा द्युमन्तं समिधीमहि,
वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतम् ।
अग्ने सपत्नदम्भनमदब्धासोऽ
अदाभ्यम्,
चित्रावसो स्वस्ति ते पारमशीय ॥
यजु. / 3 / 18
(295)
इमं गोष्ठं पशवः संस्रवन्तु बृहस्पतिरानयतु प्रजानन् ।
सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नियच्छ ॥
अथर्व. / 2 / 26 / 2
(296)
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।
शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥
यजु. / 35 / 15
(297)
इमं मा हिंसीरेकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु ।
गौरमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो निषीद ॥
यजु. / 13 / 48
(298)
इमं मा हिंसीर्द्विपादं पशुं सहस्राक्षो मेधाय चीयमानः ।
मयुं पशुं मेधमग्ने जुषस्व तेन चिन्वानस्तन्वो निषीद ॥
यजु. / 13 / 47
(299)
इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं परुष्ण्या ।
असिक्न्या मरुदवृधे वितस्तयार्जीकीये श्रृणुह्या सुषोमया ॥
ऋ. / 10 / 75 / 5
(300)
इमं हि सर्व-वर्णानां पश्यन्तो धर्ममुत्तमम् ।
यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥
मनु. / 9 / 6
(301)
इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदां चतुष्पदाम् ।
त्वष्टुः प्रजानां प्रथमं जनित्रमग्ने मा हिंसीः परमे व्योमन् ॥
यजु. / 13 / 50
(302)
इमां धियं शिक्षमाणस्य देव,
क्रतुं दक्षं वरुण सं शिशाधि ।
ययाति विश्वा दुरिता तरेम,
सुतर्माणमधानावं रुहेम ॥
ऋ. / 8 / 42 / 3
(303)
इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि ।
श्रुणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥
ऋ. / 2 / 27 / 1
(304)
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु ।
अनश्रवोऽ
नमीवाः सुरत्ना आरोहन्तु जनयो योनिमग्रे ॥
ऋ. / 10 / 18 / 7
(305)
इमे ये नार्वाङ् न परश्चरन्ति न ब्राह्नणासो न सुते करासः ।
त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥
ऋ. / 10 / 71 / 9
(306)
इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥
ऋ. / 10 / 129 / 7
(307)
इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाधुमपि मत्वा ।
सन्दिग्धमेव सिद्धौ कातरमाशङ्कते चेतः ॥
मालविकाग्निमित्रम् / 4 / 5
(308)
इह क्षेत्रे क्रियते पार्थ कार्यम्,
न वै किञ्चित् क्रियते प्रेत्य कर्म ।
कृतं त्वया पारलौक्यं च कर्म,
पुण्यं महत् सद्भिरतिप्रशस्तम् ॥
महाभा. / उद्योग / 27 / 12
(309)
इह गावः प्रजायेध्वमिहाश्वा इह पूरुषाः ।
इहो समस्रदक्षिणोऽ
पि पूषा निषीदति ॥
अथर्व. /20 / 127 / 12
(310)
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृताः भवन्ति ॥
केनोपनिषत् / 3 / 5
(311)
इह पुष्टिरिह रस इह सहस्रसातमा भव ।
पशून् यमिनि पोषय ॥
अथर्व. / 3 /28 / 4
(312)
इह रतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहा ।
उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् ।
रायस्पोषमस्मासु दीधरत् स्वाहा ॥
यजु. / 8 / 51
(313)
इह लोके धनिनां ,
परोऽ
पि स्वजनायते ।
स्वजनोऽ
पि दरिद्राणां सर्वदा दुर्जनायते ॥
पञ्च. / मित्र. / 5
(314)
इह विरचयन्साध्वीं शिष्यः क्रियां न निवार्यते,
त्यजाति तु यदा मार्गं मोहात्तदा गुरुरङ्कशः ।
विनयरुचयस्तस्मात्सन्तः सदैव निरङ्कुशः,
परतरमतः स्वातन्त्र्येभ्यो वयं हि पराङमुखाः ॥
मुद्राराक्षस / 3 / 6
(315)
इह वैकस्य नामुत्र अमुत्रैकस्य नो इह ।
इह वाऽ
मुत्र चैकस्य नामुत्रैकस्य नो इह ॥
महाभा. / वनपर्व / 183 / 88
(316)
इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।
क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वगृहे ॥
ऋ. / 10 / 85 / 42
(317)
ईर्ष्या मादोऽ
तिवादश्च संज्ञानाशोऽ
भ्यसूयता ।
तस्मात् प्राज्ञो न माद्येत,
सदा ह्येतत् विगर्हितम् ॥
महाभा. / उद्योग / 45 / 11
(318)
ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् ।
अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥
अर्थर्व. / 6 / 18 / 1
(319)
ईर्ष्यी घृणी न सन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते नित्यदुः खिताः ॥
महाभारत / उद्योग / प्रजागर / 33 / 90
(320)
ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।
अपो याचामि भेषजम् ॥
ऋ. / 10 / 9 / 5
(321)
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥
यजु. / 40 / 1
(322)
ईश्वरः सर्वभूतानां हृद्देशेऽ
र्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानीव मायया ॥
महाभा. / भीष्मपर्व / 42 / 61
(323)
ईश्वरा भूरिदानेन यल्लभन्ते फलं किल ।
दरिद्रस्तच्च काकिण्या प्राप्नुयादिति नः श्रुतिः ॥
पञ्च. / मित्रसम्प्राप्तिः / 73
(324)
उक्तो भवति यः पूर्वम्,
गुणवानििति संसदि ।
न तस्य दोषो वक्तव्यः,
प्रतिज्ञाभङ्गभीरुणा ॥
पञ्च. / मित्रभेद / 374
(325)
उचितमनुचितं वा कुर्वता कार्यमादौ,
परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्तेर्भवति
हृदयदाही शल्यतुल्यो विपाकः ॥
भोजप्रबन्ध / 24
(326)
उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु ।
अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम् ॥
ऋ. / 10 / 71 / 5
(327)
उत त्वः पश्यन्न ददर्श वाचमुत त्वः श्रृण्वन्न श्रृणोत्येनाम् ।
उतो त्वस्मै तन्वं विसस्रे जायेव पत्ये उशती सुवासाः ॥
ऋ. / 10 /71 / 4
(328)
उत देवा अवहितं,
देवा उन्नयथा पुनः ।
उतागः चक्रुशं देवा देवा जीवयथा पुनः ॥
ऋ. / 10 / 137 / 1
(329)
उत बालाय पाण्डित्यं पण्डितायोत बालताम् ।
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥
महाभा. / उद्योग / 31 / 2
(330)
उत सन्तमसन्तं वा,
बालं वृद्धं च संजय ।
उताबलं बलीयांसम्,
धाता प्रकुरुते वशे ॥
महाभा. / उद्योग / 31 / 1
(331)
उत्क्राम महते सौभगायास्मादास्थानात् द्रविणोदा वाजिन् ।
वयं स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्याः ॥
यजु. /11 / 21
(332)
उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो ।
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तेषिताः ॥
मन्त्राराधन-तत्परेण मनसा नीताः श्मशाने निशाः ।
प्राप्तः काणवराटकोऽ
पि न मया,
तृष्णोऽ
धुना मुञ्च माम् ॥
श्रृंगारशतक / 4
(333)
उत्तमस्यापि वर्णस्य नीोचोऽ
पि गृहमागतः ।
पूजनीयो यथायोग्यं,
सर्वदेवमयोऽ
तिथिः ॥
हितोपदेश/ मित्रलाभ
(334)
उत्तमा तत्त्वचिन्तैव,
मध्यमा शास्त्रचिन्तनम् ।
अधमा मन्त्रचिन्ता च,
तीर्थभ्रान्त्यधमाधमा ॥
मैत्रेय्युपनिषद् / अ. 2 / 2
(335)
उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान् ।
अधमांस्तु न सेवेत,
य इच्छेद् भूतिमात्मनः ॥
महाभा. / उद्योग / 36 / 20
(336)
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तदभारतं नाम भारती यत्र सन्ततिः ॥
विष्णुपुराण. / 2 / 3
(337)
उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते ।
सुवृष्टिगुणसम्पन्नाद्बीजमिवापरम् ॥
पञ्चत. / मित्रभेद / 60
(338)
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया,
दुर्गं पथस्तत् कवयो वदन्ति ॥
कठोप. / चथी वल्ली / 14
(339)
उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।
संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥
अथर्व. / 11 / 9 / 2
(340)
उत्तिष्ठ ब्रह्नणस्पते देवयन्तस्त्वेमहे ।
उप प्रयन्तु मरुतः सुदानव इन्द्र प्राशुर्भवा सचा ॥
ऋ. / 1 / 40
(341)
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥
शिशुपालवध / 2 / 10
(342)
उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः ।
स्मीक्ष्य च समारम्भो विद्घि मूलं भवस्य तु ॥
महाभा. / उद्योग / 39 / 68
(343)
उत्पादक-ब्रह्नदात्रोः गरीयान् ब्रह्नदः पिता ।
ब्रह्न-जन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥
मनु. / 2 / 146
(344)
उत्पाद्य पुत्राननृणांश्च कृत्वा,
वृत्तिं च तेभ्योऽ
नुविधाय काञ्चित् ।
स्थाने कुमाीरीः प्रतिपाद्य सर्वाः ,
अरण्यसंस्थोऽ
थ मुनिर्बुभूषेत् ॥
महाभा. / उद्योग / 37 / 39
(345)
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥
पञ्च. / अपरीक्षितकारक / 37
(346)
उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ।
उत्साहमात्रमाश्रित्य,
प्रतिलप्स्याम जानकीम् ॥
वा. रामा. / किष्किन्धा / 122
(347)
उत्साहसम्पन्नमदीर्घसूत्रम्,
क्रियाविधिज्ञं विषयेष्वसक्तम् ।
शूरं कृतज्ञं दृढसौहृदं च,
लक्ष्मीः स्वयं याति निवासन्हेतोः ॥
पञ्च. / मित्रसम्प्राप्ति / 119
(348)
उत्साहो बलवानार्य . नास्त्युत्साहात् परं बलम् ।
सोत्साहस्य हि लोकेषु,
न किञ्चिदपि दुर्लभम् ॥
वाल्मीकिरामा. / किष्किन्धा / 1 / 121
(349)
उदयति यदि भानुः पश्चिमे दिग्विभागे,
प्रचलति यदि मेरुः शीततां याति वह्रिः ।
विकसति यदि पट्नं पर्वताग्रे शिलायाम्,
न भवति पुनरुक्तं भाषितं सज्जनानाम् ॥
(350)
उदीरितोऽ
र्थः पशुनाऽ
पि गृह्यते,
हयाश्च नागाश्च वगन्ति चोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः ॥
पञ्चतन्त्र. / मित्रभेद / 41
(351)
उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥
ऋ. / 1 / 50 / 1
(352)
उद्धरेदात्मनात्मानं मज्जमानं यथाऽ
म्भसि ।
भोगनद्यतिवेगेन ज्ञानवृक्षं समाश्रयेत् ॥
अग्निपु. / द्विय खण्ड / 184 / 21
(353)
उद्यमेन हि सिध्यन्ति,
कार्यणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य,
प्रविशन्ति मुखे मृगाः ॥
पञ्च. / मित्रसम्प्राप्ति / 129
(354)
उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं करेमि ।
आ हि रोहेममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥
अथर्व. / 8 / 1 / 6
(355)
उद्योगिनं सततमत्र समेति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या,
यत्ने कृते यदि न सिध्यति,
कोऽ
त्रदोषः ॥
पञ्च. / मित्रभेद / 149
(356)
उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
ऋ. / 1 / 50 / 10
(357)
उपकर्त्राऽ
रिणा सन्धिर्न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥
शिशुपालवध / 2 / 37
(358)
उपकाराच्च लोोकानां निमित्तान्मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां,
मैत्री स्याद्दर्शनात् सताम् ॥
पञ्च. / मित्रसम्प्राप्तिः / 37
(359)
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥
पञ्च. / मित्रभेद / 191
(360)
उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् ।
व्रजन्ति ते दुरात्मानस्तामिस्रं नरकं नृप ॥
विष्णु -पुराण / 3 / 11 / 104
(361)
उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयम् ।
नमो भरन्त एमसि ॥
ऋ. / 1 / 1 / 7
(362)
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयः पानं भुजङ्गानां केवलं विषवर्धनम् ॥
पञ्च. / मित्रभेद / 340
(363)
उपनीय गुरुः शिष्यं,
शिक्षयेच्छौचमादितः ।
आचारमग्निकार्यं च,
सन्ध्योपासनमेव च ॥
मनु. / 2 69
(364)
उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः ।
तस्माद् दूरेण स त्याज्यो,
न्यायं वा कीर्तियेदृतम् ॥
पञ्च. / काकोलूकीय / 106
(365)
उपस्थितस्य कारस्य प्रतिवादो न विद्यते ।
अपि निर्मुक्तदेहस्य,
कामरक्तस्य किं पुनः ॥
महाभा. / उद्योग / 39 / 44
(366)
उपह्वरे गिरीणां सङ्गमे च नदीनाम ।
धिया विप्रो अजायत ॥
ऋ. / 8 / 6 / 28
(367)
उपायेन जयो यादृग्रिपोस्तादृङ् न हेतिभिः ।
उपायज्ञोऽ
ल्पकायोऽ
पि न शूरैः परिभूयते ॥
पञ्च. / मित्रभेद / 152
(368)
उपार्जितानाामर्थानां त्याग एव हि रक्षणम् ।
तडागोदर-संस्थानां परीवाह इवाम्भसाम् ॥
पञ्च. / मित्रसाम्प्राप्ति / 144
(369)
उपेक्षितः क्षीणबलोऽ
पि शत्रुः,
प्रमाददोषात् पुरुषैर्मदान्धैः ।
साध्योऽ
पि भूत्वा प्रथमं ततोऽ
सावसाध्यतां व्याधिरिव प्रयाति ॥
पञ्च. / मित्रभेद / 179
(370)
उभे सत्ये क्षत्रियैतस्य विद्धि,
मोहान्मृत्युः सम्मतोऽ
यं कवीनाम् ।
प्रमादं वै मृत्युमहं ब्रवीमि,
तथाऽ
प्रमादममृतत्वमेव ॥
महाभा./ उद्योग / 42 / 4
(371)
उलूकयातुं शुशलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥
ऋ. / 7 / 104 / 22
(372)
ऊर्ध्वं प्राणा ह्युत्क्रामान्ति,
यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्याम्,
पुनस्तान् प्रतिपद्यते ॥
मनु. / 2 / 120
(373)
ऊर्ध्वस्तिष्ठा न ऊतयेऽ
स्मिन् वाजे शतक्रतो ।
समन्येषु ब्रवावहै ॥
ऋ. / 1 / 30 / 6
(374)
ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह ।
कृधी न ऊर्ध्वान् चरथाय जीवसे विदा देवेषु नो दुवः ॥
ऋ. / 1 / 36 / 14
(375)
ऋग्यजुस्साम-संज्ञेयं त्रयी वर्णावृतिर्द्विज ।
एतामुज्झति यो मोहात् स नग्नः पातकी द्विजः ॥
विष्णुपुराण / 3 / 17 / 5
(376)
ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये साम प्राणं प्रपद्ये ।
चक्षुः श्रोत्रं प्रपद्ये वागौजः सहौजो मयि प्राणापानौ ॥
यजु. / 36 / 1
(377)
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति,
य इत्तद विदुस्त इमे समासते ॥
ऋ. / 1 / 164 / 39
(378)
ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च ।
व्याधिशेषं च निःशेषं कृत्वा प्राज्ञोन सीदति ॥
पञ्ज. / काकोलूकीय / 218
(379)
ऋतस्य दातारमनुत्तमस्य,
विधिं निधीनामपि लब्धविद्याः ।
ये नाद्रियन्ते गुरुमर्चनीयम्,
पापान् लोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥
महाभारत
(380)
ऋतस्य हि शुरुधः सन्ति पूर्वीर्ऋतस्य धीतिर्वृजनानि
हन्ति । ऋतस्य श्लोको बधिराततर्द कर्णा बुधानः शुचमान आयोः ॥
ऋ. 4 / 23 / 8
(381)
ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् ।
अनादिनिधना नित्या,
वागुत्सृष्टा स्वयमभुवा ॥
महाभा. / शान्ति / 232 / 24
(382)
ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।
प्रभवो नातिगन्तव्यः स्त्रीणां दुश्चरितस्य च ।
महाभा./ उद्योग / 72
(383)
एकं प्रसूयते माता,
द्वितीयं वाक्प्रसूयते ।
वाग्जातमधिकं प्रोचुः,
सौदर्यादपि बन्धुवत् ॥
पञ्च. / लब्धप्रणाश / 6
(384)
एकं विषरसो हन्ति शास्त्रेणैकश्च वध्यते ।
सराष्ट्रं सप्रजं हन्ति,
राजनां मन्त्रविप्लवः ॥
महाभा. / उद्योग. / 33 / 45
(385)
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम् ॥
महाभा. / उद्योग. / 33 / 43
(386)
एकः पापानि कुरुते,
फलं भुङक्ते महाजतः ।
भोक्तारो विप्रमुच्यन्ते,
कर्ता दोषेण लिप्यते ॥
महाभा. / उद्योग. / 33 / 42
(387)
एकः सम्पन्नमश्नाति,
वस्ते वासश्च शोभनम् ।
योऽ
संविभज्य भृत्येभ्यः,
को नृशंसतरस्ततः ॥
महाभा. / उद्योग / 33 / 41
(388)
एकः स्वादु न भुञ्जीत,
एकश्चार्थान्न चिन्तयेत् ।
एको न गच्छेदध्वानम्,
नैकः सुप्तेषु जागृयात् ॥
महाभा. / उद्योग / 33 / 46
(389)
एक एव चरेन्नत्यं सिद्ध्यर्थमसहायकः ।
सिद्धिमेकस्यापश्यन्हि न जहाति न हीयते ॥
नारपरिव्राजकोपनिषद् / 53
(390)
एक एव सुहृद्धर्मो निधनेऽ
प्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥
हितोपदेश. / 1 / 66
(391)
एक एव हितार्थाय तेजस्वी पार्थिवो भुवः ।
युगान्त इव भास्वन्तो बहवोऽ
त्र विपत्तये ॥
पञ्च. / काकोलूकीय / 76
(392)
एकमेव व्रतं श्लाघ्यं ब्रह्नचर्यं जगत्त्रये ।
यद्विशुद्धिं समापन्नाः पूज्यन्ते पूजितैरपि ॥
ज्ञानार्णव
(393)
एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ ।
फलाफलवती शाखे यथैकस्मिन् वनस्पतौ ॥
महाभा. / उद्योग / 4 / 3
(394)
एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।
बहूनां भवति क्षेमं,
तस्य पुण्यप्रदो वधः ॥
विष्णुपुराण / 1 / 13 / 74
(395)
एकस्य कर्म संवीक्ष्य करोत्यन्योऽ
पि गर्हितम् ।
गतानुगतिको लोकः,
न लोकः पारमार्थिकः ॥
पञ्च. / मित्रभेद / 294
(396)
एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् ।
तस्यानेकपरिक्लेशे गृहे किं वसतः फलम् ॥
पञ्च. / काकोलुकीय / 160
(397)
एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः ।
सोऽ
पि संवाह्यते लोके तृष्णया पश्य कौतुकम् ॥
पञ्च. / अपरीक्षितकारक / 13
(398)
एकेनापि हि शूरेण पादाक्रान्तं महीतलम् ।
क्रियते भास्करेणेव परिस्फुरिततेजसा ॥
नीतिशतक / 99
(399)
एकेषां वाचि शुकवदन्येषां हृदि मूकवत् ।
हृदि वाचि तथाऽ
न्येषां वल्गु वल्गन्ति सूक्तयः ॥
पञ्च. / मित्रभेद / 62
(400)
एको देवः केशवो वा शिवो वा,
एकं मित्रं भूपतिर्वा यतिर्वा ।
एको वासः पत्तने वा वने वा,
एका नारी सन्दुरी वा दरी वा ॥
नीतिसतक / 65
(401)
एको धर्मः परं श्रेयः,
क्षमैका शान्तिरुत्तमा ।
विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥
महाभा. / उद्योग / 33 / 52
(402)
एकोऽ
प्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।
राजानां राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥
वा. / रामायण / अयोध्या. / 100 / 24
(403)
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽ
नुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥
कठ उप. / पाँचवीं वल्ली / 12
(404)
एतज्ज्ञेयं नित्यमेवात्मसंस्थ,
वेदितव्यं हि किञ्चित् ।
भोक्ता भोग्यं प्रेरितारं च मत्वा,
सर्वं प्रोक्तं त्रिविधं ब्रह्न ह्येतत् ॥
श्वेताश्वतर उप. / अध्याय -1 / 12
(405)
एतदेवायुषः सारं निसर्गक्षणभङ्गिनः ।
स्निग्धैर्मुधैर्विदग्धैश्च यदयन्त्रितमास्यते ॥
(406)
एतेन ब्रह्नचर्येण देवा देवत्वमाप्नुवन् ।
ऋषयश्च महाभागा ब्रह्नलोकं मनीषिणः ॥
महाभा. / उद्योग / 44 / 20
(407)
एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य ये,
सामान्यास्तु परार्थमुद्यमभृताः स्वार्थविरोधेन ये ।
तेऽ
मी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये,
ये निघ्नन्ति निरर्थकं परहितं,
ते के न जानीमहे ॥
नीतिशतक / 7
(408)
एवं जरा हन्ति च निर्विशेषं,
स्मृतिं च रूपं च पराक्रमं च ।
न चैव संवेगमुपैति लोकः,
प्रत्यक्षतोऽ
पीदृशमीक्षमाणः ॥
(409)
एवं पुनर्ब्रह्नचर्याप्रसक्तो,
हित्वा धर्मं यः करोत्यधर्मम् ।
अश्रद्दधत् परलोकाय मूढो,
हित्वा देहं तप्यते प्रेत्य मन्दः ॥
महाभा. / उद्योग / 27 / 9
(410)
एष सर्वेषु भूतेषु गूढोऽऽ
त्मा न प्रकाशते ।
दृश्यते त्वग्रयया बुद्धया सूक्ष्मदर्शिभिः ॥
कठोपनिषद् / चतुर्थवल्ली / 12
(411)
एष स्वभावो नारीणामनुभूय पुरा सुखम् ।
अल्पामप्यापदां प्राप्य दुष्यन्ति प्रजहत्यपि ॥
वा. रामायण / 2 / 34 / 39
(412)
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
इत्थमाशा-ग्रहग्रस्तैः क्रीडन्ति धनिनोऽ
र्थिभिः ॥
(413)
ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् ।
नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥
मनु. / 8 / 344
(414)
ऐश्वर्यशालिनमहो महताऽऽ
श्रयेण,
सर्वे जनाः सरभसं स्वयमाश्रयन्ते ।
रत्नप्रसूतिरिति खल्वखिलाः स्रवन्त्यः,
पाथोनिधिं समुपयान्ति बहोश्च दूरात् ॥
सूक्तिमुक्तावली/ 5
(415)
ऐश्वर्यस्य विभूषणं सुजनता,
शौर्यस्य वाक्संयमो,
ज्ञानस्योपशमः,
श्रुतस्य विनयो,
वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः,
क्षमा प्रभवितुर्धर्मस्य निर्व्याजता,
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥
नीतिशतक / 78
(416)
ऐश्वर्यादनपेतमीश्वरमयं लोकोऽ
र्थतः सेवते,
ये गच्छन्त्यु तं विपत्तिषु पुनः ते तत्प्रतिष्ठाशयाः ।
भर्तुर्ये प्रलयेऽ
पि पूर्वसुकृतासङ्गेन निःसङ्गया,
भक्त्या कार्यधुरां वहन्ति कृतिनस्ते दुर्लभास्त्वादृशाः ॥
मुद्राराक्षस / 1 / 14
(417)
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
रज्ज्वेव पुरुषं बदध्वा कृतान्तः परिकर्षति ॥
वा. रामायण / सुन्दरका. / 37 / 3
(418)
ओजश्च मे सहश्च आत्मा च मे तनूश्च मे शर्म च मे
वर्म च मेऽ
ङ्गानि च मेऽ
स्थीनि च मे परुूँषि च मे शरीराणि
च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ॥
यजु. / 18 / 3
(419)
ओषधयः समवदन्त सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्नस्तं राजन् पारयमसि ॥
यजु. / 12 / 96
(420)
ओषधीः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥
यजु. / 12 / 77
(421)
ओषधीरितिमातरस्तद्वो देवीरुपब्रुवे ।
सनेयमश्वं गां वास आत्मानं तव पूरुष ॥
यजु. / 12 / 18
(422)
और्वं भृगुवच्छुचिमप्नवानवदा हुवे ।
अग्नं समुद्रवाससम् ॥
साम. / 18
(423)
कः कं शक्तो रक्षितुं मृत्युकाले,
रज्जुच्छेदे के घटं धारयन्ति ।
एवं लोकस्तुल्यधर्मो वनानाम्,
काले काले छिद्यते रुह्यते च ॥
स्वप्नवासषदत्तम्. / 5 / 10
(424)
कः कस्य पुरुषो बन्धः,
किमाप्यं कस्य केनचित् ।
यदेको जायते जन्तुरेक एव विनश्यति ॥
वाल्मीकि रा. / अयोध्याका. / 108 / 3
(425)
कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।
को वाऽ
हं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥
चाणक्यनीति / 4 / 18
(426)
कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते ।
हन्ति रक्षति चैवात्मा ह्यसत्साधु समाचरन् ॥
विष्णुपराण / 1 / 18 / 3
(427)
कः प्रसूते पुरोवातं,
कः प्रेरयति वारिदम्,
प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ।
कालः करोति कार्यणि,
काल एव विहन्ति च,
करोमीति विहन्मीति मूर्खो मुह्यति केवलम् ॥
सभारञ्जनशतक / 63-64
(428)
कटु क्वणन्तो महदायकाः खलाः,
तुदन्त्यलं बन्धनश्रृङ्खला इव ।
मनस्तु साधुध्वनिभिः पदे-पदे,
हरन्ति सन्तो मणिनूपुरा इव ॥
कादम्बरी मु. / 6
(429)
कण्ठस्था या भवेद्विद्या सा प्रकाश्या सदा बुधैः ।
या गुणौ पुस्तके विद्या तया मूढः प्रतार्यते ॥
भोजप्रबन्ध / 4
(430)
कतिपयदिवसस्थायिनी मदकारिणि यौवने दरात्मानः ।
विदधति तथापराधं जन्मैव यथा वृथा भवति ॥
भोज-प्रबन्ध. / 39
(431)
कदा क्षत्रश्रियं नरमा वरुणं करामहे ।
मृडीकायोरुचक्षसम् ॥
ऋ. / 1 /25 / 5
(432)
कनकभूषणसंग्रहणोचितो,
यदि मणिस्त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि च शोभते,
भवति योजयितुर्वचनीयता ॥
पञ्च. / मित्रभेद / 77
(433)
कनकमपि रहस्यवेक्ष्य बुद्ध्या,
तृणमिव यस्समवैति परस्वम् ।
भवति च भगवत्यनन्तचेताः,
पुरुषवरं तमवेहि विष्णुभक्तम् ॥
श्रीविष्णुपुराण / 3 / 7 / 22
(434)
कर्म चैव हि सर्वेषां करणानां प्रयोजनम् ।
श्रेयःपापीयसां चात्र फलं भवति कर्मणाम् ॥
वा. रा. / युद्धका. / 64 / 7
(435)
कर्मणा जायते सर्वं कर्मैव गतिसादनम् ।
तस्मात् सर्वप्रयत्नेन,
साधु कर्म समाचरेत् ॥
विष्णुपुराण / 1 / 18 / 32
(436)
कर्मायत्तम् फलं पुंसाम्,
बुद्धिः कर्मानुसारिणी ।
तथापि सुधियाऽऽ
चार्याः सुविचार्यैव कुर्वते ॥
चाणक्यनीति / 13 / 18
(437)
कवयः किं न पश्यन्ति,
किं न कुर्वन्ति योषितः ।
मद्यपाः किं न जल्पन्ति,
किं न खादन्ति वायसाः ॥
चाणक्यनीति / 10 / 14
(438)
कवित्वं न श्रृणोत्येव,
कृपणः कीर्तिवर्जितः ।
नपुंसकः किं कुरुते,
पुरःस्थित-मृगीदृशा ॥
भोजप्रबन्ध / 130
(439)
कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः ।
विध्यमानश्रुतेर्मा भूद्दुर्जनस्य कथं व्यथा ॥
(440)
कश्चित्तरति काष्ठेन सुगभीरां महानदीम् ।
स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥
महाभा. / शान्तिपर्व / 138 / 62
(441)
कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् ।
कष्टात् कष्टतरञ्चैव परगेह-निवासनम् ॥
चाणक्यनीति / 2 / 8
(442)
कस्य दोषः कुले नास्ति,
व्याधिना को न पीडितः ।
व्यसनं केन न प्राप्तम्,
कस्य सौख्यं निरन्तरम् ॥
चाणक्यनीति / 3 / 1
(443)
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा ।
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥
मेघदूत / उत्तरमेघ / 46
(444)
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तसमये तात. काकः काकः पिकः पिकः ॥
(445)
काकः पट्नवने रतिं न कुरुते,
हंसो न कूपोदके,
मूर्कः पण्डितसङ्गमे न रमते,
दासो न सिंहासने ।
कुस्त्री सज्जनसङ्गमे न रमते,
नीचं जनं सेवते,
या यस्य प्रकृतिः स्वभावजनिता,
केनापि न त्यज्यते ॥
(446)
काकाः किं किं न कुर्वन्ति,
कोङ्कारं यत्र तत्र वा ।
शुक एव परं वक्ति,
नृपहस्तोपलालितः ॥
भोजप्रबन्ध / 192
(447)
का खलेन सह स्पर्धा सज्जनस्याभिमानिनः ।
भाषणं भीषणं साधोर्दूषणं यस्य भूषणम् ॥
(448)
काचः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिम् ।
तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम् ॥
हितोपदेश / प्रस्तावना / 41
(449)
काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते ।
न तेषां सन्निधौ भृत्यो नाममात्रोऽ
पि तिष्ठति ॥
पञ्च. / मित्रभेद / 79
(450)
कान्ताकटाक्षविशिखा न दहन्ति यस्य,
चित्तं न निर्दहति कोपकृशानुतापः ।
कर्षन्ति भूरि विषयाश्च न लोभपाशैर्लोकत्रयं
जयति कृत्स्नमिदं स धीरः ॥
नीतिशतक / 108
(451)
कान्तावियोगः स्वजनापमानः ,
ऋणस्य शेषः कुजनसय् सेवा ।
दरिद्रभावो विषमा सभा च,
विनाग्रिमेते प्रदहन्ति कायम् ॥
चाणक्य / 2 / 14
(452)
कान्तोऽ
सि नित्यमधुरोऽ
सि रसाकुलोऽ
सि,
किं चासि पञ्चशरकार्मुकमद्वितीयम् ।
इक्षो तवास्ति सकलं परमेकमूनम्,
यत्सेवितो भजसि नीरसतां क्रमेण ॥
भोजप्रबन्ध / 234
(453)
कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये ।
तांस्तु सर्वान् परित्यज्य परिव्राट् निर्ममो भवेत् ॥
श्रीविष्णुपुराण / 3 / 9 / 30
(454)
काम-क्रोधग्राहवतीं पञ्चोन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणइ सन्तर ॥
महाभा. / उद्योग. / 4 / 23
(455)
कामधेनुगुणा विद्या ह्यकाले फलदायिनी ।
प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥
चाणक्यनीति / 4 / 5
(456)
कामाभिभूता हि न यान्ति शर्म,
त्रिविष्टपे किं बत मर्त्यलोके ।
कामैः सतृष्ण हि नास्ति
तृप्तिर्यथेन्धनैर्वातसखस्य वह्रेः ॥
(457)
कामार्थौ लिप्समास्तु,
धर्ममेवादितश्चरेत् ।
न हि धर्माद् भवेत् किञ्चिद् दुष्प्राप्यमिति मे मतिः ॥
(458)
कायः सन्निहितापायः सम्पदः क्षणभङ्गुराः ।
समागमाः सापगमाः सर्वेषामेव देहिनाम् ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 179
(459)
कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ।
अर्थार्थी जीवलोकोऽ
यं न कश्चित् कस्यचित् प्रियः ॥
(460)
कार्त्स्न्यन निर्वर्णयितुं च रूपम्,
इच्छन्ति तत्पूर्वसमागमानाम् ।
न च प्रियेष्वायतलोचनानाम्,
समग्रपातीनि विलोचनानि ॥
मालविकाग्निमित्रम् / 4 / 8
(461)
कार्ये कर्माणि निर्वृत्ते यो बहून्यपि सादयेत् ।
पूर्वकार्याविरोधेन स कार्यं कार्त्तुमर्हति ॥
वा. रामायण / सुन्दर का. / 41 / 5
(462)
कालः पचति भूतानि,
कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति,
कालो हि दुरतिक्रमः ॥
चाणक्यनीति / 6 / 7
(463)
कालक्रमेण जगतः परिवर्तमाना ।
चक्रारपङ्क्तिरिव गच्छति भाग्य-पङ्किः ॥
स्वप्नवासवदत्तम् / 1 / 4
(464)
कालाकालौ सम्प्रधार्य बलाबलमथात्मनः ।
परस्परं बलं ज्ञात्वा तत्रात्मानं नियोजयेत् ॥
महाभा. / शा. पर्व. / 140 / 29
(465)
काले तपः काले ज्येष्ठं काले ब्रह्न समाहितम् ।
कालो ह सर्वस्येश्वरो,
यः पिताऽऽ
सीत् प्रजापतेः ॥
अथर्व. / 19 / 53 / 8
(466)
काले प्राप्तं महारत्नं यो न गृहणात्यबुद्धिमान् ।
अन्यहस्तगतं दृष्ट्वा पश्चात् स परितप्यते ॥
अमरुक
(467)
कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।
तमारोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥
अथर्ववेद / 19 / 53 / 1
(468)
कालो भवाय भूतानामभवाय च पाण्डव ।
कालमूलमिदं ज्ञात्वा,
भव स्थैर्यपरोऽ
र्जुन ॥
विष्णुपुराण / 5 / 38 / 55
(469)
किं करोत्येव पाण्डित्यमस्थाने विनियोजितम् ।
अन्धकारप्रतिच्छन्ने घटे दीप इवाहितः ॥
पञ्च. / मित्रभेद / 344
(470)
किं कवेस्तस्य किं काण्डेन धनुष्मतः ।
परस्य हृदये लग्नं नाघूर्णयति यच्छिरः ॥
(471)
किं कुलेन विशालेन विद्याहीने च देहिनाम् ।
दुष्कुलं चापि विदुषो देवैरपि हि पूज्यते ॥
चाणक्यनीति / 8 / 19
(472)
किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् ।
भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥
मृच्छकटिक
(473)
किञ्चित् परस्वं न हरेन्नाल्पमप्रियं वदेत् ।
प्रियं च नानृतं ब्रूयान्नान्यदोषान्नुदीरयेत् ॥
विष्णुपुराण / 3 / 12 / 4
(474)
किं चन्दनैः सकर्पूरैस्तुहिनैः किं च शीतलैः ।
सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ॥
पञ्च. / मित्रसम्प्राप्ति / 60
(475)
किं जातैः बहुभिः पुत्रैः शोकसन्तापकारकैः ।
वरमेकः कुलालम्बी,
यत्र विश्राम्यते कुलम् ॥
चाणक्यनीति / 3 / 17
(476)
किं तया क्रियते धेन्वा,
या न सूते न दुग्धदा ।
कोऽ
र्थः पुत्रेण जातेन,
यो न विद्वान्न भक्तिमान् ॥
पञ्चतनत्र / कथामुख / 5
(477)
किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता ।
धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥
वा. रामायण / किष्किन्धा / 25 / 8
(478)
किं तेन हेमागिरिणा रजताद्रिणा वा,
यत्राश्रिताश्च तरवस्तरवस्त एव ।
मन्यामहे मलयमेव यदाश्रयेण,
कङ्कोलनिम्बकुटजा अपि चन्दनाः स्युः ॥
नीतिशतक / 75
(479)
किं दुःसहं साधूनां,
विदुषां किमपेक्षितम् ।
किमकार्यं कदर्याणाम्,
दुस्त्यजं किं धृतात्मानाम् ॥
श्रीमदभागवत / 10 / 1 / 58
(480)
किं मधुना किं विधुना किं सुधया किं च वसुधयाऽ
खिलया ।
यदि हृदयहारिचरितः पुरुषः पुनरेति नयनयोरयनम् ॥
(481)
किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः ।
सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः ॥
अग्निपुराण / 87 ( 1 ) / 9
(482)
किंशुके किं शुकः कुर्यात् फलितोऽ
पि बुभुक्षितः ।
अदातरि समृद्धेऽ
पि किं कुर्युरुपजीविनः ॥
(483)
किं शेषस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्,
किं वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः ।
किन्त्वङ्गीकृतमुत्सृजन् कृपणवत् श्लाघ्यो जनो लज्जते,
निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् ॥
मुद्राराक्षस / 2 / 18
(484)
कीटोऽ
पि सुमनःसङ्गादारोहति सतां शिरः ।
अश्मापि याति देवत्वं महदभिः सुप्रतिष्ठितः ॥
(485)
कुग्रामवासः कुलहीननसेवा,
कुभोजनं क्रोधमुखी च भार्या ।
पुत्रश्च मूर्खो विधवा च कन्या,
विनाग्निं ते नः प्रदहन्ति कायम् ॥
चाणक्यनीति / 3 / 8
(486)
कुचैलिनं दन्तमलोपधारिणम्,
बह्वाशिनं निष्ठुरभाषिणं च ।
सूर्योदये चास्तमिते शयानम्,
विमुञ्चति श्रीर्यदि चक्रपाणिः ॥
चाणक्यनीति / 15 / 4
(487)
कुटुम्बचिन्ताकुलितस्य पुंसः,
श्रुतञ्च शीलञ्च गुणाश्च सर्वे ।
अपक्वकुम्भे निहिता इवापः,
प्रयान्ति देेहेन समं विनाशम् ॥
पट्नपुराण / 2 / 26 / 158
(488)
कुतो निद्रा दरिद्रस्य,
परप्रेष्यकस्य च ।
परनारी-प्रसक्तस्य,
परद्रव्यहरस्य च ॥
(489)
कुपितोऽ
पि गुणायैव गुणवान् भवति ध्रुवम् ।
स्वभावमधुरं क्षीरं मथितं तु रसोत्तरम् ॥
नराभरण / 30
(490)
कुभोज्येन दिनं नष्टं,
कुकलत्रेण शर्वरी ।
कुपुत्रेण कुलं नष्टं,
तन्नष्टं यन्न दीयते ॥
शार्ङ्गधरपद्धति
(491)
कुमुदवनपश्रि श्रीमदम्भोजषण्डम्,
त्यजति मुदमुलूकः प्रीतिमांशचक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांशुरस्तम्,
हतविधिनिहतानां ही विचित्रो विपाकः ॥
भोजप्रबन्ध / 279
(492)
कुरङ्ग - मातङ्ग - पतङ्ग - पृङ्ग -,
मीना हताः पञ्चभिरेव पञ्च ।
एकः प्रमादी स कथं न हन्यते,
यः सेवते पञ्चभिरेव पञ्च ॥
गरुडपुराण
(493)
कुराजराज्येन कुतः प्रजासुखम्,
कुमित्रमित्रेण कुतोऽ
भिनिर्वृतिः ।
कुदारदारैश्च कुतो गृहे रतिः,
कुशिष्यमध्यापयतः कुतो यशः ॥
चाणक्यनीति / 6 / 14
(494)
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽ
स्ति,
न कर्म लिप्यते नरे ॥
यतु. / 40 / 2
(495)
कुलं च शीलं च सनाथता च,
विद्या च वित्तं च वपुर्वयश्च ।
एतान् गुणान् सप्त विचिन्त्य देया,
कन्या बुधैः शेषमचिन्तनीयम् ॥
पञ्चतन्त्र / काकोलुकीय / 188
(496)
कुलं वृत्तं श्रुतं शौर्यं सर्वमेतन्न गण्यते ।
दुर्वृत्ते वा सुवृत्ते वा,
जनो दातरि रज्यति ॥
(497)
कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः ।
यथोक्तवादी स्मृतिमान् दूतः स्यात् सप्तभिर्गुणैः ॥
(498)
कुले जातो बलवान् यो यशस्वी,
बहुश्रुतः सुखजीवी यतात्मा ।
धर्माधर्मौ ग्रथितौ यो बिभर्त्ति,
स ह्यस्य दिष्टस्य वशादुपैति ॥
महाभा. / उद्योग / 32 / 19
(499)
कुसुमस्तबकस्येव द्वयीवृत्तिर्मनस्विनः ।
मूर्ध्नि वा सर्वलोकानां शीर्यते वन एव वा ॥
नीतिशतक / 15
(500)
कुसुमान्यपि गात्रसंगमात् प्रभवन्त्यायुरपोहितुं यदि ।
न भविष्यति हन्त साधनं किमिवान्यत् प्रहरिष्यतो विधेः ॥
रघुवंश / 8 / 44
(501)
कूपोदकं वटच्छाया,
श्यामा स्त्री चेष्टकालयः ।
शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥
चाणक्यशतक
(502)
कृतं मे दक्षिणे हस्ते,
जयो मे सव्य आहितः ।
गोजिदभूयासमश्वजिद्,
धनञ्जयो,
हिरण्यजित् ॥
अथर्व. / 7 / 50 / 8
(503)
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।
छन्नं संतिष्ठते वैरं,
गूढोऽ
ग्निरिव दारुषु ॥
महाभा. / शान्ति. / 139 / 44
(504)
कृतान्तपाशबद्धानां दैवोपहतचेतसाम् ।
बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥
पञ्च. / मित्रसम्प्राप्ति / 5
(505)
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ।
तान् मृतानपि क्रव्यादाः कृतघ्रान् नोपभुञ्जते ॥
वा. रामायण / किष्किन्धा / 31 / 73
(506)
कृते प्रतिकृतिं कुर्यात्,
हिंसने प्रतिहिंसनम् ।
तत्र दोषो न पतति,
दुष्टे दौष्टयं समाचरेत् ॥
चाणक्यनीति / 17 / 2
(507)
कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः ।
प्रसुप्तो द्रोणपुत्रेण धृष्टद्युम्नः पुरा हतः ॥
पञ्च. / मित्रभेद / 22
(508)
कृपणोऽ
प्यकुलीनोऽ
पि सज्जनैर्वर्जितः सदा ।
सेव्यते स नरो लोके यस्य स्याद् वित्तसंचयः ॥
पञ्चतन्त्र/ मित्रसम्प्राप्ति / 132
(509)
कृषितो नास्ति दुर्भिक्षं,
जपतो नास्ति पातकम् ।
मौनतः कलहो नास्ति,
नास्ति जागरतो भयम् ॥
नीतिशास्त्र / 46
(510)
कृषेर्वृष्टिसमायोगात्,
काले स्युः फलसिद्धयः ।
सधर्मं पौरुषं कुर्यात्,
नालसो न च दैववान् ॥
अग्निपुराण / 89 / 4
(511)
केतकीकुसुमं भृङ्ग,
पीडयमानोऽ
पि सेवते ।
दोषाः किं नाम कुर्वन्ति,
गुणापहृतचेतसः ॥
(512)
केतुं कृण्वन्नकेतवे,
पेशो मर्या अपेशसे ।
समुषद्भिरजायथाः ॥
ऋ. / 1 / 6 / 3
(513)
केनामृतामिदं सृष्टं मित्रमित्यक्षरद्वयम् ।
आपदां च परित्राणं शोकसन्तापभेषजम् ॥
पञ्च. / मित्रसम्प्राप्ति / 61
(514)
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः,
न स्नानं न विलेपनं न कुसुमं नालङकृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते,
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥
नीतिशतक / 19
(515)
केशः काशस्तबक - विकासः,
कायः प्रकटितकरभविलासः ।
चक्षुर्दग्ध - वराटककल्पं,
त्यजति न चेतः काममनल्पम् ॥
(516)
कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः ।
गदितैर्व्यक्ततामेति कुलीनश्चेष्टितैरिव ॥
(517)
कोकिलानां स्वरो रूपम्,
लज्जा रूपं कुलस्त्रियः ।
विद्यायाः पटुता रूपं,
रूपं मूर्खरप मौनता ॥
चाणक्य - राजनीतिशास्त्र
(518)
कोऽ
तिभारः समर्थानां,
किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानाम्,
कः परः प्रियवादिनाम् ॥
पञ्च. / मित्रसम्प्राप्ति / 57
(519)
को धर्मो भूतदया,
किं सौख्यमरोगिता जन्तोः ।
कः स्नेहः सदभावः,
किं पाण्डित्यं परिच्छेदः ॥
(520)
कोऽ
र्थान् प्राप्य न गर्वितो,
विषयिणः कस्यापदोऽ
स्तं गताः,
स्त्रीभिः कस्य न खण्डितं भुवि मनः,
को नाम राज्यप्रियः ।
कः कालस्य न गोचरत्वमगमत्,
कोऽ
र्थी गतो गौरवम्,
को वा दुर्जन-दुर्गुणेषु पतितः क्षेमेण यातः पथि ॥
चाणक्यनीति / 16 / 4
(521)
को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण ।
तप्तं विकृतं मथितं तथापि यत्स्नेहमुद्रिरति ।
शार्ङ्गधरपद्धति
(522)
कौशेयं कृमिजं सुवर्णमुपलाद् दूर्वापि गोरोमतः,
पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् ।
काष्ठदग्निरहेः फणादपि मणिर्गोपित्ततो रोचना,
प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति,
किं जन्मना ॥
पञ्च. / मित्रभेद / 99
(523)
क्रमेलकं निन्दति कोमलेच्छुः,
क्रमेलकः कण्टलम्पटस्तम् ।
प्रीतौ तयोरिष्टभुजोः सभायां,
मध्यस्थता नैकतरोपहासः ॥
नैषधीय - चरित / 6 / 106
(524)
क्रुद्धः पापं न कुर्यात्,
क्रुद्धो हन्याद् गुरूनपि ।
क्रुद्धः परुषया वाचा,
नरः साधूनधिक्षिपेत् ॥
वा. रामा. / सुन्दरका. / 55 / 4
(525)
क्रूरो लुब्धऽ
लसोऽ
सत्यः प्रमादी भीरुरस्थिरः ।
मूढो युद्दावमन्ता च सुखोच्छेद्यो भवेद् रिपुः ॥
पञ्चतन्त्र / काकोलुकीय / 25
(526)
क्रोधो वैवस्वतो राजा,
तृष्णा वैतरणी नदी ।
विद्या कामदुहा धेनुः,
सन्तोषो नन्दनं वनम् ॥
चाणक्यनीति / 8 / 14
(527)
क्रोधो मूलमनर्थानां,
क्रोधः संसारबन्धनम् ।
धर्मक्षयकरः क्रोदस्तस्मात् क्रोधं विवर्जयेत् ॥
(528)
क्रोधोहर्षश्च दर्पश्च,
ह्रीः स्तम्भो मान्यमानिता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥
महाभा. / उद्योग / 33 / 17
(529)
क्वचिद्धर्मः क्वचिन्मैत्री क्वचिदर्थः क्वचिद्यशः ।
कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला ॥
(530)
क्वचिद् भूमौ शय्या क्वचिदपि च पर्यङ्कशयनः,
क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः ।
क्चचित्कन्थाधारी क्वचिदपि च दिव्याम्बधरो,
मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ॥
नीतिशतक / 82
(531)
क्व दोषोऽ
त्र मया लभ्य इति सञ्चिन्त्य चेतसा ।
खलः काव्येषु साधूनां श्रवणाय प्रवर्त्तते ॥
(532)
क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः ।
सन्त्यज्याम्भोजकिञ्जल्कं हंसाः प्राश्नन्ति शैवलम् ॥
(533)
क्षणे रुष्टाः क्षणे तुष्टाः,
रुष्टास्तुष्टाः क्षणे - क्षणे ।
अव्यवस्थितचित्तानां,
प्रसादोऽ
पि भयङ्करः ॥
(534)
क्षतात् किल त्रायत इत्युदग्रः,
क्षत्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किं तद्विपरीतवृत्तेः,
प्राणैरुपक्रोशमलीमसैर्वा ॥
रघुवंश / 2 / 53
(535)
क्षते प्रहारा निपतन्त्यभीक्ष्णम्,
धनक्षये दीव्यति जाठराग्निः ।
आपत्सु वैराणि समुल्लसन्ति,
छिद्रेष्वनर्था बहुलीभवन्ति ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 180
(536)
क्षमा दानं,
क्षमा सत्यं,
क्षमा यज्ञाश्च पुत्रिकाः ।
क्षमा यशः,
क्षमा धर्मः,
क्षमायां विष्ठितं जगत् ॥
वाल्मीकिरामायण / बालकाण्ड / 33 / 8-9
(537)
क्षमा शस्त्रं करे यस्य,
दुर्जनः किं करिष्यति ।
अतृणे पतितो वह्रिः स्वयमेवोपशाम्यति ॥
(538)
क्षमी दाता गुणग्राही स्वामी दुःखेन लभ्यते ।
अनुकूलः शुचिर्दक्षो राजन् भृत्योऽ
पि दुर्लभः ॥
भोजप्रबन्ध / 93
(539)
क्षान्तितुल्यं तपो नास्ति,
सन्तोषान्न सुखं परम् ।
नास्ति तृष्णासमो व्याधिर्न च धर्मो दयापरः ॥
(540)
क्षान्तिश्चेत् कवचेन किं,
किमरिभिः क्रोधोऽ
स्ति चेद्देहिनाम् ।
ज्ञातिश्चेदनलेन किं,
यदि सुहृद् दिव्यौषधैः किं फलम् ॥
किं सर्पैर्यदि दुर्जनाः,
किमु धनैर्विद्यानवद्या यदि ।
व्रीाडा चेत् किमु भूषणैः,
सुकविता यद्यस्ति राज्येन किम् ॥
(541)
क्षिपसि शुकं वृषदंशकवदने,
मृगमर्पयसि मृगादनरदने ।
वितरसि तुरगं महिष-विषाणे,
निदधच्चेतो भोगविताने ॥
(542)
क्षिप्रं विजानाति चिरं श्रृणोति,
विज्ञाय चार्थं भजते न कामात् ।
नासम्पृष्टो ह्यपयुङक्ते परार्थे,
तत्प्रज्ञानं प्रथमं पण्डितस्य ॥
महाभा. / उद्योग / 33 / 22
(543)
क्षीयन्ते सर्वदानानि,
यज्ञहोमबलिक्रियाः ।
न क्षीयेते पात्रदानमभयं यत्तु दोहिनाम् ॥
चाणक्यनीति / 16 / 14
(544)
क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽ
खिलाः ।
क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः ॥
गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदाम् ।
युक्तं तेन जलेन शाम्यति,
सतां मैत्री पुनस्त्वीदृशी ॥
नीतिशतक / 72
(545)
क्षुधासमा नास्ति शरीर-वेदना,
चिन्तासमा नास्ति शरीरशोषणा ।
विद्यासमा नास्ति शरीरभूषणा,
वृत्त्या समा नास्ति शरीरपोषणा ॥
(546)
खनन्नाखुबिलं सिंहः पाषाणशकलाकुलम् ।
प्राप्नोति नखभङ्गं वा फलं वा मूषको भवेत् ॥
पञ्चतन्त्र / काकोलूकीय / 16
(547)
खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽ
हरत् सीतां,
बन्धनं च महोदधेः ॥
(548)
खलः सर्षपमात्राणि परच्छिद्राणि पशयति ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥
(549)
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।
उपानहमुखभङगो वा दूरादेव विसर्जनम् ॥
चाणक्यनीति / 15 / 3
(550)
खलालापाः सोढाः कथमपि तदाराधनपरैः,
निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा ।
कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि,
त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥
वैराग्यशतक / 6
(551)
खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके,
गच्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः,
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥
नीतिशतक / 84
(552)
ख्याता नराधिपतयः कविसंश्रयेण,
राजाश्रयेण च गताः कवयः प्रसिद्धिम् ।
राज्ञः समोस्ति न कवेः परमोपकारी,
राज्ञो न चास्ति कविना सदृशः सहायः ॥
(553)
ख्यातिं गमयति सुजनः,
सुकविर्विदधाति केवलं काव्यम् ।
पुष्णाति कमलम्भो,
लक्ष्मया तु रविर्नियोजयति ॥
(554)
ख्यापनेनानुतापेन तपसाऽ
ध्यनेन च ।
पापकृन्मुच्यते पापात्तथा दानेन चापदि ॥
मनु. 11 / 227
(555)
गङ्गतीरे हिमगिरिशिला-बद्धपट्नासनस्य,
ब्रह्नध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः,
कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥
वैराग्यशतक / 37
(556)
गच्छन् पिपीलको याति योजनानां शतान्यपि ।
अगच्छन् वैनतेयोऽ
पि पदमेकं न गच्छति ॥
(557)
गण्डस्थलेषु मदवारिषु बद्धरागमत्तभ्रमद
भ्रमरपादतलाहतोऽ
पि ।
कोपं न गच्छति नितान्तबलोऽ
पि नागः,
तुल्ये बले तु बलवान् परिकोपमेति ॥
पञ्च. / मित्रभेद / 130
(558)
गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः ।
अर्थेन तु ये हीना वृद्धास्ते यौवनेऽ
पि स्युः ॥
पञ्च. / मित्रभेद / 10
(559)
गतेऽ
पि वयसि ग्राह्या विद्या सर्वात्मना बुधैः ।
इह चेत्स्यान्न फलदा,
फलदा साऽ
न्यजन्मनि ॥
(560)
गते शोको न कर्त्तव्यो भविष्यं नैव चिन्तयेत् ।
वर्त्तमानेन कालेन प्रवर्त्तन्ते विचक्षणाः ॥
चाणक्यनीति. / 13 / 2
(561)
गतोदके सेतुबन्धो न कल्याणि विधीयते ।
उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय ॥
वा. रामायण / अयोध्या / 9 / 5
(562)
गन्धः सुवर्णे फलमिक्षुदण्डे,
नाकारि पुष्पं खलु चन्दनस्य ।
विद्वान् धनी भूपतिर्दीर्घजीवी,
धातः . पुरा कोऽ
पि न बुद्धिदोऽ
भूत् ॥
चाणक्यनीति / 9 / 3
(563)
गर्जति शरदि न वर्षति,
वर्षति वर्षासु निःस्वनो मेघः ।
नीचो वदति न कुरुते,
न वदति सुजनः करोत्येव ॥
नीतिद्विषष्टिका / अनुबन्ध / 29
(564)
गर्जसि मेघ न यच्छसि तोयम्,
चातक-पक्षी व्याकुलितोऽ
हम् ।
दैवादिहैव यदि दक्षिणवातः,
क्व त्वं क्वाहं क्व च जलपातः ॥
(565)
गाङ्गमम्बु सितामम्बु यामुनं ,
कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुभ्रता,
चीयते न च नापजीयते ॥
(566)
गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः,
दृष्टिर्नश्यति वर्धते बधिरता,
वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शूश्रूषते,
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽ
प्यमित्रायते ॥
वैराग्यशतक / 97
(567)
गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहः ।
जरया पुरुषो जीर्णः,
किं हि कृत्वा प्रभावयेत् ॥
वा. रामायण / अयोध्या. / 105 / 23
(568)
गायन्ति देवाः किल गीतकानि,
धन्यास्तु ते भारतभूमिभागे ।
स्वर्गापवर्गास्पदमार्गभूते,
भवन्ति भूयः पुरुषाः सुरत्वात् ॥
विष्णुपुराण / 2 / 3 / 24
(569)
गावो गन्धेन पश्यन्ति,
वेदैः पशयन्ति वै द्विजाः ।
चारैः पश्यन्ति राजानः,
चक्षुर्भ्यामितरे जनाः ॥
पञ्चतन्त्र / काकोलुकीय / 63
(570)
गुणदोषकृतं जन्तुः,
स्वकर्म -फलहेतुकम् ।
अव्यग्रस्तदवाप्नोति,
सर्वं प्रेत्य शुभाशुभम् ॥
वा. रामा. / किष्किन्धा. / 21 / 2
(571)
गुणदोष-समाहारे,
दोषान् गृहणन्त्यसाधवः ।
मुक्ताफलानि सन्त्यज्य,
काका मांसमिव द्विपात् ॥
पट्नपुराण / 1 / 36
(572)
गुणप्रवालं,
विनयप्रशाखम्,
विश्रम्भमूलं महनीयपुष्पम् ।
तं साधुवृक्षं स्वगुणैः फलाढ्यम्,
सुहृदविहङ्गाः सुखमाश्रयन्ति ॥
(573)
गुणाः सर्वत्र पूज्यन्ते,
न महत्योऽ
पि सम्पदः ।
पूर्णेन्दुः किं तथा वन्द्यो,
निष्कलङ्को यथा कृशः ॥
चाणक्यनीति / 16 / 6
(574)
गुणवत्तरपात्रेणच्छाद्यन्ते गुणिनां गुणाः ।
रात्रौ दीपशिखाकान्तिर्न भानावुदिते सति ॥
पञ्च. / मित्रभेद / 33
(575)
गुणवान् वा परजनः,
स्वजनो निर्गुणोऽ
पि वा ।
निर्गुणः स्वजनः श्रेयान्,
यः परः पर एव सः ॥
वा. रा. / युद्धकाण्ड / 88 / 15
(576)
गुणवान् सुचिरस्थायी,
दैवेनापि न सह्यते ।
तिष्ठत्येकां निशां चन्द्रः,
श्रीमान् सम्पूर्णमण्डलः ॥
(577)
गुणाः गुणज्ञेषु गुणा भवन्ति,
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
आस्वाद्यतोयाः प्रभवन्ति नद्यः,
समुद्रमासाद्य भवन्त्यपेयाः ॥
(578)
गुणानामन्तरं प्रायः,
तज्ज्ञो जानाति नेतरः ।
मालिकामल्लिकामोदं,
घ्राणं वेत्ति न लोचनम् ॥
(579)
गुणा यत्र न पूज्यन्ते,
गुणिनां तत्र का कथा ।
नग्नक्षपणके देशे,
रजकः किं करिष्यति ॥
चाणक्यराजनीति -शास्त्र
(580)
गुणिगणगणनारम्भे न पतति कठिनी ससम्भ्रमाद्यस्य ।
तेनाम्बा यदि सुतिनी,
वद वन्ध्या कीदृशी भवति ॥
पञ्चतन्त्र / कथामुख / 6
(581)
गुणेषु क्रियतां यत्नः,
किमाटोपैः प्रयोजनम् ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ।
(582)
गुणैरुत्तमतां यान्ति,
नोच्चैरासनसंस्थिताः ।
प्रासादशिखरस्थोऽ
पि,
किं काको गरुडायते ॥
चाणक्यनीति / 16 / 6
(583)
गुरुपत्नी राजपत्नी,
ज्येष्ठपत्नी तथैव च ।
पत्नी-माता स्वमाता च,
पञ्चैता मातरः स्मृताः ॥
नराभरण / 2 / 8
(584)
गुरुरग्निर्द्विजातीनां,
वर्णानां ब्राह्नणो गुरुः ।
पतिरेव गुरुः स्त्रीणां,
सर्वस्याभ्यागतो गुरुः ॥
चाणक्यनीति / 5 / 1 /
(585)
गुरोरप्यवलिप्तस्य,
कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य,
परित्यागो विधीयते ॥
पञ्च. / मित्रभेद / 25
(586)
गुह्यं मन्त्रं श्रुतवतः,
सुसहायस्य चानघ ।
परीक्ष्यकारिणो ह्यर्थास्तिष्ठन्तीह युधिष्ठिर ॥
महाभा. / 112 / 20
(587)
गूढमैथुनकारित्वं काले काले च संग्रहम् ।
अप्रमत्तनमविश्वासमिति शिक्षेच्च वायसात् ॥
चाणक्यनीति / 6 / 19
(588)
गृहनुत्सृज्य यो राजन्,
मोक्षमेवाभिपद्यते ।
लोकास्तेजोमयास्तस्य,
कल्पन्ते शाश्वती समाः ॥
महाभा. / शान्ति. / 160 / 29
(589)
गृहासक्तस्य नो विद्या,
न दया मांसभोजिनः ।
द्रव्यलुब्धस्य नो सत्यम्,
न स्त्रैणस्य पवित्रता ॥
चाणक्यनीति / 11 / 5
(590)
गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।
प्राप्तविद्या गुरुं शिष्याः,
दग्धारण्यं मृगास्तथा ॥
चाणक्यनीति / 2 / 18
(591)
गोघ्ने च सुरापे च,
चौरे भग्नव्रते तथा ।
निस्कृतिर्विहिता सद्भिः,
कृतघ्ने नास्ति निष्कृतिः ॥
वा. रामायण / किष्किन्धा / 34 / 12
(592)
ग्रहाणां चरितं स्वप्नो निमित्तान्युपवाचिकम् ।
फलन्ति काकतालीयं,
तेभ्यः प्राज्ञा न बिभ्यति ॥
वेणीसंहार / 2 / 15
(593)
ग्रासादपि तदर्धं च,
कस्मान्न दीयतेऽ
र्थिषु ।
इच्छनुरूपो विभवः,
कदा कस्य भविष्यति ॥
पञ्च. / मित्रसम्प्राप्ति / 72
(594)
ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः,
।
श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते ॥
चरक / सूत्रस्थान / 21 / 44
(595)
ग्रीष्मे चादानरूक्षाणां,
वर्धमाने च मारुते ।
रात्रीणां चातिसंक्षेपाद,
दिवास्वप्नः प्रशस्यते ॥
चरक / सूत्रस्थान / 21 / 43
(596)
घातयितुमेव नीचः परकार्यं वेत्ति न प्रसाधयितुम् ।
पातयितुमस्ति शक्तिर्वायोर्वृक्षं न चोन्नमितुम् ॥
पञ्च. / मित्रभेद / 135
(597)
चक्रिणोदशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥
मनु. / 2 / 138
(598)
चक्षुःश्रोत्रे नासिका त्वक् च जिह्वा,
ज्ञानस्यैतान्यायतनानि जन्तोः ।
तानि प्रीतान्येव तृष्णाक्षयान्ते,
तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥
महाभा. / उद्योग / 32 / 25
(599)
चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया ।
स्वेद्यमामज्वरं प्राज्ञः कोऽ
म्भसा परिषिञ्चति ॥
शिशुपालवध / 2 / 54
(600)
चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥
(601)
चरन्वै मधु विन्दति,
चरन् स्वादुमुदुम्बरम् ।
सूर्यस्य पश्य श्रेमाणं,
यो न तन्द्रयते चरन् ॥
ऐतरेय ब्राह्नण
(602)
चलचित्तस्य वै पुंसो,
वृद्धाननुपसेवतः ।
परिप्लवमतेर्नित्यमध्रुवो मित्रसङग्रहः ॥
महाभा. / उद्योगपर्व / 36 / 39
(603)
चलानि हीमानि षडिन्द्रियाणि,
तेषां यद्यद् वर्धते यत्र यत्र ।
ततस्ततः स्रवते बुद्धिरस्य,
छिद्रोदकुम्भादिव नित्यमम्भः ॥
महाभा. / उद्योगपर्व / 36 / 48
(604)
चला लक्ष्मीश्चलाः प्राणाश्चले जीवनमन्दिरे ।
चलाचले च संसारे धर्म एको हि निश्चलः ॥
चाणक्यनीति / 5 / 20
(605)
चामीकरस्य सौरभ्यम्,
अम्लानिर्मालतीस्रजाम् ।
श्रोतुर्निर्मत्सरत्वं च निर्माणगोचरं विधेः ॥
श्री कण्ठचरित / 25 / 1
(606)
चिता-चिन्ता द्वयोर्मध्ये,
चिन्ता ह्येव गरीयसी ।
चिता दहति निर्जीवं,
चिन्ता चैव सजीवकम् ॥
(607)
चित्तं विशोधयेत् तस्मात् किमन्यैः बाह्यशोधनैः ।
भावतः संविशुद्धात्मा स्वर्गं मोक्षं च विन्दति ॥
स्कन्दपुराण / म. कौ. / 42 / 63-63
(608)
चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।
न कूपखननं युक्तं प्रदीप्ते वह्रिना गृहे ॥
शार्ङ्गधर-पद्धति
(609)
चिन्ता-ज्वरो मनुष्याणां क्षुधां निद्रां बलं हरेत् ।
रूपमुत्साहबुद्धी श्रीं जीवितं च न संशयः ॥
स्कन्दपुराण
(610)
चेतः-प्रसादजननं विबुधोत्तमानाम्,
आन्दि सर्वरसयुक्तमतिप्रसन्नम् ।
काव्यं खलस्य न करोति हृदि प्रतिष्ठाम्,
पीयूषपानमिव वक्त्रविवर्त्ति राहोः ॥
(611)
चौराः प्रमत्ते जीवन्ति,
व्याधितेषु चिकित्सकाः ।
राजा विवदमानेषु,
नित्यं मूर्खेषु पण्डिताः ॥
(612)
छाया-सुप्तमृगः शकुन्तनिवहैर्विष्वग्विलुप्तच्छदः,
कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः ।
विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एव द्रुमः,
सर्वाङ्गैर्बहुसत्त्वसङ्गसुखदो भूभारभूतोऽ
परः ॥
पञ्च. / मित्रसम्प्राप्ति / 79
(613)
छित्त्वाऽ
धर्ममयं पाशं यदा धर्मेऽ
भिरज्यते ।
दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुते ॥
महाभारत / शान्तिपर्व / 298 / 4
(614)
छित्त्वा पाशमापस्य कूटरचनां भडक्त्वा बलाद्वागरुराम,
पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ।
व्याधानां शरगोचरादपि जवेनोत्पत्य धावन्मृगः,
कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ॥
पञ्च. / मित्रसम्प्राप्ति / 87
(615)
छिन्दन्ति क्षमया क्रोधं,
कामं संकल्पवर्जनात् ।
सत्त्वसंसेवनान्निद्रामप्रमादाद् भयं तथा ॥
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप ॥
महाभारत/ शान्तिपर्व / 301 / 56-57
(616)
छिन्नोऽ
पि चन्दनतरुर्न जहाति गन्धम्,
वृद्धोऽ
पि वारणपतिर्न जहाति लीलाम् ।
यन्त्रार्पितो मधुरतां न जहाति चेक्षुः,
क्षीणोऽ
पि न त्यजति शीलगुणान् कुलीनः ॥
चाणक्यनीति / 15 / 18
(617)
छिन्नोऽ
पि रोहति तरुः क्षीणोऽ
प्युपचीयते पुनश्चन्द्रः ।
इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ॥
नीतिशतक / 82
(618)
छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम् ।
एतानि दष्टमात्राणाम्,
आयुषः प्रतिपत्तयः ॥
मालविकाग्निनमित्र / 4 / 4
(619)
जनिता चोपनेता च,
यस्तु विद्यां प्रयच्छति ।
अन्नदाता भयत्राता,
पञ्चैते पितरः स्मृताः ॥
चामक्यनीति / 5 / 22
(620)
जन्म-जन्मनि चाभ्यस्तं,
दानमध्ययनं तपः ।
तेनैवाभ्यासयोगेन,
देही चाभ्यस्यते पुनः ॥
चाणक्यनीति / 16 / 19
(621)
जन्ममृत्यु-जरा-व्याधिवेदनाभिरुपद्रुतम् ।
संसारमिममुत्पन्नमसारं त्यजतः सुखम् ॥
हितोपदेश / सन्धि. / 88
(622)
जन्मेदं वन्ध्यतां नीतम्,
भवभोगोपलिप्सया ।
काचमूल्येन विक्रीतो,
हन्त चिन्तामणिर्मया ॥
(623)
जयन्ति ते सुकृतिनो,
रससिद्धाः कवीश्वराः ।
नास्ति येषां यशःकाये,
जरामरणजं भयम् ॥
नीतिशतक / 23
(624)
जरां कृच्छ्रेण लभते,
चिरं जीवत्यनामयः ।
तस्मात् संशोधनं काले,
युक्तियुक्तं पिबेन्नरः ॥
चरक / सूत्रस्थान / 16 / 19
(625)
जरा रूपं हरति धैर्यमाशा,
मृत्युः प्राणान् धर्मचर्यामसूया ।
कामो ह्रियं वृत्तमनार्यसेवा,
क्रोधः श्रियं सर्वमेवाभिमानः ॥
(626)
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥
चाणक्यनीति / 12 / 22
(627)
जले तैलं खले गुह्यं पात्रे दानं मनागपि ।
प्राज्ञे शास्त्रं स्वयं याति विस्तारे वस्तुशक्तितः ॥
चाणक्यनीति / 14 / 4
(628)
जहाति मृत्युं च जरां भयं च,
न क्षुत्पिपासे मनसोऽ
प्रियाणि ।
न कर्त्तव्यं विद्यते तत्र किञ्चित्
अन्यत्र वै चेन्द्रयप्रीणनाद्धि ॥
महाभा. / उद्योग / 27 / 13
(629)
जाड्यं धियो हरति सिञ्चति वाचि सत्यम्,
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दक्षु तनोति कीर्तिम्,
किं किं न साधयति कल्पलतेव विद्या ॥
नीतिशतक / 22
(630)
जातमात्रं न यः शत्रुं रोगं च प्रशमं नयेत् ।
महाबलोऽ
पि तेनैव वृद्धिं प्राप्य स हन्यते ॥
पञ्च. / मित्रभेद / 170
(631)
जातस्य हि ध्रुवो मृत्युः,
ध्रुवं जन्म मृतस्य च ।
तस्मापरिहार्येऽ
र्थे,
न त्वं शोचितुमर्हसि ॥
महाभा. / भीष्मपर्व / 26 / 27
(632)
जानीयात् प्रेषणे भृत्यान् बान्दवान् व्यसनागमे ।
मित्रं चापत्तिकाले तु भार्यां च विभवक्षये ॥
चाणक्यनीति / 1 /11
(633)
जिह्वाया अग्रे मधु मे,
जिह्वामूले मधूलकम् ।
ममेदह क्रतावसो,
मम चित्तमुपायसि ॥
अथर्व. / 1 /34 / 2
(634)
जीवन्तं मृतवन्मन्ये,
देहिनं धर्मवर्जितम् ।
मृतो धर्मोण संयुक्तो,
दीर्घजीवी न संसयः ॥
चाणक्यनीति / 13 / 10
(635)
जीवन्तु म शत्रुगणाः सदैव,
येषां प्रसादात् सुविचक्षणोऽ
हम् ।
यदा यदाऽ
हं स्खलितो भवामि,
तदा तदा मां प्रतिबोधयन्ति ॥
(636)
जीवन्तोऽ
पि मृताः पञ्च,
श्रूयन्ते किल भारत ।
दरिद्रो व्याधितो मूर्खः,
प्रवासी नित्यसेवकः ॥
पञ्च. / मित्रभेद / 210
(637)
जीवितं च शरीरेण,
जात्यैव सह जायते ।
उभे सह विवर्तेते,
उभे सह विनश्यतः ॥
महाभा. / शान्ति / 174 / 22
(638)
ज्ञातीनां वक्तुकामानां,
कटुकानि लघूनि च ।
गिरा त्वं हृदयं वाचं,
शमयस्व मनांसि च ॥
महाभा. शान्तिपर्व / 81 / 22
(639)
ज्ञानं सतां मानमदादिनाशनम्,
केषाञ्चिदेतन्मदमानकारणम् ।
स्थानं विमुक्तं यमिनां विमुक्तये,
कामातुराणामपि कामकारणम् ॥
वैराग्यशतक / 8
(640)
ज्ञान-विज्ञान-तृप्तात्मा,
कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी,
समलोष्ठात्मकाञ्चनः ॥
महाभा. / भीष्मपर्व / 30 / 8
(641)
ज्ञानारामस्य बुद्धस्य,
सर्वभूताविरोधिनः ।
नावृत्तिभयमस्तीह,
परलोकभयं कुतः ॥
महाभा. शान्ति. / 160 / 33
(642)
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं,
प्रकाशयति तत्परम् ॥
महाभारत. / भीष्मप. / 29 / 6
(643)
ज्ञानेन विविधान् क्लेशानतिवृत्तस्य मोहजान् ।
लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ॥
महाभारत / शान्तिपर्व / 329 / 52-53
(644)
ज्यायस्वन्तश्चित्तनो मा वि यौष्ट,
सं राधयन्तः सधुराश्चरन्तः ।
अन्यो अन्यस्मै वल्गु वदन्त एत,
सध्रीचीनान् वः समनस्कृणोमि ॥
अतर्व. / 3 / 30 / 5
(645)
तं दुर्दर्शं गूढमनुप्रविष्टं,
गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं,
मत्वा धीरो हर्षशोकौ जहाति ॥
कठोपनिषद् / द्वितीयवल्ली / 12
(646)
तक्षकस्य विषं दन्ते,
मक्षिका-शिरसि विषम् ।
वृश्चिकस्य विषं पुच्छे,
सर्वंगे दुर्जनस्य च ॥
(
वृद्धचाणक्य)
(647)
तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।
एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ॥
(
योगवासिष्ठ)
(648)
तत्कर्म यन्न बन्धाय,
सा विद्या या विमुक्तये ।
आयासायापरं कर्म,
विद्यान्या शिल्पनैपुणम् ॥
विष्णुपुराण / 1 / 19 / 41
(649)
तत्त्वज्ञः सर्वभूतानां,
योगज्ञः सर्वकर्मणाम् ।
उपायज्ञो मनुष्याणां,
नरः पण्डित उच्यते ॥
महाभा. / उद्योग / 33 / 32
(650)
तत्त्वज्ञस्य तृणं शास्त्रं,
वीरस्य समरं तृणम् ।
विरक्तस्य तृणं नारी,
निःस्पृहस्य नृपस्तृणम् ॥
नराभरण / 12
(651)
तथाऽ
तिव्ययशीलैश्च,
परिवादरतैश्शठैः ।
बुधो मैत्रीं न कुर्वीत,
नैकः पन्थानमाश्रयेत् ॥
विष्णुपुराण / 3 / 12 / 7
(652)
तथा हि वीराः पुरुषा न ते मताः,
जयन्ति ये साश्वरथद्विपानरीन् ।
यथा मता वीरतरा मनीषिणो,
जयन्ति लोलानि षडिन्द्रियाणि ये ॥
(653)
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।
तदेव शुक्रं तद्ब्रह्न ता आपः स प्रजापतिः ॥
यजु. / 32 / 1
(654)
तदगृहं यत्र वसतिस्तदभोज्यं येन जीवति ।
यन्मुक्तये तदेवोक्तं ज्ञानमज्ञानमन्यथा ॥
(
मार्कण्डेयपुराण)
(655)
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
विष्णोर्यत् परमं पदम्
ऋ. / 1 / 22 / 2
(656)
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम्
ऋ. / 1 / 22 / 20
(657)
तनूपाऽ
अग्नेऽ
सि तन्वं मे पाह्यायुर्दाऽ
अग्नेऽ
सि
आयुर्मे देहि वर्च्चोदाऽ
अग्नेऽ
सि वर्च्चो मे देहि ।
अग्ने यन्मे तन्वाऽ
ऊनं तन्म आपृण ॥
यजु. / 3 / 17
(658)
तन्तुं तन्वन् रजसो भानुन्विहि,
ज्योतिष्मतः पथो रक्ष धिया कृतान् ।
अनुल्वणं वयत जोगुवामपो
मनुर्भव जनया दैव्यं जनम् ॥
ऋ. / 10 / 53 / 6
(659)
तपः स्वधर्मवर्त्तित्वं,
मनसो दमनं दमः ।
क्षमा द्वन्द्वसहिष्णुत्वं,
ह्रीरकार्यनिवर्तनम् ॥
महाभा. / वनपर्व / 313 / 88
(660)
तपसा प्राप्यते सत्त्वं,
सत्त्वात् सम्प्राप्यते मनः ।
मनसा प्राप्यते त्वात्मा,
ह्यात्माऽऽ
पत्त्या निवर्त्तते ॥
मैत्रायणी उपनिषद् / 4 / 3
(661)
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः ।
तेन सर्वानवाप्नोति,
यान् कामान् मनसेच्छति ॥
महाभा. / शान्तिपर्व / 232 / 22
(662)
तपोमूलमिदं सर्वं दैवमानुषकं सुखम् ।
तपोमध्यं बुधैः प्रोक्तं,
तपोऽ
न्तं वेददर्शिभिः ॥
मनु. / 11 / 234
(663)
तमीश्वराणां परमं महेश्वरं,
तं दैवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्,
विदाम देवं भुवनेशमीडयम् ॥
श्वेताश्वतर उपनि. / 8 / 7
(664)
तरत्स मन्दी धावति धारा सुतस्यान्धसः ।
तरत्स मन्दी धावति ॥
ऋ. / 9 / 58 / 1
(665)
तरसा ये न शक्यन्ते,
शस्त्रैः सुनिशितैरपि ।
साम्ना तेऽ
पि निगृह्यन्ते,
गजा इव करेणुभिः ॥
महाभा. / शान्ति / 139 / 39
(666)
तर्कोऽ
प्रतिष्ठः श्रुतयोविभिन्नाः,
नासौर्मुनिर्यस्य मतं न भिन्नम् ।
धर्मस्य तत्त्वं निहितं गुहायां,
महाजनो येन गतः स पन्थाः ॥
(667)
तस्मादयतेत पुण्येषु य इच्छेन्महतीं श्रियम् ।
यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥
विष्णुपुराण. / 1 / 19 / 46
(668)
तस्मान्न गोऽ
श्ववत्कश्चिज्जातिभेदोऽ
स्ति देहिनाम् ।
कार्यशक्तिनिमित्तस्तु सङ्केतः कृत्रिमो भवेत् ॥
(669)
तानीन्द्रियाण्यविकलानि तदेव कर्म,
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव,
त्वन्यः क्षणेन भवतीति विचित्रमेतत् ॥
नीतिशतक / 36
(670)
तापं हन्ति सुखं सूते,
जीवयत्युज्ज्वलं यशः ।
अमृतस्य प्रकारोऽ
यं,
दुर्लभः साधुसङगमः ॥
(671)
तावत्प्रीतिर्भवेल्लोके,
यावद्दानं प्रदीयते ।
वत्सः क्षीरक्षयं दृष्ट्वा,
परित्यजति मातरम् ॥
पञ्च. / मित्रसम्प्राप्ति / 52
(672)
तावदस्खलितं यावत्,
सुखं याति समे पथि ।
स्खलिते च समुत्पन्ने,
विषमं च पदे पदे ॥
पंच. / मित्रसम्प्राप्ति / 175
(673)
तावद्रथेन गन्तव्यं,
यावद्रथपथि स्थितः ।
स्थित्वा रथपथिस्थाानं,
रथमुत्सृज्य गच्छति ॥
अमृतानदोपनिषद्. / 3
(674)
तावन्महत्त्वं पाण्डित्यं,
कुलीनत्वं विवेकिता ।
यावज्ज्वलति नाङ्गेषु,
हतः पञ्चेषु-पावकः ॥
श्रृङ्गारशतक / 6
(675)
तीक्ष्णादुदविजते मृदौ परिभव-त्रासान्न सन्तिष्ठते,
मूर्खान् द्वेष्टि न गच्छति प्रणयितामत्यन्तविद्वत्स्वपि ।
शूरेभ्योऽ
प्यधिकं बिभेत्युपहसत्येकान्तभीरूनहो,
श्रीर्लब्धप्रसरेव वेशवनिता दुःखोपचर्या भृशम् ॥
मुद्राराक्षस / 2 / 5
(676)
तीर्थानि तोयपूर्णानि,
देवान् काष्ठादिनिर्मितान् ।
योगिनो न प्रपूज्यन्ते,
खलु स्वात्ययकारणात् ॥
जाबालदर्शनोपनिषद् / 4 / 52
(677)
तीर्थे दाने जपे यज्ञे,
काष्ठे पाषाणके सदा ।
शिवं पश्यति मूढात्मा,
शिवे देहे प्रतिष्ठिते ॥
जाबालदर्शनोपनिषद् / 4 / 57
(678)
तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् ।
अर्धराज्यहरं भृत्यं,
यो न हन्यात्स हन्यते ॥
पञ्च. / मित्रभेद / 192
(679)
तृणादपि लघुस्तूलः,
तूलादपि च याचकः ।
वायुना कििं न नीतोऽ
सौ,
मामयं याचयेदिति ॥
(680)
तृणानि नोन्मूलयति प्रभञ्जनोमृदूनि
तानि प्रणतानि सर्वतः ।
स्वभाव एवोन्नतचेतसामयं,
महान् महत्स्वेव करोति विक्रमम् ॥
पञ्च. / मित्रभेद / 129
(681)
तृणानि भूमिरुदकं,
वाक् चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे,
नोच्छद्यन्ते कदाचन ॥
महाभा. / उद्योग / 33 / 116
(682)
तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः,
सत्यं ब्रूह्यनुयाहि साधु-पदवीं सेवस्व विद्वज्जनान् ।
मान्यान् मानय विद्विषोऽ
प्यनुनय,
प्रख्यापय स्वान् गुणान्,
कीर्तिं पालय दुःखिते कुरु दयामेतत् सतां लक्षणम् ॥
नीतिशतक / 73
(683)
तृष्णो देवि . नमस्तुभ्यं यया वित्तान्विता अपि ।
अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥
पञ्चतंत्र / अपरीक्षितकारक / 74
(684)
ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले ।
आगच्छन्ति गृहे येषां,
कार्यार्थं सुहृदो जनाः ॥
पञ्च. / मित्रभेद / 206
(685)
तेनाधीतं श्रुतं तेन,
तेन सर्वमनुष्ठितम् ।
येनाशाः पृष्ठतः कृत्वा,
नैराश्यमवलम्बितम् ॥
हितोपदेश / 1 / 132
(686)
ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः ।
यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्त्तिताः ॥
(687)
त्यजति किल तं जयश्रीर्जहति च मित्राणि बन्धुवर्गश्च ।
भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ॥
(688)
त्यजेत्क्षुधार्ता महिला स्वपुत्रं ,
खादेत्क्षुधार्ता भुजगी स्वमण्डम् ।
बुभुक्षितः किं न करोति पापं,
क्षीणा नरा निष्करुणा भवन्ति ॥
हितोपदेश / 4 / 60
(689)
त्यजेदेकं कुलस्यार्थे,
ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थ,
आत्मार्थे पृथिवीं त्यजेत् ॥
पञ्च. / मित्रभेद / 307
(690)
त्यागभोगविहीनेन,
धनेन धनिनो यदि ।
भवानः किं न तेनैव,
धनेन धनिनो वयम् ॥
(691)
त्याज्यं न धैर्यं विधुरेऽ
पि काले,
धैर्यात् कदाचित् स्थितिमाप्नुयात् सः ।
याते समुद्रेऽ
पि च पोतभङ्गे,
सांयात्रिको वाञ्छति तर्तुमेव ॥
पञ्चतन्त्र /
(692)
त्रिविधं नरकस्येदं,
द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ॥
महाभा. / उद्योग. / 33 / 70
(693)
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽ
मृतात् ॥
ऋ. / 1 / 3 / 10
(694)
त्वमेव चातकाधारोऽ
सीति कस्य न गोचरः ।
किमम्भोदवरास्माकं कार्पण्योक्तिं प्रतीक्षसे ॥
नीतिशतक / 46
(695)
त्वं हि नः पिता वसो,
त्वं माता शतक्रतो बभूविथ ।
अधा ते सुम्नमीमहे ॥
ऋ. / 8 / 98 / 11
(696)
दंष्ट्राविरहितः सर्पो,
मदहीनो यथा गजः ।
स्थानहीनस्तथा राजा,
गम्यः स्यात् सर्वजन्तुषु ॥
पञ्चत. / काकोलुकीय / 47
(697)
दंष्ट्रिणश्शृङ्गिणश्चैव,
प्राज्ञो दूरेण वर्जयेत् ।
अवश्यायं च राजेन्द्र,
पुरो वातातपौ तथा ॥
विष्णुपुराण / 3 / 12 / 18
(698)
दक्षः श्रियमधिगच्छति,
पथ्याशीः कल्यतां सुखमरोगी ।
उद्युक्तो विद्यान्तं,
धर्मार्थयशांसि च विनीतः ॥
हितोपदेश / विग्रह / 113
(699)
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदर्बुधाः ॥
महाभारत / शान्तिपर्व / 15 / 2
(700)
ददाति प्रतिगृहणाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षडविधं प्रीतिलक्षणम् ॥
पञ्च. / मित्रसम्प्राप्ति / 50
(701)
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम ।
दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ॥
महाभा. / शान्ति. / 160 / 10
(702)
दमेन हि सायुक्तो महान्तं धर्ममश्नुते ।
सुखं दान्तः प्रस्वपिति,
सुखं च प्रतिबुध्यते ॥
महाभा./ शान्तिपर्व / 160 / 12
(703)
दया धर्मस्य मूलं हि,
द्रोहः पापस्य कारणम् ।
तावद्दया न त्यक्तव्या,
यावत्प्राणाः शरीरके ॥
(704)
दरिद्रता धीरतया विराजते,
कुरूपता शीलतया विराजते ।
कुभोजनं चोष्णतया विराजते,
कुवस्त्रता शुभ्रतया विराजते ॥
(
वृद्धचाणक्य)
(705)
दर्शने स्पर्शने वाऽ
पि श्रवणे भाषणेऽ
पि वा ।
यत्र द्रवत्यन्तरङगं स स्नेह इति कथ्यते ॥
प्रसङगाभरण / 26
(706)
दर्शितानि कलत्राणि गृहे भुक्तमशङ्किकतम् ।
कथितानि रहस्यानि सौहृदं किमतः परम् ॥
(707)
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥
मनु. / 6 / 7
(708)
दाक्षिण्यं स्वजने दया परिजने शाठयं सदा दुर्जने ।
प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ॥
शौर्यं शत्रुजने क्षमा गुरुजने नारीजनेऽ
धृष्टता ।
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥
नीतिशतक / 21
(709)
दाक्ष्यं ह्यमर्षः शौर्यं च,
शीघ्रत्वमिति तेजसः ।
गुणाः क्रोधाभिभूतेन,
न शक्याः प्राप्तुमञ्जसा ॥
महाभा. / वनपर्व / 29 / 20
(710)
दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्त्तव्यः ।
पश्येह मधुकरीणां सञ्चितमर्थं महन्त्यन्ये ॥
पञ्चतन्त्र / 2 / 153
(711)
दातव्यमिति यद्दानं,
दीयतेऽ
नुपकारिणे ।
देशे काले च पात्रे च,
तद्दानं सात्त्विकं स्मृतम् ॥
महाभा. / भीष्मपर्व / 41 / 20
(712)
दाता लघुरपि सेव्यो भवति,
न कृपणो महानपि समृद्धया ।
कूपोऽ
न्तः स्वादुजलः प्रीत्यै लोकस्य,
न समुद्रः ॥
पञ्च. / मित्रसम्प्राप्ति / 74
(713)
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।
अभ्यासेन न लभ्येरन् चत्वारः सहजा गुणाः ॥
(
वृद्धचाणक्य )
(714)
दानं दरिद्रस्य विभोः क्षमित्वं,
यूनस्तपो ज्ञानवतश्च मौनम् ।
इच्छानिवृत्तिश्च सुखोचितानां,
दया च भूतेषु दिवं नयन्ति ॥
(715)
दानं धर्मश्च विद्या च,
रूपं शीलं कुलं तथा ।
सुखमायुर्यशश्चैव,
नव गोप्यानि यत्नतः ॥
(
चाणक्यनीतिशास्त्र )
(716)
दानं प्रियवाक्सहितं ज्ञानगर्वं क्षमान्वितं शौर्यम् ।
द्रविणं त्यागनियुक्तं दुर्लभमेतच्चतुष्टयं लोके ॥
हितोपदेश / 1 / 156
(717)
दानं भोगो नाशस्तिसो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥
नीतिशतक / 39
(718)
दानपात्रमतिक्रम्य यदपात्रे प्रदीयते ।
तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्रिकम् ॥
स्कन्दपुराण ( मा० को 5 / 11 )
(719)
दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः ।
एतैर्वर्धयते तेजः पाप्मानं चापकर्षति ॥
महाभा. / शान्तिपर्व / 235 / 7
(720)
दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ ।
व्रतौपवासौ मौनं च स्नानं च नियमा दश ॥
(721)
दानार्थितो मधुकरा यदि कर्णतालैर्दूरीकृताः
करिवरेण मदान्धबुदध्या ।
तस्यैव गण्डयुगमण्डनहानिरेषा,
भृङ्गाः पुनर्विकचपदमवने चरन्ति ॥
(722)
दानेन तुल्यो निधिरस्ति नान्यो,
लोभाच्च नान्योऽ
स्ति रिपुः पृथिव्याम् ।
विभूषणं शीलसमं न चान्यत्,
सन्तोषतुल्यं धनमस्ति नान्यत् ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 155
(723)
दानेन पाणिर्न तु कङ्कणेन,
स्नानेन शुद्धिर्न तु चन्दनेन ।
मानेन तृप्तिर्न तु भोजनेन,
ज्ञानेन मुक्तिर्न तु मण्डनेन ॥
चाणक्यनीति / 17 / 12
(724)
दानेन प्राप्यते स्वर्गः,
श्रीर्दानेनैव लभ्यते ।
दानेन शत्रूञ्जयति,
व्याधिर्दानेन नश्यति ॥
(725)
दानेन लभ्यते विद्या,
पत्नी दानेन प्राप्यते ।
धर्मार्थकाममोक्षाणां,
दानं हि साधनं परम् ॥
(726)
दारिद्रयं यौवने यस्य शैशवे मातृहीनता ।
वार्धक्यं पुत्रहीनत्वं जीवितं तस्य निष्फलम् ॥
कवितामृतकूप / 6
(727)
दारिद्रयरोग-दुःखानि बन्धनव्यसनानि च ।
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥
पञ्च. / काकोलूकीय / 152
(728)
दारिद्रयात् पुरुषस्य बान्धवजनो वाकये न संतिष्ठते,
सुस्निग्धाः विमुखीभवन्ति सुहृदः स्फरीभवन्त्यापदः ।
सत्त्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते,
पापं कर्म च यत्परैरपि कृतं तत्तस्य सम्भाव्यते ॥
मृच्छकटिक
(729)
दारिद्रयान्मरणाद्वा मरणं मम रोचते न दारिद्रयम् ।
अल्पक्लेशं मरणं दारिद्रयमनन्तकं दुःखम् ॥
मृच्छकटिकम् / 1 / 11
(730)
दारेषु किञ्चित्स्वजनेषु किञ्चिद्,
गोप्यं वयस्येषु सुतेषु किञ्चिद् ।
युक्तं न वा युक्तमिति विचिन्त्य,
वदेद्विपश्चन्महतोऽ
नुरोधात् ॥
पञ्च. / मित्रभेद / 15
(731)
दिनचर्यां निशाचर्यामृतुचर्यां यथोदिताम् ।
आचरन् पुरुषः स्वस्थः सदा तिष्ठति नान्यथा ॥
भावप्रकाश / पूर्वखण्ड / 13
(732)
दिवा पश्यति नोलूकः,
काको नक्तं न पश्यति ।
अपूर्वः कोऽ
पि कामान्धो,
दिवानक्तं न पश्यति ॥
(733)
दिवा स्वापं न कुर्वीत,
यतोऽ
सौ स्यात्कफावहः ।
ग्रीष्मवर्ज्येषु कालेषु,
दिवास्वप्नो निषिध्यते ॥
भावप्रकाशा / पूर्वखण्ड / 215
(734)
दिव्यं यूतफलं प्राप्य,
गर्वं नायाति कोकिलः ।
पीत्वा कर्दमपानीयं,
भेको बकबकायते ॥
नराभरण / 68
(735)
दीपाः स्थितं वस्तु विभावयन्ति,
कुलप्रदीपास्तु भवन्ति केचित् ।
चिरव्यतीतानपि पूर्वजान् ये,
प्रकाशयन्ति स्वगुणप्रकर्षात् ॥
(736)
दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।
यदन्तं भक्षयेन्नित्यं जायते तादृशी प्रजा ॥
(
वृद्धचाणक्य )
(737)
दीर्घं वैरमसूया च असत्यं ब्रह्नदूषणम् ।
पैशुन्यं निर्दयत्वं च जानीयाच्छूद्रलक्षणम् ॥
वसिष्ठस्मृति / 6 / 23
(738)
दीर्घ-प्रयासेन कृतं हि वस्तु,
निमेषमात्रेण भजेद् विनाशम् ।
कर्तुं कुलालस्य तु वर्षमेकं,
भेत्तुं हि दण्डस्य मूहूर्तमात्रम् ॥
सूक्तिमुक्तावली / 84
(739)
दुःखितानीह भूतानि,
दृष्ट्वा स्याद् यो न दुःखितः ।
केवलात्महितेच्छेस्तु,
को नृशंसतरस्ततः ॥
महाभा. / अनुशासन पर्व / 50 / 13
(740)
दुःखितोऽ
पि चरेद्धर्मं यत्र कुत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङगं धर्मकारणम् ॥
हितोपदेश / 1 / 81
(741)
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः,
स्थितधीर्मुनिरुच्यते ॥
महाभा. / भीष्मप. / 26 / 56
(742)
दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः ।
स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥
वाल्मीकि रामायण / अयोध्या. / 116 / 22
(743)
दुराचारो हि पुरुषो,
लोके भवति निन्दितः ।
दुःखभागी च सततं,
व्याधितोऽ
ल्पायुरेव च ॥
मनु. / 4 / 157
(744)
दुरधीता विषं विद्या,
अजीर्णे भोजनं विषम् ।
विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥
(
चाणक्यशतक )
(745)
दुर्जनः परिहर्तव्यो विद्यायाऽ
लडकृतोऽ
पि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङकरः ॥
नीतिशतक / 53
(746)
दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥
(747)
दुर्जनदूषितमनसः सुजनेष्वपि नास्ति विश्वासः ।
बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति ॥
हितोपदेश / 4 / 12
(748)
दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमुपयाति ।
दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥
(749)
दुर्जनेषु च सर्पेषु वरं सर्पो न दुर्जनः ।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥
चाणक्यनीति / 3 / 4
(750)
दुर्जनैरुच्यमानानि सस्मितानि प्रियाण्यपि ।
अकालकुसुमानीव भयं संजनयन्ति हि ॥
(751)
दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् ।
प्राप्नोत्यमिताँल्लोकान् वर्णसंस्थां करोति यः ॥
विष्णुपुराण / 3 / 8 / 29
(752)
दुष्टा भार्या शठं मित्रं,
भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासो,
मृत्युरेव न संशयः ॥
चाणक्यनीति / 1 / 5
(753)
दूरस्थोऽ
पि न दूरस्थो,
यो यस्य मनसि स्थितः ।
यो यस्य हृदये नास्ति,
समीपस्थोऽ
पि दूरतः ॥
चाणक्यनीति / 14 / 8
(754)
दुर्लभं भारते वर्षे,
जन्म तस्मान्मनुष्यता ।
मानुषे दुर्लभं चापि,
स्व-स्वधर्मे प्रवर्तिता ॥
पदमपुराण / 80 / 3
(755)
दुष्कराण्यपि कार्यणि,
सिध्यन्ति प्रोद्यमेन वै ।
शिलापि तनुतां याति,
प्रपातेनार्णसो मुहुः ॥
बुद्धचरित / 26 / 63
(756)
दृढं विमृश्य कर्तृणां,
सदा वदनमुज्ज्वलम् ।
निन्दापङकावृतं चापि,
कार्ये साहसकारिणाम् ॥
नीतिकल्पतरु / 6 / 45
(757)
दृढं सतां संगतं चापि नित्यम्,
ब्रूह्याच्चार्थं ह्यर्थकृच्छ्रेषु धीरः ।
महार्थवत् सत्पुरुषेण संगतम्,
तस्मात् सन्तं न जिघांसेत धीरः ॥
महाभा. / उद्योग / 10 / 24
(758)
दृते दृहं मा,
मित्रस्य मा ।
चक्षुषा सर्वाणि भूतानि समीक्षन्ताम ।
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ।
मित्रस्य चक्षुषा समीक्षामहे ॥
यजु. / 36 / 18
(759)
दृते दृहं मा । ज्योक् ते संदृशि जीव्यासम् । ज्योक्
ते संदृशि जीव्यासम् ॥
यजु. / 32 / 19
(760)
दृष्टिपूतं न्यसेत्पादं,
वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाचं,
मनःपूतं समाचरेत् ॥
मनुस्मृति / 6 / 46
(761)
दृष्टवापि दृश्यते दृश्यं,
श्रुत्वापि श्रूयते पुनः ।
सत्यं न साधुवृत्तस्य,
दृश्यते पुनरुक्तता ॥
(762)
दृष्टवा विमिश्रां सुखदुःखतां मे,
राज्यं दास्यं च मतं समानम् ।
नित्यं हसत्येव हि नैव राजा,
न चापि संतप्यत एव दासः ॥
(763)
देव-गो-ब्राह्नणान् सिद्धान् वृद्धाचार्यंस्तथाऽ
र्चयेत् ।
द्विकालं च नयेत् सन्ध्यामग्नीनुपचरेत्तथा ॥
विष्णुपुराण / 3 / 12
(764)
देवानां भद्रा सुमतिर्ऋजूयतां,
देवानां रातिरभि नो
निवर्तताम् । देवानां सख्यमुपसेदिमा वयम् । देवा
न आयुः प्रतिरन्तु जीवसे ॥
ऋ. / 1 / 89 / 1
(765)
देवीं वाचमजनयन्त देवास्तां
विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना
धेनुर्वागस्मानुप सुष्टुतैतु ॥
ऋ. / 8 / 100 / 11
(766)
देवे तीर्थे द्विजे मन्त्रे,
दैवज्ञे भैषज्ये गुरौ ।
यादृशी भावना यस्य,
सिद्धिर्भवति ताद्दशी ॥
(
पंचतन्त्र )
(767)
देवैर्गिरः केऽ
पि कृतार्थयन्ति,
ताः कुण्ठयन्त्येव पुनर्विमूढाः ।
या विप्रुषः शुक्तिमुखेषु दैव्यास्ता
एव मुक्ता न तु चातकेषु ॥
(768)
देवो देवानामसि मित्रो अदभुतो,
वसुर्वसूनामसि चारुरध्वरे ।
शर्मन्त्स्याम एव सप्रथस्तमेऽ
ग्ने,
सख्ये मा रिषामा वयं तव ॥
ऋ. / 1 / 94 / 13
(769)
देशकालौ समासाद्य,
विक्रमेत विचक्षणः ।
देशकाल-व्यतीतो हि,
विक्रमो निष्फलो भवेत् ॥
शान्तिपर्व. / 140 / 28
(770)
देशान्तरेषु बहुविधभाषा-वेशादि येन न ज्ञानम् ।
भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम् ॥
पञ्च. / मित्रभेद / 349
(771)
देहप्रवृत्तिर्या काचिद्,
वर्त्तते परपीडया ।
स्त्रीभोग-स्तेय-हिंसाद्या,
तस्या वेगान् विधारयेत् ॥
चरक / सूत्रस्थान / 7 / 29
(772)
देहि मे ददामि ते,
नि मे धेहि,
नि ते दधे ।
निहारं च हरासि मे,
निहारं न हराणि ते स्वाहा ॥
यजु. / 3 / 50
(773)
देहे पातिनि का रक्षा,
यशो रक्ष्यमपातवत् ।
नरः पतितकायोऽ
पि,
यशःकायेन जीवति ॥
भोजप्रबन्ध / 53
(774)
दोषभीतेरनारम्भस्तत्कापुरुषलक्षण् ।
कैरजीर्णभयाद् भ्रातर्भोजनं परिहीयते ॥
हितोपदेश / सुहृदभेद / 57
(775)
दोषानपि गुणीकर्तुं,
दोषीकर्तुं गुणानपि ।
शक्तो वादी न तत्तथ्यं,
दोषा दोषा गुणा गुणाः ॥
(776)
दौर्गत्यं देहिनां दुःखमपमानकरं परम् ।
येन स्वैरपि मन्यन्ते,
जीवन्तोऽ
पि मृता इव ॥
पञ्च. / मित्रसम्प्राप्ति / 100
(777)
दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनात्,
विप्रोऽ
नध्ययनात् कलं कुतनयाच्छीलं खलोपासनात् ।
ह्रीर्मद्यादनवेक्षणादपि दृषिः स्नेहः प्रवासाश्रयात्,
मैत्री चाप्रणयात् समृद्धिरनयात् त्यागात्प्रमादाद्धनम् ॥
नीतिशतक / 38
(778)
द्रव्यनाशे तथोत्पत्तौ,
पालने च सदा नृणाम् ।
भवन्त्यनेकदुःखानि,
तथैवेष्टविपत्तिषु ॥
विष्णुपुराण / 6 / 5 / 54
(779)
द्रव्ययज्ञैर्यक्ष्यमाणं,
दृष्ट्वा भूतानि बिभ्यति ।
एष माऽ
करुणो हन्यादतज्ज्ञोऽ
सुतृप् ध्रुवम् ॥
श्रीमदभागवत / 7 / 5 / 10
(780)
द्राक्षा म्लानमुखी जााता,
शर्करा चाश्मतां गता ।
सुभाषित-रसस्याग्रे,
सुधा भीता दिवं गता ॥
(781)
द्वन्द्वो द्विगुरपि चाहं,
मदगेहे नित्यमव्ययीभावः ।
तत्पुरुष कर्मधारय,
येनाहं स्यां बहुव्रीहिः ॥
(782)
द्वाविमावम्भसि क्षेप्यौ,
गाढं बध्वा गले शिलाम् ।
धनिनं चाप्रदातारं,
दरिद्रञ्चातपस्विनम् ॥
(783)
द्वाविमौ कण्टकौ तीक्ष्णौ,
शरीरपरिशोषिणौ ।
यश्चाधनः कामयते,
यश्च कुप्यत्यनीशवरः ॥
महाभारत / उद्योग / 33 / 62
(784)
द्वाविमौ पुरुषौ लोके,
स्वर्गस्योपरि तिष्ठतः ।
प्रभुश्च क्षमया युक्तो,
दरिद्रश्च प्रदानवान् ॥
(785)
द्वाविमौ पुरुषौ लोके,
सूर्यमण्डलभेदिनौ ।
परिव्राडयोगयुक्तश्च,
रणे चाभिमुखो हतः ॥
(786)
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्र्नन्नन्यः अभिचाकशीति ॥
ऋ. / 1 / 164 / 20
(787)
द्विषदभिः शत्रुभिः कश्चित्कदाचित्पीडयते न वा ।
इन्द्रियैर्बाध्यते सर्वः,
सर्वत्र च सदैव च ॥
सौन्दरनन्द / 13 / 32
(788)
द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते ।
अब्रुवन् परुषं किञ्चिदसतोऽ
नर्चयंस्तथा ॥
महाभारत / उद्योग / 33 / 61
(789)
धनं लभेत दानेन,
मौनेनाज्ञां विशांम्पते ।
उपभोगांश्च तपसा,
ब्रह्नचर्येण जीवितम् ॥
(
महाभरत )
(790)
धनधान्यप्रयोगेषु,
तथा विद्यागमेषु च ।
आहारे च व्यहारे,
त्यक्तलज्जः सुखी भवेत् ॥
चाणक्यशतक / 35
(791)
धनस्य यस्य राजतो न चौरतोऽ
पि वा भयम् ।
मृतं च यन्न मुञ्चति त्वमर्जयस्व तद्धनम् ॥
(792)
धनानि जीवितं चैव,
परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो,
विनाशे नियते सति ॥
(793)
धनानि भूमौ पशवश्च गोष्ठे,
नारी गृहद्वारि जनाः श्मशाने ।
देहश्चितायां परलोकमार्गे,
धर्मानुगो गच्छति जीव एकः ॥
(794)
धन्यानां गिरि कन्दरे निवसतां,
ज्योतिः परं पश्यताम्,
आनन्दाश्रुकणान् पिबन्ति शकुनाः निश्शंकमङ्केशयाः ।
अस्माकं तु मनोरथोपरचित - प्रासाद - वापी - तट
क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥
वैराग्यशतक. / 90
(795)
धन्यानामुत्तमं दाक्ष्यं,
धनानामुत्तमं श्रुतम् ।
लाभानां श्रेय आरोग्यं,
सुखानां तुष्टिरुत्तमा ॥
महाभारत व० प० / 313 / 74
(796)
धन्या पतिव्रता नारी,
मान्या पूज्या विशेषतः ।
पावनी सर्वलोकानां,
सर्वपापौघनाशिनी ॥
शिवपुराण/ 3 / 54 / 8
(797)
धनैर्निष्कुलीनाः कुलीनाः क्रियन्ते,
धनैरापदो मानवा निस्तरन्ति ।
धनेभ्यो न कश्चित् सुहृद्विद्यतेऽ
न्यो,
धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥
कवितामृतकूप / 47
(798)
धर्मं कृत्वा कर्मणां तात मुख्यम्,
महाप्रतापः सवितेव भाति ।
हीनो हि धर्मेण महीमपीमाम्,
लब्ध्वा नरः सीदति पापबुद्धिः ॥
महाभा. / उद्योग / 27 / 6
(799)
धर्मः पिता क्षमा माता,
दया भार्या गुणाः सुताः ।
कुटुम्बं सुधियस्तस्य,
ह्योतदन्ये तु विभ्रमाः ॥
उदभटश्लोक
(800)
धर्मज्ञं च कृतज्ञं च,
तुष्टप्रकृतिमेव च ।
अनुरक्तं स्थिरारम्भं,
लघुमित्रं प्रशस्यते ॥
(801)
धर्मार्थं नार्थकामार्थमायुर्वेदो महर्षिभिः ।
प्रकाशितो धर्मपरैरिच्छदभिः स्तानमक्षरम् ॥
चरक / सूत्रस्थान
(802)
धर्मार्थं यततामपीह विपदो दैवाद्यदि स्युः क्वचित्,
तत्तासामुपशान्तये सुमतिभिः कार्यो विशेषान्नयः ।
लोके ख्यातिमुपागतात्र सकले लोकोक्तिरेषा यतो,
दग्धानां किल वह्रिना हितकरः सेकोऽ
पि तस्योदभवः ॥
पञ्च. / मित्रभेद / 322
(803)
धर्मार्थं यस्य वित्तेहा,
वरं तस्य निरीहता ।
प्रक्षालनाद्धि पङ्कस्य,
दूरादस्पर्शनं वरम् ॥
महाभारत
(804)
धर्मार्थकाममोक्षाणां,
यस्यैकोऽ
पि न विद्यते ।
अजागलस्तनस्येव,
तस्य जन्म निर्थकम् ॥
चाणक्यनीति / 3 / 20
(805)
धर्म्यं यशस्यमायुष्यं लोकद्वयरसायनम् ।
अनुमोदामहे ब्रह्नचर्यमेकान्तनिर्मलम् ॥
(
अष्टांगहृदय )
(806)
धिक् तस्य जन्म यः पित्रा,
लोके विज्ञायते नरः ।
यः पुत्रात् ख्यातिमभ्येति,
तस्य जन्म सुजन्मनः ॥
(807)
धीरस्सदा रचयते हि परोपकारं,
वाक्यं कठोरमपि तस्य दयार्द्रगर्भम् ।
निर्वान्त-तोयनिवहैर्जलदैर्विसृष्टावर्षोपला
दधति शीतलवारिगर्भम् ॥
सूक्तिमुक्तावली / 125
(808)
धृतिः क्षमा दमोनस्तेयं,
शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो,
दशकं धर्मलक्षणम् ॥
मनु. / 6 / 92
(809)
धृतिर्दाक्ष्यं संयमो बुद्दिरात्मा,
धैर्यं शौर्यं देश-कालाप्रमादः ।
अल्पस्य वा बहुनो वा विवृद्धौ,
धनस्यैतान्यष्ट समिन्धनानि ॥
महाभारत / शान्तिपर्व / 120 / 37
(810 )
न करोति यतः पातं,
पित्रोः शोकमहोदधौ ।
अपत्यत्वमपत्यस्य,
तद्वदन्ति सुमेधसः ॥
पट्नपुराण / 31 / 153
(811)
न कर्मणां विप्रणाशोऽ
स्त्यमुत्र,
पुण्यानामथवा पापकानाम् ।
पूर्वं कर्तुर्गच्छति पुण्यपापम्,
पश्चात् त्वेनमनुयात्येव कर्ता ॥
महाभा. / उद्योग / 27 / 10
(812)
न कश्चित्कस्यचिन्मित्रं,
न कश्चित् कस्यचिद्रिपुः ।
व्यवहारेण जायन्ते,
मित्राणि रिपवस्तथा ॥
हितोपदेश / मित्रलाभ / 72
(813)
न कश्चित्कस्यचिन्मित्रं,
न कश्चित् कस्यचिद्रिपुः ।
अर्थतस्तु निबध्यन्ते,
मित्राणि रिपवस्तथा ॥
महाभा. / शान्ति. / 138 / 110
(814)
न कश्चिदपि जानाति,
किं कस्य श्वो भविष्यति ।
अतः श्वः-करणीयानि,
कुर्यादद्यैव बुद्धिमान् ॥
(815)
न कश्चिदात्मनः शत्रुं,
नात्मानं कस्यचिद्रिपुम् ।
प्रकाशयेन्नापमानं,
न च निःस्नेहतां प्रभोः ॥
भावप्रकाश / दिनचर्यादिप्रकरण / 253
(816)
नक्रः स्वस्थानमासाद्य,
गजेन्द्रमपि कर्षति ।
स्वस्थानात् परिभ्रष्टः,
शुनाऽ
पि परिभूयते ॥
पञ्चतन्त्र / काकोलूकीय / 44
(817)
न गच्छेत्पूज्ययोर्मध्ये,
दम्पत्योरन्तरेण च ।
रिपोरन्नं न भुञ्जीत,
गणिकान्नमपि क्वचित् ॥
भावप्रकाश / दिनचर्या / 268
(818)
न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम् ।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥
(819)
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृहं हि गृहिणीहीनमरण्यसदृशं मतम् ॥
पञ्चतन्त्र / काकोलूकीय / 143
(820)
न गोप्रदानं न महीप्रदानं न चान्नदानं हि तथा प्रधानम् ।
यथा पदन्तीह बुधाः प्रधानं सर्वप्रधानेष्वभयप्रदानम् ॥
पञ्च. / मित्रभेद / 234
(821)
न च शत्रुरवज्ञेयो,
दुर्बलोऽ
पि बलीयसा ।
अल्पोऽ
पि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥
महाभारत / शान्तिपर्व / 58 / 17
(822)
न च हसति नाभ्यसूयति,
न परान् परिभवति नानृतं वदति ।
नाक्षिप्य कथां कथयति,
लक्षणमेतत् कुलीनस् ॥
नीतिद्विषष्टिका / 75
(823)
न चैष धर्मो वन एव सिद्धः,
पुरेऽ
पि सिद्धिर्नियता यतीनाम् ।
बुद्धिश्च यत्नश्च निमित्तमत्र,
वनं च लिङ्गं च हि भीरुचिह्रम् ॥
(824)
न चौरहार्यं,
न च राजहार्यम्,
न भ्रातृ भाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यम्,
विद्याधनं सर्वधनप्रधानम् ॥
(825)
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव,
भूय एवाभिवर्धते ॥
महाभारत / आदिपर्व / 75 / 50
(826)
न जात्या ब्राह्नणश्चात्र,
क्षत्रियो वैश्य एव न ।
न शूद्रो न च वै म्लेच्छो,
भेदिता गुणकर्मभिः ॥
शुक्रनीति / 1 / 38
(827)
न तच्छस्त्रैर्न नागेर्न्द्रर्न हयैर्न पदातिभिः ।
कार्यं संसिद्धिमभ्येति,
यथा बुद्धया प्रसाधितम् ॥
पञ्च. / मित्रभेद / 131
(828)
न तज्जलं यन्न सुचारुपङ्कजं,
न पङ्कजं तद् यदलीनषटपदम् ।
न षटपदोऽ
सौ न जुुगुञ्ज यः कलं,
न गुञ्जितं तन्न जहार यन्मनः ॥
(829)
न तत्र सूर्यो भाति न चन्द्र-तारकम्,
नेमा विद्युतो भान्ति कुतोऽ
यमग्निः ।
तमेव भान्तनुमाति सर्वम्,
तस्य भासा सर्वमिदं विभाति ॥
प्रश्नोपनिषद् / 2 / 15
(830)
न तस्य बीजं रोहति रोहकाले,
न तस्य वर्षं वर्षति वर्षकाले ।
भीतं प्रपन्नं प्रददाति शत्रवे,
न स त्रातारं लभते त्राणमिच्छन् ॥
महाभा. / उद्योग / 12 / 19
(831)
न त्वेव मन्ये पुरुषस्य कर्म,
संवर्तते सुप्रयुक्तं यथावत् ।
मातुः पितुः कर्मणाभिप्रसूतः,
संवर्धते विधिवद् भोजनेन ॥
महाभा. / उद्योग / 32 / 26
(832)
न दद्यादामिषं श्राद्धे,
न चाद्याद्धर्मतत्त्ववित् ।
मुन्यन्नैः स्यात् परा प्रीतिर्यथा न स्यात् पशुहिंसया ॥
श्रीमदभागवत / 7 / 15 / 3
(833)
न देवा यष्टिमादाय,
रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति,
धिया संयोजयन्ति तम् ॥
चाणयक्तराजनीति / 6 / 37
(834)
न देशो मनुजैर्हीनो,
न मनुष्या निरामयाः ।
ततः सर्वत्र वैद्यानां,
सुसिद्धा एव वृत्तयः ॥
भावप्रकाश / दैनिकचर्या
(835)
न दैवमपि सञ्चिन्त्य,
त्यजेदुद्योगमात्मनः ।
अनुद्योगेन तैलानि,
तिलेभ्यो नाप्तुमर्हति ॥
हितोपदेश / प्रस्तावना / 32
(836)
न धर्मशास्त्रं पठतीति कारणं,
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते,
यथा प्रकृत्या मधुरं गवां पयः ॥
हितोपदेश / 1 / 17
(837)
न पञ्चसाधारणमत्र किञ्चिच्छरीरमेको वहतेऽ
न्तरात्मा ।
स वेत्ति गन्धांश्च रसान् श्रतीश्च,
स्पर्शं च रूपं च गुणाश्च येऽ
न्ये ॥
महाभा. / शान्ति. /187 / 19
(838)
न पश्यति जन्मान्धः,
कामान्धो नैव पश्यति ।
न पश्यति मदोन्मत्तो,
ह्यर्थी दोषान्न पश्यति ॥
(
वृद्धचाणक्य )
(839)
न पिता नात्मजो नात्मा,
न माता न सखीजनः ।
इह प्रेत्य च नारीणां,
पतिरेको गतिः सदा ॥
वाल्मीकि-रामायण / 2 / 175
(840)
न भवति,
भवति च न चिरं,
भवति चिरं चेत्,
फले विसंवदति ।
मन्युः सत्पुरुषाणां,
तुल्य-स्नेहेन नीचानाम् ॥
(841)
न भूतपूर्वो न च केन दृष्टो,
हेम्नः कुरङ्गो न कदापि वार्ता ।
तथापि तृष्णा रघुन्दनस्य,
विनाशकाले विपरीतबुद्धिः ॥
(842)
न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् ।
न तस्य विश्वसेत्प्राज्ञो,
यदीच्छेच्छियमात्मनः ॥
पञ्च. / मित्रभेद / 205
(843)
नरस्याभरणं रूपं,
रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं,
ज्ञानस्याभरणं क्षमा ॥
नराभरण / 2
(844)
न रागान्नाप्यविज्ञानादाहारानुपयोजयेत् ।
परीक्ष्य हितमश्र्नीयाद्,
देहो ह्याहारसंभवः ॥
(
चरक )
(845)
न राज्ञा मृदुना भाव्यं,
मृदुर्हि परिभूयते,
न भाव्यं दारुणेनातितीक्ष्णादुद्विजते जनः ।
काले मृदुर्यो भवति,
काले भवति दारुणः,
राजा लोकद्वयापेक्षी,
तस्य लोकद्वयं भवेत् ॥
मत्स्यपुराण / 220 / 22, 24
(846)
न रात्रौ दधि भुञ्जीत,
न च निर्लवणं तथा ।
नामुदगसूपं नाक्षैद्रं,
न चाप्यघृतशर्करम् ॥
भावप्रकाश / दिनचर्या प्र. / 256
(847)
नवं वस्त्रं,
नवं छत्रं,
नव्या स्त्री,
नूतनं गृहम् ।
सर्वत्र नूतनं शस्तं,
सेवकान्ने पुरातने ॥
(
नीतिप्रदीप )
(848)
न वध्यन्ते ह्यविश्वस्ता,
बलिभिर्दुर्बला अपि ।
विश्वस्तास्त्वेव वध्यन्ते,
बलवन्तोऽ
पि दुर्बलैः ॥
पञ्च. / मित्रभेद / 119
(849)
नवनीतोपमा वाणी,
करुणाकोमलं मनः ।
धर्मबीजप्रसूतानामेतत् प्रत्यक्षलक्षणम् ॥
(850)
न वा उ देवाः क्षुधमिद्वधं
ददुरुताशितमुपगच्छन्ति मृत्यवः ।
उतो रयिः पृणतो
नोपदस्यत्युतापृणन्मर्डितारं न विन्दते ॥
ऋ. / 10 / 117 / 1
(851)
न वाच्यः परिवादोऽ
यं,
न श्रोतव्यः कथञ्चन ।
कर्णावपि पिधातव्यौ,
प्रस्थेयं चान्यतो भवेत् ॥
महाभारत,
शान्तिपर्व / 132 / 12
(852)
न वित्तं दर्शयेत्प्राज्ञः,
कस्यचित्स्वल्पमप्यहो ।
मुनेरपि यतस्तस्य,
दर्शनाच्चलते मनः ॥
पञ्च. / मित्रभेद / 352
(853)
न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः ।
कोपाग्निः शाम्यते राजंस्तोयाग्निरिव सागरे ॥
महाभा. / शान्ति. / 139 / 45
(854)
न विश्वसेत् कुमित्रे च,
मित्रे चापि न विश्वसेत् ।
कदाचित् कुपितं मित्रं,
सर्वं गुह्यं प्रकाशयेत् ॥
चाणक्यनीतिदर्पण / 2 / 6
(855)
न विश्वसेदविश्वस्ते,
विश्वस्तेऽ
पि न विश्वसेत् ।
विश्वासादभयमुत्पन्नं,
मूलान्यपि निकृन्तति ॥
पञ्च. / मित्रसम्प्राप्ति / 45
(856)
न वेगान् धारयेद्धीमान्,
जातान् मूत्रपुरीषयोः ।
न रेतसो न वातस्य,
न वम्याः क्षवथोर्न च ॥
नोदगारस्य न जृम्भाया,
न वेगान् क्षुत्पिपासयोः ।
न बाष्णस्य न निद्राया,
निःश्वासस्य श्रमेण च ॥
चरक / सूत्रस्थान / 7 / 3-4
(857)
न वेेगितोऽ
न्यकार्यः स्यान्न वेगान्नीरयेदबलात् ।
काम-शोक-भय-क्रोधान्,
मनोवेगान् विधारयेत् ॥
भावप्रकाश / दिनचर्या / 21
(858)
नवे वयसि यः शान्त,
स शान्त इित कथ्यते ।
धातुषु क्षीयमाणेषु,
शमः कस्य न जायते ॥
( 859)
नवोऽ
र्थो जातिरग्राम्या,
श्लेषोऽ
क्लष्टः स्फुटो रसः ।
विकटाक्षरबन्धश्च,
कृत्स्नमेकत्र दुष्करम् ॥
(860)
नष्टं द्रव्यं प्राप्यते ह्युद्यमेन,
नष्टा विद्या प्राप्यतेऽ
भ्यासयुक्त्या ।
नष्टारोग्यं सूपचारैः सुसाध्यं,
नष्टा वेला या गता सा गतैव ॥
(861)
नष्टं मृतमतिक्रान्तं,
नानुशोचन्ति पण्डिताः ।
पण्डितानां च मूर्खाणां विशेषोऽ
यं यतः स्मृतः ॥
पञ्च. / मित्रभेद / 284
(862)
न संशयमनारुह्य,
नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य,
यदि जीवति पश्यति ॥
महाभा. / शान्ति. / 140 / 34
(1)
अकर्त्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम् ।
तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥
(2)
अकर्मशीलं च महाशनं च,
लोक-द्विष्टं बहुमायं नृशंसम् ।
अदेशकालज्ञमनिष्ट वेषम्,
एतान् गृहे न प्रतिवासयेत् ॥
महाभा/उद्योग,/37/35
॥
(3)
अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः ।
त्वं तस्यामित्रहन्वधर्दासस्य दम्भय ॥
ऋ./10/22/8
(4)
अकामो धीरो अमृतः स्वयम्भू रसेन तृप्तो न कुतश्चिदूनः ।
तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥
अथर्व,/10/8/44
(5)
अकालेऽ
तिप्रसङ्गाच्च,
न च निद्रा निषेवितााा ।
सुखायुषा परा कुर्यात्कालरात्रिरिवापरा ॥
चरक. / सूत्रस्थान /36
(6)
अकिञ्चनाश्च दृश्यन्ते,
पुरुषाश्चिरजीविनः ।
समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ॥
महाभाः /शा. प. /28 /22
(7)
अकृत्यं नैव कर्त्तव्यं प्राणत्यागेऽ
पि संस्थिते ।
न च कृत्यं परित्याज्यम्,
एष धर्मः सनातनः ॥
(8)
अकृत्वा परसन्तापमगत्वा खलनम्रताम् ।
अनुत्सृज्य सतां मार्गं,
यत्स्वल्पमपि तद् बहु ॥
(9)
अक्रन् कर्म कर्मकृतः,
सह वाचा मयोभुवा ।
देवेभ्यः कर्म कृत्वाऽ
स्तं प्रेत सचाभुवः ॥
यजु. /3 /47
(10)
अक्रोधना धर्मपराः,
सत्यनित्या दमे रताः ।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥
महाभा, /
अनु./22/33
(11)
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदघ्रास उपकक्षास उ त्वे,
ह्रदा इव स्नात्वा उ त्वे ददृशिरे ॥
ऋग्. /10 /71 /7
(12)
अक्षरस्यापि चैकस्य पदार्धस्य पदस्य वा ।
दातारं विस्मरन् पापी,
किं पुनर्धर्मदेशिनम् ॥
हरिवंशपु. /21 /15 / 6
(13)
अक्षासं इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः ।
कुमारदेष्णा जयतः पुनर्हणो मध्वः संपृक्ताः कितवस्य बर्हणाः ॥
ऋ /10 /34 / 7
(14)
अक्षैर्मा दीव्यः कृषिमित्कृषस्व,
वित्ते रमस्व बहु मन्यमानः ।
तत्र गावः कितव तत्र जाया,
तन्मे विचष्टे सवितायमर्यः ॥
ऋ. /10 / 34 / 13
(15)
अगाधे विमले शुद्धे,
सत्यतोये श्रुतिह्रदे ।
स्नातव्यं मानसे तीर्थे,
सत्यमालम्ब्य शाश्वतम् ॥
महाभा. /अनुशा. / 2 /9
(16)
अग्निहोत्रफला वेदाः,
शीलवृत्त-फलं श्रुतम् ।
रति-पुत्रफला दाराः,
दत्तभुक्तफलं धनम् ॥
(17)
अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा ।
दर्शेन चार्धमासान्ते,
पौर्णमासेन चैव हि ॥
मनु. / 4 / 25
(18)
अग्ने तपस्तप्यामहे,
उपतप्यामहे तपः ।
श्रुतानि शृण्वन्तो,
वयमायुष्मन्तः समेधसः ॥
अथर्व /7 / 61 /2
(19)
अग्ने त्वं सुजागृहि वयं सु मन्दिषीमहि ।
रक्षा णो अप्रयुच्छन् प्रबुधे नः पुनस्कृधि ॥
यजु. /4 /14
(20)
अग्ने व्रतपते व्रतं चरिष्यामि,
तच्छकेयम्,
तन्मे राध्यताम् ।
इदमहमनृतात् सत्यमुपैमि ॥
यजु. /1 / 5
(21)
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥
मनु. / 3 /76
(22)
अङ्गं गलितं पलितं मुण्डम्,
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डम्,
तदपि न मुञ्चत्याशा पिण्डम् ॥
चर्पटपञ्जरिका / 6
(23)
अङ्गारसदृशी नारी,
घृतकुम्भसमः पुमान् ।
तस्मान्नारीषु संसर्गं दूरतः परिवर्जयते ॥
लिङ्गपुराण / 8 / 23
(24)
अचोद्यमानानि यथा,
पुष्पाणि फलानि च ।
स्वं कालं नातिवर्त्तन्ते,
तथा कर्म पुरा कृतम् ॥
महाभा. / शान्ति. / 181 / 12
(25)
अच्छेद्योऽ
यमदाह्योऽ
यमक्लेद्योऽ
शोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोनयं सनातनः ॥
महाभा. / भूष्म. / 26 / 24
(26)
अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु,
मृत्युना धर्ममाचरेत् ॥
हितोपदेश / मित्रलाभ / 3
(27)
अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।
यतस्तौ स्वल्पदुःखाय,
यावज्जीवं जडो दहेत् ॥
पञ्चत. / कथामुख / 4
(28)
अजानन् माहात्म्यं पततु शलभो दीपदहने,
स मीनोऽ
प्यज्ञानाद् बडिशयुतमशनातु पिशितम् ।
विजानन्तोऽ
प्येते वयमिह विपज्जालजटिलान्,
न मुञ्चामः कामानहह । गहनो मोहमहिमा ॥
वैरग्यशतक / 19
(29)
अजीर्णे भेषजं वारि,
जीर्णे वारि बलप्रदम् ।
भोजने चामृतं वारि,
भोजनान्ते विषप्रदम् ॥
(30)
अज्ञः सुखमाराध्यः,
सुकतरमाराध्यते विशेषज्ञः ।
ज्ञान-लवदुर्विदग्धं,
ब्रह्नापि नरं न रञ्जयति ॥
नीतिशतक / 2
(31)
अञ्जनस्य क्षयं दृष्ट्वा,
वल्मीकस्य च सञ्चयम् ।
अवन्ध्यं दिवसं कुर्यात्,
दानाध्ययन-कर्मभिः ॥
(32)
अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
हेम्नः कठिनस्यापि द्रवणोपायोऽ
स्ति न तृणानाम् ॥
(33)
अतिथिर्यस्य भग्नाशो,
गृहात्प्रतिनिवर्त्तते ।
स दत्त्वा दुष्कृतं तस्मै,
पुण्यमादाय गच्छति ॥
महाभा. / शा. / 191 / 12
(34)
अतिथीनन्नपानेेन,
भृत्यानत्यशनेन च ।
सम्भोज्य शेषश्नीमस्तस्मान्मृत्युभयं न नः ॥
(35)
अतिदानाद् बलिर्बद्धो,
नष्टो मानात् सुयोधनः ।
विनष्टो रावणो लौल्याद्,
अति सर्वत्र वर्जयेत् ॥
(36)
अतिद्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा ।
अथा पितन्त्सुविदत्राँ उपेहि यमेन ये सधमादं मदन्ति ॥
ऋ. / 10 / 14 / 10
(37)
अतिपरिचयादवज्ञा भवति विशिष्टेऽ
पि वस्तुनि प्रायः ।
लोकः प्रयागवासी कूपस्नानं सदाचरति ॥
(38)
अतिमानोऽ
तिवादश्च,
तथाऽ
त्यागो नराधिप ।
क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट् ॥
एत एवासयस्तीक्ष्णः,
कृन्तन्त्यायूंषि देहिनाम् ।
एतानि मानवान् घ्रन्ति,
न मृत्युर्भद्रमस्तु ते ॥
महाभा. / उद्योगपर्व / 37 / 10 - 11
(39)
अतिवाहितमतिगहनं,
विनापवादेन यौवनं येन ।
दोषनिधाने जन्मनि किं न प्राप्तं फलं तेन ॥
(40)
अतृणे पतितो वह्रिः स्वयमेवोपशाम्यति ।
अक्षमावान् परं दोषैरात्मानं चैव योजयेत् ॥
(41)
अत्यम्बुपानान्न विपच्यतेऽ
न्नम्,
निरम्बुपानाच्च स एव दोषः ।
तस्मान्नरो वह्रिविवर्धनाय,
मुहुर्मुहुर्वारि पिबेद् भूरि ॥
क्षेमकुतूहल
(42)
अत्यम्बुपानाद्विषमाशनाच्च,
सन्धारणात् स्वप्नविपर्ययाच्च ।
कालेऽ
पि सात्म्यं लघु चापि भुक्तम्,
अन्नं न पाकं भजते नरस्य ॥
(43)
अत्यन्तवैराग्यवतः समाधिः,
समाहितस्यैव दृढः प्रबोधः ।
प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः ,
मुक्तात्मनो नित्यसुखानुभूतिः ॥
विवेकचूडामणि - 376
(44)
अदान्तः पुरुषः क्लेशमभूक्ष्णं प्रतिपद्यते ।
अनर्थांश्च बहूनन्यान्,
प्रसृजत्यातात्मदोषजान् ॥
(45)
अदान्तो ब्राह्नणोऽ
साधुर्निस्तेजाः क्षत्रियो मृतः ।
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥
महाभा. / सौप्तिकपर्व / 320
(46)
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं,
तत्तामसमुदाहृतम् ॥
महाभारत / भीष्मप. / 22
(47)
अद्भिर्गात्राणि शुध्यन्ति,
मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा,
बुद्धिर्ज्ञानेन शुध्यति ॥
मनु. / 5 / 109
(48)
अद्भिः शुध्यन्ति गात्राणि,
बद्धिर्ज्ञानेन शुद्धयति ।
अहिसया च भूतात्मा,
मनः सत्येन शुद्धति ॥
बौधायन / धर्मसूत्र / 1 /5 /1
(49)
अद्यापि नोज्झति हरः किल कालकूटम्,
कूर्मो बिभर्ति धरणीं खलु चात्मपृष्ठे ।
अम्भोनिधिर्वहति दुृःसहवाडवाग्निम्,
अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥
(50)
अद्यैव कुरु तच्छ्रेयो,
मात त्वां कालोऽ
तिगान्महान् ।
को हि जाानाति कस्याद्य,
मृत्युकालो भविष्यति ॥
महाभा. / शान्तिप. / 277 / 14
(51)
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च,
शीलमेतद् विदुर्बुधाः ॥
(52)
अधः पश्यस्व मोपरि सन्तरां पादकौ हर ।
मा ते कशप्लकौ दृशन्,
स्त्री हि ब्रह्ना बभूविथ ॥
ऋ. / 8 . 33 / 19
(53)
अधर्मं धर्ममिति या,
मन्यते तमसावृता ।
सर्वार्थान् विपरीतांश्च,
बुद्धिः सा पार्थ तामसी ॥
महाभा. / भीष्मप. / 42 / 32
(54)
अधर्मं नात्र पश्यन्ति,
धर्मतत्त्वार्थदर्शिनः ।
यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि ॥
महाभा. / कर्णपर्व / 31 / 63
(55)
अधर्मस्तु महांस्तात,
भवेत्तस्य महीपतेः ।
यो हरेद् बलिषडभागं,
न च रक्षति पुत्रवत् ॥
वा. रामा. / 3 / 6 / 11
(56)
अधर्मेणैधते तावत्,
ततो भद्राणि पश्यति ।
ततः सपत्न्नाञ्जयति,
समूलस्तु विनश्यति ॥
मनु / 4 / 174
(57)
अध्यापिता ये गुरुन्नाद्रियन्ते,
विप्रा वाचा मनसा कर्मणा वा ।
यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति श्रुतं तत् ॥
निरुक्त / 2 / 4
(58)
अनन्तपारं किल शब्दशास्त्रम्,
स्वल्पं तथायुर्बहवश्च विघ्राः ।
(59)
अनन्तशास्त्रं बहु वेदितव्यम् ,
अल्पश्च कालो बहवश्च विघ्राः ।
यत्सारभूतं तदुपासितव्यम्,
हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥
नराभरण / 994
(60)
अनभ्यासाच्च वेदानाम्,
आचारस्य च वर्जनात् ।
आलस्यादन्नदोषाच्च,
मृत्युर्विप्रान् जिघांसति ॥
(61)
अनभ्यासेन विद्यानामसंसर्गेण धीमताम् ।
अनिग्रहेण चाक्षाणां,
जायते व्यसनं नृणाम् ॥
काव्यालंकार
(62)
अनभ्यासे विषं विद्या,
अजीर्णे भोजनं विषम् ।
विषं सभा दरिद्रस्य,
वृद्धस्य तरुणी विषम् ॥
हितोपदेश / प्र. / 22
(63)
अनर्थकं विप्रवासं गृहेभ्यः,
पापैः सन्धिं परदाराभिमर्शम् ।
दम्भं स्तैन्यं पैशुनं मद्यपानम्,
न सेवते यः स सुखी सदैव ॥
महाभा. / उद्योगपर्व / 33 / 113
(64)
अनागतविधाता प्रत्युत्पन्नमतिश्च यः ।
द्वावेव सुखमेधेते,
दीर्घसूत्री विनश्यति ॥
महाभा. / शान्तिप. / 936 / 9
(65)
अनादेयं नाददीत,
परिक्षीणोऽ
पि पार्थिवः ।
आदेयं न समृद्धोऽ
पि सूक्ष्ममप्यर्थमुत्सृजेत् ॥
(66)
अन्नाद् भवन्ति भूतानि,
पर्जन्यादन्नसम्भवः ।
यज्ञाद् भवति पर्जन्यो,
यज्ञः कर्मसमुदभवः ॥
महाभा. / भीष्मप. /27 / 14
(67)
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं,
तस्मात्तत् परिवर्जयेत् ॥
महाभा. / भीष्मपर्व / 41 / 8
(68)
अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् ।
अनर्थाः क्षिप्रमायान्ति,
वाग्दुष्टं क्रोधनं तथा ॥
महाभा. / उद्योगपर्व / 38 / 35
(69)
अनाहूतः प्रविशति,
ह्यपृष्टो बहु भाषते ।
अविश्वस्ते विश्वसिति,
मूढचेता नराधमः ॥
महाभा. / उद्यो. / 33 / 36
(70)
अनित्यानि शरीराणि,
विभवो नैव शाश्वतः ।
नित्यं सन्निहितो मृत्युृः,
कर्त्तव्यो धर्मसञ्चयः ॥
पञ्चतन्त्र / काकोलूकीयम् / 92
(71)
अनिर्वेदः श्रियो मूलं,
लाभस्य च शुभस्य च ।
महान् भवत्यनिर्विण्णः,
सुखं चानन्त्यमश्नुते ॥
महाभा. / उद्योग / 39 / 57
(72)
अनिर्वेदं च दाक्ष्यं च,
मनसश्चापराजयम् ।
कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम् ॥
महाभा. / वनपर्व / 313 / 116
(73)
अनुमन्ता विशसिता,
निहन्ता क्रयविक्रयी ।
संस्कर्त्ता चोपहर्त्ता च,
खादकश्चेति घातकाः ॥
मनु. / 5 / 5
(74)
अनुगन्तुं सतां वर्त्म,
कृत्स्नं यदि न शक्यते ।
स्वल्पमप्यनुगन्तव्यं,
मार्गस्थो नावसीदति ॥
(75)
अनुव्रतः पितुः पुत्रो,
मात्रा भवतु सम्मनाः ।
जाया पत्ये मधुमतीं,
वाचं वदतु शन्तिवाम् ॥
अथर्व. / 3 / 30 / 2
(76)
अनृणा अस्मिन्ननृणाः परस्मिन् तृतीये लोके अनृणाः स्याम ।
ये देवयानाः पितृयाणाश्च लोकाः,
सर्वान् पथो अनृणा आ क्षियेम ॥
अथर्व. / 6 /117 / 3
(77)
अनेकदोषदुष्टोऽ
पि,
कायः कस्य न वल्लभः ।
कुर्वन्नपि व्यलीकानि,
यः प्रियः प्रिय एव सः ॥
पञ्चतन्त्र / मित्रभेद / 186
(78)
अनेकसंशयोच्छेदि,
परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं,
यस्य नास्त्यन्ध एव सः ॥
हितो. / प्र. / 10
(79)
अनेन किं न पर्याप्तं मांसस्य परिवर्जनम् ।
यत्पादितं तृणेनापि स्वमङ्गं परिदूयते ॥
(80)
अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।
देवस्य पश्य काव्यं न ममार न जीर्यति ॥
अथर्व / 10 / 8 / 32
(81)
अन्तवन्त इमे देहाः,
नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽ
प्रमेयस्य,
तस्माद् युध्यस्व भारत ॥
महाभा. / भीष्म / 26 / 18
(82)
अन्धीकरोमि भुवनं बधिरीकरोमि,
धीरं सचेतनमचेतनतां नयामि ।
कृत्यं न पश्यति न येन हितं श्रृणोति,
धीमानधीतमपि न प्रतिसन्दधाति ॥
प्रबोध. / 2 / 29
(83)
अन्नेन धार्यते देहः,
कुलं शीलेन धार्यते ।
प्राणा मित्रेण धार्यन्ते,
क्रोधः सत्येन धार्यते ॥
पट्नपुराण
(84)
अन्यदीये तृणे रत्ने मौक्तिकेऽ
पि च ।
मनसो विनिवृत्तिर्या,
तदस्तेयं विदुर्बुधाः ॥
जाबालयोग / 1 / 11
(85)
अन्यान् परिवदन् साधुर्यथा हि परितप्यते ।
तथा परिवदन्नन्यान्,
तुष्टो भवति दुर्जनः ॥
कवितामृतकूप / 80
(86)
अन्ये जायां परिमृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः ।
पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥
ऋ. / 10 / 34 / 4
(87)
अपकुर्वन्नपि प्रायः प्राप्नोति महतः शुभम् ।
दहन्तमप्यौर्वमग्निं सन्तर्पयति वारिधिः ॥
(88)
अपत्यं धर्मकार्याणि,
शुश्रूषा रतिरुत्तमा ।
दाराधीनस्तथा स्वर्गः,
पितृणामात्मनश्च ह ॥
मनु. / 9 / 28
(89)
अपरे बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा ।
आत्मवत् वर्तनं यत् स्यात्,
सा दया परिकीर्तिता ॥
भविष्यपुराण / 1 / 2 / 158
(90)
अपहृत्यार्त्तिमार्त्तानां,
सुखं यदुपजायते ।
तस्य स्वर्गोऽ
पवर्गो वा,
कलां नार्हति षोडशीम् ॥
महाभा. / अनुशासन / 50 / 20
(91)
अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम् ।
मृडा सुक्षत्र मृडय ॥ ऋ. / 7 / 89 / 4
(92)
अपां समीपे नियतो,
नैत्यकं विधिमास्थितः ।
सावित्रीमप्यधीयीत,
गत्वारण्यं समाहितः ॥
मन. / 2 / 104
(93)
अपूजिताश्च यत्रैताः,
सर्वास्तत्राफलाः क्रियाः ।
तदा चैतत् कुलं नास्ति,
यदा शोचन्ति जामयः ॥
महाभा. / अनुशासन / 46 / 6
(94)
अपूज्या यत्र पूज्यन्ते,
पूज्यानामवमानना ।
त्रीणि तत्र प्रवर्तन्ते,
दुर्भिक्षं मरणं भयम् ॥
पञ्चतन्त्र / काकोलूकीय / 183
(95)
अपूर्वः कोऽ
पि कोशोऽ
यं विद्यते तव भारति ।
व्ययतो वृद्धिमायाति,
क्षयमायाति सञ्चयात् ॥
(96)
अपेक्षन्ते न च स्नेहम्,
न पात्रं न दशान्तरम् ।
सदा लोकहिते युक्ता,
रत्नदीपा इवोत्तमाः ॥
(97)
अप्रणोद्योऽ
तिथिः सायं,
सूर्योढो गृहमेधिना ।
काले प्राप्तस्त्वकाले वा,
नास्यानश्नन् गृहे वसेत् ॥
मनु. / 3 / 105
(98)
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बुद्धयवज्ञानमवमानं च भारत ॥
महाभा. / उद्योग / 39 / 2
(99)
अप्रियवचनदरिद्रैः प्रियवचनाढयैः स्वदारपरितुष्टैः ।
परपरिवादनिवृत्तैः क्वचित् क्वचिन्मण्डिता वसुधा ॥
नीतिशतक / 106
(100)
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।
असद्भिः सम्प्रयोगश्च,
तद्दुःखं चिरजीविनाम् ॥
महाभा. / वनपर्व / 193 / 18
(101)
अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे ।
अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥
अथर्व. / 19 / 15 / 5
(102)
अभयं मित्रादभयममित्रादभयं ज्ञातादभयं परोक्षात् ।
अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥
अथर्व. / 19 / 15 / 6
(103)
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्द्धन्ते,
आयुर्विद्या यशो बलम् ॥
मनु. 2/ 122
(104)
अभ्यासः कर्मणां सम्यगुत्पादयति कौशलम् ।
विधिना तावदभ्यस्तं यावत्सृष्टा मृगेक्षणा ॥
सुभाषितावलि
(105)
अभ्रच्छाया खलप्रीतिः सिद्धमन्नं च योषितः ।
किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ॥
हितोपदेश
(106)
अभ्यूर्णौति यन्नग्नं भिषक्ति विश्वं यत्तुरम् ।
प्रेमन्धः ख्यन् निःश्रोणो भूत् ॥
ऋ. / 8 79 / 2
(107)
अमित्रं कुरुते मित्रम्,
मित्रं द्वेष्टि हिनस्ति च ।
शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः ॥
पञ्चतन्त्र / काकोलूकीय / 196
(108)
अमीषां प्राणानां तुलितबिसनीपत्रपयसाम्,
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
यदाढयानामग्रे द्रविणमदनिःशङ्कमनसाम्,
कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥
वै. शतक / 32
(109)
अमृतं शिशिरे वह्रिरमृतं प्रियदर्शनम् ।
अमृतं राजसम्मानममृतं क्षीरभोजनम् ॥
पञ्चतन्त्र / मित्रभेद / 135
(110)
अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित् ।
विषस्येवोद्विजेन्नित्यं,
सम्मानस्य विचक्षणः ॥
महाभा. / शान्ति . / 229 / 2
(111)
अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽ
प्यरक्षितः ।
पैशुन्याद् भिद्यते स्नेहो,
भिद्यते वाग्भिरातुरः ॥
पञ्चतन्त्र / मित्रभेद / 107
(112)
अम्भोजिनी - वनविहार - विलासमेव,
हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविौ प्रसिद्धाम्,
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥
नीतिशतक / 17
(113)
अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।
नराणां यत्र हूयन्ते यौवनानि धानानि च ॥
मृच्छकटिक
(114)
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानान्तु वसुधैव कुटुम्बकम् ॥
पञ्चतन्त्र / अपरीक्षितकारकम् / 35
(115)
अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।
अयं मे विश्यवभेषजोऽ
यं शिवाभिमर्शनः ॥
ऋ. / 10 / 60 / 12
(116)
अया पवस्व धारया,
यया सूर्यमरोचयः ।
हिन्वानो मानुषीरपः ॥ ऋ. / 9 / 63 / 7
(117)
अयि मलयज. महिमाऽ
यं कस्य गिरामस्तु विषयस्ते ।
उदगिरतो यदगरलं फणिनः पुष्णासि परिमलोदगारैः ॥
भामिनीविलास / 1 / 10
(118)
अरक्षितं तिष्ठति दैवरक्षितम्,
सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोऽ
पिवने विसर्जितः,
कृतप्रयत्नोऽ
पि गृहे विनश्यति ॥
पञ्चतन्त्र / मित्रभेद / 273
(119)
अरक्षितारं नृपतिं ब्राह्नणं चातपस्विनम् ।
धनिकं चाप्रदातारं देवा घ्नन्ति त्यजन्त्यधः ॥
शुक्रनीति / 1 / 120
(120)
अरणीमन्थने जातु यो विरन्तुं न चेष्टते ।
स एव लभते वह्रिमेवं सिद्धेरपि प्रथा ॥
बुद्धिचरितम् / 26 / 64
(121)
अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
दिवेदिव ईडयो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥
ऋ. / 1 / 29 / 2
(122)
अरविन्दमशोकं च चूतं च नवल्लिका ।
नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥
(123)
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥
चाणक्यशतक / 34
(124)
अर्थसिद्धिं परामिच्छन्,
धर्ममेवादितश्चरेत् ।
न हि धर्मादपेत्यर्थः,
स्वर्गलोकादिवामृतम् ॥
महाभा. / उद्योग / 37 / 48
(125)
अर्थहीनोऽ
पि मधुरः,
शब्दो लोकप्रियङकरः ।
वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः ॥
सभारञ्जनशतक / 24
(126)
अर्थागमो नित्यमरोगिता च ,
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽ
र्थकरी च विद्या,
षड् जीवलोकस्य सुखानि राजन् ॥
महाभा. / उद्योग. / 33 / 82
(127)
अर्थातुराणां न गुरुर्न बन्धुः,
कामातुराणां न भयं न लज्जा ।
चिन्तातुराणां न सुखं न निद्रा,
क्षुधातुराणां न बलं न तेजः ॥
चाणक्यराजनीतिशास्त्र
(128)
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
नाशे दुःखं व्यये दुःखं धिगर्थान् कष्टसंश्रयान् ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 15
(129)
अर्थाः पादरजोनिभा,
गिरिनदी-वेगोपमं यौवनम् ।
आयुष्यं जलबिन्दुलोलचपलं,
फेनोपमं जीवनम् ॥
धर्मं यो न करोति निन्दितमतिः,
स्वर्गर्गलोदघाटनम् ।
पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते ॥
हितोपदेश / मित्रलाभ / 153
(130)
अर्थार्थी जीवलोकोऽ
यं श्मशानमपि सेवते ।
त्यक्त्वा जनयितारं स्वं निःस्वं गच्छति दूरतः ॥
पञ्चतन्त्र / मित्रभेद / 9
(131)
अर्थार्थी यानि कष्टानि मूढोऽ
यं सहते जनः ।
शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 116
(132)
अर्थेन किं कृपणहस्तगतेन तेन,
रूपेण किं गुणपराक्रमवर्जितेन ।
ज्ञानेन किं बहुजनैः कृतमत्सरेण,
मित्रेण किं व्यसनकालपराङमुखेन ॥
नराभरण / 14
(133)
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः ।
व्युच्छिद्यन्ते क्रियाः सर्वाः ग्रीष्मे कुसरितो यथा ॥
वा. रामायण / 6 / 83 / 33
(134)
अर्थभ्यो हि निष्ठेभ्यः संवृत्तेभ्यस्ततस्ततः ।
क्रियाः सर्वाः प्रवर्त्तन्ते,
पर्वतेभ्यः इवापगाः ॥
वा. रामायण/ 6 / 83 / 32
(135)
अर्थेभ्यो हि वृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।
प्रवर्त्तन्ते क्रियाः सर्वाः,
पर्वतेभ्य इवापगाः ॥
पञ्चतन्त्र / मित्रभेद / 6
(136)
अर्थो न सम्भृतः कश्चिन्न विद्या काचिदर्जिता ।
न तपः सञचितं किञ्चिदगतं च सकलं वयः ॥
काव्यादर्श / 2 / 161
(137)
अलब्धं चैव लिप्सेत,
लब्धं रक्षेदवेक्षया ।
रक्षितं वर्धयेत् सम्यक्,
वृद्धं तीर्थेषु निक्षिपेत् ॥
हितोपदेश / 2 / 8
(138)
अलभ्यं लब्धुकामस्य जनस्य गतिरीदृशी ।
अलभ्येषु मनस्तापः,
सञ्चितार्थो विनश्यति ॥
कवितामृतकूप / 60
(139)
अलुब्धाः शुचयो वैद्या,
ह्रीमन्तः सत्यवादिनः ।
स्वकर्मनिरता ये च,
तेभ्यो दत्तं महाफलम् ॥
महाभा./ अनुशासन / 22 / 35
(140)
अल्पं वा बहु वा यस्य,
श्रुतस्योपकरोति यः ।
तमपीह गुरुं विद्यात् श्रुतोपक्रियया तया ॥
मनु. / 2 / 149
(141)
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥
हितोपदेश / 1 / 36
(142)
अवन्ध्यकोपस्य विहन्तुरापदो भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्यस्य जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥
किरातार्जुनीय / 1 / 33
(143)
अवलिप्तेषु मूर्खेषु,
रौद्रसाहसिकेषु च ।
तथैवापेतधर्मेषु,
न मैत्रीमाचरेद् बुधः ॥
महाभा. / उद्योग / 39 / 49
(144)
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥
हितोप. / मित्र. / 18
(145)
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
नाऽ
भूक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥
अत्रिस्मृतिः
(146)
अवश्यमेव लभते,
फलं पापस्य कर्मणः ।
भर्त्तः. पर्यागते काले,
कर्त्ता नास्त्यत्र संशयः ॥
वाल्मीकिरा. / युद्धकाण्ड / 25
(147)
अवश्यं यातारश्चिरतमुषित्वाऽ
पि विषयाः ।
वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ॥
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः ।
स्वयं त्यक्तास्त्वेते शमसुखमनन्तं विदधति ॥
वैराग्यशतक / 16
(148)
अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि ।
क्षुधि कदशनमपि नितरां भोक्तुः सम्पद्यते स्वादु ॥
(149)
अविज्ञाय फलं यो हि कर्मण्येवानुधावति ।
स शोचेत्फलवेलायां यथा किंशुकलेवकः ॥
वा. रामायण / 63 / 9
(150)
अविद्यानाशिनी विद्या,
भावना भावनाशिनी ।
दारिद्रयनाशनं दानम्,
शीलंं दुर्गतिनाशनम् ॥
(151)
अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः ।
गच्छन्नभिमुखो नाशं याति वह्रौ पतङ्गवत् ॥
पञ्चतन्त्र / मित्रभेद / 18
(152)
अवृत्तिभयमन्त्यानां मध्यानां मरणाद् भयम् ।
उत्तमानां तु सत्त्वानामवमानात् परं भयम् ॥
(153)
अव्यसश्च व्यचस्श्च बिलं विष्यामि मायया ।
ताभ्यामुदधृत्य वेदमथ कर्माणित कृण्महे ॥
अथर्व / 19 / 68 / 1
(154)
अव्रतानाममन्त्राणां,
जातिमात्रोपजीविनाम् ।
सहस्त्रशः समेतानां,
परिषत्त्वं न विद्यते ॥
मनु. / 12 / 114
(155)
अशक्तैः बलिनः शत्रोः कर्त्तव्यं प्रपलायनम् ।
श्रयितव्योऽ
थवा दुर्गो नान्या तेषां गतिर्भवेत् ॥
पञ्चतन्त्र / मित्रभेद / 269
(156)
अशठमलोलमजिह्यं त्यागिनमनुरागिणं विशेषज्ञम् ।
यदि नाश्रयति नरं श्रीः,
श्रीरेव वञ्चिता तत्र ॥
श्री हर्षदेव
(157)
अश्नीयात्तन्मना भूत्वा,
पूर्वन्तु मधुरं रसम् ।
मध्येऽ
म्ललवणौ,
पश्चात् कटुतिक्तकषायकम् ॥
चरक / विमान-स्थान / 1 / 31
(158)
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥
पञ्चतन्त्र / मित्रभेद / 115
(159)
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥
(160)
अश्रद्धा परमं पापं,
श्रद्धा पापप्रमोचनी ।
जहाति पापं श्रद्धावान् ,
सर्पो जीर्णमिव त्वचाम् ॥
महाभा. / शान्ति. / 264 / 15
(161)
अष्टौ गुणाः पुरुषं दीपयन्ति,
प्रज्ञा कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहुभाषिता च,
दानं यथाशक्ति कृतज्ञता च ॥
महाभा. / उद्योग / 35 / 52
(162)
असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् ।
दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ॥
पञ्चतन्त्र / मित्रभेद / 195
(163)
असतो मा सदगमय,
तमसो मा ज्योतिर्गमय ।
मृत्योर्माऽ
मृतं गमय ॥
बृहदारण्यकोपनिषद् / 1 /
ब्राह्नण 3
(164)
असत्यवचनं प्राज्ञः प्रमादेनापि नो वदेत् ।
श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः ॥
योगशास्त्र / 2 / 57
(165)
असत्यवचनाद् वैरविषादाप्रत्ययादयः ।
प्रदुष्यन्ति न के दोषाः कुपथ्याद् व्याधयो यथा ॥
(166)
असम्भवं हेम-मृगस्य जन्म तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्न-विपत्तिकाले धियोऽ
पि पुंसां मलिनाः भवन्ति ॥
हितोपदेश / 1 / 28
(167)
असहायः समर्थोऽ
पि,
तेजस्वी किं करिष्यति ।
निवाते ज्वलितोऽ
प्यग्निः,
स्वयमेव प्रशाम्यति ॥
पञ्चतन्त्र / काकोलूकीयम् / 55
(168)
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे ।
सुरतरुवरशाखा लेखनी पत्रमुर्वी ॥
लिखति यदि गृहीत्वा शारदा सर्वकालम् ।
तदपि तव गुणानामीश पारं न याति ॥
पुष्पदन्त-शिवमहिम्नः स्तोत्र / 32
(169)
असुर्या नाम ते लोका,
अन्धेन तमसाऽऽ
वृताः ।
तांस्ते प्रेत्यापिगच्छन्ति,
ये के चात्महनो जनाः ॥
यजु. / 40 / 3
(170)
असूयैकपदं मृत्युरतिवादः श्रियो वधः ।
अशुश्रूषा त्वारा श्लाघा,
विद्यायाः शत्रवस्त्रयः ॥
महाभा. / उद्योग / 40 / 4
(171)
अस्तीत्येव कृषिं कुर्यात्,
अस्ति नास्तीति वाणिज्यम् ।
नास्तीत्येव ऋणं दद्यान्नाहमस्मीति साहसम् ॥
नराभरण / 80
(172)
अस्मिन् महामोहमये कटाहे,
सूर्याग्निना रात्रि-दिवेन्धनेन ।
मासर्त्तुदर्वीपरिघट्टनेन,
भूतानि कालः पचतीति वार्त्ता ॥
महाभा. / वनपर्व / 313 / 88
(173)
अहन्यहनि भूतानि,
गच्छन्तीह यमालयम् ।
शेषाः स्थावरमिच्छन्ति,
किमाश्चर्यमतः परम् ॥
महाभा. / वनपर्व / 313 / 116
(174)
अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ । अहं
सूर्य इवाजनि ॥
ऋ. / 8 / 6 / 10
(175)
अहिंसा निर्मलं धर्मं सेवन्ते ये विपशिचतः ।
तेषामेवोर्ध्वगमनं,
यान्ति तिर्यगधोऽ
न्यथा ॥
पट्नपुराण / 4 / 41
(176)
अहिंसा सत्यमस्तेयं शौयमिन्द्रियनिग्रहः ।
एतं सामासिकं धर्मं चातुर्विर्ण्येऽ
ब्रवीन्मनुः ॥
मनु. / 10 / 63
(177)
अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।
वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥
अग्निपुराण / 237 / 10
(178)
अहिंसा सत्यमस्तेयमकामक्रोधलोभता ।
भूतप्रियहितेहा च धर्मोऽ
यं सार्ववर्णिकृः ॥
श्रीमदभागवत / 11 / 17 / 21
(179)
अहो खलभुजङ्गस्य विपरीतो वधक्रमः ।
कर्णे लगति चैकस्य प्राणैरन्यो वियुज्यते ॥
पञ्चतन्त्र / मित्रभेद / 250
(180)
अहो सुसदृशी वृत्तिर्मर्दलस्य खलस्य च ।
यावन्मुखगतं पिण्डं तावन्मधुरभाषणम् ॥
नीतिशास्त्र / 152
(181)
अहौ वा हारे वा कुसुमशयने वा दृषदि वा,
मणौ वा लोष्ठे वा बलवति रिपौ वा सुह्यदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः,
कदा पुण्येऽ
रण्ये शिव शिव शिवेति प्रलपतः ॥
(182)
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकारैश्च लक्ष्यतेऽ
न्तर्गतं मनः ॥
पञ्चतन्त्र / मित्रभेद / 42
(183)
आक्रान्तं मरणेन जन्म,
जरसा विद्युच्चलं यौवनम् ,
सन्तोषो धनलिप्सया,
शमसुखं प्रौढाङ्गनाविभ्रमैः ।
लोके मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैः,
अस्थैर्येण विभूतयोऽ
प्युपहता ग्रस्तं न किं केन वा ॥
वैराग्यशतक / 91
(184)
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति,
सुकृतं चास्य विन्दति ॥
महाभारत / उद्योग / 36 / 5
(185)
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान ।
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥
महाभा. / उद्योग / 34 / 70
(186)
आखेटकं वृथाक्लेशं,
मूर्खं व्यसनसंस्थितम् ।
आलापयति यो मूढः,
स गच्छति पराभवम् ॥
(187)
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते ।
शब्दब्रह्नागममयं परं ब्रह्न विवेकजम् ॥
विष्णुपुराण / 6 / 5 / 6
(188)
आगारदाही मित्रघ्नः,
शाकुनिर्ग्रामयाजकः ।
रुदिरान्धे पतन्त्येते ,
सोमं विक्रीणेत च यः ॥
विष्णुपुराण / 2 / 6 / 23
(189)
आचारः कुलमाख्याति,
वपुराख्याति भोजनम् ।
वचनं श्रुतमाख्याति,
स्नेहमाख्याति लोचनम् ॥
शिवपुराण
(190)
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त्त एव च ।
तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥
मनु. / 1 / 108
(191)
आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।
आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् ॥
मनु. / 1 / 109
(192)
आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः ।
आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥
मनु. / 4 / 156
(193)
आचारो भूतिजनन आचारः कीर्तिवर्दनः ।
आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥
(194)
आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदोऽ
नुजीविनाम् ।
पृथक् शय्या च नारीणामशस्त्रो वध उच्यते ॥
प्रबन्ध-चिन्तामणि / 14
(195)
आढयानां मांसपरमं मध्यानां गोरसोत्तमम् ।
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥
महाभा. / उद्योग / 34 / 49
(196)
आढयो वापि दरिद्रो वा,
दुःखितः सुखितोऽ
पि वा ।
निर्दोषश्च सदोषश्च,
वयस्यः परमा गतिः ॥
वाल्मीकि / किन्किन्धा / 8 / 8
(197)
आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता ।
यमर्था नापकर्षन्ति स वै पण्डित उच्यते ॥
महा. / उद्योग / 33 / 17
(198)
आत्मनाऽ
त्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतः ।
आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥
महाभा. / उद्योग / 34 / 65
(199)
आत्मनो मुखदोषेण,
बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते,
मौनं सर्वार्थसाधनम् ॥
पञ्चतन्त्र / लब्धप्रणाश / 37
(200)
आत्मनो बलमविज्ञाय धर्मार्थपरिवर्जितम् ।
अलभ्यमिच्छन् नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥
महाभा / उद्योग / 33 / 38
(201)
आत्मन्यनात्मभावेन,
व्यवहारविवर्जितम् ।
यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते ॥
जाबालोपनिषद्. / 1 / 12
(202)
आत्माधीनशरीराणां स्वपतां निद्रया स्वया ।
कदन्नमपि मर्त्यानाममृतत्वाय कल्पते ॥
(203)
आत्मा नदी संयमपुण्यतीर्था,
सत्योदका शीलतटा दयोर्मिः ।
तत्राभिषेकं कुरु पाण्डुपुत्र . न वारिणा शुध्यति चान्तरात्मा ॥
(204)
आत्मानमेव प्रथमं द्वेष्यरूपेण यो जयेत् ।
ततोऽ
मात्यानमित्रांश्च न मोघं विजिगीषते ॥
महाभा. / उद्योग / 33 / 57
(205)
आत्मैव ह्यात्मनः साक्षी,
गतिरात्मा तथात्मनः ।
मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥
मनु. / 8 / 84
(206)
आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः ।
विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधिभ्रशत् ॥
ऋ. / 10 / 173 / 1
(207)
आदरेण यथा स्तैति,
धनवन्तं धनेच्छया ।
तथा चेद् विश्वकर्त्तारं,
को न मुच्येत् बन्धनात् ॥
(208)
आदरात् संगृहीतेन शत्रुणा शत्रुमुद्घरेत् ।
पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥
(209)
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितम्,
व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ।
दृष्ट्वा जन्म-जरा-विपत्तिमरणं त्रासश्च नोत्पद्यते,
पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥
वैराग्यशतक. / 7
(210)
आदिमध्यनिधनेषु सौहार्दं सज्जने भवति नेतरे जने ।
छेद-ताडन-निघर्ष-तापनैर्नान्यभावमुपयाति काञ्चनम् ॥
(211)
आदौ तु मोक्षो ज्ञानेन,
द्वितीयो रागसंक्षयात् ।
कृच्छ्रत्रयात् तृतीयस्तु,
व्याख्यातं मोक्षलक्षणम् ॥
(212)
आदौ न वा प्रणयिनां प्रणयो विधेयो,
दत्तोऽ
थवा प्रतिदिनं परिपोषणीयः ।
उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां,
भूमौ स्थितस्य पतनादभयमेव नास्ति ॥
पञ्चतन्त्र / मित्रभेद / 190
(213)
आदौ साम प्रयोक्तव्यं पुरुषेण विजानता ।
सामसाध्यानि कार्यणि,
विक्रियां यान्ति न क्वचित् ॥
पञ्चतन्त्र / मित्रभेद / 330
(214)
आधत्त पितरो गर्भं कुमारं पुष्करस्त्रजम् ।
यथेह पुरुषोऽ
सत् ॥ यजु. / 2 / 33
(215)
आधि-व्याधिपरीताय,
ह्यद्य श्वो वा विनाशिने ।
को हि नाम शरीराय,
धर्मापेतं समाचरेत् ॥
कामन्दकनीतिसार / 3 / 9
(216)
आनन्दवाष्परोमाञ्चौ यस्य स्वेच्छावशंवदौ ।
किं तस्य साधनैरन्यैः किङकराः सर्वपार्थिवाः ॥
वाल्मीकिरामा. / 6 / 111 / 66
(217)
आ देवानामुपवेतु शंसो विश्वेभिस्तुरैरवसे यजत्राः ।
तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥
ऋ. / 10 / 31 / 1
(218)
आ नो भद्राः क्रतवो यन्तु विश्वतोऽ
दब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदमिदवृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥
ऋ. 1 / 89 / 1
(219)
आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती ।
तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु ॥
ऋ. / 10 / 110 / 8
(220)
आपत्काले तु सम्प्राप्ते,
यन्मित्रं मित्रमेव तत् ।
वृद्धिकाले तु सम्प्राप्ते,
दुर्जनोऽ
पि सुहृदभवेत् ॥
पञ्चतन्त्र / सुहृदभेद / 10
(221)
आपदर्थे धनं रक्षेद्,
दारान् रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्,
दारैरपि धनैरपि ॥
पञ्चतन्त्र/मित्रभेद/308/
महाभा./उद्योग /37 / 18
(222)
आपदामापतन्तीनां हितोऽ
प्यायाति हेतुताम् ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥
हितोपदेश
(223)
आपदां कथितः पन्था इन्द्रियाणामसंयमः ।
तज्जयः सम्पदां मार्गोो,
येनेष्टं तेन गम्यताम् ॥
(224)
आपादि येनापकृतं येन च हसितं विषमासु दशासु ।
अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥
पञ्चतन्त्र / मित्रभेद / 280
(225)
आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।
कल्यामवचनं ब्रूयादपृष्टोऽ
पि हितो नरः ॥
हितोपदेश
(226)
आपन्नाशाय विबुधैः कर्त्तव्याः सुहृदोऽ
मलाः ।
न तरत्यापदं कश्चिद् योऽ
त्र मित्रविवर्जितः ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 169
(227)
आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरापूत एमि ॥
ऋ. / 10 / 17 / 10
(228)
आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः ।
अतीते कार्यशेषज्ञो नरोऽ
र्थैर्न प्रहीयते ॥
महाभा. / उद्योग / 39 / 54
(229)
आयुः कल्लोललोलं,
कतिपयदिवस-स्थायिनी यौवनश्रीः,
अर्थाः सङ्कल्पकल्पाः घनसमयतडिद्विभ्रमा भोगपूगाः ।
कण्ठाश्लेषोगूढं तदपि च न चिरं,
यत्प्रियाभिः प्रणीतम्,
ब्रह्नण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥
वैराग्यशतक. / 74
(230)
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतम्,
तस्यार्ध्दस्य परस्य चार्ध्दमपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुः खसहितं सेवादिभिर्नीयते,
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥
वैराग्यशतक / 94
(231)
आयुर्वित्तं गृहच्छिद्रं मन्त्रमौषधसमागभाः ।
दानमानापमानाश्च सदा गोप्या मनीषिभिः ॥
नीतिशास्त्र. / 14
(232)
आयुषः क्षणमेकोऽ
पि न लभ्यः स्वर्णकोटिभिः ।
स वृथा नीयते येन,
तस्मै नृपशवे नमः ॥
(233)
आयुष्प्रदान्यामयनाशनानि,
बलाग्निवर्णस्वरवर्धकानि ।
मेध्यानि चैतानि रसायनानि,
मेध्या विशेषेण च शंखपुष्पी ॥
चरक / चिकित्सा - स्थान / 1 (3) / 3/ 1
(234)
आरभन्तेऽ
ल्पमेवाज्ञाः कामं व्यग्राः भवन्ति च ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥
हितोपदेश / विग्रह / 122
(235)
आरम्भगुर्वी क्षयिणी क्रमेण ,
लध्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना,
धायेव मैत्री खलसज्जनानाम् ॥
पञ्चतन्त्र/ मित्रसम्प्राप्ति / 40
(236)
आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।
स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥
दामोदरगुप्त
(237)
आरोग्यमानृण्यमविप्रवासः,
सदभिर्मनुष्यैः सह सम्प्रयोगः ।
स्वप्रत्यया वृत्तिरभीतवासः,
षडजीवलोकस्य सुखानि राजन् ॥
महाभारत / उद्योग / 33 / 89
(238)
आरोप्यते शिला-शैले यत्नेन महता यथा ।
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥
(239)
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥
महाभा. / उद्योग / 33 / 25
(240)
आर्षं धर्मोपदेशं च,
वेदशास्त्राविरोधिना ।
यस्तर्केणानुसन्धत्ते,
स धर्मं वेद नेतरः ॥
मनु. / 12 / 106
(241)
आलस्यं हि मनुष्यणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुर्यं कृत्वा नावसीदति ॥
नीतिशतक / 8 / 1
(242)
आविर्भूतानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः,
पत्रच्छायैः पुरस्तादुपवनतरवो दूरमाश्वेव गत्वा ।
एते तस्मिन्निवृत्ताः पुनरितककुप्-प्रान्त-पर्यस्तबिम्बे,
प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं स्वामिनं सेवमानाः ॥
मुद्राराक्षस. / 4 / 21
(243)
आवेपते भ्रमति रोदिति मोहमेति,
कान्तं विलोकयति कूजति दीनदीनम् ।
अस्ते हि भानुमति गच्छति चक्रवाकी,
हा. जीवितेऽ
पि मरणं प्रिय-विप्रयोगः ॥
(244)
आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला,
रागग्राहवती वितर्क-विहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तराऽ
तिगहना प्रोत्तुङ्गचिन्तातटी,
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥
वैराग्यशतक. / 40
(245)
आशा हि परमं दुःखं,
नैराश्यं परमं सुखम् ।
यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥
सांख्य / विज्ञानभिक्षु - भाष्य
(246)
आश्रमांस्तुलया सर्वान् धृतानाहुर्मनीषिणः ।
एकतश्च त्रयो राजन् . गृहस्थाश्रम एकतः ॥
महाभारत / शान्ति / 121 / 12
(247)
आसनाच्छयनाच्चैव संजल्पात् सहभोजनात् ।
पुंसां संक्रमते पापं,
घटाद् घटमिवोदकम् ॥
चाणक्यराजनीति
(248)
आस्तां तावदिदं प्रसूतिसमये दुर्वारशूलव्यथा,
नैरुच्ये तनुशोषणं मलमयी शय्या च सांवत्सरी ।
एकस्यापि न कष्टभार-भरण-क्लेशस्य यस्याः क्षमो
दातुं निष्कृतिमुन्नतोऽ
पि तनयस्तस्यै जनन्यै नमः ॥
(249)
आहारनिद्राः भयमैथुनानि सामान्यमेदतद् पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेषो,
धर्मेण हीनाः पशुभिः समानाः ॥
हितोपदेश / कथामुख / 25
(250)
आहारस्य परं धाम,
शुक्रं तद्रक्ष्यमात्मनः ।
क्षयोह्यस्य बहून् रोगान्,
मरणं वा नियच्छति ॥
चरक / निदानस्थान / 6 / 10
(251)
आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्त्रग्व्यपि द्विजोऽ
धीते,
स्वाध्यायं शक्तितोऽ
न्वहम् ॥
मनु. / 2 16
(252)
इक्षोरग्रात् क्रमशः पर्वणि पर्वणि यथा रसविशेषः ।
तद्वत्सज्जनमैत्री,
विपरीतानां तु विपरीता ॥
पञ्च. / मित्रसम्प्रा.
(253)
इच्छति शती सहस्रं,
सहस्री लक्षमीहते ।
लक्षाधिपस्तथा राज्यम्,
राज्यस्थः स्वर्गमीहते ॥
पञ्च. / अपरीक्षितकारक / 75
(254)
इच्छन्ति त्वा सोम्यासः सखायः ।
सुन्वन्ति सोमं दधति प्रयांसि ।
तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ॥
यजु. / 34 / 18
(255)
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
यन्ति प्रमादमतन्द्राः ॥
ऋ. 8 / 2 / 18
(256)
इच्छेच्चोद्विपुलां मैत्रीं,
त्रीणि तत्र न कारयेत् ।
वाग्वादमर्थसम्बन्धं,
तत्पत्नीपरिभाषणम् ॥
(257)
इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा ।
अलोभ इति मार्गोऽ
यं धर्मस्याष्टविधः स्मृतः ॥
महाभारत / उद्योग / 35 / 56
(258)
इड एह्यदित एहि काम्या एत ।
मयि वः कामधरणं भूयात् ॥
यजु. / 3 / 27
(259)
इडे रन्ते हव्ये काम्ये चन्द्रे ज्योतेऽ
दिते सरस्वति महि विश्रुति ।
एता ते अध्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात् ॥
यजु. / 8 / 43
(260)
इदञ्च त्वां सर्वपरं ब्रवीमि,
पण्यं पदं तात महाविशिष्टम् ।
न जातु कामान्न भयान्न लोभाद्,
धर्मं जह्येज्जीवितस्यापि हेतोः ॥
महाभा. / उद्योग / 40 / 12
(261)
इदन्त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व ।
संवेशने तन्वश्चारुरेधि प्रियो देवानां परमे जनित्रे ॥
ऋ. / 10 / 56 / 1
(262)
इदं मे ब्रह्न च क्षत्रं चोभे श्रियमश्नुताम् ।
मयि देवा दधतु श्रियमुत्तमां तस्यै ते स्वाहा ॥
यजु. / 32 / 16
(263)
इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत ।
मयोभुवः वृष्टयः सन्तस्मे सपिप्पला ओषधीर्देवगोपाः ॥
ऋ. / 7 / 101 / 5
(264)
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्य पांसुरे ॥
ऋ. / 1 / 22 / 17
(265)
इदं श्रेष्ठं ज्योतिषां ज्येतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
यथा प्रसूता सवितुः सवाय एवा रात्र्युषसे योनिमारैक् ॥
ऋ. / 1 / 113 / 1
(266)
इदं हिरण्यं बिभृहि यत् ते पिताऽ
बिभः पुरा ।
स्वर्गं यतः पितुर्हस्तं निर्मृडढि दक्षिणम् ॥
अथर्व. / 18 / 4 / 56
(267)
इदमापः प्रवहत यत्किञ्च दुरितं मयि ।
यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥
ऋ. / 1 / 23 /22
(268)
इदं मे ज्योतिरमृतं हिरण्यं ,
पक्वं क्षेत्रात् कामदुघा म एषा ।
इदं धनं निदधे ब्राह्नणेषु,
कृण्वे पन्थां पितृषु यः स्वर्गः ॥
अथर्व. / 11 / 1 / 28
(269)
इन्दुं रिहन्ति महिषा अदब्धा पदे रेभन्ति कवयो न गृध्राः ।
हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥
ऋ. / 9 / 97 / 57
(270)
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
एकं सद् विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥
ऋ. 1 / 164 / 46
(271)
इनद्रं वर्धन्तु नो गिर इन्द्र सुतास इन्दवः ।
इन्द्रे हविष्मतीर्विशो अराणिषुः ॥
ऋ. / 8 / 13 / 16
(272)
इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् ।
अपघ्नन्तो अराव्णः ॥
ऋ. / 9 / 63 / 5
(273)
इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च ।
चन्द्रस्याग्ने पृथिव्याश्च तेजो वृत्तं नृपश्चरेत् ॥
मनु. / 9 / 303
(274)
इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् ।
जेता शत्रून् विचर्षणिः ॥
ऋ. / 2 / 41 / 12
(275)
इन्द्र क्रतुं न आभर पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्येतिरशीमहि ॥
ऋ. / 7 / 32 / 26
(276)
इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।
विग्रीवासो मूरदेवा ऋदन्तु,
मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥
ऋ. / 7 / 104 / 24
(277)
इन्द्र त्रिधातु शरणं त्रिवरूथम् स्वस्तिमत् ।
छर्दिर्यच्छ मघवदभ्यश्च मह्नं च यावया दिद्युमेभ्यः ॥
अथर्व. / 20 / 83 / 1
(278)
इन्द्रमिदगाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥
ऋ. / 1 / 7 / 1
(279)
इन्द्र वाजेषु नोऽ
व सहस्रप्रधनेषु च ।
उग्र उग्राभिरुतिभिः ॥
ऋ. / 1 / 7 / 4
(280)
इन्द्र शुद्धो न आ गहि शुद्धो शुद्धाभिरूतिभिः ।
शुद्धो रयिं नि धारय शुद्धो ममद्धिः सोम्यः ॥
ऋ. / 8 / 95 / 8
(281)
इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।
पोषं रयीणामरिष्टिं तनूनां स्वाट्नानं वाचः सुदिनत्वमह्राम् ॥
ऋ. / 2 / 21 / 6
(282)
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥
कठोपनिषद / 6 / 6
(283)
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।
सन्नियम्य तु तान्येव,
ततः सिद्धिं नियच्छति ॥
मनु. / 2 / 93
(284)
इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
संयमे यत्नमातिष्ठेद्,
विद्वान् यन्तेव वाजिनाम् ॥
मनु. / 2 / 88
(285)
इन्द्रियाणां हि चरतां यन्मनोऽ
नु विधीयते ।
तदस्य हरति प्रज्ञां,
वायुर्नावमिवाम्भसि ॥
महाभा. / भीष्म. / 26 / 67
(286)
इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते ।
अत्यर्थं पुनरुत्सर्गः सादयेद् देवतामपि ॥
महभा. / उद्योग / 39 / 5
(287)
इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः ।
वर्जयित्वा तु रसनं,
तन्निरन्नस्य वर्धते ॥
भागवतपु. / 11 / 8 / 20
(288)
इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ ।
आहृत्य यो निगृहणाति,
प्रत्याहारः स उच्यते ॥
अग्निपुराण/ द्वि. भाग/ 184 / 20
(289)
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
इन्द्र तानि त आ वृणे ॥
ऋ. / 3 / 37 / 9
(290)
इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ ।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥
अग्निपुराण / द्वि. खंड / 184 / 16
(291)
इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।
अतिप्रसक्तिं चैतेषां मनसा सन्निवर्तयेत् ॥
मनु. / 4 / 16
(292)
इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै ।
चर्कृत्य ईडयो वन्द्यश्चोपसद्यो नमस्यो भवेह ॥
अर्थव. / 6 / 98 / 1
(293)
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
जघान नवतीर्नव ॥
ऋ. / 1 /84 / 13
(294)
इन्धानास्त्वा शतं हिमा द्युमन्तं समिधीमहि,
वयस्वन्तो वयस्कृतं सहस्वन्तः सहस्कृतम् ।
अग्ने सपत्नदम्भनमदब्धासोऽ
अदाभ्यम्,
चित्रावसो स्वस्ति ते पारमशीय ॥
यजु. / 3 / 18
(295)
इमं गोष्ठं पशवः संस्रवन्तु बृहस्पतिरानयतु प्रजानन् ।
सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नियच्छ ॥
अथर्व. / 2 / 26 / 2
(296)
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।
शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥
यजु. / 35 / 15
(297)
इमं मा हिंसीरेकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु ।
गौरमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो निषीद ॥
यजु. / 13 / 48
(298)
इमं मा हिंसीर्द्विपादं पशुं सहस्राक्षो मेधाय चीयमानः ।
मयुं पशुं मेधमग्ने जुषस्व तेन चिन्वानस्तन्वो निषीद ॥
यजु. / 13 / 47
(299)
इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं परुष्ण्या ।
असिक्न्या मरुदवृधे वितस्तयार्जीकीये श्रृणुह्या सुषोमया ॥
ऋ. / 10 / 75 / 5
(300)
इमं हि सर्व-वर्णानां पश्यन्तो धर्ममुत्तमम् ।
यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥
मनु. / 9 / 6
(301)
इममूर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदां चतुष्पदाम् ।
त्वष्टुः प्रजानां प्रथमं जनित्रमग्ने मा हिंसीः परमे व्योमन् ॥
यजु. / 13 / 50
(302)
इमां धियं शिक्षमाणस्य देव,
क्रतुं दक्षं वरुण सं शिशाधि ।
ययाति विश्वा दुरिता तरेम,
सुतर्माणमधानावं रुहेम ॥
ऋ. / 8 / 42 / 3
(303)
इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि ।
श्रुणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥
ऋ. / 2 / 27 / 1
(304)
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु ।
अनश्रवोऽ
नमीवाः सुरत्ना आरोहन्तु जनयो योनिमग्रे ॥
ऋ. / 10 / 18 / 7
(305)
इमे ये नार्वाङ् न परश्चरन्ति न ब्राह्नणासो न सुते करासः ।
त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥
ऋ. / 10 / 71 / 9
(306)
इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥
ऋ. / 10 / 129 / 7
(307)
इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाधुमपि मत्वा ।
सन्दिग्धमेव सिद्धौ कातरमाशङ्कते चेतः ॥
मालविकाग्निमित्रम् / 4 / 5
(308)
इह क्षेत्रे क्रियते पार्थ कार्यम्,
न वै किञ्चित् क्रियते प्रेत्य कर्म ।
कृतं त्वया पारलौक्यं च कर्म,
पुण्यं महत् सद्भिरतिप्रशस्तम् ॥
महाभा. / उद्योग / 27 / 12
(309)
इह गावः प्रजायेध्वमिहाश्वा इह पूरुषाः ।
इहो समस्रदक्षिणोऽ
पि पूषा निषीदति ॥
अथर्व. /20 / 127 / 12
(310)
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृताः भवन्ति ॥
केनोपनिषत् / 3 / 5
(311)
इह पुष्टिरिह रस इह सहस्रसातमा भव ।
पशून् यमिनि पोषय ॥
अथर्व. / 3 /28 / 4
(312)
इह रतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहा ।
उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् ।
रायस्पोषमस्मासु दीधरत् स्वाहा ॥
यजु. / 8 / 51
(313)
इह लोके धनिनां ,
परोऽ
पि स्वजनायते ।
स्वजनोऽ
पि दरिद्राणां सर्वदा दुर्जनायते ॥
पञ्च. / मित्र. / 5
(314)
इह विरचयन्साध्वीं शिष्यः क्रियां न निवार्यते,
त्यजाति तु यदा मार्गं मोहात्तदा गुरुरङ्कशः ।
विनयरुचयस्तस्मात्सन्तः सदैव निरङ्कुशः,
परतरमतः स्वातन्त्र्येभ्यो वयं हि पराङमुखाः ॥
मुद्राराक्षस / 3 / 6
(315)
इह वैकस्य नामुत्र अमुत्रैकस्य नो इह ।
इह वाऽ
मुत्र चैकस्य नामुत्रैकस्य नो इह ॥
महाभा. / वनपर्व / 183 / 88
(316)
इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।
क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वगृहे ॥
ऋ. / 10 / 85 / 42
(317)
ईर्ष्या मादोऽ
तिवादश्च संज्ञानाशोऽ
भ्यसूयता ।
तस्मात् प्राज्ञो न माद्येत,
सदा ह्येतत् विगर्हितम् ॥
महाभा. / उद्योग / 45 / 11
(318)
ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् ।
अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥
अर्थर्व. / 6 / 18 / 1
(319)
ईर्ष्यी घृणी न सन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते नित्यदुः खिताः ॥
महाभारत / उद्योग / प्रजागर / 33 / 90
(320)
ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।
अपो याचामि भेषजम् ॥
ऋ. / 10 / 9 / 5
(321)
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥
यजु. / 40 / 1
(322)
ईश्वरः सर्वभूतानां हृद्देशेऽ
र्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानीव मायया ॥
महाभा. / भीष्मपर्व / 42 / 61
(323)
ईश्वरा भूरिदानेन यल्लभन्ते फलं किल ।
दरिद्रस्तच्च काकिण्या प्राप्नुयादिति नः श्रुतिः ॥
पञ्च. / मित्रसम्प्राप्तिः / 73
(324)
उक्तो भवति यः पूर्वम्,
गुणवानििति संसदि ।
न तस्य दोषो वक्तव्यः,
प्रतिज्ञाभङ्गभीरुणा ॥
पञ्च. / मित्रभेद / 374
(325)
उचितमनुचितं वा कुर्वता कार्यमादौ,
परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्तेर्भवति
हृदयदाही शल्यतुल्यो विपाकः ॥
भोजप्रबन्ध / 24
(326)
उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु ।
अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम् ॥
ऋ. / 10 / 71 / 5
(327)
उत त्वः पश्यन्न ददर्श वाचमुत त्वः श्रृण्वन्न श्रृणोत्येनाम् ।
उतो त्वस्मै तन्वं विसस्रे जायेव पत्ये उशती सुवासाः ॥
ऋ. / 10 /71 / 4
(328)
उत देवा अवहितं,
देवा उन्नयथा पुनः ।
उतागः चक्रुशं देवा देवा जीवयथा पुनः ॥
ऋ. / 10 / 137 / 1
(329)
उत बालाय पाण्डित्यं पण्डितायोत बालताम् ।
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥
महाभा. / उद्योग / 31 / 2
(330)
उत सन्तमसन्तं वा,
बालं वृद्धं च संजय ।
उताबलं बलीयांसम्,
धाता प्रकुरुते वशे ॥
महाभा. / उद्योग / 31 / 1
(331)
उत्क्राम महते सौभगायास्मादास्थानात् द्रविणोदा वाजिन् ।
वयं स्याम सुमतौ पृथिव्या अग्निं खनन्त उपस्थे अस्याः ॥
यजु. /11 / 21
(332)
उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो ।
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तेषिताः ॥
मन्त्राराधन-तत्परेण मनसा नीताः श्मशाने निशाः ।
प्राप्तः काणवराटकोऽ
पि न मया,
तृष्णोऽ
धुना मुञ्च माम् ॥
श्रृंगारशतक / 4
(333)
उत्तमस्यापि वर्णस्य नीोचोऽ
पि गृहमागतः ।
पूजनीयो यथायोग्यं,
सर्वदेवमयोऽ
तिथिः ॥
हितोपदेश/ मित्रलाभ
(334)
उत्तमा तत्त्वचिन्तैव,
मध्यमा शास्त्रचिन्तनम् ।
अधमा मन्त्रचिन्ता च,
तीर्थभ्रान्त्यधमाधमा ॥
मैत्रेय्युपनिषद् / अ. 2 / 2
(335)
उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान् ।
अधमांस्तु न सेवेत,
य इच्छेद् भूतिमात्मनः ॥
महाभा. / उद्योग / 36 / 20
(336)
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तदभारतं नाम भारती यत्र सन्ततिः ॥
विष्णुपुराण. / 2 / 3
(337)
उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते ।
सुवृष्टिगुणसम्पन्नाद्बीजमिवापरम् ॥
पञ्चत. / मित्रभेद / 60
(338)
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया,
दुर्गं पथस्तत् कवयो वदन्ति ॥
कठोप. / चथी वल्ली / 14
(339)
उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।
संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥
अथर्व. / 11 / 9 / 2
(340)
उत्तिष्ठ ब्रह्नणस्पते देवयन्तस्त्वेमहे ।
उप प्रयन्तु मरुतः सुदानव इन्द्र प्राशुर्भवा सचा ॥
ऋ. / 1 / 40
(341)
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥
शिशुपालवध / 2 / 10
(342)
उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः ।
स्मीक्ष्य च समारम्भो विद्घि मूलं भवस्य तु ॥
महाभा. / उद्योग / 39 / 68
(343)
उत्पादक-ब्रह्नदात्रोः गरीयान् ब्रह्नदः पिता ।
ब्रह्न-जन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥
मनु. / 2 / 146
(344)
उत्पाद्य पुत्राननृणांश्च कृत्वा,
वृत्तिं च तेभ्योऽ
नुविधाय काञ्चित् ।
स्थाने कुमाीरीः प्रतिपाद्य सर्वाः ,
अरण्यसंस्थोऽ
थ मुनिर्बुभूषेत् ॥
महाभा. / उद्योग / 37 / 39
(345)
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥
पञ्च. / अपरीक्षितकारक / 37
(346)
उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ।
उत्साहमात्रमाश्रित्य,
प्रतिलप्स्याम जानकीम् ॥
वा. रामा. / किष्किन्धा / 122
(347)
उत्साहसम्पन्नमदीर्घसूत्रम्,
क्रियाविधिज्ञं विषयेष्वसक्तम् ।
शूरं कृतज्ञं दृढसौहृदं च,
लक्ष्मीः स्वयं याति निवासन्हेतोः ॥
पञ्च. / मित्रसम्प्राप्ति / 119
(348)
उत्साहो बलवानार्य . नास्त्युत्साहात् परं बलम् ।
सोत्साहस्य हि लोकेषु,
न किञ्चिदपि दुर्लभम् ॥
वाल्मीकिरामा. / किष्किन्धा / 1 / 121
(349)
उदयति यदि भानुः पश्चिमे दिग्विभागे,
प्रचलति यदि मेरुः शीततां याति वह्रिः ।
विकसति यदि पट्नं पर्वताग्रे शिलायाम्,
न भवति पुनरुक्तं भाषितं सज्जनानाम् ॥
(350)
उदीरितोऽ
र्थः पशुनाऽ
पि गृह्यते,
हयाश्च नागाश्च वगन्ति चोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः ॥
पञ्चतन्त्र. / मित्रभेद / 41
(351)
उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥
ऋ. / 1 / 50 / 1
(352)
उद्धरेदात्मनात्मानं मज्जमानं यथाऽ
म्भसि ।
भोगनद्यतिवेगेन ज्ञानवृक्षं समाश्रयेत् ॥
अग्निपु. / द्विय खण्ड / 184 / 21
(353)
उद्यमेन हि सिध्यन्ति,
कार्यणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य,
प्रविशन्ति मुखे मृगाः ॥
पञ्च. / मित्रसम्प्राप्ति / 129
(354)
उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं करेमि ।
आ हि रोहेममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥
अथर्व. / 8 / 1 / 6
(355)
उद्योगिनं सततमत्र समेति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या,
यत्ने कृते यदि न सिध्यति,
कोऽ
त्रदोषः ॥
पञ्च. / मित्रभेद / 149
(356)
उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
ऋ. / 1 / 50 / 10
(357)
उपकर्त्राऽ
रिणा सन्धिर्न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥
शिशुपालवध / 2 / 37
(358)
उपकाराच्च लोोकानां निमित्तान्मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां,
मैत्री स्याद्दर्शनात् सताम् ॥
पञ्च. / मित्रसम्प्राप्तिः / 37
(359)
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥
पञ्च. / मित्रभेद / 191
(360)
उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् ।
व्रजन्ति ते दुरात्मानस्तामिस्रं नरकं नृप ॥
विष्णु -पुराण / 3 / 11 / 104
(361)
उप त्वाग्ने दिवे दिवे दोषावस्तर्धिया वयम् ।
नमो भरन्त एमसि ॥
ऋ. / 1 / 1 / 7
(362)
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयः पानं भुजङ्गानां केवलं विषवर्धनम् ॥
पञ्च. / मित्रभेद / 340
(363)
उपनीय गुरुः शिष्यं,
शिक्षयेच्छौचमादितः ।
आचारमग्निकार्यं च,
सन्ध्योपासनमेव च ॥
मनु. / 2 69
(364)
उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः ।
तस्माद् दूरेण स त्याज्यो,
न्यायं वा कीर्तियेदृतम् ॥
पञ्च. / काकोलूकीय / 106
(365)
उपस्थितस्य कारस्य प्रतिवादो न विद्यते ।
अपि निर्मुक्तदेहस्य,
कामरक्तस्य किं पुनः ॥
महाभा. / उद्योग / 39 / 44
(366)
उपह्वरे गिरीणां सङ्गमे च नदीनाम ।
धिया विप्रो अजायत ॥
ऋ. / 8 / 6 / 28
(367)
उपायेन जयो यादृग्रिपोस्तादृङ् न हेतिभिः ।
उपायज्ञोऽ
ल्पकायोऽ
पि न शूरैः परिभूयते ॥
पञ्च. / मित्रभेद / 152
(368)
उपार्जितानाामर्थानां त्याग एव हि रक्षणम् ।
तडागोदर-संस्थानां परीवाह इवाम्भसाम् ॥
पञ्च. / मित्रसाम्प्राप्ति / 144
(369)
उपेक्षितः क्षीणबलोऽ
पि शत्रुः,
प्रमाददोषात् पुरुषैर्मदान्धैः ।
साध्योऽ
पि भूत्वा प्रथमं ततोऽ
सावसाध्यतां व्याधिरिव प्रयाति ॥
पञ्च. / मित्रभेद / 179
(370)
उभे सत्ये क्षत्रियैतस्य विद्धि,
मोहान्मृत्युः सम्मतोऽ
यं कवीनाम् ।
प्रमादं वै मृत्युमहं ब्रवीमि,
तथाऽ
प्रमादममृतत्वमेव ॥
महाभा./ उद्योग / 42 / 4
(371)
उलूकयातुं शुशलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥
ऋ. / 7 / 104 / 22
(372)
ऊर्ध्वं प्राणा ह्युत्क्रामान्ति,
यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्याम्,
पुनस्तान् प्रतिपद्यते ॥
मनु. / 2 / 120
(373)
ऊर्ध्वस्तिष्ठा न ऊतयेऽ
स्मिन् वाजे शतक्रतो ।
समन्येषु ब्रवावहै ॥
ऋ. / 1 / 30 / 6
(374)
ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह ।
कृधी न ऊर्ध्वान् चरथाय जीवसे विदा देवेषु नो दुवः ॥
ऋ. / 1 / 36 / 14
(375)
ऋग्यजुस्साम-संज्ञेयं त्रयी वर्णावृतिर्द्विज ।
एतामुज्झति यो मोहात् स नग्नः पातकी द्विजः ॥
विष्णुपुराण / 3 / 17 / 5
(376)
ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये साम प्राणं प्रपद्ये ।
चक्षुः श्रोत्रं प्रपद्ये वागौजः सहौजो मयि प्राणापानौ ॥
यजु. / 36 / 1
(377)
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति,
य इत्तद विदुस्त इमे समासते ॥
ऋ. / 1 / 164 / 39
(378)
ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च ।
व्याधिशेषं च निःशेषं कृत्वा प्राज्ञोन सीदति ॥
पञ्ज. / काकोलूकीय / 218
(379)
ऋतस्य दातारमनुत्तमस्य,
विधिं निधीनामपि लब्धविद्याः ।
ये नाद्रियन्ते गुरुमर्चनीयम्,
पापान् लोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥
महाभारत
(380)
ऋतस्य हि शुरुधः सन्ति पूर्वीर्ऋतस्य धीतिर्वृजनानि
हन्ति । ऋतस्य श्लोको बधिराततर्द कर्णा बुधानः शुचमान आयोः ॥
ऋ. 4 / 23 / 8
(381)
ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् ।
अनादिनिधना नित्या,
वागुत्सृष्टा स्वयमभुवा ॥
महाभा. / शान्ति / 232 / 24
(382)
ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।
प्रभवो नातिगन्तव्यः स्त्रीणां दुश्चरितस्य च ।
महाभा./ उद्योग / 72
(383)
एकं प्रसूयते माता,
द्वितीयं वाक्प्रसूयते ।
वाग्जातमधिकं प्रोचुः,
सौदर्यादपि बन्धुवत् ॥
पञ्च. / लब्धप्रणाश / 6
(384)
एकं विषरसो हन्ति शास्त्रेणैकश्च वध्यते ।
सराष्ट्रं सप्रजं हन्ति,
राजनां मन्त्रविप्लवः ॥
महाभा. / उद्योग. / 33 / 45
(385)
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद् राष्ट्रं सराजकम् ॥
महाभा. / उद्योग. / 33 / 43
(386)
एकः पापानि कुरुते,
फलं भुङक्ते महाजतः ।
भोक्तारो विप्रमुच्यन्ते,
कर्ता दोषेण लिप्यते ॥
महाभा. / उद्योग. / 33 / 42
(387)
एकः सम्पन्नमश्नाति,
वस्ते वासश्च शोभनम् ।
योऽ
संविभज्य भृत्येभ्यः,
को नृशंसतरस्ततः ॥
महाभा. / उद्योग / 33 / 41
(388)
एकः स्वादु न भुञ्जीत,
एकश्चार्थान्न चिन्तयेत् ।
एको न गच्छेदध्वानम्,
नैकः सुप्तेषु जागृयात् ॥
महाभा. / उद्योग / 33 / 46
(389)
एक एव चरेन्नत्यं सिद्ध्यर्थमसहायकः ।
सिद्धिमेकस्यापश्यन्हि न जहाति न हीयते ॥
नारपरिव्राजकोपनिषद् / 53
(390)
एक एव सुहृद्धर्मो निधनेऽ
प्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥
हितोपदेश. / 1 / 66
(391)
एक एव हितार्थाय तेजस्वी पार्थिवो भुवः ।
युगान्त इव भास्वन्तो बहवोऽ
त्र विपत्तये ॥
पञ्च. / काकोलूकीय / 76
(392)
एकमेव व्रतं श्लाघ्यं ब्रह्नचर्यं जगत्त्रये ।
यद्विशुद्धिं समापन्नाः पूज्यन्ते पूजितैरपि ॥
ज्ञानार्णव
(393)
एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ ।
फलाफलवती शाखे यथैकस्मिन् वनस्पतौ ॥
महाभा. / उद्योग / 4 / 3
(394)
एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।
बहूनां भवति क्षेमं,
तस्य पुण्यप्रदो वधः ॥
विष्णुपुराण / 1 / 13 / 74
(395)
एकस्य कर्म संवीक्ष्य करोत्यन्योऽ
पि गर्हितम् ।
गतानुगतिको लोकः,
न लोकः पारमार्थिकः ॥
पञ्च. / मित्रभेद / 294
(396)
एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् ।
तस्यानेकपरिक्लेशे गृहे किं वसतः फलम् ॥
पञ्च. / काकोलुकीय / 160
(397)
एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः ।
सोऽ
पि संवाह्यते लोके तृष्णया पश्य कौतुकम् ॥
पञ्च. / अपरीक्षितकारक / 13
(398)
एकेनापि हि शूरेण पादाक्रान्तं महीतलम् ।
क्रियते भास्करेणेव परिस्फुरिततेजसा ॥
नीतिशतक / 99
(399)
एकेषां वाचि शुकवदन्येषां हृदि मूकवत् ।
हृदि वाचि तथाऽ
न्येषां वल्गु वल्गन्ति सूक्तयः ॥
पञ्च. / मित्रभेद / 62
(400)
एको देवः केशवो वा शिवो वा,
एकं मित्रं भूपतिर्वा यतिर्वा ।
एको वासः पत्तने वा वने वा,
एका नारी सन्दुरी वा दरी वा ॥
नीतिसतक / 65
(401)
एको धर्मः परं श्रेयः,
क्षमैका शान्तिरुत्तमा ।
विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥
महाभा. / उद्योग / 33 / 52
(402)
एकोऽ
प्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।
राजानां राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥
वा. / रामायण / अयोध्या. / 100 / 24
(403)
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽ
नुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥
कठ उप. / पाँचवीं वल्ली / 12
(404)
एतज्ज्ञेयं नित्यमेवात्मसंस्थ,
वेदितव्यं हि किञ्चित् ।
भोक्ता भोग्यं प्रेरितारं च मत्वा,
सर्वं प्रोक्तं त्रिविधं ब्रह्न ह्येतत् ॥
श्वेताश्वतर उप. / अध्याय -1 / 12
(405)
एतदेवायुषः सारं निसर्गक्षणभङ्गिनः ।
स्निग्धैर्मुधैर्विदग्धैश्च यदयन्त्रितमास्यते ॥
(406)
एतेन ब्रह्नचर्येण देवा देवत्वमाप्नुवन् ।
ऋषयश्च महाभागा ब्रह्नलोकं मनीषिणः ॥
महाभा. / उद्योग / 44 / 20
(407)
एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य ये,
सामान्यास्तु परार्थमुद्यमभृताः स्वार्थविरोधेन ये ।
तेऽ
मी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये,
ये निघ्नन्ति निरर्थकं परहितं,
ते के न जानीमहे ॥
नीतिशतक / 7
(408)
एवं जरा हन्ति च निर्विशेषं,
स्मृतिं च रूपं च पराक्रमं च ।
न चैव संवेगमुपैति लोकः,
प्रत्यक्षतोऽ
पीदृशमीक्षमाणः ॥
(409)
एवं पुनर्ब्रह्नचर्याप्रसक्तो,
हित्वा धर्मं यः करोत्यधर्मम् ।
अश्रद्दधत् परलोकाय मूढो,
हित्वा देहं तप्यते प्रेत्य मन्दः ॥
महाभा. / उद्योग / 27 / 9
(410)
एष सर्वेषु भूतेषु गूढोऽऽ
त्मा न प्रकाशते ।
दृश्यते त्वग्रयया बुद्धया सूक्ष्मदर्शिभिः ॥
कठोपनिषद् / चतुर्थवल्ली / 12
(411)
एष स्वभावो नारीणामनुभूय पुरा सुखम् ।
अल्पामप्यापदां प्राप्य दुष्यन्ति प्रजहत्यपि ॥
वा. रामायण / 2 / 34 / 39
(412)
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
इत्थमाशा-ग्रहग्रस्तैः क्रीडन्ति धनिनोऽ
र्थिभिः ॥
(413)
ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् ।
नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥
मनु. / 8 / 344
(414)
ऐश्वर्यशालिनमहो महताऽऽ
श्रयेण,
सर्वे जनाः सरभसं स्वयमाश्रयन्ते ।
रत्नप्रसूतिरिति खल्वखिलाः स्रवन्त्यः,
पाथोनिधिं समुपयान्ति बहोश्च दूरात् ॥
सूक्तिमुक्तावली/ 5
(415)
ऐश्वर्यस्य विभूषणं सुजनता,
शौर्यस्य वाक्संयमो,
ज्ञानस्योपशमः,
श्रुतस्य विनयो,
वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः,
क्षमा प्रभवितुर्धर्मस्य निर्व्याजता,
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥
नीतिशतक / 78
(416)
ऐश्वर्यादनपेतमीश्वरमयं लोकोऽ
र्थतः सेवते,
ये गच्छन्त्यु तं विपत्तिषु पुनः ते तत्प्रतिष्ठाशयाः ।
भर्तुर्ये प्रलयेऽ
पि पूर्वसुकृतासङ्गेन निःसङ्गया,
भक्त्या कार्यधुरां वहन्ति कृतिनस्ते दुर्लभास्त्वादृशाः ॥
मुद्राराक्षस / 1 / 14
(417)
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
रज्ज्वेव पुरुषं बदध्वा कृतान्तः परिकर्षति ॥
वा. रामायण / सुन्दरका. / 37 / 3
(418)
ओजश्च मे सहश्च आत्मा च मे तनूश्च मे शर्म च मे
वर्म च मेऽ
ङ्गानि च मेऽ
स्थीनि च मे परुूँषि च मे शरीराणि
च म आयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ॥
यजु. / 18 / 3
(419)
ओषधयः समवदन्त सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्नस्तं राजन् पारयमसि ॥
यजु. / 12 / 96
(420)
ओषधीः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥
यजु. / 12 / 77
(421)
ओषधीरितिमातरस्तद्वो देवीरुपब्रुवे ।
सनेयमश्वं गां वास आत्मानं तव पूरुष ॥
यजु. / 12 / 18
(422)
और्वं भृगुवच्छुचिमप्नवानवदा हुवे ।
अग्नं समुद्रवाससम् ॥
साम. / 18
(423)
कः कं शक्तो रक्षितुं मृत्युकाले,
रज्जुच्छेदे के घटं धारयन्ति ।
एवं लोकस्तुल्यधर्मो वनानाम्,
काले काले छिद्यते रुह्यते च ॥
स्वप्नवासषदत्तम्. / 5 / 10
(424)
कः कस्य पुरुषो बन्धः,
किमाप्यं कस्य केनचित् ।
यदेको जायते जन्तुरेक एव विनश्यति ॥
वाल्मीकि रा. / अयोध्याका. / 108 / 3
(425)
कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।
को वाऽ
हं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥
चाणक्यनीति / 4 / 18
(426)
कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते ।
हन्ति रक्षति चैवात्मा ह्यसत्साधु समाचरन् ॥
विष्णुपराण / 1 / 18 / 3
(427)
कः प्रसूते पुरोवातं,
कः प्रेरयति वारिदम्,
प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ।
कालः करोति कार्यणि,
काल एव विहन्ति च,
करोमीति विहन्मीति मूर्खो मुह्यति केवलम् ॥
सभारञ्जनशतक / 63-64
(428)
कटु क्वणन्तो महदायकाः खलाः,
तुदन्त्यलं बन्धनश्रृङ्खला इव ।
मनस्तु साधुध्वनिभिः पदे-पदे,
हरन्ति सन्तो मणिनूपुरा इव ॥
कादम्बरी मु. / 6
(429)
कण्ठस्था या भवेद्विद्या सा प्रकाश्या सदा बुधैः ।
या गुणौ पुस्तके विद्या तया मूढः प्रतार्यते ॥
भोजप्रबन्ध / 4
(430)
कतिपयदिवसस्थायिनी मदकारिणि यौवने दरात्मानः ।
विदधति तथापराधं जन्मैव यथा वृथा भवति ॥
भोज-प्रबन्ध. / 39
(431)
कदा क्षत्रश्रियं नरमा वरुणं करामहे ।
मृडीकायोरुचक्षसम् ॥
ऋ. / 1 /25 / 5
(432)
कनकभूषणसंग्रहणोचितो,
यदि मणिस्त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि च शोभते,
भवति योजयितुर्वचनीयता ॥
पञ्च. / मित्रभेद / 77
(433)
कनकमपि रहस्यवेक्ष्य बुद्ध्या,
तृणमिव यस्समवैति परस्वम् ।
भवति च भगवत्यनन्तचेताः,
पुरुषवरं तमवेहि विष्णुभक्तम् ॥
श्रीविष्णुपुराण / 3 / 7 / 22
(434)
कर्म चैव हि सर्वेषां करणानां प्रयोजनम् ।
श्रेयःपापीयसां चात्र फलं भवति कर्मणाम् ॥
वा. रा. / युद्धका. / 64 / 7
(435)
कर्मणा जायते सर्वं कर्मैव गतिसादनम् ।
तस्मात् सर्वप्रयत्नेन,
साधु कर्म समाचरेत् ॥
विष्णुपुराण / 1 / 18 / 32
(436)
कर्मायत्तम् फलं पुंसाम्,
बुद्धिः कर्मानुसारिणी ।
तथापि सुधियाऽऽ
चार्याः सुविचार्यैव कुर्वते ॥
चाणक्यनीति / 13 / 18
(437)
कवयः किं न पश्यन्ति,
किं न कुर्वन्ति योषितः ।
मद्यपाः किं न जल्पन्ति,
किं न खादन्ति वायसाः ॥
चाणक्यनीति / 10 / 14
(438)
कवित्वं न श्रृणोत्येव,
कृपणः कीर्तिवर्जितः ।
नपुंसकः किं कुरुते,
पुरःस्थित-मृगीदृशा ॥
भोजप्रबन्ध / 130
(439)
कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः ।
विध्यमानश्रुतेर्मा भूद्दुर्जनस्य कथं व्यथा ॥
(440)
कश्चित्तरति काष्ठेन सुगभीरां महानदीम् ।
स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥
महाभा. / शान्तिपर्व / 138 / 62
(441)
कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् ।
कष्टात् कष्टतरञ्चैव परगेह-निवासनम् ॥
चाणक्यनीति / 2 / 8
(442)
कस्य दोषः कुले नास्ति,
व्याधिना को न पीडितः ।
व्यसनं केन न प्राप्तम्,
कस्य सौख्यं निरन्तरम् ॥
चाणक्यनीति / 3 / 1
(443)
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा ।
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥
मेघदूत / उत्तरमेघ / 46
(444)
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तसमये तात. काकः काकः पिकः पिकः ॥
(445)
काकः पट्नवने रतिं न कुरुते,
हंसो न कूपोदके,
मूर्कः पण्डितसङ्गमे न रमते,
दासो न सिंहासने ।
कुस्त्री सज्जनसङ्गमे न रमते,
नीचं जनं सेवते,
या यस्य प्रकृतिः स्वभावजनिता,
केनापि न त्यज्यते ॥
(446)
काकाः किं किं न कुर्वन्ति,
कोङ्कारं यत्र तत्र वा ।
शुक एव परं वक्ति,
नृपहस्तोपलालितः ॥
भोजप्रबन्ध / 192
(447)
का खलेन सह स्पर्धा सज्जनस्याभिमानिनः ।
भाषणं भीषणं साधोर्दूषणं यस्य भूषणम् ॥
(448)
काचः काञ्चनसंसर्गाद्धत्ते मारकतीं द्युतिम् ।
तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम् ॥
हितोपदेश / प्रस्तावना / 41
(449)
काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते ।
न तेषां सन्निधौ भृत्यो नाममात्रोऽ
पि तिष्ठति ॥
पञ्च. / मित्रभेद / 79
(450)
कान्ताकटाक्षविशिखा न दहन्ति यस्य,
चित्तं न निर्दहति कोपकृशानुतापः ।
कर्षन्ति भूरि विषयाश्च न लोभपाशैर्लोकत्रयं
जयति कृत्स्नमिदं स धीरः ॥
नीतिशतक / 108
(451)
कान्तावियोगः स्वजनापमानः ,
ऋणस्य शेषः कुजनसय् सेवा ।
दरिद्रभावो विषमा सभा च,
विनाग्रिमेते प्रदहन्ति कायम् ॥
चाणक्य / 2 / 14
(452)
कान्तोऽ
सि नित्यमधुरोऽ
सि रसाकुलोऽ
सि,
किं चासि पञ्चशरकार्मुकमद्वितीयम् ।
इक्षो तवास्ति सकलं परमेकमूनम्,
यत्सेवितो भजसि नीरसतां क्रमेण ॥
भोजप्रबन्ध / 234
(453)
कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये ।
तांस्तु सर्वान् परित्यज्य परिव्राट् निर्ममो भवेत् ॥
श्रीविष्णुपुराण / 3 / 9 / 30
(454)
काम-क्रोधग्राहवतीं पञ्चोन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणइ सन्तर ॥
महाभा. / उद्योग. / 4 / 23
(455)
कामधेनुगुणा विद्या ह्यकाले फलदायिनी ।
प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥
चाणक्यनीति / 4 / 5
(456)
कामाभिभूता हि न यान्ति शर्म,
त्रिविष्टपे किं बत मर्त्यलोके ।
कामैः सतृष्ण हि नास्ति
तृप्तिर्यथेन्धनैर्वातसखस्य वह्रेः ॥
(457)
कामार्थौ लिप्समास्तु,
धर्ममेवादितश्चरेत् ।
न हि धर्माद् भवेत् किञ्चिद् दुष्प्राप्यमिति मे मतिः ॥
(458)
कायः सन्निहितापायः सम्पदः क्षणभङ्गुराः ।
समागमाः सापगमाः सर्वेषामेव देहिनाम् ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 179
(459)
कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ।
अर्थार्थी जीवलोकोऽ
यं न कश्चित् कस्यचित् प्रियः ॥
(460)
कार्त्स्न्यन निर्वर्णयितुं च रूपम्,
इच्छन्ति तत्पूर्वसमागमानाम् ।
न च प्रियेष्वायतलोचनानाम्,
समग्रपातीनि विलोचनानि ॥
मालविकाग्निमित्रम् / 4 / 8
(461)
कार्ये कर्माणि निर्वृत्ते यो बहून्यपि सादयेत् ।
पूर्वकार्याविरोधेन स कार्यं कार्त्तुमर्हति ॥
वा. रामायण / सुन्दर का. / 41 / 5
(462)
कालः पचति भूतानि,
कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति,
कालो हि दुरतिक्रमः ॥
चाणक्यनीति / 6 / 7
(463)
कालक्रमेण जगतः परिवर्तमाना ।
चक्रारपङ्क्तिरिव गच्छति भाग्य-पङ्किः ॥
स्वप्नवासवदत्तम् / 1 / 4
(464)
कालाकालौ सम्प्रधार्य बलाबलमथात्मनः ।
परस्परं बलं ज्ञात्वा तत्रात्मानं नियोजयेत् ॥
महाभा. / शा. पर्व. / 140 / 29
(465)
काले तपः काले ज्येष्ठं काले ब्रह्न समाहितम् ।
कालो ह सर्वस्येश्वरो,
यः पिताऽऽ
सीत् प्रजापतेः ॥
अथर्व. / 19 / 53 / 8
(466)
काले प्राप्तं महारत्नं यो न गृहणात्यबुद्धिमान् ।
अन्यहस्तगतं दृष्ट्वा पश्चात् स परितप्यते ॥
अमरुक
(467)
कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।
तमारोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥
अथर्ववेद / 19 / 53 / 1
(468)
कालो भवाय भूतानामभवाय च पाण्डव ।
कालमूलमिदं ज्ञात्वा,
भव स्थैर्यपरोऽ
र्जुन ॥
विष्णुपुराण / 5 / 38 / 55
(469)
किं करोत्येव पाण्डित्यमस्थाने विनियोजितम् ।
अन्धकारप्रतिच्छन्ने घटे दीप इवाहितः ॥
पञ्च. / मित्रभेद / 344
(470)
किं कवेस्तस्य किं काण्डेन धनुष्मतः ।
परस्य हृदये लग्नं नाघूर्णयति यच्छिरः ॥
(471)
किं कुलेन विशालेन विद्याहीने च देहिनाम् ।
दुष्कुलं चापि विदुषो देवैरपि हि पूज्यते ॥
चाणक्यनीति / 8 / 19
(472)
किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् ।
भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥
मृच्छकटिक
(473)
किञ्चित् परस्वं न हरेन्नाल्पमप्रियं वदेत् ।
प्रियं च नानृतं ब्रूयान्नान्यदोषान्नुदीरयेत् ॥
विष्णुपुराण / 3 / 12 / 4
(474)
किं चन्दनैः सकर्पूरैस्तुहिनैः किं च शीतलैः ।
सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ॥
पञ्च. / मित्रसम्प्राप्ति / 60
(475)
किं जातैः बहुभिः पुत्रैः शोकसन्तापकारकैः ।
वरमेकः कुलालम्बी,
यत्र विश्राम्यते कुलम् ॥
चाणक्यनीति / 3 / 17
(476)
किं तया क्रियते धेन्वा,
या न सूते न दुग्धदा ।
कोऽ
र्थः पुत्रेण जातेन,
यो न विद्वान्न भक्तिमान् ॥
पञ्चतनत्र / कथामुख / 5
(477)
किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता ।
धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥
वा. रामायण / किष्किन्धा / 25 / 8
(478)
किं तेन हेमागिरिणा रजताद्रिणा वा,
यत्राश्रिताश्च तरवस्तरवस्त एव ।
मन्यामहे मलयमेव यदाश्रयेण,
कङ्कोलनिम्बकुटजा अपि चन्दनाः स्युः ॥
नीतिशतक / 75
(479)
किं दुःसहं साधूनां,
विदुषां किमपेक्षितम् ।
किमकार्यं कदर्याणाम्,
दुस्त्यजं किं धृतात्मानाम् ॥
श्रीमदभागवत / 10 / 1 / 58
(480)
किं मधुना किं विधुना किं सुधया किं च वसुधयाऽ
खिलया ।
यदि हृदयहारिचरितः पुरुषः पुनरेति नयनयोरयनम् ॥
(481)
किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः ।
सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः ॥
अग्निपुराण / 87 ( 1 ) / 9
(482)
किंशुके किं शुकः कुर्यात् फलितोऽ
पि बुभुक्षितः ।
अदातरि समृद्धेऽ
पि किं कुर्युरुपजीविनः ॥
(483)
किं शेषस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्,
किं वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः ।
किन्त्वङ्गीकृतमुत्सृजन् कृपणवत् श्लाघ्यो जनो लज्जते,
निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् ॥
मुद्राराक्षस / 2 / 18
(484)
कीटोऽ
पि सुमनःसङ्गादारोहति सतां शिरः ।
अश्मापि याति देवत्वं महदभिः सुप्रतिष्ठितः ॥
(485)
कुग्रामवासः कुलहीननसेवा,
कुभोजनं क्रोधमुखी च भार्या ।
पुत्रश्च मूर्खो विधवा च कन्या,
विनाग्निं ते नः प्रदहन्ति कायम् ॥
चाणक्यनीति / 3 / 8
(486)
कुचैलिनं दन्तमलोपधारिणम्,
बह्वाशिनं निष्ठुरभाषिणं च ।
सूर्योदये चास्तमिते शयानम्,
विमुञ्चति श्रीर्यदि चक्रपाणिः ॥
चाणक्यनीति / 15 / 4
(487)
कुटुम्बचिन्ताकुलितस्य पुंसः,
श्रुतञ्च शीलञ्च गुणाश्च सर्वे ।
अपक्वकुम्भे निहिता इवापः,
प्रयान्ति देेहेन समं विनाशम् ॥
पट्नपुराण / 2 / 26 / 158
(488)
कुतो निद्रा दरिद्रस्य,
परप्रेष्यकस्य च ।
परनारी-प्रसक्तस्य,
परद्रव्यहरस्य च ॥
(489)
कुपितोऽ
पि गुणायैव गुणवान् भवति ध्रुवम् ।
स्वभावमधुरं क्षीरं मथितं तु रसोत्तरम् ॥
नराभरण / 30
(490)
कुभोज्येन दिनं नष्टं,
कुकलत्रेण शर्वरी ।
कुपुत्रेण कुलं नष्टं,
तन्नष्टं यन्न दीयते ॥
शार्ङ्गधरपद्धति
(491)
कुमुदवनपश्रि श्रीमदम्भोजषण्डम्,
त्यजति मुदमुलूकः प्रीतिमांशचक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांशुरस्तम्,
हतविधिनिहतानां ही विचित्रो विपाकः ॥
भोजप्रबन्ध / 279
(492)
कुरङ्ग - मातङ्ग - पतङ्ग - पृङ्ग -,
मीना हताः पञ्चभिरेव पञ्च ।
एकः प्रमादी स कथं न हन्यते,
यः सेवते पञ्चभिरेव पञ्च ॥
गरुडपुराण
(493)
कुराजराज्येन कुतः प्रजासुखम्,
कुमित्रमित्रेण कुतोऽ
भिनिर्वृतिः ।
कुदारदारैश्च कुतो गृहे रतिः,
कुशिष्यमध्यापयतः कुतो यशः ॥
चाणक्यनीति / 6 / 14
(494)
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽ
स्ति,
न कर्म लिप्यते नरे ॥
यतु. / 40 / 2
(495)
कुलं च शीलं च सनाथता च,
विद्या च वित्तं च वपुर्वयश्च ।
एतान् गुणान् सप्त विचिन्त्य देया,
कन्या बुधैः शेषमचिन्तनीयम् ॥
पञ्चतन्त्र / काकोलुकीय / 188
(496)
कुलं वृत्तं श्रुतं शौर्यं सर्वमेतन्न गण्यते ।
दुर्वृत्ते वा सुवृत्ते वा,
जनो दातरि रज्यति ॥
(497)
कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः ।
यथोक्तवादी स्मृतिमान् दूतः स्यात् सप्तभिर्गुणैः ॥
(498)
कुले जातो बलवान् यो यशस्वी,
बहुश्रुतः सुखजीवी यतात्मा ।
धर्माधर्मौ ग्रथितौ यो बिभर्त्ति,
स ह्यस्य दिष्टस्य वशादुपैति ॥
महाभा. / उद्योग / 32 / 19
(499)
कुसुमस्तबकस्येव द्वयीवृत्तिर्मनस्विनः ।
मूर्ध्नि वा सर्वलोकानां शीर्यते वन एव वा ॥
नीतिशतक / 15
(500)
कुसुमान्यपि गात्रसंगमात् प्रभवन्त्यायुरपोहितुं यदि ।
न भविष्यति हन्त साधनं किमिवान्यत् प्रहरिष्यतो विधेः ॥
रघुवंश / 8 / 44
(501)
कूपोदकं वटच्छाया,
श्यामा स्त्री चेष्टकालयः ।
शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥
चाणक्यशतक
(502)
कृतं मे दक्षिणे हस्ते,
जयो मे सव्य आहितः ।
गोजिदभूयासमश्वजिद्,
धनञ्जयो,
हिरण्यजित् ॥
अथर्व. / 7 / 50 / 8
(503)
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।
छन्नं संतिष्ठते वैरं,
गूढोऽ
ग्निरिव दारुषु ॥
महाभा. / शान्ति. / 139 / 44
(504)
कृतान्तपाशबद्धानां दैवोपहतचेतसाम् ।
बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥
पञ्च. / मित्रसम्प्राप्ति / 5
(505)
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ।
तान् मृतानपि क्रव्यादाः कृतघ्रान् नोपभुञ्जते ॥
वा. रामायण / किष्किन्धा / 31 / 73
(506)
कृते प्रतिकृतिं कुर्यात्,
हिंसने प्रतिहिंसनम् ।
तत्र दोषो न पतति,
दुष्टे दौष्टयं समाचरेत् ॥
चाणक्यनीति / 17 / 2
(507)
कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः ।
प्रसुप्तो द्रोणपुत्रेण धृष्टद्युम्नः पुरा हतः ॥
पञ्च. / मित्रभेद / 22
(508)
कृपणोऽ
प्यकुलीनोऽ
पि सज्जनैर्वर्जितः सदा ।
सेव्यते स नरो लोके यस्य स्याद् वित्तसंचयः ॥
पञ्चतन्त्र/ मित्रसम्प्राप्ति / 132
(509)
कृषितो नास्ति दुर्भिक्षं,
जपतो नास्ति पातकम् ।
मौनतः कलहो नास्ति,
नास्ति जागरतो भयम् ॥
नीतिशास्त्र / 46
(510)
कृषेर्वृष्टिसमायोगात्,
काले स्युः फलसिद्धयः ।
सधर्मं पौरुषं कुर्यात्,
नालसो न च दैववान् ॥
अग्निपुराण / 89 / 4
(511)
केतकीकुसुमं भृङ्ग,
पीडयमानोऽ
पि सेवते ।
दोषाः किं नाम कुर्वन्ति,
गुणापहृतचेतसः ॥
(512)
केतुं कृण्वन्नकेतवे,
पेशो मर्या अपेशसे ।
समुषद्भिरजायथाः ॥
ऋ. / 1 / 6 / 3
(513)
केनामृतामिदं सृष्टं मित्रमित्यक्षरद्वयम् ।
आपदां च परित्राणं शोकसन्तापभेषजम् ॥
पञ्च. / मित्रसम्प्राप्ति / 61
(514)
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः,
न स्नानं न विलेपनं न कुसुमं नालङकृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते,
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥
नीतिशतक / 19
(515)
केशः काशस्तबक - विकासः,
कायः प्रकटितकरभविलासः ।
चक्षुर्दग्ध - वराटककल्पं,
त्यजति न चेतः काममनल्पम् ॥
(516)
कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः ।
गदितैर्व्यक्ततामेति कुलीनश्चेष्टितैरिव ॥
(517)
कोकिलानां स्वरो रूपम्,
लज्जा रूपं कुलस्त्रियः ।
विद्यायाः पटुता रूपं,
रूपं मूर्खरप मौनता ॥
चाणक्य - राजनीतिशास्त्र
(518)
कोऽ
तिभारः समर्थानां,
किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानाम्,
कः परः प्रियवादिनाम् ॥
पञ्च. / मित्रसम्प्राप्ति / 57
(519)
को धर्मो भूतदया,
किं सौख्यमरोगिता जन्तोः ।
कः स्नेहः सदभावः,
किं पाण्डित्यं परिच्छेदः ॥
(520)
कोऽ
र्थान् प्राप्य न गर्वितो,
विषयिणः कस्यापदोऽ
स्तं गताः,
स्त्रीभिः कस्य न खण्डितं भुवि मनः,
को नाम राज्यप्रियः ।
कः कालस्य न गोचरत्वमगमत्,
कोऽ
र्थी गतो गौरवम्,
को वा दुर्जन-दुर्गुणेषु पतितः क्षेमेण यातः पथि ॥
चाणक्यनीति / 16 / 4
(521)
को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण ।
तप्तं विकृतं मथितं तथापि यत्स्नेहमुद्रिरति ।
शार्ङ्गधरपद्धति
(522)
कौशेयं कृमिजं सुवर्णमुपलाद् दूर्वापि गोरोमतः,
पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् ।
काष्ठदग्निरहेः फणादपि मणिर्गोपित्ततो रोचना,
प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति,
किं जन्मना ॥
पञ्च. / मित्रभेद / 99
(523)
क्रमेलकं निन्दति कोमलेच्छुः,
क्रमेलकः कण्टलम्पटस्तम् ।
प्रीतौ तयोरिष्टभुजोः सभायां,
मध्यस्थता नैकतरोपहासः ॥
नैषधीय - चरित / 6 / 106
(524)
क्रुद्धः पापं न कुर्यात्,
क्रुद्धो हन्याद् गुरूनपि ।
क्रुद्धः परुषया वाचा,
नरः साधूनधिक्षिपेत् ॥
वा. रामा. / सुन्दरका. / 55 / 4
(525)
क्रूरो लुब्धऽ
लसोऽ
सत्यः प्रमादी भीरुरस्थिरः ।
मूढो युद्दावमन्ता च सुखोच्छेद्यो भवेद् रिपुः ॥
पञ्चतन्त्र / काकोलुकीय / 25
(526)
क्रोधो वैवस्वतो राजा,
तृष्णा वैतरणी नदी ।
विद्या कामदुहा धेनुः,
सन्तोषो नन्दनं वनम् ॥
चाणक्यनीति / 8 / 14
(527)
क्रोधो मूलमनर्थानां,
क्रोधः संसारबन्धनम् ।
धर्मक्षयकरः क्रोदस्तस्मात् क्रोधं विवर्जयेत् ॥
(528)
क्रोधोहर्षश्च दर्पश्च,
ह्रीः स्तम्भो मान्यमानिता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥
महाभा. / उद्योग / 33 / 17
(529)
क्वचिद्धर्मः क्वचिन्मैत्री क्वचिदर्थः क्वचिद्यशः ।
कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला ॥
(530)
क्वचिद् भूमौ शय्या क्वचिदपि च पर्यङ्कशयनः,
क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः ।
क्चचित्कन्थाधारी क्वचिदपि च दिव्याम्बधरो,
मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ॥
नीतिशतक / 82
(531)
क्व दोषोऽ
त्र मया लभ्य इति सञ्चिन्त्य चेतसा ।
खलः काव्येषु साधूनां श्रवणाय प्रवर्त्तते ॥
(532)
क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः ।
सन्त्यज्याम्भोजकिञ्जल्कं हंसाः प्राश्नन्ति शैवलम् ॥
(533)
क्षणे रुष्टाः क्षणे तुष्टाः,
रुष्टास्तुष्टाः क्षणे - क्षणे ।
अव्यवस्थितचित्तानां,
प्रसादोऽ
पि भयङ्करः ॥
(534)
क्षतात् किल त्रायत इत्युदग्रः,
क्षत्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किं तद्विपरीतवृत्तेः,
प्राणैरुपक्रोशमलीमसैर्वा ॥
रघुवंश / 2 / 53
(535)
क्षते प्रहारा निपतन्त्यभीक्ष्णम्,
धनक्षये दीव्यति जाठराग्निः ।
आपत्सु वैराणि समुल्लसन्ति,
छिद्रेष्वनर्था बहुलीभवन्ति ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 180
(536)
क्षमा दानं,
क्षमा सत्यं,
क्षमा यज्ञाश्च पुत्रिकाः ।
क्षमा यशः,
क्षमा धर्मः,
क्षमायां विष्ठितं जगत् ॥
वाल्मीकिरामायण / बालकाण्ड / 33 / 8-9
(537)
क्षमा शस्त्रं करे यस्य,
दुर्जनः किं करिष्यति ।
अतृणे पतितो वह्रिः स्वयमेवोपशाम्यति ॥
(538)
क्षमी दाता गुणग्राही स्वामी दुःखेन लभ्यते ।
अनुकूलः शुचिर्दक्षो राजन् भृत्योऽ
पि दुर्लभः ॥
भोजप्रबन्ध / 93
(539)
क्षान्तितुल्यं तपो नास्ति,
सन्तोषान्न सुखं परम् ।
नास्ति तृष्णासमो व्याधिर्न च धर्मो दयापरः ॥
(540)
क्षान्तिश्चेत् कवचेन किं,
किमरिभिः क्रोधोऽ
स्ति चेद्देहिनाम् ।
ज्ञातिश्चेदनलेन किं,
यदि सुहृद् दिव्यौषधैः किं फलम् ॥
किं सर्पैर्यदि दुर्जनाः,
किमु धनैर्विद्यानवद्या यदि ।
व्रीाडा चेत् किमु भूषणैः,
सुकविता यद्यस्ति राज्येन किम् ॥
(541)
क्षिपसि शुकं वृषदंशकवदने,
मृगमर्पयसि मृगादनरदने ।
वितरसि तुरगं महिष-विषाणे,
निदधच्चेतो भोगविताने ॥
(542)
क्षिप्रं विजानाति चिरं श्रृणोति,
विज्ञाय चार्थं भजते न कामात् ।
नासम्पृष्टो ह्यपयुङक्ते परार्थे,
तत्प्रज्ञानं प्रथमं पण्डितस्य ॥
महाभा. / उद्योग / 33 / 22
(543)
क्षीयन्ते सर्वदानानि,
यज्ञहोमबलिक्रियाः ।
न क्षीयेते पात्रदानमभयं यत्तु दोहिनाम् ॥
चाणक्यनीति / 16 / 14
(544)
क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽ
खिलाः ।
क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः ॥
गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदाम् ।
युक्तं तेन जलेन शाम्यति,
सतां मैत्री पुनस्त्वीदृशी ॥
नीतिशतक / 72
(545)
क्षुधासमा नास्ति शरीर-वेदना,
चिन्तासमा नास्ति शरीरशोषणा ।
विद्यासमा नास्ति शरीरभूषणा,
वृत्त्या समा नास्ति शरीरपोषणा ॥
(546)
खनन्नाखुबिलं सिंहः पाषाणशकलाकुलम् ।
प्राप्नोति नखभङ्गं वा फलं वा मूषको भवेत् ॥
पञ्चतन्त्र / काकोलूकीय / 16
(547)
खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽ
हरत् सीतां,
बन्धनं च महोदधेः ॥
(548)
खलः सर्षपमात्राणि परच्छिद्राणि पशयति ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥
(549)
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।
उपानहमुखभङगो वा दूरादेव विसर्जनम् ॥
चाणक्यनीति / 15 / 3
(550)
खलालापाः सोढाः कथमपि तदाराधनपरैः,
निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा ।
कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि,
त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥
वैराग्यशतक / 6
(551)
खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके,
गच्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः,
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥
नीतिशतक / 84
(552)
ख्याता नराधिपतयः कविसंश्रयेण,
राजाश्रयेण च गताः कवयः प्रसिद्धिम् ।
राज्ञः समोस्ति न कवेः परमोपकारी,
राज्ञो न चास्ति कविना सदृशः सहायः ॥
(553)
ख्यातिं गमयति सुजनः,
सुकविर्विदधाति केवलं काव्यम् ।
पुष्णाति कमलम्भो,
लक्ष्मया तु रविर्नियोजयति ॥
(554)
ख्यापनेनानुतापेन तपसाऽ
ध्यनेन च ।
पापकृन्मुच्यते पापात्तथा दानेन चापदि ॥
मनु. 11 / 227
(555)
गङ्गतीरे हिमगिरिशिला-बद्धपट्नासनस्य,
ब्रह्नध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः,
कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥
वैराग्यशतक / 37
(556)
गच्छन् पिपीलको याति योजनानां शतान्यपि ।
अगच्छन् वैनतेयोऽ
पि पदमेकं न गच्छति ॥
(557)
गण्डस्थलेषु मदवारिषु बद्धरागमत्तभ्रमद
भ्रमरपादतलाहतोऽ
पि ।
कोपं न गच्छति नितान्तबलोऽ
पि नागः,
तुल्ये बले तु बलवान् परिकोपमेति ॥
पञ्च. / मित्रभेद / 130
(558)
गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः ।
अर्थेन तु ये हीना वृद्धास्ते यौवनेऽ
पि स्युः ॥
पञ्च. / मित्रभेद / 10
(559)
गतेऽ
पि वयसि ग्राह्या विद्या सर्वात्मना बुधैः ।
इह चेत्स्यान्न फलदा,
फलदा साऽ
न्यजन्मनि ॥
(560)
गते शोको न कर्त्तव्यो भविष्यं नैव चिन्तयेत् ।
वर्त्तमानेन कालेन प्रवर्त्तन्ते विचक्षणाः ॥
चाणक्यनीति. / 13 / 2
(561)
गतोदके सेतुबन्धो न कल्याणि विधीयते ।
उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय ॥
वा. रामायण / अयोध्या / 9 / 5
(562)
गन्धः सुवर्णे फलमिक्षुदण्डे,
नाकारि पुष्पं खलु चन्दनस्य ।
विद्वान् धनी भूपतिर्दीर्घजीवी,
धातः . पुरा कोऽ
पि न बुद्धिदोऽ
भूत् ॥
चाणक्यनीति / 9 / 3
(563)
गर्जति शरदि न वर्षति,
वर्षति वर्षासु निःस्वनो मेघः ।
नीचो वदति न कुरुते,
न वदति सुजनः करोत्येव ॥
नीतिद्विषष्टिका / अनुबन्ध / 29
(564)
गर्जसि मेघ न यच्छसि तोयम्,
चातक-पक्षी व्याकुलितोऽ
हम् ।
दैवादिहैव यदि दक्षिणवातः,
क्व त्वं क्वाहं क्व च जलपातः ॥
(565)
गाङ्गमम्बु सितामम्बु यामुनं ,
कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुभ्रता,
चीयते न च नापजीयते ॥
(566)
गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः,
दृष्टिर्नश्यति वर्धते बधिरता,
वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शूश्रूषते,
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽ
प्यमित्रायते ॥
वैराग्यशतक / 97
(567)
गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहः ।
जरया पुरुषो जीर्णः,
किं हि कृत्वा प्रभावयेत् ॥
वा. रामायण / अयोध्या. / 105 / 23
(568)
गायन्ति देवाः किल गीतकानि,
धन्यास्तु ते भारतभूमिभागे ।
स्वर्गापवर्गास्पदमार्गभूते,
भवन्ति भूयः पुरुषाः सुरत्वात् ॥
विष्णुपुराण / 2 / 3 / 24
(569)
गावो गन्धेन पश्यन्ति,
वेदैः पशयन्ति वै द्विजाः ।
चारैः पश्यन्ति राजानः,
चक्षुर्भ्यामितरे जनाः ॥
पञ्चतन्त्र / काकोलुकीय / 63
(570)
गुणदोषकृतं जन्तुः,
स्वकर्म -फलहेतुकम् ।
अव्यग्रस्तदवाप्नोति,
सर्वं प्रेत्य शुभाशुभम् ॥
वा. रामा. / किष्किन्धा. / 21 / 2
(571)
गुणदोष-समाहारे,
दोषान् गृहणन्त्यसाधवः ।
मुक्ताफलानि सन्त्यज्य,
काका मांसमिव द्विपात् ॥
पट्नपुराण / 1 / 36
(572)
गुणप्रवालं,
विनयप्रशाखम्,
विश्रम्भमूलं महनीयपुष्पम् ।
तं साधुवृक्षं स्वगुणैः फलाढ्यम्,
सुहृदविहङ्गाः सुखमाश्रयन्ति ॥
(573)
गुणाः सर्वत्र पूज्यन्ते,
न महत्योऽ
पि सम्पदः ।
पूर्णेन्दुः किं तथा वन्द्यो,
निष्कलङ्को यथा कृशः ॥
चाणक्यनीति / 16 / 6
(574)
गुणवत्तरपात्रेणच्छाद्यन्ते गुणिनां गुणाः ।
रात्रौ दीपशिखाकान्तिर्न भानावुदिते सति ॥
पञ्च. / मित्रभेद / 33
(575)
गुणवान् वा परजनः,
स्वजनो निर्गुणोऽ
पि वा ।
निर्गुणः स्वजनः श्रेयान्,
यः परः पर एव सः ॥
वा. रा. / युद्धकाण्ड / 88 / 15
(576)
गुणवान् सुचिरस्थायी,
दैवेनापि न सह्यते ।
तिष्ठत्येकां निशां चन्द्रः,
श्रीमान् सम्पूर्णमण्डलः ॥
(577)
गुणाः गुणज्ञेषु गुणा भवन्ति,
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
आस्वाद्यतोयाः प्रभवन्ति नद्यः,
समुद्रमासाद्य भवन्त्यपेयाः ॥
(578)
गुणानामन्तरं प्रायः,
तज्ज्ञो जानाति नेतरः ।
मालिकामल्लिकामोदं,
घ्राणं वेत्ति न लोचनम् ॥
(579)
गुणा यत्र न पूज्यन्ते,
गुणिनां तत्र का कथा ।
नग्नक्षपणके देशे,
रजकः किं करिष्यति ॥
चाणक्यराजनीति -शास्त्र
(580)
गुणिगणगणनारम्भे न पतति कठिनी ससम्भ्रमाद्यस्य ।
तेनाम्बा यदि सुतिनी,
वद वन्ध्या कीदृशी भवति ॥
पञ्चतन्त्र / कथामुख / 6
(581)
गुणेषु क्रियतां यत्नः,
किमाटोपैः प्रयोजनम् ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ।
(582)
गुणैरुत्तमतां यान्ति,
नोच्चैरासनसंस्थिताः ।
प्रासादशिखरस्थोऽ
पि,
किं काको गरुडायते ॥
चाणक्यनीति / 16 / 6
(583)
गुरुपत्नी राजपत्नी,
ज्येष्ठपत्नी तथैव च ।
पत्नी-माता स्वमाता च,
पञ्चैता मातरः स्मृताः ॥
नराभरण / 2 / 8
(584)
गुरुरग्निर्द्विजातीनां,
वर्णानां ब्राह्नणो गुरुः ।
पतिरेव गुरुः स्त्रीणां,
सर्वस्याभ्यागतो गुरुः ॥
चाणक्यनीति / 5 / 1 /
(585)
गुरोरप्यवलिप्तस्य,
कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य,
परित्यागो विधीयते ॥
पञ्च. / मित्रभेद / 25
(586)
गुह्यं मन्त्रं श्रुतवतः,
सुसहायस्य चानघ ।
परीक्ष्यकारिणो ह्यर्थास्तिष्ठन्तीह युधिष्ठिर ॥
महाभा. / 112 / 20
(587)
गूढमैथुनकारित्वं काले काले च संग्रहम् ।
अप्रमत्तनमविश्वासमिति शिक्षेच्च वायसात् ॥
चाणक्यनीति / 6 / 19
(588)
गृहनुत्सृज्य यो राजन्,
मोक्षमेवाभिपद्यते ।
लोकास्तेजोमयास्तस्य,
कल्पन्ते शाश्वती समाः ॥
महाभा. / शान्ति. / 160 / 29
(589)
गृहासक्तस्य नो विद्या,
न दया मांसभोजिनः ।
द्रव्यलुब्धस्य नो सत्यम्,
न स्त्रैणस्य पवित्रता ॥
चाणक्यनीति / 11 / 5
(590)
गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।
प्राप्तविद्या गुरुं शिष्याः,
दग्धारण्यं मृगास्तथा ॥
चाणक्यनीति / 2 / 18
(591)
गोघ्ने च सुरापे च,
चौरे भग्नव्रते तथा ।
निस्कृतिर्विहिता सद्भिः,
कृतघ्ने नास्ति निष्कृतिः ॥
वा. रामायण / किष्किन्धा / 34 / 12
(592)
ग्रहाणां चरितं स्वप्नो निमित्तान्युपवाचिकम् ।
फलन्ति काकतालीयं,
तेभ्यः प्राज्ञा न बिभ्यति ॥
वेणीसंहार / 2 / 15
(593)
ग्रासादपि तदर्धं च,
कस्मान्न दीयतेऽ
र्थिषु ।
इच्छनुरूपो विभवः,
कदा कस्य भविष्यति ॥
पञ्च. / मित्रसम्प्राप्ति / 72
(594)
ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः,
।
श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते ॥
चरक / सूत्रस्थान / 21 / 44
(595)
ग्रीष्मे चादानरूक्षाणां,
वर्धमाने च मारुते ।
रात्रीणां चातिसंक्षेपाद,
दिवास्वप्नः प्रशस्यते ॥
चरक / सूत्रस्थान / 21 / 43
(596)
घातयितुमेव नीचः परकार्यं वेत्ति न प्रसाधयितुम् ।
पातयितुमस्ति शक्तिर्वायोर्वृक्षं न चोन्नमितुम् ॥
पञ्च. / मित्रभेद / 135
(597)
चक्रिणोदशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥
मनु. / 2 / 138
(598)
चक्षुःश्रोत्रे नासिका त्वक् च जिह्वा,
ज्ञानस्यैतान्यायतनानि जन्तोः ।
तानि प्रीतान्येव तृष्णाक्षयान्ते,
तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥
महाभा. / उद्योग / 32 / 25
(599)
चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया ।
स्वेद्यमामज्वरं प्राज्ञः कोऽ
म्भसा परिषिञ्चति ॥
शिशुपालवध / 2 / 54
(600)
चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥
(601)
चरन्वै मधु विन्दति,
चरन् स्वादुमुदुम्बरम् ।
सूर्यस्य पश्य श्रेमाणं,
यो न तन्द्रयते चरन् ॥
ऐतरेय ब्राह्नण
(602)
चलचित्तस्य वै पुंसो,
वृद्धाननुपसेवतः ।
परिप्लवमतेर्नित्यमध्रुवो मित्रसङग्रहः ॥
महाभा. / उद्योगपर्व / 36 / 39
(603)
चलानि हीमानि षडिन्द्रियाणि,
तेषां यद्यद् वर्धते यत्र यत्र ।
ततस्ततः स्रवते बुद्धिरस्य,
छिद्रोदकुम्भादिव नित्यमम्भः ॥
महाभा. / उद्योगपर्व / 36 / 48
(604)
चला लक्ष्मीश्चलाः प्राणाश्चले जीवनमन्दिरे ।
चलाचले च संसारे धर्म एको हि निश्चलः ॥
चाणक्यनीति / 5 / 20
(605)
चामीकरस्य सौरभ्यम्,
अम्लानिर्मालतीस्रजाम् ।
श्रोतुर्निर्मत्सरत्वं च निर्माणगोचरं विधेः ॥
श्री कण्ठचरित / 25 / 1
(606)
चिता-चिन्ता द्वयोर्मध्ये,
चिन्ता ह्येव गरीयसी ।
चिता दहति निर्जीवं,
चिन्ता चैव सजीवकम् ॥
(607)
चित्तं विशोधयेत् तस्मात् किमन्यैः बाह्यशोधनैः ।
भावतः संविशुद्धात्मा स्वर्गं मोक्षं च विन्दति ॥
स्कन्दपुराण / म. कौ. / 42 / 63-63
(608)
चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।
न कूपखननं युक्तं प्रदीप्ते वह्रिना गृहे ॥
शार्ङ्गधर-पद्धति
(609)
चिन्ता-ज्वरो मनुष्याणां क्षुधां निद्रां बलं हरेत् ।
रूपमुत्साहबुद्धी श्रीं जीवितं च न संशयः ॥
स्कन्दपुराण
(610)
चेतः-प्रसादजननं विबुधोत्तमानाम्,
आन्दि सर्वरसयुक्तमतिप्रसन्नम् ।
काव्यं खलस्य न करोति हृदि प्रतिष्ठाम्,
पीयूषपानमिव वक्त्रविवर्त्ति राहोः ॥
(611)
चौराः प्रमत्ते जीवन्ति,
व्याधितेषु चिकित्सकाः ।
राजा विवदमानेषु,
नित्यं मूर्खेषु पण्डिताः ॥
(612)
छाया-सुप्तमृगः शकुन्तनिवहैर्विष्वग्विलुप्तच्छदः,
कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः ।
विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एव द्रुमः,
सर्वाङ्गैर्बहुसत्त्वसङ्गसुखदो भूभारभूतोऽ
परः ॥
पञ्च. / मित्रसम्प्राप्ति / 79
(613)
छित्त्वाऽ
धर्ममयं पाशं यदा धर्मेऽ
भिरज्यते ।
दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुते ॥
महाभारत / शान्तिपर्व / 298 / 4
(614)
छित्त्वा पाशमापस्य कूटरचनां भडक्त्वा बलाद्वागरुराम,
पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ।
व्याधानां शरगोचरादपि जवेनोत्पत्य धावन्मृगः,
कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ॥
पञ्च. / मित्रसम्प्राप्ति / 87
(615)
छिन्दन्ति क्षमया क्रोधं,
कामं संकल्पवर्जनात् ।
सत्त्वसंसेवनान्निद्रामप्रमादाद् भयं तथा ॥
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप ॥
महाभारत/ शान्तिपर्व / 301 / 56-57
(616)
छिन्नोऽ
पि चन्दनतरुर्न जहाति गन्धम्,
वृद्धोऽ
पि वारणपतिर्न जहाति लीलाम् ।
यन्त्रार्पितो मधुरतां न जहाति चेक्षुः,
क्षीणोऽ
पि न त्यजति शीलगुणान् कुलीनः ॥
चाणक्यनीति / 15 / 18
(617)
छिन्नोऽ
पि रोहति तरुः क्षीणोऽ
प्युपचीयते पुनश्चन्द्रः ।
इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ॥
नीतिशतक / 82
(618)
छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम् ।
एतानि दष्टमात्राणाम्,
आयुषः प्रतिपत्तयः ॥
मालविकाग्निनमित्र / 4 / 4
(619)
जनिता चोपनेता च,
यस्तु विद्यां प्रयच्छति ।
अन्नदाता भयत्राता,
पञ्चैते पितरः स्मृताः ॥
चामक्यनीति / 5 / 22
(620)
जन्म-जन्मनि चाभ्यस्तं,
दानमध्ययनं तपः ।
तेनैवाभ्यासयोगेन,
देही चाभ्यस्यते पुनः ॥
चाणक्यनीति / 16 / 19
(621)
जन्ममृत्यु-जरा-व्याधिवेदनाभिरुपद्रुतम् ।
संसारमिममुत्पन्नमसारं त्यजतः सुखम् ॥
हितोपदेश / सन्धि. / 88
(622)
जन्मेदं वन्ध्यतां नीतम्,
भवभोगोपलिप्सया ।
काचमूल्येन विक्रीतो,
हन्त चिन्तामणिर्मया ॥
(623)
जयन्ति ते सुकृतिनो,
रससिद्धाः कवीश्वराः ।
नास्ति येषां यशःकाये,
जरामरणजं भयम् ॥
नीतिशतक / 23
(624)
जरां कृच्छ्रेण लभते,
चिरं जीवत्यनामयः ।
तस्मात् संशोधनं काले,
युक्तियुक्तं पिबेन्नरः ॥
चरक / सूत्रस्थान / 16 / 19
(625)
जरा रूपं हरति धैर्यमाशा,
मृत्युः प्राणान् धर्मचर्यामसूया ।
कामो ह्रियं वृत्तमनार्यसेवा,
क्रोधः श्रियं सर्वमेवाभिमानः ॥
(626)
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥
चाणक्यनीति / 12 / 22
(627)
जले तैलं खले गुह्यं पात्रे दानं मनागपि ।
प्राज्ञे शास्त्रं स्वयं याति विस्तारे वस्तुशक्तितः ॥
चाणक्यनीति / 14 / 4
(628)
जहाति मृत्युं च जरां भयं च,
न क्षुत्पिपासे मनसोऽ
प्रियाणि ।
न कर्त्तव्यं विद्यते तत्र किञ्चित्
अन्यत्र वै चेन्द्रयप्रीणनाद्धि ॥
महाभा. / उद्योग / 27 / 13
(629)
जाड्यं धियो हरति सिञ्चति वाचि सत्यम्,
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दक्षु तनोति कीर्तिम्,
किं किं न साधयति कल्पलतेव विद्या ॥
नीतिशतक / 22
(630)
जातमात्रं न यः शत्रुं रोगं च प्रशमं नयेत् ।
महाबलोऽ
पि तेनैव वृद्धिं प्राप्य स हन्यते ॥
पञ्च. / मित्रभेद / 170
(631)
जातस्य हि ध्रुवो मृत्युः,
ध्रुवं जन्म मृतस्य च ।
तस्मापरिहार्येऽ
र्थे,
न त्वं शोचितुमर्हसि ॥
महाभा. / भीष्मपर्व / 26 / 27
(632)
जानीयात् प्रेषणे भृत्यान् बान्दवान् व्यसनागमे ।
मित्रं चापत्तिकाले तु भार्यां च विभवक्षये ॥
चाणक्यनीति / 1 /11
(633)
जिह्वाया अग्रे मधु मे,
जिह्वामूले मधूलकम् ।
ममेदह क्रतावसो,
मम चित्तमुपायसि ॥
अथर्व. / 1 /34 / 2
(634)
जीवन्तं मृतवन्मन्ये,
देहिनं धर्मवर्जितम् ।
मृतो धर्मोण संयुक्तो,
दीर्घजीवी न संसयः ॥
चाणक्यनीति / 13 / 10
(635)
जीवन्तु म शत्रुगणाः सदैव,
येषां प्रसादात् सुविचक्षणोऽ
हम् ।
यदा यदाऽ
हं स्खलितो भवामि,
तदा तदा मां प्रतिबोधयन्ति ॥
(636)
जीवन्तोऽ
पि मृताः पञ्च,
श्रूयन्ते किल भारत ।
दरिद्रो व्याधितो मूर्खः,
प्रवासी नित्यसेवकः ॥
पञ्च. / मित्रभेद / 210
(637)
जीवितं च शरीरेण,
जात्यैव सह जायते ।
उभे सह विवर्तेते,
उभे सह विनश्यतः ॥
महाभा. / शान्ति / 174 / 22
(638)
ज्ञातीनां वक्तुकामानां,
कटुकानि लघूनि च ।
गिरा त्वं हृदयं वाचं,
शमयस्व मनांसि च ॥
महाभा. शान्तिपर्व / 81 / 22
(639)
ज्ञानं सतां मानमदादिनाशनम्,
केषाञ्चिदेतन्मदमानकारणम् ।
स्थानं विमुक्तं यमिनां विमुक्तये,
कामातुराणामपि कामकारणम् ॥
वैराग्यशतक / 8
(640)
ज्ञान-विज्ञान-तृप्तात्मा,
कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी,
समलोष्ठात्मकाञ्चनः ॥
महाभा. / भीष्मपर्व / 30 / 8
(641)
ज्ञानारामस्य बुद्धस्य,
सर्वभूताविरोधिनः ।
नावृत्तिभयमस्तीह,
परलोकभयं कुतः ॥
महाभा. शान्ति. / 160 / 33
(642)
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं,
प्रकाशयति तत्परम् ॥
महाभारत. / भीष्मप. / 29 / 6
(643)
ज्ञानेन विविधान् क्लेशानतिवृत्तस्य मोहजान् ।
लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ॥
महाभारत / शान्तिपर्व / 329 / 52-53
(644)
ज्यायस्वन्तश्चित्तनो मा वि यौष्ट,
सं राधयन्तः सधुराश्चरन्तः ।
अन्यो अन्यस्मै वल्गु वदन्त एत,
सध्रीचीनान् वः समनस्कृणोमि ॥
अतर्व. / 3 / 30 / 5
(645)
तं दुर्दर्शं गूढमनुप्रविष्टं,
गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं,
मत्वा धीरो हर्षशोकौ जहाति ॥
कठोपनिषद् / द्वितीयवल्ली / 12
(646)
तक्षकस्य विषं दन्ते,
मक्षिका-शिरसि विषम् ।
वृश्चिकस्य विषं पुच्छे,
सर्वंगे दुर्जनस्य च ॥
(
वृद्धचाणक्य)
(647)
तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् ।
एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ॥
(
योगवासिष्ठ)
(648)
तत्कर्म यन्न बन्धाय,
सा विद्या या विमुक्तये ।
आयासायापरं कर्म,
विद्यान्या शिल्पनैपुणम् ॥
विष्णुपुराण / 1 / 19 / 41
(649)
तत्त्वज्ञः सर्वभूतानां,
योगज्ञः सर्वकर्मणाम् ।
उपायज्ञो मनुष्याणां,
नरः पण्डित उच्यते ॥
महाभा. / उद्योग / 33 / 32
(650)
तत्त्वज्ञस्य तृणं शास्त्रं,
वीरस्य समरं तृणम् ।
विरक्तस्य तृणं नारी,
निःस्पृहस्य नृपस्तृणम् ॥
नराभरण / 12
(651)
तथाऽ
तिव्ययशीलैश्च,
परिवादरतैश्शठैः ।
बुधो मैत्रीं न कुर्वीत,
नैकः पन्थानमाश्रयेत् ॥
विष्णुपुराण / 3 / 12 / 7
(652)
तथा हि वीराः पुरुषा न ते मताः,
जयन्ति ये साश्वरथद्विपानरीन् ।
यथा मता वीरतरा मनीषिणो,
जयन्ति लोलानि षडिन्द्रियाणि ये ॥
(653)
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।
तदेव शुक्रं तद्ब्रह्न ता आपः स प्रजापतिः ॥
यजु. / 32 / 1
(654)
तदगृहं यत्र वसतिस्तदभोज्यं येन जीवति ।
यन्मुक्तये तदेवोक्तं ज्ञानमज्ञानमन्यथा ॥
(
मार्कण्डेयपुराण)
(655)
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
विष्णोर्यत् परमं पदम्
ऋ. / 1 / 22 / 2
(656)
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम्
ऋ. / 1 / 22 / 20
(657)
तनूपाऽ
अग्नेऽ
सि तन्वं मे पाह्यायुर्दाऽ
अग्नेऽ
सि
आयुर्मे देहि वर्च्चोदाऽ
अग्नेऽ
सि वर्च्चो मे देहि ।
अग्ने यन्मे तन्वाऽ
ऊनं तन्म आपृण ॥
यजु. / 3 / 17
(658)
तन्तुं तन्वन् रजसो भानुन्विहि,
ज्योतिष्मतः पथो रक्ष धिया कृतान् ।
अनुल्वणं वयत जोगुवामपो
मनुर्भव जनया दैव्यं जनम् ॥
ऋ. / 10 / 53 / 6
(659)
तपः स्वधर्मवर्त्तित्वं,
मनसो दमनं दमः ।
क्षमा द्वन्द्वसहिष्णुत्वं,
ह्रीरकार्यनिवर्तनम् ॥
महाभा. / वनपर्व / 313 / 88
(660)
तपसा प्राप्यते सत्त्वं,
सत्त्वात् सम्प्राप्यते मनः ।
मनसा प्राप्यते त्वात्मा,
ह्यात्माऽऽ
पत्त्या निवर्त्तते ॥
मैत्रायणी उपनिषद् / 4 / 3
(661)
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः ।
तेन सर्वानवाप्नोति,
यान् कामान् मनसेच्छति ॥
महाभा. / शान्तिपर्व / 232 / 22
(662)
तपोमूलमिदं सर्वं दैवमानुषकं सुखम् ।
तपोमध्यं बुधैः प्रोक्तं,
तपोऽ
न्तं वेददर्शिभिः ॥
मनु. / 11 / 234
(663)
तमीश्वराणां परमं महेश्वरं,
तं दैवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्,
विदाम देवं भुवनेशमीडयम् ॥
श्वेताश्वतर उपनि. / 8 / 7
(664)
तरत्स मन्दी धावति धारा सुतस्यान्धसः ।
तरत्स मन्दी धावति ॥
ऋ. / 9 / 58 / 1
(665)
तरसा ये न शक्यन्ते,
शस्त्रैः सुनिशितैरपि ।
साम्ना तेऽ
पि निगृह्यन्ते,
गजा इव करेणुभिः ॥
महाभा. / शान्ति / 139 / 39
(666)
तर्कोऽ
प्रतिष्ठः श्रुतयोविभिन्नाः,
नासौर्मुनिर्यस्य मतं न भिन्नम् ।
धर्मस्य तत्त्वं निहितं गुहायां,
महाजनो येन गतः स पन्थाः ॥
(667)
तस्मादयतेत पुण्येषु य इच्छेन्महतीं श्रियम् ।
यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥
विष्णुपुराण. / 1 / 19 / 46
(668)
तस्मान्न गोऽ
श्ववत्कश्चिज्जातिभेदोऽ
स्ति देहिनाम् ।
कार्यशक्तिनिमित्तस्तु सङ्केतः कृत्रिमो भवेत् ॥
(669)
तानीन्द्रियाण्यविकलानि तदेव कर्म,
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव,
त्वन्यः क्षणेन भवतीति विचित्रमेतत् ॥
नीतिशतक / 36
(670)
तापं हन्ति सुखं सूते,
जीवयत्युज्ज्वलं यशः ।
अमृतस्य प्रकारोऽ
यं,
दुर्लभः साधुसङगमः ॥
(671)
तावत्प्रीतिर्भवेल्लोके,
यावद्दानं प्रदीयते ।
वत्सः क्षीरक्षयं दृष्ट्वा,
परित्यजति मातरम् ॥
पञ्च. / मित्रसम्प्राप्ति / 52
(672)
तावदस्खलितं यावत्,
सुखं याति समे पथि ।
स्खलिते च समुत्पन्ने,
विषमं च पदे पदे ॥
पंच. / मित्रसम्प्राप्ति / 175
(673)
तावद्रथेन गन्तव्यं,
यावद्रथपथि स्थितः ।
स्थित्वा रथपथिस्थाानं,
रथमुत्सृज्य गच्छति ॥
अमृतानदोपनिषद्. / 3
(674)
तावन्महत्त्वं पाण्डित्यं,
कुलीनत्वं विवेकिता ।
यावज्ज्वलति नाङ्गेषु,
हतः पञ्चेषु-पावकः ॥
श्रृङ्गारशतक / 6
(675)
तीक्ष्णादुदविजते मृदौ परिभव-त्रासान्न सन्तिष्ठते,
मूर्खान् द्वेष्टि न गच्छति प्रणयितामत्यन्तविद्वत्स्वपि ।
शूरेभ्योऽ
प्यधिकं बिभेत्युपहसत्येकान्तभीरूनहो,
श्रीर्लब्धप्रसरेव वेशवनिता दुःखोपचर्या भृशम् ॥
मुद्राराक्षस / 2 / 5
(676)
तीर्थानि तोयपूर्णानि,
देवान् काष्ठादिनिर्मितान् ।
योगिनो न प्रपूज्यन्ते,
खलु स्वात्ययकारणात् ॥
जाबालदर्शनोपनिषद् / 4 / 52
(677)
तीर्थे दाने जपे यज्ञे,
काष्ठे पाषाणके सदा ।
शिवं पश्यति मूढात्मा,
शिवे देहे प्रतिष्ठिते ॥
जाबालदर्शनोपनिषद् / 4 / 57
(678)
तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् ।
अर्धराज्यहरं भृत्यं,
यो न हन्यात्स हन्यते ॥
पञ्च. / मित्रभेद / 192
(679)
तृणादपि लघुस्तूलः,
तूलादपि च याचकः ।
वायुना कििं न नीतोऽ
सौ,
मामयं याचयेदिति ॥
(680)
तृणानि नोन्मूलयति प्रभञ्जनोमृदूनि
तानि प्रणतानि सर्वतः ।
स्वभाव एवोन्नतचेतसामयं,
महान् महत्स्वेव करोति विक्रमम् ॥
पञ्च. / मित्रभेद / 129
(681)
तृणानि भूमिरुदकं,
वाक् चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे,
नोच्छद्यन्ते कदाचन ॥
महाभा. / उद्योग / 33 / 116
(682)
तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः,
सत्यं ब्रूह्यनुयाहि साधु-पदवीं सेवस्व विद्वज्जनान् ।
मान्यान् मानय विद्विषोऽ
प्यनुनय,
प्रख्यापय स्वान् गुणान्,
कीर्तिं पालय दुःखिते कुरु दयामेतत् सतां लक्षणम् ॥
नीतिशतक / 73
(683)
तृष्णो देवि . नमस्तुभ्यं यया वित्तान्विता अपि ।
अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥
पञ्चतंत्र / अपरीक्षितकारक / 74
(684)
ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले ।
आगच्छन्ति गृहे येषां,
कार्यार्थं सुहृदो जनाः ॥
पञ्च. / मित्रभेद / 206
(685)
तेनाधीतं श्रुतं तेन,
तेन सर्वमनुष्ठितम् ।
येनाशाः पृष्ठतः कृत्वा,
नैराश्यमवलम्बितम् ॥
हितोपदेश / 1 / 132
(686)
ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः ।
यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्त्तिताः ॥
(687)
त्यजति किल तं जयश्रीर्जहति च मित्राणि बन्धुवर्गश्च ।
भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ॥
(688)
त्यजेत्क्षुधार्ता महिला स्वपुत्रं ,
खादेत्क्षुधार्ता भुजगी स्वमण्डम् ।
बुभुक्षितः किं न करोति पापं,
क्षीणा नरा निष्करुणा भवन्ति ॥
हितोपदेश / 4 / 60
(689)
त्यजेदेकं कुलस्यार्थे,
ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थ,
आत्मार्थे पृथिवीं त्यजेत् ॥
पञ्च. / मित्रभेद / 307
(690)
त्यागभोगविहीनेन,
धनेन धनिनो यदि ।
भवानः किं न तेनैव,
धनेन धनिनो वयम् ॥
(691)
त्याज्यं न धैर्यं विधुरेऽ
पि काले,
धैर्यात् कदाचित् स्थितिमाप्नुयात् सः ।
याते समुद्रेऽ
पि च पोतभङ्गे,
सांयात्रिको वाञ्छति तर्तुमेव ॥
पञ्चतन्त्र /
(692)
त्रिविधं नरकस्येदं,
द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ॥
महाभा. / उद्योग. / 33 / 70
(693)
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽ
मृतात् ॥
ऋ. / 1 / 3 / 10
(694)
त्वमेव चातकाधारोऽ
सीति कस्य न गोचरः ।
किमम्भोदवरास्माकं कार्पण्योक्तिं प्रतीक्षसे ॥
नीतिशतक / 46
(695)
त्वं हि नः पिता वसो,
त्वं माता शतक्रतो बभूविथ ।
अधा ते सुम्नमीमहे ॥
ऋ. / 8 / 98 / 11
(696)
दंष्ट्राविरहितः सर्पो,
मदहीनो यथा गजः ।
स्थानहीनस्तथा राजा,
गम्यः स्यात् सर्वजन्तुषु ॥
पञ्चत. / काकोलुकीय / 47
(697)
दंष्ट्रिणश्शृङ्गिणश्चैव,
प्राज्ञो दूरेण वर्जयेत् ।
अवश्यायं च राजेन्द्र,
पुरो वातातपौ तथा ॥
विष्णुपुराण / 3 / 12 / 18
(698)
दक्षः श्रियमधिगच्छति,
पथ्याशीः कल्यतां सुखमरोगी ।
उद्युक्तो विद्यान्तं,
धर्मार्थयशांसि च विनीतः ॥
हितोपदेश / विग्रह / 113
(699)
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदर्बुधाः ॥
महाभारत / शान्तिपर्व / 15 / 2
(700)
ददाति प्रतिगृहणाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षडविधं प्रीतिलक्षणम् ॥
पञ्च. / मित्रसम्प्राप्ति / 50
(701)
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम ।
दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ॥
महाभा. / शान्ति. / 160 / 10
(702)
दमेन हि सायुक्तो महान्तं धर्ममश्नुते ।
सुखं दान्तः प्रस्वपिति,
सुखं च प्रतिबुध्यते ॥
महाभा./ शान्तिपर्व / 160 / 12
(703)
दया धर्मस्य मूलं हि,
द्रोहः पापस्य कारणम् ।
तावद्दया न त्यक्तव्या,
यावत्प्राणाः शरीरके ॥
(704)
दरिद्रता धीरतया विराजते,
कुरूपता शीलतया विराजते ।
कुभोजनं चोष्णतया विराजते,
कुवस्त्रता शुभ्रतया विराजते ॥
(
वृद्धचाणक्य)
(705)
दर्शने स्पर्शने वाऽ
पि श्रवणे भाषणेऽ
पि वा ।
यत्र द्रवत्यन्तरङगं स स्नेह इति कथ्यते ॥
प्रसङगाभरण / 26
(706)
दर्शितानि कलत्राणि गृहे भुक्तमशङ्किकतम् ।
कथितानि रहस्यानि सौहृदं किमतः परम् ॥
(707)
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥
मनु. / 6 / 7
(708)
दाक्षिण्यं स्वजने दया परिजने शाठयं सदा दुर्जने ।
प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ॥
शौर्यं शत्रुजने क्षमा गुरुजने नारीजनेऽ
धृष्टता ।
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥
नीतिशतक / 21
(709)
दाक्ष्यं ह्यमर्षः शौर्यं च,
शीघ्रत्वमिति तेजसः ।
गुणाः क्रोधाभिभूतेन,
न शक्याः प्राप्तुमञ्जसा ॥
महाभा. / वनपर्व / 29 / 20
(710)
दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्त्तव्यः ।
पश्येह मधुकरीणां सञ्चितमर्थं महन्त्यन्ये ॥
पञ्चतन्त्र / 2 / 153
(711)
दातव्यमिति यद्दानं,
दीयतेऽ
नुपकारिणे ।
देशे काले च पात्रे च,
तद्दानं सात्त्विकं स्मृतम् ॥
महाभा. / भीष्मपर्व / 41 / 20
(712)
दाता लघुरपि सेव्यो भवति,
न कृपणो महानपि समृद्धया ।
कूपोऽ
न्तः स्वादुजलः प्रीत्यै लोकस्य,
न समुद्रः ॥
पञ्च. / मित्रसम्प्राप्ति / 74
(713)
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता ।
अभ्यासेन न लभ्येरन् चत्वारः सहजा गुणाः ॥
(
वृद्धचाणक्य )
(714)
दानं दरिद्रस्य विभोः क्षमित्वं,
यूनस्तपो ज्ञानवतश्च मौनम् ।
इच्छानिवृत्तिश्च सुखोचितानां,
दया च भूतेषु दिवं नयन्ति ॥
(715)
दानं धर्मश्च विद्या च,
रूपं शीलं कुलं तथा ।
सुखमायुर्यशश्चैव,
नव गोप्यानि यत्नतः ॥
(
चाणक्यनीतिशास्त्र )
(716)
दानं प्रियवाक्सहितं ज्ञानगर्वं क्षमान्वितं शौर्यम् ।
द्रविणं त्यागनियुक्तं दुर्लभमेतच्चतुष्टयं लोके ॥
हितोपदेश / 1 / 156
(717)
दानं भोगो नाशस्तिसो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥
नीतिशतक / 39
(718)
दानपात्रमतिक्रम्य यदपात्रे प्रदीयते ।
तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्रिकम् ॥
स्कन्दपुराण ( मा० को 5 / 11 )
(719)
दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः ।
एतैर्वर्धयते तेजः पाप्मानं चापकर्षति ॥
महाभा. / शान्तिपर्व / 235 / 7
(720)
दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ ।
व्रतौपवासौ मौनं च स्नानं च नियमा दश ॥
(721)
दानार्थितो मधुकरा यदि कर्णतालैर्दूरीकृताः
करिवरेण मदान्धबुदध्या ।
तस्यैव गण्डयुगमण्डनहानिरेषा,
भृङ्गाः पुनर्विकचपदमवने चरन्ति ॥
(722)
दानेन तुल्यो निधिरस्ति नान्यो,
लोभाच्च नान्योऽ
स्ति रिपुः पृथिव्याम् ।
विभूषणं शीलसमं न चान्यत्,
सन्तोषतुल्यं धनमस्ति नान्यत् ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 155
(723)
दानेन पाणिर्न तु कङ्कणेन,
स्नानेन शुद्धिर्न तु चन्दनेन ।
मानेन तृप्तिर्न तु भोजनेन,
ज्ञानेन मुक्तिर्न तु मण्डनेन ॥
चाणक्यनीति / 17 / 12
(724)
दानेन प्राप्यते स्वर्गः,
श्रीर्दानेनैव लभ्यते ।
दानेन शत्रूञ्जयति,
व्याधिर्दानेन नश्यति ॥
(725)
दानेन लभ्यते विद्या,
पत्नी दानेन प्राप्यते ।
धर्मार्थकाममोक्षाणां,
दानं हि साधनं परम् ॥
(726)
दारिद्रयं यौवने यस्य शैशवे मातृहीनता ।
वार्धक्यं पुत्रहीनत्वं जीवितं तस्य निष्फलम् ॥
कवितामृतकूप / 6
(727)
दारिद्रयरोग-दुःखानि बन्धनव्यसनानि च ।
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥
पञ्च. / काकोलूकीय / 152
(728)
दारिद्रयात् पुरुषस्य बान्धवजनो वाकये न संतिष्ठते,
सुस्निग्धाः विमुखीभवन्ति सुहृदः स्फरीभवन्त्यापदः ।
सत्त्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते,
पापं कर्म च यत्परैरपि कृतं तत्तस्य सम्भाव्यते ॥
मृच्छकटिक
(729)
दारिद्रयान्मरणाद्वा मरणं मम रोचते न दारिद्रयम् ।
अल्पक्लेशं मरणं दारिद्रयमनन्तकं दुःखम् ॥
मृच्छकटिकम् / 1 / 11
(730)
दारेषु किञ्चित्स्वजनेषु किञ्चिद्,
गोप्यं वयस्येषु सुतेषु किञ्चिद् ।
युक्तं न वा युक्तमिति विचिन्त्य,
वदेद्विपश्चन्महतोऽ
नुरोधात् ॥
पञ्च. / मित्रभेद / 15
(731)
दिनचर्यां निशाचर्यामृतुचर्यां यथोदिताम् ।
आचरन् पुरुषः स्वस्थः सदा तिष्ठति नान्यथा ॥
भावप्रकाश / पूर्वखण्ड / 13
(732)
दिवा पश्यति नोलूकः,
काको नक्तं न पश्यति ।
अपूर्वः कोऽ
पि कामान्धो,
दिवानक्तं न पश्यति ॥
(733)
दिवा स्वापं न कुर्वीत,
यतोऽ
सौ स्यात्कफावहः ।
ग्रीष्मवर्ज्येषु कालेषु,
दिवास्वप्नो निषिध्यते ॥
भावप्रकाशा / पूर्वखण्ड / 215
(734)
दिव्यं यूतफलं प्राप्य,
गर्वं नायाति कोकिलः ।
पीत्वा कर्दमपानीयं,
भेको बकबकायते ॥
नराभरण / 68
(735)
दीपाः स्थितं वस्तु विभावयन्ति,
कुलप्रदीपास्तु भवन्ति केचित् ।
चिरव्यतीतानपि पूर्वजान् ये,
प्रकाशयन्ति स्वगुणप्रकर्षात् ॥
(736)
दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते ।
यदन्तं भक्षयेन्नित्यं जायते तादृशी प्रजा ॥
(
वृद्धचाणक्य )
(737)
दीर्घं वैरमसूया च असत्यं ब्रह्नदूषणम् ।
पैशुन्यं निर्दयत्वं च जानीयाच्छूद्रलक्षणम् ॥
वसिष्ठस्मृति / 6 / 23
(738)
दीर्घ-प्रयासेन कृतं हि वस्तु,
निमेषमात्रेण भजेद् विनाशम् ।
कर्तुं कुलालस्य तु वर्षमेकं,
भेत्तुं हि दण्डस्य मूहूर्तमात्रम् ॥
सूक्तिमुक्तावली / 84
(739)
दुःखितानीह भूतानि,
दृष्ट्वा स्याद् यो न दुःखितः ।
केवलात्महितेच्छेस्तु,
को नृशंसतरस्ततः ॥
महाभा. / अनुशासन पर्व / 50 / 13
(740)
दुःखितोऽ
पि चरेद्धर्मं यत्र कुत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङगं धर्मकारणम् ॥
हितोपदेश / 1 / 81
(741)
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः,
स्थितधीर्मुनिरुच्यते ॥
महाभा. / भीष्मप. / 26 / 56
(742)
दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः ।
स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥
वाल्मीकि रामायण / अयोध्या. / 116 / 22
(743)
दुराचारो हि पुरुषो,
लोके भवति निन्दितः ।
दुःखभागी च सततं,
व्याधितोऽ
ल्पायुरेव च ॥
मनु. / 4 / 157
(744)
दुरधीता विषं विद्या,
अजीर्णे भोजनं विषम् ।
विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥
(
चाणक्यशतक )
(745)
दुर्जनः परिहर्तव्यो विद्यायाऽ
लडकृतोऽ
पि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङकरः ॥
नीतिशतक / 53
(746)
दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥
(747)
दुर्जनदूषितमनसः सुजनेष्वपि नास्ति विश्वासः ।
बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति ॥
हितोपदेश / 4 / 12
(748)
दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमुपयाति ।
दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥
(749)
दुर्जनेषु च सर्पेषु वरं सर्पो न दुर्जनः ।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥
चाणक्यनीति / 3 / 4
(750)
दुर्जनैरुच्यमानानि सस्मितानि प्रियाण्यपि ।
अकालकुसुमानीव भयं संजनयन्ति हि ॥
(751)
दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् ।
प्राप्नोत्यमिताँल्लोकान् वर्णसंस्थां करोति यः ॥
विष्णुपुराण / 3 / 8 / 29
(752)
दुष्टा भार्या शठं मित्रं,
भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासो,
मृत्युरेव न संशयः ॥
चाणक्यनीति / 1 / 5
(753)
दूरस्थोऽ
पि न दूरस्थो,
यो यस्य मनसि स्थितः ।
यो यस्य हृदये नास्ति,
समीपस्थोऽ
पि दूरतः ॥
चाणक्यनीति / 14 / 8
(754)
दुर्लभं भारते वर्षे,
जन्म तस्मान्मनुष्यता ।
मानुषे दुर्लभं चापि,
स्व-स्वधर्मे प्रवर्तिता ॥
पदमपुराण / 80 / 3
(755)
दुष्कराण्यपि कार्यणि,
सिध्यन्ति प्रोद्यमेन वै ।
शिलापि तनुतां याति,
प्रपातेनार्णसो मुहुः ॥
बुद्धचरित / 26 / 63
(756)
दृढं विमृश्य कर्तृणां,
सदा वदनमुज्ज्वलम् ।
निन्दापङकावृतं चापि,
कार्ये साहसकारिणाम् ॥
नीतिकल्पतरु / 6 / 45
(757)
दृढं सतां संगतं चापि नित्यम्,
ब्रूह्याच्चार्थं ह्यर्थकृच्छ्रेषु धीरः ।
महार्थवत् सत्पुरुषेण संगतम्,
तस्मात् सन्तं न जिघांसेत धीरः ॥
महाभा. / उद्योग / 10 / 24
(758)
दृते दृहं मा,
मित्रस्य मा ।
चक्षुषा सर्वाणि भूतानि समीक्षन्ताम ।
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ।
मित्रस्य चक्षुषा समीक्षामहे ॥
यजु. / 36 / 18
(759)
दृते दृहं मा । ज्योक् ते संदृशि जीव्यासम् । ज्योक्
ते संदृशि जीव्यासम् ॥
यजु. / 32 / 19
(760)
दृष्टिपूतं न्यसेत्पादं,
वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाचं,
मनःपूतं समाचरेत् ॥
मनुस्मृति / 6 / 46
(761)
दृष्टवापि दृश्यते दृश्यं,
श्रुत्वापि श्रूयते पुनः ।
सत्यं न साधुवृत्तस्य,
दृश्यते पुनरुक्तता ॥
(762)
दृष्टवा विमिश्रां सुखदुःखतां मे,
राज्यं दास्यं च मतं समानम् ।
नित्यं हसत्येव हि नैव राजा,
न चापि संतप्यत एव दासः ॥
(763)
देव-गो-ब्राह्नणान् सिद्धान् वृद्धाचार्यंस्तथाऽ
र्चयेत् ।
द्विकालं च नयेत् सन्ध्यामग्नीनुपचरेत्तथा ॥
विष्णुपुराण / 3 / 12
(764)
देवानां भद्रा सुमतिर्ऋजूयतां,
देवानां रातिरभि नो
निवर्तताम् । देवानां सख्यमुपसेदिमा वयम् । देवा
न आयुः प्रतिरन्तु जीवसे ॥
ऋ. / 1 / 89 / 1
(765)
देवीं वाचमजनयन्त देवास्तां
विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना
धेनुर्वागस्मानुप सुष्टुतैतु ॥
ऋ. / 8 / 100 / 11
(766)
देवे तीर्थे द्विजे मन्त्रे,
दैवज्ञे भैषज्ये गुरौ ।
यादृशी भावना यस्य,
सिद्धिर्भवति ताद्दशी ॥
(
पंचतन्त्र )
(767)
देवैर्गिरः केऽ
पि कृतार्थयन्ति,
ताः कुण्ठयन्त्येव पुनर्विमूढाः ।
या विप्रुषः शुक्तिमुखेषु दैव्यास्ता
एव मुक्ता न तु चातकेषु ॥
(768)
देवो देवानामसि मित्रो अदभुतो,
वसुर्वसूनामसि चारुरध्वरे ।
शर्मन्त्स्याम एव सप्रथस्तमेऽ
ग्ने,
सख्ये मा रिषामा वयं तव ॥
ऋ. / 1 / 94 / 13
(769)
देशकालौ समासाद्य,
विक्रमेत विचक्षणः ।
देशकाल-व्यतीतो हि,
विक्रमो निष्फलो भवेत् ॥
शान्तिपर्व. / 140 / 28
(770)
देशान्तरेषु बहुविधभाषा-वेशादि येन न ज्ञानम् ।
भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम् ॥
पञ्च. / मित्रभेद / 349
(771)
देहप्रवृत्तिर्या काचिद्,
वर्त्तते परपीडया ।
स्त्रीभोग-स्तेय-हिंसाद्या,
तस्या वेगान् विधारयेत् ॥
चरक / सूत्रस्थान / 7 / 29
(772)
देहि मे ददामि ते,
नि मे धेहि,
नि ते दधे ।
निहारं च हरासि मे,
निहारं न हराणि ते स्वाहा ॥
यजु. / 3 / 50
(773)
देहे पातिनि का रक्षा,
यशो रक्ष्यमपातवत् ।
नरः पतितकायोऽ
पि,
यशःकायेन जीवति ॥
भोजप्रबन्ध / 53
(774)
दोषभीतेरनारम्भस्तत्कापुरुषलक्षण् ।
कैरजीर्णभयाद् भ्रातर्भोजनं परिहीयते ॥
हितोपदेश / सुहृदभेद / 57
(775)
दोषानपि गुणीकर्तुं,
दोषीकर्तुं गुणानपि ।
शक्तो वादी न तत्तथ्यं,
दोषा दोषा गुणा गुणाः ॥
(776)
दौर्गत्यं देहिनां दुःखमपमानकरं परम् ।
येन स्वैरपि मन्यन्ते,
जीवन्तोऽ
पि मृता इव ॥
पञ्च. / मित्रसम्प्राप्ति / 100
(777)
दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनात्,
विप्रोऽ
नध्ययनात् कलं कुतनयाच्छीलं खलोपासनात् ।
ह्रीर्मद्यादनवेक्षणादपि दृषिः स्नेहः प्रवासाश्रयात्,
मैत्री चाप्रणयात् समृद्धिरनयात् त्यागात्प्रमादाद्धनम् ॥
नीतिशतक / 38
(778)
द्रव्यनाशे तथोत्पत्तौ,
पालने च सदा नृणाम् ।
भवन्त्यनेकदुःखानि,
तथैवेष्टविपत्तिषु ॥
विष्णुपुराण / 6 / 5 / 54
(779)
द्रव्ययज्ञैर्यक्ष्यमाणं,
दृष्ट्वा भूतानि बिभ्यति ।
एष माऽ
करुणो हन्यादतज्ज्ञोऽ
सुतृप् ध्रुवम् ॥
श्रीमदभागवत / 7 / 5 / 10
(780)
द्राक्षा म्लानमुखी जााता,
शर्करा चाश्मतां गता ।
सुभाषित-रसस्याग्रे,
सुधा भीता दिवं गता ॥
(781)
द्वन्द्वो द्विगुरपि चाहं,
मदगेहे नित्यमव्ययीभावः ।
तत्पुरुष कर्मधारय,
येनाहं स्यां बहुव्रीहिः ॥
(782)
द्वाविमावम्भसि क्षेप्यौ,
गाढं बध्वा गले शिलाम् ।
धनिनं चाप्रदातारं,
दरिद्रञ्चातपस्विनम् ॥
(783)
द्वाविमौ कण्टकौ तीक्ष्णौ,
शरीरपरिशोषिणौ ।
यश्चाधनः कामयते,
यश्च कुप्यत्यनीशवरः ॥
महाभारत / उद्योग / 33 / 62
(784)
द्वाविमौ पुरुषौ लोके,
स्वर्गस्योपरि तिष्ठतः ।
प्रभुश्च क्षमया युक्तो,
दरिद्रश्च प्रदानवान् ॥
(785)
द्वाविमौ पुरुषौ लोके,
सूर्यमण्डलभेदिनौ ।
परिव्राडयोगयुक्तश्च,
रणे चाभिमुखो हतः ॥
(786)
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्र्नन्नन्यः अभिचाकशीति ॥
ऋ. / 1 / 164 / 20
(787)
द्विषदभिः शत्रुभिः कश्चित्कदाचित्पीडयते न वा ।
इन्द्रियैर्बाध्यते सर्वः,
सर्वत्र च सदैव च ॥
सौन्दरनन्द / 13 / 32
(788)
द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते ।
अब्रुवन् परुषं किञ्चिदसतोऽ
नर्चयंस्तथा ॥
महाभारत / उद्योग / 33 / 61
(789)
धनं लभेत दानेन,
मौनेनाज्ञां विशांम्पते ।
उपभोगांश्च तपसा,
ब्रह्नचर्येण जीवितम् ॥
(
महाभरत )
(790)
धनधान्यप्रयोगेषु,
तथा विद्यागमेषु च ।
आहारे च व्यहारे,
त्यक्तलज्जः सुखी भवेत् ॥
चाणक्यशतक / 35
(791)
धनस्य यस्य राजतो न चौरतोऽ
पि वा भयम् ।
मृतं च यन्न मुञ्चति त्वमर्जयस्व तद्धनम् ॥
(792)
धनानि जीवितं चैव,
परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो,
विनाशे नियते सति ॥
(793)
धनानि भूमौ पशवश्च गोष्ठे,
नारी गृहद्वारि जनाः श्मशाने ।
देहश्चितायां परलोकमार्गे,
धर्मानुगो गच्छति जीव एकः ॥
(794)
धन्यानां गिरि कन्दरे निवसतां,
ज्योतिः परं पश्यताम्,
आनन्दाश्रुकणान् पिबन्ति शकुनाः निश्शंकमङ्केशयाः ।
अस्माकं तु मनोरथोपरचित - प्रासाद - वापी - तट
क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥
वैराग्यशतक. / 90
(795)
धन्यानामुत्तमं दाक्ष्यं,
धनानामुत्तमं श्रुतम् ।
लाभानां श्रेय आरोग्यं,
सुखानां तुष्टिरुत्तमा ॥
महाभारत व० प० / 313 / 74
(796)
धन्या पतिव्रता नारी,
मान्या पूज्या विशेषतः ।
पावनी सर्वलोकानां,
सर्वपापौघनाशिनी ॥
शिवपुराण/ 3 / 54 / 8
(797)
धनैर्निष्कुलीनाः कुलीनाः क्रियन्ते,
धनैरापदो मानवा निस्तरन्ति ।
धनेभ्यो न कश्चित् सुहृद्विद्यतेऽ
न्यो,
धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥
कवितामृतकूप / 47
(798)
धर्मं कृत्वा कर्मणां तात मुख्यम्,
महाप्रतापः सवितेव भाति ।
हीनो हि धर्मेण महीमपीमाम्,
लब्ध्वा नरः सीदति पापबुद्धिः ॥
महाभा. / उद्योग / 27 / 6
(799)
धर्मः पिता क्षमा माता,
दया भार्या गुणाः सुताः ।
कुटुम्बं सुधियस्तस्य,
ह्योतदन्ये तु विभ्रमाः ॥
उदभटश्लोक
(800)
धर्मज्ञं च कृतज्ञं च,
तुष्टप्रकृतिमेव च ।
अनुरक्तं स्थिरारम्भं,
लघुमित्रं प्रशस्यते ॥
(801)
धर्मार्थं नार्थकामार्थमायुर्वेदो महर्षिभिः ।
प्रकाशितो धर्मपरैरिच्छदभिः स्तानमक्षरम् ॥
चरक / सूत्रस्थान
(802)
धर्मार्थं यततामपीह विपदो दैवाद्यदि स्युः क्वचित्,
तत्तासामुपशान्तये सुमतिभिः कार्यो विशेषान्नयः ।
लोके ख्यातिमुपागतात्र सकले लोकोक्तिरेषा यतो,
दग्धानां किल वह्रिना हितकरः सेकोऽ
पि तस्योदभवः ॥
पञ्च. / मित्रभेद / 322
(803)
धर्मार्थं यस्य वित्तेहा,
वरं तस्य निरीहता ।
प्रक्षालनाद्धि पङ्कस्य,
दूरादस्पर्शनं वरम् ॥
महाभारत
(804)
धर्मार्थकाममोक्षाणां,
यस्यैकोऽ
पि न विद्यते ।
अजागलस्तनस्येव,
तस्य जन्म निर्थकम् ॥
चाणक्यनीति / 3 / 20
(805)
धर्म्यं यशस्यमायुष्यं लोकद्वयरसायनम् ।
अनुमोदामहे ब्रह्नचर्यमेकान्तनिर्मलम् ॥
(
अष्टांगहृदय )
(806)
धिक् तस्य जन्म यः पित्रा,
लोके विज्ञायते नरः ।
यः पुत्रात् ख्यातिमभ्येति,
तस्य जन्म सुजन्मनः ॥
(807)
धीरस्सदा रचयते हि परोपकारं,
वाक्यं कठोरमपि तस्य दयार्द्रगर्भम् ।
निर्वान्त-तोयनिवहैर्जलदैर्विसृष्टावर्षोपला
दधति शीतलवारिगर्भम् ॥
सूक्तिमुक्तावली / 125
(808)
धृतिः क्षमा दमोनस्तेयं,
शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो,
दशकं धर्मलक्षणम् ॥
मनु. / 6 / 92
(809)
धृतिर्दाक्ष्यं संयमो बुद्दिरात्मा,
धैर्यं शौर्यं देश-कालाप्रमादः ।
अल्पस्य वा बहुनो वा विवृद्धौ,
धनस्यैतान्यष्ट समिन्धनानि ॥
महाभारत / शान्तिपर्व / 120 / 37
(810 )
न करोति यतः पातं,
पित्रोः शोकमहोदधौ ।
अपत्यत्वमपत्यस्य,
तद्वदन्ति सुमेधसः ॥
पट्नपुराण / 31 / 153
(811)
न कर्मणां विप्रणाशोऽ
स्त्यमुत्र,
पुण्यानामथवा पापकानाम् ।
पूर्वं कर्तुर्गच्छति पुण्यपापम्,
पश्चात् त्वेनमनुयात्येव कर्ता ॥
महाभा. / उद्योग / 27 / 10
(812)
न कश्चित्कस्यचिन्मित्रं,
न कश्चित् कस्यचिद्रिपुः ।
व्यवहारेण जायन्ते,
मित्राणि रिपवस्तथा ॥
हितोपदेश / मित्रलाभ / 72
(813)
न कश्चित्कस्यचिन्मित्रं,
न कश्चित् कस्यचिद्रिपुः ।
अर्थतस्तु निबध्यन्ते,
मित्राणि रिपवस्तथा ॥
महाभा. / शान्ति. / 138 / 110
(814)
न कश्चिदपि जानाति,
किं कस्य श्वो भविष्यति ।
अतः श्वः-करणीयानि,
कुर्यादद्यैव बुद्धिमान् ॥
(815)
न कश्चिदात्मनः शत्रुं,
नात्मानं कस्यचिद्रिपुम् ।
प्रकाशयेन्नापमानं,
न च निःस्नेहतां प्रभोः ॥
भावप्रकाश / दिनचर्यादिप्रकरण / 253
(816)
नक्रः स्वस्थानमासाद्य,
गजेन्द्रमपि कर्षति ।
स्वस्थानात् परिभ्रष्टः,
शुनाऽ
पि परिभूयते ॥
पञ्चतन्त्र / काकोलूकीय / 44
(817)
न गच्छेत्पूज्ययोर्मध्ये,
दम्पत्योरन्तरेण च ।
रिपोरन्नं न भुञ्जीत,
गणिकान्नमपि क्वचित् ॥
भावप्रकाश / दिनचर्या / 268
(818)
न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम् ।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥
(819)
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृहं हि गृहिणीहीनमरण्यसदृशं मतम् ॥
पञ्चतन्त्र / काकोलूकीय / 143
(820)
न गोप्रदानं न महीप्रदानं न चान्नदानं हि तथा प्रधानम् ।
यथा पदन्तीह बुधाः प्रधानं सर्वप्रधानेष्वभयप्रदानम् ॥
पञ्च. / मित्रभेद / 234
(821)
न च शत्रुरवज्ञेयो,
दुर्बलोऽ
पि बलीयसा ।
अल्पोऽ
पि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥
महाभारत / शान्तिपर्व / 58 / 17
(822)
न च हसति नाभ्यसूयति,
न परान् परिभवति नानृतं वदति ।
नाक्षिप्य कथां कथयति,
लक्षणमेतत् कुलीनस् ॥
नीतिद्विषष्टिका / 75
(823)
न चैष धर्मो वन एव सिद्धः,
पुरेऽ
पि सिद्धिर्नियता यतीनाम् ।
बुद्धिश्च यत्नश्च निमित्तमत्र,
वनं च लिङ्गं च हि भीरुचिह्रम् ॥
(824)
न चौरहार्यं,
न च राजहार्यम्,
न भ्रातृ भाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यम्,
विद्याधनं सर्वधनप्रधानम् ॥
(825)
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव,
भूय एवाभिवर्धते ॥
महाभारत / आदिपर्व / 75 / 50
(826)
न जात्या ब्राह्नणश्चात्र,
क्षत्रियो वैश्य एव न ।
न शूद्रो न च वै म्लेच्छो,
भेदिता गुणकर्मभिः ॥
शुक्रनीति / 1 / 38
(827)
न तच्छस्त्रैर्न नागेर्न्द्रर्न हयैर्न पदातिभिः ।
कार्यं संसिद्धिमभ्येति,
यथा बुद्धया प्रसाधितम् ॥
पञ्च. / मित्रभेद / 131
(828)
न तज्जलं यन्न सुचारुपङ्कजं,
न पङ्कजं तद् यदलीनषटपदम् ।
न षटपदोऽ
सौ न जुुगुञ्ज यः कलं,
न गुञ्जितं तन्न जहार यन्मनः ॥
(829)
न तत्र सूर्यो भाति न चन्द्र-तारकम्,
नेमा विद्युतो भान्ति कुतोऽ
यमग्निः ।
तमेव भान्तनुमाति सर्वम्,
तस्य भासा सर्वमिदं विभाति ॥
प्रश्नोपनिषद् / 2 / 15
(830)
न तस्य बीजं रोहति रोहकाले,
न तस्य वर्षं वर्षति वर्षकाले ।
भीतं प्रपन्नं प्रददाति शत्रवे,
न स त्रातारं लभते त्राणमिच्छन् ॥
महाभा. / उद्योग / 12 / 19
(831)
न त्वेव मन्ये पुरुषस्य कर्म,
संवर्तते सुप्रयुक्तं यथावत् ।
मातुः पितुः कर्मणाभिप्रसूतः,
संवर्धते विधिवद् भोजनेन ॥
महाभा. / उद्योग / 32 / 26
(832)
न दद्यादामिषं श्राद्धे,
न चाद्याद्धर्मतत्त्ववित् ।
मुन्यन्नैः स्यात् परा प्रीतिर्यथा न स्यात् पशुहिंसया ॥
श्रीमदभागवत / 7 / 15 / 3
(833)
न देवा यष्टिमादाय,
रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति,
धिया संयोजयन्ति तम् ॥
चाणयक्तराजनीति / 6 / 37
(834)
न देशो मनुजैर्हीनो,
न मनुष्या निरामयाः ।
ततः सर्वत्र वैद्यानां,
सुसिद्धा एव वृत्तयः ॥
भावप्रकाश / दैनिकचर्या
(835)
न दैवमपि सञ्चिन्त्य,
त्यजेदुद्योगमात्मनः ।
अनुद्योगेन तैलानि,
तिलेभ्यो नाप्तुमर्हति ॥
हितोपदेश / प्रस्तावना / 32
(836)
न धर्मशास्त्रं पठतीति कारणं,
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते,
यथा प्रकृत्या मधुरं गवां पयः ॥
हितोपदेश / 1 / 17
(837)
न पञ्चसाधारणमत्र किञ्चिच्छरीरमेको वहतेऽ
न्तरात्मा ।
स वेत्ति गन्धांश्च रसान् श्रतीश्च,
स्पर्शं च रूपं च गुणाश्च येऽ
न्ये ॥
महाभा. / शान्ति. /187 / 19
(838)
न पश्यति जन्मान्धः,
कामान्धो नैव पश्यति ।
न पश्यति मदोन्मत्तो,
ह्यर्थी दोषान्न पश्यति ॥
(
वृद्धचाणक्य )
(839)
न पिता नात्मजो नात्मा,
न माता न सखीजनः ।
इह प्रेत्य च नारीणां,
पतिरेको गतिः सदा ॥
वाल्मीकि-रामायण / 2 / 175
(840)
न भवति,
भवति च न चिरं,
भवति चिरं चेत्,
फले विसंवदति ।
मन्युः सत्पुरुषाणां,
तुल्य-स्नेहेन नीचानाम् ॥
(841)
न भूतपूर्वो न च केन दृष्टो,
हेम्नः कुरङ्गो न कदापि वार्ता ।
तथापि तृष्णा रघुन्दनस्य,
विनाशकाले विपरीतबुद्धिः ॥
(842)
न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् ।
न तस्य विश्वसेत्प्राज्ञो,
यदीच्छेच्छियमात्मनः ॥
पञ्च. / मित्रभेद / 205
(843)
नरस्याभरणं रूपं,
रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं,
ज्ञानस्याभरणं क्षमा ॥
नराभरण / 2
(844)
न रागान्नाप्यविज्ञानादाहारानुपयोजयेत् ।
परीक्ष्य हितमश्र्नीयाद्,
देहो ह्याहारसंभवः ॥
(
चरक )
(845)
न राज्ञा मृदुना भाव्यं,
मृदुर्हि परिभूयते,
न भाव्यं दारुणेनातितीक्ष्णादुद्विजते जनः ।
काले मृदुर्यो भवति,
काले भवति दारुणः,
राजा लोकद्वयापेक्षी,
तस्य लोकद्वयं भवेत् ॥
मत्स्यपुराण / 220 / 22, 24
(846)
न रात्रौ दधि भुञ्जीत,
न च निर्लवणं तथा ।
नामुदगसूपं नाक्षैद्रं,
न चाप्यघृतशर्करम् ॥
भावप्रकाश / दिनचर्या प्र. / 256
(847)
नवं वस्त्रं,
नवं छत्रं,
नव्या स्त्री,
नूतनं गृहम् ।
सर्वत्र नूतनं शस्तं,
सेवकान्ने पुरातने ॥
(
नीतिप्रदीप )
(848)
न वध्यन्ते ह्यविश्वस्ता,
बलिभिर्दुर्बला अपि ।
विश्वस्तास्त्वेव वध्यन्ते,
बलवन्तोऽ
पि दुर्बलैः ॥
पञ्च. / मित्रभेद / 119
(849)
नवनीतोपमा वाणी,
करुणाकोमलं मनः ।
धर्मबीजप्रसूतानामेतत् प्रत्यक्षलक्षणम् ॥
(850)
न वा उ देवाः क्षुधमिद्वधं
ददुरुताशितमुपगच्छन्ति मृत्यवः ।
उतो रयिः पृणतो
नोपदस्यत्युतापृणन्मर्डितारं न विन्दते ॥
ऋ. / 10 / 117 / 1
(851)
न वाच्यः परिवादोऽ
यं,
न श्रोतव्यः कथञ्चन ।
कर्णावपि पिधातव्यौ,
प्रस्थेयं चान्यतो भवेत् ॥
महाभारत,
शान्तिपर्व / 132 / 12
(852)
न वित्तं दर्शयेत्प्राज्ञः,
कस्यचित्स्वल्पमप्यहो ।
मुनेरपि यतस्तस्य,
दर्शनाच्चलते मनः ॥
पञ्च. / मित्रभेद / 352
(853)
न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः ।
कोपाग्निः शाम्यते राजंस्तोयाग्निरिव सागरे ॥
महाभा. / शान्ति. / 139 / 45
(854)
न विश्वसेत् कुमित्रे च,
मित्रे चापि न विश्वसेत् ।
कदाचित् कुपितं मित्रं,
सर्वं गुह्यं प्रकाशयेत् ॥
चाणक्यनीतिदर्पण / 2 / 6
(855)
न विश्वसेदविश्वस्ते,
विश्वस्तेऽ
पि न विश्वसेत् ।
विश्वासादभयमुत्पन्नं,
मूलान्यपि निकृन्तति ॥
पञ्च. / मित्रसम्प्राप्ति / 45
(856)
न वेगान् धारयेद्धीमान्,
जातान् मूत्रपुरीषयोः ।
न रेतसो न वातस्य,
न वम्याः क्षवथोर्न च ॥
नोदगारस्य न जृम्भाया,
न वेगान् क्षुत्पिपासयोः ।
न बाष्णस्य न निद्राया,
निःश्वासस्य श्रमेण च ॥
चरक / सूत्रस्थान / 7 / 3-4
(857)
न वेेगितोऽ
न्यकार्यः स्यान्न वेगान्नीरयेदबलात् ।
काम-शोक-भय-क्रोधान्,
मनोवेगान् विधारयेत् ॥
भावप्रकाश / दिनचर्या / 21
(858)
नवे वयसि यः शान्त,
स शान्त इित कथ्यते ।
धातुषु क्षीयमाणेषु,
शमः कस्य न जायते ॥
( 859)
नवोऽ
र्थो जातिरग्राम्या,
श्लेषोऽ
क्लष्टः स्फुटो रसः ।
विकटाक्षरबन्धश्च,
कृत्स्नमेकत्र दुष्करम् ॥
(860)
नष्टं द्रव्यं प्राप्यते ह्युद्यमेन,
नष्टा विद्या प्राप्यतेऽ
भ्यासयुक्त्या ।
नष्टारोग्यं सूपचारैः सुसाध्यं,
नष्टा वेला या गता सा गतैव ॥
(861)
नष्टं मृतमतिक्रान्तं,
नानुशोचन्ति पण्डिताः ।
पण्डितानां च मूर्खाणां विशेषोऽ
यं यतः स्मृतः ॥
पञ्च. / मित्रभेद / 284
(862)
न संशयमनारुह्य,
नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य,
यदि जीवति पश्यति ॥
महाभा. / शान्ति. / 140 / 34
(863)
न स सखा यो न ददाति सख्ये,
सचाभुवे सचमानाय पित्वः ।
अपास्मात्प्रेयान्न तदोको अस्ति,
पृणन्तमन्यरणं चिदिच्छेत् ॥
ऋ. / 10 / 117 / 4
(864)
न सा विद्या न तद्दानं,
न तच्छिल्पं न सा कला ।
न तत्स्थैर्यं हि धनिनां,
याचकैर्यन्न गीयते ॥
पञ्च / मित्रभेद / 4
(865)
न स्नानमाचरेद् भुक्त्वा,
नातुरो न महानिशि ।
न वासोभिः सहाजस्त्रं,
नाविज्ञाते जलाशये ॥
(866)
न स्वल्पस्य कृते भूरि,
नाशयेन्मतिमान्नरः ।
एतदेवात्र पाण्डित्यं,
यत्स्वल्पाद् भूरिरक्षणम् ॥
पञ्च. / मित्रभेद / 19
(867)
न हि कश्चित् कृते कार्ये,
कर्तारं समवेक्षते ।
तस्मात् सर्वाणि कार्याणि,
सावशेषाणि कारयेत् ॥
(868)
न हि खल्वनुपायेन,
कश्चिदर्थोऽ
भिसिध्यति ।
सूत्रजालैर्यथा मत्स्यान्,
बध्नन्ति जलजीविनः ॥
महाभारत / शान्तिपर्व / 203 / 99
(869)
न हि तद्विद्यते किंचिद्,
यदर्थेन न सिध्यति ।
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥
पञ्च. / मित्रभेद / 2
(870)
नहि प्रतिज्ञां कुर्वन्ति,
वितथां सत्यवादिनः ।
लक्षणं हि महत्त्वस्य,
प्रतिज्ञा-परिपालनम् ॥
(871)
न हि बुद्धिगुणेनैव,
सुहृदामर्थदर्शनम् ।
कार्यसिद्धिपथः सूक्ष्मः,
स्नेहेनाप्युपलभ्यते ॥
मालविकाग्निमित्र / 4 / 6
(872)
न हि भवति वियोगः स्नेह-विच्छेदहेतु
र्जगति गुणनिधीनां सज्जनाानां कदाचित् ।
घन-तिमिर-निबद्धो दूरसंस्थोऽ
पि चन्द्रः,
किमु कुमुद-वनानां प्रेम-भङ्गं करोति ॥
(873)
नहि वक्ता मृदुवक्ता विमृश्यवक्ता न चापि बहुवक्ता ।
ऋतवक्ता गुणवक्ता हितवक्ता दुर्लभः पुरुषः ॥
नीतिद्विषष्टिका / 1 / 6
(874)
नहि सुखमन्विच्छन्,
पीडयेत् कृपणं जनम् ।
कृपणः पीडयमानः स्वमृत्युना हन्ति पार्थिवम् ॥
शुक्रनीति / 1 / 160
(875)
न हृष्यत्यात्मसम्माने,
नावमानेन तप्यते ।
गाङ्गो ह्रद इवाक्षोभ्यो,
यः स पण्डित उच्यते ॥
महााभा. / उद्योग / 33 / 26
(876)
न ह्योकः साधको हेतुः,
स्वल्पस्यापीह कर्मणः ।
यो ह्यर्थं बहुधा वेद,
स समर्थोऽ
र्थसाधने ॥
वाल्मीकि-रामायण / 5 / 41 / 6
(877)
नाकृष्य स्थापयेत्क्रोडे,
न क्षिप्रं शयने क्षिपेत् ।
रोदयेन्नैव क्वचित्कार्ये,
विधिमावश्यकं विना ॥
भावप्रकाश / बालप्रकरण / 38
(878)
नाच्छादयति कौपीनं,
न दंशमशकापहम् ।
शुनः पुच्छमिव व्यर्थं,
पाण्डित्यं धर्मवर्जितम् ॥
पञ्चतन्त्र / काकोलूकीय / 94
(879)
नात्यनं सरलैर्भाव्यं,
गत्वा पश्य वनस्थलीम् ।
छिद्यन्ते सरलास्तत्र,
कुब्जास्तिष्ठन्ति पादपाः ॥
चाणक्यनीति / 7 / 12
(880)
नानृतात् पातकं किञ्चित्,
न सत्यात् सुकृतं परम् ।
विवेकान्न परो बन्धुरिति वेदविदो विदुः ॥
(881)
नान्तर्विचिन्तयति किञ्चिदपि
प्रतीपम्आकोपितोऽ
पि सुजनः पिशुनेन पापम् ।
अर्कद्विषोऽ
पि हि मुखे
पतिताग्रभागास्तारपतेरमृतमेव कराः क्षिपन्ति ॥
(882)
नाप्राप्यमभिवाञ्छन्ति,
नष्टं नेच्छन्ति शोचितुम् ।
आपत्सु च न मुह्यन्ति,
नराः पण्डित-बुद्धयः ॥
महाभा. / उद्योग / 33 / 23
(883)
नाभक्ष्यं भक्षयेत्प्राज्ञः,
प्राणैः कण्ठगतैरपि ।
विशेषात्तदपि स्तोकं,
लोकद्वयविनाशकम् ॥
पञ्च. / मित्रभेद / 240
(884)
नाभित्त्वा परमर्माणि,
नाकृत्वा कर्म दुष्करम् ।
नाहत्वा मत्स्यघातीव,
प्राप्नोति महतीं श्रियम् ॥
शुकसप्तति पृष्ठ-60
(885)
नाभिषेको न संस्कारः,
सिंहसय क्रियते वने ।
विक्रमार्जितसत्त्वस्य,
स्वमेव मृगेन्द्रता ॥
(886)
नाभ्युत्थानक्रिया यत्र,
नालापो मधुराक्षरम् ।
गुणदोषकथा नैव,
स स्वर्गोऽ
पि न गम्यताम् ॥
नराभरण / 41
(887)
नायमात्मा प्रवचनेन लभ्योः,
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते तनुं स्वाम् ॥
कठोपनिषद् / वल्ली 2 / 23
(888)
नारिकेल-समाकरा,
दृश्यन्ते हि सुहृज्जनाः ।
अन्ये बदरिकाकारा,
बहिरेव मनोहराः ॥
(889)
नार्थमल्पं परिभवेन्नावमन्येत शात्रवान् ।
बुद्धया तु बुद्धयेदात्मानं,
न चाबुद्धिषु विश्वसेत् ॥
महाभा. / शान्ति / 120 / 3
(890)
नामम्बते दैष्टिकतां,
न निषीदति पौरुषे ।
शब्दार्थौ सत्कविरिव,
द्वयं विद्वानपेक्षते ॥
शिशुपालवध / 2 / 86
(891)
नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः ।
न च लोकरवाद् भीता,
न च शश्वत्प्रतीक्षिणः ॥
(892)
नालोकः क्रियते सूर्ये,
भूः प्रतीपं न धार्यते ।
नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते ॥
(893)
नासंवृतं मुखं कुर्यात्,
सभायां च विचक्षणः ।
कासं हासं तथोदगारं,
जृम्भणं क्षवथुं तथा ॥
भावप्रकाश / दिनचर्या - प्रकरण / 262
(894)
नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः ।
नास्ति क्रोधसमो वह्रिर्नास्ति ज्ञानात्परं सुखम् ॥
वृद्धचाणक्य
(895)
नास्ति जात्या रिपुर्नाम,
मित्रं चापि न विद्यते ।
सामर्थ्यादेव जायन्ते,
मित्राणि रिपवस्तथा ॥
(896)
नास्थाने जातु वप्तव्यं,
विद्याबीजं मनीषिणा ।
दूरे तिष्ठतुं तदवृद्धिर्यतो मूलेऽ
पि संशयः ॥
नीतिकल्पतरु / 36 / 1
(897)
निंस्त्रिशं हृदयं कृत्वा,
वाणीं क्षुरसमोपमाम् ।
विकल्पोऽ
त्र न कर्त्तव्यो,
हन्यात्तत्रापकारिणम् ॥
पञ्च. / मित्रभेद / 318
(898)
निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु,
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा,
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥
नीतिशतक / 79
(899)
निबन्धनी ह्यर्थतृष्णेह पार्थ,
तामिच्छतां बाध्यते धर्म एव ।
धर्मं तु यः प्रवृणीते स बुद्धः,
कामे गृध्नो हीयतेऽ
र्थानुरोधात् ॥
महाभा. / उद्योग / 27 / 5
(900)
निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रशाम्यति ।
अकारणद्वेषपरो हि यो भवेत्,
कथं नरस्तं परितोषयिष्यति ॥
पञ्च. / मित्रभेद / 227
(901)
निम्नेन तोयं हरितेन गावः,
सान्त्वेन बाला विनयेन सन्तः ।
अर्थेन नारी तपसा च देवाः,
सर्वो हि लोको ह्रियते प्रियेण ॥
(902)
निम्ब . त्वदीयकटुता यदि दाहहन्त्री,
गायन्तु मूढमनुजास्तव दोषगाथाः ।
तप्तास्त एव तपनोपमपित्ततापैर्गास्यन्ति
मित्रवर . तावकगीतकानि ॥
(903)
निर्गुणमप्यनुरक्तं प्रायो,
न समाश्रितं जहति सन्तः ।
समवृद्धिक्षयभाजं,
वहति शशाङ्कः कलङ्कमपि ॥
(904)
निर्गुणेष्वपि सत्त्वेषु,
दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां,
चन्द्रश्चाण्डालवेश्मनः ॥
(905)
निर्वनो वध्यते व्याघ्रो,
निर्व्याघ्रं छिद्यते वनम् ।
तस्माद् व्याघ्रो वनं रक्षेत्,
वनं व्याघ्रं च पालयेत् ॥
महाभा. / उद्योग / 29 / 55
(906)
निर्वाणदीपे किमु तैलदानं,
चौरे गते वा किमु सावधानम् ।
वयो-गते किं वनिता-विलासः,
पयो-गते किं खलु सेतुबन्धः ॥
(
नीतिप्रदीप )
(907)
निर्विण्णे निर्विण्णा मुदिते मुदिता,
समाकुलाऽऽ
कुलिते ।
प्रतिबिम्बसमा कान्ता,
संक्रुद्धे केवलं भीता ॥
कुट्टिनीमत / 441
(908)
निर्विषेणामपि सर्पेण,
कर्त्तव्या महती फणा ।
विषणस्तु मा वास्तु,
फटाटोपो भयङ्करः ॥
पञ्चतन्त्र / काकोलूकीय / 83
(909)
निश्चित्य यः प्रक्रमते,
नान्तर्वसति कर्मणः ।
अवन्ध्यकालो वश्यात्मा,
स वै पण्डित उच्यते ॥
महाभा. / उद्योग / 33 / 24
(910)
निषेवते प्रशस्तानि,
निन्दितानि न सेवते ।
अनास्तिकः श्रद्दधान,
एतत् पण्डितलक्षणम् ॥
महाभा. / उद्योग / 33 / 16
(911)
निस्सारस्य पदार्थस्य,
प्रायेणाडम्बरो महान् ।
नहि स्वर्णे ध्वनिस्तादृक्,
यादृक् कंसे प्रजायते ॥
(912)
नेच्छेदबलवता,
युद्धं,
न भारं शिरसा वहेत् ।
गात्रं न वादयेत् केशान् हस्तेन धुनुयान्न च ॥
भावप्रकाश / दिनचर्या / 267
(913)
नैतादृशः परो धर्मो,
नृणां सदधर्ममिचछताम् ।
न्यासो दण्डस्य भूतेषु,
मनोवाक्कायजस्य यः ॥
श्रीमदभागवत / 7 / 15 / 8
(914)
नैनं छिन्दन्ति शस्त्राणि,
नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो,
न शोषयति मारुतः ॥
महाभा. / भीष्म. / 26 / 23
(915)
नैर्गुण्यमेव साधीयो,
धिगस्तु गुणगौरवम् ।
शाखिनोऽ
न्ये विराजन्ते,
खण्डयन्ते चन्दनद्रुमाः ॥
भामिनीविलास / 1 / 86
(916)
नोदन्वानर्थितामेति,
न चाम्भोभिर्न पूर्यते ।
आत्मा तु पात्रतां नेयः,
पात्रमायान्ति सम्पदः ॥
(917)
नोपरक्तं न चोद्यन्तं,
नास्तं यातं दिवाकरम् ।
सर्वथा न समीक्षेत,
न जले प्रतिबिम्बितम् ॥
भावप्रकाश / दिनचर्या / 265
(918)
पञ्च यत्र न विद्यन्ते,
न कुर्यात्तत्र संसथितम् ।
लोकयात्रा,
भयं,
लज्जा,
दाक्षिण्यं,
धर्मशीलता ॥
चाणक्यनीति / 2 / 108
(919)
पतिवाक्यमनादृत्य,
स्वेच्छया वर्त्तते तु या ।
सा नरी सततं घोरे,
पतत्याचन्द्रतारकम् ॥
स्कन्दपुराण वै० ख० वै० स० / 26 / 82
(920)
पतिव्रता पतिप्राणा,
पत्युः प्रियहिते रता ।
यस्य स्यादीदृशी भार्या,
धन्यः स पुरुषो भुवि ॥
पञ्चतन्त्र / काकोलूकीय / 142
(921)
पतिहीना तु या नारी,
न सा शक्ष्यति जीवितुम् ।
काममेवंविधं राम,
त्वया मम निदर्शितम् ॥
वा० रामायण / अयोध्या काण्ड / 29 / 7
(922)
पत्रं नैव यद करीरविटपे दोषो वसन्तस्य किम् ?
नोलूकोऽ
प्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् ?
धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम् ?
यत्पूर्वं विधिना ललाट-लिखितं तन्मर्जितुं कः क्षमः ??
नितिशतक / 86
(923)
पथ्ये सति गदार्त्तस्य,
किमौषध-निषेवणैः ।
पथ्येऽ
सति गदार्त्तस्य,
किमौषध-निषेवणैः ॥
(924)
पट्नाकरं दिनकरो विकचीकरोति,
चन्द्रो विकासयति कैरव-चक्रवालम् ।
नाभ्यर्थितो जलधरोऽ
पि जलं ददाति,
सन्तः स्वयं परहितेषु कृताभियोग / 70
(925)
पन्था देयो ब्राह्नणाय,
गवे राज्ञे ह्यचक्षुषे ।
वृद्धाय भारतप्ताय,
गर्भिण्यै दुर्बलाय च ॥
बौधायन धर्मसूत्र / 2 / 3 / 30
(926)
पदद्वयस्य संधानं,
कर्तुमप्रतिभाः खलाः ।
ताथापि परकाव्येषु,
दुष्करेष्वप्यसंभ्रमाः ॥
(927)
पयःपानं भुजडगानां,
केवलं विषवर्धनम् ।
उपदेषो हि मूर्खाणां,
प्रकोपाय न शान्तये ॥
हितोपदेश / 3 / 4
(928)
परं क्षिपति दोषेण,
वर्तमानः स्वयं तथा ।
यश्च क्रुध्यत्यनीशानः,
स च मूढतमो नरः ॥
महाभा. / उद्योग. / 33 / 37
(929)
परं विवर्धनं बुद्धेरज्ञानतरुशातनम् ।
समुत्सारणमाधीनां,
विद्धि साधुसमागमम् ॥
(930)
परकार्य-विहन्ता,
च दाम्भिकः स्वार्थसाधकः ।
छली द्वेषी मृदुक्रूरो,
विप्रो मार्जार उच्यते ॥
चाणक्यनीति / 11 / 15
(931)
परदुःखं समाकर्ण्य,
स्वभावसरलो जनः ।
उपकारासमर्थत्वात्,
प्राप्नोति हृदये व्यथाम् ॥
(932)
पराङमुखेऽ
पि दैवेऽ
त्र,
कृत्यं कार्यं विपश्चिता ।
आत्मदोषविनाशाय,
स्वचित्तस्तम्भनाय च ॥
पञ्च. / मित्रभेद / 312
(933)
परान्नं परवस्त्रं च,
परशय्यां परस्त्रियम् ।
परवादं परद्रवंय,
दूरतः परिवर्जयेत् ॥
(
चाणक्यराजनीति)
(934)
परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये,
स पश्चात् सम्पूर्णो गणयति धरित्रीं तृणसमाम् ।
अतश्चानैकान्त्याद् गुरुलघुतयार्थेषु धनिनामवस्था
वस्तूनि प्रथयति च सङ्कोचयति च ॥
नीतिशतक / 41
(935)
परिवर्तिनि संसारे,
मृतः को वा न जायते ।
स जातो येन जातेन,
याति वंशः समुन्नतिम् ॥
नीतिशतक / 31
(936)
परिवर्ज्या भुजङगीव,
वनिताऽ
न्यस्य दूरतः ।
सा हि लोभवशा पापा,
पुरुषस्य विनाशिका ॥
पट्नपुराण / 14 / 191
(937)
परीक्षका यत्र न सन्ति देशे,
नार्घन्ति रत्नानि समुद्रजानि ।
आभीरदेशे किल चन्द्रकान्तं,
त्रिभिर्वराटैर्विपणन्ति गोपाः ॥
पञ्च. / मित्रभेद / 80
(938)
परोक्षे कार्यहन्तारं,
प्रत्यक्षे प्रियवादिनाम् ।
वर्जयेत्तादृशं मित्रं,
विषकुम्भं पयोमुखम् ॥
हितोपदेश / मित्रलाभ / 77
(939)
परोपदेशे पाण्डित्यं,
सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयमनुष्ठानं,
कस्यचित्तु महात्मनः ॥
हितोपदेश / 1 / 107
(940)
पश्यन्ति मां दशदिशो वनदेवताश्च,
चन्द्रश्च दीप्त-किरणश्च दिवाकरोऽ
यम् ।
धर्मानिलौ च गगनं च तथान्तरात्मा,
भूमिस्तथा सुकृतदुष्कृत -साक्षिभूता ॥
(941)
पाटीर तव पटीयान् कः परिपाटीमिमामुरीकर्तुम् ।
यत्पिषतामपि नृणां पिष्टोऽ
पि तनोषि परिमलैः पुष्टिम् ॥
भामिनीविलास / 1 / 11
(942)
पाणिमदभ्यः स्पृहास्माकं,
यथा तव धनस्य वै ।
न पाणिलाभादधिको,
लाभः कश्चन विद्यते ॥
महाभा / शान्ति. / 180 / 12
(943)
पाणिमन्तो बलवन्तो,
धनवन्तो न संशयः ।
मनुष्या मानुषैरेव,
दासत्वमुपपादिताः ॥
महाभा. / शान्ति. / 180 / 34
(944)
पातितोऽ
पि कराघातैरुत्पतत्येव कन्दुकः ।
प्रायेण हि सुवृत्ताानामस्थायिन्यो विपत्तयः ॥
(945)
पातेन कन्दुक इवोत्पतत्यार्यः पतन्नपि ।
तथापि तन्वनार्यः पतति मृत्पिण्डपतनं यथा ॥
(946)
पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।
जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदसय् ॥
मालविकाग्निनमित्र / 1 / 6
(947)
पादाभ्यां न स्पृशेदग्निं,
गुरुं ब्राह्नणमेव च ।
नैव गाञ्च कुमारीं च,
न वृद्धं न शिशुं तथा ॥
चामक्यनीति / 7 / 6
(948)
पादाहतं यदुत्थाय,
मूर्धानमधिरोहति ।
स्वस्थादेवापमानेऽ
पि,
देहिनस्तद्वरं रजः ॥
शिशुपालवध / 2 / 46
(949)
पादाहतोऽ
पि दृढदण्डसमाहतोऽ
पि,
यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः ।
कोऽ
प्येष एव पिशुनोऽ
ग्रमनुष्यधर्मः,
कर्णे परं स्पृशति हन्ति परं समूलम् ॥
पञ्च. / मित्रभेद / 250
(950)
पानमक्षस्तथा नार्यो,
मृगया गीतवादितम् ।
एतानि युक्त्या सेवेत,
प्रसङ्गो ह्यत्र दोषवान् ॥
महाभारत शा० पः / 140 / 26
(951)
पापान्निवारयति योजयते हिताय,
गुह्यं निगूहति गुणान् प्रकटीकरोति ।
आपदगतं च न जहाति ददाति काले,
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥
नीतिशतक / 69
(952)
पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥ ऋ. / 1 / 3 / 10
(953)
पिबन्ति नद्यः स्वयमेव नाम्भः,
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः,
परोपकाराय सतां विभूतयः ॥
(954)
पिण्डे पिण्डे मतिर्भिन्ना,
कुण्डे कुण्डे नवं पयः ।
जातौ जातौ नवाचारा,
नवा वाणी मुखे मुखे ॥
(955)
पितरं चाप्यवज्ञाय मातरं च नराधिप ।
गुरुं च भरत-श्रेष्ठ नरकं प्रतिपद्यते ॥
(956)
पिता विवेकः सुमतिर्जनत्री,
स्वसाऽ
प्यहिंसा दयिता दयैव ।
धर्मः सहायः करुणा कुमारी,
सूनुस्तथा दीनजनोपकारः ॥
चाणक्यराजनीतिशास्त्र / 8 / 153
(957)
पिशुनेभ्यो नमस्तेभ्यो यत्प्रसादान्नियोगिनः ।
दूरस्था अपि जायन्ते सहस्त्रश्रोत्रचक्षुषः ॥
नर्ममाला / 51
(958)
पुंसामसमर्थानामुपद्रवायात्मनो भवेत्कोपः ।
पिठरं ज्वलदतिमात्रं निजपार्श्वानेव दहतितराम् ॥
पञ्च. / मित्रभेद / 274
(959)
पुत्राश्च विविधैः शीलैर्नियोज्याः सततं बुधैः ।
नीतिज्ञाः शीलसम्पन्नाः भवन्ति कुलपूजिताः ॥
चाणक्यनीति / 2 / 10
(960)
पुनरेहि वाचस्पते देवेन मनसा मह ।
वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥
अथर्व. / 1 / 1 / 2
(961)
पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।
एतत्सर्वं पुनर्लभ्यं,
न शरीरं पुनः पुनः ॥
चाणक्यनीति / 14 / 2
(962)
पुनाति त्रायते चायं पितरं येन शोकतः ।
एतत्पुत्रस्य पुत्रत्वं प्रवदन्ति मनीषिणः ॥
पट्नपुराण / 31 / 126
(963)
पुरः फलायामाशायां जनः कामं विडम्बते ।
आसन्ने ही घनारम्भे द्विगुणं रौति चातकः ॥
विदग्धमाधव / 14 / 18
(964)
पुराणमित्येव न साधु सर्वम्,
न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीक्ष्यान्यतरद् भजन्ते,
मूढः परप्रत्ययनेयबुद्धिः ॥
मालवाग्निमित्रम् / 1 / 2
(965)
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः ।
आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥
वा० रामायण / अयोध्याकाण्ड / 111 / 2
(966)
पुलाका इव धान्येषु पूतिका इव पक्षिषु ।
मशका इव मर्त्येषु येषां धर्मो न कारणम् ॥
महाभा. / शान्ति / 181 / 7
(967)
पुष्पं दृष्टवा फलं दृष्टवा दृष्टवा यौषितयौवनम् ।
त्रीणि रत्नानि दृष्टवैव कस्य नोच्चलते मनः ॥
(968)
पुष्पे गन्धं,
तिले तैलं,
काष्ठे वह्रिं पयोघृतम् ।
इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥
चाणक्यनीति / 7 / 21
(969)
पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥
(970)
पृणीयादिन्नाधमानाय तव्यान्,
द्राघीयांसमनुपश्येत पन्थाम् ।
ओ हि वर्त्तन्ते रथ्येव चक्रान्यमन्यमुप
तिष्ठन्त रायः ॥
ऋ. / 10 / 117 / 5
(971)
पृथिवी रत्नसम्पूर्णां हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत ॥
महाभारत,
आदिपर्व / 75 / 5
(972)
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
उदभटश्लोक
(973)
पृष्ठतः सेवयेदर्कं जठरेण हुताशनम् ।
स्वामिनं सर्वभावेन परलोकममायया ॥
हितोपदेश / सुहृदभेद / 34
(974)
प्रजहाति यदा कामान्,
पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः,
स्थितप्रज्ञस्तदोच्यते ॥
महाभारत / भीष्मपर्व / 26 / 55
(975)
प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्त्रमपि ॥
(976)
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् ।
अनागतसुखाशा च नैव बुद्धिमतां नयः ॥
(977)
प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः,
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ।
अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथाः,
सतां केनोद्दिष्टं विषममसिधारा-व्रतमिदम् ॥
नीतिशतक / 60
(978)
प्रमदा मदिरा लक्ष्मीर्विज्ञेया त्रिविधा सुरा ।
दृष्टवैवोन्मादयत्येका पीता चान्यातिसंचयात् ॥
(
सुभाषित-रत्नभाण्डागार )
(979)
प्रमीयते चास्य प्रजा ह्यकाले,
सदा विवासं पितरोऽ
स्य कुर्वते ।
भीतं प्रपन्नं ददाति यःशत्रवे,
सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥
महाभा. / उद्योग / 12 / 21
(980)
प्रयोगः शमयेद् व्याधिं योऽ
न्यमन्यमुदीयेत् ।
नासौ विशुद्ध,
शुद्धस्तु शमयेद्यो न कोपयेत् ॥
(981)
प्रवाता वान्ति पयन्ति
विद्युतउदोषधीर्जिहते पिन्वते स्वः ।
इरा विश्वस्मै भुवनाय जायते,
यत्पर्जन्यः पृथिविं रेतसावति ॥
ऋ. / 5 / 83 / 4
(982)
प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान् ।
आशुग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥
महाभा. / उद्योग / 33 / 28
(983)
प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।
भवन्ति कस्यचित् पुण्यैर्मूखे वाोचो गृहे स्त्रियः ॥
(984)
प्रसादे सर्वदुःखाानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥
महाभारत / भीष्मपर्व / 26 / 65
(985)
प्रस्तुतस्य विरोधेन ग्राम्यस्सर्वोऽ
प्युपक्रमः ।
वीणायां वाद्यमानायां वेदोदगारो न युज्यते ॥
नलचम्पू / 6 / 46
(986)
प्राकपादयोः पतति खादति पृष्ठमाांसंकर्णे
कलं किमपि रौति शनैर्विचित्रम् ।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः,
सर्वं खलस्य चरितं मशकः करोति ॥
(
हितोपदेश )
(987)
प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाऽ
शुभम् ।
अपृष्टोऽ
पि हितं ब्रूयाद्यस्य नेच्छेत् पराभवम् ॥
पञ्च. / मित्रभेद / 183
(988)
प्रियमेवाभिधातव्यं नित्यं सस्तु द्विषत्सु वा ।
शिखीव केकां मधुरां वाचं ब्रूते जनप्रियः ॥
शुक्रनीति / 1 / 168
(989)
प्रियाप्रिये सुखदुःखे च राजन्,
निन्दाप्रशंसे च भजन्त एव ।
परस्त्वेनं गर्हयतेऽ
पराधे,
प्रशंसते साधुवृत्तं तमेव ॥
महाभा. / उद्योग / 32 / 27
(990)
प्रत्यक्षं गुणवादी यः परोक्षे चास्ति निन्दकः ।
स मानवः श्ववल्लोके नष्टलोकपरावरः ॥
महाभा. / शान्तिपर्व / 114 / 12
(991)
प्राणाघातान्निवृत्ति,
परधनहरणे संयमः सत्यवाक्यम्,
काले शक्त्या प्रदानां,
युवतिजनकथा-मूकभावः परेषाम् ।
तृष्णा-स्त्रेतोविभङ्गो,
गुरुषु च विनयः सर्वभूतानुकम्पा,
सामान्यं सर्वशास्त्रेष्वनुपहतविधिः,
श्रेयसामेष पन्थाः ॥
नीतिशतक / 25
(992)
प्राता रत्नं प्रातरित्वा दधाति,
तं चिकित्वान् प्रतिगृह्या निधत्ते ।
तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सूवीरः ॥
ऋ. / 1 / 125 / 1
(993)
प्राप्ताः श्रियः सकलकामदुघास्ततः किं,
जत्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्मानिताः प्रणयिनो विभवैस्ततः किं,
कल्पं स्थितं तनुभृता तनुबिस्ततः किम् ॥
वैराग्यशतक / 65
(994)
प्राप्ते भये परित्राणं प्रीतिविश्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥
पञ्च. / मित्रसम्प्राप्ति / 181
(995)
प्राप्य चलानधिकाराञ्छत्रुषु मित्रेषु बन्धुवर्गेषु ।
नोपकृतं नोपकृतं नोपकृतं किं कृतं तेन ॥
अब्दुलरहीत खानेखानी
(996)
प्रायो दुरन्तपर्यन्ताः सम्पदोऽ
पि दुरात्मनाम् ।
भवन्ति हि सुखोदर्का विपदोऽ
पि महात्मनाम् ॥
प्रसन्नराघव / 5 / 49
(997)
प्रायश्चित्तं चिकित्सां च ज्योतिषं धर्मनिर्णयम् ।
विना शास्त्रेण यो ब्रूयात्तं विद्याद् ब्रट्नघातकम् ॥
(
नारदस्मृति )
(998)
प्रारभ्यते न खलु विघ्नभयेन नीचैः,
प्रारभ्य विघ्नविहताः विरमन्ति मध्याः ।
विध्नैः पुनः पुनरपि प्रतिहन्यमानाः,
प्रारभ्य चोत्तमजना न परित्यजन्ति ॥
नीतिशतक / 26
(999)
प्रियवाक्य-प्रदानेन सर्वे तुष्यति जन्तवः ।
तस्मात्तदेव वक्तव्यं,
वचने का दरिद्रता ॥
चाणक्यनीति / 16 / 17
(1000)
बद्धो हि को यो विषयानुरागी,
का वा विमुक्तिर्विषये विरक्तिः ।
को वाऽ
स्ति घोरो नरकः स्वदेहः,
तृष्णाक्षयः मोक्षपदं किमस्ति ॥
शांकरप्रश्नोत्तरी
( 1001)
बन्धनानि खलु सन्ति बहूनि,
प्रेमरज्जुकृतबन्धनमन्यत् ।
दारुभेदनिपुणोऽ
पि षडंघ्रिः,
निष्क्रियो भवति पङ्कजकोशे ॥
चाणक्यनीति / 15 / 17
(1002)
बन्धाय विषयैः संगः,
मुक्त्यै निर्विषयं मनः ।
मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः ॥
चाणक्यनीति / 13 / 12
(1003)
बन्धुरिव भवति पूर्वं मित्रमिव शत्रुरिव चान्ते ।
कृकलास इव दुरात्मा त्रीन् वर्णान् दर्शयति नीचः ॥
नीतिद्विषष्टिका / 82
(1004)
बलवन्तं रिपुं दृष्ट्वा नैवात्मानं प्रकोपयेत् ।
बलवद्भिश्च कर्त्तव्या शरच्चन्द्रप्रकाशता ॥
पञ्च. / मित्रभेद / 257
(1005)
बलिना सह योद्धव्यमिति नास्ति निदर्शनम् ।
प्रतिवातं न हि घनः कदाचिदुपसर्पति ॥
पञ्चतन्त्र / काकोलूकीय / 22
(1006)
बलिभिर्मुखमाक्रान्तं पलितैः रञ्जितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥
(1007)
बलं विद्या तु विप्राणां,
राज्ञां सैन्यबलं तथा ।
बलं वित्तञ्च वैश्यानां,
शूद्राणां च कनिष्ठता ॥
चाणक्यनीति / 2 / 16
(1008)
बहुरक्षितबहुशिक्षितोऽ
पि नीचजनो भजति नैव सन्मार्गम् ।
पुच्छमिव शुनो नालिकाधृतमपि सरलं यथा न स्यात् ॥
आभरणकशतक / 28
(1009)
बहूनामप्यसाराणां समवायो हि दुर्जयः ।
तृणैरावेष्टयते रज्जुर्येन नागोऽ
पि बध्यते ॥
पञ्च. / मित्रभेद / 282
(1010)
बह्वपि स्वेच्छया कामं प्रकीर्णमित्यभिधीयते ।
अनुज्झितार्थ-सम्बन्धः प्रबन्धो दुरुदाहरः ॥
शिशुपातवध / 2 / 73
(1011)
बालमङ्कं सुखं दध्यान्न चैनं तर्जयेत्क्वचित् ।
सहसा बोधयेन्नैव नायोग्यमुपवेशयेत् ॥
भावप्रकाश / बालप्रकरण / 37
(1012)
बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् ।
तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥
पञ्च. / मित्रभेद / 278
(1013)
बुद्धिं लुम्पति यद् द्रव्यं मदकारि तदुच्यते ।
तमोगुण-प्रधानञ्च यथा मद्यं सुरादिकम् ॥
भावप्रकाश / मिश्रप्रकरण / 232
(1014)
बुद्धिर्दीप्ता बलवन्तं हिनस्ति,
बलं बुद्धया पाल्यते वर्धमानम् ।
शत्रुर्बुद्धया सीदते वर्धमानो,
बुद्धेः पश्चात् कर्म यत्तत् प्रशस्तम् ॥
महाभा. / शान्ति. / 120 / 42
(1015)
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ।
सा मध्यैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥
(1016)
बुभुक्षितैर्व्याकरणं न भुज्यते,
पिपासितैः काव्यरसो न पीयते ।
नच्छन्दसा केनचिदुदधृतं कुलं,
हिरण्यमेवार्जय,
निष्फलाः कलाः ॥
(
औचित्यविचारचर्चा )
(1017)
बुभुक्षितो न योऽ
श्नाति तस्याहरेन्धनक्षयात् ।
मन्दीभवति कायाग्निर्यथा चाग्निरिनिन्धनः ॥
भावप्रकाश / दिनचर्या / 112
(1018)
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घाजघन्यानि भार-प्रत्यवराणि च ॥
महाभा. / शान्तिपर्व / 112 / 18
(1019)
बृहस्पतिर्नो परिपातु पश्चाद्,
उतोत्तरस्मादधरादघायोः
इन्द्रः पुरस्तादुत मध्यतो नः,
सखा सखिभ्यो वरिवः कृणोतु ॥
ऋ. / 10 / 42 / 11
(1020)
बृहस्पतेरपि प्राज्ञो न विश्वासं व्रजेन्नरः ।
य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥
पञ्च. / मित्रभेद / 120
(1021)
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥
वैराग्यशतक / 2
(1022)
ब्रह्नाघ्ने च सुरापे च गोघ्ने भग्नव्रते तथा ।
निष्कृतिर्विहिता सदभिः कृतघ्ने नास्ति निष्कृतिः ॥
वा. रामायण / किष्किन्धा. / 34 / 12
(1023)
ब्रह्नचर्येण तपसा देवा मृत्युमुपाघ्नत ।
इन्द्रो ब्रह्नचर्येण देवेभ्यः स्वराभरत ॥
अथर्व. / 11 / 5 / 19
(1024)
ब्राह्ने मुहूर्त्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च ॥
मनु. / 4 / 92
(1025)
भद्रं कर्णेभिः श्रृणुयाम देवाभद्रं
पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेमहि
देवहितं यदायुः ॥
ऋ. 89 / 2
(1026)
भद्रमिच्छन्त ऋषयः,
स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे ।
ततो राष्ट्रं बलमोजश्च जातम्,
तदस्मै देवा उप संनमन्तु ॥
अथर्व. / 19 / 41 / 1
(1027)
भ्रमन् सम्पूज्यते राजा,
भ्रमन् सम्पूज्यते द्विजः ।
भ्रमन् सम्पूज्यते योगी,
स्त्री भ्रमती विनश्यति ॥
चाणक्यनीति / 6 / 4
(1028)
भवन्ति नम्रास्तरवः फलोदगमैः
नवाम्बुभिर्भूरिविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः,
स्वभाव एवैष परोपकारिणाम् ॥
(1029)
भवन्तो वेदान्तप्रणिहितधियामाप्तगुरवो,
विदग्धालापानां वयमपि कवीनामनुचराः ।
तथाऽ
प्येतदभूमौ नहि परहितात्पुण्यमधिकम्,
न चास्मिन्त्संसारे कुवलयदृशोरन्यमपरम् ॥
श्रृङ्गारशतक. / 52
(1030)
भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ ।
अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥
वा. रामायण / अयोध्या . /28 / 5
(1031)
भार्या ममेयमिति निर्भरलालिता चेत्,
भर्तारमुद्धतधियैव तिरस्करोति ।
दीपो ममायमिति निर्भरचुम्बितश्चेत्,
क्षिप्रं दहत्यतितरां मुखरोमजालम् ॥
सूक्तिमुक्तावली / 45
(1032)
भार्यावियोगः सुजनापवादः,
ऋणस्य शेषं कृपणस्य सेवा ।
दारिद्रयकाले प्रियदर्शनं च,
विनाग्निना पञ्च दहन्ति कायम् ॥
नीतिशास्त्र /18
(1033)
भावशुद्धिर्मनुष्याणां विज्ञेया सर्वकर्मसु ।
अन्यथा चुम्ब्यते कान्ता भावेन दुहिताऽ
न्यथा ॥
(1034)
भावस्निग्धैरुपकृतमपि द्वेष्यतां याति लोके,
साक्षादन्यैरपकृतमपि प्रीतये चोपयाति ।
दुर्ग्राह्यत्वान्नृपतिमनसां नैकभावाश्रयाणाम्,
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥
पञ्च. / मित्रभेद / 229
(1035)
भास्वानाक्रमते क्रमेण भगवानस्तं पुनर्गच्छति ।
प्रातस्सायमिमं क्रमं प्रतिदिनं बध्नो निबध्नाति यत् ॥
चन्द्रोऽ
यं परितो भुवं भ्रमति यद् वृद्धिक्षयौ दर्शयन् ।
नक्षत्रालिरियं यदेति नियमानां को नियन्तैव सः ॥
प्रकृति- सौन्दर्यम् / 1 /6
(1036)
भिक्षाशनं तदपि नीरसमेकवारं,
शय्या च भूः परिजनो निजदेहमात्रम् ।
वस्त्रं च जीर्णशत-खण्डमयी च कन्था,
हा हा तथापि विषया न परित्यजन्ति ॥
वैराग्यशतक / 17
(1037)
भीतेभ्यश्चाभ्यं देय. व्याधितेभ्यस्तथौषधम् ।
देया विद्यार्थिने विद्या,
देयमन्नं क्षुधातुरे ॥
(
काशीखण्ड )
(1038)
भीमं वनं भवति तस्य पुरं प्रधानं,
सर्वो जनः सुजनतामुपयाति तस्य ।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा,
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥
नीतिशतक / 94
(1039)
भुक्ता मृणालपटलीर्भवता निपीतान्यम्बूनि
यत्र नलिनानि निषेवितानि ।
रे राजहसं. वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः ॥
(1040)
भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते ।
अन्नसंघातशैथिल्यं ग्रीवा-जानुकटीषु च ॥
भावप्रकाश / दिनचर्या / 196
(1041)
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठाः,
नरेष्वपि द्विजातयः ॥
महाभा. / उद्योग / 6 / 1
(1042)
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥
वा. रामायण / सुन्दर काण्ड / 2 / 39
(1043)
भूमिर्मित्रं हिरण्यं च विग्रहस्य फलत्रयम् ।
नास्त्येकमपि यद्येषां न तं कुर्यात्कथञ्चन ॥
पञ्च. / मित्रभेद य 170
(1044)
भोगा न भुक्ता वयमेव भुक्तास्तपो
न तप्तं वयमेव तप्ताः ।
कालो न यातो वयमेव यातास्तृष्णा
न जीर्णा वयमेव जीर्णाः ॥
वैराग्यशतक / 12
(1045)
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालादभयम्,
मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ।
शास्त्रे वादिभयं,
गुणे खलभयं,
कााये कृतान्तादभयम्,
सर्वं वस्तु भयान्वितं भुवि नृणां नैवराग्यमेवाभयम् ॥
वैराग्यशतक / 31
(1046)
भोजनान्ते पिबेत्तक्रम्,
वासरान्ते पिबेत्पयः ।
निशान्ते च पिबेद्वारि,
त्रिभी रोगो न जायते ॥
(1047)
मक्षिका व्रणमिच्छन्ति,
धनमिच्छन्ति पार्थिवाः ।
नीचाः कलहमिच्छन्ति,
शान्तिमिच्छन्ति साधवः ॥
(
चाणक्यनीति-शास्त्र )
(1048)
मज्जमानमकार्येषु पुरुषं विषयेषु वै ।
निवारयति यो राजन्. स मित्रं रिपुरन्यथा ॥
महाभारत /
(1049)
मत्तेभकुम्भदलने भुवि सन्ति शूराः,
केचित्प्रमत्तमृगराजवधेऽ
पि दक्षाः ।
किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य,
कन्दर्पदर्पदलने विरलाः मनुष्याः ॥
श्रृंगारशतक / 58
(1050)
मदोन्मत्तस्य भूपस्य,
कुञ्जरस्य च गच्छतः ।
उन्मार्गं वाच्यतां यान्ति,
महामात्राः समीपगाः ॥
पञ्चतन्त्र / मित्रभेद / 146
(1051)
मधुमन्मे निक्रमणं,
मधुमन्मे परायणम् ।
वाचा वदामि मधुमत्,
भूयासं मधुसन्दृशः ॥
अथर्व. / 1/ 34 / 3
(1052)
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ॥
ऋग्. / 1 / 90 / 6
(1053)
मनःप्रसादः श्रद्धा च तथा करणपाटवम् ।
सहायोत्थानसम्पच्च कर्मणां सिद्धिलक्षणम् ॥
कामन्दकीयनीतिसार / 15 / 82
(1054)
मनःशौचं,
कर्मशौचं,
कुलशौचं तथैव च ।
शरीरशौचं,
वाक्यशौचं,
शौचं पञ्चविधं स्मृतम् ॥
(
महाभारत )
(1055)
मनसा चिन्तितं कार्यं वचसा न प्रकाशयेत् ।
मन्त्रेण रक्षयेद् गूढं,
कार्ये चापि नियोजयेत् ॥
चाणक्यनीति / 2 / 7
(1056)
मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः
प्रीणयन्तः ।
परगुण-परमाणून् पर्वतीकृत्य नित्यम्,
निजहूदि विकसन्तः सन्ति सन्तः कियन्तः ॥
नीतिशतक / 74
(1057)
मनसि स्वजात्यानां योऽ
निष्टानि प्रचिन्तयेत् ।
भवन्ति तस्य तान्येव इह लोके परत्र च ॥
पञ्च. / मित्रभेद / 243
(1058)
मनस्वी म्रियते कामं,
कार्पण्यं न तु गच्छति ।
अपि निर्वाणमायाति नानलो याति शीतताम् ॥
हितोपदेश. / 1 / 45
(1059)
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ।
मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् ॥
नीतिशास्त्र / 2 / 26
(1060)
मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी ।
क्रियासमभिहारेण विराध्यन्तं क्षमेत कः ॥
शिशुपालवध / 2 / 43
(1061)
मनीषिणः सन्ति न ते हितैषिणो,
हितैषिणः सन्ति न ते मनीषिणः ।
सुहृच्च विद्वानपि दुर्लभो नृणाां,
यथौषधं स्वादु हितं च दुर्लभम् ॥
भोजप्रबन्ध / 58
(1062)
मनुष्यशालावृकमप्रशान्तम्,
जनापवादे सततं निविष्टम् ।
मात्तङ्गमुन्मत्तमिवोन्नदन्तं,
त्यजेत तं श्वानमिवातिरौद्रम् ॥
महाभारत / शान्तिपर्व / 114 / 17
(1063)
मन्त्रिणां भिन्नसन्धाने भिषजां सान्निपातिके ।
कर्मणि व्यज्यते प्रज्ञा,
स्वस्थे को वा न पण्डितः ॥
पञ्च. / मित्रभेद / 134
(1064)
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥
शिशुपालवध / 2 / 30
(1065)
मन्दोऽ
प्यमन्दामेति संसर्गेण विपशिचतः ।
पङ्कच्छिदः पयस्येव निकषेणाविलं पयः ॥
मालविकाग्निमित्र / 2 / 7
(1066)
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः ।
क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ॥
रघुवंश / 8 / 87
(1067)
महत्त्वमेतन्महतां नयालङ्कारधारिणाम् ।
न मुञ्चन्ति यदारब्धं कृच्छेऽ
पि व्यसनोदये ॥
पञ्चतन्त्र / कोकोलूकीय / 216
(1068)
माहजनस्य सम्पर्कः कस्य नोन्नतिकारकः ।
पट्नपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥
पञ्चतन्त्र / काकोलूकीय / 59
(1069)
महानदीप्रतारणं महापुरुषविग्रहम् ।
महाजनविरोधं च दूरतः परिवर्जयेत् ॥
चाणक्यनीति / 3 / 160
(1070)
महान्त एव महतामर्थं साधयितुं क्षमाः ।
ऋते समुद्रादन्यः को बिभर्त्ति वडवानलम् ॥
पञ्चतन्त्र / अपरीक्षित / 33
(1071)
मही रम्या शय्या विपुलमुपधानं भुजलता,
वितानञ्चाकाशो व्यजनमनुकूलोऽ
यमनिलः ।
स्फुरददीपश्चन्द्रो विरतिवनिता-सङ्गमुदितः,
सुखं शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥
वैराग्यशतक / 71
(1072)
मांसभक्ष्यैः सुरापानैर्मूर्खैश्चात्र नवार्जितैः ।
पशुभिः पुरुषाकारैर्भाराक्रान्तास्ति मेदिनी ॥
चाणक्यनीति / 8 / 22
(1073)
मा जीवन् यः परावज्ञादुःखदग्धोऽ
पि जीवति ।
तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥
शिशुपालवध / 2 / 45
(1074)
माता यस्य गृहे नास्ति भार्या च प्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥
(1075)
माता शत्रुः पिता वैरी,
येन बालो न पाठितः ।
न शोभते सभामध्ये,
हंसमध्ये वको यथा ॥
चाणक्यनीति / 2 / 11
(1076)
मातुलो यस्य गोविन्दः पिता यस्य धनञ्जयः ।
अभिमन्युर्वधं प्राप्तः कालस्य कुटिला गतिः ॥
नराभरण / 265
(1077)
मातृवत्परदाराणि परद्रव्याणि लोष्ठवत् ।
आत्मवत्सर्वभूतानि वीक्षन्ते धर्मबुद्धयः ॥
पञ्च. / मित्रभेद / 354
(1078)
मातेव रक्षति पितेव हिते नियुङक्ते,
कान्तेव चाभिरमयत्यपनीय खेदम् ।
कीर्तिं च दिक्षु विमलां वितनोति लक्ष्मीं,
किं किं न साधयति कल्पलतेव विद्या ॥
भोजप्रबन्ध / 5
(1079)
मात्रा स्वसा दुहित्रा वा,
न विविक्तासनो भवेत् ।
बलवान् इन्द्रियग्रामो विद्वांसमपि कर्षति ॥
मनुस्मृति / 2 / 215
(1080)
मान्धाता क्व गतस्त्रिलोकविजयी,
राजा क्व सत्यव्रतो,
देवानां नृपतः गतः क्व नहुषस्सच्छास्त्रवान् केशवः ।
मन्यन्ते सरथाः सकुञ्जरवराः शक्रासनाध्यासिनः,
कालेनैव महात्मना त्वनुकृताः कालेन निर्वासिताः ॥
पञ्चतन्त्र / काकोलुकीय 232
(1081)
मान्यः कुलीनः कुलजात्कलावान्,
विद्वान् कलाज्ञाद् विदुषः सुशीलः ।
धनी सुशीलाद्धनिनोऽ
पि दाता,
दातुर्जिता कीर्तिरयाचकेन ॥
चतुर्वर्गसङग्रह / 1 / 26
(1082)
मा प्र गाम पथो वयंं मा यज्ञादिन्द्र सोमिनः ।
मान्तः स्थुर्नो अरातयः ॥
ऋ. / 10 / 57 / 1
(1083)
मा भ्राता भ्रातरं द्रिक्षन्,
मा स्वसारमुत स्वसा ।
सम्यञ्चः सव्रता भूत्वा,
वाचं वदत भद्रया ॥
अथर्व. / 3 / 30 / 3
(1084)
मायया शत्रवो वध्या अवध्याः स्युर्बलेन ये ।
यथा स्त्रीरूपमास्थाय हतो भीमेन कीचकः ॥
पञ्चतन्त्र / काकोलूकीय / 29
(1085)
मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च ।
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ॥
महाभा. / शान्तिपर्व / 113 / 11
(1086)
मासानष्टौ यथा सूर्यस्तोयं हरति रश्मिभिः ।
सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादिना नृपः ॥
मार्कण्डेयपुराण / 24 / 25
(1087)
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य तु दातारं भर्तारं का न पूजयेत् ॥
वा. रामायण / अरण्यकाण्ड / 39 / 30
(1088)
मित्रं च शत्रुतामेति कस्मिंश्चित् कालपर्यये ।
शत्रुश्च मित्रतामेति,
स्वार्थो हि बलवत्तरः ॥
महाभा. / शान्ति / 138 / 142
(1089)
मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः ।
ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ॥
पञ्च. / मित्रभेद / 372
(1090)
मित्रवान् साधयत्यर्थान् दुःसाध्यानपि वै यतः ।
तस्मान्मित्राणि कुर्वीत समानान्येव चात्मनः ॥
पञ्च. / मित्रसम्प्राप्ति / 28
(1091)
मुक्तिमिच्छसि चेत्तात,
विषयान् विषवत्त्यज ।
क्षमार्जवदयाशौचं सत्यं पीयूषवत्पिब ॥
चाणक्यनीति / 9 / 1
(1092)
मुहुर्विघ्नितकर्माणं द्यूतकारं पराजितम् ।
नालापयेद्विवेकज्ञो यदीच्छेत् सिद्धिमात्मनः ॥
पञ्च. / मित्रभेद / 338
(1093)
मुहूर्त्तमपि जीवेच्च नरः शूक्लेन कर्मणा ।
न कल्पमपि दुष्टेन लोकद्वयविरोधिना ॥
चाणक्यनीति / 13 / 1
(1094)
मूर्खस्तु परिहर्त्तव्यः प्रत्यक्षो द्विपदः पशुः ।
भिनत्ति वाक्यशूलेन अदृश्यं कण्टकं यथा ॥
चाणक्यनीति / 3 / 7
(1095)
मूर्खाः यत्र न पूज्यन्ते,
धान्यं यत्र ससञ्चितम् ।
दम्पत्योः कलहो नास्ति,
तत्र श्रीः स्वयमागता ॥
चाणक्यनीति / 3 / 21
(1096)
मूर्थाणां पण्डिताः द्वेष्या निर्धनानां महाधनाः ।
व्रतिनः पापशीलानामसतीनां कुलस्त्रियः ॥
पञ्च. / मित्रभेद / 368
(1097)
मृगा मृगैः सङ्गमनुव्रजन्ति,
गावश्च गोभिस्तुरगास्तुरङ्गैः ।
मूर्खाश्च मूर्खैः,
सुधियः सुधीभिः,
समानशीलव्यसनेषु सख्यम् ॥
पञ्च. / मित्रभेद / 226
(1098)
मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ।
मृतः कीर्तिं न जानीते जीवन् कीर्तिं समश्नुते ॥
महाभारत वन प० / 301 / 6
(1099)
मृत्योः पदं योपयन्त एत,
द्राघीय आयुः प्रतरं दधानाः ।
आप्यायमानाः प्रजया धनेन,
शुद्धाः पूता भवत यज्ञियासः ॥
ऋग् वे० / 10 / 18 / 2
(1100)
मृत्योर्बिभेषि किं बाल. न स भीतं विमुञ्चति ।
अद्य वाऽ
ब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥
पञ्च. / मित्रभेद / 370
(1101)
मृदुं वै मन्यते पापो भाषमाणमशक्तिकम् ।
जितमर्थं विजानीयादबुधो मार्दवे सति ।
महाभा. / उद्योग / 4 / 6
(1102)
मृदुनाऽ
पि सुवृत्तेन सुमिष्टेनापि हारिणा ।
मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया ॥
पञ्च. / मित्रभेद / 215
(1103)
मृदुनाप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः ।
मा तिक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ॥
माहाभरत,
शान्तिपर्व / 103 / 34
(1104)
मृदुना सलिलेन खन्यमानान्यवघृष्यन्ति
गिरेरपि स्थलानि ।
उपजापविदां च कर्णजापैः,
किमु चेतांसि मृदूनि मानवानाम् ॥
पञ्च. / मित्रभेद / 247
(1105)
मेधां मे वरुणो ददातु मेधामग्निः प्रजापतिः ।
मेधामिन्द्रश्च वायुश्च मेधां धाता ददातु मे स्वाहा ॥
यजु. / 32 / 15
(1106)
मेधामहं प्रथमां ब्रह्नण्वतीं,
ब्रह्नजूतामृषिष्टुताम् ।
प्रपीतां ब्रह्नचारिभिर्देवानामवसे हुवे ॥
अथर्व. / 6 / 108 / 2
(1107)
मैत्री सदभिः समं कुर्यात्,
स्नेहं सत्सु तु सर्वथा ।
सत्सङ्गं साधुभिः कुर्यात्,
असत्सङ्गं परित्यजेत् ॥
भावप्र. / दिनचर्या / 249
(1108)
मोक्षसाधनमप्येष तपो दूषयति क्षणात् ।
चतुर्वर्गरिपुः क्रोधः क्रोधः स्वपरनाशकः ॥
हरिवंशपुरण / 61 / 63
(1109)
मोघमन्नं विन्दति चाप्यचेताः,
स्वर्गाल्लोकाद् भ्रश्यति नष्टचेष्टः ।
भीतं प्रपन्नं प्रददाति यो वै,
न तस्य हव्यं प्रगृहणन्ति देवाः ॥
महाभा. / उद्योग. / 12 / 20
(1110)
मोघमन्नं विन्दते अप्रचेताः,
सत्यं ब्रवीमि वध इत्स तस्य ।
नार्यमणं पुष्यति नो सखायम्,
केवलाघो भवति कवलादी ॥
ऋ. / 10 / 117 / 6
(1111)
मौनान्मूकः प्रवचनपटुर्वाचको जल्पको वा,
धृष्टः पार्श्व वसति च तदा दूरतश्चाप्रगल्भः ।
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः,
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥
नीतिशतक / 54
(1112)
यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् ।
न तस्य निष्कृतिः शक्या,
कर्तुं वर्षशतैरपि ॥
मनु. / 2 / 227
(1113)
यः कश्चिदप्यसम्बद्धो,
मित्रभावेन वर्त्तते ।
स एव बन्धुस्तन्मित्रं,
सा गतिस्तत्परायणम् ॥
महाभा. / उद्योगपर्व / 33 / 38
(1114)
यः पश्चात् पूर्वकार्याणि कर्तुमभिचिकीर्षति ।
पूर्वं चापरकार्यणि स न वेद नयानयौ ॥
वा. रामा. / युद्धकाण्ड / 32
(1115)
यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान् स्वहितान् गुरून् ।
न तस्य जायते विघ्नं कस्मिंश्चिदपि कर्मणि ॥
पञ्च. / लब्धप्रणाश / 48
(1116)
यः प्रीणयेत् सुचरितैः पितरं स पुत्रो,
यदभर्तुरेव हितमिच्छति तत्कलत्रम् ।
तन्मिमापदि सुखे च समक्रियं
यदेतत्रयं जगति पुण्यकृतो लभन्ते ॥
नीतिशतक / 64
(1117)
यः समुत्पतितं क्रोधं,
निगृहणाति हयं यथा ।
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥
महाभा. / आदिपर्व / 79 / 2
(1118)
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति ।
देवयानि विजानीहि,
तेन सर्वमिदं जितम् ॥
महाभा. / आदिपर्व / 79 / 3
(1119)
यः स्वपक्षं परित्यज्य परपक्षं निषेवते ।
स स्वपक्षे क्षये जाते पश्चात् तैरेव हन्यते ॥
वा. रामा. / युद्धकाण्ड / 16
(1120)
य आतृणत्त्यवितथेन कर्णावदुःखं,
कुर्वन्नमृतं सम्प्रच्छन् ।
तं मन्येत पितरं मातरं च,
तस्मै न द्रुह्येत् कतमच्चनाह ॥
निरुक्त / 2 / 4
(1121)
यच्च कामसुखं लोके,
यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते,
नार्हतः षोडशीं कलाम् ॥
महाभा. / शान्तिपर्व / 267 / 6
(1122)
यज्जाग्रतो दूरमुदैति दैवं,
तदु सुप्तस्य तथैवेति दूरङ्गमम् ।
ज्योतिषां ज्योतिरेकं,
तन्मे मनः शिवसङ्कल्पमस्तु ॥
यजु. / 34 / 1
(1123)
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥
भग. गीता / 18 / 5
(1124)
यज्ञशिष्टामृतभुजो यान्ति ब्रह्न सनातनम् ।
नायं लोकोऽ
स्त्ययज्ञस्य कुतोऽ
न्यः कुरुसत्तम ॥
भग. गीता / 4 / 3
(1125)
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्पषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥
भग. गीता / 3 / 13
(1126)
यज्ञार्थात् कर्मणोऽ
न्यत्र लोकोऽ
यं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥
भग. गीता / 3 / 9
(1127)
यतो यतः समीहसे ततो नो अभयं कुरु ।
शन्नः कुरु प्रजाभ्योऽ
भयं नः पशुभ्यः ॥
यजु. / 36 / 22
(1128)
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥
भग. गीता / 6 / 26
(1129)
यत्र देशेऽ
थवा स्थाने भोगान्भुक्त्वा स्ववीर्यतः ।
तस्मिन् विभवहीनो यो वसेत्स पुरुषाधमः ॥
पञ्च. / मित्रभेद / 362
(1130)
यत्र न स्यात्फलं भूरि,
यत्र च स्यात्पराभवः ।
न तत्र मतिमान् युद्धं,
समुत्पाद्य समाचेत् ॥
पञ्च. / मित्रभेद / 171
(1131)
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास्तु न पूज्यन्ते,
सर्वास्तत्राफलाः क्रियाः ॥
मनु. / 3 / 56
(1132)
यत्रापि कुत्रापि गता भवन्ति,
हंसा महीमण्डनमण्डनानि ।
हानिस्तु तेषां हि सरोवराणाम्,
येषां मरालैः सह विप्रयोगः ॥
(1133)
यत्रासते मतिमन्तो मनस्विनः,
शक्रो विष्णुर्यत्र सरस्वती च ।
वसन्ति भूतानि च यत्र नित्यम्,
तस्माद् विद्वान् नावमन्येत देहम् ॥
महाभा. / शान्ति . / 120 / 46
(1134)
यत्रोत्साहसमारम्भो यत्रालस्यविहीनता ।
नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम् ॥
पञ्च. / मित्रसम्प्राप्ति / 136
(1135)
यथा खनित्वा खनित्रेण भूतले वारि विन्दति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥
चाणक्यनीति / 13 / 17
(1136)
यथाऽऽ
गारं दृढस्थूणं जीर्णं भूत्वोपसीदति ।
तथाऽ
वसीदन्ति नरा जरामृत्युवशं गताः ॥
वा. रामा. / अयोध्या. / 105 / 18
(1137)
यथा गौर्दुह्यते काले पाल्यते च तथा प्रजा ।
सिच्यते चीयते चैव लता पुष्पफलप्रदा ॥
पञ्च. / मित्रभेद / 166
(1138)
यथा चतुर्भिः कनकं परीक्ष्यते,
निघर्षणच्छेदन - तापताडनैः ।
तथा चतुर्भिः पुरुषः परीक्ष्यते,
त्यागेन शीलेन गुणेन कर्मणा ॥
चाणक्यनीति / 5 / 2
(1139)
यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् ।
एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥
पञ्च. / मित्रसम्प्राप्ति / 125
(1140)
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥
महाभा. / शान्ति / 181 / 16
(1141)
यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः ।
दूषयत्यात्मनो देहं तथाऽ
नार्येषु सौहृदम् ॥
वा. रामा. / युद्धकाण्ड / 16 / 15
(1142)
यथा फलानां पक्वानां नान्यत्र पतनादभयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद् भयम् ॥
वा. रामा. / अयोध्या. / 105 / 17
(1143)
यथा बीजाडकुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः ।
फलप्रदो भवेत्काले,
तद्वल्लोकः सुरक्षितः ॥
पञ्च. / मित्रभेद / 167
(1144)
यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि ।
रसमत्र न विन्देत तथाऽ
नार्येषु सौहृदम् ॥
वा. रामा. / युद्धकाण्ड / 16 / 14
(1145)
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि ।
आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥
पञ्च. / मित्रभेद / 353
(1146)
यथा यथा हि पुरुषः,
शास्त्रं समधिगच्छति ।
तथा तथा विजानाति,
विज्ञानं चास्य रोचते ॥
मनु. / 4 / 2
(1147)
यथार्थकथनं यच्च सर्वलोकसुखप्रदम् ।
तत्सत्यमिति विज्ञेयमसत्यं तद्विपर्ययः ॥
(1148)
यथा वायुं समाश्रित्य,
वर्त्तन्ते सर्वजन्तवः ।
तथा गृहस्थमाश्रित्य,
वर्त्तन्ते सर्व आश्रमाः ॥
मनु. / 3 / 77
(1149)
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।
न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥
महाभा. / उद्योग / 33 / 21
(1150)
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथाऽऽ
त्मा नोपलिप्यते ॥
भग. गीता. / 13 / 32
(1151)
यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते ।
एवं चलितवित्तस्तु वित्तशेषं न रक्षति ॥
पञ्च. / लब्धप्रणाश / 27
(1152)
यथा ह्यनुदका नद्यो यथा वाऽ
प्यतृणं वनम् ।
अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥
वा. रामा. / अयोध्या. / 67 / 29
(1153)
यथैकेन न हस्तेन तालिका सम्प्रपद्यते ।
तथोद्यम-परित्यक्तं,
न फलं कर्मणः स्मृतम् ॥
पञ्च. / मित्रसम्प्राप्ति / 126
(1154)
यदक्षरं वेदविदो वदन्ति,
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्नचर्यं चरन्ति,
तत्ते पदं संग्रहेण प्रवक्ष्ये ॥
भग. गीता / 8 / 11
(1155)
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् ।
अपत्रपेत वा येन,
न तत् कुर्यात् कथञ्चन ॥
महाभा. / शान्ति. / 124 / 67
(1156)
यदपसरति मेषः कारणं तत्प्रहर्त्तुम्,
मृगपतिरपि कोपात् संकुचत्युत्पतिष्णुः ।
हृदयनिहितवैरा गूढमन्त्रोपचाराः,
किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥
पञ्चतन्त्र. / काकोलूकीय / 41
(1157)
यदसत्यं वदेन्मर्त्यो,
यद्वाऽ
सेव्यं च सेवते ।
यदगच्छति विदेशं च,
तत्सर्वमुदरार्थतः ॥
पञ्च. / मित्रभेद / 200
(1158)
यदा किञ्चिज्ज्ञोऽ
हं द्विप इव मदान्धः समभवम्,
तदा सर्वज्ञोऽ
स्मीत्यभवदवलिप्तं मम मनः ।
यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतम्,
तदा मूर्खोऽ
स्मीति ज्वर इव मदो मे व्यपगतः ॥
नीतिशतक / 7
(1159)
यदाचरति कल्याणि. शुभं वा यदि वाऽ
शुभम् ।
तदेव लभते भद्रे. कर्त्ता कर्मजमात्मनः ॥
वा. रामा. / अयोध्या. / का.
(1160)
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥
श्वेताश्वतरोपनिषद् / 6 / 20
(1161)
यदा संहरते चायं कूर्मोंऽ
ङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥
महाभा. / भीष्मपर्व / 26 / 58
(1162)
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसंकल्प-संन्यासी योगारूढस्तदोच्यते ॥
भग. गीता / 6 / 4
(1163)
यदि स्याच्छीतलो वह्रिः शीतांशुर्दहनात्मकः ।
न स्वभावोऽ
त्र मर्त्यानां शक्यते कर्तुमन्यथा ॥
पञ्च. / मित्रभेद / 202
(1164)
यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा ।
परापवादसस्येभ्यो गां चरन्तीं निवारय ॥
चाणक्यनीति / 14 / 13
(1165)
यद्धात्रा निजभालपट्टलिखितं स्तोकं महद् वा धनम्,
तत्प्राप्नोति मरुस्थलेऽ
पि नितरां मेरौ ततो नाधिकम् ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः,
कूपे पश्य पयोनिधावपि घटो गृहणाति तुल्यं जलम् ॥
नीतिशतक / 45
(1166)
यदृच्छयाप्युपनतं सकृत्सज्जनसंगतम् ।
भवत्यजरमत्यन्तं नाभ्यासक्रममीक्षते ॥
पञ्च. / मित्रभेद / 137
(1167)
यद् दुरापं भवेत्किंचित् तत् सर्वं तपसो भवेत् ।
ऐश्वर्यमृषयः प्राप्तस्तपसैव न संशयः ॥
महाभा. / शान्ति. / 161 / 5
(1168)
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥
भग. गीता / 3 / 21
(1169)
यद्यप्यशीला नृपते,
प्राप्नवन्ति श्रियं क्वचित् ।
न भुञ्जते चिरं तात. समूलाश्च न सन्ति ते ॥
महाभा. / शान्ति. / 124 / 69
(1170)
यद्वा तद्वा विषमपतितः साधु वा गर्हितं वा,
कालापेक्षी हृदनिहितं बुद्धिमान् कर्म कुर्यात् ।
किं गाण्डीव-स्फुरदुरुघनास्फालनक्रूरपाणि-
र्नासील्लीलानटन-विलसन-मेखलीसव्यसाची ॥
पञ्चतन्त्र / काकोलूकीय / 202
(1171)
यमर्थसिद्धिः परमा न मोहयेत्,
तथैव काले व्यसनं न मोहयेत् ।
सुखं च दुःखं च तथैव मध्यमं,
निषेवते यः स धुरन्धरो नरः ॥
महाभा. / शान्तिप. / 226 / 16
(1172)
यमेव विद्याः शुचिमप्रमत्तं,
मेधाविनं ब्रह्नचर्योपपन्नम् ।
यस्ते न द्रुह्येत् कतमच्चनाह,
तस्मै मा ब्रूयाः निधिपाय ब्रह्नन् ॥
निरुक्त. / 2 / 4
(1173)
ययोरेव समं वित्तं,
ययोरेव समं कुलम् ।
तयोर्मैत्री विवाहश्च,
न तु पुष्टविपुष्टयोः ॥
पञ्च. / मित्रभेद / 225
(1174)
यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायता ।
यशा विश्वस्य भूतस्याहमस्मि यशस्तमः ॥
अथर्व. / 6 / 39 / 3
(1175)
यशोऽ
धिगन्तुं सुखलिप्सया वा,
मनुष्यसंख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजाम्,
समुत्सुकेवाङ्कमुपैति सिद्धिः ॥
सा. द. / परि. / 1
(1176)
यशो यशस्विनां शुद्धं,
श्लाघ्या ये गुणिनां गुणाः ।
लोभः स्वल्पोऽ
पि तान् हन्ति,
श्वित्रो रूपमिवेप्सितम् ॥
श्रीमदभागवत / 11 / 23 / 16
(1177)
यस्तु राजा स्थितोऽ
धर्मे मित्राणामुपकारिणाम् ।
मिथ्या प्रतिज्ञां कुरुते,
को नृशंसतरस्ततः ॥
वा. रामा. / किष्किन्धा / 34 / 8
(1178)
यस्त्यक्त्वा सापदं मित्रं याति निष्ठुरतां सुहृद् ।
कृतघ्नस्तेन पापेन नरके यात्यसंशयम् ॥
पञ्च. / अपरीक्षितकारक / 79
(1179)
यस्मात् त्रयोऽ
प्याश्रमिणो,
ज्ञानेनान्नेन चान्वहम् ।
गृहस्थेनैव धार्यन्ते,
तस्माज्ज्येष्ठाश्रमो गृही ॥
मनु. / 3 / 78
(1180)
यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान् नराधिपाः ।
चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः ॥
वा. रामा. / अरण्य. / 33 / 10
(1181)
यस्मिञ्जीवति जीवन्ति बहवः सोऽ
त्र जीवतु ।
वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदर-पूरणम् ॥
पञ्च. / मित्रभेद / 22
(1182)
यस्मिन् देशे च काले च वयसा सादृशेन च ।
कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते ॥
पञ्च. / मित्रसम्प्राप्ति / 82
(1183)
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
कृतमेवास्य जानन्ति,
स वै पण्डित उच्यते ॥
महाभा. / उद्योग / 33 / 18
(1184)
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥
महाभा. / उद्योग / 33 / 19
(1185)
यस्य देशस्य यो जन्तुस्तज्जं तस्यौषधं हितम् ।
देशादन्यत्र वसतस्तत्तुल्यगुणमौषधम् ॥
भावप्रकाश / दिनचर्या / 10
(1186)
यस्य धर्म-विहीनानि दिनान्यायान्ति यान्ति च ।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥
पञ्चतन्त्र. / काकोलूकीय / 93
(1187)
यस्य न ज्ञायते वीर्यं,
न कुलं न विचेष्टितम् ।
न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ॥
पञ्च. / मित्रसम्प्राप्ति / 62
(1188)
यस्य नास्ति स्वयं प्रज्ञा,
शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य,
दर्पणः किं करिष्यति ॥
चाणक्यनीति / 10 / 8
(1189)
यस्य प्रसादे पट्नास्ते,
विजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे,
सर्वतेजमयो हि सः ॥
(1190)
यस्य मित्रेण सम्बाषा,
सम्भाषा,
यस्य मित्रेण संस्थितिः ।
यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥
हितोपदेश / मित्रलाभ / 39
(1191)
यस्य यस्य हि यो भावस्तेन तेन समाचरेत् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥
पञ्च. / मित्रभेद / 70
(1192)
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते ।
कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥
महाभा. / उद्योग / 33 / 20
(1193)
यस्यार्स्थास्तस्य मित्राणि,
यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमांल्लोके,
यस्यार्थाः स च पण्डितः ॥
पञ्च. / मित्रभेद / 3
(1194)
यां मेधां देवगणाः पितरश्चोपासते ।
तया मामद्य मेधयाऽ
ग्ने मेधाविनं कुरु स्वाहा ॥
यजु. / 32 / 14
(1195)
या चेयं जगतो माता सर्वलोकनमस्कृता ।
अस्याश्च चलनं भूमेर्दृश्यते कोसलेश्वर ॥
वा. रामा. / अरण्य. / 66 / 10
(1196)
याते मय्यचिरान्निदाघमिहिरज्वालाशतैःशीर्णताम्,
गन्ता कं प्रति पान्थसन्ततिरसौ सन्तापमालाकुला ।
इत्थं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते,
धन्यं जीवनमस्य मार्गसरसो,
धिग्वारिधीनां जनुः ॥
(1197)
या निशा सर्वभूतानां,
तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि,
सा निशा पश्यतो मुनेः ॥
श्रीमदभगवदगीता / 2 / 69
(1198)
यावत्वित्तोपार्जनसक्तस्तावन्निजपरिवारो रक्तः ।
पश्चाद्धावति जर्जरदेहे,
वार्त्तां पृच्छति कोऽ
पि न गेहे ॥
भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते ॥
चर्पटपञ्चरिका / 3
(1199)
यावत्स्वस्थमिदं शरीरमखिलं यावज्जरा दूरतो,
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्,
उद्दीप्ते भवने तु कूपखनन-प्रत्युद्यमः कीदृशः ॥
वैराग्यशतक / 82
(1200)
यावत्स्वस्थो ह्ययं देहो,
यावन्मृत्युश्च दूरतः ।
तावदात्महितं कुर्यात्,
प्राणान्ते किं करिष्यति ॥
चाणक्यनीति / 4 / 4
(1201)
या वेदबाह्याः स्मृतयो,
याश्च काश्च कुदृष्टयः ।
सर्वास्ताः निष्फलाः प्रेत्य,
तमोनिष्ठा हि ताः स्मृताः ॥
मनु. / 12 / 94
(1202)
युक्तं सभायां खलु मर्कटाानाम्,
शाखासु स्थिरणं मृदुलासनानि ।
सुभाषितं चीत्कृतिरातिथेेयी,
दन्तैर्नखाग्रैश्च विपाटितानि ॥
(1203)
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुृःखहा ॥
भग. गीता / 6 / 17
(1204)
यूयं वयं वयं यूयमितयासीन्मतिरावयोः ।
किं जातमधुना मित्र. यूयं यूयं वयं वयम् ॥
वैराग्यशतक / 59
(1205)
ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् ।
ये संग्रामाः समितयस्तेषु यारु वदेम ते ॥
अथर्व. / 12 / 1 /56
(1206)
येन केनाप्युपायेन शुभेनाप्यशुभेन वा ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥
पञ्च. / मित्रभेद / 310
(1207)
ये न रक्षन्ति विषयमस्वाधीनं नराधिपाः ।
ते न वृद्धया प्रकाशन्ते गिरयः सागरे यथा ॥
वा. रामा. / अरण्य. / 33 / 6
(1208)
येन येन यथा यद्यत् पुरा कर्म समीहितम् ।
तत्तदेकतरो भुङक्ते नित्यं विहितमात्मना ॥
महाभा. / शान्ति. / 181 / 10
(1209)
येषां चाराश्च कोशश्च नयश्च जयतां वर ।
अस्वाधीना नरेन्द्राणां प्राकृतैस्तैः जनैः समाः ॥
वा. रामा. / अरण्य. / 33 / 9
(1210)
येषां न विद्या न तपो न दानम्,
ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुवि भारभूता,
मनुष्यरूपेण मृगाश्चरन्ति ॥
नीतिशतक / 12
(1211)
यो जागार तमृचः कामयन्ते,
यो जागार तमु सामानि यन्ति ।
यो जागार तमयं सोम आह,
तवाहमस्मि सख्ये न्योकाः ॥
ऋग् / 5 / 44 / 14
(1212)
योऽ
त्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् ।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्वियुज्यते ॥
हितोपदेश / मित्रलाभ / 66
(1213)
यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् ।
तस्य तेजोमया लोका भवन्ति ब्रह्नवादिनः ॥
मनु. / 6 / 39
(1214)
यो ध्रुवाणि परित्यज्य,
अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति,
अध्रुवं नष्टमेव च ॥
पञ्च. / मित्रसम्प्राप्ति / 134
(1215)
यो न वेत्ति गुणान् यस्य,
न तं सेवेत पण्डितः ।
न हि तस्मात्फलं किञ्चित्,
सुकृष्टादूषरादिव ॥
पञ्च. / मित्रभेद / 45
(1216)
यो नियुक्तः परं कार्यं न कुर्यान्नृपतेः प्रियम् ।
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमं नरम् ॥
वा. रामा. / युद्धकाण्ड / 1 / 8
(1217)
यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति ।
स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्राह्नणे नमः ॥
अथर्व / 10 / 8 / 1
(1218)
योऽ
मित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः ।
स करोति न सन्देहः स्वयं हि विषभक्षणम् ॥
पञ्च. / लब्धप्रणाश / 22
(1219)
यो विषादं प्रसहते विक्रमे समुपस्थिते ।
तेजसा तस्य हीनस्य पुरुषार्थो न सिद्धयति ॥
वा. रामा. / किष्किन्धा / 64 / 10
(1220)
योऽ
हिंसकानि भूतानि,
हिनस्त्यात्मसुखेच्छया ।
सजीवंश्च मृतश्चैव,
न क्वचित् सुखमेधते ॥
मनु. / 5 / 45
(1221)
यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ।
कुर्यात् तदनुरागेण तमाहुः पुरुषोत्तमम् ॥
वा. रामा. / युद्दकाण्ड / 1 / 7
(1222)
यो हि मित्रेषु कालज्ञः सततं साधु वर्त्तते ।
तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धते ॥
वा. रामा. / किष्किन्धा / 10
(1223)
यौ धर्मौ जगतो नेत्रौ यत्र सर्वं प्रतिष्ठितम् ।
आदित्यचन्द्रौ ग्रहमभ्युपेतो महाबलौ ॥
वा. रामा. / अरण्य. / 66 / 11
(1224)
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥
(1225)
रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् ।
असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम।
(1226)
रङ्कं करोति राजानं,
राजानं रङ्कमेव च ।
धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥
चाणक्यनीति / 10 / 5
(1227)
रत्नैर्महाब्धेस्तुतषुर्न देवाः,
न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं,
न निश्चितार्थाद्विरमन्ति धीराः ॥
नीतिशतक / 79
(1228)
रथस्यैकं चक्रं भुजगयमिता सप्त तुरगाः,
निरालम्बो मार्गश्चरणविकलः सारथिरपि ।
रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः,
क्रिया-सिद्धिः सत्त्वे भवति महतां नोपकरणे ॥
भोजप्रबन्ध / 169
(1229)
रमणीयोऽ
पि देशः सुभिक्षः क्षेम एव च ।
कुदेश इति विज्ञेयो यत्र क्लेशैर्विदह्यते ॥
सौन्दरनन्द / 15 / 48
(1230)
रविनिशाकरयोर्ग्रहपीजनम्,
गजभुजङ्गविहङ्गमबन्धनम् ।
मतिमतां च विलोक्य दरिद्रताम्,
विधिरहो बलवानिति मे मतिः ॥
पञ्च. / मित्रसम्प्राप्ति / 22
(1231)
रसायनं तु तज्ज्ञेयं यज्जराव्याधिनाशनम् ।
यथा हरीतकी दन्ती गुग्गुलुश्च शिलाजतु ॥
भावप्रकाश / मिश्रप्रकरण / 229
(1232)
रसायनमयी शीता परमानन्ददायिनी ।
नान्दयति कं नाम साधुसंगतिचन्द्रिका ॥
(1233)
रसायनानां विधिवच्चोपयोगः प्रशस्यते ।
शस्यते देहवृत्तिश्च,
भेषजैः पूर्वमुदधृतैः ॥
चरक / विमानस्थान / 3 / 18
(1234)
रहस्यभेदो याच्ञा च,
नैष्ठुर्यं चलचित्तता ।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥
हितोपदेश / मित्रलाभ / 98
(1235)
राजन् दुधुक्षसि यदि क्षितिधेनुुमेताम्,
तेनाद्य वत्समिवलोकममुं पुषाण ।
तस्मिंश्च सम्यगनिशं परिपुष्यमाणे,
नानाफलं फलति कल्पलतेव भूमिः ॥
नीतिशतक / 42
(1236)
राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च ।
पत्नी-माता स्वमाता च पञ्चैताः मातरः स्मृताः ॥
चाणक्यनीति / 5 / 23
(1237)
राजा घृणी ब्राह्नणः सर्वभक्षः,
स्त्री चावशा दुष्प्रकृतिः सहायः ।
प्रेष्यः प्रतीपोऽ
धिकृतः प्रमादी,
त्याज्या इमे यश्च कृतं न वेत्ति ॥
हितोपदेश / सुहृदभेद / 182
(1238)
राजा तुष्टो हि भृत्यानां मानमात्रं प्रयच्छति ।
ते तु सम्मानितस्तस्य प्राणैरप्युपकुर्वते ॥
भोजप्रबन्ध / 17
(1239)
राजा राष्ट्रं यथाऽऽ
पत्सु द्रव्यौधैरपि रक्षति ।
राष्ट्रेण राजा व्यसने रक्षितव्यस्तथा भवेत् ॥
महाभा. / शान्ति. / 130 / 31
(1240)
राज्ञि धर्मिणी धर्मिष्ठाः,
पापे पापाः समे समाः ।
राजानमनुवर्त्तन्ते,
यथा राजा तथा प्रजा ॥
चाणक्यनीति / 13 / 8
(1241)
राज्यं तिष्ठति दक्षस्य,
संगृहीतेन्द्रियस्य च ।
आर्तस्य बुद्धिमूलं हि विजयं मनुरब्रवीत् ॥
महाभा. / शान्तिपर्व / 112 / 19
(1242)
राज्यं सुसम्पदो भोगाः कुले जन्म सुरूपता ।
पाण्डित्यमायुरारोग्यं धर्मस्यैतत् फलं विदुः ॥
(1243)
रात्रिं रात्रिमप्रयातं भरन्तोऽ
श्वायेव
तिष्ठते घासमस्मै ।
रायस्पोषेण समिषा मदन्तो,
मा ते अग्ने प्रतिवेशा रिषाम ॥
अथर्व. / 19 / 55 / 1
(1244)
रात्रिर्गमिष्यति भविष्यति सुप्रभातम्,
भास्वानुदेष्यति सहिष्यति पंकजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे,
हा . हन्त . हन्त. नलिनीं गज उज्जहार ॥
शिवराजविजय / 2
सर्ग
(1245)
रामस्य व्रजनं बलेर्नियमनं पाण्डोः सुतानां वनम्,
वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् ।
नाटयाचार्यकमर्जुनस्य पतनं सञ्चिन्त्य लङ्केश्वरम्,
सर्वं कालवशाज्जनोऽ
त्र सहते कः कं परित्रायते ॥
पञ्चतन्त्र. / लब्धप्रणाश / 230
(1246)
रूपयौवनसम्पन्ना विशालकुलसम्भवः ।
विद्याहीना न शोभन्ते,
निर्गन्धा इव किंशुकाः ॥
हितोपदेश / प्रस्तावना / 39
(1247)
रे रे . चातक . सावधान-मनसा मित्र क्षणं श्रूयतामम्भोदा
बहवो हि सन्ति गगने सर्वेतु नैतादृशाः ।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥
नीतिशतक / 47
(1248)
रोहति सायकैर्विद्धं छिन्नं रोहति साचिना ।
वचोदुरुक्तं बीभत्सं न प्ररोहति वाक्क्षतम् ॥
पञ्च. / काकोलूकीय / 107
(1249)
लक्ष्मीवन्तो न जानन्ति प्रायेण परेवदनाम् ।
शेषे धराभराक्लान्ते,
शेते नारायणः सुखम् ॥
(1250)
लङकापतेः सङकुचितं यशो यद्,
यत्कीर्तपात्रं रघुराजपुत्रः ।
स सर्वं एवादिकवेः प्रभावो,
न कोपनीयाः कवयः क्षितीन्द्रैः ॥
विक्रमाङकदेवचरित / 1 /27
(1251)
लज्जागुणौघजननीं जननीमिव
स्वामत्यन्तशुद्धहृदयामनुवर्तमानाम् ।
तेजस्विनः सुखमसूनपि संत्यजन्ति,
सत्यव्रत-व्यसनिनो न पुनः प्रतिज्ञाम् ॥
नीतिशतक / 100
(1252)
लभेत सिकतासु तैलमपि यत्नतः पीडयन्,
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
कदाचिदपि पर्यटन् शशविषाणमासादयेत्,
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥
नीतिशतक / 4
(1253)
लाङगूलाचालनमधश्चरणावपातं,
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते,
गजपुङगवस्तु,
धीरं विलोकयति चाटुशतैश्च भुङक्ते ॥
नीतिशतक / 23
(1254)
लुब्धमर्थेन गृहणीयात्,
स्तब्धमञ्जलिकर्मणा ।
मूर्खं छन्दानुरोधेन,
यथार्थवादेन पण्डितम् ॥
चाणक्यनीति / 6 / 12
(1255)
लुब्धस्य नश्यति यशः पिशुनस्य मैत्री,
नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याबलं व्यसनिनः कृपणस्य सौख्यं,
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥
(1256)
लुब्धानां याचकः शत्रुः,
मूर्खाणां बोधको रिपुः ।
जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमाः रिपुः ॥
चाणक्यनीति / 9 / 6
(1257)
लोकानुग्रहकर्तारः प्रवर्धन्ते नरेश्वराः ।
लोकानां संक्षयाच्चैव क्षयं यान्ति न संशयः ॥
पञ्च. / मित्रभेद / 169
(1258)
लोकान्तरं सुखं पुण्यं तपोदानसमुदभवम् ।
सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥
रघुवंश / 1 /69
(1259)
लोके सुखं परजनाय हितोपदेशः ।
तद्वत्समाचरणमेव परन्तु दुःखम् ॥
सूक्तिमुक्तावली / 47
(1260)
लोभः प्रतिष्ठा पापस्य,
प्रसूतिर्लोभ एव च ।
द्वेषक्रोधादिजनको लोभः पापस्य कारणम् ॥
भोजप्रबन्ध. / 1
(1261)
लोभश्चेदगुणेन किं,
पिशुनता यद्यस्ति किं पातकैः,
सत्यं चेत्तपसा च किं,
शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं गुणैः,
समुहिमा यद्यस्ति किं मण्डनैः,
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्यना ॥
नीतिशतक / 51
(1262)
लोभात्क्रोधः प्रभवति,
क्रोधाद् द्रोहः प्रवर्तते ।
द्रोहेण नरकं याति,
शास्त्रज्ञोऽ
पि विचक्षणः ॥
भोजप्रबन्ध / 2
(1263)
लोभेन बुद्धिश्चलति,
लोभो जनयते तृषाम् ।
तृषार्तो दुृःखमाप्नोति,
परत्रेह च मानवः ॥
हितोपदेश / मित्रलाभ / 140
(1264)
लौकिकं वैदिकं वाऽ
पि तथाऽऽ
ध्यात्मिकमेव च ।
आददीत यतो ज्ञानं,
तं पूर्वमभिवादयेत् ॥
मनु. / 2 / 117
(1265)
लौकिकानां हि साधूनामर्थं वागनुवर्तते ।
ऋषीणां पुनराद्यानां वाचमर्थोऽ
नुधावति ॥
उत्तररामचरित
(1266)
वक्रोऽ
पि पङ्कजनितोऽ
पि दुरासदोऽ
पि,
व्यालाश्रितोऽ
पि विफलोऽ
पि सकण्टकोऽ
पि ।
गन्धेन बन्धुरसि केतक पुष्पजेन,
ह्येको गुणः खलु निहन्ति समस्तदोषान् ॥
(
वृद्धचाणक्य )
(1267)
वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् ।
स्थायी भवति चात्यन्तं रागः शुक्लपटे यथा ॥
पञ्च. / मित्रभेद / 32
(1268)
वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च ।
एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा ॥
पञ्च. / लब्धप्रणाश / 7
(1269)
वनानि दहतो वह्रेः,
सखा भवति मारुतः ।
स एव दीपनाशाय,
कृशे कस्यास्ति सौहृदम् ॥
पञ्च. / काकोलूकीय / 57
(1270)
वनेऽ
पि दोषाः प्रभवन्ति रागिणाम्,
गृहेऽ
पि पञ्चेन्द्रियनिग्रहस्तपः ।
अकुत्सिते कर्मणि यः प्रवर्त्तते,
निवृत्तरागस्य गृहं तपोवनम् ॥
हितोपदेश / सन्धि. / 84
(1271)
वनेऽ
पि सिंहा मृगमांसभक्ष्यााः,
बुभुक्षिता नैव तृणं चरन्ति ।
एवं कुलीना व्यसनाभिभूताः,
न नीतिमार्गं परिलङघयन्ति ॥
पञ्चतन्त्र / लब्धप्रणाश / 55
(1272)
वने रणे शत्रुजलाग्निमध्ये,
महार्णवे पर्वतमस्तके वा ।
सुप्तं प्रमत्तं विषमस्थितं वा,
रक्षन्ति पुण्यानि पुराकृतानि ।
नीतिशतक / 89
(1273)
वयं येभ्यो जाताश्चिरपरिगता एव खलु ते,
समं यैः संवृद्धाः स्मृतिविषयतां तेऽ
पि गमिताः ।
इदानीमेते स्मः प्रतिदिवसमापन्नपतनाः,
गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥
वैराग्यशतक /34
(1274)
वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः,
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवति दरिद्रो यस्य तृष्णा विशाला,
मनसि तु परितुष्टे कोऽ
र्थवान् को दरिद्रः ॥
वैराग्यशतक / 45
(1275)
वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम् ।
व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ॥
सुश्रुत / चिकित्सा / 44
(1276)
वरं न राज्यं,
न कुराजराज्यम्,
वरं न मित्रं,
न कुमित्रमित्रम् ।
वरं न शिष्यो,
न कुशिष्यशिष्यो,
वरं न दाराः न कुदारदाराः ॥
चाणक्यनीति / 6 /13
(1277)
वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।
न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥
नीतिशतक / 13
(1278)
वरं मौनं कार्यं,
न च वचनमुक्तं यदनृतम्,
वरं क्लैब्यं पुंसां,
न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो,
न च पिशुनवाक्येष्वभिरुचिः,
वरं भिक्षाशित्वं,
न च परधनास्वादनसुखम् ॥
हितोपदेश / मित्रलाभ / 135
(1279)
वरं वनं व्याघ्रगजेन्द्रसेवितं,
द्रुमालयं पक्वफलाम्बुभोजनम् ।
तृणानि शय्या परिधानवल्कलं,
न बन्धुमध्ये धनहीनजीवनम् ।
हितोपदेश / मित्रलाभ / 151
(1280)
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽ
पि च ॥
चाणक्यनीतिः / 4 / 6
(1281)
वरयेत् कुलजां प्राज्ञो नीरूपामपि कन्यकाम् ।
रूपशीलां न नीचस्य विवाहः सदृशे कुले ॥
चाणक्यनीति / 1 / 14
(1282)
वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः ।
गात्राणि शिथिलायन्ते,
तृष्णैका तरुणायते ॥
वैराग्यशतक / 14
(1283)
वर्जयेन्मधु माांसं च,
गन्धं माल्यं रसान् स्त्रियः ।
कामं क्रोधं च लोधं च,
नर्त्तनं गीववादनम् ॥
मनु. / 2 / 177
(1284)
वहेदमित्रं स्कन्धेन,
यावत्कालस्य पर्ययः ।
प्राप्तकालं तु विज्ञाय भिन्द्याद् घटमिवाश्मनि ॥
महाभा. / शान्ति. / 140 / 18
(1285)
वह्रिस्तस्य जलायते,
जलनिधिः कुल्यायते तत्क्षणात्,
मेरुः स्वल्पशिलायते,
मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते,
यस्याऽ
ङ्गेऽ
खिललोकवल्लभतमं शीलं समुन्मीलति ॥
नीतिशतक / 100
(1286)
वाक्पारुष्यं परं लोक उद्वेजकमनर्थकम् ।
न कुर्याद् विप्रियां वाचं प्रकुर्याज्जनमात्मसात् ॥
कामन्दकीयनीतिसार / 15 / 9
(1287)
वाक्सूनृता दया दानं,
दीनोपगतरक्षणम् ।
इित सङ्गः सतां साधु,
ह्येतत् सत्पुरुषव्रतम् ॥
कामन्दकनीतिसार / 3 / 2
(1288)
वाडम आसन्नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः ।
अपलिता केशा अशोणा दन्ता बहु बाह्वोर्बलम् ॥
अथर्व. / 19 / 60 / 1
(1289)
वाच्यं श्रद्धासमेतस्य,
पृच्छतश्च विशेषतः ।
प्रोक्तं श्रद्धाविहीनस्य,
अरण्यरुदितोपमम ॥
पञ्च. / मित्रभेद / 343
(1290)
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचिते ।
नाकार्यमस्ति क्रुद्धस्य,
नाऽ
वाच्यं विद्यते क्वचित् ॥
वा. रामा. / सुन्दरकाण्ड / 55 / 5
(1291)
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
ओ३म् क्रतो स्मर,
क्लिबे स्मर कृतं स्मर ॥
यजु. / 40 / 15
(1292)
वार्ता च कौतुकवती विमला च विद्या,
लोकोत्तरः परिलश्च कुरङगनाभेः ।
तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्त्रयं
प्रसरति स्वयमेव भूमौ ॥
प्रसन्नराघव / 2 / 2
(1293)
वासनानुदयो भोग्य,
वैराग्यस्य परोऽ
वधिः ।
अहम्भावोदयाभावो,
बोधस्य परमोऽ
वधिः ॥
विवेकचूडामणिः / 425
(1294)
वासांसि जीर्णानि यथा विहाय,
नवानि गृहणाति नरोऽ
पराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि
संयाति नवानि देही ॥
भगवदगीता / 2 /22
(1295)
विघसाशी भवेन्नित्यं,
नित्यं वाऽ
मृतभोजनः ।
विघसो भुक्तशेषं तु,
यज्ञशेषं तथामृतम् ॥
मनु. / 4 / 285
(1296)
वित्तं बन्धुर्वयः कर्म,
विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि,
गरीयो यद् यदुत्तरम् ॥
मनु. / 2 / 136
(1297)
वितीर्णशिक्षा इव हृत्पदस्थसरस्वती-वाहनराजहंसैः ।
ये क्षीरनीरप्रविभागदक्षा विवेकिनस्ते कवयो जयन्ति ॥
(1298)
वित्तेन रक्ष्यते धर्मो,
विद्या योगेन रक्ष्यते ।
मृदुना रक्ष्यते भूपः,
सत्स्त्रिया रक्ष्यते गृहम् ॥
चाणक्यनीति / 5 / 9
(1299)
विद्यमाना गतिर्येषामन्यत्रापि सुखावहा ।
ते न पश्यन्ति विद्वांसो देशभङ्गं कुलक्षयम् ॥
पञ्च. / मित्रभेद / 270
(1300)
विद्यां वित्तं शिल्पं तावन्नाप्नोति मानवः सम्यक् ।
यावद् व्रजतिन भूमौ देशाद् देशान्तरं हृष्टः ॥
पञ्चत. / मित्रभेद / 350
(1301)
विद्याञ्चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽ
मृतमश्नुते ॥
यजुर्वेद / 40 / 14
(1302)
विद्या तपो वा विपुलं धनं वा,
सर्वं ह्येतद् व्यवसायेन शक्यम् ।
बुद्धयायत्तं तन्निवसेद् देहवत्सु,
तस्माद् विद्याद् व्यवसायं प्रभूतम् ॥
महाभा. / शान्ति / 120 / 45
(1303)
विद्यातीर्थे विमलमतयः साधवः सत्यतीर्थे,
गङगातीर्थे मलिनमनसो दानतीर्थे धनाढयाः ।
लज्जातीर्थे कुलयुवतयो योगिनो ज्ञानतीर्थे,
धारातीर्थे धरणिपतयः कल्मषं क्षालयन्ति ॥
प्रसङगाहरण पृ० / 10
(1304)
विद्या ददाति विनयं,
विनयाद्याति पात्रताम् ।
पात्रत्वाद्धनमक्षय्यं,
धनाद्धर्मस्ततः सुखम् ॥
हितोपदेश / प्रस्तावना / 6
(1305)
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्,
विद्या भोगकरी यशःसुखकरी,
विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने,
विद्या परा देवता,
विद्या राजसु पूज्यते,
न हि धनं,
विद्याविहीनः पशुः ॥
नीतिशतक / 20
(1306)
विद्यामदो धनमदस्तृतीयोऽ
भिजनो मदः ।
मदा एतेऽ
वलिप्तानामेत एव सतां दमाः ॥
महाभारत,
उद्योगपर्व / 34 / 44
(1307)
विद्या मित्रं प्रवासेषु,
भार्या मित्रं गृहेषु च ।
व्याधितस्यौषधं मित्रं,
धर्मो मित्रं मृतस्य च ॥
चामक्यनीति / 5 / 15
(1308)
विद्याविनयोपेतो हरति न चेतांसि कस्य मनुजस्य ।
काञ्चनमणि-संयोगो नो जनयति कस्य लोचनानन्दम् ॥
(1309)
विद्याविलासमनसो धृतशीलशिक्षाः,
सत्यव्रता रहितमानमलापहाराः ।
संसार-दुृःखदलनेन सुभूषिता ये,
धन्या नरा विहितकर्मपरोपकाराः ॥
सत्यार्थप्रकाश / 3 / 1
(1310)
विद्या विवादाय धनं मदाय,
प्रज्ञा-प्रकर्षः परवञ्चनाय ।
अत्युन्नतिर्लोकपराभवाय,
येषां प्रकाशस्तिमिरं हि तेषाम् ॥
दर्पदलन / 2 / 5
(1311)
विद्या विवादाय धनं मदाय,
शक्तिः परेषां परिपीडनाय ।
खलस्य साधोर्विपरीतमेतत्,
ज्ञानाय दानाय च रक्षणाय ॥
हितोपदेश
(1312)
विद्या ह वै ब्राह्नणमाजगाम,
गोपाय मा शेवधिष्टेऽ
हमस्मि ।
असूयकायानृजवेऽ
यताय,
न मा ब्रूयाः वीर्यवती यथा स्याम् ॥
निरुक्त / 2 / 4
(1313)
विद्वत्त्वं च नृपत्वं च नैव तुल्ये कदाचन ।
स्वदेशे पूज्यते राजा,
विद्वान् सर्वत्र पूज्यते ॥
पञ्चतन्त्र / मित्रसम्प्राप्ति / 58
(1314)
विद्वदगोष्ठी भारतं काव्यचिन्ता,
तन्त्रीवाद्यं सुप्रयुक्तं च गेयम् ।
इष्टा भार्या तत्समानं च मित्रं,
सद्यः शोकं नाशयन्तीह सप्त ॥
(1315)
विधाय वैरं सामर्षे नरा येऽ
रौ उदासते ।
प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽ
भिमारुतम् ॥
शिशुपाल-वध / 2 / 42
(1316)
विधिना मन्त्रयुक्तेन रूक्षाऽ
पि मथिताऽ
पि च ।
प्रयच्छति फंल भूमिररणीव हुताशनम् ॥
पञ्च. / मित्रभेद / 160
(1317)
विना गोरसं को रसो भोजनानं,
विना गोरसं को रसो भूपतीनाम् ।
विना गोरसं को रसः कामिनीनां,
विना गोरसं को रसः पण्डितानाम् ॥
(1318)
विनाऽ
पि भेषजैर्व्याधिः पथ्यादेव निवर्त्तते ।
न तु पथ्य-विहीनस्य भेषजानां शतैरपि ॥
(1319)
विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
अकृत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥
शिशुपालवध / 2 / 34
(1320)
विपदि धैर्यमथाभ्युदये क्षमा,
सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ,
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥
नीतिशतक / 59
(1321)
विप्रो वृक्षस्तस्य मूलं च सन्ध्या,
वेदाः शाखाः धर्मकर्माणि पत्रम् ।
तस्मान्मूलं यत्नतो रक्षणीयम्,
छिन्ने मूले नैव शाखा न पत्रम् ॥
चाणक्यनीति / 10 / 13
(1322)
विमल एव रविर्विशदः शशी,
प्रकृतिशोभन एव हि दर्पणः ।
शिवगिरिः शिवहासहोदरः,
सहजसुन्दर एव हि सज्जनः ॥
साहित्यदर्पण / 10
(1323)
विरोधिवचसो मूकान् वागीशानपि कुर्वते ।
जडानप्यनुलोमार्थान् प्रवाचः कृतिनां गिरः ॥
शिशुपाल-वध / 2 / 25
(1324)
विविक्तवर्णाभरणा सुखश्रुतिः,
प्रहलादयन्ती हृदयान्यपि द्विषाम् ।
प्रवर्तते नाकृतपुण्यकर्मणां,
प्रसन्नगम्भीरपदा सरस्वती ॥
किरातार्जुनीयम् / 14 / 3
(1325)
विवेकिनमनुप्राप्तो गुणो याति मनोज्ञताम् ।
सुतरां रत्नमाभाति चामीकरनियोजितम् ॥
चाणक्यनीति / 16 / 9
(1326)
विश्वम्भरा वसुधानी प्रतिष्ठा,
हिरण्यवक्षा जगतो निवेशनी ।
वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा
द्रविणे नो दधातु ॥
अथर्व / 12 / 1 / 6
(1327)
विश्वे यजत्रा अधिवोचतोतये,
त्रायध्वं नो दुरेवाया अभिह्रुतः ।
सत्यया वो देवहूत्या हुवेम,
श्रृण्वतो देवा अवसे स्वस्तये ॥
ऋ. / 10 / 63 / 11
(1328)
विषं विषेण व्यथते वज्रं वज्रेण भिद्यते,
गजेन्द्रो दृष्टसारेण गजेन्द्रेणैव बध्यते ।
मत्स्यो मत्स्यमुपादत्ते ज्ञातिर्ज्ञातिमसंशयम्,
रावणोच्छित्तये रामो विभीषणमपूजयत् ॥
कामन्दकीय नीतिसार / 8 / 69 / 70
(1329)
विषस्य विषयाणां हि दृश्यते महदन्तरम् ।
उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥
(1330)
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् ।
नीचादप्युत्तमा विद्या स्त्रीरत्नं दुष्कुलादपि ॥
चाणक्यनीति / 1 / 16
(1331)
वीणां वंशश्चन्दनं चन्द्रभासः,
शय्या यानं यौवनस्थास्तरुण्यः ।
नैतद्रम्यं क्षुत्पिपासार्दितानां,
सर्वारम्यास्तण्डुलप्रस्थमूलाः ॥
(1332)
वृक्षांश्छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् ।
यद्येवं गम्यते स्वर्गं,
नरकं केन गम्यते ॥
(1333)
वृत्तं यत्नेन संरक्षेद्,
वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो,
वृत्ततस्तु हतो हतः ॥
महाभा. / उद्योगपर्व / 36 / 30
(1334)
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि ।
कुलसंख्यां च गच्छन्ति,
कर्षन्ति च महद्यशः ॥
महाबा. / उद्योग / 28 / 29
(1335)
वृथा वृष्टिः समुद्रेषु,
वृथा तृप्तेषु भोजनम् ।
वृथा दानं धनाढयेषु,
वृथा दीपो दिवापि च ॥
चाणक्यनीति / 5 / 16
(1336)
वृद्धकाले मृता भार्या,
बन्धुहस्तगतं धनम् ।
भोजनं च पराधीनं,
तिस्त्रः पुंसां विडम्बनाः ॥
चाणक्यनीति / 8 / 9
(1337)
वृद्धिः प्रभावः तेजश्च,
सत्त्वमुत्थानमेव च ।
व्यवसायश्च यस्य स्यात्,
तस्यावृत्तिभयं कुतः ॥
महाभा. / उद्योग / 37 / 41
(1338)
वेगं करोति तुरगस्त्वरितं प्रयातुं,
प्राणव्यान्न चरणास्तु तथा वहन्ति ।
सर्वत्र यान्ति पुरुषस्य चलस्वभावाः,
नष्टास्ततो हृदयमेव पुनर्विशन्ति ॥
मृच्छकटिक / 1
(1339)
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥
मनु. / 2 / 12
(1340)
वेदा मे परमं चक्षुर्वेदा मे परमं बलम् ।
वेदा मे परमं धाम,
वेदा मे ब्रह्न चोत्तमम् ॥
महाभा. / शान्ति / 347 / 32
(1341)
वेदोऽ
खिलो धर्ममूलं,
स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥
मनु. / 2 / 6
(1342)
वेनस्तत्पश्यन्निहितं गुहा,
सद्यत्र विश्वं भवत्येकनीडम् ।
तस्मिन्निदं सञ्च विचैति सर्वं,
स ओतः प्रोतश्च विभुः प्रजासु ॥
यजु. / 32 / 8
(1343)
वैराग्यस्य फलं बोधो,
बोधस्योपरतिः फलम् ।
स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ॥
विवेक-चूडामणिः / 420
(1344)
वैरिणा न हि संदध्यात् सुश्लिष्टेनापि संधिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥
पञ्च. / मित्रसम्प्राप्ति / 32
(1345)
व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत् ।
क्रन्दनं वर्धयत्येव तस्यान्तं न गच्छति ॥
पञ्च. / मित्रसम्प्राप्ति / 182
(1346)
व्यसने वाऽ
र्थकृच्छ्रे वा,
भये वा जीवितान्तगे ।
विमृशंश्च स्वया बुद्धया,
धृतिमान् नावसीदति ॥
वा. रामा. / किष्किन्धा / 7 / 9
(1347)
व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते ।
स तेषां पारमभ्येति,
तत्प्रभावादसंशयम् ॥
पञ्च. / मित्रसम्प्राप्ति / 6
(1348)
व्याघ्रीव तिष्ठति जरा परितर्जयन्ति,
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्त्रवति भिन्नघटादिवाम्भो-
लोकस्तथाऽ
प्यहितमाचरतीति चित्रम् ॥
वैराग्यशतक / 100
(1349)
व्याघ्रेे च महदालस्यं,
सर्पे चैव महद्भयम् ।
पिशुने चैव दारिद्रयं,
तेन जीवन्ति जन्तवः ॥
(1350)
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः ।
एतद्वैद्यस्य वैद्यत्वं,
न वैद्यः प्रभुरायुषः ॥
भावप्रकाश. / मिश्रप्रकरण / 53
(1351)
व्यायामक्षुण्णगात्रस्य,
पदभ्यामुदवर्त्तितस्य च ।
व्याधयो नोपसर्पन्ति,
सिंहं क्षुद्रमृगा इव ॥
सुश्रुतसंहिता / चिकित्सा / 24 / 43
(1352)
व्यालं बालमृणाललतन्तुभिरसौ रोद्धं समुज्जृम्भते,
छेत्तं वज्रमणीञ्छिरीषकुसुमप्रान्तेन सन्नह्यते ।
माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते,
नेतुं वाञ्छति यः खलान् पथि सतां सूक्तैः सुधास्यन्दिभिः ॥
नीतिशतक / 5
(1353)
व्योमैकान्तविहारिणोऽ
पि विहगाः सम्प्राप्नुवन्त्यापदम्,
बध्यन्ते निपुणैरगाधसलिलान्मीनाः समुद्रादपि ।
दुर्णीतंकिमिहास्ति किञ्च सुकृतं,
कः स्थानलाभे गुणः,
कालः सर्वजनप्रसारितकरो गृहणाति दूरादपि ॥
पञ्च. / मित्रसम्प्राप्ति / 23
(1354)
व्रजन्ति ते मूढधियः पराभवम्,
भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि घ्रन्ति शठस्तथाविधानसंवृताङ्गान्निशिता
इवेषवः ॥
किरातार्जुनीय / 1 / 30
(1355)
व्रतेन दीक्षामप्नोति दीक्षयाऽऽ
प्नोति दक्षिणाम् ।
दक्षिणा श्रद्धामाप्नोति,
श्रद्धया सत्यमाप्यते ॥
यजु. / 19 / 30
(1356)
शं नो वातः पवतां,
शं नस्तपतु सूर्यः ।
शं नः कनिक्रदद्देवः वर्जन्यो अभिवर्षतु ॥
यजु. / 36 / 10
(1357)
शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः ।
जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥
पञ्च. / मित्रभेद / 11
(1358)
शक्तेनापि सदा नरेन्द्रविदुषा कालान्तरापेक्षिणा,
वस्तवंय खलु वाक्यवज्रविषमे क्षुद्रेऽ
पि पापे जने ।
दर्वीव्यग्रकरेण धूममलिनेनायासयुक्तेन च,
भीमेनातिबलेन मत्स्यभवने किं नोषितं सूदवत् ॥
पञ्च. / काकोलूकीय / 20
(1359)
शक्यो वारयितुं जलेन हुतभुक्,
छत्रेण सूर्यातपोनागेन्द्रो
निशिताङ्कुशेन समदो,
दण्डेन गो-गर्दभौ ।
व्याधिर्भेषजसङग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्,
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नासत्यौषधम् ॥
नीतिशतक / 10
(1360)
शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता ।
उपकर्तुमपि प्राप्तं निःस्वं सन्त्यज्य गच्छति ॥
पञ्च. / मित्रसम्प्राप्ति / 96
(1361)
शतं विहाय भोक्तव्यं. सहस्त्रं स्नानमाचरेत् ।
लक्षं विहाय दातव्यं,
कोटिं त्यक्त्वा हरिं भजेत् ॥
(1362)
शतेषु जायते शूरः,
सहस्त्रेषु च पण्डितः ।
वक्ता दशसहस्त्रेषु,
दाता भवति वा न वा ॥
(1363)
शत्रुभिर्योजयेच्छत्रुं बलिना बलवत्तरम् ।
स्वकार्याय यतो न स्यात् काचित्पीडाऽ
त्र तत्क्षये ॥
पञ्च. / लब्धप्रणाश / 15
(1364)
शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा ।
व्यथाकरं सुखार्थाय कण्टकेनेव कण्टकम् ॥
पञ्च. / लब्धप्रणाश / 16
(1365)
शत्रोरपि गुणा वाच्या,
दोषा वाच्या गुरोरपि ।
सर्वदा सर्वभावेन पुत्रे शिष्ये हितं वदेत् ॥
कवितामृतकूप
(1366)
शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ।
रसायनमिव प्राज्ञैर्हेलया न कदाचन ॥
पञ्च. / मित्रसम्प्राप्ति / 83
(1367)
शनैः शनैश्च यो राज्यमुपभुङक्ते यथाबलम् ।
रसायनमिव प्राज्ञः सः पुष्टिं परमां व्रजेत् ॥
पञ्च. / मित्रभेद / 159
(1368)
शनैरर्थः,
शनैः पन्था,
शनैः पर्वतमारुहेत् ।
शनैर्विद्या च धर्मश्च,
व्यायामश्च शनैः शनैः ॥
(
चाणक्यनीतिशास्त्र )
(1369)
शयनं पित्तनाशाय,
वातनाशाय मर्दनम् ।
वमनं कफनाशाय,
ज्वरनाशाय लङ्घनम् ॥
(1370)
शय्यासनेऽ
ध्याचरिते श्रेयसा न समाविशेत् ।
शय्यसनास्थशचैवैनं,
प्रत्युत्थायाभिवादयेत् ॥
मनु. / 2 / 19
(1371)
शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः ।
बुद्धिप्रारब्धकार्यस्य नास्ति किञ्चन दुष्करम् ॥
भोजप्रबन्ध / 8
(1372)
शरीरमेवायतनं सुखस्य,
दुःखस्य चाप्यायतनं शरीरम् ।
यद्यच्छरीरेण करोति कर्म,
तेनैव देही समुपाश्नुते तत् ॥
(
सुभाषितावलि )
(1373)
शरीरस्य गुणानां च,
दूरमत्यन्तमन्तरम् ।
शरीरं क्षणविध्वंसि,
कल्पान्तरस्थायिनो गुणाः ॥
हितोपदेश / मित्रलाभ / 49
(1374)
शरीरायासजननं कर्म व्यायाम-सञ्ज्ञतम् ।
तत्कृत्वा तु सुखं देहं,
विमृदनीयात्समन्ततः ॥
सुश्रुतसंहता / चिकित्सास्थान् / 24 / 38
(1375)
शशी दिवसधूसरो,
गलित-यौवना कामिनी,
सरो विगतवारिजं,
मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धन-परायणः,
सतत-दुर्गतः सज्जनोनृपाङ्गणगतः
खलो,
मनसि सप्त शल्यानि मे ॥
नीतिशतक / 52
(1376)
शस्त्र चैव शास्त्रस्य,
द्वे विद्ये प्रकीर्तिते ।
आद्या हास्याय वृद्धत्वे,
द्वितीयाद्रियते सदा ॥
(1377)
शस्त्रैर्हता न हि हता रिपवो भवन्ति,
प्रज्ञाहतास्तु रिपवः सुहताः भवन्ति ।
शस्त्रं निहन्ति पुरुषस्य शरीरमेकम्,
प्रज्ञा कुलं च विभवं च यशश्च हन्ति ॥
पञ्च. / काकोलूकीय / 219
(1378)
शाखाशतशतवितताः सन्ति कियन्तो कानने न तरवः ।
परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः ॥
भोजप्रबन्ध / 222
(1379)
शाठयेन मित्रं,
कपटेन धर्मं,
परोपतापेन समृद्धभावम् ।
सुखेन विद्यां परुषेण नारीं,
वाञ्छन्ति ये नूनमपण्डितास्ते ॥
(1380)
शान्ता द्यौः शान्ता पृथिवी,
शान्तमिदमुर्वन्तरिक्षम् ।
शान्ता उदन्वतीरापः,
शान्ता नः सन्त्वोषधीः ॥
अथर्व. / 19 / 9 / 5
(1381)
शान्तितुल्यं तपो नास्ति,
न सन्तोषात्परमं सुखम् ।
न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः ॥
चाणक्यनीति / 8 / 13
(1382)
शाश्वतं विधिवद्दानं,
शाश्वतम् सत्यभाषणण् ।
शाश्वती प्रगुणा विद्या,
हृह्यं मित्रं च शाश्वतम् ॥
चाणक्य-राजनीतिशास्त्र / 2 / 50
(1383)
शास्त्रे प्रतिष्ठा सहजश्च बोधः,
प्रागल्भ्यमभ्यस्तगुणा च वाणी ।
कालानुरोधः प्रतिभानवत्वमेते
गुणाः कामदुघाः क्रियासु ॥
मालतीमाधव / 3 / 2
(1384)
शास्त्रोपस्कृशब्दसुन्दरगिरः शिष्यप्रदेयागमाः,
विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।
तज्जाडयं वसुधाधिपस्य सुधियस्त्वर्थं विनापीश्वराः,
कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ॥
नीतिशतक / 14
(1385)
शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरम्,
महीध्रादुत्तङ्गादवनिमवनेश्चापि जलधिम् ।
अधोऽ
धो गङ्गेयं पदमुपगता स्तोकमथवा,
विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥
नीतिशतक / 10
(1386)
शीघ्रकृत्येषु कार्येषु विलम्बयति यो नरः ।
तत्कृत्यं देवातास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥
पञ्च. / काकोलूकीय / 197
(1387)
शीतेन पयसा स्नानम्,
रक्तपित्तप्रशान्तिकृत् ।
तदेवोष्णेन तोयेन बल्यं,
वातकफापहम् ॥
भावप्रकाश / दिनचर्या / 83
(1388)
शुकवद् भाषणं कुर्याद् बकवदध्यानमाचरेत् ।
अजवच्चर्वणं कुर्याद् गजवत्स्नानमाचरेत् ॥
(1389)
शुचित्वं त्यागिता शौर्यं,
सामान्यं सुखदुःखयोः ।
दाक्षिण्यं चानुरक्तिश्च,
सत्यता च सुहृदगुणाः ॥
हितोपदेश / मित्रलाभ / 96
(1390)
शुभकृच्छुभमाप्नोति,
पापकृत् पापमश्नुते ।
विभीषणः सुखं प्राप्तः,
त्वं प्राप्तः पापमीदृशम् ॥
वा. रामा. / युद्धकाण्ड / 111 / 26
(1391)
शुश्रूषा श्रवणं चैव,
ग्रहणं धारणं तथा ।
ऊहापोहार्थविज्ञाने,
तत्त्वज्ञानं च धीगुणाः ॥
कामन्दकनीतिसार / 4 / 22
(1392)
शुष्कस्य कीटखातस्य वह्रिदग्धस्य सर्वथा ।
तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥
पञ्च. / मित्रसम्प्राप्ति / 95
(1393)
शुष्केणैकेन वृक्षेण वनं पुष्पितपादपम् ।
कुलं चरित्रहीनेन पुरुषेणेव दह्यते ॥
पञ्चरात्र / 1 / 12
(1394)
शूरः को विजितन्द्रियः,
प्रियतमा का सुव्रता,
किं धनंविद्या,
किं सुखमप्रवासपरता,
राज्यं किमाज्ञाफलम् ।
लाभः को गुणिसङगमः,
किमशुभं प्राज्ञेतरोपश्रयः,
का हानिर्विनयच्युतिर्निपुणता का धर्मतत्त्वे रतिः ॥
कवितामृतकूप / 53
(1395)
शूरः सुरूपः सुभगश्च वाग्मी,
शस्त्राणि शास्त्राणि विदांकरोतु ।
अर्थं विना नैव यशश्च मानं,
प्राप्नोति मर्त्योऽ
त्र मनुष्यलोके ॥
(1396)
शून्यमाकीर्णतामेति,
मृत्युरप्युत्सवायते ।
आपत्सम्पदिवाभाति,
विद्वज्जनसमागमे ॥
(1397)
शूराश्च कृतविद्याश्च रूपवत्यश्च योषितः ।
यत्र यत्र गमिष्यन्ति तत्र तत्र कृतालयाः ॥
(1398)
शेते सह शयानेन,
गच्छन्तमनुगच्छति ।
नराणां प्राक्तनं कर्म,
तिष्ठत्यथ सहात्मना ॥
पञ्च. / मित्रसम्प्राप्ति / 124
(1399)
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।
साधवो नहि सर्वत्र चन्दनं न वने वने ॥
चाणक्यनीतिसार / 2 / 5
(1400)
शोकारातिपरित्राणम्,
प्रीतिविश्रम्भभभाजनम् ।
केन रत्निमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥
भोजप्रबन्ध / 148
(1401)
शोकेन रोगा वर्धन्ते,
पयसा वर्धते तनुः ।
घृतेन वर्धते वीर्यम्,
मांसान्मांसं प्रवर्धते ॥
चणक्यनीति / 10 / 20
(1402)
शोोको नाशयते धैर्यं,
शोको नाशयते श्रुतम् ।
शोको नाशयते सर्वं,
नास्ति शोकसमो रिपुः ॥
(1403)
शोचन्ति जामयो यत्र,
विनश्यत्याशु तत्कुलम् ।
न शोचन्ति तु यत्रैता वर्द्धते तद्धि सर्वदा ॥
मनु. / 37 / 57
(1404)
शौचं च द्विविधं प्रोक्तं,
बाह्यमाभ्यन्तरं तथा ।
मृज्जलाभ्यां स्मृतं बाह्यम्,
भावशुद्धिस्तथान्तरम् ॥
दक्षस्मृतिः
(1405)
श्रदिति सत्यमेवाहुर्धारणं धोच्यते बुधैः ।
यया हि धार्यते सत्यं,
वृत्त्या श्रद्धेति सा मता ।
(1406)
श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात् ।
सुवर्णमपि चामेध्यादाददीताविचारयन् ॥
महाभारत शान्तिपर्व / 164 / 39
(1407)
श्रद्धयाऽ
ग्निः समिध्यते,
श्रद्धया हूयते हविः ।
श्रद्धां भगस्य मूर्धनि,
वचसा वेदयामसि ॥
ऋग् / 10 / 151 / 1
(1408)
श्रद्धया साध्यते धर्मो,
महद्भिर्नार्थराशिभिः ।
अकिञ्चना हि मुनयः,
श्रद्धावन्तो दिवं गताः ॥
(1409)
श्रद्धावाँल्लभते ज्ञानं,
तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥
महाभा. / भीष्मपर्व / 28 / 30
(1410)
श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता ।
आरोग्यं चापि परमं,
व्यायामादुपजायते ॥
सुश्रुत / चिकित्सास्थान / 24 / 40
(1411)
श्रियममृतनिधानं नायकोनप्यौषधीनाम्,
अमृतमयशरीरः कान्तियुक्तोऽ
पि चन्द्रः ।
भवति विगतरश्मिर्मण्डले प्राप्य भानोः,
परसदननिविष्टः को लघुत्वं न याति ॥
चाणक्यनीति / 15 / 14
(1412)
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।
असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥
महाभा. / उद्योग / 33 / 29
(1413)
श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः ।
इह कीर्तिमवाप्नोति,
प्रेत्य चानुत्तमं सुखम् ॥
मनु. / 2 / 9
(1414)
श्रुत्वा धर्मं विजानाति,
श्रुत्वा त्यजति दुर्मतिम् ।
श्रुत्वा ज्ञानमवाप्नोति,
श्रुत्वा मोक्षमवाप्नुयात् ॥
चाणक्यनीति / 6 / 1
(1415)
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च,
भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा,
स विज्ञेयो जितेन्द्रियः ॥
मनु. / 2 / 98
(1416)
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥
पञ्च. / काकोलूकीय / 100
(1417)
श्रेयांसि बहुविघ्नानि भवन्ति महतामपि ।
अश्रेयसि प्रपन्ने तु क्वापि यान्ति विनायकाः ॥
(1418)
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥
गीता / 3 / 35
(1419)
श्रोत्रं श्रुतेनैव न कुण्डलेन,
दानेन पाणिर्न तु कङकणेन ।
विबाति कायः करुणापराणाम्,
परोपकारैर्न तु चन्दनेन ॥
नीतिशतक / 72
(1420)
श्लाघ्यः स एको भुवि मावानां,
स उत्तमः सत्पुरुषः स धन्यः ।
यस्यार्थिनो वा शरणागता वा,
नाशाभिभङ्गाद्विमुखाः प्रयान्ति ॥
हितोपदेश / मित्रलाभ / 190
(1421)
श्लिष्टा क्रिया कस्यचिदात्मसंस्था,
सङक्रान्तिरन्यस्य विशेषयुक्ता ।
यस्योभयं साधु स शिक्षकाणाम्,
धुरि प्रतिष्ठापयितव्य एव ॥
मालविकाग्निमित्र / 1 / 16
(1422)
श्लोकेन वा तदर्धेन तदर्धादक्षरेण वा ।
अवन्ध्यं दिवसं कुर्यात् दानाध्ययनकर्मभिः ॥
चाणक्यनीति / 2 / 13
(1423)
श्वःकार्यमद्य कर्वीत पर्वाह्णे चापराहणिकम् ।
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥
महाबा. / शान्ति / 175/ 15
(1424)
षटकर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् ।
तस्मात्सर्वप्रयत्नेन षटकर्णं वर्जयेत्सुधीः ॥
पञ्च. / मित्रभेद / 104
(1425)
षडिमानि विनश्यन्ति,
मुहूर्त्तमनवेक्षणात् ।
गावः सेवा कृषिर्भार्या,
विद्या वृषलसङ्गतिः ॥
महाभा. / उद्योग / 33 / 91
(1426)
षडिमान् पुरुषो जह्यात् भिन्ना नावमिवार्णवे ।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥
अरक्षितारं राजानं,
भार्यां चाप्रियवादिनीम् ।
ग्रामकामं च गोपालं,
नवकामं च नापितम् ॥
महाभा. / उद्योगपर्व / 33 / 84-85
(1427)
षडेव तु गुणाः पुंसा,
न हातव्याः कदाचन ।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥
महाभा. / उद्योगपर्व / 33 / 86
(1428)
सं पूषन् विदुषा नय ।
यो अञ्जसाऽ
नुशासति य एवेदमिति ब्रवत् ॥
ऋ. / 6 / 54 / 1
(1429)
संसारयति कृत्यानि सर्वत्र विचिकित्सते ।
चिरं करोति क्षिप्रार्थे,
स मूढो भरतर्षभ ॥
महाभा. / उद्योग / 33 / 34
(1430)
संसार विषवृक्षस्य द्वे एव रसवत्फले ।
काव्यामृतरसास्वादः सङगमः सुजनैः सह ॥
हितोपदेश / 1 / 146
(1431)
सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः ।
सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ॥
स्कन्दपुराण मा. को. / 8 / 61 / 3
(1432)
सकृत् सतां संगतं लिप्सितव्यम्,
ततः परं भविता भव्यमेव ।
नातिक्रमेत् सत्पुरुषेण संगतम्,
तस्मात् सतां संगतं लिप्सितव्यम् ॥
(1433)
सकृदपि दृष्टवा पुरुषं प्राज्ञास्तुलयन्ति सारफल्गुत्वम् ।
हस्ततुलयापि निपुणाः पलपरिमाणं विजानन्ति ॥
(1434)
सकृददुष्टं च यो मित्रं पुनः सन्धातुमिच्छति ।
स मृत्युमुपगृहणाति,
गर्भमस्वतरी यथा ॥
पञ्च. / लब्धप्रणाश / 12
(1435)
सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्यतः ।
स्याताममित्रे मित्रे च सहजप्राकृतावपि ॥
शिशुपालवध / 2 / 36
(1436)
सङक्षेपात्कथ्यते धर्मो,
जनाः,
किं विस्तरेण वः ।
परोपकारः पुण्याय,
पापाय परपीडनम् ॥
पञ्च. / काकोलूकीय / 99
(1437)
सहग सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ।
स सद्भिःसह कर्त्तव्यः,
सतां सङगो हि भेषजम् ॥
हितोपदेश / 4 / 56
(1438)
संगतिः श्रेयसी पुंसां,
स्वपक्षे च विशेषतः ।
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥
(1439)
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।
अत्रा सखायः सख्यानि जानते,
भद्रैषां लक्ष्मीर्निहिताधिवाचि ॥
ऋग्. / 10 / 71 / 2
(1440)
सज्जना एव साधूनां प्रथयन्ति गुणोत्करम् ।
पुष्पाणां सौरभं प्रायस्तन्वते दिक्षु मारुताः ॥
(1441)
स जीवति गुणो यस्य,
धर्मो यस्य स जीवति ।
गुणधर्मविहीनो यो जीवनं तस्य निष्फलम् ॥
चाणक्यराजनीतिशस्त्र / 1 / 23
(1442)
सत्काव्यभूषणा वाणी,
रजनी चन्द्रभूषणा ।
सुशीलभूषणा नरी,
लक्ष्मीर्विनयभूषणा ॥
(1443)
सत्यं न मे धनविनाशगताऽ
स्ति चिन्ता,
भाग्यक्रमेण हि धनानि पुनर्भवन्ति ।
एतत्तु मां दहति नष्टधनश्रियो मे,
यत्सौहृदानि सुजने शिथिलीभवन्ति ॥
चारुदन्त / 1 / 5
(1444)
सत्यं बृहदृतमुग्रं दीक्षा तपो,
ब्रह्न यज्ञः पृथिर्वी धारयन्ति ।
सा नो भूतस्य भव्यस्य
पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥
अथर्व. / 12 / 1 / 1
(1445)
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।
किन्तु मत्ताङगनापाङगभङगलोलं हि जीवितम् ॥
(1446)
सत्यं माता पिता ज्ञानं,
धर्मो भ्राता दया सखा ।
शान्तिः पत्नी क्षमा पुत्रः,
षडेते मम बान्धवाः ॥
नीतिशास्त्र / 3
(1447)
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ।
न पावनतमं किञ्चित्सत्यादध्यगमं क्वचित् ॥
(1448)
सत्यमस्तेयमक्रोधः शौचं धीर्धृतिर्दमः ।
संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ॥
याज्ञवल्क्यस्मृति / 3 / 4 / 66
(1449)
सत्यमेव जयते नानृतम्,
सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामाः,
यत्र तत्सत्यस्य परमं निधानम् ॥
मुण्डकोपनिषद् / 3 / 1 / 6
(1450)
सत्याऽ
नृता च परुषा प्रियवादिनी च,
हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुर-नित्यधनागमा च,
वाराङ्गनेव नृपनीतिरनेकरूपा ॥
नीतिशतक / 43
(1451)
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥
महाभारत/उद्यगपर्व / 34 / 35
(1452)
सत्सङ्गतेर्भवतिसाधुता खालानाम्,
साधूनां न खलसङ्गतेः खलत्वम् ।
आमोदं कुसुमभवं मृदेव धर्ते,
मृदगन्धं न हि कुसुमानि धारयन्ति ॥
चाणक्यनीति / 12 / 7
(1453)
सदसस्पतिमदभुतं प्रियमिन्द्रस्य काम्यं सनिं
मेधामयासिषम् स्वाहा ॥ यजु. / 32 / 13
(1454)
सदभावेन हरेन्मित्रं सम्भ्रमेण च बान्धवान् ।
स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येनेतराञ्जनान् ॥
कामन्दकीय नीतिसार / 3 / 33
(1455)
सद्यः फलति गान्धर्वं मासमेकं पुराणकम् ।
वेदा फलन्ति कालेषु ज्योतिर्वैद्यौ निरन्तरम् ॥
(1456)
सन्तिर्नास्ति वन्ध्यायाः,
कृपणस्य यशो न हि ।
कातरस्य जयो नैव,
मद्यपस्य न सदगतिः ॥
हिङगुलप्रकरण / 21 / 3
(1457)
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायेत,
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वातौ सागरशुक्तिकुक्षिपतितं तन्मौक्तिकं जायते,
प्रायेणाधम-मध्यमोत्तमगुणः संवासतो जायते ॥
पञ्च. / मित्रभेद / 194
(1458)
सन्तानवाहीन्यपि मानुषाणां,
दुःखानि सम्बन्धिवियोगजानि ।
दृष्टे जने प्रेयसि दुःसहानि,
स्रोतःसहस्रैरिव सम्प्लवन्ते ॥
(1459)
सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् ।
नास्ति पुत्रः समृद्धानां विचित्रं विधिचेष्टितम् ॥
महाभारत शा. प. / 28 / 24
(1460)
सन्ति वै पुरुषाः शूराः,
सन्ति कापुरुषास्तथा ।
उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान् प्रति ॥
महाभा. / उद्योग / 4 / 2
(1461)
सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥
पञ्च. / मित्रसम्प्राप्ति / 149
(1462)
समानी प्रपा सह वोऽ
न्नभागः,
समाने योक्त्रे सह वो युनञ्मि ।
सम्यञ्चोऽ
ग्निं सपर्यतारा
नाभिमिवाभितः ॥
अथर्व. / 3 / 30 / 6
(1463)
समानी व आकूतिः,
समाना हृदयानि वः ।
समानमस्तु वो मनो,
यथा वः सुसहासति ॥
ऋ. / 10 / 191 / 4
(1464)
समाने शोभते प्रीतिः,
राज्ञि सेवा च शोभते ।
वाणिज्यं व्यवहारेषु,
दिव्या स्त्री शोभते गृहे ॥
चाणक्यनीति / 2 / 20
(1465)
समानो मन्त्रः समितिः समानी,
समानं मनः सह चित्तमेषाम् ।
समानमन्त्रमभिमन्त्रये वः,
समानेन वो हविषा जुहोमि ॥
ऋ. / 10 / 191 / 3
(1466)
समूलघातमघ्ननोत परान्नोद्यन्ति मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥
शिशुपालवध / 2 / 33
(1467)
सम्पत्सु महतां चेतो भवत्युत्पलकोमलम् ।
आपत्सु च महाशैलशिलासंघातकर्कशम् ॥
नीतिशतक / 6
(1468)
सम्पत्तौ च विपत्तौ च महतामेकरूपता ।
उदये सविता रक्तो रक्तश्चास्तमये तथा ॥
पञ्च. / मित्रसम्प्राप्ति / 7
(1469)
सम्पदा सुस्थिरंमन्यो भवति स्वल्पयाऽ
पि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥
शिशुपालवध / 2 / 32
(1470)
सम्पदि यस्य न हर्षो विपदि रणे च भीरुत्वम् ।
तं भुवनत्रय-तिलकं जनयति जननी सुं विरलम् ॥
हितोपदेश / मित्रलाभ / 33
(1471)
सम्भोजनं सङ्कथनं सम्प्रश्नोऽ
थ समागमः ।
ज्ञातिभिः सह कार्याणि,
न विरोधः कथञ्चन ॥
(1472)
सभां वा न प्रवेष्टव्यम्,
वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि,
नरो भवति किल्विषी ॥
मनु. / 8 / 13
(1473)
सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ।
आचारः कुलमाख्याति देशमाख्याति भाषणण् ॥
नराभरण / 52
(1474)
सर्पः क्रूरः खलः क्रूरः,
सर्पात्क्रूरतरः खलः ।
मन्त्रौषधिवशः सर्पः,
खलः केन निवार्यते ॥
(
चाणक्यशतक )
( 1475)
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते,
शुष्कैस्तृणैर्वनगजा बलिगो भवन्ति ।
कन्दैः फलैर्मुनिवरा गमयन्ति कालम् ,
सन्तोष एव पुरुषस्य परं निधानम् ॥
पञ्च. / मित्रसम्प्राप्ति / 148
(1476)
सर्पाणाञ्च खलानाञ्च परद्रव्यापहारिणाम् ।
अभिप्राया न सिध्यन्ति,
तेनेदं वर्त्तते जगत् ॥
पञ्च. / मित्रभेद / 143
(1477)
सर्वक्षयो यत्र कृत्स्नः,
पापोदयो निरयोऽ
भावसंस्थः ।
कस्तत् कुर्याज्जातु कर्म प्रजानन्,
पराजयो यत्र समो जयश्च ॥
महाभा. / उद्योग / 25 / 7
(1478)
सर्वत्र बुद्धिः कथिता श्रोष्ठा ते भरतर्षभ ।
अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ॥
महाभा. / शान्तिप. / 138 / 1
(1479)
सर्वथा सुकरं मित्रं,
दुष्करं प्रतिपालनम् ।
अनित्यत्वात्तु चित्तानां,
प्रीतिरल्पेऽ
पि भिद्यते ॥
वाल्मीकि-राामायण/कि. का. /32 / 7
(1480)
सर्वनाशे समुत्पन्ने अर्द्धं त्यजति पण्डितः ।
अर्द्धेन कुरुते कार्यं,
सर्वनाशो हि दुस्तरः ॥
पञ्च. / लब्धप्रणाश / 25
(1481)
सर्वसाम्यमनायासं,
सत्यवाक्यं च भारत ।
निर्वेदश्चाविधित्सा च यस्य स्यात् स सुखी नरः ॥
महाभा./ शान्ति. / 177 / 2
(1482)
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।
सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु ॥
विकमोर्वशीय / 5 / 39
(1483)
सर्वासामेव शुद्धीनां मनःशुद्धिः प्रशस्यते ।
अन्यथाऽऽ
लिङग्यतेऽ
पत्यमन्यथाऽऽ
लिङग्यते पतिः ॥
पदमपुराण / 31 / 233
(1484)
सर्वेषां तु पदार्थानामभ्यासः कारणं परम् ।
अनभ्यासेन मर्त्यस्य प्राप्तो योगोऽ
पि नश्यति ॥
(
योगरसायन )
(1485)
सर्वेषामे शौचानामर्थशौचं विशिष्यते ।
योऽ
र्थेशुचिः स हि शुचिर्न मृदभारैः शुचिः शुचिः ॥
(1486)
सर्वो दण्डजितो लोको,
दुर्लभो हि शुचिर्नरः ।
दण्डस्य हि भयात्सर्वं,
जगद् भोगाय कल्पते ॥
मनुस्मृति / 7 / 32
(1487)
सर्वौषधीनाममृतं प्रधानम्,
सर्वेषु सौख्येष्वशनं प्रधानम् ।
सर्वेन्द्रियाणां नयनं प्रधानम्,
सर्वेषु गात्रेषु शिरः प्रधानम् ॥
चाणक्यनीति / 9 / 4
(1488)
स स्निग्धोऽ
कुशलान्निवारयति यस्तत् कर्म यन्निर्मलं,
सा स्त्री याऽ
नुविधायिनी,
स मतिमान् यः सदभिरभ्यर्च्यते ।
सा श्रीर्या न मदं करोति,
स सुखी यस्तृष्णया मुच्यते,
तन्मित्रं यदकृत्रिमं,
स पुरुषो यः खिद्यते नेन्द्रियैः ॥
(1489)
स सुहृद् व्यसने यः स्यात्,
स पुत्रो यस्तु भक्तिमान् ।
स भृत्यो यो विधेयज्ञः,
सा भार्या यत्र निर्वृतिः ॥
पञ्च. / मित्रभेद / 289
(1490)
स सुहृद् व्यसने यः स्यादन्यजात्युदभवोऽ
पि सन् ।
वृद्धौ सर्वोऽ
पि मित्रं स्यात्,
सर्वेषामेव देहिनाम् ॥
पञ्च. / मित्रभेद / 288
(1491)
सह नाववतु,
सह नौ भुनक्तु,
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु,
मा विद्विषावहै ॥
तैत्तिरीयोपनिषद् / शिक्षावल्ली
(1492)
सहसा विदधीत न क्रियामविवेकः
परमापदां पदम् ।
वृणते हि विमृश्यकारिणं,
गुणलुब्धाः स्वयमेव सम्पदः ॥
(1493)
सहृदयं सांमनस्यमविद्वेषं कृणोमि वः ।
अन्यो अन्यमभिहर्यत,
वत्सं जातमिवाघ्न्या ॥
अथर्व / 3 / 30 / 1
(1494)
साधुभ्यस्ते निवर्त्तन्ते पुत्राः मित्राणि बान्धवाः ।
ये च तैः सह गन्तारस्तद्धर्मात् सुकृतं कुलम् ॥
चाणक्यनीति / 4 / 2
(1495)
साधुरेव प्रवीणः स्यात् सदगुणामृतचर्वणे ।
नवयूताङकुरास्वादकुशलः कोकिलः किल ॥
(1496)
साधुसंगतरोर्जातं विवेककुसुमं शुभम् ।
रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥
(1497)
साप्तपदीनं सख्यं भवेत् प्रकृत्या विशुद्धचित्तानाम् ।
किमुतान्योऽ
न्यगुणकथा विस्रम्भनिबद्धभावानाम् ॥
हरिभट्ट
(1498)
सा भार्या या गृहे दक्षा सा भार्या या प्रियंवदा ।
सा भार्या या पतिप्राणा सा भार्या या प्रजावती ॥
चाणक्य-राजनीतिशास्त्र / 1 / 28
(1499)
सा भार्या प्रियं ब्रूते,
स पुत्रो यत्र निर्वृतिः ।
तन्मित्रं यत्र विश्वासः,
स देशो यत्र जीव्यते ॥
महाभा. / शान्ति. / 139 / 96
(1500)
सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥
शिशुपालवध / 2 / 55
(1501)
सामादिदण्डपर्यन्तो नयः प्रोक्तः स्वयम्भुवा ।
तेषां दण्डस्तु पापीयांस्तं पश्चाद् विनियोजयेत् ॥
पञ्च. / मित्रभेद / 328
(1502)
सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम् ।
नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥
भावप्रकाश / दिनचर्या / 116
(1503)
सारासारं बलं वीर्यमात्मनो द्विषतश्च यः ।
जानन् विचरति प्राज्ञो न स याति पराभवम् ॥
महाभा. / शान्तिपर्व / 113 / 13
(1504)
सारासारपरिच्छेत्ता स्वामी भृत्यस्य दुर्लभः ।
यथोक्तकारी स्मृतिमान् प्रभोर्भृत्यश्च दुर्लभः ॥
(1505)
साहित्यसङगीतकलाविहीनः,
साक्षात्पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानस्तदभागधेयं
परमं पशूनाम् ॥
नीतिशतक / 11
(1506)
सिहंः शिशुरपि निपतति,
मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां,
न खलु वयस्तेजसां हेतुः ॥
नीतिशतक / 34
(1507)
सिंहो व्याकरणस्य कर्तुरहरत्प्राणान् प्रियान् पाणिनेः,
मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनीम् ।
छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम्,
अज्ञानावृतचेतसामतिरुषां कोऽ
र्थस्तिरश्चां गुणैः ॥
पञ्च./मित्रसम्प्राप्ति / 36
(1508)
सिद्धमन्नं फलं पक्वं नारीं प्रथमयौवनाम् ।
सुभाषितं च ताम्बूलं सद्यो गृहणाति बुद्धिमान् ॥
नराभरण / 120
(1509)
सुखं हि दःखान्यनुभूय शोभते,
घनान्धकारेष्विव दीपदर्शनम् ।
सुखात्तु यो याति नरो दरिद्रतां,
धृतः शरीरेण मृतः स जीवति ॥
मृच्छकटिक / 1 / 10
(1510)
सुखस्य दुःखस्य न कोऽ
पि दाता,
परो ददातीति कुबुद्धिरेषा ।
अहं करोमीति वृथाभिमानः,
स्वकर्मसूत्रग्रथितो हि लोकः ॥
(1511)
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः ।
सुखं च न विना धर्मात्,
तस्माद्धर्मपरो भवेत् ॥
(1512)
सुखार्थिनः कुतो विद्या,
कुतो विद्यार्थिनः सुखम् ।
सुखार्थी वा त्यजेद् विद्याां,
विद्यार्थी वा त्यजेत्सुखम् ॥
महाभारत उद्योगप. / 40 / 5
(1513)
सुजनो न कुप्यत्येव,
कुप्यति विप्रियं न चिन्तयति ।
अथ चिन्तयति न जल्पति,
अथ जल्पति लज्जितो भवति ॥
गाथासप्तशती / 3 / 50
(1514)
सुजनो न याति वैरं,
परहितनिरतो विनाशकालेऽ
पि ।
छेदेऽ
पि चन्दनतरुः,
सुरभयति मुखं कुठारस्य ॥
(1515)
सुजीर्णमन्नं सुविचक्षणः सुतः,
सुशासिता स्त्री नृपतिः सुसेवतिः ।
सुचिन्त्य चोक्तं,
सुविचार्य यत्कृतं,
सुदीर्घकालेऽ
पि न याति विक्रियाम् ॥
(
हितोपदेश )
(1516)
सुपात्रे दीप्तिकृद्विद्या,
सुपात्रे दीप्तिकृत्कला ।
सुपात्रे दीप्ति कृन्मैत्री,
सुपात्रे दीप्तिकृद्धनम् ॥
हिंगुलप्रकरणम् / 1 / 3
(1517)
सुपूरा स्यात् कुनदिका,
सुपूरो मूषकाञ्जलिः ।
सुनन्तुष्टः कापुरुषः,
स्वल्पकेनापि तुष्यति ॥
पञ्च. / मित्रसम्प्राप्ति / 135
(1518)
सुभाषितैः प्रीतिरनुन्नतिः श्रिया,
परार्थनिष्पत्तिपटीयसी क्रिया ।
गुणेष्वतृप्तिर्गुणवत्सु चादरोनिगूढमेतच्चरितं
महात्मनाम ॥
हरिभट्ट
(1519)
सुभिक्षं कृषके नित्यं,
नित्यं सुखमरोगिणि ।
भार्या भर्तुः प्रिया यस्य,
तस्य नित्योत्सवं गृहम् ॥
(
चाणक्यशतक )
(1520)
सुलभाः खलु संयुगे सहायाः,
विषयावाप्तसुखे धनार्जने वा ।
पुरुषस्य तु दुर्लभाः सहायाः,
पतितस्यापदि धर्मसंभ्रमे वा ॥
बुद्धचरित / 5 / 76
(1521)
सुलभाः पुरुषा राजन्,
सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य,
वक्ता श्रोता च दुर्लभः॥
वा. रामायण युद्धकाण्ड / 16 / 22
(1522)
सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥
पञ्चतन्त्र / मित्रभेद / 43
(1523)
सुश्रुतं न श्रुतं येन,
किमन्यैर्बहुभिः श्रुतैः ।
नालोकि चरकं येन,
स वैद्यो वैद्यनिन्दितः ॥
(
क्षेमकुतूहल )
(1524)
सुहृदां हि धनं भुक्त्वा,
कृत्वा प्रणयमीप्सितम् ।
प्रतिकर्तुमशक्तस्य,
जीवितान्मरणं वरम् ॥
(1525)
सुहृदि निरन्तरचित्ते गुणवति भृत्येऽ
नुवर्तिनि कलत्रे ।
स्वामिनि सौहृदयुक्ते निवेद्य दुःखं सुखी भवति ॥
पञ्च. / मित्रभेद / 106
(1526)
सुहृदभिराप्तैरसकृद्विचारितम्,
स्वयञ्च बुद्धया प्रविचारिता श्रयम् ।
करोति कार्यं खलु यः सः बुद्धिमान्,
स एव लक्ष्म्या यशसां च भाजनम् ॥
पञ्च. / काकोलूकीय / 111
(1527)
सूर्यं प्रति रजः क्षिप्तं स्वचक्षुषि पतिष्यति ।
गुरुं प्रति कृताऽ
वज्ञा सा तथा तस्य भाविनी ॥
आभाणकशतक / 43
(1528)
सृष्टा मूत्रपुरीषार्थमाहाराय च केवलम् ।
धर्महीनाः परार्थाय पुरुषाः पशवो यथा ॥
पञ्च. / काकोलूकीय / 97
(1529)
सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् ।
आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥
पञ्च. / मित्रभेद / 48
(1530)
स्तिमितोन्नतसञ्चाराः,
जनसन्तापहारिणः ।
जायन्ते विरला लोके,
जलदा इव सज्जनाः ॥
पञ्च. / मित्रभेद / 28
(1531)
स्त्रियो रत्नान्यथो विद्या,
धर्मः शौचं सुभाषितम्।
विविधानि च शिल्पानि,
समादेयानि सर्वतः ॥
मनुस्मृति / 2 / 240
(1532)
स्तोकादपि प्रदातव्यमदनेनान्तरात्मना ।
अहन्यहनि यत्किञ्चिदकार्पयण्यं यदुच्यते ॥
भविष्यपुराण / 1 / 2 / 163
(1533)
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी वृत्तिस्तलाकोटेः खलस्य च ॥
(1534)
स्थानेष्वेव नियोक्तव्या भृत्याश्चाभरणानि च ।
न हि यूडामणिः पादे प्रभवामीति बध्यते ॥
पञ्च. /मित्रभेद / 74
(1535)
स्नानं नाम मनःप्रसादजननं दुःस्वप्न-विध्वंसनं,
शौचस्यायतनं मलापहरणं संवर्धनं तेजसः ।
रूपद्योतकरं रिपुप्रमथनं कामाग्निसंदीपनं,
नारीणां च मनोहरं श्रमहरं स्नाने दशैते गुणाः ॥
(
चाणक्यराजनीति )
(1536)
स्नेहो हि वरमघटितो,
न वरं सञ्जातविघटितस्नेहः ।
हृतनयनो हि विषादी,
न विषादी भवति जात्यन्धः ॥
(1537)
स्पृशन्नपि गजो हन्ति,
जिघ्रन्नपि भुजङगमः ।
हसन्नपि नृपो हन्ति,
मानयन्नपि दुर्जनः ॥
(1538)
स्पृहणीयाः कस्य न ते सुमतेः सरलाशयाः महात्मानः ।
त्रयमपि येषां सदृशं हृदयं वचनं तथाचारः ॥
वल्लभदेव
(1539)
स्पृहा हि तावती कार्या,
सत्ता भाग्यस्य यावती ।
पादप्रसारणं कार्यं,
यावत्प्रच्छादनांशुकम् ॥
आभाणकशतक / 102
(1540)
स्फटिकस्य गुणो योऽ
सौ,
स एवायाति दोषताम् ।
धत्ते स्वच्छतया धायां,
यस्तां मलवतामपि ॥
(1541)
स्योना पृथिवि नो भवानृक्षरा निवेशनी ।
यच्छा नः शर्म सप्रथाः ॥ यजु. / 32 / 13
(1542)
स्वधर्मकर्मर्जितजीविकानां
स्वेष्वेव दारेषु सदा रतानाम् ।
जितेन्द्रियाणामतिथिप्रियाणां
गृहेऽ
पि मोक्षः पुरुषोत्तमानाम् ॥
चाणक्यनीतिशास्त्र / 2 / 47
(1543)
स्वबाहुबलमाश्रित्य यो हि जीवति मानवः ।
स लोके लभते कीर्तिं,
परत्र च शुभां गतिम् ॥
(1544)
स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽ
सताम् ।
न त्यजन्ति रुतं मञ्जु काक-सम्पर्कतः पिकाः ॥
(1545)
स्वभावो नोपदेशेन शक्यते कर्त्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥
पञ्च / मित्रभेद / 20
(1546)
स्वमर्थं यः परित्यज्य,
परार्थमनुतिष्ठति ।
मिथ्या चरति मित्रार्थे,
यश्च मूढः स उच्यते ॥
महाभा. / उद्योग. / 33 / 31
(1547)
स्वयं प्रणमतेऽ
ल्पेऽ
पि,
परवायावुपेयुषि ।
निदर्शनमसाराणां,
लघुर्बहुतृणं नरः ॥
शिशुपालवध / 2 / 50
(1548)
स्वयममृतनिधानो नायकोऽ
प्योषधीनां,
शतभिषगनुयातः शम्भुमूर्द्धावतंसः ।
परिहरति न चैनं राजयक्ष्मा शशाङकम्,
हत-विधिपरिपाकः केन वा लङघनीयः ॥
नराभरण / 146
(1549)
स्वल्पं स्वल्पमपि प्राज्ञैः,
कर्तव्यं सुकृतार्जनम् ।
पतिद्भर्बिन्दुभिर्जाता,
महानद्यः समुद्रगाः ॥
पदमपुराण / 14 / 244
(1550)
स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदि ।
विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ॥
रघुवंश / 8 / 89
(1551)
स्वस्ति नः पथ्यासु धन्वसु,
स्वस्त्यप्सु वृजने स्वर्वति ।
स्वस्ति नः पुत्रकृथेषु योनिषु,
स्वस्ति राये मरुतो दधातन ॥
ऋ. / 10 / 63 / 15
(1552)
स्वस्योन्नतेषु जनितं हृदि कोपवेगम्,
निघ्ने प्रदर्शयति भृत्यजने मनुष्यः ।
श्वश्रूगतं हृदयवर्धितमात्मकोपम्,
भाण्डे प्रदर्शयति हस्तगते वधूटी ॥
सूक्तिमुक्तावली / 50
(1553)
स्वाच्छन्द्यफलं बाल्यं,
तारुण्यं रुचिरसुरतभोगफलम् ।
स्थविरत्वमुपशमफलं,
परहितसम्पादनं च जन्मफलम् ॥
कुट्टिनीमत / 624
(1554)
स्वायत्तमेकान्तगुणं विधात्रा,
विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजे,
विभूषणं मौनमपण्डितानाम् ॥
नीतिशतक / 6
(1555)
हरणं च परस्वानां,
परदाराभिमर्शनम् ।
सुहृदश्च परित्यागस्त्रयो दोाषाः क्षयावहाः ॥
महाभा. / उद्योगपर्व / 33 / 70
(1556)
हर्त्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा,
ह्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम्,
येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥
नीतिशतक / 15
(1557)
हर्षशोकौ समौ यस्य,
शास्त्रार्थे प्रत्ययस्तथा ।
नित्यं भृत्यानुपेक्षा च,
तस्य स्याद्धनदा धरा ॥
हितोपदेश / विग्रह / 132
(1558)
हविराज्यं पुरोडाशः,
कुशा यूपाश्च खादिराः ।
नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥
वा. रामायण / अयोध्या / 61 / 17
(1559)
हस्ती अङ्कुशमात्रेण वाजी हस्तेन ताडयते ।
श्रृङ्गी लगुडहस्तेन,
खडगहस्तेन दुर्जनः ॥
चाणक्यनीति / 7 / 8
(1560)
हस्ती स्थूलतरः स चाङ्कशवशः,
किं हस्तितुल्योऽ
ङ्कुशः,
दीपे प्रज्वलिते प्रणश्यति तमः,
किं दीपमात्रं तमः ।
वज्रेणापि हताः पतन्ति गिरयः,
किं वज्रतुल्यो गिरिः,
तेजो यस्य विराजते स बलवान्,
स्थूलेषु कः प्रत्ययः ॥
पञ्च. / मित्रभेद / 279
(1561)
हस्तौ दानविवर्जितौ,
श्रुतिपुटौ सारस्वतद्रौहिणौ,
नेत्रे साधुविलोकनेन रहिते,
पादौ न तीर्थं गतौ ।
अन्यायार्जितवित्तपूर्णमुदरं,
गर्वेण तुङ्गंः शिरः,
रे रे जम्बुक. मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः ।
चाणक्यनीति / 12 / 4
(1562)
हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितम्,
व्यालानां,
पशवस्तृणांकुरभुजस्तुष्टाः स्थलीशायिनः।
संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणाम्,
यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ॥
वैराग्यशतक / 10
(1563)
हिंस्यात् क्रोधादवध्यांस्तु,
वध्यान् सम्पूजयेत् च ।
आत्मानमपि च क्रुद्धः,
प्रेषयेद् यमसादनम् ॥
महाभा. / वनपर्व / 29 / 6
(1564)
हिताशी स्यान्मिताशी स्यात्,
कालभोजी जितेन्द्रियः ।
पश्यन रोगान् बहुकष्टान्,
बुद्धिमान् विषमाशनात् ॥
चरक / निदानस्थान / 6 / 12
(1565)
हितैः साध-समाचारैः,
शास्त्रज्ञैर्मतिशालिभिः ।
कथञ्चिन्न विकल्पन्ते,
विद्वद्भिश्चिन्तिताः नयाः ॥
पञ्चतन्त्र / मित्रभेद / 291
(1566)
हिममापत्सरोजिन्यै,
मोहनीहारमारुतः ।
जयत्येको जगत्यस्मिन्,
साधुः साधुसमागमः ॥
(1567)
हिरण्यधान्यरत्नानि धनानि विविधानि च ।
तथाऽ
न्यदपि यत्किञ्चित्प्रजाभ्यः स्युर्महीभृताम् ॥
भोज-प्रबन्ध / 43
(1568)
हीनाङ्गान् अतिरिक्ताङ्गान्,
विद्याहीनान् वयोऽ
धिकान् ।
रूपद्रव्यविहीनांश्च,
जातिहीनांशच नाक्षिपेत् ॥
मनु. / 4 / 141
(1569)
हीनप्रज्ञो दौष्कुलेयो नृशंसो,
दीर्घं वैरी क्षत्रविद्यास्वधीरः ।
एवंधर्मानापदः संश्रयेयुः,
हीनवीयर्यो यश्च भवेदशिष्टः ॥
महाभा. / उद्योग. / 32 / 18
(1570)
हीयते हि मतिस्तात,
हीनैः सह समागमात् ।
समैश्च समतामेति,
विशिष्टैश्च विशिष्टताम् ॥
(1571)
हृदयेष्वेव तिष्ठन्ते वेदा,
य नः परं धनम् ।
वत्स्यन्त्यपि गृहेष्वेव,
दाराश्चारित्ररक्षिताः ॥
वा. रामायण. / अयोध्या / 45 / 25
(1572)
हृदि विद्ध इवात्यर्थं यया सन्तप्यते जनः ।
पीडितोऽ
पि हि मेधावी न तां वाचमुदीरयेत् ॥
कामन्दकीयनीतिसार / 3 / 24
(1573)
हे जिहवे. कटुकस्नेहे मधुरं किं न भाषसे ?
मधुरं वद कल्याणि. लोकोऽ
यं मधुरप्रियः ॥
चाणक्यनीति / 3 / 132
(1574)
हे पाथोद यथोन्नतं हि भवता दिग् व्यावृता सर्वतो,
मन्ये धीर. तथा करिष्यसि खलु क्षीराब्धितुल्यं सरः ।
किन्त्वेष क्षमते न हि क्षणामपि ग्रीष्मोष्मणा व्याकुलः,
पाठीनादिगणस्त्वदेकशरणस्तद्वर्ष तावत्कियत् ॥
भोजप्रबन्ध / 214
]