महाभारतम् सुभाषितसङ्ग्रहः

[[महाभारतम् सुभाषितसङ्ग्रहः Source: EB]]

[

** आदिपर्व**

<1,247>
विधातृविहितं मार्गं न कश्चिदतिवर्तते ।
कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥
</1,247>
<1,248>
कालः सृजति भूतानि कालः संहरते प्रजाः ।
संहरन्तं प्रजाः कालं कालः शमयते पुनः ॥
</1,248>
<1,249>
कालो हि कुरुते भावान् सर्वलोके शुभाशुभान् ।
कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः ॥
</1,249>
<1,250>
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।
कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥
</1,250>
<42,4>
पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु ।
यथा स्याद्गुणसंयुवतः प्राप्नुयाच्च महद्यशः ॥
</42,4>
<42,8>
क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् ।
ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥
</42,8>
<74,27>
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥
</74,27>
<74,28>
एकोऽहमस्मीति च मन्यसे त्वं
न हृच्छयं वेत्सि मुनिं पुराणम् ।
यो वेदिता कर्मणः पापकस्य
तस्यान्तिके त्वं वृजिनं करोषि ॥
</74,28>
<74,30>
आदित्यचन्द्रावनिलानलौ च
द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम् ॥
</74,30>
<74,40>
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती ।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥
</74,40>
<74,45>
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् ।
भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥
</74,45>
<74,57>
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ।
गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥
</74,57>
<74,87>
विरूपो यावदादर्शे नात्मनः पश्यते मुखम् ।
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥
</74,87>
<74,88>
यदा स्वमुखमादर्शे विकृतं सोऽभिवीक्षते ।
तदान्तरं विजानीते आत्मानं चेतरं जनम् ॥
</74,88>
<74,95>
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते ।
यत्र दुर्जनमित्याह दुर्जनः सज्जनं स्वयम् ॥
</74,95>
<74,102>
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः ।
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥
</74,102>
<75,50>
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥
</75,50>
<75,51>
पृथिवी रत्नसम्पूर्णा हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत् सर्वमिति मत्वा शमं व्रजेत् ॥
</75,51>
<75,52>
यदा न कुरुते पापं सर्वभूतेषु कर्हिचित् ।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥
</75,52>
<75,53>
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥
</75,53>
<79,2>
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा ।
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥
</79,2>
<79,4>
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥
</79,4>
<79,5>
यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षते ।
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥
</79,5>
<79,6>
यो यजेदपरिश्रान्तो मासि मासि शतं समाः ।
न क्रुद्ध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ॥
</79,6>
<79,13>
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ।
मरणं शोभनं तस्य इति विद्वज्जना विदुः ॥
</79,13>
<80,2>
नाधर्मश्चरितो राजन् सद्यः फलति गौरिव ।
शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति ॥
</80,2>
<82,16>
न नर्मयुक्तं वचनं हिनस्ति
न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे
पञ्चानृतान्याहुरपातकानि ॥
</82,16>
<85,13>
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
एकस्यापि न पर्याप्तं तस्मात्त्तृष्णां परित्यजेत् ॥
</85,13>
<85,14>
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥
</85,14>
<87,6>
अक्रोधनः क्रोधनेभ्यो विशिष्ट-
स्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्यो मानुषाश्च प्रधाना
विद्वांस्तथैवाविदुषः प्रधानः ॥
</87,6>
<87,7>
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥
</87,7>
<87,8>
नारुन्तुदः स्यान्न नृशंसवादी
न हीनतः परमभ्याददीत ।
यथास्य वाचा पर उद्विजेत
न तां वदेदुषतीं पापलोक्याम् ॥
</87,8>
<87,9>
अरुन्तुदं परुषं तीक्ष्णवाचं
वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।
विद्यादलक्ष्मीकतमं जनानां
मुखे निबद्धां निर्ऋतिं वहन्तम् ॥
</87,9>
<87,10>
सद्भिः पुरस्तादभिपूजितः स्यात्
सद्भिस्तथा पृष्ठतो रक्षितः स्यात् ।
सदाऽसतामतिवादांस्तितिक्षेत्
सतां वृत्तं चाददीतार्यवृत्तः ॥
</87,10>
<87,11>
वाक्सायका वदनान्निष्पतन्ति
यैराहतः शोचति रात्र्यहानि ।
परस्य नामर्मसु ते पतन्ति
तान् पण्डितो नावसृजेत् परेषु ॥
</87,11>
<87,12>
न हीदृशं संवननं त्रिषु लोकेषु विद्यते ।
यदा मैत्री च भूतेषु दानं च मधुरा च वाक् ॥
</87,12>
<87,13>
तस्मात् सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् ।
पूज्यान् सम्पूजयेद् दद्यान्न च याचेत् कदाचन ॥
</87,13>
<89,8>
सुखं हि जन्तुर्यदि वापि दुःखं
दैवाधीनं विन्दते नात्मशक्त्या ।
तस्माद्विष्टं बलवन्मन्यमानो
न सञ्ज्वरेत् नापि हृष्येत् कथञ्चित् ॥
</89,8>
<107,41>
बालो हि द्वादशाद्वर्षाज्जन्मतो यत् करिष्यति ।
न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यन्ति वै दिशः ॥
</107,41>
<108,17>
आचतुर्दशकाद्वर्षान्न भविष्यति पातकम् ।
परतः कुर्वतामेव दोष एव भविष्यति ॥
</108,17>
<115,38-39>
एकेन कुरु वै क्षेमं कुलस्य जगतस्तथा ।
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ॥
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ।
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः ॥
</115,38-39>
<118,10>
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः ।
विधिपर्यागतानर्थान् प्रज्ञो न प्रतिपद्यते ॥
</118,10>
<119,2>
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् ।
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥
</119,2>
<120,29>
इष्टं दत्तं तपस्तप्तं नियमाश्च स्वनुष्ठिताः ।
सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥
</120,29>
<123,21>
दैवे पुरुषकारे च लोकोऽयं सम्प्रतिष्ठितः ।
तत्र दैवं तु विधिना कालमुक्तेन लभ्यते ॥
</123,21>
<131,9,11>
न दरिद्रो वसुमतो नाविद्वान् विदुषः सखा ।
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते ॥
ययोरेव समं वित्तं ययोरेव समं श्रुतम् ।
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः ॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥
</131,9,11>
<136,19>
रङ्गोऽयं सर्वसामान्यः किमत्र तव फाल्गुन ।
वीर्यश्रेष्ठाश्च राजानो बलं धर्मोऽनुवर्तते ॥
</136,19>
<137,11>
क्षत्रियाणां बलं श्रेष्ठं योद्धव्यं क्षत्रबन्धुना ।
शूराणां च नदीनां च दुर्विदाः प्रभवाः किल ॥
</137,11>
<140,8>
नास्य छिद्रं परः पश्येत् छिद्रेण परमन्वियात् ।
गूहेत् कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥
</140,8>
<140,9>
नासम्यक् कृतकारी स्यात् उपक्रम्य कदाचन ।
कण्टको ह्यपि दुश्छिन्न आस्रावं जनयेच्चिरम् ॥
</140,9>
<140,21-22>
फलार्थोऽयं समारम्भो लोके पुसां विपश्चिताम् ।
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः ॥
ततः प्रत्यागते काले भिन्द्याद्घटमिवाश्मनि ।
अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन् ॥
</140,21-22>
<140,50>
एवं समाचरन्नित्यं सुखमेधेत भूपतिः ।
भयेन भेदयेद्भीरुं शूरमञ्जलिकर्मणा ॥
</140,50>
<140,51>
लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा ।
एवं ते कथितं राजन् शृणु चाप्यपरं तथा ॥
</140,51>
<140,56>
प्रहरिष्यन् प्रियं ब्रूयात् प्रहरन्नपि भारत ।
प्रहृत्य च कृपायीत शोचेत च रुदेत च ॥
</140,56>
<140,58>
अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः ।
स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः ॥
</140,58>
<140,68>
सुपुष्पितः स्यादफलः फलवान् स्याद्दुरारुहः ।
आमः स्यात् पक्वसङ्काशो न च जीर्येत कर्हिचित् ॥
</140,68>
<140,74>
यस्य बुद्धिः परिभवेत् तमतीतेन सान्त्वयेत् ।
अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम् ॥
</140,74>
<158,4>
एतद्धि परमं नार्याः कार्यं लोके सनातनम् ।
प्राणानपि परित्यज्य यद् भर्तृहितमाचरेत् ॥
</158,4>
<160,12>
राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् ।
त्रयस्य सञ्चयेनास्य ज्ञातीन् पुत्रांश्च तारयेत् ॥
</160,12>
<161,10>
आगतस्य गृहं त्यागस्तथैव शरणार्थिनः ।
याचमानस्य च वधो नृशंसो गर्हितो बुधैः ॥
</161,10>
<170,52>
वज्रपाणिर्ब्राह्मणः स्यात् क्षत्रं वज्ररथं स्मृतम् ।
वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥
</170,52>
<180,3>
यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति ।
नालं स मनुजः सम्यक् त्रिवर्णं परिरक्षितुम् ॥
</180,3>
<180,10>
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् ।
तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु ॥
</180,10>
<180,11>
जानन्नपि च यः पापं शक्तिमान्न नियच्छति ।
ईशः सन् सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ॥
</180,11>
<202,10>
यथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् ।
तस्मान्नोपायसाध्यांस्तानहं मन्ये कथञ्चन ॥
</202,10>
<221,17>
तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ।
सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥
</221,17>

** ——————————–**

** सभापर्व**

<15,11>
अनारंभपरो राजा वल्मीक इव सीदति ।
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति ॥
</15,11>
<15,21>
अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम् ।
जयेत् सम्यक् प्रयोगेण नीत्यार्थानात्मनो हितान् ॥
</15,21>
<15,14>
अर्थानारभते बालो नानुबन्धमवेक्षते ।
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् ॥
</15,14>
<16,12>
जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ।
संयुक्तो हि बलैः कश्चित् प्रमादान्नोपयुज्यते ॥
</16,12>
<17,3>
एतावदेव पुरुषैः कार्यं हृदयतोषणम् ।
नयेन विधिदृष्टेन यदुपक्रमते परान् ॥
</17,3>
<17,4>
सुनयस्यानपायस्य संयोगे परमः क्रमः ।
सङ्गत्या जायतेऽसाम्यं साम्यं च न भवेद्द्वयोः ॥
</17,4>
<17,5>
अनयस्यानुपायस्य संयुगे परमः क्षयः ।
संशयो जायते साम्याज्जयश्च न भवेद्द्वयोः ॥
</17,5>
<20,17>
यतो हि निम्नं भवति नयन्ति हि ततो जलम् ।
यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम् ॥
</20,17>
<38,7>
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः ।
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ॥
</38,7>
<38,17>
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ।
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः ॥
</38,17>
<41,18>
न गाथा गाथिनं शास्ति बहु चेदपि गायति ।
प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा ॥
</41,18>
<41,27>
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः ।
सर्वमेतदपत्यस्य कलां नार्हन्ति षोडशीम् ॥
</41,27>
<55,4>
यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः ।
न स जानाति शास्त्रार्थं दर्वी सूपरसानिव ॥
</55,4>
<55,5>
परनेयोऽग्रणीर्यस्य स मार्गान् प्रति मुह्यति ।
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ॥
</55,5>
<55,6>
लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः ।
तस्माद्राज्ञाप्रमत्तेन स्वार्थश्चिन्त्यः सदैव हि ॥
</55,6>
<55,7>
क्षत्रियस्य महाराज जये वृत्तिः समाहिता ।
स वै धर्मस्त्वधर्मो वा स्ववृत्तौ का परीक्षणा ॥
</55,7>
<55,9>
प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रबाधते ।
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ॥
</55,9>
<55,12>
ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा ।
पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हितं विदुः ॥
</55,12>
<55,14>
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥
</55,14>
<55,16>
शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते ।
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः ॥
</55,16>
<55,17>
अल्पोऽपि ह्यरिरत्यर्थं बद्धमानः पराक्रमैः ।
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ॥
</55,17>
<56,9>
भयं परिहरन् मन्द आत्मानं परिपालयन् ।
वर्षासु क्लिन्नवदवातिष्ठन्नेवावसीदति ॥
</56,9>
<56,10>
न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते ।
यावदेव भवेत् कल्पस्तावच्छ्रेयः समाचरेत् ॥
</56,10>
<58,18>
दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत् ।
धातुश्च वशमन्वेति पाशैरिव नरः सितः ॥
</58,18>
<64,17>
यस्तु धर्मपरश्च स्याद् हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥
</64,17>
<65,20>
स्वप्ने तानि न दृश्यन्ते जाग्रतो वा युधिष्ठिर ।
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ॥
</65,20>
<68,63>
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः ।
अनृते या फलावाप्तिः तस्याः सोऽर्धं समश्नुते ॥
</68,63>
<68,75>
जानन्नविब्रुवन् प्रश्नान् कामात् क्रोधात् भयात् तथा ।
सहस्रं वारुणान् पाशान् आत्मनि प्रतिमुञ्चति ॥
साक्षी वा विब्रुवन् साक्ष्यं गोकर्णशिथिलश्चरन् ।
सहस्रं वारुणान् पाशानात्मनि प्रतिमुञ्चति ॥
</68,75>
<68,78>
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु ।
पादश्चैव सभासत्सु येन निन्दन्ति निन्दितम् ॥
</68,78>
<68,79>
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥
</68,79>
<68,81>
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चैव यत् ।
ऋणिनः प्रति यच्चैव स्वार्थाद्भ्रष्टस्य चैव यत् ॥
</68,81>
<68,82>
स्त्रियाः पत्या विहीनायाः राज्ञा ग्रस्तस्य चैव यत् ।
अपुत्रायाश्च यद् दुःखं व्याघ्राघ्रातस्य चैव यत् ॥
</68,82>
<68,83>
अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहितस्य च ।
एतानि वै समान्याहुः दुःखानि त्रिदिवेश्वराः ॥
</68,83>
<72,5>
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् ।
अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ॥
</72,5>
<78,9>
नाधर्मेण जितः कश्चिद् व्यथते वै पराजये ॥
</78,9>

———————————

वनपर्व

<1,27>
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च ।
तान् सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥
</1,27>
<1,29>
असतां दर्शनात् स्पर्शात् सञ्जल्पाच्च सहासनात् ।
धर्माचाराः प्रहीयन्ते सिद्धयन्ति च न मानवाः ॥
</1,29>
<1,30>
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ।
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥
</1,30>
<2,25>
मानसेन हि दुःखेन शरीरमुपतप्यते ।
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ॥
</2,25>
<2,26>
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्भसा ।
प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति ॥
</2,26>
<2,28>
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च ।
शोकहर्षौ तथायासः सर्वं स्नेहात् प्रवर्तते ॥
</2,28>
<2,39>
राजतः सलिलादग्नेश्चोरतः स्वजनादपि ।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥
</2,39>
<28,21>
योऽपकर्तॄंश्च हर्तॄंश्च तेजसैवोपगच्छति ।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥
</28,21>
<28,22>
यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् ।
अन्तरं तस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ॥
</28,22>
<28,23>
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ।
काले काले तु सम्प्राप्ते मृदुस्तीक्ष्णोऽपि वा भवेत् ॥
</28,23>
<28,24>
काले मृदुर्यो भवति काले भवति दारुणः ।
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥
</28,24>
<31,6>
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति ।
य श्चैनं शङ्कते कृत्वा नास्तिक्यात् पापचेतनः ॥
</31,6>
<31,38>
न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः ।
यष्टव्यं च प्रयत्नेन दातव्यं चानसूयया ॥
</31,38>
<32,16-20>
अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः ।
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥
यच्चापि किञ्चित् पुरुषो दिष्टं नाम भजत्युत ।
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ॥
यस्त्वयं कर्मणा किञ्चित् फलमाप्नोति पूरुषः ।
प्रत्यक्षमेतल्लोकेषु तत्पौरुषमिति श्रुतम् ॥
स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थं न कारणात् ।
तत् स्वभावात्मकं विद्धि फलं पुरुषसत्तम ॥
एवं हठाच्च दैवाच्च स्वभावात् कर्मणस्तथा ।
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणाम् ॥
</32,16-20>
<53,31>
विशिष्टाया विशिष्टेन सङ्गमो गुणवान् भवेत् ॥
</53,31>
<61,30>
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥
</61,30>
<70,8>
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः ।
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः ॥
</70,8>
<70,9>
रहिता भर्तृभिश्चैव न कुप्यन्ति कदाचन ।
प्राणांश्चारित्रकवचान् धारयन्ति वरस्त्रियः ॥
</70,9>
<82,9>
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥
</82,9>
<82,10>
प्रतिग्रहादपावृत्तः सन्तुष्टो येन केनचित् ॥
अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते ॥
</82,10>
<82,18>
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ।
अदत्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥
</82,18>
<82,19>
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥
</82,19>
<157,21-22>
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् ।
येषां चान्नानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः ॥
</157,21-22>
<162,6,9>
यस्तु केवलसंरम्भात् प्रपातं न निरीक्षते ।
पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते ॥
कर्मणामविभागज्ञः प्रेत्य चेह विनश्यति ।
अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् ॥
वृथाचारसमारम्भः प्रेत्य चेह विनश्यति ।
साहसे वर्तमानानां निकृतीनां दुरात्मनाम् ॥
सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः ।
</162,6,9>
<179,26-27>
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः ।
आगमे यदि वापाये न तत्र ग्लपयेन्मनः ॥
दैवं पुरुषकारेण को वञ्चयितुमर्हति ।
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ॥
</179,26-27>
<180,21>
सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा ।
दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ॥
</180,21>
<180,25>
शूद्रे तु यद्भवेल्लक्ष्म द्विजे तच्च न विद्यते ।
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥
</180,25>
<181,4>
दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च ।

एषां कार्यगरीयस्त्वात् दृश्यते गुरुलाघवम् ॥
</181,4>
<181,5>
कस्माच्चिद्वानयोगाद्धि सत्यमेव विशिष्यते ।
सत्यवाक्याच्च राजेन्द्र किञ्चिद्दानं विशिष्यते ॥
</181,5>
<181,25>
बुद्धिरात्मानुगातीव उत्पातेन विधीयते ।
तदाश्रिता हि सा ज्ञेया बुद्धिस्तैस्यैषिणी भवेत् ॥
</181,25>
<181,26>
बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि ।
बुद्धर्गुणविधानेन मनस्तद्गुणवद्भवेत् ॥
</181,26>
<181,30>
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् ।
वर्तमानः सुखे सर्वो मुह्यतीति गतिर्मम ॥
</181,30>
<183,86>
किञ्चिद्दैवाद्धठात् किञ्चित् किञ्चिदेव स्वकर्मभिः ।
प्राप्नुवन्ति नरा राजन् मा तेऽस्त्वन्या विचारणा ॥
</183,86>
<183,88>
इह वैकस्य नामुत्र अमुत्रैकस्य नो इह ।
इह वाऽमुत्र चैकस्य नामुत्रैकस्य नो इह ॥
</183,88>
<183,89-92>
धनानि येषां विपुलानि सन्ति
नित्यं रमन्ते सुविभूषिताङ्गाः ।
तेषामयं शत्रुवरघ्न लोको
नासौ सदा देहमुखे रतानाम् ॥
ये योगयुक्तास्तपसि प्रसक्ताः
स्वाध्यायशीला जरयन्ति देहान् ।
जितेन्द्रियाः प्राणिवधे निवृत्ता-
स्तेषामसौ नायमरिघ्न लोकः ॥
ये धर्ममेव प्रथमं चरन्ति
धर्मेण लब्ध्वा च धनानि काले ।
दारानवाप्य क्रतुभिर्यजन्ते
तेषामयं चैव परश्च लोकः ॥
ये नैव विद्यां न तपो न दानं
न चापि मूढाः प्रजने यतन्ति ।
न चानुगच्छन्ति सुखान्न भोगां-
स्तेषामयं चैव परश्च लोकः ॥
</183,89-92>
<185,25-30>
ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह ।
संयुक्तौ दहतः शत्रून् वनानीवाग्निमारुतौ ॥
राज्ञा वै प्रथितो धर्मः प्रजानां पतिरेव च ।
स एव शक्रः शुक्रश्च स धाता च बृहस्पतिः ॥
प्रजापतिर्विराट् सम्राट् क्षत्रियो भूपतिर्नृपः ।
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥
पुरा योनिर्युधाजिच्च अभिया मुदितो भवः ।
स्वर्णेता सहजिद् बभ्रुरिति राजाभिधीयते ॥
सत्ययोनिः पुराविच्च सत्यधर्मप्रवर्तकः ।
अधर्मादृषयो भीता बलं क्षत्रे समादधन् ॥
आदित्यो दिवि देवेषु तमो नुदति तेजसा ।
तथैव नृपतिर्भूमौ अदर्मान्नुदते भृशम् ॥
</185,25-30>
<193,18-21>
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।
असद्भिः सम्प्रयोगश्च तद्दुःखं चिरजीविनाम् ॥
पुत्रदारविनाशोऽत्र ज्ञातीनां सुहृदामपि ।
परेष्वायत्तता कृच्छ्रं किं नु दुःखतरं ततः ॥
नान्यद्दुःखतरं किञ्चिल्लोकेषु प्रतिभाति मे ।
अर्थैर्विहीनः पुरुषः परैः सम्परिभूयते ॥
अकुलानां कुले भावं कुलीनानां कुलक्षयम् ।
संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥
</193,18-21>
<193,29,30>
अपि शाकं पचानस्य सुखं वै मघवन् गृहे ।
अर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कञ्चन ॥
फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ।
परस्य तु गृहे भोक्तुः परिभूतस्य नित्यशः ॥
</193,29,30>
<193,32,33>
यो दत्वातिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः ।
शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः ॥
</193,32,33>
<193,35-36>
यदेनो यौवनकृतं तत् सर्वं नश्यते ध्रुवम् ।
सदक्षिणस्य भुक्तस्य द्विजस्य तु करे गतम् ॥
यद्वारि वारिणा सिञ्चेत् तद्ध्येनस्तरते क्षणात् ॥
</193,35-36>
<194,6>
जयेत् कदर्यं दानेन सत्येनानृतवादिनम् ।
क्षमया क्रूरकर्माणमसाधुं साधुना जयेत् ॥
</194,6>
<199,13>
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।
यावत् स शब्दो भवति तावत् पुरुष उच्यते ॥
</199,13>
<199,14>
अकीर्तिः कीर्त्यते लोके यस्य भूतस्य कस्यचित् ।
स पतत्यधमान् लोकान् यावच्छब्दः प्रकीर्त्यते ॥
</199,14>
<200,99>
ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः ।
ते तपन्ति महात्मानो न शरीरस्य शोषणम् ॥
</200,99>
<200,101>
तिष्ठन् गृहे चैव मुनिर्नित्यं शुचिरलङ्कृतः ।
यावज्जीवं दयावांश्च सर्वपापैः प्रमुच्यते ॥
</200,101>
<200,102>
न हि पापानि कर्माणि शुद्ध्यन्त्यनशनादिभिः ।
सीदत्यनशनादेव मांसशोणितलेपनः ॥
</200,102>
<200,108>
बीजानि ह्यग्निदग्धानि न रोहन्ति पुनर्यथा ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संयुज्यते पुनः ॥
</200,108>
<200,112>
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।
ऊचुर्ज्ञानविदो वृद्धाः प्रत्ययो मोक्षलक्षणम् ॥
</200,112>
<205,8>
मातापित्रोश्च शुश्रूषा स्त्रीणां भर्तरि च द्विज ।
स्त्रीणां धर्मात् सुघोराद्धि नान्यं पश्यामि दुष्करम् ॥
</205,8>
<205,17>
मातॄस्तु गौरवादन्ये पितॄनन्ये तु मेनिरे ।
दुष्करं कुरुते माता विवर्धयति या प्रजाः ॥
</205,17>
<206,33>
यः क्रोधमोहौ त्यजति तं दैवा ब्राह्मणं विदुः ।
यो वदेदिह सत्यानि गुरुं सन्तोषयेत च ॥
</206,33>
<206,34>
हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः ।
जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः ॥
</206,34>
<206,35>
कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः ॥
</206,35>
<207,43>
प्रिये नातिभृशं हृष्येत् अप्रिये न च सञ्ज्वरेत् ।
न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् ॥
</207,43>
<207,47>
अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः ।
महादृतिरिवाध्मातः पापो भवति नित्यदा ॥
</207,47>
<207,48>
मूढानामवलिप्तानामसारं भावितं भवेत् ।
दर्शयत्यन्तरात्मा तं दिवारूपमिवांशुमान् ॥
</207,48>
<207,49>
न लोके राजते मूर्खः केवलात्मप्रशंसया ।
अपि चेह मृजाहीनः कृतविद्यः प्रकाशते ॥
</207,49>
<207,63>
कामक्रोधौ वशे कृत्वा दम्भलोभमनार्जवम् ।
धर्ममित्येव सन्तुष्टास्ते शिष्टाः शिष्टसम्मताः ॥
</207,63>
<207,72>
कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ॥
</207,72>
<207,93-94>
त्रीण्येव तु सतामाहुः सन्तः पदमनुत्तमम् ।
न चैव द्रुह्येद्दद्याच्च सत्यं चैव सदा वदेत् ॥
</207,93-94>
<207,98>
प्रज्ञाप्रासादमारुह्य मुच्यन्ते महतो भयात् ।
प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम ॥
</207,98>
<209,3>
प्राणान्तिके विवाहे च वक्तव्यमनृतं भवेत् ।
अनृतेन भवेत् सत्यं सत्येनैवानृतं भवेत् ॥
</209,3>
<209,4>
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा ।
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ॥
</209,4>
<209,6>
विषमां च दशां प्राप्तो देवान् गर्हति वै भृशम् ।
आत्मनः कर्मदोषाणि न विजानात्यपण्डितः ॥
</209,6>
<209,20>
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते ।
यतते च यथाशक्ति न च तद्वर्तते तथा ॥
</209,20>
<209,43>
संस्कृतस्य च दान्तस्य नियतस्य यतात्मनः ।
प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च ॥
</209,43>
<211,23>
रथं शरीरं पुरुषस्य दृष्ट-
मात्मा नियन्तेन्द्रियाण्याहुरश्वान् ।
तैरप्रमत्तः कुशली सदश्वै-
र्दान्तेः सुखं याति रथीव धीरः ॥
</211,23>
<214,27>
पञ्चैव गुरवो ब्रह्मन् पुरुषस्य बुभूषतः ।
पिता माताऽग्निरात्मा च गुरुश्च द्विजसत्तम ॥
</214,27>
<216,13-4>
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ।
दाम्भिको दुष्कृतः प्राज्ञः शूद्रेण सदृशो भवेत् ॥
</216,13-4>
<216,21-22>
परित्यजन्ति ये दुःखं सुखं वाऽप्युभयं नराः ।
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः ॥
</216,21-22>
<216,24>
न विषादे मनःकार्यं विषादो विषमुत्तमम् ।
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः ॥
</216,24>
<216,25>
यं विषादोऽभिभवति विक्रमे समुपस्थिते ।
तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते ॥
</216,25>
<233,12>
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् ।
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥
</233,12>
<233,13>
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् ।
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकर्मणा ॥
</233,13>
<243,3>
यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् ।
न मर्षयन्ति तत् सन्तो बाह्येनाभिप्रधर्षणम् ॥
</243,3>
<259,13>
नातप्ततपसो लोके प्राप्नुवन्ति महासुखम् ।
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते ॥
</259,13>
<259,14>
न ह्यनन्तं सुखं कश्चित् प्राप्नोति पुरुषर्षभ ।
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया ॥
</259,14>
<259,15>
उदयास्तमनज्ञो हि न हृष्यति न शोचति ।
सुखमापतितं सेवेद् दुःखमापतितं वहेत् ॥
</259,15>
<259,16>
कालप्राप्तमुपासीत सस्यानामिव कर्षकः ।
तपसो हि परं नास्ति तपसा विन्दते महत् ॥
</259,16>
<259,20>
इह यत् क्रियते कर्म तत् परत्रोपयुज्यते ।
तस्माच्छरीरं युञ्जीत तपसा नियमेन च ॥
</259,20>
<259,23>
दान्तः शमपरः शश्वत् परिक्लेशं न विन्दति ।
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ॥
</259,23>
<259,24>
संविभक्ता च दाता च भोगवान् सुखवान् नरः ।
भवत्यहिंसकश्चैव परमारोग्यमश्नुते ॥
</259,24>
<259,28>
दानान्न दुष्करं तात पृथिव्यामस्ति किञ्चन ।
अर्थे च महती तृष्णा स च दुःखेन लभ्यते ॥
</259,28>
<259,29>
परित्यज्य प्रियान् प्राणान् धनार्थं हि महामते ।
प्रविशन्ति नरा वीराः समुद्रमटवीं तथा ॥
</259,29>
<259,31>
तस्माद्दुःखार्जितस्यैव परित्यागः सुदुष्करः ।
न दुष्करतरं दानात् तस्माद्दानं मतं मम ॥
</259,31>
<260,24-25>
रसानुसारिणी जिह्वा कर्षत्येव रसान् प्रति ।
आहारप्रभवाः प्राणाः मनो दुर्निग्रहं चलम् ॥
</260,24-25>
<260,25-26>
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः ।
श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा ॥
</260,25-26>
<294,26>
सकृदंशो निपतति सकृत् कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सकृत् सकृत् ॥
</294,26>
<297,30>
सतां सकृत्सङ्गतमीप्सितं परम्
ततः परं मित्रमिति प्रचक्षते ।
न चाफलं सत्पुरुषेण सङ्गतं
ततः सतां सन्निवसेत् समागमे ॥
</297,30>
<297,35>
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥
</297,35>
<297,42>
आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः ।
तस्मात् सत्सु विशेषेण सर्वः प्रणयमिच्छति ॥
</297,42>
<297,47>
सतां सदा शाश्वतधर्मवृत्तिः
सन्तो न सीदन्ति न च व्यथन्ति ।
सतां सद्भिर्नाफलः सङ्गमोऽस्ति
सद्भ्यो भयं नानुवर्तन्ति सन्तः ॥
</297,47>
<297,49>
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् ।
सन्तः परार्थं कुर्वाणा नावेक्षन्ति परस्परम् ॥
</297,49>
<300,32>
कीर्तिर्हि पुरुषं लोके सञ्जीवयति मातृवत् ।
अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः ॥

पुरुषस्य परे लोके कीर्तिरेव परायणम् ।
इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी ॥
</300,32>
<301,6>
मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ।
मृतः कीर्तिं न जानीते जीवन् कीर्तिं समश्नुते ॥
</301,6>
<313,48>
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ।
धृत्या द्वितीयवान् भवति बुद्धिमान् वृद्धसेवया ॥
</313,48>
<313,50>
स्वाध्याय एषां देवत्वं तप एषां सतामिव ।
मरणं मानुषो भावः परिवादोऽसतामिव ॥
</313,50>
<313,54>
प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः ।
ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते ॥
</313,54>
<313,56>
वर्षमापततां श्रेष्ठं बीजं निवपतां वरम् ।
गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः ॥
</313,56>
<313,58>
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥
</313,58>
<313,60>
माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा ।
मनः शीघ्रतरं वातात् चिन्ता बहुतरी तृणात् ॥
</313,60>
<313,70>
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः ।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥
</313,70>
<313,74>
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् ।
लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा ॥
</313,74>
<313,84>
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥
</313,84>
<313,94>
मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता ।
धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते ॥
</313,94>
<313,96>
स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः ।
स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् ॥
</313,96>
<313,102>
यदा धर्मश्च भार्या च परस्परवशानुगौ ।
तदा धर्मार्थकामानां त्रयाणामपि सङ्गमः ॥
</313,102>
<313,109>
वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः ।
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः ॥
</313,109>
<313,110>
पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः ।
सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः ॥
</313,110>
<313,116>
अहन्यहनि भूतानि गच्छन्तीह यमालयम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥
</313,116>
<313,121>
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च ।
अतीतानागते चोभे स वै सर्वधनी नरः ॥
</313,121>

————————–

विराटपर्व

<38,29>
नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम् ।
श्रेयस्तु मरणं युद्धे न भीतस्य पलायनम् ॥
</38,29>
<50,3>
दहत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः ।
तूष्णीं धारयते लोकान् वसुधा सचराचरान् ॥
</50,3>
<51,15>
शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि ।
सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत् ॥
</51,15>

———————–

** उद्योगपर्व**

<3,3>
एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ ।
फलाफलवती शाखे यथैकस्मिन् वनस्पतौ ॥
</3,3>
<6,1>
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठाः नरेष्वपि द्विजातयः ॥
</6,1>
<6,2>
दिजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः ॥
</6,2>
<12,19>
न तस्य बीजं रोहति रोहकाले
न तस्य वर्षं वर्षति वर्षकाले ।
भीतं प्रपन्नं प्रददाति शत्रवे
न स त्रातारं लभते त्राणमिच्छन् ॥
</12,19>
<12,20>
मोघमन्नं विन्दति चाप्यचेताः
स्वर्गाल्लोकाद् भ्रश्यति नष्टचेष्टः ।
भीतं प्रपन्नं प्रददाति यो वै
न तस्य हव्यं प्रतिगृह्णन्ति देवाः ॥
</12,20>
<12,21>
प्रमीयते चास्य प्रजा ह्यकाले
सदा विवासं पितरोऽस्य कुर्वते ।
भीतं प्रपन्नं प्रददाति शत्रवे
सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥
</12,21>
<29,6>
कर्मणाहुः सिद्धिमेके परत्र
हित्वा कर्म विद्यया सिद्धिमेके ।
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये-
द्विद्वानपीह विहितं ब्राह्मणानाम् ॥
</29,6>
<29,7>
या वै विद्याः साधयन्तीह कर्म
तासां फलं विद्यते नेतरासाम् ।
तत्रेह वै दृष्टफलं तु कर्म
पीत्वोदकं शाम्यति तृष्णयार्तः ॥
</29,7>
<29,9>
कर्मणामी भान्ति देवाः परत्र
कर्मणैवेह प्लवते मातरिश्वा ।
अहोरात्रे विदधत् कर्मणैव
अतन्द्रितो नित्यमुदेति सूर्यः ॥
</29,9>
<31,2>
उत बालाय पाण्डित्यं पण्डितायोत बालताम् ।
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥
</31,2>
<32,26>
न त्वेव मन्ये पुरुषस्य कर्म
संवर्तते सुप्रयुक्तं यथावत् ।
मातुः पितुः कर्मणाऽभिप्रसूतः ।
संवर्धते विधिवद्भोजनेन ॥
</32,26>
<33,16>
निषेवते प्रशस्तानि निन्दितानि न सेवते ।
अनास्तिकः श्रद्दधान एतत् पण्डितलक्षणम् ॥
</33,16>
<33,17>
क्रोधो हर्षश्च दर्पश्च ह्रीः स्तम्भो मान्यमानिता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥
</33,17>
<33,18>
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥
</33,18>
<33,19>
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥
</33,19>
<33,20>
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते ।
कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥
</33,20>
<33,21>
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।
न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥
</33,21>
<33,22>
क्षिप्रं विजानाति चिरं श्रृणोति
विज्ञाय चार्थं भजते न कामात् ।
नासम्पृष्टो व्युपयुङ्क्ते परार्थे
तत्प्रज्ञानं प्रथमं पण्डितस्य ॥
</33,22>
<33,23>
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥
</33,23>
<33,24>
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः ।
अवध्न्यकालो वश्यात्मा स वै पण्डित उच्यते ॥
</33,24>
<33,25>
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥
</33,25>
<33,26>
न हृष्यत्यात्मसम्माने नावमानेन तप्यते ।
गाङ्गो हृद इवाक्षोभ्यो यः स पण्डित उच्यते ॥
</33,26>
<33,28>
प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान् ।
आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥
</33,28>
<33,31>
स्वमर्थः यः परित्यज्य परार्थमनुतिष्ठति ।
मिथ्याचरति मित्रार्थे यश्च मूढः स उच्यते ॥
</33,31>
<33,33>
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥
</33,33>

<33,36>
अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥
</33,36>

<33,37>
परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।
यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः ॥
</33,37>

<33,38>
आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् ।
अलभ्यमिच्छेन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥
</33,38>

<33,41>
एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥
</33,41>

<33,43>
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥
</33,43>

<33,44>
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव ॥
</33,44>

<33,45>
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥
</33,45>

<33,46>
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् ।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥
</33,46>

<33,48>
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥
</33,48>

<33,55>
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ ।
स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥
</33,55>

<33,56>
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ ।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥
</33,56>

<33,89>
आरोग्यमानृण्यमविप्रवासः
सद्भिर्मनुष्यैः सह सम्प्रयोगः ।
स्वप्रत्यया वृत्तिरभीतवासः
षड् जीवलोकस्य सुखानि राजन् ॥
</33,89>

<33,107>
प्राप्यापदं न व्यथते कदाचित्
उद्योगमन्विच्छति चाप्रमत्तः ।
दुःखं च काले सहते महात्मा
धुरन्धरस्तस्य जिताः सपत्नाः ॥
</33,107>

<33,113>
न स्वे सुखे वै कुरुते प्रहर्षं
नान्यस्य दुःखे भवति प्रहृष्टः ।
दत्वा न पश्चात् कुरुते न तापं
स कथ्यते सत्पुरुषार्यशीलः ॥
</33,113>

<33,115>
दम्भं मोहं मत्सरं पापकृत्यं
राजद्विष्टं पैशुनं पूगवैरम् ।
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं
यः प्रज्ञावान् वर्जयेत् स प्रधानः ॥
</33,115>

<33,117>
समैर्विवाहं कुरुते न हीनैः
समैः सख्यं व्यवहारं कथां च ।
गुणैर्विशिष्टांश्च पुरो दधाति
विपश्चितस्तस्य नयाः सुनीताः ॥
</33,117>

<34,8>
अनुबन्धानपेक्षेत सानुबन्धेषु कर्मसु ।
सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥
</34,8>

<34,14>
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् ।
हितं च परिणामे यत् तदाद्यं भूतिमिच्छता ॥
</34,14>

<34,17>
यथा मधु समादत्ते रक्षन् पुष्पाणि षट्पदः ।
तद्वदर्थान्मनुष्येभ्यः आदद्यादविहिंसया ॥
</34,17>

<34,18>
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाऽङ्गारकारकः ॥
</34,18>

<34,34>
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।
चारैः पश्यन्ति राजानः चक्षुर्भ्यामितरे जनाः ॥
</34,34>

<34,39>
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥
</34,39>

<34,42>
य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये ।
सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥
</34,42>

<34,44>
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः ।
मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥
</34,44>

<34,47>
जिता सभा वस्त्रवता मिष्टाशा गोमता जिता ।
अध्वा जितो यानवता सर्वं शीलवता जितम् ॥
</34,47>

<34,50>
सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा ।
क्षुत् स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥
</34,50>

<34,82>
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते ।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥
</34,82>

<35,42>
नैनं छन्दांसि वृजिनात्तारयन्ति
मायाविनं मायया वर्तमानम् ।
नीडं शकुन्ता इव जातपक्षा-
श्छन्दांस्येनं प्रजहत्यन्तकाले ॥
</35,42>

<35,44>
सामुद्रिकं वणिजं चोरपूर्वं
शलाकधूर्तं च चिकित्सकं च ।
अरिं च मित्रं च कुशीलवं च
नैतान् साक्ष्ये त्वधिकुर्वीत सप्त ॥
</35,44>

<35,50>
जरा रूपं हरति हि धैर्यमाशा
मृत्युः प्राणान् धर्मचर्यामसूया ।
क्रोधः श्रियं शीलमनार्यसेवा
ह्रियं कामः सर्वमेवाभिमानः ॥
</35,50>

<35,69>
जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् ।
शूरं विजितसङ्ग्रामं गतपारं तपस्विनम् ॥
</35,69>

<35,72>
ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥
</35,72>

<36,5>
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥
</36,5>

<36,8>
अरुन्तुदं परुषं रूक्षवाचं
वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।
विद्यादलक्ष्मीकतमं जनानाम्
मुखे निबद्धां निर्ऋतिं वै वहन्तम् ॥
</36,8>

<36,13>
यादृशैः सन्निविशते यादृशांश्चोपसेवते ।
यादृगिच्छेच्च भवितुं तादृग् भवति पूरुषः ॥
</36,13>

<36,24>
येषां न वृत्तं व्यथते नन्योनिः
चित्तप्रसादेन चरन्ति धर्मम् ।
ये कीर्तिमिच्छन्ति कुले विशिष्टाम्
त्यक्तानृतास्तानि महाकुलानि ॥
</36,24>

<36,30>
वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हृतः ॥
</36,30>

<36,31>
गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया ।
कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः ॥
</36,31>

<36,40>
चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् ।
अर्थाः समभिवर्तन्ते हंसाः शुष्कं सरो यथा ॥
</36,40>

<36,43>
अर्चयेदेव मित्राणि सति वासति वा धने ।
नानर्थयन् प्रजानाति मित्राणां सारफल्गुताम् ॥
</36,43>

<36,47>
सुखं च दुःखं च भवाभवौ च
लाभालाभौ मरणं जीवितं च ।
पर्यायशः सर्वमेते स्पृशन्ति
तस्माद्धीरो न च हृष्येन्न शोचेत् ॥
</36,47>

<36,56>
न वै भिन्ना जातु चरन्ति धर्मं
न वै सुखं प्राप्नुवन्तीह भिन्नाः ।
न वै भिन्ना गौरवं प्राप्नुवन्ति
न वै भिन्नाः प्रशमं रोचयन्ति ॥
</36,56>

<36,65>
अन्योन्यसमुपष्टम्भात् अन्योन्यापाश्रयेण च ।
ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ॥
</36,65>

<36,71>
न तद् बलं यन्मृदुना विरुध्यते
सूक्ष्मो धर्मस्तरसा सेवितव्यः ।
प्रध्वंसिनी क्रूरसमाहिता श्रीः
मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥
</36,71>

<37,3>
यश्चाशिष्यं शास्ति वै यश्च तुष्ये-
द्यश्चातिवेलं भजते द्विषन्तम् ।
स्त्रियश्च यो रक्षति भद्रमश्नुते
यश्चायाच्यं याचते कत्थते वा ॥
</37,3>

<37,4>
यश्चाभिजातः प्रकरोत्यकार्यं
यश्चाबलो बलिना नित्यवैरी ।
अश्रद्वधानाय च यो ब्रवीति
यश्चाकाम्यं कामयते नरेन्द्र ॥
</37,4>

<37,5>
वध्वाऽवहासं श्वशुरो मन्यते यो
वध्वाऽवसन्नभयो मानकामः ।
परक्षेत्रे निर्वपति यश्च बीजं
स्त्रियं च यः परिवदतेऽतिवेलम् ॥
</37,5>

<37,6>
यश्चापि लब्ध्वा न स्मरामीति वादी
दत्वा च यः कत्थति याच्यमानः ।
यश्चासतः सत्त्वमुपानयीत
एतान्नयन्ति निरयं पाशहस्ताः ॥
</37,6>

<37,24>
कृत्यानि पूर्वं परिसंख्याय सर्वा-
ण्यायव्यये चानुरूपां च वृत्तिम् ।
सङ्गृह्णीयादनुरूपान् सहायान्
सहायसाध्यानि हि दुष्कराणि ॥
</37,24>

<37,28>
न विश्वासाज्जातु परस्य गेहे
गच्छेन्नरश्चेतयानो विकाले ।
न चत्वरे निशि तिष्ठेन्निगूढो
न राजकाम्यां योषितं प्रार्थयीत ॥
</37,28>

<37,34>
गुणाश्च षड् मितभुक्तं भजन्ते
आरोग्यमायुश्च बलं सुखं च ।
अनाविलं चास्य भवत्यपथ्यं
न चैनमाद्यून इति क्षिपन्ति ॥
</37,34>

<37,38>
सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः ।
अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥
</37,38>

<37,39>
उत्पाद्य पुत्राननृणांश्च कृत्वा
वृत्तिं च तेभ्योऽनुविधाय काञ्चित् ।
स्थाने कुमारीः प्रतिपाद्य सर्वा
अरण्यसंस्थोऽथ मुनिर्बुभूषेत् ॥
</37,39>

<38,8>
अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥
</38,8>

<38,12>
पितुरन्तःपरं दद्यान्मातुर्दद्यान्महानसम् ।
गोषु चात्मसमं दद्यात् स्वयमेव कृषिं व्रजेत् ॥
</38,12>

<38,16>
स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ।
करिष्यन्न प्रभाषेत कृतान्येव तु दर्शयेत् ॥
</38,16>

<38,26>
अमोघक्रोधहर्षस्य स्वयं कृत्वान्ववेक्षिणः ।
आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा ॥
</38,26>

<38,32>
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।
न तं भर्तारमिच्छन्ति षण्डं पतिमिव स्त्रियः ॥
</38,32>

<38,34>
विद्याशीलवयोवृद्धान् बुद्धिवृद्धांश्च भारत ।
धनाभिजात वृद्धांश्च नित्यं मूढोऽवमन्यते ॥
</38,34>

<38,37>
अविसंवादको दक्षः कृतज्ञो मतिमानृजुः ।
अपि सङ्क्षीणकोशोऽपि लभते परिवारणम् ॥
</38,37>

<38,40>
न च रात्रौ सुखं शेते ससर्प इव वेश्मनि ।
यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥
</38,40>

<38,43>
यत्र स्त्री यत्र कितवो बालो यत्रानुशासिता ।
मज्जन्ति तेऽवशा राजन्नद्यामश्मप्लवा श्व ॥
</38,43>

<39,2>
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बुद्ध्यवज्ञानमवमानं च भारत ॥
</39,2>

<39,24>
सम्भोजनं सङ्कथनं सम्प्रीतिश्च परस्परम् ।
ज्ञातिभिः सह कार्याणि न विरोधः कदाचन ॥
</39,24>

<39,29>
येन खट्वां समारूढः परितप्येत कर्मणा ।
आदावेव न तत् कुर्यादध्रुवे जीविते सति ॥
</39,29>

<39,41-42>
नष्टं समुद्रे पतितं नष्टं वाक्यमशृण्वति ।
अनात्मनि श्रुतं नष्टं नष्टं हृतमनग्निकम् ॥
</39,41-42>

<39,47-48>
दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत् ।
धर्मापेक्षी मृदुर्ह्रीमान् स कुलीनशताद्वरः ॥
</39,47-48>

<39,49-60>
नातः श्रीमत्तरं किञ्चिदन्यत् पथ्यतमं मतम् ।
प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥
</39,49-60>

<39,60>
क्षमेदशक्तः सर्वस्य शक्तिमान् धर्मकारणात् ।
अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ॥
</39,60>

<39,63>
आर्जवेन नरं युक्तमार्जवात् सव्यपत्रपम् ।
अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः ॥
</39,63>

<39,64>
अत्यार्यमतिदातारमतिशूरमतिव्रतम् ।
प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥
</39,64>

<39,66-5>
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ।
रतिपुत्रफला नारी दत्तभुक्तफलं धनम् ॥
</39,66-5>

<39,68-9>
कान्तारे वनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे ।
उद्यतेषु च शस्त्रेषु नास्ति सत्त्ववतां भयम् ॥
</39,68-9>

<39,72-3>
न तत्परस्य सन्दध्यात् प्रतिकूलं यदात्मनः ।
सङ्ग्रहेणैष धर्मः स्यात् कामादन्यः प्रवर्तते ॥
</39,72,3>

<40,4>
असूयैकपदं मृत्युरतिवादः श्रियो वधः ।
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥
</40,4>

<40,5>
आलस्यं मदमोहौ च चापलं गोष्ठिरेव च ।
स्तब्धता चाभिमानित्वं तथाऽत्यागित्वमेव च ॥
एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः ।
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् ॥
सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥
</40,5>

<40,21>
आत्मा नदी भारत पुण्यतीर्था
सत्योदया धृतिकूला दयोर्मिः ।
तस्यां स्नातः पूयते पुण्यकर्मा
पुण्यो ह्यात्मा नित्यमलोभ एव ॥
</40,21>

<40,22>
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ॥
</40,22>

<40,23>
प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं
विद्यावृद्धं वयसा चापि वृद्धम् ।
कार्याकार्ये पूजयित्वा प्रसाद्य
यः सम्पृच्छेन्न स मुह्येत् कदाचित् ॥
</40,23>

<43,4>
नैनं सामान्यृचो वापि न यजूंष्यविचक्षणम् ।
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥
</43,4>

<43,18>
विकत्थनः स्पृहयालुर्मनस्वी
बिभ्रत्कोपं चपलोऽरक्षणश्च ।
एतान् पापाः षण्नराः पापधर्मान्
प्रकुर्वते नोऽत्र सन्तः सुदुर्गे ॥
</43,18>

<44,9>
यः प्रावृणोत्यवितथेन कर्णा-
वृतं कुर्वन्नमृतं सम्प्रयच्छन् ।
तं मन्येत पितरं मातरं च
तस्मै न द्रुह्येत् कृतमस्य जानन् ॥
</44,9>

<44,11>
शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः ।
ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते ॥
</44,11>

<46,6>
न सादृश्ये(सन्दृशे) तिष्ठति रूपमस्य
न चक्षुषा पश्यति कश्चिदेनम् ।
मनीषयाऽथो मनसा हृदा च
य एनं विदुरमृतास्ते भवन्ति ॥
</46,6>

<63,9>
इह निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः ।
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥
</63,9>

<63,10>
तस्य दानं क्षमा सिद्धिर्यथावदुपपद्यते ।
दमो दानं तपो ज्ञानमधीते चानुवर्तते ॥
</63,10>

<63,11>
दमस्तेजो वर्धयति पवित्रं दम उत्तमम् ।
विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत् ॥
</63,11>

<63,12>
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् ।
येषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयम्भुवा ॥
</63,12>

<63,15-17>
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
इन्द्रियाभिजयो धैर्यं मार्दवं ह्रीरचापलम् ॥
अकार्पण्यमसंरंभः सन्तोषः श्रद्वधानता ।
एतानि यस्य राजेन्द्र स दान्तः पुरुषः स्मृतः ॥
कामो लोभश्च दर्पश्च मन्युर्निद्रा विकत्थनम् ।
मान ईर्ष्या च शोकश्च नैतद्दान्तो निषेवते ॥
अजिह्यमशठं शुद्धमेतद्वान्तस्य लक्षणम् ॥
अलोलुपस्तथाल्पेप्सुः कामानामविचिन्तिता ।
समुद्रकल्पः पुरुषः स दान्तः परिकीर्तितः ॥
</63,15-17>

<64,10>
एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम् ।
तेऽमित्रवशमायान्ति शकुनाविव विग्रहात् ॥
</64,10>

<64,12>
ये स्म काले सुमनसः सर्वे वृद्धानुपासते ।
सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते ॥
</64,12>

<64,13>
येऽर्थं सन्ततमासाद्य दीना इव समासते ।
श्रियं ते सम्प्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ॥
</64,13>

<72,18>
कुले जातस्य वृद्धस्य परवित्तेषु गृद्ध्यतः ।
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम् ॥
</72,18>

<72,19>
ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् ।
श्रीर्हर्ता पुरुषं हन्ति पुरुषस्याधनं वधः ॥
</72,19>

<72,20>
अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदो द्विजाः ।
अपुष्पादफलाद् वृक्षाद् यथा कृष्ण पतत्रिणः ॥
</72,20>

<72,24>
ये धनादपकर्षन्ति नरं स्वबलमास्थिताः ।
ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् ॥
</72,24>

<72,29>
न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः ।
यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः ॥
</72,29>

<72,52>
एको ह्यपि बहून् हन्ति घ्नन्त्येकं बहवोऽप्युत ।
शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् ॥
</72,52>

<72,53>
जयो नैवोभयोर्दृंष्टो नोभयोश्च पराजयः ।
तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ ॥

सर्वथा वृजिनं युद्धं को घ्नन्न प्रतिहन्यते ।
हतस्य हि हृषीकेश समौ जयपराजयौ ॥
</72,53>

<72,54>
पराजयश्च मरणान्मन्ये नैव विशिष्यते ।
यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम् ॥
</72,54>

<72,58-9>
शेषो हि बलमासाद्य न शेषमनुशेषयेत् ।
सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया ॥
</72,58-9>

<72,59-60>
जयो वैरं प्रसृजति दुःखमास्ते पराजितः ।
सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ ॥
</72,59-60>

<72,60-61>
जातवैरश्च पुरषो दुःखं स्वपिति नित्यदा ।
अनिर्वृत्तेन मनसा ससर्प इव वेश्मनि ॥
</72,60-61>

<72,62-63>
न हि वैराणि शाम्यन्ति दीर्घकालधृतान्यपि ।
आख्यातारश्च विद्यन्ते पुमांश्चेद्विद्यते कुले ॥
</72,62-63>

<72,69>
सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम् ।
सान्त्वे प्रतिहते युद्धं प्रसिद्धं नापराक्रमः ॥
</72,69>

<73,4>
जयो वधो वा सङ्ग्रामे धात्राऽऽदिष्टः सनातनः ।
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते ॥
</73,4>

<77,7>
अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः ।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥
</77,7>

<93,5>
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।
यो मोचयेन्मृत्युपाशात् प्राप्नुयाद्धर्ममुत्तमम् ॥
</93,5>

<93,6>
धर्मकार्यं यतन् शक्त्या नो चेत् प्राप्नोति मानवः ।
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ॥
</93,6>

<94,7>
मनसा चिन्तयन् पापं कर्मणा नातिरोचयन् ।
न प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः ॥
</94,7>

<94,10>
व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते ।
अनर्थाय यथाशक्ति तं नृशंसं विदुर्बुधाः ॥
</94,10>

<94,11>
आकेशग्रहणान्मित्रमकार्यात् सन्निवर्तयन् ।
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ॥
</94,11>

<94,15>
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते ।
सर्वयत्नेन माध्यस्थ्यं न तन्मित्रं विदुर्बुधाः ॥
</94,15>

<97,16>
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ।
कुलत्रयं संशयितं कुरुते कन्यका सताम् ॥
</97,16>

<106,5>
दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् ।
तिष्ठते हि सुहृद् यत्र न बन्धुस्तत्र तिष्ठते ॥
</106,5>

<123,22>
ददाति यत्पार्थिव यत् करोति
यद्वा तपस्तप्यति यज्जुहोति ।
न तस्य नाशोऽस्ति न चापकर्षो
नान्यस्तदश्नाति स एव कर्ता ॥
</123,22>

<124,23>
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते ।
स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ॥
</124,23>

<124,25>
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते ।
शृणोति प्रतिकूलानि द्विषतां वशमेति सः ॥
</124,25>

<124,26>
सतां मतमतिक्रम्य योऽसतां वर्तते मते ।
शोचन्ते व्यसने तस्य सुहृदो नचिरादिव ॥
</124,26>

<124,36>
इन्द्रियैः प्राकृतो लोभाद्धर्मं विप्रजहाति यः ।
कामार्थावनुपायेन लिप्समानो विनश्यति ॥
</124,36>

<124,37>
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् ।
न हि धर्मादपैत्यर्थः कामो वापि कदाचन ॥
</124,37>

<129,15>
या हि शक्या महाराज साम्ना भेदेन वा पुनः ।
निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् ॥
</129,15>

<129,26>
इन्द्रियाणि महत् प्रेप्सुर्नियच्छेदर्थधर्मयोः ।
इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ॥
</129,26>

<129,39>
सुहृदामर्थकामानां यो न तिष्ठति शासने ।
प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ॥
</129,39>

<135,17>
इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति ।
यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ॥
</135,17>

<135,25>
पुत्र नात्मावमन्तव्यः पूर्वाभिरसमृद्धिभिः ।
अभूत्वा हि भवन्त्यर्थाः भूत्वा नश्यन्ति चापरे ॥
</135,25>

<136,1>
नैव राज्ञा दरः कार्यो जातु कस्याञ्चिदापदि ।
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ॥
</136,1>

<136,20-22>
विद्याशूरं तपःशूरं दानशूरं तपस्विनम् ।
ब्राह्म्या श्रिया दीप्यमानं साधुवादे च सम्मतम् ॥
अर्चिष्मन्तं बलोपेतं महाभागं महारथम् ।
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।
ईदृशं क्षत्रिया सूते वीरं सत्यपराक्रमम् ॥
</136,20,22>

<137,15>
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ।
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ॥
</137,15>

<159,14>
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः ।
अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ॥
</159,14>

<163,4>
परवीर्यं समाश्रित्य समाह्वयति वै पराम् ।
क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः ॥
</163,4>

<168,16>
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।
महारथत्वं सङ्ख्यातुं शक्यं क्षत्रस्य कौरव ॥
</168,16>

<168,17>
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः ।
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः ॥
</168,17>

<168,48>
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥
</168,48>

——————————-

** भीष्मपर्व**

<3,76>
एको दीर्णो दारयति सेनां सुमहतीमपि ।
तां दीर्णमनुदीर्यन्ते योधाः शूरतरा अपि ॥
</3,76>

<3,77>
दुर्निवर्त्या तदा चैव प्रभग्ना महती चमूः ।
अपामिव महावेगास्त्रस्ता मृगगणा इव ॥
</3,77>

<3,87>
नैव शक्या समाधातुं सन्निपाते महाचमूः ।
दीर्णामित्येव दीर्यन्ते सुविद्वांसोऽपि भारत ॥
</3,87>

<3,81>
उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् ।
जघन्य एव विषयो यो युद्धेन विशाम्पते ॥
</3,81>

<26,47>
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥
</26,47>

<26,48>
योगस्थः कुरु कर्माणि सङ्गं त्यक्ता धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्चते ॥
</26,48>

<26,57>
यः सर्वत्रानभिस्नेहस्तत्तत् प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
</26,57>

<26,58>
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥
</26,58>

<27,21>
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥
</27,21>

<27,35>
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥
</27,35>

<28,7>
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥
</28,7>

<28,8>
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
</28,8>

<28,33>
श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥
</28,33>

<28,40>
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥
</28,40>

<28,41>
योगसन्न्यस्तकर्माणं ज्ञानसञ्च्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥
</28,41>

<29,11>
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्तत्वाऽऽत्मशुद्धये ॥
</29,11>

<29.18>
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥
</29,18>

<29,20>
न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥
</29,20>

<29.22>
यो हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥
</29,22>

<29,24>
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥
</29,24>

<30,5>
उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥
</30,5>

<30,9>
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥
</30,9>

<30,16>
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नपशीलस्य जाग्रतो नैव चार्जुन ॥
</30,16>

<30,19>
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥
</30,19>

<30,40>
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ॥
</30,40>

<31,16>
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥
</31,16>

<31,21>
यो यो यां यां तनुं भक्तः श्रद्धयाऽऽर्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥
</31,21>

<31,24>
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥
</31,24>

<31,26>
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥
</31,26>

<31,30>
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥
</31,30>

<32,6>
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥
</32,6>

<32,12>
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥
</32,12>

<32,14>
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥
</32,14>

<32,16>
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥
</32,16>

<32,28>
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत् पुण्यफलं प्रदिष्टम् ।
अत्येति तत् सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥
</32,28>

<33,22>
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
</33,22>

<33,23>
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥
</33.23>

<33,26>
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥
</33,26>

<33,27>
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥
</33,27>

<33,29>
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥
</33,29>

<34,9>
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥
</34,9>

<34,39>
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत् स्यान्मया भूतं चराचरम् ॥
</34,39>

<34,40>
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष दूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥
</34,40>

<34,41>
यद् यद् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥
</34,41>

<34,42>
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥
</34,42>

<35,32>
कालोऽस्मि लोकक्षयकृत् प्रवृद्धो
लोकान् समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः ॥
</35,32>

<35,33>
तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् ॥
</35,33>

<35,52>
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥
</35,52>

<35,53>
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥
</35,53>

<35,54>
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥
</35,54>

<36,15>
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥
</36,15>

<36,17>
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥
</36,17>

<36,18>
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥
</36,18>

<36,19>
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः ॥
</36,19>

<36,20>
ये तु धर्मामृतमिदं यथोक्तं पर्युपासते ।
श्रद्वधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥
</36,20>

<37,29>
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥
</37,29>

<37,30>
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥
</37,30>

<37,32>
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते ॥
</37,32>

<37,33>
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥
</37,33>

<37,34>
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥
</37,34>

<38,24>
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥
</38,24>

<38,25>
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥
</38,25>

<38,26>
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥
</38,26>

<38,27>
ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥
</38,27>

<39,12>
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चग्नौ तत्तेजो विद्धि मामकम् ॥
</39,12>

<39,13>
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥
</39,13>

<39,14>
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥
</39,14>

<39,15>
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद् वेदविदेव चाहम् ॥
</39,15>

<39,16>
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
</39,16>

<39,20>
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥
</39,20>

<41,20>
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥
</41,20>

<41,21>
यत्तु प्रत्युपकारार्थँ फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥
</41,21>

<41,22>
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥
</41,22>

<41,28>
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह ॥
</41,28>

<42,5>
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥
</42,5>

<42,6>
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥
</42,6>

<42,9>
कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥
</42,9>

<42,47>
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥
</42,47>

<42,66>
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥
</42,66>

<43,2>
सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः ।
सर्वतीर्थमयी गङ्गा सर्ववेदमयो मनुः ॥
</43,2>

<43,3>
गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते ।
चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते ॥
</43,3>

<122,37>
युध्यस्व निरहङ्कारो बलवीर्यव्यपाश्रयः ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥
</122,37>

——————————-

** द्रोणपर्व**

<5,8>
न विना नायकं सेना मुहूर्तमपि तिष्ठति ।
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले ॥
</5,8>

<5,9>
यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा ।
द्रवेद्यथेष्टं तद्वत् स्यात् ऋते सेनापतिं बलम् ॥
</5,9>

<5,10>
अदेशिको यथा सार्थः सर्वः कृच्छ्रं समृच्छति ।
अनायका तथा सेना सर्वान् दोषान् समृच्छति ॥
</5,10>

<51,11>
न लुब्धो बुध्यते दोषांल्लोभान्मोहात् प्रवर्तते ।
मधुलिप्सुर्हि नापश्यं प्रपातमहमीदृशम् ॥
</51,11>

<71,14>
विद्वांसः कर्मभिः पुण्यैः स्वर्गमीहन्ति नित्यशः ।
न तु स्वर्गादयं लोकः काम्यते स्वर्गवासिभिः ॥
</71,14>

<71,18>
जीवन्त एव नः शोच्या न तु स्वर्गगतोऽनघ ।
शोचतो हि महाराज अघमेवाभिवर्धते ॥
</71,18>

<72,70>
एतद्वै सर्ववीराणां काङ्क्षितं भरतर्षभ ।
सङ्ग्रामेऽभिमुखो मृत्युं प्राप्नुयादिति मानद ॥
</72,70>

<74,32>
पर्यायेण वयं सर्वे कालेन बलिना हृताः ।
परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः ॥
</74,32>

<74,33>
तपस्तप्त्वा तु यान् लोकान् प्राप्नुवन्ति तपस्विनः ।
क्षत्रधर्माश्रिता वीराः क्षत्रियाः प्राप्नुवन्ति तान् ॥
</74,33>

——————————–

कर्णपर्व

<2,24>
यस्मादभावी भावी वा भवेदर्थो नरं प्रति ।
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद् व्यथते बुधः ॥
</2,24>

<10,12-3>
रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः ।
उपायाः पण्डितैः प्रोक्तास्ते तु दैवमुपाश्रिताः ॥
</10,12,3>

<40,43-4>
एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् ।
यदाजौ निहतः शेते सद्भिः समभिपूजितः ॥
</40,43-4>

<69,18>
अकार्याणां क्रियाणां च संयोगं यः करोति वै ।
कार्याणामक्रियाणां च स पार्थ पुरुषाधमः ॥
</69,18>

<69,31>
सत्यस्य वदिता साधुर्न सत्याद्विद्यते परम् ।
तत्त्वेनैव सुदुर्ज्ञेयं पश्य सत्यमनुष्ठितम् ॥
</69,31>

<69,32>
भवेत् सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् ।
यत्रानृतं भवेत् सत्यं सत्यं चाप्यनृतं भवेत् ॥
</69,32>

<69,33>
विवाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे ।
विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि ॥
</69,33>

<69,34>
सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ।
तत्रानृतं भवेत् सत्यं सत्यं चाप्यनृतं भवेत् ॥
तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम् ॥
</69,34>

<69,35>
भवेत् सत्यमवक्तव्यं न वक्तव्यमनुष्ठितम् ।
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥
</69,35>

<69,36>
किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः ।
सुमहत् प्राप्नुयात् पुण्यं बलाकोऽन्धवधादिव ॥
</69,36>

<69,37>
किमाश्चर्यं पुनर्मूढो धर्मकामो ह्यपण्डितः ।
सुमहृत् प्राप्नुयात् पापमापगास्विव कौशिकः ॥
</69,37>

<69,53-4>
यथा चाल्पश्रुतो मूढो धर्माणामविभागवित् ।
वृद्धानपृष्ट्वा सन्देहं महच्छ्वभ्रमिवार्हति ॥
</69,53-4>

<69,59>
येऽन्यायेन जिहीर्षन्तो धर्ममिच्छन्ति कर्हिचित् ।
अकूजनेन मोक्षं वा नानुकूजेत् कथञ्चन ॥
</69,59>

—————————————

** शल्यपर्व**

<31,24>
अयुद्धेन व्यवस्थानं नैष धर्मः सनातनः ।
अनार्यजुष्टमस्वर्ग्यं रणे राजन् पलायनम् ॥
</31,24>

<51,48-9>
यो ह्यधर्मेण वै ब्रूयाद् गृह्णीयाद्योऽप्यधर्मतः ।
हीयेतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ॥
</51,48-9>

<51,49-50>
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥
</51,49-50>

————————–

** सौप्तिकपर्व**

<2,2>
आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः ।
दैवे पुरुषकारे च परं ताभ्यां न विद्यते ॥
</2,2>

<2,5>
पर्जन्यः पर्वते वर्षन् किं नु साधयते फलम् ।
कृष्टे क्षेत्रे तथा वर्षन् किं न साधयते फलम् ॥
</2,5>

<2,11>
उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् ।
अफलं दृश्यते लोके सम्यगप्युपपादितम् ॥
</2,11>

<2,14>
चेष्टामकुर्वन् लभते यदि किञ्चिद् यदृच्छया ।
यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि ॥
</2,14>

<2,15>
शक्नोति जीवितुं दक्षो नालसः सुखमेधते ।
दृश्यन्ते जीवलोकेऽस्मिन् दक्षाः प्रायो हितैषिणः ॥
</2,15>

<2,21>
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान् सम्यगीहते ।
दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते ॥
</2,21>

<2,24>
वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत् ।
उत्थानस्य फलं सम्यक् तदा स लभतेऽचिरात् ॥
</2,24>

<2,25>
रागात् क्रोधाद् भयाल्लोभाद्योऽर्थानीहेत मानवः ।
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ॥
</2,25>

<3,4>
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् ।
सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति ॥
</3,4>

<3,7>
तस्यैव तु मनुष्यस्य सा सा बुद्धिः तदा तदा ।
कालयोगे विपर्यासं प्राप्यान्योन्यं विपद्यते ॥
</3,7>

<3,20>
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियो मृतः ।
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥
</3,20>

<5,11>
न वधः पूज्यते लोके सुप्तानामिह धर्मतः ।
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ॥
</5,11>

<6,20>
शास्त्रदृष्टानविद्वान् यः समतीत्य जिघांसति ।
स पथः प्रच्युतो धर्म्यात् कुपथे प्रतिहन्यते ॥
</6,20>

<6,21>
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा ।
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ॥
</6,21>

<6,22>
मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च पातयेत् ।
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ।
</6,22>

——————————-

** स्त्रीपर्व**

<1,30>
मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति ।
स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान् ॥
</1,30>

<1,38>
अर्थान्न शोचन् प्राप्नोति न शोचन् विन्दते फलम् ।
न शोचन् श्रियमाप्नोति न शोचन् विन्दते परम् ॥
</1,38>

<1,39>
स्वयमुत्पादयित्वाग्निं वस्त्रेण परिवेष्टयन् ।
दह्यमानो मनस्तापं भजते न स पण्डितः ॥
</1,39>

<2,3>
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥
</2,3>

<2,5>
अयुध्यमानो म्रियते युध्यमानश्च जीवति ।
कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥
</2,5>

<2,15>
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया ।
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ॥
</2,15>

<2,22>
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥
</2,22>

<2,23>
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ।
न मध्यस्थः क्वचित् कालः सर्वं कालः प्रकर्षति ॥
</2,23>

<2,25>
अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः ।
आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः ॥
</2,25>

<2,27>
भैषज्यमेतद्दुःखस्य यदेतन्नानु चिन्तयेत् ।
चिन्त्यमाने हि न व्येति भूयश्चापि विवर्धते ॥
</2,27>

<7,22>
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः ।
तथोन्मोचयते दुःखाद्यथात्मा स्थिरसंयमः ॥
</7,22>

———————————-

** शान्तिपर्व**

<8,16>
अर्थेभ्यो हि विवृद्धेभ्यः सम्भृतेभ्यस्ततस्ततः ।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥
</8,16>

<8,20>
अधनेनार्थकामेन नार्थः शक्यो विधित्सितुम् ।
अर्थैरर्थानि बध्यन्ते गजैरिव महागजाः ॥
</8,20>

<8,24>
यः कृशार्थः कृशगवः कृशभृत्यः कृशातिथिः ।
स वै राजन् कृशो नाम न शरीरकृशः कृशः ॥
</8,24>

<10,6>
प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः ।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥
</10,6>

<10,24>
यदि सन्न्यासतः सिद्धिं राजा कश्चिदवाप्नुयात् ।
पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः ॥
</10,24>

<10,25>
एते हि नित्यसन्न्यासा दृश्यन्ते निरुपद्रवाः ।
अपरिग्रहवन्तश्च सततं ब्रह्मचारिणः ॥
</10,25>

<11,15>
ईहन्ते सर्वभूतानि तदिदं कर्मसञ्जितम् ।
सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ॥
</11,15>

<12,11>
क्रोधहर्षावनादृत्य पैशुन्यं च विशेषतः ।
विप्रो वेदानधीते यः स त्यागी पार्थ उच्यते ॥
</12,11>

<12,12>
आश्रमांस्तुलया सर्वान् धृतानाहुर्मनीषिणः ।
एकतश्च त्रयो राजन् गृहस्थाश्रम एकतः ॥
</12,12>

<12,16>
अभिमानकृतं कर्म नैतत् फलवदुच्यते ।
त्यागयुक्तं महाराज सर्वमेव महाफलम् ॥
</12,16>

<14,13>
न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते ।
न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते ॥
</14,13>

<14,15>
मित्रता सर्वभूतेषु दानमध्ययनं तपः ।
ब्राह्मणस्यैव धर्मः स्यान्न राज्ञो राजसत्तम ॥
</14,15>

<15,2>
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥
</15,2>

<15,9>
वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् ।
दानदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते ॥
</15,9>

<15,14>
नाच्छित्वा परमर्माणि नाकृत्वा कर्म दुष्करम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥
</15,14>

<15,15>
नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः ।
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ॥
</15,15>

<15,16>
य एव देवा हन्तारस्ताल्ँलोकोऽर्चयते भृशम् ।
हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः ॥
</15,16>

<15,17>
हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः ।
वसवो मरुतः साध्याः विश्वेदेवाश्च भारत ॥
</15,17>

<15,18>
एतान् देवान् नमस्यन्ति प्रतापप्रणता जनाः ।
न ब्रह्माणं न धातारं न पूषाणं कथञ्चन ॥
</15,18>

<15,20-1>
सत्त्वैः सत्त्वा हि जीवन्ति दुर्बलैर्बलवत्तराः ।
नकुलो मूषिकानत्ति बिडालो नकुलं तथा ॥
</15,20-1>

<15,21-2>
बिडालमत्ति श्वा राजन् श्वानं व्यालमृगस्तथा ।
तानत्ति पुरुषः सर्वान् पश्य कालो यथागतः ॥
</15,21-2>

<15,37>
न ब्रह्मचार्यधीयीत कल्याणीं न दुहेत गाम् ।
न कन्योद्वहनं गच्छेत् यदि दण्डो न पालयेत् ॥
</15,37>

<15,38>
विष्वग्लोपः प्रवर्तेत भिद्येरन् सर्वसेतवः ।
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥
</15,38>

<15,50>
नात्यन्तं गुणवत् किञ्चित् न चाप्यत्यन्तनिर्गुणम् ।
उभयं सर्वकार्येषु दृश्यते साध्वसाधु वा ॥
</15,50>

<16,8>
द्विविधो जायते व्याधिः शारीरो मानसस्तथा ।
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपलभ्यते ॥
</16,8>

<16,9>
शारीराज्जायते व्याधिर्मानसो नात्र संशयः ।
मानसाज्जायते वापि शारीर इति निश्चयः ॥
</16,9>

<16,10>
शारीरं मानसं दुःखं योऽतीतमनुशोचति ।
दुःखेन लभते दुःखं द्वावनर्थौ च विन्दति ॥
</16,10>

<17,9>
एकोदरकृते व्याघ्रः करोति विघसं बहु ।
तमन्येऽप्युपजीवन्ति मन्दा लोभवशा मृगाः ॥
</17,9>

<17,17>
आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम् ।
ताभ्यां विमुक्तः पापाभ्यां पदमाप्नोति तत्परम् ॥
</17,17>

<17,21>
दृश्यं पश्यति यः पश्यन् स चक्षुष्मान् स बुद्धिमान् ।
अज्ञातानां च विज्ञानात् सम्बोधाद् बुद्धिरुच्यते ॥
</17,21>

<18,23>
श्रिया विहीनैरधनैस्त्यक्तमित्रैरकिञ्चनैः ।
सौखिकैः सम्भृतानर्थान् यः सन्त्यजति किं नु तत् ॥
</18,23>

<18,32>
परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः ।
सिता बहुविधैः पाशैः सञ्चिन्वन्तो वृथामिषम् ॥
</18,32>

<19,9>
तपस्त्यागो विधिरिति निश्चयस्त्वेष धीमताम् ।
परस्परं ज्याय एषां येषां नैश्रेयसी मतिः ॥
</19,9>

<19,24>
अनृतस्यावमन्तारो वक्तारो जनसंसदि ।
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ॥
</19,24>

<20,9>
अनर्हते यद्ददाति न ददाति यदर्हते ।
अर्हानर्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ॥
</20,9>

<20,10>
यज्ञाय सृष्टानि धनानि धात्रा
यज्ञोद्दिष्टः पुरुषो रक्षिता च ।
तस्मात्सर्वं यज्ञ एवोपयोज्यम्
धनं ततोऽनन्तर एव कामः ॥
</20,10>

<21,14>
क्षत्रियो यज्ञशिष्टाशी राजा शास्त्रार्थतत्त्ववित् ।
असाधुनिग्रहरतः साधूनां प्रग्रहे रतः ॥
</21,14>

<22,7>
न त्यागो न पुनर्यज्ञो न तपो मनुजेश्वर ।
क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् ॥
</22,7>

<23,5>
वयांसि पशवश्चैव भूतानि च जनाधिप ।
गृहस्थैरेव धार्यन्ते तस्माच्छ्रेष्ठो गृहाश्रमी ॥
</23,5>

<23,13>
एषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते ।
बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः ॥
</23,13>

<23,15>
भूमिरेतौ निगिरति सर्पो बिलशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥
</23,15>

<24,10>
आददानस्य विजयं विग्रहं च युधिष्ठिर ।
समानधर्मकुशलाः स्थापयन्ति नरेश्वर ॥
</24,10>

<24,22>
विच्छिद्यन्ते समारब्धाः सिद्ध्यन्ते चापि दैवताः ।
कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् ॥
</24,22>

<25,6>
न बुद्धिशास्त्राध्ययनेन शक्यं
प्राप्तुं विशेषं मनुजैरकाले ।
मूर्खोऽपि चाप्नोति कदाचिदर्थान्
कालो हि कार्यं प्रति निर्विशेषः ॥
</25,6>

<25,26>
सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् ।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥
</25,26>

<25,28>
ये च मूढतमा लोके ये च बुद्धेः परं गताः ।
त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः ॥
</25,28>

<25,36>
यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः ।
पौरजानपदामात्याः स राजा राजसत्तमः ॥
</25,36>

<26,18>
धनहेतोर्य ईहेत तस्यानीहा गरीयसी ।
भूयान् दोषो हि वित्तस्य यश्च धर्मस्तदाश्रयः ॥
</26,18>

<27,30>
संयोगा विप्रयोगान्ता जातानां प्राणिनां ध्रुवम् ।
बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च ॥
</27,30>

<28,23>
कुले जन्म तथा वीर्यमारोग्यं रूपमेव च ।
सौभाग्यमुपभोगश्च भवितव्येन लभ्यते ॥
</28,23>

<28,24>
सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् ।
नास्ति पुत्रः समृद्धानां विचित्रं विधिचेष्टितम् ॥
</28,24>

<28,28>
अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः ।
समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् ॥
</28,28>

<28,29>
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।
काष्ठान्यपि हि जीर्यन्ते दरिद्राणां च सर्वशः ॥
</28,29>

<28,38>
मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥
</28,38>

<28,41>
अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ।
पथि सङ्गतमेवैतत् भ्राता माता पिता सखा ॥
</28,41>

<28,49>
न ह्यहानि निवर्तन्ते न मासा न पुनः समाः ।
जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः ॥
</28,49>

<32,12>
ईश्वरो वा भवेत् कर्ता पुरुषो वापि भारत ।
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ॥
</32,12>

<32,13>
ईश्वरेण नियुक्तो हि साध्वसाधु च भारत ।
कुरुते पुरुषः कर्म फलमीश्वरगामि तत् ॥
</32,13>

<33,17>
कालः पर्यायधर्मेण प्राणानादत्त देहिनाम् ।
न तस्य मातापितरौ नानुग्राह्यो हि कश्चन ।
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः ॥
</33,17>

<33,19>
कर्म सूत्रात्मकं विद्धि साक्षिणं शुभपापयोः ।
सुखदुःखगुणोदर्कं कालं कालफलप्रदम् ॥
</33,19>

<33,31>
एकं हत्वा यदि कुले शिष्टानां स्यादनामयम् ।
कुलं हत्वा च राष्ट्रे च न तद्वृत्तोपघातकम् ॥
</33,31>

<56,5>
यथा हि रश्यमोऽश्वस्य द्विरदस्याङ्कुशो यथा ।
नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् ॥
</56,5>

<56,15>
साधारणं द्वयं ह्येतद् दैवमुत्थानमेव च ।
पौरुषं हि परं मन्ये दैवं निश्चित्यमुच्यते ॥
</56,15>

<56,39>
क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः ।
हस्तियन्ता गजस्येव शिर एवारुरुक्षति ॥

</56,39>

<56,40>
तस्मान्नैव मृदुर्नित्यं तीक्ष्णो नैव भवेन्नृपः ।
वासन्तार्क इव श्रीमान् न शीतो न च घर्मदः ॥
</56,40>

<57,41>
राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् ।
राजन्यसति लोकस्य कुतो भार्या कुतो धनम् ॥
</57,41>

<58,14>
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः ।
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ॥
</58,14>

<58,15>
उत्थानवीरः पुरुषो वाग्वीरानधितिष्ठति ।
उत्थानवीरान् वाग्वीराः रमयन्त उपासते ॥
</58,15>

<58,17>
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥
</58,17>

<65,17>
मातापित्रोर्हि शुश्रूषा कर्तव्या सर्वदस्युभिः ।
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ॥
</65,17>

<65,18>
भूमिपानां च शुश्रूषा कर्तव्या सर्वदस्युभिः ।
वेदधर्मक्रियाश्चैवं तेषां धर्मो विधीयते ॥
</65,18>

<65,19>
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च ।
दानानि च यथाकालं द्विजेभ्यो विसृजेत्तदा ॥
</65,19>

<65,20>
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम् ।
भरणं पुत्रदाराणां शौचमद्रोह एव च ॥
</65,20>

<65,21>
दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता ।
पाकयज्ञा महाहश्चि दातव्याः सर्वदस्युभिः ॥
</65,21>

<65,22>
एतान्येवम्प्रकाराणि विहितानि पुरानघ ।
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव ॥
</65,22>

<66,38>
यदा निवृत्तः सर्वस्मात् कामो योऽस्य हृदि स्थितः ।
तदा भवति सत्त्वस्थस्ततो ब्रह्म समश्नुते ॥
</66,38>

<69,4>
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः ।
अजितात्मा नरपतिर्विजयेत कथं रिपून् ॥
</69,4>

<71,17>
यो हि दोग्ध्रीमुपास्ते च स नित्यं विन्दते पयः ।
एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ॥
</71,17>

<71,30>
स्विष्टिः स्वधीतिः सुतपा लोकान् जयति यावतः ।
क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ॥
</71,30>

<78,22>
अद्भ्योऽग्निर्ब्रह्यतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥
</78,22>

<80,26>
कीर्तिप्रधानो यस्तु स्याद् यश्च स्यात् समये स्थितः ।
समर्थान् यश्च न द्वेष्टि नानर्थान् कुरुते च यः ॥
</80,26>

<80,27>
यो न कामाद् भयाल्लोभात् क्रोधाद्वा धर्ममुत्सृजेत् ।
दक्षः पर्याप्तवचनः स ते स्यात् प्रत्यनन्तरः ॥
</80,27>

<84,10>
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च ।
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते ॥
</84,10>

<88,5>
जलौकावत् पिबेद् राष्ट्रं मृदुनैव नराधिपः ।
व्याघ्रीव च हरेत् पुत्रान् सन्दशेन्न च पीडयेत् ॥
</88,5>

<88,7>
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत् ।
ततो भूयस्ततो भूयः क्रमवृद्धिं समाचरेत् ॥
</88,7>

<88,8>
दमयन्निव दम्यानि शश्वद्भारं विवर्धयेत् ।
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् ॥
</88,8>

<88,29>
धनिनः पूजयेन्नित्यं पानाच्छादनभोजनैः ।
वक्तव्याश्चानुगृह्नीध्वं प्रजाः सह मयेति वै ॥
</88,29>

<89,19>
एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् ।
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत ॥
</89,19>

<94,4>
यस्य योधाः सुसन्तुष्टाः सान्त्विताः सूपधास्थिताः ।
अल्पेनापि स दण्डेन महीं जयति पार्थिवः ॥
</94,4>

<99,16>
समानपृष्ठोदरपाणिपादाः
पराभवं भीरवो वै व्रजन्ति ।
अतो भयार्ताः प्रणिपत्य भूयः
कृत्वाञ्जलीनुपतिष्ठन्ति शूरान् ॥
</99,16>

<99,17>
शूरबाहुषु लोकोऽयं लम्बते पुत्रवत् सदा ।
तस्मात्सर्वास्ववस्थासु शूरः सम्मानर्हति ॥
</99,17>

<103,9>
अमित्रमुपसेवेत विश्वस्तवदविश्वसन् ।
प्रियमेव वदेन्नित्यं नाप्रियं किञ्चिदाचरेत् ॥
</103,9>

<103,10>
विरमेच्छुष्कवैरेभ्यः कण्ठायासांश्च वर्जयेत् ।
यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः ॥
</103,10>

<103,12>
तान् द्विजान् कुरुते वश्यांस्तथा युक्तो महीपतिः ।
वशं चोपनयेच्छत्रून्निहन्याच्च पुरन्दर ॥
</103,12>

<103,21>
यो हि कालो व्यतिक्रामेत् पुरुषं कालकाङ्क्षिणम् ।
दुर्लभः स पुनस्तेन कालः कर्म चिकीर्षुणा ॥
</103,21>

<103,30>
प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् ।
अमित्रमपि सेवेत न च जातु विशङ्कयेत् ॥
</103,30>

<103,34>
मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः ।
मा तीक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ॥
</103,34>

<104,22>
अनागतं यन्न ममेति विद्या-
दतिक्रान्तं यन्न ममेति विद्यात् ।
दिष्टं बलीय इति मन्यमाना-
स्ते पण्डितास्तत् सतां स्थानमाहुः ॥
</104,22>

<104,33>
सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा ।
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते सदा ॥
</104,33>

<111,65>
असभ्याः सभ्यसङ्काशाः सभ्याश्चासभ्यदर्शनाः ।
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ॥
</111,65>

<114,17>
मनुष्यशालावृकमप्रशान्तं
जनापवादे सततं निविष्टम् ।
मातङ्गमुन्मत्तमिवोन्नदन्तं
त्यजेत तं श्वानमिवातिरौद्रम् ॥
</114,17>

<114,18>
अधीरजुष्टे पथि वर्तमानं
दमादपेतं विनयाच्च पापम् ।
अरिव्रतं नित्यमभूतिकामं
धिगस्तु तं पापमतिं मनुष्यम् ॥
</114,18>

<120,4>
यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः ।
तथा बहुविधं राजा रूपं कुर्वीत धर्मवित् ॥
</120,4>

<120,10>
मृजावान् स्यात् स्वयूथ्येषु भौमानि चरणैः क्षिपेत् ।
जातपक्षः परिस्पन्देत् प्रेक्षेद् वैकल्यमात्मनः ॥
</120,10>

<120,34>
अहन्यहनि सन्दुह्यान्महीं गामिव बुद्धिमान् ।
यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः ॥
</120,34>

<120,38>
अग्निस्तोको वर्धतेऽप्याज्यसिक्तो
बीजं चैकं रोहसहस्रमेति ।
आयव्ययौ विपुलौ सन्निशाम्य
तस्मादल्पं नावमन्येत वित्तम् ॥
</120,38>

<120,39>
बालोऽप्यबालः स्थविरो रिपुः र्यः
सदा प्रमत्तं पुरुषं निहन्यात् ।
कालेनान्यस्तस्य मूलं हरेत
कालज्ञाता पार्थिवानां वरिष्ठः ॥
</120,39>

<120,40>
हरेत् कीर्तिं धर्ममस्योपरुन्ध्या-
दर्थे दीर्घँ वीर्यमस्योपहन्यात् ।
रिपुर्द्वेष्टा दुर्बलो वा बली वा
तस्माच्छत्रोर्नैव हीयेद्यतात्मा ॥
</120,40>

<120,48>
धनं भोगं पुत्रदारं समृद्धिं
सर्वं लुब्धः प्रार्थयते परेषाम् ।
लुब्धे दोषाः सम्भवन्तीह सर्वे
तस्माद्राजा न प्रगृह्णीत लुब्धम् ॥
</120,48>

<122,51>
प्रजा जागर्ति लोकेऽस्मिन् दण्डो जागर्ति तासु च ।
सर्वं सङ्क्षिपते दण्डः पितामहसमप्रभः ॥
</122,51>

<124,66>
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च शीलमेतत् प्रशस्यते ॥
</124,66>

<124,67>
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् ।
अपत्रपेत वा येन न तत् कुर्यात् कथञ्चन ॥
</124,67>

<124,68>
तत्तु कर्म तथा कुर्याद्येन श्लाघ्येत संसदि ।
शीलं समासेनैतत्ते कथितं कुरुसत्तम ॥
</124,68>

<131,11>
हतो वा दिवमारोहेद्धत्वा वा क्षितिमावसेत् ।
युद्धे हि सन्त्यजन् प्राणान् शक्रस्यैति सलोकताम् ॥
</131,11>

<131,14>
अपचिक्रमिषुः क्षिप्रं साम्ना वा परिसान्त्वयन् ।
विलङ्घयित्वा मन्त्रेण ततः स्वयमुपक्रमेत् ॥
</131,14>

<132,12>
न वाच्यः परिवादोऽयं न श्रोतव्यः कथञ्चन ।
कर्णावथापिधातव्यौ प्रस्थेयं चान्यतो भवेत् ॥
</132,12>

<132,20>
यश्चतुर्गुणसम्पन्नं धर्मं ब्रूयात् स धर्मवित् ।
अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् ॥
</132,20>

<134,6>
अतिधर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते ।
बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमम् ॥
</134,6>

<134,7>
धूमो वायोरिव वशे बलं धर्मोऽनुवर्तते ।
अनीश्वरो बले धर्मो द्रुमे वल्लीव संश्रिता ॥
</134,7>

<134,8>
वशे बलवतां धर्मः सुखं भोगवतामिव ।
नास्त्यसाध्यं बलवतां सर्वं बलवतां शुचि ॥
</134,8>

<134,10>
अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् ।
जीवितं यदपक्रुष्टं यथैव मरणं तथा ॥
</134,10>

<137,1>
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेव सुखमेधेते दीर्घसूत्री विनश्यति ॥
</137,1>

<138,13>
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।
सामर्थ्ययोगात् कार्याणामनित्या वै सदा गतिः ॥
</138,13>

<138,40>
न हि बुद्ध्यान्वितः प्राज्ञो नीतिशास्त्रविशारदः ।
निमज्जत्यापदं प्राप्य महतीं दारुणामपि ॥
</138,40>

<138,62>
कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् ।
स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥
</138,62>

<138,95>
अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते ।
तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥
</138,95>

<138,109>
कृत्वा बलवता सन्धिमात्मानं यो न रक्षति ।
अपथ्यमिव तद्भुक्तं तस्य नार्थाय कल्पते ॥
</138,109>

<138,110>
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचित् सुहृत् ।
अर्थतस्तु निबध्यन्ते मित्राणि रिपवस्तथा ॥
</138,110>

<138,111>
अर्थैरर्था निबध्यन्ते गजैर्वनगजा इव ।
न च कश्चित् कृते कार्ये कर्तारं समवेक्षते ॥
</138,111>

<138,139>
नास्ति जातु रिपुर्नाम मित्रं नाम न विद्यते ।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥
</138,139>

<138,140>
यो यस्मिन् जीवति स्वार्थे पश्येत् पीडां न जीवति ।
स तस्य मित्रं तावत् स्यात् यावन्न स्याद् विपर्ययः ॥
</138,140>

<138,43-44>
यो विश्वसिति मित्रेषु न विश्वसिति शत्रुषु ।
अर्थयुक्तिमविज्ञाय यः प्रीतौ कुरुते मनः ।
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ॥
</138,43-44>

<138,147>
पुत्रं हि मातापितरौ त्यजतः पतितं प्रियम् ।
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् ॥
</138,147>

<138,152>
अर्थार्थी जीवलोकोऽयं न कश्चित् कस्यचित् प्रियः ।
सख्यं सोदर्ययोर्भ्रात्रोः दम्पत्योर्वा परस्परम् ॥
</138,152>

<138,174>
शत्रोरनार्यभूतस्य क्लिष्टस्य क्षुधितस्य च ।
भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् ॥
</138,174>

<138,194>
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा ।
समाहितश्चरेद्युक्त्या कृतार्थश्च न विश्वसेत् ॥
</138,194>

<139,25>
सकृत्कृतापराधस्य तत्रैव परिलम्बतः ।
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ॥
</139,25>

<139,33>
पूर्वं सम्मानना यत्र पश्चाच्चैव विमानना ।
जह्यात्तत् सत्त्ववान् स्थानं शत्रोः सम्मानितोऽपि सन् ॥
</139,33>

<139,42>
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः ।
स्त्रीकृतं वास्तुजं वाग्जं ससापत्नापराधजम् ॥
</139,42>

<139,56>
भिषजो भैषजं कर्तुं कस्मादिच्छन्ति रोगिणः ।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥
</139,56>

<139,79>
यस्तु वर्षमविज्ञाय क्षेत्रं कर्षति कर्षकः ।
हीनः पुरुषकारेण सस्यं नैवाश्नुते ततः ॥
</139,79>

<139,82>
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् ।
उदाराणां तु सत्कर्म दैवं क्लीबा उपासते ॥
</139,82>

<139,83>
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु ।
ग्रस्यते कर्मशीलस्तु सदानर्थैरकिञ्चनः ॥
</139,83>

<139,84>
तस्मात् सर्वं व्यपोह्यार्थं कार्य एव पराक्रमः ।
सर्वस्वमपि सन्त्यज्य कार्यमात्महितं नरैः ॥
</139,84>

<139,89>
गृहस्नेहावबद्धानां नराणामल्पमेधसां ।
कुस्त्री खादति मांसानि माघमां सेगवा इव ॥
</139,89>

<139,93>
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् ।
कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत् ॥
</139,93>

<139,96>
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः ।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥
</139,96>

<140,18>
वहेदमित्रं स्कन्धेन यावत् कालस्य पर्ययः ।
प्राप्तकालं तु विज्ञाय भिद्याद्घटमिवाश्मनि ॥
</140,18>

<140,19>
मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् ।
न तुषाग्निरिवानर्चिर्धूमायेत चिरं नरः ॥
</140,19>

<140,23>
नालसाः प्राप्नुवन्त्यर्थान्
न क्लीबा नाभिमानिनः ।
न च लोकरवाद्भीता
न वै शश्वत्प्रतीक्षिणः ॥
</140,23>

<140,26>
पानमक्षास्तथा नार्यो मृगया गीतवादितम् ।
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥
</140,26>

<140,28>
देशकालौ समासाद्य विक्रमेत विचक्षणः ।
देशकालव्यतीतो हि विक्रमो निष्फलो भवेत् ॥
</140,28>

<140,29>
कालाकालौ सम्प्रधार्य बलाबलमथात्मनः ।
परस्परं बलं ज्ञात्वा तत्रात्मानं नियोजयेत् ॥
</140,29>

<140,36>
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् ।
अनागतसुखाशा च नैव बुद्धिमतां नयः ॥
</140,36>

<140,37>
योऽरिणा सह सन्धाय सुखं स्वपिति विश्वसन् ।
स वृक्षाग्रे प्रसुप्तो वा पतितः प्रतिबुध्यते ॥
</140,37>

<140,38>
कर्मणा येन तेनैव मृदुना दारुणेन च ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥
</140,38>

<140,45>
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् ।
भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति ॥
</140,45>

<140,46>
अवधानेन मौनेन काषायेण जटाजिनैः ।
विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ॥

</140,46>

<140,52>
अमित्रं नैव मुञ्चेत वदन्तं करुणान्यपि ।
दुःखं तत्र न कर्तव्यं हन्यात्पूर्वापकारिणम् ॥
</140,52>

<140,53>
सङ्ग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता ।
निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ॥
</140,53>

<140,57-58>
न शुष्कवैरं कुर्वीत बाहुभ्यां न नदीं तरेत् ।
अनर्थकमनायुष्यं गोविषाणस्य भक्षणम् ॥
दन्ताश्च परिमृज्यन्ते रसश्चापि न लभ्यते ॥

</140,57-58>

<140,60>
नासम्यक् कृतकारी स्यात् अप्रमत्तः सदा भवेत् ।
कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् ॥
</140,60>

<140,62>
गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः ।
अनुद्विग्नः काकशङ्की भुजङ्गचरितं चरेत् ॥
</140,62>

<140,63>
शूरमञ्जलिपातेन भीरुं भेदेन भेदयेत् ।
लुब्धमर्थप्रदानेन समं तुल्येन विग्रहः ॥
</140,63>

<144,12>
वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद् गृहम् ।
प्रासादोऽपि तया हीनः कान्तार इति निश्चितम् ॥
</144,12>

<144,17>
यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथाऽऽरण्यं तथा गृहम् ॥
</144,17>

<145,8>
यो हि कश्चिद् द्विजं हन्यात्
गां च लोकस्य मातरम् ।
शरणागतं च यो हन्यात्
तुल्यं तेषां च पातकम् ॥
</145,8>

<146,5>
अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥
</146,5>

<149,18>
गोघ्नेष्वपि भवेदस्मिन्निष्कृतिः पापकर्मणः ।
न निष्कृतिर्भवेत्तस्य यो हन्याच्च्छरणागतम् ॥
</149,18>

<152,34>
कृत्वा पापं पूर्वमबुद्धिपूर्वं
पुण्यानि चेत्कुरुते बुद्धिपूर्वम् ।
स तत्पापं नुदते कर्मशीलो
वासो यथा मलिनं क्षारयुक्तम् ॥
</152,34>

<157,10>
न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु ।
शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम् ॥
</157,10>

<158,33>
ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च ।
निर्ममा निरहङ्काराः सत्वस्थाः समदर्शिनः ॥
</158,33>

<160,12>
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।
सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति ॥
</160,12>

<160,34>
एक एव दमे दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥
</160,34>

<160,36>
दान्तस्य किमरण्येन तथाऽदान्तस्य भारत ।
यत्रैव निवसेद्दान्तस्तदरण्यं स चाश्रमः ॥
</160,36>

<161,5>
यद्दुरापं भवेत् किञ्चित् तत् सर्वं तपसो भवेत् ।
ऐश्वर्यमृषयः प्राप्ताः तपसैव न संशयः ॥
</161,5>

<164,2>
कण्टकान् कूपमग्निं च वर्जयन्ति यथा नराः ।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥
</164,2>

<165,31>
श्रद्वधानः शुभां विद्यां हीनादपि समाप्नुयात् ।
सुवर्णमपि चामेध्यादाददीताविचारयन् ॥
</165,31>

<167,35>
नवनीतं यथा दघ्नः तथा कामोऽर्थधर्मतः ।
श्रेयस्तैलं हि पिण्याकाद् घृतं श्रेय उदश्वितः ।
श्रेयः पुष्पफलं काष्ठात् कामो धर्मार्थयोर्वरः ॥
</167,35>

<167,36>
पुष्पतो मध्विव रसः काम आभ्यां तथा स्मृतः ।
कामो धर्मार्थयोर्योनिः कामश्चाथ तदात्मकः ॥
</167,36>

<174,32>
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च ।
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः ॥
</174,32>

<175,15>
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥
</175,15>

<176,10>
आकिञ्चन्यं च राज्यं च तुलया समतोलयम् ।
अत्यरिच्यत दारिद्रयं राज्यादपि गुणाधिकम् ॥
</176,10>

<176,22>
नात्यत्क्वा सुखमाप्नोति नात्यत्क्वा विन्दते परम् ।
नात्यत्क्वा चाभयः शेते त्यत्क्वा सर्वं सुखी भव ॥
</176,22>

<177,16>
यः कामानाप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत् ।
प्रापणात् सर्वकामानां परित्यागो विशिष्यते ॥
</177,16>

<178,11>
सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः ।
अद्रोहेणैव भूतानां सारङ्गा इव पक्षिणः ॥
</178,11>

<180,11>
अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः ।
अतीव स्पृहये तेषां येषां सन्तीह पाणयः ॥
</180,11>

<180,13>
न पाणिलाभादधिको लाभः कश्चन विद्यते ।
</180,13>

<180,26>
न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति ।
सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः ॥
</180,26>

<181,16>
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥
</181,16>

<181,18>
दीर्घकालेन तपसा सेवितेन तपोवने ।
धर्मनिर्धूतपापानां सम्पद्यन्ते मनोरथाः ॥
</181,18>

<181,19>
शकुनानामिवाकाशे मत्स्यानामिव चोदके ।
पदं यथा न दृश्येत तथा ज्ञानविदां गतिः ॥
</181,19>

<194,60>
न भवति विदुषां ततो भयं
यदविदुषां सुमहद्भयं भवेत् ।
न हि गतिरधिकास्ति कस्यचित्
सति हि गुणे प्रवदन्त्यतुल्यताम् ॥
</194,60>

<203,11>
न हि खल्वनुपायेन कश्चिदर्थोऽभिसिद्ध्यति ।
सूत्रजालैर्यथा मत्स्यान् बध्नन्ति जलजीविनः ॥
</203,11>

<203,12>
मृगैर्मृगानां ग्रहणं पक्षिणां पक्षिभिर्यथा ।
गजानां च गजैरेव ज्ञेयं ज्ञानेन गृह्यते ॥
</203,12>

<203,13>
अहिरेव ह्यहेः पादान् पश्यतीति हि नः श्रुतम् ।
तद्वन्मूर्तिषु मूर्तिस्थं ज्ञेयं ज्ञानेन पश्यति ॥
</203,13>

<220,7>
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् ।
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयम्भुवा ॥
</220,7>

<220,15>
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः ।
नमस्यः सर्वभूतानां दान्तो भवति बुद्धिमान् ॥
</220,15>

<222,19>
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च ।
लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः ॥
</222,19>

<222,21>
प्रतिरूपतराः केचिद् दृश्यन्ते बुद्धिमत्तराः ।
विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम् ॥
</222,21>

<222,25>
यथा वेदयते कश्चिदोदनं वायसो ह्यदन् ।
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् ॥
</222,25>

<222,35>
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः ।
स्वभावादेव तत् सर्वं यत्किञ्चिदनुपश्यसि ॥
</222,35>

—————————–

विदुरनीतिः

वैशंपायन उवाच ।

द्वाःस्थं प्राह महाप्राङ्य़ो धृतराष्ट्रो महीपतिः ।

विदुरं द्रष्टुमिच्च्हामि तमिहानय माचिरम् ॥ १॥

प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् ।

ईश्वरस्त्वां महाराजो महाप्राङ्य़ दिदृक्षति ॥ २॥

एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् ।

अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय ॥ ३॥

द्वाःस्थ उवाच ।

विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् ।

द्रष्टुमिच्च्हति ते पादौ किं करोतु प्रशाधि माम् ॥ ४॥

धृतराष्ट्र उवाच ।

प्रवेशय महाप्राङ्य़ं विदुरं दीर्घदर्शिनम् ।

अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने ॥ ५॥

द्वाःस्थ उवाच ।

प्रविशान्तः पुरं क्षत्तर्महाराजस्य धीमतः ।

न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम् ॥ ६॥

वैशंपायन उवाच ।

ततः प्रविश्य विदुरो धृतराष्ट्र निवेशनम् ।

अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ॥ ७॥

विदुरोऽहं महाप्राङ्य़ सम्प्राप्तस्तव शासनात् ।

यदि किं चन कर्तव्यमयमस्मि प्रशाधि माम् ॥ ८॥

धृतरष्त्र उवाच ।

सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः ।

अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥ ९॥

तस्याद्य कुरुवीरस्य न विङ्य़ातं वचो मया ।

तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥ १०॥

जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि ।

तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥ ११॥

यतः प्राप्तः सञ्जयः पाण्डवेभ्यो

न मे यथावन्मनसः प्रशान्तिः ।

सवेन्द्रियाण्यप्रकृतिं गतानि

किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता ॥ १२॥

तन्मे ब्रूहि विदुर त्वं यथावन्

मनीषितं सर्वमजातशत्रोः ।

यथा च नस्तात हितं भवेच्च

प्रजाश्च सर्वाः सुखिता भवेयुः ॥ ॥

विदुर उवाच ।

अभियुक्तं बलवता दुर्बलं हीनसाधनम् ।

हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ १३॥

कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप ।

कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे ॥ १४॥

धृतराष्ट्र उवाच ।

श्रोतुमिच्च्हामि ते धर्म्यं परं नैःश्रेयसं वचः ।

अस्मिन्राजर्षिवंशे हि त्वमेकः प्राङ्य़संमतः ॥ १५॥

विदुर उवाच ।

रजा लक्षणसंपन्नस्त्रैलोक्यस्याधिपो भवेत् ।

प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः ॥ ॥

विपरीततरश्च त्वं भागधेये न संमतः ।

अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः ॥ ॥

आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात् ।

गुरुत्वात्त्वयि संप्रेक्ष्य बहून्क्लेषांस्तितिक्षते ॥ ॥

दुर्योधने सौबले च कर्णे दुःशासने तथा ।

एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्च्हसि ॥ ॥

एकस्मात्वृक्षाद्यङ्य़पत्राणि राजन्

स्रुक्च द्रौणी पेठनीपीडने च ।

एतस्माद्राजन्ब्रुवतो मे निबोध

एकस्माद्वै जायतेऽसच्च सच्च ॥ ॥

आत्मङ्य़ानं समारंभस्तितिक्षा धर्मनित्यता ।

यमर्थान्नापकर्षन्ति स वै पण्दित उच्यते ॥ ॥

निषेवते प्रशस्तानि निन्दितानि न सेवते ।

अनास्तिकः श्रद्दधान एतत्पण्डित लक्षणम् ॥ १६॥

क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता ।

यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ १७॥

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।

कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ १८॥

यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।

समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ १९॥

यस्य संसारिणी प्रङ्य़ा धर्मार्थावनुवर्तते ।

कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥ २०॥

यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।

न किं चिदवमन्यन्ते पण्डिता भरतर्षभ ॥ २१॥

क्षिप्रं विजानाति चिरं शृणोति

विङ्य़ाय चार्थं भजते न कामात् ।

नासम्पृष्टो व्यौपयुङ्क्ते परार्थे

तत्प्रङ्य़ानं प्रथमं पण्डितस्य ॥ २२॥

नाप्राप्यमभिवाञ्च्हन्ति नष्टं नेच्च्हन्ति शोचितुम् ।

आपत्सु च न मुह्यन्ति नराः पण्डित बुद्धयः ॥ २३॥

निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः ।

अवन्ध्य कालो वश्यात्मा स वै पण्डित उच्यते ॥ २४॥

आर्य कर्मणि राज्यन्ते भूतिकर्माणि कुर्वते ।

हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ २५॥

न हृष्यत्यात्मसंमाने नावमानेन तप्यते ।

गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥ २६॥

तत्त्वङ्य़ः सर्वभूतानां योगङ्य़ः सर्वकर्मणाम् ।

उपायङ्य़ो मनुष्याणां नरः पण्डित उच्यते ॥ २७॥

प्रवृत्त वाक्चित्रकथ ऊहवान्प्रतिभानवान् ।

आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते ॥ २८॥

श्रुतं प्रङ्य़ानुगं यस्य प्रङ्य़ा चैव श्रुतानुगा ।

असम्भिन्नार्य मर्यादः पण्डिताख्यां लभेत सः ॥ २९॥

अर्थं महान्तमासद्य विद्यामैश्वर्यमेव च ।

विचरत्यसमुन्नद्धो यस्य पण्डित उच्यते ॥ ॥

अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।

अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ ३०॥

स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति ।

मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥ ३१॥

अकामां कामयति यः कामयानां परित्यजेत् ।

बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ॥

अकामान्कामयति यः कामयानान्परिद्विषन् ।

बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ३२॥

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।

कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ ३३॥

संसारयति कृत्यानि सर्वत्र विचिकित्सते ।

चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ ३४॥

श्राद्धं पितृभ्यो न ददाति दैवतानि नार्चति ।

सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम् ॥ ॥

अनाहूतः प्रविशति अपृष्टो बहु भाषते ।

विश्वसत्यप्रमत्तेषु मूढ चेता नराधमः ॥ ३५॥

परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।

यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः ॥ ३६॥

आत्मनो बलमाङ्य़ाय धर्मार्थपरिवर्जितम् ।

अलभ्यमिच्च्हन्नैष्कर्म्यान्मूढ बुद्धिरिहोच्यते ॥ ३७॥

अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते ।

कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ ३८॥

अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा ।

विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥ ३९॥

एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् ।

योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ ४०॥

एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।

भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ४१॥

एकं हन्यान्न वाहन्यादिषुर्मुक्तो धनुष्मता ।

बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ ४२॥

एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।

पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव ॥ ४३॥

एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।

सराष्ट्रं स प्रजं हन्ति राजानं मन्त्रविस्रवः ॥ ४४॥

एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् ।

एको न गच्च्हेदध्वानं नैकः सुप्तेषु जागृयात् ॥ ४५॥

एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे ।

सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ४६॥

एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते ।

यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ४७॥

सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् ।

क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं तथा ॥ ॥

क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते ।

शान्तिशण्खः करे यस्य किं करिष्यति दुर्जनः ॥ ॥

अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ।

अक्षमावान्परं दोषैरात्मानं चैव योजयेत् ॥ ॥

एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।

विद्यैका परमा दृष्टिरहिंसैका सुखावहा ॥ ४८॥

द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव ।

राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ ४९॥

द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते ।

अब्रुवन्परुषं किं चिदसतो नार्थयंस्तथा ॥ ५०॥

द्वाविमौ पुरुषव्याघ्र परप्रत्यय कारिणौ ।

स्त्रियः कामित कामिन्यो लोकः पूजित पूजकः ॥ ५१॥

द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ ।

यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ ५२॥

द्वावेव न विराजेते विपरीतेन कर्मणा ।

गृहस्थश्च निरारंभः कार्यवांश्चैव भिक्षुकः ॥ ॥

द्वाविमौ पुरुषौ राजन्स्वर्गस्य परि तिष्ठतः ।

प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ ५३॥

न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ ।

अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ ५४॥

द्वावंभसि निवेष्टव्यौ गले बद्ध्वा दृढं शिलाम् ।

धनवन्तमदातारं दरिद्रं चातपस्विनम् ॥ ॥

द्वाविमौ पुरुषव्याघ्र सुर्यमण्डलभेदिनौ ।

परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ ॥

त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ ।

कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥ ५५॥

त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।

नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥ ५६॥

त्रय एवाधना राजन्भार्या दासस्तथा सुतः ।

यत्ते समधिगच्च्हन्ति यस्य ते तस्य तद्धनम् ॥ ५७॥

हरणं च परस्वानां परदाराभिमर्शनम् ।

सुहृदश्च परित्यागस्त्रयो दोषा क्षयावहः ॥ ॥

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।

कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ ॥

वरप्रदानं राज्यां च पुत्रजन्म च भारत ।

शत्रोश्च मोक्षणं कृच्च्ह्रात्त्रीणि चैकं च तत्समम् ॥ ॥

भक्तं च बजमानं च तवास्मीति वादिनम् ।

त्रीनेतान् शरणं प्राप्तान्विषमेऽपि न सन्त्यजेत् ॥ ॥

चत्वारि राङ्य़ा तु महाबलेन

वर्ज्यान्याहुः पण्डितस्तानि विद्यात् ।

अल्पप्रङ्य़ैः सह मन्त्रं न कुर्यान्

न दीर्घसूत्रैरलसैश्चारणैश्च ॥ ५८॥

चत्वारि ते तात गृहे वसन्तु

श्रियाभिजुष्टस्य गृहस्थ धर्मे ।

वृद्धो ङ्य़ातिरवसन्नः कुलीनः

सखा दरिद्रो भगिनी चानपत्या ॥ ५९॥

चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः ।

पृच्च्हते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ ६०॥

देवतानां च सङ्कल्पमनुभावं च धीमताम् ।

विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ ६१॥

चत्वारि कर्माण्यभयण्कराणि

भयं प्रयच्च्हन्त्ययथाकृतानि ।

मानाग्निहोत्रं उत मानमौनं

मानेनाधीतमुत मानयङ्य़ः ॥ ॥

पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः ।

पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥ ६२॥

पञ्चैव पूजयंल्लोके यशः प्राप्नोति केवलम् ।

देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ ६३॥

पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि ।

मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ ६४॥

पञ्चेन्द्रियस्य मर्त्यस्य च्हिद्रं चेदेकमिन्द्रियम् ।

ततोऽस्य स्रवति प्रङ्य़ा दृतेः पादादिवोदकम् ॥ ६५॥

षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्च्हता ।

निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ॥ ६६॥

षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे ।

अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ ६७॥

अरक्षितारं राजानं भार्यां चाप्रिय वादिनीम् ।

ग्रामकारं च गोपालं वनकामं च नापितम् ॥ ६८॥

षडेव तु गुणाः पुंसा न हातव्याः कदाचन ।

सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ ६९॥

अर्थागमो नित्यमरोगिता च

प्रिया च भार्या प्रियवादिनी च ।

वश्यश्च पुत्रोऽर्थकरी च विद्या

षट् जीवलोकस्य सुखानि राजन् ॥ ॥

षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्च्हति ।

न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ ७०॥

षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते ।

चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥ ७१॥

प्रमदाः कामयानेषु यजमानेषु याजकाः ।

राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥ ७२॥

षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात् ।

गावः सेवा कृषिर्भार्या विद्या वृषलसंगतिः ॥ ॥

षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् ।

आचार्यं शिक्षिता शिष्याः कृतदारश्च मातरम् ॥ ॥

नारिं विगतकामस्तु कृतार्थाश्च प्रयोजकम् ।

नावं निस्तीर्णकान्तारा नातुराश्च चिकित्सकम् ॥ ॥

आरोग्यमानृण्यमविप्रवासः

सद्भिर्मनुष्यैः सह संप्रयोगः ।

स्वप्रत्यया वृत्तिरभीतवासः

षट् जीवलोकस्य सुखानि राजन् ॥ ॥

ईर्षुर्घृणी नसन्तुष्टः क्रोधनो नित्यशण्कितः ।

परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ ॥

सप्त दोषाः सदा राङ्य़ा हातव्या व्यसनोदयाः ।

प्रायशो यैर्विनश्यन्ति कृतमूलाश्च पार्थिवाः ॥ ७३॥

स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् ।

महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ ७४॥

अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।

ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ ७५॥

ब्राह्मण स्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।

रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ ७६॥

नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति ।

एतान्दोषान्नरः प्राङ्य़ो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥ ७७॥

अष्टाविमानि हर्षस्य नव नीतानि भारत ।

वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥ ७८॥

समागमश्च सखिभिर्महांश्चैव धनागमः ।

पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने ॥ ७९॥

समये च प्रियालापः स्वयूथेषु च संनतिः ।

अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ ८०॥

अष्टौ गुणाः पुरुषं दीपयन्ति

प्रङ्य़ा च कौल्यं च दमः श्रुतं च ।

पराक्रमश्चाबहुभाषिता च

दानं यथाशक्ति कृतङ्य़ता च ॥ ॥

नवद्वारमिदं वेश्म त्रिस्थूणं पञ्च साक्षिकम् ।

क्षेत्रङ्य़ाधिष्ठितं विद्वान्यो वेद स परः कविः ॥ ८१॥

दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् ।

मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ ८२॥

त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश ।

तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः ॥ ८३॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।

पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ॥ ८४॥

यः काममन्यू प्रजहाति राजा

पात्रे प्रतिष्ठापयते धनं च ।

विशेषविच्च्ह्रुतवान्क्षिप्रकारी

तं सर्वलोकः कुरुते प्रमाणम् ॥ ८५॥

जानाति विश्वासयितुं मनुष्यान्

विङ्य़ात दोषेषु दधाति दण्डम् ।

जानाति मात्रां च तथा क्षमां च

तं तादृशं श्रीर्जुषते समग्रा ॥ ८६॥

सुदुर्बलं नावजानाति कंचिद्

युक्तो रिपुं सेवते बुद्धिपूर्वम् ।

न विग्रहं रोचयते बलस्थैः

काले च यो विक्रमते स धीरः ॥ ८७॥

प्राप्यापदं न व्यथते कदा चिद्

उद्योगमन्विच्च्हति चाप्रमत्तः ।

दुःखं च काले सहते जितात्मा

धुरन्धरस्तस्य जिताः सपत्नाः ॥ ८८॥

अनर्थकं विप्र वासं गृहेभ्यः

पापैः सन्धिं परदाराभिमर्शम् ।

दम्भं स्तैन्यं पैशुनं मद्य पानं

न सेवते यः स सुखी सदैव ॥ ८९॥

न संरम्भेणारभतेऽर्थवर्गम्

आकारितः शंसति तथ्यमेव ।

न मात्रार्थे रोचयते विवादं

नापूजितः कुप्यति चाप्यमूढः ॥ ९०॥

न योऽभ्यसूयत्यनुकम्पते च

न दुर्बलः प्रातिभाव्यं करोति ।

नात्याह किं चित्क्षमते विवादं

सर्वत्र तादृग्लभते प्रशंसाम् ॥ ९१॥

यो नोद्धतं कुरुते जातु वेषं

न पौरुषेणापि विकत्थतेऽन्यान् ।

न मूर्च्च्हितः कटुकान्याह किं चित्

प्रियं सदा तं कुरुते जनोऽपि ॥ ९२॥

न वैरमुद्दीपयति प्रशान्तं

न दर्ममारोहति नास्तमेति ।

न दुर्गतोऽस्मीति करोति मन्युं

तमार्य शीलं परमाहुरग्र्यम् ॥ ९३॥

न स्वे सुखे वै कुरुते प्रहर्षं

नान्यस्य दुःखे भवति प्रतीतः ।

दत्त्वा न पश्चात्कुरुतेऽनुतापं

न कत्थते सत्पुरुषार्य शीलः ॥ ९४॥

देशाचारान्समयाञ्जातिधर्मान्

बुभूषते यस्तु परावरङ्य़ः ।

स तत्र तत्राधिगतः सदैव

महाजनस्याधिपत्यं करोति ॥ ९५॥

दम्भं मोहं मत्सरं पापकृत्यं

राजद्विष्टं पैशुनं पूगवैरम् ।

मत्तोन्मत्तैर्दुर्जनैश्चापि वादं

यः प्रङ्य़ावान्वर्जयेत्स प्रधानः ॥ ९६॥

दमं शौचं दैवतं मङ्गलानि

प्रायश्चित्तं विविधांल्लोकवादान् ।

एतानि यः कुरुते नैत्यकानि

तस्योत्थानं देवता राधयन्ति ॥ ९७॥

समैर्विवाहं कुरुते न हीनैः

समैः सख्यं व्यवहारं कथाश्च ।

गुणैर्विशिष्टांश्च पुरो दधाति

विपश्चितस्तस्य नयाः सुनीताः ॥ ९८॥

मितं भुङ्क्ते संविभज्याश्रितेभ्यो

मितं स्वपित्यमितं कर्मकृत्वा ।

ददात्यमित्रेष्वपि याचितः सं

स्तमात्मवन्तं प्रजहात्यनर्थाः ॥ ९९॥

चिकीर्षितं विप्रकृतं च यस्य

नान्ये जनाः कर्म जानन्ति किं चित् ।

मन्त्रे गुप्ते सम्यगनुष्ठिते च

स्वल्पो नास्य व्यथते कश्चिदर्थः ॥ १००॥

यः सर्वभूतप्रशमे निविष्टः

सत्यो मृदुर्दानकृच्च्हुद्ध भावः ।

अतीव सञ्ज्ञायते ङ्य़ातिमध्ये

महामणिर्जात्य इव प्रसन्नः ॥ १०१॥

य आत्मनापत्रपते भृशं नरः

स सर्वलोकस्य गुरुर्भवत्युत ।

अनन्त तेजाः सुमनाः समाहितः

स्वतेजसा सूर्य इवावभासते ॥ १०२॥

वने जाताः शापदग्धस्य राङ्य़ः

पाण्डोः पुत्राः पञ्च पञ्चेन्द्र कल्पाः ।

त्वयैव बाला वर्धिताः शिक्षिताश्च

तवादेशं पालयन्त्याम्बिकेय ॥ १०३॥

प्रदायैषामुचितं तात राज्यं

सुखी पुत्रैः सहितो मोदमानः ।

न देवानां नापि च मानुषाणां

भविष्यसि त्वं तर्कणीयो नरेन्द्र ॥ १०४॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये त्रयस्त्रंशोऽध्यायः ॥ ३३॥

।ज़्ज़्ज़्{अध्यायः ३४}

धृतराष्ट्र उवाच ।

जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि ।

तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ १॥

त्वं मां यथावद्विदुर प्रशाधि

प्रङ्य़ा पूर्वं सर्वमजातशत्रोः ।

यन्मन्यसे पथ्यमदीनसत्त्व

श्रेयः करं ब्रूहि तद्वै कुरूणाम् ॥ २॥

पापाशङ्गी पापमेव नौपश्यन्

पृच्च्हामि त्वां व्याकुलेनात्मनाहम् ।

कवे तन्मे ब्रूहि सर्वं यथावन्

मनीषितं सर्वमजातशत्रोः ॥ ३॥

विदुर उवाच ।

शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् ।

अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्च्हेत्पराभवम् ॥ ४॥

तस्माद्वक्ष्यामि ते राजन्भवमिच्च्हन्कुरून्प्रति ।

वचः श्रेयः करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥ ५॥

मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत ।

अनुपाय प्रयुक्तानि मा स्म तेषु मनः कृथाः ॥ ६॥

तथैव योगविहितं न सिध्येत्कर्म यन्नृप ।

उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥ ७॥

अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु ।

सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥ ८॥

अनुबन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम् ।

उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ ९॥

यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये ।

कोशे जनपदे दण्डे न स राज्यावतिष्ठते ॥ १०॥

यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति ।

युक्तो धर्मार्थयोर्ङ्य़ाने स राज्यमधिगच्च्हति ॥ ११॥

न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् ।

श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ १२॥

भक्ष्योत्तम प्रतिच्च्हन्नं मत्स्यो बडिशमायसम् ।

रूपाभिपाती ग्रसते नानुबन्धमवेक्षते ॥ १३॥

यच्च्हक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् ।

हितं च परिणामे यत्तदद्यं भूतिमिच्च्हता ॥ १४॥

वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।

स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ १५॥

यस्तु पक्वमुपादत्ते काले परिणतं फलम् ।

फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ १६॥

यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः ।

तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥ १७॥

पुष्पं पुष्पं विचिन्वीत मूलच्च्हेदं न कारयेत् ।

मालाकार इवारामे न यथाङ्गारकारकः ॥ १८॥

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।

इति कर्माणि सञ्cइन्त्य कुर्याद्वा पुरुषो न वा ॥ १९॥

अनारभ्या भवन्त्यर्थाः के चिन्नित्यं तथागताः ।

कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥ २०॥

कांश्चिदर्थान्नरः प्राङ्य़ो लभु मूलान्महाफलान् ।

क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ २१॥

ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव ।

आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥ २२॥

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।

प्रसादयति लोकं यस्तं लोकोऽनुप्रसीदति ॥ २३॥

यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव ।

सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ २४॥

पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा ।

वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ २५॥

धर्ममाचरतो राङ्य़ः सद्भिश्चरितमादितः ।

वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धनी ॥ २६॥

अथ सन्त्यजतो धर्ममधर्मं चानुतिष्ठतः ।

प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥ २७॥

य एव यत्नः क्रियते प्रर राष्ट्रावमर्दने ।

स एव यत्नः कर्तव्यः स्वराष्ट्र परिपालने ॥ २८॥

धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् ।

धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ २९॥

अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः ।

सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ ३०॥

सुव्याहृतानि सुधियां सुकृतानि ततस्ततः ।

सञ्cइन्वन्धीर आसीत शिला हारी शिलं यथा ॥ ३१॥

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।

चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ ३२॥

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।

अथ या सुदुहा राजन्नैव तां विनयन्त्यपि ॥ ३३॥

यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि ।

यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि ॥ ३४॥

एतयोपमया धीरः संनमेत बलीयसे ।

इन्द्राय स प्रणमते नमते यो बलीयसे ॥ ३५॥

पर्जन्यनाथाः पशवो राजानो मित्र बान्धवाः ।

पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेद बान्धवाः ॥ ३६॥

सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।

मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ ३७॥

मानेन रक्ष्यते धान्यमश्वान्रक्ष्यत्यनुक्रमः ।

अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥ ३८॥

न कुलं वृत्ति हीनस्य प्रमाणमिति मे मतिः ।

अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ ३९॥

य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये ।

सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥ ४०॥

अकार्य करणाद्भीतः कार्याणां च विवर्जनात् ।

अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ ४१॥

विद्यामदो धनमदस्तृतीयोऽभिजनो मदः ।

एते मदावलिप्तानामेत एव सतां दमाः ॥ ४२॥

असन्तोऽभ्यर्थिताः सद्भिः किं चित्कार्यं कदा चन ।

मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥ ४३॥

गतिरात्मवतां सन्तः सन्त एव सतां गतिः ।

असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥ ४४॥

जिता सभा वस्त्रवता समाशा गोमता जिता ।

अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ ४५॥

शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति ।

न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥ ४६॥

आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् ।

लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥ ४७॥

सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा ।

क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ ४८॥

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।

दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ॥ ४९॥

अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् ।

उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ ५०॥

ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।

ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥ ५१॥

इन्द्रियौरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः ।

तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ ५२॥

यो जितः पञ्चवर्गेण सहजेनात्म कर्शिना ।

आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराड् ॥ ५३॥

अविजित्य य आत्मानममात्यान्विजिगीषते ।

अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ॥ ५४॥

आत्मानमेव प्रथमं देशरूपेण यो जयेत् ।

ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ ५५॥

वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।

परीक्ष्य कारिणं धीरमत्यन्तं श्रीर्निषेवते ॥ ५६॥

रथः शरीरं पुरुषस्य राजन्

नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः ।

तैरप्रमत्तः कुशलः सदश्वैर्

दान्तैः सुखं याति रथीव धीरः ॥ ५७॥

एतान्यनिगृहीतानि व्यापादयितुमप्यलम् ।

अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ ५८॥

अनर्थमर्थतः पश्यन्नर्तं चैवाप्यनर्थतः ।

इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥ ५९॥

धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः ।

श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते ॥ ६०॥

अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः ।

इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥ ६१॥

आत्मनात्मानमन्विच्च्हेन्मनो बुद्धीन्द्रियैर्यतैः ।

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ६२॥

क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ ।

कामश्च राजन्क्रोधश्च तौ प्राङ्य़ानं विलुम्पतः ॥ ६३॥

समवेक्ष्येह धर्मार्थौ सम्भारान्योऽधिगच्च्हति ।

स वै सम्भृत सम्भारः सततं सुखमेधते ॥ ६४॥

यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान् ।

जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥ ६५॥

दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्म भिः ।

इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ॥ ६६॥

असन्त्यागात्पापकृतामपापांस्

तुल्यो दण्डः स्पृशते मिश्रभावात् ।

शुष्केणार्द्रं दह्यते मिश्रभावात्

तस्मात्पापैः सह सन्धिं न कुर्यात् ॥ ६७॥

निजानुत्पततः शत्रून्पञ्च पञ्च प्रयोजनान् ।

यो मोहान्न निघृह्णाति तमापद्ग्रसते नरम् ॥ ६८॥

अनसूयार्जवं शौचं सन्तोषः प्रियवादिता ।

दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ ६९॥

आत्मङ्य़ानमनायासस्तितिक्षा धर्मनित्यता ।

वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥ ७०॥

आक्रोश परिवादाभ्यां विहिंसन्त्यबुधा बुधान् ।

वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ ७१॥

हिंसा बलमसाधूनां राङ्य़ां दण्डविधिर्बलम् ।

शुश्रूषा तु बलं स्त्रीणां क्षमागुणवतां बलम् ॥ ७२॥

वाक्संयमो हि नृपते सुदुष्करतमो मतः ।

अर्थवच्च विचित्रं च न शक्यं बहुभाषितुम् ॥ ७३॥

अभ्यावहति कल्याणं विविधा वाक्सुभाषिता ।

सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ ७४॥

संरोहति शरैर्विद्धं वनं परशुना हतम् ।

वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ ७५॥

कर्णिनालीकनाराचा निर्हरन्ति शरीरतः ।

वाक्षल्यस्तु न निर्हर्तुं शक्यो हृदि शयो हि सः ॥ ७६॥

वाक्सायका वदनान्निष्पतन्ति

यैराहतः शोचति रत्र्यहानि ।

परस्य नामर्मसु ते पतन्ति

तान्पण्डितो नावसृजेत्परेषु ॥ ७७॥

यस्मै देवाः प्रयच्च्हन्ति पुरुषाय पराभवम् ।

बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ॥ ७८॥

बुद्धौ कलुष भूतायां विनाशे प्रत्युपस्थिते ।

अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ ७९॥

सेयं बुद्धिः परीता ते पुत्राणां तव भारत ।

पाण्डवानां विरोधेन न चैनाम् अवबुध्यसे ॥ ८०॥

राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत् ।

शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥ ८१॥

अतीव सर्वान्पुत्रांस्ते भागधेय पुरस्कृतः ।

तेजसा प्रङ्य़या चैव युक्तो धर्मार्थतत्त्ववित् ॥ ८२॥

आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः ।

गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ॥ ८३॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि

विदुरनीतिवाक्ये चतुस्त्रिंशोऽध्यायः ॥ ३४॥

।ज़्ज़्ज़्{अध्यायः ३५}

धृतराष्ट्र उवाच ।

ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः ।

शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ १॥

विदुर उवाच ।

सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् ।

उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ २॥

आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो ।

इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ ३॥

यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते ।

तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥ ४॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ ५॥

केशिन्युवाच ।

किं ब्राह्मणाः स्विच्च्ह्रेयांसो दितिजाः स्विद्विरोचन ।

अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥ ६॥

विरोचन उवाच ।

प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः ।

अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥ ७॥

केशिन्युवाच ।

इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन ।

सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥ ८॥

विरोचन उवाच ।

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।

सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥ ९॥

विदुर उवाच ।

अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् ।

एकत्वमुपसम्पन्नो न त्वासेयं त्वया सह ॥ १०॥

विरोचन उवाच ।

अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् ।

सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ ११॥

सुधन्वोवाच ।

पितापि ते समासीनमुपासीतैव मामधः ।

बालः सुखैधितो गेहे न त्वं किं चन बुध्यसे ॥ १२॥

विरोचन उवाच ।

हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः ।

सुधन्वन्विपणे तेन प्रश्नं पृच्च्हाव ये विदुः ॥ १३॥

सुधन्वोवाच ।

हिरण्यं च गवाश्वं च तवैवास्तु विरोचन ।

प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्च्हाव ये विदुः ॥ १४॥

विरोचन उवाच ।

आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते ।

न हि देवेष्वहं स्थाता न मनुष्येषु कर्हि चित् ॥ १५॥

सुधन्वोवाच ।

पितरं ते गमिष्यावः प्राणयोर्विपणे कृते ।

पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ॥ १६॥

प्रह्लाद उवाच ।

इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह ।

आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ॥ १७॥

किं वै सहैव चरतो न पुरा चरतः सह ।

विरोचनैतत्पृच्च्हामि किं ते सख्यं सुधन्वना ॥ १८॥

विरोचन उवाच ।

न मे सुधन्वना सख्यं प्राणयोर्विपणावहे ।

प्रह्राद तत्त्वामृप्च्च्हामि मा प्रश्नमनृतं वदीः ॥ १९॥

प्रह्लाद उवाच ।

उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने ।

ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता ॥ २०॥

सुधन्वोवाच ।

उदकं मधुपर्कं च पथ एवार्पितं मम ।

प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्च्हतोः ॥ २१॥

प्रह्लाद उवाच ।

पुर्तो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः ।

तयोर्विवदतोः प्रश्नं कथमस्मद्विभो वदेत् ॥ २२॥

अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् ।

एतत्सुधन्वन्पृच्च्हामि दुर्विवक्ता स्म किं वसेत् ॥ २३॥

सुधन्वोवाच ।

यां रात्रिमधिविन्ना स्त्री यां चैवाक्ष पराजितः ।

यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥ २४॥

नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः ।

अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् ॥ २५॥

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।

शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ २६॥

हन्ति जातानजातांश्च हिरण्यार्थोऽनृतं वदन् ।

सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ २७॥

प्रह्लाद उवाच ।

मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन ।

मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ २८॥

विरोचन सुधन्वायं प्राणानामीश्वरस्तव ।

सुधन्वन्पुनरिच्च्हामि त्वया दत्तं विरोचनम् ॥ २९॥

सुधन्वोवाच ।

यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः ।

पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ॥ ३०॥

एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः ।

पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम ॥ ३१॥

विदुर उवाच ।

तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि ।

मा गमः स सुतामात्योऽत्ययं पुत्राननुभ्रमन् ॥ ३२॥

न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।

यं तु रक्षितुमिच्च्हन्ति बुद्ध्या संविभजन्ति तम् ॥ ३३॥

यथा यथा हि पुरुषः कल्याणे कुरुते मनः ।

तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ ३४॥

न च्हन्दांसि वृजिनात्तारयन्ति

आयाविनं मायया वर्तमानम् ।

नीडं शकुन्ता इव जातपक्षाश्

च्हन्दांस्येनं प्रजहत्यन्तकाले ॥ ३५॥

मत्तापानं कलहं पूगवैरं

भार्यापत्योरन्तरं ङ्य़ातिभेदम् ।

राजद्विष्टं स्त्रीपुमांसोर्विवादं

वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्ठः ॥ ३६॥

सामुद्रिकं वणिजं चोरपूर्वं

शलाक धूर्तं च चिकित्सकं च ।

अरिं च मित्रं च कुशीलवं च

नैतान्साख्येष्वधिकुर्वीत सप्त ॥ ३७॥

मानाग्निहोत्रमुत मानमौनं

मानेनाधीतमुत मानयङ्य़ः ।

एतानि चत्वार्यभयङ्कराणि

भयं प्रयच्च्हन्त्ययथा कृतानि ॥ ३८॥

अगार दाही गरदः कुण्डाशी सोमविक्रयी ।

पर्व कारश्च सूची च मित्र ध्रुक्पारदारिकः ॥ ३९॥

भ्रूणहा गुरु तल्पी च यश्च स्यात्पानपो द्विजः ।

अतितीक्ष्णश्च काकश्च नास्तिको वेद निन्दकः ॥ ४०॥

स्रुव प्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि ।

रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्मण्हणैः समाः ॥ ४१॥

तृणोक्लया ङ्य़ायते जातरूपं

युगे भद्रो व्यवहारेण साधुः ।

शूरो भयेष्वर्थकृच्च्ह्रेषु धीरः

कृच्च्ह्रास्वापत्सु सुहृदश्चारयश् च ॥ ४२॥

जरा रूपं हरति हि धैर्यमाशा

मृत्युः प्राणान्धर्मचर्यामसूया ।

क्रोधः श्रियं शीलमनार्य सेवा

ह्रियं कामः सर्वमेवाभिमानः ॥ ४३॥

श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते ।

दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥ ४४॥

अष्टौ गुणाः पुरुषं दीपयन्ति

प्रङ्य़ा च कौल्यं च दमः श्रुतं च ।

पराक्रमश्चाबहु भाषिता च

दानं यथाशक्ति कृतङ्य़ता च ॥ ४५॥

एतान्गुणांस्तात महानुभावान्

एको गुणः संश्रयते प्रसह्य ।

राजा यदा सत्कुरुते मनुष्यं

सर्वान्गुणानेष गुणोऽतिभाति ॥ ४६॥

अष्टौ नृपेमानि मनुष्यलोके

स्वर्गस्य लोकस्य निदर्शनानि ।

चत्वार्येषामन्ववेतानि सद्भिश्

चत्वार्येषामन्ववयन्ति सन्तः ॥ ४७॥

यङ्य़ो दानमध्ययनं तपश् च

चत्वार्येतान्यन्ववेतानि सद्भिः ।

दमः सत्यमार्जवमानृशंस्यं

चत्वार्येतान्यन्ववयन्ति सन्तः ॥ ४८॥

न सा सभा यत्र न सन्ति वृद्धा

न ते वृद्धा ये न वदन्ति धर्मम् ।

नासौ हर्मो यतन सत्यमस्ति

न तत्सत्यं यच्च्हलेनानुविद्धम् ॥ ४९॥

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।

शौर्यं च चिरभाष्यं च दशः संसर्गयोनयः ॥ ५०॥

पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् ।

पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ ५१॥

पापं प्रङ्य़ां नाशयति क्रियमाणं पुनः पुनः ।

नष्टप्रङ्य़ः पापमेव नित्यमारभते नरः ॥ ५२॥

पुण्यं प्रङ्य़ां वर्धयति क्रियमाणं पुनः पुनः ।

वृद्धप्रङ्य़ः पुण्यमेव नित्यमारभते नरः ॥ ५३॥

असूयको दन्द शूको निष्ठुरो वैरकृन्नरः ।

स कृच्च्ह्रं महदाप्नोतो नचिरात्पापमाचरन् ॥ ५४॥

अनसूयः कृतप्रङ्य़्टः शोभनान्याचरन्सदा ।

अकृच्च्ह्रात्सुखमाप्नोति सर्वत्र च विराजते ॥ ५५॥

प्रङ्य़ामेवागमयति यः प्राङ्य़ेभ्यः स पण्डितः ।

प्राङ्य़ो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ ५६॥

दिवसेनैव तत्कुर्याद्येन रातौ सुखं वसेत् ।

अष्ट मासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ ५७॥

पूर्वे वयसि तत्कुर्याद्येन वृद्धसुखं वसेत् ।

यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ ५८॥

जीर्णमन्नं प्रशंसन्ति भार्यं च गतयौवनाम् ।

शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् ॥ ५९॥

धनेनाधर्मलब्धेन यच्च्हिद्रमपिधीयते ।

असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ६०॥

गुरुरात्मवतां शास्ता शासा राजा दुरात्मनाम् ।

अथ प्रच्च्हन्नपापानां शास्ता वैवस्वतो यमः ॥ ६१॥

ऋषीणां च नदीनां च कुलानां च महामनाम् ।

प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ ६२॥

द्विजातिपूजाभिरतो दाता ङ्य़ातिषु चार्जवी ।

क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥ ६३॥

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।

शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ६४॥

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।

तानि जङ्घा जघन्यानि भारप्रत्यवराणि च ॥ ६५॥

दुर्योधने च शकुनौ मूढे दुःशासने तथा ।

कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्च्हसि ॥ ६६॥

सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ ।

पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥ ६७॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि

विदुरहितवाक्ये पJण्चत्रिंशोऽध्यायः ॥ ३५॥

।ज़्ज़्ज़्{अध्यायः ३६}

विदुर उवाच ।

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।

आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ १॥

चरन्तं हंसरूपेण महर्षिं संशितव्रतम् ।

साध्या देवा महाप्राङ्य़ं पर्यपृच्च्हन्त वै पुरा ॥ २॥

साध्या ऊचुः ।

साध्या देवा वय्मस्मो महर्षे

दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् ।

श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः

काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ ३॥

हंस उवाच ।

एतत्कार्यममराः संश्रुतं मे

धृतिः शमः सत्यधर्मानुवृत्तिः ।

ग्रन्थिं विनीय हृदयस्य सर्वं

प्रियाप्रिये चात्मवशं नयीत ॥ ४॥

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः ।

आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ५॥

नाक्रोशी स्यान्नावमानी परस्य

मित्रद्रोही नोत नीचोपसेवी ।

न चातिमानी न च हीनवृत्तो

रूक्षां वाचं रुशतीं वर्जयीत ॥ ६॥

मर्माण्यस्थीनि हृदयं तथासून्

घोरा वाचो निर्दहन्तीह पुंसाम् ।

तस्माद्वाचं रुशतीं रूक्षरूपां

धर्मारामो नित्यशो वर्जयीत ॥ ७॥

अरुं तुरं परुषं रूक्षवाचं

वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।

विद्यादलक्ष्मीकतमं जनानां

मुखे निबद्धां निरृतिं वहन्तम् ॥ ८॥

परश्चेदेनमधिविध्येत बाणैर्

भृशं सुतीक्ष्णैरनलार्क दीप्तैः ।

विरिच्यमानोऽप्यतिरिच्यमानो

विद्यात्कविः सुकृतं मे दधाति ॥ ९॥

यदि सन्तं सेवते यद्यसन्तं

तपस्विनं यदि वा स्तेनमेव ।

वासो यथा रङ्ग वशं प्रयाति

तथा स तेषां वशमभ्युपैति ॥ १०॥

वादं तु यो न प्रवदेन्न वादयेद्

यो नाहतः प्रतिहन्यान्न घातयेत् ।

यो हन्तुकामस्य न पापमिच्च्हेत्

तस्मै देवाः स्पृहयन्त्यागताय ॥ ११॥

अव्याहृतं व्याहृताच्च्ह्रेय आहुः

सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।

प्रियंवदेद्व्याहृतं तत्तृतीयं

धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥ १२॥

यादृशैः संविवदते यादृशांश् चोपसेवते ।

यादृगिच्च्हेच्च भवितुं तादृग्भवति पूरुषः ॥ १३॥

यतो यतो निवर्तते ततस्ततो विमुच्यते ।

निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥ १४॥

न जीयते नोत जिगीषतेऽन्यान्

न वैरक्कृच्चाप्रतिघातकश् च ।

निन्दा प्रशंसासु समस्वभावो

न शोचते हृष्यति नैव चायम् ॥ १५॥

भावमिच्च्हति सर्वस्य नाभावे कुरुते मतिम् ।

सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥ १६॥

नानर्थकं सान्त्वयति प्रतिङ्य़ाय ददाति च ।

राद्धापराद्धे जानाति यः स मध्यमपूरुषः ॥ १७॥

दुःशासनस्तूपहन्ता न शास्ता

नावर्तते मन्युवशात्कृतघ्नः ।

न कस्य चिन्मित्रमथो दुरात्मा

कलाश्चैता अधमस्येह पुंसः ॥ १८॥

न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः ।

निराकरोति मित्राणि यो वै सोऽधम पूरुषः ॥ १९॥

उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् ।

अधमांस्तु न सेवेत य इच्च्हेच्च्ह्रेय आत्मनः ॥ २०॥

प्राप्नोति वै वित्तमसद्बलेन

नित्योत्थानात्प्रङ्य़या पौरुषेण ।

न त्वेव सम्यग्लभते प्रशंसां

न वृत्तमाप्नोति महाकुलानाम् ॥ २१॥

धृतराष्ट्र उवाच ।

महाकुलानां स्पृहयन्ति देवा

धर्मार्थवृद्धाश्च बहुश्रुताश् च ।

पृच्च्हामि त्वां विदुर प्रश्नमेतं

भवन्ति वै कानि महाकुलानि ॥ २२॥

विदुर उवाच ।

तमो दमो ब्रह्मवित्त्वं वितानाः

पुण्या विवाहाः सततान्न दानम् ।

येष्वेवैते सप्तगुणा भवन्ति

सम्यग्वृत्तास्तानि महाकुलानि ॥ २३॥

येषां न वृत्तं व्यथते न योनिर्

वृत्तप्रसादेन चरन्ति धर्मम् ।

ये कीर्तिमिच्च्हन्ति कुले विशिष्टां

त्यक्तानृतास्तानि महाकुलानि ॥ २४॥

अनिज्ययाविवाहैर्श्च वेदस्योत्सादनेन च ।

कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥ २५॥

देव द्रव्यविनाशेन ब्रह्म स्वहरणेन च ।

कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ २६॥

ब्राह्मणानां परिभवात्परिवादाच्च भारत ।

कुलान्यकुलतां यान्ति न्यासापहरणेन च ॥ २७॥

कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः ।

कुलसङ्ख्यां न गच्च्हन्ति यानि हीनानि वृत्ततः ॥ २८॥

वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि ।

कुलसङ्ख्यां तु गच्च्हन्ति कर्षन्ति च मयद्यशः ॥ २९॥

मा नः कुले वैरकृत्कश् चिदस्तु

राजामात्यो मा परस्वापहारी ।

मित्रद्रोही नैकृतिकोऽनृती वा

पूर्वाशी वा पितृदेवातिथिभ्यः ॥ ३०॥

यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् ।

न नः स समितिं गच्च्हेद्यश्च नो निर्वपेत्कृषिम् ॥ ३१॥

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।

सतामेतानि गेहेषु नोच्च्हिद्यन्ते कदा चन ॥ ३२॥

श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् ।

प्रवृत्तानि महाप्राङ्य़ धर्मिणां पुण्यकर्मणाम् ॥ ३३॥

सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै

शक्तो वोढुं न तथान्ये महीजाः ।

एवं युक्ता भारसहा भवन्ति

महाकुलीना न तथान्ये मनुष्याः ॥ ३४॥

न तन्मित्रं यस्य कोपाद्बिभेति

यद्वा मित्रं शङ्कितेनोपचर्यम् ।

यस्मिन्मित्रे पितरीवाश्वसीत

तद्वै मित्रं सङ्गतानीतराणि ॥ ३५॥

यदि चेदप्यसम्बन्धो मित्रभावेन वर्तते ।

स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ ३६॥

चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः ।

पारिप्लवमतेर्नित्यमध्रुवो मित्र सङ्ग्रहः ॥ ३७॥

चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् ।

अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ॥ ३८॥

अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः ।

शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥ ३९॥

सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये ।

तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ४०॥

अर्थयेदेव मित्राणि सति वासति वा धने ।

नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ॥ ४१॥

सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम् ।

सन्तापाद्भ्रश्यते ङ्य़ानं सन्तापाद्व्याधिमृच्च्हति ॥ ४२॥

अनवाप्यं च शोकेन शरीरं चोपतप्यते ।

अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ ४३॥

पुनर्नरो म्रियते जायते च

पुनर्नरो हीयते वर्धते पुनः ।

पुनर्नरो याचति याच्यते च

पुनर्नरः शोचति शोच्यते पुनः ॥ ४४॥

सुखं च दुःखं च भवाभवौ च

लाभालाभौ मरणं जीवितं च ।

पर्यायशः सर्वमिह स्पृशन्ति

तस्माद्धीरो नैव हृष्येन्न शोचेत् ॥ ४५॥

चलानि हीमानि षडिन्द्रियाणि

तेषां यद्यद्वर्तते यत्र यत्र ।

ततस्ततः स्रवते बुद्धिरस्य

च्हिद्रोद कुम्भादिव नित्यमम्भः ॥ ४६॥

धृतराष्ट्र उवाच ।

तनुरुच्च्हः शिखी राजा मिथ्योपचरितो मया ।

मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ ४७॥

नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः ।

यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥ ४८॥

विदुर उवाच ।

नान्यत्र विद्या तपसोर्नान्यत्रेन्द्रिय निग्रहात् ।

नान्यत्र लोभसन्त्यागाच्च्हान्तिं पश्याम तेऽनघ ॥ ४९॥

बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् ।

गुरुशुश्रूषया ङ्य़ानं शान्तिं त्यागेन विन्दति ॥ ५०॥

अनाश्रिता दानपुण्यं वेद पुण्यमनाश्रिताः ।

रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ ५१॥

स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः ।

तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥ ५२॥

स्वास्तीर्णानि शयनानि प्रपन्ना

न वै भिन्ना जातु निद्रां लभन्ते ।

न स्त्रीषु राजन्रतिमाप्नुवन्ति

न मागधैः स्तूयमाना न सूतैः ॥ ५३॥

न वै भिन्ना जातु चरन्ति धर्मं

न वै सुखं प्राप्नुवन्तीह भिन्नाः ।

न वै भिन्ना गौरवं मानयन्ति

न वै भिन्नाः प्रशमं रोचयन्ति ॥ ५४॥

न वै तेषां स्वदते पथ्यमुक्तं

योगक्षेमं कल्पते नोत तेषाम् ।

भिन्नानां वै मनुजेन्द्र परायणं

न विद्यते किं चिदन्यद्विनाशात् ॥ ५५॥

सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः ।

सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं ङ्य़ातितो भयम् ॥ ५६॥

तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः ।

बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥ ५७॥

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।

धृतराष्ट्रोल्मुकानीव ङ्य़ातयो भरतर्षभ ॥ ५८॥

ब्राह्मणेषु च ये शूराः स्त्रीषु ङ्य़ातिषु गोषु च ।

वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥ ५९॥

महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः ।

प्रसह्य एव वातेन शाखा स्कन्धं विमर्दितुम् ॥ ६०॥

अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः ।

ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ॥ ६१॥

एवं मनुष्यमप्येकं गुणैरपि समन्वितम् ।

शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवौकजम् ॥ ६२॥

अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च ।

ङ्य़ातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ॥ ६३॥

अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ङ्य़ातयः ।

येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥ ६४॥

न मनुष्ये गुणः कश्चिदन्यो धनवताम् अपि ।

अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥ ६५॥

अव्याधिजं कटुकं शीर्ष रोगं

पापानुबन्धं परुषं तीक्ष्णमुग्रम् ।

सतां पेयं यन्न पिबन्त्यसन्तो

मन्युं महाराज पिब प्रशाम्य ॥ ६६॥

रोगार्दिता न फलान्याद्रियन्ते

न वै लभन्ते विषयेषु तत्त्वम् ।

दुःखोपेता रोगिणो नित्यमेव

न बुध्यन्ते धनभोगान्न सौख्यम् ॥ ६७॥

पुरा ह्युक्तो नाकरोस्त्वं वचो मे

द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् ।

दुर्योधनं वारयेत्यक्षवत्यां

कितवत्वं पण्डिता वर्जयन्ति ॥ ६८॥

न तद्बलं यन्मृदुना विरुध्यते

मिश्रो धर्मस्तरसा सेवितव्यः ।

प्रध्वंसिनी क्रूरसमाहिता श्रीर्

मृदुप्रौढा गच्च्हति पुत्रपौत्रान् ॥ ६९॥

धार्तराष्ट्राः पाण्डवान्पालयन्तु

पाण्डोः सुतास्तव पुत्रांश्च पान्तु ।

एकारिमित्राः कुरवो ह्येकमन्त्रा

जीवन्तु राजन्सुखिनः समृद्धाः ॥ ७०॥

मेढीभूतः कौरवाणां त्वमद्य

त्वय्याधीनं कुरु कुलमाजमीढ ।

पार्थान्बालान्वनवास प्रतप्तान्

गोपायस्व स्वं यशस्तात रक्षन् ॥ ७१॥

सन्धत्स्व त्वं कौरवान्पाण्डुपुत्रैर्

मा तेऽन्तरं रिपवः प्रार्थयन्तु ।

सत्ये स्थितास्ते नरदेव सर्वे

दुर्योधनं स्थापय त्वं नरेन्द्र ॥ ७२॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि

विदुरहितवाक्ये षट्त्रिंशोऽध्यायः ॥ ३६॥

।ज़्ज़्ज़्{अध्यायः ३७}

विदुर उवाच ।

सप्तदशेमान्राजेन्द्र मनुः स्वायम्भुवोऽब्रवीत् ।

वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ १॥

तानेविन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् ।

अथो मरीचिनः पादाननाम्यान्नमतस्तथा ॥ २॥

यश्चाशिष्यं शासति यश् च कुप्यते

यश्चातिवेलं भजते द्विषन्तम् ।

स्त्रियश्च योऽरक्षति भद्रमस्तु ते

यश्चायाच्यं याचति यश् च कत्थते ॥ ३॥

यश्चाभिजातः प्रकरोत्यकार्यं

यश्चाबलो बलिना नित्यवैरी ।

अश्रद्दधानाय च यो ब्रवीति

यश्चाकाम्यं कामयते नरेन्द्र ॥ ४॥

वध्वा हासं श्वशुरो यश् च मन्यते

वध्वा वसन्नुत यो मानकामः ।

परक्षेत्रे निर्वपति यश्च बीजं

स्त्रियं च यः परिवदतेऽतिवेलम् ॥ ५॥

यश्चैव लब्ध्वा न स्मरामीत्युवाच

दत्त्वा च यः कत्थति याच्यमानः ।

यश्चासतः सान्त्वमुपासतीह

एतेऽनुयान्त्यनिलं पाशहस्ताः ॥ ६॥

यस्मिन्यथा वर्तते यो मनुष्यस्

तस्मिंस्तथा वर्तितव्यं स धर्मः ।

मायाचारो मायया वर्तितव्यः

साध्वाचारः साधुना प्रत्युदेयः ॥ ७॥

धृतराष्ट्र उवाच ।

शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा ।

नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥ ८॥

विदुर उवाच ।

अतिवादोऽतिमानश्च तथात्यागो नराधिपः ।

क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् ॥ ९॥

एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् ।

एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥ १०॥

विश्वस्तस्यैति यो दारान्यश्चापि गुरु तक्पगः ।

वृषली पतिर्द्विजो यश्च पानपश्चैव भारत ॥ ११॥

शरणागतहा चैव सर्वे ब्रह्महणैः समाः ।

एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥ १२॥

गृही वदान्योऽनपविद्ध वाक्यः

शेषान्न भोकाप्यविहिंसकश् च ।

नानर्थकृत्त्यक्तकलिः कृतङ्य़ः

सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥ १३॥

सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।

अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १४॥

यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये ।

अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ १५॥

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १६॥

आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि ।

आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १७॥

उक्तं मया द्यूतकालेऽपि राजन्

नैवं युक्तं वचनं प्रातिपीय ।

तदौषधं पथ्यमिवातुरस्य

न रोचते तव वैचित्र वीर्य ॥ १८॥

काकैरिमांश्चित्रबर्हान्मयूरान्

पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः ।

हित्वा सिंहान्क्रोष्टु कान्गूहमानः

प्राप्ते काले शोचिता त्वं नरेन्द्र ॥ १९॥

यस्तात न क्रुध्यति सर्वकालं

भृत्यस्य भक्तस्य हिते रतस्य ।

तस्मिन्भृत्या भर्तरि विश्वसन्ति

न चैनमापत्सु परित्यजन्ति ॥ २०॥

न भृत्यानां वृत्ति संरोधनेन

बाह्यं जनं सञ्जिघृक्षेदपूर्वम् ।

त्यजन्ति ह्येनमुचितावरुद्धाः

स्निग्धा ह्यमात्याः परिहीनभोगाः ॥ २१॥

कृत्यानि पूर्वं परिसङ्ख्याय सर्वाण्य्

आयव्ययावनुरूपां च वृत्तिम् ।

सङ्गृह्णीयादनुरूपान्सहायान्

सहायसाध्यानि हि दुष्कराणि ॥ २२॥

अभिप्रायं यो विदित्वा तु भर्तुः

सर्वाणि कार्याणि करोत्यतन्द्रीः ।

वक्ता हितानामनुरक्त आर्यः

शक्तिङ्य़ आत्मेव हि सोऽनुकम्प्यः ॥ २३॥

वाक्यं तु यो नाद्रियतेऽनुशिष्टः

प्रत्याह यश्चापि नियुज्यमानः ।

प्रङ्य़ाभिमानी प्रतिकूलवादी

त्याज्यः स तादृक्त्वरयैव भृत्यः ॥ २४॥

अस्तब्धमक्लीबमदीर्घसूत्रं

सानुक्रोशं श्लक्ष्णमहार्यमन्यैः ।

अरोग जातीयमुदारवाक्यं

दूतं वदन्त्यष्ट गुणोपपन्नम् ॥ २५॥

न विश्वासाज्जातु परस्य गेहं

गच्च्हेन्नरश्चेतयानो विकाले ।

न चत्वरे निशि तिष्ठेन्निगूढो

न राजन्यां योषितं प्रार्थयीत ॥ २६॥

न निह्नवं सत्र गतस्य गच्च्हेत्

संसृष्ट मन्त्रस्य कुसङ्गतस्य ।

न च ब्रूयान्नाश्वसामि त्वयीति

स कारणं व्यपदेशं तु कुर्यात् ॥ २७॥

घृणी राजा पुंश्चली राजभृत्यः

पुत्रो भ्राता विधवा बाल पुत्रा ।

सेना जीवी चोद्धृत भक्त एव

व्यवहारे वै वर्जनीयाः स्युरेते ॥ २८॥

गुणा दश स्नानशीलं भजन्ते

बलं रूपं स्वरवर्णप्रशुद्धिः ।

स्पर्शश्च गन्धश्च विशुद्धता च

श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥ २९॥

गुणाश्च षण्मितभुक्तं भजन्ते

आरोग्यमायुश्च सुखं बलं च ।

अनाविलं चास्य भवेदपत्यं

न चैनमाद्यून इति क्षिपन्ति ॥ ३०॥

अकर्म शीलं च महाशनं च

लोकद्विष्टं बहु मायं नृशंसम् ।

अदेशकालङ्य़मनिष्ट वेषम्

एतान्गृहे न प्रतिवासयीत ॥ ३१॥

कदर्यमाक्रोशकमश्रुतं च

वराक सम्भूतममान्य मानिनम् ।

निष्ठूरिणं कृतवैरं कृतघ्नम्

एतान्भृतार्तोऽपि न जातु याचेत् ॥ ३२॥

सङ्क्लिष्टकर्माणमतिप्रवादं

नित्यानृतं चादृढ भक्तिकं च ।

विकृष्टरागं बहुमानिनं चाप्य्

एतान्न सेवेत नराधमान्षट् ॥ ३३॥

सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः ।

अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥ ३४॥

उत्पाद्य पुत्राननृणांश्च कृत्वा

वृत्तिं च तेभ्योऽनुविधाय कां चित् ।

स्थाने कुमारीः प्रतिपाद्य सर्वा

अरण्यसंस्थो मुनिवद्बुभूषेत् ॥ ३५॥

हितं यत्सर्वभूतानामात्मनश्च सुखावहम् ।

तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये ॥ ३६॥

बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च ।

व्यवसायश्च यस्य स्यात्तस्यावृत्ति भयं कुतः ॥ ३७॥

पश्य दोषान्पाण्डवैर्विग्रहे त्वं

यत्र व्यथेरन्नपि देवाः स शक्राः ।

पुत्रैर्वैरं नित्यमुद्विग्नवासो

यशः प्रणाशो द्विषतां च हर्षः ॥ ३८॥

भीष्मस्य कोपस्तव चेन्द्र कल्प

द्रोणस्य राङ्य़श्च युधिष्ठिरस्य ।

उत्सादयेल्लोकमिमं प्रवृद्धः

श्वेतो ग्रहस्तिर्यगिवापतन्खे ॥ ३९॥

तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः ।

पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥ ४०॥

धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः ।

मा वनं च्हिन्धि स व्याघ्रं मा व्याघ्रान्नीनशो वनात् ॥ ४१॥

न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् ।

वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥ ४२॥

न तथेच्च्हन्त्यकल्याणाः परेषां वेदितुं गुणान् ।

यथैषां ङ्य़ातुमिच्च्हन्ति नैर्गुण्यं पापचेतसः ॥ ४३॥

अर्थसिद्धिं परामिच्च्हन्धर्ममेवादितश् चरेत् ।

न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥ ४४॥

यस्यात्मा विरतः पापात्कल्याणे च निवेशितः ।

तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिर्श्च या ॥ ४५॥

यो धर्ममर्थं कामं च यथाकालं निषेवते ।

धर्मार्थकामसंयोगं योऽमुत्रेह च विन्दति ॥ ४६॥

संनियच्च्हति यो वेगमुत्थितं क्रोधहर्षयोः ।

स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥ ४७॥

बलं पञ्च विधं नित्यं पुरुषाणां निबोध मे ।

यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते ॥ ४८॥

अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते ।

धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः ॥ ४९॥

यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् ।

अभिजात बलं नाम तच्चतुर्थं बलं स्मृतम् ॥ ५०॥

येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत ।

यद्बलानां बलं श्रेष्ठं तत्प्रङ्य़ा बलमुच्यते ॥ ५१॥

महते योऽपकाराय नरस्य प्रभवेन्नरः ।

तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥ ५२॥

स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु ।

भोगे चायुषि विश्वासं कः प्राङ्य़ः कर्तुमर्हति ॥ ५३॥

प्रङ्य़ा शरेणाभिहतस्य जन्तोश्

चिकित्सकाः सन्ति न चौषधानि ।

न होममन्त्रा न च मङ्गलानि

नाथर्वणा नाप्यगदाः सुसिद्धाः ॥ ५४॥

सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत ।

नावङ्य़ेया मनुष्येण सर्वे ते ह्यतितेजसः ॥ ५५॥

अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।

न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥ ५६॥

स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।

तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ॥ ५७॥

एवमेव कुले जाताः पावकोपम तेजसः ।

क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ ५८॥

लता धर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः ।

न लता वर्धते जातु महाद्रुममनाश्रिता ॥ ५९॥

वनं राजंस्त्वं सपुत्रोऽम्बिकेय

सिंहान्वने पाण्डवांस्तात विद्धि ।

सिंहैर्विहीनं हि वनं विनश्येत्

सिंहा विनश्येयुरृते वनेन ॥ ६०॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि

विदुरवाक्ये सप्तत्रिंशोऽध्यायः ॥ ३७॥

।ज़्ज़्ज़्{अध्यायः ३८}

विदुर उवाच ।

ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।

प्रत्युत्थानाभिवादाभ्यां पुनस्तान्पतिपद्यते ॥ १॥

पीठं दत्त्वा साधवेऽभ्यागताय

आनीयापः परिनिर्णिज्य पादौ ।

सुखं पृष्ट्वा प्रतिवेद्यात्म संस्थं

ततो दद्यादन्नमवेक्ष्य धीरः ॥ २॥

यस्योदकं मधुपर्कं च गां च

न मन्त्रवित्प्रतिगृह्णाति गेहे ।

लोभाद्भयादर्थकार्पण्यतो वा

तस्यानर्थं जीवितमाहुरार्याः ॥ ३॥

चिकित्सकः शक्य कर्तावकीर्णी

स्तेनः क्रूरो मद्यपो भ्रूणहा च ।

सेनाजीवी श्रुतिविक्रायकश् च

भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ ४॥

अविक्रेयं लवणं पक्वमन्नं दधि

क्षीरं मधु तैलं घृतं च ।

तिला मांसं मूलफलानि शाकं

रक्तं वासः सर्वगन्धा गुडश् च ॥ ५॥

अरोषणो यः समलोष्ट काञ्चनः

प्रहीण शोको गतसन्धि विग्रहः ।

निन्दा प्रशंसोपरतः प्रियाप्रिये

चरन्नुदासीनवदेष भिक्षुकः ॥ ६॥

नीवार मूलेङ्गुद शाकवृत्तिः

सुसंयतात्माग्निकार्येष्वचोद्यः ।

वने वसन्नतिथिष्वप्रमत्तो

धुरन्धरः पुण्यकृदेष तापसः ॥ ७॥

अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् ।

दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ ८॥

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।

विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ ९॥

अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः ।

श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ १०॥

पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः ।

स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ ११॥

पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् ।

गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् ।

भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् ॥ १२॥

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।

तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ १३॥

नित्यं सन्तः कुले जाताः पावकोपम तेजसः ।

क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ १४॥

यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश् च ये ।

स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ १५॥

करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् ।

धर्मकामार्थ कार्याणि तथा मन्त्रो न भिद्यते ॥ १६॥

गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः ।

अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते ॥ १७॥

नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् ।

अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ।

अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ॥ १८॥

कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः ।

गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥ १९॥

अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति ।

स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि ॥ २०॥

कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् ।

तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ॥ २१॥

स्थानवृद्ध क्षयङ्य़स्य षाड्गुण्य विदितात्मनः ।

अनवङ्य़ात शीलस्य स्वाधीना पृथिवी नृप ॥ २२॥

अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः ।

आत्मप्रत्यय कोशस्य वसुधेयं वसुन्धरा ॥ २३॥

नाममात्रेण तुष्येत च्हत्रेण च महीपतिः ।

भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥ २४॥

ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा ।

अमात्यं नृपतिर्वेद राजा राजानमेव च ॥ २५॥

न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः ।

अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ २६॥

दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च ।

नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च ॥ २७॥

निरर्थं कलहं प्राङ्य़ो वर्जयेन्मूढ सेवितम् ।

कीर्तिं च लभते लोके न चानर्थेन युज्यते ॥ २८॥

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।

न तं भर्तारमिच्च्हन्ति षण्ढं पतिमिव स्त्रियः ॥ २९॥

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये ।

लोकपर्याय वृत्तान्तं प्राङ्य़ो जानाति नेतरः ॥ ३०॥

विद्या शीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत ।

धनाभिजन वृद्धांश्च नित्यं मूढोऽवमन्यते ॥ ३१॥

अनार्य वृत्तमप्राङ्य़मसूयकमधार्मिकम् ।

अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ ३२॥

अविसंवादनं दानं समयस्याव्यतिक्रमः ।

आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ॥ ३३॥

अविसंवादको दक्षः कृतङ्य़ो मतिमानृजुः ।

अपि सङ्क्षीण कोशोऽपि लभते परिवारणम् ॥ ३४॥

धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा ।

मित्राणां चानभिद्रोहः सतैताः समिधः श्रियः ॥ ३५॥

असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।

तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥ ३६॥

न स रात्रौ सुखं शेते स सर्प इव वेश्मनि ।

यः कोपयति निर्दोषं स दोषोऽभ्यन्तरं जनम् ॥ ३७॥

येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत ।

सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ ३८॥

येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च ।

ये चानार्य समासक्ताः सर्वे ते संशयं गताः ॥ ३९॥

यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च ।

मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव ॥ ४०॥

प्रयोजनेषु ये सक्ता न विशेषेषु भारत ।

तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥ ४१॥

यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः ।

यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ ४२॥

हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः ।

आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ ४३॥

तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव ।

ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ॥ ४४॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि

विदुरवाक्ये अष्टत्रिंशोऽध्यायः ॥ ३८॥

।ज़्ज़्ज़्{अध्यायः ३९}

धृतराष्ट्र उवाच ।

अनीश्वरोऽयं पुरुषो भवाभवे

सूत्रप्रोता दारुमयीव योषा ।

धात्रा हि दिष्टस्य वशे किलायं

तस्माद्वद त्वं श्रवणे घृतोऽहम् ॥ १॥

विदुर उवाच ।

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।

लभते बुद्ध्यवङ्य़ानमवमानं च भारत ॥ २॥

प्रियो भवति दानेन प्रियवादेन चापरः ।

मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ ३॥

द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः ।

प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत ॥ ४॥

न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् ।

क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ ५॥

समृद्धा गुणतः के चिद्भवन्ति धनतोऽपरे ।

धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत् ॥ ६॥

धृतराष्ट्र उवाच ।

सर्वं त्वमायती युक्तं भाषसे प्राङ्य़संमतम् ।

न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ॥ ७॥

विदुर उवाच ।

स्वभावगुणसम्पन्नो न जातु विनयान्वितः ।

सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते ॥ ८॥

परापवाद निरताः परदुःखोदयेषु च ।

परस्परविरोधे च यतन्ते सततोथिताः ॥ ९॥

स दोषं दर्शनं येषां संवासे सुमहद्भयम् ।

अर्थादाने महान्दोषः प्रदाने च महद्भयम् ॥ १०॥

ये पापा इति विख्याताः संवासे परिगर्हिताः ।

युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ॥ ११॥

निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति ।

या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् ॥ १२॥

यतते चापवादाय यत्नमारभते क्षये ।

अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्च्हति ॥ १३॥

तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः ।

निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ॥ १४॥

यो ङ्य़ातिमनुगृह्णाति दरिद्रं दीनमातुरम् ।

सपुत्रपशुभिर्वृद्धिं यशश्चाव्ययमश्नुते ॥ १५॥

ङ्य़ातयो वर्धनीयास्तैर्य इच्च्हन्त्यात्मनः शुभम् ।

कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर ॥ १६॥

श्रेयसा योक्ष्यसे राजन्कुर्वाणो ङ्य़ातिसत्क्रियाम् ।

विगुणा ह्यपि संरक्ष्या ङ्य़ातयो भरतर्षभ ॥ १७॥

किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः ।

प्रसादं कुरु दीनानां पाण्डवानां विशां पते ॥ १८॥

दीयन्तां ग्रामकाः के चित्तेषां वृत्त्यर्थमीश्वर ।

एवं लोके यशःप्राप्तो भविष्यत्सि नराधिप ॥ १९॥

वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् ।

मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् ॥ २०॥

ङ्य़ातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना ।

सुखानि सह भोज्यानि ङ्य़ातिभिर्भरतर्षभ ॥ २१॥

सम्भोजनं सङ्कथनं सम्प्रीतिश् च परस्परम् ।

ङ्य़ातिभिः सह कार्याणि न विरोधः कथं चन ॥ २२॥

ङ्य़ातयस्तारयन्तीह ङ्य़ातयो मज्जयन्ति च ।

सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च ॥ २३॥

सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद ।

अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि ॥ २४॥

श्रीमन्तं ङ्य़ातिमासाद्य यो ङ्य़ातिरवसीदति ।

दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ॥ २५॥

पश्चादपि नरश्रेष्ठ तव तापो भविष्यति ।

तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ॥ २६॥

येन खट्वां समारूढः परितप्येत कर्मणा ।

आदावेव न तत्कुर्यादध्रुवे जीविते सति ॥ २७॥

न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् ।

शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ॥ २८॥

दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् ।

त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥ २९॥

तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः ।

भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥ ३०॥

सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः ।

अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ ३१॥

अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः ।

हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ ३२॥

परिच्च्हदेन क्षत्रेण वेश्मना परिचर्यया ।

परीक्षेत कुलं राजन्भोजनाच्च्हादनेन च ॥ ३३॥

ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा ।

समेति प्रङ्य़या प्रङ्य़ा तयोर्मैत्री न जीर्यते ॥ ३४॥

दुर्बुद्धिमकृतप्रङ्य़ं च्हन्नं कूपं तृणैरिव ।

विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ ३५॥

अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च ।

तथैवापेत धर्मेषु न मैत्रीमाचरेद्बुधः ॥ ३६॥

कृतङ्य़ं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् ।

जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते ॥ ३७॥

इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते ।

अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि ॥ ३८॥

मार्दवं सर्वभूतानामनसूया क्षमा धृतिः ।

आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥ ३९॥

अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते ।

मतिमास्थाय सुदृढां तदकापुरुष व्रतम् ॥ ४०॥

आयत्यां प्रतिकारङ्य़स्तदात्वे दृढनिश्चयः ।

अतीते कार्यशेषङ्य़ो नरोऽर्थैर्न प्रहीयते ॥ ४१॥

कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।

तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ॥ ४२॥

मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् ।

भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्ण दर्शनम् ॥ ४३॥

अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च ।

महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते ॥ ४४॥

नातः श्रीमत्तरं किं चिदन्यत्पथ्यतमं तथा ।

प्रभ विष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥ ४५॥

क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् ।

अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ॥ ४६॥

यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते ।

कामं तदुपसेवेत न मूढ व्रतमाचरेत् ॥ ४७॥

दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च ।

न श्रीर्वसत्यदान्तेषु ये चोत्साह विवर्जिताः ॥ ४८॥

आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् ।

अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः ॥ ४९॥

अत्यार्यमतिदातारमतिशूरमतिव्रतम् ।

प्रङ्य़ाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ ५०॥

अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ।

रतिपुत्र फला दारा दत्तभुक्त फलं धनम् ॥ ५१॥

अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्व देहिकम् ।

न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥ ५२॥

कानार वनदुर्गेषु कृच्च्ह्रास्वापत्सु सम्भ्रमे ।

उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् ॥ ५३॥

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः ।

समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् ॥ ५४॥

तपोबलं तापसानां ब्रह्म ब्रह्मविदां बलम् ।

हिंसा बलमसाधूनां क्षमागुणवतां बलम् ॥ ५५॥

अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।

हविर्ब्राह्मण काम्या च गुरोर्वचनमौषधम् ॥ ५६॥

न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः ।

सङ्ग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते ॥ ५७॥

अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् ।

जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥ ५८॥

स्त्री धूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि ।

चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ॥ ५९॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।

चत्वारि सम्प्रवर्धन्ते कीर्तिरायुर्यशोबलम् ॥ ६०॥

अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च ।

अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ ६१॥

अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् ।

निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥ ६२॥

अध्वा जरा देहवतां पर्वतानां जलं जरा ।

असम्भोगो जरा स्त्रीणां वाक्षल्यं मनसो जरा ॥ ६३॥

अनाम्नाय मला वेदा ब्राह्मणस्याव्रतं मलम् ।

कौतूहलमला साध्वी विप्रवास मलाः स्त्रियः ॥ ६४॥

सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु ।

ङ्य़ेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् ॥ ६५॥

न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् ।

नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥ ६६॥

यस्य दानजितं मित्रममित्रा युधि निर्जिताः ।

अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥ ६७॥

सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा ।

धृतराष्ट्रं विमुञ्चेच्च्हां न कथं चिन्न जीव्यते ॥ ६८॥

यत्पृथिव्यां व्रीहि यवं हिरण्यं पशवः स्त्रियः ।

नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ ६९॥

राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर ।

समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च ॥ ७०॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि

विदुरवाक्ये एकोनचत्वारिंशोऽध्यायः ॥ ३९॥

।ज़्ज़्ज़्{अध्यायः ४०}

विदुर उवाच ।

योऽभ्यर्थितः सद्भिरसज्जमानः

करोत्यर्थं शक्तिमहापयित्वा ।

क्षिप्रं यशस्तं समुपैति सन्तमलं

प्रसन्ना हि सुखाय सन्तः ॥ १॥

महान्तमप्यर्थमधर्मयुक्तं

यः सन्त्यजत्यनुपाक्रुष्ट एव ।

सुखं स दुःखान्यवमुच्य शेते

जीर्णां त्वचं सर्प इवावमुच्य ॥ २॥

अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।

गुरोश्चालीक निर्बन्धः समानि ब्रह्महत्यया ॥ ३॥

असूयैक पदं मृत्युरतिवादः श्रियो वधः ।

अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥ ४॥

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् ।

सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् ॥ ५॥

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।

नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ ६॥

आशा धृतिं हन्ति समृद्धिमन्तकः

क्रोधः श्रियं हन्ति यशः कदर्यता ।

अपालनं हन्ति पशूंश्च राजन्न्

एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥ ७॥

अजश्च कांस्यं च रथश्च नित्यं

मध्वाकर्षः शकुनिः श्रोत्रियश् च ।

वृद्धो ङ्य़ातिरवसन्नो वयस्य

एतानि ते सन्तु गृहे सदैव ॥ ८॥

अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।

विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना ॥ ९॥

गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् ।

देव ब्राह्मण पूजार्थमतिथीनां च भारत ॥ १०॥

इदं च त्वां सर्वपरं ब्रवीमि

पुण्यं पदं तात महाविशिष्टम् ।

न जातु कामान्न भयान्न लोभाद्

धर्मं त्यजेज्जीवितस्यापि हेतोः ॥ ११॥

नित्यो धर्मः सुखदुःखे त्वनित्ये

नित्यो जीवो धातुरस्य त्वनित्यः ।

त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये

सन्तुष्य त्वं तोष परो हि लाभः ॥ १२॥

महाबलान्पश्य मनानुभावान्

प्रशास्य भूमिं धनधान्य पूर्णाम् ।

राज्यानि हित्वा विपुलांश्च भोगान्

गतान्नरेन्द्रान्वशमन्तकस्य ॥ १३॥

मृतं पुत्रं दुःखपुष्टं मनुष्या

उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति ।

तं मुक्तकेशाः करुणं रुदन्तश्

चितामध्ये काष्ठमिव क्षिपन्ति ॥ १४॥

अन्यो धनं प्रेतगतस्य भुङ्क्ते

वयांसि चाग्निश्च शरीरधातून् ।

द्वाभ्यामयं सह गच्च्हत्यमुत्र

पुण्येन पापेन च वेष्ट्यमानः ॥ १५॥

उत्सृज्य विनिवर्तन्ते ङ्य़ातयः सुहृदः सुताः ।

अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ॥ १६॥

अस्माल्लोकादूर्ध्वममुष्य चाधो

महत्तमस्तिष्ठति ह्यन्धकारम् ।

तद्वै महामोहनमिन्द्रियाणां

बुध्यस्व मा त्वां प्रलभेत राजन् ॥ १७॥

इदं वचः शक्ष्यसि चेद्यथावन्

निशम्य सर्वं प्रतिपत्तुमेवम् ।

यशः परं प्राप्स्यसि जीवलोके

भयं न चामुत्र न चेह तेऽस्ति ॥ १८॥

आत्मा नदी भारत पुण्यतीर्था

सत्योदका धृतिकूला दमोर्मिः ।

तस्यां स्नातः पूयते पुण्यकर्मा

पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ॥ १९॥

कामक्रोधग्राहवतीं पञ्चेन्द्रिय जलां नदीम् ।

कृत्वा धृतिमयीं नावं जन्म दुर्गाणि सन्तर ॥ २०॥

प्रङ्य़ा वृद्धं धर्मवृद्धं स्वबन्धुं

विद्या वृद्धं वयसा चापि वृद्धम् ।

कार्याकार्ये पूजयित्वा प्रसाद्य

यः सम्पृच्च्हेन्न स मुह्येत्कदा चित् ॥ २१॥

धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।

चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ २२॥

नित्योदकी नित्ययङ्य़ोपवीती

नित्यस्वाध्यायी पतितान्न वर्जी ।

ऋतं ब्रुवन्गुरवे कर्म कुर्वन्

न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ २३॥

अधीत्य वेदान्परिसंस्तीर्य चाग्नीन्

इष्ट्वा यङ्य़ैः पालयित्वा प्रजाश् च ।

गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा

हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ॥ २४॥

वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश् च

धनैः काले संविभज्याश्रितांश् च ।

त्रेता पूतं धूममाघ्राय पुण्यं

प्रेत्य स्वर्गे देव सुखानि भुङ्क्ते ॥ २५॥

ब्रह्मक्षत्रं वैश्य वर्णं च शूद्रः

क्रमेणैतान्न्यायतः पूजयानः ।

तुष्टेष्वेतेष्वव्यथो दग्धपापस्

त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥ २६॥

चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो

हेतुं चात्र ब्रुवतो मे निबोध ।

क्षात्राद्धर्माद्धीयते पाण्डुपुत्रस्

तं त्वं राजन्राजधर्मे नियुङ्क्ष्व ॥ २७॥

धृतराष्ट्र उवाच ।

एवमेतद्यथा मां त्वमनुशासति नित्यदा ।

ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ २८॥

सा तु बुद्दिः कृताप्येवं पाण्डवान्रप्ति मे सदा ।

दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ २९॥

न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केन चित् ।

दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् ॥ ३०॥

॥ इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि

** विदुरवाक्ये चत्वारिंशोऽध्यायः ॥ ४०॥**

इति विदुर नीति समाप्ता ॥


]