ततः पितृवने तस्मिन्क्रव्यभक्षिभिरावृते ।
ज्वालाविलोलरसनैर्भूतैरिव चिताग्निभिः ।। १
गत्वैव तस्यामक्षोभ्यः क्षपायां शिंशपातरुम् ।
स त्रिविक्रमसेनस्तमाससाद पुनर्नृपः ।। २
तत्रापश्यच्च वेतालविकृतान्सदृशाकृतीन् ।
उल्लम्बमानान्सुबहून्प्रेतकायानशङ्कितम् ।। ३
अहो किमेतत्किंवान्यन्मायी कालं क्षिपत्ययम् ।
वेतलो मे न वेदयेषां ग्राह्यं येनेह भूयसाम् ।। ४
असिद्धार्थस्य चेद्रात्रिरियं मम गमिष्यति ।
ततो वह्निं प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ।। ५
इति चिन्तयतस्तस्य राज्ञो विज्ञाय निश्चयम् ।
सत्त्वतुष्टः स वेतालः स्वमायां संजहार ताम् ।। ६
ततो दृष्ट्वैकमेवात्र वेतालं नृकलेवरे ।
अवतीर्य गृहीत्वांसे स प्रतस्थे पुनर्नृपः ।। ७
प्रक्रामन्तं च तं भूयः स वेतालोऽभ्यभाषत ।
राजन्नोद्विजसे चित्रं तदिमां मे कथां शृणु ।। ८
अस्ति गौरीतपःक्लेशवृतेन त्रिपुरारिणा ।
असामान्यगुणोत्कर्षलुब्धेनेव स्वयं वृता ।। ९
भोगवत्यमरावत्योस्तृतीयोज्जयिनी पुरी ।
उदारसुकृतप्राप्यनानाभोगोपबृंहिता ।। 12.25.१०
यस्यां स्तब्धत्वकार्कश्ये कुचेषु वरयोषिताम् ।
तासामेव भ्रुवोर्भङ्गो लोचनेषु च चापलम् ।। ११
तमो निशासु वक्रत्वं यस्या कविवरोक्तिषु ।
मदो दन्तिषु जाड्यं च मुक्तामलयजेन्दुषु ।। १२
तस्यां चन्द्रप्रभाख्यस्य राज्ञोऽमात्यो बहुश्रुतः ।
देवस्वामीत्यभूद्विप्रो भूरियज्ञो महाधनः ।। १३
तस्य कालेन तनयश्चन्द्रस्वामीत्यजायत ।
सोऽधीतविद्योऽपि युवा द्यूतैकव्यसनोऽभवत् ।। १४
एकदा च द्विजसुतश्चन्द्रस्वामी स कांचन ।
द्यूतकारमहाठिण्ठां द्यूतेन क्रीडितुं ययौ ।। १५
आश्लिष्यामः कमत्रेति विपद्भिरिव वीक्षितुम् ।
विक्षिप्तैः कृष्णशाराभैर्नेत्रैरक्षैर्निरन्तराम् ।। १६
कः सोऽस्ति न श्रियं यस्य हराम्यप्यलकापतेः ।
इतीव तन्वतीं नादान्द्यूतकृत्कलहस्वनैः ।। १७
तां प्रविश्य क्रमाद्दीव्यन्नक्षैः स कितवैः सह ।
वस्त्रादि हारयित्वापि धनमन्यदहारयत् ।। १८
मृग्यमाणं च यन्नादात्स तद्धनमसंभवि ।
तदवष्टभ्य सभ्येन लगुडैः पर्यताड्यत ।। १९
लगुडाहतसर्वाङ्गः पाषाणमिव निश्चलम् ।
कृत्वा मृतमिवात्मानं तस्थौ विप्रसुतोऽथ सः ।। 12.25.२०
तथैव दिवसान्द्वित्रांस्तत्र तस्मिन्नवस्थिते ।
क्रुद्धः स सभ्यष्ठिण्ठायां कितवान्स्वानभाषत ।। २१
श्रितानेनाश्मता तावत्तदेतं क्षिपत क्वचित् ।
नीत्वान्धकूपे निःसत्वं धनं दास्याम्यहं तु वः ।। २२
इत्युक्तास्तेन कितवास्तं चन्द्रस्वामिनं ततः ।
अरण्यं निन्युरुत्क्षिप्य दूरं कूपगवेषिणः ।। २३
तत्रैको वृद्धकितवस्तानन्यानेवमभ्यधात् ।
मृतोऽयं प्रायशस्तत्किं कूपे क्षिप्तेन नोऽमुऽना ।। २४
तदिहैवैनमुज्झित्वा वक्ष्यामः कूप उज्झितम् ।
इति ते तद्वचः सर्वे तथेति प्रतिपेदिरे ।। २५
ततस्त्यक्त्वा गतेष्वेषु कितवेषु स उत्थितः ।
चन्द्रस्वामी विवेशात्र शून्यमेकं शिवालयम् ।। २६
तत्र किंचित्समाश्वस्य चिन्तयामास दुःखितः ।
विश्वस्तो मायया कष्टं मुषितः कितवैरहम् ।। २७
तदीदृशः क्व गच्छामि नाग्नोपहतपांसुलः ।
पिता बन्धुः सुहृद्वापि दृष्ट्वा किं हि वदेन्मम ।। २८
तत्संप्रति स्थितोऽस्मीह नक्तं च क्षुत्प्रशान्तये ।
पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति ।। २९
इत्यालोचयतस्तस्य क्लान्तस्यानम्बरस्य च ।
मन्दीकृतातपोऽस्ताद्रिं रविस्त्यक्ताम्बरो ययौ ।। 12.25.३०
तावच्च भूतिदिग्धाङ्गस्तत्रायाति स्म तापसः ।
महाव्रती जटाशूलधरो हर इवापरः ।। ३१
स चन्द्रस्वामिनं दृष्ट्वा कोऽसीति परिपृच्छ्य च ।
श्रुत्वा तस्माच्च वृत्तान्तं प्रह्वं तं तापसोऽब्रवीत् ।। ३२
त्वं ममेहाश्रमं प्राप्तः क्षुत्क्लान्तोऽचिन्तितोऽतिथिः ।
तदुत्तिष्ठ कृतस्नानो भिक्षाभागं ममाहर ।। ३३
प्रत्युक्तो व्रतिना सोऽथ चन्द्रस्वामी जगाद तम् ।
विप्रोऽहं भगवन्भोक्ष्ये भिक्षाभागं कथं तव ।। ३४
तच्छ्रुत्वा स व्रती सिद्धः प्रविश्य मठिकां निजाम् ।
इष्टसंपादिनीं विद्यां सस्मारातिथिवल्लभः ।। ३५
संस्मृतोपस्थितां तां च किं करोमीति वादिनीम् ।
अमुष्यातिथ्यमतिथेः कुरुष्वेति शशास ताम् ।। ३६
तथेत्युक्ते तया तत्र सोद्यानं साङ्गनाजनम् ।
पुरं सौवर्णमुत्पन्नं चन्द्रस्वामी ददर्श सः ।। ३७
विस्मितं च तमभ्येत्य तस्माद्वाराङ्गनाः पुरात् ।
ऊचुरुत्तिष्ठ भद्रैहि स्नाहि भुङ्क्ष्व त्यज श्रमम् ।। ३८
इत्युक्त्वाभ्यन्तरं नीत्वा स्नापयित्वानुलिप्य च ।
ताभिः स दत्तसद्वस्त्रो निन्येऽन्यद्वासकोत्तमम् ।। ३९
तत्रान्तः स ददर्शैकां प्रधानयुवतिं युवा ।
सर्वाङ्गसुन्दरीं धात्रा कौतुकादिव निर्मिताम् ।। 12.25.४०
तया स सोत्कयोत्थाय स्वासनार्धोपवेशितः ।
बुभुजे दिव्यमाहारं तथैवात्र समं ततः ।। ४१
भुक्तपक्वफलस्वादुताम्बूलः स्वरसेन च ।
पर्यङ्कशयने भेजे तत्संभोगसुखं निशि ।। ४२
प्रातः प्रबुद्धश्चापश्यत्तदेवात्र शिवायलम् ।
नापि दिव्याङ्गनां नापि पुरं तन्न परिच्छदम् ।। ४३
ततः स विग्नो निर्यातं मठिकातः स्मिताननम् ।
पृष्टरात्रिसुखं प्रातस्तापसं तं व्यजिज्ञपत् ।। ४४
त्वत्प्रसादादहं रात्रावुषितो भगवन्सुखम् ।
किं तु यास्यन्ति मे प्राणास्तया दिव्यस्त्रिया विना ।। ४५
तच्छ्रुत्वा स तपस्वी तं हसन्कारुणिकोऽब्रवीत् ।
इहैवास्स्व पुनर्नक्तं भविष्यति तथैव ते ।। ४६
इत्युक्ते व्रतिना तेन तद्युक्त्यैव प्रतिक्षपम् ।
चन्द्रस्वाम्यत्र सोऽभुङ्क्त भोगांस्तांस्तत्प्रसादतः ।। ४७
बुद्ध्वा च तं शनैर्विद्याप्रभावं विधिचोदितः ।
एकदा तापसेन्द्रं तं स प्रसाद्यान्वयाचत ।। ४८
सत्यं कृपा चेद्भगवन्मयि ते शरणागते ।
तदेतां देहि मे विद्यां यत्प्रभावोऽयमीदृशः ।। ४९
इति ब्रुवाणं निर्बन्धात्तं प्रत्याह स तापसः ।
असाध्या तव विद्येयं साध्यतेऽन्तर्जले ह्यसौ ।। 12.25.५०
तत्र चैषा सृजत्याशु जपतः साधकस्य तत् ।
मायाजालं विमोहाय येन सिद्धिं न सोऽश्नुते ।। ५१
स हि तत्र पुनर्जातं बालमात्मानमीक्षते ।
ततो युवानमुद्व्यूढदारं जातात्मजं तथा ।। ५२
सुहृन्मेऽयमयं शत्रुरिति मिथ्या स मुह्यति ।
न च स्मरति जन्मेदं न विद्यासाधने क्रियाम् ।। ५३
यस्तु त्रिरष्टवर्षः सन्गुरुविद्याप्रबोधितः ।
जन्म स्मृत्वा विदित्वा तद्धीरो मायाविजृम्भितम् ।। ५४
तद्वशोऽप्यत्र कुरुते तथैवाग्निप्रवेशनम् ।
परमार्थं जलोत्तीर्णः सिद्धविद्यः स पश्यति ।। ५५
अन्यस्य न परं विद्या शिष्यस्यैषा हि सिद्ध्यति ।
अस्थानार्पणतो यावद्गुरोरपि विनश्यति ।। ५६
मत्सिद्ध्यैव फले सिद्धे किं ग्रहेणामुना तव ।
मत्सिद्धिहान्या मा जातु तवैतदपि नङ्क्ष्यति ।। ५७
एवं तपस्विनोक्तेऽपि चन्द्रस्वामी ग्रहेण सः ।
शिक्ष्यामि सर्वं मा भूद्वश्चिन्तात्रेति तमब्रवीत् ।। ।५८
ततोऽस्मै प्रतिपेदे तां विद्यां दातुं स तापसः ।
बताश्रितानुरोधेन किं न कुर्वन्ति साधवः ।। ५९
ततो नीत्वा नदीतीरं स तं स्माह महाव्रती ।
वत्स विद्यां जपन्मायां यदा द्रक्ष्यसि तां तदा ।। 12.25.६०
मायाग्निमेव प्रविशेर्विद्यया बोधितो मया ।
अहं च तावत्स्थास्यामि तवेहैव नदीतटे ।। ६१
इत्युक्त्वाध्यापयामास तमाचान्तं शुचिं शुचिः ।
स चन्द्रस्वामिनं विद्यां सम्यक्तां व्रतिनां वरः ।। ६२
ततस्तीरे स्थिते तस्मिन्गुरौ मूर्ध्ना प्रणम्य तम् ।
चन्द्रस्वामी स रभसान्नदीमवततार ताम् ।। ६३
तस्यामन्तर्जले विद्यां तां जपन्सहसैव सः ।
तन्मायामोहितो मिथ्या सर्वं विस्मृत्य जन्म तत् ।। ६४
वीक्षते यावदन्यस्यामुत्पन्नः स्वात्मना पुरि ।
पुत्रो विप्रस्य कस्यापि बुद्धिं स शनकैर्गतः ।। ६५
कृतोपनयनोऽधीतविद्यो दारानवाप्य च ।
तद्दुःखसुखसंमूढः संपूर्णोऽपत्यवान्क्रमात् ।। ६६
ततश्चात्र सुतस्नेहस्वीकृतस्तत्तदाचरत् ।
स्थितो बद्धरतिः सार्धं पितृभ्यां बन्धुभिस्तथा ।। ६७
एवं जन्मान्तरं मिथ्या तस्यानुभवतोऽत्र सः ।
काले प्रबोधिनीं विद्यां गुरुः प्रायुङ्क्त तापसः ।। ६८
स तद्विद्याप्रयोगेण सद्यस्तेन प्रबोधितः ।
स्मृत्वात्मानं गुरुं तं च मायाजालमवेत्य तत् ।। ६९
उद्यतोऽग्निप्रवेशाय दिव्यासाध्यफलाप्तये ।
पर्यवारि निषेधद्भिर्वृद्धाप्तगुरुबन्धुभिः ।। 12.25.७०
बहुधा बोध्यमानोऽपि तैर्दिव्यसुखलोलुपः ।
स सज्जितचितं प्रायान्नदीतीरं सबान्धवः ।। ७१
दृष्ट्वात्र वृद्धौ पितरौ भार्यां च मरणोद्यताम् ।
क्रन्दन्ति बालापत्यानि सोऽथ मोहादचिन्तयत् ।। ७२
कष्टं म्रियन्ते स्वजनाः सर्वे मे विशतोऽनलम् ।
न च जानामि किं सत्यं गुरोस्तद्वचनं न वा ।। ७३
तत्किं नु प्रविशाम्यग्निमुत न प्रविशामि किम् ।
अथवा तत्कथं मिथ्या स्यात्संवादि गुरोर्वचः ।। ७४
तद्विशाम्यनलं काममित्यन्तः प्रविमृश्य सः ।
अग्निप्रवेशं विदधे चन्द्रस्वामी किल द्विजः ।। ७५
अनुभूतहिमस्पर्शो वह्नेश्च स सविस्मयः ।
शान्तमायो नदीतीरादुत्थायोपययौ तटम् ।। ७६
तत्र स्थितं च दृष्ट्वा तं गुरुं नत्वा च पादयोः ।
पृच्छन्तं चाग्निशैत्यान्तं स्वमुदन्तमबोधयत् ।। ७७
ततस्तं स गुरुः प्राह वत्स शङ्के कृतस्त्वया ।
अपचारोऽत्र शीतस्ते कथं जातोऽग्निरन्यथा ।। ७८
अदृष्टमेतदेतस्या विद्यायाः साधने यतः ।
एतद्गुरोर्वचः श्रुत्वा चन्द्रस्वामी जगाद सः ।। ७९
नापचारो मया कश्चिद्विहितो भगवन्निति ।
ततः स तद्गुरुर्विद्यां जिज्ञासुस्तां समस्मरत् ।। 12.25.८०
न च साविरभूत्तस्य न तच्छिष्यस्य तस्य वा ।
नष्टविद्यावथोभौ तौ विषण्णौ जग्मतुस्ततः ।। ८१
इत्याख्याय कथामथ वेतालः पृष्टवान्स तं भूयः ।
पृथ्वीपतिं त्रिविक्रमसेनं समयं निगद्य पूर्वोक्तम् ।। ८२
राजन्संशयमेतं छिन्द्धि मम ब्रूहि हेतुना केन ।
विहितेऽपि यथोद्दिष्टे कर्मणि विद्योभयोस्तयोर्नष्टा ।। ८३
एतत्स वेतालवचो निशम्य तं प्रत्यवोचन्मनुजेन्द्रवीरः ।
जाने भवान्मे क्षिपतीह कालं योगेश्वरैवं तदपि ब्रवीमि ।। ८४
न दुष्करेणापि हि कर्मणैव शुद्धेन सिद्धिः पुरुषस्य लभ्या ।
यावन्न निष्क्रम्य विकल्पशुद्धं धीरं मनो निर्मलसत्त्ववृत्ति ।। ८५
तस्यात्र मन्दस्य तु विप्रयूनश्चित्तं प्रबुध्यापि विकल्पते स्म ।
विद्या न सा तेन गतास्य सिद्धिरस्थानदानाच्च गुरोर्विनष्टा ।। ८६
इति तस्य नृपस्य सृष्टवाचो बत वेतालवरोऽसतः स भूयः ।
निजमेव पदं ययावलक्ष्यो नृपतिस्तं च तथैव सोऽन्वयासीत् ।। ८७