एक-श्लोकि-रामायणानि

One-verse Ramayanas September 21, 2022 Kushagra Aniket 0 Comments 12:50 am

एकश्लोकिरामायणसङ्ग्रहः-

रामकर्णामृतम्

प्रसिद्धः-

विश्वास-प्रस्तुतिः

आदौ राम-तपोवनादि-गमनं हत्वा मृगं काञ्चनं
वैदेही-हरणं जटायु-मरणं सुग्रीव-सम्भाषणम्।
वालेर् निर्दलनं समुद्र-तरणं लङ्का-पुरी-दाहनं
पश्चाद् रावण–कुम्भ-कर्ण–हननम् एतद् +धि रामायणम्॥१

मूलम्

आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनं
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम्।
वालेर्निर्दलनं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावणकुम्भकर्णहननमेतद्धि रामायणम्॥१

श्रीमच्छङ्कराचार्य-प्रणीत आत्मबोधः

विश्वास-प्रस्तुतिः

तीर्त्वा मोहार्णवं हत्वा
राग-द्वेषादि-राक्षसान्।
योगी शान्ति-समायुक्त
आत्मारामो विराजते॥२

मूलम्

तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान्।
योगी शान्तिसमायुक्त आत्मारामो विराजते॥२

श्रीनित्यानन्दमिश्रः

विश्वास-प्रस्तुतिः

देवान् सान्त्वयते, भुवि प्रभवते, शैवं धनुर् भञ्जते,
सीताम् उद्वहते, जनान् रमयते, पित्रे वनं गच्छते।
साधून् मोचयते, कपीन् सुखयते, लङ्केश्वरं संघ्नते,
भक्तान् नन्दयते, दशोद्यम-कृते रामाय तस्मै नमः॥३

मूलम्

देवान् सान्त्वयते भुवि प्रभवते शैवं धनुर्भञ्जते
सीतामुद्वहते जनान् रमयते पित्रे वनं गच्छते।
साधून्मोचयते कपीन् सुखयते लङ्केश्वरं संघ्नते
भक्तान्नन्दयते दशोद्यमकृते रामाय तस्मै नमः॥३

राधावल्लभत्रिपाठी

विश्वास-प्रस्तुतिः

रामो दाशरथिर् जगाम विपिनं, सत्यं पितू रक्षयन्,
भार्याम् अस्य जहार राक्षसपती, रामेण चासौ हतः।
वृत्तं वस्तुत एदद् एव कविभिर् नाना-प्रबन्धैर् मुहुर्
विस्तारं गमितं तथा प्रगुणितं जातं च रामायणम्॥४

मूलम्

रामो दाशरथिर्जगाम विपिनं सत्यं पितू रक्षयन्
भार्यामस्य जहार राक्षसपती रामेण चासौ हतः।
वृत्तं वस्तुत एददेव कविभिर्नानाप्रबन्धैर्मुहु-
र्विस्तारं गमितं तथा प्रगुणितं जातं च रामायणम्॥४

कुशाग्रानिकेतः

विश्वास-प्रस्तुतिः

प्रादुर्भावो मुरारेर् दश-रथ-सदने चाप-भङ्गो विवाहो
वैदेह्याश् चाऽप-हारो विजन-वन-तले वानराधीश-मैत्री।
वालेर् नाशः प्रदाहो दश-वदन-पुरः सेतु-बन्धः समुद्रे
रक्षो-ध्वंसश् च सङ्ख्ये, नृप-जनक-सुता-सङ्गमो राज्यलाभः॥६

मूलम्

प्रादुर्भावो मुरारेर्दशरथसदने चापभङ्गो विवाहो
वैदेह्याश्चापहारो विजनवनतले वानराधीशमैत्री।
वालेर्नाशः प्रदाहो दशवदनपुरः सेतुबन्धः समुद्रे
रक्षोध्वंसश्च सङ्ख्ये नृपजनकसुतासङ्गमो राज्यलाभः॥६

विश्वास-प्रस्तुतिः

आदौ कोशल-धाम्नि मन्थर-मतिर् धर्म-च्युता मन्थरा
कैकेयी कपटोन्मुखा रघुपतिर् दत्ताटवीशासनः।
पौलस्त्येन हृता ततो जनक-जा, निद्रां गते स्वानुजे,
रक्षो-वंश-विमर्दनं च विहितं सूत्रेण ते शारदे॥५

+++(सरस्वतीस्तोत्रात् तस्य)+++

मूलम्

आदौ कोशलधाम्नि मन्थरमतिर् धर्मच्युता मन्थरा
कैकेयी कपटोन्मुखा रघुपतिर् दत्ताटवीशासनः।
पौलस्त्येन हृता ततो जनकजा निद्रां गते स्वानुजे
रक्षोवंशविमर्दनं च विहितं सूत्रेण ते शारदे॥५