[[भर्तृहरिसुभाषितम् Source: EB]]
[
[TABLE]
[TABLE]
॥श्रीरस्तु॥
॥भर्तृहरिसुभाषितम्॥
॥नीतिशतकम्॥
<MISSING_FIG href="../books_images/U-IMG-1723704674pic3.jpg"/>
॥व्याख्यानपीठिका॥
वन्देऽहं रघुनन्दनाङ्घ्रिसरसीजातद्वयीमद्वया-
मन्दानन्दमरन्दबिन्दुलहरीसंदोहनिष्यन्दिनीम्।
यत्रेन्दिन्दिरजातवन्मुनिमनोबृन्दं कृतस्वाश्रयं
काञ्चित्तुन्दिलतामविन्दत परानन्दावबोधोदयात्॥
श्रीमांस्त्रैलिङ्गदेशे स जयति विबुधश्रेणिकोटीरकोटी
कोटीमाणिक्यभूतागणितगुणगणोऽखण्डपाण्डित्यशौण्डः।
धीरः शाण्डिल्यगोत्रः सकलकविकुलाह्लादिसूक्तिप्रवीणो
वीणोदाहार्यविद्याविवरणनिपुणो रामचन्द्रो बुधेन्द्रः॥
वेदान्तोदन्तचिन्तामतनुत चतुरेणान्तरेणाकुतर्कं
तर्कंचातर्कयद्यः फणिपतिवचसां सारमादत्त योगे।
यो गेयः सांख्यसंख्यागमसमयविधावप्यलं तन्त्रविद्या-
विद् यो यामिन्यधीशः स्फुरति निरुपमो वञ्चवंशाम्बुराशौ॥
विप्रेणाभूतपूर्वं फलमधितपसाऽलम्भि सूर्यप्रसादा-
ल्लब्ध्वा तस्मात् स्वयं तत् प्रचुरतरजरापञ्चताकुञ्चनाढ्यम्।
हित्वा मोहं स्वकान्तास्वतिविमलधिया तं निषेव्यात्तभव्यो
योगीन्द्रो भर्तृहर्याह्वय इह कुरुतेऽद्यापि विद्याविलासम्॥
सोऽहमेतत्प्रणीतायाः सुभाषितकृतेः कृती।
कुर्वे सहृदयानन्दिन्याख्यां व्याख्यां सतां मुदे॥
व्याकुर्वन्ति निबद्धगौरवभयान्नैव स्फुटं युक्तिभि-
र्ये तेऽध्येतृजनप्रतारणपराः का नैपुणी वा ततः ?।
वैखर्या वचसां कवीशहृदयं प्रख्यापयन्नन्वय-
द्वारैवाहमिहाखिलं प्रविवृणोम्युक्तिव्रजोज्जृम्भितम्॥
<MISSING_FIG href="../books_images/U-IMG-1723705219pic4.jpg"/>
इह खलु तत्रभवानशेषविशेषसारपारदृश्वा विश्वातिशायि गुणगरिमावतारो भर्तृहरिनामा महायोगीश्वरो निजयोगमहिमानुसारेण करतलामलकीकृताखिलविरिञ्चिप्रपञ्चस्तृणकणमिव जगज्जालमालोकयन् परमकारुणिको लोकव्यवहारपरिज्ञानखिन्नान्तःकरणः लोकानुजिघृक्षया नीतिशृङ्गारवैराग्यवर्णनप्रख्यं सुभाषितत्रिशत्याख्यं कंचित् प्रबन्धं प्रारंभमाणस्तत्परिपन्थिनिर्मन्थनद्वारा परिसमाप्तिप्रचयगमनलक्षणं फलमाशासानः शिष्टाचारपरिप्राप्तिवि- शिष्टपरज्योतीरूपेष्टदेवतानमस्काराकारं मङ्गलमादौ निबध्नाति॥
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे॥१॥
व्या.—दिशः प्राच्यादिदिक्प्रदेशाः - कालाः भूतभविष्यद्वर्तमानरूपाः - आदिशब्दसंगृहीतानि वस्तूनि - तथा च दिक्काला
आदयो येषां तानि दिक्कालादीनि तद्गुणसंविज्ञानबहुव्रीहिः - अन्यथा तेषामप्राधान्येन विनाभावे शास्त्रविरोधः स्यात् - तैरनवच्छिन्ना अपरिक्लृप्ता - विभुत्वान्नित्यत्वादेकत्वाच्च देशतः कालतो वस्तुतश्चापरिच्छिन्नेत्यर्थः - अत एवानन्ताऽपरिमिता त्रिविधपरिच्छेदशून्यत्वादखण्डदण्डायमानेत्यर्थः - एतेन सजातीयविजातीयस्वगतभेदत्रयराहित्य- मर्थात् सूचितमिति विज्ञेयम् - आनन्देति पाठे आनन्दचिच्छब्दयोर्द्वन्दान्ते श्रूयमाणो मात्रशब्दः प्रत्येकं संबध्यते - तथा चानन्दमात्रा आनन्दमयी चिन्मात्रा ज्ञानवना च - चिदेकरसेति यावत् - तादृशी मूर्तिस्तस्यै तद्रूपायेत्यर्थः; ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘एकमेवाद्वितीयं ब्रह्म’ ‘विज्ञानमानन्दं ब्रह्म’ ‘आनन्दो ब्रह्मेति व्यजानात्’ ‘आनन्दमयोऽभ्यासात्’ ‘सत्यं ज्ञानमनन्तं यत् सानन्दं ब्रह्मकेवल” मित्यादिश्रुतिस्मृतिकदम्बकमत्र प्रमाणमिति भावः; नात्र बहुब्रीहिराश्रयणीयः। अन्यथा “इकोऽचि विभक्ता” वितिनुमि “मूर्तिन” इति स्यात्; न च “तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्ये”ति पुंवद्भाव इति वाच्यम्। मूर्तिशब्दस्य नियतस्त्रीलिङ्गत्वेनाभाषितपुंस्कत्वात्; तस्माद्यथाश्रुतमेव साधु मन्तव्यम्; भाषितपुंस्कत्वस्यानित्यत्वविवक्षायान्तु बहुव्रीहिविहिते, तदा न काऽप्यनुपपत्तिरिति सर्वं सुस्थम्; तथा स्वानुभूतिरात्मानुभव - एव एकं मुख्यमद्वितीयं वा - मानं स्वप्रकाशसाधनं - यस्य तस्मै; स्वयं प्रकाशसंविद्रूपत्वादस्य प्रदीपवत् स्वपरप्रकाशकतया स्वसाक्षात्कारे स्वानुभव एव प्रमाणं न घटादेरिवचक्षुरादिप्रामाणिकत्वमिति भावः। एतेन वृत्तिविषयत्वमेव न तु फलविषयत्वमित्यवधेयम्; तदुक्तमाचार्यैः—
“स्वबोधेनान्यबोधेच्छा बोधरूपतयात्मनः।
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने॥”
इति; तथा शान्ताय अविद्यातत्कार्यसम्बन्धशून्यत्वात् प्रसन्नाय - “निष्कलं निष्क्रियं शान्त”मित्यादिश्रुतेः। तेजसे ज्योतीरूपाय। ब्रह्मणे। नमः प्रह्वीभावः। “नमःस्वस्ती” त्यादिना चतुर्थी॥
अत्र “मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते। वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्ति। अध्येतारश्च प्रवक्तारो भवन्ती”ति भगवद्भाष्यकारवचनप्रामाण्यात्। “आशीर्नमस्क्रियावस्तुनिर्देशोवाऽपि तन्मुख”मित्यादि दण्डिवचनाच्चादौ नमस्काररूप मन्ते परब्रह्मस्मरणलक्षणं च। मध्ये तदुभयात्मकं च मङ्गलमाचरितमित्यवगन्तव्यम् ; “अथ शब्दानुशासन”मित्यादौ सर्वत्र शास्त्रारम्भे मङ्गलार्थत्वेनाथशब्दप्रयोगदर्शनात्। तस्य तदर्थकत्वं च नि - “मङ्गलानन्तरारम्भप्रश्नकात्स्न्र्येष्वथो अथे”त्यभिधानात् ;
“ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा।
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ॥”
इति स्मरणाच्च; तच्च निर्विघ्नं प्रारिप्सितपरिसमाप्तिकामेनावश्यं कर्तव्यम्। “परिसमाप्तिकामो मङ्गलमाचरे” दित्यनुमितश्रुतिबोधितकर्तव्यताकत्वात्; अनुमानं च—मङ्गलं वेदबोधितकर्तव्यताकमलौकिकाविगीतशिष्टाचार- विषयत्वात्। दर्शाद्याचारवदित्यन्वयव्यतिरेकाभ्याम्। तस्य कारणत्वानिश्चयात् कथमवश्यकर्तव्यताकत्वम् ? तथा हि। शबरभाष्यादौ कृतेऽपि मङ्गले समाप्तेरजातत्वात्।
किरणावल्यादावकृतेऽपि जातत्वादिति चेत्। सत्यं। क्वचिद्विघ्नबाहुल्येन तत्समसंख्याकमङ्गलाभावात्। क्वचित् प्राचीनमङ्गलबाहुल्याच्चव्यत्यय; इत्यलमतिप्रसङ्गेन॥
अत्र चारुत्वेन यथावद्वस्तुवर्णनात् स्वभावोक्तिरलंकारः - “स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णन”मिति लक्षणात्। श्लोकाख्यमेतदानुष्टुभं वृत्तम्।
“पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः।
गुरुषट्कं च सर्वेषामेतच्छ्लोकस्य लक्षणम्॥”
इति वचनात्॥
॥मूर्खपद्धतिः॥
बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः।
अबोधोपहताश्चान्ये जीर्ण मङ्गे सुभाषितम्॥२॥
व्या.—प्रबन्धस्यास्य विविधस्वरूपपरिज्ञानार्थं तत्तत्पद्धतिनिबन्धनतया चिकीर्षितत्वात्। तत्र मूर्खविद्वत्पद्धत्योर्व्यावर्तकभावस्याविशिष्टत्वेनोभयनिरूपणे संप्राप्ते। प्राथम्ये मुख्यप्रसङ्गसङ्गत्योरन्यतरस्याभावा- दशोकवनिकान्यायप्रायत्वाच्चादौ मूर्खपद्धतिं वर्णयितुमारभते।तत्र प्रथमं सहृदयाभावात् सुभाषितस्य वक्तुमनवकाश इत्याह—बोद्धार इति.—बोद्धारः परिज्ञातारः * “बुध अवगमन” इत्यस्माद्धातोस्तृच्। मत्सरेणासूयया परोत्कर्षासहनेन - ग्रस्ताः समाक्रान्ताः - ते न हृदयालवः अतो नानुमोदन्त इति भावः। प्रभवो राजानः। स्मयदूषिताः गर्बदुर्विनीताः - न तु विनयप्रह्वाः- अतो न शृण्वन्तीति भावः। अन्ये उक्तोभयव्यति-
रिक्तजनाः। अबोधेनाज्ञानेन - उपहता नष्टात्मानस्ते न त्वधिकारिणः - अतस्तेषामाकर्णनयोग्यताऽपि नास्तीति भावः। तस्मात् सुभाषितं साधुभाषणं - प्रियवचनमिति यावत् - नपुंसके भावे क्तः। अङ्गेऽन्तरङ्गे। जीर्णमन्तर्हितं - न त्वद्यापि बहिः प्रवृत्तम् - तथाऽपि वक्ष्यामीति वाक्यशेषः। वृत्तं पूर्ववत्॥
अज्ञः सुखमाराध्य स्सुखतर माराध्यते विशेषज्ञः।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रंजयति॥३॥
व्या.— ननु कीदृशो मूर्खः यतस्तत्स्वरूपं निरूप्यते।तत्राह.—अज्ञ इति.— न जानातीत्यज्ञः अकिंचिज्ज्ञः मूढ इति यावत्। सुखमक्लेशेन। आराध्यः समाधेयः - तस्योपदेशमात्रेणैव विस्रम्भसम्भवादिति भावः। विशेषं जानातीति विशेषज्ञः तत्त्ववेत्ता। सुखतरमत्यन्तानायासेनेत्यर्थः - ‘द्विवचनविभज्ये’त्यादिना तरप् प्रत्ययः। आराध्यते समाधीयते - तद्बुद्धेः सर्वदा विशेषग्रहणमात्रपर्यवसानादिति भावः। किं तु। ज्ञानं शास्त्रजन्यसंवित् तस्य लवेन दुर्विदग्धं पण्डितमानिनम्। नरं मूर्खजनमित्यर्थः। ब्रह्माऽपि कर्तुमकर्तुमन्यथाकर्तुं समर्थश्चतुर्मुखोऽपि - किमुतान्य इति भावः। न रञ्जयति रञ्जयितुं न शक्नोति - तन्मनसः सूक्तिसहस्रैरपि समाधानासंभवादिति भावः। उक्तोभयमध्यस्थो मूर्ख इति फलितार्थः॥
रञ्जनसंबन्धेऽप्यसंबन्धाभिधानादतिशयोक्तिभेदः। ‘अज्ञो’। ‘विशेषज्ञ’इत्यत्र च ‘आतोऽनुपसर्गेक’ इति कप्रत्ययो। न ‘त्विगुपधज्ञे’त्यादिना कप्रत्ययः ; अत एवाह भगवान् कात्यायनः “अकारादनुपसर्गात् कर्मोपपदो भवति विप्रतिषेधेने”ति वार्तिक-
व्याख्याने भाष्यकारेणार्थज्ञशब्दमुदाहृत्यास्यार्थस्य समर्थनात्; एतच्चासकृदुक्तं मदीयशृङ्गारशृङ्गाटकेऽपि - ‘रुक्मिणीरसमयं समयज्ञः’ इत्यादिषु; एवमुत्तरत्रापि द्रष्टव्यम्। आर्यावृत्तभेदोऽयमुन्नेयः; उत्तरत्रापि भेदान्तराण्युन्नेयानि॥
प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरा-
त्समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलम्।
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारये-
न्नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्॥४॥
व्या.—अथ द्वाभ्यां मूर्खजनचित्तस्य दुराराध्यतामाह—प्रसह्येति—मकरः शिंशुमाराख्यो जलग्राहविशेषः - तस्य वक्त्रेवदनगह्वरे दंष्ट्राणां निशिताग्रदशनविशेषाणाम् - अन्तरात् अन्तरालात् - अतिसंकटादित्यर्थः। प्रसह्य बलात्कारेण। मणिं रत्नं - दुरुद्धरमपीति भावः। उद्धरेदुद्धर्तुं शक्नुयात्। जन इति शेषः। केनचिदवधानेनानयेदित्यर्थः। तथा प्रचलन्तो दोलायमानाः - ये ऊर्मयस्तेषां - मालाभिः परम्पराभिराकुलम् उल्लोलोज्जृम्भितमित्यर्थः। समुद्रमपिदुस्तरमपीति भावः। संतरेत् सम्यक्तरितुं शक्नुयात् - केनचित्प्लवनसाधनेनेति भावः। लङ्घयेदिति पाठे हनुमानिव केनचिच्छक्तिविशेषेण लङ्घितुं शक्नुयादित्यर्थः। तथा कोपितं संजातकोपं - कोपवशात् सफूत्कारं जिह्वया सृक्वप्रान्तौलेलिहानमित्यर्थः - “तदस्य संजातं - तारकादिभ्य इतजि”तीति तच्प्रत्ययः - तारकादिराकृतिगणः। भुजङ्गं सर्पमपि - दुर्धरमपीति भावः। शिरसि केशपाशे।
पुष्पेण तुल्यं पुष्पवत् - पुष्पस्रजमिवेत्यर्थः - “तेन तुल्यं क्रियाचेद्वति”रितिवतिप्रत्ययः। धारयेत् धारयितुं शक्नुयात् - मणिमन्त्रादि-साधनेनेति भावः। किं तु प्रतिनिविष्टमभिनिवेशाक्रान्तं - दुराग्रहाविष्टमति यावत् - मूर्खजनस्य दुर्विदग्धस्य - चित्तम्। नाराधयेत् आराधयितुं समाधातुं न शक्नुयात् - उपायालाभादिति भावः। मकरदंष्ट्रान्तरस्थमण्युद्धरणादिप्रायं मूर्खजनचित्तसमाराधनमिति श्लोकार्थः॥
लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः।
कदाचिदपि पर्यटन् शशविषाण मासादये-
न्नतु प्रतिनिविष्टमूर्खजनचित्त माराधयेत्॥५॥
व्या.—एवं दुर्लभवस्तुसाधने दुष्करकार्यकरणे च संभावनया शक्तिरुक्ता। न मूर्खचित्तप्रसाधने ; इदानीमत्यन्तदुर्लभवस्त्वपि प्रसाधयन्न तु तच्चित्तमित्याह.—लभेतेति.—यत्नतः कुतश्चित्प्रयत्नात्-पञ्चम्यास्तसिल्। पीडयन् केनचिद्यन्त्रेण सम्मर्दयन्। सिकतासु वालुकास्वपि - कालत्रयेऽप्यन्तस्स्नेहानधिकरणभूतास्वपीति भावः। तैलं स्नेहम्। लभेत लब्धुं शक्नुयात् - ‘स्नेहनेतैल’मित्यनुशासनान्नात्र तिलसंबन्धित्वाशङ्काकलङ्कावतार इति द्रष्टव्यम्। तथा पातुमिच्छा पिपासा - ‘पा पान’ इत्यस्माद्धातोः सन्नन्तात् स्त्रियामप्रत्यये टाप्- तया अर्दितः पीडितः तृष्णातुरः सन्नित्यर्थः। मृगतृष्णिकासु च मरुमरीचिकास्वपि वा - जलभ्रममात्रदायिनीष्वपीति भावः - मृगतृष्णाशब्दात् स्वार्थे कप्रत्यये - ‘प्रत्ययस्थात् कात् पूर्वस्यात इदा-
प्यसुप’ इतीकारः। सलिलं जलम्। पिबेत् पातुं शक्नुयात् - ‘पाघ्राध्मे’त्यादिना पिबतेः पिबादेशः। तथा पर्यटन् तत्र तत्र वनान्तरे संचरन्। कदाचित् कस्मिंश्चित् समये। शशस्य मृगविशेषस्य - विषाणं शृङ्गमपि - वाङ्मात्रगोचरमपीति भावः। आसादयेदधिगन्तुं शक्नुयात्। (न तु प्रतिनिष्ठेत्यादि पूर्ववत्।) सिकतातैललाभादिवदत्यन्तदुर्घटं मूर्खचितसमाधानमिति भावः ; मृगतृष्णिकाजलशशविषाणयोर्गगनारविन्दवन्ध्यापुत्रवत्यन्तासंगतत्वमुक्तं सुरेश्वरवार्तिके—
“मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः।
एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः॥”
इति पद्यद्वयेऽप्यस्मिन् मणिमुद्धरेदित्यादौ ‘शकि लिञ्चे’ति शक्यार्थे विधिलिङ् ; तथा अपि शब्दः समुच्चये। ‘संभावनायां चेत्’ तदनुवाद इति विवेकः ; उभयथाऽप्यनुशासनसंभवात्। प्रकृतार्थोपपत्तेश्च; यथाहामरसिंहः “गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपी”ति ; अत्र “समुद्रमपि लङ्घयेदि”त्युदाजहार स्वामी॥
अत्र मण्युद्धरणाद्यसंबन्धेऽपि तत्संबन्धाभिधाना दतिशयोक्तिः।
श्लोकद्वयमेतत् पृथ्वीवृत्तम् ;तदुक्तं केदारेण वृत्तरत्नाकरे “जसौ जसयलावसुग्रहयतिश्च पृथ्वी गुरु”रिति। अत एव ‘सिकतासुतैल’मित्यत्र। ‘मृगतृष्णिकासु सलिल’मित्यत्र ‘मूर्खजनचित्त’मित्यत्र च। अष्टमवर्णे विहितस्य विच्छेदस्याभाबाद्यतिभ्रष्टंनाम दोषः। इममेव केचिदपस्थयतिं वदन्ति; तदुक्तं विद्यानाथेन “यत्रस्थाने यतिभ्रंशस्तद्यतिभ्रष्टमुच्यत” इति॥
“कुत्रचित्पदमध्ये तु यतिमिच्छन्ति सूरयः।
यत्र पूर्वापरौ भागौ स्यातामेवैकवर्णगौ॥”
इति दत्तिलवचनमपि समाधातुं न शक्रोति; पूर्वापरभागयोरेकवर्णगतत्वाभावात् ; निरंकुशाः खलु कवयो भवन्ति सर्वपथीनाः इत्यलमतिप्रपञ्चेन॥
व्यालं बालमृणालतन्तुभि रसौ रोद्धुं समुज्जृम्भते
भेत्तुं वज्रमणिंशिरीषकुसुमप्रान्तेन सन्नह्यति।
माधुर्यं मधुबिन्दुना रचयितुं क्षारा बुधे रीहते
मूर्खान्यः प्रतिनेतुमिच्छति बलात्सूक्तैः सुधास्यन्दिभिः॥
व्या.—अथ मूर्खानुनयेच्छायाः अत्यन्ताविवेकितामाहव्यालमिति। असौ पुमान्। व्यालं दुष्टगजं - न तु साधारणजन्तुमित्यर्थः॥ नि - “व्यालो दुष्टगजेसर्प” इति विश्वः। बालमृगालतन्तुभिः कोमलबिसकिसलयसूत्रैः - ईषन्निरोधस्याप्यनुपयुक्तैरिति भावः। रोद्धुं नियन्तुम्। समुज्जृम्भते कृतप्रयत्नोभवतीत्यर्थः। तथा वज्रमणिं हीराख्यमणिविशेषम्। अलोहलेख्यमपीति भावः - नि - ‘हीरोवज्रश्चकथ्यत’ इति हलायुधः। शिरीषकुसुमस्यातिकोमलपुष्पविशेषस्य - प्रान्तेनाञ्चलेन। भेत्तुं विदारयितुम्। सन्नह्यति उद्युङ्क्ते इत्यर्थः। तथा क्षाराम्बुधेःलवणार्णवस्य - न तु स्वल्पजलाशयस्य। मधुबिन्दुना क्षौद्रविप्रुषा - न त्वविच्छिन्न मधुधारासंपातेनेत्यर्थः। माधुर्यं मधुरगुणम्। रचयितुं संपादयितु मीहते काङ्क्षति ; कोऽसावित्यत आह ; यः पुमान्। बलाद्वाक्पाटवात्। सुधास्यन्दिभि-
रमृतस्वादुभिरतिमधुरैरित्यर्थः। सूक्तैः प्रियोक्तिभिः - नपुंसके भावे क्तः। मूर्खान् प्रतिनेतुं समाधातुमिच्छति सोऽसाविति संबन्धःमृणालतन्तुभिर्व्यालनिरोधनादितत्पर इव मूर्खानुनयपरोऽप्यत्यन्ताविवेकीति भावः। अत्यन्तदुष्करं मूर्खप्रसादनमिति फलितार्थः॥
अत्र यः प्रतिनेतुमिच्छति वाञ्छति असौ समुज्जृम्भत इत्यादि विशिष्टानुनयेच्छाविजृम्भमाणादिवाक्यार्थयोर्निर्दि- ष्टैकत्वासंभवात् सादृश्यलक्षणायामसंभवद्वस्तुसंबन्धो वाक्यार्थवृत्तिर्निदर्शनाभेदः; न चायं दृष्टान्तः। वाक्यभेदेन प्रतिबिम्बकरणाक्षेपे तस्योत्थानात्। अत्र तु वाक्यार्थे वाक्यार्थसमारोपाद्वाक्यैकवाक्यतायां तदभाव इत्यलंकारसर्वस्वकारः॥
शार्दूलविक्रीडितम् - “सूर्याश्चैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्” इति लक्षणात्॥
स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्॥
व्या.—अथैषां गतिमाह—स्वायत्तमिति.—विधात्रा ब्रह्मणा कर्त्रा स्वायत्तमात्माधीनं - न तु परोपदेशसापेक्षम् - नि—‘अधीनो निघ्न आयत्त’ इत्यमरः। एकान्तहितमत्यन्तहितकारिस्वावगुणाच्छादकत्वादिति भावः। तथा विशेषतो विशेषाकारेणसार्वविभक्तिकस्तसिः। सर्वविदां समाजे सर्वज्ञसभायाम्। विभूषणमुपस्कारहेतुभूतत्वाद्भूषणप्रायम्। मौनं तूष्णीम्भावः कर्म वा ‘इगन्ताच्च लघुपूर्वा’दित्यण्। अपण्डितानामविदुषां संबन्धिन्याः।
अज्ञतायाः। मौढ्यस्य च्छादनमाच्छादकम्। सद्। विनिर्मितं रचितम्। अतोऽपण्डितैर्निजमौढ्यसङ्गोपनार्थं मानेनैव वर्तितव्यमिदमेवैतेषां गतिः - अन्यथा हास्यास्पदता स्यादिति भावः। ‘एकान्तकृत’मिति पाठे तु। कृतं कर्म - भावे क्तः - एकान्तकृतं रहस्यनुष्ठितं कर्म - अज्ञतायाः छादनं सद्विनिर्मितमपण्डितानां मौनं भूषणं सद्विनिर्मितमिति प्रत्येकमन्वयो द्रष्टव्यः। अज्ञताच्छादनार्थमेकान्त एव कर्म कर्तव्यमपण्डितैर्मौनिभिरेव स्थातव्यमन्यथा स्वरूपप्रकाशनेनापहास्यास्पदता स्यादिति भावः॥
उपजातिवृत्तम् - ‘इन्द्रोपेन्द्रवज्रमि’ति लक्षणात् ; तौ द्वौ कीदृग्विधौ ?
“स्यादिन्द्रवज्रा यदि तौ जगौ गः उपेन्द्रवज्रा जतजास्ततो गौ।
अनन्तरोदीरितलक्ष्मभाजः पादा यदीया उपजातयस्ताः॥”
इति वृत्तरत्नाकरे उक्तत्वात्॥
यदा किंचिज्ञोऽहं गज इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः।
यदा किंचित्किंचिद्बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः॥८॥
व्या.—अथ कश्चिदनुभविनः परान् प्रति स्वानुभवप्रकारमाह.—यदेति.—अकिंचिद्ज्ञः अल्पज्ञस्सन्। यदा यस्मिन् समये। गज इव। मदेन दर्पेणान्धः कर्तव्यविवेकशून्यः। समभवं जातोऽस्मि। तदा तस्मिन् समये। सर्वज्ञः अशेषज्ञोऽस्मीति मम मनोऽवलिप्तं
गर्वितमभवत् - “अल्पविद्यो महागर्वी”ति न्यायादल्पज्ञत्वस्यैव गर्वहेतुत्वादिति भावः। नि—“अवलेपस्तु गर्वेस्याल्लेपने दूषणेऽपि चे”ति विश्वप्रकाशः। यदा बुधजनसकाशाद्विद्वज्जनमुखादित्यर्थः - ‘आख्यातोपयोग’ इत्यपादानत्वात् पञ्चमी। किंचित्किंचित् स्वल्पंस्वल्पं - शास्त्रबोधिताचारादिकमिति शेषः। अवगतं ज्ञातम्। तदा। मूर्खो मूढोऽस्मीति। मे मम। मदो ज्वर इव। व्यपगतो निर्गतः। अभूदिति शेषः। ज्वरवद्विकारकारित्वादस्यैतत्साम्यमित्यवगन्तव्यम्। ‘आचार्यवान्पुरुषो वेदे’ति श्रवणादाचार्यादवगतविद्यस्यैव विवेकसंभवादिति भावः; अल्पज्ञोऽपि सन् यस्सर्वज्ञमात्मानं मनुते स एव मूर्खः। यस्तु सर्वज्ञोऽपि मूढमानी भवति स एव विद्वानिति विवेकः। मदो गर्वहेतु र्गुरुशुश्रूषादिर्विनयहेतुरिति फलितार्थः। यद्वा एतावन्तं कालं मदवशान्मूर्खोऽस्मि। इदानीं गुरुशिक्षावशाद्विवेकावगतिरिति वा योजनीयम्॥
शिखरिणीवृत्तं - “रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी”ति लक्षणात्॥
क्रिमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं
निरुपमरसप्रीत्या खादन्खरास्थि निरामिषम्।
सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते
नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम्॥९॥
व्या.—मूर्खस्यातिनैच्यं दृष्टान्तमुखेनाह.—क्रिमिकुलमिति.—श्वाशुनकः। क्रिमिकुलैरमेध्यमध्योत्पत्तिमदपादजन्तु- संततिभिश्चितं
व्याप्तम्। लालाक्लिन्नं वसापूरार्द्रं - यद्वा - लाला सृणीका दन्तान्तर्जलमिति यावत् - नि—‘सृणीकास्यन्दिनीलाले’त्यमरः - तया क्लिन्नं खादनसमये तस्यास्तत्र स्रवणादिति भावः। विगन्धि दुर्गन्धि - अत्र विशब्दस्य पूतिपर्यायत्वविवक्षायाम्। ‘गन्धस्ये’त्यादिना समासान्त इकारोऽन्तादेशः - यद्वा - विगन्ध आमगन्धोऽस्यास्तीति विगन्धि। अत एव। जुगुप्सितं हेयम्। तदपि। निरामिषं मांसलेशशून्यम्। तदपि। खरास्थि रासभकीकसम्। निरुपमः -उपमानरहितो - यो रसः स्वादः - तत्र या - प्रीतिः प्रेमतया। खादन्भक्षयन्पार्श्वस्थमन्तिकस्थं - ‘सुपिस्थ’ इति क प्रत्ययः। सुरपतिमिन्द्रमपि - किमुतान्यमिति भावः। विलोक्य। न शङ्कते न लज्जते। तथाहि - क्षुद्रो जन्तुः नीचजन्तुः - परिग्रहे स्वीकृतवस्तुनि - फल्गुतां तुच्छत्वम्। न गणयति न मनुत इत्यर्थः। जुगुप्सितकर्माचरणतत्परो मूर्खोऽप्येवं न महद्विगर्हणाद्विभेतीति भावः। नि—“पत्नी परिजनादानमूलशापाः परिग्रहाः” इत्यमरः। ‘फल्गु तुच्छमसारं चे’ति यादवश्च॥
अत्राप्रस्तुतवृत्तान्तकथनात् प्रस्तुतमूर्खजनवृत्तप्रतीतेरप्रस्तुतप्रशंसालंकारः॥
“अप्रस्तुतस्य कथनात् प्रस्तुतं यत्र गम्यते।
अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता॥”
इति लक्षणात् हरिणीवृत्तं - “भवति हरिणीन्सौ म्रौ स्लो गो रसाम्बुधिविष्टपैः” इति लक्षणात्॥
शिर श्शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं
महीघ्रा दुत्तुङ्गा दवनिमनेश्चापि जलधिम्।
अधो गङ्गा सेयं पदमुपगता स्तोकमथवा
विवेकभ्रष्टानां भवति विनिपातः शतमुखः॥१०॥
व्या.—अथाविवेकस्यानर्थादिकथनद्वारा विवेकस्यावश्यकत्वं प्रदर्शयति - शिर इति.—अत्रोत्तरवाक्ये तच्छब्दस्य विद्यमानत्वाद्यच्छव्दोऽध्याहर्तव्यः- यत्तदोर्नित्यसंबन्धात् - उत्तरवाक्यस्थयच्छब्दस्यैव पूर्ववाक्यतच्छब्दानपेक्षितत्व- नियमात्; तथा च या गङ्गा स्वर्लोकात्। शर्वस्येदं शार्वमैश्वरं - नि—‘ईश्वरश्शर्व ईशान’ इत्यमरः - तस्येदमित्यण्प्रत्ययः। शिरशीर्षमुपगतेति सर्वत्रानुषज्यते। प्रथमत इति शेषः। तदनु। पशुपतेश्शर्वस्य - शिरस्तश्शीर्षात् - पञ्चम्यास्तसिल्। धरतीति धरः पचाद्यच् - क्षित्याः धरः क्षितिधरः - तं हिमवन्तमुपगता। महीं धरतीति महीध्रः - मूलविभुजादित्वात्क प्रत्ययः - यथाह-वामनः “महीध्रादयो मूलविभुजादिदर्शनादि”ति - अत एव - नि—“महीध्र शिखरि क्ष्माभृदि” त्याद्यमरः। उत्तुङ्गादुन्नतान्महीध्राद्धिमवदाख्यक्षितिधरादवनिं भुवमुपगता। अवनेश्चापि। जलधिं समुद्रमुपगता - ‘नदीनां सागरो गतिरि’ति ‘गङ्गा सागरपूरणी’ति वचनादिति भावः। अथो अनन्तरं - नि—“मङ्गलान्तरारम्भप्रश्नकार्त्स्न्यष्वथो अथे”त्यमरः - सेयं परिदृश्यमाना गङ्गा मन्दाकिनी। स्तोकमल्पं परिमितमिति यावत्। पदं स्थानम्। उपगता प्राप्ता। यद्वा - अधः उक्तप्रकारेणाधःप्रदेशे - पाताले वा पदमिति योजना -अथवा तथाहीत्यर्थः - पक्षान्तरे
वा - विवेकभ्रष्टानां विवेकशून्यानां स्थानभ्रष्टानां च। शतमुखो बहुप्रकारः। विनिपातो भङ्गः - अधोऽधः पतनं च। भवति। विवेकयुक्तानां तु नैवम्। अतो विवेकान्नभ्रंशितव्यमिति भावः। यतस्सकललोकमहिताया अपि गङ्गाया भ्रंशवादीदृगवस्थापत्तिः। किमुतान्येषामिति विवेकस्यात्यन्तावश्यकत्वमित्यवगन्तव्यम्। पुरा किल तत्र भवान् भगीरथोऽश्वमेधीयाश्वान्वेषणतत्परतया पातालमुपगतानांकपिलविलोचनानलभस्मीकृतानां सगरकुमाराणामूर्ध्व- लोकप्राप्त्यर्थं स्वर्लोकात् सुरसरितमवतारयामासेति पौराणिकी कथाऽत्रानुसंधेया॥
अत्रानेकस्मिन्नाधारे क्रमेणैकस्या आधेयभूतायाः गङ्गायाः स्थितिकथनात् पर्यायाख्योऽलंकारः ; तदुक्तं विद्यानाथेन.—
“क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि।
एकस्मिन्नथवाऽनेके पर्यायालंकृतिर्मता॥”
इति शिखरिणीवृत्तं - लक्षणंतूक्तम्॥
शक्यो वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपो
नागेन्द्रो निशितांशेन समदो दण्डेन गौ र्गर्दभः।
व्याधि र्भेषजसङ्ग्रहैश्च विविधै र्मन्त्रैः प्रयोगैर्विषं
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्॥११॥
व्या.—अथाग्न्यादीनां विनिवारणे शास्त्रप्रतिपादितजलादिरूपहेतून् प्रतिपाद्य मौर्ख्यस्य निवारणे शास्त्राभावं हेत्वभावं च स्फुटीकुर्वन्नाह.—शक्य इति.—हुतभुक् - हुतं होमद्रव्यं हविः पुरोडाशवपादि - भुनक्तीति हुतभुक् वैदिकाग्निः - अत्र तु गृहादि-
दाहकृत् लौकिकोऽग्निरिति मन्तव्यम्। जलेन उदकेन। वारयितुं निवारयितुम्। शक्यं। एवंरीत्या। सूर्यातपस्सूर्यस्य रवेरारातपः। छत्रेण वारयितुं शक्य इति पदद्वयस्योत्तरत्राप्यनुषङ्ग इति। मन्तव्यं समदः मदसहितः। नागेन्द्रः गजश्रेष्ठः। निशिताङ्कुशेन तीक्ष्णाङ्कुशेन। गौः वृषभः। गर्दभो रासभश्च। दण्डेण ! व्याधिः कुष्टादिरोगः। भेषजसंग्रहैः औषधसंग्रहणैश्च। अत्र चकारात् महामन्त्रजपहोमसुरार्चनदानादिकमपि गृह्यते - ‘तच्छान्तिरौषधैर्दानैर्जपहोमसुरार्चनैरि’ति स्मरणात्। विषं कालकूटादि। विविधैर्नानाविधैः। मन्त्रैः मन्तारं त्रायन्ते रक्षन्तीति मन्त्राः - तैर्मन्त्रैः प्रणवादिभिः - विविधैः प्रयोगैश्च। निवारयितुं शक्यमित्यर्थः। तस्मात् सर्वस्य प्राणिहिंसाकारणीभूतदुष्टजन्तुजातस्य। शास्त्रविहितं शास्त्रविधिचोदितमौषधं जलादिरूपभेषजम्। अस्ति। मूर्खस्य तु। औषधं सुभाषितादिरूपं। नास्ति शास्त्रविहितं न वर्तते॥
इति नीतिशतक मूर्खपद्धति स्सम्पूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1724240492pic3.jpg"/>
॥ विद्वत्पद्धतिः ॥
शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमाः
विख्याताः कवयो वसन्ति विषये यस्य प्रभो र्निर्धनाः।
तज्जाड्यं वसुधाधिपस्य सुधिय स्त्वर्थं विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षकै र्न मणयो यैरर्घतः पातिताः॥१२॥
व्या.—अथ मूर्खपद्धतिवैलक्षण्येन विद्वत्पद्धतिं वर्णयति ; यद्वा। यदुक्तं विवेकस्यात्यन्तावश्यकत्वं। तस्य शास्त्रपरिज्ञानसाध्य
त्वात्। तस्य च विद्वदधीनत्वात्। तत्पद्धतिवर्णनमिदानीमारभते - शास्त्रेति—शास्त्रैः काणादगौतमीयादिभिरुपस्कृताः अलंकृतास्तथा शब्देन व्याकरणेन - सुन्दराः - गिरो वाचो - येषां ते तथोक्ताः - अत्र यद्यपि शास्त्रपदग्रहणेनैव सर्वेषां शास्त्राणां संग्रहात् पार्थक्येन शब्दशास्त्रग्रहणे पौनरुक्त्यं दूषणं स्यात् - तथाऽपि गोबलीवर्दन्यायेन समाधेयं - यद्वा ‘सर्वशास्त्रमुखं व्याकरणम्’ इति तस्य प्राधान्यात् पार्थक्येन निर्देशः - अथवा इतरेषां शास्त्राणामुपस्कारहेतुभूतत्वमात्रमेव - अस्य तु ‘वाणी व्याकरणेन’ इति स्वेनैवोत्तरत्र वक्ष्यमाणत्वात् तदेकान्तसौंदर्यावहत्वेन पृथग्ग्रहणमिति मन्तव्यम्। तथा शिष्येभ्योऽन्तेवासिभ्यः - प्रदेया व्याख्यानरूपेण प्रदातुं योग्या - आगमाः शास्त्राणि येषां ते तथोक्ताः - सम्यक् शिक्षापाटवात् प्रबुद्धाखिलशास्त्रसिद्धान्तत्वेन शिष्यद्वारा व्याख्यातनिखिलागमा इत्यर्थः - यद्वा शिष्येभ्यः प्रदेया विनियोगर्हाःन तु कुहकतया गर्भ एव जीर्णीकृता इत्यर्थः - तथा भूता आगमा एषां ते तथोक्ताः - नि—‘आगमः शास्त्र आयतावि’ति विश्वः। अत एव विख्याताः सर्वत्रप्रसिद्धाः। कवयो विद्वांसः। निर्धनाः धनहीनाः सन्तः। यस्य ग्रभो राज्ञो। विषये देशे सन्निधौ वा। सन्ति तिष्ठन्ति। तन्निरर्थत्वे नावस्थानं। तस्य वसुधाधिपस्य प्रभो रेव। जाड्यं मान्द्यंहैन्यमिति यावत. ‘गृणवचनब्राह्माणादिभ्यः कर्मणि चे’ति ष्यञ्प्रत्ययः। सुधियो विद्वांसस्तु। अर्थं धनं। विनाऽपि - ‘पृथग्विने’त्यादिना विकल्पाद्द्वितीया॥ ईश्वराः समर्थाः पूज्या इत्यर्थः - विद्याया एव तेषां महाधनत्वादिति भावः। किं तु। यैः कुपरीक्षकैः तत्र-
शास्त्रपरिज्ञानाभावात् कुत्सितपरिज्ञानिभिः। मणयः अमूल्याअपीति भावः। अर्धतः मूल्यतः पातिताः यदि बहुमूल्यामणयोऽल्पमूल्याः कृता इत्यर्थः। कुत्स्याः स्युः किं। न स्युरेवेत्यर्थः- अयमर्थः - विद्वद्भिः प्रभुसमाश्रयेणैव स्थातव्यं “सदाश्रयेण शोभन्तेपण्डिता वनिता लता” इति न्यायात् ; तत्र नते यदि विद्वन्मनोरथं पूरयेयुस्तत्तेषामेव कुत्सितत्वं। विद्वांसस्तु कुपरीक्षकोपहतमणयइवन कुत्स्या इति ; अतः श्रेयःकामैः प्रभुभिः तन्मनोरथपूरकैरेवभबितव्यमिति तात्पर्यम्। शार्दूलविक्रीडितं वृत्तं—लक्षणं तूक्तम्॥
हर्तु र्यति न गोचरं किमपि शं पुष्णाति यत्सर्वदा
यार्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम्।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं
येषां तान्प्रति मान मुज्झत नृपाः कस्तै स्सह स्पर्धते ? ॥१३॥
व्या.—अथ विद्याधनस्य प्रसिद्धधनवैलण्यवर्णनद्वारा विदुषामुत्कर्षमापादयन्नेतेषु गौरवेण विश्वासोत्पादनार्थं नृपान् संबोधयति - हर्तुरिति.—यद्विद्याख्यं धनं। हर्तुश्चोरादेः- ‘हर्तुमिति’ तुमुन्नन्तपाठे अपहर्तुमित्यर्थः। गोचरं न याति विषयतां न प्राप्नोतीति भावप्रधानो निर्देशः- तस्यात्यन्तदुर्ग्रहत्वादिति भावः। तथा सर्वदा कालत्रयेऽपि। किमप्यनिर्वाच्यं। शं सुखं। पुष्णाति वर्धयति - ‘अर्थानामार्जने दुःखमि’ति स्मरणात् - प्रसिद्धं तु नैवमिति भावः। अनिशं सर्वदा। अर्थिभ्यो विद्यार्थिभ्यः याचकेभ्यश्च। प्रतिपाद्यमानं व्याख्यायमाणं दीयमानमपि च। परामुत्कृष्टां - वृद्धिमभ्युच्छ्रयं। प्राप्नोति विद्याया व्याख्यानेनाभिवृद्धिसंभवादिति भावः। तथा कल्पान्तेषु प्रलयेष्वपि।
निधनं नाशं - न प्रयाति न नश्यतीत्यर्थः। कल्पान्तेष्वपीति बहुवचनग्रहणं विद्याधनस्यात्यन्तविनाशाभावप्रकाशनार्थम्। प्रसिद्धं तूक्तविपरतिमिति भावः - तदुक्तम्॥
‘नभोगहार्या न च बन्धुहार्यो न भ्रातृहार्या न च राजहार्या। स्वदेशमित्रं परदेशबन्धु र्विद्यासुधां ये पुरुषाः पिबन्ति’ इति। तद्विद्याख्यं विद्याभिधानं। यत्तदोर्नित्यसंबन्धात्तच्छब्दस्याध्याहारः। अन्तर्धनमभ्यन्तरस्थवित्तं। येषां पुरुषाणामस्तीति शेषः। अत स्तान्विद्याधनान्प्रति। हेनृपाः राजानो मानं कोपं दुराग्रहमिति यावत्। उज्झत तैर्विद्वद्भिस्सह कः पुमान् - स्पर्धते निगृह्णाति? न कोऽपीत्यर्थः॥ ततस्ते सर्वदा गौरवेण बहुमाननीया इति भावः॥
अत्रोपमानात् प्रसिद्धधनादुपमेयस्य विद्याधनस्याधिक्यकथनाद्व्यतिरेकालंकारः - ‘उपमानाद्यदन्यस्य व्यतिरेकस्स एव स’ इतिकाव्यप्रकाशकारलक्षणात् । वृत्तं पूर्ववत्॥
परिगतपरमार्थान् पण्डितान्मावमंस्था-
स्तृणमिति लघु लक्ष्मी र्नैव तान् संरुणद्धि।
अभिनवमदरेखाश्यामगण्डस्थलानां
न भवति बिसतन्तुर्वारणं वारणानाम्॥१४॥
व्या.—अथ त्वदीयलक्ष्मीर्न तेषां प्रतिबन्धिका। अतस्तेषुबहुमानाचरणतत्परेणैव भवितव्यमिति सदृष्टान्तं राजानं संबोधयतिपरीति.—हे नृप। परिगतपरमार्थान् विज्ञाततत्त्वार्थान् - “सर्वे गत्यर्थाः ज्ञानार्था” इति न्यायात् - अथवा प्राप्तपुरुषार्थान्। पण्डि-
तान् विदुषो मावमंस्थाः मावमानय - मन्यतेरवपूर्वाल्लुङि थासि ‘न माङ्योग’ इत्यट्प्रतिषेधः। कुतस्तृणमिव लघु निस्सारा - लक्ष्मीस्त्वदीयसंपत्तिः -नि - “शोभा संपत्ति पद्मासु लक्ष्मीःश्रीरिव गीयत” इति विश्वः। तान् पण्डितान् नैव संरुणद्धि ईषदपि संरोद्धुं न शक्नोतीत्यर्थः तत्र दृष्टान्तः। अभिनवमदरेखाभिः दानवीराभिः - श्यामानि गण्डस्थलानि येषां तेषाम् वारणानां मत्तेभानाम्। बिसतन्तुः मृणालसूत्रम्। वारणं प्रतिबन्धकभूतम्। नभवति; अतः पण्डितेषु बहुमानाचरणतत्परत्वेनैव वर्तितव्यमित्यर्थः॥
अत्र दृष्टान्तालंकारः—
“यत्र वाक्यद्वये बिम्बप्रतिविम्बतयोच्यते।
सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निगद्यते।”
इति लक्षणात् ; स चोक्तोपमयाऽङ्गेन संकीर्यते॥
मालिनीवृत्तं - “ननमयययुतेऽयं मालिनी भोगिलोकै”रिति लक्षणात्॥
अम्भोजिनीवनविहारविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः॥१५॥
व्या.—किं बहुना ब्रह्माऽपि तदीयवैदग्ध्यापहरणे न शक्त इति दृष्टान्तमुखेनाह - अम्भोजिनीति - विधाता ब्रह्मा। कुपितः
केनचिद्धेतुना क्रुद्धस्सन्। हंसस्य निजयानमरालस्य। अम्भोजिनीवने पद्मिनीवने - यो विहारः क्रीडा - स एव विलासः लीला - तमेव न त्वन्यत्। नितरामतिशयेन। हन्तु नाशयतु। ‘विलासमेक’मिति पाठे - एकं केवलं विलासमित्यन्वयः। अम्भोजाकरसंशोषणेन तत्र विहारभङ्गमात्रमेव कर्तुं शक्नोतीत्यर्थः। किं त्वसौ विधाता। अस्य हंसस्य। दुग्धजलयोः क्षीरनीरयोर्भेदविधौ विभागकरणे विषये। प्रसिद्धां प्रख्याताम्। वैदग्ध्यकीर्तिं वैदग्ध्येन “कृत्यवस्तुषु चातुर्यं वैदग्ध्यं परिकीर्त्यत” इत्युक्तलक्षणनैपुण्येन - प्रयुक्ता या कीर्तिस्तामपहर्तुं न शक्नोति। हंसो हि क्षीरमिश्रिते नीरे नीरं विहाय क्षीरं गृह्णातीति प्रसिद्धिः। एवं कुपितो राजा स्वविषयवासादिभङ्गमात्रमेव कर्तुं शक्नोति। न तु तेषामशेषविद्यापरिशीलनजनितचातुर्यभङ्गमतोनिष्कोपेन भवितव्यं विद्वत्सु राज्ञेति तात्पर्यम्॥
अत्राप्रकृतविधातृवृत्तान्तकथनात् प्रस्तुतराजविद्वज्जनवृत्तप्रतीतेरप्रस्तुतप्रशंसालंकारः - लक्षणं तूक्तम्॥
केयूराणि न भूवयन्ति पुरुषं हारा न चन्द्रोज्वलाः
न स्नानं न विलेपेनं न कुसुमं नालंकृता मूर्धजाः।
वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते
क्षीयन्तेऽखिलभूषणानि सततं वाग्भूषणं भूषणम्॥१६॥
व्या.—अथ विदुषां तावद्विद्यैव भूषणरूपसंपत्तिरित्याहद्वाभ्यां - केयूराणीति.—केयूराण्यङ्गदानि - यद्यपि केयूरयोर्निजभुजशिरोभूषणत्वेन द्वित्वमेव वक्तव्यं - तथाऽपि तद्विशेषविवक्षायां
बहुवचनप्रयोग इति मन्तव्यम्। पुरुषं जनम्। न भूषयन्ति नालंकुर्वन्तीति यथायोगं संबध्यते। चन्द्रवदुज्ज्वला धवलतराः हारा मुक्ताहाराश्च। न भूषयन्ति। स्नानमभिषेकोऽपि। न भूषयति। विलेपनं घनसारकस्तूरीगन्धसारचर्चाऽपि। न भूषयति। कुसुमं। मल्लिकामालतीचम्पकादिपुष्पमपि - जातावेकवचनम्। न भूषयति। अलंकृता अभ्यङ्गपुष्पमाल्यादिना सम्यक्प्रसाधिता मूर्धजाः शिरोरुहा अपि न भूषयन्ति पुरुषमिति सर्वत्रानुषङ्गः ; किंत्वेका केवला। वाणी। पुरुषम्। समलंकरोति सम्यग्भूषयति। केयं वाणीत्यत आह - या संस्कृता व्याकरणादिपरिशुद्धा। धार्यते स्वायत्तीक्रियते। सेत्यध्याहृततच्छब्देन संबन्धः; ननु केयूरादीनां विभूषणत्वेन प्रसिद्धत्वात्तन्निषेधे प्रत्यक्षापलापः स्यादित्याशङ्क्य तेषां क्षयिष्णुत्वान्न तथात्वमित्याह - अखिलभूषणानि केयूराद्युक्ताशेषभूषणानि। क्षीयन्ते कालक्रमेण नश्यन्ति - ‘क्षीयन्ते खल्वि’ति पाठे खलुशब्दो वाक्यालंकारे। वाग्भूषणं संस्कृतवाग्रूपभूषणं तु। सततं भूषणं नित्यभूषणं - कदाऽपि न नश्यतीत्यर्थः॥
व्यतिरेकालंकारः - लक्षणं तूक्तम्॥
एतदादिश्लोकचतुष्टयं शार्दूलविक्रीडितं वृत्तम्॥
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः।
विद्या बंधुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः॥१७॥
व्या.—विद्या नामेति.—रूपं नाम कुण्डलहारनूपुराङ्गदादिचतुर्विधभूषणाभावेऽपि विभूषितवद्भासमान आकारवि- शेषः तदुक्तं भावप्रकाशे—
“आवेध्यारोप्यविक्षेप्यबन्धनीयैरभूषितम्।
यद्भूषितमिवाभाति तद्रूपमिति कथ्यते॥”
इति.—
विद्या नाम वेदशास्त्राद्यात्मिका विद्यैव। नरस्य पुंसोऽधिकं भूयिष्ठं। रूपमुक्तलक्षणाकारविशेषः - तद्वल्लोकरञ्जकत्वादितिभावः। तथा प्रच्छन्नं निगूढं यथा तथा। गुप्तं रक्षितं। धनं विद्यैबेति संबन्धः- तद्वत्कालान्तरेषूपकारकत्वादिति भावः। विद्या भोगान् करोतीति भोगकरी स्रक्चन्दनादिभोग्यवस्तुलाभहेतुः। तथा यशस्समाख्या - सुखमिन्द्रियतर्पणम् - एतत्करी एतद्धेतुश्च - उभयत्रापि ‘कृञो हेतुताच्छील्यानुलोम्येष्वि’ति टप्रत्यये टित्वात् ङीप्। तथा विद्या। गृणन्त्युपदिशन्तीति गुरवस्तेषां हिताहितोपदेष्टृृणामाचार्याणामपि - गुरुरुपदेष्टृृभूता - तथा परमार्थबोधकत्वादिति भावः। विद्या। विदेशगमने प्रवासे। बन्धुजनः सुहृज्जनः - तद्वद्विशेषोपचारसंपादकत्वादिति भावः - तदुक्तं - स्वदेशमित्रं परदेशबन्धुं विद्यासुधां येपुरुषाः पिबन्ति’। विद्या परा देवता परमात्मभूतामोक्षदायकत्वादिति भावः - यद्वा परादेवता स्वाभीष्टदेवता - तथा ऐहिकामुष्मिकफलदत्वादिति भावः - विद्या। राजसु राजमध्ये। पूज्यते प्रशस्यते - गौरवसंपन्नत्वाद्राजपूज्या भवतीत्यर्थः - यद्वा विद्याशब्देन विद्यावान् लक्ष्यते राजशब्देन च तत्सभाः लक्ष्यन्ते
तथा च विद्यावान् राजसभासु पूज्यते पुरस्क्रियते संभाव्यत इति यावत्। धनं द्रव्यं तु। न ह्युक्तप्रकारं न भवतीत्यर्थः। तस्माद्विद्यया उक्तरूपया - विहीनश्शून्यः जनः। पशुः पशुप्रायः कर्तव्याकर्तव्यविवेकराहित्यादिति भावः। ततो बहूपकारकत्वाद्विशिष्ट विद्यैव प्रधानं न त्वन्यदिति तात्पर्यम्॥
अत्र विद्यायाः रूपधनाद्याकारेण बहुधा निरूपणान्निरवयवमालारूपकालंकारः॥
क्षान्तिश्चेत्कवचेन किं कि मरिभिः क्रोधोऽस्ति चेद्देहिनां
ज्ञाति श्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम्।
किं सर्पैः र्यदि दुर्जनाः किमु धनै र्विद्याऽनवद्यायदि
व्रीडा चेत्किमुभूषणै स्सुकविता यद्यस्ति राज्येन किम्॥
व्या.—अथलोकहितवर्णनप्रसंगात्तस्या एव प्रकृष्टैश्वर्यभावमाह - क्षान्तिरिति.—देहिनां प्राणिनां क्षान्तिः तितिक्षा - परि - भवादिषूत्पद्यमानेषु क्रोधप्रतिबन्धक इति यावत्। अस्तिचेत्तर्हि। कवचेन वर्मणा। किं फलमिति सर्वत्रानुषज्यते न किंचिदपीत्यर्थः - तस्या एवारुन्तुदानामनवकाशप्रदत्वादितिभावः। क्रोधश्चित्तक्षोभोऽस्ति चेत्। अरिभिः शत्रुभिः किम् ? तस्यैवान्तश्शत्रुत्वादुपद्रवहेतुत्वाच्चेति भावः। ज्ञातिर्दायादोऽस्ति चेदनलेनाग्निना किम् ? तस्यैव सर्वार्थनिर्मूलननिदानत्वादिति भावः। सुहृत् सन्मित्तमस्ति यदि***** ‘सुहृद्दुर्हृदौ मित्रामित्रयोरि’ति निपातनात्साधुः। दिव्यौषधैः सिद्धौषधैः किं फलम् ? न किंचिदपि - तस्यैवारोग्यकरत्वादिति भावः। दुर्जनाः
खला स्सन्ति यदि सर्पैराशीविषैः किम् ? तेषामेव प्राणापहारित्वादिति भावः। अनवद्या निर्दुष्टा***** ‘अवद्यपण्वे’त्यादिना निपातनात्साधुः - ततो नञ्समासः - ‘तस्मान्नुडची’ति नुडागमः। विद्या वेदवेदाङ्गाध्यात्मिका। अस्ति यदि। धनैः किम् ? तस्या एवाखिलभोगसाधकत्वादिति भावः। व्रीडा अकार्यप्रवृत्तौ मनस्संकोचलक्षणलज्जाऽस्ति चेद्भूषणैः किमु हारनूपुराद्यलंकरणैः किम् ? - तस्या एव लोकोत्तरभूषणत्वादिति भावः। सुकविता सत्पाण्डित्यं - नि—‘संख्यावान्पण्डितः कविरि’त्यमरः - यद्वा कवयति वर्णयति रसोल्लसितशब्दार्थसंघटनां करोतीति कविस्तस्य भावस्तत्ता - यदि। राज्येन भूमण्डलाधिपत्येन किम् ? - तस्या एव सकललोकवशीकरत्वादिति भावः - राज्ञो भावः कर्म वा राज्यं प्रजापरिपालनात्मकं - पुरोहितादित्वाद्यक्प्रत्ययः॥
दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने नयोन्नृपजने विद्वज्जने चार्जवम्।
शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः॥१९॥
व्या.—अथ विदुषां गुणवर्णनपूर्वकं लोकव्यवस्थापकत्वमाह दाक्षिण्यमिति.—स्वजने बन्धुजनेष्वित्यर्थः। जातावेकवचनम् - एवमुत्तरत्रापि - दाक्षिण्यं छन्दानुवर्तनम् अन्यथा विनिंदेयुरिति भावः - नि—‘दक्षिणस्सरलावामपरच्छन्दानुवर्तिष्वि’ति। परिजने भृत्यजनेषु विषये। दया दारिद्र्यादितद्दुःखप्रहाणेच्छा - अन्यथा विजह्युरिति भावः। दुर्जने खलजनेषु विषये। सदा शाठ्यं विप्रियका-
रित्वम् - अन्यथा अधिक्षिपेरन्निति भावः। साधुजने सज्जनेषु विषये। प्रीतिः स्नेहः - आदर इति यावत् - अन्यथाऽनुतपेयुरिति भावः। नृपजने राजसु विषये। नयो नीतिः - अनुवर्तनतात्पर्यमिति यावत् - अन्यथा दण्डयेरन्निति भावः। विद्वज्जने पण्डितजनेषु विषये। आर्जवमवक्रता - अन्यथा निषिध्येयुरिति भावः। शत्रुजने शत्रुजनेषु विषये। शौर्यं विक्रान्तत्वम् - अन्यथा निपातयेरन्निति भावः। गुरुजने पित्रादिषु विषये। क्षमा सहिष्णुत्वम् - अन्यथा शपेरन्निति भावः। कान्ताजने नारीजनेषु विषये। धृष्टता प्रागल्भ्यं च अन्यथा वशीकुर्युरिति भावः ; इत्येवमुक्तविधासु। कलासु शिल्पेषु-नि—“कला शिल्पे कालभेदे चन्द्रांशे कलना कले”ति वैजयन्ती। ये च पुरुषाः। कुशलाः निपुणाः। तेषु पुरुषेष्वेव। लोकस्थितिः लोकमर्यादा। अस्तीति शेषः। त एव लोकव्यवस्थासंस्थापकाः न तूक्तगुणरहिता इत्यर्थः। एवं भूतास्तु विद्वांस एव नत्वन्य इति हृदयम्॥
जाड्यं धियो हरति सिञ्चिति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं
सत्संगतिः कथय किं न कराति पुंसाम्॥२०॥
व्या.—इत्थं विद्वज्जनाननुवर्ण्य संप्रति सत्संगतेश्श्रेयस्करत्वमाह—जाड्यमिति.—धियः बुद्धेर्जाड्यं मान्द्यम्। हरति निरस्यति। वाचि वचने। सत्यं सूनृतभावम्। सिञ्चत्याप्लावयति। मानोन्नतिं बहुमानातिशयम्। दिशति प्रयच्छति। पापं किल्विषमपाकरोति
नाशयति - धर्मोपदेशादिनेति भावः। तथा चेतः। प्रसादयति निर्मलयति - ज्ञानोपदेशादिनेति भावः। दिक्षु दशसु कीर्तिम्। तनोति विस्तारयति। अतस्सत्संगतिस्सज्जनसमागमः। पुंसां किं - श्रेयो न करोति कथयेति पृथग्जनसंबोधनम् - सर्वमपि श्रेयः करोत्येवेत्यर्थः ; अतस्तैरेव संगतिः कर्तव्या न तु दुर्जनैरिति तात्पर्यम्॥
अत्र क्रियाणां बहूनां समुच्चितत्वात्समुच्चयालंकारः - ‘गुणक्रियायौगपद्यं समुच्चय उदाहृत’ इति लक्षणात्॥
वसंततिलकावृत्तं - लक्षणं तूक्तम्॥
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः।
नास्ति तेषां यशःकाये जरामरणजं भयम्॥२१॥
व्या.—अथैतेषामसाधारणमहिमास्पदत्वाल्लोकोत्तरत्वं वर्णयन्निगमयति.—जयन्तीति.—सुकृतिनो धन्याः - नि — ‘सुकृती पुण्यवान् धन्य’ इत्यमरः। रससिद्धाः सिद्धशृङ्गारादिरसाः सिद्धपारदघुटिकाश्च***** ‘वाऽऽहिताग्न्यादिष्वि’ति निष्ठायाः परनिपातः। ते प्रसिद्धाः पूर्वोपवर्णिता वा। कवीश्वराः कविसार्वभौमाः पण्डितोत्तमा इति वा। जयन्ति सर्वोत्कर्षेण वर्तन्ते - अद्याऽपीति शेषः ; यद्वा - रससिद्धाः सिद्धरसाः - ब्रह्मसाक्षात्कारवन्त इत्यर्थः - ‘रसो बैस’ इति श्रुतेः।
“शृङ्गारादौ विषे वीर्ये पारदे ब्रह्मवर्चसे।
वेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः—रसः॥”
इत्यभिधानाच्च। कवीश्वराः - कवयः क्रान्तदर्शिन - स्तेषामीश्वराः कालत्रयाभिज्ञा ब्रह्मविद्याविशारदा इत्यर्थः। जयन्ति। कुत स्तेषां
कवीश्वराणाम्।यशः कायेकीर्तिशरीरे। जरामरणाभ्यां जातम् - इतिः तथोक्तम्। भयं नास्ति; रससिद्धानां भौतिकशरीर एव जरामरणभयं नास्ति। यशश्शरीरे तु किं वक्तव्यम्। तस्य कल्पान्तस्थायित्वादिति भावः॥
अत्र रससिद्धपदार्थस्य विशेषणगत्या भयाभावपदार्थं प्रति हेतुत्वात्काव्यलिङ्गभेदः। वृत्तमुक्तम्॥
इति नीतिशतके विद्वत्पद्धति स्सम्पूर्ण॥
<MISSING_FIG href="../books_images/U-IMG-1724309259pic3.jpg"/>
॥ मानशौर्यपद्धतिः ॥
क्षुत्क्षामोऽपि जराकृशोऽपिशिथिलप्रायोऽपि कष्टांदशा-
मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि।
मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः
किं जीर्णं तृणमत्ति मानप्रहतामग्रेसरः केसरी॥२२॥
व्या.—अथ विदुषामपि मानशौर्ययोरपेक्षितत्वाद्विद्वत्पद्धतिनिरूपणानन्तरं मानशौर्यपद्धतिं निरूपयति—क्षुत्क्षाम इति.—क्षुधा क्षामः क्षीणोऽपि***** ‘क्षायो म’ इति मत्वं, जरया विस्रसया - कृशो जीर्णोऽपि - नि—‘विस्रसाजरे’त्यमरः। शिथिलप्रायः विश्लथाङ्गतया बलहीनस्सन्नपीत्यर्थः। कष्टांदशामाहारालाभादतिकृच्छावस्थामापन्नः प्राप्तोऽपि - नि—‘ दशावर्ताववस्थायामि’ति विश्वः। अत एव विपन्नदीधितिर्नष्टकान्तिरपि। किं बहुना प्राणेषु पञ्चसु। नश्यत्सूत्क्रममाणेषु सत्स्वपि - प्राणप्रयासे संप्राप्ते सत्यपीत्यर्थः। मत्तेभेन्द्रस्य मत्तगजपुङ्गवस्य विभिन्नोविदारितो -
यः कुम्भः कुम्भस्थलं - तत्र यत्पिशितं मेदो मांसं - तद्ग्रासे - तत्कबलने - एकं मुख्यं यथा तथा बद्धा सन्दानिता - स्पृहा वाञ्छा यस्य स इति शौर्यातिशयोक्तिः । तथा मानमहतामभिमानोन्नतानामग्रेसरोऽग्रगण्यः * ‘पुरोऽग्रतोऽग्रेषु सर्तेरि’ति टप्रत्ययः। केसरी सिंहः। जीर्णं तृणं घासम्। अत्ति किं अभ्यवहरति किम् ? नात्त्त्येवेत्यर्थः। इति मानातिशयोक्तिः ; नीचजन्तु स्तु नैवमिति भावः॥
अत्र यद्यपि सर्वत्रापिशब्दस्ताव देकैक विशेषण विशिष्टस्यैवात्यन्तनीचवृत्तिप्रवृत्तिं द्योतयति। तथाऽप्युक्ता- खिलविशेषण विशिष्टोऽपि गजेन्द्रमेदः कबलनविहितप्रतिज्ञः केसरी न नीचवस्तुनि प्रवर्तत इति महती मानशौर्यपरकाष्ठोक्तिरिति मन्तव्यम्॥
“प्राणानपि परित्यज्य मानमेवाभिरक्षयेत्।
प्राणा स्तरङ्गचपला मानमाचन्द्रतारकम्॥”
इति वचनान्मान शौर्यसंपन्नेन भवितव्यं यशस्कामेनेति भावः॥
अत्र प्रकरणे कुत्रचिन्मानस्य कुत्रचिच्छौर्यस्य कुत्रचिदुभयस्य च प्राधान्यकथनमपि द्रष्टव्यम्। कुलक्रमागतो- त्तमशीलपरिपालनं मानं सहायमनपेक्ष्य शत्रुसंहरणसामर्थ्यं शौर्यमिति विवेकः॥
अत्र प्रायेणाप्रस्तुतप्रशंसालंकारोऽनुसंधेयः॥
शार्दूलविक्रीडितं वृत्तं - लक्षणं तूक्तम्॥
स्वल्पस्नायुवसावसेकमलिनं निर्मांस मप्यस्थि गोः
श्वा लब्ध्वा परितोषमेति नच तत्तस्य क्षुधाशान्तये।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जन स्सत्वानुरूपं फलम्॥२३॥
व्या.—क्षुद्रजन्तुस्तु नैवमिति उक्तमेवार्थं भङ्ग्यन्तरेणाह—स्वल्पेति.—श्वा शुनकः। स्वल्पयोः लेशमात्रयोः - स्नायुचसयोः - स्नायुर्वस्नसाख्यनाडीभेदः - वसामेदः - तयो रवसेकेन मेलनेन - मलिनं मलदूषितमपि - नि—‘वस्नसा स्रायुः स्त्रियां’ - ‘हृन्मेदस्तु वपावसे’ त्यमरः। निर्मासं मांसलेशशून्यमपि। गोः पशोः - नि—
“स्वर्गेषुपशुवाग्वज्रदिड्नेत्रघृणिभूजले।
लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः” इत्यमरः॥
अस्थि कीकसं। लब्ध्वा। परितोषमेति संतुष्यति। तच्च गवास्थि तु। तस्य शुनः। क्षुधा***** ‘आपं चैव हलन्ताना मि’ति वच नाट्टाप् - तस्याः शान्तये क्षुन्निवारणाय। न पर्याप्तं न भवतीत्यर्थः - अस्ति र्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीति भाष्यकारवचनात् - भवन्तीति लटः पूर्वाचार्याणां संज्ञा - नीचजन्तुरिति भावः। सिंहस्तु। अङ्कं समीपमागतमपि - समीपवर्तिनमपीत्यर्थः - नि—‘अङ्क स्समीप उत्सङ्गे चिह्ने स्थानापवादयोरि’ति विश्वः। जम्बुकं। क्रोष्टारम्। त्यक्त्वा अनादृत्यालक्ष्यीकृत्येति यावत्। द्विपं गजमेव दूरस्थमपीति भावः। निहन्ति विदारयति तथा हि - कृच्छ्रगतोऽप्यतिसंकटस्थोऽपि। सर्वोऽशेषो जनः। सत्त्वानुरूपं स्वशक्त्यनुगुणं। फलं लाभं वाञ्छति ; न तु दुर्बलःप्रकृष्टफलकाङ्क्षी प्रबलो निकृष्टलाभकाङ्क्षी च भवति ; अतः
श्वसिंहदृष्टान्तेन नीचानीचवस्तुपरिहारपरिग्रहतत्परेण भवितव्यमायुष्मतेति भावः॥ वृत्तं पूर्ववत्॥
लांगूलचालनमधश्चरणावघातं
भूमौ निपत्य वदनोदरदर्शनञ्च।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति चाटुशतैश्चभुंक्ते॥२४॥
व्या.—अथ क्षुद्रजन्तो श्चेष्टाविशेषमाह - लाङ्गूलेति.—श्वा सारमेयः। लाङ्गूलचालनं पुच्छविवर्तनम्। अधः भूतले चरणावघातं पादेन विदारणंच। भूमौ निपत्य स्वयमेव पतित्वा। वदनोदरदर्शनं वक्त्रकुक्षि प्रदर्शनं च। पिण्डदस्य पुरस्तादिति शेषः। कुरुते निजनीचचेष्टामाविष्कुरुत इत्यर्थः। पुमान् गौः पुंगवो वृषभः- विशेषणसमासः * ‘गो रतद्धितलुकी’ति समासान्तष्टच्- स एव पुंगवः श्रेष्ठ इत्यर्थः - नि—‘श्रेष्ठोक्षाणौ तु पुंगवावि’ति वैजयन्ती - गजपुंगवो गजेन्द्र स्तु। धीरं गर्भारम्। विलोकयति पश्यति - पिण्डदसन्निधाविति भावः। अथ चाटुशतैरनेकप्रियोक्तिभिः - अनूनवाक्यै श्च वा। भुङ्क्ते अभ्यवहरति - गुडतण्डुलादिकमितिशेषः * ‘भुजोऽनवन’ इत्यात्मने पदम्। इमावेव नीचानीचजनयोः दृष्टान्ताविति भावः॥
वसन्ततिलकावृत्तम् - लक्षणं तूक्तम्॥
परिवर्तिनि संसारे मृतः को वा न जायते।
स जातो येन जातेन याति वंशस्समुन्नतिम्॥२५॥
व्या.—अथ मानशौर्यसंपन्नतया वंशवर्धनस्यैव जनस्य सत्ता लाभो न त्वन्यस्येत्याह—परिवर्तिनीति.—परिवर्तिनि धर्माधर्मवशात्पौनःपुन्येन वा वर्तमाने। संसारे जरामरणरूपे संसारचक्रे। को वा पुमान्। मृतः प्रेतः। न जायते न भवतीत्युप्तन्नो वा न भवतीति शेषः। यद्वा को वा न मृतः को वा न जायते नोत्पद्यते - सर्वोऽप्युत्पन्नो मृतश्च भवत्येवेत्यर्थः - “जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य चे”ति भगवद्वचनादिति भावः। ततः किमत आह। स पुमान्। जात उत्पन्नो जन्मलाभवानिति यावत्। कोऽसावित्यत आह। येन जातेनोत्पन्नेन पुंसा। वंशोऽन्ववायः समुन्नतिं महौन्नत्यम्। याति प्राप्नोति; वंशोद्धारको यः पुमान् स एव जन्मलाभवानेवंभूतत्वं च मानशौर्यसंपन्नस्यैव न त्वन्यस्य। अतः किमन्यैरजागलस्तनवदुत्पन्नैर्मशकवद्विनष्टैश्चेति भावः॥
आनुष्टुभं वृत्तम्॥
कुसुमस्तबकस्येव द्वयीवृत्तिर्मनस्विनः।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा॥२६॥
व्या.—इत्थं भूतस्य पुरुषस्य व्यापारमाह - कुसुमेति॥ कुसुमस्तबकस्येव पुष्पगुच्छस्येवेत्येकं पदम्। मनस्विनो धीरस्य।मानशौर्यशालिनः पुंस इत्यर्थः। द्वयी द्विविधा। वृत्तिर्व्यापारः - ‘द्वे गती ही’ति पाठे स्पष्टोऽर्थः - तृतीया तु न संभवतीत्यर्थः ; किं तद्वृत्तिद्वयमित्यत आहः—सर्वलोकस्य सर्वेषां जनानामित्यर्थः। मूर्ध्नि शिरस्युन्नतस्थाने च। स्थीयत एवेति शेषः। अथवा वन एवारण्ये। शीर्यते जीर्यते वा - भावे लट्। एवमुभयी
वृत्तिः - शौर्यादुन्नतस्थानस्थितिस्तदलाभे मानादरण्ये जीर्णता वा इति विवेकः। इयमेव पुंसां श्रेयस्करी वृत्तिरिति भावः। कुसुमस्तबकस्येवेत्यत्र समानाश्रौती पूर्णोपमाऽलंकारः। इवशब्देन सह समासस्य संभवात् - तथा च वार्तिकम् * ‘इवेन सह नित्यसमासो विभक्त्यलोपः। पूर्वपदप्रकृतिस्वरत्वं चे’ति। वृत्तं पूर्ववत्॥
सन्त्यन्येऽपि बृहस्पतिप्रभृतयस्संभाविताः पञ्चषा-
स्तान्प्रत्येष विशेषविक्रमरुची राहूर्न वैरायते।
द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्वरौ
भ्रातः पर्वणि पश्य दानवपतिश्शीर्षावशेषाकृतिः॥२७॥
व्या.—पुनरप्युक्तोभयगुणवैशिष्ट्यस्यैवोत्क्रष्टतामाह.—सन्तीति.—अन्ये वक्ष्यमाणसूर्यचन्द्राप्रेक्षया इतरे। बृहस्पतिप्रभृतयः बृहस्पतिप्रमुखाः - प्रभृतिशब्देन बुधशुक्रादयोऽपि गृह्यन्ते। पञ्च षड्वापञ्चषाः ग्रहाः * ‘संख्ययाव्यये’त्यादिना बहुव्रीहिः***** ‘वहुव्रीहौ संख्येये डज बहुगणादि’ति समासान्तो डच् प्रत्ययः। संभाविताः ग्राह्यत्वेनोपस्थिताः बहुमता वा। सन्ति वर्तन्ते। तान् प्रति बृहस्पतिप्रभृतीन् लक्ष्यीकृत्येत्यर्थः। विशेषेषु विशिष्टेषु तेजोमहत्स्विति यावत् - विक्रमे पराक्रमणे - रुचिः प्रीतिर्यस्य स तथोक्तः - तेजस्विभिस्सहैव कलहाचरणतत्पर इत्यर्थः। एषः उपरागकर्तृत्वेन प्रसिद्धो। राहुः सैंहिकेयः। न वैरायते वेरं न करोति - अलक्ष्यत्वात्तत्कबलनतत्परो न भवतीत्यर्थः * ‘शब्द वैर कलहाभ्रकण्व मेघेभ्यः करण’ इति क्यङ् * ‘अकृत्सार्वधातुकयोर्दीर्घ’ इति दीर्घः - विक्रमरुची राहुरित्यत्र ‘रो री’ति रेफलोपे*****
‘ढ्रलोपे पूर्वस्य दीर्घोऽण’ इति दीर्घः। किं तु। भास्वरौ तेजस्विनौ***** ‘स्थेश भास’ इत्यादिना वरच्प्रत्ययः। द्वावुभौ। दिवाकरनिशाप्राणेश्वरौ सूर्याचन्द्रमसावेव अन्ययोगव्यवच्छेदार्थकाऽयमेवकारः। शीर्षमेवावशेषो यस्यास्सा शीर्षावशेषा आकृतिर्यस्य शिरोमात्रावशिष्टगात्र इत्यर्थः - ‘शीर्षाविशेषीकृत’ इति पाठेऽप्ययमेवार्थः परिणमयितव्यः। दानवपतिर्दानवेश्वरः पूर्वोक्तो राहुः। पर्वणि दर्शपौर्णमासीप्रतिपत्संधौ। ग्रसति गिलति। हे भ्रातरित्यादरेण पृथग्जनसंबोधनम्। पश्येत्यत्र वाक्यार्थः कर्म.—यतश्शिरोमात्रावशिष्ट एवाय मीदृक्कर्ताचरणतत्परोऽभूत्सं- पूर्णाङ्गश्चेत्किंकरिष्यति न जानामीति भावः; एव मानशौर्यशालिनो हि निजाङ्गवैकल्यं न परिगणयेयुरिति किं तु महत्कार्यमेव कर्तुं व्यवस्यन्तीति तात्पर्यम्.—पुरा किल देवानाममृतप्रदानसमये विष्णुचक्रेण च्छिन्नशीर्षत्वाच्छिरोमात्रावशिष्टगात्रोऽभूत्सैंहिकेय इति पौराणिकी कथाऽत्रानुसंधेया। शार्दूलविक्रीडितं वृत्तम्॥
वहति भुवनश्रेणिं शेषः फणाफलकस्थितां
कमठपतिना मध्येपृष्ठं सदा सच धार्यते।
तमपि कुरुते क्रोडाधीनं पयोधिरनादरा-
दहह महतां निस्सीमानश्चरित्रविभूतयः॥२८॥
व्या.—अथ महतां माहात्म्यमाह–वहतीति.–शेषः फणाः सहस्रसंख्याकाः स्फटाः फलकानीव तेषु - स्थितां। भुवनश्रेणिं पातालादिचतुर्दशविष्टपपङ्क्तिं। वहति धारयति - नि–‘स्फटायां तु फणा द्वयो’रित्यमरः। स च शेषः कमठपतिना आदिकूर्मेण***** ‘पति
स्समास एवे’ति घिसंज्ञाया ‘माङोनास्त्रियामि’त्याङो नाभावः। पृष्ठस्य मध्ये मध्येष्ठं निजकूर्परोपरिप्रदेश इत्यर्थः * ‘पारे मध्ये षष्ठ्या वे’त्यव्ययीभावः - तत्सन्नियोगादेदन्तत्वं च मध्यशब्दस्य।सदा निरन्तरम्। धार्यते। उ्ह्यते। तमपि। कमठपतिमपि। पयोधिः प्रलयार्णवः। अनादरात् अनायासात्। क्रोडाधीनं आदिवराहायत्तं कुरुते - प्रलयकाले पातालगतभूमण्डलस्यादिवराहावतारेण विष्णुना निजदंष्ट्रया समुद्धृतत्वादिति भावः। अतो महतां मानशौर्यशालिनां महानुभावानां सम्बन्धिन्य श्चरित्रविभूतयो माहात्म्यसंपदो निस्सीमानो निर्मर्यादाः - अवाङ्मनसगोचरा इति यावत्। अह हेत्याश्चर्ये - नि—‘अह हेत्यद्भुते खेदे’ इत्यमरः॥ अत्र पूर्वपूर्वस्योत्तरोत्तरगुणोत्कर्षावहत्वान्मालादीपकाख्योलंकारः - तदुक्तं विद्यानाथेन॥
‘यदा तु पूर्वपूर्वस्य संभवेदुत्तरोत्तरम्।
प्रत्युत्कर्षावहत्वं तन्मालादीपकमुच्यते।’ इति॥
हरिणीवृत्तं - लक्षणं तूक्तम्॥
वरं प्राणोच्छेदः समदमघवन्मुक्तकुलिश-
प्रहारैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः।
तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे
न चासौ संपातः पयसि पयसां पत्युरुचितः॥२९॥
व्या.—मानशौर्यशालिन एवोक्तविधमहत्त्वं न तु तद्विहीनस्येति मैनाकं दृष्टान्तीकृत्याह - वरमिति.—तुषाराद्रेस्सूनोर्हिमबत्पुत्रस्य मैनाकस्य। उद्गच्छन्नुज्जृम्भमाणो - बहुलो भूयिष्ठश्च - यो
दहन श्शिलासंघर्षणजनितवह्नि स्तस्योद्गारै र्निस्सरणैः - गुरुभिः दुस्सहैः। समदेन सदर्पेण - मघवता देवेन्द्रेण - मुक्तस्य प्रयुक्तस्य कुलिशस्य वज्रायुधस्य - प्रहारै र्विदारणैः। प्राणोच्छेदो मरणमित्यर्थः। वरं मनाक्प्रियम् - नि.—‘दैवा द्वृते वरः श्रेष्ठ त्रिषु क्लीबं मनाक्प्रिय’ इत्यमरः। कुतः। अह हेति खेदातिशयद्योतनार्थोऽनुकरणशब्दः। पितरि हिमवति। क्लेशेन वज्रप्रहार जनितदुःखेन - विवशे विह्वले सति। असावद्याऽप्युपलभ्यमानः। पयसां पत्यु स्समुद्रस्य - अत्रासमासत्वेन घिसंज्ञाभावात्***** ‘ख्यत्यात्परस्ये’ति कृतयणादेशात्तिशब्दात्परस्य ङसोऽकारस्य उकारादेशः। पयसि सलिले संपातः प्रवेशः - निजप्राणसंरक्षणार्थं निमज्यावस्थानमित्यर्थः। उचितो। न्याय्यो। न च न भवति हि। अस्यैवेति शेषः। यतो मानशौर्य संपन्नस्य पुंसः स्वप्राणमात्रपरित्राणतत्परतया क्वचिन्निलीयावस्थान मेवात्यन्तायशस्करम्। किमुत पितरि क्लेशविवशे; अतः प्राणपरित्यागेनापि मानशौर्ये एव प्रतिष्ठापनीये। अन्यथा महानपवादस्स्यादिति भावः। अत्रोद्गारशब्दस्य गौणत्वा न्नग्राम्यतादोषः। प्रत्युत सौन्दर्यातिशयमेवापादयति। तदुक्तं दण्ड्याचार्यैः॥
“निष्ठ्यूतोद्गीर्ण वान्तादि गौणवृत्तिव्यपाश्रयम्।
अतिसुन्दरमन्यत्र ग्राम्यकक्ष्यां विगाहते”॥
इति पुरा किल भूमण्डलोपद्रवकारिणां पर्वतानां कोपवशात्पक्षच्छेदोद्यते शक्रे भयविह्वलो मैनाकः समुद्रमध्ये निमज्ज्यातिष्ठदिति पौराणिकी कथाऽत्रानुसंधेया॥
शिखरिणी वृत्तम्॥
यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितु रिन कान्तः।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते॥३०॥
व्या.—अथ मानिनां परनिकारासहनं सदृष्टान्तमाह - यदिति.—यद्यस्मात्कारणादचेतनः चेतनरहितः निर्जीवोऽपीति यावत् - पाषाणत्वादिति भावः। इनकान्तस्सूर्यकान्तमणिस्सवितु स्सूर्यस्य। पादैः रश्मिभिरङ्घ्रिभिश्च। स्पृष्टः संवलितस्ताडितश्चेति ध्वन्यते। प्रज्वलति जाज्वल्यमानो भवति - कोपोद्रिक्तश्चेति गम्यते। तत्तस्मात्कारणात्। तेजस्वी तेजशाली मानशौर्यसंपन्नः पुरुषः सचेतन इति शेषः। परैश्शत्रुभिः कृतनिकृतिं विहितापकारं कथं सहते क्षमते - न कथंचिदित्यर्थः ; मैनाक स्तु नैवमिति भावः नि.—‘पादारश्म्यङ्घ्रितुर्यांशा’ इत्यमरः॥
आर्यावृत्तभेदः॥
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु।
प्रकृतिरियं सत्त्ववतां नखलु वयस्तेजसां हेतुः॥३१॥
व्या.—विक्रान्तत्वेवयोऽपि न हेतुरिति विनिगमयति - सिंह इति.—शिशुर्बालोऽपि विक्रान्तत्वयोग्यतारहितावस्थोऽपीत्यर्थः। सिंहः। मदमलिनाःदानपयःपङ्किलाः - कपालाः भित्तय इव एषां तेषु गजेषु - मातङ्गेषु। निपतति कुम्भस्थलविदारनार्थमिति भावः। इयं बाल्येऽपि विक्रान्तता। सत्त्ववतां बलाढ्यानां। प्रकृतिः स्वभावः। कुतः। वयो बाल्यादि। तेजसां प्रतापशालिनामिति तजस्तेद्वतोरभेदाद्ध्यवसायोऽत्यन्ततेज- स्वित्वप्रकाशनार्थकः। हेतुः
कारणं - न भवति खलु - ‘तेजसां हि न वयः समीक्ष्यते’ इति न्यायादिति भावः - ‘वयः पक्षिणि बाल्यादा वि’त्यमरः। अयमप्यार्यवृत्तभेदः॥
इति नीतिशतके मानशौर्यपद्धतिः सम्पूर्णे॥
<MISSING_FIG href="../books_images/U-IMG-1724337258pic3.jpg"/>
॥अर्थपद्धतिः॥
जाति र्यातु रसातलं गुणगण स्तत्राप्यधो गच्छतात्
शीलं शैलतटात्पतत्वभिजन स्पन्दह्यतां वह्निना।
शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तुनः केवलं
येनैकेन विना गुणास्तृणलवप्रायास्समस्ता इमे॥३२॥
व्या.—मानशौर्ययोरप्यर्थमूलत्वात् तन्निरूपणानन्तरमर्थपद्धतिं निरूपयति.—तत्र प्रथममर्थैकतत्पराणां मतमभिसंधाय तमाहजातिरिति.—जातिःब्राह्मणत्वादिः। रसातलं नामाधोलोकम्। यातु गच्छतु भ्रश्यत्वित्यर्थः। गुणगणो धैर्यौदार्यगाम्भीर्यादिगुणसमूहः। तत्रापि रसातलापेक्षयाऽप्यधःपाताललोकम्। गच्छतात् प्राप्नुयात्। शीलं सत्स्वभावः। शैलतटात्। पततु विशीर्णं भवत्वित्यर्थः। अभिजनो वंशः- नि.–“अभिजनान्वयौ वंश” इत्यमरः। वह्निना। संदह्यतां भस्मीक्रियताम्। वैरिणि संक्षोभकारित्वाच्छ्त्रुभूते शौर्ये। शूरत्वमूर्ध्नीत्यर्थः। आशु शीघ्रम्। वज्रमशनिर्निपततु - अशनिनिपातेन तदपि विध्वस्तं भवत्वित्यर्थः। एवं पूर्वोक्तजातिकुलोचिताभिमानशौर्यादिनाशेऽप्यस्माकं न किंचदपि च्छिन्नमिति भावः। तथाऽपि किं युष्मदभिलषितमित्यत आहुः - नोऽस्माकम्। अर्थः केवलं वित्तमे
वास्तु संभवत्वयमेवास्माकं परमार्थ इति भावः। ननूत्कर्षावहत्वेन प्रसिद्धानामुक्तगुणानां विध्वंसमङ्गीकृत्य एकेन वित्तेन किं करिष्यथेति नाशङ्कनीयं - यतस्तद्विना तेषामप्यत्यन्ताकिंचित्करत्वमेवेत्याहुः। एकेन केवलेन - नि— ‘एके मुख्यान्यकेवला’ इत्यमरः। येन अर्थेन विना -* ‘पृथग्विने’त्यादिना विकल्पात्तृतीया। इमे पूर्वोक्ताः। समस्ता अपि गुणाः जातिकुलशीलाभिमानादयस्तृणलवप्रायास्तृणकल्पास्तद्वन्निस्सारा इत्यर्थः। अतो गुणमहत्ताया अप्येतन्मूलकत्वादयमेव संपादनीय इति भावः॥
“धनमर्जय काकुत्स्थ धनमूलमिदं जगत्।
अन्तरं नाभिजानामि निर्धनस्य मृतस्य च॥”
इति लक्ष्मणवाक्यमेव सिद्धान्तीकुर्मः ;
“अर्थानामर्जने दुःखमर्जितानां च रक्षणे।
रक्षितानां व्यये दुःखं धिगर्थं दुःखभाजनम्॥”
इति मनुस्मरणं त्वशक्तविषयं मन्यामह इति तात्पर्यम्॥
शार्दूलविक्रीडितं - लक्षणं तूक्तम्॥
यस्यास्ति वित्तं स नरः कुलीनः स पण्डित स्सश्रुतवान् गुणज्ञः।
सएव वक्ता सच दर्शनीयः सर्वेगुणाः काञ्चनमाश्रयन्ति॥
व्या.—ननु तथाऽपि गुणाभावेऽपि केवलवित्तस्याकिंचित्करत्वमेवेत्याशङ्क्य तस्यैवाशेषगुणावहत्वं तावदाह - यस्येति.—यस्य नरस्य। वित्तमस्ति संभवति। स नरः। कुले जातः कुलीनः महाकुलप्रसूतः * ‘कुलात्ख’ इति ख प्रत्ययः। स एव पण्डितो विद्वान्। स एव श्रुतवान् शास्त्रज्ञः - यद्वा - श्रुतं श्रवणं नपुंसके
भावे क्तः - तदस्यास्तीति श्रुतवान् धर्मशास्त्राद्याकर्णनचतुरोऽपीत्यर्थः। स एव गुणज्ञो गुणग्राहीअत्र***** ‘आतोऽनुपसर्गे क’इत्यादिव्याख्यातं प्राक्। स एव वक्ता वाग्मी स च स एव। दर्शनीयस्सुन्दरश्च - उक्तगुणराहित्येऽपीति भावः। नन्वेवं चेत्पुरुषस्यैकेन वित्तेन ईदृग्गुणसाकल्यसंपन्नत्वं कुत इत्याशङ्कयाह - सर्वे। गुणाः पूर्वोक्तकुलीनत्वादयः। काञ्चनं वित्तमाश्रयन्ति। अतोऽनेनैव सकलगुणसंपत्तिसंभवे किमन्यैः प्रत्येकप्रयाससाध्यैरिति भावः॥
अत्र वित्तस्यैतावद्गुणसंपादकत्वासंबन्धेऽपि तत्संबन्धाभिधानादसंबन्धे संबन्धरूपातिशयोक्तिः॥
वृत्तमुपजातिः॥
दौर्भ्मन्त्र्यान्नृपतिर्विनश्यति यतिस्सङ्गात्सुतो लालना-
द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात्।
ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रया-
न्मैत्रीचा प्रणयात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम्॥३४॥
व्या.—अथ द्वाभ्यामर्थस्य विनाशप्रकारमाह - दौर्मन्त्र्यादिति.—नृपतिः राजा। दुष्टो न सुलक्षण प्रयुक्तो मन्त्रः षाङ्गुण्यचिन्तनं यस्य तस्य दुर्मन्त्रस्य भावो दौर्मन्त्र्यं तस्माद्धेतोर्नश्यति विनष्टो भवति-मन्त्रवैकल्ये परेषामवकाशसंभवात् राज्याद्यपहरणादिति भावः- यद्वा - दुष्टा मन्त्रिणः प्रधानानि यस्य तस्य भावस्तस्मान्नश्यति - अदण्ड्यदण्डनाद्युपदेशेन लक्ष्म्यादिरहितो भवतीत्यर्थः.—
“सन्मन्त्रिणा वर्धयते नृपाणां लक्ष्मीर्महीधर्मयशस्समूहः।
दुर्मन्त्रिणा नाशयते तथैव लक्ष्मीर्महीधर्मयशस्समूहः॥”
इति वचनादिति भावः ; यतिर्योगी। सङ्गात्समागमान्नश्यतिसङ्गस्य कामक्रोधादिहेतुत्वात् - तदुत्पत्तौ भ्रष्टयोगो भवतीत्यर्थः–
“सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते।
क्रोधाद्भवति संमोहः सम्मोहात् स्मृतिविभ्रमः॥”
इति गीतावचनादिति भावः; सुतो लालनान्नश्यति गुणहीनो भवति—
“लालनाद्बहवो दोषास्ताडनाद्बहवो गुणाः।
तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत्॥”
इति न्यायादिति भावः; विप्रो ब्राह्मणोऽनध्ययनात्। नश्यति नीचो भवति॥
“वेदवेदाङ्गतत्त्वज्ञो विप्रस्सर्वत्र पूज्यते।
अनधीतश्रुतिर्विप्रः सभामध्ये न शोभते॥”
इति; कुलं वंशः। कुतनयात्कुपुत्रान्नश्यति—
“कोटरान्तर्भवो वह्निस्तरुमेव दहिष्यति।
कुपुत्रस्तु कुले जातः स्वकुलं नाशयेत्परम्॥”
इति न्यायात् ; शीलं सत्स्वभावः। खलोपासनाद्दुर्जनसमागमान्नश्यति - तेषामत्यन्तानर्थमूलकत्वादिति भावः—
“छादयित्वाऽऽत्मभावं हि चरन्ति शठबुद्धयः।
प्रहरन्ति च रन्ध्रेषु साऽनर्थस्सुमहान्भवत्॥”
इति वाक्यात्; ह्रीर्जुगुप्सितकर्माचरणान्निवृत्तिः। मद्यात् मद्यपानान्नश्यति॥
“अयुक्तं बहु भाषन्ते यत्र कुत्रापि शेरते।
नग्ना विक्षिप्य गात्राणि ते जाल्मा इव मद्यपाः॥”
इत्युक्तत्वात्। कृषिस्सस्यमनवेक्षणान्नश्यति - नित्यमपरामर्शान्नश्यति।
“कृषिं च पत्नीमनवेक्ष्य यः पुमानन्यानि कार्याणिसमाचरेच्च।
ते त्वेवमेवं च समाकुले द्वे तथेति बाधानिचयं च यातः”॥
इति स्मरणात् ; स्नेहः पुत्रदारादिषूत्पन्नो मोहः। प्रवासाश्रयाद्देशान्तरसंचारसमाश्रयणान्नश्यति—
“सुताङ्गनाबन्धुषु सोदरेषु नृपेषु भृत्येषु च जातमोहः।
प्रवासमात्रेण हि नश्यतेऽखिलं चिरं प्रवासेन हरत्यशेषम्॥”
इति वचनात् ; मैत्री मित्रभावः। अप्रणयादननुरागान्नश्यति—
“मृद्घट इव सुखभेद्यो दुस्संधानश्च दुर्जनो भवति।
सुजनस्तु कनकघट इव दुर्भेद्यश्चाशु संधेयः॥”
इति वचनात्। समृद्धिस्संपत्ति रनयान्नीतिराहित्यान्नश्यति—
“रक्षायां स्वमतिक्षिपत्यधिकरं शिक्षा गुणैर्लभ्यते
विद्वेष्टि स्वजनं त्यजत्यवनतिं मृद्नाति मार्गस्थितान्।
भूतिं नेच्छति योजनात्प्रतिभयं दुर्वर्त्मना गच्छति
क्रूराग्रं विनयाङ्कुशं न सहते भूपालमत्तद्विपः॥”
धनं तुत्यागादर्थिसात्करणात् - ‘द्यूतादि’ति पाठे - द्यूतादक्षक्रीडायाः - प्रमादादनवधानतया वा - नश्यति ‘श्रुतिनिष्पीडनाच्चैव चार्थासक्तधियां नृणाम्’ इति - प्रमादान्नाशस्त्वनुभवसिद्धएवदानान्नाशस्समनन्तरश्लोक एव वक्ष्यते - ‘शिष्टानां गर्हणान्नाशःसदाचारविवर्जनात्।’ शार्दूलविक्रीडितम्॥
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति॥३५॥
व्या.—अथ वित्तस्योत्तमादिभेदेन त्रैविध्यमाह - दान मिति.—दानं सत्पात्रत्यागः। भोगः स्रक्चन्दनादिद्वाराऽनुभवः। नाशः दानधर्माद्यभावे चोरादिना विलयश्च - तदुक्तम्—
“चत्वारो धनदायादा धर्माग्निनृपतस्कराः।
तेषां ज्येष्ठावमानेन त्रयः कुप्यन्ति सोदराः॥”
इति एवमुत्तममध्यमाधमभेदेन वित्तस्य। गतयो गमनोपायाः भवन्ति; तत्र यः पुमान्। न ददाति अर्थिभ्यो न प्रयच्छति वित्तमिति शेषः। अथवा न भुङ्क्ते नानुभवति। तस्य दानभोगाभ्यां वित्तव्ययमकुर्वतः पुरुषस्य संबन्धिनो वित्तस्येति शेषः। तृतीया गतिर्नाशावस्था भवति - सा त्वत्यन्तकष्टेत्यर्थः। अयमत्र निष्कृष्टोऽर्थः - वित्तस्य दानेन गतिरुत्तमा। आत्मभोगेन मध्यमा। चोरादिना नाशगतिरधमेति ; अतो दानशौण्डनैव भवितव्यं धनाढ्येनति भावः॥ आर्याभेदः॥
मणिश्शाणोल्लीढःसमरविजयी हेतिदलितो
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः॥३६॥
व्या.—अथ दानशीलस्य वित्तव्ययजनिततनुत्वमपि शोभावहमेवेत्याह - मणिरिति-शाणश्शस्त्रोत्तेजनसाध- नोपलविशेषः - तेनो-
ल्लीढः संघृष्टो। मणिश्च। हेतिदलितः शस्त्रक्षतः समरविजयी रणशूरश्च * ‘जिदृक्षी’त्यादिना इनिः - नि—‘हेतिश्शस्त्रे तु नृस्त्रियो’रिति केशवः। मदेन दानवर्षेण। परिक्षीणः कृशो। नागश्च - नि.–“ग्रहाभ्रा हि गजा नागा” इति वैजयन्ती। शरदि शरत्काले - आश्यानानि ईषच्छुष्काणि - पुलिनानि सैकतानि यस्यास्सा। सरित् नदी च * ‘संयोगादेरातोधातोर्यण्वतो’ निष्ठानत्वं। कलाशेषः षोडशांशमात्रावशिष्ट श्चन्द्रश्च - नि.–‘कला तु षोडशो भाग’ इत्यमरः - ‘प्रथमां पिबते वह्नि’ रित्यादीतिहासक्रमेणेतरकलानामग्न्यादिदेवैर्गिलितत्वादिति भावः। सुरतेन रतिरणेन - मृदिता विह्वलीकृता। बालवनिता मुग्धाङ्गना च - ‘जारवनिते’ति पाठे वेश्याचोच्यते। तथा। अर्थिषु विषये - गलितविभवा व्यपगतार्थसंपदः - निश्शेषमर्थिसात्कृतधना इत्यर्थः - नि.–“अर्थ रै विभवा अपी” - त्यमरः। नरा दातृजनाश्च। तनिम्ना तनुत्वेनैव***** पृथ्वादित्वादिम निच्। शोभन्ते - एवंभूततनुत्वस्यैव शोभाहेतुत्वादिति भावः॥
अत्र प्रस्तुतानां नराणां च सामस्त्येन शोभारूपतुल्यधर्मेणौपम्यस्य गम्यमानत्वाद्दीपकालंकारः॥
“प्रस्तुतानां तथाऽन्येषां सामस्त्ये तुल्यधर्मतः।
औपम्यं गम्यते यत्र दीपकं तन्निगद्यते”॥
इति लक्षणात्॥ शिखरिणीवृत्तम्॥
परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये
स पश्चात्सम्पूर्णः कलयति धरित्रीं तृणसमाम्।”
अतश्चानेकान्ता गुरुलघुतयाऽर्थेषु धनिना-
मवस्था वस्तूनि प्रथयति च संकोचयति च॥३७॥
व्या.—अथ पुंसां धनाभावतत्सद्भावसमयावस्थामाह - परिक्षीण इति.—कश्चिद्धनिकः पुमान्। परिक्षीणो दैवाद्दरिद्रस्सन् यवनां शितशूकाख्यधान्यानां प्रसृतये स्पृहयति प्रसृतिमात्रयवान् गुरुतया काङ्क्षत इत्यर्थः।* ’स्पृहेरीप्सित’ इति संप्रदानत्वाच्चतुर्थीनि.—‘शितशुकयवौसमावि’त्यमरः। स परिक्षीणः पुमान्। पश्चादनन्तरं - कालान्तर इत्यर्थः। संपूर्णो दैववशाद्धनसंपन्नस्सन्। धरत्रींभुवम्। तृणसमां तृणकल्पां तद्वल्लघ्वीमित्यर्थः। कलयति मनुते - धनमदेन तथाऽऽलोकयतीत्यर्थः। अतश्चात एव हेतोरर्थेषु। यवधरित्र्यादिषु वस्तुषु विषये। गुरुलघुतया महत्त्वाल्पत्वभावेन। अनेकान्ताऽप्रतिनियता - सर्वथा गुरुणि गुरुत्वमेव लघुनि लघुत्वमेवेति नियमाभाववतीत्यर्थः। धनिनां संबंधी। व्यवस्था व्यापारः। वस्तूनि यवधरित्र्याद्यल्पमहत्तरवस्तूनि। प्रथयति च धनाभावदशायां नीचमपि वस्तु गुरूकरोतीत्यर्थः। तथा संकोचयति तत्सद्भावदशायां महदपि वस्तु निराकरोतीत्यर्थः। निर्धनधनिकयोरित्थंभूताऽवस्था प्रत्यक्षसिद्धा। अतो विवेकिना नैवंविपर्यस्तबुद्धिना भवितव्यमिति भावः॥
शिखरिणीवृत्तं - लक्षणं तूक्तम्॥
राजन् दुधुक्षसि यदि क्षितिधेनुमेतां
तेनाद्य वत्समिव लोकममुं पुषाण।
तस्मिंश्च सम्यगनिशं परिपुष्यमाणे
नानाफलं फलति कल्पलतेव भूमिः॥३८॥
व्या.—अथ राजानं ; संबोधयंस्तस्यार्थसाधनोपायमतिदिशति - राजन्निति.—हे राजन् त्वमिति शेषः - अन्यथा***** ‘शेषे प्रथम’ इति प्रथमपुरुषः स्यात्। एनामेतां त्वद्धस्तगतामित्यर्थः***** अत्रान्वादेशाभावादेनादेशश्चिन्त्यः ; क्षितिर्धेनुरिवेत्युपमितसमासः - न तु क्षितिरेव धेनुरिति रूपकं - वत्समिवेति स्पष्टोपमालिङ्गात्। तां क्षितिधेनुं। दुधुक्षसि यदि दोग्धुमिच्छसि चेत् - अर्थमिति शेषः * दुहेस्सन्नन्तात् सिच्***** दुह्यादेर्द्विकर्मकत्वनियमात्। तर्हि तेन दुधुक्षाहेतुना। अद्येदानीमुपलभ्यमानं। लोकं जनम्। वत्सं तर्णकमिव - नि.—‘वत्सो नाकुलजे वर्षे तर्णके तनयादिके’ इति वैजयन्ती - पुषाण पोषय - नि। ‘लोकस्तु भुवने जन’ इत्यमरः - वत्सनाशेक्षीरस्येव लोकनाशेऽर्थस्यासंभवादिति भावः। पोषणफलमाह - तस्मिन् लोके चानिशं सर्वदा। सम्यगसंबाधं। परिपुष्यमाणे परिपाल्याने सति। भूमिः क्षितिः। कल्पलतेव कल्पवृक्षशाखेव - नि.—‘समे शाखालते’ इत्यमरः -यद्वा कल्पयत्यभीप्सितानीति कल्पा - सा च सा लता च * ‘स्त्रियाः पुंव’दित्यादिना पुंवद्भावः-सैव कल्पवल्लीव। नानाविधफलं धनधान्यादिबहुरूपफलं। फलति निष्पादयति - ‘फलनिष्पत्तावि’ति धातोर्लट्। यतो लोक परिपालनव्यतिरेकेण न तेऽर्थः संभविष्यति-तद्वारैव भूमेरप्यखिलफलदोग्धृत्वात् - तस्मादशेषलाभार्थं तत्परिपोषणमावश्यकमिति भावः॥
अत्र पूर्ववाक्यस्थोपमया निव्यूढोत्तरवाक्यस्थोपमेत्यनयोरङ्गाङ्गिभावेन संकरः॥
वसंततिलकावृत्तम्॥
सत्याऽन्नृता च परुषा प्रियभाषिणी च
हिंस्रादयालुरपि चार्थपरा वदान्या।
नित्यव्यया प्रचुरनित्यधनागमा च
वाराङ्गनेव नृपनीतिरनेकरीतिः॥३९॥
व्या.—यतो राजानं संबोधितवानपि तन्नीतिः कीदृशीत्याशङ्कायां तस्या बहुविधत्वमित्याह - सत्येति—सत्या यथार्थभाषिणी। अनृता असत्यवादिनी च। तथा परुषा कठोरभाषिणी। प्रियभाषिणी मधुरालापिनी च। तथा हिंस्रा धातुका - नि—‘शरारुर्घातुको हिंस्र’ इत्यमरः। * ‘नमि कम्पी’त्यादिना रप्रत्ययः। दयालुरपि कारुणिका च - नि—‘स्याद्दयालुः कारुणिक’ इत्यमरः***** ‘स्पृहि गृही’त्यादिना आलुच्प्रत्ययः। तथा अर्थपरा धनलुब्धा। वदान्या दानशौण्डा च। कुत्रचिद्विषय इति सर्वत्राप्यध्याहार्यं - नि—‘स्युर्वदान्यस्थूललक्षदानशौण्डाबहुप्रद’ इत्यमरः। तथा नित्यं प्रतिदिनं - व्ययो धनत्यागो यस्यास्सा तथोक्ता। प्रचुरनित्यधनागमा - प्रचुरं प्रभूतं यथा तथा - नित्यं - धनस्य -आगमः प्राप्तिर्यस्यास्सा तथोक्ता च। अतो वाराङ्गना वेश्येव - नि—‘वारस्त्री गणिका वेश्ये’त्यमरः। नृपनीतिः राजवृत्तिः। अनेकरूपा बहुप्रकारा - न त्वैकान्तिकीत्यर्थः ; वाराङ्गनायामपि विशेषणानि समानि॥
अत्र सत्यानृतेत्यादिपदश्रवणमात्रेण झडिति विरोधः स्फुरति। तस्य स्वाभाव्येनाभासीकरणादलंकारस्सन्। वाराङ्गनेवेत्युपमयाऽङ्गाङ्गिभावेन संकीर्यते॥
आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च।
येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण॥
व्या.—सोऽपि गुणाढ्य एव समाश्रयणीयो न तु निर्गुण इति राजानमेव संबोधयति - आज्ञेति.—आज्ञा मर्यादापरिपालनात्मकशासनम् ; कीर्तिर्दानक्षात्रोद्भवा सत्समाख्या। ब्राह्मणानां पालनं निरुपद्रवं ब्राह्मणसंतर्पणम्। दानं सत्पात्रे त्यागः। भोगः स्रक्चन्दनादिजनितसुखानुभवः। मित्रसंरक्षणं सुहृत्समुद्धरणम्। चेत्येते षड् गुणाः। येषां राज्ञाम्। न प्रवृत्ताः न प्रवर्तन्ते - कर्तरि क्तः। पृथिव्या ईश्वरः पार्थिवः तस्य संबुद्धिः- हे पार्थिव राजन् -* ‘तस्येश्वरः।’ ‘सर्वभूमिपृथिवीभ्याम’णित्यण्प्रत्ययः - तेषामुपाश्रयेण समाश्रयेण। कोऽर्थः को लाभः न कोऽपीत्यर्थः ; तस्मादुक्तगुणसंपन्न एव राजासमाश्रयणीयः। न तु कुक्षिम्भरिरिति भावः॥
शालिनीवृत्तं - ‘शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकै’रिति लक्षणात्॥
यद्धात्रा निजफालपट्टलिखितं स्तोकं महद्वा धनं
तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ च नातोऽधिकम्।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम्॥४१॥
व्या.—अथातिकार्पण्यं मा कुरु। लाभालाभयोर्दैवायत्तमूलकत्वमित्याह - यदिति.—धात्रा ब्रह्मणा। स्तोकमल्पम्। महद्बहुलं वा। यद्धनम्। निजफालं निजनिटिलतटमेव पट्टं तत्र - लिखितं लेखनेन निर्दिष्टम्। तद्ब्रह्मलिखितं धनम्। मरुस्थले ऊषरदेशेऽपि - किमुतान्यत्रेति भावः। नितरामतिशयेन। प्राप्नोति लभते - अन्यूनमिति शेषः - नि—‘समानौ मरुधन्वाना’वित्यमरः। मेरौ कनकाचलेऽप्यतो ब्रह्मलिखितादधिकम्। न प्राप्नोति। तत्तस्मात्कारणाद्धीरस्स्थिरचित्तो। भव। वित्तवत्सु धनाढ्येषु विषये। कृपणां दीनाम्। वृत्तिं व्यापारम्। वृथा व्यर्थम्। माकृथाः माकार्षीस्तेन कार्पण्यजनितनिन्दामात्राश्रयत्वमेव न त्वधिकधनप्राप्तिरिति भावः। * कृञो लुङि थास् - तनादित्वेऽपि सिचो नित्यलोपविधानान्नसिच् - ‘न माङ्योग’ इत्यट्प्रतिषेधः। तत्र दृष्टान्तमाह - कूपेऽल्पजलाधारे गर्तेऽपि। पयोनिधौ समुद्रेऽपि। घटः कलशस्तुल्यमात्मपरिमितम्। जलं गृह्णाति स्वीकुरुते - पश्येति कृपणसंबोधनं - न तु कूपेऽल्पं पयोनिधावधिकमत एतद्दृष्टान्तेन समाहितचित्तेन भवितव्यम्। न तु कार्पण्यपर्याकुलेनेति तात्पर्यम्॥
इति नीतिशतके अर्थपद्धतिस्सम्पूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1724395681pic3.jpg"/>
॥ दुर्जनपद्धतिः ॥
अकरुणत्वमकारणविग्रहः परधने परयोषिति च स्पृहा।
सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम्॥
व्या.—अथार्थादिसंपन्नोऽपि दुर्जनो नोपादेय एवेत्याशयेनार्थपद्धतिनिरूपणानन्तरं दुर्जनपद्धतिं निरूपयति - तत्र तेषामवगुणं गणयति - अकरुणत्वमिति.—परदुःखप्रहाणेच्छा करुणातद्राहित्यमकरुणत्वं - दयाहीनत्वं च। अकारणविग्रहो निष्कारणकलहश्च - नि—“अस्त्रियां समरानीकरणाः कलह विग्रहा”वित्यमरः। परधने परद्रव्ये। परयोषिति परदारेषु। स्पृहा चएकत्रापहरणेच्छा - अन्यत्र संभोगाभिलाषश्च। सुजनेषु बन्धुजनेषु च। असहिष्णुता असहनशीलत्वं चेतीदं सर्वं***** ‘नपुंसकमनपुंसकेने’त्यादिना नपुंसकैकशेषः। दुरात्मनां दुर्जनानां। प्रकृतिसिद्धं स्वभावीसंद्ध हि। अतस्तेनोपादेया इति भावः - नि—‘प्रकृतिः प्रपञ्चभूते प्रधाने मूलकारणे स्वभाव’ इति विश्वः॥
द्रुतविलम्बितवृत्तं - ‘द्रुतविलम्बितमाह नभौभरा’विति लक्षणात्॥
दुर्जनः परिहर्तव्यो विद्ययाऽलंकृतोऽपि सन्।
मणिना भूषितस्सर्पःकिमसौ न भयंकरः ? ॥४३॥
व्या.—आस्तां तावत् दुर्जनमात्रस्य परित्याज्यत्वकथनम् - अशेषावगुणावमार्जकसंपन्नोऽपि दुर्जनः परित्याज्य एवेति सदृष्टान्तमाह - दुर्जनइति.—दुर्जनो। विद्यया वेदवेदाङ्गाद्यात्मिकयाऽलंकृतो भूषितस्सन्नपि - सकलविद्यापारीणस्सन्न- पीत्यर्थः। परिहर्तव्यस्त्याज्यः कुत इत्यतआह - सर्पः आशीविषः। मणिना फलकस्थमाणिक्येन। भूषितोऽलंकृतस्सन्नपि। असौ सर्पो। नभयंकरः किम् ? भयंकर ऐवेत्यर्थः। अतो मणिभूषितसर्पप्रायो विद्यावानपि दुर्जन दूरतस्त्याज्य
एव - “दुर्जनं दूरतस्त्यजे”दिति न्यायादिति भावः***** ‘मेघर्तिभयेषु कृञ’इति खश् - खशि ‘अरुर्द्विष दि’ त्यादिना मुमागमः॥
अत्र बिम्बप्रतिबिम्बन्यायेन धर्मधर्मिणोर्वाक्यद्वये पृथङ्निर्देशाद्दृष्टान्तालंकारः–
“बिम्बानुबिम्बन्यायेन निर्देशो धर्मधर्मिणोः।
दृष्टान्तालंकृतिर्ज्ञेया भिन्नवाक्यार्थसंश्रया॥”
इति लक्षणात्। वृत्तमानुष्टुभम् ॥
जाड्यं ह्रीमति गण्यते व्रतशुचौ दंभः शुचौ कैतवं
शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि।
तेजस्विन्यवलिप्तता मुखरता वक्तव्यशक्तिस्थिरे
तत्को नाम गुणो भवेत्सगुणिनां यो दुर्जनैर्नाङ्कितः॥
व्या.—अथास्य सर्वदूषकत्वमाह - जाड्यमिति.—ह्रीमति लज्जावति पुंसि। जाड्यं मान्द्यं***** ‘गुणवचनव्राह्मणादिभ्यः कर्मणि चे’ति ष्यञ् प्रत्ययः। गण्यते संख्यायते - दुर्जनैरिति शेषः - न तु जुगुप्सितकर्माचरणपराङ्युखत्वम्। व्रतैस्तपश्चान्द्रायणादिनियमैः - शुचौ शुद्धे। दम्भो धर्मध्वजत्वम् गण्यते - न त्वनुष्ठातृत्वम्। शुचौ स्वभावादेव बाह्यान्तरशुद्धे। कैतवं कपटं। गण्यते - न तु पारमार्थिकत्वं। शूरे। निर्घृणता दयाराहित्यं। गण्यते - न तु विक्रान्तत्वं मुनौ मननशीले विमतिता बुद्धिहैन्यं गण्यते न त्वात्मैक्यानुसंधान तत्परत्वं प्रियालापिनि मधुरवादिनि - दैन्यं गण्यते - न तु श्रवणानन्दकरत्वं। तेजः प्रागल्भ्यं - प्रभाविशेषो वा तद्वत्यवलिप्तता
गर्वग्रस्तत्वं। गण्यते - न तु स्वभावः - नि—‘अवलेपस्तु गर्वेस्याल्लेपने दूषणेऽपि चे’ति विश्वः। वक्तव्येष्वर्थेषु - शक्तिः प्रतिभापरपर्यायस्सामर्थ्याविशेषः - तया स्थिरे। मुखमस्यास्तीति मुखरो दुर्मुखः - नि–‘दुर्मुखे मुखराबद्धमुखा वि’त्यमरः***** ‘ख मुख कुञ्जेभयश्चे’ति रप्रत्ययः - तस्य भावस्तत्ता असंबद्धप्रलापित्वमित्यर्थः। गण्यते - न तु वाग्मित्वं। तस्मात्कारणात्। गुणिनां गुणसंपन्नानां - स को नाम गुणो भवेत्। यो गुणः। दुर्जनैर्नाङ्कितः न दूषितः - दुर्जनादूषितो गुणस्सुगुणिनां न कोऽप्यस्तीत्यर्थः। ‘यो दुर्जनानां मत’ इति पाठे यो गुणः दुर्जनानां मतः इष्टः स्यात् स को नाम भवेदिति संबन्धः। दुर्जनाभिमतो गुणस्तु गुणिनां न कोऽप्यस्तीत्यर्थः।
शार्दूलविक्रीडितं वृत्तं - लक्षणं तूक्तम्॥
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ?।
सौजन्यं यदि किं बलेन महिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ?॥४५॥
व्या.—अथ गुणावगणप्रणालिकामाह - लोभ इति.—लोभो धनादिवाञ्छाऽस्ति चेदगुणेन दुर्गुणेन किं ? न किंचिदपीत्यर्थः - तस्यैवात्यन्तनिन्दावहत्वादिति भावः। पिशुनता परोक्षे परदोषसूचकता। अस्ति यदि। पातकैर्ब्रह्महत्यादिभिः किं ? तस्या एव निरयपातनदक्षत्वादिति भावः। सत्यं यथार्थभाषणं समदर्शित्वं वाऽस्ति चेत्तपसा चान्द्रायणादिना किं ? तस्यैवपरिशोधकत्वादिति भावः।
शुचि द्रोहचिन्तादिराहित्येन शुद्धम्। मनोऽस्ति यदि। तीर्थेन प्रयागादिना किं ? तस्यैवापवर्गमूलकत्वादिति भावः–
“यस्त्वात्मतीर्थं भुजते विनिष्क्रियस्स
सर्ववित्सर्वगतोऽमृतो भवेत्॥”
इति स्मरणमत्रमूलम्। सौजन्यं सुजनभावोऽस्ति यदि। बलेन परिजनेन किं ? तस्यैवाशेषकार्यनिर्वाहकत्वादिति भावः। महिमा माहात्म्यमस्ति यदि। मण्डनैः कुण्डलहाराद्यलंकरणैः किं ? तस्यैवोपस्कारहेतुभूतत्वादिति भावः। अपयशः अपकीर्तिरस्ति यदि मृत्युना मरणेन किं ? तद्वत् मृतप्रायत्वादिति भावः ; एवं विचार्य सद्गुणार्जनतत्परेण भवितव्यं निपुणेन। अन्यथा दौर्जन्यमनायाससाध्यमिति वाक्यशेषत्वेनोन्नेयम्॥
शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः।
प्रभुर्धनपरायणः सततदुर्गतिस्सञ्जनो
न्नृपाङ्गणगतः खलो मनसि सप्तशल्यानि मे॥४६॥
व्या.—कस्यचिदनुभविनो निजकष्टाभिवेदनमभिनीयाहशशीति.—दिवसेऽह्नि। धूसरो निस्तेजस्कः। शशी चन्द्रश्च। गलितयौवना भ्रष्टनूतनवयस्का। कामिनी कान्ता च। विगतवारिजं पुण्डरीकषण्डहीनम्। सरः कासारश्च। शोभना आकृतिर्यस्य सुन्दरपुरुषस्य। अनक्षरं शास्त्रविभ्रष्टं मुखं च। धनपरायणो। धनलुब्धः। प्रभुः राजा च । सततदुर्गतिः निरन्तरदारिद्र्यवान्। सज्जनश्चनृपाङ्गणगतो राजगृहान्तर्वर्ती। खलो दुर्जनश्च - तस्य विघातुकत्वा-
दिति भावः; इत्यैवं सप्त शल्यानि शूलानि - तथा दुस्सहदुःखजनकत्वादिति भावः; इदमेवात्यन्तकष्टनिवेदनवचनमितितात्पर्यम्॥
अत्राप्रकृतानां प्रकृतस्य खलस्य च दुःखहेतुत्वसाम्येनौपम्यस्य गम्यमानत्वाद्दीपकालंकारः - लक्षणं तूक्तम्॥
गतमिदं पृथ्वीवृत्तम्॥
न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम्।
होतारमपि जुह्वानं स्पृष्टो दहति पावकः॥४७॥
व्या.—अथ दुष्टराजलक्षणं सदृष्टान्तमाह.—चण्डकोपानाम् उग्रक्रोधानां। भूभुजां राज्ञां। कश्चिदपि पुमान्। आत्मीयो नाम आत्मीयत्वेन प्रसिद्धः। न भवति - किं तु सर्वोऽप्यनात्मीय एवेत्यर्थः; ननु यथा कथंचिद्धितमाचरन्भविष्यत्येव आत्मीय इत्याशङ्क्य दृष्टान्तमुखेन निराकुर्वन्नाह.—जुह्वानमाज्यपुरोडाशादिदानेनोपचरन्तमपि***** ‘हु दानादनयो रि’ति धातोः कर्तरि शानच्। होतारं यजमानं। पावकोऽग्निः। स्पृष्टस्सन् दहति संतापयतीत्यर्थः ; अतोऽग्निदृष्टान्तेनेदृशो राजा न समाश्रयणीय इति भावः॥
मौनान्मूकः प्रवचनपटुवाचको जल्पको वा
धृष्टः पार्श्वे भवति च वसन् दूरतोऽप्यप्रगल्भः।
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥४८॥
व्या.—कथं न समाश्रयणीय इत्याशङ्क्य तत्सेवाया दुष्करत्वादित्याह-मोनादिति॥ मौनात्तूष्णींभावान्मूको निर्वचो भवति सेवक इति शेषः। प्रवचनपटुः प्रगल्भश्चातिवक्ता। वाचको बहुभाषी।जल्पतीति जल्पकोऽसंबद्धप्रलापी - भवति। उभयत्रापि * ‘ण्वुल्तृचावि’ति कर्तरि ण्वुल्प्रत्ययः - णित्वाद्वृद्धिः - ‘जल्पक’ इति पाठे जल्पतीति जल्पकः - पचाद्यच् स्वार्थे कप्रत्ययः अन्यथा***** ‘जल्पभिक्षे’त्यादिना षाकन्प्रत्यये जल्पाक इति स्यात्- यदाहामरसिंहः- नि। ‘स्याज्जल्पाकस्तु वाचाल’ इति। पार्श्वे समीपे च। वसन् धृष्टो निर्भीको - भवति। दूरतो विप्रकृष्टदेशे। वसन्। अप्रगल्भः अप्रौढो - भवति। क्षान्त्या परिभवादिषूत्पद्यमानेषु क्रोधप्रतिबन्धलक्षणयोपलक्षितश्चेद्भीरुर्भयशीलो - भवति***** ‘भियः क्रुक्लुकनावि’ति क्रुप्रत्ययः॥ न सहते परिभवादिकं न क्षमते। यदि तर्हि। प्रायशो बाहुल्येन। अभिजातस्सत्कुलीनो न नमवति। अतः। परमगहनोऽत्यन्तदुरवगाहः। सेवाधर्मः परिचर्यात्मकं कर्म योगिनामपि कालत्रयज्ञानामप्यतीन्द्रियवस्तुपरिज्ञानवतामित्यर्थः - किमुतान्येषामिति भावः। अगम्यो ज्ञातुमशक्यः - सर्वे गत्यर्थाः ज्ञानार्था - यतः परब्रह्माऽपि ध्यानादिना साक्षात्क्रियते न त्वयमिति भावः; मौनादिव्यतिरिक्तधर्मस्य गगनारविन्दप्रायत्वात्तस्य ब्रह्मणोऽपि दुर्विज्ञेयतयाऽत्यन्तदुष्करत्वमिति तात्पर्यम्॥
अत्र सेवाधर्मस्य योगिगम्यत्वेऽप्यगम्यत्वोक्तेस्संबन्धे असंबन्धरूपातिशयोक्तिः। मन्दाक्रान्तावृत्तम्—‘मन्दाक्रान्ता जलधिषडगैर्मोभनौ तौ गुरूचे’तिलक्षणात्॥
उद्भासिताखिलखलस्य विशृङ्खलस्य
प्रोद्गाढविस्मृतनिजाधमकर्मवृत्तेः।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य
नीचस्य गोचरगतैः सुखमास्यते कैः ? ॥४९॥
व्या.—किं बहुनाऽस्य पुरस्तान्न केनचित् स्थातुमपि शक्यत - इत्याह- उद्भासितेति.—उद्भासिताः प्रकाशिताः - अखिलाः खलाः येन तस्य अधिकारप्रदानेन पुरस्कृताशेषदुर्जनस्येत्यर्थः - तस्य सुजनविद्वेषित्वादिति भावः। तथा। विशृङ्खलस्य विधिनिषेधातीततया स्वच्छन्दगतेरित्यर्थः। तथा। प्रोद्गाढमतितरां - विस्मृता स्मरणाविषयीकृता- निजा स्वकीया - अधमकर्मवृत्तिः प्राक्तननीचकृत्यव्यापारो - येनतस्य ‘प्रागेव विस्मृते’ति पाठे प्राक् प्रथमम् आचरणसमय एवेत्यर्थः। एतेन लज्जाहैन्यमुक्तं। तथा। दैवाददृष्टवशादिदानीमवाप्तः प्राप्तो - विभवः ऐश्वर्यं संपत्तिर्यस्य गुणद्विषस्सुगुणनिन्दकस्यास्य पूर्वोक्तस्य नीचस्य राज्ञः। गोचरगतैः विषयवासिभिः। कैर्जनैस्सुखमक्लेशेन। आस्यते स्थीयते। न कैरपीत्यर्थः - अतोननीचाश्रयः कर्तव्य इति भावः * ‘आस उपवेशने’। भावेलट्॥
अत्रोद्भासितेत्यादिपदार्थस्य विशेषणगत्या सुखस्थित्यभावपदार्थहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः॥
वसन्ततिलकावृत्तम्॥
आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमुपैति पश्चात्।
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्त्री खलसज्जनानाम्॥
व्या.—अथ दुर्जनसुजनमैत्त्रीप्रकारमाह - आरम्भेति.—पूर्वार्धपरार्धाभ्यां पूर्वाह्णापराह्णभेदेन - भिन्ना पृथग्विधा। छाया अनातप इव - नि.—“छाया त्वनातपे कान्तौ प्रतिबिम्बार्कजाययो” रिति वैजयन्ती। आरम्भे प्रारम्भसमये - गुर्वी गुरुः वर्धिष्णुरित्यर्थः * ‘वोतो गुणवचना’दिति विकल्पात् ङीष्। क्रमेण कालक्रमेण। क्षयिणी क्षयिष्णुश्च - ‘जिदृक्षी’त्यादिना इनिः। तथा। पुरा प्रारम्भे। लघ्वी लघुः ह्रस्वेत्यर्थः - पूर्ववत् ङीष्। पश्चादनन्तरम्। वृद्धिमुपैति प्राप्नोतीति भावः.—अयमर्थः—दुर्जनमैत्रीपूर्वाह्णच्छायेव प्रारम्भगुर्वी क्रमेण क्षयिणी च भवति। सुजनमैत्त्रीतावदपराह्णच्छायेवादौ लघ्वी ततो वर्धिष्णुश्च भवतीति। अतोऽत्र यद्युक्तं तत्कर्तव्यं कुशलेनेति भावः॥
मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम्।
लुब्धकधीवरपिशुना निष्कारणमेव वैरिणो जगति॥५१॥
व्या.—यदुक्तमकरुणत्वमकारणविग्रह इति तदेव प्रकटयन्नुपसंहरति - मृगेति.—संतोषो दैववशाल्लब्धेन मनस्संतुष्टिः - तृणजलसंतोषैर्विहिता कल्पिता - वृत्तिर्जीवनं - येषां तेषां न तु परोपतापोपजीविनामित्यर्थः - नि–‘वृत्तिर्वर्तनजीवन’ इत्यमरः। मृगाणां हरिणादीनां - मीनानां मत्स्यानां - सज्जनानां साधूनां च। लुब्धको व्याधः - धीवरो दाशः - जालिक इत्यर्थः - पिशुनस्सूवकश्च - नि—‘व्याधो मृगवधाजीवो मृगयुर्लुब्धकश्च सः।’ ‘कैवर्ते दाश धीवरावि’ति चामरः। एते। जगति भुवि। निष्कारणं निर्हेतुकमेव। वैरिणो विद्वेषिणः घातुका इत्यर्थः॥
तृणेन विहितवृत्तीनां मृगाणां लुब्धका निष्कारणवैरिण इत्यादि यथाक्रममन्वयात्क्रमापरनामा यथासंख्यालंकारः - तदुक्तं विद्यानाथेन॥
“उद्दिष्टानां पदार्थानां पूर्वं पश्चाद्यथाक्रमम्।
अनूद्देशो भवेद्यत्र तद्यथासंख्यमुच्यते॥” इति
आर्यावृत्तम्॥
इति नीतिशतके दुर्जनपद्धति स्सम्पूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1724415846pic3.jpg"/>
॥ सुजनपद्धतिः ॥
वाञ्छा सजनसङ्गतौ परगुणे प्रीतिर्गुरौ नम्रता
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम्।
भक्तिश्शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खलै-
रेते येषु वसन्ति निर्मलगुणास्तेभ्यो नमः कुर्महे॥५२॥
व्या.—अथैतद्वैलक्षण्येन सुजनपद्धतिं निरूपयति - तत्रादावादरातिशयात्तान्नमस्करोति - वाञ्छेति—सज्जनसंगतौ साधुसमागमे। वाच्छा अभिलाषः - न तु जिहासा - तस्य मोक्षसाधकत्वादिति भावः - तदुक्तं ज्ञानवासिष्ठे—
“मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः।
शमो विचारस्संतोषश्चतुर्थस्साधुसंगमः॥”
इति - तथा चोक्तं श्रीमद्भागवते - ‘महत्सेवां द्वारमाहुर्विमुक्ते’रितिस्वेनाप्युक्तम्-
“चेतः प्रसादयति दिक्षु तनोति कीर्तिं।
सत्संगतिः कथय किं न करोति पुंसाम्॥”
इति। परेषां गुणे - प्रीतिस्संतोषः - न तु दोषापादनम्—
“परगुणपरमाणून्पर्वतीकृत्य नित्यं
निजहृदि विकसन्तस्सन्ति सन्तः कियन्तः॥”
इति वक्ष्यमाणत्वादपीति भावः। गुरौ विद्योपदेष्टरि। नम्रता भक्तिश्रद्धाभरेण प्रह्वीभावः - न तु गर्वोद्रिक्तता—
“यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।
तस्यैते निखिला ह्यर्थाः प्रकाशन्ते महात्मनः॥”
“गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो जनार्दनः।
गुरुस्साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः॥”
इति श्रुतिस्मृती। विद्यायां वेदान्तादिविद्याभ्यासे। व्यसनमासक्तिः - न तु द्यूतकेलयादौ - तस्य मोक्षसाधनब्रह्मज्ञानजनकत्वादिति भावः। स्वयोषिति निजदारेषु। रतिस्संभोगः - न तु परदारेषु - “रम्यं कुलस्त्रीरत”मिति भावः। लोकापवादात् लोकनिन्दायाः * ‘भीत्रार्थानां भयहेतु’रित्यपादानत्वात्पञ्चमी - भयं न तु निर्लज्जत्वं ‘लोकापवादो बलवानिति सत्यवती श्रुति’रित्यादिवचनात्तस्य बलिष्ठत्वादिति भावः। शूलिनि परदेवतायां भगवति। भक्तिरनुरागः। न तु क्षुद्रदेवतायां***** ‘शिवे भक्तिश्शिवे भक्ति’रित्यादिवचनेष्वावृत्त्या तस्याः प्राशस्त्यश्रवणादिति भावः। आत्मदमने स्वपरिभवे सति। शक्तिस्सामर्थ्यं पराक्रम इति यावत् - न तूपशमेनौदासीन्यम्.—
“अन्यदा भूषणं पुंसां शमो लज्जेव योषिताम्।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव॥”
इति वचनादिति भावः। खलैर्दुर्जनैस्सह संसर्गमुक्तिस्सङ्गत्यागः - न तु तत्सहवासाभिलाषः***** ‘दुर्जनं दूरतस्त्यजे’दिति - ‘दुर्जनः परिहर्तव्य’ इत्यादिवचनादिति भावः। इत्येते - निर्मलाः निष्कलङ्काः - गुणास्सज्जनसंगतिवाञ्छादयो। येषु पुरुषेषु वसन्ति।- तेभ्यो महद्भ्यो नमः - इत्थं भूतगुणविशिष्टानामेव नमस्कारार्हत्वादिति भावः * ‘नमस्स्वस्ती’त्यादिना चतुर्थी; ‘तैरेव भूर्भूषिते’ति पाठे तैर्निर्मलगुणसंपन्नैरेव भूरलंकृता न त्वन्यैस्तेषामेव चारुत्वाद्यतिशयहेतुत्वादिति भावः॥
शार्दूलविक्रीडितम्॥
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरतिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्॥
व्या.—अथैषां निसर्गसिद्धगुणं - गणयति विपदिति. - विपद्यापत्काले। धैर्यं निर्विकारचित्तत्वं न तु दैन्यं - ‘मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुष्वि’ति। अथानन्तरं वाक्यारम्भे वा। अभ्युदये संपदि। क्षमा सहिष्णुत्वं - न तूच्चण्डता। सदसि राजविद्वत्सभायां वाक्पटुता वाग्मित्वं सरसवचनरचनाचातुर्यमिति यावत् - न तु मूकभावः। युधि रणरङ्गे। विक्रमः पराक्रमो - न तु पलायनम्। यशस्यभिरतिः संग्रहेच्छा - न त्वनादरः। श्रुतौ वेदशास्त्राभ्यसने। व्यसनमासक्तिर्न तु निर्वेदः इतीदं सर्वं***** ‘नपुंसकमनपुंसकेने’त्यादिना नपुंसकैकशेषः। महात्मनां महानुभावानां।
प्रकृतिसिद्धं स्वभावसिद्धं हि नि—‘संसिद्धिप्रकृती समे’ ‘स्वरूपं च स्वभावश्च निसर्गश्चे’त्यमरः। द्रुतविलम्बितवृत्तम् - लक्षणं तूक्तम्॥
करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम्।
हृदि स्वच्छावृत्तिः श्रुतमधिगतं च श्रवणयो-
र्विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम्॥५४॥
व्या.—अथैषां प्रसिद्धविलक्षणमण्डनसंपत्तिमाह - कर इति—करे हस्ते। श्लाघ्यस्सकललोकप्रशस्तस्त्यागो दानम्। मण्डनं। न तु कङ्कणं - ‘दानेन पाणिर्नतु कङ्कणेने’ति स्वेनैवाग्रे वक्ष्यमाणत्वात्। शिरसि गुरुपादयोः। प्रणयिता अभिवादनतात्पर्यम्। मण्डनं - न तु मणिहिरण्मयकोटीरादिः। मुखे वक्त्रे। सत्या वाणी सूनृतभाषणम्। मण्डनं - न तु ताम्बूलचर्वणादि। भुजयो–रतुलं निरुपमानम् - विजयि जयशीलं च * ‘जिदृक्षी’त्यादिना इनिः। वीर्यं बलम्। मण्डनं - न तु केयूरादि। हृद्यन्तरङ्गे। स्वच्छा वृत्तिः निष्कलङ्कव्यापारो मण्डनं न तु हाररुचकादि - हृच्छब्दस्य वक्षस्स्थलवाचकत्वमपि संभवतीति कृत्वा अभेदेन निर्देशः। श्रवणयोः। कर्णयोरधिगतं श्रुतं शास्त्रमेव - नि.—‘श्रुतं शास्त्रावधृतयो’रिति विश्वः। मण्डनं - न तु कुण्डले - ‘श्रोत्रं श्रुतेनैव न कुण्डलेने‘ति वक्ष्यति। इदं पूर्वोक्तदानादिकं सर्वमैश्वर्येण धनरत्नसंपत्त्या। विनापि***** ‘पृथग्विने’त्यादिना विकल्पात्तृतीया। प्रकृत्या स्वभावेन। महतां महात्मनां - सौजन्यसंपन्नानामित्यर्थः * ‘प्रकृत्यादिभ्यस्तृतीये’ति
तृतीयासमासः। मण्डनं भूषणं तस्यैव लोकोत्तररामणीयकादिहेतुत्वादिति भावः॥ शिखरिणीवृत्तम्॥
प्राणाघातान्निवृतिः परधनहरणे संयमः सत्यवाक्यं
काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम्।
तृष्णास्रोताविभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा
सामान्यं सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः॥५५॥
व्या.—गुणादृ्यत्वे को लाभ इत्याशङ्क्य तेषां श्रेयोहेतुत्वमाह - प्राणेति.—प्राणाघातात्प्राणहिंसायाः। निवृत्तिर्निवर्तनं च - ‘माहिंस्यात्सर्वभूतानि’। ‘अहिंसा परमो धर्मस्त्वधर्मः प्राणिनां वध’ इत्यादिनाऽग्नीषोमीयपश्वालम्भनवृत्त्यतिरिक्तहिंसाया निषेधश्रवणात्। परधनहरणे संयमो मनोरोधश्च ‘परद्रव्याणि लोष्टव’दिति न्यायादिति भावः। काले समये सत्यवाक्यं यथार्थभाषणं च - तथा धर्मोपदेशश्रवणादिति भावः - अत्र ‘ब्राह्मणार्थे गवामर्थे’ इत्यादिष्वसत्यवचनस्यापि निषेधाभावश्रवणात्काल इत्युक्तम्। शक्त्या प्रदानं वित्तानुसारेण त्यागश्च - ‘वितशाठ्यं न कारये’दिति वचनादिति भावः। युवतिजनकथायां परस्त्रीवृत्तान्तकथने - मूकभावस्तूष्णींभावशीलत्वं च - ‘स्वप्नेऽप्यन्यवधूकथा’मिति वचनात् परेषामन्येषां - याचकानामित्यर्थः तृष्णा धनलिप्सा - तस्या एव - स्रोतसः प्रवाहस्य विभङ्गो निरोधः - अभीप्सितदानेन मनोरथपरिपूरणं चेत्यर्थः—
“याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य।
तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः॥”
इति श्रवणादिति भावः। गुरुषु विषये। नम्रत्वं च - ‘गुरौ नम्रते’
त्युक्तत्वादिति भावः। सर्वभूतेष्वशेषप्राणिष्वनुकम्पया दयया - सामान्यं समदर्शित्वं च। सर्वशास्त्रेषु वेदवेदान्तादिसकलागमेष्वनुपहतः अविच्छिन्नः - विधिरध्ययनविधानं च - यद्वा ‘सर्वभूतानुकम्पे’ति पृथक्पदम्। तथा सर्वशास्त्रेषु सामान्यमवैषम्येण तत्तत्सिद्धान्तानुवर्तित्वम्। अनुपहतविधिरलुप्तकर्मानुष्ठानं चेत्येष गुणसमुदायः। श्रेयसां पन्था अखण्डितैश्वर्यादिश्रेयःप्राप्तिमार्गः - न त्वेतद्व्यतिरिक्तोऽन्योऽस्ती त्यर्थः ; एतादृशगुणसंपत्तिस्सुजनानामेवेति कृत्वा त एव श्लाघ्याइति भावः ; अथवा श्रेयसां प्रशस्यानां सुजनानां संबन्धी। पन्था तत्प्रवृत्तिमार्ग इत्यर्थः - प्रशस्यशब्दादीयसुनि * ‘प्रशस्यस्य’श्र इति श्रादेशः। अत्र ‘वाञ्छासज्जनसंगता’वित्यादिश्लोकेषूक्तगुणाः प्रायेण॥ दैवसंपत् - अभिजातानामेव संभवति न त्वन्येषां - तदुक्तं भगवद्गीतासु-
“अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥
अहिंसा सत्यमक्रोधस्त्यागश्शान्तिरपैशुनम्।
दया भूतेष्वलोलत्वं मार्दवं ह्रीरचापलम्॥
तेजः क्षमा धृतिश्शौचमद्रोहो नातिमानिता।
वदन्ति संपदं दैवीमभिजातस्य भारत॥” इति॥
स्रग्धरावृत्तं—“म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्”॥ इति लक्षणात्॥
संपत्सु महतां चित्तं भवेदुत्पलकोमलम्।
आपत्सु च महाशैलं शिलासङ्घातकर्कशम्॥५६॥
व्या.—अथापत्संपदोस्सुजनमनोवृत्तिमाह - संपत्स्विति.—संपत्सु धनधान्यवस्तुवाहनादिसमृद्धिषु। महतां महात्मनां सज्जनानांचित्तमुत्पलवत्कोमलं मृदुलं भवेत्। न तु कठिनमित्यर्थः। आपत्सु दारिद्र्याद्यनर्थसंकटेषु। महाशैलशिलासंघातः पाषाणकूटः - तद्वत्कर्कशं कठोरं च भवेत् - न त्वधैर्यविश्लथमित्यर्थः न कदाऽप्युक्तवैपरीत्यमन्यथा माहात्म्यभङ्गप्रसङ्गादिति भावः। विवेकिनामविवेकिनां चायमेव पन्थाः आदरणीय इति तात्पर्यम् ; अत्र शैलस्य महत्त्वविशेषणं तच्छिलासंघातस्यात्यन्तदुर्भेद्यत्वद्योतनार्थम् - उक्तं चैतदन्यत्रापि -
“सौजन्यामृतसिन्धवः परहितप्रारब्धवीरव्रता
वाचालाः परवर्णने निजगुणालापे तु मौनव्रताः।
आपत्स्वप्यविलुप्तधैर्यनिलयास्संपत्स्वनुत्सेकिनो
माभूवन् खलवक्त्रनिर्गतविषम्लानाननास्सज्जनाः॥”
इति उपमालंकारः॥
प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरं
त्वसन्तो नाभ्यर्थ्याःसुहृदपि न याच्यः कृशधनः।
विपद्युच्चैर्धैर्यं पदमनुविधेयं च महतां
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्॥५७॥
व्या.—अथ द्वाभ्यामेव तद्वृत्तस्यासाधारण्यमाह - प्रियेति। न्यायादनपेता न्याय्या नीतिप्रवणा वृत्तिर्जीवनं–नि—‘वृत्तिर्वर्तन जीवन’इत्यमरः। प्रीणातीति प्रिया इष्टा - न त्वन्या - तस्या एव श्रेयस्करत्वादिति भावः * ‘इगुपधज्ञाप्रीकिरः कः’ इति क प्रत्ययः। असुभङ्गेऽपि प्राणप्रयासेऽपि किमुतान्यदेति भावः। मलिनं दुष्कर्म
असुकरमकर्तव्यं - न ‘त्वापत्काले नास्ति मर्यादे’ति न्यायात्सुकरं- तस्यैवैहिकामुष्मिकफलदत्वादिति भावः * ‘ईषद्दुरि’त्यादिना खल्प्रत्ययः - ततो नञ् समासः। असन्तः कुहकास्तु। नाभ्यर्थ्याः कस्मिंश्चिद्विषयेऽपि न प्रार्थनीयाः - किंतु सन्त एव - तेषामुपेक्ष्यत्वादिति भावः। यद्यपि * ‘न पादादौ खल्वादय’इत्याह वामनः - तथाऽपि कविप्रौढ्या तु शब्दस्य पादादौ प्रयोगः। सुहृदपि प्राण प्रियबन्धुरपि किमुतान्यइति भावः***** ‘सुहृद्दुर्हृदौ मित्रामित्रयो’रिति निपातनात्साधुः। कृशधनः धनहीनश्चेत्। न याच्यः याचितुं न योग्यः- धनादिकमिति शेषः - किंतु धनपरिपूर्ण एव - तथा- विधयाच्ञाया अनुचितत्वादिति भावः। विपद्यनर्थसंकटेऽप्युच्चैः धैर्यं महाधैर्यं न तु भयविह्वलत्वं ‘आपत्स्वप्यविलुप्तधैर्यनिलयाः’ ’विपदि धैर्यमथाभ्युदये क्षमे’ति चोक्तत्वादिति भावः। महतां पूज्यानामनुविधेयमनुकूलं। पदं व्यवसितं च नत्वननुकूलं पदम्। तथाभूतस्यैव श्लाघ्यत्वादिति भावः - नि—‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्वि’त्यभिधानात्। इतादेमतत्। विषममसाधारणतया दुष्करमसिधाराव्रतमस्यभिचरितव्रतं। सतां सत्पुरुषाणां। केनोद्दिष्टमुपदिष्टं - न केनापीत्यर्थः - स्वतस्सिद्धत्वादिति भावः। अत्रासिधारावन्निशितत्वादसिधारासंचारवत्सावधानेनैकाग्रतया विधेयत्वाद्वा असिधाराव्रतं - यद्वा असिधारया व्यवहरतां व्रतं वीरव्रतमित्यर्थः अथवा -
“युवा युवत्या सार्धं यन्मुग्धभर्तृवदाचरेत्।
अन्तर्निवृत्तसङ्गस्स्यादसिधाराव्रतं स्मृतम्॥”
इत्युक्तमित्यवधेयम्। शिखरिणीवृत्तम्॥
प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः।
अनुत्सेको लक्ष्म्यांनिरभिभवसाराः परकथाः
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्॥५८॥
व्या.—प्रदानमिति.—प्रच्छन्नं प्रदानं गुप्तदानं - न तु प्रकाशं - तथाभूतस्य दानस्य महाफलश्रवणादिति भावः। गृहं निजमन्दिरं प्रत्युपगते सति अर्थिनीतिशेषः। संभ्रमविधिः प्रत्युत्थानाभिवादनादिसत्वरव्यापारविधानं च न तु वैमुख्यं - तस्यैव शास्त्रोदिताचारत्वादिति भावः - प्रियं तदभीष्टं - कृत्वा। मौनं तूष्णींभाव श्चापरिकीर्तनमिति यावत् - न तु प्रकटनं - कृतस्यपरिकीर्तनं। ‘नदत्त्वा परिकीर्तये’ दिति मनुस्मरणादिति भावः। सदसि राजविद्वत्सभायामुपकृतेः। कथनं परोपकारप्रख्यापनं च - न तु तत्र तूष्णीं शीलत्वम् - अन्यथा कृतघ्नत्वप्रसङ्गादिति भावः। लक्ष्म्यां संपत्त्यामनुत्सेको गर्वराहित्यं - न तु मदान्धत्वं - ‘संपत्स्वनुत्से किन’ इत्युक्तत्वादिति भावः। निरभिभवसाराः। अनिन्दापराः परकथाः पुरुषान्तरप्रसङ्गाश्च - न तु गर्हणपराः - ‘आत्मप्रशंसां परगर्हामपि च वर्जये दि’त्यादिस्मरणात्। सतामित्यादि। वृत्तं च पूर्ववत्॥
सन्तप्तायसि संस्थितस्य पयसो नामापि न श्रूयते
मुक्ताकारतया तदेव नलिनीपत्त्रस्थितं दृश्यते।
अन्तस्सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमजुषामेवंविधा वृत्तयः॥५९॥
व्या.—अथाधममध्यमोत्तमवृत्तिमाह - संतप्तायसीति.—संतप्तायसि सम्यगग्नितप्तायःपिण्डे संस्थितस्य। निक्षिप्तस्येत्यर्थः। पयसो जलस्य नामाऽपि नामधेयमात्रमपि। न श्रूयते मूलतो ध्वस्तमेव भवतीत्यर्थः - स्वरूपदर्शनं तु किमुवक्तव्यमिति भावः। तदेव पयः। नलिनीपत्त्रस्थितं पद्मिनीपत्त्रगतं सत्। मुक्ताकारतया मौक्तिकरूपेण। दृश्यते न तु मौक्तिकत्वेनेत्यर्थः। तदेव पयः। अन्तस्सागरे सागरान्तराले - अन्तरित्यव्ययं - या शुक्तिः मुक्तास्फोटः- तस्याः - मध्ये उदरे - पतितं सत्। मौक्तिकं जायते मौक्तिकत्वेन परिणमतीत्यर्थः ‘ज्ञाजनोर्जे’ति जादेशः - मुक्तैव मौक्तिकमिति विग्रहः***** विनयादित्वात्स्वार्थे ठक् ; अतः प्रायेण भूम्ना अधममध्यमोत्तमजुषां निकृष्टसाधारणोत्कृष्टाश्रयाणांश्रित- वतामेवंविधाः नामाश्रवणादिरूपा वृत्तयो व्यापारा भवन्तीति यथाक्रममन्वयाद्यथासंख्यालंकारः। अतः महदाश्रय एव कर्तव्यः - ‘नीचाश्रयो न कर्तव्यः कर्तव्यो महदाश्रय’इति वचनात्। अत्रोत्तममध्यमाधमा इति लोकप्रसिद्धोद्देशक्रमः कविना न विवक्षित इति ज्ञेयम्॥
शार्दूलविक्रीडितम्॥
यः प्रीणयेत्सुचरितैः पितरं स पुत्रो
यद्भर्तुरेव हितमिच्छति तत्कलत्रम्।
तन्मित्रमापदि सुखे च समक्रियं य-
देतत् त्रयं जगति पुण्यकृतो लभन्ते॥६०॥
व्या.—अथ सत्पुत्रकलत्रमित्रसंपत्तिः पुण्यकृदधीनेत्याह - य इति.—यः पुत्रस्सुचरितैः वाक्यकरणादिसदाचारैः। पितरं।
प्रीणयेत् संतोषयेत्***** प्रीञ् तर्पण’ इत्यस्माद्धातोश्चौरादिकाण्णिचि लिङ् * ‘धूञ् प्रीञोर्नुग्वक्तव्य’ इति नुगागमः। स पुत्रः ‘पुन्नाम्नो नरकात्त्रायत’ इति व्युत्पन्न इति पुत्रशब्दवाच्यः न तूत्पन्नमात्रः॥
“जीवतोर्वाक्यकरणात् प्रत्यब्दं भूरिभोजनात्।
गयायां पिण्डदानेन त्रिभिः पुत्रस्य पुत्रता॥”
इति स्मरणात्॥
यद्भर्तुः पत्युः। हितमिच्छति भयभक्तिभ्यां हिताचरणतत्परं भवति - तदेव। कलत्रं भार्या - न तु यादृच्छिकं - ‘पतिभक्तिपरा साध्वी शान्ता सासत्यभाषिणी’ति पतिव्रताधर्मत्वात् - नि–‘कलत्रं श्रोणिभार्ययोरि’त्यमरः। यदापदि अनर्थसंकटे। सुखे संपदि च। समक्रियमविषमाचारमित्यर्थः - तुल्यवृत्ति। तदेव मित्रं सुहृत् - नत्वापत्संपदोः त्यागानुवर्तनतत्परम् –
‘आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः’। इति वक्ष्यमाणत्वादेतत्त्रयमुक्तसत्पुत्रादित्रितयं। जगति भुवि। पुण्यकृतो धन्याः लभन्ते प्राप्नुवंति - न त्वकृतसु कृता इत्यर्थः। एवंविधत्रितयलाभस्य महापुण्यफलत्वादिति भावः - वसन्ततिलकावृत्तम्॥
नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान्गुणान्ख्यापयन्तः
स्वार्थान्संपादयन्तो विततपृथुतरारम्भयत्नाः परार्थे।
क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान्दुर्जनान्दुःखयन्तः
सन्तस्साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः॥
व्या.—अथ सतां तावदसाधारणगरिमास्पदत्वेनाशेषोपादेयत्वमाह - नम्रत्वेनेति.—नम्रत्वेन प्रह्वत्वेनैवोन्नमन्त औन्नत्यं प्राप्नुवन्तस्तथा भावस्यैवौन्नत्यहेतुत्वादिति भावः। परेषां - गुणकथनैस्सद्गुणवर्णनैः। स्वान् स्वकीयान्। गुणान् सौजन्यादीन्। ख्यापयन्तः प्रकटयन्तः - नत्वात्मप्रशंसया - तादृग्भावस्यैव निजगुणप्रकटनहेतुत्वादिति भावः। परार्थे परप्रयोजननिर्वहणे - विततौ विस्तृतौ - पृथुतरौ- महत्तरौ चारम्भयत्नौप्रारम्भोत्साहौ च येषां ते तथोक्तास्सन्त एव - स्वार्थान् स्वप्रयोजनानि। संपादयन्तो निष्पादयन्तः। परकार्यसाधनपुरस्कारेणैवात्मीयकार्यसाधनतत्पराः न त्वेकान्तत इत्यर्थः - तथाभूतत्वस्यैवात्मार्थकत्वादिति भावः। क्षान्त्या सहनशीलत्वेनैवाक्षेपेण निन्दया - रूक्षाक्षराणि परुषवाक्यानि तैः मुखराणि वाचालानि मुखानि एषां तान् परुषभाषिण इत्यर्थः। दुर्जनान् खलान्। दुःखयन्तः सन्तापयन्तः-नतूच्चण्डतया - तथाविधत्वस्यैव तेषां हृच्छल्यप्रायत्वादिति भावः। अत एव साश्चर्यचर्या अत्यन्ताश्चर्यकरचरित्रास्सन्तस्सत्पुरुषाः। जगति लोके। बहुमताः बहुमानिता स्सन्तः। कस्यवा पुंसो। नाभ्यर्चनीयाः न पूजनीया इति काकुः ; सर्वेषामप्यभ्यर्चनीया एवेत्यर्थः। स्त्रग्धरावृत्तम्- ‘म्रभैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयमि’ति लक्षणात्॥
इति नीतिशतके सुजनपद्धतिस्सम्पूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1724480288pic3.jpg"/>
भवन्ति नम्रास्तरवः फलोद्गमै
र्नवाम्बुभिर्दूरविलम्बिनो घनाः।
अनुद्धतास्सत्पुरुषास्समृद्धिभिः
स्वभाव एवैष परोपकारिणाम्॥६२॥
व्या.—अथ सौजन्यस्य परोपकारफलकत्वात्तन्निरूपणानन्तरं परोपकारपद्धतिं वर्णयति भवन्तीति-तरवः पनसरसालादिवृक्षाः। फलोद्गमैः फलभारैः। नम्राःअवनता भवन्ति। घना मेघाः। नवाम्बुभिर्नूतनोदकैरुपलक्षितास्सन्तः। दूरविलम्बिनस्सर्वत्र प्रवर्षणार्थमन्तरिक्षसंचारिणो भवन्ति। सत्पुरुषास्समृद्धिभिरुपलक्षिता अपि। अनुद्धता अनुच्चण्डा भवन्ति - तीक्ष्णस्वभावा न भवन्तीत्यर्थः - ‘अनर्थिता’ इति पाठे - अयाचिता भवन्ति - याच्ञांविनैव परहितमाचरन्तीत्यर्थः तथा एष उक्तनिजनम्रत्वादिब्यवहारः - परोपकारिणां परहिताचरणतत्पराणां। स्वभावो निसर्गसिद्ध एव न त्वाहार्यक इत्यर्थः ; महान्तो हि परोपकारार्थक्लेशं क्लेशत्वेन न गणयन्ति - तेषां तस्य स्वाभाव्यादिति भावः ; तदुक्तं—
“परोपकाराय फलन्ति वृक्षाःपरोपकाराय वहन्ति नद्यः।
परोपकाराय चरन्ति गावः परोपकारार्थमिदं शरीरम्॥”
इति। अर्थान्तरन्यासोऽलंकारः। वंशस्थवृत्तम्- ‘जतौ तु वंशस्थमुदीरितं जरौ’॥
श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन।
विभाति कायः करुणापराणां परोपकारेण न चन्दनेन॥६३॥
व्या.—अथैषां मुख्यमण्डनसंपत्तिमाह - श्रोत्रमिति.—करुणापराणां दयालूनां - परोपकारिणामित्यर्थः। श्रोत्रं कर्णः - नि। ‘कर्णशब्दग्रहौ श्रोत्र’मित्यमरः। श्रुतेन धर्मशास्त्रश्रवणेनैव - विभाति प्रकाशते। कुण्डलेन सुवर्णमणिमयकर्णभूषणेन। न तु विभाति ; पाणिर्हस्तः। दानेन सत्पात्रत्यागेन। विभाति। कङ्कणेन कनकवलयेन न तु विभाति ; कायो देहः। परोपकारेण परेषां हिताचरणेन। विभाति ; चन्दनेन कस्तूरीघनसारविमिश्रितपटीरपङ्कलेपेन तु न विभाति; महात्मनां श्रवणादिकमेव स्वाभाविकं मण्डनं न त्वन्यत्। तस्य नश्वरत्वादिति भावः॥
वृत्तमुपजातिः॥
पद्माकरं दिनकरो विकचं करोति
चन्द्रो विकासयति कैरवचक्रवालम्।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्तः स्वयं परहिते विहिताभियोगाः॥६४॥
व्या.—यदुक्त‘मनर्थितास्सत्पुरुषा’ इत्यादि तदेव प्रपञ्चयति - पद्माकरमिति—दिनं दिवसं करोतीति दिनकरस्सूर्यः***** ‘कृञोहेत्वि’त्यादिना टप्रत्ययः। अभ्यर्थितो न भवतीति नाभ्यर्थितः - अयाचितस्सन्नित्यर्थः***** नशब्दस्य सुप्सुपेति समासः। पद्माकरं पद्मवनं। विकचं विकसितं। करोति - नि। ‘प्रफुल्लोत्फुल्लसंफुल्लव्याकोचविकचस्फुटाः - फुल्लश्चैते विकसिते’ इत्यमरः। तथा चन्द्रोऽपिकैरवचक्रवालं कुमुदषण्डं - नि। ‘सिते कुमुदकैरव’ इत्यमरः। विकासयति व्याकोचयति। तथा जलधरो वारिवाहोऽपि * पचा
द्यच्। नाभ्यर्थित स्सन्नेव। जलं ददाति प्रवर्षति। तथाहि सन्तस्सत्पुरुषाः स्वयमयाचिता एवेत्यर्थः। परेषां हिते हिताचरणे विहिताभियोगाः कृताभिनिवेशाः - न त्ववबोधिता इत्यर्थः ; अतो युक्तमेवंहिताचरणमेतेषामिति भावः.
सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः - ‘सामान्य-विशेषकार्यकारणभावाभ्यां सदृष्टप्रकृतकार्यसमर्थनमर्था- न्तरन्यास’ इति सर्वस्वसूत्रम्. वसन्ततिलकावृत्तम्.
एते सत्पुरुषः परार्थघटकास्स्वार्थान् परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये।
तेऽमीमानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे॥६५॥
व्या.—अथ व्यापारतारतम्येन पुरुषाणामुतमादिभेदमाह - एते इति.—ये पुमांसः। स्वार्थान् स्वप्रयोजनानि - नि‘अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वि’त्यभिधानात्। परित्यज्य त्यक्त्वा। परार्थघटकाःपरप्रयोजनसंघटनशीलाः। एते। सत्पुरुषाःपुरुषोत्तमाः। सत्त्वस्य तेनैवाभिव्यक्तत्वादिति भावः। ये तु स्वार्थस्याविरोधेनावैषम्येण - स्वार्थ निर्वाहतत्परत्वेनैवेत्यर्थः। परार्थं परप्रयोजननिर्वाहार्थम् - उद्यमभृत उद्योगभाजः। ते सामान्यास्साधारणाः मध्यमपुरुषाइत्यर्थः। ये तु। स्वार्थाय स्वार्थनिष्पत्त्त्यर्थं। परहितं। निघ्नन्ति नाशयन्ति। तेऽमी।मानुषराक्षसाः मानुषशब्दवाच्याः राक्षसाः - तथा क्रूराचारतत्परत्वात्पुरुषाधमा इत्यर्थः। ये तु निरर्थकं निष्फलं प्रयोजननिष्पत्तिराहित्येनापीति यावत्। पर-
हितं घ्नन्ति। ते पुमांसः। के वा कथं भूता वा। न जानीमहे। उक्तत्रिविधपुरुषविलक्षणत्वात्तान् ज्ञातुं न शक्नुम इत्यर्थः। अत एव परमनीचा इत्यर्थः। उक्तपक्षेषु यः श्रेयान् तत्पक्षाश्रयणं कर्तव्यमायुष्मतेति भावःशार्दूलविक्रीडितम् -
पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥६६॥
व्या—अथ सन्मित्रलक्षणमाह - पापात्पापाचरणान्निवारयति निवर्तयति - धर्मोपदेशेन दुष्कर्मप्रवृत्तेः विरमयतीत्यर्थः. * ‘जगुप्सीविरामे’त्यादिना पञ्चमी। हिताय योजयते सत्कर्माचरणाय प्रवर्तयतीत्यर्थः - यद्वा श्रेयस्संग्रहार्थं प्रोत्साहयतीत्यर्थः। गुह्यं गोप्यं। निगूहत्याच्छादयति - न कुत्रापि प्रकटयतीत्यर्थः। गुणान् सौशील्यादिसद्गुणान्। प्रकटीकरोति प्रख्यापयति - न तु निगूहतीत्यर्थः।आपद्गतमतिसंकटस्थमपि। न जहाति न त्यजति - ‘तन्मित्रमापदि सुखे च समक्रियं य’दित्युक्तत्वादिति भावः। काले व्यसनादिसमये। ददाति वाञ्छितं दिशति। तदिदं पापनिवारणादिकं सर्वं - सन्तस्सत्पुरुषास्सन्मित्रस्याकैतवसुहृदः। लक्षणं स्वरूपं प्रवदन्ति. वसन्ततिलकावृत्तम्.
क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः
क्षीरोत्तापप्रवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः।
गन्तुं पावकमुन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी॥६७॥
व्या.—पुनस्तदेव क्षीरनीरदृशन्तेन वर्णयति.—क्षीरेणेति.—क्षीरेण कर्त्रा आत्मानमुपगतं प्राप्तं - यदुदकं जलं - तस्मै स्वात्ममिश्रितजलायेत्यर्थः। पुरा पूर्वं। ते प्रसिद्धाः। अखिलास्समस्ताश्च। गुणा निजमाधुर्यधावल्यादिगुणाः दत्ता हि वितीर्णाः खलु - स्वगुणप्रदानद्वारा मैत्री संपादितेत्यर्थः। अतः क्षीरोत्तापं - क्षीरस्य श्रपणार्थमग्नौ निक्षिप्तस्य दुग्धस्य - उत्तापं संतापमवेक्ष्य। तेन क्षीरमिश्रितेन। पयसा उदकेन। नि ‘पयः क्षीरं पयोऽम्बु चे’त्यमरः। स्वात्मा स्वशरीरं। कृशानौ वह्नौ हुतः मित्रसंतापासहनास्संशोषित इत्यर्थः। ततस्तत् क्षीरं कर्तृ मित्रस्य जलस्यापदं संशोषरूपां विपत्तिं। दृष्ट्वा। पावकं वह्निं। गन्तुमुन्मनः उद्युक्तमभवत् * ‘उत्क उन्मना’ इति निपातनात्साधुः - जलसंशोषणे क्षीराणां बहिर्निर्गमनसंभवादिति भावः। तदनन्तरं तेन जलेन। युक्तं मिश्रितं सत्। शाम्यति प्रशान्तं भवति * ‘शमामष्टाना’मिति दीर्घः। तथाहि। सतां मैत्री सौहार्दम्। व्याख्याता मैत्री। ईदृशी पुनः परस्परव्यसनासहनशीला खलु। अत एतद्युक्तमिति भावः.
अत्र स्वभावसिद्धस्य क्षीरनीरव्यवहारस्य परस्परसंतापदर्शनहेतुकत्वेनोत्प्रेक्षणात्क्रियानिमित्तक्रियास्वरूपोत्प्रेक्षा। सा चोक्तार्थान्तरन्यासनिर्व्यूढेत्यनयोर्विजातीयसंकरः. वृत्तमुक्तम्.
इतः स्वपिति केशवः कुलमितस्तदीयद्विषा-
मितश्च शरणार्थिनां शिखरिणां गणाः शेरते।
इतोऽपि बडबानलः सह समस्तसंवर्तकै-
रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः॥६८॥
व्या.—अथैतन्माहात्म्यमाह - इत इति - इतोऽस्मिन्प्रदेशे। केशवो विष्णुः कुक्षिस्थाखिलभुवन इति भावः। स्वपिति योगानुसंधानेन निद्राति***** ‘रुदादिभ्यस्सार्वधातुक’ इतीडागमः। इतो-ऽस्मिन्प्रदेशे। तस्य केशवस्य इमे तदीयाः *त्यदादित्वात् वृद्धाच्छः - ये द्विषो हिरण्याक्षरावणादयस्तेषां। कुलं समूहस्तिष्ठतीति शेषः। इतस्ततोऽन्यस्मिन् प्रदेशेऽपि। शरणार्थिनो रक्षणाभिलाषिणः - नि. ‘शरणं गृहरक्षित्रो’रित्यभिधानात्। तेषां शिखरिणां मैनाकादिपर्वतानां गणाश्च। शेरते स्वपन्ति* ‘शीङो रुडि’ति रुडागमः। इतस्तस्मादप्यन्यस्मिन् प्रदेशे। समस्ता ये संवर्तकाः प्रलयकालप्रवर्षिमेघविशेषाः - अत एव पुष्कलावर्तकसंज्ञया च व्यवह्रियन्ते - तैस्सह। बडबानलोऽपि वसति तस्मात्। सिन्धोस्समुद्रस्य। वपुश्शरीरं। विततं केशवाधारत्वेन विस्तृतं। ऊर्जितं बडबानलाश्रयत्वेऽप्यविवर्धिष्णु। भरसहं पर्वतभरणेन भारोद्वहनक्षमं च। अहो अप्रमेयानुभावत्वेनात्यन्ताश्चर्यमित्यर्थः .
अत्र लक्षयोजनपरिच्छिन्नस्य समुद्रस्यापरिच्छिन्नकेशवाद्यवतारत्वकथनादधिकप्रभेदोऽलङ्कारः - “आधाराधेययोरानु- रूप्याभावोऽधिको मत” इति लक्षणात्॥ पृथ्वीवृत्तम्॥
जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं
श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम्।
संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो
ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः॥६९॥
व्या.—अथ परहिताचरणपराकाष्ठया द्वयोरेव जन्म सफलं न त्वन्येषामित्याह - जात इति.—किं बहुना। अवतारेष्वपीत्यध्याहार्यम्.—एकः केवलस्स कूर्मः आदिकूर्मावतार एव जातः जन्मलाभवानित्यर्थः। कुतः ? येन कूर्मेण। पृथुर्महान् - यो भुवनभरश्चतुर्दश विष्टपभारस्तस्मै तद्वहनार्थमित्यर्थः - पृथु विपुलमिति पृथक्पदं वा। पृष्ठं निजकूर्परतलमर्पितं दत्तं - निरन्तरमधःप्रदेशे स्थित्या दुर्भरभुवनभारेण जनितः क्लेशस्सोढ इत्यर्थः। तथा ध्रुव स्यौत्तानपादेर्जन्म। श्लाघ्यं सकललोकप्रशस्तम्। कुतः ? यत्र यस्मिन् ध्रुवे; तेजस्विनां ग्रहनक्षत्रादीनां - चक्रं शिंशुमाराख्यं ग्रहनक्षत्रमण्डलं वा। नियमितं नियुक्तं सद्भ्रमति पर्यावर्तते - तत्रभवान्भगवदनुग्रहवशात्सकल- लोकोन्नतमेरुशिखरशिखामणिर्ध्रुवः स्वायत्तत्वेन तेजस्विचक्रं प्रवर्तयतीति श्रीविष्णुपुराणभागवतादिकथाऽनुसंधेया; ततः किमत आह—परहितकरणे परोपकाराचरण विषये। व्यर्थो निरर्थः अप्रयोजक इति यावत् - यः पक्षः - संजातो येषां ते संजातव्यर्थपक्षाः - न तु संजातपरहितकरणसमर्थपक्षा इत्यर्थः * सापेक्षत्वेऽपि गमकवात्समासः। अपरे उक्ताभ्यामन्ये। जन्तवः प्राणिनः - नैच्योद्भावनार्थकोऽयं जन्तुशब्दप्रयोगः। उपरिष्टान्न। ध्रुववदुपरिभागेऽपि वर्तमाना न भवन्तीत्यर्थः। अधश्च न। कूर्मवदधस्ताद्वा -
वर्तमाना अपि न भवन्तीत्यर्थः। किं तु उदुम्बरः जन्तुफलाख्यवृक्षविशेषः - तस्य फलमुदुम्बरं - नि. ‘उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धक’ इत्यमरः * ‘फले लुगि’ति लुक् - ब्रह्माण्डमुदुम्बरं तस्यान्तः अन्तराले - अव्ययमेतत्। ये मशकास्तैस्तुल्यं तद्वत्***** ‘तेन तुल्यं क्रियाचेद्वति’रिति वतिप्रत्ययः। जाता उत्पन्नाश्च ते नष्टाश्च जातनष्टाश्च भवन्तीति शेषः * स्नातानुलिप्तवत्पूर्वकालसमासः - यतो न तैः किमपि साधितमतो मशकवन्निष्फलजन्मभिः किमन्यैरिति भावः.
रूपकोपमयोस्संकरः. स्रग्धरावृत्तम्.
तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं माकृथाः
सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्वविद्वज्जनम्।
मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं
कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां चेष्टितम्॥७०॥
व्या.—अथ विधेयलोकं संबोधयंत्सदाचारं शिक्षयति- तृष्णामिति—हेजनेत्यध्याहार्यं सर्वत्रापि - मध्यमपुरुषप्र- योगसंभवात्। अलभ्येषु परधनेषु लाभाभिलाषस्तृष्णा - तां छिन्धि वैराग्यशस्त्रेण विदारय—अन्यथा अनेकाशापाशनिबद्धत्वेन क्लेशभागित्वं स्यादिति भावः। परिभवादिषूत्पद्यमानेषु क्रोधप्रतिबन्धः क्षमातां - भज सेवस्व - अन्यथा उग्रभावेन कार्यहानिस्स्यादिति भावः। मदं विद्याजनितदर्पम्। जहि विज्ञानेन विनाशय - अन्यथा विवेकशून्यतया अकार्यकरणप्रवृत्तौ अनर्थप्राप्तिस्स्यादिति भावः। पापे पापकर्माचरणे रतिं प्रीतिम्। माकृथाः अज्ञानेन माकार्षीः किं तु
‘धर्मं चरे’ त्याद्युपदेशवचनेन सत्कर्माचरणे। एव रतिं कुर्वित्यर्थः - अन्यथा निरयपातस्स्यादिति भावः***** करोतेर्लुङि थासि‘न माङ्योग’ इत्यट् प्रतिषेधः। सत्यं सूनृतम्। ब्रूहि ‘सत्यं वदे’ति वचनेन यथार्थमेव वचनं वदेत्यर्थः - अन्यथा ‘नानृतात्पातकं पर’मिति न्यायादविवेकित्वप्रसक्तिस्स्यादिति भावः। साधुपदवीं सन्मार्गमनुयाहि धर्मशास्त्रानुरोधेनानुसर - अन्यथोत्पथप्रतिपन्नत्वे वचनीयतादिदोषापत्तिस्स्यादिति भावः। विद्वज्जनं उपदेशेन कृतार्थीकरणशीलं पण्डितमण्डलम्। सेवस्व
“यस्तु पर्यटते देशान् यस्तु सेवेत पण्डितान्।
तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि॥”
इति वचनाद्बुद्धिवैशद्यार्थं शुश्रूषस्व - अन्यथा बुद्ध्यवैशद्याशिक्षितत्वाद्यभियोगस्स्यादिति भावः। मान्यान् पूज्यान्मानय यथार्हं पूजय - अन्यथा
“समासमाभ्यां विषमसमे पूज्ये” इति गौतमसूत्रात्।
“अपूज्यायत्र पूज्यन्ते पूज्याश्चैवावमानिताः।
अयशो महदाप्नोति धनाद्धर्माच्च हीयते॥”
इत्यादिस्मरणाच्च अन्यथा अकीर्तिस्सुकृतधनहीयमानत्वरूपाऽश्रेयः प्राप्तिस्स्यादिति भावः। किं बहुना। विद्विषश्शत्रूनपि किमुतान्यान्। अनुनय - ‘समश्शत्रौ च मित्रे च’ इति भगवद्वचनात्प्रसादय - अन्यथा रन्ध्रेषु पातयिष्यन्तीति भावः। प्रश्रयं गुर्वाचार्यादिषु नम्रत्वं। विनयमिति यावत्। प्रख्यापय ‘गुरौ नम्रते’ त्युक्तत्वात्प्रकटय - अन्यथा दुर्विनीतत्वापवादप्रसङ्गस्यादिति भावः; कीर्तिं पालय। जन्मसाफल्यार्थं
कीर्तिनिर्वहणे प्रयत्नं कुर्वित्यर्थः - अन्यथा ‘क्षितितले किं जन्मकीर्तिं विने’ति वचनाज्जीवन्मृतत्त्वापत्तिरस्यादिति भावः। दुःखिते संजातदुःखेषु भूतेष्वित्यर्थः * तारकादित्वादितच् - जातावेकवचनम्। दयां दुःखप्रहाणेच्छालक्षणाम्। कुरु ‘दुःखिषु करुणे’ति शास्त्रानुरोधाद्विधेहि - अन्यथा चित्तशुद्ध्यसंभवादिति भावः। एतत्सर्वं तृष्णाच्छेदादिकम्। सतां सज्जनानां चेष्टितं व्यापारः। यदि सौजन्ययशःकामी तदैवं प्रवर्तस्व अन्यथा पुरुषार्थलाभासंभवादिति भावः॥
मनसि वचसि काये पुण्यपीयूषपूर्णा
स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदिविकसन्तः सन्ति सन्तः कियन्तः॥७१॥
व्या.—ईदृशा विरला एवेति निगमयति - मनसीति—मनसि वचसि काये मनोवाक्कायेषु। पुण्यमेव - पीयूषममृतं - तेन पूर्णाः - करणत्रितयेनापि सत्कर्माचरणतत्पराइत्यर्थः***** नि.—‘पीयूषममृतं सुधे’त्यमरः, त्रयाणां भुवनानां समाहारस्त्रिभुवनं - लक्षणया त्रिभुवनस्थजनानित्यर्थः***** ‘तद्धितार्थे’त्यादिना समासः***** पात्रादित्वान्न स्त्रीत्वम्। उपकारश्रेणिभिर्हिताचरणपरम्पराभिः। प्रीणयन्तस्संतोषयन्तः***** ‘प्रीञ्प्रीणन’ इति धातोश्चोरादिकाण्णिचि शतृप्रत्ययः***** ‘धूञ्प्रीञार्नुग्वक्तत्र्य’ इतिनुगागमः। परेषां गुणपरमाणूनत्यल्पगुणानपीत्यर्थः - यतोऽणुर्नास्ति स परमाणुरित्याहुः। पर्वतीकृत्य महत्तरान् कृत्वा * अभूततद्भावे च्विः*****‘ऊर्यादिच्विडाचश्चे’ति
गतिसंज्ञायां * ‘कुगतिप्रादय’ इति समासः। नित्यं ख्यापयन्तः निरन्तरं प्रशंसन्तः। तथा निजहृदि स्वान्तःकरण एव विकसन्तः संतुष्यन्तस्सन्तः सत्पुरुषाः। कियन्तः कतिपये विरला एवेत्यर्थः। सन्ति - न तु सान्द्राः एतादृशगुणसंपत्तेरसाधारण्यादिति भावः। ‘निजहृदि विकसन्तस्सन्ति सन्तः कियन्त’ इत्येव पाठः - तथाचोक्तं- ‘सौजन्यामृतसिन्धव’ इत्यादि. मालिनीवृत्तम्.
इति नीतिशतके परोपकारपद्धतिस्सम्पूर्ण॥
<MISSING_FIG href="../books_images/U-IMG-1724504190pic3.jpg"/>
॥ धैर्यपद्धतिः ॥
रत्नैर्महाब्धेस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम्।
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः॥
व्या.— रत्नैरिति - देवा अमराः। महाब्धेः क्षीरार्णवस्य संबन्धिभिः। रत्नैः कौस्तुभादिमणिभिः - नि.—‘रत्नं श्रेष्ठे मणावपी’ति विश्वः - यद्वा - रत्नैः - नि.—‘जातौ जातौ च यच्छ्रेष्टं तद्रत्नमभिधीयत’ इति वचनात् - एैरावतोच्चैश्श्रवःकल्पवृक्षादिश्रेष्ठजातीयवस्तुभिः हेतुभिः। न तुतुषुस्तुष्टिं न प्रापुः - मथनसमय इति शेषः। तथा। बिभ्यत्यस्मादिति भीमं***** ‘भीमादयोऽपादान’ इत्यपादानार्थे भियः मप्रत्यय औणादिकः - तथाभूतं यद्विषं कालकूटाख्यं तेन हेतुना तस्मादित्यर्थः। न भीतिं। भेजिरे न प्रापुरिति धैर्यातिशयोक्तिः***** विषेणेत्यत्र ‘भीत्रार्थानां भयहेतु’रित्यपादाने पञ्चम्या भाव्यं। तथाऽपि हेतुत्वमात्रविवक्षयाऽयं निर्देश इति मन्तव्यम्। किं तु सुधाममृतं - विना***** ‘पृथग्विने’त्यादिना द्वितीया। विराम-
मवसानं। न प्रययुः मथनादिति शेषः - सुधोत्पत्तिं विना न विरता इत्यथः - अनने शीलसंपत्तिरुक्ता। तथाहि - धीरा मनस्विनो निश्चितार्थात् प्रतिज्ञातार्थान्न विरमन्ति विरामं न प्राप्नुवन्ति -किं त्वाफलोदयं प्रयतन्त एवे त्यर्थः. अतो धैर्यशीलसंपन्नानां देवानामपीदं युक्तमेवेति भावः***** ‘जुगुप्सा विरामे’त्यादिना पञ्चमी * ‘व्याङ्परिभ्यो रम’ इति परस्मैपदम्.
अर्थान्तरन्यासोऽलंकारः. वृत्तमुपजातिः.
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्ननिहता विरमन्ति मध्याः ।
विघ्नैर्मुहुर्मुहुरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमगुणा न परित्यजन्ति॥७३॥
व्या.—उक्तमेवार्थं नीचातिवृत्तिकथनद्वारा द्रढयति प्रारभ्यत इति.—नीचैरधमैः विघ्नेभ्योऽन्तरायेभ्यो - यद्भयं तेन हेतुना। न प्रारभ्यते खलु - नोपक्रम्यते कार्यमिति शेषः - नि. ‘विघ्नोऽन्तरायः प्रत्यूह’ इत्यमरः, मध्याः मध्यमास्तु। कार्यं प्रारभ्योपक्रम्य। विघ्नैर्निहता विह्वलीकृतास्सन्तो विरमन्ति। विरता भवन्तीत्यर्थः। उत्तमाः उत्कृष्टाः - गुणा धैर्यशीलादयो - येषां ते तथोक्ताः पुरुषश्रेष्ठास्तु विघ्नैर्मुहुर्मुहुः पौनःपुन्येन। प्रतिहन्यमानाः बम्भज्यमाना। अपि। प्रारब्धमुपक्रान्तं कर्म। न परित्यजन्ति; अतः कालकूटबडबानलादिविघ्नाद्युपहतत्वेऽपि उक्तगुणसंपन्नतया देवानां सुधोत्पत्तिपर्यन्तं मथनं युक्तमिति श्लोकद्वयस्यापि तात्पर्यम्.
अत्र प्रकरणे कुत्रचिद्धैर्यस्य कुत्रचिच्छीलस्य कुत्रचिदुभयस्यापि प्राधान्यनिर्देश इति द्रष्टव्यम् ‘मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुष्वि’त्युक्तलक्षणं धैर्यं - शीलं तु नियतकुलोचितसत्स्वभाव इति विवेकः - ‘शीलं स्वभावे सद्वृत्ता’ वित्यभिधानात्.
वसन्ततिलकावृत्तम्.
क्वचित्पृथ्वीशय्यः क्वचिदपि च पर्यङ्कशयनः
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः।
क्वचित्कन्याधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम्॥७४॥
व्या.—अथोक्तगुणसंपन्नस्य कृच्छ्राकृच्छ्रयोर्दुःखसुखापरिगणनया कार्यसाधनत्वमाह - क्वचिदिति—क्वचित्कुत्रचिद्देशे काले वा। पृथ्वी शय्या यस्य स तथोक्तः - कठिनतरस्थण्डिलशयनोऽपीत्यर्थः। क्वचिच्च। पर्यङ्के हंसमूलिकातल्पे - शयनं स्वापो - यस्य स तथोक्तः - मृदुलतरशय्योऽपीत्यर्थः - नि.—‘शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वयासमाः’-‘स्यान्निद्रा शयनं स्वाप’ इत्युभयत्राऽप्यमरः। क्वचिच्छाक एवाहारो यस्य नीरसाहारोऽपीत्यर्थः। क्वचिच्च। शाल्योदने शाल्यन्ने - रुचिः स्वादो यस्य स तथोक्तः - षड्रसोपेतमृष्टान्नभोजनसंतुष्टोऽपीत्यर्थः। क्वचित्कन्थां जीर्णवस्त्रशकलनिर्मिताच्छादनं क्षारयतीति कन्थाधार्यपि। क्वचिच्च दिव्याम्बरधरः कतत्कनकपीताम्बरधरोऽपि। कार्यार्थी कार्यनिष्पत्त्यभिलाषी - अर्थःअभिलाषः - तद्वानर्थीति विग्रहः * ‘कृद्वृत्तेस्तद्धितवृत्तिर्बलीयसी’ति महाभाष्ये। मनस्वी महामनाः धीरः * प्रशंसायामिनिः। पृथ्वीशय्यादिना
दुःखं च न गणयति। पर्यङ्कशयनादिना सुखं च न गणयति॥ किंतु सुखदुःखयोस्समानावस्थयैव कार्यसाधनतत्परो भवतीत्यर्थः॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीरः॥७५॥
व्या.—अथ धीराः लोकनिन्दास्तुतिप्राप्ता अपि न्यायमार्गान्न भ्रश्यन्तीत्याह - निन्दन्त्विति नीतिनिपुणा नयविशारदाः। निन्दन्तु कथंचिद्दूषयन्तु। वा यदि अथवा स्तुवन्तु भूषयन्तु वा। लक्ष्मीस्संपत्। समाविशतु प्राप्नोतु। वा, उत। यथेष्टं निरर्गलम्। गच्छतु वा। अद्यैवेदानीमेव। मरणं नि
–स्तु वा। उत युगान्तरे कल्पान्तरे वाऽस्तु। तथाऽपि। धी
रा –र्शालिनः न्याय्यान्न्यायादनपेतात्पथो मार्गात्। पदमेकपादविन्यासमात्रमपि। न प्रविचलन्ति न भ्रश्यन्ति। तेषां न्यायमार्गापरित्याग एव परमार्थो - न निन्दास्तुत्यादिरिति भावः॥ वसन्ततिलकावृत्तम्॥
कान्ताकटाक्षविशिखा न लुनन्ति यस्य
चित्तं न निर्दहति कोपकृशानुतापः।
कर्षन्ति भूरिविषयाश्च न लोभपाशै
र्लोकत्रयं जयति कृत्स्नमिदं स धीरः॥७६॥
व्या.—ननु को धीरस्स वा किं साधयतीत्याशङ्क्याहकान्तेति-यस्य चित्तं। कान्ताकटाक्षाः–
“यद्गतारतविश्रान्ति वैचित्र्येण विवर्तनम्।
तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते॥”
इति भावप्रकाशोक्तलक्षणलक्षितकामिन्यपाङ्गालोकनानि - त एव विशिखा बाणा नलुन्ति न भिन्दन्ति न सम्मोहयन्तीति यावत् तथा कोपकृशानुतापः क्रोधाग्निसंतापश्च। न निर्दहति न व्याकुलयति। तथा भूरयो बलवत्तरा - विषयाः शब्दादीन्द्रियार्थाश्च। लोभः परस्वापरहरणे प्रयत्नः एतेन कामादयोऽप्युपलक्ष्यन्ते - तथाच - लोभा एव पाशा रज्जवश्च बन्धनहेतुत्वात्तेषां पाशत्वारोपणं। न तर्षन्ति तृष्णायुक्तं न कुर्वन्ति - कर्षन्तीति पाठे न स्वायत्तीकुर्वन्तीत्यर्थः। स धीरः। कृत्स्नमशेषं। लोकत्रयं स्वर्गादिलोकत्रितयमपि जयत्यात्माधीनं करोतीत्यर्थः। तस्य न किंचिदप्यसाध्यमिति भावः वृत्तं पूर्ववत् ॥
कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुम्।
अधोमुखस्यापि कृतस्य वह्वेर्नाधश्शिखा यान्ति कदाचिदेव॥
व्या.—धैर्यंगुणन्यक्कारः कथंचिदपि न युज्यत इति सदृष्टान्तमाह - कदर्थितस्येति.—कुत्सितोऽर्थः कदर्थः * ‘कोः कत्तत्पुरुषेऽची’ति कुशब्दस्य कदादेशः - कदर्थीकृतः कदर्थितः तस्य नीचैः। कृतस्यापि सतः धैर्येण वृत्तिर्वर्तनं यस्य तस्य संबन्धि धैर्यमेव गुणः। प्रमार्ष्टुमधः-कर्तुं। न शक्यते ; तत्र दृष्टान्तः - अधोमुखस्य कृतस्यावाङ्मुखीकृतस्यापि सतो। वह्नेश्शिखा ज्वाला। कदाचिदेव कदाचिदप्यधो न यान्ति - किं तूर्ध्वमेव प्रसरतीर्थः। तद्वद्धीरस्यापि धैर्यगुण इति विवेकः. उपजातिवृत्तम्.
वरं शृङ्गोत्सङ्गाद्गुरुशिखरिणः क्वापि विषमे
पतित्वाऽयं कार्यः कठिनदृषदन्ते विदलितः।
वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने
वरं वह्नौ पातस्तदपि न कृतः शीलविलयः॥७८॥
व्या.—मरणोद्योगो वा वरं न तु शीलविलय इत्याह- वरमिति.—अयं कायो देहः गुरुशिखरिणोऽत्युन्नतपर्वतस्य शृङ्गोत्सङ्गाच्छृङ्गोपरिभागात्क्वापि कस्मिंश्चिद्विषमे विकटे। कठिनदृषदन्ते कर्कशपाषाणान्तराले। पतित्वा विगलितः शकलितश्चेद्वरं मनाक्प्रियं। तथा हस्तस्तीक्ष्णदशने विषानलोग्रदंष्ट्रे। फणिपतेः - मुखे वक्त्रे। न्यस्तश्चेद्वरं। तथा वह्नौ पातोऽग्निप्रवेशोऽपि। वरं। किं तु शीलविलयस्स्वभावत्यागः। कृतश्चेन्न वरम्। मनाक्प्रियमपि। न भवतीत्यर्थः। प्राणप्रयासेऽपि शीलं न त्याज्यमिति तात्पर्यम् - ‘दैवाद्वृते वरः श्रेष्ठे त्रिषु क्लीवं मनाक्प्रिय’ इत्यमरः.
वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणा-
न्मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते।
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतरं शीलं समुन्मीलति॥७९॥
व्या.—नन्वेवं शीलस्यात्यन्तावश्यकत्वमुक्तं। तद्भावे को लाभ इत्याशङ्कायामाह - वह्निरिति.—तस्य पुंसः। वह्निर्दाहकोऽपीति भावः। जलायते जलमिवाचरति - तद्वच्छीतलो भवतीत्यर्थः * ‘कतुः क्यङ्सलोपश्चे’ति क्यङ् * ‘अकृत्सार्वधातुकयो’रिति दीर्घः - एवं सर्वत्र प्रयोज्यम् जलनिधिर्दुस्तरोऽपीति भावः। कुल्यायते अल्पनदी-
वाचरति। तस्येति सर्वत्रान्वयोऽवगन्तव्यः। तत्क्षणात्तस्मिन्नेव क्षणे - न तु विलम्बेनेत्यर्थः। मेरुः स्वल्पशिलायते अल्पदृषदिवाचरति। मृगपतिस्सिंहः - हिंस्रोऽपीति भावः। सद्यः कुरङ्गायते हारेण इवाचरति। व्यालस्सर्पः - विषरोगभीषणोऽपीति भावः। माल्यगुणायते पुष्पस्रगिवाचरति। विषमेव - रसो द्रवः प्राणप्रयासहेतुरिति भावः। पीयूषवर्षायते अमृतवृष्टिरिवाचरति। कस्येत्याकाङ्क्षायामाह - यस्य पुंसोऽङ्गेऽखिललोकानामशेषजनानां - वल्लभतरमत्यन्तमनोहरं। शीलं सत्स्वभावः। समुन्मीलति समुल्लसति। तस्येतिसंबन्धः। शीलसंपन्नस्य दुःखहेतवोऽपि सुखहेतव एव भवन्ति। अयमेव परमलाभ इति भावः .
अत्र कृञर्थादौपम्यप्रतीते रुपमाभेदः.–
“इवादिलोपे द्विविधे णमुलि क्यचि च क्यङि।
तथा वाक्ये समासे च सप्तधैषा प्रकीर्तिता॥” इति
(एषा उपमेत्यर्थः.)
छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः।
इति विमृशन्तस्सन्तः सन्तप्यन्ते न लोकेषु॥८०॥
व्या.—अथैषां कदाऽपि संतापो न प्रवर्तत इत्याह - छिन्न इति.—तरुः छिन्नस्सन्नपि। पुना। रोहत्युद्गच्छति। चन्द्रः। क्षीणः कृष्णपक्षे दिनक्रमेण कृशस्सन्नपि। पुनरुपचीयते प्रवर्धते इत्येवं। विमृशन्तो मनस्यनुसंदधानास्सन्तः शीलसंयन्ना लोकेषु बन्धुजनेषु। विश्लथेषु विह्वलेषु सत्स्वपि। न संतप्यन्ते। किं तु तरुचन्द्रदृष्टान्तेनाभिवृद्धिमाशंसन्त एव सन्तीत्यर्थः. आर्यभेदः.
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्॥८१॥
व्या.—शीलमेवाशेषभूषणमित्याह - ऐश्वर्यस्येति.—ऐश्वर्यस्य स्वाम्यस्य। सुजनता विभूषणं - न तु दौर्जन्यम्। शौर्यस्य विक्रान्तत्वस्य वाक्संयमो वाङ्नियमो विभूषणं न त्वसंबद्धप्रलापित्वम्। ज्ञानस्य कर्तव्याकर्तव्यविवेकस्यात्मविषयकस्य वा। उपशमो विषयोपरतिः। विभूषणं न तु लोलुपत्वम्। श्रुतस्य शास्त्रस्य। विनयो विभूषणं - न तु गर्वोद्रिक्तता। वित्तस्य पात्रे व्ययः सत्पात्रे प्रतिपत्तिः। विभूषणं - न तु विटनटादिषु। तपसश्चान्द्रायणादेरक्रोधः क्रोधराहित्यं***** क्वचित्प्रसज्यप्रतिषेधेऽपि नञ् समास इष्यते विभूषणं - न तु कोपशीलत्वम्। प्रभवितुः समर्थस्य। क्षमा सहिष्णुत्वम्। विभूषणं - न तूच्चंडता। धर्मस्य सत्पात्रदानस्य। निर्व्याजता व्याजराहित्यं। विभूषणं - न तु द्रव्यनाशदुःखं। तथा सर्वकारणं ऐश्वर्यादिसमस्तनिदानमिदं पूर्वोपवर्णितमेव शीलं। सर्वेषामपि सर्वपुंसां। परं सौजन्याद्यपेक्षयाऽप्युत्कृष्टं। भूषणमलंकारः अतस्सर्वश्राऽपि शीलमेवाश्रयणीयमिति तात्पर्यम्.
इति नीतिशतके धैर्यपद्धतिस्सम्पूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1724515774pic3.jpg"/>
नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः
स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावणो वारणः।
इत्याश्चर्यबलान्वितोऽपि बलभिद्भग्नःपरैः सङ्गरे
तद्व्यक्तं ननु दैवमेव शरणं धिग् धिग् वृथा पौरुषम्॥८२॥
व्या.—अथ धैर्यशीलयोरपि दैवायत्तत्वात्तन्निरूपणानन्तरं दैवपद्धतिं निरूपयति - नेतेति.—यस्य बलिभिदः। नेता शिक्षकः हिताहितोपदेशकर्ता। बृहतां वाचां पतिर्बृहस्पतिः न तु यः कश्चित् * ‘तद्बृहतोः करपत्योश्चोरदेवतयोस्सुड्तलोपश्चे’ति सुडागमतलोपौ। प्रहरणम् आयुधं प्रहारसाधनं तु। वज्रं वज्रायुधं - पर्वतपक्षच्छेदनेऽप्यकुण्ठितमिति भावः - न तु यत्किंचिदयोमयं। सैनिकास्सुराः–न तु दुर्बललौकिकाः। दुर्गंगुप्तिस्थानं। स्वर्गः स्वर्गलोकः - न तु मृत्पाषाणादिनिर्मितम्। अनुग्रहः परिपालनतात्पर्यम्। हरेः खलु सकललोकाधीश्वरस्य विष्णोः - तस्यावरजभावेनावतीर्णत्वादिति भावः। न तु क्षुद्रदेवतायाः। वारणो गजः ऐरावतः न तु यः कश्चित्कलभः। इत्यनेन प्रकारेण स बलभिदिन्द्रः। आश्चर्यबलान्वितोऽसाधारणत्वादद्भुतकरशक्तिसहितोऽपि। संगरे रणे। परैर्दानवैर्भग्नो विदारितः। तत्तस्मात्कारणाद्व्यक्तं स्फुटं यथा तथा। दैवमेव। शरणं रक्षकं। नतु। पुरुषस्य कर्म पौरुषं
* ‘हायनान्तयुवादिभ्योऽणि’ ति युवादित्वादण् - नि.‘पौरुषं पुरुषस्योक्ते भावे कर्मणि तेजसी’ति विश्वः -पौरुषं पुरुषकारं। धिग्धिक् पौनःपुन्येन निन्द्यमित्यर्थः। वृथा व्यर्थमप्रयोजकत्वादिति भावः।
धिग्धिगिति * ‘नित्यवीप्सयो’रित्याभीक्ष्ण्ये द्विरुक्तिः। तद्योगात्पौरुषमिति द्वितीया ; अतः पौरुषस्याकिंचित्क- रत्वमेवाश्रयणीयमिति भावः.
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी
र्दैवं प्रधानमिति कापुरुषा वदन्ति।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्नेकृतेयदि न सिद्धति कोऽत्र दोषः ?
इत्यादिवचनस्य अयमेव दत्तजलाञ्जलिरिति वेदितव्यम्॥
अत्रसाभिप्रायविशेषणत्वात्परिकरालंकारः - “साभिप्रायविशेषणं परिकर” इति॥
भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
स्वस्थास्तिष्ठत दैवमेव हि परं वृद्धौक्षये कारणम्॥८३॥
व्या.—अथ बन्धमोक्षयोर्हानिवृद्ध्योश्चापि दैवमेव कारणमित्याह - भग्नेति—आखुर्मूषकः कर्ता। नक्तं रात्रौ। विवरं बिलं। करण्डस्यैवेति भावः। कृत्वा। भग्नाशस्य भुग्नत्वाद्भग्नमनोरथस्य। करण्डे पिण्डिकायां - पिण्डिता पुञ्जीकृता - तनुर्यस्य तथोक्तस्य विहारप्रसारशून्यतयाऽतिकृच्छ्रदशामापन्नस्येत्यर्थः। क्षुधा बुभुक्षाव्यसनेन। म्लानेन्द्रियस्य विनष्टेन्द्रियपाटवस्य। भोगिनः सर्पस्य। मुखे स्वयमेव दैववशान्निपतितः। ततोऽसौ भोगी। तत्पिशितेन
मूषकमांसेन। तृप्तस्सन्। तेनैव पथा विवरेण। सत्वरं शीघ्रं। यातः बहिर्निर्गत्य पलायितः हे जना इति शेषः। स्वस्थाः स्थिरचित्तास्सन्तः। तिष्ठत। कुतः वृद्धौ क्षये च दैवमेव। परमुत्कृष्टं। कारणं हि नत्वन्यदतो मूषकभोगिदृष्टान्तेन। स्वस्थैर्भाव्यं। न तु वृथा पौरुषैरिति भावः
यथा कन्दुकपातेनोत्पतत्यार्यः पतन्नपि।
तथा त्वनार्यः पतति मृत्पिण्डिपतनं यथा॥८४॥
व्या.—अथ दैवायतिकतदन्ययोरवस्थामाह - यथेति.—आर्यो दैवायतिकः। पतन्नपि कुतश्चित्कारणान्नीचैर्भवन्नपि कन्दुकपातेन दृष्टान्तेनयथोत्पतत्युच्छ्रयं प्राप्नोति। तथा तद्वदेव अनार्यःमृत्पिण्डपतनं यथा सान्द्रमृत्कबलमिव ‘इववद्वायथाशब्दा’विति दण्ड्याचार्यानुशासनात्। पतति निलीनो भवतीत्यर्थः॥
खर्वाटो दिवसेश्वरस्य किरणैः सन्तापिते मस्तके
गच्छन्देशमनातपं विधिवशात्तालस्य मूलं गतः।
तत्राप्यस्य महाफलेन पतता भग्नंसशब्दं शिरः
प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः॥८५॥
व्या.—दैवोपहतस्य न कुत्रापि सुखप्राप्तिरित्याह - खर्वाट इति.—खर्वाटः स्वभावलुप्तलोमशिरस्कः -मस्तके निजशिरसि। दिवसेश्वरस्य सूर्यस्य। किरणैस्संतापिते सति। अनातपमातपशून्यं देशं प्रति। द्रुतगतिः शीघ्रगमनः। गच्छन्। तालस्य तालवृक्षस्य। मूलं गतः तालाधस्तात्तिष्ठति। तत्र तालमूलेऽपि। पतता वृन्ताद्गलता
महाफलेन पृथुलतरफलेन। अस्य खर्वाटस्य शिरः। स्वशिरश्शब्देन पटपटायमानेन सहितम्। सशब्दं यथा तथा। भग्नं विदलितं; ननु कुत एतदित्याशङ्क्य दैवप्रातिकूल्यादित्याह - दैवहतको दैवोपहतः दैवानुग्रहशून्य इत्यर्थः। यत्र यस्मिन् देशे गच्छति - यं देशमुद्दिश्य गच्छति। तत्र तमुद्धिश्यैवापद उपद्रवा अपि। प्रायो भूम्ना। यान्ति तदेतन्मशकभयाद्ग्रामं विहाय गच्छतोऽरण्ये व्याघ्रग्रहणमभूदित्यर्थः॥
शार्दूलविक्रीडितम्॥
गजभुजङ्गविहङ्गप्रबन्धनं शशिदिवाकरयोर्ग्रहपीडनम्।
मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः॥
व्या.—अतो दैवमेव बलीय इति मम मतिः प्रवर्तत इत्याह - गजेति.—अयं स्पष्टार्थः यतोऽत्यन्तदुर्ग्रहाणां गजादीनां बन्धनं। जगत्प्रकाशकयोस्सूर्याचन्द्रमसोः राहुग्रहपीडनं। मतिमतां प्राज्ञानां। दरिद्रतामकिंचनत्वं च। विलोक्य दृष्ट्वाऽपि। अहो आश्चर्यम् अतस्सर्वस्यापि दैवबलीयस्त्वं मन्ये। दैवमेव मूलमिति तात्पर्यम्. द्रुतविलम्बितम् .
सृजति तावदशेषगुणाकरं पुरुषरत्नमलङ्करणं भुवः।
तदपि तत्क्षणभङ्गिकरोति चेदहह कष्टमपण्डितता विधेः॥
व्या.—एवं चेद्विधेरप्यज्ञता स्यादित्याशयेनाह – सृजतीति.—विधिरशेषगुणाकरं सकलसद्गुणाश्रयं भुवोऽलंकरणं मण्डनं। पुरुषरत्नं पुरुषश्रेष्ठं। सृजति तावन्निर्माति खलु। ततः किमत आह - तदपि तथाऽपि सृजन्नपीत्यर्थः। तत्पुरुषरत्नं क्षणभङ्गि
क्षणमात्रेण भङ्गुरं नश्वरमित्यर्थः। करोति चेत्। विधे रपण्डितता मौढ्यमहह कष्टमतिकृच्छ्रमिति विषादातिशयाभिद्योतकमहहेति; करोति चेत्तत्पाण्डित्यमेवेत्यर्थः। तथा तादृक्पुरूषरत्नस्य क्षणभङ्गित्वेनैव निर्माणात्तुअपण्डित एव विधिरिति परमरहस्यम्.
द्रुतविलम्बितम्.
अयममृतनिधानं नायकोऽप्योषधीनां
शतभि
षगनुयातः शम्भुमूर्ध्नोऽवतंसः।
विरहयति न चैनं राजयक्ष्मा शशाङ्कं
हतविधिपरिपाकः केन वा लङ्घनीयः॥८८॥
व्या.—कथंचिदपि दैवयोगो न लङ्घ्य इत्याह - अयमिति—अयं परिदृश्यमानश्चन्द्रः। अमृतस्य। निधानं स्थानमपि ओषधीनां। संजीविन्यादीनाम्। नायको नेताऽपि। शतभिषजा नक्षत्रेण - शतेन भिषग्भिर्वैद्यैश्चानुयातोऽनुसृतोऽपि। किं बहुना शम्भोस्सकललोकक्षेमङ्करस्य शंकरस्य। मूर्ध्नोऽवतंसश्शिरोभूषणमप्येनमुक्तविशेषणविशिष्टं शशाङ्कं राजयक्ष्मा क्षयरोगो। न विरहयति न त्यजति खलु। अतो हतविधेर्नष्टदैवस्य - परिपाको नियोगः केन वा पुंसा। लङ्घनीयो न केनाऽपीत्यर्थः ; हतेति निर्वेदानुसंधानार्थकः। राजयक्ष्मेत्यत्र राज्ञश्चन्द्रस्य यक्ष्मा - राजा चासौ यक्ष्मेति वा विग्रहः यथाह बाहटः—
“अनेकरोगानुगतो बहुरोगपुरोगमः।
राजयक्ष्मा क्षयोऽशेषरोगराडिति च स्मृतः॥”
प्रियसख विपद्दण्डाघातप्रपातपरम्परा-
परिचयबले चिन्ताचक्रे निधाय विधिः खलः।
मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालव-
द्भ्रमयति मनो नो जानीमः किमत्र विधास्यति॥८९॥
व्या.— मनोनियन्ताऽप्ययमेवेति सखायं संबोधयति प्रिय - इति - प्रियश्चासौ सखा व प्रियसखः तस्य संबुद्धिः- हे प्रियसखः * ‘राजाहस्सखिभ्यष्टच्’ खलश्शठोऽयं विधिः॥ प्रगल्भकुलालेन तुल्यं प्रगल्फकुलालवत् प्रौढकुम्भकारइवेत्यर्थः * ‘तेनतुल्यंक्रियाचेद्वतिरि’तिवतिः। मनोमदीयचित्तम्। मृदं मृत्तिकामिव। बलात्सामर्थ्यात्पिण्डीकृत्य कपालीकृत्य। विपदः आपदः - दण्डाघाताः मुद्गररघट्टनानीव - तेषां प्रवातानां च - या परम्परा पौनःपुन्येनावृत्तिः - तस्याः यः परिचयस्संस्तरो निबिडावयवपरस्परसन्निवेशश्च स एव - बलं दार्ढ्यंयस्य तस्मिन्। चिन्ताचक्रे चिन्ताचक्रमिव तस्मिन्निधाय भ्रमयति। अत्र भ्रमणे। किं विधास्यति किं करिष्यति वा। नो जानीमः। कुलालस्तु घटं करिष्यत्ययं तु किं विधास्यति न जानीम इत्यर्थः॥
विरम विरमायासादस्माद्दुरध्यवसायतो
विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे।
अयि जड विधेकल्पापायेऽप्यपेतनिजक्रमाः
कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः॥९०॥
व्या.—एवमापत्परम्पराचरणे महद्वैर्यध्वंसो भविष्यतीति न मन्तव्यमिति विधिमलक्षीकृत्योपालभते - विरमेति. —अयीति प्रश्ने -नि. ‘अभिप्रश्नानुनयो’रिति विश्वः। जडेति मान्द्ये- विधे हे दैवेति संबोधनत्रयम्। अस्माद्दुरध्यवसायतो दुराग्रहाद्य
आयासस्तस्माद्विरमविरम आभीक्ष्ण्येन विरतो भव * ‘नित्यवीप्सयोरि’त्याभीक्ष्ण्ये द्विरुक्तिः। कोऽसावायास इत्याशङ्कायामाह - विपदि त्वत्कृतापदि। महतां महात्मनां धैर्यध्वंसं धीरत्वह्रासमीक्षितुमीहसे काङ्क्षसे। यत् त्वमस्मादायासादिति संबन्धः तस्यात्यन्तासंभावितत्वात्त्वदायासस्यैवावशिष्टत्वादिति भावः। कुतो वाऽसंभावितत्वमित्याशङ्क्य दृष्टान्तमुखेन द्रढयति कल्पापाये कल्पान्तेऽपि अतिसंकटेऽपि किमुतान्यदेति भावः अपेताः विनष्टाः - विजक्रमाः स्वमर्यादाः येषां ते तथोक्तास्सन्तः। एते कुलशिखरिणो महेन्द्रादिसप्तकुलाचला वा। जलराशयस्सप्तसमुद्रा वा क्षुद्रा नीचाः न खलु - किं त्वत्यक्तमर्यादा एव वर्तन्ते। अतः दृष्टान्तेन धीरधैर्यध्वंसनस्यातिदुष्करत्वात्त्वदायास एवावशिष्टो न तु फललाभ इति भावः.
“महेन्द्रो मलयस्सह्यस्सानुमानृक्षपर्वतः।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः॥”
‘लवणेक्षुसुरासर्पिर्दधिक्षीरजलार्णवाः॥’ इति.
दैवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकृतं
तत्तस्योपनमेन्मनागपि महानैवाश्रयः कारणम्।
सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः॥९१॥
व्या.—तथाऽपि दैवमेव शरणमित्याह - दैवेनेति.—प्रभुणा समर्थेन। जगति लोके। यस्य पुंसो। यद्वस्तु। प्रमाणीकृतं निर्दिष्टं।
तद्वस्तु तस्योपनमेत् संगच्छेत्। महानाश्रयो। मनागीषदपि। नैव कारणं न साधनं हि - बहुफलप्राप्ताविति शेषः। तत्र दृष्टान्तः - सर्वाशापरिपूरके सकललोकमनोरथपरिपूरके - सकलदिगन्तव्याप्तफलके वा। जलधरेऽम्बुवाहे * पचाद्यच्। अहन्यहनि प्रत्यहम् * ‘अव्ययं विभक्ती’त्यादिनाऽव्ययीभावः - अह्नश्च ‘नपुंसकवदन्यतरस्या’मिति समसान्तः। वर्षति सत्यपि। चातकस्य स्तोककपक्षिणो। मुखं चञ्चूपुटे। सूक्ष्मा अणव एव। तथाऽपि द्वौ वा यो वा द्वित्रा एव***** ‘संख्ययाव्ययासन्ने’ त्यादिना बहुव्रीहिः * ‘बहुव्रीहौ संख्येये डजबहुगणा’ दिति डच् प्रत्ययः। पयोबिन्दवो जलकणाः पतन्ति - न त्वाश्रयमहत्तया बहुजललाभस्तत्रापि दैवस्यैव नियन्तृत्वादिति भावः - तस्मात्सर्वथा दैवमेव शरणमिति तात्पर्यम् - नि. स्तोककश्चातकस्समा’ इत्यमरः.
इति नीतिशतके दैवपद्धतिस्सम्पूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1724487799pic3.jpg"/>
॥ कर्मपद्धतिः॥
नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा
विधिर्वन्द्यःसोऽपि प्रतिनियतकर्मैकफलदः।
फलं कर्मायत्तं किममरगणैः किं च विधिना
नमसत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति॥९२॥
व्या.—यदुक्तं दैवेन प्रभुणेत्यादिसंदर्भेण दैवस्यैवात्यन्तावश्यकत्वं। तस्यापि कर्मनियम्यत्वेनास्वातन्त्र्यादित्याशयेन दैवपद्धति-
निरूपणानन्तर्येणकर्मपद्धतिं निरूपयिष्यंस्तत्रापि सर्वदेवनियामकत्वेन विधेस्तन्नियामकत्वेन कर्मणः - प्राबल्यमिति परम्परामनुविदधाति - नमस्याम इति—देवानिन्द्रादीन्नमस्यामोऽभिवादयामः। न त्वेकान्ततयैतेषामेवाभिवाद्यत्वमेतन्नि- यामकस्य कस्यचिद्विधेः विद्यमानत्वात्। सोऽप्यभिवाद्य एवेत्याशयेनाह - ते देवा अपि हतो यो विधिर्ब्रह्मा तस्य। वशगा ननु नियम्याः खलु - अतो विधिरपि वन्द्यः नत्वस्यापि स्वातन्त्र्यमित्याह - सोऽपि विधिरपि। प्रतिनियतं यत्कर्मणः एकं फलं त द्ददातीति तथोक्तः यत्फलं कर्मणः प्रतिनियतं तत्प्रदो न तु स्वतन्त्र इत्यर्थः। तथाच फलं कर्मायत्तं यदि कर्माधीनं चेदपरैः देवैः किं ? विधिना च किं ? न किंचिदपीत्यर्थः - तस्यैव फलदानस्वाम्यादिति भावः। तत्तस्मात्कर्मभ्यो ज्योतिष्टोमतपोदानादिरूपेभ्यो नमः। यतः विधिरपि। येभ्यः कर्मभ्यो न प्रभवति न समर्थो भवति स्वातन्त्र्येण प्रवृत्तेरभावादिति भावः॥
अत्रपूर्वपूर्वस्योत्तरोत्तरं प्रत्युत्कर्षावहत्वान्मालादीपकाख्योऽलंकारः - तल्लक्षणं तूक्तम्॥
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे॥९३॥
व्या.—यदुक्तं ‘विधिरपि न येभ्यः प्रभवती’ति तत्प्रपंचयतिब्रह्मेति.—येन कर्मणा कर्त्रा ब्रह्मा चतुर्मुखो। ब्रह्माण्डमेव भाण्डं। तस्योदरे। कुलालेन कुम्भकारेण तुल्यं कुलालवन्नियमितः विविध-
वस्तुनिर्माणकर्मत्वेन नियमितो नियोजितः। येन विष्णुः कुक्षिस्थाखिलभुवनोऽपि। महासंकटेऽतिकृच्छ्रतरे। दशावतारा एव गहनमरण्यानीतत्र क्षिप्तो निक्षिप्तः। येन कर्मणा रुद्रो मृत्युञ्जयोऽपीति भावः। कपालं ब्रह्मशिर एव पाणिपुटकं करतलस्थभिक्षाहरणोचितभाजनं तत्र। भिक्षाटनं सेवते - कपालस्थभिक्षान्नं भुङ्क्त इत्यर्थः। किं चयेन सूर्योऽपि सकललोकप्रकाशकोऽपीति भावः। नियमित इति शेषः–गगनेऽन्तरिक्षे नित्यमेव न तु क्षणमात्रमपि विश्रमावकाश - इति भावः। भ्राम्यति परिवर्तते * ‘वाभ्राशे’त्यादिना विकल्पात् श्यन्प्रत्ययः। तस्मै सकलनियन्त्रे कर्मणे नमः –तथाभूतस्यैवाभिवादनौचित्यादिति भावः॥
या साधूंश्चखलान् करोति विदुषो मूर्खान् हितान् द्वेषिणः
प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात्।
तामाराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं
हे साधो व्यसनैर्गुणेषु विपुलेष्यास्थां वृथा माकृथाः॥९४॥
व्या.—एवं श्लोकद्वयेन सकलनियामकत्वकथनपूर्वकमभिवादनीयत्वोपयोगात्स्वयमभिवाद्य संप्रति बहुश्रेयोहेतुत्वात्तस्योपादेयतामाह - येति.— या सत्क्रिया खलांश्च दुर्जनानपि साधून्करोति। मूर्खानज्ञानिनोऽपि। विदुषः पण्डितान्। करोति। द्वेषिणोऽपि। हितांत्सुहृदः करोति। परोक्षमतीन्द्रियमपि वस्तु। प्रत्यक्षामिन्द्रियगोचरं। कुरुते। तथा हालाहलं विषमपि। तत्क्षणात्सद्य एवामृतं करोति - तादृक्सामर्थ्यसंभवादिति भावः। अतः हे साधो सज्जननिपुणेति वा - ‘साधुस्समर्थो निपुणो वे’ति काशिकायाम्।
वाञ्छितमभिलषितं। फलं भोक्तुमिच्छसि चेदिति शेषः। भगवतीं तां। सत्क्रियां सत्कर्माराधय - तस्याः अशेषफलदायकत्वादिति भावः। किं तु व्यसनैर्विपुलेष्वापद्भूयिष्ठेषु। गुणेषु। रजस्तमःप्रभृतिषु वृथाव्यर्थमास्था मासक्तिं। माकृथा माविधेहि। तस्याः क्लेशैकफलकत्वादिति भावः। करोतेर्लुङ् ‘न माङ्योग’ इत्यट् प्रतिषेधः॥
अत्रखलादीनां साधुत्वादिकरणादशक्यवस्तुकरणरूपो विशेषालंकारः॥
शुभ्रं सद्मसविभ्रमायुवतयः श्वेतातपत्रोज्वला
लक्ष्मीरित्यनुभूयते चिरमनुस्यूते शुभे कर्मणि।
विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्तन्तुकं
मुक्ताजालमिव प्रयाति झडिति भ्रश्यद्दिशोऽदृश्यताम्॥९५॥
व्या.—वृद्धिहान्योरप्येतन्मूलकत्वमेवेत्याह - शुभ्रमिति.—चिरं चिरकालमारभ्यानुस्यूतेऽनुवर्तमानेऽपि ‘षिवु तन्तुसंताने’ इति धातोः कर्तरि क्तः‘च्छ्वोश्शुडनुनासिके चे’ति ऊठि यणादेशः। शुभे कर्मणि पुराकृतविशेषे संभवति सतीत्यर्थः। शुभ्रं सद्म सौधादिकं। सविभ्रमास्सविलासाः। युवतयस्तरुण्यः। श्वेतातपत्रेणैकश्वेतच्छत्रेणोज्वला। लक्ष्मी राज्यश्रीरित्येतदखिलमित्यर्थः। अनुभूयतेऽनुभुज्यते। जन्मान्तरीयफलहेतुत्वात्तस्येति भावः। विच्छिन्ने शुभकर्मणि विनष्टे सति। नितरामतिशयेन। अनङ्गकलहो रतिरणरसएव क्रीडा केलिस्तया हेतुना त्रुटन् भिदुरस्तन्तुर्यस्य तत्तथोक्तं
शेषे कप्प्रत्ययः। मुक्ताजालमिव भ्रश्यत्सत्। सद्मादिकमिति शेषः। ज्ञडिति द्राग्दिशो प्रयाति ’यत्रयत्र सितं गेहं तत्रतत्र विनश्यती’ति न्यायादिति भावः। दृश्यतां विलोक्यतामित्यर्थः अन्वयव्यतिरेकाभ्यां वृद्धिहान्योरस्यैव कारणत्वं द्रष्टव्यमिति भावः॥
गुणवदगुणवद्वा कुर्वता कार्यमादौ
परिणतिरवधार्या यत्नतः पण्डितेन।
अतिरभसकृतानां कर्मणामाविपत्ते
र्भवति हृदयदाही शल्यतुल्यो विपाकः॥९६॥
व्या.—अथैषामाचरणप्रकारमाह - गुणवदिति.—गुणवद्गुणयुक्तमगुणवद्गुणरहितं वा। यत्कार्यजातंतत्कुर्वताऽनुतिष्ठताऽनेन। पण्डितेन परिज्ञात्रा।परिणतिः परिपाकावस्था। यत्नतः - अतिप्रयत्नेन - सावधानेनेति यावत्। अवधार्याऽनुसंधेया। यत्नत - एव कर्मजातमारब्धव्यम्। समालोच्य परिणतिपर्यन्तमित्यर्थः। अन्यथाऽनर्थमाह - अतिरभसकृतानां सहसाऽनुचितानां। कर्मणां गुणवतां - वेति शेषः। आविपत्तेर्निष्पत्तिपर्यन्तं* विकल्पादाङोऽसमासः - विपूर्वात्पद्यतेर्निष्पत्त्यर्थत्वमुपसर्गवशाद्धातूनाषनकार्थत्वादित्यवगन्तव्यम्। हृदयदाही मनस्संतापकारी। कुतश्शल्य तुल्यः शल्यप्रायो। विपाकः परिपाकदशा। भवति; अतस्सावधानेनैव कर्मजातमारम्भणीयं। तथाभूतस्यैव चित्तसमाधायकत्वादितिभावः॥
स्थाल्यां वैदूर्यमय्यां पचति तिलखलंचान्दनैरिंन्धनौघैः
सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्कतूरस्य हेतोः।
अछित्त्वा कर्पूरखण्डान् वृतिमिह कुरुते कोद्रवाणां समन्तात्
प्राप्येमां कर्मभूमिं न भजति मनुजो यस्तपो मन्दभाग्यः॥
व्या—अतस्सत्कर्माननुष्ठातुः दुर्मेधस्कतामाह—स्थाल्यामिति—स मनुजः इह लाके - विदूरात्प्रभवति वैदूर्यं वालवायजमणिः - नि ‘वैदूर्यं वालवायजमि’त्यमरः ‘विदुराञ्ञ्यः’ इति - ञ्यप्रत्ययः - अत्र विदूरशब्दो वालवायस्यादेशः पर्यायो वा तत्रोपचरितो वा - तेन ‘वालवायाद्गिरेरसै प्रभवति - स विदूरान्नगरात्तत्र संस्कृत’ इत्याक्षेपः प्रत्युक्तः॥
‘वालवायो विदूरं च प्रकृत्यन्तरमेव वा।
न वै तत्रेति चेद्ब्रूयाज्जित्वरीवदुपाचरेत्॥
वैदूर्यमय्यां वैडूर्यमणिविकारायां * - विकारार्थे मयट्। स्थाल्यां पात्रे। चान्दनैश्चन्दनतरुसंबन्धिभिरिन्धनौघैःकाष्ठभारैः। तिलखलं तिलिपिष्टं। पचति। तथा। सौवर्णैस्सुवर्णविकारै र्लाङ्गलाग्रैर्हलमुखैरर्कतूलस्य हेतोरर्काख्पवृक्षतूलार्थमित्यर्थः* ‘षष्ठी हेतुप्रयोग’ इति षष्ठी। वसुधां भुवं। विलिखति कर्षति। तथा कर्पूरखण्डान् कर्पूरकदलीकाण्डां श्छित्वा। कोद्रवाणां कोरदूषाख्यसस्य विशेषाणां - नि. ‘कोरदूषस्तु कोद्रवः’ इत्यमरः। समन्तात्सर्वतोऽधिकमित्यर्थः। वृतिमावरणं। कुरुते। कोऽसावीदृशोदुर्भग इत्याशङ्कायामाह - इमां कर्मभूमिं कर्माचरणयोग्यभूमिं। प्राप्य योमन्दभाग्यो निर्भाग्यो मनुज स्तपञ्चान्द्रायणादिकर्म। न भजति न सेवते। इति संबन्धः; वैदूर्यपात्रे तिलपिष्टपचनादिप्रायं कर्मभुव्यस्यां - तपोऽननुष्ठुन मित्यर्थः। अतस्सर्वथा सत्कर्मानुष्ठेयं श्रेयस्कामेनेति तात्पर्यम्॥
अत्र यस्तपो न भजति स तिलखलं पचतीत्यादि विशिष्टभजनपचनाद्यो र्वाक्यार्थयोर्निर्दिष्टैकत्वासं- मवात्सादृश्यलक्षणायामसंभवद्वस्तुसंबन्धो वाक्यार्थवृत्तिर्निदर्शनाभेद इत्येतत्सर्वं मूर्खपद्धतौ व्याख्यातमितीहो- परम्यते॥
नैवाकृतिः फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्नकृतापि सेवा।
भाग्यानि पूर्वतपसा खलु सञ्चितानि
काले फलन्ति परुषस्य यथैव वृक्षाः॥९८॥
व्या.—पुण्यविशेष एव फलं न त्वन्यदित्याह.—नेति। आकृतिराकारसंपत्तिरेव। नैव फलति फलकारणं न भवतीत्यर्थः। कुलं सद्वंशो वा। नैवफलति। शलिं सत्स्वभावो वा नफलति। विद्याऽपि वेदवेदाङ्गात्मिकाऽपि। नैव फलति। यत्नकृता प्रयत्नानुष्ठिता। सेवा राजादिपरिचर्या च। न फलति। किं तु पूर्वतपसा पुराकृतसुकृतेन संचितानि संपादितानि। पुरुषस्य संबन्धीनि। भाग्यानि। वृक्षायथा। वृक्षाइवेत्यर्थः—‘इव वद्वा यथा शब्दा’विति दण्ड्याचार्यानुशासनात्। काले परिपाकसमय एव फलन्ति खलु। तपोजनितभाग्यविशेषव्यतिरेकेण फलजनकं न किंचिदस्तीत्यर्थः॥
मज्जत्वम्भसिं यातु मेरुशिखरं शत्रून् जयत्वाहवे
वाणिज्यं कृषिसेवनादि सकला विद्याः कलाः शिक्षताम्।
आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं
नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः॥९९॥
व्या.—सर्वथाऽपि भाव्यभाविनोरावश्यकत्वं कर्मवशादेवेत्याह - मज्जत्विति। अम्भसि। मज्जतु मग्नोभवतु - जलस्तम्भादिनेति भावः। मेरुशिखरं। यातु गच्छतु - योगानुसंधानादिनेति भावः। आहवे युद्धे। शत्रून् जयतु। वाणिज्यं क्रयविक्रयादि। कृषिः कर्षणं - सेवनं - परिचर्या - दौत्यादिनेतिभावः - ते कृषिसेवने च तथा सकलाः समस्ताः। विद्याः वेदवेदाङ्गादयः॥
“अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश॥”
इत्येताश्चतुर्दशविद्याः। कला इतिहासागमप्रभृतीश्चतुष्षष्टिं कलाश्च शिक्षताम् अभ्यस्यतु। तथा। परमुत्कृष्टं। प्रयत्नं पादुकासिद्ध्यात्मकं। कृत्वा खगवत्खगेन तुल्यं। विपुलमाकाशं प्रयातु। तथाऽपि कर्मवशतोधर्माधर्मात्मककर्मवशादिहास्मिन् लोके। अभाव्यमभावि फलं न भवति। तथा भाव्यस्यावश्यम्भाविनः फलस्य - नाशः कुतः। तस्य ब्राह्मणाऽपि निवारयितुमशक्यत्वात् - ‘यद्भावि तद्भवत्येव यदभावि न तद्भवे’दिति न्यायादिति भावः। अत्राम्भोमज्जनादीनां चतुष्षष्टिकलास्वेवान्तर्भूतत्वमवगन्तव्यम्। ताश्च कलामदीयशृङ्गारशृङ्गाटके संख्यातास्तत्रैव द्रष्टव्या इतीहोपरम्यते।
वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा।
सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि॥
व्या.—अतिसंकटस्थस्यापि प्राचीनपुण्यसद्भावे तु न क्षतिरित्याह - वने इति.—अयं तु स्पष्टोऽर्थः॥
भीमं वनं भवति तस्य पुरं प्रधानं
सर्वो जनः सुजनतामुपयाति तस्य।
कृत्स्नाच भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य॥१०१॥
व्या.—किं बहुना।सुकृतिनस्तावत्सर्वमप्यानुकूल्यमेव प्रयान्तीति निगमयति.—भीममिति.—यस्य पुंसः। भीमं हिंस्रादिप्राचुर्येण भयङ्करं। वनमरण्यानी कर्तृ। प्रधानं नियतं। पुरं भवति। तद्वदशेषभोगसाधनं भवतीत्यर्थः। तस्य सर्वोऽशेषोऽपि। जनः। स्वजनतां किंकरतामुपयाति। तस्य कृत्स्ना चतुरसमुद्रान्ता। भूः। सन्निधिभिस्समीचीनैः रत्नैर्महापद्मादिनिधानैर्निक्षेपैर्वा - रत्नैः श्रेष्ठवस्तुभिश्च - पूर्णा भवति। समस्तफलानि प्रसूतइत्यर्थः। कस्येत्यत आह - यस्य। नरस्य। विपुलं बहुलं। पूर्वसुकृतं पुराकृतसत्कर्मसंजातं पुण्यमस्ति वर्तते तस्येति संबन्धः। अतस्सत्कर्माचरणतत्परेणैव भवितव्यं श्रेयस्कामेनेति संदर्भाभिप्रायः॥
इति नीतिशतके कर्मपद्धतिः सम्पूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1723629792Screenshot2024-08-14173400.png"/>
॥शृङ्गारशतकम्॥
<MISSING_FIG href="../books_images/U-IMG-1723629993Screenshot2024-08-14173725.png"/>
** ॥स्त्रीप्रशंसा॥**
शम्भुस्वयम्भुहरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृहकर्मदासाः।
वाचामगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय॥१॥
व्या.—शंभ्विति—अत्र स्वयंभुशब्दस्य शम्भुशब्दवदौणादिकडुप्रत्ययान्तत्वमवगन्तव्यम् - न तु* ‘भुवस्संज्ञान्तरयोः क्वि’बिति क्विप्प्रत्ययान्तत्वम् -अन्यथा ’स्वयंभू देवोऽसा’वित्यादाविव दीर्घप्रसङ्गात्। तथाच। येन मकरध्वजेन। शम्भुस्वयम्भुहरयः हरविरिञ्चिमुरारयः संहारसृष्टिस्थितिकर्तृत्वेन सकलभुवनाधीश्वरा अपीति भावः - हरिणेक्षणानां हरिणवन्मनोहरलोचनानां पार्वती सरस्वती श्रीदेवीनां। सततम् ‘समो वा हिततयोरि’ति वचनात् समो मकारस्य लोपः। गृहे कुम्भदासाः जलकुम्भभारवाहकभृत्याः। अक्रियन्त तासु तादृङ्मोहमुत्पाद्य तथा विधेयीकृता इत्यर्थः - किमुतान्य इति भावः कृञःकर्मणि लङ् तङ् -अर्धनारीश्वरत्वाच्छम्भोः। स्वयम्भुवश्च सरस्वतीनिकेतनीकृतमुखत्वात्। हरेर्वक्षःस्थलस्थापितलक्ष्मीकत्वाच्चैवमुक्तमित्यवगन्तव्यम्। अत एव। वाचामगोचरमवाङ्मानसगोचरंयच्चरित्रं माहात्म्यम्! तेन विचित्रवत्कृतो विचित्रितः–तस्मैअत्यन्ताश्चर्यकारकायेत्यर्थः - नि. ‘विस्मयोऽद्भुतमाश्चर्यं चित्रमि’त्यमरः*
विचित्रशब्दा ‘त्तत्करोती’ति ण्यन्तात्कर्मणि क्तः - णाविष्टवद्भावेविन्मतोर्लुक्। भगवते सकललोकाराध्याय यद्वा - चतुर्व्यूहमध्यप्रविष्टत्वात्प्रद्युम्नरूपेण भगवत्पुत्रत्वाद्वा तद्रूपायेत्यर्थः॥
‘आत्मावै पुत्रनामासि’
‘पतिर्जायां प्रविशति गर्भो भूत्वा स्वमातरम्।
तस्यां पुनर्नवो भूत्वा दशमे मासि जायत’ इत्यादि श्रुतेः॥
तस्मै मकरध्वजाय मकरकेतनाय कामदेवसार्वभौमाय। नमः ‘नमस्स्वस्ती’त्यादिना चतुर्थी। वसन्ततिलकावृत्तम्॥
स्मितेन भावेन च लज्जया भिया
पराङ्मुखैरर्धकटाक्षवीश्वणैः।
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बन्धनं स्त्रियः॥२॥
व्या.—तत्र आलम्बनविभावयोः स्त्रीपुरुषयोर्मध्ये स्त्रीणांप्रशस्तत्वादेकोनविंशत्याश्लोकैः प्रथमं स्त्रीप्रशंसां चिकीर्षुस्तत्रादौतावत्तासां बन्धनहेतुत्वमाह - स्मितेनेति—स्मितेन यौवनादिमदविकारजनिताकस्मिकमन्द- हासेन‘आकस्मिकं तु हसितं यौवनादिवि कारजमिति वचनात् - बाल्ययौवनसंधावुत्पन्नः शृङ्गारविषयः प्रथमान्तःकरणविकारो भावस्तेन च तदुक्तं - चित्तस्य विकृते कारणे सति ‘ततोऽर्वाङ्विकृतिर्भावो बीजस्यादिविकारवत्’ इति॥ ‘हावेने’ति पाठे ‘ईषद्दृष्टविकारस्याद्धावो हावः प्रकीर्तित’ इत्युक्तलक्षणेन चेष्टा विशेषेण च - लज्जया कुचकुम्भदोर्मूलाच्छादनवदनविनमन दर निमीलित नयन
त्वानुभावकमनस्संकोचनरूप व्रीडयाच - ‘चेतस्संकोचनं व्रीडासङ्गराग स्तनादिभि’रिति लक्षणात्। भिया। आकस्मिकभयजनितत्रासेनेत्यर्थः–तदुक्तम् - ‘आकस्मिकभयाच्चित्तक्षोभस्त्रासः प्रकीर्त्तितः’ इति - ‘लज्जया गुणैरि’ति पाठे आसामेवालम्बनभूतानां रूपयौवनादिगुणैरित्यर्थः - ‘आलम्बनगुणो रूपयौवनादिरुदाहृतः’ इत्युक्तत्वात्। पराङ्मुखैः ह्रियार्धास्फुटप्रसारिभिरित्यर्थः। अर्धकटाक्षवीक्षणैः असमप्रापाङ्गावलाकनैश्च–कटाक्षलक्षणं तु–संगीतरत्नाकरे.
‘यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम्।
तारकायाः कलाभिज्ञास्तत् कटाक्षं प्रचक्षते.’ इति,
वचोभि श्शुककोकिल मधुरतरमृदुलालापैश्च। ईर्ष्यया परोत्कर्षासहनरूपासूयया-यः कलहस्तेन च ‘परोत्कर्षसहिष्णुत्वमीर्ष्यां प्राहुर्मनीषिणः’ इति लक्षणात्-यद्वा ईर्ष्यया कलहेन प्रणयकलहेन चेति द्वन्द्वैकवद्भावः।* ‘सर्वोद्वन्द्वो विभाषैकवद्भवती’त्यनुशासनात्। लीलया वागादिभिः प्रियानुकरणरूपविलासविशेषेण च-‘लीला प्रियानुकरणं वाग्भिर्गत्याऽथचेष्ठये’ति लक्षणात्‚ किं बहुना समस्तभावैः स्तम्भरोमाञ्चस्वेदादिसात्विक- भावैःहर्षौत्सुक्यावहित्थादिसञ्चारिभावैश्चेत्यर्थः। स्त्रियः बन्धनंखलु। पुंसां संसारबन्धहेतवः खल्वित्यर्थः। लिङ्गवचनव्यत्ययोनित्यनपुंसकत्वेन जात्यभिप्रायेण च - ‘वेदाः प्रमाणम्’ इति वद्द्रष्टव्यः;
अत्रस्मितकटाक्षालापाः अनुभावाः - ‘कार्यभूतोऽनुभावस्स्यात्कटाक्षादिश्शरीरज’ इत्युक्तत्वात् लज्जाभयेर्ष्याः संचारिभावाः। भावलीले शृङ्गारचेष्टाविशेषा। इति द्रष्टव्यम् - तदुक्तम्-
**‘भावो हावश्च हेला च माधुर्यं धैर्यमित्यपि।
लीला विलासो विच्छित्तिर्विभ्रमः किलिकिञ्चितम्॥
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा।
कुतूहलं च चकितं विहृतं हास इत्यपि॥
एवं शृङ्गारचेष्टास्स्युरष्टादशविधा मताः.’ ** इति.
ईदृक्साधनसंपन्नानां स्त्रीणां बन्धहेतुत्वं किं वक्तव्यमिति भावः॥ तथा चैतासां शृङ्गारनायिकानां मध्ये भावलज्जाभयवत्यो मध्यमाः। ईर्ष्याकलह लीलावत्यः प्रौढाश्चेति–विवेकः॥
‘उदयद्यौवना मुग्धा लज्जाविजितमन्मथा।
लज्जामन्मथमध्यस्था मध्यमोदितयौवना।
स्मरमन्दीकृतिव्रीडा प्रौढा संपूर्णयौवने’ति॥
वंशस्थवृत्तम्॥
भ्रूचातुर्यात् कुञ्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितान्ताश्च हासाः।
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणामेतद्भूषणंचायुधं च॥३॥
व्या.—उक्तमर्थं प्रकारान्तरेणाह - भ्रूचातुर्यादिति. - भ्रुवो - श्चातुर्याल्ललिताक्षेपवैचित्र्यात्कुञ्चितानि कुणीकृतान्यक्षीणि येषां ते तथोक्ताः * ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्’ इति षच्। कटाक्षाःअपाङ्गेक्षणानि च। एतेन रेचितभ्रुकुट्याख्यौ व्यापारविशेषावुक्तौ। तदुक्तम्॥
“स्याद्भ्रुवोर्ललिताक्षेप एकस्या एकरेचितम्।
द्वयोर्मूलसमक्षेपकौटिल्याद्भ्रुकुटिं विदुः॥” इति।
स्निग्धाः स्नेहपरिप्लुता वाचश्च - स्नेहलक्षणं तु—
“विस्रम्भे परमां काष्ठामारूढे दर्शनादिभिः।
येनान्तरङ्गं द्रवति स स्नेह इति कथ्यते॥” इति।
लज्जितमन्तं येषान्ते लज्जितान्ता लज्जावसानाहासाश्च। तथाभूतहासानामेव मोहनत्वात्- अन्यथा हास्यरसापर्यवसानादिति भावः। लीलामन्दं लीलामधुरं। प्रस्थितं प्रस्थानं गमनमिति यावत्। स्थितं अवस्थानं चेत्युभयत्रापि * भावे क्तः। इत्येतत्सर्वं स्त्रीणां भूषणं. च चातुर्यातिशयहेतुत्वात्। आयुधं शस्त्रंच युवजनविषयसाधनत्वादिति भावः॥
अत्रकटाक्षादीनां लक्षणानि प्रागेवोक्तानि। संचारिलीला शृङ्गारचेष्टा। कुभ्रुट्यादयोऽन्ये अनुभावा इति ज्ञेयम्; तथा लीलामन्थरगमनस्य पद्मिनीनियतलक्षणात्प्रायेणैतासां लज्जातिशयत्वं. सूच्यते - तदुक्तं रतिरहस्ये॥
“व्रजति मृदु सलीलं राजहंसीव तन्वी
त्रिवलिललितमध्या हंसवाणी सुवेषा।
मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा
धवलकुसुमवासोवल्लभा पद्मिनी स्यात्॥”
अत्र भ्रुकुट्यादिसमुदाये भूषणत्वायुधत्वरूपणाद्रूपकालंकारः॥
शालिनीवृत्तम्॥
क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः।
कुमारीणामेतैर्मदनसुभगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः॥४॥
व्या.—अथ शृङ्गारानुभावदृग्विलासान्सपरिकरं वर्णयति - क्वचिदिति॥ क्वचित् कुत्रचित्। सभ्रूभङ्गैः भ्रुकुटिरेचिताख्यभ्रूव्यापारसहितैः। क्वचिदपि च। लज्जया। परिगतैः प्रत्यावृत्तैश्च। स्वानुकूल्यप्रकाशकैरित्यर्थः। तदुक्तम् - ‘सव्रीडा लोकनेनैव स्वानुकूल्यप्रकाशन’मिति। क्वचिद्भूरित्रस्तैः बहुलभयसम्भ्रान्तैः। क्वचिदपि च। लीलाभिर्गतप्रत्यागतविलासविशेषैर्हेतुना - विलसितैः कमनीयैः उज्वलैर्वा। तथा मदनेन - सुभगैर्मनोहरैः - विरक्तस्यापि चित्तक्षोभकरैरित्यर्थः–‘यद्दर्शनाद्विरक्तोऽपि क्षुभ्यते तत्समन्मथ’मिति लक्षणात्। एतैरुक्तप्रकारैः। कुमारीणां तरुणीनाम् उत्पलाक्षीणामिति भावः*-वयसि प्रथमे इति ङीप्। नेत्रवलितैर्नयनविलासैर्दिशः। स्फुरतां विकसितानां नीलाब्जानां। नीलोत्पलानां - प्रकरैर्निकुरुम्बैः। परिकीर्णा इव व्याक्षिप्ता इव। लक्ष्यन्त इति शेषः. प्रसिद्धक्रियाध्याहारो न दोष इत्याह वामनः–‘लिङ्गाध्याहारा’वित्यत्र॥
अत्रनयनविलासानां प्रियजनादिरम्यवस्तुदर्शनचापलं विना आलम्बनात्कुतूहलं नाम शृङ्गारवेष्टितं सूच्यते - ‘कुतूहलं रम्यदृष्टौ चापलं परिकीर्तित’मिति लक्षणात्. भ्रुकुट्यादीनां लक्षणं
प्रागेवोक्तम्; तथा नयनवलनक्रियया विकीर्णत्वक्रियात्प्रेक्षणात्। गुणक्रियानिमित्तक्रियास्वरूपोत्प्रेक्षा॥
“यत्रान्यदपि संबन्धादन्यत्वेनोपकीर्तितम्।
प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते॥”
इति लक्षणात्; तथा च नयनानां नीलोत्पलसाम्यं गम्यते.तेन चोपमाव्यज्यत इत्यलंकारेणालंकारध्वनिः॥
शिखरिणीवृत्तम्॥
वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने
वर्णःस्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः।
वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली
वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम्॥५॥
व्या—अथ यदुक्तमुद्दीपनविभावश्चतुर्विध इति। तत्र प्रथमोद्दिष्टालम्बनगुणकथनमुत्तरत्र करिष्यत इत्युपेक्ष्य ‘स्मितेन’ इत्यादिश्लोकत्रयेण काश्चिच्छृङ्गारचेष्टाः केचिदनुभावाः संचारिणश्च वर्णिताः॥ इदानीं तु तदलंकरणं विवक्षुस्तस्य नैसर्गिकाहार्यभेदेन द्वैविध्यादाहार्यकमनुपदमेव लक्ष्यत इत्ति मनसि कृत्वा संप्रति नैसर्गिकं मण्डनमाह - वक्त्रमिति—चन्द्रवद्विकसति ताच्छील्येनेति चन्द्रविकासि सुन्दरमित्यर्थः* ताच्छील्ये णिनिः। वक्त्रंवदनं च। पङ्कजानां - पद्मानां - परिहासक्षमे अवहेलनसमर्थे। तत्सदृशी इति यावत्। लोचने। नयने। परिहासेत्यत्र*‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’इति दीर्घः। स्वर्णमपाकरिष्णुः। स्वर्णम् “पुष्पमूलेषु बहुलम्”
इति लुक् - तदपाकरिष्णुः तत्सदृश इत्यर्थः - एतेन पद्मिनीत्वं - सूच्यते - ‘काऽपि चाम्पेयगैरी’ति लक्षणात्। वर्णो देहकान्तिश्च। तथा अलिनीनां भृङ्गाङ्गनानां जिष्णुर्जयशीलः - तत्सन्निभ इत्यर्थः * ‘ग्लाजिस्थश्चक्त्त्नु’रिति क्स्नुप्रत्ययः। कचानां चयः केशपाशश्च। इभकुम्भयोर्विभ्रमहरौ विलासहारिणौ। करिवरशिरः पिण्डकल्पावित्यर्थः। ‘कुम्भौ तु शिरसः पिण्डौ इत्यमरः। वक्षोजौ कुचकुम्भौ च। गुर्वी दुर्भरा * ‘वोतो गुणवचना दि’ति ङीष्। नितम्बस्थली कटिपश्चाद्भागश्च - निः—‘पश्चान्नितम्बः स्त्रीकट्याः’इत्यमरः * ‘जानपदे’त्यादिना अकृत्रिमार्थे ङीष्। - हरतीति हारि मनोहरं * पूर्ववण्णिनिः। वाचां। मार्दवं वाङ्माधुर्यं मधुरकोमलालापश्चेत्यर्थः। एतत्सर्वं। युवतिषु तरुणीषु। स्वाभाविकं स्वभावसिद्धं * ‘तत आगत’ इति ठक्। मण्डनं। तरुणी - नामेतन्नैसर्गिकालंकरणमित्यर्थः॥
अत्र चन्द्रविकासीत्यादिशब्दाः प्रायशस्सादृश्यवाचकाः। अत एवोपमालंकारः - तदुक्तमाचार्यदाण्डिना—
**‘स्पर्धते जयति द्वेष्टि हसतीर्ष्यत्यसूयति।
तदन्वेत्यनुबध्नाति तच्छीलति निषेधति।
तच्चैवाऽनुकरोतीति शब्दात्सादृश्यवाचकाः’ ** इति.
स्मितं किञ्चिन्मुग्धं सरलतरको दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोक्तिसरसः।
गतानामारम्भः किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किमिव हिन रम्यं मृगदृशः॥६॥
व्या.—अथालम्बनगुणं यौवनमाह - स्मितमिति.—स्मितं - मन्दहासः किंचिदीषन्मुग्धं सुन्दरं भवतीति यथायोगमध्याहार्यम् - नि. ‘मुग्धः सुन्दरमूढयोः’ इत्यमरः। बाल्ययौवनमध्यस्थत्वेन तरुण्याःप्रागल्भ्याभावात् स्मितस्येषन्मुग्धत्वमुक्तमित्यवगन्तव्यम्। दृष्टिविभवो विलोकनसंपत्तिः। सरलं अकुटिलं यथा तथा तरलश्चञ्चलो भवति। वाचां परिस्पन्दो वाग्व्यापारोऽपि अभिनवा नूतनाविलासा यासां ता या - उक्तयो वचनानि - ताभिः सरसो - रसयुक्तः रुचिर इति यावत्। भवति। गतानां गतीनाम् *कर्तरिक्तः। आरम्भ उपक्रमः। किसलयितः पल्लवितः* तारकादित्वादितच् - लीलापरिकरो विलाससमृद्धिर्यस्य तथोक्तः - विलास - संबन्धबन्धुरो भवतीत्यर्थः। अतस्तारुण्यं यौवनं स्पृशन्त्या मृगदृश स्तरुण्याः सम्बन्धि।किमिव किं वा। रम्यं मनोहरं। नहिभवतिसर्वमपि रम्यमेव भवतीत्यर्थः। इयं मुग्धा नायिका - ‘उदयद्यौवना मुग्धा लज्जाविजितमन्मथा’ इति लक्षणात्॥
अत्र श्लोकद्वयेऽपि श्लाघ्यविशेषणयोगादुदात्तता नाम गुणः ‘श्लाघ्यैर्विशेणैर्योगो यस्याश्च स्यादुदात्तता’ इति लक्षणात्॥
शिखरिणीवृत्तम्.
द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसङ्गं मुखं
घ्रातव्येष्वपि किं तदास्यपवनः? श्राव्येषु किं? तद्वचः।
किं स्वाद्येयु? तदोष्ठपल्लवरसः स्पृश्येयु किं? तद्वपु
र्ध्येयं किं? नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः॥७॥
व्या.—अथ चक्षुःप्रभृतिषडिन्द्रियाणामत्रैव लोकोत्तरप्रतिनियत विषयान्वर्णयति - द्रष्टव्येष्विति—अत्र प्रश्नोत्तरमालिकयाऽन्यः कार्यः. द्रष्टुं योग्यानि द्रष्टव्यानि - तेषु दर्शनीयेषु वस्तुषु* योग्यार्थेतव्यप्रत्ययः। उत्तमं श्रेष्ठं वस्तु किमिति प्रश्नः। प्रेमप्रसन्नं अनुरागविकसितं प्रेमदायीत्यर्थः ‘द्रवीभूतं मनो यत्र दर्शने प्रेमदायिनि’ इति लक्षणात्,’ मृगदृशस्तरुण्या।मुखं वदनमिर्थः - एवमुत्तरत्रापि - चक्षुःप्रीतिकरत्वादिति भावः। घ्रातव्येषु आघ्रातव्येषु किमुत्तममिति प्रश्नः। तदास्यपवन - स्तस्याः तरुण्याः - आस्यपवनो - मुखमारुतः - तस्यैव घ्राणतर्पणत्वादिति भावः। यद्यपि घ्राणेन्द्रियविषयो गन्धः न तु पवनः - तथाऽपि तस्याः पद्मनी जातित्वात्तदास्यपवने तस्य सङ्क्रमणात् ‘वीणाः श्रूयन्ते - भेर्यः श्रूयन्ते - पुष्पाण्याघ्रायन्ते’ इत्यादिवद्गन्धसम्बन्धिनि पवने तद्धर्मस्योपचरितत्वान्न विरोधः। श्राव्येषु - श्रोतव्येषु अत्र* योग्यार्थे यत्प्रत्ययः - एवमुत्तरत्रापि। उत्तमं किम्। तद्वचस्तस्यास्तरुण्या - वचः मृदुमधुरभाषणम् - तस्यैव श्रवणानन्दकरत्वादिति भावः। स्वाद्येषु अनुभवयोग्येषु उत्तमं किम्। तस्या ओष्ठः पल्लव इव तस्य - रसः अधरामृतमित्यर्थः - तस्यैव रसनेन्द्रिय तृप्तिहेतुत्वादिति भावः। स्पृश्येषु स्पर्शनयोग्येषु वस्तुषु उत्तमं किम्। तस्या वपुः कुसुमसुकुमारशरीरमित्यर्थः। - तस्यैव निरुपमत्वमिन्द्रियसैख्यावहत्वादिति भावः। उत्तमं ध्येयं ध्यानार्हं किम् - ध्यातव्येष्वित्यर्थः। नवयौवनं तरुणीनवतारुण्यमेव - तस्यैवात्यन्तमनोरञ्जकत्वादितिभावः। अथ सर्वथा - मुख्यं ध्येयमाह - सहृदयैर्हृदयालुभिः - रसिकजनैरित्यर्थः। सर्वत्र
सर्वदेशेषु सकलकालेषु वा। तस्यास्तरुण्या विभ्रमा विलासाः। ध्येया इति शेषः - अत्र तत्तत्प्रसिद्धविषयाणामेकत्र समष्टिवर्णनान्महान् शृङ्गारपरिपोषातिशय उक्तः। एतेनास्या लोकोत्तरमाभिरूप्यं - सूच्यते। तथा चोत्तमविषयाकांक्षि- भिर्विशिष्टतरुणीसम्भोग एव - कर्तव्य इति फलितार्थः तत्र प्रश्नोत्तरयोश्चातुर्यातिशयार्थमसकृन्निबन्धनादुदात्तालङ्कारभेदः—
‘उत्तरात् प्रश्न उन्नेयो यत्रप्रश्नोत्तरे तथा।
बहुधा च निबध्येते तदुत्तरमुदीर्यते.’
एताश्चलद्वलयसंहति मेखलोत्थ
झङ्कारनूपुरपराजितराजहंस्यः।
कुर्वन्ति कस्य न मनो विवशंतरुण्यो
वित्रस्तमुग्धहारिणीसदृशैः कटाक्षैः॥८॥
व्या—अथा सां मुखाद्यलङ्करणवर्णनद्वारासकललोकसम्मोहकत्वमाह - एता इति.—चलन्त्यौ गतिवैचित्र्याद्वलमाने - ये वलयसंहतिमेखले-वलयसंहतिः कङ्कणश्रेणिः - मेखलाशब्देन काञ्चीवाचिना तन्निबद्धाः किङ्किण्यो लक्ष्यन्ते - तदुत्थस्तदुत्पन्नो यो - झंकारो - झणझणस्तेन - नूपुराभ्यां मञ्जुलनिनादमञ्जीराभ्यां च पराजिताः तिरस्कृता - राजहंस्यः कलहंसाङ्गना - याभिस्ताः। कलनादसुन्दरमन्दगमनराजहंसरमणीया इत्यर्थः - नि. ‘राजहंसो नृपश्रेष्ठे कादम्ब - कलहंसयोः’ इति विश्वः ‘जातेरस्त्रीविषयादयोपधात्’ इति ङीप्—शैषिकस्य कपो वैभाषिकत्वान्न प्रयोगः। एताः पूर्वोक्तास्तरुण्यः -
किंचिदूनविंशतिवार्षिकाः स्त्रिय इत्यर्थः। वित्रस्ता चकिता - मुग्धा - प्रौढाच-या हरिणी कुरङ्गी - तत्सदृशैः-तद्विलोकननिभैरित्यर्थः। कटाक्षैरपाङ्गवीक्षणैः। एतेनैतासां पद्मिनीत्वं सूच्यते—‘चकितमृगदृगाभे’ प्रान्तरक्ते च नेत्रे’ इति लक्षणात्। कस्य मनो। विवशं सम्मोहितं। न कुर्वन्ति। सर्वस्यापि कुर्वन्त्येवेत्यर्थः. तरुणीलक्षणमुक्तं रतिरहस्ये
“बाला स्यात् षोडशाब्दा तदुपरि तरुणी विंशते र्यावदूर्ध्वं
प्रौढा स्यात् पञ्चपञ्जाशदवधि परतो वृद्धतामेति नारी॥”
वयोलक्षणमुक्तम्—
‘निदाघशरदोर्बाला पथ्या विषयिणो भवेत्।
हेमन्ते तरुणी योग्या प्रौढा वर्षावसन्तयोः।
सन्ततं सेव्यमानापि बाला प्रथयते बलम्॥’ इति.
अत्र राजहंसीपराजयस्य सादृश्यपर्यवसानादेका उपमा।हरिणीसदृशैरित्यत्र चान्या। अनयोः परस्परनैरपेक्ष्यात्सजातीयसंसृष्टिः एताश्चमध्यमानायिकाः ‘लज्जामन्मथमध्यस्था मध्यमोदितयौवना’ इति लक्षणात्॥
वसन्ततिलकावृत्तम्॥
‘कुङ्कुकुमपङ्ककलाङ्कितदेहा गौरपयोधरकम्पितहारा।
नूपुरहंसरणत्पदपद्मा कंन वशीकुरुते भुवि रामा’॥९॥
व्या.—कुङ्कुमेति.—कुङ्कमपङ्केन काश्मीरजकर्दमेन.—नि. ‘अधकुङ्कुमं। काश्मीरजन्माग्निशिखम्’ - ‘पङ्कोऽस्त्री शादकर्दमौ’ इत्युभयत्राप्यमरः - अथवा घुसृणापरपर्यायकुङ्कुमकुसुमरञ्जितचन्दनपङ्केननि. ‘कुङ्कुमं घुसृणम्’ इत्यभिधानरत्नमालायाम् - यद्वा कुङ्कुमेन
पङ्केन - सिन्दूरपरनामशृङ्गारभूषणाख्यद्रवद्रव्यविशेषेण च - नि. - ‘सिन्दूरं नागसम्भवम्। चीनपिष्टं च गान्धारं पङ्कं शृङ्गारभूषणम्’ इत्यमरः - कलङ्कितश्चिह्नितो देहो यस्यास्सा - कुङ्कुम सिन्दूरादिरञ्जकद्रव्यशृङ्गारिताकारेत्यर्थः। अत एव गौरयो ररुणयोः - यद्वा पद्मिनीत्वात् श्रीफलसच्छाययोः - ‘स्तनयुगलमनिन्द्यश्रीफलश्रीविडम्बि’ इतिलक्षणात् - पयोधरयोः - कुचकुम्भयोःकम्पिताञ्चलिता - हारा मुक्तावलयो - यस्यास्सा तथोक्ता। नूपुरौ मञ्जीरावेव हंसौ - हंसाविव नूपुरौ वा - ताभ्यां रणती शब्दायमाने - पदे एव पद्मे पद्मेइव वा - यस्यास्सा। अत एव रूपकोपमयोः साधकबाधकप्रमाणाभावात्सन्देहसङ्करः। रामा सुन्दरी भुवि कं पुरुषं। न वशीकुरुते न स्वायत्तीकुरुते। जितेन्द्रियमपि स्वायत्तीकुरुत इत्यर्थः - नि. ‘वश आयत्ततायां च’ इति विश्वः ‘अभूततद्भावे च्विः’* ‘ऊर्यादिच्विडाचश्च’ इति गतिसंज्ञायाम् - ‘कुगतिप्रादयः’ इति समासः। अत्र सुप्सुपेत्यननुवृत्तेः॥
अत्र हाराणां कम्पितत्वविशेषणेन पयोधरयोरत्यन्तपटुत्वं सूच्यते। अन्यथा कम्पनायोगात्। तेन चात्युत्कटयौवनसम्पत्तिश्व गम्यते। पयोधरयोश्च गौरत्वविशेषणेन रूपसमृद्धिर्व्यज्यते; एतेनालम्बनगुणलाभ उक्तःएवं कुङ्कुमपङ्केत्यनेन तटस्थोद्दीपनभावः कथितः; तथा हारनूपुरात्मकालम्बनालङ्करणमभ्युट्टाङ्कितम्; रणत्पदपद्मेत्यनेन सूचितो लीलागतिविशेषरूपानुभावश्च; तथा चैवंविधसामग्रीसमुल्लसितेन—
‘आभिरूप्यमकाठिन्यमङ्गानां चातिमार्दवम्।
एवमादिगुणावस्था प्रथमे यौवने भवेत्’ इत्युक्त्वा—
कृताधराङ्गसंस्कारा सखीकेलि लालसा’।
इत्युक्तचेष्टाविशिष्टयौवनपरिपूर्णेन रमयतीति रामेति व्युत्पत्त्यालोकोत्तरलावण्यसम्पन्नेनालम्बनविभावेनोदिते शृङ्गाररसार्णवे को वा न निमज्जतीति भावः. अत्र श्लाघ्यविशेषणयोगादुदात्तता नामा गुणः। लक्षणं तूक्तम्। तथात्यन्तसुकुमारार्थसन्दर्भितत्वात्कैशिकीवृत्तिः - ‘अत्यन्तसुकुमारार्थसन्दर्भा कैशिकी मता’ इति लक्षणात्. दोधकवृत्तम् - ‘दोधकवृत्तमिदं भभभा गौ’ इति लक्षणात्॥
नूनं हि ते कविवरा विपरीतवाचो
ये नित्यमाहुरबला इति कामिनीस्ताः।
याभि र्विलोलतरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः॥१०॥
व्या.—अथैतासां प्रागल्भ्यं वर्णयति - नूनमिति—ते–कविवराः कवीश्वराः । विपरीतवाचोव्यत्यस्तवचनाः। नूनं सत्यं हि। ते क इत्याशङ्कायामाह - ये कविवरा स्ताः प्रसिद्धाः। कामिनीः। अबलाः दुर्बला। इति नित्यमाहुः ब्रुवते। वर्णयन्तीत्यर्थः - त इति संबन्धः* ‘ब्रुवः पञ्चानामादित आहो ब्रुवः’। इति उसा देशः - ब्रुव आहादेशश्च। कथं विपरीतवाच इत्याशङ्क्य तासां प्रागलभ्यं साधयत - याभिः कामिनीभि। र्विलोलतरा आतितरलास्तारकाः कनीनिका येषु ते तथोक्ता ये - दृष्टिपाता लोचनप्रसारास्तैर्दृक्प्रेरणैः* कर्तृकरणयोस्तृतीया’ इति - तृतीया ‘तारकाक्ष्णः कनीनिका’
इत्यमरः। शक्रादय इन्द्रादयोऽपि किमुतान्य इति भावः। विजितानिर्जिताः - स्वायत्तीकृता इत्यर्थः। तास्तु कामिन्यः - कथमबलाः कुतो दुर्बलाः - किं तु प्रबलाएवेत्यर्थः। वीक्षणमात्रेणैवेन्द्राद्युज्जायिनीनां बलिष्टत्वंकिं वक्तव्यम् - अत एतासां दौर्बल्यप्रतिपादकाः कवय एव दुर्बलवाचोन तु ता इतिभावः॥
अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थसमर्थकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः—‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्ग- मुदाहृतम्’ -इति लक्षणात् -वसन्ततिलकावृत्तम्॥
नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः।
यतस्तन्नेत्र संचारसूचितेषु प्रवर्तते॥११॥
व्या.—अथ कामदेवस्य कामिनीकिंकरत्वमुत्प्रेक्षते नून - मिति.—मकरध्वजः कामदेवस्तस्याः प्रसिद्धायाः पूर्वोक्ताया वा। सुभ्रुवः कामिन्याः - जातावेकवचनम् - सुभ्रुवामित्यर्थः। आज्ञां करोतीत्याज्ञाकरः किंकरः * ‘कृञो हेतु—’इत्यादिना टप्रत्ययः। नूनमित्युत्प्रेक्षायाम्; कुतः यतः कारणात्तस्याः सुभ्रुवो - नेत्रसंचारेण दृष्टिप्रसारेण - सूचितेषु संज्ञापितेषु। प्रवर्तते तद्वदित्यर्थः - अतः कामिनीनां नूनमयं किंकिर इति भावः; कामिनीकटाक्षमात्रेणैव जनस्य मन्मथावेशसम्भवादिगमुत्प्रेक्षा;सा च नूनमिति व्यञ्जकसद्भावाद्वाच्या - तदुक्तम्—
**“मन्ये शङ्के ध्रुवं नूनं प्राय इत्येवमादिभिः।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥” ** इति॥
एतेन तासामप्रतिहतजगद्वशीकरणसामर्थ्यं व्यज्यते अनुष्टुप्॥
केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भा विभा
वित्थं तन्वि वपुः प्रशान्तमपि ते रागं करात्येव नः॥१२॥
व्या.—अथ रागिणः श्लेषवैचित्र्यात्कामिनीप्रशंसापरं वचन सम्बोधनमभिधायाह द्वाभ्याम् — केशा इति — केशाः शिरोरुहाः। संयमिनः संयताः सम्यङ्नियमवन्तश्च। लोचेन अपि श्रुतेः परं पारं कर्णान्तविश्रान्तत्वं वेदान्तपरिशीलनतात्पर्यं च गते। अन्तर्वक्त्रंवक्त्राभ्यन्तरमपि। स्वभावतः निसर्गा-च्छुचिभिः शुभ्रैःपवित्रैश्च। द्विजानां दन्तानां विप्राणां च। नि. ‘दन्तविप्राण्डजा द्विजाः’ इत्यमरः। गणैः। कीर्णं व्याप्तम्। इमौ एतौ इति हस्तनिर्देशः। वक्षोजकुम्भौ कुचकुम्भौ। मुक्तानां मौक्तिकहाराणां जीवन्मुक्तानां च। सतताधिवासेन निरन्तरावस्थानेन सन्ततनिवासेन च। रुचिरौ—नि. ‘मुक्तातु मौक्तिके मुक्तः’–‘प्राप्तमुक्तौ तु मोचितः’ इत्युभयत्रापि विश्वः। अतः हे तन्वि — इत्थमुक्तप्रकारेण। ते वपुः शरीरं। प्रशान्तं प्रसन्नम् - वैराग्यसाधनसंपत्तिमदपीति यावत्* ‘वादान्त’ इत्यादिना निपातः। नोऽस्माकं। रागमनुरक्तिम् — सम्भोगाभिलाषमेवेति यावत्- करोति उत्पादयति न तु वैराग्यमिति विरोधः - स चोक्तरीत्या आभासितत्वाद्विरोधाभासोऽलङ्कारः - ‘आभासत्वे विरोधस्य विरोधाभास इष्यते’ इति लक्षणात्। स च श्लेषप्रतोत्थापित इतितयोरङ्गाङ्गिभावेन संकरः; लोचने अन्तर्वक्त्रामित्यत्र * प्रगृह्यत्वा
त्प्रकृतिभावः* ‘ईदूदेद्विवचनं प्रगृह्यम्’ इति प्रगृह्यसंज्ञा. शार्दूलविक्रीडितम्॥
मुग्धे धानुष्कता केय मपूर्वा त्वयि दृश्यते।
या विध्यसि चेतांसि गुणैरेव सायकैः॥१३॥
व्या.—मुग्ध इति.—धनुः प्रहरणमस्य धानुष्कः धन्वी ‘प्रहरणम्’ इति ठक्* ‘इसुसुक्तान्तात्कः’ - नि. ‘धन्वी धनुष्मान्धानुष्कः’ इत्यमरः - तस्य भावस्तत्ता। हेमुग्धे सुन्दरि - नि. ‘मुग्धस्सुन्दरमूढयोः’ इत्यमरः - यद्वा हेउदयद्यौववनभावे। त्वय्यपूर्वा अदृष्टचरा - असाधारणीति यावत् - धानुष्कता दृश्यते। इयं - धानुष्कता। का कीदृशी - न ज्ञायत इत्यर्थः। कुतः - यया धानुष्कतया हेतुना। चेतांसि युवजनमनांसि - दुर्लक्ष्याणीति भावः। गुणा मौर्व्यो - रूपयौवनादयश्च - तैरेव। विध्यसि। सम्प्रहरसि। सायकैः बाणैस्तु न विध्यसि। यतः लोके धानुष्काः प्रौढा एव सुलक्ष्याण्येव लक्ष्याणि बाणैरेव विध्यन्ति। त्वं तु मुग्धाऽऽपि दुर्लक्ष्याण्यपि लक्ष्याणि मौर्वीभिरेव विध्यसीति कृत्वा त्वदीयधानुष्कताया अपूर्वत्वादज्ञेयत्वमिति भावः; स्त्रीणां रूपयौवनगुणसम्पत्तिरेव परप्रहरणसाधनमिति फलितार्थः॥
अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थसमर्थितत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम्; तच्च गुणयोः श्लेषभित्तिकाभेदाध्यव- सायमूलातिशयोक्तिनिर्व्यूढमित्यनयोरङ्गाङ्गिभावेन संकरः तेन च प्रसिद्धाद्धानुष्कादुपमानादुपमेयभूतमुग्धाया अधिक्यप्रततिर्व्यतिरेको व्यज्यतइत्यलङ्कारेणालङ्कारध्वनिः. अनुष्टुप्.
सति प्रदीपे सत्यग्नौसत्सु तारारवीन्दुषु।
विना मे मृगशाबाक्ष्या तमो भूत मिदं जगत्॥१४॥
व्या.—अथ विंशतिसमाप्तिकामिन्युद्देशेनोक्तान्यत्यन्तानुरागिणां प्रशंसावचनान्याह-सतीति.—प्रदीपे अर्थप्रका- शदीप्तार्चिषि। सति विद्यमानेऽपि। अग्नौ तथा भूते वह्नौ। च सत्यपि। ‘सत्यर्के’ इति पाठे त्रिलोकप्रकाशके सूर्ये। सत्यपि। तथा तारामणीन्दुषुतिमिरनिरासकत्वेन प्रसिद्धेषु नक्षत्रपद्मरागादिमाणिक्यचन्द्रेषु सत्स्वपि। तया। प्रसिद्धया पूर्वानुभूतया वा। मृगशाबस्य बालहरिणस्येवाक्षिणी यस्यास्तया। प्रियतमया विना * ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्’ * ‘षिद्गौरादिभ्यश्च’ इति ङीष्इ - इदं जगन्मे मम। तमोभूतमन्धकारमयम्। लक्ष्यत इति शेषः। तस्या एव मम नयनज्योतिष्ट्वादिति भावः.
अत्रान्धकारनिराकरणसमर्थत्वेन प्रसिद्धे प्रदीपादिकारणसमुदाये सत्यपि तन्निरासरूपकार्यानुत्थाना- द्विशेषोक्ति- रलंकारः - ‘तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते’इति लक्षणान्; तथा प्रदीपादिसद्भावेऽपि तमोभूतत्वमिति विरोधश्च व्यज्यते; तेन चास्य महामोहान्धत्वं वस्तु गम्यत इत्यलंकारेण वस्तुध्वनिः.
वृत्तं पूर्ववत्.
उद्वृत्तः स्तनभार एव तरले नेत्रे चले भ्रूलते
रागाधिष्ठित मोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम्।
सौमा याक्षराङ्क्तिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थस्यापि करोति तापमधिकं रोमावलिः केनसा॥१५॥
व्या.—उद्वृत्त इति.—उद्वृत्तोऽत्यन्तवर्तुलः उत्पथगतश्च। एष इति पुरोवर्तिनो हस्तनिर्देशः। स्तनभारश्च। तरले लीलाविलोलेचपले चेति गम्यते। नेत्रे। चले रेचितादिविलासचञ्चले स्थिरत्वविहीने च। भ्रूलते च। रागेण लौहित्येन मात्सर्येण - चाधिष्ठितम् - तद्भूयिष्ठमित्यर्थः - नि ‘रागश्च रक्ते मात्सर्ये क्लेशादौ लोहितेषु च्न’ इत्युभयत्रापि विश्वः शाश्वतश्च। इदमिति निर्देशः। ओष्टपल्लवं अधरकिसलयं। चेत्येतानीति शेषः। व्यथां मनःपीडाम्। कुर्वन्तु। नामेति कुत्सायाम्। खलानां परपीडाकरणस्य स्वाभाविकत्वादिति भावः; किंतु पुष्पायुधेन कामदेवेन। स्वयं स्वहस्तेन। लिखिता। सौभाग्याक्षरमालिका सौभाग्यव्यञ्जकपुण्यवर्णपङ्क्तिरिव स्थितेत्युत्प्रेक्षा। तथामध्यस्था अवलग्नप्रदेशविलग्ना तटस्थाऽपि। सा रोमावलिः रोमराजिः। केन वा हेतुना। अधिकं। तापं करोति मनस्संताप यति। विशिष्टतटस्थस्य परसंतापकरणानौचित्यादिति भावः॥
अत्र पूर्वार्धेउद्वृत्तत्वादिपदार्थानां श्लेषभङ्ग्या स्वाभाव्येन च विशेषणगत्या पीडाकरणं पदार्थं प्रति हेतुत्वकथनात्पदार्थहेतुकमेकं काव्यलिङ्गम्; उत्तरार्धे तु तटस्थपदार्थस्य श्लेषभङ्ग्यैव केन संतापयतीत्याक्षेपपदार्थं प्रति हेतुत्वकथनादपरं च; तच्चोकोत्प्रेक्षया सापेक्षितत्वात्संकीर्णम्; तत्पूर्ववाक्यकाव्यलिङ्गेन नैरपेक्ष्यात्संसृज्यत इत्यनयोः सजातीयसंसृष्टिः; एतेन स्तनभारादेर्लोकोत्तरलावण्यसंपन्नत्वमत्यन्तजनसम्मोहत्वेन सूच्यते॥
शार्दूलविक्रीडितं वृत्तम्॥
मुखेन चंद्रकान्तेन महानीलैः शिरोरुहैः।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा॥१६॥
व्या.—मुखेन इति.—चन्द्रकान्तेन इन्दुसुन्दरेण चन्द्रकान्तमणिरूपेण चेति गम्यते। मुखेन च। महानीलैरतिमेचकैः सिंहलद्वीपसंभवेन्द्रनीलैश्च शिरोरुहैः - कुन्तलैश्व- ‘सिंहलस्याकरोद्भूता महानीलास्तु ते स्मृताः’इति भगवानगस्त्यः। तथा पद्मस्य राग इव रागो ययोस्तौ ताभ्यां पद्मरागरूपाभ्यां च। कराभ्याम्। सा सुन्दरी। रत्नमयी रत्नरूपेव। रेजे * ‘तत् प्रकृतवचने मयट्’ * ‘टिढडाणञ्’ इत्यादिना - ङीप्॥अनुष्टुप्॥
गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता।
शनैश्वराभ्यां पादाभ्यां रेजे ग्रहमयीव सा॥१७॥
व्या.—गुरुणेति.—गुरुणा दुर्भरेण गीष्पतिरूपेण च - नि. ‘गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे’ इत्युभयत्रापि शब्दार्णवे। स्तनभारण च। भास्वता प्रकाशवता भास्करेण च नि. ‘भास्वान् - भास्करसूर्ययोः’ इति विश्वः। मुखमेव चन्द्रस्तेन च — शनैश्चराभ्यां मन्दगमनाभ्यां शनैश्चराख्यग्रहाभ्यां च। पादाभ्यां च सा ग्रहमयीव रजे। प्रक्रियातु पूर्ववत्॥
अत्र श्लोकद्वयेऽपि श्लेषमहिम्ना रत्नमयत्वमहमयत्वोत्प्रेक्षणात् श्लेषसंकीर्णयमुत्प्रेक्षा; तया चास्या लोकोत्तराकाररूपलावण्यसौन्दर्यकान्तिविशेषभाग्यसौभाग्यादि सकलकल्याणगुणाभिरामत्वं - गम्यते; एतच्च मदीयशृङ्गारशृङ्गाटके रुक्मिणीवलभव्याख्याने ‘निधिमयीग्रहमयी’ इत्यत्र विस्तरेण प्रपञ्चित मितीहोपरम्यते॥ अनुष्टुप्॥
तस्याः स्तनौयदि घना जघनं च हारि
वक्त्रं च चारु तव चित्त किमाकुलत्वम्।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः॥१८॥
व्या.—तस्या इति.—तस्यास्तरुण्याः स्तनौ। घनौ निबिडौ-यद्यपि। जघनं कटिपुरोभागश्च। हारि मनोहारि यद्यपि - नि. ’स्त्रीकट्याः क्लीबे तु जघनं पुरः’ इत्यमरः। वक्त्रंच चारु मनोज्ञयद्यपि। हे चित्त। तव। आकुलत्वं लोलुपत्वं किं। किमर्थम् - मास्त्वित्यर्थः - तावन्मात्रेणासंभवादिति भावः। तर्हि किं कर्तव्यमित्यत आह - तेषु स्तनादिषु। तव। वाञ्छा सम्भोगाभिलाषोऽस्ति यदि वर्तते चेत्। तर्हि। पुण्यं सत्कर्म। कुरुष्व समाचर। कुतः - पुण्यैर्विना समीहितार्था। न भवन्ति हि खलु। ज्योतिष्टोमादि सत्कर्माचरणेन रम्भासंभोगवत्केनचित्पुण्यविशेषेण तवापि तत्संभोगः संभविष्यतीति भावः. अर्थान्तरन्यासालंकारः॥ वसन्ततिलका॥
इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत
प्रतापप्रारंभाः स्मरविजयदानप्रतिभुवः।
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किमपि विजयन्ते मृगदृशाम्॥१९॥
व्या.—अथ विलासवर्णनं निगमयति.—इमे इति.—तारुण्यश्रियो यौवनसंपदा - नवपरिमला नूतनपरिमलप्रायाः - तद्वदभिव्यञ्जका इत्यर्थः - यद्वा तारुण्यश्रियो - नवोऽपूर्वः - परिमलः सौभा-
ग्यविशेषो - येषां ते तथोक्ताः। प्रौढसुरतं प्रचण्डरति-स्तत्रयः प्रतापः सामर्थ्यम्- तस्य प्रारम्भा उपक्रमाः। स्मरस्य जगज्जित्वरस्य - मन्मथस्य - विजयदाने - प्रतिभुवः लग्नकाः - नि.—‘स्युर्लग्नकाः प्रतिभुवः’ इत्यमरः - तथा प्रतिभुवः अधमर्णात् धनमुद्धृत्य उत्तमर्णाय दातुं समर्थास्तथा इमेऽपि दिग्विजयमाकृष्य स्मराय दातुं समर्था इत्यर्थः। चिरं चिरकालमारभ्य।चेतश्चोराः चित्ताकर्षकाः मनोहरा इति यावत्। अभिनवविकारैराकस्मिकभयकम्पानुकरणादि- प्रत्यग्रयौवनविकारै - रेकगुरवोऽत्यन्तभूयिष्ठा मृगदृशां तरुणीनां संबन्धिन! इमे पूर्वोपवर्णिता विलासव्यापाराः - शृङ्गारेचेष्टाविशेषाः। किमपि अनिर्वाच्यतया। विजयन्ते सर्वोत्कर्षेण वर्तन्ते ‘विपराभ्यां जेः’ इत्यात्मनेपदम्. शिखरिणीवृत्तम्.
प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमृदुला मुग्धप्रायाः प्रकाशितसम्मदाः।
प्रकृतिसुभगा विस्रम्भार्द्राःस्मरोदयदायिनो
रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम्॥२०॥
व्या.—प्रणय इति.—
“विस्रम्भे परमां काष्ठामारूढे दर्शनादिभिः।
येनान्तरङ्गं द्रवति स स्नेह इति कथ्यते॥”
इत्युक्तलक्षणः स्नेहः प्रणयशब्देन विवक्षितः - तेन - प्रणयेन मधुराः संतापहराः - ‘शीतलीक्रियते तापो येन तन्मधुरं स्मृतम्’ इति लक्षणात्। प्रेम्णा अनुरागविशेषेण - उदारा रम्याः - मनोहरा
इति यावत्। रसाश्रयतां शृङ्गारास्पदत्वं गताः - शृङ्गाररसप्रसरोल्लसिता इत्यर्थः। फणित्या संदर्भविशेषेण - मधुराः माधुर्यगुणयुक्ताः - अमृतप्राया इत्यर्थः - मुग्धप्रायाः सौकुमार्यभरिताः - श्रुतिरञ्जका इत्यर्थः - प्रकाशितोऽभिव्यञ्जितः - सम्मदः संभोगौत्सुक्यं. यैस्ते तथोक्ताः। प्रकृतिसुभगाः स्वभावरुचिराः। विस्रम्भार्द्रा विश्वासपरिप्लुताः। अत एव। स्मरोदयदायिनो जितेन्द्रियस्यापि मन्मथोद्रेकावहाः। मृगीदृशां संबन्धिनः स्वैरालापाः नर्मोक्तय इति यावत्। रहसि किमपि हरन्ति। यद्वा रहसि स्वैरालापा इत्यन्वयः। किमपि हरन्ति। यद्वा अनिर्वाच्यतया मनोहरा भवन्तीत्यर्थः॥
अत्र श्लोकद्वयेऽपि समर्थसहिष्णोः शृङ्गारस्य पाठसमयेऽप्यास्वाद्यमानत्वादन्तर्बहिःस्फुरणेन द्राक्षापाकोऽनुसंधेयः - ‘द्राक्षापाकः सकथितो बहिरन्तः स्फुरद्रसः’ इति लक्षणात्; तथा श्लेषप्रसादादयो दण्ड्याचार्योक्ता दश प्राणाश्च प्रायेणात्र सन्ति। ते निपुणैरुन्नेया इति संक्षेपः; प्रकरणेऽस्मिन्प्रायशो नायका अनुकूला दक्षिणाश्चाऽनुसंधेयाः - ‘एकायत्तोऽनुकूलः स्यात्तुल्योऽनेकत्र दक्षिणः’ इति लक्षणात्. हरिणीवृत्तम्.
इति शृङ्गारशतके स्त्रीप्रशंसा सम्पूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1723700699Screenshot2024-08-15131552.png"/>
॥संभोगवर्णनम्॥
विश्रम्य विश्रम्य वने द्रुमाणां छायासु तन्वी विचचार काचित्।
स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान्॥२१॥
व्या.—अथ संभोगविप्रलम्भभेदविभिन्नयोः शृङ्गारयोर्मध्ये संभोग शृङ्गारं सप्रपञ्चमुत्तरत्र वर्णायिष्यन्नादौ विप्रलम्भशृङ्गारमेकेनाह,—विश्रम्य इति - काचित्तन्वी कृशाङ्गी। वनद्रुमाणां। छायासु चन्द्रातपरहिताधःप्रदेशेषु - विश्रम्य विश्रम्य पुनः पुनः श्रममपनीय * वीप्सायां द्विर्भावः नि. ‘छाया त्वनातपे कान्तौ’ - इति विश्वः। विचचार संचचार - केलीवनसंचारस्य विरहिजन’विनोदोपायत्वादिति भावः। कथं भूता सती? करोद्धृतेन हस्तोत्क्षिप्तेन। स्तनोत्तरीयेण कुचकुम्भाच्छादनपटाञ्चलेन। शशिनश्चन्द्रस्यमयूखान्किरणान् - आतपानिति यावत्। निवारयन्ती निराकुर्वन्तीग्रीष्मोष्मणो व्यजनेनेवेति भावः; चन्द्रकिरणानां विरहिणीजनसन्तापकरत्वात्तन्निवारणोक्तिः; एतेन दशावस्थापक्षे षष्ठीमन्मथावस्था- तथा च चतुर्थी जागरावस्था -तथा उत्तरीयेण शशिमयूखाना मनिवारणीयत्वविवेकाभावाच्चित्तविभ्रमप्रतीतेः कामशास्त्रोक्त द्वादशावस्थापक्षे दशमी उन्मादावस्था सूच्यते - तन्वीत्यनेन कार्श्यावस्था च कथिता - तदुक्तम्.—
**“दृङ् मनस्सङ्ग संकल्पा जागरः कृशताऽरतिः।
ह्रीत्यागोन्मादमूर्छान्ता इत्यनङ्गदशा दश”॥ **इति;
कामशास्त्रोक्तास्तु—
**“चक्षुः प्रीति र्मनस्सङ्गः संकल्पोऽथ प्रलापिता।
जागरः कार्श्यमरति र्लज्जात्यागोऽथ संज्वरः।
उन्मादो मूर्छनं चैव मरणं चरमं विदुः”॥ ** इति;
इयं च विरहोत्कण्ठिता—
‘चिर
वत्यधिकं कान्तेविरहोत्कण्ठितोन्मनाः॥’ इति लक्षणात्॥
उपजातिवृत्तम्॥
अदर्शने दर्शनमात्रकामा दृष्ट्वा परिष्वङ्गरसैकलोला।
आलिङ्गितायां पुन रायताक्ष्या माशास्महे विग्रहयो रभेदम्॥
व्या.—अथ संभोगशृङ्गारः—स च बाह्याभ्यन्तर भेदेन द्विविधः। वात्स्यायनेनाप्यस्य द्विविधस्याऽपि प्रकारान्तरेण द्विविधत्व मुक्तम्—
**“बाह्यमाभ्यन्तरं चेति सुरतं द्विविधं स्मृतम्।
तत्राद्यं चुम्बनाश्लेषनखदन्तक्षतादिकम्।
द्वितीयंसुरतं साक्षान्नानाकरणकल्पितम्॥” **इति।
तत्र प्रथममालिङ्गनरूपं सोपस्कारमाह द्वाभ्याम्—
अदर्शन इति.—अत्र यत्तच्छब्दाध्याहारेणान्वयः कार्यः। अदर्शने प्रियतम विषयकदर्शनाभावे सति * क्वचित्प्रसज्य प्रतिषेधेऽपि नञ्समास इष्यते - यथा अदर्शनमश्रवणमभाषणमनुच्चारण मित्याद्यभियुक्तोक्तेः। दर्शनमात्र एव कामोऽभिलाषो यस्याःसा तथोक्ता-तावन्मात्राभिलाषिणीत्यर्थः। ततो दृष्ट्वा। प्रियतममिति शेषः। परिष्वङ्गसुखे आलिङ्गनजनितसुखे - एकं मुख्यं यथा तथा - लोला सतृष्णा-नि. ‘लोलश्चलसतृष्णयोः’ इत्यमरः - या - आयताक्षीति शेषः। तस्यामायताक्ष्यां कर्णान्तविश्रान्तलोचनायां प्रियतमायां। पुनरालिङ्गितायां संपरिष्वक्तायां सत्याम्।
विग्रहयोः शरीरयोः - नि. ‘शरीरं वर्ष्म विग्रहः’ इत्यमरः। अभेदम् ऐक्यम्। आशास्महे - तादृग्गाढालिङ्गनसुखमनुभवितुमभिलषामहे इत्यर्थः। तद्यथा—‘प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेव मेवायं पुरुषः’ इत्यादि श्रुतेः। प्रियतम गाढालिङ्गनपरिष्वङ्गे विगलित वेद्यान्तरत्वेन ब्रह्मानन्द सब्रह्मचारि सुखविशेषसंभवात्तथाविधालिङ्गनाशंसनं युक्तमेवेति भावः - तदुक्तं रतिरहस्ये—
**“तत्सौख्यं परतत्ववेदन महाऽऽनन्दोपमं मूढधीः
को वा निन्दति सूक्ष्ममन्मथकला वैचित्र्यमूढो जनः॥” ** इति;
अन्यत्राप्युक्तम्—
**‘प्रौढालिङ्गनचुम्बनामितसुखं प्रच्छन्न वेद्यान्तरम्’ **इति;
वृत्तं पूर्ववत्॥
मालती शिरसि जृम्भणोन्मुखी चन्दनं वपुषि कुङ्कुमाविलम्।
वक्षसि प्रियतमा मदालसा स्वर्ग एष परिशिष्ट आगमः॥२३॥
व्या.—एवं परमानन्दानुसंधायकत्वेन परिष्वङ्गस्यापवर्गत्वमुक्त्वा संप्रति स्वर्गरूपत्वमाह.—मालती ति.—शिरसि मालती जातीकुसुममालिकेत्यर्थः - नि. ‘सुमनामालती जातिः’ - ‘पुष्पे जाती प्रभृतयः’ इत्युभयत्राप्यमरः* ‘पुष्पमूलेषु बहुलम्’ इति लुक्। मुखे। जृम्भणं मदनमदजनितजृम्भश्च - नि. ‘जृम्भस्तु त्रिषु जृम्भणम्’ इत्यमरः - यद्वा संभोगौत्सक्यसूचकरागविलासस्फूर्ति श्च। वपुषि। कुङ्कुमाविलं काश्मीरजमिश्रितं घुसृणरसमसृणितं
वा। चन्दनं पाटीरपङ्कं च। वक्षसि। मदालसा मदेन मन्थरा। प्रियतमा गाढालिङ्गितमत्तकाशिनी च। इत्येषोऽयं समुदायः। स्वर्गः स्वर्गशब्दवाच्यः। आगमः एतद्व्यतिरिक्त स्वर्गाभिधायक शास्त्रं तु। परिशिष्टः सदानभिज्ञत्वादमुख्यः। स्वर्गपदवाच्यमुख्यार्थबोधशून्य इत्यर्थः। अन्यथैतत्स्वर्गत्वेनैव वदेदिति भावः। स्वर्गसमान सौख्यप्रदोऽयमेवेति परमार्थः. रथोद्धतावृत्तम्—‘रान्नराविह रथोद्धता लगौ’ इति लक्षणात्॥
प्राङ्मामेति मनागनागतरसं जाताभिलाषं ततः
सव्रीडं तदनु श्लधीकृततनु प्रत्यस्तधैर्यं पुनः
प्रेमार्द्रं स्पृहणीय निर्भर रहः क्रीडा प्रगल्भं ततो।
निश्शंकाङ्ग विकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम्॥२४॥
व्या.—अथाभ्यन्तरसंभोगं वर्णयितुमुपक्रमते—प्रागिति.—प्राक् प्रारम्भे। मनाक्अल्पं। मामेति मास्तु मास्त्विति निषेधवचनेन। अनागतः अनुत्पन्नः रसोऽनुराग विशेषो यस्मिंस्तत्। मौग्ध्यादिति भावः - ततोनिषेधानन्तरं जातोऽङ्कुरितोऽभिलाषो वाच्छा यस्मिं स्तत्तथोक्तम्। तदन्वभिलाषानन्तरं * ‘अनुर्लक्षणे’ इति कर्मप्रवचनीयत्वाद्दितीया। नीवीविस्रंसनादिषु मन्दोद्यमनभावो व्रीडा तथा सहसव्रीडम् * ‘तेनसह -’इति तुल्ययोगे बहुव्रीहिः। * ‘वोपसर्जनस्य’ इति सहभावस्य सत्वम्। अथ व्रीडानन्तरं। श्लथोद्यमं निराकरणे शिथिलप्रयत्नं। पुनरुद्यमनाभावानन्तरम्पु - नः शब्दोऽत्रानन्तर्यार्थकः। प्रध्वस्तं विगलितं - धैर्यं प्रातिलोम्यलक्षणम् यस्मिं स्तत्तथोक्तम्।
अङ्गीकृताभिमुख्यमित्यर्थः। ततः प्रेमार्द्रंप्रणयरसपरिप्लुतम्। ततः स्पृहणीया अन्योन्यमभिलषणीया - निर्भरा उद्वेलाश्च - या रहःक्रीडा एकान्तकेलयः विस्रम्भविहारा इत्यर्थः - ताभिः प्रगल्भं प्रौढम्। ततो निस्सङ्गेनाप्रतिबन्धेन - अङ्गविकर्षणेन कुचाद्यवयव मर्दनेन - अधिकं सुखं परमानन्दो - यस्मिं स्ततथोक्तम्। कुलस्त्रीरतं स्वस्त्रीसंभोगः रम्यं सुन्दरम् - अत्यन्तमनोहरमिति यावत्; एतच्च प्रथमसमागमपरत्वेन द्रष्टव्यम्। अन्यथोक्तव्यवहारासंभावादिति भावः - कुलशब्दव्यावृत्तिसंभोगत्वादित आरभ्य प्रागल्भ्यघटितत्वेनोक्तविलक्षणत्वादन्यादृशो द्रष्टव्यः॥
नायिका तु मुग्धा। नायक स्तूत्तमोऽनुकूलः कामतन्त्रेषु निपुणः। अन्यथोक्तक्रमसंभोगासंभवादिति मन्तव्यम्॥ संभोग. लक्षणमुक्तं रतिरहस्ये॥
“अनुकूलौ निषेवेते यत्राऽन्योन्यं विलासिनौ।
दर्शन स्पर्शनादीनि स संभोग उदाहृतः॥” इति॥
अत्र मा मेति वागारम्भसूचितैः रनुभावै र्जाताभिलाषमित्युक्तेन रत्याख्यस्थायीभावेन सव्रीड मित्यनेनोपलक्षितैः संचारिभावैः अवशिष्टैर्विशेषणैर्यथायथं प्रतीयमानै रनुभावादिविशेषैः कुलस्त्री इत्युक्तेनालम्बनविभावेन प्रतीयमानो रससार्वभौमः शृङ्गारो निस्सङ्गाऽङ्गविकर्षणाऽधिकसुखमित्यनेन परिषोषातिशयं प्राप्नोतीति वेदितव्यम्॥
शार्दूलविक्रीडितम्॥
उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलित नयनानां किंचिदुन्मीलितानाम्।
उपरि सुरतखेद स्विन्न गंडस्थलानां
अधरमधु वधूनां भाग्यवन्तः पिबंति॥२५॥
व्या.—अथ यदुक्तम् ‘नानाकरण कल्पितम्’ इति। तत्रनानाकरणानि धैनुकादि बन्धविशषाः तेषां मध्ये एकं बन्धविशेषं विविक्षु स्तदनुकूलमुपरि सुरतमाह–उरसीति.–उरसि निपतितानां पुरुषायित बन्धवशाद्वक्षःस्थलमधिष्ठितानाम्। अत एव स्रस्तधम्मिल्लकानां रति रभस विश्लथकचप्रचयानाम्–नि. ‘धम्मिल्लः संयताः कचाः’ इत्यमरः। मुकुलित नयनानां मुखपारवश्याल्लज्जानुभावानुकरणा द्वा विनिमीलि तलोचनानाम्। तथाऽपि किञ्चिदुल्मीलितानां ईषन्मुकुलितलोचनानाम्अ - अन्यथा अनौचित्यादिति भावः। अत एव उपरिसुरते यः -खेदः श्रम—स्तेन स्विन्नानि स्वेदार्द्राणि - गण्डस्थलानि यासां तासाम् - ‘श्रमः खेदो हि रत्यादे र्जातःस्वेदादिभूमिकृत्’ इति लक्षणात्। वधूनां प्रियतमानां संबन्धि।अधरमधु अधरामृतं। भाग्यवन्तः भाग्यशालिनः। पिबन्ति। स्त्रीमुखस्य निजमुखसाम्मुख्यादक्लेशेनाधरं चुम्बन्तीत्यर्थः। एतच्च पुण्यकृतामेव संभवति - न त्वन्येषा मत एव भाग्यवन्त इत्युक्तम्; तथा बाह्यसुरतविशेषरूपमपि चुम्बन मारभ्यान्तराङ्गतया कथित मित्यवगन्तव्यम्॥
पुरुषायितलक्षणमुक्तं रतिरहस्ये.—
‘स्वेच्छया श्रमिणि वल्लभे तथा योषिदाचरति पूरुषायितम्’इति॥ नायिकास्तु प्रगल्भाः—
‘स्मरमन्दी कृत व्रीडा प्रौढा संपूर्ण यौवना’ इति लक्षणात्॥ नायिकाः कामतन्त्र कुशलाः अनुकूलाश्च. स्वभावोक्ति रलंकारः—
‘स्वभावोक्ति रसौ चारु यथावद्वस्तुवर्णनम्’ इति लक्षणात्॥
मालिनीवृत्तम्.—
आमीलितनयनानां यः सुरतरसोऽनु संविदं भाति।
मिथुनै र्मिथोऽधारित मवितथ मिदमेव कामनिर्वहणम्॥
व्या.—अथ ज्ञानपूर्वक एव सुरतानुभवः सार्थकः। न त्वन्य इत्याह—आमीलित इति.—आमीलितनयनानां सुखपारवश्याद्दरमुकुलितनयनानां। यूनां यः सुरतरसः सुरतास्वादः। संविदं अनु ज्ञानमनुसृत्य भाति - अयमेतादृश इति ज्ञानगोचरतया प्रतिभातत्यिर्थः। इदमेव ज्ञानपूर्वक सुरतानुभव प्रतिभानमेव। अवितथं अव्यर्थम् - सार्थक मित्यर्थः - कामस्य मन्मथस्य - कामपुरुषार्थस्य वा - निर्वहणं प्रतिष्ठापनम् - उज्जविनमिति यावत्। न त्वन्यदाभासत्वादिति भावः - मिधुनैः रसज्ञैः स्त्रीपुरुषैः - नि. ‘स्त्रीपुंसौ मिथुनं द्वन्द्वमि’त्यमरः। मिथोऽन्योन्यं। अवधारितं निश्चितम् - अनुभविनामेवार्थनिश्चयसंभवादिति भावः - ज्ञान - पूर्वक सुरतानुभव एव कामपुरुषार्थ इति फलितार्थः। अत इत्थं भूतसुरतमेव कर्तव्यम् - न त्वन्यादृशम् - तस्य क्लेशमात्रफलकत्वादिति तात्पर्यम्॥
आर्यावृत्तभेदः॥
इदमनुचितमक्रमश्च पुंसां
यदिह जरास्वपि मान्मथा विकाराः।
तदपि च न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा॥२७॥
व्या.—अथ सुरतविधिं कथय न्निगमयति.—इद मिति.-इहास्मिंलोके। पुंसामिद मनुचितं अन्याय्यम्। अक्रमो निर्मर्यादश्च। किमिद मित्याशङ्काया माह - जरासु वार्धकावस्थास्वपी - त्यर्थः। मान्मथा विकाराः सुरतव्यासङ्गाः कृता इति यत्। इदमिति संबन्धः। किं तु यौवनावधिक सुरतमेव न्याय्यं मर्यादागोचरं चेत्यर्थः - तदुपरितन सुरतस्याभासत्वादिति भावः। तथा नितम्बिनीनां स्त्रीणां च तदनुचितम्; किं तदित्यत आह—स्तनपतनम् अवधिः मर्यादा यस्य तत्तथोक्तं। जीवितं जीवनं वा रतं वा सुरतं - वा। न कृतमिति यत्। ब्रह्मणेति शेषः। तदिति संबन्धः। स्त्रीणां तावत् स्तनपतनावधिकमेव जीवनं कर्तव्यं। सुरतमपि तदवधिकमेव। अन्यथा ‘तारुण्यं पञ्चपञ्चाशदवधि परतो वृद्धता मेतिनारी’ इति कामशास्त्रोक्ते र्वृद्धानां संभोगानर्हत्वात् — ‘त्यजे दन्त्यकुलो द्भूतां वृद्धस्त्रींकन्यकां त्यजेत्’ इति निषेधस्मरणात् - ‘आलिङ्गनं लम्बपयोधराणां स्त्रीणां च दुःखत्रयमेव भूमौ’ इति लम्बस्तननितम्बिनी संभोगस्य दुःखरूपत्वाच्चेति भावःयथाह माघः-
**“अयमपि जरठाः प्रकामगुर्वी
रलघुविलम्बिपयोधरोपरुद्धाः।
सतत मसुमता मगम्यरूपाः
परिणतिदिक्करिका स्तटी र्बिभर्ति”॥ **इति॥
अत्र स्त्रीणां पुरुषाणां च यौवनकृतसुरत मेव रमणीय मितितात्पर्यम्॥
पुष्पिताग्रा वृत्तम्—‘अयुजि नयुग रेफतो यकारो युजि च। नजौ जरगाश्च पुष्पितामा’ ॥इतिलक्षणात्॥
राजं स्तृष्णाम्बुराशे र्नहि जगति गतः कश्चि देवावसानं
कोवार्थोऽर्थैःप्रभूतैः स्ववपुषि गलिते यौवने सानुरागे।
गच्छामः सद्मयाव द्विकसितनयनेन्दीवरालोकिनीना
माक्रम्याक्रम्य रूपं झडिति न जरयालुप्यते प्रेयसीनाम्॥
व्या.—यदुक्तं सुरतानुगुण्येन यौवनस्यात्यन्तावश्यकत्वं त्रिभिर्वर्णयति. तत्रादौ चिरप्रवासनिर्विण्णानां राजसेवा तत्पराणां यूनां वचनमेतत् - राजन्निति.—हे राजन्। जगति अस्मिन् लोके। कश्चिदेव कश्चिदपि पुमान्। तृष्णा धनलिप्सा सा एवाम्बुराशिः समुद्रस्तस्य अवसानं पारं न गतो हि न प्राप्तः खलु - किन्तु मग्न एवेत्यर्थः - तृष्णाया अपरिच्छिन्नत्वा दम्बुराशित्वरूपणम्। अथ यावत्काङ्क्षितार्थलाभेऽपि न तैः प्रयोजनसिद्धिरित्याहुः - प्रभूतैः प्रचुरैः - नि. ‘प्रभूतं प्रचुरं प्राज्यम्’ इत्यमरः - अर्थैधनैः। को - वार्थः किं प्रयोजनम्- नकिमपीत्यर्थः - अकिंचित्करत्वादितिभावः नि ‘अर्थेऽभिधेयरैवस्तुप्रयोजन निवृत्तिषु’इत्यमरः। कस्मिन् कथं भूते सति वपुषि निजशरीरे (अधिकरणे)। सानु - रागे संभोगेच्छा जनके अनुरागसहिते वा यौवने। गलिते सति - कोऽर्थ इति संबन्धः, धनलाभादपि यौवनमेवास्माकं बलीय इत्यर्थः। अतस्तावत्तत्पूर्वमेव। सद्म स्वगृहं प्रति। गच्छामो यास्यामः।
यावत् यदा। विकसितानि उत्फुल्लानि - कुमुदानि कैरवाणि - इन्दीवराणि नीलोत्पलानि च—तत्सदृशा आलोका नेत्राणि - असां सन्तीति तथोक्तानाम्- सितासिताव्जदलमनोहर नयनानामित्यर्थः - नि.‘सिते कुमुदकैरवे’ - ‘इन्दीवरं च नीलेऽस्मिन्’ इत्युभयत्राप्यमरः। प्रेयसीनां प्रियतमानां संबन्धि। रूपं यौवनप्रयुक्त सौन्दर्यं। जरया। आक्रम्याक्रम्य अभीक्ष्णमाक्रम्य। ज्ञडिति अञ्जसा - नि. ’स्राग्झडित्यञ्जसाऽह्नाय’ इत्यमरः। न लुप्यते न ह्रियते। तावदिति संबन्धः - अन्यथा शशकापाये बिलस्वननवद्गमननैष्फल्या द्वृद्धस्त्रीगमन निषेधाच्चेति भावः - नि. ‘यावत्तावच्च साकल्येऽवधौमानेऽवधारणे’ इत्यमरः॥
रागस्यागारमेकं नरकशतमहादुःखसंप्राप्तिहेतु
र्मोहस्योत्पत्तिबीजं जलधरपटलंज्ञानताराधिपस्य।
कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषबन्धं
लोकेऽस्मिन्नह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति॥२९॥
व्या.—अथानर्थमूलमाह – रागस्येति.—रागस्य मात्सर्यस्य। एकम् अगारं मुख्यायतनम् अनुरागैकस्थानमिति वा। तथा नरकशतेषु निरय परम्परासु - यानि महादुःखानि तीव्रयातनास्तेषां संप्राप्तिहेतुः प्राप्तिसाधनम् - अगम्यागमनादि दुष्कर्म प्रवर्तकेत्वादिति भावः। मोहस्य स्त्र्यन्तरासक्तिरूपस्य। उत्पत्तिबीजं जन्मकारणम् - नि. ‘हेतु र्ना कारणं बीजम्’ इत्यमरः। ज्ञानताराधिपस्य प्रबोध चन्द्रस्य। जलधरपटलम् अभ्रवृन्दं - ज्ञानप्रकाश प्रतिबन्धकमित्यर्थः। कन्दर्पस्य कामदेवस्य। एकं मित्रं मुख्य
बन्धुः। तदुद्रेकमित्यर्थः प्रकटितो-विविधो नानाविधः-स्पष्टः प्रकाशश्चदोषप्रबन्धः पातकसंबन्धो यस्य - तत्तथोक्तम्, यद्यौवनमिति शेषः। अतोऽस्मिन् लोके। तस्माद्यौवनादन्यत् इतरत्। अनर्थानामुक्तविधानां - व्रजस्य समूहस्य - कुलभवनम् उत्पत्तिनिकेतनं। नास्ति हि; इदमेवात्यन्तानर्थमूलमित्यर्थः; तदुक्तम्.—
**‘यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्?’॥ ** इति.
शृङ्गारदुमनीरदे प्रसृप्तरक्रीडारसस्रोतसि
प्रद्युम्न प्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति।
तन्वीनेत्रचकोर पार्वणविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयते प्राप्ते नवे यौवने॥३०॥
व्या.—इत्थं भूते यौवने कश्चिदेव निर्विक्रिय इत्याह - शृङ्गार इति.—शृङ्गारः संभोग विप्रलम्भ रूप शृङ्गाररस एव द्रुमो वृक्षस्तस्य नीरदे अम्बुवाहे - अङ्करितत्व कन्दलितत्व पल्लवितत्वपुष्पितत्व रूपावस्थाभिः परिपोषावह इत्यर्थः। प्रसृमरो व्यापनशीलो यः क्रीडारसो मन्मथ केलिरसस्तस्य स्रोतसि प्रवाहे - अविच्छेदेन प्रवर्तक इत्यर्थः - अथवा प्रसृमरक्रीडानां रसस्रोतसि रसप्रवाहे – यथेच्छाविहारान्वित इत्यर्थः - प्रसृमरे त्यत्र * “सृघस्यदः क्मरच्” प्रद्युम्नस्य कन्दर्पस्य - प्रियबान्धवे आप्तबन्धौ* स्वार्थेऽण् प्रत्ययः - नि. ‘प्रद्युम्नो मीनकेतनः। कन्दर्पो दर्पकोऽनङ्गः’ इत्यमरः चतुरवाचो निपुणवाक्यान्येव - मुक्ताफलानि मौक्तिकमणयः - तेषामुदन्वति समुद्रेस–रससंलापोत्पत्तिनिकेतनभूत इत्यर्थः- ‘उदन्वा
नुदधौच’ इति निपातनात्साधुः। समुद्रस्य मुक्ताकरत्वमुक्तं रत्नशास्त्रे—
‘करीक्षु जीमूत वराहशङ्ख मत्स्याहिशुक्त्यर्णव वेणुजानि।
मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि॥’ इति,
तन्वीनां विलासिनीनां नेत्राण्येव - चकोराः चन्द्रिकापायिपक्षिविशेषास्तेषां पार्वणविधौ पूर्णचन्द्रे-त्तद्वदुल्लासक इत्यर्थः* पर्वणि भवः पार्वण इति विग्रहः - नि. ‘विधु र्विष्णौ चन्द्रमसि’ इत्यमरः। सौभाग्यलक्ष्म्याः सौन्दर्यसम्पदो निधौ निधाने कदाचिदपि स्वावस्थानन्ददशायां सौन्दर्यलक्ष्मीः न क्षीयत इत्यर्थः। नवे यौवने नूतने वयसि। प्राप्ते सति कोऽपि धन्यः कश्चिदेव सुकृती। विक्रियां मन्मथ बिकारं। न कलयते न प्राप्नोति; ईदृशस्तु विरल इति - भावः॥
श्लोकद्वयेऽपि निरवयव रूपकालंकारः॥ शार्दूल विक्रीडितम्॥
संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्क
व्यासङ्ग व्यस्तधैर्यं कथममलधियो मानसं संनिदध्युः।
यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतोनस्युरम्भोजनेत्राः
प्रेङ्खत्काञ्ची कलापाःस्तनभरविनमन्मध्यभाज स्तरुण्यः॥३१॥
व्या.—यदुक्तं यौवनस्यानर्थमूलत्वं तत् कामिनीपरित्यागेऽत्यन्त दूरापास्त मित्याशङ्क्यतासामपरित्याज्यतां त्रिभि र्वर्णयति.—संसार इति.—अमलधियो निर्मलमतयो महान्तः। मानसं निजं मनः। असारे निस्सारे। अस्मिन् परिवर्तमाने संसारे कलत्रादि-
पोषण व्यासङ्गरूपे कुनृपतिभवनद्वारस्य कुत्सित राजमन्दिरस्य प्रतिहारस्य - सेवा अनुवर्तनमेव - कलङ्कोऽपवादः - तत्र यो व्यासङ्गः - अत्यासक्ति स्तेन व्यस्तं - धैर्यं धीरत्वं यस्य तत्तथोक्तम्। ईदृक्कष्टकर्मासक्तत्वान्मलिनमित्यर्थः। कथं संनिदध्युः कुर्युः न कथंचिदपीत्यर्थः। किं न स्या च्चेदित्यत आह - प्रोद्यन् उदित्वरो - य इन्दुः तस्य द्युतिरिव द्युतिर्येषां तानि चन्द्रधवलानि माञ्चिष्ठानि वा - उद्यद्विशेषण सामर्थ्यात् - तानि निचयानि अंकुशानि - बिभ्रतीति तथोक्ताः। अम्भोजे इव नेत्रे यासां ताः पद्मपलाशविशाललोचना इत्यर्थः। प्रेङ्खत्काञ्च्यः क्वणद्रशना एव - कलापा भूषणानि - यासां ताः - यद्वा काञ्च्योभूषणानि यासां ताः नि. ‘कलापो भूषणे बर्हे’ इत्यमरः स्तनभरेण कुचकुम्भगौरवेण - विनमन्ति अवनतानिमध्यानि वलग्नानि - भजन्तीति तथोक्ताः - पीवरकुचाःकृशोदर्यश्च इत्यर्थः - एतेन सौन्दर्यातिशय उक्तः। एताः प्रसिद्धा - स्तरुण्यो युवतयः - न स्युर्यदि न भवेयु र्यदि - तर्हि कथं संनिदध्युरिति संबन्धः; अतो विशिष्टतरुणीनां विद्यमानत्वादेव सुधियोऽप्येवंभूता भवन्तीत्यर्थः। तस्मात्तरूण्यो दुष्परिहरा इति भावः। तदुक्तम्॥
“असाधाविह संसारे दुर्वारे मकरध्वजे।
कुले च कामिनीमूले कावास्यात्परिकल्पना?”॥ इति॥
अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थसमर्थकहेतुत्वात्काव्यलिङ्गभेदः॥
स्रग्धरा॥
सिद्धाध्यासितकन्दरे हरवृष स्कन्धावरुम्णद्रुमे
गङ्गाधौतशिलातले हिमवतः सानौ स्थिते श्रेयसि।
कः कुर्वीत शिरः प्रणाम मलिनं म्लानं मनस्वीजनो
यद्वित्रस्तरङ्गशाबनयना न स्युः स्मरास्त्रं स्त्रियः॥३२॥
व्या.—सिद्धेति - सिद्धैर्योगिभिः - अध्यासिता अधिष्ठिताकन्दरा गुहा - यस्मिंस्तत्तथोक्ते - एतेन तपसिद्धि हेतुत्वं सूच्यते। हरस्य नित्यसन्निहितस्य - योवृषो वाहनभूतो महोक्षस्तस्य स्कन्धेन अंसपीठेन - ककुदेति यावत् - अवरुग्णाः भग्नाः - द्रुमा यस्मिन् तत्तथोक्तम्’* ‘रुजो भङ्गे’ कर्मणि क्तः ‘ओदितश्च’ इति निष्ठानत्वे णत्वम् - एतेनाखिलश्रेयःप्रदशिवसान्निध्यमुक्तम्। गङ्गाधौतानि गङ्गाप्रक्षालितानि - शिलातलानि। यस्मिन् तत्तथोक्ते - एतेनाऽत्यन्तपवित्रत्वमुक्तम्। अत एव श्रेयसि श्रेठे - श्रेयस्करे - वा हिमवतो गिरेः। संबन्धिनि स्थाने प्रदेशे स्थिते सति। कोवा मनस्वी सुमेधाः धीरो जनः* प्रशंसायामिनिः। शिरो निजोतमाङ्गं प्रणामेन कुनृपतिपादवन्दनेन - मलिनं कलङ्कितम्। अत एव - म्लानं उत्कर्षहीनं। कुर्वीत। ‘मलिनं मानम्’ इति पाठे - मानं निजाभिमानं (कर्म) - शिरः प्रणामेन निजोत्तमाङ्गविनमनेन - मलिनं प्रतिष्ठाहीनं - कुर्वीत। न कोऽपीत्यर्थः। कुतः - यद्यस्मात्कारणात्। वित्रस्तकुरङ्गशाबनयनाः पद्मनीजातित्वाच्चकितबालहरिणेक्षणाः। अत एव। स्मरास्त्रं महावीरस्य स्मरस्य जगद्विजयसाधन - भूतबाण इत्यर्थः * लिङ्गवचनव्यत्ययो नित्यनपुंसकत्वेन जात्यभिप्रायेणवा ‘वेदाः प्रमाणम्’ इत्यादिव दृृष्टव्यः इत्युक्तं प्राक्। स्त्रियः
नस्यु श्चेत् अतः अमोघ मदनशस्त्र भूतस्त्रीणामपरित्याज्यतया विद्यमानत्वादेव मनस्विना मपीदृग्दुरवस्थापत्तिरिति भावः॥
वृत्तमुक्तम्॥
संसार! तत्र पर्यन्तपदवी न दवीयसी॥
अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाः॥३३॥
व्या.—संसार इति.—संसार। तव। पर्यन्तपदवी अवसानसीमा न दवीयसी न दविष्ठा भवति - न दूरतरेति यावत् - किन्तु नेदीयस्येवेत्यर्थः। * दूरशब्दा दीयसुनि ‘उगितश्च’ इति ङीप् ‘स्थूलदूर - ’ इत्यादिना यणादि परलोप पूर्वगुणौ। कुतः - ते तव अन्तरामध्ये। दुस्तरा महानद्य इव तरितु मशक्याः * ‘ईषदुः—’इत्यादिना खल्प्रत्ययः। मदिरेक्षणाः स्त्रियः। न स्युर्यदि नसंभाविता श्चेत्। न दवीयसीति सम्बन्धः। सम्भावितत्वादेव दवीयसी त्यर्थः; एतेन संसारपारपार गमन प्रतिबन्धिन्यः स्त्रिय इत्युक्तम्। तत्परित्यागे तु श्रेयस्संभव इति भावः. पूर्वश्लाकेऽप्यत्रापि च पूर्वतरश्लोकवत्कार्यमुन्नेयम्॥
अनुष्टुप्॥
इति शृङ्गारशतकेसंभोगवर्णनं सम्पूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1723737864Screenshot2024-08-15233514.png"/>
॥पक्षद्वयनिरूपणम्॥
दिश वनहरिणेभ्यो वंशकाण्डच्छवीनां
कबलमुपलकोटिच्छिलमूलं कुशानाम्।
शकयुवतिकपोला पाण्डु ताम्बूलवल्ली
दलमरुणनखाग्रैःपाटितं वा वधूभ्यः॥३४॥
व्या.—इत्थं स्त्रीणां परिहर्तुमशक्यत्वे तदासक्तस्य कुतः श्रेयः प्राप्ति रित्याशङ्कायां तदत्यन्तात्याज्ययोरप्यैहिकामुष्मिकफलसाधनत्व मेवेति मनसि कृत्वा तदुभयमिदानीं तावन्निरूपयितुं प्रतिजानीते - ‘अथ पक्षद्वयनिरूपणमिति’ - अथ स्त्रीणां परित्याज्यत्वकथनानन्तरं पक्षयोः विरक्त्यनुरक्तिरूपपक्षयोः द्वयस्य निरूपणं क्रियते। तत्प्रकारमाविंशतिसमाप्ते वर्णयति.—दिशेति.—हे जने त्यध्याहार्यम्। वने पुण्यारण्ये।हरिणेभ्यः कुरङ्गेम्यः - तपः प्रसक्त्या निर्भीकत्वेन तेषां समीपवर्तित्वादितिभावः। उपलकोट्या निशितपाषाणप्रान्तेनच्छि - च्छिन्नानि लूनानि मूलानि - यस्य तथोक्तम्त - तत्र लवित्रादिसाधनान्तरासंभवान्मूलानामुपलकोटिच्छिन्नत्वमुक्तम्। वंशकाण्डस्य वंशकरीरस्य - छविरिव छविर्येषां तेषाम् सरसानामित्यर्थः। कुशानां। कबलं ग्रासं वा - दिश। तपश्चरणसमय इति शेषः; अथवा। वधूभ्यः प्रियतमाभ्योऽरुणनखानामग्रैः - पाटितं शकलितं शकयुवतीनां शकाख्यदेशीयतरुणीनां - कपोलव - दापाण्डु - आसमन्ताद्धवलं। यत्ताम्बूलवल्ली दलं नागवल्लीपत्रं। तद्वा दिश। संसरणसमय इति शेषः; उक्तोभयमेव पर भूसौख्यनिदानम् उभयत्र। नान्यदिति भावः। एवमुत्तरत्रापि यथा योगमूहनीयम्॥
अत्र नखानामारुण्यग्रहणं महाभाग्यलक्षणत्वेन सुखित्वद्योतनार्थम् - तदुक्तम् सामुद्रिकैः -
**‘पाणी पादतले रक्ते नेत्रान्तश्च नख स्तथा।
तालु जिह्वाऽधरोष्ठं च सप्तरक्त स्सुखी भवेत्’॥ **इति.
मालिनी.
**असाराः सन्त्वेते विरतिविरसा वाथ विषया
जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदमिति।
तथाऽप्येतद्भूमौ न हि परहितात्पुण्यमधिकं
न चास्मिन् संसारे कुवलयदृशो रम्यमपरम्॥३५॥ **
व्या.—असारा इति.—ते प्रसिद्धाः। सर्वे। पापहेतुत्वात्पापाः-विषयाः शब्दादयः-स्रक्चन्दन वनितादयो वा। असाराः अस्थिराः - निस्सारा इति वा - नि. ‘सारो बले स्थिरां शेच’ इत्यभिधानात् तथा। विरतौ परिणतिसमये - विरसाः अनर्थकरा इति - वा। यद्वा सकलदोषास्पदम् राग द्वेष मोहाद्यशेषदोषदोषा इति वा* ‘आस्पदं प्रतिष्ठायाम्’ इति निपातनात्सुडागमः - लिङ्गवचनव्यत्ययस्तु पूर्ववद्द्रष्टव्यः। जुगुप्स्यन्तां परित्यज्यन्ताम् - परित्यागेपरमसुखलाभादिति भावः। तथा च वक्ष्यति—‘स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति’इति ‘गुपे निन्दायाम्’ इति सन्नन्तात् कर्मणि यकि विधौ लोटि तङ्; तथाऽप्युक्तप्रकारे विषयाणां जुगुप्स्यत्वेऽप्येतद्भूमौ अस्यां भुवि। परहितात् परोपकारकरणात्। अधिकं अतिरिक्तं। पुण्यं। न हि नास्तिखलु॥
“श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः।
परोपकारः पुण्याय पापाय परपीडनम्”॥
इति वचनाद्दिदमेवात्यन्तपुण्यमित्यर्थः। अथास्मिन्संसारे च। कुवलयदृश उत्पलाक्ष्याः* ‘अन्यारादितरते -’इत्यादिना पञ्चमी। अपरं अन्यत्। रम्यं वस्तु नास्ति - इयमेवात्यन्तं मनोहरेत्यर्थः; अतो दोषदृष्ट्या विषयान्परित्यज्य शमसुखानुभवतात्पर्येण स्थातव्यम्।अन्यथा परहिताचरण तत्परेण सांसारिकतया वा वर्तितव्यम्। न तु प्रकारान्तरेणेति भावः॥ शिखरिणी॥
मात्सर्यमुत्सार्य विचार्य कार्य-
मार्याः समर्यादभिदं वदन्तु।
सेव्या नितम्बाः किमु भूधराणा-
मुत स्मरस्मेरविलासिनीनाम्॥३६॥
व्या.—मात्सर्यमिति.—आर्याः पण्डिताः ‘मात्सर्यं असूयां - पक्षपातमिति यावत्। उत्सार्य निराकृत्य - तस्य यथार्थकथन प्रतिबन्धकत्वादिति भावः। कार्यं कर्तुं योग्यम् - विधेयमित्यर्थः। विचार्य ऊहापोहाभ्यां सम्यगालोच्य। ततः। समर्यादं मर्यादया सन्मार्गानतिक्रमणेन सहितं यथा भवति तथा। इदं एतत्। वदन्तु कथयन्तु। किमिदमित्यत आह - धरन्तीति धराः* पचाद्यच् - भुवोधरा भूधरा स्तेषां भूधराणां। नितम्बाः कटकप्रदेशाः। सेव्याः किमु आश्रयणीया वा। उत अथवा स्मरस्मेराः स्मरोल्लासिताः - मदनमदोत्कटा इत्यर्थः - यद्वा स्मरेण मन्मथावेशेन हेतुना - स्मेराः संभोगौत्सुक्यसूचक मन्दस्मित सुन्दरवदनारविन्दा इत्यर्थः* ‘ष्मिङ ईषद्धसने’ इति धातोः‘नमिकम्पि -’ इत्यादिना रप्रत्ययः
अथवा विषयमात्रविश्रान्तिविरहेण विशृङ्गलवृत्तित्वमदमन्धरत्वादिगुणविशिष्ट कटाक्ष वीक्षणानि स्मेरशब्दविवक्षितानि तदुक्तं - भावप्रकाशे—
**‘अपरिच्छिन्नविषयं मदमन्थरमीलितम्।
स्फुरद्भूपदानायुक्तं तत् स्मेर मिति कथ्यते’॥ ** इति
तानि च स्मरप्रधानानि वासां तासां स्मरस्मेराणां–विलासिनीनां विलसनशीलानां तरुणीनाम्*ॐ ‘वौ कलषलस -’ इत्यादिना घिनुण्प्रत्ययः। नितम्बाः कटिप्रदेशाः आश्रयणीयावा। इदं वदन्त्विति सम्बन्धः; यदि वैराग्यं स्यातर्हि गिरिनितम्बाः सेव्याः। अन्यथाविलासिनीनितम्बा इति त्वदीयप्रश्नस्येदमुत्तरं न त्वन्यदस्तीति भावः नि - ‘कटकोऽस्त्रीनितम्बोऽद्रेः’ - ‘पञ्चान्नितम्बः स्त्रीकट्याः’इति चोभयत्राप्यमरः.
अत्र पूर्वार्धे एकवर्णस्य पुनः पुनरावृत्तेर्वृत्त्यनुप्रासः शब्दालंकारः—
‘**एकद्वि प्रभृतीनां च वर्णानां तु यदा भवेत्।
पुनरुक्ति रसौ नाम वृत्त्यनुपास इष्यते.’
**इतिलक्षणात्.
अयं च नितम्बा इत्यत्र द्वयानामपि नितम्बानां प्रकृतत्वात्केवलप्रकृतत्वगोचरेण एकनालावलम्बिफ- लद्वपवदेकशब्दादर्थद्वय प्रतीतेः केवलार्थप्रवणेन विजातीयेनोत्तरवाक्थस्थेन श्लेषेण तिलतण्डुलवत् परस्परनैरपेक्ष्यात् संसृष्टः किंचिच्चमत्कारातिशय मावहतीति काव्यस्य महानुत्कर्षः प्रतिपादित इति रहस्यम्। वृत्तमुपजातिः॥
संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां
तत्वज्ञानामृतौघप्लवललितधियां यातु कालः कथञ्चित्।
नोचेन्मुग्धाङ्गनानां स्तनजघनघनाभोगसंभोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यगानाम्॥३७॥
व्या.—संसार इति.—स्वप्नस्य सार इव सारो यस्मिन् सः—मिथ्याभूत इत्यर्थः* ‘सप्तम्युपमाने’ इत्यादिना बहुव्रीहिः। तथा परिणत्या परिणामावस्थायां - तरले अस्थिरे - अशाश्ववत इत्यर्थः - संसारे संसृतौ। पण्डितानां परिज्ञात्रृृणांद्वे गती अवस्थे। विद्येते इति शेषः। के द्वे इत्याशङ्कायामाह - तत्वज्ञानमेव - अमृताम्भः अमृतप्रायजलं - तत्र प्लव इव - ललिता रुचिरा - यद्वातत्वज्ञानामृताम्भसि प्लवः वनम् - क्रीडेति यावत् - तत्रललिता उल्लासवती - धीर्येषां तत्वज्ञानोल्लसितबुद्धीनाम् सतामित्यर्थः। कथंचिदतिप्रयत्नेन। कालो यातु गच्छतु अतिक्रामत्वित्यर्थः। - नि. ‘कथमादि तथाप्यन्तः यत्नगौरवबाढ्योः’इत्यमरः। - कालः कदाचित्’ इत्यपपाठः। इयमेकावस्था; नोचेदेवं न स्याच्चेत्तर्हि। स्तनयो र्घनजघने विपुलकटिपुरोभागे च - आभोगसंभोगिनीनां विस्तृतसंभोगेच्छावतीनाम् - यद्वा स्तनयो र्घनजघनस्य निबिडतरजघनस्य च - य आभोगो विस्तार - स्तत्र संभोगिनीनाम् कुवमर्दन निधुवन रूपबाह्याभ्यन्तर संभोगाकाङ्क्षिणीनामित्यर्थः - एतेन समानुरागित्वमुक्ताम्। अन्यथा आभासप्रङ्गात्। तदुक्तम्—
**‘एकत्रैवानुरागश्चेत्तिर्यङ्म्लेच्छगतोऽपि वा।
योषित बहुसक्तिश्च रसाभास स्त्रिधा मतः’॥ ** इति॥
मुग्धाङ्गनानां सुन्दरस्त्रीणां नवयौवनानां वा ‘उदयद्यौवना मुग्धा’ इति लक्षणात्। स्थूलोपस्थस्थलीषु वर्तुलोच्छूनमदनसदनप्रदेशेषु।* ‘जानपद - ’ इत्यादिना अकृत्रिमार्थे ङीष्। स्थगितमाच्छादितं - यत्करतलं - तस्य स्पर्शः संपर्क - एव लीला तत्र - उद्यम उद्योगो - येषां तेषां सताम् - कामिनीमोहनोपस्थस्पर्शसुस्वप्ननुभवतां सतामेवेत्यर्थः। कालो यातु। इयं चैकावस्था;इमे द्वे एवोत्तमे गती। न त्वेतद्व्यतिरिक्तं गत्यन्रमस्तीत्यर्थः। सर्वदा ज्ञाननिष्ठया वा कामगोष्ठ्यावा पण्डितानां कालो यापयितव्यः। नत्वन्यथेति भावः. स्थूलोपस्थेत्यनेन आसां चित्रिणीजातित्वं सूचितम्। तदुक्तं रतिरहस्ये—
‘**मदनसदनमस्यावर्तुलोच्छूनमन्त
र्मृदु मदनजलाढ्यं रोमभि नीतिसान्द्रैः।
प्रकृतिचपलदृष्टि र्बाह्यसंभोगसक्ता
रसयति मधुराल्पं चित्रिणी चित्ररक्ता’॥ **इति॥
एतज्जात्यनुकूलसुरतनियतयामोऽपि तत्रैवोक्तः—
**‘व्रजति रतिसुखार्थी चित्रिणीमग्रयामे
भजति दिनरजन्यो र्हस्तिनीं च द्वितीये।
गमयति च तृतीये शङ्खिनीमार्द्रभावां
रमयति रमणीयां पद्मिनीं तुर्ययामे’॥ ** इति॥
मतान्तरे तु द्वितीययाम् इत्युक्तम्—
घनकुचनभेदै र्मुष्टिघातैश्च मध्ये
रतिनियतकरैश्च प्रीति युक्तै र्वचोभिः।
**‘अनृततरकथाभि स्तत्र यामे द्वितीये
सुगुणसहित मन्त श्चित्रिणीं संलभेत’॥ ** इति॥
स्रग्धरा॥
आवासः क्रियतां गाङ्गे पापहारिणि वारिणि।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि॥३८॥
व्या—आवास इति.—पापानि हरत्यभीक्ष्णमिति पापहारि—
‘गाङ्गंवारि मनोहारि मुरारि चरणच्युतम्।
त्रिपुरारिशिरश्चारि पापहारि पुनातु माम्’।
‘पापापहारि दुरितारितरङ्गधारि दूरप्रसारि गिरिराजगुहाविहारि।
झङ्कारकारि हरिपादरजोविहारि गाङ्गं पुनातु परित श्शुभकारि वारि’। इत्यादिना समस्तपापक्षयकर इत्यर्थः* ‘बहुलमाभीक्ष्ण्ये’ णिनिः। गाङ्गे गङ्गासंबन्धनि। * ‘तस्येदम्’ इत्यण्प्रत्ययः। वारिणि। आवासः क्रियताम्। स्नानपानादिना बाह्याभ्यन्तरशुद्धिसंपादनद्वारा स्वर्गापवर्गप्राप्त्यर्थं तत्र निवासो विधीयतामित्यर्थः - तथाच श्रुतिः—
‘सितासिते सरिते यत्र संगते तत्राप्लुतासो दिवमुत्पतन्ति।
ये वै तन्वां विसृजन्ति धीरास्ते जनासो अमृततत्वं भजन्ते’॥
इति स्मृतिश्च—
‘गङ्गा तुङ्गतरङ्गिणी भवभय देशापहा सर्वदा
मर्त्यानामवगाहनात्सकृदपि स्वर्गेऽपि संस्थापिनी’ इत्यादि - अथवा मनोहारिणि अत्यन्तमनोहरे* पूर्ववण्णिनिः। कुतः - हारिणि मुक्ताहारवति * अत्र मत्वर्थीय इनि प्रत्ययः। तरुण्या नवयौवनायाः। स्तनद्वये आवासः परिशीलनतात्पर्यं क्रियताम्।तरुणीस्तनाश्रयस्यैव निरतिशय सुखहेतुत्वादिति भावः॥
अत्र तरुणीग्रहणं स्तनद्वयस्य पतनाभावेन पाटवातिशयद्योतनार्थम्। अन्यथाऽभासप्रसङ्गात्; एतेन मणिहिरण्मय कङ्कणयोरिव स्तनद्वयहारयो रप्यन्योन्यरामणीयक प्रकाशपरिपोषावहत्वेन विशिष्ट स्तनद्वयस्याश्रयणयोग्यत्वं सूचितमित्यवगन्तव्यम्। यथाह श्रीहर्षः - ‘तरुणी स्तनएव दीप्यते मणिहारावलिरामणीयकम्’ इति॥
अत्र पूर्वोत्तरवाक्यस्थयोरनुप्रासयमकयोः शब्दाऽलंकारयोः संसृष्टिः स्पष्टा॥अनुष्टुप्॥
किमिह बहुभी रुक्तै र्युक्तिशून्यैः प्रलापै
र्द्वयमिह पुरुषाणां सर्वदा सेवनीयम्।
अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा॥३९॥
व्या.—अथ द्वाभ्यां निगमयति किमिति. - इहास्मिन्नर्थे। बहुभि रपरिमितै र्युक्तिशून्यै निस्सारै रुक्तैरुदितैः। प्रलापै रनर्थकवचनैः किं फल मिति शेषः। वाचो विग्लापन विना न किञ्चित्फलमस्तीत्यर्थः - नि.—‘प्रलापोऽनर्थकं वचः’ इत्यमरः - किं त्विहास्मिं लोके। पुरुषाणां द्वयम्। सर्वदा निरन्तरम्स - ‘र्वथा’ इति. वा पाठः। सेवनीयम्। किं तदृ्वय मत आह - अभिनवा नूतना - या
मदलीला मन्मथावेशजनितविलासास्तासु लालसं लोलुपम्। अत्यासक्तमित्यर्थः। स्तनभरेण कुचकलशभारेण - परिखिन्नं परिश्रान्तम्। उभयत्राऽपि यौवनवतीधर्मो यौवन उपचर्यते। सुन्दरीणां यौवन वा। नत्वसुन्दरीणामिति भावः। उत वतं पुण्यारण्यं वा। सेवनीयमिति संबन्धः। एतयोरेव परमसुखनिदानत्वादिति भावः॥
मालिनी॥
सत्यं जना वच्मि न पक्षपाताल्लोकेकेषु सप्तस्वपि तथ्यमेतत्।
नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्नच कश्चिदन्यः॥
व्या.—इदानीं निष्कृष्टमर्थमाह—सत्यमिति—किं बहुना। हे जनाः। सत्यं वच्मि यथार्थं ब्रवीमि। पक्षपातात् वैषम्यान्न वच्मि। सप्तसु लोकेष्वप्येतदेव तथ्यमित्यर्थः। किमेतदित्यत आह - नितम्बिनीभ्यस्तरुणीभ्यः। मनोहारि मनोहरं वस्तु। नास्ति। तथा ताभ्योऽन्य इत्तरः। दुःखानामेकहेतुर्मुख्यकारणं च नास्ति - ‘को भोगो रमणीं विने’त्यादिना भोगैकसाधनत्वात् - ‘बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः’ इत्यनर्थमूलत्वाच्च नितम्बिनीनामेव परमसुखदुःखैकनिदानत्वादिति भावः॥
अत्र सप्तश्लोक्या पक्षद्वयनिरूपणस्यायमभिप्रायः - अखण्ड - निरतिशयानन्दावाप्तिलक्षणत्वेनाभ्यर्हितत्वान्मुख्यो मोक्षः पुरुषार्थ इति सकलमतसिद्धान्तः। प्रसूतिभाजो विश्वस्य स्त्रीपुंसाभ्यामेव निष्पन्नत्वात्कामस्य पितृऋणविमोचन हेतुभूततया सततं महापुरुषपरिग्रहात्पुरुषार्थत्वमिति नन्दिकेश्वरश्वेतकेतु पाञ्चालवात्स्याय नादि पूर्वसिद्धान्तः; एवं च सति ‘पूर्वालाभे परः पर’ इति न्यायान्मुख्य-
कल्पालाभेऽनुकल्पस्यापि विहितत्वान्मोक्षपुरुषार्थ साधनप्रवृत्त्यलाभे कामपुरुषार्थसाधनेषु वा अवश्यं प्रवृत्तिः कर्तव्येत्यनुसंधायैवमुपन्यस्तमिति॥
तत्र नितम्बिन्यतिरिक्तरम्यवस्त्वनर्थहेत्वो स्सत्यपि संबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिभेदः। इन्द्रवज्रा-‘स्यादिन्द्रवज्रा यदितौजगौ गः। उपेन्द्र वज्राजतजा स्ततो गौ’ इति लक्षणात्॥
इति शृङ्गारशतके पक्षद्वयनिरूपणं सम्पूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1723707260Screenshot2024-08-15150514.png"/>
॥कामिनीगर्हणम्॥
कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युत्तम
त्पीनोत्तुङ्गपयोधरेति सुमुखा भोजेति सुभ्रूरिति।
दृष्ट्वा मुह्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रिय महो मोहस्य दुश्चेष्टितम्॥४१॥
व्या—यदुक्तं ‘दुःखैकहेतुर्नच कश्चिदन्य’ इति तदेव प्रपञ्चयितुमिदानीं कामिनीगर्हणमारभते - अथ कामिनीगर्हणमिति - अथ संभोगनिरूपणानन्तरं कामिनीविगर्हणं कामिनीनिन्दा आविंशतिसमाप्ति क्रियत इति शेषः। ननु शृङ्गारालम्बनत्वेन प्रसिद्धा नां कामिनीनां गर्हणे शृङ्गारवर्णनप्रतिज्ञाभङ्गः प्रसज्येतेति चेन्न। शिशुपालादिकृतभगवद्गर्हणस्य पुरुषार्थपर्यवसानवत्कामिनीगर्हणस्यापि यथाकथंचिच्छृङ्गारवर्णन एव पर्यवसानान्न कोऽपि विरोध इति मन्तव्यम्। तत्प्रकारमेव विवृणोति.—कान्तेति - वेत्तीति विद्वान्
सारासारविचारचतुरः - ज्ञानवानपीत्यर्थः - किमुतान्य इति भावः* ‘विदे श्शतु र्वसुरि’ ति वस्वादेशः। प्रत्यक्षेणाशुचिभस्त्रिकां अपवित्रचर्मपुटं * स्वार्थे कः* ‘प्रत्ययस्थात्कात्पूर्वस्ये’ त्यादिना इकारादेशः* ‘भस्त्रैषाजाज्ञे’ त्यादिना वैकलपिकः - ‘पुत्रिका’मिति पाठे - अशुचिपाञ्चालिकां अत्यन्तजुगुप्सितरूपामित्यर्थः - तदुक्तं—
‘हासोऽस्थिसंदर्शनमक्षियुग्ममत्युज्ज्वलं तत्कलुषावसायाः।
स्तनौ च पीनौ पिशितास्रपिण्डौ स्थानान्तरे किं नरकेणयोषित्’॥ ** इति॥ **
इत्थं भूतां स्त्रियं ‘वाम्शसो’ रिति विकल्पा दियङादेशः। दृष्ट्वा।कान्ता कमनीयेति मनोहरेति वा-नि। ‘कान्तं मनोहरं रुच्यमि’ त्यमरः। उत्पलेइन्दीवरे इव लोचने यस्यास्सा तथोक्तेति। विपुल श्रोणीभरा पृथुल नितम्बविम्बेति। उन्नमन्तादूर्ध्वमुत्पतन्ता विवस्थितौ - कुतः - पीनौ पीवरौ उत्तुङ्गा वुन्नतौ च - पयोधरौ स्तनौयस्या स्सा तथोक्तेति - नि। ‘स्त्रीस्तनाब्दौ पयोधरा वि’ यमरः। सुमुखाम्भोजा सुन्दरवदनारविन्देति। शोभने मदनकार्मुकरुधिरे। भ्रुवौ यस्या स्सा तथोक्तेति च माद्यति मत्तो भवति। मोदते हृष्यतिअभिरमते क्रीडति * अभिपूर्वा द्रमते र्लटि तड्.* व्याङ्परिपूर्वस्यैव परस्मैपदित्वनियमात्। प्रस्तौति उक्तप्रकारेण प्रकारान्तरेण वा अभिष्टौति। अतः। मोहस्याविद्याया दुश्चेष्टितं दुर्विलसितं। अहो विद्वांसमपीदृगवस्थापन्नं करोतीत्याश्चर्यमित्यर्थः; एतत्सर्वं व्यामोहमूलमेव। तस्य दुरवच्छेदत्वादिति भावः; यद्यपि—
अमेध्यपूर्णं क्रिमिजन्तुसंकुलं स्वभावदुर्गन्धमशैचमध्रुवम्।
कलेबरे मूत्रपुरीषभाजने रमेत मूढो न रमेत पण्डितः’॥
इति वचनात्पण्डितस्येत्थं जुगुप्सितकामिनीकलेबरे रमणमेव नास्ति। तथाऽपि मोहस्यात्यन्तप्राबल्य प्रकटनार्थमित्थ मुक्तमित्यवगन्तव्यम्॥
अत्र क्रियाणां बह्वीनां समुच्चितत्वात्क्रियासमुच्चयालंकारः - एक विषयः - ‘गुणक्रियायौगपद्यमलंकार स्समुच्चयः’ इति लक्षणात्॥
शार्दूलविक्रीडितम् - ‘सूर्याश्वैर्मसजस्ततास्सगुरवः शार्दूलविक्रीडितम्’॥
स्मृता भवति तापाय दृष्टा चोन्मादकारिणी।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम्॥४२॥
व्या.—अथ त्रिभिरानुष्ठुभैः स्वरूपं दूषयति - स्मृतेति.—या स्मृता सदृशदृष्टिचिन्तादिस्मृतिबीजोद्बोधकसद्भाववशात्प्रवासे कदाचित्स्मरणविषयकृता सती। तापाय भवतीत्यर्थः। ततः दृष्टा सती। उन्मादकारिणी चित्तभ्रमकरी भवति। स्पृष्टा। आलिङ्गिता सती।मोहाय भवति बहिः प्रपञ्चविस्मरणकारिणी भवति। अतस्सा वधूः। कथं नाम कुतो वा-दयिता प्रियतमा न कथंचिदपीत्यर्थः। किं तु उक्तबह्वनर्थहेतुभूतत्वात् अप्रियतमैवेति भावः॥
अत्र ‘स्मृता भवति तापाये’ति पदार्थानां विशेषणगत्या तुरीयपादस्थपदार्थं प्रति हेतुत्वात्काव्यलिङ्गभेदः॥
तावदेवामृतमयीयावल्लोचनगोचरा।
चक्षुष्पथा दतीता तु विषादप्यतिरिच्यते॥४३॥
व्या.—तावदिति - तावदेव तावत्पर्यन्तमेवामृतमयी अमृतोपमाना तद्वन्मधुरतरेत्यर्थः - बधूरिति शेषः * ‘तत्प्रकृतिवचने मयट्’* ‘टिढ्ढाणञि’त्यादिना ङीप्’ कियत्पर्यन्तमित्यत आह - यावद्यावत्पर्यन्तं। लोचनगोचरा चक्षुर्विषया भवति तावदिति संबन्धः। व्यतिरेके तु नैवमित्याह - चक्षुष्पथात् लोचनमार्गात् * ‘ऋ
क्यूरि’ - त्यादिना समासान्तः। अतीता तु अतिक्रान्ता चेद्विषात्काल - कूटादप्यतिरिच्यते अतिरिक्ता भवति - तद्वत्प्राणप्रयासकारिणी भवतीत्यर्थः॥
अत्र वध्वा अमृतमयत्वविषातिरिच्यमानत्वासंबन्धेऽपि तत्संबन्धाभिधानादसंबन्धे संबन्धरूपाऽतिशयोक्तिः॥
नामृतं न विषं किंचिदेतां मुक्त्वा नितन्बिनीम्।
सैवामृतलता युक्ता विरक्ता विषवल्लरी॥४४॥
व्या.—उक्तमेवार्थं भङ्ग्यन्तरेणाह - नेति—एतां नितम्बिनीं मुक्त्वा विहाय। अमृतममृतशब्दवाच्यं। किंचिद्वस्तु - नास्ति। विषं विषशब्दवाच्यमपि किंचिन्नास्ति। इयमेवामृतप्राया विषप्राया चेत्यर्थः। कुत एतदित्याशङ्क्य तत्त्वं साधयति - रक्ताऽरागवती चेत्। सैव नितम्बिन्येव।अमृतलता संजीवनी भवतीत्यर्थः। विरक्ता अनुरागरहिता चेद्विषवल्लरी विषलताञ्जरी - नि। ‘वल्लरी मञ्जरी स्त्रियामि’त्यमरः - प्राणापहारणी भवतात्यथः।
अत्र नितम्बिनीव्यतिरेकेणमृतविषयोरस्तित्वसंबन्धेऽप्यसंबन्धकथनात् संबन्धे असंबन्धरूपातिशयोक्तिः। तथोत्तरार्धे तस्या मोहामृतलतात्वविषवल्लरीत्वरूपणाद्रूपकालंकारः। सच रक्तत्वविरक्तत्व
पदार्थहेतुक काव्यलिङ्गोत्थितः सन्पूर्वातिशयोक्तिमुज्जीवयतीति संकरः॥
प्रायेणैकार्थमप्यनेकं श्लोकमुक्तिविशेषलोभाल्लिखन्ति कवयः - यथा नैषधे. ‘आदावेव निपीये’त्यादि श्लोकद्वयं। यथा च माघे - ‘प्रसाधितस्ये’त्यादि लोकद्वयमित्यादि॥
आवर्तः संशयानामविनयभवनं पट्टणं साहसानां
दोषाणां सविधानं कपटशतमयं क्षेत्रमप्रत्ययानाम्।
स्वर्गद्वारस्य विघ्नोनरकपुरमुखं सर्वमायाकरण्डं
स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः॥४५॥
व्या.—अथ स्त्रीयन्त्रस्रष्टारं दूषयति - आवर्त इति.—संशयानां संदेहानामावर्तः परिपाकः — सकलदेहास्पदीभूतमित्यर्थः। अविनयानां भुवनं लोकः। साहसानां पट्टणं नगरं। दोषाणां रागद्वेषादीनां सन्निधानमक्षयनिधिः - कदाचिदप्यत्र दोषा न क्षीयन्त इति भावः। कपटशतमयमनेककैतवप्रचुरं। वहुविध कैतवान्यत्रैव प्राचुर्येण वर्तन्त इति भावः। * प्राचुर्ये मयट्। अप्रत्ययानामविश्वासानां - नि! ‘प्रत्ययोऽधीनशपथज्ञानविश्वासहेतु- ष्वि’त्यमरः। क्षेत्रमुत्पत्तिभूमिः - अनेकाप्रत्ययोत्पादकमित्यर्थः। स्वर्गद्वारस्य स्वर्गलोकप्राप्तिसाधनस्य। विघ्नःप्रतिबन्धः। नरकपुरमुखं यमलोकद्वारं - तत्प्रापकमित्यर्थः - नि। ‘मुखं तु वदने मुख्ये ताम्रे द्वाराभ्युपाययो रि’ति यादवः। सर्वमायाकरण्डमशेषशाम्बरीविद्येन्द्रजालमहेन्द्र जालपेटिकेत्यर्थः। अमृतमयं सुधारूपं-विषं बहिरमृतवत्प्रतीयमानं विचार्यमाणे विषप्रायमित्यर्थः। लोकस्य
जनसमुदायस्य। पाशो बन्धनसाधनं। स्त्रीयन्त्रं स्त्रीरूपकलिकं। केन सृष्टं निर्मितं। ईदृगनर्थाशययन्त्रनिर्मातृत्वेन अस्य कुत्सितत्वमेवेत्यर्थः अत एव केनेत्युक्तं। यद्वा यद्यपि ब्रह्मणैव सृष्टं तथाऽपि ईदृग्दुर्यन्त्रनिर्मातृत्वेन तस्य नामोच्चारणमपि कर्तुं न युज्यत इति केनेत्युक्तम्॥
अत्र स्त्रीयन्त्रे पट्टणादिरूपणान्निरवयवरूपकालंकारः - तदुक्तम्—
‘आरोपविषयस्य स्यादतिरोहितरूपिणः।
उपरञ्जकमारोप्यमाणं तद्रूपकम् मतम्’॥ हति’॥
स्रग्धरावृत्तम्॥
नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर
द्वन्द्वं लोचनतां गतं न कनकै रप्यङ्गयष्टिः कृता।
किं त्वेयंकविभिः प्रतारितमनास्तत्त्वंविज्ञानन्मपि
त्वङ्मांसास्थिमयं वपु र्मृगदृशां मन्दोजनः सेवते॥४६॥
व्या—इत्थमनर्थैकतन्त्रमपि स्त्रीयन्त्रं कविवाक्प्रपञ्चवञ्चितो मूढोऽनुवर्तत इत्याह-नो इति.—एषपरिदृश्यमानो मृगाङ्कश्चन्द्र स्सत्येन यथार्थेन। अवदनं वदनं संपद्यमानो वदनीभूतः वदनत्वेन परिणत इत्यर्थः - नो न भवतीति शेषः * अभूततद्भावे च्विः*‘ऊर्यादिच्विडाचश्चे’ ति गतिसंज्ञायां * ‘कुगतिप्रादय’ शेत समासः। तथा इन्दीवरद्वन्द्वं नीलोत्पलयुगलं* ‘द्वन्द्वं रहस्ये’त्यादिना निपातः। लोचनतां लोचनभावं च - न गतं * ‘तस्य भाव स्त्वतला वि’ति तल् प्रत्ययः। तथा कनकैस्सुवर्णदलेः - यथा चाम्पेयप्रसूनैरित्यर्थः - ‘काऽपि चाम्पेयगौरी’ति पद्मिनीस्वरूपनिरूप—
णात्- नि. ‘अथ चाम्पेयश्चम्पको हेमपुष्पक’इत्यमरः* ‘पुष्पमूलेषु बहुव्ठमि’ति लुक्। अङ्गयष्टिर्गात्रयष्टिरपि। न कृता न निर्मिता। किं त्वेवमुक्त प्रकारेण वदनं चन्द्र इत्याद्याकारेणेत्यर्थःकविभिः प्रगल्भवचनैः कवीश्वरैः। प्रतारितमना वञ्चितचित्तः - विमोहितस्मन्निति यावत्। मन्दो मूढो जनः। तत्त्वं जानन्नपि नत्विदं चन्द्रः किं तु तत्साम्येन तथा व्यपदिश्यत इति विदन्नपीत्यर्थः। त्वङ्मांसास्थिमयमत्यन्तजुगुप्सितमपीत्यर्थः। मृगदृशां स्त्रीणां। वपुः कलेबरं सेवते संभोगार्थमाश्रयते। विद्वांस्तुनैवमिति भावः॥
अत्रप्रतारितमनःपदार्थस्य जुगुप्सितवपुराश्रयणपदार्थं प्रति हेतुत्वात्काव्यलिङ्गभेदः॥
शार्दूलविक्रीडितम्॥
लीलावतादांस
ज्जाविलासा
स्त एवमूढस्य हृदि स्फुरन्ति।
रागो नव्ठिन्या हि निसर्गसिद्ध
स्तत्र भ्रमत्येव मुधा षडङ्घ्रिः॥४७॥
व्या.—अथ पुरुषाणां भ्रान्तिंसदृष्टान्तमाह - लीलावतीनामिति.—लीलावतीनां विलासिनीनां। विलासाः विभ्रमास्सहजा नैसर्गिकाः अत एव।तेविलासाः। मूढस्याज्ञस्य। हृदि स्फुरति आत्मगोचरा इमे विलासा इति बुद्ध्यासर्वदा हृदयपरिस्फुरितभवन्तीत्यर्थः। एतच्च तथैवेति भावः; तथाहि - नव्ठिन्याः। रागो रक्तिता - अनुरागश्च। निसर्गसिद्धः। किंतु। पडङ्घ्रिः षट्पदः विटश्चध्वन्यते। वृथा व्यर्थमेव। तत्र नलिन्यां। भ्रमति रागोऽयं मद्गोचर
इति भ्रान्त्या पर्यटति - वस्तुतस्तु न तथा। अतो व्यर्थमस्य भ्रमण - मितिभावः॥
अत्र वाक्यद्वये बिम्बप्रतिबिम्बभावेन साम्यनिर्देशाद्दृष्टान्तालंकारः॥
‘यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते।
सामान्यधर्मो वाक्यज्ञैस्स दृष्टान्तो निगद्यते’ इति लक्षणात्**;**
अयं च रागयोर्द्वयोर्भेदेऽपि श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तिनिर्व्यूढभ्रान्तिमदुज्जीवितया प्रस्तुतनलिनी- षट्पदविशेषणसाम्यादप्रस्तुतकामिनीविटप्रतीतिगोचरसमासोक्त्याऽङ्गेन संकीर्यते॥
वृत्तमुपजातिः॥
यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृति परं
मुखाब्जं तन्वङ्ग्याःकिल वसति यत्राधरमधु।
इदं तत्किंपाकद्रुतफलमिदानीमतिरसं
व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम्॥४८॥
व्या.—अथापातरमणीयरमणीमुखावलोकनेन न विमोहितव्यमित्याह - यदिति—यदेतद्वर्णनीयं तन्वङ्ग्याः तरुण्याः। मुखमब्जमिव मुखाब्जं वक्त्रपद्मं कर्तृ। पूर्णेन्दोः पूर्णचन्द्रस्य - द्युतिहरं कान्तिचोरकं - तत्कल्पमित्यर्थः - अब्जस्य पूर्णेन्दुद्युतिहरत्वं - विरुद्धमिति ध्वनिः। तथा। परमत्यन्त मुदारा रम्या -आकृतिराकारोयस्य तत्तथोक्तं। किंच यत्र मुखाब्जे।अधरमधरोष्ठसंबन्धि - मधु मकरन्दः अमृतं वा वसति आस्ति किल - किलेति वार्तायां न तु
कदाऽप्यनुभूतमित्यर्थः - प्रसिद्धाब्जे तु मकरन्दो वर्तते - मुखाब्जे तुवार्तामात्रमेव न तु वस्तुतस्तदस्तीति भावः। तदिदं वक्त्रपद्ममिदानीं अस्मिन् समये प्रारंभकाल इत्यर्थः। अतिरसमतिशयित - माधुर्यगुणयुक्तं रुचिरतरमिति यावत्। किं किमप्यनिर्वाच्यमित्यर्थः - पाकद्रुमस्य बालरसालादिवृक्षस्य - फलम् - अतिरसबालवृक्षफलस्यै - वेत्येतन्निर्देशः - नि. ‘पोतः पाकेऽर्भको डिम्भ’इत्यमरः। यद्वापाकद्रुमफलं पचेलिमवुक्षविशेषफलमित्यर्थ - तथाभूतस्यैवात्यन्तरस - वत्वादिति भावः। यद्व। किम्पाकमीषत्पक्वंद्रुमफलं तथाभूतस्यैव रुचिविशेषास्पदत्वादिति भावः। अथवा किंपाकाख्यो द्रमः यस्य फलमापातमधुरं परिणामविषमं च तस्य किं पाकद्रुमस्य - फलं तत्कल्पमित्यर्थः। किंपाकशब्दो निघण्ट्वन्तरेषु मृग्यः। तस्य। रसालादिवृक्षविशेष वाचकत्वे तु कविरेव प्रमाणं। अस्मिन् प्रवर्तमाने काले।व्यतीते अतिक्रान्ते सति विपमिव गरव्ठमिव असुखदं स्वलावण्यदर्शनजनित सम्मोहेन विवेकभ्रंशे विहिताकरणात्प्रत्यवाये वाऽत्यन्तदुःखप्रदमित्यर्थः। भविष्यति। तथा च कालान्तरेऽवश्यं दुःखजनकत्वात्तादात्विकसुखलोभेन तरुणीवदनपद्मं न विश्वसनीयमिति भावः॥शिखरिणीवृत्तम्॥
[किंपाकशब्दश्च ‘विषमुष्टौ निरर्थक चे’ति शब्दरत्नेकोशे वर्तते - तस्मात् रसालादिवृक्षान्तःपातित्वं न संभवतीति मन्तव्यम् ]
उन्मीलत्त्रिंवलीतरङ्गनिलया प्रोत्तुङ्गपीनस्तन
द्वन्द्वेनोद्गतचक्रवाकयुगला वक्त्राम्वुजोद्भासिनी।
कान्ताकारधरा तदीयमभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम्॥४९॥
व्या.—अथास्या अनर्थहेतुभूतनदीत्वनिरूपणेन परित्याज्य - त्वमाह - उन्मीलदिति.—तिस्रश्च ताः वल्यश्च त्रिवल्यः इति द्विगुसमासः - यथाह वामनः - ‘त्रिवलीशब्द संज्ञाचे’ ति सूत्रेण सप्तर्षय इतिव ‘द्दिक्संख्ये संज्ञायामि’ति संज्ञायां द्विगुः। उन्मीलन्त्य उत्पद्यमाना स्त्रिवल्यो वलित्रयमेव तरङ्गाः - यद्वा त्रित्वसंख्यावल्यस्त्रिवल्यः * उत्तरपदलोपी समासः - ता एव तरङ्गा ऊर्मयस्तेषां - निलया। प्रोत्तुङ्गावत्युन्नतौ - पीनौ पीवरौ च - यौ स्तनौ तयोर्द्वन्द्वेन युगलेन हेतुना। उद्गतमुच्चलच्चक्रवाकयुगलं चक्रवाकाख्यपक्षिविशेषयुग्मं - यस्याः - स्तनरूपचक्रवाकयुगलेत्यर्थः। वक्त्रमेवाम्बुजतेनोद्भासते अभीक्ष्णमिति तदुद्भासिनी ‘बहुलमाभीक्ष्ण्यमि’ति णिनिः अभितस्समन्तात्। क्रूरा कुटिलहृदया - नदीपक्षे क्रूरा वक्रगति प्रवाहा - अथवा - अभितस्सर्वतः प्रवर्तमानाः - क्रूरा नक्रादिक्रूरजन्तवो यस्यास्सा। कान्ताकारधरा - कान्तारूपधारिणी। इयं परिदृश्यमाना नदी। अत्रास्मिन् लोके। संसार एवार्णवः - तत्र मज्जनं - नापेक्षते नाभिलष्यते यदि। तदा अनपेक्षापक्षे - दूरेण संत्यज्यतां दूरतर एव विसृज्यतां * ‘दूरान्तिकार्थेभ्यो द्वितीयाचे’ति विकल्पात्तृतीया। अन्यथा तत्समाश्रयेण अर्णवमज्जनमेव सिद्धं स्यादिति भावः॥
अत्र समस्तवस्तुवर्ति सावयवरूपकालंकारः॥
शार्दूलविक्रीडितम्॥
जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः।
हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम्॥५०॥
व्या.—इतोऽपि न विश्वासार्हाः स्त्रिय इत्याह द्वाभ्यां - जल्पन्तीति - अन्येन सार्धमेकेन पुरुषेण सह। जल्पन्ति संलपन्ति। सविभ्रमास्सविलासा स्सत्यः। अन्यं पुरुषं। पश्यन्ति। हृद्गतं हृदयस्थमन्यं चिन्तयन्ति। अतो योषितां स्त्रीणां। प्रियः प्रियतमः नियत इति शेषः। को नाम - न कोऽपीत्यर्थः॥
अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषयाद्योषित्सर्पाद्विलासफणाभृतः।
इतरफणिना दष्ट श्शक्य श्चिकित्पितुमौषधै
श्चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः॥५१॥
व्या.—अथ योषितस्सर्पस्वरूपेण सखायं भीषयन् दूरादपसर्पणमुपदिशति - अपसरेति.—हे सखे बन्धो कटाक्षा अपाङ्गवीक्षणान्येव - विषानलो विषाग्निज्वाला - यस्य तस्मात्। प्रकृत्या विषमात् स्वभावत एव कुटिलात्* ‘प्रकृत्यादिभ्यस्तृतीयाचे’ति तृतीयासमासः। विलासा विभ्रमा-एव फणाः स्फटा-स्ता बिभर्तीति तथोक्ताम् - नि. ‘स्फटायां तु फणा द्वयोरि’त्यमरः। तस्माद्योषत्सर्पात्कामिनीरूपव्यालाद्दूरादपसर दूरं गच्छ - योषित्सर्पसमागमं माकुर्वित्यर्थः। अन्यथा तत्समागमेन दंशनप्रसङ्गाच्चिकित्साय] दुष्करत्वादिति भावः* ‘दूरान्तिकार्थेभ्यो द्वितीया चे’ति चकारात्पञ्चमी। तदेव प्रकटयति-इतरेति. इतरफणिना प्रसिद्धसर्पण। दष्टः पुमान्। औषधैः मूलिकामणिमन्त्रादिभिरित्यर्थः; चिकित्सितुं
विषावरोपणेनोज्जीवयितुं शक्यः। चतुरवनिताभोगिना निपुणतरुणसिर्पेण - ग्रस्तं दष्टंसमाक्रान्तं च पुरुषं तु - मन्त्रिणोमान्त्रिकाः विषवैद्या स्त्यजन्ति विसृजन्ति हि - तद्ग्रासजनितोन्मादस्य दुरवरोपणत्वादिति भावः॥
अत्रापि समस्तवस्तुवर्ति सावयवरूपकालंकारः; तेन चोपमानात्प्रसिद्धसर्पादुपमेयस्य योषित्सस्याधिक्यप्रतीतेर्व्यतिरेको व्यज्यत इत्यलंकारेणालंकारध्वनिः—हरिणीवृत्तम् - लक्षणं तूक्तम्॥
विस्तारितं मकरकेतनधीवरेण
स्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ।
येनाचिरात्तदधराभिषलोलमर्त्य
मत्स्यान्विकृष्य विषचत्यनुरागवह्नौ॥५२॥
व्या.—पुनः प्रकारान्तरेण भीषयति - विस्तारितमिति - मकरकेतनो मदन - एव धीवरः कैवर्तस्तेन कर्त्रा - नि. ‘कैवर्ते दाशधीवरावि’त्यमरः। अत्रास्मिन्। भवाम्बुराशौ संसारसागरे; स्त्रीसंज्ञाऽस्यसंजाता स्त्रीसंज्ञितं-योषिद्रूपमित्यर्थः - तारकादित्वादितच्। बडिशं मत्स्यवेधनं - मत्स्यगलग्राहकसामिषवक्रायोयन्त्रमित्यर्थः—नि.—‘बडिशं मत्स्यवेधन मि’त्यमरः। विस्तारितं प्रवर्तितं। येन स्त्रीबडिशेन। तस्य स्त्रीबडिशस्याधरमेवामिषं मांसखण्डं - तत्र लोला सतृष्णा - ये मर्त्या मनुजास्तएव - मत्स्या मीना स्तानचिराद्विकृष्य आकृष्यानुराग एव वह्निस्तत्र विपचति विशेषेण पक्वान् करोति - अत्यन्तं संतापयतीत्यर्थः। मन्मथधीवर एवेति शेषः। सोऽप्येतद्द्वारैव मनुजान्परिपीडयतीति भावः। अत्रापि पूर्ववद्रूपकालंकारः॥
वसन्ततिलका॥
कामिनीकायकान्तारे कुचपर्वतदुर्गमे।
मा सञ्चर मनःपान्थ! तत्रास्ते स्मरतस्करः॥५३॥
व्या.—अथ मानसं भीषयति - कामिनीति—पन्थानं गच्छति नित्यमिति पान्थो नित्यपथिकः* ‘पन्थो णनित्यमि’ति ण प्रत्ययः पन्थादेशश्च - मन एव पान्थः तस्य संबुद्धिः - हे मनःपान्थ। कुचावेव पर्वतौ ताभ्यां - दुर्गमे गन्तुमशक्ये। कामिन्याः - कायो देहस्स एव कान्तारमरण्यं - तत्र मा संचर संचारं मा कुरु - न प्रवर्तस्व इत्यर्थः। कुतस्तत्र कान्तारे स्मर एव तस्करः चोरः आस्ते वर्तते। स च मानसर्वस्वमपहरिष्यतीति भावः - नि.—‘चोरैकागारिकस्तेनदस्युतस्करमोषका’ इत्यमरः।* ‘तद्वहतोः करपत्योश्चोरदेवतयोस्सुट्तलोपश्चे’ति सुडागमतलोपौ॥
अलंकारस्तु पूर्ववत्॥
व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिवाहिना वरमहं दष्टो न तच्चक्षुषा।
दष्टस्सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न वा प्यौषधम्॥
व्या.—अथ त्रिभिः कस्यचिदनुभवमालक्ष्याह - व्यादीर्थेणेति—व्यादीर्घेण अत्यायतेन - अन्यत्र कर्णान्तविश्रान्तेन। चलेन चञ्चलप्रकृतिना। वक्रगतिना निसर्गकुटिलसंचारेण। समानमेतद्विशेषणद्वयं। तेजस्विना बलवता अत्युज्ज्वलेन च * प्रशंसायामिनिः।
भोगिना फणवता- नि.—‘भोगस्सुखे स्त्र्यादिभृतावहे श्चफणकाययोरि’त्यमरः- अन्यत्राभोगिनेति च्छेदः- विशालेनेत्यर्थः। नीलाब्जस्य नीलोत्पलस्य- द्युतिरिव द्युतिर्यस्य तेन- एकत्र तद्वर्णेन- अन्यत्र तत्सदृशेनेत्यर्थः। अहिना सर्पेण। परमत्यन्तम्- अहं दष्टः। किं तुतच्चक्षुषा तस्याः कामिन्याः चक्षुषा उक्तविशेषणेन। न दृष्ट इत्यर्थः। चिकित्सकाः वैद्या धर्मार्थिनः परोपकार एव प्रयोजनमेषामस्ति तथा भूतास्सन्तः। दिशि दिशि प्रतिदिशं* ‘नित्यवीप्सयोरि’ति वीप्सायां द्विर्भावः। प्रायेण भूम्ना- सन्ति सर्वत्र सन्तीत्यर्थः। किं तु। मुग्धायाः मुग्धाङ्गनायाः- यदक्षि- यद्वा मुग्धाक्षिसुन्दराबलोकनं- तेन सर्परूपेण- क्षणं क्षणमात्रं- वीक्षितस्य दृष्टस्य ग्रस्तस्येत्यर्थः- विक्षतस्येति पाठे दष्टस्येत्यर्थः। मे मम तु। वैद्यो न हि चिकित्सको नास्ति हि। औषधं विषहरभेषजमपि च। नास्तीत्यर्थः- अतो महामोहार्णवनिमज्जनमेव न तु तत्पारगमनमिति भावः॥
अत्र प्रसिद्धाह्यपेक्षया चक्षूरूपाहेराधिक्यकथनाद्व्यतिरेकालंकारः- ‘उपमानाद्यदन्यस्य व्यतिरेकस्सएव स’ इति लक्षणात्॥
इह हि मधुरगीतं नृत्तमेतद्रसोऽयं
स्फुरति परिमलोऽसौ स्पर्शएव स्तनानाम्।
इति हतपरमार्थैरिन्द्रियैर्भ्राभ्यमाणः
स्वहितकरणधूर्तौःपञ्चभिर्वञ्चितोऽस्मि॥५५॥
व्या.—इहेति.—इह हि तरूणीष्वेवेत्यर्थः- हि रत्रावधारणार्थकः- नि.—‘हि र्हेताववधारण इ’ त्यमरः। मधुरं संतापहरं श्रोत्रसुखावहमित्यर्थः। - ‘शीतलीक्रियते तापो येन तन्मधुरं स्मृत
मि’ति वचनात्त - तत्- गीतंगानं स्फुरति। एतन्नयनानन्दकरं। नृत्तं नाट्यं। स्फुरति। अयं रसनेन्द्रियस्वादातिशयप्रदः रसः अधरामृतं। स्फुरति। असौ घ्राणतर्पणः। परिमलः पद्मिनीजातिनिमित्तगन्धविशेषः घनसारगन्धसारादिलेपन- प्रयुक्तामोदविशेषो वा। स्फुरति। एष त्वगिन्द्रियसौख्यावह स्स्तनानां स्पर्शः। स्फुरति। * ‘स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेणे’ति वामनसूत्रे प्रायग्रहणाद्बहुवचनप्रयोगः। इत्येवंप्रकारेण। हतो विनष्टः - परमार्थस्तत्त्वार्थो - येषां तैः - विषयपरतन्त्रैरित्यर्थः। अत एव। स्वहितकरणे - धूर्तौःकितवैः - आत्महिताचरणतत्परैरिव स्थितैरित्यर्थः। पञ्चभिरिन्द्रियैः श्रोत्रादिभिः। भ्राम्यमाणस्तत्तद्विषयेष्वासज्यमानस्सन्वञ्चितः प्रतारितोऽस्मि। न चैतत्कैतवं प्रागेवाज्ञासिषमित्यर्थः॥ मालिनीवृत्तम्॥
नगम्यो मन्त्रागां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः।
भ्रमावेशादङ्गे कमपि विदधद्भ्रङ्गमसकृत्
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च॥५६॥
व्या.—अथाङ्गनाव्यामोहजनकं मन्मथं दूषयति—नेति.—मन्त्राणां गम्यो मन्त्रसाध्यो। न भवति। भैषज्यविषयः औषधाद्यपनेयश्च न भवति - भेषजमेव भैषज्यमिति विग्रहः * स्वार्थे ष्यञ्प्रत्ययः - नि.—‘भैषजौषधभैषज्यानी’त्यमरः। तथा विविधैर्नानाप्रकारैश्शान्तिकशतैरनेकशान्तिकर्मभिः। प्रध्वंसं विनाशं चापि। न व्रजति न गच्छति-
“पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते।
तच्छान्तिरौषधैर्दानै र्जपहोमार्चनादिभिः॥” इति स्मरणात् प्रसिद्धस्तु जपादिभिः शाम्येति न त्वयमिति भावः। किं तु भ्रमावेशान्मोहोत्पादनात्। अङ्गेशरीरे। कमप्यनिर्वाच्यं। भङ्गं जाड्यं। यद्वा। भ्रमावेशान्मतिभ्रंशापादनात्। अङ्गे करचरणाद्यवयवेष्वित्यर्थः। कमपि भङ्गं विक्षेपादिविकारमसकृद्बहुवारं। विदधत्कुर्वन्* दधातेर्विपूर्वाच्छतृप्रत्ययः* ‘नाभ्यस्ताच्छतु रि’ति नुमभावः। स्मरापस्मारः स्मरप्रयुक्ताङ्गनाव्यामोहरूपापस्माररोगः। दृशं मदीयदृष्टिं। भ्रमयति व्यत्यासयति - अतस्मिंस्तज्ज्ञानं करोतीत्यर्थः। तथा। घूर्णयति चक्रवद्भ्रामयति च। किमत्र करोमि कथमयं चिकित्स्य इति भावः। यदाहुर्नैदानिकाः—
क्रुद्धै र्धातुभिराहते च मनसि प्राणी तमस्संविशन्
दन्तान् खादति फेनमुद्वमति दोःपादौ क्षिपन मूढधीः।
पश्यन् रूपमसत्क्षितौ निपतति प्रायः करोति क्रिया
बीभत्साः स्वयमेव शाम्यति गते वेगे त्वपस्माररुक्॥
व्यतिरेकालंकारः॥लक्षणं तूक्तम्॥ शिखरिणीवृत्तम्॥
जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च।
यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः॥५७॥
व्या.—अथ त्रिभिः पण्याङ्गनागर्हणं कुर्वन्निगमयति.—जात्यन्धायेति-जात्यन्धाय जन्मप्रभृत्यवसन्नदृशे पुरुषाय च। दुष्कुलाय च।
दुर्मुखाय मुखराय बहुगर्ह्यभाषणदूषितवदनायेत्यर्थः - नि.—‘दुर्मुखे मुखराबद्धमुखा वि’त्यमरः। यद्वा-दुष्टं व्याध्यादिना जुगुप्सितं-दुर्गन्धयुक्तं वा-मुखं यस्य तस्मै। जरया विस्रसया - जीर्णानि शिथिलानि कृशानि विश्लथसन्धिबन्धानि च - अखिलाङ्गानि करचरणाद्यशेषावयवा - यस्य तस्मै च। ग्रामीणाय ग्रामान्तरादागताय - अज्ञातकुलगोत्राय पान्थाय चेत्यर्थः। किं बहुना - गलत् स्रंसमानं - कुष्ठं कुष्ठजनितपूयरक्तादि - तेनाभिभूताय - गर्हिताय च। लक्ष्मीलवश्रद्धया संपल्लेशप्राप्त्याशया। मनोहरमतिसुन्दरं। निजवपुः स्वशरीरं। यच्छन्तीष्वर्पयन्तीषु - चुम्बनाश्लेषणदन्तनखव्रणादिसंभोगार्थं तदधीनं कुर्वतीष्वित्यर्थः * ददाते ‘र्दाणदाने’ इत्यस्माद्धातोश्शतरि * ‘उगितश्चे’ति ङीप् * ‘पाघ्राध्मे’त्यादिना दाणो यच्छादेशः। तथा। विवेकः कर्तव्याकर्तव्यविचारस्स एवं कल्पलतिका - तस्या-श्शस्त्रीषु छुरिकासु-विवेकविच्छेदकरीष्वित्यर्थः- - विवेकस्याप्यखिलार्थसंघटकत्वात्कल्पलतिकारूपणमवग- न्तव्यं - नि—‘स्याच्छस्त्री चासिपुत्त्रीच च्छुरिका चासिधेनुके’त्यमरः * ‘बह्नादिभ्यश्चे’ति ङीप्। पण्यस्त्रीषु वेश्याङ्गना। कः पुमान् विवेकरहितोऽपीत्यर्थः। रज्येतानुरक्तो भवेन्नकोऽपीत्यर्थः - नि.—‘वारस्त्री गणिका वेश्या सुलावण्याङ्गना- पिचे’ति वैजयन्ती॥ शार्दूलविक्रीडितम्॥
वेश्यासौ मदनज्वाला रूपेन्धनसवेधिता।
कामिभि र्यत्रहूयन्ते यौवनानि धनानि च॥५८॥
व्या.—वेश्येति.—असौ वेश्यारूपं सौन्दर्यमेवेन्धनानि - तैः समिद्भिर्विवर्धिता प्रवर्धिता - मन्मथज्वाला मन्मथाग्निज्वाला - नि.—
‘इन्धनं त्वेध इध्ममेधस्समित्स्त्रियामि’त्यमरः। यत्र मदनज्वाला।रूपवेश्यायां। कामिभिः कामुकैः। यौवनानि नूतनवयांसि। * युवादित्वादण्प्रत्ययः। धनानि च। हूयन्ते हव्यरूपेण तत्सात्क्रियन्तेविलुप्यन्तइत्यर्थः। स्वर्गादिफलकाङ्क्षिभिराहवनीयाग्निज्वालायां हवींषीन्नेति भावः॥
अत्र वेश्यायायारोप्यमाणस्य ज्यालात्वस्य प्रकृतहवनोपयोगित्त्वात्परिणामालंकारः - ‘आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम’ इति लक्षणात्। स च रूपेन्धनेति रूपकेण संकीर्यते; रूपकत्वारोपणस्योपरञ्जकमात्रमेवेति विवेकः॥अनुष्टुप्॥
कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवंमनोज्ञमपि।
चारभटचोरचटेक नटविनिष्ठीवनशरावम्॥५९॥
व्या.—इति। मनोज्ञं सुन्दरमपि। वेश्याया-अधरः पल्लवमिव इत्युपमितसमासो न त्वधरः पल्लवमिति रूपकं रूपके तूत्तरपदप्राधान्येन तत्र चुम्बनायोगात्। कः कुलपुरुषः सत्कुलसंभवः पुमान् जातिनीतिकुलाचारधर्मज्ञ इत्यर्थः। चुम्बति न कोऽपीत्यर्थः। कुत एतदित्याशङ्कायामचुम्बनहेतुभूतं विशेषणमाह - जारा गूढपुरुषाः - भटा योधाः - चोरास्तस्कराः - चेटका स्त्रीपुरुषसंधानकुशलाः दौत्यकर्मनिरताः–विटाजारा–नटा भूमिकाघरास्तेषां पुरुषापशदानांनिष्ठीवनश- रावमुच्छिष्टपात्रं - परमापवित्रमित्यर्थः - चुम्बनसमये तदुच्छिष्टस्य तत्र संक्रमणादिति भावः। अत्र यद्यपि ‘रतिकालेमुखं स्त्रीणां शुद्धमाखेटके शुना मि’ति स्मरणात्सुरतसमये पवित्रमेव
स्त्रीमुखं तथाऽप्युक्तरीत्या कश्मलसंपर्कात् हेयतया चुम्बनानर्हत्वान्नचुम्बनीयमिति तात्पर्यम् - नि. - ‘शरावो वर्धमानक’ इत्यमरः॥
अत्र रूपकोपमानुप्रासानां संसृष्टिः॥
मधु तिष्ठति वाचि योषितांहृदि हालाहलमेव केवलम्।
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते॥६०॥
व्या.—स्त्रियः बाह्यमधुराः अन्तर्विषाः। अत एव सर्वथा त्याज्या एव न तु ग्राह्या इत्यभिप्रायेणाह - मध्विति.—योषितां स्त्रीणां। वाचि। मधु क्षौद्रं तिष्ठति हृदि हृदये। केवलं प्राधान्येन हालाहलमेव कालकूटविषमेव। अत एव अस्मात्कारणादेव।अधरः अधरोष्ठः। निपीयते अत्र मधु वर्तत इति मत्त्वैव सर्वजनैः आदृत्य नितरां पीयते हृदयं मुष्टिभिः - ताड्यते अत्र विषं वर्तत इति मत्वैव सर्वजनैः ताडनं क्रियते। अतः स्त्रियः स्ववचनेषु केवलंमधुधारास्राविण्यः - हृदये विषतुल्याभिप्रायवत्यश्च - इति पूर्वार्धे प्रदर्शितम्। उत्तरार्धे तु प्रथमपादे मधुग्रहणं च द्वितीयपादे हालाहलस्थानहृदयताडनं चेति प्रदर्शितमित्यभिप्रायः अत्र उत्प्रेक्षातिशयोक्तिकाव्यलिङ्ग ध्वनिभेदानां संसृष्टिः॥
इति शृङ्गारशतके कामिनीगर्हणं सम्पूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1723961292Screenshot2024-08-18133903.png"/>
॥सुविरक्तपद्धतिः॥
धन्यास्तएव धवलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम्।
क्षामोदरोपरि लसत्त्रिवलीलतानां
दृष्ट्वाऽऽकृतिं विकृतमेति मनो न येषाम्॥६१॥
व्या.—एवं तावत्कामिनीगर्हणं कृतं - किं विरक्तास्सन्ति वा नवेत्याशङ्कायां सन्त्येवेति मनसि निधाय तत्रापि सुविरक्तदुर्विरक्तभेदेनद्वैविध्यंप्रतिपादयिष्यन्नादौ सुविरक्तपद्धतिं वर्णयितुमुपक्रमते - धन्या इत्यादिभिर्नवभिः - धन्याः इति.—त एव पुरुषा। धन्याः सुकृतशालिनः सुविरक्ता इति यावत् - नि. ‘सुकृतिः पुण्यवान् धन्य’ इत्यमरः। ते क इत्याकाङ्क्षायामाह - धवले पुण्डरीकदलसदृशे - आयते कर्णान्तविश्रान्ते च - लोचने - यासां तासां। तारुण्यदर्पेण यौवनमदोद्रकेण - घनौ निबिडौ - पीनौ पीवरौ - पयोधरौ स्तनौ - यासां तासां। क्षामोदरस्यातिकृशमध्य- स्योपर्युपरिष्टाल्लसन्त्यः प्रकाशमानाः - यास्त्रिवल्यः - तिस्रश्च ता वलयश्च - त्रिवव्व्य*‘दिक्संख्ये संख्यायामि’ति समासः* संख्यापूर्वत्वेऽपि सप्तर्षयः’ इत्यादिवत् ज्ञेयमित्युक्तं प्राक्। ता लता इव - यासां तासांतेनैतासां पद्मिनीत्वं सूच्यते। तदुक्तं रतिरहस्ये - ‘त्रिवलिललित - मध्याहंसवाणी सुवेषे’ति क्षमेत्यत्र ‘क्षायो मः’ इति मत्वं तथा चेत्थंभूतरूपसंपन्नानां कामिनीनामाकृतिमाकार विशेषं - दृष्ट्वा ‘इङ्गितं हृद्गतो भावो बहिराकार आकृतिरि’ति सज्जनः। येषां पुरुषाणां मनो विकृतिं विकारं। तत्परतन्त्रत्वमिति यावत्। नैति न प्राप्नोति। अत एव धन्या इति संबन्धः। एवं निर्विकारचित्तत्वं शमसंपन्नानामेव नत्वन्येषामिति भावः। तदुक्तं ‘शमो वैराग्येन निर्विकारचित्तत्वमि’ति॥वसन्ततिलकावृत्तम्॥
बाले! लीलामुकुव्ठितममी मन्थरा दृष्टिपाताः
किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते।
सम्प्रत्यन्ये वयमुपरतं बाल्यमास्था वनान्ते
क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः॥६२॥
व्या.—अथ पूर्वोपभुक्तकामिनीसंबोधनव्याजेन सुविरक्ततां प्रकटयति - बाले लीलामुकुव्ठितमिति.—हे बाले मुग्धे। लीलया विलासवैचित्र्या - मुकुलितान्यर्धमीलनानि - यस्मिन् कर्मणि तद्यथा तथा। मन्थरा अलसप्रायाः। अमी। दृष्टिपाता विलोकनप्रसाराः। किं किमर्थं। क्षिप्यन्ते विकीर्यन्ते - नाविक्षेप्या इत्यर्थः। किंतु। विरम विरम अभीक्ष्णं विरम - दृष्टिविक्षेपादिति शेषः * आभीक्ष्ण्ये द्विर्भावः* ‘व्याङ्परिभ्यो रम’ इति परस्मैपदं। कुतः - एषोऽयं ते श्रमः कटाक्षविक्षेपजनितायासो व्यर्थो निरर्थकः - अभिमतफलानिष्पत्तेरिति भावः; नन्वेतावत्पर्यन्तं मदायत्ताचित्तेषु युष्मासु कथं फलासिद्धिरित्यत आहुः - संप्रतीदानीं। वयमन्ये परे - त्वद्विलासलालसत्वेन संमोहितास्तदानींतनाः इदानीं न भवाम इत्यर्थः। कुतः। बाल्यमुपरतं नष्टं - बाल्यशब्देन यौवनं लक्ष्यते - त्वत्पारतन्त्र्यकारियौवनमुपरतमित्यर्थः। यद्वा - बाल्यमविवेकित्वमुपरतं। किंत्वास्था परिशीलनादरः। वनान्ते अरण्यमध्ये - वर्तत इति शेषः - किं तु त्वयि रागं परित्यज्य वैराग्येण वनवासमपेक्षामह इत्यर्थः। तत्कुतः - मोहः अज्ञान। क्षीणो ध्वस्तः - त्वदासङ्गजननहेतुर्निर्मूलोऽभूदित्यर्थः। अतो जगज्जालमशेषप्रपञ्चं। तृणमिव निस्सारमालोकयामः - ‘निस्पृहस्य तृणं जगदि’ति लक्ष -
णात्तथा पश्यामः। इदानीं ज्ञानोदयवशाच्च मनस्सुखातिरिक्तं सर्वं तुच्छमनुसंदध्म इत्यर्थः। अतस्त्वया न प्रेक्षणीयमिति भावः॥
मन्दाक्रान्तावृत्तम्- लक्षणमुक्तं- ‘मन्दक्रान्ता जलधिषडगैर्मो भनौ तौ गुरूचेत्’॥
इयं बाला मां प्रत्यनवरतमिन्दीवरदल
प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया।
गतो मोहोऽस्माकं स्मरकुसुमबाणव्यतिकर
ज्वरज्वाला शान्तातदपि न वराकी विरमति॥६३॥
व्या.—उक्तमेवार्थं भङ्ग्यन्तरेणाह- इयमिति.—इयमेषा बाला- मुग्धा। मां प्रति मामुद्दिश्यानवरतमविच्छिन्नं यथा तथा। इन्दीवरदलप्रभाचोरमिन्दीवरपत्रकान्तिमोषकं- तत्कल्पमित्यर्थः। चक्षुः। क्षिपति प्रसारयति। अनया बालया। किमभिप्रेतमपेक्षितं- तन्नजानामीत्यर्थः। ननु तया त्वत्सङ्गएवापेक्षितस्तत् कुतो न जानासीत्याशङ्कायामाह- अस्माकं मोहो गतः उपरतः इदानीमिति शेषः। ननु पूर्वं मामित्येकवचनं प्रयुज्यास्माकमितीदानीं बहुवचनप्रयोगात्कथं सामानाधिकरण्यमुपपद्यत इति चेत्तथाऽपि निवृत्तिमार्गोत्सुकत्वप्रयुक्तात्मसंभावनया बहूकरणं न दोषायेति समाधेयं। यद्वाऽस्मानिति समुदायनिर्देशेन वा न दोषः। तथा स्मर एव- शबरः किरातस्तस्य- बाणव्यतिकरेण शरसंपर्केण- यो- ज्वरस्संतापस्तस्य ज्वाला शान्ता विरतेत्यर्थः। तदपि तथाऽपि। वराकी। न विर मति विरतिं न प्राप्नोति। पूर्वं प्राणप्रियतया गरीयस्यां बालायां वरा
कीशब्दप्रयोगेणास्यात्यन्तवैराग्यं सूच्यते *‘जल्पभिक्षकुट्टलुण्टे’त्यादिना षाकन्प्रत्यये षित्वान्ङीष्प्रत्यये च वराकीति सिद्धम्॥
शिखरिणी वृत्तम्॥
रे कन्दर्प करं कदर्थयसि किं कोदण्डटङ्कारितैः
रे रेकोकिल कोमलैः कलरवैःकिं वा वृथा जल्पसि।
मुग्धे स्निग्धविदग्धमुग्धमधुरैर्लोलः कटाक्षैरलं
चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते॥६४॥
व्या.—संप्रति साटोपपरिवारकंदर्पनिराकरणवचनमाह—किमिति.—रे कंदर्प हे मदन - रे इति नीचसंबोधने - नि. ‘नीच संबोधने तु रे’ इत्यमरः! एवमुत्तरत्रापि। कोदण्डटंकारितं कोदण्डटंकारवत्कृतं - धनुर्गुगटंकारपूर्वकमित्यर्थः* ‘तत्करोती’ति णिचिणाविष्टद्भावे ‘विन्मतोर्लुक।’ शरं त्वदीयबाणं। किं किमर्थं। कुस्ति तोऽर्थः कदर्थः ‘कोः कत्तत्पुरुषेऽची’ति कुशब्दस्य कदादेशः - कदर्थं करोषि कदर्थयसि - व्यर्थयसीत्यथः धात्वर्थे णिचि सिप्। तथा। रे रे कोकिल हे कलकण्ठ। अत्र * ‘असूया सम्मति कोपकुत्सनभर्त्सनेष्वि’ त्यसूयार्थे कोपाद्यर्थे द्विरुक्तिः - ‘स्वरितमाम्रेडित’ इत्यादिना प्राप्तस्य प्लुतस्य * ‘साहसमनिच्छता विभाषा वक्तव्य’ इति पाक्षिकः प्रतिषेधः - ‘शास्त्रत्यागस्साहसमि’ति हरदत्तः। कोमलंरुचिरं। कलरवंमधुरस्वरं - नि. ‘काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे कल’ इत्यमरः। किं किमर्थं वा। वृथा व्यर्थंजल्पसि कूजसि व्याहरसीति यावत् - न व्याहर्तव्यमित्यर्थः - प्रयोजनाभावादिति भावः। तथा मुग्धे हे सुन्दरि। स्निग्धा स्सान्द्राः—
नि. ‘स्निग्धं तु मसृणे सान्द्रे’ इत्यमरः - विदग्धाः विविधविलासविशेष विवरणनिपुणाः - चारवः इन्दीवरारविन्दादि- वत्स्वभावरमणीयाः - मधुरास्सुधाधारावन्मनोहराश्च - विशेषणानामपि मिथोविशेषणविशेष्यभावविवक्षायां * ‘विशेषणं विशेष्येण बहुलमि’ति समासः - तैस्तथा। लोलैर्निसर्गचञ्चलैः। कटाक्षैरपाङ्गावलोकनैरलं - यद्वा स्निग्धैः—
‘विस्रम्भे परमां काष्टामारूढे दर्शनादिभिः।
येनान्तरङ्गंद्रवति स स्नेह इति कथ्यते’॥
इत्युक्तलक्षणस्नेहपरिष्कृतैः - तथा - विदग्धैः विरक्तस्यापि मन्मथविकारोद्दीपनचतुरैरित्यर्थः - ‘यद्दर्शने विरक्तोऽपि क्षुभ्यते तत्समन्मथमि’ति लक्षणात्तथा - चारुभिः विषयमात्रविश्रान्तिविरहेण विशृङ्खलवृत्तित्वमदमन्थरत्वादिगुण- शालित्वस्य विवक्षितत्वात् स्मिताकारैरित्यर्थः - तदुक्तं भावप्रकाशे -
**“अपरिच्छिन्नविषयं मदमन्थरमीलितं।
स्फुरद्भूपक्षतायुक्तं तत् स्मेरमिति कथ्यते॥” ** इति॥
तथा - मधुरैस्संतापहरैः - ‘शीतलीक्रियते तापो येन तन्मधुरं स्मृतमि’ति लक्षणात्। तथा। लोलैस्सतृष्णै - स्संभोगौत्सुक्यभावनातत्परैरित्यर्थः - तदुक्तं.—‘कटाक्षैर्हासगर्भैस्तु संभोगौत्सुक्यभावने’ति। कटाक्षैः—
“यद्गतागतविश्रान्तिवैचित्र्येण प्रवर्तनं।
तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते॥
इत्युक्तलक्षणैरलं इत्थंभूतकटाक्षा न प्रवर्तनीया इत्यर्थः * अत्र वारणार्थयोगात् पक्षे तृतीया। ननु कुत एवं निराक्रियत इति चेत्तत्राह - चेतो - मदीयचित्तं कर्तृ। चुम्बितमास्वाद्यमानं - चन्द्रचूडस्य चन्द्रशेखरस्य - चरणध्यानमेवामृतं - येन तत्तथोक्तं सत्। वर्तते तिष्ठति - स्मरहरचरणध्यानावधानसत्वर संजातपरमवैराग्योल्लसितचित्तं मामेते क्षुद्राः किं करिष्यन्तीत्येको भावः - अमृतपान - परितृप्तस्य किमारनालेनेत्यपरो भावः - ब्रह्मानन्दभरितस्य किं वैषयिकक्षुद्रानन्देनेत्यपरतरो भावः - नाहमिदानीं पूर्ववद्युष्मकिंकरः किंतु शंकरकिंकरः - अतोऽसाध्यस्सिसाधयिषतां युष्माकं कोऽयमपस्मार इत्यपरतमो भावः - सर्वथा नास्माकं कामिन्यपेक्षाऽस्तीति परमोभावः॥शार्दूलविक्रीडितम्॥
विरहेऽपि सङ्गतः खलु परस्परं सङ्गतं मनो येषाम्।
हृदयमपि विघटितं चेत् सङ्गो विरहं विशेषयति॥६५॥
व्या.—अथ पञ्चविषयविरक्तिप्रकारमाह - विरह इति.—येषां स्त्रीपुरुषाणां। मनः परस्परमन्योन्यं। संगतं अन्योन्यानुरागबद्धमित्यर्थः। तेषां। विरहेऽपि वियोगावस्थायामपि। संगमः खलु समागम एष खलु ‘हृदयसंगम एव सुसंगमो न तनुसंगम एव सुसंगम’ इति वचनात् - अन्तरङ्गबलीयस्त्वन्यायाच्चेति भावः - मनोनियमने तु सङ्गः विरहहेतुक एव भवतीत्याह - हृदयमपि मनोऽपि। विघट्टितं सम्यक्क्षतं - वैराग्यप्रवणीकृतं चेत्यर्थः। सङ्ग स्समागमोऽपि विरहं वियोगमेव। विशेषयति विशिष्टं करोति - तमेवापेक्षाविषयं करोतीत्यर्थः - तदानीं तस्यैवाक्षतत्वादिति भावः—
अतः सर्वथा मनोनियमनमावश्यकं - तेन चेन्द्रियप्रवृत्त्युपरमे विषयाणामेकान्ततः पराहतिरिति कृत्वा पञ्चविषयविरक्तिर्नामेयमेवेति निगूढाभिसंधिः। परस्परेत्यत्र ‘कर्मव्यतिहारे सर्वनाम्नो द्वे भवत’ इति वक्तव्यात्परशब्दस्य द्विर्भावः* ‘समासवच्चबहुव्ठं’ - यथा न समासवत्प्रथमैकवचनं तथा पूर्वपदस्येति वक्तव्यं - प्रथमैकवचनम् द्वितीयाद्येकवचनान्तत्वमपरपदस्येति॥आर्याभेदः॥
किं गतेन यदि सा न जीवति प्राणिति प्रियतमातथाऽपिकिम्
इत्युदीक्ष्य नवमेघमालिकां न प्रयाति पथिकः स्वमन्दिरम्॥
व्या.—अथ कस्यचित्प्रवासिनो विरक्तस्य विचाररूपेण वैराग्यं प्रकटयन्नाह - किमिति.—सा मदीया। प्रियतमा प्रेयसी। जीवति विरहवेदनाया प्राणान्नधारयति यदि। तदा। गतेन गमनेन* भविक्तः। किं? न किंचिदपीत्यर्थः। यद्वा गतेन गृहमुपगतेन मयेति शेषः। किम्? अथ प्राणिति केनचिद्विनोदोपायेन जविति यदि। तथाऽपि प्राणनेऽपि। गतेन किम्? उभयथाऽपि गमनं व्यर्थमेवेत्यर्थः। इति विचार्येति शेषः। इहैव गम्यमानार्थत्वादप्रयोगः - प्रयोगे वा पौनरुक्त्यमित्यालंकारिकाः। पन्थानं गच्छतीति पथिकः - कश्चित्पान्थः - ‘पथः ष्कन्’ इति ष्कन्प्रत्ययः। नवमेघमालिकां नवीन कादम्बिनी - विरहिनिवहसंहारकारिणीमिति भावः। उदीक्ष्य। स्वमन्दिरं निजगृहं। न प्रयाति वैराग्यनिश्चलचित्तत्वादिति भावः - तदुक्तं—
“यद्भावि तद्भवत्येव यद्भावि न तद्भवेत्।
इति निश्चितबुद्धीनां न चिन्ता बाधते क्वचित्॥” इति॥
रथोद्धतावृत्तम्॥
विरमत बुधा योषित्सङ्गात्सुखात्क्षणभङ्गुरात्
कुरुत करुणामैत्री प्रज्ञा बधूजनसङ्गमम्।
न खलु नरके धाराक्रान्तं घनस्तनमण्डलं
शरणमथवा श्रोणीबिम्बंरणन्मणिमेखलम्॥६७॥
व्या.—अथ बुधानां तत्र वैराग्यमुपदिशति - विरमतेति.—हे बुधाः विद्वांसः। योषित्सङ्गाद्युवतिसमागमाद्यत्सुखं तस्मात्। कीदृग्विधात् - क्षणभङ्गुरात्क्षणिकात् क्षणिकसुग्वप्रदयोषित्सङ्गा - दित्यर्थः * ‘भज्ज भासमिदो घुरजि’तिघुरच्प्रत्ययः* ‘जुगुप्सा विरामे’त्पादिना पञ्चमी। विरमत उष्णता भवत - तुच्छसुखदं योषित्समागमं त्यजतेत्यर्थः* ‘व्याङ्परिभ्यो रम’ इति परस्मैपदं। किंतु करुणा दुःखिष्वनुकम्पा - मैत्री पुण्यकृत्सु मित्रता - प्रज्ञा बुद्धिविशेषः सुखिष्वनुमोदितेति यावत् - एतेन पापिषूपेक्षा ट लक्ष्यते - एतासामेवान्तःकरणमलशोधकत्व‚ चित्तपरिकर्माणीति वदन्ति सांख्याः - ता एव वधूजनस्तस्य - संगमं परिशीलनतात्पर्यमिति यावत्। कुरुत। एतेनात्यूर्जितसुखं संभवति - किं क्षणिकसुखावलम्बनेनेति भावः। विपक्षे बाधकमाह - नरके निरये हाराक्रान्तं मुक्ताहारोपशोभितं घनस्तनमण्डलं पटुतरकुचकलशभारो वा। अथेति वाक्यारम्भे। रणती - मणिमेखला मणिखचितरशना - यस्य तत्त थात्के - काञ्चीकलापरमणीयमित्यर्थः। श्रोणीविम्बं नितम्बमण्डलं वा। शरणं रक्षकं न खलु - न भवति हि। करुणादिसमागमस्तु नैवं भवत्यतस्सएवावश्यं स्वीकर्तव्य इति भावः॥
हरिणीवृत्तम् - लक्षणं तूक्तम्॥
यदा योगाभ्यासव्यसनकृशयोरात्ममनसो
रविच्छिन्ना मैत्री स्फुरति कृतिनस्तत्यकिमु तैः।
प्रियाणामालापैरधरमधुभिर्वक्त्रविधुभिः
सनिश्चासामोदैः सकुचकलशाश्लेषसुरतैः॥६८॥
व्या.—एवं सांख्यरीत्या वैराग्यमुक्त्वा संप्रति योगमतानुसारेणाह - यदेति-यदा यस्मिन् समये - यस्येत्यध्याहारः - उत्तरत्र तच्छब्दसद्भावात् - तथा च यस्य संवन्धिनः। योगाभ्यास अष्टाङ्गयोगपरिशीलने - यद्व्यसनमासक्ति-स्तेन कृशयोस्तत्परतन्त्रयोरित्यर्थः। आत्मामनसोः प्रत्यगात्माऽन्तः करणयोः मैत्री मित्रत्वं - मैत्री व्याख्याता। स्फुरनि प्रकाशते - योगाभ्यासवशेनाशेषबाह्यविषयान्परित्यज्ययदात्माराममेव मनो भवतीत्यर्थः। तदा तस्य कृतिनो धन्यस्य* ‘इष्टादिम्य श्चे’ तीनिप्रत्ययः। तैः किमु - न किमपीत्यर्थः। ते क इत्याशङ्कायामाह - पियाणां प्रियतमानां सम्बन्धिभिरालापैः श्रोत्रसुखावहमृदुमधुरव्याहारैश्च। अधरमधुभिः रसनेन्द्रियप्रीतिजनकाऽधरामृतैश्च। तथा निश्वासामोदेन सह सनिश्वासामोदैः पद्मिनीजातित्वान्निश्वासकघ्राणतर्पणगन्धसंबन्धबन्धुरैरित्यर्थः।वक्त्रविधुभिर्नयनानन्दकरमुखचन्द्रैश्च - अत्र चन्द्रस्यैकत्वेऽपि मुखबाहुव्व्यात् बहुलत्वसिद्धिः। तथा सकुचकलशाश्लेषाणि कुचकुम्भालिङ्गनसहितानि - यानि सुरतानि त्वगुपस्थेन्द्रियामन्दाना दकरबाह्याभ्यन्तरसंभोगविशेषाः - तैश्च - एवमशेषेन्द्रियग्राम-
संतर्पणैरपि तैः किमिति संबन्धः। आत्मानन्दानुभववेलायां तेषामतितुच्छतया प्रतीयमानत्वादिति भावः॥
शिखरिणी वृत्तम्॥
यदासीदज्ञानं स्मरतिभिरसञ्चारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदिति।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते॥६९॥
व्या.—अथ वेदान्तरीत्या वैराग्यवर्णनं निगमयति - यदेति.—यदा यस्मिन् काले। स्मरः कामएव - तिमिरं तिमिराख्यनेत्ररोगः - अन्धकारश्च गम्यते-नि। ‘तिमिरं नेत्ररोगे स्यादन्धकारेऽपि च स्मृत’ मित्यभिधानात् - तस्य - संचारेण व्याप्त्या - जनितमुत्पादितमज्ञानमविवेकः आसीत् तदा तस्मिन् काले। अशेषं सर्वमिदं जगत्। नारीमयं योषिद्रूपमिति। दृष्टमाकलितं - अज्ञानवशात्तथाऽवबुद्धमित्यर्थः। इदानीमस्मिन् काले तु। पटुतरः अज्ञाननिरसनदक्षः - अन्यत्र नेत्ररोगनिराकरणसमर्थश्च - यः विवेकस्तत्त्वज्ञानमेवाञ्जनं - नेत्रकल्याणाख्यसिद्धाञ्जनं - तज्जुषां प्राप्तवतामस्माकं संबन्धिनी। दृष्टिर्मतिः - दृक्च। असमा समा संपद्यमाना समीभूता के अभूततद्भावे च्विः - निजप्रकृतिमापन्ना सतीत्यर्थः। त्रयाणां भुवनानां समाहारस्त्रिभुवनं * ‘तद्धितार्थे’त्यादिना समासः - पात्राद्यन्तत्वान्न स्त्रीत्वं। बह्म ब्रह्ममयं मनुते - ज्ञानोदयवशवद्ब्रह्मस्वरूपमवबुध्यते। यथाऽञ्जनेन नेत्ररोगनिवृत्तौ घटाद्यर्थतत्त्वज्ञानं जायते - तथा तत्वज्ञानेन कामान्धकारप्रयुक्ताज्ञानावरणापाये परवस्तुसाक्षात्कारो भवति - ततस्सम्यग्दृष्ट्या सर्वमिदं ब्रह्माकारतया
पश्यति, अयमेव वेदान्त सिद्धान्त इति भावः। अतो विवेकस्य परश्रेयोहेतुत्वात्तदधिगमार्थमेवं यत्नःकर्तव्य इति तात्पर्यम्॥
रूपकालंकारः॥ वृत्तं पूर्ववत्॥
इति शृङ्गारशतके सुविरक्तपद्धतिः संपूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1723972762Screenshot2024-08-18165014.png"/>
॥दुर्विरक्तपद्धतिः॥
तावदेव कृतिनामपि स्फुरत्येष निर्मलविवेकदीपकः।
यावदेव न कुरङ्गचक्षुषांताड्यते चटुललोचनाञ्चलैः॥७०॥
व्या.—अथैतद्वैलक्षण्येन दुर्विरक्तपद्धतिमाह - तत्रादौ - यदुक्तं कृतिनो विवेकस्फुरणमिति तदेतदपवदति - तावदिति.—कृतमेभिः कृतिनस्तेषां कुशलानामपि* ‘इष्टादिभ्यश्चे’ तीनिप्रत्ययः - एष पूर्वोक्तो। निर्मलो निष्कलङ्को विवेकस्तत्त्वातवबोध एव दीपः* स्वार्थे कः। तावत्तावत्पर्यन्तमेव। स्फुरति दीप्यते। कियत्पर्यन्तमित्याकांक्षायामाह - कुरङ्गचक्षुषां हरिणलोचनानां। चटुलानि - चञ्चलानि - लोचनाञ्चलानि कटाक्षवीक्षणानि - तैः कलाप्रायैरिति भावः। यावत् यावत्पर्यन्तमेव। न ताड्यते न निहन्यते - नावलोक्यत इत्यर्थः - तावदेवेति संबन्धः। विवेककुशलोऽपि जनः कामिनीकटाक्षीक्षितः को वा विवेकनिर्वहणदक्ष इति भावः। यद्यपि - नि. ‘अञ्चलं त्वंशुकान्तेस्यादि’त्यमरः - तथाऽपि अन्तिमत्वसाम्यादौपचारिकोऽयं निर्देश इति मन्तव्यम् ॥ रथोद्धता॥
वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम्।
जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहातुं समर्थः॥७१॥
व्या.—अथैषां दुर्विरक्तत्वाभिद्योतकानीदृशान्येव वचनान्याह—वचसीति. - श्रुतिमुखराण्यश्रान्तश्रुतिपाठतत्पराणि मुखानियेषां तेषाम्- निरन्तरवेदाभ्यसनव्यसनरसनानां वेदान्तपारगाणामपीत्यर्थः। पण्डितानां विवेकिनां। वचसि केवलं वाङ्मात्र एव। सङ्गत्यागं वधूसंसर्गत्यागमुद्दिश्य। वार्ता गाथा भवति। नत्वन्तः -करण इति भावः। कुतः - अरुणरत्नग्रन्थिः पद्मरागमणिखचितः काञ्च्येव कलापो भूषणं यस्य तत्तथोक्तं—नि. ‘शोणरत्नं लोहितकं पद्मरागोऽथ मौक्तिकं’ ‘कलापो भूषणे बर्ह’ इति चोभयत्राप्यमरः। कुवलयनयनानामिन्दीवराक्षीणां। जघनंकटिपुरोभागं विहातुं त्यक्तुं कस्समर्थः? न कोऽपीत्यर्थः। प्रायश ईदृशान्येव दुर्विरक्तानां वचनानीति भावः॥मालिनी॥
स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः।
यस्मात्तपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः॥७२॥
व्या.—स इति.—सोऽसावलीकपण्डितः अनृतभाषी—नि. ‘अलीकं त्वप्रियेऽनृत’ इत्यमरः। परप्रतारको लोकवञ्चकः। कोऽसावित्यत आह—यः अलीकपण्डितो। युवतीः तरुणीः* ‘यूनस्तिरि’ति प्रत्ययः। निन्दति गर्हयति। स इति संबन्धः। ननुनिस्सङ्गत्वाद्युवतिनिन्दाकरणे कथं प्रतारकत्वमत आह-यस्मात्कारणात्तपसश्चान्द्रायणादेः व्रतोपवासादिरूपस्य वा। फलं स्वर्गः। तत्र स्वर्गेऽपि चाप्सरस उर्वशीप्रभृतय स्तत्रापि तत्सङ्गम एवेत्यर्थः -
अतः परप्रतारक इति भावः - नि. ‘स्त्रियां बहुष्वप्सरसस्स्वर्वेश्या उर्वशीमुखा’ इत्यमरः - ‘स्वपरप्रतारक’ इति पाठेऽप्ययमेवार्थः। योऽव्ठीकपण्डितः। पण्डितमानी - रहस्यानभिज्ञ इत्यर्थः। युवतीः निन्दति - असौ स्वस्य परेषां च प्रतारकः - आत्मवञ्चकः परवंचकश्चेत्यर्थः - कुतः - यस्माद्विशेषसमान स्वपरफलवेदन बोधनयोः परिज्ञानाभावादुभयवञ्चक इत्यर्थः॥आर्याभेदः॥
मत्तेभकुम्भदलने भुवि सन्ति धीराः
केचित्प्रचण्डमृगराजवधेऽपि दक्षाः।
किंतु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदलने विरला मनुष्याः॥७३॥
व्या.—अथ मन्मथस्यात्यन्तदुर्जयत्वमाह - मत्तेभेति.—भुवि भूलोके मत्तेभानां मत्तमातङ्गानां - कुम्भदव्ठने कुम्भस्थलविदारणे - समर्था इति शेषः - धीराः शूरास्सन्ति। तथा केचित्पुरुषाः प्रचण्डोऽत्यन्तकोपनः - यो मृगराजः सिंहस्तस्य वधे हिंसायां। दक्षास्समर्थास्तन्ति - गजघातिभ्योऽप्युतमाश्शूरास्सम्भवन्तीत्यर्थः। किन्तु बलिनां बलावदानां शूराणाम् - ज्ञानबलशालितामिति च गम्यते। पुरतेऽग्रे। ब्रवीमि निःश्शङ्कं करमुद्धृत्य सडिण्डिमघोपमुद्धोषयामीत्यर्थः। किमुद्धोषयसीत्यत आह - प्रसह्य वलात् - भुजबलाद्भुद्धिबलाच्चेत्यर्थः। कन्दर्पदलने मदनमदविदारणे। समर्थाः मनुष्याः। विरला मृग्याः - प्रायशो न सन्तीत्यर्थः - शंभुं तद्भक्तांश्च विना मदनविजयिनो न सन्त्येवेति शिवभक्ताग्रेसरस्य कवेर्निगूढतराभिसन्नधिः.
अत्र कन्दर्पदर्पेति सकृद्व्यञ्जनद्वयावृत्तेः छेकानुप्रासाख्यश्शब्दालङ्कारः॥वसन्ततिलकावृत्तम्॥
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां न हृदि धृतिमुपो दृष्टिवाणाः पतन्ति॥
व्या.—अथ च पुनर्वचनबैचित्रमेवाह - सदिति - नरःविद्वानपीति भावः - सन्मार्गे श्रुतिस्मृतिबोधिताचारे। तावत्तावत्पर्यन्तमेवास्ते वर्तते इन्द्रियाणां चक्षुरादीनां च तावदेव प्रभवति समर्थ भवति - नियमन इति शेषः। लज्जां जुगुप्सितकर्माचरणाच्चेतस्संकोचलक्षणां व्रीडां च। तावदेव। विधत्ते अनुवर्तते। विनयं नम्रत्वं च। तावदेव समालम्बते स्वीकुरुते। कियत्पर्यन्तमित्याशङ्कायामाह - भ्रूरेव चापं कार्मुकं - तेनाकृष्टाश्च ते मुक्ताश्चेति विशेषणसमासः - एकत्र भ्रूभङ्गपूर्वकमपरत्र चापनमनपूर्वकं च प्रयुक्ता इत्यर्थः - श्रवणपथगताः श्रोत्रमार्गगताः - एकत्रकर्णान्तविश्रान्तत्वादपरत्र तावत्पर्यन्तमाकर्षणाच्चेति भावः। नीलानि पक्ष्माणि लोमान्यन्यत्र गरुतश्च येषां ते तथोक्ताः। धृतिं मुष्णन्तीति धृतिमुषो धैर्यभेदिन एते प्रसिद्धाः लीलावतीनां। विलासिनीनां। दृष्टय एव बाणाः। यावद्यावत्पर्यन्तं। हृदि मानसे - वक्षसि। न पतन्ति तावदिति संबन्धः; तदनन्तरं सन्मार्गप्रवर्तनादिकं निर्वोढुं कस्समर्थ इति भावः - उक्तं च प्रबोधचन्द्रोदये—
**‘तावद्विवेकविभवस्तावत्सन्मार्गवर्तनं पुंसाम्।
निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम्’॥ **इति॥
अत्र द्वितीयार्धेसमस्तवस्तुवर्तिसाचयवरूपकालंकारः॥स्रग्धरावृत्तम्॥
उन्मत्तप्रेमसंरम्भादारमन्ते यदङ्गनाः।
तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः॥७५॥
व्या.—किं बहुना ब्रह्माऽप्यङ्गनोद्योगप्रत्यूहाचरणे न धीरो भवतीत्याह - उन्मत्तेति.—अङ्गनाः स्त्रियः। उन्मत्तोऽत्युत्कटोयः प्रेमा अनुराग - स्तस्य संरम्भात्संभ्रमात् - नि. ‘संरम्भस्संभ्रमे कोपे’ इति विश्वः। यत्कर्म आरभन्ते विहितमविहितं वा कर्तुमुद्युञ्जते तदित्यर्थः - तत्र कर्मणि। प्रत्यूहं विघ्नं - नि। ‘विघ्नोऽन्तरायः प्रत्यूहः’ इत्यमरः। आधातुं कर्तुं। ब्रह्माऽपि किमुताऽन्य इति भावः। कातरस्सभयः - असमर्थः - खल्वित्यर्थः - अनिवार्यनिश्चयानामनावृतानामङ्गनानां को नाम निवारयितेति भावः॥अनुष्टुप्.
तावन्महत्वं पाण्डित्यं कुलीनत्वं विवेकिता।
यावज्ज्वलति नाङ्गेषु हतः पञ्चेषुपावकः॥७६॥
व्या.—तावदिति - महत्त्वं महानुभावत्वं पाण्डित्यं प्राज्ञत्वम्। कुलीनत्वं* महाकुलप्रसूतत्वं ‘कुलात्खः’ इति खप्रत्ययः। विवेकिता कर्तव्याकर्तव्यविचारचतुरत्वं च। तावत्तावत्पर्यन्तमेव भवतीति शेषः। यावत् हतो नीचः अश्लाघ्यतापादकत्वान्निकृष्टः। पञ्च अरविन्दादय इषवो बाणा यस्य सः पञ्चेषुःमदन - स्स एव पावकोऽग्निः। अङ्गेषु। न ज्वलति नाविर्भवति - न सन्तापयती-
त्यर्थः। तावदिति संबन्धः। तदनन्तरं को वा महत्त्वादिगुणविशिष्ट इति भावः—
‘अरविन्दमशोकं च चूतं च नवमल्लिका।
नीलोत्पलं च पञ्चैतेपञ्चबाणस्य सायकाः॥’ इत्यमरः॥
अत्र मदने अग्नित्वरूपणादेकदेशवर्ति रूपकम्॥अनुष्टुप्॥
शास्त्रज्ञोऽपि प्रगुणितनयोऽप्यात्तबोधोऽपि बाढं
संसारेऽस्मिन् भवति विरलो भाजनं सद्गतीनाम्।
येनेतस्मिन्मिरयनगरद्वारमुद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव॥७७॥
व्या.—अथ सांसारिकस्य सद्गतिः दुर्लभेति सहेतुकमाह - शास्त्रज्ञ इति.—शास्त्रज्ञः सकलशास्त्ररहस्याभिज्ञोऽपि * ‘आतोऽनुपसर्गेकः’ इति कप्रत्ययः। तत्रापि प्रगुणितः प्रकर्षेणावृत्तिविषयीकृतः - नयो नीतिशास्त्रं - येन स तथोक्तोऽपि - फलवदर्थावबोधनपर्यन्तं सम्यक्परिशीलितनीतिशास्त्रोऽपीत्यर्थः - प्रगुणशब्दात् * ‘तत्करोती’ति ण्यन्तात्कर्मणि क्तः* णा विष्ठवद्भावेविन्मतो र्लुक् - .नि ‘गुणः स्याद्वृतिशब्दाख्ये ज्येन्द्रियेमुख्यतन्तुषु’ इति वैजयन्ती तथा बाढं दृढमात्तबोध उत्पन्नज्ञानोऽपि पुमानस्मिन् परिवर्तमाने। संसारे सद्गतीनां। भाजनं पात्रम् - योग्य इति यावत्। विरलो मृग्यो। भवति - स्वर्गादिसद्गतिगामी यः कश्चिदेव भवति नतु बहुव्ठ इत्यर्थः। कुतः - येन कारणेन। एतस्मिन् संसारे। वामाक्षीणां मनोहरनयनानां * ‘बहुव्रीहौ’ इत्यादिना पचिषित्त्वात् ङीष्। कुटिला वक्राभ्रूर्लतेव भ्रूलता भ्रूवल्ली। कुञ्चिकेव विष्कम्भविघटनसा
धनवक्राग्रायोमयशलाकेव। निरयनगरस्य यमपुरस्य द्वारम् - लक्षणया द्वारपिधानवाटविष्कम्भमित्यर्थः - द्वारशब्देन कवाटस्य तेन च तद्विष्कम्भस्य च लक्षितत्वात्। उद्घाटयन्ती विघट्टयन्ती - व्यामोहोत्पादनेन दुर्गतौ प्रवेशयन्तीत्यर्थः। भवति खलु - विरलइति संबन्धः। स्त्रीसङ्गिनां कुतस्सद्गतिरिति भावः॥उपमालङ्कारः॥
मन्दाक्रान्तावृत्तम्॥
कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी मायाक्लिन्नः कृषिकुलशतैरावृततनुः।
क्षुधाक्षामोजीर्णःपिठरककपालार्पितंगलः
शुनीमन्वेति श्वाहतमपिच हन्त्येव मदनः॥७८॥
व्या.—अथद्वाभ्यां मन्मथस्य चरित्रवैचित्र्यमाह - कृश इति.—कृशः पिण्डालाभादस्थिचर्माविशिष्टदेहः। काणोऽन्धकः यद्वा एकाक्षः। खञ्जः पादविकलः अकार्यकरणेन लगुडप्रहाराद्भग्नपाद इत्यर्थः। तथा श्रवणरहितः समूलंभिन्नकर्णःपुच्छेत विकल श्छिन्नलाङ्गूलः * ‘येनाङ्गविकार’ इति समासः। व्रणी सर्वाङ्गक्षतिमान्। अतः पूयेन क्लिन्नः आर्द्रः। कृमीणां व्रणोत्पन्नापादतुच्छजन्तूनां - कुलशतैः अनेककृमिपरम्पराभिरित्यर्थः। आवृता व्याप्तातनुर्यस्य स तथोक्तः। क्षुधा बुभुक्षया। क्षामः परिक्षीणः * ‘क्षायोमः’ इति मत्वम्। जीर्णः जरया शिथिलावयवः। पिठरककपालेन घटमुखवलयेनार्पितगल आसञ्जितकण्ठनाव्ठः - शुनको हि घटमुखे स्वशिरो निक्षिप्य अन्नं भक्षयति - ततस्तावतैव परिपुष्टत्वेनाक्रष्टुमशक्यत्वाद्भुवि विघट्टनेनाधः कपालापाये तन्मुखकपालेनासञ्जितकण्ठो
भवतीति प्रसिद्धिः - अत एवंभूत इत्यर्थः - यद्वा - चौर्येणान्नादिभक्षणे तद्दण्डनार्थं भ्राष्ट्रं मध्ये छिद्रं कृत्वा गले आसञ्जयन्ति - तस्मादित्थंभूत इत्यर्थः। एवं जुगुप्सितोऽपि। श्वा शुनकः। शुनीं सारमेयीमन्वेत्यनुसरति - निधुवनार्थमिति भावः। तथा हि - हतं विनष्टमपि च। मदनो हन्त्येव मनोविकारोत्पादनेन पीडयत्येव - न तु हतहननमन्याय्यमिति विचारयतीत्यर्थः। शठोऽयं मदनः कं वा कथंभूतावस्थापन्नं न करोतीति भावः। अत्र एवकारोऽत्यन्तायोगव्यवच्छेदार्थः - ‘पार्थोधनुर्धरो भवत्येव’ इत्युदाहृत्य क्रियागतैवकारस्य तथाभूतार्थकत्वानुशासनात्।शिखरिणीवृत्तम्॥
स्त्रीमुद्रां कुसुमायुधस्य परमां सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः।
ते तेनैव निहत्य निर्दयतरंनग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे॥७९॥
व्या.—स्त्रीमुद्रामिति—सर्वार्थानां संपदं करोतीति सर्वार्थसंपत्करीम् - धर्माऽर्थ कामपुरुषार्थसमृद्धिहेतुभूतामित्यर्थः * ‘कृञोहेतुताच्छील्यानुलोम्येष्वि’ति टप्रत्ययः - टित्त्वान्ङीप्। कुसुमायुधस्य जगज्जैत्रस्य मन्मथस्य। जयिनीम् जयावहामित्यर्थः * ‘जिदृक्षि’ - इत्यादिना इनि प्रत्ययः। स्त्रीमुद्रां स्त्रीरूपचिह्नां। प्रतिहाय त्यक्त्वा। ये कुधियो दुर्बुद्धयः। अत एव मूढाः कर्तव्याकर्तव्यविचारशून्याः मिध्याफलान्वेषिणः अभूतचरत्वादसत्यप्रायमोक्षफलकाङ्क्षिणस्सन्तः। यान्ति प्रव्रजन्तीत्यर्थः। ते मूढास्तेन निजमुद्राहासजनितकोपेन। कुसुमेपुणैव। निर्दयतरं दयाहीनं यथा तथा। निहत्य
नीचैः कृत्वा। केचिन्नग्नीकृताः दिगम्बरीकृताः - नि.—‘नग्नोऽवासादिगम्बरः’ इत्यमरः* अभूततद्भावे च्विः * ‘अस्य च्वौ’ इति दीर्घः* ‘ऊर्यादिच्विडाचश्च’ इति गतिसंज्ञायां’ * कुगति प्रादयः’ इति समासः। केचिन्मुण्डिताः परमहंसीकृताः - न तु सौभाग्यसंपन्नीकृता इत्यर्थः। अतः कुसुमेषुमुद्रारूपाः स्त्रियो न परिहर्तव्या इति भावः यथालोके राजानस्तीक्ष्णदण्डा निजाज्ञोल्लङ्घनापराधिजनान् कांश्चित्सर्वस्वापहारेण वस्त्रहीनान् कुर्वन्ति - कांश्चित्सर्वतो मुण्डितशिरस्कान् - कांश्चिदर्धमुण्डितमुण्डान् - कांश्चिज्जटाधारिणः - कांश्चित्कपालभिक्षुकांश्च कुर्वन्ति - तद्वत्रापि इति ध्वनिः॥
अत्र वैराग्यकृतनग्नत्वादेः कुसुमेषुकृतत्वोत्प्रेक्षणादुत्प्रेक्षालंकारः - सा च नूनमित्यादि व्यञ्जकाप्रयोगात् गम्या॥शार्दूलविक्रीडितम्॥
विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशना
स्तेऽपिस्त्रीमुखपङ्कजं सुललितं दृष्द्वैव मोहं गताः।
शाल्यन्नं सघृतं पयो दधियुतं ये भुञ्जते मानवा
स्तेषामिन्द्रियनिग्रहो यदि भवे द्विन्ध्यः प्लवेत्सागरे॥८०॥
व्या.—किं बहुना महर्षयोऽपीन्द्रियनिग्रहसमर्था न जाता इत्युपसंहरति - विश्वामित्रेति.—वाताम्बुपर्णान्येवाशनं येषां ते तथोक्ताः शरीरयात्रामात्रोपयोगिवायूदकपरिणतपर्णाहारा एव - न त्विन्द्रियतुष्टिकरमृष्टान्नभोजना इत्यर्थः। विश्वामित्रपराशरप्रभृतयोविश्वस्य मित्रं विश्वामित्रो गाधिनन्दनः - ‘मित्रे चर्षौ’ इति दीर्घः-
पराशरो व्यासपिता - तौ प्रभृती येषां ते तथोक्ताः - प्रभृतिशब्देन शाण्डिल्यादयोऽपि सङ्गृह्यन्ते। ये महर्षयस्सन्तीति शेषः। तेऽपि। सुललितमतिसुन्दरम् - नि. - ‘ललितं त्रिषु सुन्दरम्’ इति शब्दार्णवेस्त्रीणां मेनका रम्भा सत्यवती धान्यमालिन्यादियोषितां। मुखपङ्कजं। दृष्ट्वैवावलोक्यैव। मोहं गताः तत्परतन्त्रा जाताः - नत्विन्द्रियनिग्रहसमर्था इत्यर्थः। किंतु ये। मानवास्साधारणमर्त्याः। सघृतमाज्यप्लुतं। तदपि पयसा क्षीरेण - दध्ना चयुतं मिश्रितं शाल्यन्नं कलमाख्यव्रीह्यन्नम् - अत्यन्तवीर्यवृद्धिकरं मृष्टान्नमित्यर्थः। भुञ्जते अभ्यवहन्ति * ‘भुजोऽनवने’ इत्यात्मनेपदम्। तेषां मानवानामिन्द्रियनिग्रहइन्द्रियनियमस्संम्भवेद्यदि। तदा विन्ध्यः पर्वतः। सागरे। प्लवेत् उन्मज्जेत्। न तु कदाचिदपि विन्ध्यः प्लवति - ग्रावप्लवन स्याश्रुतचरत्वात् - तथाच विन्ध्यप्लवनस्य यथा असंभावितत्वं तथा इन्द्रियनिग्रहस्यापीत्यर्थः। वाताद्यशनानां ऋषीणामेवैतादृशावस्थापन्नत्वम्। किमुत् मृष्टान्नभोजिनां मानवानामिति भावः॥
अत्रेन्द्रियाणां निग्रहसंबधेऽपि विन्ध्यप्लवनदृष्टान्तेनासंबन्धोक्तेस्संबन्धेऽसंबन्धरूपातिशयोक्तिः॥
शार्दूलविक्रीडितम्॥
इति शृङ्गारशतकेदुर्विरक्तपद्धति स्संम्पूर्ण॥
<MISSING_FIG href="../books_images/U-IMG-1723994087Screenshot2024-08-18224530.png"/>
॥ऋतुवर्णनम्॥
परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो
मधुरविधुरोत्कण्ठाभाजः प्रियाः पिकपक्षिणाम्।
विरलविरलस्वेदोद्गारा वधूवदनेन्दवः
प्रसरति प्रधौधात्र्यां जातो न कस्य गुणोदयः॥८१॥
व्या.—प्रासङ्गिकं परिसमाप्य प्रस्तुतशृङ्गारोपयोगितया ऋतुवर्णनं प्रारीप्सुस्तदादौ लोकवेदयोः प्राथम्येन व्यवहाराद्वसन्तं वर्णयति - परिमलेत्यादिभिः षड्भिः परिमले इति.—वाताः उपवनपवनाः। परिमलं विभ्रतीति परिमलभृतोविविधकुसुमसम्मर्दजनितगन्धविशेषवन्धुराः जाता इति शेषः - नि.—‘विमर्दोत्थे परिमलोगन्धे जनमनोहरे’इत्यमरः। शाखाः रसालादितरुस्कन्धाः। नवाङ्कुराणि नूतनकिसलयानि - कोटिष्वग्रेषु - यासां तास्तथोक्ताः - पल्लविता जाता इत्यर्थः। पिकपक्षिणां पिकाख्यापक्षिविशेषकाणां। प्रियाः कोकिलाङ्गना इत्यर्थः - नि. ‘कोकिलः पिक इत्यपी’ त्यमरः - मधुरा सहकाराङ्कुरकषायास्वादलाभात्सगुणा - विधुरा काककृतोपद्रववशाद्द्विगुणा च - कष्टेति यावत्या उत्कण्ठा - कूजितौत्सुक्यं - तां भजन्तीति तथोक्ता - जाता। ‘भजोण्वि’ इति ण्विप्रत्ययः - नि. ‘विधुरस्स्यात्कष्टविश्लिष्टयोरपि’ इति विश्वः। वधूनां - वदनेन्दवो वक्त्रचन्द्रा - विरलविरलाः ग्रीष्मातिरेकाभावान्मन्दप्रकाराः ‘प्रकारे गुणवचनस्य’ इति सादृश्यार्थे द्विर्भावः - स्वेदोद्गारः श्रमजलनिष्यन्दो - येषां ते तथोक्ता जाताः - अत्रोद्गारशब्दस्य गौणवृत्तिसमाश्रयणान्नग्राम्यकक्ष्यामध्यपतितत्वमित्युक्तं प्राक्। तथाहि। धात्र्यां भुवि। मधौ वसन्ते। प्रसरति व्याप्रियमाणे सति कस्य वस्तुनो गुणोदयो गुणोत्कर्षो। न जातः। सर्वस्यापि जायत एवेत्यर्थः* ‘गत्यर्थकर्मक’ इत्यादिना वर्तमाने—
कर्तरिक्त प्रत्ययः* ‘मतिबुद्धि पूजार्थेभ्यश्च’ इति चकारात् वर्तमानता - नि. ‘अथ पुष्परसे मधु। दैत्ये वसन्ते चैत्रे च’ इति विश्वप्रकाशः॥ हरिणीवृत्तम्॥
मधुरयं मधुरैरपि कोकिला
कलरवैर्मलयस्य च वायुभिः।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हन्त सुधाऽपि विषायते॥८२॥
व्या.—मधुरिति.—अयं पूर्वोक्तो मधुर्वसन्तः - सकलचराचरोल्लासकर इति भावः। मधुरैः श्राव्यैस्संतापहरैर्वा - ‘शीतलीक्रियते तापो येन तन्मधुरं स्मृतम्’ इति लक्षणात्। कोकिलानां पिकसुन्दरीणां - कलरवैरव्यक्त मनोहरैः स्वरविशेपैः - नि. ‘काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे। कलः’ इत्यमरः - कोकिलेत्यत्र जातिग्रहणेऽपि ‘कोकिला जातावपि’ इति न ङीष्। तथा मलयस्य वायुभिः श्रीखण्डशैलानिलैश्च - अत्यन्तसुखावहैरपीति भावः। विरहिणः शरीरिणः वियोगिजनान्। प्रहिणस्ति विनाशयति। तथाहि। विपदि आपत्काले सुधा अमृतमपि विषायते विषमिवाचरति - तद्वत्प्राणप्रयाणकारी भवतीत्यर्थः* ‘उपमानादाचारे’इति क्यच्* ‘अकृत्सार्व धातुकयोर्दीर्घः’ इति दीर्घः। हन्तेति विषादे - निः ‘हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः’ इत्यमरः॥
सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः; स च विषायते इत्यत्रउपमया अङ्गेन सङ्कीर्यते॥ अनुप्रासशाब्दः॥ द्रुतविलम्बितवृत्तम्॥
आवासः किलकिंचितस्य दयिताः पार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्टपः।
गोष्ठी सत्कविभिः समं कतिपयैः मुग्धाः सितांशोः कराः
केषांचित्सुखयन्त्यवेहि हृदये चैत्रे विचित्राः क्षपाः॥८३॥
व्या.—विरहिणामेव कृछ्रं। नत्वन्येषामित्याह - आवास इति - पार्श्वे परिसरे - किलकिञ्चितस्य ‘रोषाश्रुहर्षभीत्यादेस्सङ्करः किलकिञ्चितम्’ इत्युक्तलक्षण शृङ्गारचेष्टाविशेषस्यावासो निवासभूतः - अत्राधारमात्रविवक्षयैकवचनग्रहणमिति विवेकः। तथा विलासालसाः लीलामन्थराः - कटाक्षभुजाक्षेपादिविविधविभ्रमाचरणतत्परा इत्यर्थः - एतेनैतासां स्मरमन्दीकृतव्रीडत्वात्प्रागल्भ्यं सूच्यते। दयिताः प्रियतमाश्च। कर्णे कर्णयोरित्यर्थः* ‘स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण’ इति वामनसूत्रे प्रायग्रहणादेकवचनप्रयोगः। कोकिलकामिनीनां कलकण्ठाङ्गनानां - कलरवः अव्यक्तमधुरस्वरश्च - स्मेरः ईषद्विकसितकुसुम इत्यर्थः - अत्र कुसुमधर्मः कुसुमिते उपचर्यते* ‘ष्मिड् ईषद्धसने’ इति धातोः ‘नमि कम्पि’इत्यादिना रप्रत्ययः। लतामण्टपो लतागृहं च। कतिपयैः कैश्विदेव - अन्यथा रसाभासात्। सत्कविभिस्सरसविचित्रचारप्रबधप्रणयनचतुरतरकवीश्वरैः समं। गोष्ठीप्रसङ्गश्च। मुग्धा मनोहरा स्सितांशोः कराश्चन्द्रकिरणाश्च। विचित्रा नानाविधाः। स्रजः पुष्पमालिकाश्च। अत्र अस्मिन्। चैत्रे वसन्ते। केषांचित् अन्येषामेबेत्यर्थः। हृदयं सुखयन्ति रञ्जयन्ति - न सर्वेषामित्यर्थः। ईदृक्सौभाग्यसंपन्नानां विरलत्वादिति भावः॥
अत्र खलेकपोतन्यायाद्दयितादिबहुकारणानां हृदयरञ्जनरूपैककार्यसाधनसमुद्योगकथनाद्द्वितीयस्समुच्चया- ऽलङ्कारः - तदुक्तं विद्या नाथेन—
‘खले कपोतन्यायेन बहूनां कार्यसाधने।’
‘कारणानां समुद्योगस्सद्वितीय स्समुच्चयः।’ इति।
शार्दूलविक्रीडितम्॥
पान्यस्त्रीविरहानलाहुतिकलामातन्वती मञ्जरी
माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते।
अल्पास्ते नवपाटलापरिमलप्राग्भारपाटच्चरा
वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः॥८४॥
व्या.—पान्थस्त्रीति.—अधुनेदानीम् वसन्तसमय इत्यर्थः। पान्थस्त्रीणां प्रोषितभर्तृकाणां। विरहानलस्य वियोगाग्नेः - आहुतिकलां आहुतिकलनाम् तत्साम्यमित्यर्थः - ‘कलाशिल्पे कालभेदे चन्द्रांशे कलना कला‘ इति वैजयन्ती। आतन्वती आदधाना तद्वदुद्दीपिकेत्यर्थः - तनोतेरश्शतरि* ‘उगितश्चे‘ति ङीप्। माकन्देषु रसालविशेषेषु - विद्यमानेति शेषः। मञ्जरी। पुष्पमञ्जरी \। पिकाङ्गनाभिः कोकिलाभिः। सोत्कण्ठमालोक्यते सानन्दमुद्वीक्ष्यते - इष्टत्वादिति भावः। तथा पाटला फलेरुहाख्यवृक्षविशेषः - नि. - ‘पाटलिः पाटला मोघा काचस्थाली फलेरुहे’त्यमरः* ‘पुष्पमूलेषु बहुलम्’ इति लुपि् युक्तवद्व्याक्तिवचने भवतः - नवपाटलापरिमलप्राग्भारस्य नूतनपाटः कुसुमगन्धसंपत्तेः - पाटच्चरा मलिम्लुचाः तद्गन्धापहारिण इत्यर्थः। तथा क्लान्तिवितानस्य क्लान्तिसमूहस्य - तानवं तनुत्व - कुर्वन्तीति
क्लान्तिवितानतानवकृतः * करोतेः क्विप्। अल्पा मन्दाः। ते प्रसिद्धाश्शैत्यमान्द्यसौरभ्ययुक्ताः। श्रीखण्डशैलानिला मलयमारुताः वान्ति प्रसरन्ति* ‘वागतिगन्धनयोः’ इति धातोर्लट्। एतेन विरहिणां दुरन्तदुःखजनकत्व संयुक्तानां परमानन्दकत्वं चास्योक्तमित्यवगन्तव्यम्॥
अत्र वियोगाग्निरित्यत्र रूपकम्; आहुतिकलामित्यत्रोपमया सापेक्षितत्वात्संकीर्णं सच्छाब्देनानुप्रासेन संकीर्यते॥वृत्तं पूर्ववत्॥
प्रथितः प्रणयवतीनां तावत्पदमातनोतु हृदि मानः।
भवति न यावच्चन्दनतरुसुरभिर्मलयपवमानः॥८५॥
व्या.—प्रथित इति—प्रथितः प्रसिद्धः दृढतर इति यावत्। मानः प्रियतमस्यान्यस्त्रीसङ्गित्वजनितेर्ष्याकृतेकापः—
‘स्त्रीणामीर्ष्याकृतः केोपो मानोऽन्यासङ्गिनि प्रिये।
श्रुते वानुमिते दृष्टे’। इति दशरूपके।
प्रणयवतीनां प्रियतमानां। हृदि। तावत्तावत्पर्यन्तं। पदं स्थानं। आतनोतु करोतु - तिष्ठत्वित्यर्थः*सम्भावनायां लोट्- नि. ‘पदं व्यवसितत्राणस्थान लक्ष्माङ्घ्रिवस्तुषु’ इत्यमरः। कियत्पर्यन्तमित्यत आहचन्दनतरुसुरभिः श्रीखण्डद्रुमपरिशीलनसुगन्धिनः - नि. ‘सुगन्धौ च मनोज्ञे च सुरभिर्याच्यलिङ्गवत्’ इति विश्वः - मलयपवमानो मलयमारुतः। यावत्पर्यन्तं। न भवति न प्रसरति। तावदिति संबन्धः - सामान्यस्य विशेषपर्यवसानात्प्रसरणार्थत्वं भुवो द्रष्टव्यम् - नि. ‘यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे’ इत्यमरः अस्यात्य-
न्तोद्दपिकत्वान्मानिन्योऽतिदृढमपि निजमानं विहाय प्रियतमपरतन्त्राः स्वयमेव भवन्तीत्यर्थः॥आर्याभेदः॥
सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगंते।
मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा॥८६॥
व्या.—सहकारेति.—सहकारकुसुमानां रसालविशेषप्रसूना नाम्नि - .‘आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभ’ इत्यमरः ये केसरनिकराः किञ्जल्कपुञ्जाः - तेषां ये भरास्समृद्धयः - तेषामामोदेन परिमलविशेषेण - मूर्छिता व्याप्ता - दिगन्ता यस्मिन् तस्मिन्। मधुरेण माधुर्यगुणयुक्तेन - मधुना मकरन्देन - विधुरा विह्वला - उन्मत्ता इति यावत् - मधुपा भृङ्गा यस्मिन् तस्मिन्नित्थमस्योक्तमुद्दपिकत्वमित्यर्थः। मधौ वसन्ते। कस्य जनस्य स्त्रियो वा पुरुषस्य वेत्यर्थः। उत्कण्ठा संभोगौत्सुक्यं। न भवेन्नोत्पद्येत अतस्सर्वस्यापि उत्पद्यत एवेत्यर्थः - अतो मानत्यागो युज्यत इति भावः॥ अनुप्रासः शब्दालंकारः॥ वृत्तं पूर्ववत्॥
अच्छाच्छ चन्दनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौमुदी च।
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं व विवर्धयन्ति॥८७॥
व्या—अथ त्रिभिर्ग्रीष्मं वर्णयति - अच्छाच्छेति. - अच्छाच्छोऽति स्वच्छो - यश्चन्दनरसः पाटीरद्रवः - नि. ‘गुणे रागे द्रवे रसः’ इत्यमरः - तेन आर्द्रतरा अत्यन्तार्द्रास्सन्तापशान्त्यर्थं.
सान्द्रचन्दनपङ्कचर्चिताङ्गा इत्यर्थः। मृगाक्ष्यः तरुण्यश्च। धारागृहाणि जलयन्त्रवेश्मानि। कुसुमानि - मल्लिकादीनि। कौमुदी चन्द्रिका च। सुमनसो जात्यास्संबन्धी ग्रीष्मकालेऽतिविकास सम्भवात्। तत्कुसुमपरिशीलनजनितामोदभरित इत्यर्थः - नि. ‘सुमनामालतीजातिः’ इत्यमरः। मन्दो मरुत् मन्थरगन्धवाहश्च। शुचिशुभ्रंसुधालेपेनेति भावः। हर्म्यपृष्ठंसौधोपरिप्रदेश्चेति ग्रीष्मे ऋतौ मदं हर्षव्यतिकरं। मदनं च। विवर्धयन्ति उद्दीपयन्ति॥
अत्रापि द्वितीयस्समुच्चयालङ्कार उन्नेयः। वसन्ततिलका वृत्तम्॥
स्रजो हृद्यामोदा व्यजनपवन श्चन्द्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम्।
शुचिः सौधोत्सङ्गः प्रतनु वसनंपङ्कजदृशो
निदाघार्तावेतत्सुखमुपलभन्ते सुकृतिनः॥८८॥
व्या.—स्रज इति.—हृद्यामोदा मनोहरगन्धाः। स्रजः पुष्पमालिकाश्च। व्यजनपवनस्तालवृन्तसमीरणश्च - नि. ‘व्यजनं तालवृन्तकमि’ त्यमरः। चन्द्रकिरणाश्च। परागस्सुमनोरजश्च। कासारः क्रीडासरश्च। परागस्सुमनोरजश्च। कासारः क्रीडासरश्च। मलयजरजश्चन्दनक्षोदश्च; विशदं निर्मलं। शेरते अनेनेति शीधु मद्यं च * शीङोधुक्। इत्यौणादिको धुक्प्रत्ययः। शुचिश्शुभ्रः - विहारियोग्य इत्यर्थः। सौधोत्सङ्गः - प्रासादोपरिप्रदेशश्च। प्रतनु पवनं सूक्ष्माम्बरं पङ्कजदृशः पद्मपलाशलोचना श्चेत्येतत्सर्वं भोगसाधनम्* ‘नपुंसकम् -’ इत्यादिना नपुंसकैकशेषः। निदाघर्तौग्रीष्मर्तौ‘आद्गुणः’ विलसति विजृम्भमाणे सति सुकृतिनः पुण्यशालिनः;
लभन्ते प्राप्नुवन्ति। कथमसुकृतिनामीदृग्भोगसाधनलाभ इति भावःशिखरिणी॥
सुधाशुभ्रं धाम स्फुरदमलरशिपः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभि।
स्रजो हृद्यामोदास्तदिदमखिलं रागिणी जने
करोत्यन्तः क्षोभं न तु विषयसंसर्ग विमुखे॥८९॥
व्या.—सुधेति.—सुधया लेपनद्रव्येण शुभ्रम्। यद्वा सुधा अमृतं तद्वच्छुभ्रम्सु - ‘सुधा स्याल्लेपनद्रव्येऽमृते च’ इति विश्वः। अतिसुरभि अत्यन्तसुगन्धि। रागिणि विषयासक्ते। विषयसंसर्गविमुखे विरक्ते - विरक्तस्य तेषामकिञ्चित्करत्वादिति भावः। निगदितव्याख्यानमन्यत्॥ वृत्तं पूर्ववत्॥
तरुणी वेषोद्दीपितकामाविकसजातीपुष्पसुगन्धिः।
उन्नतपीनपयोधरभारा प्रावृट् तनुते कस्य न हर्षम्॥९०॥
व्या.—अथ वर्षासमयवर्णनमारभते - तरुणीति - उद्दीपित उत्पादितः - कामो मन्मथः सुरताऽभिलाषो वा - यया सा तथोक्ता विकसन्ति विकस्वराणि - यानि जातिपुष्पानि तैश्शोभनो गन्धो यस्या स्सातथोक्ता - एकत्र जाती कुसुमविकाससंभवात् अन्यत्र तत्कुसुमालंकृतत्वाच्चेति भावः * ‘गन्धस्येदुत्पूति सुसुरभिभ्यः’। इति गन्धशब्दस्य इकाराऽन्तादेशः। यद्यपि ‘गन्धशब्दस्येत्वेतदेकान्तग्रहणम्’ इत्युक्तम् - तथाऽपि कवीनां निरङ्कुशत्वात्पर्यनुयोगः। उन्नत उत्तुङ्गः - पीनः पीवरश्च - पयोधरभारोऽम्भोधर बृन्दं चअन्यत्र -
स्तनभरश्च - यस्याः सा तथोक्ता। नि ‘स्तनाम्भोदौ पयोधरौ’। इति वैजयन्ती। अत एव तरुण्या बेष इव वेषो यस्याः सा कामिनीव मोहनकारिणीत्यर्थः। प्रावृड्वर्षाः कस्य पुंसो। हर्षं संभोगौत्सुक्यं। न तनुते। सर्वस्यापि तनुत एवेत्यर्थः। श्लेषानुप्राणितेयमुपमा॥
वियदुपचितमेघं भूमयः कन्दलिन्यो
नवकुटजकदम्बामोदिनो गंधवाहाः।
शिखिकुलकलकेकारावरम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्डयन्ति॥९१॥
व्या.—वियदिति—उपचिताः परिचिता - मेघा यस्मिन् तत्तथोक्तम्। घनाघनसंचारवदित्यर्थः। वियत् आकाशं च। कन्दलानि अङ्कुराणि आसां सन्तीति कन्दलिन्यो। भूमयो भूप्रदेशाश्च। नवो नूतनः - कुटजानां गिरिमल्लिकानां - कदम्बानां नीपकुसुमानां च - आमोदो गन्धविशेष एषामस्तीति तथोक्ता गन्धवाहाः उद्यानपवनाश्च नि. ‘कुटजो गिरिमल्लिका’ इत्यमरः। के मूर्ध्नि कायन्ति ध्वनयन्ति केका मयूरवाण्यः - नि. ‘केका वाणी मयूरस्य’ इत्यमरः - शिखिकुलानां मयूरनिकराणां - याः कलकेकारावा अव्यक्तमधुरकेका स्वरास्तैरम्या मनोहरा। वनान्ताश्च केलीवनमध्यप्रदेशाश्च। सुखिनं दुःखिनं वा। सर्वम् अशेषं जनम्। उत्कण्ठयन्ति संभोगौत्सुक्यवन्तं कुर्वन्तीत्यर्थः - उद्दीपकत्वादिति भावः। उत्कण्ठाशब्दात् ‘तत्करोति - ’ इति ण्यन्ताल्लट्॥ मालिनी॥
उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः।
क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयति॥९२॥
व्या.—उपरीति.—उपरि उपरिष्टाद्धनं सान्द्रं घनपटलं मेघ बृन्दम्। वर्तत इति शेषः - नि. ‘घनाः कठिनसङ्घातमेघकाठिन्यमुद्गराः’ इति वैजयन्ती। तिर्यग् दिक्षु इत्यर्थः। मह्यामतिशयेन रमन्त इति मयूराः * पृषोदरादित्वात्साधुः। नर्तिता नृत्यन्तःस्वार्थे णिचि* ‘गत्यर्थाकर्मक - ’ इत्यादिना वर्तमाने कर्तरिक्तः* ‘मतिबुद्धी - इति वर्तमानता - यद्वा नर्तिता मेघबृन्देन नाटिताः - मेघोदये तेषां उल्लासवशेन नाट्यसंभवात् - तथा भूता मयूरा येषु ते तथोक्ता गिरयोऽपि। वर्तन्त इति शेषः। क्षितिरपि भूमिरपि। कन्दलैर्नानाविधाङ्कुरैर्धवला स्वच्छा। अतः पन्थानं गच्छतीति पथिकः पान्थः* ‘पथष्कन्’ इति ष्कन्प्रत्यः। दृष्टिं। क्व कुत्र। पातयति - प्रसारयति न कुत्रापीत्यर्थः - सर्वत्राप्युद्दीपनसंभवादिति भावः। महत्कष्टमत्र विरहिणामिति परमार्थः॥
आर्याभेदः॥
इतो विद्युद्वल्ली विलसितामितः केतकितरोः
स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फुजिंतमितः।
इतः केकीक्रीडाकलकलरवैःपक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः॥९३॥
व्या.—इत इति.—इतोऽस्मिन्प्रदेशे। विद्युद्वल्लीनां तडिल्लतानां - विलसितं - स्फुरणम्। भवतीति शेषः। इतः प्रदेशे केत कितरोः केतक्याख्यवृक्षस्य - तत्कुसुमस्येत्यर्थः ‘ङ्यापोः संज्ञाच्छन्दसो र्बहुलम्’ इति ह्रस्वः - कालिदास इतिवत्। स्फुरन्व्याप्नु बानो। गन्धश्च वर्तत इति शेषः। इतः प्रोद्यत्प्रवृद्धं। जलदनिनदस्य
मेघगर्जितस्य–स्फूर्जितं आरवं च। भवतीति शेषः। इतश्च कोकिनां शिखावलानां - क्रीडासु केलिषु - यः कलकलरवः कोलाहलध्वनिः - नि. ‘शिखावलः शिखी केकी’ कोलाहलः कलकलः’। इति चामरः। यद्वा कलकलरवः अत्यन्ताव्यक्तमधुरप्रकारखनश्च। समुज्जृम्भत इति शेषः।पक्ष्मान्यासां सन्तीति पक्ष्मलाः। सिध्मादित्वा ल्लच्प्रत्ययःतथाभूता दृशो यासां तासां पारिप्लवलोचनानाम्। एते प्रसिद्धाः। संभृतरसाः संपूर्णशृङ्गाराः, उद्दीपका इत्यर्थः। विरहदिवसा वियुक्तवासराः। कथं - यास्यन्ति - अतिक्रमिष्यन्ति न कथंचिदपीत्यर्थः दुरन्तत्वाद्दिनमेकं युगं भविष्यतीति भावः॥शिखरिणी वृत्तम्॥
असूचीसंचारे तमसि नभसि प्रौढजलद–
ध्वनिप्राज्ञंमन्ये पतति पृषतानां च निचये।
इदं सौदामन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथिस्वैरसुदृशाम्॥९४॥
व्या.—असूचीति.—तमसि अन्धकारे। न विद्यते सूचीसं चारो यस्मिं स्तस्मिन्सूच्यग्रमात्रस्याप्यनवकाशप्रदे - गाढतमे सतीति यावत्। तथा। नभसि अन्तरिक्षे च प्रौढः प्रगल्भः - गम्भीर इति यावत्यो -जलदध्वनिर्मेघगर्जितं - तेन प्राज्ञं वाचाल मात्मानं मन्यत इति प्राज्ञमन्ये - बहुलतर मेघ निर्ह्रादवति सतीत्यर्थः* आत्ममाने खश्चइति खाशि मुमागमः। तथा पृषतानां बिन्दूनां च - निचये सन्दोहे पतति सति - नि. ‘पृषन्ति बिन्दुपृषतौ’। इत्यमरः। कनककमनीयं कनकनिकषणरेखासुन्दरमिदं प्रवर्तमानं सौदामन्याविद्युतः - नि. ‘तडित्सौदामनी विद्युत्’ इत्मरः। विल
सितं स्फुरणं (कर्तृ) स्वैरसुदृशां अभिसारिकाणां। पथि प्रियगृहमार्गे। मुदं मार्गप्रदर्शकत्वात्संतोषं। म्लानिं आत्मप्रकाशनहेतुत्वात् म्लानिं च ‘ग्लैम्लैहर्षक्षये’ इत्यस्माद्धातोः ‘वीज्याज्वरिभ्यो निः’ इत्यौणादिको निप्रत्ययः। प्रथयति प्रकटयति करोतीत्यर्थः। ‘कान्ताभिसरणोद्युक्ता स्मरार्ता साभिसारिका’। इति लक्षणात्। कान्तमुद्दिश्य निगूढमभिसरणशीलानां स्त्रीणामुपयोगानुपयोगाभ्यां हर्षा हर्षाहेतुत्वादिति भावः - नि.—‘कान्तार्थिनी तु या याति संकेतं साऽभिसारिका’ इत्यमरः॥
वृत्तं पूर्ववत्॥
आसारेणन हर्म्यतः प्रियतमैर्यातुं वहिश्शक्यते
शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते।
जाताः शीकरशीतलाश्चमरुतो रत्यन्तखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गते॥९५॥
व्या.—आसारेणेति—प्रियतमै र्वल्लभैरासारेण धारासंपातेन हेतुना - नि.—‘धारा संपात आसारः’। इत्यमरः। हर्म्यतः प्रासादात् - ‘धामतः’ इति पाठे गृहात् - उभयत्रापि* पञ्चम्यास्तसिल् - ‘अपपरिबहिरि’ त्यादिना समासविधानज्ञापकात् बहिर्योगे पञ्चमी। बहिर्यातुं। न शक्यते न समर्थ्यते - ‘शक्लशक्तौ’ - भावे ‘लट् - शकधृष’ इत्यादिना तुमुन् प्रत्ययः। तथा आयतदृशा दीर्घदृशा तरुण्या। शीतेन - यदुत्कम्पो गात्रवेपथुस्तन्निमित्तम्सन्निवारणार्थमित्यर्थः। गाढमतिदृढं। समालिङ्ग्यते परिरभ्यतेपूर्ववल्लट्। तथा। शीकरैरम्बुकणैः - शीतलाः शिशिराः - नि-
‘शीकरोऽम्बुकणः स्मृतः’ इत्यमरः। रत्यन्ते सुरतावसाने - यः खेदः श्रमस्तं छिन्दन्तीति तथोक्ताः। सुरतसंरम्भजनितश्रमापहारिण इत्यर्थः - ‘श्रमः। खेदोऽथ रत्यादे र्जातःस्वेदातिभूमिकृत्’ इति लक्षणात्। मरुतश्च जाताः प्रसृताः। अतः; धन्यानां पुण्यशालिनां। प्रियासङ्गमे प्रियासंभोगे सति। दुर्दिनं दुष्टदिनमपि मेघच्छन्नदिनं च - नि.—‘मेघच्छन्नेऽह्नि दुर्दिनम्’ इत्यमरः। सुदिनतां सुदिवसत्वं यति अन्येषां तु तदेव भवतीत्यर्थः। बतेति विस्मये - नि.—‘बत खेदानुकम्पामन्त्रण संतोषविस्मये’ इत्यभिधानात्॥
अत्र दुर्दिनमपि सुदिनतां यातीति स्फुरतो विरोधस्योक्तसमाधाना द्विरोधाभासोऽलङ्कारः - ‘आभासत्वे विरोधस्य विरोधाभास इष्यते’ इति लक्षणात्॥शार्दूलविक्रीडितम्॥
अर्धं सुप्त्वा निशायाः सरभससुरतायासखिश्श्लथाङ्गः
प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते।
सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दपुण्यः॥
व्या.—अथैकेन शरदं वर्णयति - अर्धमिति—निशायाः रात्रेः अर्धम् - यामद्वयमित्यर्थः - नि. ‘पुंस्यर्धेऽर्धं समेंऽशक’ इत्यमरः * अत्यन्तसंयोगे द्वितीया। सुप्त्वा शयित्वा निद्रया यामद्वयं गमयित्वेत्यर्थः। ततः मध्ये इति शेषः। सरभसं सोद्वेगं - यत्सुरतमाभ्यन्तरसंभोगः - तेन - य - आयासः। श्रम - स्तेन - सन्नानि परिखिन्नानि अतएव - श्लाथानि शिथिलानि - अङ्गान्यवयवा यस्य तथोक्तः-
‘मध्यं नक्तमुदाहृतं शरदि च प्रत्यूषकालो हिमे’॥
इति भोजवचनादर्धरात्रकृतसुरतपरिश्रान्त इत्यर्थः। एतेनैतस्यनायकस्य कामतन्त्रकुशलत्वं नायिकायाः शङ्खिनीत्वं च सूच्यते - तृतीययामस्य तत्सुरतयोग्यकालत्वात् - तदुक्तं रतिरहस्ये-
‘रमयति च तृतीये शङ्खिनीमार्द्रभावां
रमयति रमणीयां पद्मिनीं तुर्ययामे’॥ इति -
अन्यत्राऽप्युक्तम्॥
‘कुसुमितवनमध्ये कूचिमारस्तृतीये।
तिमिरनिबिडयामे शङ्खिनी संलभेत’॥ इति।
अत एवप्रोद्भूता प्रकर्षेणोत्पन्ना अत एवासह्या स्वतः शमयितुमशशक्या - तृष्णा पिपासा - यस्य स तथोक्तः। तथा। मधुना संभोगप्राक्कालीनमद्यपानेन - यो मदो मोहस्तेन निरतः परवशइत्यर्थः - ‘मदिरादिकृतो मोहो हर्षव्यतिकरो मद’ इति लक्षणात्। विविक्ते विजने - नि ‘विविक्तौ पूतविजनावि’त्यमरः - अन्यथा विस्रम्भविहाराननुभवादिति भावः। हर्म्यपृष्ठे प्रासादोपरिप्रदेशे। कर्करीतःगलन्तिकाख्यसच्छिद्रकुण्डिकायाः * पञ्चम्यास्तसिः - नि. ‘कर्कर्यालुर्गव्ठन्तिके’त्यमरः। संभोगक्लान्तायास्सुरतायासपरिश्रान्तायाः - कान्तायास्स्वप्रियतमायाः - शिथिलया निस्सहाययाभुजलतया - आवर्जितं धाराकारेण दत्तमिति स्वादातिशयोक्तिः। शारदं शरत्कालसंबन्धि सलिलं हंसोदकमित्यर्थः। ज्योत्स्नया चन्द्रिकया - अभिन्ना मिलिता - अतएवाच्छाधारा यस्मिन् कर्मणि तद्यथा तथा।
मन्दपुण्यो भाग्यहीनो - न पिबति - भाग्यसंपन्नस्तु पिबतीत्यर्थः; हंसोदकलक्षणमुक्तं द्रव्यरवमालायाम्—
‘वह्नितप्तमहिमांशुरश्मिभिश्शीतमम्बु शशिरश्मिभिर्निशि।
एवमेव तदहर्निशं स्थितं तच्च हंसजलनामकं स्मृतम्’ इति - एत
त्मानेन गुणसंपत्तिरपि तत्रौवोक्ता—
‘प्रसादकं त्रिदोषघ्नं हृद्यं लघु च शीतलं।
वृष्यं मनोहरं स्वादु विषघ्नं कान्तिकृत्परम्’॥ इति -
शरद्येतत्पाने नियमश्चाप्युक्तोऽन्यत्र -
कर्पूरागरुजं(?) सिताद्यभिरसैर्हंसोदकं वासितं।
सौधंचातिमनोहरं शिशिरतो मुग्धाङ्गनालिङ्गनम्।’
स्रग्धरावृत्तम्॥
हेमन्ते दधिदुग्धसर्पिरशना मञ्जिष्ठवासोभृतः।
काश्मीरद्रवसान्द्रदिग्धवपुषःछिन्ना विचित्रैरतैः।
वृत्तोरुस्तनकामिनीजनकृताश्लेषागृहाभ्यन्तरे
ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते॥९७॥
व्या.—अथ द्वाभ्यां हेमन्तं वर्णयति हेमन्त इति.—हेमन्तेहेमन्तऋतौ। दधि प्रसिद्धं - दुग्धसर्पिषी क्षीरघृते - तान्यशनं येषां ते तथोक्ता - ननु दुग्धाज्यादीनां शैत्यावसादकत्वेन सेवनं भवतु - दधिसेवनस्य तदतिरेककरत्वातत्स्रेत्वनं कथं युक्तमिति चेन्न - तस्याप्यायुष्कामस्य हेमन्ते सेवनोपयोगात् - तदुक्तं चारुचर्यायामृतुचर्याप्रस्तावे सर्वज्ञभोजराजेन -
‘त्रिषु च दधि निषेव्यं ग्रीष्मकाले वसन्ते
शरदि च परिवर्ज्यं वाञ्छता दीर्घमायुः।
यदि खलु परिवाञ्छा सेव्यतां सर्वकालं
सहगुडमधुपात्रे शर्करामुद्गयूषैः’॥
मञ्चिष्ठया रञ्जकद्रव्येण रक्तानि मञ्जिष्ठानि - वासांसि सुरक्तवसनानि - बिभ्रतीति तथोक्ताः***‘**तेन रक्तं रागादि’ त्यण्प्रत्ययः यद्यपि—
‘निर्वातं भवनं सुरक्तवसनं वह्नेः परं सेवनम्’॥ इति॥
वसन्तसमययोग्यत्वेन सुरक्तवसनधारणमभिहितं - तथाऽपि मतान्तरे एव मुक्तमिति न विरोधः। काश्मीरद्रवेण कुङ्मुपङ्केन - सान्द्रं यथा तथा - दिग्धानि रूषितानि - वपूंषि येषां ते तथोक्ताः। विचित्रै र्बाह्याभ्यन्तरनिरूपणेन नानाविधैः रतैः - छिन्नाः श्रान्ताः। वृत्तौ वर्तुलौ - उरू पीनौ च स्तनौ यासां तास्तथोक्ता याः कामिन्यस्ता एव जन - स्तेन कृताश्लेषाः विहितपरिरम्भाः - तदुक्तं -
कस्तूर्याऽगरुकुङ्कमैरतिकृतं पानं तटाकस्थितं
शीतं नैव विदीर्यते प्रियतमैरालिङ्गनं कम्बलम्॥’ इति।
तथा ताम्बूलीदलैर्नागवल्लीदलैः - पूगैः क्रमुकैश्च - पूरितानि मुखानि वक्रान्तरालानि - येषां ते तथोक्तास्ताम्बूलचर्वणरताः - तत्परा इत्यर्थः - नि. - **‘घोण्टातु पूगः क्रमुक’ इत्यमरः। इत्थंभूता धन्याः सुकृतिनः। गृहाभ्यन्तरे मन्दिरान्तराले सुखं यथा तथा। शेरते स्वपन्ति *‘**शीङोरुडि’ति रुडागमः। ताम्बूलस्य मानसोल्लासादिबहुगुणहेतुत्वात्तच्चर्वणोक्तिः - तदुक्तं चारुचर्यायां—
“मनसो हर्षणं श्रेष्ठं रतिदं मदकारणम्।
मुखरोगहरं हृद्यं दीपनं वस्तिशोधनं।
मुखशोधि कृमिहरं ताम्बूलं श्रीकरंपरम्॥” इति;
तत्कालानुगुणोपचारत्वेन च वीर्यवृद्धिकरत्वेन च प्रथमं दधिक्षीराज्यप्राज्यमृष्टान्नं भुक्त्वाऽनन्तरं कुङ्कुमकस्तूर्यादि मिश्रितचन्दनलेपनपूर्वकं विविधसुरतसंरम्भसंभोगपरिश्रान्ताः कान्तासमालिङ्गितगात्राश्च मन्तस्ताम्बूलचर्वणरताः सुकृतशालिनस्सुखेन निवातगृहाभ्यन्तरे स्वपन्तीति समुदायार्थः॥
शार्दूलविक्रीडितम्॥
प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृतिविकसत्कुन्दमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविलसितोदारमन्दारधाम्नि।
येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी
तेषामायामयामायमसदनसमायामिनी याति यूनाम्॥
व्या.—प्रोद्यदिति—प्रोद्यन्त्यः उदित्वराः - प्रौढाः प्रवृद्धाश्च याः प्रियङ्गवः फलिन्यः - ताभिर्द्युतिमुपचयजनितशोभां - बिभर्तीति तथोक्ते - नि. - ‘प्रियङ्गुः फलिनी फली’त्यमरः। द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरशब्दः - उपचारात्तदर्थोऽपि द्विरेफो उच्यते यथाऽह कैयटः - ‘शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते तथा भ्रमरशब्दस्य’ द्विरेफत्वाद्दिरेफो भ्रमरः। विकसद्भिःकुन्दैर्माध्यकुसुमैः - माद्यन्तो द्विरेफा यस्मिन् तस्मिन् - ब्रि. - ‘माध्यें कुन्दमि’त्यमरः ‘पुष्पमूलेषु बहुलमि’ति लुक् - यद्यपि कुन्द -
विकसनं शिशिरर्तुलक्षणं तथाऽपि तत्प्रत्यासत्त्योक्तमिति न विरोधः। प्रलयादागतं प्रालेयं हिमं * ‘तत आगत’ इत्यण्* ‘केकयमित्र युप्रलयानां यादेरिय’ इति। यशब्दस्य इयादेशः - प्रालेयवातैस्तुषारवा युभिः - प्रचलं चञ्चलम् - अत एव विलसितं प्रकाशमानमुदारं रम्यं च - मन्दाराणां संतानकतरूणां धाम स्थानं - यस्य तस्मिन् - यद्वा - मन्दाराणां पारिभद्रकतरूणां - धामेति उभयत्राप्युपचयहेतुत्वादिति भावः - नि. - ‘पारिभद्रो निम्बतकर्मन्दारः पारिजातक’ इत्यमरः। एवं भूते काले हेमन्तसमये। येषां यूनां तरुणानां तुहिनक्षोदेशीतनिवारणे - दक्षा कुचकुम्भयोरौष्ण्यसंभवेन तदालिङ्गनान्निवारणसमर्थेत्यर्थः। मृगाक्षी तरुणी।क्षणमल्पकालमपि * अत्यन्तसंयोगे द्वितीया। कण्ठलग्ना कण्ठावसक्ता - कण्ठालिङ्गन तत्परेति यावत्। नो न भवतीत्यर्थः। तेषां यूनां। आयामाः अत्यन्तदीर्घा - यामाः प्रहराः - यस्यास्सा विरहवेदनावशात्तथा प्रतीयमानयामेत्यर्थः। यामिनी रजनी यमसदनसमा यमलोककल्पादुरन्तदुःखावहेत्यर्थः। याति गच्छति तदानीमङ्गनाप्लवालिङ्गनमन्तरेण दुरन्तविरहवेदनामहानद्यास्तरितुमशक्यत्वादिति भावः - नि. - ‘द्वौयामप्रहरौ समौ’। इति ‘रजनी यामिनी तमी’ इति चाप्यमरः।
अनुप्रासोपमयोश्शब्दार्थालंकारयो स्संसृष्टिः॥ स्रग्धरावृत्तम्॥
चुम्बन्तो गण्डभित्तीरलकवतिमुखे सीत्कृतान्यादधानाः
वक्षस्सूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः।
ऊरूनकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोऽशुकानि
व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः॥
व्या.—अथ द्वाभ्यां शिशिरर्तुं वर्णयन् निगमयति - चुम्बन्त इति.—कान्ताजनानां - गण्डा भित्तय इव ताः - गण्डभित्तीः कपोलस्थलीः।चुम्बन्तः - ‘स्तननयनकपोलान् चुम्बनस्थानमाहु रि’ति रतिरहस्योक्तेरिति भावः। अत एवालकवति विश्लेषणवशाच्चूर्णकुन्तलालंकृते - मुखे - नि. - ‘अलकाश्चूर्णकुन्तला’ इत्यमरः। सीत्कृतानि सीत्कारान् - सीदित्यनुकरणशब्दः आदधानाः कुर्वाणाः - उत्पादयन्त इत्यर्थः। वक्षस्सु उरस्स्थलीषु। उत्कञ्चुकेषु उद्ग्रथितकूर्पासकेषु सत्स्वपि। स्तनभरेषु - पुलकोद्भेदं रोमाञ्चप्रादुर्भावमापादयन्तः - इति सात्त्विकोक्तिः। ऊरून् सक्थीनि। आकम्पयन्तः प्रचालयन्तः। पृथु विशालं - यज्जघनतटं जघनप्रदेशस्तस्मादंशुकानि परिधानांशुकग्रन्थीनीत्यर्थः। स्रंसयन्तः विश्लथयन्तः। अत एव - व्यक्तं स्फुटं - विटानां पल्लविकानामिव - चरितानि - कृत्यानि बिभ्रतीति तथोक्ताः। शिशिरस्यैते शैशिराः - शिशिरर्तुसंबंधिनः - ‘तस्येदमि’ त्यण्। वाता वान्ति संचरन्ति; विटसाधारणविशेषणविशिष्टत्वाद्वातानां तच्चरितभरणं युक्तमिति भावः - तदुक्तं रतिरहस्ये -
“अलकचुबुकगण्डं नासिकाग्रं च चुम्बन्
पुनरुपहितसीत्कं तालुजिह्वां च भूयः।
भरितलिखितनाभीमूलवक्षोरुहोरु
श्लथयति धृतधैर्यः श्लाथयित्वाथ नीवीम्॥” इति॥
अत्र विटचरितभृताइत्यत्र उपमालंकारस्स च व्यक्तमित्यनेनाभिव्यञ्जितात्प्रेक्षयाङ्गेन संकीर्यत इति संक्षेपः॥ वृत्तं पूर्ववत्॥
केशानाकुलयन् दृशो मुकुलयन् वासो बलादाक्षिप -
न्मातन्वन्पुलकोद्गमं प्रकटयन्मङ्गेषु कंपं शनैः।
वारं वारमुदारसीत्कृतकृतो दन्तच्छदान् पीडय -
न्प्रायः शैशिरएष संप्रति मरुत्कान्तासु कान्तायते॥१००॥
व्या. - केशानिति.—केशान् शिरोरुहान्। आकुलयन् व्याकुलीकुर्वन् एकत्र विश्लेषणादन्यत्र केलिसंरम्भाच्चेति भावः। दृशो मुकुलयन्निमीलयन्ए - एकत्र पुरुपस्पर्शवशादपरत्र सुखपारव - श्याच्चेति भावः। वासो जघनांशुकं। बलात्प्रसह्याक्षिपन् आकर्षन् - एकत्र वेगवशादपरत्र संभोगेच्छया चेति भावः। पुलकोद्गमं रोमाञ्च मातन्वन्मुत्पादयन् एकत्र शीतस्पर्शादन्यत्र शृङ्गारोद्वोधनाच्चेति भावः आवेगेनोद्वेगेन - यः कम्पो गात्रवेपथुस्तं। शनैः प्रकटयन्मन्दमभिव्यञ्जयन् - इति विशेषणद्वयेन सात्त्विकोक्तिः। उदाराणि मनोज्ञानि सीत्कृतानि कुर्वन्तीति तथोक्तान्। छाद्यन्ते एभिरिति छदाः * ‘पुंसि संज्ञायां घः प्रायेणे’ति घप्रत्ययः। ‘छादेर्घेऽद्व्युपसर्गस्ये’ति ह्रस्वः - दन्तानां छदाः। तानधरोष्ठान्। वारं वारं पुनः पुनः पीडयन् - एकत्रशैत्यातिशयेनान्यत्र दन्तक्षतेन च व्यथयन्नित्यर्थः। एषोऽयं। शैशिरो मरुत् शिशिरमारुतः। संप्रतीदानिं शिशिर्तौ। प्रायो भूम्नां। कान्तासु कामिनीषु विषये। कान्तायते-
‘कथाभिः कमनीयाभिः काम्यै र्भोगैश्च सर्वदा।
उपचारैश्च रमयेद्यस्सकान्तइतीरितः’॥
इत्युक्तलक्षणः कान्त इवाचरति–उक्तविशेषणैः कान्तसादृश्यलाभात्स इव वर्तत इत्यर्थः ‘उपमानादाचार’ इति क्यङ् * ‘अकृत्सार्वधातुकयोर्दीर्घः॥
अतएवोपमा - सा च प्रायश्शब्दादिव्यञ्जितोत्प्रेक्षया संकीर्यते - तदुक्तमाचार्यदण्डिना–
‘मन्ये शङ्के ध्रुवं नूनं प्राय इत्येवमादिभिः।
उत्प्रेक्षा व्यज्यते शब्दैरिव शब्दोऽपि तादृशः॥’ इति॥
शार्दूलविक्रीडितम्॥
इति शृङ्गारशतके ऋतुवर्णनपद्धतिः संपूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1724329021Screenshot2024-08-22194742.png"/>
॥वैराग्यशतकम्॥
<MISSING_FIG href="../books_images/U-IMG-1724329163Screenshot2024-08-22195012.png"/>
॥तृष्णादूषणम्॥
चूडोत्तंसितचन्द्रचारुकलिकाचंचच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन्।
अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयं -
श्चेतस्सद्मनियोगिनां विजयते ज्ञानप्रदीपो हरः॥१॥
व्या.—चूडेति.—चूडोत्तंसितस्य शिरोभूषणीकृतस्य - चन्द्रस्य - चारुकलिकया मनोहरकोरकयेव - चञ्चच्छिखया प्रकाशमानाग्रेण - भास्वरः प्रकाशमानः। विलोलः चञ्चलः - काम एव। शलभः - सः लीलया विलासेन - दग्धो येन। श्रेयसां शुभानां - दशासु अवस्थासु - अग्रे पुरतः - स्फुरन् प्रकाशमानः। अन्तर्मनासिस्फूर्जतः विजृम्भमाणस्य - अपारस्य अनन्तस्य - मोहतिमिरस्य - प्राग्भारं गुरुं प्राक्प्रदेशम्। उच्चाटयन् निरस्यन्। ज्ञानप्रदीपः ज्ञानप्रकाशकः। हरः भक्तानां ज्ञानाज्ञानकृतमानसिकवाचिककायिकपापहारी भगवान् साम्बशिवः। योगिनां सनकादीनां। चेतस्सद्मनि मनस्येव गृहे विजयते सर्वोत्कर्षेण वर्तते॥
प्रथमतः चूडोत्तंसितेति वाक्ये चन्द्रपदग्रहणात् भक्तानां तापहारीत्यर्थो लभ्यते। लीलादग्धेति वाक्ये कामशलभपदग्रहणात् महाशत्रुसंहारीति लभ्यते। अन्तःस्फूर्जदिति वाक्ये मोहतिमिरपदग्रहणात् यथा उदितस्सूर्यः सर्वतिमिराणि नाशयति तथा अयमपि अज्ञाननाशं
करोतीति। चेतस्सद्मनीति वाक्ये ज्ञानदीपपदग्रहणात् कामक्रोधादिपङ्करहितनिर्मलचित्तानां निस्सङ्गानां योगिनां चेतसि यथा वर्तते तथा भक्तानां सर्वाज्ञाननाशनं कुर्वन् ज्ञानप्रदीपो हरो विजयत इत्यभिप्रायः॥
भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं
त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला।
भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकव -
त्तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि संतुष्यसि॥२॥
व्या.—अथ रागस्य तृष्णामूलकत्वात्तद्गर्हणं विना न वैराग्यसिद्धि रित्यभिप्रेत्य तत्सिद्धार्थमादौ तावत्तत्परिपन्थि भूतां तृष्णां दूषयति - भ्रान्तमित्यादि नवभिश्श्लोकै;तत्र प्रथमं स्वकर्मकष्टनिवेदनपूर्वकं तृष्णां संबोध्य त्रिभिर्दूषयति - भ्रान्तमिति - अनेकैर्बहुभि दुर्गैःपार्वत वार्क्ष जलदुर्गादिभिः - विषमं विकटं दुरस्संचारमित्यर्थः देशं भ्रान्तं संचरितं। तथाऽपि। किंचिदल्पमपि। फलं धनं। न प्राप्तं न लब्धं - बहुफलापेक्ष्यैव दुर्गमविदेशसंचारः कृतः - फलंत्वीषदपि न प्राप्तमित्यर्थः - अत्र देशशब्दस्य नपुंसकत्वं निघण्ट्वन्तरेषु मृग्यं - यद्वा - देशमुद्दिश्य भ्रान्तम्। भावे क्तप्रत्ययः - अथवा नि. नीवृज्जनपदौ देशविषयावि’ त्यभिधानात् - पुंलिङ्गस्यापि देशशब्दस्य नपुंसकत्वसंबन्ध मनुवर्तत इति भाष्कारप्रयोगादिष्यते। तथा। उचितमनुरूपं। जातिकुलयोः - जातिः ब्राह्मणत्वादिः - कुलंसद्वंशः - तयोरभिमानमित्यर्थः सापेक्षत्वेऽपि गमकत्वात्समासः। त्यक्त्वा विसृज्य। निष्फला फलशून्या। सेवा परिचर्या। कृता। धनाढ्याना
मिति शेषः। उभयत्रापि कष्टमेवावशिष्टं नत्वन्यात्किंचिदपीत्यर्थः - नि. ‘लाभनिष्पत्तियोगेषु बले शल्ये धने फलमि’ति
वैजयन्ती। तथा मानविवर्जितमभिमानशून्यं यथा तथा - बहुमानविहीनमितिवा।आशङ्कया आकाङ्क्षया - लोलुपत्वेनेति यावत्। परगृहेषु काकेन बलिभुजा - तुल्यं काकवत्* ‘तेन तुल्यं क्रियाचे द्वतिः’ इति वतिप्रत्ययः। भुक्तम् अभिमानत्यागेऽपि न बहुमानपूर्वकं। किंतु सावमानमेव दत्तं परान्नपिण्डमभ्यवहृतमित्यर्थः। तथाऽपि। पापकर्मणां पापात्मनां पिशुने सूचके येषां तृष्णा अत एव पापिष्ठा इति भावः - यद्वा - पापकर्मणां दुष्कर्मणां - पिशुने प्रवर्तके - इत्यर्थः - एतद्व्यतिरेकेण दुष्कर्मप्रवर्तकान्तराभावादिति भावः। हे तृष्णे विषयस्पृहे। जृम्भसि प्रवृद्धा भवसि। किंत्वद्यापि ईदृक्कष्टकर्मप्रवर्तनदशायाऽमपीतिभावः। न संतुष्यसि संतुष्टा न भवसि - विरतिं न प्राप्नोषीत्यर्थः। इतः परमपि किंचिद्दुष्टकर्म कारयितुमपेक्षाऽस्तीवेति प्रतिभातीति भावः॥ शार्दूलविक्रीडितम्॥
उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णस्सरितां पतिर्णृपतयो यत्नेन सन्तोषछिताः।
मन्त्राराधनतत्परेण मनसानीताश्श्मशाने निशाः
प्राप्तः काणवराटकोऽपि न मया तृष्णे! सकामा भव॥
व्या.—उत्खातमिति—निधिशङ्कयानिक्षेपोऽत्र तिष्ठतीति भ्रान्त्या।क्षितितलं किंचिदिष्टकादिनिचितभूतलमुत्खातमवदारितं - तत्र न किंचिल्लब्धमित्यर्थः। तथा गिरेर्धातवःमनश्शिलाद्याः। ध्माताः सुवर्णभावं प्राप्स्यन्तीति धिया अग्नौ मूषायां समूलिका-
विशेषं निक्षिप्य यावत्प्राणं पूत्कारैस्संतापिता इत्यर्थः - तथाऽपि न किंचिज्जातमिति भावः ‘ध्माशब्दाग्नि (वक्त्र) संयोगयोरि’ त्यस्माद्धातोकर्मणि क्तः - नि—‘धातुर्मनशिलाद्यद्रेरि’त्यमरः - अन्यत्राप्युक्तम्—
“सुवर्णरूप्यताम्राश्महरिताल मनशिलाः।
गैरिकाञ्जनकाश्मीरलोहसीसास्सहिङ्गुलाः।
गन्धकाभ्रकमित्याद्या धातवो गिरिसंभवाः॥” इति -
अत्र सुवर्णरूप्यव्यतिरेकेणैव योज्यमन्यथा प्रकृतासंगतेरिति। तथा सरितां पतिस्समुद्रो। निस्तीर्णः द्वीपान्तरेषु वाणिज्येन बहुधनं संपादयिष्यामीति सांयात्रिकभावेन विलङ्घित इत्यर्थः। नृपतयो राजानश्च यत्नेन छन्दानुवर्तनरूपप्रयत्नेन। संतोषिताः। तथा मन्त्राराधनतत्परेण मन्त्रजपतात्पर्ययता मनसा हेतुना। श्मशाने प्रेतभूमौ। निशा रात्रयो। नीताः यापिताः भूतप्रेतपिशाचादिभ्यो भयमविगणय्य निध्यादिप्रदर्शकदेवताभिमुखीकरणसाधनमन्त्रजपतात्पर्येण निशासु श्मशाने स्थितमित्यर्थः॥ तथाऽपि मया काणवराटकः अन्धकपर्दोऽपि न प्राप्तः - धनं तु दूरापास्तमिति भावः नि. - ‘कपर्दश्च वराटक’ इति हलायुधः। अतः। तृष्णे। सकामा सफलमनोरथा भव। त्वत्प्रतिज्ञातार्थनिष्पत्तेः सिद्धसंकल्पा भवेत्यर्थः इत्थमनर्थहेतुभूतया तृष्णया वृथा व्यापारजनितश्रम एवावशिष्टो न वाञ्छितलाभ इत्यतस्तदुन्मूलने यत्नःकर्तव्य इति भावः॥
खलालापास्सोढाः कथमपि तदाराधनपरै-
र्निगृह्यान्तर्बाष्पंहसितमपि शून्येन मनसा।
कृतो वित्तस्तम्भप्रतिहतधिया मञ्जलिरपि
त्वमाशे! मोघाशे! किमपरमतो नर्तयसि माम्॥४॥
व्या.—खलालापा इति.—खलानां दुर्जनानामालापाः दुर्भाषितानि। तदाराधनपरैस्तत्सेवातत्परैरस्माभिरिति शेषः। कथ मप्यतिकृच्छ्रेण। सोढाः क्षान्ताः - अन्यथाभावे कार्यभङ्गो भवेदिति भयादिति भावः। तथा। अन्तरभ्यन्तर एव - बाष्पं तदा लापश्रवणजनिताश्रु। निगृह्य नियम्य। शून्येन निरुत्सुकेन मनसा उपलक्षितैर्निर्भिन्नान्तःकरणैरित्यर्थः। हसितं हासोऽपि कृत इति शेषः कर्तरि क्तः - दुरालापैराक्षिप्ता अपि ते संतोषवन्त एव न तु निर्विण्णा अतो विश्वसनीया इति तुद्ध्युत्पादनार्थं निर्विषयमिथ्याहासोऽपि विरचित इत्यर्थः। तथा। वित्तेन धनेन यः स्तम्भो जडीभावस्तेन प्रतिहता मूढा विवेकशून्येति यावत् - धीर्येषान्तेषां धनदुर्मदान्धानामित्यर्थः - नि. ‘स्तम्भौ स्थूणाजडीभावा वि’ त्यमरः। अञ्जलिरपि कृतः प्रह्वीभावोऽपि विहितः - तथाऽपि न किंचिल्लब्धमिति भावः। अतः मोघाशे व्यर्थमनोरथे। आशे तृष्णे - नि. ‘आशातृष्णादिशोः प्रोक्ते’ इति विश्वः। त्वं मामतोऽस्मात्खलालापादिसहनादिकृत्यात्। अपरामितरत्। किं कार्यं नर्तयसि नाटयसि मया किं कार्यं कारयसीति यावत् - न किमपीत्यर्थः - नादयितव्यार्थस्य वैयर्थ्यादिति भावः ननु पूर्वश्लोके मयेत्येकवचनं प्रयुक्तं - अत्रतु तदाराधनपरैरिति बहुत्वं - कथमेतत्समञ्जसमिति चेत्सत्यंतृष्णोपहतानां बहुत्वात्तत्प्रयुक्ततत्तत्कर्मकर्तृभेदेन क्वचिदेकवचनं क्वचिद्बहुवचनं विवक्षितमित्यवधेयम्; एवमुत्तरत्रापि योज्यम्॥
शिखरिणीवृत्तम्—‘रसैरुद्रैश्छिंना। यमनसभलाग शिखरीणी’ति लक्षणात्॥
अमषां प्राणानां तुलितबिसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम्।
यदाढ्यानामग्रे द्रविणमदनिस्संज्ञमनसां
कृतं मानव्रीडैर्निजगुणकथापातकमपि॥५॥
व्या.—अथ तृष्णादुर्विलसितेनैव महदनुचितमप्याचरितमित्याह - अमीपामिति - किंच तुलितानि समीकृतानि - बिसिनीपत्रपयांसि - येषां तेषां - नलिनीदलगतजललवतरलानां - क्षणभङ्गुराणामित्यर्थः। अमीषामविश्वसनीयानां प्राणानां कृते - एतत्प्राणत्राणार्थमित्यर्थः - नि. ‘अर्थे कृते शब्दौ द्वौ तादर्थ्येऽव्ययसंज्ञिता वि’ति वचनात्। विगलितः भ्रष्टः - विवेकः कर्तव्याकर्तव्यविचारो - येषां तैरस्माभिः। किं दुष्कर्म। न व्यवसितं नोद्युक्तं - सर्वमपि व्यवसितमेवेत्यर्थः। कुतः - यद्यस्मात्कारणात् द्रविणमदेन धनमदेन। निस्संज्ञानि स्तम्भितानि - मनांसि येषां तेषां - विमर्शशून्यान्तःकरणानामाढ्यनां धनिकानाम्। नि. - ‘इभ्य आढ्यो धनी स्वामी’ त्यमरः। अग्रे पुरस्तात्।* मानव्रीडैर्निर्लज्जैरस्माभि र्निजगुणकथापातकं स्वकीयविद्याविनयादिगुणनप्रशंसारूपपापमपि। कृतं; तच्च निषिद्धम् - ‘आत्मप्रशंसा मरणं परनिन्दा तथैवचे’ति वचनादात्मगुणप्रशंसैवात्मोपघातः - तस्य च निरयप्रापकत्वेन पातकत्वं च; निजगुणप्रख्यापनेन धनं संपाद्य तेन प्राणान्संतर्पयिष्याम इत्या शयेनेदृशानुचितमाचरितं - तथाऽपि न तल्लब्धमित्यपि शब्दार्थः॥
क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषत-
स्सोढो दुस्सहशीतवातपवनक्लेशो न तप्तं तपः।
ध्यातं वित्तमहर्निशं नियमितप्राणैर्नशम्भोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वंचिताः॥६॥
व्या.—अथ यद्यप्युचितमेवाचरितं तथाऽपि तस्या याथा तथ्यान्न फलोफधायकमभूदित्याह - क्षान्तमिति - सत्येवाऽपि परिभवहेतौ मनसोऽनुद्वेगः क्षमा - तया न क्षान्तं न सोढम् - अवमानादिकमिति शेषः - किं त्वशक्ततयैवेति भावः। तथा। गृहे - उचितं युक्तं यत् सुखं मृष्टान्नभोजनकलत्र संभोगादिजनितानन्दादि। तच्च। संतोषतः किमनेन तुच्छेनेति परितोषान्न त्यक्तं - किंत्वसंभावित ब्रह्मचर्येणैवेति भावः। तथा दुस्सहा स्सोढुमशक्याः - ये शीतवाततपनैः - क्लेशा दुःखानि - ते। सोढाः क्षान्ताः - देहयात्रार्थं देशान्तरसंचारे तेषामनुभूतत्वादिति भावः। तपश्चान्द्रायणादिकं तु। न तप्तं न चरितं। तथा। नियमितप्राणै रन्तः प्रत्याहृतप्राणैरस्माभिः।अहश्च निशा चाहर्निशम् - अहोरात्रं * ‘अचतुरे’ त्यादिना निपातनात्साधुः। वित्तं। ध्यातं चिन्तितं शंभोः पदं न ध्यातं। अतो मुनिभि र्यद्यत्कर्म कृतम् अवमानसनादिकमाचरितं। तत्तदेव कर्म अस्माभिश्च कृतं। किंतु तैस्तैस्तत्तत्कर्मनियतैः। फलैर्वञ्चिता वर्जिताः। तेषामयथाचरणेन वैगुण्यात्फलभाजो न जाता. इत्यर्थः; क्षन्त्यादिनैव यद्यवमानादिकं क्षान्तं स्यातर्हि फललाभो भवेदेव - नतु तदाचरितम्; अयं चानर्थस्तृण्णादुर्विलसितमूल एवेति फलितार्थः॥ शार्दूलविक्रीडितंवृत्तं - लक्षणं तूक्तम्॥
भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः।
कालो न यातो वयमेव यातास्तृष्णा न जीर्णावयमेव जीर्णाः॥
व्या.—अथ त्रिभिर्जरादूषणद्वारा तृष्णां निन्दति - भोग इति.—भुज्यन्त इति भोगाः स्रक्चन्दनादिविषया। न भुक्ता नानुभूताः। किंतु वयमेव भुक्ताः तत्प्राप्त्यर्थं दुरन्तचिन्तया ग्रस्ताः। तथा। तपः व्रतोपवासादिपुण्यं। न तप्तं नाचरितं। किंतु वयमेव तप्ताः आध्यात्मिकादितापत्रयेण संतापिताः। तथा। कालो न यातः न गतः - तस्याखण्डदण्डायमानत्वेन यानासंभवादिति भावः। किं तु वयमेव याताः जीवितावधिकालमुल्लङ्घ्यावसानं प्राप्ता इत्यर्थः अथवा कालो न यातः सदाचारसज्जनसहवासादिना न गतः - तथा चेच्छ्रेयो भवेदेवति भावः - किंतु वयमेव याताः देहगेहादियोगक्षेमानुसंधानलम्पटत्वेन कालमतिक्रम्य गता इत्यर्थः। तथा। तृष्णा। न जीर्णा न शिथिला - तच्छैथिल्यहेतो रनुपस्थितत्वादिति भावः। किंतु वयमेव जीर्णाः तृष्णासहकृतजरया शिथिलाङ्गा जाता इत्यर्थः। अतः इतः परंवा। क्षिप्रं खट्वाङ्गधारि चिन्तनेनैव तृष्णोन्मूलनहेतु स्संपादनीय इति भावः॥
इन्द्रोपेन्द्रवज्रालक्षणश्रवणादुपजाति वृत्तम् - ‘अनन्तरोदीरित लक्ष्मभाजौ पादौ मदीयावुपजातयस्ता’ इति लक्षणात्॥
वलिभिर्मुखमाक्रान्तं पलितेनांकितं शिरः।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते॥८॥
व्या.—वलिभिरिति.—बलिभिर्जराविश्लथचर्म रेखाभिर्मुखं वक्त्रमाक्रान्तं - वैरूप्यं प्रापितमित्यर्थः। पलितेन जरसा शौक्ल्येन।
शिरः मस्तकम्। अङ्कितं चिह्नितं - शिरः केशादयो धवला जाताःइत्यर्थः।तथा गात्राणि करचरणाद्यवयवाः - अवयववाचिनो गात्रशब्दस्यावयवार्थत्वं लक्षणया वेदितव्यम् - अवयवावयविनो रभे दविवक्षया वा - न च गात्रबाहुव्व्यविवक्षायां यथा श्रुतमेव समञ्जसमिति वाच्यं - मुखं शिरइत्येकवचनप्रयोगविरोधात् - ननु तत्रापिजात्येकवचनग्रहणे न कोऽपि विरोध इति चेत्किमनेन बकबन्धनप्रयासेनेत्यलमतिप्रसङ्गेन। शिथिलायन्ते शिथिलानीवाचरन्ति जराजर्जरभावविश्लिष्टसंधिबन्धतया कार्यकरणासमर्थान जायन्त इत्यर्थः। किंतु। एका तृष्णा। तरुणायते तरुणीवाचरति - बलिष्ठा जातेत्यर्थः। जरया सर्वमप्येवं विशकलितं न तृष्णेति महदेतदाश्चर्यमितिभावः - उभयत्रापि * ‘कर्तुः क्यङ्सलोपश्चे’ ति क्यङ्* ‘अकृत्सार्वधातुकयो दीर्घ’ इति दीर्घः॥
निवृत्ता भोगेच्छा पुरुषबहुमानोऽपिगलित -
स्समानास्स्वर्यातास्सपदि सुहृदो जीवितसमाः।
शनैर्यष्ट्युत्थानं घनतिमिररुद्धेच नयने
अहो मूढः कायस्तदपि मरणापायचकितः॥९॥
व्या.—निवृत्तेति—भोगेच्छा विषयानुभवस्पृहा। निवृत्ता विगता। अत्र जरादूषणाभिनिवेशपारवश्येनेत्थमुक्तं - तेन ‘तृष्णैकातरुणयत’ इत्यविरोधः। पुरुष इति यो। बहुमानस्सम्मानस्सोऽऽपि गलितः अपगतस्तत्प्रयोजकपौरुषाद्यपायादिति भावः - यद्वा - पुरुषाणां बहुमानस्तत्कर्तृकसम्मान - स्सोपिं गलितः - पूर्ववत्पुरुषादिना न बहुमन्यतइत्यर्थः इदानीं तादृशगौरवालाभादिति भावः। अथ परेत-
बान्धवशोचनापदेशेन स्वस्यापशदतां सूचयन्नाह - जीवितसमाः प्राणतुल्याः - अत्यन्तप्राणतुल्या इत्यर्थः। सुहृदो बन्धवश्च। समाना सबहुमानास्सन्त स्सपदि सद्यएव जरावस्थायाः प्रागेवेत्यर्थः। स्वर्याताः स्वर्गंगताः - निजसुकृतपाकेन पुण्यलोकं गता इत्यर्थः - जरादुर्दशापत्त्या बहुमानरहितोऽहं न यातो हीनजीवन इति भावः - यद्वा - समाना स्सवयसः - जीवितसमा बन्धवश्च - सपदि सद्यएव दुरवस्थापत्तेः पूर्वमेवेति भावः - स्वर्याता लोकान्तरं गताः - न त्वहमित्यर्थः - नि. ‘स्वरव्ययंस्वर्गनाकत्रिदिवत्रिदशालया’ इत्यमरः। ननु कंचित्कालं स्थीयतां किमनेन अमङ्गलाशंसनेनेत्यत आह - शनैर्मन्दं। यष्ट्युत्थानं यष्ट्यवष्टम्भनेनोत्थानं - प्राप्तमिति शेषः - पादपाटवविघट्टनात्स्वयमुत्थाने संचारे वाशक्तिर्नास्तीत्यर्थः नत्वेतावन्मात्रमेव - किंतु नयने चक्षुषी च * प्रगृह्यत्वादस्य अहो इत्यनेन संध्यभावः। घनं निबिडं - यत्तिमिरं पाटलाख्यनेत्ररोगविशेषो वैद्यशास्त्रप्रसिद्धः - नि. ‘तिमिरं ध्वान्ते नेत्रामयेऽपि चे’ति विश्वप्रकाशश्च - तेन रुद्धे निरुद्धशुद्धप्रसारे अर्थग्रहणासमर्थे जाते इत्यर्थः - अन्धकपङ्कजीवना द्वरं मरणमेवेति भावः। एतत्सर्वमनर्थजातं जराकृतमेवेति हृदयं। तदपि तथाऽपि। मूढः ज्ञानहीनः। कायो देहः। मरणेन योऽपायो विश्लेषः - नाश इति यावत् - तस्माच्चकितो भीतः भवतीतिशेषः; अत्र देहिधर्मः तदुपाधौ देहे उपचर्यते। अहो ईदृक्कष्टदशायामपि जीविताशैव बलीयसी न विज्ञानोदय हत्याश्चर्यमित्यर्थः। एतदपि तृष्णाविलसितमेवेति भावः।शिखरिणी वृत्तम्॥
आशा नामनदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः॥१०॥
व्या.—नन्वेतादृशतृष्णामुल्लङ्घ्य स्वात्मसुखानुभवतत्परा ये केचन महान्तस्सन्ति किमित्याशङ्क्य सन्त्येवेति निगमयन् तस्याः पृथग्जनदुस्तरतरत्वद्योतनार्थं महानदीत्वं रूपयति आशेति.— मृष्टान्नपानभोजनविचित्राम्बरभूषण- षोडशवार्षिककामिनीसंभोगादिगोचरमानसव्यापार मनोरथास्त एव जलानि यस्यास्सा तथोक्ता। अप्राप्येष्वप्यर्थेषु प्राप्त्यभिलाषविशेषाः तृष्णास्ताभिरेव तरङ्गैःकल्लोलैराकुलासङ्कुला। अभिमतवस्तुषुस्नेहो रागः - उपलक्षणमेतद्द्वेषादीनां तथा च रागद्वेषादय एव - ग्राहा नक्रादयस्त्वस्यां सन्तीति तथोक्ता। तत्तत्पदार्थलाभालाभगोचराः वितर्काः - त एव विहगाः कारण्डवादिपक्षिणो - यस्यां सा तथोक्ता। ‘मनसोनिर्विकारत्वं धैर्यं सत्स्वपि हेतुष्वि’ त्युक्तलक्षणं धैर्यं - तदेव द्रुमः - तं ध्वंसयति उन्मूलयतीति तथोक्ता। अज्ञानं मोह एव - तद्वृत्तयो दम्भदर्पादयो लक्ष्यन्ते - तथा च - मोहाः अज्ञानवृत्तय - एवावर्ता जल भ्रमास्तैस्सुदुस्तरा सुष्ठु तरितुमशक्या। अतिगहना - एकत्र दुर्विभाव्यस्वाभाव्यादन्यत्र दुरवगाहत्वाच्चेत्थमिति निर्णेतुमशक्येत्यर्थः। इष्टाधिगमजनितध्यानं चिन्ता - बहुविधत्वेऽपि; चिन्तानां तटद्वयरूपणोपयोगार्थं द्वित्वं वक्ष्यते - तथा प्रोत्तुङ्गेअत्युन्नते - चिन्ते एव तटे - यस्यास्सा तथोक्ता। आशा नाम नैकविधात्यायता -
तृष्णा नि. - ‘दशाऽवस्थानैकविधाऽत्याशा तृष्णाऽपि चायते’त्यमरः। नामेति प्रसिद्धौ - आशेति प्रसिद्धेत्यर्थः। या नदी वर्तत इति शेषः - यत्तदोर्नित्यसंबन्धात्। तस्या आशानद्याः। पारं गताः ज्ञानप्लावेनेति भावः। अत एव विशुद्धमनसोनिर्मलान्तःकरणाः। योगीश्वरा महायोगिनः। नन्दन्ति ब्रह्मानन्दमनुभवन्तीत्यर्थः। अतस्सर्वदा तृष्णातरणोपायोऽन्वेषणीयः श्रेयस्कामेनेति भावः॥
इति शृङ्गारशतके दुर्विरक्तपद्धतिस्संम्पूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1724339204Screenshot2024-08-22223732.png"/>
॥विषयपरित्याग विडंबनम्॥
न संसारोत्पन्नं चरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः।
महद्भिः पुण्यौघैश्चिरपरिगृहीता श्च विषया
महान्तो जायंते व्यसनमिव दातुं विषयिणाम्॥११॥
व्या.—यदुक्तं योगिन स्तृष्णानदीं तीर्त्वा नन्दन्तीति - तत्र विषयपरित्यागमन्तरा तदसंभवादथविषयपरित्यागविडम्बनोच्यते - अथेति.—अथ तृष्णादूषणानन्तरं। विषयाणां रूपादीनां नि. - ‘रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी’त्यमरः यद्वा - स्रक्चन्दनवनितादिभोग्यवस्तूनां - परित्यागस्सन्यासस्तस्य विडम्बजाऽनुकरणमभिनय इति यावत् - उच्यत इति शेषः तत्प्रकारमेवाह दशभिः - न संसारोत्पन्नमिति—संसारे अनादिभवपरम्परायामुत्पन्नमुदितं - फलोद्देशेनानुष्ठितमिति यावत्। चरितं पुण्याचरणम्* ‘आदिकर्मणि कर्तरि चे’ ति कर्तरि क्तः। कुशलं क्षेम -
करं। नानुपश्यामि नानुसंदधामीत्यर्थः। कुत एतद्वैपरीत्यमित्याशङ्कय तत्रोपपत्तिमाह - विपाक इति - पुण्यानां पुराकृतसुकृतानां। विपाकस्संपद्रूपपरिपाकः। विमृशतः तत्फलं परामृशतः। मे मम। भयं। जनयत्युत्पादयति - तत्पर्यालोचने संपदां पुण्यव्ययलभ्यत्वेन विपद्रूपत्वाद्भयजनकत्वमित्यर्थः - अत एवोक्तं कविकुलसार्वभौमेन श्रीहर्षेण - ‘पूर्वपुण्यविभवव्ययलब्धा स्संपदो विपद एव विमृष्टा’ इति - अथ वा - पुण्यानां ज्योतिष्टोमादिसत्कर्मणां। विपाकः सर्गादिरूपफलपरिणामः। विमृशतः पूर्वोत्तरं पर्यालोचयतो। मे भयं जनयति ‘क्षीणे पुण्ये मर्त्यलोकं विशन्तीति’ भगवद्वचनात् - यावन्नियतकालं स्वर्गसुखमनुभूय पुण्यक्षये सति पुनर्मर्त्यलोकप्रवेशे महा विषादगर्भ निरयवासजन्मपरम्परादुःखप्रभवत्वाद्भयङ्करत्वमित्यर्थः। अतः शकुलं न पश्यामीति संबन्धः। एवं तत्फलभूतानां भोगानामप्यनर्थहेतुत्वमेवेत्याहयाव-महद्भिः भूयिष्ठैः पुण्यौघैः पुण्यसंचयैःहेतुभिश्चिरपरिगृहीताश्चिरकालमारभ्य संगृहीता। विषयाश्च भोगा अपि। विषयिणां विषयासक्तानां। व्यसनं विपत्तिं दुःखमिति यावत्। दातुमिवदातुमेवयाव - इव शब्दोऽत्रावधारणार्थकः - न तूत्प्रेक्षाभिव्यञ्जकः - अन्यथाऽर्थान्तरन्यासदिति वेदितव्यं। महान्तः प्रवृद्धा। जायन्ते भवन्ति - व्यसन प्रदानप्रवणैव एतद्वृद्धिः नान्यदानप्रवणेत्यर्थः; एव मैहिकामुष्मिक भोगानामनिष्टानुबन्धित्वात्तत्त्याग एव श्रेयानिति भावः॥ शिखरिणीवृत्तम्॥
अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया
वियोगे कोभेदस्त्यजति न जनो यत्स्वयममून्।
व्रजन्तस्स्वातन्त्र्यादतुलपरितापाय मनस
स्स्वयं त्यक्ता ह्यते शमसुख मनन्तं विदधति॥१२॥
व्या.—अथ सर्वथा विषयाः परित्याज्या इति वक्तुं तेषां व्यवस्थितिमाह - अवश्यमिति - विषया भोगाश्चिरतरं बहुकालम्। उषित्वा स्थित्वाऽपि * ‘वसति क्षुधोरि’ तीडागमः ‘वचि स्वपी’त्यादिना संप्रसारणम्। अवश्यं नियतं सिद्धमिति यावत्। यातारो गन्तारः - आगमापायित्वेनास्थिरत्वात्परिचयानादरेण पुरुषं त्यक्त्वा यातार एव - न तु परिचयवशाद्यावज्जीवं स्थातार इत्यर्थः - तदुक्तं भगवता -
“मात्रास्पर्शाश्च कौन्तेय शीतोष्णसुखदुःखदाः-
आगमापायिनोऽनित्यास्तां स्तितिक्षस्व भारत॥”इति -
यातेर्लुट्। अतः वियोगे विषयविरहे। को भेदः कोवा विशेषः न कोऽपीत्यर्थः - स्वकर्तृकत्यागे वा पुरुषकर्तृकत्यागे वा तस्य जायमानत्वादिति भावः। तथाहि। यद्यस्मात्कारणात्। जनो विषयासक्तः पुमान्। अमून् विषयान् स्वयं न त्यजति गुणान् गृहीत्वा न विसृजति - स्वयमेव त्यजति चेत्तर्हि तेन कृतार्थो भवेदिति भावः - एतेन विषयकर्तृकत्यागे तु न कृतार्थत्वमिति सूच्यते। ननु कुत एतद्वैषम्यमित्याशङ्क्य तत्र व्यवस्थामाह - स्वातन्त्र्यात् कर्तृत्वात्स्वाच्छन्द्यादिति यावत् * ‘स्वतन्त्रः कर्ते’त्यनुशासनात्। त्यजन्तः पुरुषं विसृजन्तस्सन्तः - विषयाइति शेषः। मनसः अतुलपरितापाय दुरन्तसंतापाय भवन्तीति शेषः - अत्यन्तदुःखकारिणो भवन्तीत्यर्थः। स्वयं स्वेने कर्त्रा पुरुषेण। त्यक्ताः तुच्छत्वभावनया
विसृष्टाश्चेत्तर्हि। एते विषया। अनन्तमपरिच्छिन्नं। शमसुखं परमानन्दमिति यावत्। विदधति कुर्वन्ति हि - हिरवधारणे - तदुक्तं -
“यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् -
तृष्णाशमसुखस्यैते नार्हतप्षोडशीं कलाम्॥” इति॥
अतोऽनर्थापादक विषयकर्तृकत्यागात्पूर्वमेव स्वयं तत्त्यागतत्परेण भवितव्यं श्रेयस्कामेनेति भावः॥वृत्तं पूर्ववत्॥
ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं
यन्मुंचन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः।
सम्प्राप्तान्मपुरा न संप्रति न च प्राप्तो दृढप्रत्ययो
वाञ्छमात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम्॥१३॥
व्या.—ननु कीदृग्विधाः पुरुषा विषयत्यागसमर्था इत्याकाङ्क्षायां ज्ञानिन एव समर्थ न तु मादृशा इत्याह - ब्रह्मेति.—ब्रह्मज्ञानेन यो - विवेकस्तत्त्वविचारस्तेन - निर्मला निष्कलङ्का -असंभावनादिरहितेति यावत् - साधीर्येषां ते ज्ञानवन्त इत्यर्थः। दुष्करं कर्तुमशक्यं। कुर्वन्ति। अहो इत्याश्चर्ये। किं तद्दुष्करमित्याह - यद्यस्मादुपभोगं भजन्तीत्युपभोगभाञ्जिस्रक्चन्दनादि - भोगसाधनत्वेनानुभूयमानान्यपीत्यर्थः - धनानि वित्तानि। निःस्पृहाः निरीहास्सन्तः। एकान्ततः नितान्तं निरवशेषमिति यावत्। मुञ्चन्ति विसृजन्ति इदमेवातिदुष्करमत्यन्ताश्चर्यं चेत्यर्थः। वयमस्मद्विधा अज्ञानिनस्तु। पुरा पुरातनकाले न संप्राप्तान्नाधिगतान्। तत स्संप्रतीदानीं वर्तमानकालेऽपि। प्राप्तौ वा भविष्यत्काललाभेऽपि वा न दृढप्रत्ययान्न दृढविश्वासान् - अविश्वसनीयानिति यावत् - कालत्रयेऽ -
प्यसंभाव्यमानानित्यर्थः- नि. ‘प्रत्ययोऽधीनशपथज्ञानविश्वासहे तुष्वि’त्यभरः। किं तु। वाञ्छामात्रपरिग्रहान्मनोरथ- मात्रसंगृहीतात्- तनोव्यापारमात्र गोचरी कृतानपीत्यर्थः- अनुभूयमानांस्तु किमुतेति भावः- विषयानिति शेषः। त्यक्तुं परमत्यन्तं न शक्ता असमर्थाः- अतस्तएव धन्या इति भावः- ‘शकघृषे’ त्यादिना तुमुन; विषयपरित्यागे ब्रह्मज्ञानमेव मुख्यसाधनमतस्तत्संपादनेन तत्परित्यागोऽवश्यं कर्तव्य इति फलितार्थः॥
शार्दूलविक्रीडितम्॥
धन्यानां गिरिकंदरेषु वसतां ज्योतिः परं ध्यायता-
मानन्दाश्रुजलं पिवन्ति शकुना निश्शङ्कमङ्केशयाः।
अस्माकं तु मनोरथोपरचितप्रासादवापीतट-
क्रीडाकाननकेलिकौतुकजुषामायुः परंक्षीयते॥१४॥
व्या.—उक्तमेवार्थं भङ्ग्यन्तरेणाह- धन्यानामिति. - गिरिकन्दरेषु गिरिगह्वरेषु- नि. ‘दरी तु कन्दरो वा स्त्री’ त्यमरः। वां विविक्ततयावर्तमानानां- ‘विविक्तसेवी लध्वाशी’ति वच नादिति भावः। तथा। परं ज्योतिः परं ब्रह्म। ध्यायतां। धन्यातां पुण्यशालिनां- नि. ‘सुकृती पुण्यवान् धन्य’ इत्यमरः ‘आनन्देन ये अश्रुकणाः- बाष्पबिन्दवः- तान्। निश्शङ्कं तेषां तपः प्रशान्तत्वान्निर्भयं यथा तथा। अङ्के* शेरत इत्यङ्के शयाः उत्सङ्गवर्तिनः ‘अधिकरणे शेतेरि’ त्यच्प्रत्ययः। शकुनाः। पक्षिणः पिबन्ति। किंतु। मनोरथेन वाञ्छामात्रेणोपरचिताः याः- प्रासादेषु हर्म्येषु - बापीतटेष्वल्पसरस्तीरेषु- क्रीडाकाननेषूद्यानेषु च- केलयो बिहा-
रास्तासु - कौतुकजुषामौत्सुक्यभाजामस्माकमायुः परम् आयुरेव। क्षीयते नश्यति - दुर्लभविषयचिन्तातत्परैः वृथा कालो यापितः न तु तत् ब्रह्मज्ञानं संपादितम् - अतो वयमपि तथा न धन्या इति। भावः॥ वृत्तमुक्तम्॥
भिक्षाऽशनं तदपि नीरसमेकवारं
शय्या च भूः परिजनो निजदेहमात्रम्।
वस्त्रंविशीर्णशतखण्डमयी च कन्था
हाहा तथाऽपि विषया न परित्यजन्ति॥१५॥
व्या.—अथ कस्यचिद्विषयाभिभूतस्य निर्वेदनवचनमभिनीयाह - भिक्षाशनमिति. - भिक्षा भैक्षामित्यर्थः। अशनमाहारः। तदपि भिक्षान्नाशनमपि। नरिसं मधुराम्लादिरसहीनं। तदप्येकवारं - न तु द्वित्रिवारमित्यर्थः। शय्या शयनीयं च। भूः - साऽप्यास्तरणादिरहितेति भावः। परिजनः। सेवकजनः। निजदेहमात्रं स्वस्य स्वयमेव परिजनो न तु कश्चिदन्योऽस्तीत्यर्थः। वस्त्रमाच्छादनं च विशीर्णा शतखण्डमयी विशेषेण जीर्णाएकचीवरशकलनिर्मिता। कन्था। तथाऽपि ईदूक्कष्टदशायामपि। विषयाः भोगवाञ्छाः। न परित्यजन्ति न विसृजन्ति - मामिति शेषः। हाहेति विषादविस्मयातिशयाभिनिवेदनार्थाद्विरुक्तिः। पापिष्टा इमे विषया हतमेव घ्नन्तीतिभावः॥
अत्र विषयपरित्यागकारणसामग्र्यां सत्यां कार्यानुदयाद्विशेषोक्तिरलंकारः - ‘तत्सामग्र्या मनुत्पत्ति र्विशेषोक्ति र्निगद्यत’ इति लक्षणात्॥
वसन्ततिलकावृत्तम्॥
स्तनौ मांसग्रंथी कनककलशावित्युपमितौ
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम्।
स्रवन्मूत्रक्लिन्नं करिकरशिरस्सपर्धि जघनं
मुहुर्निन्द्यंरूपं कविजनविशेषैर्गुरु कृतम्॥१६॥
व्याः—अथ विषयाणां कामिनीप्राधान्यात्तद्दूषणाभावे तत्परित्यागो न सुकर इति मनसि निधाय तां दूषयति - स्तनाविति.—स्तनौ कुचौ। मांसग्रन्थी मांसपिण्डौ। तथाऽपि। कनककलशौ अनर्घ्यहिरण्मयकुम्भावित्युपमितौ उपमाविषयीकृतौ - कनककलशकल्पत्वेनोपवर्णितावित्यर्थः। मुखं वक्त्रंतु श्लेष्मागारं कफलालादन्तमलादिस्थानं तदपि च; शशाङ्केन सुधारसमयेन चन्द्रेण। तुलितं समीकृतं - तत्तुल्यत्वेनोपवर्णितमित्यर्थः * अत्र तुलितशब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि न ‘तुल्यार्थैरतुलोपमाभ्यामि’ति तृतीयाप्रतिषेधः - अत्र सूत्रे सदृशवाचिन एव ग्रहणादिति। जघनं कटिपुरोभागस्तु - नि. ‘पञ्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुर’ इत्यमरः। स्रवता मदनसदनदार्ढ्याभावाद्द्रवता - मूत्रेण - क्लिन्नमार्द्रम् - अपवित्रमित्यर्थः। तदपि। करिवरशिरःस्पर्धिमदजलपरिप्लुति श्लाघ्यगजेन्द्रकुम्भस्थलसदृशमित्युपवर्णितमिति भावः। अतः। मुहुः पौनः पुन्येन। निन्द्यं ग्रन्थ्याद्याकारेण जुगुप्स्यं। रूपं स्तनाद्यवयवस्वरूपं कामिन्या इति शेषः। कविजनविशेषैः तत्तद्विशेषकल्पना चतुरकवीश्वरैः। गुरुकृतंकनककलशादिसादृश्यवर्णनेन श्रेष्टीकृतं। कविजनवाङ्मात्र सारमेवैतद्रूपं न तु स्वतस्सिद्धसारवदिति भावः॥
अत्र मांसग्रन्थित्वेन स्तनयोर्मर्दनानर्हत्वं। श्लेष्मागारत्वेन मुखस्य चुम्बनाद्ययोग्यत्वं। स्रवन्मूत्रक्लिन्नत्वेन जघनस्य हेयतया संभोगापात्रत्वं च सूचितम्॥ एतत्कृत एव कामिनीनां संभोगास्पदत्वेनाभिमतत्वम्- इदमेवेत्थं जुगुप्सितत्वेन दूषितं चेत्तर्हि किमन्यत्कामिन्यां भोगयोग्यमस्तीति श्लोकतात्पर्यम् - तदुक्तं -
‘हासोऽस्थिसंदर्शनमक्षियुग्ममत्युज्ज्वलं तत्कलुषं वसायाः।
स्तनौ च पीनौ पिशितास्रपिण्डौ स्थानान्तरे किं नरको न योषित्?’ इति शिखरिणी॥
एको रागिषु राजते प्रियतमा देहार्धहारी हरो
नीरागेषु जनो बिमुक्तललनासङ्गो न यस्मात्परः।
दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जन -
श्शेषः कामविडंबितान्न विषयान् भोक्तुं न मोक्तुं क्षमः॥
व्या.—अथैकः परमेश्वर एवैकान्ततोऽनुरक्तो विरक्तश्च अन्यस्तु तथाऽननुरक्तत्वादविरक्तत्वाच्च परिक्लिष्ट एवेत्याह - एक इति. - प्रियतमायाः पार्वत्याः - देहस्य शरीरस्य - अर्धम् अर्धभागम्* ‘अर्धंनपुंसकमि’ति समासः - तद्धरतीति तथोक्तः - महाकामुकतया क्षणमात्रविश्लेषस्याप्यसहिष्णुत्वान्निजदेहवामार्धपरिक्लृप्तप्रियतम इत्यर्थः - वामार्धधारीति च पाठः। एक एव हरो। रागिष्वनुरक्तेषु - कामुकेष्वित्यर्थः। राजते अप्रतिनिधित्वेन प्रकाशते - तादृशकामुकान्तरस्यानुपलभ्यमानत्वादिति भावः। तथा। नीरागेषु विरक्तेष्वपि। विमुक्त स्त्यक्तो - ललनासङ्गो योषिदासक्तिर्येन स तथोक्तो। जनः बैराग्यपुरुषो। यस्माद्धरात्। परोऽन्यो। नास्ति - तपश्चरणसमये मदन-
दहनादिना तादृग्वैराग्यप्रकटनात्तथाविधविरक्तो न कश्चिदस्तीत्यर्थः। किंतु। दुर्वाराः निवारयितुमशक्याः - स्मरबाणा एव - पन्नगास्सर्पा-स्तेषं विषेण गरलेन - तत्सदृशेन व्यामोहेन च - व्याविद्धो व्याक्षिप्तः - अतएव - मुग्धो मूढो निश्चेष्टश्च शेषः अवशिष्टः। जनः। कामेन मन्मथेन हेतुना - विडम्बिताननुकृतान् - स्वीकृतानितियावत्। विषयान् स्त्रीसंभोगादीन्। भोक्तुमनुभवितुं वा। मोक्तुं त्यक्तुं वा। न क्षमः तादृगनुरागविरागोत्कर्षाभावात्तथा विधभोगत्यागयोरसमर्थ इत्यर्थः; कर्तुमकर्तुमन्यथा कर्तुं समर्थः परमेश्वरएक एवानुरक्तेषु विरक्तेषु च परां काष्ठां प्राप्तस्तदन्यस्सर्वोऽप्युभय भ्रष्टएवेति भावः॥ स्मरबाणपन्नगेत्यत्र रूपकालंकारः॥शार्दूलविक्रीडितम्॥
अजानन्दाहात्म्यं पततु शलभस्त्रीव्रदहने
स मीनोऽप्यज्ञानाद्बडिशयुतमश्नातु पिशितम्।
विजानन्तोऽप्येते वयमिह विपज्जालजटिला -
न्न मुञ्चामः कामानहह गहनो मोहमहिमा॥१८॥
व्या.—अथ विषयदोषपरिज्ञानेऽप्यत्यागे कारणमाह - अजानन्निति - शलभः पतङ्गः। दह्यते अनेनेति दाहः * करणे घञ् - तस्य आत्मनः स्वभावस्य भावो दाहात्मं च भस्मीकरणत्वाभाव्यमित्यर्थः - नि. ‘आत्मा देहे धृतौ जीवे स्वभावे परमात्मनी’ति विश्वः। अजानन् अनवबुध्यन्। तीब्रदहने जाज्वल्यमानाग्नौ। पततु - प्रविश्य भस्मीभवत्वित्यर्थः* संभावनायां लोट्। तथा। स प्रसिद्धो। मीना मत्स्योऽपि। अज्ञानादात्मविनाशकारणमेतदित्य -
विवेकात्। बडिशयुतं मत्स्यवेधनसंदानितम्अ - अयोमयवक्रकण्टकाग्रस्यूतमित्यर्थ। पिशितं मांसमश्नातु भक्षयतु - आमिषलोभात्कण्टकगिलनेन गलनिरोधात्सोऽपि म्रियतामित्यर्थः - नात्रानयोरपराधः - नाज्ञानमपराध्यति - ‘पतङ्गमातङ्गकुरङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्चे’ति च न्यायादिति भावः - नि. ‘बडिशं मत्स्यवेधनं’ - ‘पिशितं तरसं मांसमि’ति चामरः। किंत्विहास्मिन् लोके।विजानन्तोऽपि विनिपातहेतव इति विवेकवन्तोऽप्येते वयं। विपज्जालैरापत्परम्पराभि - र्जटिलान् ग्रथितान् - उपद्रवहेतूनपीत्यर्थः पचादित्वान्मत्वर्थीयो अच्प्रत्ययः। कामान्विषयान्न मुञ्चमो न त्यजामः - विषयस्वरूपपरिज्ञानेऽप्यमुञ्चतामस्माकमेकएवापराध इति भावः* ‘शे मुचादीनामि’ति नुमागमः विचार्यमाणे नास्माकमप्यपराधः - प्रबलतरकारणसद्भावादित्याह - मोहस्य अज्ञानस्य। महिमामाहात्म्यं। गहनो दुर्विज्ञेयः - अघटितघटनापटुतराविद्याविलासमहिम्ना लोको जनः अविहितमपि करोति - अतोनास्माकमपराध इति भावः॥शिखरिणीवृत्तम्॥
तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्त श्शाल्यन्नं कबलयति मांसादिकलितम्।
प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूं
प्रतीकारं व्याधेस्सुखमिति विपर्यस्यति जनः॥१९॥
व्या.—अज्ञानमहिम्नैव सुखाभावेष्वप्यन्नपानादिविषयेषु सुखबुद्धिं करोतीत्याह - तृषेति.—तृषा तृष्णया। आस्ये वक्त्रे। शुष्यति शेषं प्राप्नोति सति। शीतं च तन्मधुरं चेति विशेषणयोरपि
मिथो विशेषणविशेष्यभाव विवक्षायां ‘विशेषणं विशेष्येण बहुल मि’ति समासः - शैत्यगुणयुक्तं संतापहरं चेत्यर्थः - ‘शीतली क्रियते तापो येन तन्मधुरं स्मृतमि’ति लक्षणात् - यद्वा मधुरं शर्करापानकवन्माधुर्यसंयुक्तं - सलिलमुदकं - पिबति। तथा क्षुधार्तः बुभुक्षापीडितस्सन्। मांसादिना मांस घृतपयोदध्यादिव्यञ्जनद्रव्येणेत्यर्थः - कलितं रुचिरं स्वादूकृतमित्यर्थः * कलिः कामधेनुः। शाल्यन्नं। कवलयति भुङ्क्ते। तथा कामाग्नौ मदनदहने। प्रदीप्ते प्रज्वलिते सति - मन्मथोद्रेके सतीत्यर्थः। सुदृढतरमतिगाढं। वधूं स्त्रियमालिङ्गत्याश्लिष्यति। अतः व्याधेः क्षुत्तृष्णादिरूपामयस्य। प्रतीकारं तदुपशान्तिकरान्नपानालिङ्गनरूपौषधसेवनरूपप्रतिक्रियामित्यर्थः। सुखं भोग। इति। जनो विपर्यस्यति विपर्यस्तबुद्धि प्राप्नोति - न तु तत्वं जानातीत्यर्थः। अतस्मिंस्तद्ग्रहो विपर्यासः। अयं च अज्ञानदुर्विलास एवेतिमावः॥ वृत्तं पूर्ववत्॥
तुङ्गंवेश्म सुतस्समभिमतास्सङ्ख्यातिगास्संपदः
कल्याणी दयिता वयश्च नवभित्यज्ञानमूढो जनः।
मत्वा विश्वमनश्वरं निविशते संसारकारागृहे
संदृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति॥२०॥
व्या.—एवं तावदज्ञो जनस्संसारविषयासक्त्या बद्धो भवति - ज्ञानी तु सर्वसङ्गं परित्यज्य कृतकृत्यो भवतीति निगमयति - तुङ्गमिति.—वेश्म प्रासादादि। तुङ्गमुन्नतं। सुताः पुत्रास्सतां साधूनां - विदुषाम्। अभिमता इष्टास्संप्राप्तविद्याविनयादिगुणा इत्यर्थः ‘मतिबुद्धी’त्यादिना वर्तमानार्थे क्तः - अत एव*
‘क्तस्य च वर्तमान’ इति षष्ठी प्रतिपदविधाना षष्ठी न समस्यत इति वक्तव्यमिति समासनिपेधः। संपदः धनधान्यादिद्रव्यसमृद्धयः संख्यातिगाः असंख्येयाः - अपरिमिता इत्यर्थः। दयिता प्रियतमाकल्याणी आनुकूल्यादिगुणसंपन्नत्वाच्छोभना - तदुक्तम् -
अनुकूलां विमलाङ्गीं कुलजां कुशलां सुशीलसंपन्नाम्।
पञ्चलकारां भार्यां पुरुषः पुण्योदयाल्लभते’॥
वयश्च। नवं नूतनं - यौवनमित्यर्थः - नि. ‘वयः पक्षिणि बाल्यादावि’त्यमरः। इत्येवमज्ञानेन मोहेन - मूढो विवेकशून्यो। जनः। विश्वं गृहापत्यवित्तदारादिप्रपञ्चम्। अनश्वरं शाश्वतं। मत्वा आलोच्य। संसार एव कारागृह बन्दीगृहं - तत्र निविशते प्रविशति - तदासक्तो भवतीत्यर्थः - न तु तस्यानर्थमूलत्वं जानातीति भावः ‘नेर्विश’ इत्यात्मनेपदम् - अतिसंकटतया परमनिर्बन्ध हेतुत्वात्संसारस्य कारागृहत्वरूपणं - नि. ‘कारा स्याद्बन्धनालय’ इत्यमरः। धन्यस्तु ज्ञानी - तु शब्दः पूर्वस्माद्वैलक्षण्यं द्योतयति। तदेवाह - तदखिलं वेश्माद्यशेषप्रपञ्चं क्षणभङ्गुरमशाश्वतं। संदृश्य सम्यगालोक्य संपूर्वादृशेः क्त्वाचो ल्यबादेशः। सन्न्यस्यति - न तत्रासक्तो भवति - किं तु विरक्तो भवतीति भावः; अतः ज्ञानेन सर्वानर्थमूलमज्ञानं निरस्य कृतकृत्येन भवितव्यमिति तात्पर्यम्॥
शार्दूलविक्रीडितम्॥
इति वैराग्यशतके विषयपरित्यागविडंबनं संपूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1724347720Screenshot2024-08-23005925.png"/>
दीनादीनमुखैस्तदैव शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी।
याच्ञाभङ्गभयेन गद्गदगलत्रुठ्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान्॥२१॥
व्या.—अथ याञ्चादैन्यदूषणमारभते - अत्रायमभिप्रायः विषयाणां याञ्चादैन्यप्रयोजकत्वाद्विषयपरित्यागविडम्ब- नानन्तर्येणैतत्प्रयोज्ययाच्ञाजनितदैन्यमपि दूषणीयमेवेति अतस्तत्प्रसङ्गानन्तरमेतद्दूषयितुमारभते - दीनेत्यादिश्लोकदशकेन - दीनादीनमुखैरिति. - दीनादरिद्राः। अत एव। दीनानि शोभाहीनानि मुखानि येषां तैः। कुतः। क्रोशद्भिः रुदद्भिः। तत्कुतः। क्षुधितैः संजातक्षुधैः - बुभुक्षितैरित्यर्थः - क्षुधाशब्दोऽप्याबन्तस्तस्मात् * ‘तदस्य संजातं तारकादिभ्य’ इतजिती’ तच्प्रत्ययः - तारकादिराकृतिगणः - क्षुदिति दकारान्तपक्षे तु - क्षुधं प्राप्तैः क्षुधितैः क्षुधातुरैः कर्तरिक्तः ‘वसति क्षुधो रिडि’ तीडागमः। शिशुकैरत्यन्तबालकैः अल्पार्थे कन्प्रत्ययः। सदा सर्वदैवाकृष्टमन्नपानादियाच्ञापूर्वकमाक्षिप्तं - जीर्णाम्बरं विशीर्णवस्त्रं - यस्यास्सा। तथा। निरन्ना अन्नपानरहिता - अत एव विधुरा विह्वला - निरन्ना च सा विधुरा चेति विशेषणसमासः अन्नाभावात्कष्टजीवनेत्यर्थः - नि. ‘विधुरः प्रत्यवेतेस्यात्कष्टविश्लिष्टयोरपी’ति विश्वः। गेहिनी गृहिणी। दृश्या दृष्टिगोचरा। न चेन्नस्याद्यदि। तर्हि। मनस्वी सुमेधाः - धैर्यशाली* प्रशंसायामिनिः। कः पुमान्। याच्ञाभङ्गाद्यद्भयं तेन। गद्गदो हीनस्वरः - अनुकरण -
शब्दोऽयं - यो गलः कण्ठः तत्र - त्रुट्यन्ति शकलभिवन्ति - अत एव - विलीनान्यनुच्चारितप्रायाण्यक्षराणि वर्णा यस्मिन् कर्मणि तद्यथा तथा। स्वस्य - दग्धः प्लुष्टो - यो जठरः उदरं - तस्यार्थे तत्पूरणार्थमित्यर्थः - नि. ‘अर्थे कृते च शब्दौ द्वौ तादर्थ्येऽव्ययसंज्ञिता वि’त्यमरः - दुग्धशब्दोऽत्र निर्वेदाभिद्योतकः - यथोक्तं सुरेश्वरवार्तिके - ‘अस्य दग्धोदरस्यार्थे किन कुर्वन्त्यसांप्रतमि’ति। देहीति। वदेत् ब्रूयात्। न कोऽपीत्यर्थः। तस्याः दृश्यत्वादीदृगवस्थापन्नो भवत्यतोऽनर्थमूलत्वात् तत्परित्यागोऽवश्यं कर्तव्य इति भावः॥
शार्दूलविक्रीडितम्॥
अभिमतमहामान ग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका।
विपुलविलसल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुष्पूरेयं करोति विडम्बनम्॥२२॥
व्या.—इदानीं दैन्यानर्थमूलं जठरं निन्दति - अभिमतेति. - अभिमतः कीर्तिप्रतिष्ठावहत्वादिष्टः - यो महामानग्रन्थिर्गरिष्ठाभिमानग्रन्थिः - तस्य - प्रभेदे विश्लेषणे - पटीयसी समर्थतरा * पटुशब्दादीयसुन्युगितश्चेति ङीप्। गुरुतरा अतिशयेन वर्तमाना - ये गुणग्रामाः गाम्भीर्यधैर्यादिगुणगणाः - त एवाऽम्भोजानि तेषां स्फुटं यथा तथा - उज्ज्वलचन्द्रिका पूर्णिमाकौमुदी तत्सङ्कोचहेतुभूतेत्यर्थः। विपुलं विस्मृतं यथा तथा - विलसत्प्रकाशमानं - यल्लज्जावल्लीवितानं व्रीडालताविततिस्तस्य कुठारिका परशुः - तदुछेदनसाधनभूवेत्यर्थः। दुष्पूरा पूरयितुमशक्या - प्रत्यहमन्नपानादि पूरिताऽपि पर्याप्त्यभावा
दिति भावः* ‘ईषद्दुरि’त्यादिना खल्प्रत्ययः। इयं जठरमुदरमेव पिठरी कुण्डी - नि. ‘पिठरः स्थाल्युखा कुण्ड मि’ त्यमरः*गौरादित्वात् ङीष् - तथा च कृष्णामृतस्तवे - ‘जठरपिठरीपूर्तये नर्तितासी ’ति। विडम्बनं याच्ञानुकरणं करोति याच्ञादैन्यमस्माभिरभिनादयतीत्यर्थः।एतद्व्यतिरेकेण दैन्यकारिणी न काऽप्यस्तीति भावः। ‘वल्ली कठोरकुठारिके’ति पाठे निशिततरपरशुरित्यर्थः॥
रूपकालंकारः हरिणीवृत्तं - ‘भवति हरिणीन्सौ म्रौस्लौगोर साम्बुधि विष्टपैरि’ ति लक्षणान्॥
पुण्ये ग्रामे वने वा महतिं सितपटच्छन्नपालीं कपालिं
ह्यादाय न्यायगर्भाद्विजहुतहुतभुग्धूमधूोम्रोपकण्ठे।
द्वारं द्वारं प्रविष्टो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणैस्सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः॥२३॥
व्या.—अथ मानिन स्तावद्वन्धुयाच्ञाया परमन्यत्र भिक्षाशनतात्पर्येण प्राणधारणमित्याह - पुण्य इति. - न्यायगर्भं मीमांसाशास्त्रोक्तप्रकारगर्भितं यथा तथा - यद्वा नीयन्ते ज्ञाप्यन्ते - बुभुत्सितार्था एभिरिति न्यायाः - वेदशास्त्रपुराणादयः - ते गर्भे कुक्षौ - येषां ते न्यायगर्भाः अधीताखिलविद्या इत्यर्थः। ‘कुक्षिभ्रूणार्भका गर्भा’ इत्यमरः - तथाभूता - द्विजाः ब्राह्मणाः तैः - हुताः आज्यादिहविर्भिस्सुतर्पिताः - ये हुतभुजोऽग्नय - स्तेषां धूमेन - धूम्राणि कृष्णलोहितवर्णानि - उपकण्ठानि अन्तिकप्रदेशाः - यस्य तस्मिन् - नि. ‘धूम्रधूमलौ कृष्णलोहिते’ - ‘उपकण्ठान्तिकाभ्य -
र्णाभ्यग्रा अप्यभितोऽव्ययमि’ति चामरः। अतएव - पुण्ये पवित्रे। महति विपुले च। विशेषणद्वयेन निस्संकोचसंचारार्हत्वं सूच्यते। ग्रामे अग्रहारे। वने अरण्येवा - तत्रापि वानप्रस्थादीनां विद्यमानत्वादिति भावः। सितपटेन श्वेतवस्त्रेण - छन्ना परेषां दृष्टिगोचरत्वाभावार्थमाच्छादिता - तथा विशिष्टाचारात् - पालिरश्रिर्यस्यास्तां - नि. ‘पालि स्त्र्यश्र्यङ्कपङ्तिष्वि’ति वैजयन्ती। कपालिं भिक्षाहरणोचितशरावमादाय गृहीत्वा। क्षुधार्तः क्षुत्पीडितः। मानी अभिमानवान् पुरुष इति शेषः। उदरमेव - दरी गिरिगह्वरं तस्याः। पूरणाय पूर्त्यर्थमित्यर्थः तादर्थे चतुर्थ्ये। अथवा - उदरं पूरयितुमित्यर्थः तुमुर्थाच्च भाववचनादि’ ति चतुर्थी। द्वारं द्वारं प्रतिद्वारं - गृहमेधिनामिति शेषः* ‘नित्यवीप्सयोरि’ति वीप्सायां द्विरुक्तिः। प्रविष्टःभिक्षार्थमित्यर्थः। प्राणैस्सनाथस्सहितश्चेत् भिक्षाशनेन प्राणधारणतत्परस्स्याच्चेदित्यर्थः। वरं मनाक्प्रियं नि. ‘दैवाद्वृते वरश्श्रेष्ठेत्रिषुक्लीवंमनाक्प्रियमि’त्यमरः। दिने दिने अनु दिनं प्रत्यहमित्यर्थः यथार्थेऽव्ययीभावः। तुल्यकुल्येषु समानकुल्येषु समानकुलोद्भवेषु तन्मध्य इत्यर्थः। दीनः पुनः दैन्यवांश्चेन्न वरं - बन्धुमध्ये याच्ञादैन्यनीच जीवनाद्वरं भिक्षान्नेन प्राणधारणं - ‘न वन्धुमध्ये धनहीनजीवनमि’ति वचनादिति भावः अत्र यद्यपि - ‘त्यजन्तसून् शर्म च मानिनो वरं त्यजन्ति नत्वेकमयाचितव्रतमि’ति वचनान्मानिनः सर्वथा अयाचितत्वमेव मुख्यव्रतं तथाऽपि यदि क्षुधातुरत्वेन याच्ञाप्रवृत्तिस्स्यात्तदा कुत्रचिदपरिज्ञातदेशे श्रोत्रियगृहेषु कपालभिक्षान्नभक्षणेनोदरपूरणं कर्तव्यं - न तु
बन्धुजनयाच्ञाप्राणसंकटेऽपि - तस्याः परमनैच्यावहत्वादिति गूढ़ाभिसंधिः॥
स्रग्धरावृत्तं - तदुक्तं केदारेण - ‘म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्’॥
गङ्गातरङ्गकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि।
स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिण्डरता मनुष्याः॥२४॥
व्या.—अथ विशिष्टगत्यन्तराभाववितर्कद्वारा दूषयति - गङ्गेति. - गङ्गातरङ्गाणां भागीरथीकल्लोलानां - ये कणाः बिन्दवः तेषां - शीकरैः - प्रालेयप्रायलेशैः - अथवा - कणाः स्थूलबिन्दवः - शीकराः सूक्ष्माः तैः शीतलानि शिशिराणि - ‘घनशीकरे’ति वा पाठः - तथा सान्द्रा इत्यर्थः। विद्याधरैर्देवयोनिविशेषैरध्युषितानि अधिष्ठितानि ‘गत्यर्थकर्मके’त्यादिना वसेः कर्मणि क्तः ‘वचिस्वपी’त्यादिना संप्रसारणं - अत एव - चारूणि मनोहराणि - शिलातलानि येषु तानि तथोक्तानि -* विशेषणद्वयेनैतेनपरमपवित्रत्वं च सूच्यते। हिमवतः हिमाद्रेस्संबन्धीनि - स्थानानि प्रान्तप्रदेशाः प्रलयं गतानि किं नष्टानि किं? - किं शब्दोऽत्र वितर्के - नि. - ‘कुत्साप्रश्नवितर्केषु क्षेपे किं शब्दइष्यते’ इति शाश्वतः। ननु कुतः एवं विद्यमानेष्ववस्थानेषु विनाशो वितर्क्यत इत्याशङ्क्य तत्र कारणमाह - यद्यस्मात्कारणान्मनुष्या जनाः। सावमानेषु याच्ञायातिरस्काराचरणपूर्वकं दत्तेषु - परपिण्डेषु परान्नेषु - रता आसक्काः-
तादृकपरपिण्डाशनेन प्राणत्राणतत्परा जीता इत्यर्थः यदि स्थानानि न नश्येरन् तर्हि जना ईदृक्कष्टयाच्ञातत्परा न भवेयुः - तेषां नष्टत्वादेवेदृग्दुरवस्थापन्ना इति कृत्वा एवं वितर्क्यत इति वाक्यार्थः; यद्वा - गत्यन्तराभावं प्रश्नद्वारा दूषयति - गङ्गेति - किंशब्दोऽत्र प्रश्ने - नन्वेवं कुतः पृच्छयत इत्यत आह - यस्मात्कारणात् - हे मनुष्याः सावमान परपिण्डरताः - यूयं जाता इति शेषः - अतः प्रश्नस्यावकाश इति भावः - अन्यत्समानम्; एतेन दुर्भगयाच्ञापिशाचिकामूर्धन्यशनिं पातयित्वा गिरिपरिसरेषु सुखेन वर्तितव्यमिति सुचितम्॥
वसन्ततिलकावृत्तम्॥
किं कन्दाः कंदरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः॥
वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तित भ्रूलतानि॥२५॥
व्या.—इदानींपुनर्जीवनोपायान्तराभाववितर्कद्वारादूषयति - किमिति.—कन्दरेभ्यो गुहाभ्यस्सकाशात् कन्दाःकन्दमूलादिपदार्थाः - क्षुन्निवारणक्षमा इति भावः। प्रलयं विनाशं - विराममिति यावत्। उपगताः प्राप्ताः किं - * ‘जुगुप्साविरामे’त्यादिना पञ्चमी। एवमुत्तरत्रापि - किंशब्दो वितर्के। गिरिभ्यस्सकाशा न्निर्झरावा प्रवाहाश्च वा - उपशमकरा इति भावः। प्रलयमुपगताः किमिति संबन्धः - ‘प्रवाहो निर्झरो झर’ इत्यमरः - नि - ‘वास्याद्विकल्पोपमयोरेवार्थे च समुच्चय’ इति चामरः। तथा तरुभ्यः वृक्षेभ्यस्सकाशात्। सरसानि माधुर्यरसयु
क्तानि - फलानि बिभ्रतीति तथोक्ताः। वल्कलिन्यः वल्कलवत्यः। एतेन विशेषणद्वयेन सुभोज्यवस्तुसमृद्धत्वाच्छादनयोग्यवस्तुसमृद्धत्वे सूचितं। शाखाश्च। प्रध्वस्ता वा विनष्टाः किम् - अव्ययानामने कार्थत्वात्। ननु विद्यमानकन्दमूलादिष्वविद्यमानत्वं कुतो वितर्क्य - तइत्यत आह - यद्यस्मात्प्रसभमत्यन्तम् - अपगतप्रश्रयाणां विनय - शून्यानां। खलानां दुरीशानां दुःखाप्तमतिक्लेशेन प्राप्तं - तदपि स्वल्पं यद्वित्तं धनं तेन यः - स्मयो गर्वस्स एव पवनः - स्मयः पवन इव च - तद्वशादानर्तिताश्चलिताः - भ्रुव एव लताः भ्रुवोलता इव च येषां तानि - सविकाराणीत्यर्थः - स्मयपवनेत्यत्र भ्रूलता इत्यत्र च उपमारूपकयोस्साधकवाधकप्रमाणाभावात्संदेहसंकरः। मुखानि।वीक्ष्यन्ते - दृश्यन्ते याचकजनैरिति शेषः; कन्दमूलादीनां विनष्टत्वादेव जनैर्दुरीश्वरपरिचर्यातत्परैर्भूयते जीवनोपायार्थमतस्तदभाववितर्कस्यावकाश इति भावः। यद्वा - जीवनोपायान्तराभावप्रश्नद्वारा निन्दति - किं कन्दा इति। किं वा शब्दौ प्रश्ने। अत एवं प्रश्नः क्रियत इत्यत आह - यस्मात्कारणाद्दुर्विनीतदुरीश्वरमुखान्यवलोक्यन्ते युष्माभिस्तस्मादभावप्रश्नो युज्यत इति भावः। शेषं समानम्; अत्रायमभिसंधिः - परमनैच्यावहं शास्त्रनिषिद्धं च दुर्विनीतसेवनोपजीवनं परित्यक्तव्यम्॥स्रग्धरा॥
पुण्यैर्मूलफलैः तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणै रुत्तिष्ठ यावो वनम्।
क्षुद्राणामविवेकगूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते॥२६॥
व्या.—अथ खलानां मुखानि दृश्यन्त इत्यनेन सूचित्तनिन्दनां प्रकटयितुं चिरकालदुरीशसेवाखिन्नस्य कस्यचिन्निर्वेद वचनमभिनीयाह - पुण्यैरिति—अधुनेदानीं। पुण्यैः पवित्रैः। मूलैः कन्दमूलैः। फलैः कदलीरसालपनसादिफलैश्चअपवित्ररक्तमूलक कलिङ्ग फलादि भक्षणनिषेधस्मरणात्पुण्यै रित्युक्तं। तथा अनिर्वाच्यतया। ‘प्रियप्रणयिनी मि’ति पाठे - हा प्रियसस्वे इत्यर्थः। प्रणयिनीं परमसुखावहतया प्रियतमां - विशिष्टकन्दमूलाद्यशनस्यानशनप्रायत्वात्तस्यापि ‘तपो नानशनात्परमि’ति तपः पर्यवसानत्वात्तस्य च ‘तपसा कल्मषं हन्ती’ति सकलकर्मनिवर्तनद्वारा परमसुखावहत्वादिति भावः। वृत्तिं जीविकां - नि. ‘वृत्तिर्वर्तन जीवन’इत्यमरः। कुरुष्व विधेहि। तथा। अकृपणैरम्लानैः नवपल्लवैर्भुवि शय्यां च कुरुष्व। अतः। उत्तिष्ठ उत्थितो भवविलम्बं माकुर्वित्यर्थः। वनं प्रति - यावो गच्छावः - यास्याव इत्यर्थः - किमनेन नीचसेवनेनेति शेषः वर्तमानसामीप्ये वर्तमान प्रत्ययः। ‘यामो वनमि’ति न साधीयान्पाठः। गमने अभ्युच्छ्रय फलमाह - यत्र वने क्षुद्राणां दीनानां। कुतः अविवेकेनाज्ञानेन - मूढानि कर्तव्याकर्तव्यविचारशून्यानि - मनांसि येषां तेषां। तथा। सदा सर्वदा - वित्तमेव व्याधिस्सन्निपातादिरोगस्तेन यो विकारः विपरीतभावस्तेन विह्वला विकला - अविस्पष्टा इति यावत्। तथाभूता - गिरो येषां तेषामीश्वराणां राज्ञां। नामाऽपि नामधेयमपि। न श्रूयते नाकर्ण्यते - किमुत - दर्शनसेवनादिकथेति भावः। तस्मादैहिकामुष्मिकफललेशसंबन्धशून्यं नीचसेवनं परित्यज्य सकल
श्रेयस्संपादकं वनं व्रज; वनवास एवावश्यं कर्तव्य इति तात्पर्यम्॥ शार्दूलविक्रीडितम्॥
फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयस्स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम्।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः॥२७॥
व्या.—अथ च पुनस्सत्यामपि निरवधिक निरातङ्कजीवनसाधनसामग्र्यांकृपणाः स्वकार्पण्यमत्यजन्तः परयाच्ञादैन्येन क्लिश्यन्ति। किं कर्तव्यमित्याह - फलमिति.—वने वने प्रतिवनं - वने न त्वेकत्रैव क्लृप्तमित्यर्थः * ‘अव्ययं विभक्ती’त्यादिना यथार्थेऽव्ययीभावः। न विद्यते खेदो यस्मिन्कर्मणि तद्यथा तथा अखेदमक्लेशं। स्वेच्छया स्वच्छन्देन - लभ्यं प्राप्यं - न तु परप्रेष्यमिति भावः। क्षिप्ता रोहन्तीति क्षितिरुहः क्विप्। तेषां कदलीरसालपनसादितरूणां फलमस्तीति शेषः उदरपूरणपर्याप्तमिति भावः। तथा। स्थाने स्थाने प्रतिस्थानं वीप्सायां द्विरुक्तिः। शिशिरमधुरं - व्याख्यातमेतत् ‘पिबति सलिलं शीतमधुरमि’त्यत्र। पुण्यसरितां - गङ्गागोदावर्यादिपुण्यनदीनां। पयस्तीर्थं। अस्तीति शेषः - स्नानपानाभ्यां बाह्याभ्यन्तरपङ्कप्रक्षालनद्वारा तृष्णापेशान्तिकरमिति भावः। एतेनोभयेषामपि शास्त्रसिद्धं परोपकारकत्वं सूचितंतदुक्तं - ‘परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्य इति। तथा। मृदुः अकठिनः - कोमल इति यावत् - स्पर्शो यस्यास्सा हंसतूलिकातल्पकल्पेत्यर्थः। कुतः सुललितान्यतिकोमलानि -
यानि लतापल्लवानि - तन्मयी तत्प्रचुरा - तैर्निर्मितेत्यर्थः - अथवा - तन्मयी तद्विकारा* ‘प्राचुर्ये विकारार्थे मयडि’ति ङीप्। शय्या चास्तीति शेषः - सुखस्वापोचितेति भावः। तदपि तथाऽपि धनिनां धनाढ्यानां। द्वारि प्रतीहारप्रदेशे - नि. ‘स्त्रीद्वार्द्वारं प्रतीहार’ इत्यमरः। कृपणाः धनलिप्सापरतन्त्राः। संतापं। तदनुवर्तनाद्यायासपरितापं सहन्ते मृष्यन्ति। श्रेयोर्थिनां किं तत्रास्माकं कर्तव्यमिति भावः॥ अतः फललाभसंबन्धशून्यां प्रत्युत बलवदनिष्टानुबन्धिनीं दुरन्तसंतापकारिणीं परमकार्पण्यकर्णेजपा मिहामुत्र च कीर्तिप्रतिष्ठाभञ्जनीं याच्ञादैन्यपरमनीचत्वाद्दूषणीयां पापिष्ठामिमां दुरीश्वर द्वारा बहिर्वितर्दिका दुराकारडाकिनीं विवेकोच्चाटनमन्त्रोणोत्सार्यानेकश्रेयसंपादिकां वनवासजीविकां श्रियमेव समाश्रयेद्विद्वानिति तात्पर्यम्; तदुक्तं श्रीभागवते -
‘चीराणि किं पथि न सन्ति? दिशन्ति भिक्षां?
नोवांङ्घ्रिपाः परभृतः? सरितोऽप्यशुष्यन्?
शुद्धा गुहाः किमु न सन्ति? महानुभावा
यस्माद्भजन्ति यतयो धनदुर्मदान्धान्’॥ इति
शिखरिणीवृत्तम्॥
ये वर्तन्ते धनपतिपुरः प्रार्थना दुःखभाजो
ये चाल्पत्वंदधति विषयाक्षेपपर्याप्तबुद्धेः।
तेषामन्तस्स्फुरितहसितं वासराणी स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः॥२८॥
व्या.—इदानीं दुरीश्वरसेवनयाच्ञादैन्यतत्परविषयाक्षिप्तचित्तनिन्दावशेन स्वस्य सिद्धवद्भाविश्रेयोदशां सूचयन्नाहः—य इति.
धनपतेः धनाढ्यस्य - पुरः अग्रे। प्रार्थनादुःखं याच्ञादैन्यं - भजन्तीति तथोकाः सन्तः* ‘भजोण्विः’। ये पुरुषाः। वर्तन्ते। तथा। ये च पुरुषाः। विषयाक्षेपे भोगसंग्रहे - पर्याप्ता तावन्मात्र एव पर्यवसिता न तु तत्त्वविचार इत्यर्थः - तादृशी या बुद्धिः तस्याः ‘पर्यस्त’ इति पाठे - विषयाक्षेपेण भोगासक्त्या - पर्यस्ता विपरीता - यद्वा - विषयाक्षेपेण विषयकृतोपप्लवेन - पर्यस्ता विक्षिताया बृद्धिः - तस्याः हेतोः अल्पत्वं नीचत्वं। दधति। तेषां पुरुषाणां वासराणि दिवसान् - तदनुभूतदुर्दिनानीत्यर्थः - नि. ‘वातुक्लीबे दिक्सवासरौ’ इत्यमरः - अभिमतदेवतायां चित्तस्थिरीकरणं ध्यानं तस्य - च्छेदे अवसाने - ब्रह्मध्यानव्युत्थानसमय इत्यर्थः। शिखरिकुहरे गिरिगह्वरे - यो ग्रावा पाषाणस्स एव शय्या - तस्यां - निषण्णः विश्रमार्थं शयितस्सन्नित्यर्थः। अन्तरन्तः करण एव - स्फुरितं समुत्पन्नं - हसितं हासो - यस्मिन् कर्मणि तद्यथा तथा - तदानीं तेषामपहास्यत्वात्तदनुभावत्वेनोत्पन्नहासगर्भितमित्यर्थः - स्मरेयं ‘सदृशा दृष्टिचिन्ताद्याः स्मृतिबीजस्य बोधका’ इति वचनात्कुतश्चिच्चिन्तावशाद्दष्टिवशाद्वा समुद्वुद्धसंस्कारस्तदीयदुर्दिनानि स्मृतिविषयाणि कुर्यामित्यर्थः - ‘वासराणां स्मरेयमि’ति वा पाठः - तथा’ * अधीगर्थदयेशां कर्मणी’ति कर्मणि षष्ठी - अधीगर्थानां च शेषाधिकारात् - अशेषत्वविवक्षायां तु द्वितीयैव स्मर्यते - संभावनायामुत्तमपुरुषैकवचनं। यथाऽहं याच्ञादुःखाभिसंतप्त विषयाक्षिप्तचित्तजनदुर्दशादर्शनात्संजातनिर्वेदः केनचिद्भाग्योदयेन परमेश्वरानुगृहीतस्तद्ध्यानोत्थाने तदीयदुर्दिनस्मरण- तत्परो भवेयम् - तथा विबेकिभिः श्रेयोर्थिभिः
भवितव्यं न तु तद्वद्दुर्दशाभाग्भिरिति निगूढोपदेश स्तात्पर्यार्थविषयीकृत इत्यवधेयम्॥ मन्दाक्रान्तावृत्तम्॥
ये सन्तोषनिरन्तरप्रमुदिता स्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसंकुलाधियस्तेषां न तृष्णा हता।
इत्थं कस्य कृतेः कृत स्सविधिना कीदृक्पदं स पदां
स्वात्मन्येव समाप्तहेममहिमा भेरुर्नमे रोचते॥२९॥
व्या.—अथ तृष्णाया यावताऽप्युपसंहाराभावात्किं याच्ञादैन्येनेत्याह - य इति—ये पुंमांसः। दैवाल्लब्धेन वस्तुना जनितो मनोविलास्ससंतोष - स्तेन निरन्तरं सततं - प्रमुदिताः परितुष्ठाः - तृप्ता इति यावत्। तेषां मुदः आनन्दा भिन्नाः - किंतु प्रवृद्धा एवेत्यर्थः। तथाऽन्ये इतरे ये पुमांसः। घने लुब्धा गार्द्ध्यवती - अतएव संकुलाधीर्येषां ते तथोक्ता। स्तेषां। तृष्णा वस्तुस्पृहा। न हता न विरतेत्यर्थः - धनलोभस्येयत्ताभावादिति भावः। इत्थमेवं व्यवस्थितेसतीति शेषः - सः प्रसिद्धः। संपदां रत्नादिसमृद्धीनां। तादृगित्थमिति - वक्तुमशक्यं। पदं स्थानमनिर्वाच्यधनसंपदास्पदमित्यर्थः तथा। स्वात्मन्येव स्वस्मिन्नेव समाप्तः पर्यवसितः - न तु परोपकारपर्याप्त इत्यर्थः। तादृशो। हेममहिमा काञ्चनसंपत्ति र्यस्य तथोक्तो। मेरु र्विधिना ब्रह्मणा। कस्य कृते कस्य पुंसः प्रयोजनार्थं। कृतो निर्मितः - नित्यसंतोषसंपन्नानामनपेक्षितत्वादर्थलुब्धानामपर्याप्तत्वाच्चानुपयोगादिति भावः। अतो निरर्थकत्वात् - मे मह्यं। न रोचतेरुचिगोचरो न भवति - न सम्मत इत्यर्थः ‘रुच्यर्थानां प्रीयमाणः’ इति चतुर्थी - तस्मात्सुमेरुतुल्यधनलाभेऽपि तृष्णाधनपिशाच्याः
परितोषाभावात्तत्प्रयुक्तयाच्ञादैन्यविभ्रान्तिं तत्त्वविचारेण निरस्य संतुष्टान्तःकरणै र्भवितव्यमायुष्मद्भिरिति तात्पर्यम्॥
शार्दूलविक्रीडितम्॥
भिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम्।
सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं
शम्भो स्सत्रमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः॥३०॥
व्या.—तर्हि कथं जीवनमित्याशङ्क्य तदुपायं सपरिकरं निवेदयन्निगमयति - भिक्षेति. - योगीश्वराः परमार्थतत्त्वज्ञाः महा ‘योगिनः। भिक्षाहारं भैक्षाशनं कर्म। न विद्यते याच्ञादैन्यं याच्ञाकार्पण्यं यस्मिंस्तत्तथोक्तं। देहत्युिच्चारणानन्तरमेव सद्गृहस्थैर्बहुमानपूर्वकं दीयमानत्वादिति भावः - यद्वा-व्यावहारिकदैन्यसंभवेऽपि पारमार्थिकदैन्याभावादिति भावः। न विद्यते प्रतिसुखं यस्य तत्तथोक्तं - स्वयमेव निरतिशयसुखं - न तु स्वस्य प्रतिभटभूतं सुखान्तरमस्तीत्यर्थः। सर्वतस्सर्वत्राऽपि। भीतिच्छिदं भयविनाशकं - भिक्षाशनतत्परस्याकुतोभयत्वादिति भावः। दुष्टानां दुस्वभावानांमात्सर्यमदाभिमानानामसहिष्णुत्वदर्पाहंकाराणां - मथनं निरासकं दुःखौघविध्वंसनं सांसांरिकाशेषबाधानिवर्तकं - यद्वा दुःखौघस्य एकविंशतिमहादुःखसमुदायस्य - विध्वंसनं - विच्छेदकं एकाविंशतिमहादुःखध्वंसरूपमोक्षनिदानमित्यर्थः - ‘आत्यन्तिकदुःखध्वंसो मोक्ष’ इति वैशेषिकास्तार्किकाश्च। अत्र यत्किंचिद्वक्तव्यमस्तिविस्तरभयान्नोच्यते। सर्वत्र सर्वेष्वपि देशेष्वित्यर्थः। तत्राऽप्यन्वहं
प्रतिदिनं। तत्राऽपि चाप्रयत्नं यत्नं विनैव सुलभं सुखलभ्यमित्यर्थः। साधूनामनहंकारिणां - प्रियमिष्टं - पावनं पवित्रं शंभोश्शिवस्य। सत्त्रं तृप्तिसाधनमित्यर्थः - ‘रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते’ इत्यनेनैवोक्तत्वात् - यद्वा शंभोस्सत्त्रं शंभुभक्तिनिरतान्नसत्त्रमित्यर्थः - खण्डमण्डलाधिपतिसत्त्रं तु नश्वरं इदं तु सकलभुवनाधीश्वरप्रवर्तितत्वाच्छाश्वतमिति भावः। अत एवावार्यं न केनाऽपि निवारयितुं शक्यम्। अक्षयनिधिमविनाशि निधानं च - नित्योपयोगेऽपिक्षयाभावादिति भावः। शंसन्ति कथयन्ति अनुभवसिद्धत्वादित्थं वर्णयन्तीत्यर्थः; अतोऽनर्थपरम्पराजनितदैन्यं याच्ञादैन्यं विहायोक्तरीत्या समस्त सद्गुण विचित्रं शंभुसत्त्रं प्रामाणिकोक्तं समाश्रयणीयमिति भावः॥वृत्तं पूर्ववत्॥
इति वैराग्यशतके याच्ञादैन्यदूषणं सम्पूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1724425939Screenshot2024-08-23204159.png"/>
॥भोगास्थैर्यवर्णनम्॥
भोगे रोगभयं कुले च्युतिमयं वित्ते नृपालाद्भयं
माने दैन्यभयं बले रिपुभयं रूपे जराया भयम्।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम्॥३१॥
व्या.—अथ भोगानामस्थैर्याकथने याच्ञादैन्यमदूषितप्रायमेवेति मनसि निधाय तद्दूषणानन्तरं भोगास्थैर्यमाह - भोगइति - भोगे स्रक्चन्दनवनितासंभोगसुखानुभवे - नि. ‘भोगस्सुखेस्त्र्यदिभृतावहेश्चफणकाययोरि’त्यमरः। रोगाद्वात्तपित्ताद्यामयाद्भयमस्तीति
शेषः - तस्य तदन्तरायत्वादिति भावः। कुले सद्वंशे च्युतेराचारभ्रंशाद्भयं - तरयास्तदप्रतिष्ठावहत्वादिति भावः - अथवा च्युतेस्सन्तानविच्छेदाद्भयं तस्यास्संप्रदायोपहतिहेतुत्वादिति भावः। वित्ते द्रव्यसमृद्धौ। नृपालाद्राज्ञोभयं - तस्य तदपहर्तृत्वादिति भावः। माने अभिमाने। दैन्यात्कार्पण्याद्भयं - तस्य तद्भङ्गहेतुत्वादिति भावः। बले सामर्थ्ये। रिपोश्शत्रोर्भयं - तस्य तद्दमनशीलत्वादिति भावः। रूपे सौन्दर्ये। जराया वार्धकावस्थायाः भयं - तस्यास्तद्विलोपित्वादिति भावः। शास्त्रे वेदान्तादिशास्त्रकलापे वादिभ्यः शुष्कतर्ककलहकण्टकेभ्यः। भयं - तेषां तदपरोक्षकत्वादिति भावः। गुणे विद्याविनयादिगुणगणे। खलाद्दुर्जनाद्भयं - तस्य तद्दूषकत्वादिति भावः। कायेदेहे। कृतान्ताद्यमाद्भयं - तस्य तदन्तकरत्वादिति भावः - नि - ‘कायो देहः क्लीवपुंसोः’ - ‘कृतान्तौ यमसिद्धान्तावि’ति चामरः - सर्वत्र ‘भीत्रार्थानां भयहेतु’ रित्यपादानत्वात्पञ्चमी। अतः भुवि नृणां संबन्धि। सर्वं वस्तु - भोगाद्यशेषार्थजातं। भयान्वितमुक्तरीत्या भयसहितं - सान्तकत्वात्सापायमित्यर्थः। किंतु। विगतो रागो विषयाभिलाषो - येषां ते विरागास्तेषां भावो वैराग्यं - तदेकमेव - न विद्यते भयं यस्य तदभयं भयहेतुत्वाभावान्निर्भयं निरातङ्कत्वान्निरपायमित्यर्थः - यद्वा - विरागाः अस्थिरभोगा - स्तेषां भावो वैराग्यं - तदेकमेव - न विद्यते भयं यस्य तदभयं। भयहेतुत्वाद्यभिनिवेशं परित्यज्य सुस्थिरवैराग्यमेवाश्रयणीयं श्रेयस्कामैरिति भावः; इत्थं भोग इत्यादिष्वधिकरणसप्तम्याश्रयणेन व्याख्यातं - सति सप्तम्याश्रयणे त्वेवं व्याख्येयम्—अतस्सर्वं भुवि नृणां भयान्वितं भयाकरमि -
त्यर्थः। किंतु वेराग्यमेव न विद्यते भयं यस्मात्तत् अभयं भयनिवारणमित्यर्थः। सति वैराग्ये सर्वस्यापि मिथ्यात्वेन प्रतीयमानतया द्वितीयाभावात्; अतः भयावहं भोगादिकं परित्यज्य भयापहं वैराग्यमेवाश्रयणीयमिति तात्पर्यम्; शेषं समानम्॥
एतदाद्यापञ्चमात् शार्दूलविक्रीडितम्॥
आक्रान्तं मरणेन जन्मजरसा चात्युज्ज्वलं यौवनं
सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः।
लोकैर्मत्सरिभिर्गुणा वनभुवो व्याव्ठैर्न्नृपा दुर्जनै -
रस्थैर्येण विभूतयोऽप्युपहताग्रस्तं न किं केन वा॥३२॥
व्या.—उपक्रान्तं भोगास्थैर्यं तत्तद्भङ्ग्यन्तरेण नवभिर्वर्णयति - आक्रान्तमित्यादिभिः - आक्रान्तमिति—जन्म उत्पत्तिः।मरणेन स्वरूपनाशकेन मृत्युना। आक्रान्तं प्रस्तं -
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।
अद्य वाऽब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः’॥
इत्यादिवचनादिति भावः। अत्युजलमतिशयेन भास्वरं। यौवनं नूतनवयः तारुण्यमिति यावत्।जरसा जरया - अपायहेतुभूतया। आक्रान्तं * ‘जराया जरसन्यतरस्यामि’ति जरसादेशः। संतोषः दैवशाल्लब्धवस्तुजनितपरितोषः। धनलिप्सया तदुपद्रवकारिण्या धनवाञ्छया। आक्रान्तः लभे स्सन्नन्तात् स्त्रियामप्रत्यये टाप्। शमसुखमिन्द्रियव्यापारोपरमापादितानन्दः प्रौढाङ्गनानां प्रगल्भविलासिनीनां - विभ्रमैस्तदुपमर्दकैः कटाक्षविक्षेपकर्ण कण्डूयनेनकोमलकुचमर्दनादि विलासैराक्रान्तं। गुणाः। विद्याविनयादयः।
मत्सरिभिः परोत्कर्षासहिष्णुभि र्लोकैर्जनैस्तदपवादकैरित्यर्थः। उपहताः प्रस्ता इति यावत्। वनभुवः पुण्यारण्यप्रदेशाः। व्यालैः दुष्टगजैः सर्पैर्वा - तत्प्रवेशानवकाशप्रदैरिति भावः। उपहताः ग्रस्ताः। नृपा राजानः। दुर्जनैर्दुर्मन्त्रोपदेशेन तद्वुद्धिविपर्यासकारिभिः पिशुनै रुपहतास्समाक्रान्ता इत्यर्थः। विभूतयस्संपदोऽप्यस्थैर्येण तदप्रतिष्ठावहेनास्थिरत्वेन। उपहताः दूषिताः। अतः किं वस्तु। केन वा उपद्रवेण। न ग्रस्तमुक्तरीत्या सर्वमपि ग्रस्तमेवेत्यर्थः; अतस्सर्वस्याप्यस्थिरत्वान्न कुत्रापि विस्रम्भः कर्तव्य इति भावः॥
आधिव्याधिशतैर्जुनस्य विविधैरारोग्यमुन्मूल्यते
लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः।
जातं जातमवश्यामाशु विवशं मृत्युः करोत्यात्मसा -
त्तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम्॥३३॥
व्या.—पुनः श्रोतृजनस्य विश्वासदार्ढ्यार्थमुक्तमेवार्थं भङ्ग्यन्तरेणाह - आधीति - विविधैः नानाप्रकारैः। आधीनां मनोव्यथानां - व्याधीनां पित्तादिशारीररोगाणां च - शतैरनेकैराधिव्याधिभिरित्यर्थः - नि. ‘पुंस्याधि र्मानसी व्यथा’ - ‘रोगव्याधिगदामया’ इति चामरः। जनस्यारोग्यं देहस्वास्थ्यमुन्मूल्यते निर्मूलीक्रियते तथा यत्र यस्मिन् पुरुषे।लक्ष्मीरैश्वर्यसमृद्धिस्तिष्ठतीतिशेषः। तत्र तस्मिन् पुरुषे व्यापदः महोपद्रवाः - विवृतान्युद्घाटितकवाटानि द्वाराणि कवाटानि यासां तास्तथोक्ताइव पतन्ति तद्विघटनार्थ मप्रतिबन्धं प्रविशन्तत्यिर्थः। तथा। मृत्युरन्तकः जातं जातं प्रारब्धकर्मवशात्पुनः पुनरुत्पन्नं वीप्सायां द्विर्भावः। अत एव विवशं।
विह्वलं। जन्तुमिति शेषः। अवश्यं नियतमाशु शीघ्रमेवात्मसात् आत्माधीनं करोति - मारयतीत्यर्थः ‘तदधीनवचने सातिरि’ति सातिप्रत्ययः। अतस्तेन प्रसिद्धेन। निरङ्कुशेन निरर्गलेनअप्रतिहतव्यापारेणेत्यर्थः। विधिना ब्रह्मणा। यद्वस्तु निर्मितं तत्किं वासुस्थिरं - न किमपीत्यर्थः; अतोऽस्थिरभोगाशंसनं न कर्तव्यमिति भावः॥
भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनसुखस्फुर्तिः प्रियासु स्थिता।
तत्संसारमसारमेवनिखिलं बुध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्न स्समाधीयताम्॥३४॥
व्या.—तर्हि किं कर्तव्यमित्याशङ्कायां तेषामस्थैर्यकथनपूर्वकं कर्तव्यं तावत् त्रिभिरुपदिशति - भोगा इति. - भोगाः स्रक्चन्दनादिविषयाः। तुङ्गतरङ्गाः कल्लोलाः - भङ्गाः अल्पतरङ्गाःत इव - तरलाश्चपलाः - अतिसूक्ष्माइत्यर्थः - न तु कतिपयेष्वपिदिवसेषु स्थायिन इति भावः। प्राणाः। क्षणध्वंसिनः - क्षणे क्षणकाल एव - ध्वंसो विनाशः - एषामस्तीति तथोक्ताः - अस्थिरा इति यावत्। यौवने - या सुखस्फूर्तिर्वैषयिकसुखाभिव्यक्तिस्सास्तोकान्येव दिनान्यल्पेष्वेव दिवसेष्वित्यर्थः* अत्यन्तसंयोग द्वितीया। प्रियासु कान्तासु। स्थिता स्थायिनी * कर्तरिक्तः - न तु यावज्जीवभाविनी - वार्धकदशायां तदुपायादिति भावः। तत्तस्मात्कारणात्। बोधका हितोपदेष्टारः। हे बुधाविद्वांसः। निखिलं। संसारं भोगादिरूपम्। असारमस्थिरमेव बुद्ध्वाआलोच्य लोका -
नुग्रहपेशलेन मनसा यत्नः समाधीयताम् परमदयाव्ठुत्वप्रयुक्तानुग्रहतया युष्माभिर्ज्ञानोपदेशादिना संसारार्णवनिमग्नाज्ञजनास्तारयितव्याः - न तूपेक्ष्याः —तथाविधजनोद्धरणे महाफलश्रवणादिति भावः। यद्वा - लोकानुग्रहे - लोकसंग्रहे - पेशलेनानुरक्तेन - मनसा यत्नः ब्रह्मध्यानप्रयत्नस्समाधीयतां - कृतार्थत्वेऽपि युष्माभिरयं यत्नः कर्तव्यः।यतः - युष्मत्कृतप्रयत्न तात्पर्येण जना अपि कृतार्था भविष्यन्ति
‘यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते’॥ इति॥
भगवद्वचनात् इति भावः; समाधीयतामिति विध्यर्थे विहितोऽयं लोट्प्रयोगः। परमपुरुषार्थसाधकब्रह्मध्यानप्रयत्नस्यावश्यविधेयता विवक्षया विपक्षे अनर्थप्राप्तिं च ज्ञापयतीत्यवधेयम्॥
भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला
आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम्।
लोला यौवनलालसा स्तनुभृतामित्याकलय्य द्रुतं
योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विधध्वं बुधाः॥३५॥
व्या.—पुनः प्रत्ययदार्ढ्यार्थं युक्त्यन्तरलाभाच्च उपदिष्टमेवार्थं भङ्ग्यन्तरेणोपदिशति द्वाभ्यां - भोगा इति. - तनुभृतां शरीरिणां भोगाः पूर्वोक्ताः। मेघवितानस्याभ्रबृन्दस्य - मध्येविलसन्त्यः परिस्फुरन्त्यो - यास्सौदामिन्यः तटितस्ता इव - चञ्चलाः क्षणिका इत्यर्थः - नि. ‘तटित्सौदामिनी विद्युदि’ त्यमरः * सुदाम्नाअद्रिणा एकदिक् सौदामिनीति विग्रहः* तेनैकादिगि’त्यण्।
तथा आयुर्जीवितं च। वायुना - विघट्टितं तरलितं - यदब्जपटली लीनाम्बु पद्मपत्रप्रान्तसंश्लिष्टजलबिन्दुः तद्वद्भङ्गुरं भङ्गलीलावन्नश्वरमित्यर्थः। तथा। यौवने - लालसाः महाभोगाभिलाषाः - नि. ‘कामोऽभिलाषस्तर्षश्च स महान् लालसा द्वयोरि’त्यमरः। लोला अस्थिरा। इत्येवमाकलय्य आलोच्य। हे बुधाः। द्रुतं शीघ्रमेव - विलम्बस्यानवकाशादिति भावः। धैर्यं धीरत्वं समाधिश्चित्तस्थैर्यं - तयोस्सिद्ध्या निष्पत्त्या - सुलभे सुखलभ्ये। योगे ब्रह्मध्याने। बुद्धिं निश्चयात्मिकां मनीषां विधद्ध्वंकुरुत - ब्रह्मज्ञाननिष्ठा भवतेत्यर्थः॥
आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्री-
रर्थासंकल्पकल्पाघनसमयटिद्विभ्रमा भोगपूगाः।
कण्ठाश्लोषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयान्भोधिपारं तरीतुम्॥३६॥
व्या.—आयुरिति - आयुः। कल्लोललोलं - कल्लोलवल्लोलमतिभङ्गरं - न त्वाचन्द्रार्कस्थायीत्यर्थः यौवनश्रीर्यौवनसंपत्। कतिपयेष्वल्पेषु - दिवसेषु तिष्ठतीति तथोक्ता - न तु यावज्जीवं वर्तिनीत्यर्थः। अर्थाः धनधान्यग्रामपश्वादिवस्तु विभवास्संकल्पकल्पाः मनोरथतुल्या इत्यर्थः - तेऽपि न चिरस्थायिन इति भावः ‘ईषदसमाप्तौ कल्पब्देश्य देशीयर’ इति कल्पप् प्रत्ययः। भोगपूगाः विषयपरम्पराः। घनसमये वर्षाकाले। यास्तटित - स्तासामिव - विभ्रमाः स्फुरणानि येषां ते तथोक्ताः - क्षणभङ्गुरा इत्यर्थः। तथाःप्रियाभिः प्रौढाङ्गनाभिर्यत्कण्ठाश्लेषेण कण्ठग्रहेणोपगूढमुपगूहन-
मालिङ्गनमिति यावत् * भावेक्तः। प्रणीतं रचितं। तदपि प्रौढाङ्गनालिङ्गनमपि। न चिरं चिरकालावस्थायि न भवतीत्यर्थः अतः हे बुधाः भवात्संसाराद्यद्भयं - तदेवाम्भोधि - स्तस्य पारं। तरीतुं संसारसागरमुल्लङ्घितुमित्यर्थः। ब्रह्मण्यासक्तचित्ता भवत ब्रह्मध्यानैकतत्परा भवतेत्यर्थः - न ह्येतद्व्यतिरेकेण तरणोपायं किंचिदपि पश्यामीति भावः। त्रिवारशुद्ध्या दृढतरविश्वासोत्पादनार्थं त्रिभिश्लोकैः परमार्थपर्यवसायिनी ब्रह्मध्याननिष्ठोपदिष्टा - न त्वनर्थपर्यवसायिनी संसारासक्तिः - यदत्र युक्तं तद्ग्राह्यं तत्त्वविचारपारावारपारीणैरिति श्लोकत्रयतात्पर्यम्॥स्रग्धरावृत्तम्॥
कृच्छ्रेणामेध्यमध्ये नियमिततनुभिस्स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः।
वामाक्षीणामवज्ञाविहसितवसति र्वृद्धभावोऽप्यसाधुः
संसारे रे मुनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित्॥
व्या.—ननु लोके प्रायशस्संसारसुखतत्परा एव दृश्यन्ते - अतः कथमयं निषिध्यत इत्याशङ्क्यादित आरभ्य विचार्यमाणे न - तत्र सुखलेशोऽप्यस्तीत्याह - कृच्छ्रेणेति. - गर्भवासे गर्भावस्थानदशायाम् अमेध्यमध्ये मूत्रपुरीषमध्ये। नियमिततनुभिस्संकुचित। गात्रैः - प्राणिभिरिति शेषः। कुच्छ्रेणातिकष्टेन स्थीयते। तथा यौवने। उपभोगस्संभोगश्च। कान्ताविश्लेषेण प्रियतमावियोगेनयो दुःखव्यतिकरो दुःखसंपर्क - स्तेन - विषमः विकलः। भवतीति शेषः। तथा। वामाक्षीणां मनोहरनयनानामवज्ञाविहसितानामवमानपूर्वक परिहासानां - वसतिः - स्थानं - तासां तस्य हेतुत्वात्परिहा -
सास्पदमित्यर्थः। वृद्धभावो वृद्धत्वमप्यसाधुरसमीचीनः - अपहासास्पदीभूतस्य कुतस्साधुत्वमिति भावः। अतः। रे मनुष्याः - रे इति नीचसंबोधने - नीचत्वं च सांसारिकत्वादिति द्रष्टव्यं - नि. ‘नीचसंबोधने तु रे’ इत्यमरः। संसारे गर्भवासजन्मजरादिरूपे स्वल्पं तुच्छं। किंचिदीषदपि। सुखमस्ति यदि वर्तते चेत्। तर्हि। तद्वत ब्रूत; अतः किमर्थं क्लिश्यत गर्भनिरयवासादिसांसारिकदुःखैः। पुनरावृत्तिरहितनित्यनिरतिशयानन्दबन्धुरब्रह्मपदप्राप्त्यर्थमेव प्रयतध्वमित्यर्थः॥
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्चशत्रव इव प्रहरन्ति देहम्।
आयुः परिस्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चित्रम्॥३८॥
व्या.—अथ स्वविनिपातहेतौ सन्निहिते लोका न कुशला भवन्ति महदेतदाश्चर्यर्यमित्याह - व्याघ्रीति.—जरा वार्धकावस्था।व्याघ्री व्याघ्राङ्गनेव * ‘जातेरस्त्रीविषयादयोपधादि’ति ङीष्। परितर्जयन्ती भीषयन्ती सतीतिष्ठति कलेबरकबलनाभिनिवेशेन वर्तमाना मृत्योः प्रत्यासत्तिमभिनिवेदयतीत्यर्थः। रोगाः वातपित्तश्लेष्मादिव्याधयश्च। शत्रवो वैरिण। इव। देहं। प्रहरन्ति ताडयन्ति - परिपीडयन्तीत्यर्थः। आयुश्च भिन्नघटात् सच्छिद्रकलशात् अम्भइव परिस्रवति प्रतिक्षणं नश्यतीत्यर्थः। तथाऽपि लोको जनः। अहितं। परापकारमाचरतीति चित्रामाश्चर्यम्। परापकारादन्यत्किमकुशलमिति भावः - यद्वा - अहितं स्वस्यानिष्ट माच -
रति स्वविनिपातहेतुभूतमेव कर्म करोति - न त्वात्मोद्धरणार्थं ब्रह्मध्यानादि करोतीत्यर्थः। चित्रमाश्चर्यं - तदुक्तं गीतासु -
‘उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः’॥ इति.॥
* तर्जयन्तीत्यत्र तर्जयतेः परस्मैपदं - ‘तर्जयन्निव केतुभिरि’ त्यादिमहाकविप्रयोगात्सिद्धं - तर्जयतेरनुदात्तेत्वेऽपि चक्षिङो ङित्करणेन अनुदात्तेत्त्वनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनात्परस्मैपदमिति। उपमा वसन्ततिलकावृत्तम्॥
भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायंभव -
स्तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः।
आशापाशशतोपशान्तिविशदं चेतस्समाधीयतां
कामोत्पत्तिवशात् स्वधामनि यदि श्रद्धेयमस्मद्वचः॥३९॥
व्या.—अथ सर्वथा यद्यस्मदुपदेशे विश्वासस्तहर्यात्मन्येव। मनस्समाधेयं न त्वन्यत्रेत्याह - भोगा इति. - भोगाः। विषयाः। भङ्गुरा भङ्गशीला वृत्तिर्येषां ते तथोक्ताः आगमापायित्वादस्थिरा इत्यर्थः। बहुविधाः नानाप्रकाराश्च - कारणवैचित्र्यपूर्वकत्वात्कार्यवैचित्र्या इति भावः। अस्तु ततः किं? तत्राह - तैर्भोगैरेवायं परिवर्तमानो। भवः। शरीरधारणादिसंसारः। कल्पित इति शेषःजन्मान्तरीयकत्वात्तस्येति भावः - ‘भोगायतनं शरीरमि’ति वैशेषिकाः - तत्तस्मात्कारणात्। रे लोका जनाः। इहात्र भवे। कस्य कृतेकस्यभोगस्य प्राप्त्यर्थमित्यर्थः - ‘अर्थे कृते च शब्दौ द्वौ तादर्थ्येऽ
व्ययसंज्ञकावि’ति वचनात्। परिभ्रमत संचरत - न परिभ्रमितव्यमित्यर्थः। संचितकर्मवशात्स्वत एव तेषां संभाव्यमानत्वादिति भावः। अतश्चेष्ठितैर्भोगसंग्रहव्यापारैः। कृतं तत्संग्रहव्यापारा न कर्तव्या इत्यर्थः - कृतमिति निषेधार्थकमव्ययं चादिषु पठ्यते - ‘कृतमिति निवारणातिनिषधयोर’ति गणव्याख्याने। तर्हि किमतः परं कर्तव्यमुपदिश्यत इत्यतआह - अस्मद्वचःअस्मदीयमुपदेशवचनं। श्रद्धेयं यदि विश्वसनीयं चेत् - युष्माभिरिति शेषः। आशा अतितृष्णातस्याः - पाशा रज्जवइव - बन्धहेतुत्वात् - नि. ‘आशादिगति तृष्णयो रि’ति वैजयन्ती - तेषां शतानि - अनेकआशापाशा इत्यर्थः - तेषामुपशान्त्योपशमनेन - विशदं निर्मलं चेतश्चित्तं कामात्पत्तिवशात् अनुरागोदयःवशात् - अनुरागमुत्पाद्येत्यर्थः। स्वरूपमात्मा तद्रूपं - धाम स्थानं - तस्मिन् - नि. ‘स्वो ज्ञातावात्मनि स्वमि’त्यमरः। समाधीयतां स्थिरीक्रियताम् - अन्तरात्मप्रवणमेव क्रियतां - नबाह्यविषयासक्तमित्यर्थः - अन्यथा तु महाननर्थस्स्यादिति भावः - यद्वा-स्वशब्देन। जीव उच्यते - तस्य धामनि निलयस्थाने परब्रह्मणि - अथवा - स्वधामनि स्वयंज्योतिषि - स्वरूपभूततेजसीति वा - इहात्यन्तविप्रकृष्टार्था बहवः परिस्फुरन्ति - विस्तरभयान्न लिख्यन्ये। समाधीयतां समाहितं क्रियतामित्यर्थः; अयमेव हितोपदेष्टृत्वान्मुख्यगुरूणामस्माकं परमोपदेशः - एतद्विश्वासेनान्यासङ्गं परित्यज्य मनो ब्रह्मणि कृत्वा तदाज्ञया श्रेयस्संपादनीयम् -
‘सत्संप्रदायसंयुक्तब्रह्मविद्याविशारदः।
एवमादिगुणोपेतो देशिकोऽशेषवन्दितः॥’
इत्युक्तलक्षणदेशिकाचार्योपदेशवचनश्रद्धाभक्ति युक्तस्य श्रेयोलाभावश्यंभावात्;
‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥
मन्त्रे तीर्थे द्विजे दैवे दैवज्ञे भेषजे गुरौ।
यादृशी भावना यत्र सिद्धिर्भवति तादृशी’॥
इत्यादि श्रुतिस्मृतिसहस्रेभ्योऽयमर्थो निश्चीयत इत्यलमति प्रसङ्गेन॥
शार्दूलविक्रीडितम्॥
ब्रह्मेन्द्रादिमरुद्गणांस्तृणकान्यत्र स्थितो मन्यते
यत्स्वादाद्विरसा भवन्ति विभवस्त्रैलोक्यराज्यादयः।
भोगः कोऽपि स एक एव परतो नित्योदितो जृम्भते
भोस्साधो क्षणभङ्गरे तदितरे भोगे रतिं मा कृथाः॥४०॥
व्या.—ननु यदि ते सर्वथा भोग एव स्पृहा तर्ह्यस्मदुपदिष्ट एवाभिरतिं कुरु नान्यत्रेत्युपसंहरति - ब्रह्मेति यत्र—यस्मिन् निरतिशयैकनित्यभोगसाम्राज्ये। स्थितो वर्तमानस्सन् पुमानिति शेषः। ब्रह्मेन्द्रावादी येषां ते तथोक्ता ये मरुद्गणास्सुरसंघाः - तानपि–किमुतान्यानिति भावः–नि. ‘मरुतौ पवनामरा वि’ति. वैजयन्ती। तृणकणान् तृणलेशान्–अत्यन्तनिस्सारान् परमनीचानिति यावत्। मन्यते अवबुध्यते–पारमेष्ठ्यस्वाराज्ययोरप्येतादृशभोगसाम्राज्य- सहस्रांशसादृश्यस्याप्यनर्हत्वादिति भावः* ‘मन्य कर्मण्यनादरे विभाषाप्राणिष्वि’ति विकल्पाद्द्वितीया। तथा। यस्य विशिष्टभोगसाम्राज्यस्य–स्वादात् रुच्यनुभवात्। त्रयो लोकाः त्रैलोक्यं*
ब्राह्मणादित्वात् ष्यङ् - तत्र यद्राज्यमाधिपत्यं - तदादिर्येषां ते तथोक्ताः विभवास्संपदो। विरसाः अनभिमताः - हेया इति यावत्। भवन्ति - तेषु तथाविधरुच्यतिशयाभावादिति भावः - यद्वा यस्य ब्रह्मानन्दरूपभोगस्य - स्वादात् - त्रैलोक्यराज्यमादिः कारणं - येषां ते तथोक्ताः - सकलभुवनाधिपत्यसंभवा इत्यर्थः - विभवास्सुखसंपदः - विरसाः रसहीनाः - निकृष्टा इति यावत् - भवन्ति ब्रह्मानन्दे क्षुद्रानन्दानामन्तर्भूतत्वात् - ‘एतस्यैवानन्दस्यान्यानिभूतानि मात्रामुपजीवन्ती’ति श्रुतरिति भावः। कोऽप्यनिर्वाच्यः कुतः परमस्सर्वोत्कृष्टः - निरतिशय इति यावत्। तत्कुतः - नित्योदितः नित्याभ्युदयसंपन्नः इत्यर्थः। स एक एव भोगो ब्रह्मानन्दरूपो जृम्भते महाराजश्रेत्रियाद्यानन्दानामुत्तरोत्तरतारतम्यमुक्तवाऽस्य सर्वोत्कृष्टत्वस्य श्रुत्युक्तत्वादिति भावः। अतः भोस्साधो सज्जनेत्युपदेशश्रवणाभिमुखीकरणार्थं स्तुतिः - अत्रैकवचनं समुदायाभिप्रायमत एव रे लोका इति न पूर्वश्लोकोक्तबहुवचनविरोधः - अत्रास्मदुपदेशं ये न शृण्वन्ति त एव नीचाः - यस्तु शृणोति स एव साधुरिति संबोधनद्वयतात्पर्यं। क्षणभङ्गुरे अनित्ये उपलक्षणमेतत् - परमनीच इत्यर्थः। तदितरे तस्माद्विशिष्टभोगादितरस्मिन् अत्रास्मिन्नादेशाभावश्चिन्त्यः। भोगे सांसारिक सुखानुभवे। रतिं रागं प्रीतिमिति यावत् - नि.—‘रतिस्स्मरप्रियायां च रागेऽपि सुरतेऽपि चे’ति विश्वः। माकृथाः मा कार्षीः - किंतु पूर्वोक्त एव तस्मिन्
भोगे रतिं कुरु - तस्यैव परमश्रेयस्करत्वादिति भावः* कृञोलुङि ‘न माङ्योग’ इत्यडागमप्रतिषेधः॥वृत्तं पूर्ववत्॥
इति वैराग्यशतके भोगास्थैर्यवर्णनं सम्पूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1724436952Screenshot2024-08-23234540.png"/>
॥ कालमहिमानुवर्णनम् ॥
सा रम्या नगरी महान्स नृपतिस्सामन्तचक्रं च त -
त्पार्श्वेतस्य च सा विदग्धपरिनताश्चन्द्रविम्बाननाः।
उद्वृत्तस्स च राजपुत्रनिवहस्ते वन्दिन स्ताः कथा -
स्सर्वं यस्य वशाद्गात् स्मृतिपथं कालाय तस्मै नमः॥४१॥
व्या.—अथ सर्वस्यापि कालनियम्यत्वात्तन्महिमानं दशभिर्वर्णयति - तत्रादौ तस्य नियामकत्वं प्रकटयन्नमस्करोति - सेति - अत्र सर्वत्राऽपि तच्छब्दःपूर्वानुभूतविषयः - अत एव न यच्छब्दापेक्षा - तदुक्तं काव्यप्रकाशे - ‘प्रक्रान्त प्रसिद्धानुभूतार्थ गोचरस्तच्छब्दो न यच्छब्दमपेक्षत’ इति। तथा च। सा पूर्वानुभूता। रन्तुं योग्या रम्या - मनोहरा नगरी राजधानी च। तत्र स महान् साम्राज्यभारधौरेयतया पूज्यः। नृपतिः राजा च। * तस्येति संबन्धसामान्ये षष्ठी सर्वत्र संबध्यते - तस्य नपृतेस्तत् सामन्तचक्रं प्रत्यर्थिराजमण्डलं - यद्वा - सेवार्थं समागताखण्डमण्डलाधिपतिपरिवारश्च - तस्य पार्श्वे स्थितमिति शेषः। सा विदग्धपरिषत् विद्वत्सभा च - अथवा - विदग्धानां कर्तव्यार्थचतुराणां - परिषत् समुदायश्च- ‘कृत्यवस्तुषु चातुर्यं वैदग्ध्यं परिकीर्तितम्’ लक्षणात्। तस्य ताश्चन्द्रबिम्बमिवाननं यासां तास्सुन्दर्यश्च। यस्य स। उद्वृत्तः उत्पथगतः
उद्दण्ड इति यावत्। राजपुत्त्रनिवहः राजकुमारवर्गश्च। तस्य ते वन्दिनस्स्तुतिपाठकाश्च - नि - ‘वन्दिनः स्तुतिपाठका’ इत्यमरः। यस्य ताः कथाश्च। श्रव्यवाचश्चेति। सर्वमशेषमपि। यस्य कालस्य। वशादायत्तत्वात् - नि. - ‘वश आयत्ततायां चे’त्यमरः। स्मृतिपथं स्मरणमार्गं ‘ऋक्पूरि’त्यादिना समासान्तोऽच्प्रत्ययः। अगात् प्रापत् - कालमहिम्ना सर्वमपि नष्टमभूदित्यर्थः - सर्वसंहर्तुः कालस्य महिमा वर्ण्यत इति भावः* ‘इणो गालुङी’ति इणो लुङिगादेशः। तस्मै कालाय। नमः प्रह्वीभावः - ‘कालः कलयतामहमि’ति भगवद्वचनात्कालो भगवानेव। तथा च तन्नमस्काररूपमङ्गलाचरणं युज्यत इति भावः* ‘नमस्स्वस्ती’ त्यादिना चतुर्थी॥
शार्दूलविक्रीडितम्॥
यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते।
इत्थं नेयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ
कालः कल्यो भुवनफलके क्रीडति प्राणिशारैः॥४२॥
व्या.—अथास्याक्षधूर्तसाम्येन सर्वप्राणिनियन्तृत्वमाह - यत्रेति यत्र - यस्मिन् गृहे - वेश्मनि कोष्ठे च। क्वचिदपि कदाचित् - यद्वा - यत्र क्वचिदपि यस्मिन् कस्मिंश्चिद्गृहे। अनेकः बहुलः। प्राणी शारशचतिष्ठति - अथानन्तरं तत्र तस्मिन्नेव गृहे। कदाचिदेकस्तिष्ठति - एकत्र कालभेदवशादन्यत्र परिणामवशाच्चेति भावः। तथा - यत्र यस्मिन् गृहे कदाचिदेकस्तिष्ठति तदनु तदनन्तरं - बहवश्च तिष्ठन्तीति शेषः। तत्र तस्मिन् गृहे। अन्ते अवसानकाले -
द्यूतसमाप्तौ च। एकोऽपि च न तिष्ठति। इत्थमुक्तरीत्या। भुवनं फलकमिव शारप्रवर्तनोचित कोष्ठयन्त्रमिव - तस्मिन्। नेयैः प्रवर्तनीयैरिति यावत्। प्राणिनः शाराः - द्यूतगूढा इव अक्षोपकरणानीवेति यावत् - तैस्साधनैः - नि. - ‘पल्याणेऽस्त्रीविहङ्गे ना (शारो) द्यूतगूढे नपुंसकमि’ति वैजयन्ती। कल्यः कलनासमर्थः देवनचतुराश्च। कालः कर्ता अक्षधूर्तश्च गम्यते। रजनिदिवस रात्र्यहनी कर्मणी। द्वावक्षौ पाशकाविव - नि. - ‘पणोऽक्षेषु ग्लहोऽक्षास्तु देवकाः पाशकाश्च त’ इत्यमरः। लोलयन् पौनःपुन्येन गृह्णन् विसृजंश्चेत्यर्थः। क्रीडति दीव्यति - प्राणिसंयोग वियोगयोः वृद्धिक्षयादीनां काल एव कर्तेति भावः॥
अत्राक्षाबिवेति स्पष्टोपमालिङ्गात्सर्वत्रोपमितिसमासः - अत एवोपमालंकारः यदि चाक्षक्रीडनोपयोगित्वाद्रूपकमेवा- श्रयणीयमित्यभिमानस्तदैकदेशवर्तिरूपकमुपमात्वङ्गमिति संक्षेपः॥
मन्दाक्रान्तावृत्तम्॥
आदित्यस्य गतागतैरहरहस्संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते।
दृष्ट्वाजन्मजराचिप्रत्तिमरणं त्रासञ्च नोत्पद्यते
पीत्वामोहमयी प्रमादमदिरामुन्मत्तनभूतं जगत्॥४३॥
व्या.—अथ नित्यप्रमत्तोऽयं लोको नैतन्महिमानं ज्ञातुं शक्नोतीत्याह - आदित्यस्येति.—आदित्यस्य सूर्यस्य गतागतैरुदयास्तमयैरिति यावत्। अहरहः प्रत्यहम् - अहन्यहनीत्यर्थः* वीप्सायां द्विरुक्तिः * अत्यन्त संयोगे द्वितीया। जीवितमायु स्संक्षीयते-
विनश्यति। कालक्रमेणायुः क्षयो भवतीत्यर्थः* ‘क्षि क्षय’इत्यस्माद्धातोः कर्तरि लट्। तथापि। सोऽयं न ज्ञायत इत्याह - बहवोऽनेके - ये कार्यभाराः देहगेहादिनिमित्तकर्तव्यार्थपरम्पराःतैर्गुरुभिर्गरिष्ठै; र्व्यापारैर्जीवनोपायोद्योगैः। कालोऽपि जीवितक्षयकरसमयोऽपि। न ज्ञायते कार्यशतपर्याकुलव्यापारपारवश्यान्नावबुध्यत इत्यर्थः। तथा। जन्मजराविपत्तिमरणम्- उत्पत्ति जरावस्थाविपन्निधनानीत्यर्थः* ‘सर्वो द्वन्द्वो विभाषैकवद्भवती’ त्येकवद्भावः। दृष्ट्वा।त्रासो भीतिश्च नोत्पद्यते नोदेति। किंतु जगत्सर्वोऽपि लोकः। मोहमयीमज्ञानप्रचुरां बुद्धिविपर्यासकारिणीमिति यावत् * प्राचुर्य मयट् - टित्त्वात् ङीप् - नि ’प्रमादोऽनवधानते’त्यमरः। मदिरा मद्यं-तां। पीत्वा निषेव्य।उन्मत्तभूतं क्षीबकल्पं - विवेकशून्यमिति यावत्। भवतीति शेषः;कालेनैव प्रमादं प्रापितोऽयं लोकः कथंकार मेतन्महिमानं ज्ञास्यतीति भावः॥
एतदादि श्लोकपञ्चकं शार्दूलविक्रीडितम्॥
रात्रिस्स्यैव पुनस्सएव दिवसो मत्वा मुधा जन्तवो
धावन्त्युद्यमिन स्तथैव निभृतप्रारब्धतत्तत्क्रियाः।
व्यापारैः पुनरुक्तमुक्तविषयैरेवंविधेनामुना
संसारेण कदर्थिता वयमहो मोहान्न लज्जामहे॥४४॥
व्या.—उक्तमेवार्थं भङ्ग्यन्तरेणाह - रात्रिरिति—रात्रिरियं प्रवर्तमाना रजनी।सैव पुनः गतरात्रिसदृश्येवेत्यर्थः - पुनश्शब्दो वाक्यालङ्कारे - अथवा रात्रिः पुनः भूयोऽपि। सैव गतरात्रिरेवनैतद्भेदो विज्ञायत इति भावः। तथा दिवसः अहस्स पुनस्स एव
गतदिवससदृश एवेत्यर्थः - पूर्ववद्विकल्पोऽत्राऽप्युन्नेयः। इति मत्वा बुद्ध्वाऽपि। जन्तवः प्राणिनः उद्यमिनः तत्तदर्थसाधनोद्योगवन्तः। तथैव निभृतं निगूढं परेषामप्रकाशमिति यावत् - प्रारब्धा उपक्रान्तास्तत्तत्क्रियास्तत्तदर्थसाधककर्माणि - येषां ते तथोक्ताश्च सन्तः। पुनरुक्तभूताः पुनःपुनरनुभूतकल्पाश्चर्वित- चर्वण प्राया इति यावत् - तथाभूता विषयाः जग्धियब्ध्यादिभोगा येषु तै र्व्यापारैश्चेष्टाभिः। मुधा व्यर्थं। धावन्ति - वृथाप्रयासमन्तरेण फलान्तरसंभवादिति भावः। किं वित्थं विधेनैवं प्रकारेणामुना परिवर्तमानेन। संसारेण कुत्सितोऽर्थः कदर्थः* ‘कोः कत्तत्पुरुषेचे’ति कुशब्दस्य कदादेशः कदर्थवन्तः कृताः कदर्थीकृताः हीनार्थीकृता अपि कदर्थशब्दात्तत्करोतीति ण्यन्तात्कर्मणि क्तः* णाविष्टद्भावे विन्मतोर्लुक्। वयं। मोहादज्ञानान्न लज्जामहे न जिह्रीमः। अहो एवं कालमहिम्नानिस्सार्य तिरस्कृता अपि लज्जां न प्राप्नुम इत्याश्चर्यमित्यर्थः॥
न ध्यातं पदवीश्वरस्यविधिवत्संसारविच्छितये
स्वर्गद्वारकवाटपाटनपटु धर्मोऽपि नोपार्जितः।
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं
मातुः केवलमेवप्यौवनवनच्छेदे कुठारा वयम्॥४५॥
व्या.—अथ लोके तावत्पुरुषाणां धर्मार्थकाममोक्षरूपचतुर्विधपुरुषार्थसंपादनसाधनीभूततया परमेश्वरपदध्याने- ज्याध्ययनयशोवित्तार्जन गुरुशुश्रूषाङ्गनालिङ्गनादयो यथायोगं विधेयाः। अस्माभिस्तु तेषां मध्ये न कश्चिदपि विरचितः। अतोऽस्मज्जन्मनिरर्थकमिव जातमिति वारं वारं शोचतां व वनमभिनीयाह - न ध्यातमि-
त्यादिभिः त्रिभिः- न ध्यातमिति.- संसारविच्छित्तये संसारोच्छेदार्थं मोक्षप्राप्त्यर्थमित्यर्थः। ईश्वरस्य शंभोः‘स्थेशभासे’त्यादिना वरच्। पदं पादारविन्दयुगव्ठमित्यर्थः। विधिवत् विध्यर्हंयथाशास्त्रमित्यर्थः ‘तदर्हमि’ति वतिप्रत्ययः। न ध्यातम् एकाग्रचित्ततया न ध्यानविषयीकृतं- यतः ‘शम्भुपादाम्बुजध्यानं साक्षान्मोक्षैकसाधनिमै’त्यनेक पुराणेतिहाससंहितावचनैस्साक्षान्मोक्षसाधनतया विधेयमित्यभिहितं शम्भुपदध्यानं न विहितमितस्तत्साध्यमोक्षपुरुषार्थो न संपादित इति भावः। तथा धर्मार्थसंपादनानुशोचनं कथयन्ति- ‘अत्र अथातो धर्मजिज्ञासे’त्युपक्रममाणस्सूत्रकृन्महर्षिधर्मस्य प्राधान्येन स्वतस्सिद्धं पुरुषार्थत्वं मन्यते- फलं त्वानुषङ्गिकम्- अन्ये पुनस्साक्षात्परम्परया च स्वर्गापवर्गपुरुषार्थद्वयसाधनतया सुखहेतौचन्दने सुखत्ववदौपचारिकं मन्यते तत्र च द्वितीयं पक्षमाश्रित्याह- स्वर्गेति- अत्र स्वर्गशब्दोऽपवर्गस्याप्युपलक्षकः- तथा च स्वर्गापवर्गयोः कवाटयोः पाटने विदलने पटुः समर्थः। स्वर्गापवर्गसाधक इत्यर्थः। धर्मो ज्योतिष्टोमादिरपि नोपार्जितः न संपादितः। यतः- ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ ‘धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्षमवाप्नुयादि’ त्यादिश्रुतिस्मृतिभिः पुरुषार्थद्वयसाधकत्वेनावश्यमनुष्ठेय इति बोधितो धर्मोऽपि नानुष्ठितः- अतस्तत्साध्यपुरुषार्थद्वयमपि न सिद्धमिति भावः। देहलीदीपन्यायेन स्वर्गापवर्गसाधकत्वकथनं धर्मस्य कञ्चिदतिशयं- द्योतयति- ततो न पौनरुक्त्यमित्यनुसंधेयं। तथा नारीणां पीनौ पीवरौ यो पयोधरौ स्तनौ तयोः उरु दुर्भरं यद्युगलं पीवरदुर्भरकुच-
कुम्भयुग्ममित्यर्थः - यद्वा पयोधरयोरूर्वोश्च युगलं पयोधरयुगलमूरुयुगलं चेत्यर्थः - तत्। स्वप्नेऽपि स्वप्नावस्थायामपि किमुत जाग्रदवस्थायमिति भावः। नालिङ्गितं नाश्लिष्टं—
“संसारे पटलान्ततोयतरले सारं यदेकं परं
यस्यायं च समग्र एष विषयग्रामप्रपन्नो जनः।
तत्सौख्यं परतत्त्ववेदनमहानन्दोपमं मन्दधीः
को वा निन्दति सूक्ष्ममन्मथकव्ठावैचित्र्यमूढो जनः?॥
इत्यादिकामशास्त्रोक्त्या कामपुरुषार्थस्याप्युपादेयत्वात्तन्निष्पादकत्वेनाधिगतमङ्गनाकुचकुम्भालिङ्गनाधरचुम्बना- दिकमपि न कृतमतस्तन्निष्पाद्यकामपुरुषार्थोऽपि न समर्थित इति भावः - अयमेव भावः उत्तरपद्यद्वयेऽप्यनुसंधेयः अत्र बाह्यसुरते पयोधरालिङ्गनं सुरतप्रयोज्यग्राम्यकरणे डोलायितबन्धे ऊरुयुगलालिङ्गनमिति विवेकः - अत्र वात्स्यायनीयाः -
“बाह्यमाभ्यन्तरं चेति द्विविधं रतमुच्यते।
तत्राद्यं चुम्बनाश्लेषनखदन्तक्षतादिकम्।
द्वितीयं सुरतं साक्षान्नानाकरणकल्पितम्॥” इति -
किं तु केवलमत्यन्तं मातुर्जनन्या। यौवनं तारुण्यमेव - वनं सुपुष्पितोद्यानं - तस्य च्छेदे विदारणे। वयं कुठाराः परशव एव। यौवनस्य पुत्त्रोत्पत्त्यवधिकत्वात्तदुच्छेदनसाधनभूता एव - न त्वर्थान्तरसाधका अतो निरर्थकमस्मज्जन्मेति भावः॥
नाभ्यस्ता प्रति वादिबृन्ददमनी विद्या विनीतोचिता
खड्गाग्रैःकरिकुम्भपीठदलनैर्नाकं न नीतं यशः।
कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत्॥४६॥
व्या.—नेति.—दम्यते भज्यते अनयेति दमनी भञ्जनी - प्रतिवादिवृन्दानां प्रतिभटवादीश्वरनिवहानां - दमनी - अथवा - प्रतिवादिनां वृन्दानि दमयतीति तथोक्ता - संप्रदायशुद्धदेशिकाचार्यशिक्षानिबन्धननिष्कृष्टवक्तृप्रयुक्त वीर्यातिशयवर्धमानप्रतिवादिपाण्डित्यगर्वनिर्वापणसमर्थैत्यर्थः * ‘कृत्यल्युटो बहुलमि’ त्युभयत्रापि कर्मकर्तरि ल्युट् - टि्त्त्वात्ङीप्। तथा। विनीतानां साधूनामुचिता सहृदयहृदयाह्लादिनीत्यर्थः - यद्वा-विनीतानां विनयविधेयत्वादिगुणोपेतानां - शिक्षितानामिति यावत् - उचिता अभ्यासार्हा-नि ‘अभ्यासेऽप्युचितं न्याय्य मि’त्यमरः। विद्या वेदशास्त्रपुराणादिरूपा। नाभ्यस्ता नाभ्यासविषयीकृता - सम्यक् न परिशीलितेति यावत् - अधीताऽपि विद्या सम्यक्परिशीलनाभावे फलवदर्थावबोधकापर्यवसायित्वादनधीतप्रायैव भवतीति भयात् - ‘आवृत्तिरसकृदुपदेशादि’ति न्यायेन तत्परिशीलनस्य कल्पोक्तेश्च सर्वथा परिशीलनस्यैव प्रथमतः अनधीतैव चेन्न - तत्र प्रत्युत्तरावकाशः - एवं व्यवस्थायां सत्यां ‘विद्यानामनरस्य रूपमधिक मि’त्यादिवचनेन कीर्तिप्रतिष्ठाविज्ञानादिफलसाधनतया अध्ययनपूर्वकमभ्यसनीयेति बोधिता। विद्या नाधीता नाभ्यस्ता च - तत स्तत्साध्यफलजातमपि न संगृहीतमिति भावः। तथा करिकुम्भाः पीठानीव तेषां दलनैर्विदारकैः। अथवाकरिकुम्भपीठानि दृलयन्तीति तथोक्तानि - तैः * शत्रुसेनासंरम्भ विजृम्भमाण करिकुम्भस्थलपाटननिराघाटपाटवैरित्यर्थः*
‘दलविदलन’ इति धातोः पूर्ववल्ल्युट्। खङ्गाग्रैः। यशः कीर्तिः। नाकं स्वर्गं - नि. ‘स्वर्गान्तरिक्षयो र्नाकइ’ त्यमरः। न नीतं न प्रापितं क्षत्रधर्मेण लोकान्तरश्लाघनीयकीर्तिरपि न संपादितेत्यर्थः - यथा लोके प्रासादाद्युन्नतस्थानं प्रापणीयं वस्तु वेणुदण्डाग्रादिना प्रापयन्ति तद्वदिति ध्वनिः - अथवा - खड्गाग्रैः। खड्गधाराभिस्साधनैर्यानि करिकुम्भपीठानां दलनानि विदारणानि - तैर्हेतुभिः - शत्रुसेनादन्तिनिवहारुन्तुदखड्गप्रहारैरित्यर्थः। यशः नाकं न नीतं - ‘कीर्तिं स्वर्गफलामाहुरासंसारं विपश्चित’ इत्यादिवचनैः स्वर्गसाधनत्वेन निवेदिताऽपि कीर्तिर्न संपादिता - ततस्तत्साध्यफललाभो न जात इति भावः। अत्र क्षितितले ‘किं जन्मकीर्तिं विने’ति वचनाज्जन्मसाफल्यार्थम्। कीर्तेः पृथङ्मुख्यत्वेन संपादनीयत्वादानुषङ्गिकफलकत्वात्साधनान्तरत्वात्स्वर्ग मात्रसाधकत्वाच्च ‘स्वर्गद्वारकवाटपाटनपटु र्धर्मोऽपि नोपार्जित’ इत्यनेन नपौनरुक्त्यमित्यवगन्तव्यं। नाकं न नीतं यशः’ इत्यत्र* ‘नीवह्योर्न’ इति वचनाद्द्विकर्मकान्नयतेः कर्मणि क्तप्रत्ययः - अत एव यशसः प्रथमान्तस्य प्रधानकर्मत्वम् - अन्यत्र ‘अकथितं’ चेति -
‘प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणां।
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः’॥
इति वचनात्। तथा चन्द्रोदये चन्द्रोदयसमये। कान्तायाः प्रियतमायाः - कोमलो मृदुलो - यः - पल्लवाधरः किसलयकल्पाधरोष्ठः - तस्य - रसः अधरामृतमित्यर्थः। न पीतः नास्वादितः - नि. ‘तिक्तादौ चामृते चैव निर्यासे पारदे ध्वनौ - रस’ इति शब्दार्णवे -
‘पल्लवाधरसुधा पीते’ति पाठे स्पष्टोऽर्थः - अतो न तृतीयपुरुषा - र्थोऽपि सम्पादित इति भावः - तटस्थोद्दीपनविभावश्च चन्द्रस्य शृङ्गाररसनिमित्तकारणत्वात्तदुदयोक्तिः - तदुक्तं शृङ्गारतिलके - ‘मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिता’ इति। अतस्तारुण्यं यौवनं। शून्यालये निर्जनगेहे। दीपेन तुल्यं दीपवत् - ‘तेन तुल्यं क्रिया चेद्वतिरि’ति वतिप्रत्ययः। निष्फलं निरर्थकमेव। गतं - यथा शून्यगृहदपिस्य कस्यचिदप्यनुपयोगान्निरर्थकत्वं तथा तारुण्यस्यापि कस्यचिदप्यर्थस्यासाधकत्वान्निरर्थकत्वमित्यर्थः। अहो इत्याश्चर्ये विषादेवा॥
तद्धितगतेयमुपमा॥
विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं
शुश्रूषाऽपि समाहितेन मनसा पित्रोर्न सम्पादिता।
आलोलायतलोचनाः प्रियतमास्स्वप्नेऽपि नालिङ्गिताः
कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेरितः॥४७॥
व्या.—विद्येति.—कलङ्करहिता निष्कलङ्का - सप्रमाणेत्यर्थः। विद्या। नाधिगता नाभ्यस्ता नाधीतेति यावत् - ‘नाभ्यस्ताप्रतिवादिबृन्ददमनी’ त्यत्र उक्तभाव एवात्राप्यनुसंधेयः। वित्तं त्यागभोगपर्याप्तं धनं च नोपार्जितम् -
‘यस्यास्ति वित्तं स नरः कुलीनस्सपण्डितस्सश्रुतवान् गुणज्ञः।
स एव वक्ता स च दर्शनीयस्सर्वे गुणाः काञ्चनमाश्रयन्ते’।
इत्युक्तेः -
‘धनमार्जय काकुत्स्थ धनमूलमिदं जगत्।
अन्तरं नाभिजानामि निर्धनस्य मृतस्य च’॥
इत्यादिवचनेन च बहुफलसाधनतया अर्जनीयमित्युपदिष्टं वित्तं नार्जितं - ततस्तत्साध्यफलमपि न साधितमिति भावः। ननु -
‘अर्थानामर्जने दुःखमर्जितानां च रक्षणे।
रक्षितानां व्यये दुःखं धिगर्थं दुःखभाजनम्’॥
इति निषेधोक्तेः कथं तदुपार्जनाभावानुशोचनमिति चेत्सत्यं तस्याप्यवहिताविसंवाद्यैहिकामुष्मिकफलजनकत्वेनाभ्यर्हितत्वात्पुरुषार्थपर्यवसानाच्च न दोष इति मन्तव्यं। तथा समाहितेन सावधानेन प्रसन्नेनेत्यर्थः। मनसा अन्तःकरणेन - अन्तः करणशुद्धिपूर्वकं विहितस्य कर्मणः फलजनकत्वनियमादिति भावः। पित्रोर्मातापित्रोरित्यर्थः - नि. ‘मातापितरौ पितरावि’ त्यमरः ‘पितामात्रे’त्येकशेषः। शुश्रूषा परिचर्या सेवेति यावत् - नि. ‘शुश्रूषा श्रोतुमिच्छायां परिचर्यावधानयो’रिति विश्वः - न संपादिता न कृता -
‘मातापितृसमं दैवं सर्वेषां न हि विद्यते।
तस्मात्समर्चयेन्नित्यं पितरौ देवरूपिणौ’॥
इत्यादिवचनैः सर्वेश्वराराधनकल्पतया बहुफलदायकत्वेन कर्तव्येति बोधिता पितृसेवा न कृता - ततस्तत्साध्यफलमपि न सम्पादितमिति भावः। आलोले चञ्चले तरले - आयते कर्णान्तविश्रान्ते - च लोचने यासां ताः - जगन्मोहननयनविलासवत्य इत्यर्थः। प्रियतमा अत्यन्तमनोविनोदकारिण्यः संभोगयोग्यास्समानुरागिण्यस्तरुण्यं इत्यर्थः - अन्यथा रसाभासप्रसङ्गात्। स्वप्नेऽपि नालिङ्गिताः। एतेनात्यन्तमिथ्याभूतस्वप्नालिङ्गनाद्यभावानुशोचनेन जाग्रद्दशायां तस्यात्यन्तासंभावितत्वं सूच्यते। ननु कामनिष्पत्त्यर्थमङ्गनालिङ्गनाधर -
चुम्बनादिकमावश्यकं - तत्र पूर्वश्लोके अधरचुम्बनमुक्तं - किं तु पूर्वतरश्लोकोक्तमेव आलिङ्गनं पुनरत्राप्युक्तम् - अतः पौनरुक्तयदोषः प्रसक्त इति चेन्न - तत्र कतिपयालिङ्गनाभावमात्रानुशोचनमत्र तु सर्वाङ्गनालिङ्गनाभावानुशोचनमिति न दोषप्रसक्तिरिति वेदितव्यम्। किं त्वयं परिवर्तमानः। कालः। काकैर्बलिबुग्भिरिव अस्माभिरिति शेषः। परपिण्डेषु परान्नेषु - लोलुपतया लालसतया सावमानपरपिण्डादनकुक्षिम्भरितयेत्यर्थः। प्रेर्यते याप्यते - न त्वर्थ साधकतयेति भावः - नि. ‘परान्नः परपिण्डाद’ इत्यमरः * ‘प्रपूर्वादीरयतेः कर्मणि लट्’। एतत्सर्वं कालविलसितमेवेति तात्पर्यम्। यद्यप्यत्र वैराग्यप्रकरणेधर्मार्थपितृशुश्रूषाविद्यायशोऽधिगमानां यथाकथञ्चित्पुरुषार्थोपयोगितया तदभावानुशोचनं वक्तुंयुक्तं - न त्वङ्गनालिङ्गनादिसंभोगाभावानुशोचनं - तदपि श्लोकत्रयेण त्रिवारसिद्ध्यर्थं कथयितुमत्यन्तायुक्तं - ननु विद्याध्ययनाभावे द्विवारानुशोचनं युक्तमिति चेत् न तस्य उपादेयत्वेन शतकृत्वस्तदभावानुशोचनेऽप्यनौचित्याभावात्। अन्यस्य त्वनुपादेयत्वादेतदनुशोचनमनुचितमिव प्रतिभाति - तथाऽपि तस्यापि पुरुषार्थमध्यपरिगणनया संपातापातत्वात् - प्रसूतिभाजो विश्वस्य स्त्रिपुंसाभ्यामेव निष्पन्नत्वात्कामस्य पुरुषार्थत्वेन च पितृऋणविमोचनहेतुभूततया च तादृशशास्त्रस्य महापुरुषप्रणीतत्वात् - ‘धर्माविरुद्धो भूतेषु कामोऽस्मिभरतर्षभे’ति भगवद्वचनात्तद्विरुद्धस्यैवानुपादेयत्वात् - अत्र तद्विरुद्धस्यैतत्कामस्य विवक्षितत्वेनोपादेयत्वाच्चतदेवानुशोचितुमुचितं। यद्वा लोके तावदुत्तमवस्त्वलाभे अधमवस्त्वापेक्षा - तस्याप्य -
लाभे तदनुशोचनं प्रायशः प्रसिद्धं - यथा पिपासितस्यालब्धशर्करापानकस्यारनालापेक्षायां तदलाभे अनुशोचनं - उद्यत्कालविप्रलब्धस्याधिगतपरमार्थानामपेक्षायां तदलाभेऽनुशोचनमुचितमेव अत एव श्लोकत्रयेऽपि प्रतिश्लोकं पृर्वार्धेउत्तममध्यभेदेन पक्षद्वयाभावानुशोचनमुक्त्वाअधमत्वातिशयेन तृतीयपक्षे तदभावानुशोचनमुक्तमित्यल- मतिप्रपञ्चेन॥
वयं येभ्यो जाता श्चिरपरिगता एवखलु ते
समं यै स्संवृद्धास्स्मृतिविषयतां तेऽपि गमिताः।
इदानीमेते स्मः प्रतिदिवसमासन्नपतना
गतास्तुल्यावस्थां सिकतिलवदीतीरतरुभिः॥४८॥
व्या.—अथ कालविकलनाविपाकवचनमाह - वयमिति. - वयं येभ्यो मातापितृभ्यो जाताउत्पन्नास्ते चिरपरिचिता एव चिरकालपरिचयवन्त एव विनष्टा एवेत्यर्थः। खलु शब्दोऽत्र निश्चये वाक्यालंकारे वा। तथा यैर्जनैस्समं। संवृद्धास्सम्यग्वृद्धिं गताः - ‘संवृत्ता’ इति पाठे प्रवृत्ता इत्यर्थः। तेऽपि। स्मृतिविषयतां स्मरणगोचरत्वं। गमिताः प्रापिताः। कालेनेति शेषः - तेऽपि नष्टा इत्यर्थः गमेर्ण्यन्तात्कर्मणिक्तः * ‘गतिबुद्धी’ त्यादिना आणि कर्तुः कर्मणि ‘ण्यन्ते कर्तुश्च कर्मण’ इति वचनात् - अथवा गमिता ज्ञाता इत्यर्थः - स्वार्थे णिच् ‘रामो राज्यमकारयदि’ति वत्। इदानीं वार्धकावस्थायामेते वयं। प्रतिदिवस प्रत्यहं* यथार्थेऽव्ययीभावः। आसन्नं समीपवर्ति - पतनं निधनं - येषां ते तथोक्ताः। अत एव। सिकतास्मिन्नस्तीति सिकतिलं सैकतप्रायं* ‘देशे लुबि-
लचौचे’त्यनेन तदस्त्यस्मिन्नित्यर्थे इलच् प्रत्ययः - यन्नदीतीरं नदीतटप्रदेशः - तत्र ये - तरवः वृक्षा - स्तै - स्तुल्यावस्थां गताः समदशां प्राप्तास्स्मः।क्षिप्रमेव यास्याम इत्यर्थः एतत्सर्वं कालकृतमेव अन्यथा कथमन्यस्येदृक्सामर्थ्यमिति भावः॥
अत्र तरङ्गभङ्ग्याघातै स्सिकतापनये अविलम्बेन तरूणां निर्मूलोन्मूलः - तद्द्द्योतनार्थं नदीतीरस्य सिकतिलविशेषणं -
नि. ‘स्त्री शर्करा शर्करिलश्शार्करश्शर्करावति।
देश एवादिमावेव मुन्नेयौ सिकतावति’॥ इत्यमरः॥
शिखरिणीवृत्तम्॥
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धंगतं
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः।
शेषं व्याधिवियोगदुःस्वसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतःप्राणिनाम्॥४९॥
व्या.—अथप्राणिनां विचार्यमाणे सुखलेशस्याप्यत्रकाशोनास्तीत्याह - आयुरिति—नृणां मर्त्यानामायुर्जीविताव- धिकालो वर्षशतं शतसंवत्सरात्मकं। परिमितं क्लृप्तं ब्रह्मणेति शेषः - नि. ‘विंशत्याद्यास्सदैकत्वे सर्वा संख्येयसंख्ययोरि’त्यमरः। तदर्धं तस्य वर्षशतस्यार्धं - पञ्चाशद्वत्सरात्मकं। रात्रौ गतं - इन्द्रियव्यापारोपरम रूप निद्रावस्थया गलितं भवतीत्यर्थः। परस्य। तस्य जागरूकेणवर्तमानस्यार्धस्य पञ्चाशद्वत्सरात्मकस्यापरमन्यदर्धं - पञ्चविंशतिसंवत्सरात्मकं। बालत्ववृद्धत्वयोर्गतमज्ञानाशक्तत्वावस्थाविषयतया नष्टमित्यर्थः - द्वादशसंवत्सरात्मकमेकमर्धं बालत्वे अन्यद्वृद्धत्वे
इति विवेकः। शेषं पञ्चविंशतिसंवत्सरात्मकमेतदवशिष्टार्धंव्याधिभिः रोगैः - वियोगदुःखैः पुत्रकलत्रादिविरहप्रयुक्तदुःखै स्सहितं सत्सेवादिभिः स्वजीवनार्थं वित्तवत्परिचर्यादिकष्टकर्मभिर्नीयते अतिवाह्यते। अतः वारितरङ्गवच्चञ्चलतरे अतिचञ्चले क्षणिक इत्यर्थः। जीवे जीवने प्राणिनां। सौख्यं सुखं। कुतः - न कुतोऽपीत्यर्थः उक्तरीत्या विचार्यमाणे सुखलेशस्याप्यनवकाशादिति भावः॥
क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः
क्षणं वितै र्हीनः क्षणमपिच सम्पूर्णविभवः।
जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनु-
र्नरस्सांरान्ते विशति यमधानीयवानिकाम्॥५०॥
व्या.—अथ कालत्रययुक्तबाल्याद्यवस्थाक्रमेण मर्त्यः सर्वोऽपि म्रियत इत्युपसंहरति - क्षणमिति - क्षणं क्षणमात्रमीषत्कालमित्यर्थः * अत्यन्तसंयोगे द्वितीया। बालः शिशुर्भूत्वा - तथा क्षणमपि। कामेन मन्मथेन - रसिकः शृङ्गाररसाभिनिविष्टः - यद्वा काम्यन्ते अभिलष्यन्त इति कामाः - कामिनीसंभोगादिविषयास्तेषु - रसिकः अनुरागवान् युवा तरुणश्च। भूत्वा। तथा क्षणं। वित्तैर्हीनो निर्धनो।भूत्वा। क्षणमपि संपूर्णविभवः परिपूर्णधनश्चभूत्वा - नि. ‘अर्थरै विभवा अपी’ति पर्यायेष्वमरः। तथा। क्षणं जरया - जीर्णैः शिथिलैः - विश्लिष्टसंधिबंधैरिति यावत् - अङ्गैरुपलक्षितः। अत एव। वलीभिर्विश्लथचर्मभङ्गिभिर्मण्डिताभूषिता चिह्नितेति यावत् * - ‘मडिभूषण’ इति धातोः कर्मणि क्तः - तनुर्गात्रं - यस्य तथोक्तो। भूत्वा। नरस्सर्वोऽपीत्यर्थः॥ नट -
स्तत्तद्वेषधारी नर्तक इव - संसारस्य बाल्ययौवनाद्यवस्थानुभवरूपसंसारकपटनाटकस्य - नाट्यप्रसङ्गाडम्बरस्य च - अन्ते अवसाने। यमोधीयतेऽत्रेति यमधानी यमराजधानी संयमनीनाम्नी यमपुरी* ‘करणाधिकरणयो श्चे’ति ल्युट् - टित्त्वात् ङीप् - सा यवनिका प्रतिसीरा तिरस्करणीव - तां विशति मृतो भवति - अन्यत्र प्रविष्टो भवतीत्यर्थः - नि. ‘प्रतिसारा यवनिके’ त्यमरः; नटे विशेषणानि योज्यानि॥
उपमालंकारः शिखरिणीवृत्तम्॥
इति वैराग्यशतके कालमहिमानुवर्णनं सम्पूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1724513070Screenshot2024-08-24205419.png"/>
॥यतिनृपतिसंवादवर्णनम्॥
त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः।
इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्न्मखोऽसि वयमप्येकान्ततो निःस्पृहाः॥
व्या.—अथ इह कश्चित्कुतश्चिद्भाग्योदयादित्थं भूतकालवैषम्यं ज्ञात्वा वैराग्याद्यदि यतिर्भवेत्तदा नैरपेक्ष्यात्तृणमिव जगज्जालमालोकयन्नवधीरितानुवर्तनेच्छू राज्ञा सह संवादं कर्तुं शक्नुयान्नान्यथा। अतो निरङ्कुशत्वयतिभावोऽवश्यं संभावनीय इति विवेकिनांज्ञापयितुं तत्संवादप्रकारमाह - त्वमिति.—त्वं। रञ्जयतीति राजा महोन्नत इत्यर्थः। वयमप्युपासितास्सेवितां गुरवः आचार्याः - यया सा तथोक्ता - ‘आचार्यवान् पुरुषो वेदे’ति श्रुतेः - निरन्तर -
गुरुसेवातत्परत्यर्थः - यद्वा - उपासिता - गुरूपासनावशात्संपादिता।गुरुः श्रेष्ठा च - या प्रज्ञा त्रैकाल्यगोचरबुद्धिविशेषप्रवृत्तिस्तयायोऽभिमान आग्रहस्तेनोन्नताः उत्कृष्टाः। त्वं। विभवैर्धनसंपद्भिः। ख्यातः सर्वत्र प्रसिद्धः। तथा। कवयः विद्वांसः - यद्वा - विचित्र - प्रबन्धवचनरचनाचातुरीधुरीणप्रतिभासंपन्नाः कवयितारः। नोऽस्माकं। यशांसि कीर्तीः। दिक्षु दिगन्तराव्ठेषु। प्रतन्वन्ति विस्तारयन्ति। एते महान्तस्संततपरिचर्याभिनन्दिता- चार्यकृपाकटाक्षलब्ध प्रज्ञाभिमानमानसमहोत्सवशालिनः ज्ञानविज्ञानसंपन्ना मोक्षसाम्राज्यपट्टबद्धास्तृणीकृतब्रह्मपुरन्दरा इत्यस्मानपि कीर्तयन्तीत्यर्थः - तस्माद्वयमपिख्याता एवेति भावः। अतः इत्थमनेन प्रकारेण। त्वं चाहं चावां - तयोः - ‘त्यदादीनि सर्वैर्नित्यमि’त्येकशेषः - उभयोरप्यन्तरं। तारतम्यं मानधनाभ्यामतिदूरमत्यन्तविप्रकृष्टं - त्वं केवलधनवान् - वयं तु प्रज्ञाप्रयुक्ताभिमानधनवन्तः - अतः तव चास्माकं च सुमेरुसर्षपयोरिव महदन्तरमित्यर्थः। अतस्त्वमस्मासु विषये। पराङ्मुखः अनादरपरोऽसि यदि - तर्हि। वयमप्येकान्ततो। निस्स्पृहाः निरपेक्षाः - अनादरपरा इत्यर्थः - त्वयीति शेषः। अनादरेऽप्यवस्थानेनास्माकमंत्र प्रयोजनमस्ति - तवास्मास्वादरश्चेदस्माकमपि त्वय्यादरस्तद्वशादत्र स्थास्यामः - अन्यथान्यत्र गमिष्याम इति भावः - अत्र ‘त्वंराजा वयमि’त्युपक्रमे ‘वयमध्येकान्ततो निस्पृहा’ इत्युपसंहारे च बहुवचनं प्रयुज्य आवयोरिति द्विवचनप्रयोगः कथमुपयुज्यत इति चेत्सर्वेषां समुदायविवक्षया वा आत्मसंभावनायां बहुवचनप्रयोगेण वा युक्तत्वान्न कोऽपि विरोधः - एवमुत्तरत्राऽपि द्रष्टव्यम्॥
शार्दूलविक्रीडितं वृत्तम्॥
अर्थानामीशिषे त्वं वयमपि च गिरा मीश्महे यावदर्थं
शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः।
सेवन्ते त्वां धनाढ्या मतिमलहतये मामपि श्रोतुकामा -
मय्यप्यास्था न ते चेत्त्वयि मम नितरामेषराजन्ननास्था॥
व्या.—उक्तमेवार्थं भङ्ग्यन्तरेणाह - अर्थानामिति—त्व मर्थानां धनानामीशिषे ईश्वरो भवसि तथा वयमपि। च यावानर्थो यावदर्थं। यावदाभीधेयं यथा तथेत्यर्थः * ‘यावदवधारण’इत्यव्ययीभावः - नि. ‘अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वि’त्यमरः। गिरां शास्त्रवचनाना मीश्महे - अशेषशास्त्रविशेषार्थानां प्रभवाम इत्यर्थः। ‘विद्महे’इति पाठे गिरां यावदर्थमशेषविशेषार्थानित्यर्थः - विद्महे जानीमहे। तथा। त्वं। शूरः शौर्यवान् - रिपुदमन इति शेषः। तथा। नोऽस्माकं। वादिदर्पव्युपशमनविधौ प्रतिवादि गर्व निर्वापणविधाने - नि. ‘विधिर्विधाने देवे चे’त्यमरः। अक्षयमविनाशि। पाटवं सामर्थ्यमस्तीति शेषः। त्वां। धनाढ्याधनस्वामिनः - नि. ‘इभ्य आढ्योधनी स्वामी’त्यमरः। सेवन्ते भजन्ते - तदविनाशार्थं तदभिवृद्ध्यर्थं चेति भावः - यद्वा धनाढ्या धनाढ्यत्वाभिलाषिनः - राजसेवया धनसंपादनेच्छव इत्यर्थः - त्वां सेवन्ते। मामप्यस्मानपीत्यर्थः। मतिमलहतये बुद्धिजाड्यनिवृत्त्यर्थं -
‘यस्तु पर्यटते देशान् यस्तु सेवेत पण्डितान्।
तस्य विस्तारिता बुद्धि स्तैलबिन्दुरिवाम्भसि’॥
इति वचनादिति भावः। यद्वा - मतिमलानि रागद्वेषादयः - तेषां
हतये प्रक्षालनार्थं - बुद्धिशुद्धिद्वारा ज्ञानावाप्त्यर्थमित्यर्थः। श्रोतुं कामोऽभिलाषो येषां ते श्रोतुकामाः - शुश्रूषवः - ‘गुरुमुखाच्छ्रोतव्यमि’ति न्यायेनास्मन्मुखाच्छास्त्रार्थश्रवणेच्छवः - ’गुरुशुश्रूषयाविद्ये’ त्युपदेशवचनविश्वासवन्तश्शिष्या इत्यर्थः - सेवन्ते इति संबंन्धः ‘तुं काममनसो रपी’ति तुमुनो मकारलोपः। अतः हे राजन्। ते मय्यपि। आस्था न चेदनादरो यदि। तदा ममत्वय्यपि नितरामत्यन्तं * अव्ययादांप्रत्ययः। अनास्था निरपेक्षत्वादिति - भावः। ‘एष राजन् गतोऽस्मि’ इति पाठे अन्यत्र गमिष्यामीत्यर्थः * वर्तमानसामीप्ये वर्तमानप्रत्ययः; स्वस्य निरङ्कुशत्वद्योतनार्थमेतच्छब्दप्रयोगः; पूर्वश्लोकोक्तभाव एवात्राप्यनुसंधेयः॥
स्रग्धरावृत्तम्॥
वयमिह परितुष्टा वल्कलैस्त्वं दुकूलै -
स्सम इह परितोषो निर्विशेषो विशेषः।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान् कोदरिद्रः॥५३॥
व्या.—अथ कथमन्यत्र गमिष्यसीत्याशङ्कायामस्माकं नित्यसंतुष्टान्तःकरणत्वान्नकिञ्चिदपि कृच्छ्रमित्याह - वयमिति - हे राजन्। वयमिदानीं। वल्कलै र्दारुत्वङ्निर्मितचीवरैः। परितुष्टा स्सन्तुष्टाः। त्वं। दुकूलैः क्षौमैर्विचित्रचीनाम्बरैरित्यर्थः। परितुष्ट इति वचनपरिणामेन संबन्धः। परितोषः संतोषः। अस्माकं तव च। सम इव तुल्य एव - इव शब्दोऽवावधारणार्थकः। विशेषः अन्यतरोत्कर्षस्तु। निर्विशेषो विशेषरहितः - मामक तावक परि-
तोषयोरन्तरं न किञ्चिदप्यस्तीत्यर्थः - ‘सम इव परितोषो जायते को विशेष’ इति वापाठः। किंतु यस्य पुंस स्तृष्णा धनलिप्सा। विशाला अत्यायता स पुमान्। दरिद्रोऽकिञ्चिनो। भवतु न त्वन्य इत्यर्थः * सम्भावनायाम् लोट्। कथमेतदित्याशङ्क्योक्तमर्थ मर्थान्तरन्यासेन द्रढयति - मनसि चपरितुष्टे चित्ते येन केनचित्सन्तुष्टे सति। कः पुमानर्थवान् द्रव्यसम्पन्नः। कश्चवा। दरिद्रः द्रव्यहीनः - न कोऽपीत्यर्थः - मनः परितोषे लाभालाभयोरकिञ्चित्करत्वादितिभावः। अतो न किञ्चिदप्यस्माकं कृच्छ्रमिति वेदितव्यम्॥
मालिनीवृत्तम् **- ‘**ननमयययुतेयं मालिनी भोगिलोकैरि’ति लक्षणात्॥
फलमलमशनाय स्वादु पानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलंच।
नवधनमधुपानभ्रान्तसर्वेन्द्रियाणा -
मविनयमनुमन्तुं नोत्सहे दुर्जनानाम्॥५४॥
व्या.—तथाऽपि शरीरयात्राया अन्यथा संभाव्यमानत्वान्नदुर्जनाविनयं सोढुं शक्नोमीत्याह - फलमिति - फलम्। अशनाय भोजनाय क्षुन्निवारणार्थमित्यर्थः। अलं पर्याप्तं * अलमिति पर्याप्त्यर्थग्रहणात् ‘नमस्स्वस्ती’त्यादिना चतुर्थी - एवमुत्तरत्रापि द्रष्टव्यम्। तथा स्वादु मधुरं - नि. ‘त्रिष्विष्ठेस्वादु मधुरे’इत्यमरः। तोयमुदकं। पानाय तृष्णोपशान्त्यर्थमित्यर्थः। अलं। तथा। क्षितिरपि शयनार्थं संवेशनाय। अलं। तथा वल्कलं च। वाससे आच्छादनार्थम् \। अलम्। अतः। नवं सद्यस्संभावितं - यद्धनं - तदेव मधु-
पानं मद्यपानं - तेन भ्रान्तान्यमार्गवर्तीनि - सर्वाणीन्द्रियाणि येषां - तेषां - धनमधुपानस्य चित्तविकाराविवेकादिकारित्वेन यथाकथंचिद्विवेकलेशसंभवे तन्निवृत्त्यर्थं धनविशेषणम्। अतस्तस्य दुर्जनानां दुर्मार्गशालिनामविनयं दुर्विनयमनादर मिति यावत्। अनुगन्तुमङ्गीकर्तुं नोत्सहे न मृष्यामि। सति गत्यन्तरे किमर्थं सोढव्यमिति भावः॥
अश्नीमहि वयं भिक्षामाशावासो वसीमहि।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः॥५५॥
व्या.—एनमेवार्थंभङ्ग्यन्तरेणाह - अश्नीमहीति.—वयं भिक्षान्नमश्नीमहि भोक्ष्यामहे ‘अश भोजन’ इति धातोर्लिङ - आत्मनेपदोत्तमपुरुषबहुवचनम् - एवमुत्तरत्रापि द्रष्टव्यं। तथा आशादिशएव वासो। वसीमहि आच्छादयिष्यामः - दिगम्बरा भविष्याम इत्यर्थः। महीपृष्ठे भूतले शयीमहि स्वप्स्यामः अतः। ईश्वरैः राजभिः। किं कुर्वीमहि किं करिष्यामः - न किमपीत्यर्थः। शरीरयात्राया अन्यथैव संभाव्यमानात्वादिति भावः। इत्थं स्थितित्वमेव ब्रह्मनिष्ठयतिलक्षणं - तदुक्तं महाभारते उद्योगपर्वणि धृतराष्ट्रं प्रति सनत्सुजातेन -
‘येन केनचिदाच्छन्नो येन केनचिदाशितः।
यत्र क्वचन शायी स्यात्तं देवा ब्राह्मणं विदुः।’इति-
उक्तं च श्रीमद्भागवते -
‘चीराणि किं पथि न सन्ति दिशन्ति भिक्षां
नोवाङ्घ्रिपाः? परभृत स्सरितोऽप्यशुष्यन्?
‘रुद्धा गुहाः किं? मजितोऽवति नोपपन्नान्?
कस्माद्भजन्ति यतयो धनदुर्मदान्धान्?’ इति॥
तथाचोक्तं शिवगीतायां -
‘संवीतो येन केनाश्रन्भक्ष्यं वाऽभक्ष्यमेववा।
शयानो यत्र कुत्राऽपि सर्वात्मा मुच्यतेऽत्र सः’॥ इति -
न नटा न विटा न गायका न च सभ्येतरवादचुञ्चवः।
नृपमीक्षितुमत्र के वयं स्तनभारानमिता न योषितः॥
व्या.—अथ स्वस्य राजदर्शनायोग्यतायाः प्रकटनापदेशेन तं निन्दति - नेति. - वयं। नटाः विविधवेषधारिणो विचित्रनाट्यनिपुणाः। न न भवाम इत्यर्थः - येन नयनानन्दो भवेदिति भावः। विटा एकविद्याः नायकानुकूलनचतुराः। न नभवामः - येन तत्तन्नायिकानुकूल्यप्रयोजनं सिध्येदिति भावः - तदुक्तमलंकारशास्त्रे- ‘नायकानां नायिकानुकूलेन सहायाः पीठमर्दविटचेटविदूषकादय’ इति - तल्लक्षणं च तत्रैव -
‘किंचिदूनः पीठमर्द एकविद्यो विटः स्मृतः।
संधानकुशलश्चेटो हास्यप्रायो विदूषकः’॥ इति॥
गायन्तीति गायकास्सङ्गीतकुशलाः। ते न नभवामः - येन श्रवणानन्दो भवेदिति भावः। सभायां साधवस्सभ्याः* ‘तत्र साधुः’ इति यत्प्रत्ययः। तेभ्य इतरे ये वादचुञ्चवः अशिष्टगर्ह्यालापाः - साधारणजनमनोविनोद मात्रपर्यवसायिनो न तु शास्त्रसंवादिन इत्यर्थः - यद्वा - सभ्याः विद्वांसः - तदितरे साधारणजना - स्तेषां - वादास्तद्वदनयोग्यवाक्यानि - तैर्वित्ताश्चुञ्चवः वित्ता - हास्यकारिण इत्यर्थः। न न भवामः। येन मनो -
विनोदो भवतीति भावः* ‘तेन वित्तश्चुञ्चुप्चणपावि’ति चुञ्चुप्रत्ययः। तथा। स्तनभारैः कुचकुम्भभारै-रानमिता ईषन्नम्राङ्ग्यः। योषितोऽपि। न न भवामः - येन ससंरम्भसंभोगौत्सुक्यं भवेदिति भावः। अतो नृपं राजानमीक्षितुं द्रष्टुम्। अत्र नटादिषु। वयं। केन केचित्यर्थः। एतेषामन्यतरत्वे योग्यता स्यादिति भावः; एतेन असभ्यानामेवावकाशप्रदो न तु सभ्यानामिति नृपस्य निन्दागम्यते; ‘नृप वीक्षितु मि’ति पाठः - तदा - हेनृपेत्यामन्त्रणं - त्वामिति शेषः - अन्यदुक्तार्थम्॥
वैताव्ठीयाख्यमर्धसमवृत्तं -
‘षड्विषमेऽष्टौसमे कला ष्षट्च समे स्युर्नो निरन्तराः।
न समाऽत्र पराश्रिता कला वैताव्ठीयेऽन्ते रलौगुरुः’॥
इति लक्षणात्॥
विपुलहृदयैराशै रेतज्जगज्जनितं पुरा
विधतमपरैर्दत्तं चान्यै र्विजित्य तृणंयथा।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क एषमदज्वरः॥५७॥
व्या.—निन्दामेव चतुर्भिः प्रपञ्चयति - विपुलेति. - पुरापूर्वकाले। विपुलहृदयै र्महामानसैरुदारबुद्धिभिरित्यर्थः। ईशैर्हरिश्चन्द्रादिसार्वभौमैः। एतत्परिदृश्यमानं। जगद्भूमण्डलं। जनितमुत्पादितं - समग्रधर्मोचरणेनसंस्थापितमित्यर्थः। तथाऽपरैर्ययातिप्रभृतिभिरीश्वरैर्विधृतं विशेषेण धृतं सम्यक्परिपालित मित्यर्थः। तथाऽन्यैर्बलिप्रभृतिभिः विजित्य शत्रुजयेन स्ववशं कृत्वा। तृणं
यथा तृणमिव। दत्तमर्थिसात्कृतम् - एतेनैतेषां महौदार्यं सूच्यते। इह हि इदानीमपि। अन्ये। धीराः धैर्यशालिनः। चतुर्दशभुवनानि - भूरादीनि चतुर्दश विष्टपानि। भुञ्जते अनुभवन्ति - तादृक्सामर्थ्यसंपन्नास्तिष्ठन्तीत्यर्थः* ‘भुजपालनाभ्यवहारयो रि’ति धातोर्लट् ‘भुजोऽनवन’ इत्यात्मनेपदम्। अतः। कतिपयानि च तानि पुराणि च तेषां द्वित्राणां पञ्चषाणां वा पुराणामित्यर्थः - स्वाम्ये आधिपत्ये सति। पुंसामेष परिदृश्यमानो। मदो दर्पएव - ज्वरः सन्निपातः बुद्धिभ्रंशहेतुत्वात्। कः किमर्थमित्यर्थः; अतः पुरातनमहाराजचरितानुस्मरणाल्लज्जितव्यं - न तून्मत्तेन भवितव्यमिति भावः॥हरिणीवृत्तम्॥
अभुक्तायां यस्यां क्षणमपिन यातं नृपशतै -
र्भुवस्तस्यालाभे क इव बहुमानः क्षितिभृताम्।
तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो
विपदिकर्तव्ये विदधति जडाः प्रत्युत मुदम्॥५८॥
व्या.—अभुक्तायामिति.—नृपशतैः अनेकभूपालकैः। यस्यां भुवि। अभुक्तायामननुभूतायां सत्यां। क्षणं क्षणमात्रमपि। न जातं किंतु क्षणमात्रव्यवधानरहितमेवानुभूयते इत्यर्थः। तस्या भुवो। लाभे प्राप्तौ। क्षितिभृतां राज्ञां। क इव - इवशब्दो वाक्यालंकारे। ‘इवेतीषदर्थोपमा वाक्यालंकारेष्वि’ ति गणव्याख्याने - बहुमान उत्कर्षो - न कोऽपीत्यर्थः - सर्वसाधारण्यादिति भावः। किं तु तस्याः भुर्वोऽशस्यापि - अंशे भागे च तथा तस्यांशस्य - योऽवयवः एकदेश स्तस्य - लेशे अत्यल्पकोणेऽपि चेत्यर्थः। पतयः ईश्वराः।
जडामन्दाः विषादे स्वल्पतमभूखण्डाधिपतयो वयं जाता इति विषादे दुःखे। कर्तव्ये सति। प्रत्युत वैपरीत्येन। मुदं संतोषं। विदधति कुर्वन्ति मोदन्त इत्यर्थः। अहो महानयमेतेषामविवेक इत्यर्थः। ‘प्रत्युतेत्युक्तवैपरीत्य’ इति गणव्याख्याने॥
मृत्पिण्डो जलरेखया वलयितस्सर्वोऽप्ययं नन्वणुः
स्वांशीकृत्य स एव संगरशतैराज्ञां गणाभुञ्जते।
तेदद्युर्ददतोऽथवा किमपरं क्षुद्रा दरिद्रा भृशं
धिग्धिक्तान् पुरुषाधमान् धनकणान् वाञ्छन्ति तेभ्योऽपि ये॥
व्या.—आस्तां तावत् क्षुद्रनृपवार्ता - तद्याच्ञापरास्तु ततोऽप्यत्यन्त क्षुद्रा इत्याह - मृत्पिण्ड इति.—जलरेखया समुद्राकारेण जलरेखया जलधारया च। वलयितो वेष्टितः - पुञ्जीकृतश्च। योऽयं परिदृश्यमान स्सर्वः अशेषोऽपि मृत्पिण्डश्च। अणुर्ननु। तं तादृश मृत्पिण्डमेव। सगरशतैः युद्धशतैः। स्वांशीकृत्य स्वभागीकृत्य। ये राज्ञांगणाः। भुञ्जते अनुभवन्ति। तेराजगणा। दद्युर्हि अर्थं वितरेयुर्वा दधातेर्भविष्यति लिङ्। अथवेति पक्षान्तरे। ददतः वितरन्तो वा ददातेर्वर्तमाने शतृप्रत्ययः ‘नाभ्यस्ताच्छतु रि’ति नुमभावः - ति नुमभावः - ‘ददतेऽथवेति वा पाठः। अपरमन्यद्दुष्करं। किमपि नास्त्येवेत्यर्थः। भृशमत्यर्थं क्षुद्रा हीनाः। दरिद्रा दीनाश्च - अनेक संयुगक्लेशार्जितमृत्पिण्डभोक्तृत्वात् क्षुद्रत्वं - तत्राप्यंशभगित्वाद्दरिद्रत्वं चावगन्तव्यं। ततस्तेभ्यः क्षुद्रदरिद्रेभ्यो राजगणेभ्यो ये पुरुषाधमाः धनकणान् धनलेशान् वाञ्छन्त्यभिलषन्ति। तान् पुरुषाधमान् - मानुषापशदान्। धिग्धिक कूर्पराधः प्रसृतजल -
पातवत्तथाविधक्षुद्रयाच्ञायाः परमनैच्यावहत्वात्तथाद्यचितारस्ततोऽपि नीचास्ते नराधमाः पौनःपुन्येन निन्द्या इत्यर्थः - नि. ‘धिङ्निर्भर्त्सननिन्दयोरि’त्यमरः॥
* ‘उभसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु।
द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते’॥
इति वचनात्पुरुषाधमानिति द्वितीया वीप्सायां द्विर्भावः। स्वदग्धकुक्षिकुण्डपूरणैकप्रयोजनायाः पुरुषाधमत्वजनन्याः क्षुद्रयाच्ञायाः धिक्कारं विधाय स्वतस्सिद्धानन्दनिर्व्याकुलस्य पुरुषोत्तमत्वजनकस्य - यतिभावस्यैव जीवातोर्मार्गणं विधेयमिति तात्पर्यम्॥
स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं
कपालं यस्योच्चैर्विनिहितमलङ्कारविधये।
नृभिः प्राणत्राणश्रवणमतिभिः कैश्रिदधुना
नभद्भिः कः पुंसामयमतुलदर्पज्वरभरः॥३०॥
व्या.—किं बहुना स एव सफलजन्मेति निगमयति - सइति स पुमान्। कोऽपि कश्चिदेव।जातः सफलजन्माऽसीत् - न सर्व इत्यर्थः। कोऽसावित्यत आह - यस्य पुंसः। धवलं शुभ्रं। कपालं शिरोऽस्थि। मदनरिपुणा शंभुना। उच्चैरुन्नते - सर्वोपरिवर्तमान। इत्यर्थः। मूर्ध्नि निजमस्तके।अलंकारविधये भूषणविधानाय। विनिहितं निक्षिप्तं। स एक एवेति संबन्धः - सकलसुरासुरमौलिखचितमणिप्रभादीपितपादारविन्दस्य कैलासमेरुगिरीश्वरस्य भगवतश्शम्भोः कपालशेखरत्वादिति भावः। किं त्वधुनेदानीं। प्राणत्राणे तुच्छप्राणसंरक्षणे - प्रवणा सक्ता - मतिर्येषां तैस्तथोक्तैः। अत एवन द्भि
र्नमस्कुर्वाणैः कैश्चित्कतिपयैरेव नृभिर्मनुष्यैः * हेतौ तृतीया - अथवा - नमद्भिःपुंसां नरवरमन्यानां राज्ञामयं परिदृश्यमानः।अतुलो निस्सीम - यो दर्पो मद - स्स एव ज्वरभरो ज्वरोद्रेकः - अपभ्रंशहेतुत्वात्। कः किमर्थमित्यर्थः। मरणानन्तरेऽपि यस्य शिरः आदरपूर्वकं महदुपादेयं भवति स एव सफलजन्मा पुरुषोत्तमश्च अन्य स्सर्वेऽपि निष्फलजन्मा पुरुषाधमश्चेति भावः॥
इति वैराग्यशतके यतिनृपतिसंवादवर्णनं संपूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1724521111Screenshot2024-08-24230820.png"/>
॥मनस्संबोधननियमनम्॥
परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदयक्लेश कलितम्।
प्रसन्ने त्वय्यन्तस्स्वयमुदितचिन्तामणिगणो
विविक्तस्संकल्पः किमभिलषितं पुष्यति न ते॥६१॥
व्या.—अथ मनोनियमनदक्षस्यैव यतित्वात्तत्प्रसङ्गानन्तरं मनस्संबोधनपूर्वकं तन्नियमनप्रकारमाह - परेषामिति.—हे हृदय। प्रतिदिवसमनुदिनं। बहुधा बहुप्रकारैः* प्रकारवचनेथाल्(?)। परेषां चेतांसि आराध्य प्रसाद्य - तत्कालोचितानुवर्तनै रुन्मुखीकृत्येत्यर्थः। क्लेशेनातिप्रयासेन। कलितं संपादितं। प्रसादमनुग्रहं नेतुं ज्ञापयितुं - मनांस्येवेत्यर्थः नयतेः द्विकर्मकात्तुमुन् प्रत्ययः। विशसि किं प्रवर्तसे किमित्यर्थः। अथ यथा कथंचित्परचित्तप्रसादने नाभिलषितं साधयिष्यामि - अतः किमर्थमेवं निषिध्यत इत्यत आह - प्रसन्न इति - त्वयि। अन्तरभ्यन्तरे। प्रसन्ने समाहिते
सति - बहिर्मुखत्ववैमुख्येन स्वस्थान एवस्थिते सतीत्यर्थः। स्वयं स्वप्रयत्नं विनैवेत्यर्थः। उदितः आविर्भूत - श्चिन्तामणि गणः चिन्ता रत्ननिचयरूप हत्यर्थः - एवमेव चिन्तामणिरशेषाभिलषितदानसमर्थस्तद्गुणश्च किं वक्तव्य इतिभावः। विविक्तो निष्कलङ्कः। सङ्कल्पः इच्छाविशेषः। ते तवाभिलषितं वाञ्छितं न पुष्यति किं - न पूरयति किं - पूरयत्येवेत्यर्थः - अथवा किं वाऽभिलषितं न पुष्यति सर्वमपि पुष्यत्येवेत्यर्थः। अतः आत्मप्रसत्त्यैवाभिलषितप्राप्तौ किमन्यप्रसादनायासेनेत्यर्थः। अन्यथा सर्वक्षेत्रं विहायारण्यकर्षणन्यायः प्रसज्येतेति तात्पर्यम्॥
परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यता
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा।
अतीतमननुस्मरन्नपि च भाव्यसङ्कल्पय -
न्नतर्कितसमागमाननुभवामि भोगानहम्॥६२॥
व्या.—एवं मनः प्रसादे गुणमुक्त्वातस्यागुणत्वमाह। परिभ्रमसीति.—हे चित्त। मुधा व्यर्थं। किं किमर्थं। परिभ्रमसि संचरसिन्न संचरितव्यमित्यर्थः - प्रयोजनाभावादिति भावः। तर्हि किं कर्तव्यमत आह - क्वचन कुत्रचित् - स्थले।विश्राम्यतां स्थीयतां - स्वस्थान एव स्वैरं वर्ततामित्यर्थः। न न्वेवंचेत्कथं कार्यसिद्धिरित्यत आह - यत्कार्यं।यथा येन प्रकारेण भवति तत्। तथा। स्वयमप्रयत्नेनैव भवंति अन्यथा वैपरीत्येन। न भवति - ‘यद्भावि तद्भवत्येवे’त्यादिवचनात्सर्वमेतत् दैवायत्तमिति भावः - अतो विश्रम्यतामिति सम्बन्धः। विश्रमे किं फलमित्यत आह - अहम्। अती -
तमतिक्रान्तमर्थमननुस्मरन्नचिन्तयन्नननुशोचयन्नित्यर्थः। तथा भावि चापि भविष्यदर्थमपि च वस्तु * सामस्त्ये नपुंसकत्वनिर्देशः। असङ्कन्नपयन्ननाकाङ्क्षन् अतर्कितोऽनभ्यूहितस्समागमो येषां तानचिन्तितोपनतानित्यर्थः। भोगान्विषयाननुभवामि दैववशात्संभावितार्थान् भोक्ष्यामि* वर्तमानसामीप्ये वर्तमानप्रत्ययः - यद्वा - अनुभवामि भुञ्जे अतो मदर्थं न परिभ्रमितव्यमिति भावः; एवं चेत्सर्वेश्वरस्याप्यवश्यं प्रियो भवेयमिति तात्पर्यम् - तदुक्तं भगवता -
‘यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।
शुभाशुभपरित्यागी भक्तिमान्यस्स मे प्रियः’॥
अन्यत्राप्युक्तं -
‘गतार्थान्नानुशोचन्ति नार्थयन्ते मनोरथान्।
वर्तमानेन वर्तन्ते तेन मे पाण्डवाः प्रियाः’॥ इति॥
पृथ्वीवृत्तं - ‘जसौं जसयला वसुग्रहयतिश्च पृथ्वी गुरुः’ इति लक्षणात्॥
एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय
श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात्।
स्वात्मीभावमुपैहि सन्त्यज निजां कल्लोललोलां गतिं
मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना॥६३॥
व्या.—अथ विशिष्यसंबोधनप्रकारमेवाह - एतस्मादिति.—हे चेतः। एतस्मात् परिदृश्यमानात्। आयासयतीत्यायासकात् दुःखजनकात्। इन्द्रियार्थाश्शब्दादिविषया एव गहनमरण्यं - तस्मात् -
दुर्विगाहत्वादेतद्रूपणं। विरम - विरामं प्राप्नुहि - अत्यन्तदुःखविषयासक्तिं माकुर्वित्यर्थः* ‘जुगुप्सा विरामे’त्यादिना पञ्चमी‘व्याङ्परिभ्यो रमः’ इति परस्मैपदं। किंतु। क्षणात् क्षणमात्रेणैव। अशेषदुःखशमनमेकविंशतिमहादुःखविध्वंसनमेव - व्यापारस्तत्र दक्षं समर्थं। श्रेयोमार्गं ज्ञानमार्गम्। आश्रय अनुसर - तत्र प्रवर्तस्वेत्यर्थः। तथा स्वात्मीभावं स्वरूपानुंसधानतत्परत्वम्। उपैहिप्राप्नुहि। तथा। निजां स्वकीयां - ‘चञ्चलं हि मनः कुष्णे’ त्यादौ प्रसिद्धामित्यर्थः। कल्लोलवल्लोलामतिचलां। गतिं व्यापारं; संत्यज सम्यग्विसृज्य सुस्थिरं भवेत्यर्थः। भूयः पुनरपि भङ्गुरां भङ्गशीलामशाश्वतीं। भवरतिं संसारासक्तिं मा भज मा सेवस्व। किंत्वधुनेदानीं। प्रसीद प्रसन्नं भव। चित्तप्रसादमन्तरा पुण्यशतैरपिश्रेयः प्राप्त्यसम्भवादिति भावः॥
मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ
चेतस्स्वर्गतरङ्गिणीतटभुवामासङ्गमङ्गीकुरु।
को वा वीचिषु बुद्वुदेषु च तटिल्लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु च सरिद्वेगेषु च प्रत्ययः॥६४॥
व्या.—अथ विश्वसनीयेष्वेव विश्वासं कुरु नान्यत्रेत्याहमोहमिति—हे चेतः। मोहं पुत्रमित्राद्यासक्तिजनकाज्ञानं। मार्जय शोधय - त्यजेति यावत् - तत्र विश्वासं माकुर्वित्यर्थः। किं तु चन्द्रार्धं चूडामणिर्यस्य तस्मिन् चन्द्रशेखरे शंभौ। तां तथाभूतामनिर्वाच्यामित्यर्थः। रतिमनुरक्तिमुपार्जय संपादय। तथा स्वर्गतरङ्गिण्यामन्दाकिन्याः यास्तटभुबस्तीरप्रदेशास्तासामासाङ्गं तत्र नवा-
मासक्तिम्। अङ्गीकुरु अनुमन्यस्व - उभयत्रैव विश्वासं कुर्वित्यर्थः - एतस्यैव श्रेयस्कत्वादिति भावः। कुत एतदित्याशङ्क्यान्यत्राविश्वासोत्पादनार्थमस्वरसमुद्भावयति - वीचिषु वारितरङ्गेषु च। बुद्बुदेषु जलस्फोटेषु च। तटितो लेखा इव तासु च विद्युल्लतासु च श्रीषु संपत्सु च - तटिल्लेखामतल्लीषुचे’ ति पाठे, प्रशस्तास्तटिल्लेखास्तटिल्लेखामतल्लयः - तासु च* ‘प्रशंस्तास्तवचनैश्चे’ति नित्यसमासः - ‘मतल्लिकामचर्चिका प्रकाण्डमुद्धतल्लजावि’त्यमरः। ज्वालाग्रेष्वग्निशिखामुखेषु च। पन्नगेषु सर्वेषु च सुहृद्वर्गेषु च बन्धुजनसमुदायेषु च। को वा प्रत्ययः - उत्तरोत्तरं तारतम्येन नश्वरतया प्रत्यक्षसिद्धेषु विचि त्रसंस्थितिषु चतुर्षु। गृहदीप इति ‘चुम्बनकरणे श्मश्रुदाह’ इति‘लोकन्यायेन च प्रत्यक्षेण च दाहहेतुतया प्रसिद्धेषु ज्वालाग्रेषु च। स्पृष्टतया प्राणहर्तृषु पन्नगेषु च। विपत्सु परित्यागशीलेषु बन्धुजनेषु च। को वा विश्वासः न कोऽपीत्यर्थः - उत्तरोत्तरमविश्वसनीयत्वादितिभावः - नि. ‘प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुष्वि’ त्यमरः॥
अत्र प्रस्तुतानां स्वबन्धुजनानामप्रस्तुतानां वीचीप्रभृतीनां यथाकथञ्चिदौपम्यस्य गम्यमानत्वाद्दीपकालंकारभेदः - तदुक्तं - विद्यानाथेन -
‘प्रस्तुतप्रस्तुतानां च सामस्त्ये तुल्यधर्मतः।
औपम्यं गम्यते यत्र दीपकं तन्निगद्यते’॥ इति॥
चेतश्चिन्तय मा रमां सकृदिमामस्थायिनीमास्थया
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम्।
कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि बाराणसी -
रथ्यापङ्क्तिषु पाणिपात्रपतितां भिक्षामपेक्षामहे॥३५॥
व्या.—अथ प्रकारान्तरेण सम्बोधयति - चेत इति - हे चेतःअस्थायिनीमस्थिरां। कुतः - भूपालानां राज्ञां - भ्रुकुटी भ्रूभङ्ग एव कुटी कुटीरं - तत्र विहरणं विहारो यस्य तथोक्तो यो व्यापारस्तेन - पण्याङ्गनां व्यभिचारिणीमिति यावत् - भ्रूसंज्ञयानरवरणशीलामित्यर्थः - तदायत्तत्वात्तस्या इति भावः - यद्वा भूपालभ्रुकुटीकुटीरे विहरणमेव व्यापारो यस्यास्सा तथोक्ता सा च पण्याङ्गनावारविलासिनी - तां तथाभूतां तदधीनत्वात्तत्प्रयुक्तप्रवृत्तिनिवृत्तिकामित्यर्थः। अत्रपण्याङ्गनारूपणं विहारे विशृङ्खलत्वद्योतनार्थं नैयत्येन व्यभिचरणशीलत्वप्रकटनार्थं च - यथा वारवनिता कुत्रचित् कंचित् कालं विहृत्यानन्तरमन्यत्र गच्छति तद्वदिति ध्वनिः। इह कानिचिदर्थान्तराणि स्फुरन्ति बुद्धिमद्भिरुन्नेयानि - ग्रन्थगौरवभयान्नलिख्यन्ते। तामिमां परिदृश्यमानां। रमां संपत्तिम्। आस्थया आदरेण सकृत्कदाचिदपि माचिन्तय माकाङ्क्षय- सत्संप्रादनप्रयत्नं माकुर्वित्यर्थः। तर्हि कथं जीविकेत्याशङ्कायामाह - कन्यैव कञ्चुकमेषामस्तीति कन्थाकञ्चुकिनः - कन्थावर्मितगात्रस्सन्तः। अत्र यद्यपि बहुव्रीहिणैव विवक्षितार्थलाभात्पुनः प्रत्ययान्तरग्रहणे प्रक्रियागौरवं * ‘न कर्मधारयान्मत्वर्थीय’ इति निषेधात् - तथाऽपि ‘त्वगुत्तरासङ्गवतीं’कोकप्रीतिचकोर- पारणपटुज्योतिष्मतीलोचने’इत्यादिमहा’ कविप्रयोगश्च वर्तते इति वैयाकरणाः कथयन्ति - यद्वा कन्थया कश्चुकिनः कञ्चुकवन्तः कन्थाच्छादितगात्रास्सन्त इत्यर्थः। वय-
मिति शेषः। वाराणस्याः काशीपट्टणस्य - नि. ‘काशी वाराणस्यवन्ती’त्यमरः - रथ्यापङ्क्तिषु राजमार्गश्रेणिषु नि. ‘रथ्याप्रतोलिर्विशिखे’ ति मार्ग पर्यायेष्वमरः। भवनद्वाराणि गृहप्रतिहारप्रदेशान् प्रविश्य। पाणिरेव पात्रं तत्र - पतितां निक्षिप्ताम् - एतेनायाञ्चापूर्वकत्वं सूच्यते। मिक्षामपेक्षामहे स्पृहयामहे ‘पाणिपात्र उदरमात्रपात्रे पतितमश्नीया’दित्यादि श्रुते रनायाससिद्धमिक्षाऽऽहारेण शरीरयात्रां निर्वर्तयन्तः पुण्यक्षेत्रेषु सुखेन निवत्स्याम इत्यर्थः। तदुक्तं -
‘भिक्षाहारो निराहारो भिक्षान्नेन प्रतिग्रहः।
असतो वा सतोवाऽपि सोमपानं दिने दिने’॥ इति॥
अग्रे गीतं सरसकबयः पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावयरणितं चामरग्राहिणीनाम्।
यद्यस्त्येवं कुरुभवरसास्वादने लम्पटत्वं
नोचेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ॥३६॥
व्या.—अथ तव यदि सर्वदा संसाररसानुर्भवेऽभिनिवेश स्तावदित्थं भूतसामग्र्यां तत्राभिरतिं कुरु। अन्यथा ध्याननिष्ठो भवेत्याह - अग्र इति.—अत्र गीतशब्देन गायकजनो लक्ष्यते। तथा च चेतः इत्यध्याहारः। अग्रे पुरस्ताद्गीतं वीणावादनप्रवीणगायक समुदायश्च। तथा। पार्श्वयो स्पीत्यर्थः। दाक्षिणात्याः दक्षिणदेशोद्भवाः - तेषामेव विचित्रप्रबन्धनिर्माणकौशलसंभवादिति भावः* ‘दक्षिणापश्चात्पुरसस्त्यागि’ति त्यक्प्रत्ययः। सरसा रसोल्लसितशब्दा-
र्थसंघटनचतुरा ये कवयः कवयितारस्ते च। तथा। पश्चात् पृष्ठभागे चामराणि प्रकीर्णकानि - गृह्णन्तीति चामरग्राहिण्यः - तासां वालव्यजनवीजनतत्पराणां - रमणीनां - नि. ‘चामरं तु प्रकीर्णकमि’त्वमरः। लीलया वीजनवैचित्र्यविलासेन - यद्वलयरणितं मणिकङ्कणक्षणत्कार स्वच्चेत्येतत्सर्वं* ‘नपुंसक मनपुंसकमि’त्यादिना नपुंसकैकशेषः। एवमुक्तप्रकारेणास्ति यदि वर्तते चेतर्हि। भवे संसारे यौरसस्तस्यास्वादने अनुभवे - लम्पटत्वं लोलुपत्वं कुरु। तदासक्तं भवेत्यर्थः - नि. ‘लोलुपो लोलुभो लोलो लालसो लम्पटश्चस’ इति यादवः। नो चेदेवं नास्ति चेत्सहसा अविलम्बेनैव ‘स्वरादिपाठादव्ययत्वमि’ति शाकटायनः। निर्विकल्पे निरातङ्के। समाधौ ध्याने प्रविश बह्मध्याननिष्ठं भवेत्यर्थः। किमन्यथोभयभ्रंशहेतुना वृथादैन्येनेति भावः॥मन्दाक्रान्तावृत्तम्॥
प्राप्ताः श्रियस्सकलकामदुघास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम्।
संपादिताः प्रणयिनो विभवै स्ततः किं
कल्पं स्थिताः तनुभृतां तनवस्ततः किम्॥६७॥
व्या.—अथ विचार्यमाणे संपत्तिलाभशत्रुजयादीनामप्यकिंचित्करत्वमेवेत्याह - प्राप्ता हति.—हे चेतः तनुभृतां शरीरिणां। सकलकामान् दुहन्तीति सकलकामदुघाः अशेषमनोरथपरिपूरका इत्यर्थः। श्रियः प्राप्ताः। ततः किम्? तथा विद्विषताममित्राणां ‘द्विषोऽमित्र’इति शतृप्रत्ययः। शिरसि पदं। न्यस्तं निक्षिप्तम् - पराक्रमातिशयेन सर्वे शत्रवः पादाक्रान्तीकृता इत्यर्थः। ततः किम् ? विभ
बैर्धनैः। प्रणयिनस्सुहृद स्संपादिताः संगृहीताः - वशंवदीकृता इत्यर्थः। ‘सम्मानिता’ इति पाठे बहुमानिताः। ततः तथा कल्पस्थिताः कल्पान्तरस्थायिन्यइत्यर्थः। तनवः शरीराणि। संपादिता इति संबन्धः। केनचिद्योगेन संगृहीताः। ततः किम्? तेषां श्रेयस्साधनत्वनिषेधादिति भावः॥एतदादिश्लोकचतुष्टयं वसन्ततिलकावृत्तम्॥
भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः।
संसर्गदोषरहिता विजना वनान्ता
वैराग्यमस्ति किमितः परमर्थनीयन्॥६८॥
व्या.—नन्वेवं श्रेयस्साधनत्वेन व्यवहृतानामेतेषां निषेधे किमन्यच्छ्रेयस्साधनमित्यत आह - भक्तिरिति—हे चेतः। भवे शम्भौ। भक्तिर्भजनानुरागः कार्य इति शेषः। किं च मरणजन्मभ्यां महोपद्रवकारिम्यां निधनोत्पत्तिभ्यां - भयं ‘हृदि तिष्ठतीति हृदिस्थं कर्तव्यमिति शेषः - न तु विस्मर्तव्यमिति भावः। बन्धुषु पुत्रमित्रकलत्रादिषु विषये। स्नोहोऽनुरागो न न कार्यः तथा। मन्मथाज्जायन्त इति तथोक्ताविकाराः स्त्रीपरतन्त्रत्वादयः। न न कार्याः - श्रेयोन्तरायत्वादिति भावः। इत्थं श्रेयसाधनत्वेन कर्तव्यद्वयं तदसाध्यत्वेनाकर्तव्यद्वयं चोपदिश्येदानीं पुनर्मुख्यं कर्तव्यान्तरमुपदिशति - संसर्गदोषैस्सङ्गदोषैः - रहिताः कामक्रोधादिप्रसङ्गवर्जिता इत्यर्थः - ‘सङ्गात्संजायते काम’ इत्यादिभगवद्वचनेन खङ्गजनितकामादि दोषपरम्पराया अनर्थहेतुत्वादिति भावः। कुतः-
विजनाः विविक्ताः। वनान्ताः वनप्रदेशा स्सेव्या इति शेषः। तत्र किमस्तीत्याशङ्कायामाह वैराग्यात्परमन्यत्किमर्थनीयमभिलषणीयं न किमपीत्यर्थः। तस्यैव परमश्रेयस्साधनत्वादिति भावः॥
तस्मादनन्तमजरं परमं विकासि
तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः।
यस्यानुषङ्गिण इमे भुवनाधिपत्य-
भोगादयः कृपणलोकमता भवन्ति॥६९॥
व्या.—अथ ब्रह्मविचारतत्परस्य ते सर्वेऽपि भुवनाधिपत्यादयस्तुच्छा एव प्रतिभान्तीत्युपसंहरति - तस्मादिति—तस्मात् यस्माद्वैराग्यमेवार्थनीयं तस्मादित्यर्थः। हे चेतः। अनन्तमपरिच्छिन्नं त्रिविधपरिच्छेदशून्यं। तथा अजरं जन्मजरामरणवर्जितम्। अत एव। परमं सर्वोत्कृष्टं। तथा। विकासि विकस्वरं सर्वव्यापीत्यर्थः यद्वा - विकासि भास्वरं। तद्ब्रह्म। चिन्तय विचारय। एभिः क्रियमाणै रसद्विकल्पैरसद्भिरसाधुभिः - असत्यैर्वा - विकल्पै स्तत्तद्भोग प्राप्त्यप्राप्तिगोचरविचारैः किं - विकल्पसाध्यंनास्तीत्यर्थः* गम्यमानसाधनक्रियापेक्षयाकरणत्वात्तृतीया ‘न केवलं श्रूयमाणैव क्रियानिमित्तं कारकभावस्य - अपि तु गम्यमाना पी’ति वचनात् * यत्तदोर्नित्यसंबन्धात्तच्छन्दस्य यच्छन्दाकाङ्क्षायामाह - यस्य ब्रह्मणः - अनुषङ्गिणः सम्बन्धवन्तः यद्ब्रह्मविचार इत्यर्थः। तवेति शेषः। इमे काम्यमानाः। भुवनाधिपत्यं लोकाधिपत्यं - भोगः स्वर्गादिसत्यान्तलोकसमुदायस्थः - तावादी येषां ते तदादयो भोगाः। कृपणलोकानां ब्रह्मविचारहीनजनानां - मताइष्टा योग्या इति यावत्।
भवन्ति प्रतिभान्ति। तेषामेव योग्याः तेन मादृशनामिति प्रतीयन्त इत्यर्थः। भुवनाधिपत्यादीनामेवं प्रतीयमानत्वे किमुतान्येषामितिभावः - तदानीं तव तृणीकृतब्रह्मपुरन्दरत्वात्सर्वेऽपि तुच्छा एव प्रतिभान्तीति परमार्थः - यद्वा ननु सर्वथा भोगजातमेव ममाभिलषितं नान्यदिति यदि मन्यसे तदा इत्थंभूतस्य तव सर्वे भुवनाधिपत्यादिभोगा अनुषङ्गात्स्वयमेव सम्भवन्तीति समाधानमभिप्रेत्याहहे चेतः। तत् सकलवेदान्तप्रसिद्धं - यद्वा - तच्छन्दलक्ष्यार्थभूतमित्यर्थः ‘तत्तमसी’ति महावाक्ये तथा व्याख्यानादिति भावः। ब्रह्मचिन्तयाचिन्तनफलमाह - यस्य ब्रह्मचिन्तनतत्परस्य। ते कृपणलोकमता इमे भुवनाधिपत्यभोगादयः। अनुषङ्गिणः भवन्ति अनुषङ्गास्वयमेव सम्भवन्तीत्यर्थः - ब्रह्मध्याननिष्ठासाम्राज्यलक्ष्मीपतेः किं ते दुर्लभमिति भावः - शेषं समानम् - यद्वा यस्य ब्रह्मचिन्तनस्य इमे भुव नाधिपत्यादयः अनुषङ्गिणः अनुबन्धिनः भवन्ति - तथाच सति ब्रह्मचिन्तने तदनुबन्धवशात्सर्वेऽपि स्वयमेव सम्भवन्तीति भावः; अत्र ‘शिखाते वर्धते नूनं गुलूचीं पिबशाबके’ति शास्त्रवचनमनुसृत्य तात्पर्यान्तरेणैवं समाहितमित्यनुसन्धेयम्; कृपणलोकमता इत्यत्र यद्यपि ‘मतिबुद्धीत्यादिना वर्तमानार्थेक्तप्रत्यये* ‘तस्य च वर्तमान’ इति षष्ठीसमासनिषेधः - तथाऽपि निरङ्कुशाः कवयः इत्यलम्॥
पातालमाविशसि यासि नभो विलङ्घ्य
दिङ्मंडलं भ्रमसि मानस चापलेन।
भ्रान्त्याऽपि जातु विमलं कथमात्मनीनं
नब्रह्मसंस्मरसि निर्वृतिमेषि येन॥७०॥
व्या.—एनमेवार्थंपुनः प्रकारान्तरेणोपदिशन्निगमयतिपातालमिति.—हे मानस। चापलेन तत्तद्विषयासक्ति- जनितचापल्येन * युवादित्वादण्* हेतौ तृतीया। पातालमाविशसि अत्यन्ताधः प्रदेशमपि गच्छतीत्यर्थः। तथा नभोऽन्तरिक्षं।विलङ्घ्य। यासि। अत्यूर्द्ध्वप्रदेशमपि गच्छसीत्यर्थः। तथा दिङ्मण्डलं दिक्चक्रवालं। भ्रमसि अतिदूरदेशमपि धावसीत्यर्थः - सर्वत्रापि मनोगतेर्निरर्गलत्वादिति भावः। किं तु। भ्रान्त्या भ्रमवशेनापि - मास्तुविवेकेनेत्यपि शब्दार्थः - तथापि - जातु कदाचिदपि। विमलं निर्मलम्- अविद्याकार्यसंबन्धशून्यमित्यर्थः। किन्तु आत्महितमात्मनीनं सुखस्वरूपत्वात्* ‘आत्मविश्वजन भोगोत्तरपदात्ख’ इति खप्रत्ययः ‘आत्मलीनाम’ति पाठे - आत्मन्यन्तरात्मनि - लीनं निलीयस्थितंसर्वान्तर्यामित्वात्। ब्रह्म। कथं। न संस्मरसि न ध्यायसि - सर्वथा स्मर्तव्यमित्यर्थः। कुतः - येन संस्मरणेन। निर्वृतिमानन्दमेषि प्राप्नोषि। अतः - यथाकथंचित्स्मरणेऽप्यानन्दजनकत्वादवश्यं स्मर्तव्यमेव -
‘हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः।
अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः’॥
इत्यादिवचनादिति भावः॥
॥इति वैराग्यशतके मनस्संबोधननियमनं संपूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1725207204Screenshot2024-08-04235410.png"/>
॥नित्यानित्यवस्तुविचारः॥
किं वेदैः स्मृतिभिः पुराणपठनैश्शास्त्रै र्महाविस्तरैः
स्वर्गग्रामकुटीनिवास फलदैः कर्मक्रियाविभ्रमैः।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं शेषैर्वणिग्वृत्तिभिः॥७१॥
व्या.—अथ वेदाध्ययनस्मृतिपर्यालोचनशास्त्रपठनपुराण - श्रवणादिभिर्न कोऽपि लाभः - किंतु विचारात् श्रवणमनननिदिद्ध्यासनादिभिरात्मानुभव एव लाभ इति मत्त्रा जनानुद्दिश्य बोधयति - ‘किं वैदै’रिति श्लोकेन - किमिति—वैदैः ऋग्यजुस्सामाधर्वणसंज्ञकैः चतुर्भिर्वेदैः। किं किं प्रयोजनं? न किमपि प्रयोजनमित्यर्थः। स्मृतिभिः मन्वाद्यष्टादश स्मृतिभि रुपस्मृतिभिश्च। किं प्रयोजनं? न किमपीत्यर्थः। पुराणपठनैः ब्रह्माण्डपुराणाद्यष्टादशपुराणोपपुराणपठनैश्च। न किमपीत्यर्थः। महाविस्तरैः अतिविस्तृतैः। शास्त्रैः तर्कव्या करणादिषड्दर्शनैः किम्? न किमपीत्यर्थः। स्वर्गे सर्वपुण्यकृन्निवासे नाकलोके च - ग्रामेषु ब्राह्मणप्रधानवर्णानां निवासेपु-कुटीषुपर्णगृहेषु-यः निवासः तेन फलदैः फलप्रदैः कर्मणां स्नानसंध्यावन्दनौपासन-यज्ञादीनां - क्रियाभिः व्यापारैः - विभ्रमैश्च। न किमपि प्रयोजनरमित्यर्थः। भवात् जननमरणरूपसंसारात् यद्दुःखं दारिद्र्यभार्यापुत्रादिनाशादि - तस्य - भारः असह्यातिशयः तस्य रचना कलना - तस्याः - विध्वंसः नाशः तस्य कालानलं प्रलयाग्निरूपं। स्वस्य - आत्मानन्दः आत्मसुखानुभवः तस्य पदं स्थानं तस्मिन्
प्रवेशः - तस्य - कलनं एकं केवलं - नि. ‘एके मुख्यान्यकेवलाः’ इत्यमरः। मुक्त्वाविहाय। शेषैः उक्तेभ्यः अन्यैः वणिग्वृत्तिभिः वर्तकव्यापारसदृशैः न किमपि प्रयोजनम्। आत्मज्ञानं विना उक्तानां वेदादीनामध्ययनादिभिरपि फलं नास्तीत्यर्थः। सर्वेषां वेदान्तवाक्यानां ब्रह्मणि तात्पर्यमित्युक्तरीत्या ब्रह्मज्ञानमेव संपादनीयं नत्वितरदित्याशयः;
यतो मेरुश्श्रीमान्निपततिं युगान्ताग्निवलितः
समुद्राश्शुष्यन्ति प्रचुरमकरग्राहनिलयाः।
धरा गच्छत्यन्तं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णग्रचपले॥७२॥
व्या.—अथातिरिक्तस्यानित्यत्वमेव प्रपञ्चयति - यत इति.—यतो यस्मात्कारणात्। श्रीमान् मणिहिरण्यादि सकलवस्तुसमृद्धिमान्। मेरुः मेरुगिरिरपि। युगान्ताग्निना प्रलयकालानलेन - वलितस्संवेष्टित स्सन्निपतति विशिष्ठाग्निसंपर्कान्निलीनो भवतीत्यर्थः। तथा प्रचुराः प्रभूताः - मकरानक्राः - ग्राहा जलग्राहाश्च तेषां - निलयाः समाश्रयास्समुद्रास्सप्तसागराश्च। शुष्यन्ति शोषं प्राप्नुवन्ति। तथा। धरन्तीति धराः * पचाद्यच् - धारण्याः धराः महेन्द्रादि सप्तकुला - चला स्तेषां - पादैः प्रत्यन्तपर्वतैः - नि. ‘पादाः प्रत्यन्तपर्वता’ इत्यमरः। धृता सम्यगवष्टब्धा। धरा भूमिश्च। अन्तं नाशंपातालं वा। गच्छति प्राप्नोति - उभयत्रापि प्रलयाग्निमेलनादेवेति भावः।तस्मात् कारणात् * यत्तदोर्नित्यसंबन्धात्। करिकलभस्य करिपोत्तस्म - कर्णाग्रंकर्णाञ्चलं - तद्बच्चपले। शीर्यत्इति शरीरे। का वार्ता
का कथा न काऽपीत्यर्थंः; यतोऽत्यन्तस्थिरतराणामपि ईदृश्यवस्था किमुतक्षणभङ्गुराणां शरीराणां - ‘गजा यत्र न गण्यन्ते मशकानां तु कात्थे’ति न्यायादिति भावः। सर्वेऽपि नश्वरा एव ततोऽप्यतिनश्वरं शरीरमिति तात्पर्यम्; करिकलभेत्यत्र करिशब्दस्य विशेषप्रतिपत्तिहेतोर्वैशेष्यप्रतीत्यर्थत्वादपौनरुक्त्यम्; अत ए ‘वैकार्थं पदप्रयोज्यमि’त्युक्त्वा ‘करिकलभकर्णावतंसादिषु प्रतिपत्तिविशेषकरेषु न दोष’ इत्याह वामनः॥
गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलि -
र्दृष्ठिर्नश्यतिवर्धते बधिरता वक्त्रं च च लालायते।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते
हा! कष्टं! पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते॥७३॥
व्या.—अथ शरीरिणो जरया दुरवस्थामाह - द्वाभ्यां गात्रमिति.—गात्रं शरीरं। सङ्कुचितं भुग्नमभूदिति शेषःः। गतिस्संचारोऽपि गलिता संचारशक्तिरपि नष्टेत्यर्थः। दन्तावलिर्दन्तपङ्क्तिश्च। भ्रष्टा पतिता। दृष्टिश्चक्षुरिन्द्रियं च। नश्यति अर्थग्रहणापटुर्भवतीत्यर्थः। बधिरता श्रोत्रेन्द्रियापाटवं। वर्धते वृद्धिं प्राप्नोति। वक्त्रं च लाला दन्तान्तर्गतजलं - लालेवाचरति लालायते - लालामयं भवतीत्यर्थः - नि. ‘सृणिका स्यन्दिनीलाले’त्यमरः। तथा बन्धव एव बान्धवाःस्वार्थेऽण्प्रत्ययः - त एव जनो बन्धुवर्गश्च। वाक्यं वचनं। नाद्रियते न रोचयत इत्यर्थः। किं बहुना। भार्याऽपि। न सेवते - यद्वा - सेवितुं नेच्छति - सेवा दूरापास्तेति भावः। अतः।जीर्णवयसो जरावस्थासंपन्नस्य पुरुषस्य। हेति विषादे। कष्टं कृच्छ्रं।
कुतः - पुत्रोऽप्यात्मसंभवोऽपि। अमित्रायते अमित्रं शत्रुमिवाचरति - प्रतिकूलाचरणतत्परो भवतीत्यर्थः; लालायत इत्यत्र * ‘कर्तुः क्यङ्सलोप श्चे’ति क्यङ् - अत्रतु * ‘उपमानादाचार’ इति क्यच् - उभयत्रापि* ‘अकृत्सार्वधातुकयो र्दीर्घ’ इति दीर्घः॥
वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदा पुमांसम्।
आरोपितास्थिशतकं परिहृत्य यान्ति
चण्डालकूपमिव दूरतरं तरुण्यः॥७४॥
व्या.—वर्णमिति.—तरुण्यो युवतयः कर्त्र्यः* ‘वयसि प्रथम’ इति ङीप्। शिरसि रोहन्तीति शिरोरुहा श्चिकुराः तेषाम्* इगुपधलक्षणः कप्रत्ययः। सितं वर्णं धावल्यगुणं - पलितत्वमिति यावत्। इडित्यञ्जसा। वीक्ष्य दृष्ट्वा - नि. ‘द्राग्झडित्यञ्जसाह्राये’त्यमरः। तदा तस्मिन् समये दर्शनसमनन्तरकालएवेत्यर्थः। जरया वार्धकावस्था - यः परिभवः अवमानस्तस्य - स्थानमास्पदं। तथा। आरोपितं बहिः स्फुटलक्ष्यत्वादारोपितप्रायमस्थिशतकं यस्य तं तथोक्तं - अन्यत्रारोपितं निक्षिप्तं - अस्थिशतकं यस्मिन् तं - ‘आरोपितास्थिशकल’मिति पाठे - एकत्रारोपितप्रायकीकसखण्डं अन्यत्र निक्षिप्तकीकसखण्डमित्यर्थः। पुमांसं पुरुषं। चण्डालकूपं चण्डालसंबन्धि जलाशयमिव। परिहृत्य परित्यज्य।दूरतरमतिविप्रकृष्टं। यान्ति हेयत्वाद्विहायान्यत्र गच्छन्तीत्यर्थः; अतः कष्टं जीर्णवयसोऽपि जीवनमिति भावः॥
यावत्स्वस्थमिदं शरीरमरुजं यावच्च दूरे जरा
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः।
आत्मश्रेयसि तावदेव विदुषा कार्यंःप्रयत्नो महान्
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः॥७५॥
व्या.—अतः दुरवस्थाक्रान्तेः पूर्वमेव श्रेयस्संपादनार्थं यत्नः कर्तव्यः नान्यथेति सदृष्ठान्तमाह - यावदिति. - यावत् यावत्पर्यन्तमिदमेतच्छरीरं। स्वस्थं पीडारहितं। भवतीति शेषः - एवमुत्तरत्रापि। तथा। यावत् न विद्यते रुजा रुग्यस्य तत्तथोक्तम् - आरोग्ययुक्तं भवति - नि. ‘स्त्री रुग्रुजा चोपताप’ इत्यमरः - यद्वा - अरुजं सत् - स्वस्थमविकलं - भवति। तथा। यावज्जरा दूरतः - दूरे भवति - वार्धकदशा यावत्पर्यन्तं नाक्रामतीत्यर्थः। तथा यावदिन्द्रियशक्तिश्चक्षुरादीन्द्रियपाटवं च। अप्रतिहता अखण्डिता भवति। यावदायुषः क्षयो नाशो न भवति। तावत्तावत्पर्यन्तमेव तन्मध्यकाल एवेत्यर्थः। वेत्तीति विद्वान् - तेन विदुषा अभिज्ञेन ‘बिदेश्शतुर्वसु’रिति वसुप्रत्ययः। आत्मनः - श्रेयसि विषयेमोक्षप्राप्तावित्यर्थः। महान् फलजननपर्याप्तत्वेन पूज्यः। प्रयत्नः ज्ञान वैराग्यतपस्सम्पादनोद्योगः। कार्यः; ननु कोऽयं नियमः? अवसानेऽपि प्रयत्नस्य कर्तुं युक्तत्वादित्याशङ्क्याभावकाशाभावान्न युक्तइति व्यतिरेकदृष्टान्तमाह - भवने गृहे संदीप्ते अग्निना दह्यमाने सति कूपखननं प्रति कूपनिर्माणं प्रति उद्यमः प्रयत्नः। कीदृशः कीदृग्विधः - न युक्त इत्यर्थः - अवकाशाभावादिति भावः। गृहदाहवेलायां कूपखननप्रयत्न इव अवसानकाले श्रेयःप्राप्त्यर्थोद्यमोऽपि न युक्यत
इति भावः; तस्मात्स्वस्थावस्थायामेव श्रेयस्साधनसंपादनतत्परेण भवितव्यमवश्यं बुद्धिमतेति तात्पर्यम्॥
तपस्यन्त स्सन्तः किमधिनिवसाम स्सुरनदीं
गुणोदारान्दारानुत परिचरामस्सविनयम्।
पिबामश्शास्त्रौघानुत विविधकाव्यामृतरसा-
न्न विद्मः किं कुर्मः कतिपय निमेषायुषि जने॥७६॥
व्या.—अथ तपश्चरणादीन् बहून् कर्तव्यतया विकल्प्यानन्तरमवश्यं तप एव संपादनीयमिति केषांचिन्निश्चयमनुसंधायाह - तपस्यन्त इति द्वाभ्यां - तपस्यन्त इति.—तपस्यन्तः तपञ्चरन्तस्सन्तः। केवलमिति शेषः* ‘कर्मणो रोमन्थतपोभ्यां वर्तिचरोरि’ ति क्यप् - प्रत्ययः। सुरनदीं मन्दाकिनीम्। अधिनिवसामः किं अधितिष्ठामोवा - वैराग्येणेति भावः - किंशब्द उत्तरत्राप्यनुवर्तनीयः* ‘उपान्वध्याङ्वस’ इति सुरनद्याः कर्मत्वम्। उत अथवा। विनयेनानुकूल्येन सहितं यस्मिन् कर्मणि तद्यथा। तथा गुणैस्सौभाग्यसौशील्यादिभिरुदारान् रम्यान्। दारान् जायां। परिचरामः किं अनुसरामो वासांसारिकधर्मेणेति भावः - नि ‘भार्या जायाथ पुंभून्निदारा इत्यभिधानाद्दारशब्दस्य पुंस्त्वं बहुत्वं च। तथा। शास्त्रौघान् शास्त्र कलापान्। पिबामः किं अद्यैव कीर्तिप्रतिष्ठाविज्ञानार्थमित्यर्थः* ‘पाघ्राध्मे’त्यादिना पातेः पिबादेशः। उत यद्वा। विविधानि काव्यानि काव्यनाटकालंकारा एवामृतरसास्सुधाद्रवाः - अथवा विविधेषु काव्येषु ये अमृतरसास्ताम्। पिबामः - सकलकलाकौशलार्थमिति भावः। जनशब्देनात्र तत्समुदायो विवक्षितः - तथा च
जने जनसमुदाये। कतिपये कियन्तः - ये निमेषास्तावन्मात्रकालपरिच्छिन्नमायुर्यस्य तस्मिन् सतत्यिर्थः - जात्येकवचनविवक्षायां तु जनेष्वस्मासु कतिपयनिमेषायुःषु सत्स्वित्यर्थः। किम् उक्ततपश्चरणादिषु किं वा कुर्मः। सर्वेषामाचरणे अवकाशाभावादिति भावः। न विद्मः न जानीमः - निश्चयाभावादिति भावः॥
दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो
वयं तु स्थूलेच्छास्सुमहति फले बद्धमनसः।
जरा देहं मृत्युर्हरति दयितं जीवितमिदं
सखे! नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः॥७७॥
व्या.—ततः किमित्याशङ्क्य ततो निश्चयमाह - दुराराध्या इति. - तुरगाः उत्तमाश्वाः - तद्वच्चलानि चित्तानि येषां ते अस्थिरहृदया इत्यर्थः। अमीपरिदृश्यमानाः। क्षितिभुजो राजानः। दुराराध्याः आराधयितुं प्रसादयितुमशक्याः - प्रसादोन्मुखीकरणाशक्या इत्यर्थः। तथा स्थूलेच्छाअधिकाशातत्परः। वयं च। सुमहति बहुले। फले धने। बद्धं मनो येषां ते तथोक्ताः - बहुधनाकाङ्क्षिण इत्यर्थः - आकाङ्क्षामात्रमेवास्माकं न तु ते दास्यन्तीति भावः। तथा। जरा वार्धकदशा \। देहं। हरति क्षिणोति। मृत्युरन्तकश्च। दयितं प्रियतममिदं जीवितम् इमान् प्राणानित्यर्थः। हरति। अतः हे सखे। जगत्यस्मिन् लोके। विदुषस्तत्त्वज्ञस्य पुंसः। तपसोऽन्यत्रान्यत् इतरदित्यर्थः। अन्यदसाधारणमुत्तमं। श्रेयः मोक्षसाधनं। नास्ति ततोऽन्यत्परमं श्रेयोन्तरं नास्ति। अतस्सर्वथा तदेव संपादनीयमिति भावः॥
माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने।
युक्तं केवलमेतदेव सुधियां यज्जह्नुकन्यापयः
पूतग्रावगिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचित्॥७८॥
व्या.—अथ तपसः श्रेयोहेतुत्वे तदाचरणस्य किं वा योग्यस्थानामित्याशङ्कायामाह - मान इति.—माने अभिमाने म्लायिनि भग्ने सति। तथा। वसुनि धने च। खण्डिते विनष्ठे सति. - नि.‘देवभेदेऽनलेरश्मौ वसूरत्ने धने वस्वि’ति विश्वः। अत एवार्थिनि याचके।व्यर्थे अलब्धमनोरथत्वान्निरर्थके प्रयाते सति वाञ्छितार्था लाभाद्वैमुख्यं गते सतीत्यर्थः। बन्धुजने पुत्रमित्रादि बन्धुजनसमूहे। क्षीणे अन्नाद्यलाभात्कृशे सति। परिजने भृत्यवर्गे। गते वेतनदानाभावादन्यत्र गते सति। तथा। शनैर्मन्दं। यौवने तारुण्ये नष्टे गलिते सति। अनित्यत्वस्वाभाव्यात्सर्वस्मिन्विपन्ने सतीत्यर्थः। सुधियां बुद्धिसंपन्नानामेतदेव इदमेवैकं केवलमत्यन्तम्। युक्तमुचितं किमेतदित्यत आह - क्वचित् कस्मिंश्चित्। जह्नुकन्यापयः पूताः गङ्गाजल पवित्राः - ग्रावाणः पाषाणाः - यस्मिन् स तथोक्तो यो गिरीन्द्रः तस्य हिमवद्गिरेः कन्दरतट्यांगुहाबहिः स्थाल्यां - निकुञ्जोलतामण्टपः तस्मिन्निवास इति यत् तदेतद्युक्तमिति संबन्धः। तस्यैव श्रेयस्साधनभूततपोयोग्यस्थलत्वादिति भावः - नि. ‘निकुञ्ज कुञ्जौ क्लीवे लतादिपिहितोदरे’ इत्यमरः॥
रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली
रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः।
कोपोपाहिंतबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यमनित्यतामुपगते चित्ते न किंचित्पुनः॥७९॥
व्या.—अथ चित्तस्य नित्यानित्यवस्तुविवेके सति रम्यमपि सर्वमरम्यमेव प्रतिभातीत्याह द्वाभ्याम् - रम्या इति.—चन्द्रमरीचयश्चन्द्रकिरणारम्याः रमणीयाः - उद्दीपकत्वादिति भावः। तथा। तृणवती शाद्वलप्राया। वनान्तः स्थली वनमध्यभूमिः। रम्या रन्तुं योग्या * ‘जानपदे’त्यादिना अकृत्रिमार्थे ङीप्। तथा। साधुसमागमात् सज्जनसहवासादागतं प्राप्तं - यत्सुखं। तदपि। रम्यं कवयति वर्णयतीति कविः तस्य कर्म काव्यं - ब्राह्मणादित्वात् ष्यञ् - तस्य पङ्कजादिवद्रूढत्वाद्रसोल्लसितशब्दार्थसंघटनमर्थः न कर्ममात्रं - तथा च काव्येषूक्तप्रकारेषु काव्यनाटकादिषु। कथाः श्रव्यवाचः उपाख्यानानि वा। रम्या मनोहराः। तथा। कोपोपाहिताः प्रणयकलहादिषु क्रोधवशादुत्पन्ना - ये बाष्पबिन्दवः अश्रुकणास्तैः - तरवलम् आविलं प्रियाया मुखं रम्यम्।अतस्सर्वमपि रम्यमुक्तरीत्या सकलमपि मनोहरमेव। किंतु। चित्ते मनसि। अनित्यतां नित्यानित्यवस्तुविचारतत्परतामित्यर्थः। उपगते सति। किंचिदपि। रम्यं न भवति - ब्रह्मानन्दं विनेति शेषः॥
रम्यं हर्म्यतलं न किं वसतये श्राव्यं न गेयादिकं
किं वा प्राणसमागमागमसुखं नैवाधिकप्रीतये।
किं तु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपांकुर -
च्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः॥८०॥
व्या.—उक्तमेवार्थं विवृण्वन्निगमयति - रम्यमिति.—हर्म्यं तलं प्रासादोपरिप्रदेशः। वसतये निवासाय। न रम्यं किं - रम्यमेवेत्यर्थःI तथा। गेयं गानं * ‘भव्य गेये’त्यादिना कर्तरि निपातः - तदादिः यस्य तत्तथोक्तं - आदिशब्देन वीणावादनादिकमपि। संगृह्यते ‘शेषाद्विभाषे’ ति कप्प्रत्ययः। न श्राव्यं किं श्रोत्रसुखावहं न किं - श्राव्यमेवेत्यर्थः। तथा। प्राणसमायाः प्राणप्रियनायिकायास्समागमेन संभोगेन - यत्सुखं तच्च। अधिकप्रीतये अत्यन्तसंतोषाय। नैव भवति किं? भवत्येवेत्यर्थः। किंतु। सन्तः वस्तुविचारतत्परपुरुषाः। सकलमशेषं - हर्म्यतलनिवासादिकमपि। भ्रान्तः पतनेच्छया परिभ्रमन् - यः - पतङ्गश्शलभः - नि. पतङ्गश्शलभे भाना वि’ति विश्वः - तस्य - पक्षयोः पवनेन गरुतोः वायुना - व्यालोलोऽतिचञ्चलो - यो दीपाङ्कुरो दीपकलिका - तस्य छाया कान्तिस्तद्वच्चञ्चलं तरलं नश्वरमित्यर्थः। आकलय्यालोच्य। वनान्तं वनमध्यं। गताः शाश्वतब्रह्मानन्दसाधनतपश्चर्यार्थमिति भावः॥
॥इति वैराग्यशतके नित्यानित्यवस्तुविचारः संपूर्णः॥
<MISSING_FIG href="../books_images/U-IMG-1724598795Screenshot2024-08-25204304.png"/>
॥शिवार्चनम्॥
आसंसारं त्रिभुवनमिदं चिन्वतां तात! तादृ -
ङ्नैवास्माकं नयनपदवीं श्रोत्रमार्गं गतो वा।
योऽयं धत्ते विषयकरिणी गाढगूढाभिमान -
क्षीबस्यान्तःकरणकरिणस्संयमालानलीलाम्॥८१॥
व्या.—ननु वस्तुविचारप्रसक्त्त्यातपसोऽत्यन्तावश्यकत्वमुक्तं तत्किंविधमित्याशङ्कायां शिवार्चनव्यतिरेकेणान्यन्नकिंचिदप्यस्तीति
वानसि कृत्वेदानीं तावच्छिवार्चनं वर्णयति - तच्चार्चनं र्वणयति - तच्चार्चनं द्विविधं बाह्यमाभ्यन्तरं चेति - तत्राद्यं बहूपकरणसाध्यं बहिर्मुखविषयत्वादमुख्यं चेत्यभिप्रेत्यादौ तदुपेक्ष्य मुख्यमाभ्यन्तरपूजनप्रकारमेवाभिनीयाह - आसंसारादिति.—अत्र तातेत्याश्चर्य श्रवणाभिमुखीकरणार्थमादरातिशय- द्योतकं पृथग्जनं प्रति संबोधनवचनम् - हेतात जनक - नि. - ‘तातस्तु जनकः पिते’त्यमरः - आ संसारात् अनादिसंसारमारभ्येत्यर्थः* पदद्वयमेतत् विकल्पादसमासः। इदं प्रीसद्धं। त्रयाणां भुवनानां समाहारस्त्रिभुवनं - भुवनत्रयमपि* ‘तद्धितार्थे’त्यादिना समाहारसमासे पात्राद्यदन्तत्वान्न स्त्रीत्वं। चिन्वतां मार्गमाणानां - कर्मवशात्तत्र प्रवेलाभादिति भावः - अथवा चिन्वतां परामृशताम्। अस्माकं। नयनपदवीं लोचनमार्गं वा। श्रोत्रमार्गं श्रवणपथं वा। तादृक्तथाविधः पुमान्। न गतो न प्राप्त एव - तादृक्पुमान् - न श्रुतो न दृष्टश्चेत्यर्थः। कोऽसावित्यतआह - योऽयं पुमान् प्रतीयमानतया भोगसाधनानि स्रक्चन्दनवनितादीनि विषया स्त एव करिण्यः इभ्यः - तासु गाढोऽतिदृढो गूढः अप्रकाशश्च योऽभिमानः अत्यन्तासक्तित्वाग्रहः तेन क्षीबस्य मत्तस्य नि. ‘मत्तेशौण्डोत्कटक्षीबा इत्यमरः* ‘क्षीबृमद’इत्यस्य धातोरनुपसर्गात् ‘फुल्लक्षीबकृशोल्लाघा’ इति निष्ठान्तो निपातः। अन्तःकरणमेव करी तस्य चित्तमत्तेभस्य। संयमे सम्यङ्नियमने। आनायस्य रज्जुनिर्मितजाल
स्य - नि ‘आनायः पुंसि जालं स्यादि’ त्यमरः—‘आलाने’ ति पाठे आलानस्य बन्धनस्तम्भस्य - लीलां। धत्ते दुर्दममनोनियमनसमर्थो भवतीत्यर्थः। तादृगिति संबन्धः॥
अत्रेदृक्पुरुषस्य नयनश्रोत्रपथविषयसंबन्धेऽप्यसंबन्धोक्त्यासंबन्धे असंबन्धरूपातिशयोक्तिः; तथा च मनोनियमन- स्यात्यन्ताशक्यत्वरूपं वस्तु व्यज्यते इत्यलंकारेण वस्तुध्वनिः; तथाच केनचिद्योगेन मनो नियम्य तत्र ब्रह्मानन्दसाधनभूतान्तरङ्गशिवार्चनतपोऽवश्यं कर्तव्यमिति गूढोऽयमभिप्रायः; तथा अन्यधर्मस्यान्यत्र संबन्धासंभवादानायलीलामिव लीलामित्यौपम्यपर्यवसानादसंभवद्वस्तुसंबन्धरूपो निदर्शनालंकारः; स चोक्तरूपकेणाङ्गाङ्गिभावेन संकीर्यते.मन्दाक्रान्तावृत्तम्॥
यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं
स हार्यैस्संवासश्श्रुतमुपशमैक व्रतफलम्।
मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृश -
न्नजाने कस्यैषा परिणति रुदारस्य तपसः॥८२॥
व्या.—अथ तपः प्रवृत्तिमेवाह - यदिति. - स्वच्छन्दं यथेच्छम् अपराधीनमिति यावत्। विहरणं विहारश्च। न विद्यते कार्पण्यं दैन्यं यस्मिं स्तत्तथोक्तमशनं भिक्षान्नभोजनं कन्दमूलाद्याहारो वा। तथा आर्यैर्विज्ञानसंपन्नैः। सह संवासस्समागमश्च। तथा उपशमो विषयभोगविरतिरेव - एकं मुख्यं - ब्रतफलं यस्मिं स्तथोक्तं। शान्तिफलकतपश्चरणबोधकमित्यर्थः। श्रुतं वेदान्तशास्त्रश्रबणं च - नि. ‘श्रुतं शास्त्रावधृतयो रि’ति विश्वः। तथा।बहिः
बाह्यदेशे मन्दस्पन्दं मन्दप्रसारम् - अन्तर्मुखत्वादिति भावः। मनोऽप्यन्तःकरणं चेति यदेतत्सर्वं वर्तत इति शेषः ‘नपुंसक मनपुंसके नैकवच्चे’त्यादिना एकशेषः एषेति विधेयप्राधान्यात्स्त्रीलिङ्गता’ - शैत्यं हि यत्सा प्रकृति र्जलस्ये’ति वत्। कस्योदारस्व महतस्तपसः परिणतिः परिपाको वा न जाने न वेद्मीत्यर्थः - यद्वापरिणतिः परिणामो वा न जाने - किंवा तपः एवंरूपेण परिणतं तन्न जानामीत्यर्थः। कथंभूतस्सन्नपि - चिरस्य चिरकालमित्यर्थः। विमृशन् परामृशन्नपिनि. - ‘चिराय चिररात्राय चिरस्याद्याश्चिरार्थका’ इत्यमरः * विभक्तिप्रतिरूपकमव्ययं; तच्च तपश्शिवपूजनमेव - कथमन्यथाऽस्येदृक्फलसाधने एवंविधपरिणमने वा सामर्थ्यं संभवेदिति भावः॥
जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हन्ताङ्गेषुगुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना।
किं युक्तं सहसाऽभ्युपैति वलवान्कालः कृतान्तोऽक्षमी
हा! ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वाऽस्ति नान्या गतिः॥
व्या.—अथ शिवचरणमेव शरणमिति स्मरणमभिनीयाह - जीर्णा इति - मनोरथा विषयाभिलाषाश्च हृदये अन्तरङ्ग एव। जीर्णाः नष्टाः - वाञ्छामात्रमेव न त्वनुभूता इत्यर्थः। तथाऽङ्गेषु। अवयवेषु तत्तथाभूतं - कामिनीसंभोगोपयुक्तमित्यर्थः। यौवनं। यातं युगलितं। हन्तेति विषादे। तथा। गुणज्ञागुणग्राहिणस्सहृदया इति कथ्यावत् - तै र्विना ‘पृथग्विने’त्यादिना तृतीया। गुणा विद्या विनयादयश्च। वन्ध्यफलतां निष्फलतां याता गताः - अनुभावका-
भावान्निरर्थका जाता इत्यर्थः। तथा बलवान् बलिष्ठः - दुर्जयइत्यर्थः। कालः कालस्वरूप अपरावर्त्य इति यावत्। अक्षमी असहनश्च। कृतान्तो यम स्सहसाऽभ्युपैति अभियुङ्क्ते - प्राणापहरणार्थमितिभावः - नि. ‘कृतान्तौ यमसिद्धान्तावि’ त्यमरः अतः किं। युक्तमुचितम् - ईदृग्दशायां किं कर्तव्यमित्यर्थः। हा कष्टं - तथाऽपीदमेकं तरणसाधनमस्तीति स्मरणमभिनीयाह। ज्ञातमवगतं किं ज्ञातमित्यत आह - मदनान्तकस्य शंभोः - अङ्घ्रियुगलं पादयुग्मं। मुक्त्वाविहायान्या गति श्शरणं। नास्ति। अतस्तदेव श्रयणीयमितिभावः॥
महेश्वरे वा जगतामधीश्वरे जनार्दने वा जगदन्तरात्मनि।
न वस्तुभेदप्रतिपत्तिरस्ति मे तथाऽपि भक्तिस्तरुणेन्दुशेखरे॥
व्या.—ननु
‘यत्पादनिस्सृतसरित्प्रवरोदकेन
तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत्।
ध्यातुर्मनश्च कुलशैलविसृष्ठवज्रं
द्ध्याये च्चिरं भगवत श्चरणारविन्दम्’। ॥
इत्यादिना शिवाद्यशेषदेवताकल्याणप्रदे अखिललोकाराध्ये संसारार्णव तरणयानपात्रे भगवतश्चरणारविन्दे जाग्रति कथं शिवाङ्घ्रियुगलं विनाऽन्या गतिर्नास्तीति प्रलपसि इत्याशङ्क्याह - महेश्वर इति.—जगतां चतुर्दशभुवनानामधीश्वरे स्वामिनि। महेश्वरे शिवे वा। तथा जगता मन्तरात्मनि अन्तः करणसाक्षिणि - अन्तर्यामिणीति वा - अथवा अन्तर्भूतात्मनि जीवात्मस्वरूपे अविद्याप्रतिबिम्बित-
चैतन्यत्वेन तथाभूतत्वादिति भावः - यद्वा - जगन्त्यन्तरात्मनि यस्यतस्मिन् तथोक्ते - कुक्षिस्थाखिलभुवन इत्यर्थः। जनानर्दयतीति जनार्दनेविष्णौ वा। मे मम। वस्तुभेद प्रतिपत्तिः अयं महेश्वरोऽयं जनार्दन इति वस्तुगोचर भेदबुद्धि र्नास्ति - ‘शिवाय विष्णुरूपा ये’त्यादिना तयोर्वस्तुतो भेदाभावादिति भावः। तथाऽपि भेदप्रतिपत्त्य भावेऽपि।तरुणेन्दु श्शेखरः शिरोभूषणं यस्य तस्मिन् शिवे। भक्तिः भजनानुरागोऽस्तीति शेषः - अतएव नान्या गतिरित्युक्तमिति - भावः। इदं च ‘स्वभावो दुरतिक्रम’ इति न्यायादि त्यवगन्तव्यम्। वंशस्थवृत्तम् - ‘जतौ तु वंशस्थमुदीरितं जरा वि’ ति लक्षणात्॥
स्फुरत् स्फारज्योत्स्नाधवलिततले क्वाऽपि पुलिने
सुखासीनाश्शान्तध्वनिषु रजनीषु द्युसरितः।
भवाभोगोद्विग्नाश्शिव शिव शिव शिवेत्युच्चवचसः
कदा यास्यामोऽन्तर्गतबहुलबाष्पाकुलदशाम्॥८५॥
व्या.—अथ स्थायिन श्शमस्योदयवशाच्छान्तरसाभिव्यञ्जकवाक्यान्याह पञ्चभिः - स्फुरत् स्फारज्योत्स्नेति—शान्ता उपरताः - ध्वनयः पक्षिमृगादिरुतानि - यासु तासु तथोक्तासु - एतेन चित्तविक्षेपहेतुराहित्यं सूच्यते। रजनीषु रात्रिषु। स्फुरन्ती प्रकाशमाना - स्फारा प्रवृद्धा च - या ज्योत्स्ना चन्द्रिका - तया धवलितं पाण्डुरीकृतं - तलं प्रेदेशो - यस्य तस्मिन्। क्वाऽपि कस्मिंश्चित्। द्युसरितो गङ्गायास्संबन्धिनि।पुलिने सैकते। सुखं यथा तथा - आसीना उपविष्टास्सन्तः भवाभोगात्संसारविस्तारादुद्विग्नाःविह्वलाः - दुःखजनकत्वादितिभावः। वयमिति शेषः। अतश्शिवेत्यादित्रिवार। मुच्चानि ताराणि -
वचांसि आक्रन्दवचनानि येषां ते तथोक्ताः - ‘आर्तवचस’ इति पाठे दैन्यवचनास्सन्तः। कदा कस्मिन्वासमये। अन्तरभ्यन्तरे - गताः नियमनवशादन्तर्लीना इति यावत् - बहुलाश्च - ये बाष्पा आनन्दाश्रूणि - तैराकुला - या दशा अवस्था तां यास्यामः अन्तर्नियमितानन्दबाष्पपर्याकुलावस्थां कदा गमिष्याम इत्यर्थः - ‘दृशमि’ति पाठे बाष्पाकुला या दृग्दृष्टिस्तां यास्याम - इत्यन्वयः - ‘कदा स्यामानन्दोद्गतबहुलबाष्पाकुलदृश’ इति पाठे - आनन्दादुद्गता उत्पन्ना ये बहुल बाप्पाः तैराकुला दृशो येषां ते तथोक्ताः कदा स्यामभवेम। तदनींखलु वयं कृतकृत्या इति भावः॥
वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरन्तस्संसारे विगुणपरिणामां विधिगतिम्।
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणा -
स्त्रियामा नेष्यामोहरचरणचिन्तैकशरणाः॥८६॥
व्या.—वितीर्ण इति - सर्वस्वे निखिलधने। वितीर्णे दत्ते - अर्थिसात्कृते सति - नि. ‘स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोस्त्रियां धन’इत्यमरः। ततस्तरुणा प्रत्यग्रा - या करुणा भूतदया - तया - पूर्णानि पूरितानि - हृदयानि येषां ते तथोक्ताः। तथा। संसारे। विधिगतिं दैवप्रवृत्तिं। विगुणपरिणामां विषमपरिपाकाम् - अकुशलपर्यवसायिनीमिति यावत्। स्मरन्तस्सन्तः मनस्यनुसंधानास्सन्तः वयं। पुण्यारण्ये तपोवने। हरचरणचिन्ता शिवपादारविन्दद्ध्यानमेवैकं मुख्यं - शरणं रक्षणं - येषां ते तथोक्तास्सन्तः। परिणताः परितो व्याप्ताः शरच्चन्द्रकिरणाश्शारदेन्दुमयूखा यासु ता-
स्तथोक्ता स्त्रियामाः रात्रीः नेष्यामो गमयिष्यामः। कदेति शेषः। द्वयोः प्रथमचरमयामार्धयोर्दिनव्यवहारात् त्रयो यामा यस्यास्सात्रियार्मेति स्वामी॥
कदा वाराणस्याममरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निदघानोऽञ्जलिपुटम्।
अये! गौरीनाथ! त्रिपुरहर! शम्भो! त्रिनयन!
प्रसीदेति क्रोशन्निमिषमित्र नेष्यामि दिवसान्॥८७॥
व्या.—कदेति कदा कस्मिन्वा काले। वाराणस्यां काश्याममरतटिनीरोधसि गङ्गातीरे। वसन् तिष्ठन्। तथा। कौपीनं गुह्याच्छादनवेलखण्डं। वसानः आच्छादयन् - लोकविरोधपरिहारार्थं तावन्मात्रपरिग्रह एव न तु परिग्रहान्तरापेक्ष इत्यर्थः। * ‘वस आच्छादन’ इति धातोश्शानच्। शिरस्यञ्जलिपुटं करसंपुटं। निदधानस्सन्। अये भोः। गौरीनाथ पार्वतीपते। त्रयाणां पुराणां समाहारस्त्रिपुरं * पात्रादित्वान्न ङीप्- तस्य - हरतीति हरः - हे त्रिपुरहर त्रिपुरान्तक। शं सुखमस्माद्भवतीति शंभो। त्रिनयन है. त्र्यम्बक * क्षुभ्नादित्वान्न णत्वम् - एतदामन्त्रणचतुष्टयं परमेश्वरस्य लोकसंग्रहकारणत्वाशक्यकार्यकरणसामर्थ्यभक्तजनसुखसंधायकत्वासाधारण महिमास्पदत्वद्योतनार्थमित्यवगन्तव्यं। प्रसीद प्रसन्नो भवेति। आक्रोशन्नुच्चैरटन्। दिवसाननेकान्। निमिषमिव क्षणमिव। नेष्यामि - अत्र भावितीव्रनरकयातनानुचिन्तनादिभि र्विभावैर्जनितः - कौपीनधारणशिरोञ्जलिपुटसंघटनादिभिरनुभावैरभिव्यक्तः - कदेति पदसूचितेन चिन्ताख्येन संचारिभावेन च परिपुष्टः - स्वात्मावमान-
नलक्षणो निर्वेदस्थायी - शान्तरसः परिस्फुरतीत्यवगन्तव्यम्॥ एवमुत्तरत्रापि - योज्यम्॥
स्नात्वा गाङ्गैः पयोभिश्शुचिकुसुमफलैरर्चयित्वाविभो! त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रामपर्यङ्कमूले।
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाऽहं समकरचरणे पुंसि सेवासमुत्थम्॥
व्या.—स्नात्वेति.—गङ्गाया इमानि गाङ्गानि तस्येदमित्यण् - तैः पयोभिर्गङ्गाजलैरित्यर्थः। स्नात्वा शुद्धो भूत्वा। है। विभो शंभो। शुचिभिः शुद्धैश्शास्त्रसम्मतैरिति यावत् - कुसुमैः फलैश्च। त्वामर्चयित्वा समाराध्य - एतेन बाह्यपूजाया अप्यंशतः प्राधान्यमस्तीति सूचितं। ध्येये ध्यातुं योग्ये वस्तुनि - त्वच्चरणारविन्द - एवेत्यर्थः। ध्यानं निवेश्य एकाग्रचित्तो भूत्वेत्यर्थः। तथा। क्षितिधरकुहरे - योग्रावा पाषाण - स्सएव पर्यङ्कः सुखशय्या - तस्य मूले। निषण्णसन्निति शेषः - समाधिव्युत्थानानन्तरं सुखसंवेशयोग्यताद्योतनार्थं ग्राव्णिपर्यङ्कत्वरूपणम्। आत्मन्येवारमत इत्यात्मारामो विषयान्तरासक्तिशून्यस्सन्नित्यर्थः - ‘रमन्ते योगिनोऽनन्ते - नित्यानन्दे चिदात्म नी’ति स्मृतेः। तथा। फलाशी फलाहारः - शरीरधारणार्थमिति भावः। गुरुवचनरतः आचार्योंपदिष्ठकर्माचरणतत्परस्सन् - अहम् - इत्थंभूतताया एव श्रेयोहेतुत्वादिति भावः। हे ! स्मरारे मदनान्तक। त्वत्प्रसादात् त्वदनुग्रहात्। मकरेण मकराकाररेखया सह वर्तत इति समकरश्चरणो यस्य तस्मिन् तथोक्ते। पुंसिमहाभाग्यसंपन्ने पुरुषे विषये - राज्ञीत्यर्थः। सेवासमुत्थं परिचर्या-
समुत्पन्नं दुःखं। कदा मोक्ष्ये - तथा मामनुगृहाणेत्यर्थः - परमेश्वरानुग्रहं विना श्रेयोलाभाभावादिति भावः - समकरचरणस्य महाभाग्यसंपन्नत्वमुक्तं सामुद्रिके -
‘मकरो मत्स्यरेखा च पद्म शङ्खाकृतिः पदे।
महाधनी महाभोगी दाता दीर्घायुरेव च’॥ इति॥
एकाकी निस्स्पृहश्शान्तः पाणिपात्रो दिगम्बरः।
कदा शम्भो! भविष्यामि कर्मनिर्मूलनक्षमः॥८९॥
व्या.—एकाकीति.—एकाकी असहायः - सङ्गरहित इति. यावत् - ‘सङ्गात्संजायते काम’ इत्यादिसङ्गजनित कामादिपरम्परायाः अनर्थहेतुत्वादिति भावः ‘एकादाकिनिच्चासहाये’ इत्याकिनिच् प्रत्ययः। कुतः - निःस्पृहः विषयाभिलाषशून्यः। अतएव। शान्त रागाद्यनुपहतचित्तः - ‘शान्तो दान्तउपरतस्तितिक्षुस्समाहितो भूत्वा’ इति श्रुतेः। अतः पाणिरेव पात्रं यस्य स तथोक्तः। तथा दिश एवाम्बराणि यस्य स तथोक्तस्सन्नहमिति शेषः। हे शम्भों कर्मणां संचितप्रारब्धानां - निर्मूलने समूलविध्वंसने - क्षमस्समर्थः। कदा भविष्यामि कर्मबन्धात्कदा मोक्ष्ये इत्यर्थः -
‘भिद्यते हृदयग्रन्थि श्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि। तस्मिन् दृष्टे परावरे’॥ इति॥
ईश्वरसाक्षात्कारमन्तरा कर्मक्षयाभावात्तदर्थं त्वं प्रत्यक्षो भवेति मावः॥
पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां
यत्र क्वाऽपि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम्।
अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशा -
मध्वा कोऽपि शिवप्रसादसुलभस्संपत्स्यते योगिनाम्॥९०॥
व्या.—अथैवंभूतानां शिवप्रसादान्मोक्षमार्गोऽविलम्बेनैव सुलभो भवतीति निगमयति - पाणिमिति - पाणिं करतलमेव पात्रं भोजनभाजनं कुर्वतां पात्रयतां * पात्रशब्दा त्तत्करोतीति ण्यन्ताल्लटश्शत्रादेशः। निसर्गशुचिना स्वभावपरिपूतेन। भैक्षेण भिक्षाकदम्बकेन। संतुष्यतां संतोषं प्राप्नुवतां* भिक्षादिभ्योऽण्’॥—‘भैक्षं भिक्षाकदम्बकमि’त्यमरः - यत्र क्वाऽपि यस्मिन् कस्मिन् प्रदेशे श्मशाने वने वेत्यर्थः। निषीदतामुपविशतां मुहुः पौनः पुन्येन। विश्वं प्रपञ्चं। बहुतृणमीषदसमाप्तं तृणं - तृणकल्पमित्यर्थः * ‘विभाषा सुपो बहुच्पुरस्तात्तु’ इति बहुच्प्रत्ययः*प्रकृतेः पूर्वं भवति - ‘स्यादीषदसमाप्तौ तु बहुच्प्रकृतिलिङ्गक’इति प्रकृतिवचनात्प्रकृतिलिङ्गता। पश्यतामाकलयतां। तथा। तनारेत्यागेऽपि देहसंबन्धशून्यत्वाभावेऽपि। अखण्डोऽपरिच्छिन्नो - यः परमानन्दोब्रह्मानन्दस्तस्यावबोधमनुभवं - स्पृशन्ति अनुभवन्तीति तथोक्तानां - जीवन्मुक्तत्वादिति भावः * स्पृशोऽनुदके क्विन्प्रत्ययः। योगिनां ध्याननिष्ठानां। शिवप्रसादेन - सुलभस्सुलभ्यः - कोऽप्यनिर्वाच्यः। अध्वामोक्षमार्ग इत्यर्थः - संपत्स्यते संपन्नोभवति॥
॥इतिवैराग्यशतके शिवार्चनं संपूर्णम्॥
<MISSING_FIG href="../books_images/U-IMG-1724606764Screenshot2024-08-25225547.png"/>
॥अवधूतचर्या॥
कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने वने।
स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योगमहोत्सवेऽपिच यदि त्रैलोक्यराज्येन किम्?
व्या.—शिवार्चनस्य मोक्षोपयोग्यावधूतभाव फलकत्वा‘दत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशामि’त्युपक्रान्त- त्वाच्चेदानीं - तावदवधूतचर्यामाह - अथावधूतचर्येति.—अवधूतो नाम ब्रह्मात्मैक्यानुसंधानतत्परः विस्मृतबहिः प्रपञ्चः जीवन्मुक्तशब्दवाच्यो मलिनो योगपुरुषस्तस्य चर्या आधारः - उच्यत इति शेषः॥ उपक्रान्तामवधूतचर्यां दशभिर्वर्णयति. - कौपीनमिति—शतखण्डैरनेकशकलैः - जर्जरतरमतिविशीर्णं कौपीनं गुह्याच्छादनचीरखण्डं।यदि अस्तिचेदित्यर्थः - एवमुत्तरत्रापि - नि. ‘कौपीनं स्यादकार्ये च गुदचीरप्रदेशयोरि’ति विश्वः। तादृशी तथाभूतशतखण्ड जर्जरतरैवेत्यर्थः। कन्था पुनः कन्था च। अस्तियदि। नैश्चिन्त्यं विषयचिन्ताराहित्यं च यदि। तथा निरपेक्षमनुवर्तनापेक्षारहितंभैक्षमशनं भोजनं यदि। श्मशाने प्रेतभूमौ। वने महारण्ये वा। निद्रा च यदि। स्वातन्त्र्येण स्वाच्छन्द्येन। निरङ्कुशमप्रतिबन्धं। विहरणं विहारश्च। यदि सदा प्रशान्तं प्रसन्नं * ‘वादान्ते’त्यादिना निपातः। स्वान्तं चित्तं यदि। योगमहोत्सवे - योगस्समाधिरेव महोत्सवस्तास्मिन्। स्थैर्यं च। यदि अस्तिचेत्तर्हि त्रैलोक्यराज्येन त्रिलोकाधिपत्येन। किं न किमपीत्यर्थः - तस्यैव परमसौख्यावहत्वादिति भावः * त्रयो लोकास्त्रैलोक्यं *चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्॥
ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः।
शफरीस्फुरितेनाब्धिःक्षुब्धो न खलु जायते॥९२॥
व्या.—नन्वत्यन्तसौख्यावहत्वेन प्रसिद्धं त्रौलोक्यराज्यं निषिध्य कौपीनादिसंपत्तेरेवोत्तमत्वं प्रतिपादितं - तदसत् - यतस्तस्यैवात्यन्तप्रलोभकत्वादित्याशङ्क्यं - मनस्विनस्तावदेवतादेवाप्रलोभकं किंतु ब्रह्माण्डमपि तत्राकिंचित्करमेवेति सदृष्ठान्तमाह - ब्रह्माण्डमिति.—मण्डलीमात्रं बिम्बमात्रं - घटादिवदियत्तया परिच्छिन्नमित्यर्थः ‘मण्डलीभूतमि’ति वा पाठः - तथा अमण्डलं मण्डलं संपद्यमानं मण्डलीभूतम् * अभूततद्भावे च्विः * ऊर्यादिच्विडाचश्चे’ति गतिसंज्ञायां * ‘कुगतिप्रादय’ इति समासः - नि. ‘बिम्बोऽस्त्री मण्डलं त्रिष्वि’त्यमरः। ब्रह्माण्डं चतुर्दशभुवनगर्भितब्रह्माण्डकटाहः। मनस्विनो धीरस्य। योगिन इत्यर्थः प्रशंसायामिनिः। लोभाय चित्तप्रलोभनाय। किं भवतीति शेषः - न, भवत्येव - किमुत तदेककोणे निलीनं त्रैलोक्यराज्यमिति भावः। तत्र दृष्टान्तमाह - अब्धिः समुद्रः शफरीस्फुरितेन मत्स्यविशेषोल्लुण्ठनेन। क्षुब्धः क्षोभितः मथित इति यावत्* ‘क्षुब्धस्वान्ते’त्यादिना निपातः। न जायते खलु - नि. प्रोष्ठीतु शफरी द्वयोरि’त्यमरः मत्स्योल्लुण्ठनेनाब्धिक्षोभणमिव त्रैलोक्यराज्येन मनस्विमनः प्रलोभनमित्यर्थः। अतस्तदेवातिसौख्यावहमिति भावः॥
मार्तलक्ष्मि! भजस्व कंचिदपरं मत्काङ्क्षिणी मास्म भू -
र्भोगेषु स्पृहयालवस्तव वशे का निः स्पृहाणामसि।
सद्यस्स्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतै -
र्भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे॥९३॥
व्या.—अथ वैराग्यप्रकारमाह - मातरिति.—मातर्जननि। हे लक्ष्मि* ‘अम्बार्थ नद्योर्ह्रस्व’ इति ह्रस्वः - अत्र मातृग्रहणमेतावन्तं कालं त्वया रक्षिता वयमिति भक्त्यतिशयसूचनार्थमित्यवगन्तव्यम्। अपरमन्यं कंचिद्भाग्यवन्तं पुरुषं। भजस्व सेवस्व। मत्काङ्क्षिणी मद्विषयाभिलाषिणी। मास्मभूर्माभवेत्यर्थः ‘स्मोत्तरेलङ्चे’ ति चकारादाशीरर्थे लुङ्*‘न माङ्न्योग’ इत्यडागमप्रतिषेधः। नन्विदानीं कुतएतद्वैराग्यमित्यत आहुः - भोगेषु स्रक्चन्दनादिविषयानुभवेषु। स्पृहयाव्ठवः स्पृहावन्तः पुमांसः ‘स्पृही’ त्यादिना चुरादीदन्ताण्ण्यन्तादाव्ठुच्प्रत्ययः। तव वशे त्वदायत्ततायां - वर्तन्त इति शेषः - त्वदधीना भवन्तीत्यर्थः - नि. ‘वश आयत्त तायां चे’ त्यमरः। तर्हि यूयं क इत्याशङ्कायामाहुः - निःस्पृहाणां भोगाभिलाषशून्यानां। काऽसि कीदृग्विधाऽसि न काऽप्यसीत्यर्थः - वयं च निःस्पृहा इति भावः - अतोऽस्मान्विहायान्यत्र गच्छेति संबन्धः। नन्वेवं चेद्युष्माकं कथं जीविकेत्याशङ्कायामाहुः - वयं संप्रतीदानीं सद्यस्तत्काल एव ‘सद्यः परुत्परारी’त्यादिना निपातनात्साधुः - स्यूता विरचिता * कर्मणि क्तः ‘च्छवोः शूडनुनासिके चे’ ति ऊठि यणादेशः - पलाशपत्रपुटिका किंशुकपर्णपुटिकैव - पात्रं भिक्षाहरणोचितभाजनं - तस्मिन्। पवित्रीकृतैः पावनी - भूतैरित्यर्थः अभूततद्भावे च्विः ‘अस्य च्वा वि’तीकारः - भिक्षावस्तुभिः - अन्नकबलरोपितशाकादिभिक्षाद्रव्यैरेव - ‘भिक्षासक्तुभिरि’ति पाठेऽपि - भिक्षासक्तुविशेषैरित्यर्थः। वृत्तिं जीविकां। समीहामहे अभिलषामहे - विरक्ता भवाम इत्यर्थः। अतः
किमर्थं त्वमस्माकमिति भावः। अत्रपलाशपत्रपुटिकायास्सद्यस्स्यूतत्वकथनमविशदत्वद्योतनार्थम् अन्यथा भिक्षाहरणानुपयुक्ता स्यादिति वेदितव्यं -तथा -‘पलाशं पद्मपत्रं चे’त्यादिवचनात्पवित्रीकरणयोग्येषु पलाशपत्रेषु निक्षिप्तसाधारणान्नादीनामपि पवित्रत्वं किमुत निसर्गशुचि भिक्षावस्तूनामिति चावगन्तव्यम्॥
महाशय्या पृथ्वी विपुलमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः।
शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः
सुखी शान्तश्शेते मुनिरतनुभूतिर्नृप इव॥९४॥
व्या.—अथ योगिनस्सार्वभौमसाम्यमाह -महाशय्येति.पृथ्वी भूमिः। महाशय्या विशङ्कटपर्यङ्कः -‘मही शय्या पृथ्वी’ति पाठे -पृथ्वी पृथुः* ‘वोतो गुणवचना’दिति ङीष् -महीशय्या नि. ‘गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही’त्यमरः भुजलता बाहुबल्ली विपुलं विस्तीर्ण मुपधानं ‘उपधानं तूपबर्हमि’त्यमरः। आकाशं च। वितानमुल्लोचः -नि. ‘अस्त्रीवितानमुल्लोच’ इत्यमरः। अयं प्रवर्तमानोऽनुकूलः। अनिलः पवनः। व्यजनं तालवृन्तकमित्यर्थः। “व्यजनं तालवृन्तकमि”त्यमरः। शरच्चन्द्रो दीपः -शरद्ग्रहणं चन्द्रस्य प्रकाशातिशयद्योतनार्थं। इत्येतत्सर्वमयन्त्रसिद्धमपरिच्छिन्नं चेत्यर्थः -प्रसिद्धं तु नैवंभूतमिति भावः। स्वयं विरतिर्विरक्तिरेव वनिता -तस्यास्सङ्गेन -मुदितस्संतुष्टः। अत एव। सुखी आनन्दपूर्णः। शान्तश्शमशीलो मुनिः -
‘निवृत्तस्सर्वतत्त्वज्ञः कामक्रोधविवर्जितः।
ध्यानरतोनिष्क्रियो दान्तस्तुल्यमृत्काञ्चनो मुनिः’॥
इत्युक्तलक्षणः कश्चिद्योगीश्वरः। अतनुभूतिरखण्डितैश्वर्यसंपन्नो नृपसार्वभौम इव। शेते स्वपिति - निरातङ्कं निद्रातीत्यर्थः॥
रूपकसंकीर्णोऽयमुपमालंकारः; तथा उपमानान्नृपादुपमेयस्य मुनेरपरिच्छिन्नशय्यादिसंपन्नत्वेनाधिक्यप्रतीते- र्व्यतिरेको व्यज्यत इत्यलंकारेणालंकारध्वनिः॥
भिक्षाशी जनमध्यसङ्गरहितस्स्वायत्तचेष्ट स्सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः।
रथ्याकीर्णविशीर्णजीर्णवसनस्सम्प्राप्तकन्थासनो
निर्मानो निरहङ्कृतिश्शमसुखाभोगैकबद्धस्पृहः॥९५॥
व्या.—अथयोगिस्वरूपं निरूपयति - भिक्षेति—भिक्षामश्नातीति भिक्षाशी भिक्षान्नमात्रभोजनेन शरीरधारणतत्पर इत्यर्थः। जनमध्ये - संगरहितः आसक्तिविहीनः - ‘सङ्गात्संजायते काम’ इत्यादिस्मृतेस्तस्य निदानत्वादिति भावः। किंतु। सदा सर्वदा। स्वायत्तास्वाधीना चेष्टा व्यापारो - यस्य स तथोक्तः - स्वच्छन्दविहारनिरत इत्यर्थः - स्वाधीनात्मीयव्यापारो वा - नि. ‘अधीनो निघ्न आयत्त’ इत्यमरः। तथा हानादानयोस्त्यागस्वीकारयोः विरक्तः असंकीर्णः यो मार्ग तस्त्र - निरत आसक्तः - नियमेन हेयवस्तुहानोपादेयोपादानतत्पर इत्यर्थः - यद्वा - हानम् इदं हेयमितित्यागः - आदानमिदमुपादेयमिति स्वीकारः - हेयोपादेयबुद्धिशून्य इत्यर्थः - ‘निस्त्रैगुण्ये पथि विहरतां को विधिः को निषेध’ इत्या -
दिवचनात्तस्य विधिनिषेधातीतत्वादिति भावः। तथा। रथ्यायांवीथ्यामाकीर्णम् अनुपयुक्तत्वाज्जनै र्विक्षिप्तः - कुतः - विशीर्णं विशकालतं - तत्कुतः - जीर्णं पुरातनं तथाभूतं वसनमाच्छादनं - यस्य रथ्याकीर्णविशीर्णजीर्णवसनः - ‘चीराणि किं पथि न सन्ति दिशन्ति भिक्षा’मित्यादिना तस्य तथाविधवसनधारणस्वाभाव्यादिति भावः * अर्श आदित्वान्मत्वर्थीयोऽप्रत्ययः * अर्शआदिराकृतिगणः - यद्वा - रथ्यायां - कीर्णमनादरेण विक्षिप्तं विशीर्णं जीर्णंच वसनं निजाच्छादनं येन स तथोक्तः संप्राप्तं समधिष्ठितं - कन्यैवासनं - येन स तथोक्तः - चतुर्गुणितकन्थोपर्युपविष्ट इत्यर्थः। अत एव। निर्मानोऽभिमानशून्यः - संसाराध्यासरहित इत्यर्थः। निरहंकृति रहंकारशून्यः। तदात्माध्यासरहित इत्यर्थः। शमो नाम वैराग्येण निर्विकारचित्तत्वं - तेन यः सुखाभोगः आनन्दाऽतिशयः तत्र - एकं मुख्यं यथा तथा - बद्धा स्पृहा येन स तथोक्तः। ब्रह्मध्याननिष्ठ इत्यर्थः - कश्चित्कोऽपि। तपस्वी महातपाः योगीश्वरः प्रशंसायामिनिः। स्थितः निरातङ्कं वर्तत इत्यर्थः - रथ्याकीर्णेति संप्राप्तेति च विशेषणद्वयेन बाह्यवैराग्यमुक्त - मन्यैरान्तरवैराग्यमित्यवगन्तव्यम्॥ स्वभावोक्तिरलंकारः - ‘स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनमि’तिलक्षणात्॥
चण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः
किं वा तत्त्वविवेकपेशलमति र्योगीश्वरः कोऽपि किम्।
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनै
र्नक्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः॥९६॥
व्या.—अथ येगिनां मानावमानतुल्यतामाह - चण्डाल इति। अयं परिदृश्यमानः चण्डालः किं अन्त्यजो वा। अथवेति पक्षान्तरे। द्वे जाती शूद्रत्वब्राह्मण्यरूपे यस्य स तथोक्तः किं ब्राह्मणो वा ‘जन्मना जायते शूद्रः कर्मणा जायते द्विज’ इति वचनादिति भावः - यद्वा - द्वे जाती जन्मनी - गर्भनिर्गमसंस्काराभ्यां यस्य सः द्विजातिः किम्? अथ यद्वा - शूद्रः किं वृषलो वा किं? वा यद्वा - तापसः किं तपोनिष्ठो वा किं? किंवा तत्त्वविवेक पेशला परमार्थपर्यालोचनतत्परा - मतिर्यस्य - स तथोक्तः कश्चित्कोऽपि। योगीश्वरः किं ध्याननिष्ठो वा इत्यनेन - प्रकारेणोत्पन्नैरुदितैः विकल्पजल्पैर्विकल्पवाक्यै - र्मुखरा वाचालास्तैरित्थं भूतानि वाक्यानि वदद्भिरित्यर्थः। जनैः। पाथिमार्गे आभाष्यमाणा अधिक्षिप्यमाणा अपि। न क्रुद्धाः न कोपिताः चण्डालवाद्याक्षेपेणेति भावः। नैव तुष्टमनसः न संतुष्टान्तःकरणाश्च - द्विजातित्वाद्याक्षेपेणेतिभावः। योगिनो योगारूढाः। स्वयं यान्ति तूष्णीं गच्छन्ति - ब्रह्मनिष्ठत्वादिति भावः - तथा च गीतावचनं -
‘न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्।
स्थिरबुद्धि रसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः॥
शीतोष्णसुखदुःखेषु तथा मानावमानयोः।
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः॥
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः॥’ इत्यादि॥
हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं
व्यालानां पशवस्तृणाङ्कुरभुजस्तुष्टास्स्थलीशायिनः।
संसारार्णबलङ्घ्ननक्षमधियां वृत्तिः कृता सा नृणां
तामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः॥९७॥
व्या.—अथ हिंसादिराहित्यवृत्तिमाह - हिंसेति.—हिंसया अन्योपतापकवधादिभिः - शून्यं रहितं। अयत्नेन यत्नं विनालभ्यं प्राप्यम्।अशनमन्नं - नि. ‘भिस्सा स्त्रीभक्तमन्धोऽन्न मि’त्यमरः। धात्रा चित्रविचित्रसृष्टिकर्ता ब्रह्मणा व्यालानां सर्पाणां - नि. ‘व्यालो दुष्टगजे सर्पे’ इति विश्वः। मरुता वायुना। कल्पितं निर्मितं। पशवः गोप्रभृतयः। तृणाङ्कुरान् बालतृणानि - भुञ्जन्तः सन्तः। स्थलीशायिनः अकृत्रिमप्रदेशे शयनवन्त स्तुष्टा स्संतुष्टाः। संसारः पुत्रमित्रकलत्रादिधारावाहिरूपा संसृतिः - स एव अर्णवः - तस्य लङ्घने अतिक्रमणे - क्षमा - धीः येषां तेषां। नृणां जनानां। यथा तरणिद्वारा समुद्रं तरन्ति तथा ज्ञानद्वारा संसारं तरन्तीत्यर्थः। सावृत्तिः पूर्वोक्तप्रसिद्धजीवनं। कृता निर्मिता - ब्रह्मणेत्यर्थः। तां वृत्ति \। अन्वेषयतां मार्गमाणानां - निरस्तरजस्तमोजनितदोषाणां। सर्वे गुणाः सततं सर्वदा। समाप्तिं नाशं। प्रयान्ति प्राप्नुवन्ति॥
‘यो मे गर्भगतस्यापि वृत्तिं कल्पितवान्प्रभुः।
शेषवृत्तिविधानाय सुप्तः किन्नु मृतोऽपि वा॥’
इति वचनरीत्या वृत्तिकल्पने जागरूकस्सन् भगवान् वर्तत इति मत्वा हिंसादिराहित्येन वृत्तिं कुर्वन् यदृच्छया संप्राप्तद्रव्येण तुष्टस्सन् यत्र कुत्रवा वसन् रजस्तमोदोषैः अलिप्तस्सन् योगी सर्वदा आत्मानुसंधानं कुर्वन् स्थातव्य इत्याशयः॥
गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्माध्यानाभ्यसनविधिना योगनिद्रां गतस्य।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
कंडूयन्ते जरठहरिणास्स्वाङ्गमङ्गे मदीये॥९८॥
व्या.—अथ निर्वृतिप्रकारमाह - गङ्गेति.—गङ्गायाः सुरनद्याः - तीरे कूले - नि. ‘कूलं रोधश्चतीरं च प्रतीरं च तटं त्रिष्वि’त्यमरः - तरिग्रहणं तद्गतशीतत्वपावित्र्त्यादिसिद्ध्यर्थं। हिमगिरेश्शीतनगस्य - शिलायाः पाषाणस्य उपरि - बद्धं पद्मासनं येन तस्य। किंच। ब्रह्मणः - ध्यानमुपासनं - तस्य अभ्यसनमभ्यासः - तस्य विधि विधानं - तेन - नि ‘विधिर्विधाने दैवेऽपी’ त्यमरः। योगनिद्रां। गतस्य प्राप्तस्य। योगिनः मम। तै स्सुदिवसैः पुण्यदिनैः। भाव्यं किं। यत्र ते। जरठहरिणाः वृद्धकुरङ्गाः। निर्विशङ्काः निर्भीकास्सन्तः। स्वाङ्गंस्वशरीरं। मदीये अङ्गे शरीरे। कण्डू यन्ते। तैर्भाव्यं किमित्यभिप्रायः; एवं च ग्रामनिवासं त्यक्त्वा गङ्गा तीरे हिमवत्पर्वतपाषाणोपरिपद्मासनासनवर्ती ब्रह्मध्यानाभ्यासविधानेन योगनिद्रां गतस्सन्नहं निर्विशङ्कैःजरठहरिणै स्साकं यदा स्थास्येतदा मे सुदिवसाजायन्त इत्यभिप्रायः॥
पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं
विस्तीर्णं वस्त्रमाशा दशकमचपलं तल्पमस्वल्पमुर्वी।
येषां निस्सङ्गताङ्गीकरणपरिणतस्वान्तसन्तोषिण स्ते
धन्या स्संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति॥९९॥
व्या.—अथ केवलं सर्वसङ्गपरित्यागमाह.—पाणिः पात्रमिति श्लोकेन - पाणिरिति—पवित्रं परिशुद्धं। पाणिः हस्त एव। पात्रं भाजनं - नि. - ‘योग्यभाजनयोः पात्रमि’ त्यमरः। भ्रमणेन संचारेण - परिगतं प्राप्तं भैक्षं भिक्षाकदम्बकम्। अक्षय्यं नाशरहितम्। अन्नम् अशनम्। आशानां दिशां - दशकं। विस्तीर्णं विशालं। वस्त्रं वासः ऊर्वी भूमिः। अस्वल्पं महत्। अचपलम्। अचञ्चलं। तल्पं शय्या। येषां निस्सङ्गतायाः सङ्गराहित्यस्य - अङ्गीकरणेन - परिणतं परिपाकं गतं यत् स्वान्तं तेन संतोषिणः संतुष्टास्ते धन्याः। सन्न्यस्ता स्त्यक्ताः - दैन्यस्य व्यतिकरनिकराः यैस्ते तथोक्तास्सन्तः। कर्म। निर्मूलयन्ति नाशयन्ति। एवं च यत्र कुत्र वावसन् पाणिपात्रेण भैक्षान्नं भुक्त्वा दिगम्बरः उर्वीशयनः निस्सङ्गपरिणतचित्तेन संतुष्टस्सन् व्यक्तदैन्यव्यतिकरनिकरः धन्यः धारावाहिकजन्मपरम्पराप्रदं कर्मनिर्मूलयन्तीत्यभिप्रायः॥
मातर्भेदिनि! तात मारुत! सखे! तेजः सुबन्धो जल!
भ्रातर्व्योम! निबद्ध एषभबतामन्त्यः प्रणामाञ्जलिः।
युष्मत्सङ्गवशोपजातसुकृतस्फारस्पुरन्निर्मल -
ज्ञानापास्तसमस्तमोहमहिमालीये परब्रह्मणि॥१૦૦॥
व्या.—अथ पञ्चभूतानि संबोध्याह - मातरिति.—हेमातः जननि। मेदिनि वसुमति। हे तात जनक। मारुत वायो। हे सखे सुहृत्। तेजः। हे सुबन्धो शोभनबन्धो। हे जल उदक हे भ्रातः सहोदर। व्योम अम्बर। भवतां युष्माकमन्त्यः चरमः। प्रणामाञ्जलिः नमस्कारपूर्वकाञ्जलिः। निबद्ध एव - नि. ‘पाणिर्निकुब्जः
प्रसृतिस्तौ युतावञ्जलिः पुमानि’त्यमरः। युष्माकं - सङ्गस्य योगस्य - वशेन अधीनेन - उपजातं यत्सुकृतं - तेन - स्फारं विस्तारं स्फुरत् निर्मलं च यद् ज्ञानं - तेन - अपास्तः दूरतस्त्यक्तः - समस्त - मोहमहिमा पुत्रमित्रकलत्राद्यभिनिवेशाज्ञानातिशयस्सन् अहं। परे ब्रह्मणि सच्चिदानन्दस्वरूपिणि निर्विकारे निष्कव्ठङ्के निरञ्जने ब्रह्मणि लीये -एवं च दारैषण वित्तैषणा पुत्रैषण रहितस्सन् चिदानन्दस्वरूपः सन् विदेहकैवल्यपर्यन्तं जीवन्मुक्तस्सन् अहं वर्ते इत्याशयः॥
॥वैराग्यशतके अवधूतचर्या संपूर्ण॥
<MISSING_FIG href="../books_images/U-IMG-1724614660Screenshot2024-08-26010730.png"/>
इति श्रीभर्तृहरियोगींद्रविरचित सुभाषितत्रिंशती
॥संपूर्णा॥
<MISSING_FIG href="../books_images/U-IMG-1724614753Screenshot2024-08-26010900.png"/>
]