गद्यम्

[[कथासरित्सागरः Source: EB]]

[

१८. अमरुशतकम्— श्रीअमरुककविरचितं, अर्जुनवर्मदेवशर्मप्रणीतया रसिकसंजीविन्या टीकया सहितम्.

१९. सूर्यशतकं काव्यम्— श्रीमयूरकविप्रणीतं, त्रिभुवनपालविरचितया टीकया सहितम्…

२०. लटकमेलकप्रहसनम्— श्रीशङ्खधरविचितम्.

२१. गाथासप्तशती— श्रीसातवाहनविरचिता,गङ्गाधरभट्टकृतटीकया सहिता.अस्मिन् पृथक्पृथग्वर्णनपराः प्राकृत (मागधीत्यादि) भाषात्मकाः ७०० श्लोकाः सन्ति….

२२. हरविजयमहाकाव्यम्— राजानकरत्नाकरविरचितं, राजानकालककृतटीकया सहितम्, पञ्चाशत् ५० सर्गात्मकेऽस्मिन् काव्ये भगवता श्रीशंकरेणान्धकासुरं निहत्य देवानां सुखमुदपादि इत्यादि कथानकं वर्तते, समयानुसारतोऽन्यदपि स्थलादिवर्णनं मनोहरतयाऽकारि ग्रन्थकृता.

२३. स्तुतिकुसुमाञ्जलिकाव्यम्— श्रीजगद्धरभविरचितं, राजानकरत्नकण्ठविरचितटीकया सहितं च.

२४. काव्यप्रदीपः — ( अलंकारग्रन्थः ) महामहोपाध्यायश्रीगोविन्दविरचितः..

२५. ध्वन्यालोकः— ( अलंकारग्रन्थः ) श्रीमदानन्दवर्धनाचार्यकृतः.

२६. दशावतारचरितकाव्यम्— श्रीक्षेमेन्द्रविरचितम्.

२७. जीवानन्दनाटकम्— आनन्दरायमखिकृतम्, षडङ्कात्मकेऽस्मिन्नाटके रोगादिविविध संकटेभ्य ईश्वरानुकम्पया जीवस्य मुक्तिः कथं भवतीति सुव्यक्तीकृतम्

२८. दूताङ्गदनाटकम्— श्रीसुभटकविविरचितम्, एकाङ्कात्मके स्वल्पतरेऽस्मिन्नाटके रावणपुरतोऽङ्गदकृतस्य दौत्यस्य सम्यक्तया रमणीयतया च विवेचनं कृतम्.

२९. भर्तृहरिनिर्वेदनाटकम्— श्रीहरिहरोपाध्यायकृतं, पञ्चाङ्कात्मकमिदं नाटकमतीव रसभरितं विद्यते.अस्मिन् स्त्रीविरहिणो भर्तृहरेर्निर्वेदस्यातीव हृदयद्रावकतया वर्णनं कृतम्.

३०. चन्द्रप्रभचरितकाव्यम्— श्रीवीरनन्दिविरचितम्, अष्टादशसर्गात्मकेऽस्मिन्काव्ये जिxनमतवृत्तान्तः समग्र उपलभ्यते…..

कथासरित्सागरः।

अवतरणिका।

प्रथमः तरङ्गः।

दिश्युत्तरस्यां किन्नरगन्धर्वयक्षविद्याधराध्युषितः गिन्द्रचक्रवर्त्तीहिमवान् नाम।भूधरेषु यस्य xx परां कोटिमधिरूढ़ं येन त्रिजगज्जननी भगवगेहिनी पुत्रीत्वमगमत्। तस्य च उत्तरं शिखरं नाम महाxxxयोजनानां सहस्राणि समाक्रम्य xx। यश्च समुद्रमन्थनेऽपि मन्दरस्य सुधासङ्गादपि।धावन्यं यथा स्वत एव ममेति हसतीव श्वेतमxxx।तत्र च चराचरगुरुर्विद्याधरादिभिः स्वगसेवितः सहोमया सततं निवसति भगवान् xतिः। यस्य पिशङ्गोत्तुङ्गजटामण्डलवर्त्तिना नवेन रणेन सन्ध्याद्रिशिखर हृदिसुखमनुभूयते सततम्। xxकमसुरराजं हृदि शूलेन निघ्नन् चित्रंजगतां हृदसममुज्जहार। यस्य च चरणनखाग्रप्रतिविम्वित xxxमण्यः प्रसादलब्धार्द्धचन्द्रा इव भान्ति सुरासुराः।

अथकदाचित् रहसि विश्रब्धा प्रणयिनी भगवती परमीश्वरं स्तुत्या समतीपयत्। सम्प्रीतश्च तया xxस्तामङ्कमारोप्य किं ते प्रियं करणीयमिति प्रियांइत्युक्त्वाहरः यावत् कथयति, आगतस्तावत् देवस्य प्रसादेन समृद्धिमान् पुष्पदन्तो नाम गणाधिपः। स तु हास्थेन निवारितप्रवेशोऽपि कथं ममापि प्रवेशनिषेध निष्कारणो नेवायमिति सञ्जातकुतूहलः दौवारिकेणालक्षिभिx योगबलेन, तत्क्षणमेव प्रविवेश देवसकाशम्। प्रविश्य य श्रुतवान् सर्वमेव पिनाकिना वर्ण्यमानं सप्तविद्याधरचरित् तमपूर्वम्। श्रुत्वा च प्रतिनिवृत्तेन तेन स्वभार्य्यायैxजयायै तत् सर्वमाख्यातं स्त्रीषु वित्तं रहस्य’ वा गोपितु कः शक्नोति? सापि विस्मिता देवीसकाशमागम्य यथाश्रुतं तत्सर्वं वर्णयामास स्त्रीणां हि वाक्संयमः कुतः?

अथ सा देवी गिरिनन्दिनी अतिमात्रं कुपिता, गिरिशमुवाच न त्वया अपूर्वमाख्यातं जयाप्येतदाख्यानं जानातीति तदाकर्ण्य भगवान् गौरीकान्तः प्रणिधानात् विदितसर्ववत्तान्तस्तामवादीत् देवि ! योगप्रविष्टेन पुष्पदन्तेन आवयोः संवादमाकर्ण्य सर्वं कथितं नान्यः कश्चन जानाति वृत्तान्तमिमम्।

श्रुत्वैतदतिकोपपरायणा पर्वतनन्दिनी पुष्पदन्तमानीय, रे अविनीत! मर्त्त्योभवेति तं भयविह्वलं तत्कृते विज्ञप्तिंकुर्वाणं माल्यवन्तं नाम गणश्च शशाप। अथ तेन माल्यवता पुष्पदन्तेन च भार्यया जयया समेतेन पादयोर्निपत्य सान्त्विता भगवती गौरी तयोः शापावधिदायिनीं वाचमवोचत्। कुवेरशापात् पिशाचतां गतः कश्चित्सुप्रतीको नाम यक्षःकाणभूतिनाम्ना विन्ध्याटव्यामास्थितः। हे पुष्पदन्त! तदर्शनात् जातिं स्मरन् यदा इमां कथांतस्मै कथयिष्यसि तदा तत्कथावसाने शापात् विमोक्ष्यसे माल्यवांश्च यदा काणभूतेः कथां श्रोष्यति तदा काणभूतिः मोक्षं लप्सति माल्यवांश्चतत्कथावसाने मुक्तिमासादयतीति। इत्युक्त्वाविरतायां देव्यां तौप्रमथौविद्यत् सञ्जाविव सहसा दृष्टनष्टौ अभूताम्।

अथ कदाचित् पार्वती सदया शङ्करमवदत् नाथ ! मया अभिशप्तौ तौ गणाधिपौकुत्रजातौ?तदाकर्ण्यदेवश्चन्द्रमौलिरवादीत् प्रिये ! अस्ति कौशाम्बी नाम महानगरी, तस्यां पुष्पदन्तो वररुचिर्नामा जातः। माल्यवांश्च सुप्रतिष्ठिताख्येनगरे गुण च इति विख्यातोऽभूत्। इत्युक्तवान् शङ्करः प्रियां सञ्जातानुशयां प्रबोध्य तस्मिन्नेवअव कैलासाद्रौसततमध्युवास।

द्वितीयः तरङ्गः।

गच्छति च काले असौ पुष्पदन्तावतारोवररुचिः कात्यायन इति प्रसिद्धिं गतः महीं परिभ्रमन् विद्यापारीणः नन्दस्य राज्ञःसाचिवामारूढः तत्कार्यवाहुल्येन नितरामायस्तः कदाचित् विन्ध्यवासिनीं द्रष्टुमाजगाम। तत्र च तपसा आराधिता देवी स्वप्नादेशेन तं विन्ध्यकान्तारे काणभूतिना सह साक्षात्कर्तुं प्राहिणोत्। तत्र च भ्रमन् प्रान्ते एकं न्यग्रोधतरुमपश्यत् तत्समीपे च पिशाचशतैर्वृतंपिशाचतामापन्नंकाणभूतिञ्च।

स तु काणभूतिना दृष्टः कृतपादाभिवाादनश्चजगादकथं भवान् सदाचार इव दृश्यते। कथमेतादृशीं गतिमापन्न इति।

श्रुत्वैतत् काणभूतिरभाषत नास्ति मे स्वतःज्ञातःपरं शङ्करात् उज्जयिन्यां श्मशाने यत् मया श्रुतं xकथयामि श्रूयताम्। एकदा भगवती देवी कस्मात् एवं कपालेषु श्मशानेषु च प्रीतिरिति पृष्टे शम्भुरब्रवीत्पुरा कल्पावसाने जगदिदं जलमयमासीत् तदा मया ऊरुंभित्वा तत्र रक्तविन्दुर्निपातितः कालेन तद्रक्तअण्डमभवत् व्यजायत तस्मात् वेधाः। अथ मया सर्गाय सृष्टा प्रकृति निरगच्छत्।प्रिये! तौच प्रकृतिपुरुषौअन्यान् प्रजापतीन् ससृजतुः ते च प्रजापतयः अखिलाः प्रजाः। तस्मादसौवेधा जगति पितामह इत्युच्यते एवं चराचरं सृष्टवतस्तस्य दर्पः प्रादुरासीच्चेतसि ततोऽहं रोषात् तस्य मूर्द्धानमच्छिदं तेन च कर्मणा अनुशयता मयेदमगृह्यत महाव्रतं, ततश्चमेकपालपाणित्वंश्मशानप्रियत्वञ्चेति। किञ्च एतत् कपालमयंजगत् सततं मम करे स्थितं यच्च पूर्वं अण्डस्य कपालद्वयमासीत् तयोरेकेन द्यौरपरेण पृथ्वी जातेतिकीर्त्तितं। शम्भु नैवमुक्ते स्थिते च मयि पुनरन्यत् श्रोष्यामीति जातकुतुहले पुनरभ्यभाषत देवी देव मीश्वरं। नाथ! कियता कालेन पुष्पदन्तः पुनरस्मानुपैष्यतीति तदाकर्ण्य मृड़ानीपति मामुद्दिश्य अवोचत् प्रिये! योऽयं पिशाचदृश्यते असौवैश्रवणानुचरः कश्चित् यक्षः। स्थूलशिरः। नाम कश्चित् निशाचरः अस्य मित्रमभूत्। कदाचित।धनपतिः तेन पापेन रक्षसा सङ्गतमेनमवलोक्य विन्ध्याटव्यां पिशाचो भवेति अभिशशाप। दीर्घजङ्घेनचास्य यात्रा सानुनयं पादयोः पतितेन भ्रातुरस्य शापान्तमति अभ्यर्थितेऽगादीत् वैश्रवणः।शापावतीर्णात् पुष्पदन्तात् महतीं कथामाकर्ण्य अयं शापभ्रष्टस्य माल्यवतः सकाशे तां कथामुक्ता ताभ्यां सहितः शापमेन तरिष्यतीति। धनदेन एवमस्य शापान्तो विहितस्त्वया च पुष्पदन्तस्य तत्रैवेति इत्येतत् शम्भुनोक्तमाकर्ण्यसहर्षोऽहमिहागतः। एवमुक्त्वा विरते काणभूतौवररुचिः सुप्तोत्थित इव जातिं स्मरन्नुवाच स एव पुष्पदन्तोऽहं शृणु तावत् मत्तः तां महतीं कथां। इत्युक्त्वाग्रन्थप्रतिपाद्यभूताः सप्त सप्त महाकथाः तेन कात्यायनापरनाम्ना वररुचिना अभिहिताः। ततः काणभूतिरवादीत् देव ! त्वं रुद्रावतारः कोऽन्यः कथमिमां वेत्ति, त्वत् प्रसादात् शापो मेप्रायः शरीराद् गत एव तदात्मनः चाजन्मि वृत्तान्तमाख्याहि प्रभो ! मां पवित्रय, एवमापृष्टः वररुचिः प्रणतस्य तस्यानुनयपरवशः समग्रमात्मवृत्तान्तं विस्तरेणाचचक्षे।

आसीत् कौशाम्बा्यांसोमदत्तो नाम कश्चित् द्विजः अग्निशिख इति प्रसिद्धः स च। वसुदत्ता नाम तस्य भार्या।सापूर्वं काचित् मुनितनया आसीत् अभिशापेन द्विजजातीमुत्पन्ना। तस्मात् द्विज वरादहं तस्यामुदभवम्। आणवे वर्तमानस्य मम पिता पञ्चत्वमगात् केवलं जननी मम अतिकष्टेन मामवर्द्धयत् अथैकदाअभ्यगच्छेतांद्विजौद्वौ पथिकौमम गृहम्। तिष्ठतोश्चतयोर्मुरजध्वनि रभूत्। तेन च शब्देन स्मृतभर्तृचरणा मज्जननी अब्रवीत् वत्स! एष ते पितुर्मित्रं भवनन्दीनाम न नृत्यति। अहनवदं मातः! अहमेतद् द्रष्टुं व्रजामि दृष्ट्वा चसर्वं सपाटवं तव दर्शयिष्यामि। एतदाकर्ण्यतावतिथीविप्रौ XX गतौदृष्ट्वामातामब्रवीत्सौ! नात्र विस्मयःकार्य्यःसकृत् श्रुतमयं शिशुः सर्वं हृदि धारयितुमलम्। प्रणेताभ्यां समुत्सुकाभ्यां मम सकाशे प्रातिशाख्यमपव्यत अहञ्चपश्यतोस्तयोस्तथैव सर्वं यथाश्रुतमपठन्। ततस्ताभ्यामभ्यागताभ्यां सह गत्वातच्च नाट्यं यथायथं दृष्ट्वा गृहमेत्य च तत् सर्वमातुर्दर्शितम्। अथैतयोरेकः व्यातिर्नाम मां श्रुतिधरं निश्चित्य मन्मातुः प्रणतः कथामिमामाख्यत्। मातः! वेतसाख्ये नगरे देवस्वामी करम्भकश्चेति द्वौ भ्रातरौ विप्रकुलोत्पन्नौपरस्परमतिप्रणयिनौअभूतां तयोरेकस्य पुत्रोऽयमिन्द्रदत्तो नाम अपरस्याहं व्याड़िर्नाम समुत्पन्नः। कियता कालेन पिता मे परलोकं गतः तच्छोकाच्चास्य पिता महापथंप्रस्थितः। ततश्च आवयोर्जननीभ्यां नितरां शोकार्त्ताभ्यां पतिगतिरचिरेणाप्ता।अथ आवां सति धनेऽपि अनाथौ विद्याकाङ्क्षया स्वामिकुमारं प्रार्थयितुंदक्षिणापथं गतौ तपसि स्थितौ च तत्र। अथ स्वप्ने स प्रभुरादिशत् अस्ति पाटलिपुत्रं नाम नगरःनन्दभूपतिनाधिष्ठितं तत्र वर्षनामा कश्चिदस्ति विप्रः तस्मात् कृत्स्नां विद्यामाप्स्यथःतत्र गम्यतामितिअथावां तत् पुरं प्रस्थितौ। पृच्छतोश्च। तत्रावयोः कश्चिदिह वसतिवर्षाख्यो मूर्खो द्विजातिरिति तत्रत्योऽवदज्जनः। आवाञ्च दोलाचलचित्तावपि तत्क्षणं गत्वातस्य गृहं हतच्छायं अतिदुरवस्थमपश्याव। तत्र समाधिस्थं वर्षमालोक्य तत् पत्नीं च परxमकलेवरां विशीर्णमलिनाम्बरांगुणवतीं साध्वीं रूपिणीमिव दुर्गति सुपागतौ। उपेत्य च सप्रणाममावाभ्यां स्ववृत्तान्तो जनवादश्च सर्वं तस्यै विहितातिथ्यक्रियायैनिवेदितः। सा तु पुत्रौ युवां कात्र लज्जा श्रुयतामिति आवयोः कथामेतामवर्णयत्।

अभूदत्र नगरे शङ्करस्वामि नामा कश्चित् द्विजोत्तमः। मम भर्त्ता उपवर्षश्च तस्य दौपुत्रौ। अयं मम पतिः मूर्खः दरिद्रश्च अनुजस्यअस्य विपरीतः। तेन च उपवर्षेणस्वभार्या गृहपोषणे नियुक्ता। प्रावृषि योषितः सगुड़ जुगुप्सितं पिष्टकं रचयित्वा मूर्खाय द्विजाय ददाति। इत्येवमाचरन्तीनां शीते ग्रीष्म च न क्लेशः स्यादिति स्थितिरत्र प्रचलति। परं दत्तं तत् न सर्वे प्रतिगृह्णन्तितदाचारस्य कुत्सितत्वात्। मम देवरगृहिणी तत्पिष्टकं सदक्षिणं मद्भर्त्रेदरिद्राय दत्तवती। स च तत् गृहीत्वा गृहमायात एव मया भृशं निर्भत्सितः मूर्खभावकृतमन्युना अतिपरितप्तः सद्यः एव स्वामि कुमारस्य पादमूलं प्रस्थितः। तेन तपसा आराधितेनास्य सर्वा एव विद्या प्रदत्ताः आदिष्टश्चसकृच्छ्रुतधरं विप्रं प्राप्य एताः प्रकाशयेरिति मद्भर्त्तासहर्षोऽयं गृहमागतः सर्वंवृत्तंमह्यमाख्याय ततः प्रभृति केवलमविरतं ध्यायन् जपंश्चतिष्ठति। यदि युवां कञ्चित् श्रुतधरमानयेत ततः सर्वार्थसिद्धिर्युवयोरसंशयं भविष्यतीति।

श्रुत्वैतदावामस्यै सुवर्णशतं दत्त्वा ततः पुरात् निर्गतौपृथिवींपर्य्यटन्तौ क्वचिदपि श्रुतधरमलब्धवन्तैा तव गृहमद्य प्राप्तौ। प्राप्तश्च तवायं वालकः श्रुतधरः। तदेनं देहि गच्छामो वयं विद्यारत्नसिद्धये।

इत्येवं व्याड़िवचः समाकर्ण्य मम जननी सादरा अब्रवीत् सर्वमेवैतत् सङ्गच्छते नात्र मे कश्चिदविश्वासः अस्मिन् मम शिशौजातमापि गगनादशरीरिणी वागुदचरत् अयं एकः श्रुतधरः समुत्पन्नः वर्षात् विद्यामवाप्स्यतिव्याकरणञ्चास्य लोके प्रतिष्ठां गमिष्यति, नाम्ना चायं वररुचिः यत् यत् उत्कष्टं भवेत् तत्तद्रोचिष्यते इति। तस्मादस्मिन् विवृधेसततं चिन्तयामि क्वासौ वर्षाभिधान उपाध्यायोऽस्ति, अद्य त्वन्मुखात् सर्वं ज्ञात्वा मे महान्परितोषः समजनि तदेनं नयतं युवयोरेष भ्राता इति। अथ मम मातृवचने सातिशय परितुष्टौ क्वाड़ीन्द्रदत्तौक्षणमिव तां रात्रिमनयताम्। अथ व्याडिना उत्सवार्थं मन्मात्रे निजं धनं दत्त्वा वेदाधिकारार्थमहमुपनीतः। ततश्च मात्रा कथञ्चित् निरुद्धवाष्पया अभ्यनुज्ञातं मामादाय तरसा नगर्य्यास्तस्याः प्रस्थिता। क्रमेण वयं वर्षस्य गुरो गृहं प्राप्ताः। सोऽपि मां स्वामिनः कुमारस्य प्रसादमिवं मूर्त्तममन्यत। अथ परेद्युरुपाध्यायः शुचिदेशे समासीनः अस्मान् अग्रतः समाविश्य प्रथममोङ्कारमदात्।ततश्चसर्वे वेदाः उपस्थिताः। मया सकृत् श्रुतं व्याड़िना इन्द्रदत्तेन द्विः श्रुतं इन्द्रदत्तेन विश्रुतंसर्वमगृह्यत। तञ्चास्माकं वेदध्वनिमपूर्वमाकर्ण्य समन्तात् सविस्मयो विप्रवर्गः किमिदमिति वर्षमभ्याययौस्तुतिभिः प्रणतिभिश्चैनमभ्यपूजयत्। उपवर्षमन्तरेण सर्व एव नागरजनःविततमहोत्सवस्तदासीत्। नृपतिरपि नन्दः तत् पार्वतीसूनुवरप्रभावविलसितमाकर्ण्य सपरितोषमुपेत्य वसुराशिभिः वर्षनिकेतनमपूरयत्।

<MISSING_FIG href="../books_images/U-IMG-1721725482Screenshot2024-01-21130148.png"/>

तृतीयः तरङ्गः।

एवमुक्त्वावररुचिरेकाग्रमानसे काणभूतौ श्रृण्वतिपुनरब्रवीत्कदाचित् अध्ययनानन्तरम् अस्माभिः कृतनित्यक्रियः आचार्य्यः पृष्टः कथमिदं नगरं लक्ष्मीसरस्वतीनिवासतां गतमिति सोऽब्रवीत् शृणुत एतत् कथाम्।

अस्ति गङ्गाद्वारे कनखलं नाम पावनं तीर्थम्। ऐरावतेन उशीनरगिरिप्रस्थात्, काञ्चनपातेन तमेव प्रस्थं भित्वा देवनदी अवतारिता। तत्रासीत् कश्चिद्दाक्षिणात्यः द्विजन्मा सभाय्यः तपस्यन्। तस्य त्रयः पुत्राः अजायन्त। अथ कालेन तस्मिन् सभार्येण द्विजे स्वर्गते त्रयस्ते सुताः विद्यार्थिनः राजगृहं नाम देशं गताः। क्रमेणाधीतविद्यास्ते पितृमातृशोकार्दिताः स्वामिनः कुमारस्य दर्शनार्थं दक्षिणापथं ययुः। न्यवसंश्च समुद्रतटवर्त्तिनां नगार्य्यांभोजिकनाम्रः कस्यचित् विप्रस्य भवने।भोजिकश्चतिस्रः कन्याः तेभ्यः भ्रातृभ्यः सम्प्रदाय धनानि च यौतुकीकृत्य अनन्यसन्तानतया तपसे गङ्गामगमत्। अथ कालेन तत्र श्वशुरवेश्मनि निवसतां तेषां दारुणोदुर्भिक्षः समजायत। ते च त्रयः ताः साध्वीर्भार्य्याः परित्यज्य ययुः। नृशंसानां किं विचित्रम्? तासाञ्च मध्यमा तदानीं सगर्भासीत् सुतरां पितृमित्रस्य यज्ञदत्तस्य निलयमशिश्रियन्। तत्रापि भर्तृन् ध्यायन्त्यः प्रतिक्लेशेन कालमनयन् आपद्यपि सतीत्वं न मुञ्चति कुलनारी। गच्छति च काले सा मध्यमा पुत्रमसुत तस्मिन् सर्वासामेव तासां स्नेहवृत्तिर्वर्द्धतः।

एकदा आकाशमार्गेण विहरन्तंमहेश्वरं तदङ्गवर्तिनी भगवती देवी दृष्ट्वैतत् सदया अब्रवीत् देव ! पश्य अस्मिन् शिशौसर्वा एव तिस्रः एता योषितः वद्धस्नेहा एषोऽस्मान् जीवयेदित्याशां दधति। तत् तथा क्रियतां यथायं बालोऽपि एताः पालयेदिति।

इत्युक्तः देवः शम्भुरत्रवीत् प्रिये ! अमुमनुगृह्वामि पूर्वमनेन सभार्य्येणआराधितोऽस्मि तस्मादयं भोगार्थं भुवि निर्म्मितः अस्य जाया पाटली नाम भूपतेः महेन्द्रवर्म्मणः समजनि। इत्युक्त्वा विभुः स्वप्ने तिस्र एव ताः साध्वीर्जगाद योऽयं युस्माकंबालकः पुत्रः अयं नाम्ना पुत्रक एक ख्यातिमाप्स्यति प्रतिदिनञ्चास्य सुप्तप्रतिबुद्धस्य शिरः स्थाने सुवर्णलक्षं भविता भविता चायं भूपतिरिति।

अथ सुप्तोत्थिते तस्मिन् ताः काञ्चनं प्राप्य हर्षनिर्भरमानसाः ननन्दुः। अचिरेण च स पुत्रकः अतुलसमृद्धिसम्पन्नः राजा बभूव। अचिन्त्या हि तपः सिद्धिः। कदाचित् यज्ञदत्तः रहसि पुत्रकमब्रवीत् राजन्! दुर्भिक्षेण क्लिष्टास्ते पितरः क्वापि गताः तत् सदा विप्रेभ्यः धनं देहि येन तन्निशम्य ते समागच्छन्ति। अत्र च ब्रह्मदत्त—कथामिमां कथयामि श्रूयताम्।

आसीत् पुरा किल वाराणस्यां ब्रह्मदत्तो नाम नृपतिः। एकदा स रजन्यां गगने प्रयान्तंविकसत्कनकाभहंस-मिथुनं राजहंस-शतैर्वृतं सिताभ्रपरिवेष्टितं विद्युत्-पुञ्जमिवापश्यत्। दृष्ट्वा च तस्य पुनस्तद्दर्शनोत्कण्ठयान क्वचित् राजकीयसुखेष्वपि मनः प्रीतिरासीत्। अथ राजामन्त्रिभिः सह स साxन्त्वावृहत् सरोवरमेकंकारयामास। ददौच तत्र प्राणिनामभयम्। गच्छता च कालेन तत्र समागतंतत् हंसयुगलं दृष्ट्वा हर्षनिर्भरमनाः सादरं तस्य शरीरस्य काञ्चनमयत्वे कारणमपृच्छत्। तौच स्पष्टवाचाहंसौराजानमूचतुः। राजन्! पुरा जन्मनि काका वापां सञ्जातौबलिग्रहणार्थं युध्यमानौकदाचित् पुण्ये शून्ये शिवालये विनिपत्य पञ्चत्वमापन्नौ। ततश्च जातिस्मरौहंसौहेममयौ जातौ। तत् श्रुत्वा पश्यञ्च तौ यथाकामं सुभृशं तुतोष। त्वमपि असामान्यदानशीलतया पितॄन्लप्स्यतेइत्येवमभिहितो यज्ञदत्तेन पुत्रकस्तथैवाकरोत्। कालेन तस्य तादृशीं दानवार्त्तामाकर्ण्य ते द्विजातयः लोभाक्रान्त मानसाः तत्रैवाययुः प्रापुश्चपरिज्ञातवृत्तान्ताः महतीं श्रियं पत्नीञ्च। आश्चर्यमपरित्याज्योहि दुःखभावो दुर्मतीनाम्।गच्छति च काले कदाचित् ते पितरः राज्यकामुकाः पुत्रजिघांसया विन्ध्यवासिनीदर्शनव्याजेन पुत्रकं तत्र निन्युः। ततश्च घातकान् तत्र देवीगृहाभ्यन्तरे स्थापयित्वा पुत्रकमूचुः। पूर्वं त्वमेव एको देवीं पश्य इत्युक्तः पितृभिस्तेषाञ्च विश्वासात् तत्र प्रविश्य पुत्रकः दृष्ट्वा च तत्र घातकान् हन्तुमुद्यतान् अपृच्छत्। कथंमां निहनिष्यथेति। ते ऊचुः तव पितृभिः स्वर्णं दत्त्वा वयं त्वद्वधाय नियुक्ताः। ततः सुबुद्धिः पुत्रकः देव्या विमोहितान् तान् पुनरब्रवीत्। अहं अनर्घ्यं स्वं रत्नालङ्कारं वो दास्यामि मां मुञ्चत नाहमेतत् प्रकाशयामि शीघ्रं निभृतं व्रजामीति। बधकाश्च एवमस्तु इति तस्मात् तदलङ्कारजातमादाय हतः पुत्रक इति तत्पितॄणां पुरः कथयित्वा प्रस्थिताः। नैव कदाचित् दुरात्मनां शिवम्। प्रतिनिवृत्ताः ते राज्यलुब्धाः द्विजाः राजद्रोहिण इति बुद्धामन्त्रिभिर्निहताः।

अत्रान्तरे राजापि पुत्रकः स्वेषु बन्धुषु विरक्तः विन्ध्यकान्तारमाविशत् अपश्यंञ्च तत्र भ्रमन् बाहुयुद्धपरौद्वौ पुरुषौ। पृष्टौ च तौराजा समूचतुः आवां भयदानवसुतौआवयोः पैतृकं धनमेतत् भाजनं एषा यष्टिरेते च पादुके। एतदर्थमावयोर्युद्धं य आवयोर्बलवत्तरः स एव सर्वं हरेदिति। एतदाकर्ण्यपुत्रकः विहसन् प्रोवाच कियदेतत् धनमिति। तावूचतुः पादूके एते परिधाय खेचरत्वमवाप्यते यष्ट्या च यत् लिख्यते तत्सर्वं सत्यंसम्पद्यते भाजने च य आहारश्चिन्त्यते स तत् क्षणात् प्रतियति श्रुत्वैतत् पुत्रकोऽब्रवीत्। युद्धेनालं पणोऽयमस्तु। योहिधावन् बलाधिकः स्यात् स एतत् गृह्णीयादिति। तौ च मूढ़ौ एवमस्तु इति प्रधावितौदृष्ट्वा स पुत्रकः पादुके परिधाय यष्टि भाजने च गृहीत्वा खमुदपतत्। क्षणेन च सुदूरं गत्वा आकर्षिताभिधानां रम्यां नगरींददर्श अवततार च तस्यां नभसः। अवतीर्य्य च व्यचिन्तयत् वेश्या मत्पितर इव वञ्चनप्रवणा वणिजश्च धनलुब्धाः तत् कस्य गृहं वसामीति एवं विचिन्त्य विजनमेकं जीर्णं गृहं दृष्ट्वा प्रविश्य च तत्र काञ्चित् वर्षीयसीं योषितमैक्षत्। अध्युवास च तयाभ्यनुज्ञातः प्रदानपरितुष्टया केनाप्यलक्षितः।

अथ कदाचित् वृद्धापरितुष्टा पुत्रकमब्रवीत् वत्स! नास्ति ते सदृशी भार्य्या, इह पाटलीति नाम्ना कापिराजसुता अस्ति सा रत्नमिति सततमन्तःपुरे अभिरक्ष्यते। इत्येतदाकर्ण्ययतस्तस्य वृद्धावचसि दत्तकर्णस्य हृदि लब्धप्रवेशः स्मरस्तमतिविमुग्धमकरोत्। अद्यैव सा द्रष्टव्येति कृतनिश्चयः पादुके गृहीत्वा निशायां तदन्तःपुरमगमत्। ददर्श च अद्रिशृङ्गतुङ्गवातायनेन रहसि सुप्तां कान्तां मनोभुवी जगद्विजयवैजयन्तीमिव पतितां पाटलीम्। क्षणेन कथमेनां प्रबोधयामीति चिन्तयन् तावदकस्मात् प्रहरिणां गीतमशृणोत्। यथा सुप्तां कान्तामालिङ्ग्य अलसोन्मिषदीक्षणां यत् प्रबोधयन्ति युवानस्तेनैव तेषां जन्मसाफल्यमिति। श्रुत्वैवैतदुपोद्घातमनङ्गविक्लवै रङ्गैस्तां भृशमालिलिङ्ग। सा च प्राबुध्यत। तस्याञ्चतंपश्यन्त्यास्तदानीं कोऽपिदशान्तरापातः समभवत्। ततश्च परस्परमालपतोस्तयोरन्योन्यानुरागेण गान्धर्व्वोद्वाहप्रीतिररवर्द्धत न तु सा यामिनी। रजन्याश्चपश्चिमे यामेतां कान्तामामन्त्यतद्गतेन चेतसा उत्कलितः तदेव वृद्धासदनमासदत्। इत्थंप्रतिनिशं गतागतं कुर्वति तस्मिन् रक्षिभिः पाटल्या अङ्गे सम्भोगचिह्नमलक्ष्यत न्यवेद्यत च राज्ञे। सोऽपि राजा किमेतदिति व्याकुलात्मागूढ़मन्तःपुरे तामवेक्षितुकाञ्चित् नारींनियुक्तवान्। तया च तत्र प्राप्तस्य पुत्रकस्य प्रसुप्तस्य वाससि अलक्तकमभिज्ञानचिह्नं न्यस्तम्। प्रातश्च तया विज्ञप्तो राजा चारान् समन्तात् व्यसर्जयत् तैश्चतेनाभिज्ञानेन तस्मात् जीर्णवेश्मनः स गृहीतः नीतश्च राजसकाशम्। अथ कुपितं नृपं वीक्ष्य पादुकाभ्यां खमुत्पत्य तत्क्षणमेव पाटलीमन्दिरे प्राविशत्। गत्वा च तां विदितौ खः नात्र स्थातव्यमित्यक्त्वाअङ्केकृत्वा प्रियां जगाम नभसा। अथ गङ्गा तटे अवतीर्य्यश्रान्तां प्रियां भाजनप्रभावजातैरन्नादिभिः पर्य्यतोषयत्। आलोकितानुभावश्च तयाभ्यर्थितः यष्ट्याच तत्र नगरं चतुरङ्गवलसमेतमलिखत्। तस्मिंश्चनगरे यष्टि-प्रभावेण सत्यतां प्राप्ते कृताधिवसतिः श्वशुरं वशमानीय ससागरां धरां बुभुजे। तदिदं मायारचितं तयोरेव दम्पत्योर्नाम्ना पाटलीपुत्रं लक्ष्मीसरस्वतीक्षेत्रमभूत्। काणभूते! इत्येवं वर्षमुस्वादपूर्वां वाणीमाकर्ण्य सविस्मयहर्षनिर्भरास्तत्रैवचिरमवसाम।

इति तृतीयस्तरङ्गः।

अथ चतुर्थः तरङ्गः।

इत्याख्याय विन्ध्यवासिने काणभूतये पुनः प्रकृतार्थमवर्णयत् वररुचिः। इत्थमहं व्याडिना इन्द्रदत्तेन च सह तत्र वसन् क्रमात् सर्वविद्यानां शैशवस्य च पारमगमम्। कदाचित् शक्रोत्सवं दिदृक्षवो वयं गुरुकुलात् निर्गताः कामपि कामस्य पुष्पव्यतिरिक्तमस्त्रंकामिनीमपश्याम। केयमिति पृष्टेन इन्द्रदत्तेन उक्तं इयमुपवर्ष-सुता उपकोशा नाम। सा च सखीभिर्मां ज्ञात्वा प्रणयपेशलदृष्ट्यामम मनः कर्षन्ती च भवनमगच्छत्। ततश्च कामशरापात-निर्भिन्नहृदयाहं तस्यां निशि पूर्णचन्द्रमुख्या नीलोत्पलाक्ष्याःपीनस्तनायाः स्मरभूपतिसौन्दर्य्यमन्दिराया इन्दिराया इव द्वितीयायास्तस्या विम्बोष्ठपिपासुरेव निद्रां न लेभे। कथञ्चित् लब्धनिद्रश्च निशावसाने काञ्चित् शुक्लवसनां दिव्यां योषितमपश्यम्। सा मामब्रवीत् पुत्र! पूर्वभार्य्येयमुपकोशा ते गुणज्ञा नापरं पतिमिच्छति अहो नात्र चिन्ता कार्य्या। अहं सदा ते शरीरान्तवासिनी सरस्वती त्वद्दुःखं सोढूमसमर्था इत्युक्त्वान्तर्हिता अभवत्।

ततः प्रबुद्धोऽहं सज्जाताः शनैर्गत्वा प्रियाया मन्दिरासन्न बालचूत-तरोरधस्तात् क्षणमतिष्ठं क्षणेन चागत्य तत्सख्या उपकोशाया मदेकायत्त-चित्ताया अभिनवानङ्गविलसित मतिप्रवृद्धं ममाख्यातम्। ततोऽहं द्विगुणितसन्तापस्तामवादिषं कथं गुरुभिरदत्तां तामहं भजे

वरं मृत्यः न चाकीर्त्तिः। तस्मात् तव सखीहृदयं यथा गुरुभिर्बुध्येत यथा चावयोः शिवं भवेत् तथा क्रियतां जीव्यताञ्च मया सह तव सखी। तच्छ्रुत्वा सा सख्या मातुः सर्वं न्यवेदयत् तया च भर्त्तुःकथितं तेन भ्रातुर्वर्षस्य तेन च तदभिनन्दितम्। एवमुद्वाहे निर्धारिते व्याड़िराचार्य्यनिदेशेन गत्वा कौशाम्ब्यामम जननी मानिनाय। अथ यथाविधानमुपवर्षेण उपकोशां प्रदत्तामादाय जनन्या सह तत्र सुखेनावसम्।

अत्रान्तरे वर्षस्य वहवः शिष्या अभवन् तेषामेकः पाणिनिर्नाम सर्वेषामधमः। स सुश्रुषापरितुष्टया वर्षभार्य्यया प्रेषितो विद्याकामस्तपश्चरणार्थं हिमाचलमगच्छत्। तत्र च तेन घोरेण तपसा सन्तुष्टात् चन्द्रमौलेः सर्वविद्यामुखं नवं व्याकरणं प्राप्तम्। ततश्चागत्यासौवादाय मा माहूयते स्म। ततश्चावयोर्वादे प्रवृत्ते सप्त वासरा व्यतीयुः अष्टमेऽसि मया तस्मिन् जिते समनन्तरमेव खेचरेण हरेण महाघोरो हुङ्काररवः कृतः। तेन च तत् मदीयमैन्द्रं व्याकरणं प्रनष्टं सर्वे च वयं तेन पुनः पाणिनिना जिताः। ततः सञ्जातनिर्वेदः हिरण्यदत्तस्य वणिजः सकाशे गार्हस्थ्यनिर्वाहायस किञ्चित् धनं संरक्ष्य उपकोशाञ्च यथोचितं सान्त्वयित्वा शङ्करमाराधयितुंहिमाचलमगमम्।

मत् प्रिया च ममेव श्रेयःकाङ्क्षिणी नियतं गङ्गास्नानपरा नियतव्रता च गृह एवाविष्ठत्। कदाचित्मघौ प्राप्ते सा मद्विरहक्षामापाण्ड्वङ्गी प्रतिपच्चन्द्रे ले-

खेवजनमनोहारिणी स्नातुं विपथगां यान्तीराजपुरोधसा दृष्टा दण्डाधिपतिना कुमार सचिवेन च। दृष्ट्वा च ते सद्यएव सर्वे कामसायकलक्ष्यतांगताः। सापि तस्मिन् दिने स्रान्ती कथञ्चित् कृतविलम्बा दिवसावसानमकरोत्। अथागच्छन्तीं पथि सायं कुमारसचिवस्तां सहसाग्रहीत्। सापि प्रतिभानवलादब्रवीत् भद्र! अभिप्रेतमिदं ममापि तवेव, परमहं सत्कुलजा प्रोषितभर्त्तृकाका च तत् कथमेवमाचरेयं कोऽपि कदाचित् पश्येत् तथात्वे तव मम च ध्रुवमनर्थोभवेत् तथा त्वया रात्रेः प्रथमे प्रहरे एवं मद्गृहे आगन्तव्यं वसन्तोत्सव व्यस्ततया न कोऽपि आवयोर्लक्षयिष्यति। इत्युक्त्वातेन परित्यक्ता सा यावत् किञ्चित् गता तावत् पुरोधसा तथैव निरुद्धा तस्यापि तस्यामेव रात्रौद्वितीये प्रहरे सङ्केतमकल्पयत्। ततश्च तेनापि मुक्ता कथञ्चित् कञ्चिदध्वानं गता दण्डाधिपेन निरुद्वा। अथ सा तस्यापि तस्यामेव निशि तृतीये यामे विहितसङ्केतादेवात् तेनापि मुक्ता सञ्जातकम्पा कथञ्चित् गृहमगमत्। आगत्य च सा सखीनां सर्वमावेद्य स्वैरमब्रवीत् प्रोषितभर्त्तृकाया वरं मरणं कुलनार्या इति। अथ सा चिन्तयन्ती माञ्च स्मरन्ती शोचन्ती च स्ववपुः साध्वी निराहारा तां निशामनैषीत्। अत्रान्तरे ब्राह्मण पूजार्थं किञ्चित् धनमानेतुं हिरण्यगुप्तसकाशं कापि प्रातः सखी प्रेषिता। स चागत्यहिरण्यगुप्तः सायमेकान्ते तामभाषत।सुन्दरि ! भजस्वमां ततो भर्त्तृस्थापितं

ते धनं ददामि। तदाकर्ण्य साक्षिरहिताञ्च भर्त्तृधनस्थितिंमत्वा पापञ्च तं वणिजमालोक्य खेदामर्षसमन्विता तस्यापि रात्रेः पश्चिमे यामे सङ्केतमकार्षीत् गतश्च स तदानीं तदाशया।

अथ सा चेटीभिः कस्तूरिकादिसंयुक्त तैलमिश्रितं कज्जलं कुण्डस्थितमकारयत् कृताश्च तया तत्तैलाक्ताश्चत्वारश्चीरखण्डाः। कारिता च वहिरर्गला कापि स्थूला मञ्जूषा। अत्रान्तरे वसन्तोत्सवोचितवेशः कुमारसचिवः सङ्केतिते प्रथमे यामे समाययौ। अलक्षितप्रविष्टञ्च तमब्रवीदुपकोशा, नाहमस्नातं त्वां स्पृशामि तत्स्नानार्थमन्तरं प्रविश। सोऽपि मूढस्तथेति चेटीभिरभ्यन्तरगृहं गुप्तमन्धकारमयं प्रवेशितः। तत्र ताभिस्तस्य वस्त्राणि आभरणानि गृहीत्वाअन्तर्वासार्थं चीरखण्डमेकं दत्त्वा च आपादमस्तकं अङ्गेषु तत्तैलकज्जलमभ्यङ्गभन्या सन्यस्तम्। यावच्च ताः तत्प्रत्यङ्गंमर्द्दयन्ति तावत् द्वितीये प्रहरे पुरोधाः समागमत्। मित्रंवररुचेः प्राप्तः राजपुरोहितः किमर्थमिति जातसम्भ्रमास्तास्त्वमिदानीमिहैव प्रविश इत्युक्त्वातथाविधं नग्नकुमारसचिवं ससम्भ्रमं मञ्जूषायां व्यक्षिपन् अवध्नञ्चपहिरर्गलेन ताम्। पुरोहितोऽपि तथैव तमसावृते अन्तःपुरे हृतवस्त्रादिश्चेटिकाभिश्चीरखण्डधरः यावत् विमोहितस्तावत् तृतीये यामे दण्डाधिपतिः समागमत्। चेटीभिश्चतदागमनेन भयं प्रदर्श्यपुरोहितस्तथैव मञ्जूषायां निक्षिप्तः। अथ तामर्गलेन तथैव वध्वाताभिः स्नानापदेशेन सोऽपि दण्डाधिपः कज्ज-

लादि मर्द्दनैश्चीरखण्डदानैश्चयावत् पूर्ववत् प्रतार्य्यते स्म तावत् पश्चिमे यामे स एव वणिगाययौ। अथ तदागमनेन च भयं प्रदर्श्य तमपि दण्डाधिपं तत्रैव मञ्जूषायां निक्षिप्यअर्गलेन च तां वध्वा चेट्यःउपकोशसमीपमाजग्मुः। ते च त्रयः मञ्जूषान्तःस्था अन्धतामिस्रपतिता इव भवेन लज्जया च परस्परं नालपन्ति स्म। अथ सा उपकोशा तत्र दीपं दत्वा तञ्चवणिजं तत्र प्रवेश्यावदत् देहि मे भर्त्तृस्थापितं धनम्। तदाकर्ण्यसोऽपि धूर्त्तः शून्यमालोक्य गृहंअब्रवीत् उक्तमेव मया तव भर्त्तृस्थापितं धनं ददाम्येव। उपकोशा च तदाकर्ण्य मञ्जूषां श्रावयन्ती अवादीत् हे मञ्जूषास्था देवाः! शृणुत हिरण्यगुप्तस्य वचनम्। इत्युक्त्वादीपं निर्वाप्य च सोऽपि वणिक् चेटीभिस्तथैव स्नानव्याजेन कज्जलेश्चिरं मर्दयित्वा गच्छाद्य रात्रिर्गता इत्यभिधाय निशाशेषे गलहस्तेन निष्काशितोऽनिच्छन्नपि। अथ चीरवसनो मसीलिप्तः पदे पदे श्वभिरनुधावितो लज्जया निजं निकेतनं कथमपि जगाम। तत्र दासजनस्य सविधे मसीं क्षालयतः नाशकत् मुखं दर्शयितुम्। कष्टाहि दुराचार पद्धतिः।

अत्रान्तरे चेटिकानुगता उपकोशापि प्रातर्गुरुणामनिवेद्य नन्दस्य नृपतेः मन्दिरमगच्छत्। अवोचच्चराजन्! हिरण्यगुप्तो वणिक् भर्त्रा मम न्यासीकृतं धनं जिहीर्षतीति एवं विज्ञप्तञ्च राजा स्वयं तत् परिज्ञातुं तदेव तं वणिजमानयत्। सोऽपि मम हस्ते नास्याः किमपि अस्ति देव! इति अभाषत। ततश्च उपकोशा अवदत् देव! सन्ति मेऽत्र

साक्षिणो, गृहदेवाःये हि मम भर्त्रा मञ्जूषायां निक्षिप्ताः प्रवासगमनोद्यतेन। अनेन च धूर्त्तेनतेषां समक्षमेव धनमङ्गीकृतं अतस्तामानाय्य इह पृच्छ्न्तांं,संशयापनोदनाय। तदाकर्ण्य विस्मितो राजा तामानेतुमादिशत् क्षणेन च बहुभिर्जनैः सा समानीता। अथ उपकोशा अब्रवीत् सत्यं वदत देवताः वणिजानेन यदुक्तम्। ततो निजं गृहंयात नोचेत् युष्मान् दाहयामि वा सदसि उद्घाटयामि। तच्छ्रुत्वा भीतभीतास्ते मञ्जूषास्थाः पुरुषा अब्रुवन् सत्यं समक्षमस्माकमनेन धनमस्या अङ्गीकृतम्। ततो निरुत्तरो वणिक् सर्वं तत् प्रत्यपद्यत। अथोपकोशामभ्यर्थ्यराज्ञाकौतुकाक्रान्तचित्तेन सदस्येव अर्गलाभङ्गेन मञ्जूषा उद्घाटिता। तत्रस्थाश्चनिकृष्टास्तमः पिण्डा इव ते त्रयः पुरुषाः क्रमेण सर्वैः परिज्ञाताः। अथ हसत्सु सभ्येषु किमेतदिति राज्ञा पृष्टा उपकोषा सर्वमेव तदामूलतः समाचचक्षे। सभ्याश्च अचिन्त्यमेतत्सतीनां चरित्रमिति सर्वे तामभिननन्दुः। ते च पारदारिकाः पुरुषाः त्रय एव हृतसर्वस्वा देशान्निर्वासिता भूभुजा। दौःशील्यं कस्य भूतये?उपकोशा च त्वं मे भगिनीति राजा अभिनन्दिता दत्तबहुधना च प्रेषिता स्वं गृहमगमत्। श्रुत्वा च तं वृत्तान्तंवर्षोपवर्षौभृशं ननन्दतुः पुरवासिनश्च सर्वे विस्मयस्मेरानना अभूवन्।

एतस्मिन्नन्तरे मया तीव्रं तपश्चरता वरदः शम्भुराराधितः तोषितश्च। तेन च तदेव पाणिनीयं शास्त्रं प्रकाशयितुमादिष्टोऽहं तदिच्छानुरोधात् तथैव कृतवान् आग-

तवांश्चतत्प्रसादेन अथान्तः स्वगृहन्। आगत्य च मातरं गुरुंश्चयथाविधानमभ्यर्थ्यतमद्भुतमुपकोशाच चरितमशृणवम्।

अथ वर्षो मन्मुखात् नवं प्रकाशितं तद्व्याकरणं श्रोतुमैच्छत् प्रकाशयामास च स्वामिकुमारस्तत् सर्वं तस्य। ततः व्याड़ीन्द्रदत्तौ दक्षिणार्थं गुरुमभ्यर्थयामासतुः। अब्रवीच्चगुरुः स्वर्णकोटिर्दीयतां मह्यमिति। तथेत्यङ्गीकृत्य गुरु तौ च मामवोचतां एहि सखे ! नन्दात् भूपतेर्गुरुदक्षिणामभ्यर्थयितुं गच्छामः नान्यस्मादियती स्वर्णसंख्या प्राप्यते। स हि नवाधिकनवतिकोटीनामधिपतिः। तेन च वाचा प्राक् उपकोशा धर्म्मभगिनी कृता अतोऽयं ते श्यालः, त्वत्सम्बन्धाच्चावश्यमेवप्राप्तव्यमिति। इति निश्चित्य सर्वे वयं अयोध्यास्थं नन्दकटकमगच्छाम। प्राप्तमात्रे च तस्मिन् अस्माभिः स राजा निधनं XX तश्च तेन राष्ट्रे महान् कोलाहलोऽस्माकंXX ततश्चेन्द्रदत्तः सञ्जातयोगसिद्धिरवोचत् गतासोरस्य भूपतेः शरीरं प्रविशामिवररुचिरर्योभवतु ददामि चास्मैकाञ्चनकोटिं आप्रत्यागमाच्च शरीरं मे व्याड़िः रक्षतु। इत्युक्त्वातद्भूपशरीरमिन्द्रदत्तः समाविशत्। प्रत्युज्जीविते च नृपे राष्ट्रे तस्मिन् महानुत्सवः समजनि। व्याड़िना च शून्ये देवगृहे इन्द्रदत्तस्य देहे रक्षिते राजकुलमहमगच्छम्। प्रविश्य च मया यथाविधानमाशिषं कृत्वा याचितः स योगनन्दो गुरुदक्षिणायै। ततः सोऽपि योगनन्दः शकटारं मन्त्रिणमाज्ञापयत् देहि अस्मै सुवर्णकोटिमिति।

मन्त्रिणातु तेन नृपस्य मृतस्य जीवितं सद्यश्चार्थिनः प्राप्तिञ्चाकलय्यतथ्यमपगतम्। किमज्ञेयं खलु बुद्धिमताम्? अथ स देव! दीयते इत्युक्त्वाव्यचिन्तयत् बालस्तावदस्य तनयः राज्यञ्च बहुशत्रु तदेतदस्य शरीरमीदृगमपि रक्षामि। एवं निश्चित्य स सर्वानेव मृतदेहानदाहयत्। चारैश्चान्वय तस्मिन् देवगृहे इन्द्रदत्तशरीरमपि व्याड़िहस्तादाविद्य दग्धम्।

अत्रान्तरे च हेमकोटिसमर्पणे त्वरमाणं राजानमाह शकटालः देव! उत्सवाासक्तचित्तः सर्वःपरिजनः तत्क्षणं प्रतीक्षतामेव विप्रः शीघ्रमहं ददाम्येव। अत एवव्याड़िना योगनन्दस्य पुरतः अब्रह्मण्यमुद्घोषितं क्रन्दितञ्च अनुत्क्रान्तजीवः योगस्थितो द्विजः अनाथः शवइति कृत्वा शकटालेन बलात् दग्ध इति तदाकर्ण्ययोगनन्दस्य काप्यवस्था शोकार्तस्य समभवत्। ततश्च देहदाहात् तस्मिन् राजनि स्थिरे जाते महामतिः शकटालो मह्यंसुवर्णकोटिमदात्। ततश्च योगनन्दो विजने व्याडिमानीय सशोकोऽब्रवीत् शूद्रीभूतोऽस्मि विपोऽपि तदनया श्रिया मे नास्ति सन्तोष इति तच्छ्रुत्वा आश्वास्यच तं व्याङ्गिः कालोचितमसभापत विदितोऽसि शकटालेन तत्सावधानेन भवितव्यं महामन्त्री अयं स्वबुद्ध्याअचिरात् त्वां विनाशय पूर्वनन्दसुतं चन्द्रगुप्तं भूमिपतिं करिष्यतीति मे मतिः। तस्मात् त्वं वररुचि मञ्जूसां मन्त्रिणं कुरु येन तद्बुद्ध्या दिव्यप्रभावसम्पन्नया राज्यं स्थिरं भवेत् इत्युक्त्वागुरुदक्षिणां दातुं गते व्याड़ौतदैव मा

मानीय योगनन्दो मन्त्रित्वे समभ्यषेचयत्। मयोक्तं राजन्! शकटाले पदस्थिते तवेदं राज्यं नैव स्थिरं मन्ये तस्मात् कौशलेनैनं नाशय इत्यभिहिते योगनन्दो नरपतिः जीवन् द्विजोऽनेन दग्ध इति दोषमुद्घोष्य शकटालं सपुत्रशतं अन्धकूपान्तर्न्यक्षिपत् व्यधत्त च तस्य सपुत्रस्य प्रत्यहमेकशरावशक्तुं एकशरावमितं सलिलं च जीवनाय। शकटालस्तु पुत्रानाह। वत्साः! शक्तुभिरमीभिरेकोऽपि कथमपि यदि वर्त्तेत का कथा बहूनां तदेतान् सजलान् शक्तून् स एव भक्षयतु, यः योगनन्दस्य वैरनिर्य्यातनायालमिति। तैश्चोक्तंतात ! त्वमेवात्र शक्तः तदेतान् भुङ्क्ष्व, न वयम्। शत्रुप्रतिकारोहि प्राणेभ्योऽपि प्रियतरो मनस्विनामिति। ततः स शकटालः एक एव तैःशक्तुवारिभिर्वर्त्तयन् प्रतिहिंसाप्रवणमनाः कथमपि कालमनयत्। व्यचिन्तयच्च भूतिमिच्छता प्रभुचित्तमबुद्ध्वाअविश्वस्तेन च न स्वेच्छया व्यवहार्य्यम्। कालेन तस्य पश्यत एव सुतशतं क्षुत्प्रपीड़ितं व्यपद्यतकेवलमेकः स एव तस्थौ किं क्रूरं जिगीषु xxयमहो ?

क्रमेण च योगनन्दो बुद्धिबलेन साम्राज्ये बद्धमूलोऽभवत्। अत्रान्तरे च व्याडिर्दत्तगुरुदक्षिणः समाययौ उवाच च। भ्रातः ! चिरं ते राज्यसुखमस्तु आमन्त्रयामि त्वां गच्छामि क्वचित् तपश्चरितुमिति। तदाकर्ण्ययोगनन्दोवाष्पाकुलचित्तस्तमभ्यभाषत आर्य ! राज्ये मे भोगानशेषान् भुङ्क्ष्व त्यक्ता मां न कचिद् गन्तव्यमिति। व्याडिरब्रवीत् राजन् ! क्षणभङ्गुरं शरीरं अत्र असाराश्च

ससाराः कोऽत्र धीमान् मज्जति, न हि मोहयति लक्ष्मीः प्राज्ञंविद्युद्विलास चञ्चला इत्युक्त्वास तपसे निश्चितात्मा निर्जगाम।

अथ योगनन्दः स्वनगरं पाटलिपुत्रमत्सहितः सकलसैन्यसामन्तवृतः समाजगाम। काणभूते! तत्रागत्य मन्त्रिकर्म्मनियतः प्रियापरिचर्य्यमाणोगुरुभिर्जनन्या च सार्द्धंमोदमानः समृद्ध्या कालमयापयम्। तत्र च प्रतिदिनं तपःसमाराधिता सुरसिन्धुर्मह्यंबहु काञ्चनमदात् सरस्वती च शरीरिणी सदैव मम कार्य्याणि समादिशत्।

<MISSING_FIG href="../books_images/U-IMG-1721729064Screenshot2024-07-20221243.png"/>

अथ पञ्चमस्तरङ्गः।

पुनश्चवररुचिरभाषत कायभूते! XX योगनन्दः व्यसनवशमगमत् मत्तो गजवर इव न ददर्श किमपि। सहसोपस्थिता लक्ष्यीःकं म विमोहयेत्? व्यचिन्तयञ्च अयं तावत् राजा विशृङ्खलः अस्यच कार्य्यचिन्तया स्वधर्म्मो xxविनश्यति तस्मात् तं शकटाल सहान गरे स एव बहूनि कार्याणि xxx, तxxxहानि र्न भवेत् मयि स्थिते च स विरुद्धंxxxराजनि कर्त्तुं न शक्नुयादिति निश्चित्य नृपानु रूपतः समुद्धृतः शकटालः। मृदवोत्तिद्विजातxxxशकटाला पुनर्मन्त्रिपदमारूढ़ः मद्दशवर्ती दुर्जयो़xxxऽयंस्थितं वररुचाविति कालं प्रतीक्षितु माश्रित र्मदिच्छयेत राजकार्य्याणि सर्वाण्यकरोत्

अथैकदा योगनन्दो बहिर्नगरात् निर्गतः गङ्गायां संश्लिष्ट पञ्चाङ्गुलिं हस्तमेकं ददर्श, पप्रच्छ च किमेतदिति मामाह्वयतत्क्षणम्। अहञ्च तस्यां दिशि द्वे निजाङ्गल्यौ दर्शितवान्। तेन च तस्मिन् तिरोभूते हस्ते राजा अतिविस्मयात् पुनर्मांअपृच्छत् अहमब्रुवं राजन् ! पञ्चभिर्मिलितैः किं न साध्यते जगतीति हस्तोऽसौ सङ्केतितवान् स्वाङ्गुलीः पञ्च दर्शयन्। ततश्च मया अङ्गलिद्वये दर्शिते एकचित्ते सति द्वयोरपि किमसाध्यमिति गूढ़विज्ञाने उक्ते नृपः परं सन्तोषमवाप शकटालस्तु वीक्ष्यमद्बुद्धिमतिदुर्जयां विषादम्।

कदाचित् योगनन्दः स्वमहिर्षींवातायनाग्रादुन्मुखं ब्राह्मणमतिथिमेकं पृच्छन्तीं दृष्ट्वैव सहसा कोपपराधीनचेतास्तस्य विप्रस्य बधदण्डदिशत्। ईर्षा हि विवेकनाविनी। तस्मिन् बध्यभूमिं नीयमाने द्विजातो तदानींगतजीवोऽपि कश्चित् विपणिस्थः मत्स्योऽहसत्। राजा तु तद्दृष्ट्वा विप्रस्य तस्य बधं न्यवारयत् अपृच्छञ्च मां मत्स्यहास्य हेतुम्। निरूप्यैतत् कथयामीत्युक्त्वानिर्गतं मामेकान्ते चिन्तितोपस्थिता सरस्वती न्यगादीत् अस्य तालतरोः पृष्ठे रजन्या अलक्षितस्तिष्ठ अत्रैव मत्स्यहासकारणमसंशयं श्रोष्यसीति। तदाकर्ण्याहं निशि तत्र तालतरोः पृष्ठे स्थितोऽपश्यमेकां राक्षसीं घोरां समागतां बालपुत्रपरिवृताम्। सा भक्ष्यं याचमानान् पुत्रानाह प्रतीक्षन्तां तावत् प्रातर्वो विप्रमांसानि दास्यामि नाव हतः स इति कस्मान्नाद्यहतो

ऽसाविति तैः पृष्टा सा पुनरब्रवीत् तंदृष्ट्वा इह कश्चित्मृतो मत्स्योजहासेति। कथं तेन हसितमिति पुनस्तैःपृष्ठे राक्षसी अवदत्। राज्ञोऽस्य सर्वाश्च राक्षसो हि विप्लुताः सर्वत्रान्तःपुरेऽस्य स्त्रीरूपाः पुरुषाः स्थिताः, अनपराधस्तु विप्रो हन्यत इति हसति स्म तिमिः। तदेतदाकर्ण्य ततोऽपक्रान्तः प्रातः सर्वं मत्स्यहासहेतुं राज्ञेन्यवेदयम्। राजा च अन्तःपुरेषु स्त्रीरूपान् तान् पुरुषान् दृष्ट्वा मां बहु अमन्यत मुमोच च विप्रं बधदण्डात्। इत्येवमादि तस्य विचेष्टितंनृपतेराकलय्य भृशं विद्यमाने मयि कश्चिदभिनवश्चित्रकारः समाययौ अलिखञ्च पटे योगनन्दं महादेवीञ्च। चित्रञ्च सत् सजीवमेव केवलं वाक्चेष्टारहितमभूत्। राजा च चित्रकरं परितुष्टः पारितोषिकदानेन समतोषयत् स्थापयच्च तं चित्रपटं वासगृहभित्तौ।

अथ कदाचित् तत्र वासगृहे प्रविष्टोऽहमपूर्णलक्षणामिव महादेवीप्रतिकृतिं मन्यमानः प्रतिभावशात् देहलक्षणानि पर्य्यालोचयन् तन्मेखलापदे तिलकं दत्त्वा ताञ्च सम्पूर्णलक्षणां ज्ञात्वानिरगाम्। योगनन्दश्चप्रविष्टस्तत्र तिलकं अभिनवविन्यस्तं व्यलोकयन् केनायं रचितइति अन्तःपुरचारिणोऽपृच्छत् ते च तिलकस्य कर्त्तारं मां न्यवेदयन्।

राजाचिन्तयत् देव्या गुप्तप्रदेशस्थमिमं नान्यो मा मृते वेत्ति, तदेवं वररुचिः कथं ज्ञातवान्? नूनमनेनकुत्रमागच्छता अन्तःपुरं मे दूषितं अतएवायं अन्तःपुरस्थान्

स्त्रीरूपान् नरान् अद्राक्षीत्। भवत्यपाये हि परिमोहिनी मतिः। एवं सञ्चिन्त्य योगनन्दः क्रुधा ज्वलन् शकटालमेकान्ते समाहूय स्वैरं समादिशत् बध्यतामयं दुराचारो वररुचिरिति। शकटालस्तु तथेत्युक्त्वावहिरगमत् अचिन्तयञ्च नैव शक्तिर्वररुचिं हन्तुं दिव्यप्रभावसम्पन्न एषः उद्धृतवांश्च मामापदः विशेषतो विप्रः तदेनं गुप्तं सम्प्रति स्वीकरोमीति निश्चित्य मामभ्येत्य अब्रवीत्। राज्ञः कोपकारणमकारणं त्वयि सम्प्रति सञ्जातं तदन्यंकञ्चित् प्रवादाय हन्मित्वञ्च मदुगृहे निभृतं तिष्ठ रक्षामित्वां कोपनात् नृपात् इति। अहञ्च तद्वचनात् तद्गृहे निभृतोऽतिष्ठम्। स च रजन्यां मद्बधाख्यानाय अन्यं कञ्चित् हत्वा राज्ञेव्यजिज्ञपयत्। एवं प्रयुक्तनीतिं तमहं प्रीत्या समब्रुवं त्वमेवैको मन्त्री योग्यः यन्मां हन्तुं न त्वया मतिः कृता। न हि केनापि हन्तुमहं शक्यते राक्षसो मित्रमस्ति मे ध्यातमात्रः स समागत्य विश्वं ग्रसते मदिच्छया। राजायमिन्द्रदत्ताभिधः सखा मे अवध्यः द्विजातिः। तदाकर्ण्यमन्त्री अब्रवीत् राक्षसोऽयं मे दर्श्यतामिति ततो ध्यातमात्रमागतं रक्षोऽहमदर्शयं तस्मै। तद्दर्शनाच्च वित्रस्तो विस्मितश्च सः। अन्तर्हिते तस्मिन् रजनीचरे मामब्रवीत् कथं ते राक्षसोमित्रमभूदिति। अहमब्रुवं पूर्वं नगररक्षार्थं भ्रमन् एकैको नगराधिपः प्रतिरात्रंक्षयंप्रापदिति श्रुत्वा योगनन्दो मां नगराधिपमकरोत् अहञ्च तदादिष्टो भ्रमन्नपश्यं निशि तस्यां भ्रमन्तंराक्षसम्। स मामवदत् ब्रूहि नगरेऽत्र का सुरूपा महिलेति श्रुत्वैतदहं विह-

स्यावादिषं मूर्ख ! या यस्य अभिमता सा तस्य सुरूपा भवेदिति। तदाकर्ण्यैवत्वयैकेन जितोऽस्मीति स मामवदत्। प्रश्नोत्तराच्च बधोत्तीर्णं मां पुनरसावब्रवीत् तुष्टोऽस्मि ते सुहृदहं स्मृतश्च त्वत्सकाशे आगमिष्यामीत्युक्त्वा अन्तर्हिते तस्मिन् यथागतमहमगाम्। तदेवमापत्सहायोऽयं राक्षसो मे मित्रमिति। समनन्तरञ्च शकटालेन अभ्यर्थितस्तस्मै गङ्गां मूर्तिमतोचिन्तितोपस्थितामदर्शयम्। अथ स्तुतिभिः समाराविता सा तत्क्षणमेव तिरोदधे शकटालश्च मयि प्रणतः सहायश्चाभवत्।

एकदा स मन्त्री निभृतस्थं खिन्नंमामवादीत् सखे ! सर्वोऽपि त्वं किमर्थमात्मानं खेदयसि, किं न ज्ञायते राज्ञामविवेकजन्या मतिः अचिराच्च यथा शुद्धिर्भवेत्तथात्र कथां शृणु। पुरा अस्मिन्नेव नगरे आदित्यवर्म्मानाम आसीत् कश्चित् नरपतिः तस्य च शिववर्म्मा नाम महामतिर्मन्त्री बभूव। एकदा तस्य काचिन्महिषी गर्भमधत्त तदालोक्य राजा अन्तःपुरचारिण्योऽपृच्छत् वर्षद्वयाात्पूर्वमत्रान्तरः पुरे मया प्रविष्ट कथमेषा गर्भसम्भूति? ते ऊचुः प्रभो ! नास्त्यत्र कस्यापि पुंसः प्रवेशो विना शिववर्म्माणं मन्त्रिणं स एवात्र अनिवारितः प्रविशतीति श्रुत्वैतदचिन्तयन्नरपतिः नूनं स एव मे द्रोही तस्मिंश्च प्रकाशं निहते अपवादो भवेत् इति विचार्य्य सामन्तस्य भोगवर्म्मणः सख्युःसकाशे तं शिववर्म्माणंप्राहिणोत् तद्बधाय च सन्दिश्य निगूढ़ंकञ्चित् लेखहरञ्च। अथ याते मन्त्रिणि सप्ताहात् परं केनचित् स्त्रीरूपिणापुंसा

सह पलायिता रक्षिभिर्निरुध्य राज्ञेदत्ता। तद् दृष्ट्वा आदित्यवर्म्मा भृशमनुतप्तः विललाप किमहं तादृशं मन्त्रिणमकारणात् घातितवानिति। अवान्तरे शिववर्म्मालेखहरश्च भोगवर्म्मणःसकाशमगात्। स चंलेखं वाचयित्वा शिववर्म्मणेबधनिर्देशं दैवायत्तंशशंस। शिववर्म्माच तं सामन्तमुवाच व्यापादव मां सत्वरं नो चेदात्मनैवात्मानं निहन्मि। तदाकर्ण्य विस्मितो भोगवर्म्माप्राह किमेतत् विप्र ! कारणमस्य ब्रूहि शापितोऽसि मया। अथाह मन्त्री भूपते ! यत्राहं हन्यते तत्र द्वादशवर्षाणि न वर्षति देवो देवराट्। तच्छ्रुत्वा भोगवर्म्मामन्त्रिभिः सा व्यचिन्तयत् दुष्टः स राजा अस्माकं देशमुत्सादयितुमिच्छति, ते चकिं निभृतघातकाः न सन्ति ? तस्मादेष मन्त्री न हन्तव्यः प्राणात्ययेऽपि रक्षणीय इति सम्मन्त्र्यभोगवर्म्मणा वहून् रक्षकान् दत्त्वा शिववर्म्मादेशात्तस्मात्तक्षणादेव विसर्जितः। एवं स्वबुद्ध्यास जीवन् मन्त्री प्रत्यागतः। शुद्धिश्चतस्य अन्यतो जाता। न हि धर्म्मस्यव्यतिक्रमः कदाचिदपि भवेदिति।

इत्थं तवापि शुद्धिः स्यात् तिष्ठ तावन्मम गृहे कात्यायन ! अवश्यमेव नृपतिरनुतापं गमिष्यति। इत्युक्तः शकटालेन छन्नोऽहं तस्य वेश्मनि अवसरं प्रतीक्षमाणोऽतिष्ठम्।

काणभूते ! अथ कदाचित् तस्य योगनन्दस्य पुत्री मृगयार्थमगात्।अश्ववेगात्अतिदूरं प्रस्थितस्य

एकाकिनस्तस्य तस्मिन्नेव वने वासरः क्षयमगात। ततस्तां निशां गमयितुं यावद् वृक्षमेकं आरोहति स्म तावत्सिंहेन भीषितः कश्चित् ऋक्षस्तत्र समाययौ। स तु राजपुत्रं तं भीतं दृष्ट्वा मनुष्य वाचा अवादीत् त्वं मे मित्रमसि मा भैषीरिति। अथ विश्रम्भात् राजसूनुर्भल्लूकेन दत्ताभयः सुष्वाप ऋक्षस्तुजजागार। तदाह अधःस्थः सिंहोऽब्रवीत् ऋक्ष ! मानुषमेतं मे देहि गच्छाम्यहं मा ते भयमस्तु। ऋक्षोऽवादीत् पाप ! न मित्रं घातयाम्यहम्। अथ पर्य्यायेण ऋक्षे प्रसुप्ते जाग्रति च राजसुते सिंहोऽवदत् मानुष ! ऋक्षमेत मे क्षिप। तच्छ्रुत्वा आत्मभयात् परित्राणाय सिंहाय प्रक्षिप्तोऽपि तेन ऋक्षराजः नापतत् चित्रमिदं दैवमिति आपन्मुक्तश्च अशाप्सीत मित्रद्रोहिन् ! उन्मत्तोभव इति। अथ स राजतनयः स्वबलपरिवृतः स्वंनगरमागतः प्रातरेव उन्मादवानभूत्। योगनन्दश्च तद्दृष्ट्वा विषादं परमगमत् अगदञ्च कालेऽस्मिन् जीवेद् वररुचिश्चेत्तदा स एव एतत् सर्वमज्ञास्यत् धिक् मां तद्बधकारिणम्। तच्छ्रुत्वा शकटालो व्यचिन्तयत्अयमस्य कात्यायनस्य प्रकाशनावसरः। मानी च सोऽत्र कदापि तिष्ठेत् राजा च मयि विश्वसेत् इत्यालोच्य सोऽब्रवीत् राजन् ! यदि अभयं दीयते तदा विषादेनालं जीवति वररुचिः योगनन्दोऽब्रवीत् द्रुतमानीयतामसौ। अहं शकटालेन तत् क्षणादेव योगनन्दसकाशमुपनीतः तथाभूतंंराजपुत्रं व्यलोकयन्। मित्रद्रोही अयं तत् फलमनुभवतीति मया यथायथं वनवृ-

त्तान्तः सरस्वती प्रसादेन वर्णितः। ततश्च तस्मात् शापात् विमुक्तेन राजपुत्रेणाहं स्तुतः। पृष्टश्च राज्ञा कथमेतत् जातमिति। ततोऽहमवादिषं राजन् ! लक्षणैरनुमानेन प्रतिभानेन च किं हि प्रज्ञावतामगोचरम् ? तद् यथा राज्ञयास्तिलको ज्ञातःतथा सर्वमिदं मया ज्ञायते इति मद्वचनात् राजा लज्जया अनुतापेन च मलिनवदनोऽभवत् अददच्चप्रभूतं सत्कारम्। अहन्तु तमनादृत्य परिशुद्धिमेव लाभं मन्यमानः स्वगृहमगमम्। शीलं हि विदुषां धनम्। गृहमागते च मयि मत् पुरतः सर्वं एव जनोऽरोदत् आगत्य च समुद्भ्रान्तंमामब्रवीदुपवर्षः। राज्ञाुहतं त्वां श्रुत्वाउपकोशा ज्वलनमाविवेश जनन्याश्चते शुचा हृदयमस्फुटत्। श्रत्वैतत् अभिनवशोकावेगविक्लवः सद्य एव वातरुग्नइव द्रुमः क्षितावपतम्। क्षणेन च संज्ञांप्राप्य बहु व्यलपम्। प्रियबन्धविनाशाग्निः कं न तापयेत्?वर्षेण चागत्य संसारस्यानित्यतामुपदर्शयता कथञ्चित् प्रबोधितोऽहं धृतिमाप्तवान् आश्रितवांश्च सर्वं परित्यज्य विरक्तहृदयः प्रशमैकसमाश्रयस्तपोवनम्।

गच्छता कालेन कदाचित् कश्चित्विप्रः अयोध्यातस्तपोवनं मम समागच्छत्। मया तु योगनन्दस्य राज्यवार्त्तामनुयुक्तः सा प्रत्यभिज्ञाय मां सशोक इव अब्रवीत् शृणुतावत् त्वयि तत् सकाशात् गते चिरेण लब्धावकाशः शकटालः चिन्तयन् तस्य बधोपायमेकदा पथि क्षितिं खनन्तं चाणक्यनामानं विप्रमद्राक्षीत्। कथं भुवं खमसीत्युक्तस्तेन सोऽब्रवीत् दर्भमुन्मूलयाम्येषः अनेन

मे पादः च क्षत इति। तदाकर्ण्य मन्त्री सहसा सकोपं क्रूरनिश्चयंतं विप्रं योगनन्दस्य बधोपायं मत्वा अवादीतब्रह्मन् ! नन्दस्य भूपतेः गृहे त्रयोदशीश्राद्धंते दापयामि तत्र दक्षिणातः सुवर्णलक्षंतव भविष्यति भोक्षसे यथेष्टमुपादेयं द्रव्यजातं, एहि तावत् गृहं ममेत्युक्त्वाशकटालस्तमानिनाय गृहम्। श्राद्धदिवसे च तं राज्ञे प्रदर्शयत् स च तं श्रद्दधे। उपाविशत् च चाणक्यः श्राद्धभोक्तुरासने। अत्रान्तरे सुबन्धुर्नाम कश्चिद् विप्रः श्राद्धभोजमैच्छत्। तदर्थं विज्ञप्तश्च भूपतिः शकटालेन प्रोवाच नापरो योग्यः सुबन्धुरेव श्राद्धधुरि तिष्ठतु। आगत्य च शकटालो भयानतः न मे कश्चिदपराध इत्युक्त्वातांराजाज्ञां चाणक्याय न्यवेदयत्। सोऽपि चण्डकोपः कोपेन ज्वलन्निव शिखां मुक्त्वा प्रत्याख्यानात् सप्तभिरेव दिवसैर्नन्दोऽयं मया हन्तव्यस्ततश्चेयंशिखा बन्धनीयेति तदाकर्ण्य कुपितो योगनन्दः। भयात् पलायमानं चाणक्यं अलक्षितशकटालः स्वगृहमनयत्। तत्र स्थितः स मन्त्रिसाहाय्येन कुत्रापि गत्वा कृत्यामसाधयत्। तत्प्रभावेण च योगनन्दः दाहज्वरमवाप्य सप्तमे दिवसे पञ्चत्वमवाप। शकटालेन च तत्सुत हिरण्यगुप्तं हत्वा पूर्वनन्दसुते चन्द्रगुप्ते लक्ष्मीर्निवेशिता। अथ प्रज्ञया वृहस्पतिमिव तंचाणक्यंतस्य मन्त्रित्वं निधाय कृतवैरप्रतिक्रियः कृतकृत्यम्मन्यः स मन्त्रीपुत्रशोकेन निर्विघ्नस्तपोवनमगात्।

इत्याकर्ण्य काणभूते! नितरां खेदमापन्नेन सर्वमेव

चञ्चलं मन्यमानेन विन्ध्यवासिनीमिमां द्रष्टुमागतेनमया तत्प्रसादात् त्वां दृष्ट्वा जातिः स्मृता उक्ताच दिव्येयं कथा दिव्यं ज्ञानमवाप्य। इदानीं विमुक्तशापोऽहं देहमिमं विहातुंयतिथे, त्वन्तु सम्प्रति तिष्ठात्र यावत् शिष्यसहितः त्यक्तभाषात्रयः गुणाढ्यनामा विप्रस्त्वत्सकाशमायाति सोऽपि क्रोधात् अहमिव देव्या शप्तो मत्पक्षपाती माल्यवान् नाम गणोत्तमो मर्त्यत्वमापन्नः। तस्मै महेश्वरोक्ता एषा कथा त्वया कथनीया ततस्ते तस्य चोभयोः शापनिवृत्तिर्भवितेति।

इत्थंकाणभूतये निवेद्य वररुचिर्देहमोचाक्षायवदरिकाश्रमं पुण्य जगाम।गच्छन्तं शाकासनं नाम मुनिं ददर्श, तत्समक्षञ्चतस्य मुनेः कुशेन करः क्षतः। ततश्च तस्मात् निर्गच्छत् रुधिरं तेन वररुचिना स्वप्रभावेणतदहङ्कारपरीक्षार्थं कौतुकात् शाकरसीकृतम्। दृष्ट्वा च तत् मुनिरसौ हन्त सिद्धार्थोऽस्मि इति दर्पमाययौ। ततो वररुचिः किञ्चिदुविहस्य तमवादीत् जिज्ञासार्थं मया ते रक्तंशाकरसी कृतं त्वया अपि नाहङ्कारः परिहीयतेपर ज्ञानमार्गे अहङ्कारोदुरर्पनेयःपरिघः। विना च ज्ञानं नास्त्येव मोक्षो व्रतशतैरपि, स्वर्गस्तु मुमुक्षूणां क्षबित्वात् चित्तंन प्रलोभयेत्। सुने ! तस्मादहङ्कारविहीनो ज्ञानोपार्ज्जने यतस्व। एवं तं विनीय तेन च कृतनुतिर्वररुचिः वदरिकाश्रमं प्रशान्तमाययौ। अथ स निरतिशयया भक्त्यादेवींसरण्यां शरणमुपगतो मर्त्यभावं मुमुक्षुः। सापि

शरीरिणी आविर्भूय तस्मै देहविमुक्तयेअनलसमुत्थां धारणमुपदिदेश। उपदिष्टश्च स धारणयादेहं दग्ध्वानिज दिव्यांगतिंलेभे, काणभूतिश्चविन्ध्यकानने अभीष्टगुणाढ्यसमागमं प्रतीक्षमाणस्तस्थौ।

इति पञ्चमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721785922Screenshot2024-07-24072147.png"/>

अथ षष्ठस्तरङ्गः।

अथ स माल्यवान् गुणाढ्य नामा द्विजन्मा भूत्त्वा मर्त्यवपुषा विचरन् सातवाहनाख्यंभूपतिं सेवित्वा प्रतिज्ञया तदग्रे च संस्कृतायास्तिस्रो भाषाः परित्यज्य खिन्नहृदयः विन्ध्यवासिनींद्रष्टुमाजगाम। ददर्श च देव्याश्चादेशेन गत्त्वा तत्रैव कायभूतिम्। ततो निजां जातिंस्मृत्वा सहसा प्रबुद्धः पैशाचीं भावामाश्रित्य निजं नाम श्रावयित्वाब्रवीत् सखे ! पुष्पदन्तात् श्रुतां दिव्यां कथां शीघ्रं कथय येन त्वं च अहं न समं शापं तरियाव इति तदाकर्ण्य प्रणतो हृष्टश्चकाणभूतिरुवाच कथयामि कथां परं कौतुकं मे महत् तदीयमाजन्महवृत्तं श्रोतुं तत्कथनेन मामनुगृहाण। इत्येवमर्थितः स गुणाढ्यःवक्तुमारभे।

अस्ति सुप्रतिष्ठितं नाम नगरम्। तत्रासीत् सोमशर्म्मा नाम कश्चित् द्विजातिः। वत्स गुल्मकौनाम तस्य द्वौतनयौ, श्रुतार्था नाम कान्यकाच। अथ कालेन सः ब्राह्मणः सभार्य्यःपञ्चतामगमत्। पुत्रौ च तौ स्वसारं

तां पालयामासतुः। अकस्माच्चसा सगर्भा अभूत् तत् दृष्ट्वा तयोस्तत्र पुरुषान्तराभावात् परस्परं शङ्का समजनि। ततः श्रुतार्थोतयोश्चित्तज्ञा अभाषत, भ्रातरौ ! पापशङ्का न कार्य्याश्रूयतां कथयामि अस्ति नागराजस्य वासुकेः भ्रातुः पुत्रः कुमारः कीर्त्तिसेनो नाम, तेनाहं दृष्टा कदाचित् स्नातु गता। ततः स मदनासक्तचेताः अन्वयनामनी निवेद्य गान्धर्वेण विवाहेन मां भार्य्यामकरोत्। अथ कोऽत्र प्रत्यय इति ताभ्यामुक्ता सा रहसि तं नागकुमारं सस्मार। स्मृतमात्रागतश्च स वत्सगुल्मौअभाषत, मयैवेयं भार्य्या कृता शापभ्रष्टा चेयं सुरसुन्दरी युवयोः स्वसा युवाञ्च शापभ्रष्टौ। अस्याश्च पुत्रो जनिष्यते ततो युष्माकं शापविमुक्तिर्भवितेति। उक्ता सोऽन्तर्हितः। ततश्चाल्पैरेवाहोभिः श्रुतार्थायाः पुत्रो जातः तमेव मां जानीहि। अयं गुणावतारो जात इति तदानीमुदचरदन्तरीक्षात्अशरीरिणी सरस्वतीति बान्धवा मां गुणाढ्यनामानमाहुः। मदीयेन च जन्मना ते मम जननीमातुलाः क्षीणशापाः कालेन पञ्चतां गताः। अहञ्च शोकार्त्ता नितरामधीरतां गतः।

अथ अहं शोकमुत्सृज्य बालोऽपि विद्यालाभाय दक्षिणापथमगमम्। कालेन तत्राधिगतसर्वविद्यः प्रसिद्धिं गतः निजगुणख्यापनाय स्वदेशमागतस्तत्र सुप्रतिष्ठितनगरे सशिष्यः प्रविशन् कामपि शोभामपश्यम्। क्वचित् छन्दोगाः सामानि गायन्ति क्वचिद् वेदनिर्णयार्थं विप्राणां वादः परस्परंजिगीषूणाम्। यश्चद्यूतकला

भिज्ञः तस्यैव हस्तगतो निधिरिति क्वचित् कितवा द्यूतमस्तुवन्। क्वचिच्च वणिजामन्योन्यं वाणिज्यकौशलं कीर्त्तयतामेकः ब्रवीति स्म परिमिताचारी अर्थैरर्थान् प्राप्नोतीति किं चित्रं अहन्तु विनैवार्थं लक्ष्मीमासादितवान्। गर्भस्थेएव मयि पिता मम पञ्चत्वमाप पापैश्चमद्गोत्रजैस्तदा मम मातुः सर्वं धनं हृतम्। ततः सातेषां भयात् माता गर्भं रक्षन्ती कुमारदत्तस्य पितृमित्रस्य भवनं गत्वा अतिष्ठत्। ततश्चाऽहं तस्याः सञ्जातः। कृच्छ्राच्च मज्जननी कृच्छ्रकर्माणि कुर्व्वती मामवर्द्धयत्। अथ दीनया मात्रा कमपि उपध्यायमभ्यर्थ्यअहं तत् सकाशे अर्पितः। शिक्षितश्च तेनाहं लिपिं किञ्चित् गणितञ्च। अथ मात्राभिहितं वत्स ! वणिक्पुत्रोऽसि, साम्प्रतं वाणिज्यं कुरु अस्मिन् देशे विशाखिल नामा कश्चित् महाधनो वणिगस्ति स दरिद्राणां कुलीनानां मूलधनं ददाति गच्छ याचस्व तमिति। ततश्चाहं तत्सकाशमगच्छम्। सोऽपि तत्क्षणं क्रोधाविष्टः कञ्चित् वणिक्पुत्रमवोचत् मूषको दृश्यते योऽयं गतप्राणः, अनेनापि पण्येन कुशलेन धनमर्ज्यते, पाप ! तव तु बहवो दीनारा मया दत्ताः तिष्ठतु तावत् तद्वृद्धिस्त्वया तेऽपि न रचिताः। तदाकर्ण्यसहसैवाब्रुवंतं विशाखिलम्। मयाऽयं मूषकस्त्वत्तो भाण्डमूल्याय गृहीत इति उक्त्वामूषकं हस्ते कृत्य सम्पुटे चास्य तं लिखित्वा प्रस्थितः दृष्ट्वा सोऽहसद् वणिक्। गत्वा च मया कस्यचित् वणिजः मार्जारस्य कृते चणकमुष्टियुग्मेन मूल्येन सः विक्रीतः। तांश्च चणकान् पिष्टान् कृत्वा गृहीत्वा च जलकुम्भं नगराद् बहिः

चत्वरे गत्वा अतिष्ठम्। तत्र श्रान्तागताय काष्ठभारिकसङ्घाय सप्रश्रयं तान् चणकचूर्णान् शीतलं सलिलञ्च प्रदाम् ते च काष्ठिकाः प्रत्येकं द्वे द्वेकाष्ठे मम ददुः। तानि नीत्वा आपणे विक्रीय तन्मूल्येन च कियता पुनश्चाणकान् क्रीत्वा तथैवापरेद्युःकाष्ठिकेभ्यः सादरमदां आहरञ्च तेभ्यः बहूनि काष्ठानि। एवं प्रतिदिनं कृत्वा क्रमान्मूल्यं प्राप्य काष्ठिकेभ्यस्तेभ्यः निखिलं दारुजातं क्रीतं दिनत्रयेण। अकस्मात् अतिवृष्ट्या मया तत् दारुजातं बहुभिः पणशतैः विक्रीतम्। क्रमेण तेनैव धनेन, निजकौशलात् विपणिं कृत्वा वाणिज्य कुर्वन् क्रमशः महाधनः संवृत्तोऽस्मि। अथ मया सौवर्णो मूषकस्तस्मैविशाखिलाय प्रत्यर्पितः सोऽपि सर्वमाकर्ण्य वृत्तान्तं मह्यंकन्यामदात्। ततः प्रभृति मूषकाख्ययाहं प्रसिद्धः। तदेवं निर्धनेनाऽपि लक्ष्मीरुपार्जितेति। तदाकर्ण्य वणिजस्ते सविस्मया अभूवन्।

क्वचिच्च छान्दसं कञ्चित् विप्रं प्रतिग्रहेण लब्धसुवर्णमाषाष्टकंकश्चित् विटः प्राह ब्रह्मन् ! ब्राह्मण्येन ते भोजनं तावत् अनायासेन लभ्यं तदेतेन सुवर्णेन लोकयात्राज्ञानार्थं वैदग्धींशिक्षस्वेति। को मां शिक्षयतीत्युक्तेतेन सोऽब्रवीत् यैषा चतुरिका नाम वारविलासिनी अस्ति अस्याः सकाशं व्रजेति। तत्र किं करणीयमिति तेन पुनरभिहिते सोऽवदत् विप्र ! तस्यै स्वर्णं दत्त्वा तां सामवादेन अनुरञ्जयेति। श्रुत्वैतत् छन्दोगश्चतुरिकागृहमगात्। प्रविश्य च तत्र तथा कृतयथोचितसमादरः

मामद्य लोकयात्रां यथोचितां शिक्षय गृहाणैतत् सुवर्णमिति कथयित्वा तस्यै सुवर्णमर्पितवान् अथ तत्रत्ये जने हसति स किञ्चित् विमृष्य यावत् तारस्वरं साम गायति स्म तावत् तत्र बहवो विटास्तद्दर्शनकौतुकाक्षिप्तचेतसः सम्मिलन्ति स्म अवोचंश्च कुतोऽत्र शृगालोऽयं प्रविष्टः शीघ्रमयं अर्द्धचन्द्रं दत्त्वा निःसार्य्यतामिति। स तु अर्द्धचन्द्रं शरं मत्वा शिक्षिता मया लोकयात्रेति वदन् शिरश्छेदभयात् द्रुतं निर्जगाम। अगच्छच्चतत्सकाशंयेनासौप्रेषित इति। विदितवृत्तान्तश्च सोऽभ्यभाषत मया यत् सामेति उक्त तस्यार्थः सान्तं वेदस्यावसरोऽत्र कुतः। विहस्य च वारविलासिनी मामभ्येत्य प्रोवाच द्विपदस्य पशोरस्य सुवर्णं तृणवत् त्यज।तया च हसन्त्या तत् त्यक्तंसुवर्णं प्राप्य द्विजोऽसैा पुनर्जातमिवात्मानं मन्यमानो गृहमगात्।

काणभूते ! एवं रूपाणि कौतुकानि पश्यत् पदे पदे महेन्द्र सदनोपमं राजभवनमावशम्। तत्र च शिष्यैः परिवृतः प्रविश्य सिंहासनस्थंसातवाहनं नाम राजानमपश्यम्। विहिताशिषं राजाज्ञया कृतासनपरिग्रहं समाहतञ्च मां शर्ववर्म्मप्रभृतयोऽमात्या अस्तुवन् देव ! अयं गुणाढ्योनाम सर्वविद्याविशारदः भुवि ख्यातो यथार्थनामा पण्डितवर इति एवं स्तुतं तैः मन्त्रिभिर्मां प्रीतो नृपतिः सत्कृत्य मन्त्रिपदे नियुक्तवान्। अहञ्च तत्र राजकार्याणि कुर्वन् यथासमयं शिष्यांश्च पाठयन् कृतदारपरिग्रहः यथामुखमध्यवसम्।

राज्ञयावमानित इति श्रूयते तदेतदेव वैमनस्यकारणमिति मन्ये। एवं परस्परमालोच्य रात्रिञ्च तां कथञ्चिदतिवाह्य प्रातः राजगृहमगच्छावः।तत्र सर्वस्य गतिरोधेऽपि कथमपि अहं पश्चाच्च मम शर्ववर्म्माप्राविशम्। प्रविष्टश्चोपविश्यान्तिके नृपमवादिषं देव ! अकस्मात् कथमेव दुर्मना वर्त्तसे ? श्रुत्वापि स तथैव तुष्णीमासीत्। अब्रवीत् देव ! पूर्वं त्वयोक्तं मां श्रुतिमन्तं तेनाहमद्य निशि स्वप्नमाणवकं कृतवान्। स्वप्नो च दृष्टमेकमम्बुजंनभसश्च्युतं दिव्येन केनापि कुमारेण विकासितम्। तस्माच्चदिव्या श्वेताम्बरा कापि कामिनी निरगात् प्राविशच्च देव ! तव वदनकमलम्। ततश्चाहं प्रबुद्धोऽस्मि मन्ये च सा सरस्वती साक्षात् नात्र संशयः। एवं स्वप्नेनिवेदिते सातवाहनः मौनमुत्सृज्य साकूतं मामवदत् प्रयत्नेन विश्यमाणः पुरुषः कियता कालेन पाण्डित्यमधिगच्छति त्वयैनॄत् कथ्यताम्। मम तेन विना लक्ष्मीर्न प्रतिभाति विभवैः किं मूर्खस्य काष्ठस्याभरणैरिवेति ततोऽहमवदम् राजन्। द्वादशभिर्वर्षैः सर्वविद्यानां मुखं व्याकरणमधिगम्यते नरैः।अहं तु तत् वर्षषट्केन त्वां शिक्षयामि।श्रुत्वैतत् शर्ववर्म्मासेर्ष्यमवोचत् सुखोचितो जनः कथमियच्चिरं क्लेशं कुर्य्यात्, अहन्तु देव ! मासषट्केन त्वां शिक्षयामि। श्रुत्वैतदसम्भाव्यमिदंतं सरोषमब्रुवंषड्भिर्मासैस्त्वया नृपतिः शिक्षितश्चेत्तदा मया सं-

स्कृतं प्राकृतं देशभाषाञ्चेति वयं मनुष्यलोक स्थितंत्यज्यते। शर्ववर्मा अब्रवीत् न चेत् अहं शिक्षयितुं शक्नुयां तदा द्वादशाब्दान् ते पादुके शिरसा वक्ष्यामि। इत्यक्त्वानिर्गते तस्मिन् अहमपि गृहमगमम्। राजापि सिद्धिं मन्वानः स्वस्थो बभूव। शर्ववर्मा च विहस्तः प्रतिज्ञां तां सुदुस्तरां मन्यमानः सानुशयः स्वभार्य्यायै सर्वं वृत्तंशशंस। सा च दुःखिता अब्रवीत् प्रभो ! शङ्कटेऽस्मिन् विना स्वामिकुमारेण नान्या गतिर्विद्यते। शर्ववर्मापि तथेति तामुक्त्वातस्यामेव निशि पश्चिमे यामे तत्रैव प्रथितो निराहारश्चाभवत्। तच्चचारमुखादाकर्ण्यप्रातर्मया राज्ञेनिवदितं,सोऽपि किं भवेदित्यचिन्तयत्।ततश्चसिंहगुप्तो नाम राजपुत्रोऽब्रवीत् देव! त्वयि खिन्नेतदा मे महान् निर्वेदः समभवत्। निर्विघ्नश्चभवतः श्रयसे नगरादस्मात् बहिः चण्डिकायाः सकाशेनिजं शिरः छेत्तुमारब्धवानस्मि तदा च आकाशचरी वाणीमैवं कथा नृपस्य मनोरथः सेत्स्यतीति मां न्यवारयत् तस्मात् मन्ये ते सिद्धिर्भवेदिति एवमुक्त्वासिंहगुप्तः नृपमामन्त्रय शर्ववर्म्मणःपश्चात् चारद्वयं व्यसर्जयत्। सोऽपि शर्ववर्मा वायुभक्षःकृतमौनोदृढ़निश्चयःस्वामिकुमारस्यान्तिकमाससाद। तत्र शरीरनिरपेक्षस्तपश्चरन् कार्त्तिकेयं प्रसादयामास। प्रसन्नश्चस तस्मै स्वाभीप्सितं वरमदात्। ताभ्याञ्चचाराभ्यामागत्य पूर्वं शर्ववर्म्मणःसिद्धिः राज्ञे निवेदिता तच्छ्रुत्वा मम राज्ञा चसमं विषादप्रमोदौ मेवमालोक्य हंसचातकयोरिव

समभूताम्। आगत्य च शर्ववर्म्मासिद्धिमान् राज्ञेचिन्तितोपस्थिताः सर्वा एव विद्याः प्रदत्तवान्। क्षणेन तस्य ताः प्रादुरासन्भूपतेः किमसाध्यं हि देवसिद्धेः? अथ राज्ञः सकलविद्याधिगममाकर्ण्यसर्व एव जनः प्रमुदितः महोत्सवश्च तत्राभवत्, समन्तात् पताका उदक्षिपन् राजानुजीविनः। अथ नृपतिना प्रणतेन गुरुरिति कृत्वा राजार्हरत्ननिचयैः शर्ववर्म्माअर्चितः कृतश्च वककच्छाख्येजनपदे नर्मदाकूलवर्त्तिनि अधिपतिः। यश्चाग्रे चारमुखेन षण्मुख वरप्राप्ति श्रावयामास तमापि सिंहगुप्तं सन्तुष्य श्रिया आत्मसममकरोत् अभ्यषेचयच्च प्रणयेन तां विष्णुशक्तितनयां विद्यागमहेतुभूतां देवीनामुपरि महादेवी पदे।

इति षष्ठस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721785922Screenshot2024-07-24072147.png"/>

अथ सप्तमस्तरङ्गः।

ततो गृहीतमौनोऽहं राजसकाशमगाम्। तत्र च कश्चिद् द्विजः स्वयं कृतं श्लोकमपठत् राजा च स्वयं संस्कृतया गिरा तं सम्यक् उच्चचार। तदालोक्य तत्रस्थो जनः सर्व एव मुदितोऽभवत् राजा च तदा सविनयं शर्ववर्म्मणमुवाच कथय स्वयं देवेन यथा ते अनुग्रहः कृतः इति। तदाकर्ण्य सोऽब्रवीत् राजन् ! इतः निराहारो मौनी सन् अहं प्रस्थितः। ततोऽतिविमनाः तीव्रेण तपसा

शीर्णकलेवरः क्लान्तः कदाचित् निःसंज्ञोधरातले अपतम्। ततश्चशक्तिहस्तः कश्चित् पुमान् अभ्यत्य उतिष्ठ पुत्र ! सेत्स्येति ते मनोरथ इति स्फुटं मामब्रवीत्। तेन च वचसाअमृतेनाभिषिक्त इव तत्क्षणं प्रबुद्धः क्षुत्पिपासारहितः स्वस्थश्चाभवम्। अथ नितरां भक्तिमान् देवसमीपे स्नात्वाउन्मनाः गर्भगृहं प्रविष्टः साक्षात् देवमहं दृष्टवान् प्रविष्टा च तदैव मन्मुखे सरस्वती। अथासौ भगवान् षड्भिरेव वदनपङ्कजैः सिद्धो वर्णसमाम्नाय इति सूत्रमुदैरयत्। श्रुत्वैवच मानुषतासुलभाच्चापलादहमपि उत्तरं सूत्रमभ्यूह्य स्वयमुदितवान्। अथावदत् स देवः यदि त्वं स्वयमेतत् नावदिष्यः तदा इदं शास्त्रं पाणिनीयोपमर्दकमभविष्यत्XX स्वल्पतन्त्रत्वात् कातन्त्राभिधं भविता मद्वाहनकलापस्य च नाम्ना कालापञ्च। इत्येवं शब्दशास्त्रमभिनवं प्रकाश्य स देवः पुनरब्रवीत् युष्माकं राजाऽपि पूर्वजन्मनि भरद्वाजशिष्यः कृष्णो नाम महातपाः ऋषिरासीत्। स कदाचित् कामपि ऋषिकन्यकां सकामां आलोक्य कामशरलक्ष्यतामगात् ततश्चासौ मुनिभिः शप्तो मर्त्यलोकमागत्य राजा अभूत् सा च ऋषिकन्या अस्यैव देवी भूत्वा अवतीर्णा। इत्थमयं राजा सातवाहनः ऋषेरवतारः त्वयि दृष्टं सर्वा विद्यास्त्वदिच्छया अवाप्स्यति। जन्मान्तरार्जिताः सिद्धयः महात्मनामक्लेशसाध्या भवन्ति इत्युक्त्वा देवे अन्तर्हिते अहं बहिर्निरगां तत्र च देवोपजीविभिः

मे तण्डुलाच्च कतिपये प्रदत्ताः चित्रमिदं ते च पथि आगच्छता मया भुज्यमाना अपि तावन्त एवामन्। एवं स्ववृत्तान्तमाख्याय शर्ववर्म्मणि विरते राजा प्रमुदितः स्नातुमुदतिष्ठत्।

ततोऽहं कृतमौनतया व्यवहाराक्षमः अनिच्छन्तमपि भूपतिं प्रणामेनामन्त्रयशिष्यद्वयसमन्वितः नगरान्निर्गच्छन् तपसे कृतनिश्चयः बिन्ध्यवासिनीं द्रष्टुमागतः। देव्याश्च स्वप्नादेशेन प्रेषितस्त्वां द्रष्टुं भीषणामिमां बिध्याटवीं प्रविशन् पुलिन्दवाक्यात् कथञ्चन सार्थं प्राप्य इह प्राप्तोऽहं बहन् एतान् पिशाचान् अपश्यम्। दूराच्च एषामन्योन्यभाषामाकर्ण्य शिक्षिता पिशाचभाषा मम मौनंमोक्षस्य हेतुः। ततश्च त्वामुज्जयिनीगतसुपलभ्य प्रतीक्षमाणोऽत्रैवनिवसामि। इदानीं दृष्ट्यैव त्वां स्वागतं चतुर्थ्यभूतभाषया मया जातिः स्मृता,तदेष मे जन्मवृत्तान्त इति।

गुणढ्येन एवमुक्त्वेकाणभूतिरवादीत् अद्य निशि यथा त्वदागमो मया ज्ञातस्तत्शृणु। अस्ति राक्षसो भूतिवर्म्माख्योदिव्यदृष्टिर्मम सत्ता। उज्जयिन्यां तन्निकेतनमुद्यानं गतवानस्मि तत्रासौ तन्निजशापान्तंप्रति पृष्टोऽब्रवीत् सखे ! दिवा नास्ति मे प्रभावः तिष्ठ रात्रौतावत् वक्ष्यामि। तथेति चाहं तत्र स्थितः निशायां प्राप्तायां प्रसङ्गेन निर्वतां भूतानां हर्षकारणमपृच्छम्। अथ भूतिवर्मापुरा विरिञ्चि संवादे शङ्करेण यदुक्तंतत् शृणु इत्युक्त्वाअब्रवीत् दिवा अर्कतेजसा ध्वस्तानामेषां

यक्षरक्षः पिशाचानां नैव प्रभावः, ते खलु निशि हृष्यन्ति, यत्र सुरा न पूज्यन्ते, न च विप्राः अविधिना वा भुज्यते तत्रैव एते प्रभवन्ति। यत्र अमांसाशी वा साध्वी नारी विद्यते तत्रामी न यान्ति नाक्रामन्ति च कदाचन शचीन् शूरान् प्रबुद्धांश्च जनान्। इत्युक्त्त्वापुनरवादीत् गच्छ भ्रातः ! गुणाढ्यस्तेशापापगमहेतुरागत इति श्रुत्वैवागतस्त्वां दृष्टवानस्मि, प्रभो ! अधुना पुष्पदन्तोदितां कथां ते कथयामि किन्तु मे परं कौतूहलमस्ति कथ्यतां केन हेतुना स पुष्पदन्तस्त्वञ्च माल्यवानिति विश्रूयत इति।

तच्छ्रुत्वा काणभूतिरवादीत् अस्तिगङ्गातीरे बहुसुवर्णदेश नाम अग्रहारः। तत्रासीत् गोविन्ददत्ताख्यः बहुचरः कश्चित्ब्राह्मणः। भार्य्या, चास्य अग्निहता नाम पतिपरायणा। कालेन तयोः पञ्च पुत्रा अभूवन् ते च मूर्खाः सुरूपाअभिपानिनश्च। एकदा गोविन्ददत्तस्यग्रहमतिषिरेको पेशावरोनाम वैशानर इवापरः समाययौ। तदा च गोविन्ददत्तेकार्यान्तरवशात् बहिर्याते तेन उपागत्य तत्पुत्राणामभिवादनं कर्तुंते तु हासxxxxप्रत्यभिवादनं कृतवन्तः। ततश्च स कोपात् निर्गच्छन् आगतेनगोविन्ददत्तेन पृष्टः अनुनीतश्चावदत् पुत्रास्ते पतिता मूर्खाः भवानपि तत्सम्पर्कात्। तस्मात् नाहं भोक्ष्ये।त्वद्गृहेभोजने प्रायश्चित्तार्होभवामीति।ततः गोविन्ददत्तः सशपथमुवाचनाहमेतान् कुपुत्रान् कदाचिदपि स्पृशामीति। तद्भार्य्या चागत्य अतिथिसेवापरा

अब्रवीत् तथैव। ततः कथञ्चित् तत्र वैश्वानरः, आतिथ्यमग्रहीत्। तद्दृष्ट्वा देवदत्तो नाम तस्यैकः सुतः निर्वेदमनुप्राप्तः जातानुशयः व्यर्थं मे जीवितं पितृभ्यां दूषितमित्यालोच्य तपसे वदरिकाश्रममगमत्। तत्र च पूर्वं पर्णाशनः पश्चात् धूमपश्चिरं महेश्वरं तोषयिष्यन्अतिष्ठत्। कालेन च भगवानुमापतिस्तीत्रेण तस्य तपसा भृशमाराधितस्तस्मै दर्शनं ददौ। स च तस्मात् तस्यैवानुचरत्वं वव्रे। प्रीतश्च शङ्करः विद्याः प्राप्नुहि भोगांश्च भुवि भुङ्क्ष्व तत स्वाभिमतं भवितेति तमादिशत्।अथस विद्यार्थी पाटलिपुत्रं गत्वा वेदकुम्भं नामोपाध्यायं यथाविधि सिषेवे। तत्रस्थञ्च तमुपाध्यायी सञ्जातस्मरावेगा सहसा वव्रे, चञ्चला हि स्त्रीणां चित्तवृत्तयः?देवदत्तश्चतदभिमतं गर्हितं मन्यमानस्तं दिशमुत्सृज्य प्रतिष्ठानमगच्छत्। तत्रागत्य च मन्तस्वामि नामानं वृद्धमुपाध्यायं वृद्धा भार्य्ययासमन्वितमभ्यर्थ सम्यक् विद्याः समधीतवान्। तत्र च कृतविद्यं तं सुरूपं सुशर्म्माभिधानस्य नृपतेः सुता श्रीर्नाम श्रीरिवाच्यतमेकदा ददर्श। सोऽपि तां वातायनोपरि स्थितां विहरन्तींविमानेन चन्द्राधिष्ठात्री देवतामिव कन्यां अद्राक्षीत् परस्परञ्च तौ परस्परावलोकनेन मारशृङ्खलया निवद्धाविव नापसर्त्तुं समर्थाबभूताम्।

सा तु नृपदुहिता स्म राज्ञयामूर्त्तया एकया अङ्गुल्या इतो निकटमेहीति तं समज्ञापयत्। आगच्छच्च स तत्क्षणं तत् समीपम्। सा तु तं प्रति दन्तेन पुष्प-

मादाय न्यक्षिपत्। स तु राजपुत्रीकृतां तां संज्ञामबुद्धा किं कर्त्तव्यविमूढ़ोगुरुगृहमगमत् अलुठञ्च तत्र धरण्यांन किञ्चिद् वदन्। अथोपाध्यायेन कामजमेतमाधिं प्रतर्क्य धीमता पृष्टः सर्वं यथावृत्तमकथयत्। उपाध्यायस्तु वैदग्ध्येन युक्त्या च विविच्य तमब्रवीत् वत्स! दन्तेन पुष्पं मुञ्चन्त्या तया तव यदेतत् पुष्पदन्ताभिधं पुष्पाढ्यंदेवमन्दिरमस्ति तत्रागत्य प्रतीक्षस्वेति सङ्केतः कृतः। तत् साम्प्रतंतत्रैव गम्यतामिति। तदाकर्ण्य सङ्केतज्ञानजनितहर्षोऽसौ युवा शोकं विहाय तत्रैव देवगृहस्यान्तरलक्षितोगत्वा तस्थौ। सुता च अष्टमीं समुद्दिश्य एकैव देवं द्रष्टुं गर्भागारमविशत्। प्रविशन्त्या च तया द्वारपट्टस्य पश्चात् सः प्रियः स्पृष्टः। तेन च उत्थाय सहसा सा कण्ठे गृहीता। अनन्तरञ्च तया कथं त्वया सा संज्ञा गृहीतेति कथिते स युवा उपाध्यायेन सा बोधिता, न मया विदितेति तथ्यमेव अवदत्। श्रुत्वैतत् राजपुत्री मुञ्च मामविदग्धस्त्वमित्युक्त्वा क्रुधा मन्त्रभेदभयात्तत्क्षणात् तं त्यक्त्वागृहं ययौ। सोऽपि देवदत्तः विजने हृष्टनष्टांतां प्रियां स्मरन् वियोगाग्निदग्धजीवितोऽभवत्। तदवलोक्य प्राक् प्रसन्नः शम्भुःपञ्चशिखंनाम गणं तस्याभीष्टसिद्धये समादिशत्। स तु गणोत्तमः आगत्य तं समाश्वास्य च स्त्रीवेशमकारयत् स्वयञ्च वृद्धव्राह्मणरूपधरोऽभवत्। ततश्च तेन सह तं सुशर्म्माणं नृपतिं तस्या जनकमेत्य अवादीत् राजन् ! पुत्रो मे

क्वापि प्रोषितः, तमन्वष्टमहं गच्छामि स्नुषेयं निक्षेपः सम्प्रति रक्ष्यताम्। श्रुत्वैतत् शापभयत्रस्तेन तेन भूपतिना स्वकन्यान्तःपुरे स्त्रीवेशोऽसौ युवा संस्थापितः।

अथ पञ्चशिखे प्रस्थिते कालेनासौ स्त्रीवेशोयुवा तस्याः अतिविश्रम्भभाजनमभूत्। एकदा रजन्यां समुत्सुका सा राजवाला तेनात्मानं प्रकाश्य गान्धर्व्वेणविधानेन परिणीता। क्रमेण च धृतगर्भायां तस्यां स्मृतमात्रागतोऽसौ गणोत्तमो रात्रौ तमनैषीत् विहायसा अलक्षितम्। ततश्च प्रातः स्वयं तथैव वृद्धविप्ररूपधृक् तञ्च युवानं त्यक्तस्त्रीवेशं गृहीत्वा गत्वा च नृपसमीपमभ्यधात् नरपते ! प्राप्तोऽयं मे सुतः, तदेहि मे स्नुषामिति। ततः स राजा शापभयोद्विग्नचेताः तां रात्रौ क्वापि पलायितां विदित्वा मन्त्रिभ्योऽब्रवीत् शृणतामात्याः ! न विप्रोऽयं देवो मां वञ्चयितुमागत इति मन्ये प्रायेण एवं वृतान्ताः सततं भवन्ति।

तथाहि आसीत् पुरा शिविर्नाम तपस्वी करुणापरः सुधीरः वदान्यः सर्वाभयप्रदो महासत्त्वो नरपतिः। एकदा तं वञ्चयितुं श्येनरूपी पुरन्दरः स्वयं मायाकपोतं धर्मं प्रति अनुधावन् राजान्तिकमगात्। कपोतस्तु भयात् शिवेरङ्गमुपाश्रयत्। श्येनस्तु मनुष्यवाचा राजानमब्रवीत्, देव! भक्ष्यमिमं मुञ्चकपोतं क्षुधितस्य मम, नचेत् मां मृतमवधारय, तदा च ते क्रोधर्मः भवेदिति।

शिविराह तं शरणं प्राप्त एष कपोतः अत्याज्यः, तदेतत्समं मांसं तुभ्यं ददामीति। राजा श्येनोऽब्रवीत् यद्येवमात्ममांसं देहीति।राजा च प्रहृष्टस्तथेति प्रत्यपद्यत। अथ यदा यदा स्वंमांसं उत्कृत्तमुत्कत्तं तुलायामारोपयति तदा तदा कपोतोऽभ्यधिकः भवतीति दृष्ट्वा राजा सर्वं स्वशरीरं तुलायामधारयत् उदभूच्च तत्कालं साधु साध्विति दिव्या सरस्वती। तौचेन्द्रधर्मौश्येनकपोतरूपं त्यक्त्वा अक्षतशरीरं राजानं तुष्टुवतुःचक्रतुश्च सम्राजम्। वरञ्चाभिमतं तस्मै दत्त्वा अन्तर्हितौच। तदेवमेष कोऽपि छलनापरो देवो वा समागतः?

इत्युक्त्वाअमात्यान् स्वैरंस राजा भयोद्विग्नचेताः तं विप्रवेशं गणश्रेष्ठमुवाच ब्रह्मन् ! अभयं देहि, साद्य ते स्नुषा निशि क्वापि गता अस्माभिः सदयं दिवानिशं रक्ष्यमाणापीति। अथ स विप्रः कृच्छ्रात् धैर्य्यमापन्न इव सदयमब्रवीत् राजन् ! तर्हि स्वां तनयां मे पुत्राय देहि। तदाकर्ण्यतेन राज्ञा शापभीतेन तस्मै देवदत्ताय निजायां सुतायां प्रदत्तायां स पञ्चशिखः प्रतस्थे। देवदत्तोऽपि तामेव वल्लभां प्राप्य अपुत्रस्य श्वशुरस्य विभूतिभिः परमसुखेन कालमनयत्। अथ कालेन राजा सुशर्मा तस्य पुत्रं दौहित्रं महीधरं नाम राज्येऽभिषिच्य तपोवनमशिश्रियत्। देवदत्तोऽपि कालेन सुतैश्वर्य्यंदृष्ट्वा कृतार्थस्तथैव प्रियया राजपुत्रया सह वनमगच्छत्। तत्र च पुनः शङ्करमाराध्य मर्त्त्यदेहं त्यक्त्वातस्यैव प्रसादेन

गणत्वमाससाद। यतश्चासौप्रियादन्तनिक्षिप्तात् पुष्पात् संज्ञां न ज्ञातवान् तस्मात् स पुष्पदन्ताख्यया गणसंसदि ख्यातः संवृत्तः। तस्य च सा एव भार्य्या देव्या भगवत्या जया नाम्नी चेटी जाता। तदेवं स पुष्पदन्त इति प्रसिद्धः सम्प्रति मदभिधानम् आकर्णय।

हे काणभूते ! योऽयं गोविन्ददत्तो नाम देवदत्तपिता पूर्वमुक्तः,तस्यैव सोमदत्तो नाम पुत्रोऽहमभूवम्। अहञ्च पितृमन्युना वैराग्यमापन्नःतपस्तप्तुंहिमाचलमगच्छम् अभ्यतोषयञ्च भगवन्तमिन्दुमौलिं बहुभिर्माल्यैः। ततश्च परितुष्टात् तस्मात् अपरसुखनिस्पृहेन मया तस्यैव गणत्वं वृतम्। स चोमापतिः यस्मात् त्वंस्वयमाहृतेन दुर्गम वन भवेन माल्येन बहुशो मामपूजस्तस्मात् त्वं माल्यवानिति प्रसिद्धो मे गणोत्तमो भवितेति मामादिशत्। अहञ्च सद्य एव मर्त्यदेहं विमुच्य तद्गणतां गतः।तदेवं मम माल्यवानिति नाम कारणमुक्तम्। सोऽहं पुनः शैलात्मजायाः शापेन मनुष्यभावमापन्नः। तदधुना त्वया हरकथिता कथा कथ्यतां येनावयोर्भविता शापविमोक्ष इति।

इति सप्तमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721898327Screenshot2024-07-24072147.png"/>

अथ अष्टमस्तरङ्गः।

एवं गुणाढ्येनाभिहितः काणभूतिः स्वभाषया सप्तकथामयींदिव्यामुपन्यासपरम्परामभ्यभाषत। गुणा

ढ्यश्च सप्तभिर्वर्षैसप्तलक्षश्लोकमयींतां विरचयामास। विद्याधरा मा एतां हार्य्युरिति मस्यभावात् आत्मशोणितैरेव सा लिखिता महारण्ये गुणाढ्येन। तञ्चश्रोतुमागतैः सिद्धविद्याधरादिभिस्तदानीमन्तरीक्षं सवितानमिवाभवत्। गुणाढ्येनच निबद्धां तां महाकथांदृष्ट्वा काणभूतिर्मुक्तशापः स्वां गतिमगमत्। तत्सहचारिणश्च ये पिशाचास्तत्रासन् तेऽपि तां कथामाकर्ण्य सद्य एव दिवमारूढाः। इयञ्च बृहती कथा पृथिव्यां प्रतिष्ठापनीया यतोऽयमर्थो देव्या शापान्तोक्तौ कथितः,तत् कथमिमां प्रतिष्ठां नयामि, कस्मै वा समर्पयामि इत्येवं स गुणाढ्यः कविरचिन्तयत्।

अत्रान्तरे गुणदेवनन्दिदेवनामानौद्वौशिष्यौ तमुपाध्यायंगुणाढ्यमूचतुः प्रभो ! एतत् काव्यस्यार्पणस्थानमेकः श्रीमान् सातवाहनः स खलु रसिकः पुष्पामोदमिवानिलः काव्यं धारयेत्। तथेत्यभिधाय स गुणाढ्यस्तौ शिष्यावेव पुस्तकसहितौ तस्य राज्ञः सकाशं प्राहिणोत्। स्वयं च गत्वा ताभ्यां सह प्रतिष्ठाने पुराद् बहिर्देवीकृते उद्याने कृतसङ्केतस्तस्थौ। राजा तु सातवाहनः विद्यामदोन्मत्तः गुणाढ्यकृतिरेषेति ताभ्यां शिष्याभ्यां दर्शिते काव्यपुस्तके पिशाचभाषां तां श्रुत्वा तौ च तदाकृती दृष्ट्वा सासूयमभाषत सप्त लक्षाणिप्रमाणं परं पैशाचीवाक् नीरसा, शोणितेन च कृतोऽक्षरन्यासः तदेतां पैशाचीं कथां धिक्। अथ ताभ्यां शिष्याभ्यां पुस्तकमादाय यथावृत्तं गुणाढ्याय समाख्यातम्। सोऽपि तदाकर्ण्यनितरां

खेदाकुलः समजायत, तत्त्वविदा कृतमवज्ञानं कं हि नोपतापयति? ततश्च सशिष्यःतस्मात् गत्वा विविक्तरम्यभूभागं अनतिदूरवर्त्तिनं शिलोच्चयं तत्र अग्निकुण्डमकरोत्। तत्राग्नौ शिष्याभ्यां रुद्द्द्भ्यां वीक्षितः मृगपक्षिणः वाचयित्वा श्रावयन् एकैकं पत्रं त्यक्षिपत्। केवलं शिष्ययोरनुरोधपरवशतया नरवाहनदत्तस्य चरितं लक्षश्लोकमितमंशं रचितवान्। तस्मिंश्च तथा दिव्यां कथां पठति परित्यक्ततृणाहारा सारङ्गबराहमृगमहिषादयः साश्रुलोचना बडमण्डला निश्चलास्तत्रैव शृण्वन्तःसमभ्यागमन्।

एतस्मिन्नन्तरे राजा सातवाहनोऽस्वस्थोऽभवत्। अवदंश्चास्य दोषं शुष्कमांसाहारजं दोषं भिषजः। तदर्थमाक्षिप्ताश्च रूपकारा अब्रुवन् राजन् ! नास्माकमेषः दोषःलुब्धकाहि मांसदृशं ददते इति पृष्टाश्च लब्धकाः ऊचुःनरनाथ ! नातिदूरवर्तिनि गिरौकोऽपि द्विजः पठन् पुस्तकपत्रमेकैकं अग्नौनिक्षिपति, तत् शृण्वन्तश्च मृगपक्षिणः सर्वे क्षुधार्त्ताऽपि निराहारास्तत्रैव स्थिता, नान्यतो यान्ति तेनैषां क्षुधानिपीड़ितानां शुष्कं मांसमिति। इत्येवं व्याधवचनेन कोतुकाकान्तचेताः नृपतिस्तानेवाग्रतःकृजा स्वयं तदर्शनार्थंगुणाढ्यसमीपं ययौ ददर्श च तं जटासमाकीर्णं वनवासदुःखाक्रान्तं स्वकृतिदहनजनितखेदम्। अथैनं स्ववाष्पमृगकुलमध्यस्थं प्रत्यभिज्ञाय प्रणम्य च तं वृत्तान्तमपृच्छत्। सोऽपि राज्ञेपुष्पदन्तस्य शापादिवेष्टितं सर्वं कथावतारं भूतभा

श्रयासमाख्यत्। ततश्च पादानतो नृपस्तंगणावतारं मत्वा तां हरमुखोद्गतां दिव्यां कथां श्रोतुमभ्यर्थयामास। स चोवाच तं सातवाहनं गुणाढ्यःराजन् ! प्रत्येकं लक्षमिताः षट्कया मया दग्धाः लक्षमितैका कथा अस्ति, इयमेव गृह्यतां मम शिष्यावेतौ अस्य ग्रन्थस्य व्याख्यातारौभविष्यतः। एवमुक्त्वानृपमामन्त्र्ययोगेन तनुं त्यक्त्वासद्यः शापनिर्मुक्तः स्वां गतिं प्रतिपेदे। अथ तां गुणाढ्यदत्तां वृहत्कथां नाम नरवाहनदत्तचरितमयींकथामादाय निजनगरमगान्नरपतिः।आगत्य च स तस्य शिष्यौ गुणदेवनन्दिदेवौ भूमि स्वर्णवसनवाहनादिभिर्बहुभिर्धनैः समभ्यर्चयत चकार च ताभ्यां सह तस्याः कथायाः अवतरणार्थं कथापीठम्। सा चैषा कथा विचित्ररसशालिनीविस्तृतामरकथा क्रमशः त्रिष्वेव भुवनेषु कोतुकमावहन्ती ख्यातिमगमत्।

इति अष्टमस्तरङ्गः।
समाप्तोऽयं कथापीठं नाम प्रथमो लम्बकः।

<MISSING_FIG href="../books_images/U-IMG-1721899013Screenshot2024-07-24072147.png"/>
अथ नवमस्तरङ्गः

या खलु कैलासे भगवतः वृषकेतनस्य वदनाम्बुजातनिर्गता पुष्पदन्तं गणधिपं तस्माच्च वररुचिभूतात् भूतले काणभूतिं, काणभूतेर्गुणाढ्यंगुणाख्यात् सातवाहनमगात् तामिमां दिव्यामद्भुतां कथां शृणुत।

अस्ति वत्सो नाम जनपदः स्वर्गस्य दर्पशान्तये विधात्रा तत्प्रतिमल्लइव निर्मितः। तत्र कौशाम्बी नाम नगरी लक्ष्मीविलासभवनमिवासीत्। आसीच्चतत्र शतानीको नाम पाण्डवान्वयसम्भवः परीक्षितः पौत्रो जनमेजयतनयोनृपतिः। तस्य च कलत्रमभूत् क्षितिरपरा विष्णुमती च। तयोरेकारत्नानि सुषुवे द्वितीया तु नैकमपि सुतम्। एकदा मृगयायां परिभ्रमन् राजा शाण्डिल्यमुनिना परिचयं लेभे। स तु मुनिः पुत्रार्थिनोराज्ञः अनुरोधेन कौशाम्बीमेत्य साधितं चरुं राशीं प्राशयत्। तेन तस्य सहस्रानीकोनाम सुतः समजनि। अथ शतानीकः क्रमात् तं पुत्रं युवराजं कृत्वा स्वयं भूभारचिन्तायां बिरतोऽभूत् अनैषीच्च केवलं सुखसम्भोगेन कालम्।

कदाचित् देवासुरसंग्रामे प्राप्ते दिवस्पतिः साहाय्यार्थं तस्मै मातलिं सारथिं दूतं प्राहिणोत्।ततः नरपतिः योगन्धर नाम्नः धुर्य्यस्य मन्त्रिणस्तथा सुप्रतीकस्यप्रधानसेनापतेःहस्ते पुर्णं राज्यञ्च समर्प्यअसुरान् निहन्तुं मातलिना सह शक्रसकाशमगात्। तत्र च पश्यति सुरपतौबहून् यमद्रंष्ट्रादीनसुरान् संग्रामे निहत्यस्वयं पञ्चत्वावगमत्। ततश्च मातलिना आनीतं तं राजदेहं राज्ञी x, तत् पुत्रञ्च सहस्रानीकं लक्ष्मीः समाश्रयत्। तस्मिंश्च पौत्रसिंहासनारूढ सर्वं एव राजानोनतशिरसोऽभवन्। ततः सुरपतिः शत्रुविजयोत्सवार्थं सुहृत्पुत्रंतं सहस्रानीकं मातलिना सारथिना सुरलोकमानिनाय। स तु तत्र नन्दने

क्रीड़तः कामिनीभिः सुरान् अवलोक्य अनुरूपकान्ताभिलाषी शोकमिवान्वभवत्। तच्चविज्ञाय शचीपतिः तमाश्वासयन् अवोचन् राजन् ! विषादेनालं सेत्स्यति तेमनोरथः क्षितौते भार्य्या समुत्पन्ना अचिरात् तां लप्स्यते अत्रेमं सवादं कथयामि श्रूयताम्।

पुराहं पितामहं द्रष्टुमगमत्। तदैव तत्र विधूमो नाम कश्चित् वसुरागच्छत्। अस्मासु च तत्र स्थितेषु अलम्बुषा नाम काचित् सुरसुन्दरी तमेव देवं द्रष्टुमागता वार्तावस्त्रंसितवसना अभवत्। वसुरयं तथाभूतां तामवलोक्य कामवशतामगात्। अप्सरा च सा सद्यएव तस्य रूपेण समाकृष्टचित्ताभूत्। तदालोक्यकमलयोनिर्मममुखे दृष्टिमX।

अहञ्चx मर्त्यलोकं व्रजतांयुवामविनितौ। तत्र चोभौभार्य्यापती भविष्यथ इति। राजन् !xशतानीकतनयः शशिनः कुलभूषणम्। सापि सुरयुवती अयोध्यायां कृतमर्मनृपतेः सुता मृगावती नाम जाता तवभार्य्या भविष्यति।इत्येवं देवराजवचसा समाश्वासितःसहस्रानीकः तं संमान्यतेज च सहकृतः मातलिसारथिरथेन पुनः स्वां पुरीमाजगाम। पथि गच्छन्तञ्च तं तिलोत्तमा नाम सुराकन्या प्रीत्या अब्रवीत् राजन् ! किञ्चित् वक्ष्यामि क्षणं प्रतीक्षस्वेति। राजा तु तदश्रुत्वैवतामेव मृगावतीं ध्यायन् प्रतस्थे। ततः सा तिलोत्तमा लज्जिता कोपात्तं राजानमशपत् राजन् !

ययाकृष्टमनाः त्वं मम वचो नाद्रियसे तया चतुर्दशवर्षाणि ते वियोगो भविष्यति। मातलिरेव तं शापं अशृणोत् राजा तु मृगावतीमेव समुत्सुकश्चिन्तयन् मनसा कौशाम्बीमगमत्। आगत्य च योगन्धरादिभ्यो मन्त्रिभ्यःतत्सर्वं वासववचनं मृगावतीविषयमश्रावयत् प्रेषयच्च कालक्षेपासहिष्णुस्तां याचितुं तस्याः पितुः कृतवर्म्मणः सकाशं दूतम्। कृतवर्म्मच दूतमुखात् सर्वं श्रुत्वा सहर्षः देव्यैकलावत्यै समभ्यधात् साप्येनमवोचत् राजन् ! सहस्रानीकायैव कन्या देया, मयाद्य स्वप्ने दृष्टं कश्चिद् द्विजो मामेत्य इममेवार्थमुक्त्वाअन्तर्हित इति अथ हर्षनिर्भरो नृपतिर्मृगावत्याः नृत्यगीतादिकौशलं अप्रतिमं रूपञ्च तस्मै दूतायादर्शयत्। ततश्च तं राजानं सहस्रानीकमानीय यथाविधि समभ्यर्च्यतस्मैचन्द्रकलामिव नयनाह्लादकरीं सर्वकलानिपुणां मृगावतीमदात्। अभवच्च तयोः परस्परगुणयोगतः समागमो रमणीयतरः। अथ तस्य मन्त्रिणां तनया जज्ञिरे योगन्धरस्य पुत्रो यौगन्धरायणः सुप्रतीकस्य तनयो रुमण्वान् अजनि। अस्य यो नर्म्मसुहृत् तस्य पुत्रो वसन्तकः समजायत। कालेन च कियता राजमहिषी मृगावती गर्भमाधत्त। तदा आपाण्डुमुखी सा दर्शनातृप्तमानसं प्रियं रुधिरपूर्णलीला वापी निमज्जनं दोहदं याचितवती। राजा तु धर्म्मपरतया वास्तवशोणितमगृह्णन् राजा दोहदाभिलाषं पूरयन् लाक्षादिरसपूर्णां वापीं रक्तसलिलामिवाकरोत्। तस्याञ्च सान्तों

लाक्षारसलिप्तां तामकस्मात् कश्चिद् गरुड़वंशभवः पक्षी आमिषशङ्कयाजहार। प्रियतमाञ्च तथा क्वापि नीतां पक्षिणा दृष्ट्वा विह्वलचेताः स नृपः निःसंज्ञःक्षितौ निपपात। क्षणेन च लब्धसंज्ञं तं महीपतिं प्रभावेण बुद्ध्या मातलिः विमानेनावतीर्य्यतस्मैतिलोत्तमाशापं कथयित्वा समाश्वास्य च दिवमगात्। स तु हा प्रिये ! क्वासि गता, पूर्णकामासौ जाता पापा तिलोत्तमेत्यादिकं बहु विलपन् शोकार्त्तोमन्त्रिभिर्विज्ञातशापतान्तः XX पुनः समागमप्रत्याशया कथञ्चित् जीवितं दधार।

पक्षीन्द्रश्च क्षणात् तां राज्ञीं मृगावतीं नीत्वा जीवन्तीं प्रेक्ष्य उदयपर्वते तत्याज। अथ तस्मिन् गते राज्ञी शोकभयोद्विग्नाआत्मानमनाथं दुर्यमाद्रितटस्थितमपश्यत्। ततश्चकश्चिदजगरः एकाकिनीमेकवस्त्रां रुदतीं तां ग्रासीकर्त्तुमुपचक्रमे। तञ्चाजगरं निहत्य कश्चिद्दिव्यः पुरुषः तां शुभोदर्का मोचयित्वा सद्य एव अन्तर्दधे। ततः सा वराङ्गना आत्मानं हन्तुमिच्छन्ती कस्यचिद् वनगजस्य अग्रतः समुपस्थिता। स च दयया तामरक्षत्। चित्रमेतत् श्वापदा अपि सन्मुखागतां तां न जघ्नुःदैवी विचित्रा गतिः। अथ सा वाला गर्भभरालसा भर्त्तारं स्मरन्ती मुक्तकण्ठंरोदितुमारभे। तदाकर्ण्यकश्चिन्मुनितनयः फलमूलाहरणार्थमागतस्तामाससाद। दृष्ट्वा च तां दयार्द्रचित्तः पृष्ट्वा च ययावृत्तं आश्वसामय च जमदग्नेराश्रममनयद्राज्ञीम्। तत्र सा

मूर्त्तमिवाश्वासं तेजसा स्थिरवालार्कमुदयाचलं कुर्वाणं जमदग्निं ददर्श। सोऽपि तां पादपतितां वियोगदुःखाकुलां राज्ञीमाश्रितवत्सलः दिव्यदृष्ट्यासमभ्यधात्। वत्से ! इह ते पत्युःवंशधरः सुतो भविता भविता च ते पुनर्भर्त्तृसङ्गमः मा शोच। एवमभिहिता मुनिना साध्वी सा मृगावती तस्मिन्नेवाश्रमे प्रियसङ्गमं प्रतीक्षमाणा अतिष्ठत् प्रासोष्ठ च समये सत् सङ्गतिरिवाचारं श्लाघ्यंपुत्ररत्नम्। तस्मिंश्च काले एष उदयनो नाम धीमान् महायशाः सर्वविद्यापारगः सार्वभौमः राज्ञः पुत्रः भविष्यतीति अन्तरीक्षाद् शरीरिणी वागुदचरत्। सोऽपि राजबालकः क्रमेण प्रतिदिनमवर्द्धतबयस्यैरिव सद्गुणैः सार्द्धम्। शिक्षितश्च मुनिना तेन क्षत्रोचितान सर्वानेव संस्कारान् कृत्वा सर्वासु विद्यासु धनुर्वेदेषु च।माता च स्वात् करात् राजनामाङ्कंकटकमाषुच्य तस्य करे समबध्नात्।

एकदासौ उदयनः मृगयार्थंभ्रमन् शवरेण केनचित् समाक्रान्तं महारण्ये सर्पमेकमपश्यत् अवोचच्च दयार्द्रस्तस्मिन् पन्नगेमनोरमे तं शवरं मुच्यतामेष मद्वचनादिति। शवरोऽब्रवीत् प्रभो ! दरिद्रोऽहं जीविकेयं मम इमं हि पन्नगंखेलयन् जीवामि, पूर्वं अपरस्मिन् भुजगे विपन्ननेमया अटवीमिमां अन्विष्यता मन्त्रौषधिबलात् एषः अवष्टब्धः लब्धश्च। श्रुत्वैतत् उदयनोऽति वदान्यः शवराय तस्मै तत् मातृदत्तंकटकं दत्त्वा सर्पममोचयत्।

अथ गृहीतकटके तस्मिन् लुब्धके यातेभुजगः

प्रीतः पुरतः प्रणम्य प्रोवाच राजपुत्र ! वसुनेमिरिति विश्रुतो वासुकेः ज्येष्ठोऽस्मि, वीणामिमां तुभ्यं ददामि रक्षितोऽहं त्वया, तत् गृहाण एतां ताम्बूलीञ्च अम्लानमालातिलकयुक्तिभिः सह। स तत् गृहीत्वा तेनैव नागेन उत्क्षिप्तस्तस्मिन्नेव मुनेराश्रमे तत्क्षणमेव मातुदृशि अमृतमिव वर्षन्नुपागमत्। अत्रान्तरे शवरः तत् कटकं राजनामाङ्कं नगरे विक्रीणन् आपणे राजपुरुर्षैधृतः नीतश्चराजकुलम्। कुतस्त्वयेदं कटकमाप्तमिति सशोकेन सहस्रानीकेन नृपेण पृष्टश्च सर्वं वृत्तान्तमगादीत्। ततश्च कथमिदं प्रियाकरस्थं शवरेणाधिगतमिति चिन्तयन्तं नृपं दैवी सरस्वती समभ्यनन्दयत् राजन् ! शापस्ते क्षीणः संजातः उदयाद्रौ जमरग्नेराश्रमे तव प्रिया सपुत्रा मृगावती तिष्ठतीति। अथ तस्मिन्नहनि कथञ्चिदवसिते नृपतिस्तमेव शवरमग्रे कृत्वा प्रियतमसङ्गमोत्सुकस्तमेवोदयाद्रिं प्रति ससैन्यः संप्रतस्थे।

इति नवमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721899013Screenshot2024-07-24072147.png"/>

अथ दशमस्तरङ्गः।

अथ नरपतिर्दूरमध्वानं गत्वा कस्मिंश्चिदरण्ये सरसीतटे वासमकल्पयत्। तत्र च शयनीयतलगतः श्रान्तः सायं सङ्गतकं नाम कथकमब्रवीत् हे हृदयवल्लभ ! कामपि हृदयविनोदिनीं कथामाख्याहि अहं! प्राणवल्लभां तां मृगावर्ती द्रष्टुमतिसमुत्सुकोऽस्मि कथ-

मपि उत्कण्ठां विनोदयितुमिच्छामि। सङ्गतकोऽब्रवीत् देव ! किं वृथा तप्यसे आसन्न एव तव देव्याः समागमः क्षीणशापत्वात्। संयोगा विप्रयोगाश्च सर्व्वेषामेव दृश्यन्त अत्रैकां कथां कथयामि श्रूयताम्।

पुरासीत् मालवे देशे यज्ञसोमो नाम कश्चित्द्विजः। तस्य द्वौसुतौ जातौ। तयोरेकः कालनेमिर्नाम द्वितीयः विगतभय इति विश्रुतोऽभवत्। कालेन स्वर्गते पितरि, उत्क्रान्तशैशवौतौभ्रातरौ विद्यार्जनार्थं पाटलिपुत्रकं नगरं गतौ। तत्र देवशर्म्मा नाम कश्चिदुपाध्यायः ताभ्यां यथाविधिलब्धविद्याभ्यां द्वे निजे सुते मूर्त्ते विद्ये इवापरे प्रददौ।

कदाचित् कालनेमिरपरान् प्रतिवेशिनो गृहस्थान् धनसम्पन्नान् दृष्ट्वा ईर्षया धृतव्रतःहोमैः श्रियं साधयामास। साधिता व श्रीस्तुष्टा साक्षात् तमभाषत त्वं भूरि वित्तं राजानञ्च पुत्रमाप्स्यसिपरमन्ते तव चौरवत् मृत्युर्भविता यस्मात् त्वया ईर्षाकलुषितात्मना अग्नौआमिषं, हुतमित्युक्त्वाअन्तर्हितायां लक्ष्म्यांकालनेमिः क्रमात् महाधनोऽभूत् कालेन चास्य पुत्रोऽजायत। यतोऽयंश्रीवरात् संप्राप्त तस्मात् तं श्रीदत्तनामानमकरोत् पिता। क्रमेण च श्रीदत्तः ब्राह्मणोऽपि वृद्धिं गच्छन् अस्त्रेषु बाहुयुद्धेषु च अप्रतिद्वन्दवी अभवत्।

अथ कालनेमेर्भ्राताविगतभयः सर्पदष्टां प्रियां दृष्ट्वा तीर्थपर्य्यटनार्थी देशान्तरमगात्।

अनान्तरे वल्लभशक्तिर्नाम नृपतिर्गुणज्ञः तमेव

श्रीदत्तं विक्रमशक्तिनान्नः स्वपुत्रस्य सखायमकरोत्। राजपुत्रेण अभिमानिना तेन अस्य तरस्विनः। शौशवे दुर्य्योधनेन भीमस्येव सहवास आसीत्।ततश्च अवन्तिदेशीयौ बाहुशालिः वज्रमुष्टि नामानौ द्वौक्षत्रियो अस्य विप्रस्य श्रीदत्तस्य मित्रत्वमगच्छताम्। बाहुयुद्धेनपराजिताः दाक्षिणात्या गुणप्रिया मन्त्रिपुत्राश्च स्वयम्बरसौहार्द्देनतमेव श्रीदत्तमशिश्रियन्। तथा महाबलौ व्याघ्रभटनामानौ उपेन्द्रबलः निष्ठुरकश्चेति चत्वारः वीरा तेन श्रीदत्तेन सौहार्द्दमकुर्वन्।

कदाचित् राजपुत्रसखः श्रीदत्तः तैः सुहृद्भिः सह वर्षासु जाह्नवीतटे वितर्त्तु्मगमत् राजभृत्यास्तं राजपुत्रं विक्रमशक्तिं नृपमकल्पयन्। श्रीदत्तमपि तदानीं सुहृदः राजानमकार्षुः। एवं कृते जातरोपेण अभिमानिना राजपुत्रेण असौ विप्रवीरो रणाय समाहूतः श्रीदत्तः तं राजपुत्रं बाहुयुद्धेन विजितवान्। अथ भृशमपमानितः सः तस्य वर्धमानस्य विप्रस्य वधमियेष तञ्चाभिप्रायं नात्वा श्रीदत्तः शङ्कितः स्वमित्रैः सह तत्समीपादपासरत्। अपसर्पश्च अपश्यत् गङ्गास्रोतसा नीयमनां कामपि कामिनीं सागरमध्यवर्त्तिनीमिव श्रियम्। ततश्च तान् बाहुमालिप्रमुखान् सुहृदस्तटे स्थापयित्वा तामेव वराङ्गनामाहर्तुंजलमवततार। निममज्ज च केशेष्वपि प्राप्तां दूरसम्भसि निमम्नां तां रमणीमनुसर्त्तुम्। निमज्जाचक्षणात् शैवं देवकुलमपश्यत् नतु तां नारीं नवा वारिराशिम्। दृष्ट्वा च

तत् महदाश्चर्य्यं मन्यमानो नत्वा च भगवन्तंवृषध्वजंमनोहरे तस्मिन् शैवनिलये उद्याने तां रात्रिमनैषीत्। प्रातश्च देवमुमापतिमाराधयितुमागतां तां रमणीं मूर्त्तां श्रियमिव अद्राक्षीत्।

अथ ईशानं पूजयित्वा सा चन्द्रवदना निजमन्दिरमगात् अनुजगाम च तां सोऽपि श्रीदत्तः। गत्वा च किञ्चिदध्वानं देवपुरमिव मन्दिरमेकं ददर्श। सापि मानिनी सम्भ्रान्ता तत्रैव प्रविवेश। गत्वा च सा तन्वीअन्तःपुर मध्ये किमपि असम्भाप्रमाणा स्त्रीसहस्रसेविता पर्य्यङ्केनिषसाद।श्रीदत्तोऽपि तत्र तस्याः समीपे समुपाविशत्।अथ सहसा सा रोदितुमारेभे,निपेतुश्चस्तनयोस्तस्याः सन्तता वाष्पविन्दवः। करुणार्द्रंचेताश्च श्रीदत्तस्तामवादीत् सुन्दरि ! का त्वं किमर्थं वा रोदिषि वद यद्यहं ते दुःखं निवारयितुं शक्तः स्यामिति।ततः सा कथमपि वाष्पं निगृह्याब्रवीत् साधो! वयं दैत्यपतेः बलैःपौत्र्य़ःदशशतं अहञ्च सर्वासां ज्येष्ठा विद्युत्प्रभा नाम।पितामहोऽस्माकं विष्णुना दीर्घबन्धनं नीतः पिता च बाहुयुद्धेन निहतः। हत्वा च पितरं तेन शौरिणा वयं निर्वासिता सर्वा एव पुरात्। तत्र च प्रवेशरोधार्थं एकः सिंहः स्थापितः। तेन च सिंहेन तत् अस्माकं स्थानमवरुद्धंहृदयञ्चास्माकं दुःखेन।कुवेरशापात् कश्चिद्यक्षः स सिंहः सञ्जातः। कथितश्च पुरा तस्य शापान्तः मानवाभिभवो विज्ञप्तेन विष्णुनापुरप्रवेशोपायार्थम्।

तस्मात् सोऽस्माकं शत्रुः केशरी त्वया जीयतां तदर्थञ्च मया भवानिहानीतः,तस्मात् पराजितात् मृगाङ्काभिधं खड्गमवाप्स्यसि, तत् प्रभावेण च पृथिवीं जित्वा राजा भविष्यसीति। तदाकर्ण्यकथञ्चित् तं दिवसमतीत्य अपरेद्युस्ताः कन्यका अग्रेकृत्य श्रीदत्तः तत्पुरमभिययौ जिगाय च तमुद्धतं सिंहं बाहुयुद्धेन। सोऽपि शापविमुक्तः स्वं वपुरवाप्य तसौ स्वं खड्गंदत्त्वा शापान्तकाय तत्क्षणादेव अन्तर्हितः। अथासौ श्रीदत्तस्ताभिर्दैत्यकन्याभिः परिवृतस्तत् पुरोत्तममविशत्। दैत्यसुता सा च तस्मै विषघ्नं अङ्गुलीयं ददौ। स च तत्र स्थितः तस्यां कन्यायां भृशं साभिलाषोऽभूत्। तद् दृष्ट्वा सापि कन्यका युक्त्या जगाद एवं वीर! अत्र वाप्यां स्नाहि, एतञ्च ग्राहभयापहं खड्गमादाय निमज्ज। तथेति स श्रीदत्तः समुत्सुकः तस्यां वाप्यां गज्जन्नेव यस्मात् जाह्नवीतटात् अवातरत् तत्रैव समुत्तस्थौ।पातालादुत्थितः स खड्गाङ्गुलीकवान् विचित्रः विषणश्चासीत् तयाविवञ्चितमात्मानंअपश्यत्।

अथ तान् सुहृदोऽन्विच्छन् स्वगृहाभिमुखं अगच्छत् अपश्यच्च पथि निष्ठुराख्यंसुहृदम्। स चोपेत्य प्रणम्य एकान्ते तं नीत्वा स्वजनवार्त्तां पृष्टः अब्रवीत् सखे ! त्वां गङ्गान्तर्निमग्नं वयं बहून् दिवसान् अन्विष्य शोकनिर्भराः स्वानि शिरांसि छेत्तुं समुद्यता अभूम।तदा नैवं साहसं कुरुत पुत्रकाः जीवन्वः सखा समेष्यति तदा इत्यन्तरीक्षगा वाणी अस्मान्तस्मादुद्यमात् न्यवारयत्।

ततश्च भवत्पितुः सकाशं गच्छतामस्माकं पार्श्वमेव कश्चित् सत्वरमेत्याब्रवीत् भद्राः! साम्प्रतं युष्माभिर्नगरेऽत्र न प्रवेष्टव्यं यतः वल्लभशक्तिर्नरपतिः पञ्चत्वं गतः। मन्त्रिभिश्च सम्भूय तस्य राज्ये विक्रमशक्तिं तत्पुत्रमभिषिषिदुः।प्राप्तराज्यः सः परेद्युरेव कालनेमेर्गृहमगात्। अपृच्छच्चतत्र श्रीदत्तः क्व ते पुत्र इति। कालनेमिश्चावदत् नाहं जानामि क्व गत इति। अथानेन प्रच्छादितः स्वसुत इति मत्वा तेन राज्ञा कालनेमिश्चौर इति निर्भत्स्य शूलं दत्त्वा निषूदितः। तत् दृष्ट्वा तस्य भार्य्याया हृदयमस्फुटन् शोकनिमग्नायाः किं हि पापात्मनामसाध्यं? अथ तेन विक्रमशक्तिना श्रीदत्तस्तद् वयस्याश्च हन्तुमन्विष्यते तस्माद् यूयमितः शीघ्र गच्छतेति। इत्यभिहितास्तेन पुंसा शोकार्त्तास्ते बाहुशालिप्रमुखाः पञ्च सम्मन्त्र्यउज्जयिनीं ययुः। तश्च गच्छद्भिरिह त्वदर्थंअहं प्रच्छन्नंस्थापितः। तदेहि तावत् सुहृदां सविधे गच्छाव इति।

इति निष्ठुरकात् श्रुत्वा सः श्रीदत्तः पितरो अनुशोच्य प्रतिकारेच्छामिव खड्गेदृशं मुद्दुर्निदधे। कालं प्रतीक्षमाणश्च तेन सख्या निष्ठुरकेण अनुगम्यमानस्तान् सुहृदः प्राप्तुं उज्जयिनीमेव पुरीं प्रतस्थे।

गच्छंश्च सख्युस्तस्य गङ्गाम्बुनिमज्जनावधिवृत्तान्तं वर्णयन् कामपि क्रोशन्तीं नारींपथि ददर्श चकार च दयया तां अवलाहं भ्रष्टमार्गा मालवं प्रति प्रस्थितेतिव्याहरन्तीं सहगामिनीम्। एकदा तया च निष्ठुरकेण समन्वित एकस्मिन् शून्ये नगरे वासमकल्पयत्। ददर्श

च तस्यामेव निशायां मुक्तनिद्रः तामेव स्त्रियं निष्ठुरकं हत्वा हर्षात् तन्मांसमश्नतीम्। दृष्ट्वैव सः श्रीदन्तः तं मृगाङ्कंखड्गमाकृत्यउदतिष्ठत् सापि नारी घोरं राक्षसीरूपमग्रहीत्। अथ सा तेन निहन्तुं केशेषु गृहीतैव तत्क्षणंदिव्यरूपं गृह्णती तमुवाच महाभाग ! मा मां जहि मुञ्च, नैवास्मि राक्षसी, कौशिकात् महर्षेर्ममायंशापो येनाभूत् तदाकर्ण्यताम्। पुरा घोरे तपसि वर्त्तमानं कौशिकं दृष्ट्वा स्वपदाहारशङ्कीधनपतिर्मातस्य तपोभङ्गार्थं प्रजिघय अहन्तु कान्तेन रूपेण तं प्रलोभयितुमक्षमा भवप्रदर्शनार्थं भैरवं वपुरकार्षम्। तद्दृष्ट्वासौतपोधनः सदृशमेव शापमभ्यधात् पापे ! मानुषान् भक्षयन्तो निशाचरी भव अनुनीतश्चस त्वत्तः केशग्रहमेव शापान्तं व्यधात्। इत्थमहंकेशबहुलं राक्षसीभावगता, ग्रस्तञ्च मया नगरमेतत् अद्य त्वया मे शापान्तःकृतः, तद् गृहाण मत्तो वरम्। तस्या एतद्वचनमाकर्ण्यश्रीदत्तः सहर्षोऽब्रवीत् अम्ब ! अलमन्येन वरेण एषमम सखा जीवत्विति। तथास्त्विति वरं दत्त्वा सा तिरोदधे स च निष्ठुरकः अक्षतशरीर एव जीवन्नुत्तस्थौ।ततश्च प्रातः सविस्मयः प्रहृष्टच स तेन सख्या सह प्रतस्थे प्राप च क्रमान् उज्जयिनीम्। तत्र मार्गोन्मुखान् सुहृदः नीलकण्ठानिव तोयदः दर्शनेन सम्भावयामास। कथितनिजवृत्तान्तञ्च तं बाहुशाली स्वगृहमनैषीत्। तत्रोपचर्य्यमाणो बाहुशालिनः पितृभ्यांस्वगृह इव सुहृद्भिश्चिरमध्युवास।

कदाचित् वसन्तोत्सवे सखिभिः सह श्रीदत्तःउपवने यात्रां द्रष्टुं जगाम। ददर्श च तत्र कन्यकां श्रीविम्बके र्नृपस्य रूपिणीं मधुश्रियमिव रूपोज्ज्वलामागताम्। सा तु मृगाङ्गवती नाम तत्क्षणमस्य हृदयमविशद्दत्तमार्गेव विकासदीर्घया दृष्ट्या। तस्या अपि सिग्ध श्रेयशंसिनी दृष्टिस्तं प्रतिन्यस्ता दूतीव गतागतमकरोत्। क्षणेन च वृक्षान्तरालगतां तामपश्यन् श्रीदत्तः सुभृशं खिन्नहृदयः सर्वतः शून्यमिवात्मानममन्यत। बाहुशाली तु नितान्तचतुरस्तस्य तारां भावमालोक्याब्रवीत् सखे ! विदितं मे तव हृदयं मा अपक्लवंकथाः तदेहि यत्र राजसुता गता तत्रैव गच्छावइति। स च तथेति स्वीकृत्य तेनैव सह तस्याः सन्निकर्षमगात्। तदानीञ्च हा ! कटं किमिदमापतितं दष्टा राजकन्या भुजगेन इति तत्रत्यानामाक्रन्दः समभवत् श्रीदत्तहृदयं दहन्। क्षणे च तस्मिन् बाहुशालिना गत्वा अस्ति मम सुहृदः विषघ्नमङ्गुरीयं विद्याचेति कच्छुकी अभिहितः। स च तत्क्षणं कञ्चुकी समभ्येत्य चरणतलनतः श्रीदत्तंसानुनयं राजदुहितुः सकाशमनयत्। सोऽपि तस्याः क्षतायां अङ्गुल्यां अङ्गुलीयकं निधाय विद्यां जजाप, तेन च सा प्रत्युज्जीवनमवाप। ततश्च तत्र सर्वस्मिन् जने हर्षात् श्रीदत्त प्रशंसावादपरे राजा विम्बकिर्ज्ञातवृत्तान्तः तत्क्षणमाययौ। श्रीदत्तश्च सखिभिः सार्द्धं अगृहीताङ्गुलीयकं एव बाहुशलिनो भवनं प्रत्याजगाम। तत्र नृपेण सुवर्णादिकं यत् पारितोषिकं राज्ञा प्रेषितं

तत् सर्वं बाहुशालिनः पित्रे समर्पयत्। परं तां कान्तां चिन्तयन् तथा पर्य्यतप्यत यथास्य सर्व एव सुहृदः किंकर्त्तव्यविमुढ़ाः व्याकुलात्मानः समभवन्। ततो भावनिका नाम तस्याराजपुत्र्याःप्रिया सखी तदङ्गुरीयकसमर्पणव्याजेन श्रीदत्तसकाशमाययौ उवाच च सुभग ! साम्प्रतं सख्या मन एष निश्चयः संजातः यत् त्वं वा प्राणप्रदः पतिरथवा मृत्युरिति। इत्युक्ते तया श्रीदत्तः सर्वे च वयस्याः सम्भूय सहसा मन्त्रयामासुः। वयं कौशलेन निभृतं राजपुत्रीमिमां हृत्वा इतो वासार्थं मथुरां गच्छाम इति। एवं सम्मन्त्रिते कार्य्ये सा भावनिका गृहं ययौ। अथान्येद्युः बाहुशाली वयस्यत्रयान्वितः वाणिज्यव्यपदेशेन मथुरामगमत्। गच्छंश्च स पथि प्रतिपदं राजपुत्र्याअभिसारार्थं गूढ़ाणि त्वरावन्ति च वाहनानि स्थापयामास। श्रीदत्तश्च सायं राजपुत्र्यावासे काञ्चित् सदुहितरं स्त्रियं मधु पाययित्वा अस्थापयत्। ततश्च दीपोद्देशेन वासवेश्मनि अग्निं दत्त्वाप्रच्छन्नं भावनिकया राजसुता वहिर्निन्ये। ताञ्च बहिरायतांसम्प्राप्य श्रीदत्तः प्राक्प्रस्थितस्य बाहुशालिनः पदवीं तयैव भावनिकया मित्रद्वयेन च सह प्राहिणोत्। कुमारीगृहे सा मत्ता स्त्री तथा सह दग्धा। सर्व एव लोकस्तामेव राजदुहितरं सखीसमेतां दग्धांमन्यमानः समन्तात् कोलाहलं चकार। श्रीदत्तस्तु प्रातस्तत्रपूर्ववत्जनै दृष्टः रात्रोद्वितीयश्यां गृहीतमृगाङ्गः पूर्वप्रस्थितां प्रियां प्रति प्रतस्थे तथा च रात्रौ दूरमध्वानमतिक्रम्य प्रातः प्रहरे जाते विन्ध्याटवीमाससाद। तत्रादावनि

मित्तानि पश्चात् तान् सुहृदः पथि प्रहाराभिभूतान् भावनिकासहितान् सर्वान् दृष्ट्वा नितरां व्यथितमनाः किमिदमिति अपृच्छत्। ते चोचुः सखे ! मुषिताः स्मः बहुभिर्निपत्य असारोहिभिः सैनिकेरिदानीमेव। अस्मासु एवमवहीनेषु एकेन अश्वारोहेण राजपुत्री अश्वमधिरोप्य नीता यावत् दूरं न नीयते तावदनया दिशा गच्छ। मास्माकमन्तिकस्थाः सर्वथा सा एव रक्षणीयेति। तेरेवमभिहितः सुहृद्भिः स श्रीदत्तः बहु विचारयन् तान् सुहृदः समाश्वास्य जवेन राजतनयामेव समनुससार। सुदूरं गत्वा च तामश्वारोहसेनामाससाद ददर्श च तेषु क्षत्रियमेकं युवानं तेन च उपरि तुरङ्गमस्य गृहीताञ्च तां राजतनयाम्। दृष्ट्वैव स तस्य क्षत्रिवयुवकस्य अन्तिकंगत्वा सान्त्वेन च तत् राजपुत्रीविमुक्तिमभ्यर्थ्य अमुञ्चन्तमेनं अश्वादाक्षिप्य तथा दृषदि अचूर्णयत् यथा स सद्यः पञ्चत्वमगमत् एवं तं निहत्य तमेवाश्वमारुह्य तान् सर्वान् प्रधावितान् क्रुद्धान् अश्वारोहान् वहन् तेनैव मृगाङ्गेण निजघान। हतशेषाश्चसैनिकाः तादृशं तस्य अमानुषं शौर्य्यमवलोक्य भीताः प्रदुद्रुवुः। ततच राजपुत्र्यातथा मृगाङ्कवल्या सह तुरगारूढस्तानेव सखीन् प्रति प्रतस्थे। सोऽश्वः संग्रामे प्रहृतः सहसा पपातच पञ्चत्वमवाप च। अवतीर्णा च तत्कालं सा राजपुत्री त्रासायासपरिश्रमेण तृषार्त्तासमभवत्। ताञ्च तत्र स्थापयित्वा इतस्ततो जनमन्विच्छतः सुदूरं गत्वापि जलमप्राप्तवतस्तस्य X ततः स कथमपि प्राप्तपानीयः तिमिरा

च्छन्नतया मार्गमपश्यन् इतस्ततो भ्रमन् चक्रवाकवत् एक उत्कुजन् तां निशामनैषीत् वन एव। प्रातश्च पतितेन अश्वेन लक्षितं तत्स्थानमासाद्य तव क्वचिदपि राजपुत्रीं नासादितवान्। ततः स मोहात् भुवि खड्गंमृगाङ्कं संरच्यसमन्तात् तांराजपुत्रीमवेचितुं वृक्षाग्रमारुरोह।

अत्रान्तरे कश्चित् शवराधिपस्तेनैव मार्गेण तत्राययौ जग्राह च दृष्ट्वैववृक्षमूलस्थितं मृगाङ्कम्। तं दृष्ट्दैव श्रीदत्तः वृक्षाग्रादवतीर्य्य अतिमात्रं व्यथितमनाः प्रियाप्रवृत्तिं तमपृच्छत्। स चाब्रवीत्इतस्त्वं मत्पल्लींव्रज, जानाम्यहं सा तव प्रिया तत्र गता, अहं तत्रैव यास्यामि तव चेममसिं दास्यामि इत्युक्त्वाश्रीदत्तस्तेन शवरेण प्रोषितः तदीयैश्चपुरुषैः समन्वितः तामेव पल्लीं ययौ। तैश्चपुरुषैः श्रमं तावत् विमुञ्चेति अभिहितस्तां पक्षीं गतः क्षणात् श्रान्ततया निद्रामभजत् अपश्यच्चप्रबुद्धः द्वौपादौनिगड़संयतौ। ततश्च दैवगतींविचिन्तयन् ताञ्च प्रियां शोचन् कथमपि तत्रातिष्ठत्।

अथ काचित् मोचनकाभिधा चेटी तमुद्देशमागत्य तमब्रवीत् महाभाग ! आगतोऽसि कथमत्र मृत्यवे कार्य्यार्थं स खलु शवरः क्वापि गतः आगत्यैव त्वां चण्डिकायाः सकाशेबलिमुपहरिष्यति, तदर्थञ्च विन्ध्याटव्याः कौशलेन त्वमिहानीतः बन्धनञ्च गमितः। यस्मात् भगवत्या उपहारार्थं त्वंकल्पितः तस्मादेव सदावसनैरन्नैश्चउपचर्य्यते। एक एव मोक्षोपायोऽस्ति, यदि इच्छसि अस्त्यस्य सुन्दरी नाम कन्यका। सा च त्वां प्रति अत्यर्थं मदनातुरा जाता,

तस्मात् तां मे वयस्यां भज, ततस्ते क्षेमं भवितेति। तथास्त्विति उक्त्वास श्रीदत्तः गान्धर्वेण विधिना तां सुन्दरीं रहसि प्रणयिनीमकरोत्। सा च प्रतिरात्रं तस्य बन्धनानि मोचयित्वा यथासुखं विहरति स्म, अचिराच्च तेन सगर्भा समजायत। तत्सर्वं तन्माता मोचनिकामुखादुपश्रुत्य जामातृस्नेहपरवशा स्वैरमागत्य श्रीदत्तमब्रवीत्, वत्स ! श्रीचण्डनामा अस्याः सुन्दर्याः पिता त्वां न क्षमेत, तत् शीघ्रमितो गच्छ, सुन्दरी तु मम न विस्मर्त्तव्या इति एवमभिधाय संमोचितः श्वश्र्वाखड्गंस्वं श्रीचण्डहस्तगतं सुन्दर्य्यै समाख्याय त्वरितं प्रतस्थे विवेश च पुनश्चिन्ताकुलः चिन्तयंस्तामेव विन्ध्याटवीं मृगाङ्कवत्याः पदवीं जिज्ञासितुम्। सदा शुभं निमित्तं लक्षयित्वा यत्राश्वो मृतः सा च हारिता प्रेयसी तमुद्देशमाययौ। तत्र चागत्य आरात् लुब्धकमेकं समागतं दृष्ट्वैव पप्रच्छ तं प्रियायाः प्रवृत्तिम्। किं श्रीदत्तस्त्वमिति तेन पृष्टश्चस एव मन्दभाग्योऽहमिति निश्वसन् तनुवाच। लुब्धकोऽवादीत् शृणु सखे ! यत् ब्रवीमि। दृष्टा मया ते भार्य्या क्रन्दन्ती त्वामितस्ततः। दृष्ट्वा चाहं तां तथावृत्तं पृष्ट्वा समाश्वास्य च कृपाकुलः इते निजांपल्लीमरण्यात् गृहमनयम्। तत्र तरुणान् पुलिन्दान् अवलोक्य भयातुरा दीना सा मया मथुरानिकटं नागस्थलाख्यं ग्रामं नीत्वा तत्र कुत्रचित् स्थविरस्य विश्वदत्तनाम्नः द्विजन्मनः आवासे सगौरवं न्यासीकृत्य स्थापिता। तस्याःः मुखाच्च त्वन्नाम श्रुत्वा त्वामन्वेष्टुमहमिहागतः, तस्मात् गच्छ शीघ्रं नागस्थलं प्रति। इत्युक्तो लुब्धकेन श्रीदत्तस्तत्-

क्षणात् नागस्थलमुद्दिश्य प्रतस्थे। अपरेद्युश्च सायं तं नागस्थलं प्राप्य विश्वदत्तस्य भवनं प्रविश्य तं ययाचे देहि मे भार्य्यां लुब्धकस्थापितामिति। विश्वदत्तश्चोवाच भद्र ! मथुरायां मम सुहृत् गुणवत्तरः कश्चित् ब्राह्मणोऽस्ति स हि शूरसेनस्य राज्ञःउपाध्यायः मन्त्री च। तस्य हस्ते तवगृहिणी मया स्थापिता अयं हि ग्रामस्तस्या रक्षायांन क्षम इति तत् प्रातस्तत्र त्वया गन्तव्यंअद्येह विश्राम्यताम् इत्युक्तः श्रीदत्तः तस्यैव गृहे कथमपि तां निशामनयत् प्रस्थितश्च प्रातरपरेऽहनि मथुरामाससाद।

तत्र च दीर्घाध्वपरिश्रान्तः नगराद्बहिः निर्म्मले वापीजले कृतस्नातस्तस्मादेव अम्भसः चोरितं अञ्चलवद्वहारं वस्त्रमेकं सहसा प्रापत्। अथ गृहीततद्वसनः तस्मिंश्चहारमलक्षयन् प्रियां दिदृक्षुरौत्सुक्यात् मथुरां नगरींप्राविशत्। प्रविशन्नेव नगररक्षिभिः तत् वस्त्रं सहारं प्रत्यभिज्ञाय चौर इति बलादवरुद्धःनीतश्च नगराधिपसकाशम्। स चाविहितं तं राज्ञेन्यवेदयत् आदिशच्चराजा तस्यबधम्।

अथ सा मृगाङ्कवती दूरात् प्रहतडिण्डिमं बध्यभूमिं नीयमानं तं प्रत्यभिज्ञाय यस्य गृहे स्थिता तमेव मन्त्रिमुख्यंममायं पतिर्नीयते बधायेति ससम्भ्रममब्रवीत्। मन्त्री च घातकान् निवार्य्यराज्ञेसर्वं वृत्तान्तंविज्ञाप्य श्रीदत्तं मोचयित्वा बधात् स्वं गृहमानाययत्।यो मां बधात् अमोचयत् स खलु मम पितृव्यः विगतभयः पुरा देशान्तरं पर्य्यटन्क्रमेण मथुरामेत्य राजमन्त्रित्वमाससादेति ज्ञात्वा

प्रत्यभिप्राय श्रीदत्तः तस्य पितृसोदरस्य पादयोः पपात। सोऽपि तं भ्रातुष्पुत्रंप्रत्यभिज्ञाय सविस्मयः प्रेमनिर्भरः कण्ठे जग्राह पप्रच्छ च सर्वं गृहवृत्तान्तम्। ततः श्रीदत्तः पितृबधादारभ्य आत्मनोनिखिलं वृत्तान्तमकथयत्। सोऽपि श्रुत्वा सर्वं वृतान्तंमुक्त्वाचाश्रु विजने भ्रातुष्पुत्रमब्रवीत पुत्र ! धैर्य्यमाश्रय समेका यक्षिणी सिद्धा, सा पञ्च अश्वसहस्राणि सहसुवर्णकोटीश्चमह्यमदात्, अहमपुत्रः, तत्सर्वं तवैव धनम्। इत्युक्त्वासौपितृव्यः श्रीदत्ताय तां श्रियांमृगाङ्कवतीमदात्। श्रीदत्तोऽपि गृहीतधनसमग्रस्तत्रैव तां यथाविधिपरिणीय कान्तया तया सङ्गतस्तस्थौ। इत्थं प्राप्तमनोरथस्यापि तस्य शशिनः कलङ्करेखेव बाहुशालिप्रभृतिचिन्ता मालिन्यदायिनी मनसः समजायत।

एकदा स पितृव्यःरहसि श्रीदत्तमभ्यधात् पुत्र ! अस्य शूरसेनस्य राज्ञःकन्यकास्ति,मया तु तदाज्ञया सा अवन्तिदेशे दातुं ज्ञेया, परन्तु मया मनसि कृतं यत् तदपदेशेन तां हत्वा तुभ्यं ददामि ततश्च तदनुयायिनि बले मामके च प्राप्ते यत्ते श्रियादिष्टं राज्यं तदविरात् प्राप्स्यसीति। एवं निश्चित्य श्रीदत्तः पितृव्यसहितः सपरिग्रहः सैन्यैर्बहुर्भिः परितश्च तां कन्यामादाय प्रतस्थे। ततश्च विन्ध्याटवीप्राप्तमात्रमेव तं अतिमहती अतर्कितोपस्थिता दस्युसेना शरवर्षैः रुरोध। निन्युश्च दस्यवः प्रहारमूर्च्छितं भग्नसैन्यं श्रीदत्तं गृहीतसकलधनं स्वपल्लीम्। तत्र च ते तं तदवश्यमेव भीषणं चण्डिकालयं प्रावेशयन्। प्रविष्टमात्रञ्चतं सा पल्लीपतिपुत्री सुन्दरी उत्सङ्गितबाल-

पुत्रा देवीदर्शनार्थिनी आगता प्रत्यभिज्ञाय भृत्यान् दस्यूनवारयत्। श्रीदत्तस्तुचिरात् सुन्दर्य्यासपुत्राया दर्शनेन सानन्दः तया साकं तन्मन्दिरं प्राविशत् प्रापच्चसुन्दर्य्याःपित्रा श्रीचण्डेन प्राक् स्वर्गतेन अपुत्रेण सुन्दर्य्यै दत्तं तत् पल्लीराज्यम्। लेभे च तं चैारसमाक्रान्तं सपितृव्यपरिच्छदं मृगाङ्कवतीं ताञ्च कन्यकां तञ्च मृगाङ्गकंनाम खड्गम्। अथ श्रीदत्तस्तत्रैवतां शूरसेनसुतां परिणीयमहाराजोऽभवत्। प्राप्तराज्यश्च श्वशुरयोस्तस्य विम्बकेस्तस्य च शूरसेनस्य सकाशे दूतं प्राहिणोत्। तौदुहितवत्सलौप्रमोदनिर्भरौ सेनासमुदयेनान्वितौ तं श्रीदत्तमुपाजग्मतुः। बाहुशालिप्रमुखाश्च ते सुहृदः प्राप्तसन्देशाः प्रमोदनिर्भरमानसाः सर्व एव समाजग्मुः। अथ स श्वशुराभ्यांसमन्वितः तं पितृघातिनं विक्रमशक्तिं हत्वा कृतस्वैरप्रतिक्रियः शान्तिंलेभे ननन्द च ससागरां धरांप्राप्य कान्ताभिरुपचर्य्यमाणः सुखेन कालं नयन्।

हे नरपते! अव्यग्रमनसो धीरा इत्थंचिरवियोगव्यसर्णवं तरन्ति प्राप्नुवन्ति च मङ्गलम् \। इत्येवं सङ्गतकात् तां कथां श्रुत्वा सहस्रानीकः पथिप्रियावियोगकातरस्तां निशामनैषीत्। अथ प्रभाते मनोरथारूद्रः पुरस्तात् प्रेषितमनाः स्वां प्रियां प्रति प्रस्थितः कतिपयैरहोभिर्जमदग्नेराम्रममगमत् अपश्यच्चतत्र शान्तं तपोनिधिं जमदग्निम्। अथ कृतप्रणामाय तस्मै मुनिः तदीयां कान्तां सपुत्रांसमर्पयामास। शापावसाने च तयोर्दम्पत्योरन्योन्यदर्शनं आनन्दवाष्पपूर्णायाः

दृशः ववर्षेवामृतम्। पुत्रञ्च उदयनंतत्पूर्वदर्शनं समालिङ्ग्यआनन्दजड़ः कृच्छ्रेणअङ्गात् मुमोच। ततस्तपो धनं तमामन्त्र्यसपुत्रांराज्ञीमादाय आतपोवनमुद्वास्यैर्मृगैरपि अनुगम्यमानः प्रशान्तादाश्रमपदात्तस्मात् स्वां पुरीं प्रतस्थे। गच्छंश्चप्रियाया विरहवृत्तानि शृण्वन् आत्मनश्च वर्णयन् क्रमेणोत्तोरणपताकां कौशाम्बीमाससाद। आगत्य च उत्पक्ष्मराजिभिः पौरलोचनैःपीयमानः सह पत्नीपुत्राभ्यां राजप्रासादं प्राविशत्। अथ गच्छति काले राजा पुत्रगुणैः प्रेर्य्यमाण इव तं उदयनं यौवराज्ये समभ्यषिञ्चत् समादिशच्चमन्त्रिपुत्रान् वसन्तकं रुमण्वन्तंयौगन्धरायणञ्च तस्य मन्त्रित्वे। तदा च देवी अशरीरिणी वाण्युदतिष्ठत् यदेष एभिरेव मन्त्रिवरैःसमग्रां मेदिनीमुपभोक्ष्यत इति पुष्पवृष्टिश्चान्तरीक्षात्न्यपतत्। ततः पुत्रन्यस्त समस्तभरः स राजा तया मृगाङ्कवत्या सह चिरकाङ्क्षितं जीवलोक सुखमुपभुज्यक्रमेण जरामाससाद। अथैतत् सर्वमसारं मत्वा जगतामुदयाय पुत्रमुदयनं स्वे पदेनिवेश्य सचिवैः परिवृतः प्रियतमामादाय महाप्रस्थानाय हिमगिरिमगात् क्षितिपतिः।

इति दशमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721920397Screenshot2024-07-24072147.png"/>

अथ एकादशस्तरङ्गः।

ततः स उदयनः पितृदत्तं राज्यं प्राप्य कौशाम्ब्यामेवतस्यांस्थित्वा प्रजाः प्रजाइव स्वाः सम्यक् अपालयत्।

क्रमेण च स यौगन्धरायणप्रमुखेषु मन्त्रिषु राज्यधुरं समर्प्यसुखेष्वेव एकान्ततत्परा सदा मृगयां सिषेवे अवादयच्चतां वासुकिदत्तां तांघोषवतीं वीणाम्। तस्याञ्चबीणायाः कलनिर्ह्रादेन मोहमन्त्रेणेव वन्दीतान् वन्यान् मत्तद्विपान्संयम्य गृहमानयत्। वरनारी मुखाम्बुज प्रतिमालङ्कृता सुरा तं वत्सेश्वरं भृशमनन्दयत्। कुलेन रूपेण च मे अनुरूपा कन्या क्व केवलं वासवदत्ताभिधाएकाकन्या या कामनीया अस्ति कथं सा प्राप्येत इति चिन्तैव तमेकान्तमव्यथयत्। उज्जयिनीपतिश्चण्डमहासेनो नाम नृपतिरपि अचिन्तयत् ममदुहितुर्वासवदत्तायास्तुत्यो भर्त्तानैव भुवि विद्यते, केवलमेषः उदयनोऽस्ति स तु मद्विपक्षः, तत् कथं स मे जामाता वश्यश्च भवेत् एक एवात्र उपायोऽस्ति यदसौमृगयाविहारी एकाकी विरदान् बध्नन् विचरति, अनेन छिद्रेणयुक्त्याच तमवष्टभ्य गृहमानयामि, आनीतञ्च कौशलेन सुतया सह गान्धर्वविधिना सङ्गतं करोमि, एवं कृते अवश्यमेव अस्यां मे दुहितरि तस्य स्नेहः सन्भविष्यति, जामाता च क्रमेण मम वश्यः, नास्त्यन्योपायः येन से मनोरथः संसिद्ध्येत्।

इति संचिन्त्य स नरपतिश्चण्डिकागृहं गत्वा तामभ्यर्च्चतुष्टाव प्रार्थयामास च मनोरथसंसिद्धये। शुश्राव च अकस्मात् तत्रोत्थितां वाणीं राजन् ! अचिरात् ते मनोरथः संसेत्स्येतीति। अथासौ देवीवरेण सन्तुष्टःबुद्धदत्ताख्येन मन्त्रिणा तमेवार्थममन्त्रयत् मन्त्रिणोक्तंमानोन्नतेवीतलोभे रक्तभृत्ये महाबलेऽपि शत्रौ साम

प्रयोज्यं किं हि नाम साम्नान सिद्ध्येत्? इति मन्त्रिवचनात् स नृपः दूतमेकमादिशत् गच्छ त्वंकौशाम्बीं ब्रूहि च मद्वचनात् वत्सराजमिदं वचः, मत्पुत्री तव गान्धर्वशिष्या भवितुमिच्छति, यदि तेऽस्मासु स्नेहः स्यात् तदेत्य इह तां शिक्षय। इत्युक्त्वाप्रेषितः स दूतः कौशाम्बीमभ्येत्य वत्सराजाय तं सन्देशं न्यवेदयत्। वत्सराजोऽपि दूतमुखात् तदनुचितं वचः समाकर्ण्य रहसि यौगन्धरायणाय मन्त्रिणे समकथयत् तेन चण्डमहासेननृपेण मयि किमेतत् सन्दिष्टं सदर्पम्? कोऽभिप्रायस्तस्य दुरात्मन एवं सन्दिशतः? इत्युक्तः स महामन्त्री स्वामिहिते रतः यौगन्धरायणः समब्रवीत् राजन् ! भुवि लतेवते या व्यसनिताख्यातिः संरूढ़ा, इदं तस्याः कटुकं फलं सहि त्त्वां व्यसनिनं मत्वा कन्यारत्नेन लोभयन् वध्वास्वीकर्त्तुमिच्छति, तत् मुञ्च व्यसनानि, सुखेन व्यसनासक्तानृपाः परैर्निगृह्यन्ते खातेष्विव वनद्विजाः। इत्युक्तः सः वत्सराजस्तं चण्डमहासेनं प्रति प्रतिदूतं व्यसर्जयत् समादिशच्च यदि त्वत्पुत्र्यामम शिष्यतायां वाञ्छास्यात् तदिहैवैषा प्रेष्यतामिति। पुनश्चाब्रवीत् सचिवान् अथवा यामि चण्डमहासेनमिहबध्वातमानवानि। तदाकर्ण्यप्रधानतमः सचिवोयौगन्धरायणःप्रोवाच राजन् ! नचैतत् शक्यते युज्यते च प्रभो ! सहि प्रभाववान् नरपतिः, तव अस्वीकार्य्यश्च शृणु तावत् तद्वृत्तम्।

अस्ति उज्जयिनी नाम महानगरी भूषणमिव क्षितेः

हसन्तीव सुधाधवलैः प्रासादैरमरावतीं यस्यां महासेनाख्यः शिथिलितकैलासवाससुखः सदा शङ्करो निवसति। तस्याञ्च महेन्द्रवर्म्मानाम राजाधिराजः नरपतिरभूत्। तस्य जयसेनो नाम्ना सदृशःसुतः समजायत। तस्य चजयसेनस्य पुत्रः महासेनाख्यः अप्रतिमभुजबलः राजकुञ्जरःसंजज्ञे। स खलु महासेनः स्वराज्यं पालयन् अचिन्तयत् न मेखड्गोऽस्ति सुसदृशः न च मे कुलरूपानुरूपा भार्य्येति। एवं सञ्चिन्त्य स चण्डीगृहमगमत् अतिष्ठच्चनिराहारस्तामाराधयन् सुचिरम्। यदा च तथाविधया आराधनया काङ्क्षितं सुलभं नापश्यत् तदा स्वगात्रमांसानि उत्कृत्यहोममारब्धवान्। ततः प्रसन्ना सा चण्डिका साक्षात् तमभ्यधात् वत्स ! प्रसन्नास्मि ते साहसेन,गृहाणेमं खड्गोत्तमं मदीयम्।अस्य प्रभावात् त्वं शत्रूणामजेयो भविष्यसिअङ्गारकासुरसुताञ्च अङ्गारवतीं नाम त्रैलोक्यसुन्दरींकन्यां शीघ्रमवाप्स्यसि यस्माच्च अतीव चण्डंकर्म्म कृतं मत्तोषणाय, तस्मात्त्वं चण्डमहासेन इत्याख्यां गमिष्यसि। इत्युक्त्वासा देवी तस्मैखड्गंदत्त्वा तिरोऽभवत्। एवं तस्य स खड्गःतथा नड़ागिरिरिति ख्यातः मत्तहस्तीन्द्रः एते द्वे रत्ने दिवस्पतेः कुलिशैरावताविव विद्येते। तयोश्च प्रभावात् सर्वतः सुखी स नरपतिः कदाचित् मृगयार्थं महाटवीमगच्छत् ददर्श च तत्र अतिदीर्घकायं घोरमेकं वराहं दिवा एकान्ते स्थितं नैशं तमोराशिमिव। स वराहस्तीक्ष्णैरप्यस्यशरैराहतः स्यन्दनमाहत्य राज्ञः विलमेकमाविशत्। राजापि धनुर्द्वितीयः क्रुधा तमनु-

सरन् तत्र प्राविशत्। कियद्दूरं प्रविश्य च तत्र रम्यमेकं पुरं पश्यन् सविस्मयस्तदन्तर्वापीतटे निषसाद। ददर्श च तत्रस्थः कामपि कन्यकां शतनारीपरिवृतां सञ्चरन्तीं स्मरस्य विजयवैजयन्तीमिव। सापि प्रेमरसासारवर्षिणा चक्षुषा राजानं मुहुरापिबन्ती शनैस्तमवादीत् कस्त्वंभग ! कथञ्च इह प्रविष्टोऽसि साम्प्रतमिति। इत्युक्तेन राजा यथावृत्तमभिहिता सा कन्यका नेत्रयुगलात् सरागाप्तश्रुसन्ततिं हृदयाच्च धीरतां समममुञ्चत्।

का त्वंकस्यापि कल्याणि ! किमर्थं रोदिषि इत्येवं तेन पृष्टा सा प्रत्यवदत् महाभाग ! योऽयं दैत्यः वराहरूपी अत्र प्रविष्टः,असौ अङ्गारकाख्यः, अहमेतस्य कन्या अङ्गारवती नाम, अयञ्चासुरः पितामे वज्रसारमयः इमाश्च मम सख्यः राजपुत्र्यःराजगृहेभ्य अपहृत्य आनीता मम परिचर्य्यार्थंसमर्पिताः एव च शापदोषात् राक्षसीं योनिमाश्रितः, अद्य तु तृष्णापरीतः श्रान्तश्च स्वयं त्वां प्राप्यापि मुक्तवान्, इदानीञ्च त्यक्तवराहरूपः किञ्चित् विश्राम्यति, नूनं सुप्तोत्थितस्त्वयि पापमाचरिष्यति। इत्थं तव कल्याणमपश्यन्या मे सन्तापक्वथिता इव प्राणा वाष्पविन्दवश्च विगलन्तीति राजा तु तद्वाक्यमाकर्ण्य प्रत्युवाच सुन्दरि ! यदि तेऽस्ति मय्यनुग्रहः, तदिदं मे वचः क्रियतां त्वमस्य प्रबुद्धस्यपितुः सकाशं गत्वा रुदीहि नियतमसौतव रोदनहेतुं प्रक्ष्यतिततस्त्वया स इत्थंवाच्यः पितः ! यदि कश्चित् त्वां निपातयेत् तर्हि मम का गतिः, एतेन दुःखेन हि रोदिमि। एवं कृते तव च मम च क्षेमं भवि-

ष्यति। इत्युक्त्वासा तेन चण्डमहामेनेम भूभुजा, तथेत्यङ्गीकृत्य तञ्च राजानं प्रच्छन्नमवस्थाप्य पापसशङ्किनी प्रसुप्तस्य पितुरन्तिकमाससाद च, प्रबुबुधे च स दैत्यपतिः। अथ सा रोदितुमारेभे तत्समीपे। किं पुत्रि! रोदिषि इत्येवमभिहिता सा दैत्यराजेन कातराक्षी सगद्गदमब्रवीत्तात ! यदि कश्चित् त्वां हन्यात् तदा मे का गतिर्भवेदिति शङ्किता रोदिमि। स तु विहस्य किञ्चिदवोचत् वत्से ! को मां हन्तुमीष्ये, अहं वज्रमयः वामहस्ते मम छिद्रमस्ति तच्च धमुषा रक्ष्यते। दैत्येन तेन इत्थमाश्वास्यमानां तां स राजा प्रच्छन्नवर्त्ती शुश्राव। ततः क्षणेनोत्थाय स दैत्यः कृतस्नानःकृतमौनः शङ्करं देवमाराधयितुमुपचक्रमे। अत्रान्तरे च स राजा गृहीतकार्मुकः सम्मुखीभूय सहसा रणाय तमाजुहाव। दानवोऽपि मौनितया वामं करमुत्क्षिप्य क्षणं प्रतीक्षस्वेति तस्य राज्ञः संज्ञामकरोत्। राजा तत्सङ्केतमविगणज्य लघहस्ततया तस्मिन्नेव करे तत्क्षणं शरप्रहारमकरोत्। प्रहृतमात्रञ्चस महासुरः घोरं रवं कृत्वा भूमौ पतन् निजगाद येनाहं तृषितो हतः स यदि प्रत्यक्षं अग्निर्मान तर्पयेत् तदा तस्य पञ्च मन्त्रिणः नश्येयुरित्युक्त्वापञ्चत्वमगमत्। राजापि तस्यसुतामङ्गारवतीं गृहीत्वा उज्जयिनीं प्रत्यागमन्। आगत्य च तां दैत्यकन्यकां परिणीतवतस्तस्य द्वौसुतौ सञ्जातौ, एको गोपालको नाम, द्वितीयः पालकाभिधः। तयोश्च जन्मनि राजा इन्द्रमहोत्सवं कृतवान् तेन च सन्तुष्टो देवराजः स्वप्ने तमुवाच राजन् ! मम

प्रसादेन निरुपमामेकां सुतां प्राप्स्यसीति। अथ कालेन राज्ञःअपूर्वैका सुता संजज्ञे।तदा च आकाशाद्वाणीउच्चचार अस्याः पुत्रः कामदेवावतारः विद्याधरचक्रवर्त्ती भविष्यतीति। यतः सा तुष्टेन वासवेन दत्ता, तस्मात् तां नाम्ना वासवदत्तां चकार पिता। सेदानीं पित्रा दात्यमाना अर्णवाभ्यन्तरे कमलेव पितृगृहे अवतिष्ठेत। देव ! एवं प्रभावः स राजा चण्डमहासेनः दुर्गदेशस्थितः यथा तथा न जेतुं शक्यते। स च मानी निजपक्षमहोदयंप्रार्थयन् तुभ्यमेव तां कन्यां दातुमभिलषति। मन्ये सा त्वयैव परिणेया भविता नान्येन इति एवं मन्त्रिवरस्य यौगन्धरायणस्य वचसा स खलु वत्सराजः वासवदत्ताहृतहृदय एव कथञ्चिदवतस्थे।

इति एकादशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721977127Screenshot2024-07-24072147.png"/>

अथ द्वादशस्तरङ्गः।

अत्रान्तरे वत्सराजप्रेषितो दूतः उज्जयिनीमासाद्य चण्डमहासेनाय प्रतिसन्देशमकथयत्। चण्डमहासेनश्च तदाकर्ण्य व्यचिन्तयत् वत्सराजः अतीव मानी नात्रायाति कन्यापि मया न प्रेषणीया तथात्वे लाघवं भवेत् तस्मात् कौशलेन तं बध्वानृपमिहानेष्यामि। इति सञ्चिन्त्य मन्त्रिभिः स राजा महान्तं यन्त्रहस्तिनमकारयत् न्यदधाच्च तं वीरपुरुषैश्छन्नैरन्तरधिष्ठितं विन्ध्याटव्याम्। तत्र गजवधव्यसनिनो वत्सराजस्य चारपुरुषाः दूरतः तं मायागज-

मपश्यन् व्यजिज्ञप॑श्च त्वरितमागत्य तं वत्सभूपतिम् देव! विन्ध्याटव्यां भ्रमन्नेको गजोऽस्माभिर्दृष्टः, अस्मिन् लोके नैव तादृक्चर्म्मणाव्यापगगनो विन्ध्याद्रिरिव जङ्गमो दृश्यते। तच्चचाररावः सप्ताकर्ण्य वत्सनृपतिरतीव जहर्ष ददौ व तेभ्यः सुवर्णलक्षं पारितोषिकम्। चिन्तयामास च यद्येनंगजेन्द्रं नड़ागिरेः प्रतिमल्लंप्राप्स्यामि तदा चण्डमहासेनं वशतानानेयामि नूनं,ततोऽसौ मय’ वासवदत्तां स्वयं प्रदास्यति।एवं चिन्तयन्नेव तां निशामनैषीत्। अथ प्रातरेवमन्त्रिणां वचनानि अनादृत्य गजतृणाक्रान्तचित्तः प्रस्थानलग्नस्य फलं गणकोक्तं कन्यालाभं सबन्धनमगणयत्तानेव चारात् पुरस्कृत्य विन्ध्याटवीमगात्। गत्वा च तत्र गजस्य भयपलायनशङ्कया स्वसैन्यानि दूरे निवेश्य चारमात्रसहाय एवं तां घोषवतीं वीणां दधत् महारण्यं विवेश। प्रविष्टश्चदूरात् तस्याद्रेर्दक्षिणे पार्श्वे चारैःदर्शितं सत्यगजाभासं तं मायागजंव्यलोकयत्। दृष्ट्वैव स भूपतिरेकाकी वीणां वादयन् मधुरं गायन् बन्धनानि च चिन्तयन् शनैस्तमुपजगाम। सन्निहितो राजा गान्धर्वव्यापाराशक्ततया सन्ध्यान्धकारार्विभावेन च तंवनगजमेव न तु मायागजमलक्षयत्। सोऽपि इस्ती गीतरमादिव उत्कर्षतालः आसन्नतरमेव विचरन् तंनृपं दूरमाचकर्ष।

इत्थं सदूरमाकृष्टञ्चतं भूपतिं तम्मात् यन्त्रगजात् सहसा निर्गत्य कतिपये सन्नद्धाः धीराः समन्तात् पर्य्यवारयन्। तांश्च दृष्ट्वावत्सराजः कोपात्,आकृष्टकृपाणः

अग्रस्थान् योधयन्नेव पश्चादागतैःवीरैरगृह्यत।अथ तेसहेतमिलितैरन्यैश्चयोधैः पतिवृतास्तं वत्सभूपतिं गृहीत्वा चण्डमहासेनान्तिकमानिन्युः। सोऽपि चण्डमहामेनः समागत्य कृतादरः तेन वत्सेश्वरेणसमं स्वांपुरीमुज्जयिनीं विवेश। प्रविशंश्च वत्मनाथः पौरैरवमानकलङ्कितःशशीव लोचनानन्दो नवागतो ददृशे चक्रे च मरणनिश्चयः तस्य गुणानुरागिणाबद्धैर्मिलितैःसर्वैः बधमाशङ्कमानैः। सोऽपि चण्डमहासेनः नासो वत्सेश्वरोमम बध्यः केवलं Xइति उक्त्वातान् क्षुब्धान्पौरान् तस्मादध्यवसायात् न्यवारयत्। अथ महीपतिर्वत्सराजाय तां सुतां वासवदत्तां गान्धर्वशिक्षायेसमर्पितवान्। उक्तवांश्च तं भूपमुदयनं प्रभो ! त्वमेतां मत्सुतां गान्धर्वं शिक्षय, ततः क्षेममवाप्स्यसिमा विषादं कार्षीरिति।

वत्सराजस्तु तां कन्यां दृष्ट्वा स्नेहाक्तहृदय एवासीत् न च X। तस्याश्चचक्षुर्मनसा सहैव तं प्रति जगाम, परं हित्वा चक्षुर्निववृते, मनस्तु न कथञ्चन। ततो वत्सराजस्तद्गतमानसः तां कान्तां गापयन् तस्यामेव गान्धर्वशालायामुवास। अङ्के सा घोषवती वीणा, कण्ठे गीतश्रुतिः, पुरतः वासवदत्ता एतत्त्रयमेव तस्य चित्तमनन्दयत्। सापि वासवदत्ता लक्ष्मीरिवानपायिनी वद्धस्यापितस्य परिचर्य्यापराअभवत्।

अस्मिन्नेवावसरेवत्सराजानुगामिनि जनसङ्घे कौशाम्ब्यांप्रत्यावृते तं प्रभुंवद्धं ज्ञात्वा सर्वमेव राष्ट्रं प्रभुध्वमभवत्। क्रुद्धाश्चप्रकृतयः वत्सराजानुरागिण्यःउज्ज

यिनीमवरोद्धुंसमन्ततः ऐच्छन्। रुमण्वांस्तु महामतिः समुद्यतांस्तान् जनान् न्यवारयदवादीच्च स हि चण्डमहासेनः नैव बलसाध्यः, यतः स महान्, तथात्वे च वत्सराजस्य शारीरकुशलं नैव भवेत्, तस्मात् सहसा नैवास्कन्दो युज्यते, बुद्ध्या कौशलेन चैतत्प्रतिसमाधेयमिति। अथ धीरप्रकृतिः महामन्त्री यौगन्धरायणः राष्ट्रं तत् अनुरक्तमव्यभिचारि चाकलय्य रुमण्वदादीन् मन्त्रिमुख्यानाह स्म इहैव युष्माभिः सततोद्युक्तैःस्थातव्यं राष्ट्रं हि प्रथमतः रक्षणीयं ततः काले विक्रमः कार्य्यः। अहन्तु वसन्तकेन सहायेन तव गत्वा कौशलेन प्रज्ञया च वत्सेशं मोचयित्वा आनयामि। यस्य प्रज्ञा आपद्यपि जलवर्षणेऽपि वैद्यताग्नेर्द्युतिरिव विशेषेण स्फुरति स एव धीरः। अहं हि प्राकारभज्जनान् निगड़भञ्जनान् प्रदर्शनप्रयोगांश्च यथायथमुपयोगिनः जाने इति। एवमुक्त्वाप्रकृतीः सर्वाः रुमण्वतः हस्ते समर्प्य सवसन्तकः कौशाम्ब्यानिरगात्। प्राविशश्च विन्ध्याटवीं स्वनीतिमिव दुर्गमाम्। तत्र च वत्सेश्वरमित्रस्य विन्ध्यप्राग्भारवासिनः पुलिन्दकनाम्नः पुलिन्दाधिपतेः गृहमगमत्। अस्थापयच्च तं सज्जं बहुसैन्यसमन्वितं आगमिष्यतस्तेन पथा वत्सराजस्य रक्षणाय। ततश्चासौ क्रमेण वसन्तकेन सह उज्जयिन्यां महाकालाख्य श्मशानं क्रव्यगन्धिभिर्वेतालैरितस्तत स्तमःश्यामलैर्जङ्गमैश्चताधूमैरिव परिव्याप्तमासदत्। तत्र योगेश्वरो नाम कश्चित् ब्रह्मराक्षसस्तस्ययौगन्धरायणस्य दर्शनेन प्रीतः समुपेत्य तं मित्रभावेन समाहृतवान्। तदुपदिष्टया च युक्त्या यौगन्धरायणः

सद्य एवात्मनः रूपविपर्य्ययंकृतवान्। तेन च सविकृतः कुलजःवृद्धः उन्मत्तवेशश्चलोकानां हास्यवारस्तत्क्षणमेवसमजनि। तौ च युक्त्यावसन्तकमपि शिरानद्वं महोदरं दन्तुरं दुर्मुखञ्च चकार। अद्यप्रागेववसन्तकं राजद्वारं प्रेष्य स्वयं पश्चात् नगरीं प्रविवेश। प्रविष्टश्च नृत्यन् गायंश्च सकौतुकं सर्वैः बहुभिः परिवृतः दृष्टश्च पुरवासिभिः राजप्रासादमभिगलक्ष्य ययौ। क्रमेण च सर्वासामेव राजान्तःपुरिकाणां वासवदत्तायाश्चसकौतुकः स श्रवणगोचरतामगात्।xxxxxxxxxxxxxxxxxx।सोऽपि राजातंबेशच्छन्नमागतं महापात्रंमन्त्रिमुख्यंप्रत्यभिज्ञातवान्। ततः क्रमेण युक्तिबलाद् तां वासवदत्तां तस्याश्च चेटीः सर्वाः प्रति आत्मनोऽदर्शनं व्यधात्। केवलमेको नृपतिस्तं ददर्श। ताश्च सर्वाः सविस्मयमवदन् क्व गतोऽसौ सहसा उन्मत्त इति तदाकर्ण्य दृष्ट्वाचाग्रे तं यौगन्धरायणं मत्वा च सर्वं योगबलकृतं तां वासवदत्तामब्रवीन्नरपतिः। सुन्दरि ! त्वमितो गत्वा सरस्वतीपूजाद्रव्यमादाय आगच्छ।

तदाकर्ण्यसातथेत्युक्त्वासवयस्या तस्मात् गृहात् निरगात्। प्रविष्टश्च तमेवावसरं प्राप्य असौ यौगन्धरायणः तस्मै वत्सराजाय निगड़भञ्जनान् योगान् अददात् अन्यांश्च वासवदत्तायाः वीणातन्त्रीनियोजितान् वशीकरण-

योगांश्च। न्यवेदयच्चराजन् ! इह वसन्तकः समायातः; द्वारि तिष्ठत्यसौ रूपान्तरप्रतिच्छन्नः, तमिहान्तिके समानेतुमर्हसि। यदा तु वासवदत्ता त्वयि विश्वासं गमिष्यति तदा यदहं वक्ष्यामि तत्कुर्य्याः, साम्प्रतमिह तिष्ठ। इत्युक्त्वासौतस्यां गान्धर्वशालाया निर्ययौ। वासवदत्ता च पूजामादायतत्क्षणमगात्। अथ तां वत्सराजोऽवदत् दारिके ! बहिर्द्धारि द्दिजः कश्चित् यदि तिष्ठति तदा तस्मै सरस्वतीपूजाया दक्षिणां दातुमिह प्रवेश्यताम्। तथेत्युक्तया तथा द्वारदेशात् विरूपाकृतिरसौवसन्तकः समानायि। स चानीतः प्रभु दृष्ट्वाशुचारोदीत् राजा तुतंमन्त्रभङ्गभिया निजगाद् ब्रह्मन् ! तवेदं रोगवैरूप्यं भेषजेन निवारयामि मा रोदीः तिष्ठेह मम सन्निधौ। महान् प्रसादोऽयं देव इति सोऽब्रवीत् वसन्तकः। राजा च तं तथा विरूपं दृष्ट्वा स्मितमुखोऽभूत्। सोऽपि तस्याशयं विदित्वा समधिकवैरूप्यं दर्शयन् हसति स्म। वासवदत्तापि तं तथा हसन्तं क्रीडनकसदृशं दृष्ट्वाजहासतुतोष च कथयामास च कौतुकेन, भो ब्रह्मन् ! किमपि विज्ञानं विदितं तं कथ्यताम्। सोऽवदत् देवि ! कथाः कथयितुं जानामीति। अथ सा कथय तर्हि कामपि कथामिति न्यगादीत्। ततः सः वसन्तकः तां राजसुतां रञ्जयन् हास्यवैचित्रा रुचिरां कथामवर्णयत्।

अस्ति मथुरा नाम नगरी। तत्र कंसनिसूदनार्थं भगवान् नारायणः प्रादुरासीत्। तस्यां रूपिणिका नाम काचित् प्रख्याता यथार्थनाम्री वारविलासिनी आसीत्।

मकरद्रंष्टाभिधाना तस्या माता वृद्धकुट्टनी स्थिता।कदाचित् पूजासमये देवगृहं गता सा रूपिणिका कञ्चित् सुन्दरं युवानमवलोकितवती। सपुरुषः दृष्ट एव तस्याहृदयमाविशत् मात्रा दत्ता उपदेशास्तुतस्या निर्ययुः। अथ सा चेटीमब्रवीत् गच्छ मद्वचसा अमुं पुरुषं ब्रूहि अद्य त्वया मम गृहे आगम्यतामिति। चेटिका च यथोदिष्टमकरोत् ततः स ब्राह्मणयुवा किञ्चित् विमृशन् तामवादीत् भद्रे ! लोहजङ्घःनामास्मि ब्राह्मणः, नास्ति मे धनं तदाढ्यजनयोग्ये रूपिण्यागृहे कोऽहं? अस्मत् स्वामिनी न त्वत्तो धनमभिलषतीति तयोक्ते स लोहजङ्गः तथेति प्रतिपेदे। ततः सा रूपिणिका चेटीमुखात् सर्वं श्रुत्वासमुत्सुका स्वं गृहमगात् अतिष्ठच्चतदागमनकाङ्क्षया तन्मार्गदत्तदृष्टिः। एतस्मिन्नेव काले लोहजङ्घः तस्या मन्दिरमागमत् परं कुट्टनी तु कुतोऽयमिति मकरदृष्ट्या समदृश्यत। रूपिणिका तु दृष्ट्वास्वयमुत्थाय आदरवती हृष्टा च तं कण्ठे लग्ना वासगृहान्तरमनयत्। तत्र सा लोहजङ्गेनोप्रभुज्यमाना नितरां तद्वशवर्त्तिनी जन्म सार्थकममन्यत। स च युवा निवृत्तान्यसङ्गयातयासह यथासुखं तमन्दिर एव तस्थौ। तद्दृष्ट्वा माता मकरदंष्ट्रा विफलमनोरथा खिन्नमनाः रहसि रूपिणिकामब्रवीत् पुत्रि ! कथमयंनिर्धनः पुरुषः सेव्यते? सांधवः शठं न स्पृशन्ति गणिकाश्च निर्धनमपि न। क्वानुरागः क्व च वेश्या, कथं त्वया सर्व विस्मृतम्? वत्स ! सन्ध्येव रागिणी वेश्या न चिरं दीप्यते। गणिका नटीव कृत्रिमं प्रेम दर्शयित्वा अर्थमा-

हरेत्। तदेनं त्यज निर्धनं मनो नाशमाकार्षीः। इति मात्राभिहिता रूपिणिका रोषपरा अब्रवीत् मातः ! मैवं वादीः एषहि मम प्राणेभ्योऽपि प्रियतरः मम च बहु धनमस्ति किमन्येन तदेवं पुनर्नवक्तव्यंत्वयेति। तदाकर्ण्यसा दुष्टकुट्टनी कुपिता लोहजङ्घस्य निर्वासनोपायं विचिन्वती तस्थौ।

एकदासौ मकरदंष्ट्राकञ्चित् क्षीयधनं पथिविचरन्तं शस्त्रपाणिभिः पुरुषैः परिवृतं राजपुत्रमद्राक्षीत् उपगम्य चाब्रवीत् तमेकान्ते, राजपुत्र ! निर्धनेन केनचित् यूना मम गृहमाक्रान्तं तत् त्वमागच्छ मद्गृहं यथा च स मद्गृहात् निवर्त्तेत तथा कुरु, भजस्व च ममरूणिदिकामिति। राजपुत्रोऽपि तथेत्युक्त्वातस्या गृहं प्राविशत्। तस्मिंश्चकाले रूपिणिका देवगृहमगात्। लोहजङ्घोऽपि क्वापि बहिः स्थितः तत् कालं निःशङ्कमेव गृहमाययौ। आगच्छंश्चच राजपुत्रस्य अनुचरैः पादप्रहाराद्यैःसर्वेष्वेवाङ्गेषु दृढ़मताडयत। ततस्तैरेव क्वापि अमेध्यपूर्णे खाते निक्षिप्तो लोहजङ्घःकथमपि प्राणान् रक्षन् पलायितः।

अत्रान्तरे समायाता रूपिणिका तद्विदित्वा शोकसन्तप्ताअभूत्। तद् दृष्ट्वा राजपुत्रोऽपि ययागतमगात्। लोहजङ्घोऽपि कुट्टन्यातथावमानितः प्राणांत्यक्तुं तीर्थं गन्तुं प्रववृते। गच्छंश्च अटव्यां कुट्टनीमन्युनाग्रीष्मेण च सन्तृप्तः छायामभिलषन् तरुमप्राप्य कश्चित् हस्तिकलेवरमाससाद। तच्च जम्बूकनिष्कुषितं निर्मांसं दृष्ट्वा

जघनेन प्रविश्य चर्म्माविशेषे तस्याभ्यन्तरे प्रविशद्वातशीतले परिश्रान्तः निद्रां ययौ।

अत्रान्तरे सहसा समन्तात् समुत्थितैः मेघमण्डलैर्गगनमण्डलं समाच्छन्नमभूत्। प्रववृते च तत्र महान् धारासम्पातः। तच्च हस्तिचर्म्मअनवरतजलपातेन निर्विवरं सङ्कोचमवाप। क्षणे च तस्मिन् अतिमहती वन्या प्रादुरासीत्। तथा च नीयमानं तत् गजचर्म्मगङ्गास्रोतसि प्रक्षिप्तं गङ्गास्रोतसा चातिमहत्यासमुद्राभ्यन्तरं नीतम्। अत्र कश्चित् गरुड़वंशभवः पक्षी तत् भासमानं चर्म्मदृष्ट्वा आभिषशङ्कया स्रोतसः समुद्धृत्य चञ्चुपुटेन सागरपारमनयत्। तत्र च तत् चञ्च्वा विदार्य्यतत्रस्थं मानुषमेकं जीवितं विलोक्य त्यक्त्वाच उत्पपात। ततस्तस्मात् पक्षिचञ्चुकृतात् द्वारात् पक्षिसंरम्भबोधितोऽसौ लोहजङ्घः निर्जगामः। सहसा चात्मानं समुद्रपारस्थमालोक्य सविस्मयः ऐन्द्रजालिकमिव तत् समग्रममन्यत। अथ तत्र द्वौराक्षसौसहसा समुपस्थितौविलोक्य भयमाविशत्। राक्षसौ च तौदूरात् चकितौ तमपश्यतां अकुरुताञ्च हृदि भयं रामात् पराभवं स्मरन्तौ तंतथाम्बुधिपारगमवलोकयन्तौ। तयोश्चैकः सम्मन्त्र्यतदैव गत्वा विभीषणाय राज्ञे यथादृष्टं न्यवेदयत्। सोऽपि राक्षसाधिपतिर्दृष्टरामप्रभावः मानुषागमनात् त्रस्यन् तं राक्षसमब्रवीत् गच्छ मद्वचनात् तं मानुषं प्रीत्या ब्रूहि, आगम्यतामस्मद्गृहं क्रियतां प्रसाद इति।

स च राक्षसस्तथेत्युक्त्वाआगत्य सर्वं स्वप्रभुवचनं लोह-

जङ्घायसमभ्यधात्। सोऽपि लोहजङ्घः प्रशान्तमनाः तथेति अङ्गीकृत्य ताभ्याञ्च राक्षसाभ्यां सह लङ्कामगमत्। तस्याञ्च काञ्चनमयप्रासाददर्शनविस्मितः राजभवनं प्रविश्य विभीषणं राक्षसपतिं व्यलोकयत्। सोऽपि राजा कृतातिथ्यः कृताशीर्वादं तं ब्राह्मणं पप्रच्छ ब्राह्मन्! कथमत्रागत इति सोऽपि धूर्तोऽब्रवीत् अहं विप्रः मथुरानिवासी लोहजङ्गो नाम। अहं द्रारिद्रासन्तप्तः कदाचित् देवकुलं गत्वा तत्र श्रीमन्नारारायणसमीपे निराहारस्तिष्ठन् घोरं तपो अवतिष्ठम्। एकदा स भगवान् विभीषणसकाशं याहि, मद्भक्तः स ते धनं दास्यतीति स्वप्ने मां समादिशत्। मया च क्वाहं क्व च विभीषण इत्यक्ते पुनः स एव देवः समाख्यत् गछ अद्यैवविभीषणमवाप्स्यसीति इत्युक्तोऽहं तेन प्रभुणा सहसाप्रबुद्धः इहाम्बुधेःपारेऽवस्थितमात्मानं व्यलोकयं नान्यत् किञ्चित् वेद्मीति। लोहजङ्घेनेत्यक्तोविभीषणः दुर्गमां लङ्कामाकलय्यसत्यमयं यथा वदतीति सममन्यत। अथ तिष्ठ ते वित्तं दास्यामीत्युक्त्वातं ब्राह्मणं नृधातिनां अदृष्टं कृत्वा राक्षसानां रहसि समरचत् आनाययच्चतत्रस्थात् स्वर्णमूलाभिधात् गिरेः गरुड़वंशसम्भवं पक्षिणमेकं राक्षसैः। आनीतञ्च तं मथुरायां गमिष्यते लोहजङ्घाय वाहनीकर्त्तुंवशीकरणाय समर्पयत। लोहजङ्घोऽपि तं पक्षिणं वशमानीय विभीषणार्च्चितस्तस्यामेव लङ्कायां तमधिरुह्य वाहनमितस्ततोवाहयन् कियन्तं कालमुवास।

एकदा स समुत्सुकः तं राक्षसेन्द्रमुवाच कथं लङ्काभूमिरियं समन्तात् काष्ठमयीति तदाकर्ण्य सोऽवदत् ब्रह्मन् ! यदि ते कुतूहलं श्रूयतां कथयाम्येतद्वृत्तान्तम्।

पुरा किल कश्यपात्मजः गरुत्मान् प्रतिज्ञाहेतोर्नागानां दास्यमुपगतां जननीं विनतांनिष्कृष्टुमिच्छन् तन्मूखीकृतां सुधां देवोयः सकाशादाहर्तुं उद्यतः पथि बलसाधनार्थं भक्ष्यार्थी पितृसकाशमगात्। सचाभ्यर्थितःसमब्रवीत् गच्छ पुत्र! भुङ्क्ष्वमहान्तौगजकच्छपौअब्धिस्थितौ शापभ्रष्टौ। ततः स गरुड़ तत्र गत्वा तावादाय गजकच्छपौयुध्यमानौमहतः कल्पवृत्तस्य छायायां समुपविशत्। आत्मनः भारातिशयाच्च तां शाखां भग्नां विलोक्य तत्र लम्बमानान् तपोनिष्ठान् बालखिल्यान् रक्षन् चष्ट्वा धृत्वा पुनः पितुः सकाशमगमत् लोकोपमर्द्दो माभूदिति तेन पित्रादिष्टः इह विजने तां शाखां प्रत्यासीत्। तस्याश्च पृष्ठे एषा लङ्का निर्मिता तदादिह भूःकाष्ठमयीति एतदाकर्ण्य विभीषणं वचःस लोहजङ्घःसन्तोषनियाय।

अथ विभीषणः मथुरां जिगमिषवे तस्मैसुबहुनि महार्घाणिरत्नानि तथा देवस्य मथुरावर्तिनः नारायणस्य भक्त्या अस्य हस्ते हेममयान् चक्रगदापद्मशङ्खाश्चप्रादात्। स च तत्सर्वं गृहीत्वा तञ्चयोजनशतप्रयातारं विहङ्गराजमारुह्य व्योममार्गेण तीर्थसागरः सद्यएव मधुरामगमत्। तस्याश्च शून्ये बाह्ये विहारे व्योम्नः अवतीर्य्यतं रत्नराशिंस्थापयामास बबन्ध च तं पक्षिणम्। अथ गत्वा चापणंरत्नमेकं तत्र विक्रीय वस्त्रालङ्कारादिकं

नानाविधं भोजनीयञ्च क्रीतवान्। आगत्य च तस्मिन्नेव विहारे तत् भुक्त्वादत्त्वा च पक्षिणे तदुपयुक्तं द्रव्यं वस्त्राङ्गरागैरात्मानमभूषयत्।

अथ प्रदोषे तमेव विहगराजमारुह्य ताः शङ्खचक्रगदाः वहन् तस्या रूपिण्या गृहं प्रययौ। तत्र उपरिस्थितः स्थानज्ञः स लोहजङ्घःरहसिस्थितां सम्बोधन् गम्भीरं शब्दमकरोत्।

तमाकर्ण्य निर्याता सा व्योम्नि रत्नालङ्कृतं नारायणमिव तमपश्यत् निशि रूपिणिका। अहं हरिरिह त्वदर्थमायात इत्यभिहिता सा तं प्रणम्य दयां करोतु देव इति प्रत्यवोचत् अथावतीर्य्यगगनात् लोहजङ्घस्तं विहङ्गमं कुत्रचित् संयम्य तयाकान्तया सह तद्वासभवनं प्रविवेश। तत्र च प्रियांसम्भुज्य यथा कामं निशावशेषे निष्क्रम्यतमेव विहगमारुह्य नभसा जगाम। अथ स्नातः सा रूपिणिका देवताहं विष्णुभार्य्यामर्त्यैः सह नालपामि इति मौनमास्थाय तस्थौ अथ सा मकरद्रंष्टाकस्मादेवं मौनमास्थीयते पुत्रि ! कथ्यतामिति तामपृच्छत्। निर्बन्धपृष्टाच तिरस्करिणीं स्थापयित्वा तस्यै सर्वं रात्रिवृत्तान्तंमौनकारणमवादीत्। सा तु कुट्टनी तदाकर्ण्य सन्दिहाना निशि एकान्ते स्थित्वा तं विहगारूढमागतं लोहजङ्घमपश्यत्। अथ प्रभाते सत्यमेव तन्मन्यमाना पटान्तःस्थां रूपिशिकामभ्येव्य अवनता समभ्यधात्पुत्रि ! देवस्य अनुग्रहात् त्वंदेवी मम पुत्री जाता, अहन्तु तव जननी, तन्मे सुताफलं देहि, यथाहं हत्वा अनेन देहेन स्वर्गं ब्रजामि, तथा देवाय विज्ञापय

अनुगृहाण मामिति। रूपिणिका च तं मातुरभिप्रायं कपटविष्णवे तस्मै समागताय नक्तं व्यजिज्ञपत्। तथेत्युक्तः स लोहजङ्घोविहस्याब्रवीत् प्रिये! पापीयसी ते जननी, नास्याः स्वर्गे अधिकारिता परमेकादश्यां प्रातः दिवः हारमुद्घाट्यते, तत्र वहवः शिवानुचरा गणाः अग्रेप्रवेक्ष्यन्ति तेषां मध्ये तद्वेशधारिणी ते माता प्रवेशयितुं शक्यते,तदस्याः पञ्चचूड़ं क्षुरमुण्डितं शिरः कण्ठंअस्थिमालाधरं पार्श्वमेकं कज्जलालङ्कृतं अन्यत् सिन्दूरलिप्तञ्चकुरु वीतवसनायाः।तवाकृते गणाकृतिमेनां सुखेन स्वर्गं नेष्यामि।इत्युक्त्वास लोहजङ्घः क्षणं स्थित्वा यथामतमगात्। प्रातश्च तथा कृतयथोक्तवेशा सा कुट्टनी स्वर्गोन्मुखी तस्थौ। लोहजङ्घश्चपूर्ववत् निशायां तत्राययौ। सा च वारयोषित् मातरं तथा कृतां तस्मै समर्पयत्ततः सःपक्षिराजारूढःतां कुट्टनीं विकृतवेशां नग्नामादाय जवात्नभोमण्डलमुत्पपात। ददर्श च गगनस्थ एव देवमन्दिराग्रतः प्रांशुं उपरि चक्रलाञ्छितं शिलास्तम्भमेकं न्यवेशयच्च तस्य स्तम्भस्यपृष्ठे चक्रमात्रालम्बे तां खलीकारप्रतीकारपताकामिव। इह क्षणं तिष्ठ यावदहं भुवि कमपि अनुगृह्यआगच्छामि इत्युक्त्वा तांतस्या दृष्टिपथात् निर्ययौउवाच च तत्र गगने एव स्थितः देवाग्रे रात्रौ यात्रोत्सवदर्शनार्थंसमागतान् नागरिकान् हे पौराः ! युष्माकमुपरि अद्य सर्वसंहारिणी काचित् नारी पतिष्यति अवहिता भवत हरिं देवं शरणं व्रजत च। ताञ्च गगनात् समुत्थितां वाणीमाकर्ण्य सर्वे एव माथुराः भयविह्वला

देवमाश्रित्य स्यस्त्ययनं चक्रः। सोपि लोहजङ्घः गगनादवतीर्य्य तं देववेशं विहाय अलक्षितस्तत्रैव विवेश। स्तम्भपृष्ठवर्तिनीकुट्टनी तु अद्यापि देवो नायातः, नचाहं स्वर्गं गता इति चिन्तयन्ती हा हा पतितास्मि अहं अक्षमा सम्प्रति अत्र स्थातुमिति तत्रत्यात् श्रावयन्ती भयत्रस्त्रा चक्रन्द। हे देवि ! मा मा पत इति देवनिकेतनस्थाःपुरुषा उच्चैरूचुःनित्युक्त सबालवृद्धवनिताः नारीपातभयोद्विग्ना तां रजनीम्।

अथप्रातः सर्व्वोनागरिको जनः सह नृपतिना तत्रागात्य तां तथाविधां स्तम्भपरिवर्त्तिनीं कुट्टनींप्रत्यभिजानात्। रूपिणिका च श्रुतवृतान्ता तत्रवीतभयेषु हसत्सु जनेषु समाययौ अवतारयामास च तत्रस्यैर्जैनैस्तां मातरं स्तम्भाग्रात्। अत्र सर्वैरेव जनैः पृष्टा सा यथावृत्तं सर्वमकथयत्। ततः सर्वा राजपरिजनाः माथुरा अद्भुतहास्यकरंसिद्धचरितं तमन्यमानाः परस्परमब्रूवन्येन इयं वञ्चिताxxका कुट्टनी विप्रलब्धा,स प्रकटोऽस्त तस्येह च पट्टबन्धो विधीयताम्।तदाकर्ण्य लोहजङ्घःसहसा आत्मानमदर्शयत् स्पृष्टश्चावर्णयत् आमूलतोवृत्तान्तम्। अथस विभीषणप्रदत्तं शङ्खचक्राद्युणयनं देवाय समर्पितवान् सविस्मयेन जनेन दृश्यमानम्। अथ राजादेशेन सर्वे माथुराः सपदि तस्य पट्टंबध्वासन्तुष्य च तां रूपणिकां स्वाधीनां चक्रः।लोहजङ्घोऽपि एवं कुट्टनीनिकारमन्युं प्रतिकृत्य बहुरत्नसञ्चयेन समृद्धकोषस्तामेव कान्तां प्राप्ययथासुखं न्यवसत्।

विकृतरूपस्य वसन्तकस्य मुखात्कथामिमामाकार्ण्यबद्धस्यवत्सराजस्य समीपे वासवदत्तया परमः परितोषो लेभे।

इति द्वादशस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1722264415Screenshot2024-07-24072147.png"/>

अथत्रयोदयस्तरङ्गः।

अथसा वासवदत्ता क्रमेण पितृपक्षविमुखी वत्सेश्वरं प्रति गाढ़मनुरागवती बभूव। ततो यौगन्धरायणः तिरष्करिणीप्रच्छन्नः अन्यैर्जनैरलक्षितः वत्सराजमुपजगाम। व्यजज्ञपच्चतमकान्ते वसन्तकसन्निधौदेव! चण्डमहासेनेन भवान् मायया वद्धः।अयं सुतां दत्त्वा सम्मान्य च त्वां मोक्तुमिच्छति। तदस्य तनयां स्वयं हत्वा वयं गच्छामः तथाकृते अस्य दृप्तस्य प्रतीकारो भवेत् अनुग्रहलाभे अस्माकं लाघवम्। राजन् ! वासवदत्तायाः पितृदत्ता भद्रवती नाम करेणुका अस्ति, सा हि अन्येन दन्तिना वेगेन अनुगन्तुं न शक्या विना नड़ागिरिं गजेन्द्रम्।स तां करेणुकां दृष्ट्वानैव युज्यते अस्याश्च करेण्वाआषाढको नाम हस्त्यारोहोऽस्ति स मया, बहु धनं दत्त्वा वशीकृत्य स्थापितः। तस्मात् सह वासवदत्तया तां करेणुनारुह्य सशस्त्रेण नक्तं इतः प्रस्थातव्यम्, अत्रत्यो महामात्रश्च गजेङ्गितविदपि मद्येन तथा क्षीवतां नेष्यते यथा नैतत् किमपि ज्ञातुं शक्यते। अहञ्च अग्रतः पुलिन्दकस्य तव सख्युः सकाशं गच्छामि, मार्गरक्षार्थमित्युक्त्वाअसो

यौगन्धरायणः प्रायात्। वत्सराजोऽपि तत्सर्वंकार्य्यजातं मनसि समवधारत्। अत्रान्तरे वासवदत्ता वत्सराजसकाशमभ्यागमत्। राजा तु तया सह विविध विश्रम्भालापं कृत्वा तत् सर्वं यौगन्धरायणोक्तं तस्यैशशंस।सा च गमनं प्रति यथोक्तं प्रतिपद्य आषाढकं नाम हस्त्यारोहमानाय्य तं सज्जं कृत्वा देवपूजाव्याजेन मह्यंदत्त्वा सर्वाधोरणसहितं महामात्रं मत्तमकरोत्।अथ प्रदोषे आषाढकः करेणुं तां सज्जयित्वा मेघाच्छन्नेप्रदोषे समानयत्। सज्जामाना च सा हस्तिनी यं शब्द चकार, हस्तिकृताभिज्ञः महामात्र एव तं शुश्राव। हस्तिनी अद्य त्रिषष्टियोजनानि यास्यामीत्याह स महामात्रः एतं उद्दाममदविस्खलिताक्षरं उवाच।मत्तस्य तस्य मानसं नैव विचारमार्गमायातंहस्तिपकाश्चान्ये श्रीवास्तस्भवाक्यंन शुश्रुवुः।अथ वत्सराजःयौगन्धरायणशिक्षितैर्योगैर्विश्लथबन्धनःगृहीतास्त्रःवसन्तकेनानुगम्यमानः तां निजांवीणामादाय वासवदत्तया काञ्चनमालाभिश्च सहचरीद्वितीयया सह तां करेणुकामारुरोह। निर्जमाम चोज्जयिन्याः मत्तेभभिन्नप्रकारवर्त्मना। प्राकाररक्षिणौवीरौ वीरबाहु-तालभटनामानौ द्वौराजसुतौ तदा राज्ञानिहतौ। ततो राजा प्रियासखः करेणुकारूढ़ो वेगेन प्रतस्थे। एतस्मिन्नन्तरे रात्रौ प्राकाररक्षिणौराजसुतौतौदृष्ट्वा सर्वे पुररक्षिणः क्षुभिताः राज्ञेन्यवेदयन्। सोऽपि चण्डमहासेनः अन्विष्य तं वत्सराजमेव हतवासवदत्तममन्यत। अय पालकनामा राजपुत्रः ता

दृशकोलाहलपूर्णे राजपुरे प्रबुद्धस्तं नड़ागिरिमधिरुह्य वत्सेशमन्वधावत्। वत्सशोऽपि आयान्तं तं पथि अयोधयत्, नाड़ागिरिस्तुकरेणुं तां दृष्ट्वा न प्रजहार। ततः स पालकः पितृकार्य्यानुरोधिना गोपालकेन भ्रात्रा,पश्चादेत्यनिवर्त्तितः। वत्सराजोऽपि तदानीं निःसङ्गतया विश्रधं गन्तुं प्रवहते। शमेर्गच्छन्तञ्चतस्य सा शर्वरी व्ययासीत्। ततः सा करेणुका विषष्टियोजनाजाता मध्याह्नेविन्ध्याटवीमाससाद तृषिता चाभवत्। सभार्य्यतस्मिन् राज्ञि अवतीर्णसा करेणुः जलानि पीत्वातेनैवदोषेणतत्क्षणात् पञ्चतां प्राप। अथ विषण्णःसभार्य्यो वत्सराजः आकाशचारिणीमेतां सरस्वतीमगृणोत् राजन् ! अहं मायावती नाम विद्याधरी, इयन्तं कालंशापदोषेण हस्तिनी आसं वत्सराज ! अद्य तव उपकारं कृतवती अहं भुवोऽपि भविष्यतस्तत्पुत्रस्य उपकारं करिष्यामि एषावासवदत्ता च ते पत्नीनैव मानुषीइयं क्वापि सुरसुन्दरी शापदोषात्क्षीतावतीर्णा इति। ततः स राजा पृष्टःवसन्तकं विध्यसानुं प्रति पुलिन्दकाय सुहृदे स्वागमनं वक्तुम् प्राहिणोत्। एतस्मिन्नन्तरे पादचारेण शनकैर्गच्छन्तं कान्तासमेतंतं दस्यवः समन्तात्समागत्य पर्य्यवारयन्। स च धनुर्द्वितीयः वत्सराजःवासवदत्तायाः पुरतः दस्यूनांपञ्चाधिकगतं वाणेनावधीत्। आगमञ्च तत्क्षणमस्य मित्रं पुलिन्दको नाम पुलिन्दराजः यौगन्धरायणवसन्तकाभ्यां सह। ततः सः पुलिन्दपतिः सर्वान् दस्यून् निवार्य्य तं राजानं प्रणि

पत्य निजां पल्लींनिनाय। तत्र गत्वा स वत्साधिपतिः तां रात्रि आरण्यदर्भपाटितचरणया प्रियया सार्द्धंअत्यवाहयम्।

अथ प्रभाते यौगन्धरायणप्रेरितदूतमुखेन बोधितः सेनापतिः रुमण्वान्ससैन्यो राजान्तिकमागमत्।अथवत्सराजस्तस्यामेव विन्ध्यारण्यभुवि कटकं निवेश्य उज्जयिनीवार्त्तां ज्ञातुं समुत्सुकस्तस्थौ। अत्रान्तरे च उज्जयनीतः कश्चिद् वणिक् यौगन्धरायणसुहृद् समागत्य अब्रवीत् देव ! चण्डमहासेनः त्वयि जामातरि प्रीतः, तेन च भवदन्तिकं प्रतीहारः प्रेषितः स चागच्छन् पश्चात् स्थितः अहमग्रतः सत्वरं देवं विज्ञापयितुमागतः। एतदाकर्ण्यवत्सराजो जहर्षं शशंस च सर्वं प्रियायै सापि कृतबन्धुपरित्यागकातरा परं हर्षमगात् सानन्दा च समुत्सुकाच स्वात्मविनोदाय निकटस्थं वसन्तकमाहूय पुनरब्रवीत् ब्रह्मन्! कापि मनोहारिणी कथा त्वया वर्ण्यतामिति स च धीमान् वसन्तकः तस्या मुग्धायाः भर्त्तृभक्तिविवर्द्धिनींकथामिमां कथयामास।

अस्ति ताम्रलिप्ता नाम नगरी। तस्यां धनदत्ताख्यः कश्चित् महाधनः वणिक् आसीत्। स चापुत्रः बहून् विप्रान् समानाय्य प्रणतोऽब्रवीत् विप्राः! तथा कुरुत यथा मै अचिरात् पुत्रो जायेत। विप्रैरुक्तंनैतत् दुष्करं अस्माभिः सर्वं हि साधयन्ति द्विजाःश्रौतेन कर्म्मणा। पूर्वं कश्चिदपुत्रः महीपतिरासीत् तस्य पञ्चाधिकशतसंख्यकाः अन्तःपुरिकाः। पुत्रेष्टिं कृतवतस्तस्यजन्तुर्नाम

पुत्रो व्यजायत। कदाचित् जानुभ्यां चलन्तं तं पुत्रमेका पिपीलिका ददंश, भृशं चक्रन्द च सः, अन्तःपुरञ्चसर्वं तदाक्रन्देन तुमुलार्त्तरवयुक्तमभवत्, राजापि पुत्र! पुत्र! इति सुभृशमरोदीत् प्राकृत इव। अथ तस्मिन् बालके क्षणात् स्वस्थे समाश्वस्ते जाते राजा एकपुत्रतां नितरां दुःखनिदानमविन्दत् अपृच्छच्चब्राह्मणान् अस्ति कश्चिदुपायो येनाहं ब्रहुपुत्रः स्यामिति। ते च तं प्रत्यूचुः राजन्! अस्त्यमुपायः यद्येनं तव सुतं हत्वा अग्नौतन्मांसं हूयते, तस्य हूयमानस्य गन्धाघ्राणात् ते सर्व्वाः पत्न्यःसुतान् लप्स्यन्ते इति राजा च तदाकर्ण्यतथैव सर्वं कृतवान् प्राप्तवांश्च पत्नीसमसंख्यान् पुत्रान्। अतस्तवापि यज्ञेन सुतं साधयामः। इत्युक्त्वातं धनदत्तं ब्राह्मणाः कृतदक्षिणा यथायथं होमं चक्रुः जातश्च तस्य वणिजस्तनयः गुहसेनो नाम। स पुत्रः क्रमेण ववृधे। कालक्रमेण शैशवातिक्रान्तस्य तस्य भार्य्यार्थं धनदत्तः इतस्ततः अन्वियेष। अथ सः पुत्रसहितः वाणिज्यव्याजेन स्नुषान्वेषणार्थं द्वीपान्तरमगमत्। तत्र च धर्मगुप्तं नाम बणिग्वरं पुत्रार्थे देवस्मितां नाम तत्कन्यकां ययाचे। स तु धर्म्मगुप्तः दुहितृप्रियतया ताम्रलिप्तामतिदूरवर्त्तिनींमत्वा तं सम्बन्धं निराचकार। सा तु देवस्मिता गुहसेनं तं गुणवन्तं दृष्ट्वातदायत्तचित्ता कृतबन्धुत्यागा सखीमुखेन सङ्केतं कृत्वा तेनैव पितृसहितेन प्रियेण सह रजन्यां तस्मात् द्वीपात् ताम्रलिप्तामाजगाम। आगतयोश्च तयो ताम्ब्रलिपांकृतोद्वाहयोः चित्तं परस्परप्रेमासक्त-

मभूत्। गच्छता च कालेन पितरि धनदत्ते स्वर्गतेगुहसेनः स्वबन्धुभिर्वा राज्यार्थं कटाहद्वेपगमने कृतानुमतिःकथञ्चित् प्रियां यात्रामयाचत। सा देशान्तरे अन्यासङ्गशङ्किनी सेर्ष्यापत्युर्गमनं नाङ्गीचकार। गुहसेनस्तुएकाकीबन्धुजनानुरोधः,अन्यत्र प्रियावियोगः निषेधाच्चेति मुग्धःकिं कर्त्तव्यविमूढ़ एवासीत्। अथ स देवागारं गत्वा देवो मे उपायं निर्दिशतु इति मनसि सङ्कल्पयन् निराहारःव्रत सारेभे। देवष्मितापि भर्त्रासार्द्धंतथैव व्रतं कृतवती। देवश्चतयोरेकाग्र्येण परितुष्टः स्वप्ने आत्मानं दर्शयन् रक्तपद्मद्वयं दत्त्वा तावभाषतउभावपि युवांएतत् एकैकं हस्ते गृहीतं यदि युवयोरेकःदूरवर्त्तितया शीलत्यागं करोति तदा अपरस्य करस्थितंपद्मंग्लानिमियात् नान्यथा।एतदेववाक्यं श्रुत्वैव प्रबुध्यं द्वावपि तौ दम्पती अन्योन्यस्य हृदयमिव हस्तस्थंरक्तमम्बजमपश्यताम्। ततः स गुहसेनोगृहीतरक्ताम्बुजः प्रस्थानमकरोत् प्रतिष्ठच्च देवष्मिता गृहे पद्ममेव दिवानिशं पश्यन्ती। गुहसेनोऽपि सत्वरं कटाहद्वीपं प्राप्य तत्र रत्नानांक्रयविक्रयात् कर्तुमारेभे। एकदा तत्रत्याश्चत्त्वारो वणिक्पुत्राःतस्यहस्ते सततं स्थितमम्लानं पङ्कजं दृष्ट्वा विस्मयं परमगमन्। अथते युक्त्या तं गृहं नीत्वा प्रभूतं मधु पाययित्वा पद्मवृत्तान्तमपृच्छन् सोऽपि मत्तः यथावृत्तमकथयत्। अत्र ते पापाशयाः वणिक्तनयाः तं गुहसेनं बहुदिननिर्वाह्यरत्नादिक्रयविक्रयनियुक्तं निर्वार्य्यकौतुकात् तस्य भार्य्यायाः शीलविप्लवं चिकीर्षवः त्वरितमेव

ताम्रलिप्तामगच्छन्। आगत्य च तत्र ते धूर्त्ताः उपायं विचिन्वन्तः कामपि सुगतायतने स्थितां योगकरण्डिकां नाम प्रब्राजिकामुपागमन्। अब्रुवंश्च भगवति! यद्यस्माकमभीष्टं साध्यते तदा ते बहूनर्थान् दास्याम इति। साब्रवीत् तरुणा वयं इति सम्भावयामि काप्यत्र रमणी युष्माकमभिलषिता, तद्ब्रूत, साधयामि वः कार्य्यं, नास्ति मम काचित् धनलिप्सा अस्ति सिद्धिकरी नाम मम सुचतुरा प्रियशिष्या, तत्प्रसादेन मया प्रचुरं धनमासादितमिति।

कथं शिष्यप्रसादेन त्वया प्रभूतं धनं प्राप्तमिति पृष्टा तैः सा प्रब्राजिका समभाषत यदि कौतुकं तत् श्रूयतां कथयामि। इह कोऽपि वणिक् पुरा समागमत् उत्तरापथात्। मम शिष्या तु सा अत्रस्थस्य तस्य गृहे कृतरूपपरिवर्तना दास्यभावमवलम्ब्यकञ्चित् कालं स्थित्वा विश्वास्य च तं वणिजं एकदा स्वर्णसञ्चयं तद्गृहमुषित्वा प्रत्यूष एव निर्ययौ। ताञ्च नगरीनिष्क्रान्तां महाकुलचित्तां सत्वरं धावन्तीं दृष्ट्वाकञ्चित् मृदङ्गहस्तो भिक्षोपजीवी डोम्बः धनाशया द्रुतमन्वगच्छत्। अथ सा सिद्धिकरी न्यग्रोधतलवर्त्तिनी तमागतं डोम्बं दृष्ट्वा धूर्त्ता हीनभावेन अवोचत् भद्र! भर्त्रासह कलहं कृतवती अहं गृहात्निर्गता मर्त्तुकामा, तत् त्वया मे अस्मिन् वृक्षेपाशो विरच्यतामनुग्रहेण। स च मूर्खः पाशेन स्वयमेवासौ म्रियते, किमेतामहं हन्मि नारींइति मत्त्वा तत्र वृक्षेपाशमसज्जयत्। ततः सा सिद्धिकरी मुग्धेव तमगादीत् नाहं उद्वन्धनं जानामि, कथं क्रियते, त्वया मे कृपया

दर्प्यतामिति।ततःसोऽपि कालप्राप्तस्तयेति तानुक्त्वामृदङ्गोपरि स्थित्वा यावत् स्वकण्ठे तं सज्जितं पाशमबध्नात्तावत् तयाऽपि तं मृदङ्गंपदाघातेन तस्मादपासार्य्यत। स तु तत्क्षणमेव पाशबद्धो ममार। क्षणे च तस्मिन् असौ वणिक् मुषिताशेषरत्नां तां अन्विच्छन् दूरात्दृष्ट्वातस्मिन्नेव वृक्षतले समागमत्। सापि तमागतमालोक्य अलक्षितं तस्यैव शाखां काञ्चिदारुह्य तत्पत्रैश्छन्नविग्रहा निभृतंतस्थौ। स चागत्य वणिक् सभृत्यस्तत्रागत्य तथैव उद्वन्धनमृतं डोम्बमपश्यत् न तु तां सिद्धिकरीम्। अस्य च स भृत्यः यदि सा वृक्षमारूढा भवेदिति सञ्जातसंशयः तंतरुमारुरोह।तञ्चारोहन्तं दृष्ट्वासिद्धिकरी मिथोऽभाषत भद्र! सदैव त्वयि मे प्रीतिः, त्वञ्चात्रारूढः तदेतत् सर्वमेव धनं तव भजस्व मां सुभग! इति। इत्युक्तवती सा प्रेमभरेण तमालिङ्ग्यचुम्बन्ती दशनैः तथा अस्य मूढमतेर्वणिक्भृत्यस्य रसनामच्छिनत् यया स सद्यः पतन् सचीत्कारं पञ्चत्वमगमत्। तद् दृष्ट्वासौ बणिक् तं भृत्यं भूतनिमाकलय्य भीतः सद्य एव गृहंपलायितः।

अनन्तरं तस्मात् वृक्षादवतीर्य्य भीता सा तापसी तत्समग्रंधनमादाय गृहमायात्। एवं गुणशालिनी मम शिष्या सिद्धिकरी, वत्साः! तत्प्रसादेन मया बहुधनमासादितम्।

इत्युक्त्वासा प्रब्राजिका तत्कालमागतां तां शिष्यां तेभ्यः वणिक्पुत्रेभ्यः अदर्शयत्। अवादीच्च पुत्राः! अधुना स्वं अभिलाषं ब्रूत, कां स्त्रियं वाञ्छय, तामहं क्षिप्रं वः

साधयामि। तच्छ्रुत्वा ते तामवदन् यैषा देवस्मिता नामगुहसेनापत्नी, तया सह अस्मान् सङ्गमय। श्रुत्वैतत् सा प्रतिजज्ञे तापसी, ददौ च स्थानं तेषामावासाय निजगृहैकदेशम्। अथ सा भस्त्र्यादिदानेन तत्रत्यं जनं रञ्जयन्ती सशिष्या गुहसेनगृहमभ्यागमत्। प्रविशन्तीञ्च तां द्वारि स्थिता शृङ्गलाबद्धाकापि शुनी अपरिचितरोधनशीला संरुरोध रुराव च महास्वनम्।

अथ सा देवस्मिता किमागता एवेति विचिन्त्य चेटिकां प्रेष्य तां स्वयं प्रावेशयत् सा च प्रविश्य व्याजकृतामाशिषं प्रयुज्य पापा तां साध्वीं देवस्मितामगादीत्वत्स! सदैव मेतव दिदृक्षा भवति,अद्य पुनः स्वप्ने दृष्टासीति उत्कलिकाकुला त्वत्सकाशमागता, त्वां भर्तृविरहितां दृष्ट्वामे मनः नितरां दूयते, रूपं यौवनञ्च प्रियोपभोगवञ्चितंविफलं भवति इत्यादिभिः चाटूक्तिभिस्तां सन्तोष्यविश्वास्य चगृहं प्रत्यागात्। परेद्युश्च सा मरिचचूर्णयुक्तंमांसखण्डमेकं गृहीत्वा पुनर्देवस्मितावासम् अयासीत् ददौ च तत्रत्यायै हाररोधिन्यै शुन्यै तन्मांसखण्डम्। सा च शनी सद्य एव तत् समरिचंभक्षयामास। मरिचस्य च कटुत्वात् तस्या नेत्राभ्यामवारितम अश्रुप्रवृत्तं नासिका च प्रस्नोति स्म। सापि दुष्टतापसी तस्मिन्नेव क्षणे देवस्मितान्तिकं गत्वा तथा च सम्यक् कृतातिथ्या प्ररोदितुमारेभे। पृष्टा च देवस्मितया सा धूर्त्ता कृच्छ्रादिव इदमब्रवीत् वत्से! सम्प्रति द्वारवर्त्तिनीं शुनींरुदतीं पश्य एषाहिमां जन्मान्तरसद्गतां प्रत्यभिज्ञाय रोदितुंप्रवृत्ता, ममच

तदनुस्मरणेन अश्रुसमुद्गतमिति। तदाकर्ण्यबहिरागत्य दृष्ट्वाशनीं तां रुदतीमिव, किमेतत् चित्रमिति सा देवस्मिता क्षणमचिन्तयत्। अथ प्रब्राजिकाब्रवीत्पुत्रि! पूर्वस्मिन् जन्मनि अहमेषा च कस्यचित् विप्रस्य द्वे भार्य्ये अभवाव, इति स चावयोः पतिः राजनदेशेन दैत्यकर्म्मणिनियुक्तः पुनः पुनः देशात् देशान्तरं याति स्म। तत्प्रवासे च मया स्वेच्छया पुरुषसङ्गमं कुर्वत्या सततमिन्द्रियाणिभोगैरवञ्चितानि धर्म्माश्चायं परमो यद् भूतानां इन्द्रियाणाञ्च अनभिद्रोहः, तस्मात् अस्मिन् जन्मनि जातिवराहं जाता, एषा तु केवलं शीलमेवारक्षत्अज्ञातधर्म्मनियमा, तेन च दोषेण कुक्कुरयोनौपतिता, परं जाति स्मरत्यसौ।

अथसा सुबुद्धिदेवस्मिता कोऽयं धर्म्मः धूर्त्तरचनेयं कृतानया इति विचार्य तां तापसीमब्रवीत् भगवति! एतावत्यपि काले नायं धर्म्मो मया ज्ञातः, तत् त्वं कृपया केनापि कान्तेन पुंसा मां सङ्गमय। ततः प्रव्राजिका अवोचत्पुत्रि! केचित्दीपान्तरादागताः बणिक्पुत्राः तान् त्वत्सकाशमानयामि इत्युक्त्वासा प्रमोदनिर्भरा स्वं गृहमगच्छत्। सा च देवस्मिता स्वाः चेटीः अब्रवीत् नूनं मद्भर्त्तुर्हस्ते तत् अम्लानमम्बुजंदृष्ट्वातञ्च कदाचित् मद्यपानेन मत्तं कौतुकात् पृष्ट्वायथावृत्तं, मद्विध्वंसनाय केऽपि एते दीपान्तरादागताः बणिक्पुत्राःपापाःतैश्चसंयुक्तेयं दुष्टतापसी, तत् घूस्तूरसंयुक्तंमद्यमानयतशीघ्रं, दत्त्वा च शुनःपादंअयोमयं कारयध्वम्।

ताश्चस्वामिन्या प्रादिष्टं तत् सर्वं तथैव अकुर्वन्। एका च चेटी स्वामिन्यादेशात्, तदा तद्रूपमास्थाय तस्थौ। सापि प्रब्राजिका तेषां वणिक्पुत्राणामेकंअहमहमिकया प्रथममुद्यतमादाय समाययौ।सायञ्चस्वशिष्यावेशसंछन्नंतं देवस्मितागृहे प्रवेश्यस्वयमलक्षितंनिर्गत्य स्वावासमगात्। ततश्च सा चेटी देवस्मितावेशधारिणीतं वणिक्पुत्रंसादरं सम्भाषमाणा सधूस्तुरं मद्यं तत् अपाययत्। तेन च मधुना सहसा हतचेतनः स चेटीभिः वस्त्रादिकं वा दिगम्बरीकृतः,शूनः पादेन तेन लौहमयेन च ललाटे अङ्कंकृत्वा अमैध्यपूर्णे कस्मिंश्चित् खाते तस्यामेव निशि निक्षिप्तञ्च। अथ रात्रेः पश्चिमे यामे लब्धसंज्ञः सः स्वपापोपनये नरके इव खाते निमग्नमात्मानमपश्यत्। उत्थाय च कृतस्नानःललाटे अङ्कंपरामृशन् नग्न एव तत् प्रव्राजिकागृहगात्। ममैव केवलमेषा दुर्गतिर्माभूदिति संचिन्त्य स तान् सखीनब्रवीत् अहमागच्छन् पथि मुषितोऽस्मीति। अथ जागरेण अतिपानेन च शिरः पीड़ामपदिश्य प्रातर्वस्त्रेण शिरोऽहितंवेष्टयित्वा तस्थौ। ततः सायं द्वितीयो वणिक्पुत्रस्तथैव देवस्मितागारं गत्वा तथैव खलीकारमवाप्य प्रातरागत्य नग्नोऽब्रवीत् मया आगच्छता क्वचिदाभरणानि स्थापितानि,तानि च तस्करैर्ह्रुतानीति एवमुक्त्वाशिरः शूलव्याजेन तथैवातिष्ठत्। क्रमेण च सर्व एव ते वणिक्तनयास्तथैव खलीकारमर्थनाशञ्चअवाप्य नितरां लज्जिता अस्याअपि एवं भवतु इति विचार्य्य तामकथयित्वा तस्मादावासात् ययुः।

अथ सा प्रव्राजिका सशिष्या संहृष्टा प्रयोजनव्याजेन तत् देवस्मितागारमगात्। देवस्मितापि तां परितुष्टेव तथैव सधुस्तूरं मधु पाययामास सशिष्याम्। तेन च मत्तां नष्टचैतन्यां तां छिन्नकर्णनासां तस्मिन्नेव अशुचिपङ्कपूर्णेखाते न्यक्षेपयत्। अथ सा गत्वा ते बणिक्पुत्राः पतिं मे नाणयेयुरिति समाकुला श्वश्र्वाःसमक्षंतं वृत्तान्तमवर्णयत्। श्वश्रूस्तामवादीत् पुत्रि ! साधु त्वया साध्व्याकृतं किन्तु पुत्रस्य मे तस्य कदाचित् अहितं यदि भवेदिति ततो देवस्मिता अवादीत् यथा शक्तिमती नाम काचिन्नारी भर्त्तारं प्रज्ञया ररक्ष,तथैवाहं मद्भर्त्तारं रक्षामीति। पुत्रि! कथं शक्तिमती पतिमरक्षत् इति सकौतुकमनुयुक्ता श्वश्र्वासा अवादीत् मातः! अस्ति अस्मद्देशे नगर्यां मणिभद्र इति पूर्वैः कृतनामधेयः प्रभावसम्पन्नः क्वश्चित् महायक्षः। तत्रत्याश्च नागरा जनाः स्वाभीष्टसिद्धये तत्सकाशे उपयाचितानि चक्रुः यथा यो नरः रात्रौ परस्त्रिया सह प्राप्यते स अनेन यक्षेण स्वगृहाभ्यन्तरे तया समं स्थाप्यते। प्रातश्चप्रकटीकृततद्वृत्तः राजसंसदि नीत्वा सस्त्रीकोऽसौनिगृह्यते इति स्थितिः।एकदा समुद्रदत्ताख्यःकश्चित्वणिक् परनार्य्या सङ्गतः निशिपुररक्षिणा तेन यक्षेणप्राप्तो यथानियमं नीत्वा स्वं गर्भगृहं सस्त्रीक एव स्थापितः। एतस्मिन्नेवाम्परे तद्भार्य्या महाप्रज्ञा शक्तिमती नाम तं वृत्तान्तमबुध्यत। अथ सा धीरा पूजामादाय सखीजनावृता धृतरूपान्तरा तस्यामेव निशि यक्षायतनमगात्। ततस्तत्रत्यः याचकः दक्षिणालोभात् पुराधिप

मुक्त्वा द्वारमुद्घाट्य तां तत्र प्रावेशयत्। प्रविष्टा च सस्त्रीके पत्यौ दृष्टे विलक्षिते स्वं वेगं तस्यै दत्त्वा तां परकान्तां निर्याहीति अवदत्। सा च परस्त्री शक्तिमत्या वेगमास्थाय तत्सखीभिः परिवृता स्वमेवावासं ययौ। शक्तिमती त तेनैव भर्त्रा सायं तत्रैव तस्थौ। तु यावत् राजपुरुषैरेत्य निरूप्यते तावत् स पत्न्याएव सहितः सन्ददृशे। तद् दृष्ट्वा नृपः यक्षभवनात् मृत्युमुखादिव तं बणिजं मोचयित्वा पुराध्यक्षं दण्डयामास॥ एवं शक्तिमती यथा प्रज्ञया पतिमरक्षत् तथा अहमपि गत्वा स्वप्रज्ञया पतिं रक्षामीति।

इति श्वश्रुमुक्त्वारहति सा देवस्मिता मनस्विनी स्वचेटीभिः सह बणिग्वेशं चकार। आरुह्य च प्रवहणं वणिज्यव्याजेन यत्रास्य पतिः स्थितः तदेव कटाहद्वीपमगात्। गत्वा च तत्र तं पतिं गुहसेनं बणिजांमध्ये तिष्ठन्तंसमाश्वासमिव मूर्त्तिधरं बहिः स्थितमपश्यत्। सोऽपि तां पुरुषाकारां दूराद्दृष्ट्वा पिबन्निव प्रियायाः सदृशःकोऽयं बणिगिति समचिन्तयत्। सा च देवस्मिता तत्रत्य भूपं गत्वा व्यजिज्ञपत् देव ! अस्ति काचिद्विज्ञप्तिर्मम, प्रजाः सर्वाः समाहूयन्तामिति। ततश्च राजा, सकौतुकः सर्वान् पौरान् समाहूय का ते विज्ञप्तिरिति तां बणिग्वेशामब्रवीत्। ततो देवस्मिता अवादीत् इह मम चत्वारोदासाः पलाय्य स्थिताः तान् देवः मे प्रयच्छतु इति। अथराजाब्रवीत् सर्वे एव पौरा मम स्थिताः एतेषु ये तव दासाः तान् प्रत्यभिज्ञाय ग्रहाणैति। तत

स्तया स्वगृहे खलीकृताः ते चत्वारः शिरःसु बद्धशाटकाः बणिक्सुता जगृहिरे। तत्रस्थांश्च बणिजः सार्थवाहसुताएते, कथं ते दासा इति क्रुद्धान् सा प्रत्यवादीत् यदि वः प्रत्ययो नास्ति, ललाटमेषां दृश्यतां मया शुनःपादाङ्कितं कृतम्। तथेति ते तेषां चतुर्णां ललाटपट्टकान् उन्मोच्यसत्यमेव ललाटगं शुनः पादमपश्यन्। अथ बणिक्षुलज्जितेषु राजा सञ्जातविस्मयः कुतूहलाक्रान्तचेतास्तां बणिग्वेशां किमेतदिति पप्रच्छ। सा तुयथाहतं सर्वं शशंस, सर्वे च जना जहसुःजगदुश्च न्याय्या एते भवत्या दासा इति नृपश्च तेषां वचनानि अनुमोदते स्म। ततः अन्ये बणिजः तेषां दास्यमुक्तये साध्व्यैतस्यै बहु धनं दत्त्वा राजदण्डञ्चयथाविधि अदापयन्। अथतद्धनं तञ्च पतिमवाप्य देवस्मिता सफलसज्जनपूजिता निजपुरीं ताम्रलिप्तां प्रत्याययौ, नास्याः कदापि पुनर्विप्रयोगो बभूव।

अथ हे देवि ! महाकुलप्रसूतं विशुद्धचरितं भर्त्तारं अनन्यमानसाः स्त्रिय उपासते,सतीनां पतिरेव परं धनम्। इति वसन्तकमुखात् उदारां कथामाकर्ण्य वासवदत्ता वत्सेश्वरे भर्त्तरि भक्त्येकतानं मनः समधत्त।

इति त्रयोदशस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1722060809Screenshot2024-07-24072147.png"/>

अथ चतुर्दशस्तरङ्गः।

अथ तत्र बिन्ध्याटव्यां तिष्ठतो वत्सराजस्य सकाशमाजगाम चण्डमहासेनस्य प्रतीहारी। आगत्य च स प्रणम्य राजानमिदमब्रवीत् नृपते ! राजा चण्डमहासेनःभवन्तं सन्दिष्टवान् यद् वासवदत्ता त्वया स्वयं हृता, तद्युक्तंएतदर्थमेव मया त्वंतथानीतः, संयताय च तुभ्यमिह स्वयं मया वासवदत्ता न दत्ता, तवावमानशङ्किना, तदिदानींमद्दुहितुरवैधो विवाहो माभूदिति कश्चित् कालः प्रतीक्ष्यतां, मत्सुतो गोपालको न चिरादत्र यास्यति, विधास्यति च स्वसुरस्या यथाविधानमुद्वाहम्। इति राज्ञेयथोक्तंसन्दिश्य वासवदत्तायै तत् सर्वं न्यवेदयत्। ततः वत्सेश्वरः सानन्दः सानन्दया वासवदत्तया साकं कौशाम्बीं गमनोत्सुकः गोपालकस्य आगमनं युवामिह प्रतीक्षेथां पश्चात् तेन सह कौशम्बींयास्यथ इति तं प्रतीहारिणं पुलिन्दकञ्च सुहृदं आदिश्य ससैन्यः सामात्यश्च स्वां पुरीं प्रतस्थे।

द्वित्रैरहोभिश्चस्वाधिकारभूमिमासाद्य एकां निशां रुमण्वतो निकेतने विश्रम्य परेद्युः स्वां राजधानीं विलसत्पताकां समुत्सुकनागरां महोत्सवराजितां सह प्रियया स्वानुचरैश्च सह प्रविवेश।ददृशुश्च पौराः प्रशान्तशोकाः सोत्सुकाः शिखिनो नवाम्बुदमिव विद्युत्वन्तं तं महीपतिं सह वासवदत्तम्। ततश्च राजा तया सह स्वंराजभवनं सेवागतनृपाकीर्णं मागधैरुद्गीतमङ्गलं सुप्तप्रबुद्धमिव राजमानं प्राविशत्।

अथ वासवदत्ताया माता गोपालकः अचिरादेव तौप्रतीहारपुलिन्दकौसमादाय समागमत्। राजा तमागतं श्यालकं दृष्ट्वा यथोचितं प्रत्युद्गमनादिभिः सत्कृतवान्। वासवदत्तापि हर्षोत्फुल्ललोचना यावत् तं भ्रातरमालोकयितुं प्रवृत्ता तावत् मास्मभ…..विलोचने संरुरोधेव वाष्पवारि। अथ सा तेन पितृसन्देशवचनैः प्रोत्साहिता स्वजनसमागमेन कृतार्थमिवात्मानममन्यत।

अथान्येद्युः गोपालकेन व्यग्रेण तयोर्विवाह मङ्गले प्रस्तुते राजा वत्सेश्वरः शुभे समये रतिवल्लभाः नवोद्भिन्नमिव पल्लवमुज्ज्वलं वासवदत्तायाः पाणिमग्रहीत्। सापि तत्करस्पर्शजनितेन सान्द्रानन्देनामीलितलोचना कम्पस्वेदरोमाचाञ्चितकलेवरा तत्क्षणं मकरकेतनेन सम्मोहनशरनिकरविद्येव समलक्ष्यत। तदा च गोपालकदत्तैर्यौतुकरत्नैः राज्ञाञ्च उपायनैःस राजा पूर्णकोषः सत्यमेवात्मनः साम्राज्यममन्यत। अथ निर्वर्त्तितोद्वाहमङ्गलौवधूवरौ प्रथमं लोकानां हृदयं ततोऽन्तःपुरं प्राविशताम्। ततः सम्मानयामास नृपतिः समुचितसम्भारेण गोपालकं पुलिन्दकञ्च स्वयम्। अपरेषां राज्ञां पौराणाञ्च सम्माननार्थं यौगन्धरायणं रुमण्वन्तञ्चनियुक्तवान्।यौगन्धरायणस्तु राजनियुक्तः रुमण्वन्तमब्रवीत् सखे ! राज्ञाआवां कष्टेनियुक्तौ, लोकचित्तं हि दुर्ग्रहं अरञ्जितः शिशुरपि दोषमुद्वोषयेत् तत्र दृष्टान्तभूतां कथामेकां बालविनष्टकीयां शृणु कथयामि।

आसीत् पुरा रुद्रशर्म्मानाम कश्चित् ब्राह्मणः। तस्य च द्वेभार्य्ये, तयोरेका पुत्रमेकं प्रसूय सद्य एव लोका

न्तरमगात्। तत्सुतस्तु तेन विप्रेण अपराया हस्ते समर्पितः। सा हि तस्य क्रमेण वि…स्य किञ्चित् रुक्षं अशनं ददौ। तेन चाहारेण स बालः पृथूदरः धूषराङ्गश्च अभवत्। अथ स रुद्रशर्म्मामातृहीनोऽयं शिशुःकस्मादुपेक्षित इति तां द्वितीयां पत्नीमभ्यधात्। सापि सेव्यत एवायं स्नेहेन, तथापीदृगसौ जायते किमहं करोमि इति पतिं प्रत्यब्रवीत्। द्विजश्च नूनमयं एवं स्वभाव इति तथ्यंमेने, को हि स्त्रीणामलीकमुग्धे वचसि न विश्वसिति ?।

बाल एव असौ विनष्ट इति बालविनष्टनामानममुं पिता चक्रे। अथ गच्छता कालेन स बालविनष्टः विमाता मां सर्वदा कदर्थयतीति बुद्ध्वाअस्याः कांप्रतिक्रियां करोमीति चिन्तयामास। एकदा स आतीतपञ्चवर्षमात्रः परं बुद्धिमान् राजकुलादागतं तात ! द्वौ मम तातौस्त इति अर्द्धस्फुटया गिरा पितरं रहस्यकथयत्। एवं प्रत्यहं स कुतश्चिदागताय पित्रे तथैव आह स्म। पिता तु रुद्रशर्माकथमयं शिशुरेवं वदतीति साभिनिवेशं ध्यायन् तां भार्य्यां व्यभिचारिणीं मत्वा तत् स्पर्शमपि अवर्जयत्। सापि विनापराधं मे पतिः कथं कुपितः, किंस्विदयं बालविनष्टेन किमपि कृतं भवेदिति समचिन्तयत्। अथ सा तं बालविनष्टकं सादरं स्नापयित्वा स्निग्धं सुमिष्टञ्च भोजनं दत्त्वा कृत्वा चोत्सङ्गे पप्रच्छ पुत्र ! तव पिता रुद्रशर्म्मात्वया किं मयि रोषितः ? तदाकर्ण्य स विमातरमुवाच मातः ! अतोऽधिकमपि कर्त्तास्मि न चेदद्यापि शाम्यसि, त्वंस्वपुत्रपोषिणी कथं सदा मां क्लिश्नासि।तदाकर्ण्य

सा लज्जिता सशपथमवादीत् वत्स ! न पुनरेवं करिष्यामि, तत्पतिं मम प्रसादय। ततः स बालकस्तामब्रवीत् मातः पितुर्ममागतस्य आदर्श काचित् त्वच्चेटी दर्शयतु, अहं तमादर्शपतितं प्रतिविम्बंपरं वेद्मि, तथेत्युक्त्वातया नियुक्ता चेटी आगतस्य रुद्रशर्म्मणः क्षणात्आदर्शमदर्शयत्।तत्र चादर्शे पितुः प्रतिविम्बं दृष्ट्वा स बालकः द्वितीयोऽयं मे तात इति सस्मितमाह स्म। तदाकर्ण्य च स रुद्रशर्मा विगताशङ्कःतां पत्नींनिर्दोषामाकलय्य तदैव तस्यां प्रसवोऽभूत्।

सखे ! बालकोऽपि विप्रकृतः एवं दोषमुत्पादयेत्, तदयं समग्रो लोकः अमाभिः तथा सम्यक् अनुरञ्जनीयःयथाकमपि दोषं न उद्घाटयेदिति उक्त्वायोगन्धरायणः रुमण्वतासह तस्मिन् वत्सराजोत्सवे सर्वं जनं तथा राजलोकञ्च तथा सम्मानयन् अरञ्जयत् यथा सर्व एव मदेक श्रवणावेतौ इति अमन्यत। अथ राजा तौ सचिवौ सवसन्तकौस्वकरार्पितैर्वस्त्रान्नपानैरङ्गरागाभरणैः ग्रामैश्च अपूजयत्। एवं निर्वृत्तविवाहमङ्गलः सर्वाः प्रजा अनुरञ्जयन् वासवदत्तया समं परमेण प्रेम्णा कालमनैषीत्। गोपालकश्च वत्सराजानुरोधतः पितृसन्देशात् विवाहं कर्तुं आवृत्तिंशीघ्रमगमत्।

एकदा वत्सेश्वरश्चापल्यादिन्द्रियाणां पूर्वसङ्गतां विरचितां नाम कामपि अन्तःपुरचारिणीं गुप्तं भजमानस्तद्गोत्रस्खलनेन देवीमाजुहाव। तेन देवीं सातिशयकुपितां मानवतीमालक्ष्य तत्पादयोः पतनेन तां प्रसादयामास।

अथ गोपालकः भगिन्या वासवदत्तायाः सकाशं स्वभुजार्जितां बन्धुमतीं नाम कामपि राजपुत्रीं लावण्यजलधेरुङ्गतां श्रियमिव रूपिणीं प्राहिणोत्। सा च वासवदत्ता तां मञ्जुलिकेति अपरेण नाम्ना गोपितां राजदर्शनभयात् सुगुप्तां कृत्वा अरक्षीत्। कदाचित् नृपतिः वसन्तकेन विचरन् तां उद्यानलतागृहे दृष्टा नितरामधीरः गान्धर्वेणविधिना सुगुप्तमुपयेमे। तच्चवासवदत्ता निभृतस्थिता दृष्ट्वाभृशं चुकोप अनिनाय च बध्वावसन्तकम्। राजा तु तस्याः पितृकुलागतां प्रब्राजिकां सखीं साङ्कृत्यायनीं नाम शरणमशिश्रियत्। सा च तां महिषीं वासवदत्तां प्रसाद्य तथा कृतानुमत्या तां बन्धुमतीं राज्ञेददौ पेशलं हि सतीनां मनः। ततः सा देवी बन्धनात्वसन्तकं मुमोच। स तु संहृष्टः देव्याः सकाशमभ्येत्य हसन् अवादीत् देवि ! बन्धुमत्या अपराद्धंमया पुनस्ते किं कृतम्? अहीन् प्रति क्रुद्धा यूयं डुण्डुभेषु प्रहरथ।

अथ ब्रह्मन्। एतदुपमानं मे सम्यगाचक्ष्व, महत्कौतुकमत्र इति देव्या पृष्टः वसन्तकः कथामेकामवर्णयत्।

देवि ! पुरा रुरुर्नाम कोपि महर्षितनयः यदृच्छया परिभ्रमन् अद्भुतदर्शनामेकां विद्याधरात् मेनकायां सुरसुन्दर्य्यामुत्पन्नांस्थूलकेशेन मुनिना स्वाश्रमे परिवर्द्धितां कन्यामद्राक्षीत्। दृष्टैव सा पृषद्वरानाम कन्यका तस्य रुरोर्मनोजहार। अथ स गत्वा तत्पालकं स्थूलकेशं ययाचे।स्थूलकेशोऽपि तस्मै तां दातुं प्रतिशुश्राव

ततश्चासन्नविवाहे अकस्मात् कश्चिदहिस्तां दष्टवान्। ततो विषयहृदयः महर्षिसुतः अन्तरीक्षात् एतां वाणीमश्रुणोत् ब्रह्मन् ! एतां क्षीणायुषं स्वस्य आयुषः अर्द्धेन जीवय। तदाकर्ण्य स रुरुस्तस्यै निजायुषः अर्द्धमदात्। सद्यएव सा प्रत्युज्जीविता। सोऽपि तां तदानीमेवपरिणिनाय। अथ क्रुद्धोरुरुर्यं यं सर्पं ददर्श तं तमेव मम भार्य्याअनेन दष्टेतिरोषात् जघान। अथ जिघांसन्तं तमेको डुण्डुभः मनुष्यवाचा अवादीत् ब्रह्मन् ! अहिभ्यः कुपितस्त्वं कथं डुण्डुभान् हंसि? अहिना ते प्रिया दष्टा, अहिर्डुण्डुभश्चविभिन्नः, अहयः सविषा, डुण्डुभास्तु निर्विषा इति। तदाकर्ण्यमुनिसुतोऽब्रवीत् सखे ! को भवान्? डुण्डुभोऽवदत् ब्रह्मन् ! अहं शापभ्रष्टो मुनिः भवत्सं वादावधिश्च मे शापः इत्युक्त्वातस्मिन् अन्तर्हिते रुरुर्भूयस्तान् डुण्डुभान् न बघान। तदेतदुपमानाय तव कथितं देवि ! डुण्डुभेषु प्रहरथ यूयमहीन् प्रतिक्रुद्धाइति। एवमुक्त्वावचनं सस्मितं वसन्तके विरते वासवदत्ता पत्युः पार्श्वस्थिता तं प्रति भृशं तुतोष। वत्सराजः उदयनः देव्याश्चरणगतः कुपितायाः सुमधुराणि विविधवसन्तक कौशलानि कोपोपशमनानि समाचरन् विजझर। सुखिनस्तस्य राज्ञःसदा रसना मदिरारसैकसक्ता, श्रुतिः कलवीणारवरागिणी दृष्टिश्चप्रियामुखनिश्चला बभूव।

इति चतुर्दशस्तरङ्गः।

समाप्तोऽयं कथामुखं नाम द्वितीयो स्तम्बकः

अथ तृतीयो लम्बकः।

<MISSING_FIG href="../books_images/U-IMG-1722081823Screenshot2024-07-27173331.png"/>

पञ्चदशस्तरङ्गः।

एवं स वत्सेश्वरः क्रमेण वासवदत्तामुखासक्तमनाः अहर्निशंकेवलमानन्दमनुभवन् विजहार।यौगन्धरायणो महामन्त्री सेनापतिः रुमण्वांश्चास्य दिवानिशं राज्यभारमूहतुः। एकदा स यौगन्धरायणश्चिन्तावान् रजन्यां रुमण्वन्तं सेनानाथं गृहमानीय निभृतं निजगाद सखे ! वत्सराजोऽयं पाण्डववंशसम्भवः, अस्य च कुलक्रमागता मेदिनी समग्रा, पुरश्च हस्तिनेति प्रसिद्धम्। तत् सर्वमनेन जिगीषाविरहितेन त्यक्तं,केवलमेकत्र प्रदेशेऽत्र अस्य राज्यं सञ्जातम्। एषच केवलं व्यसनासक्तश्चिरं तिष्ठति, परमनेन अस्मासु सर्वा एव राज्यचिन्ता समर्पिता, तदस्माभिरतन्वितैस्तथा कार्य्यं यथैष समग्रमेव कुलक्रमागतं पृथिवीराज्यं प्राप्नोति। एवं कृते अस्माभिः प्रभुभक्तिः सम्यक् प्रतिपालिता भवेत्। सर्वञ्च प्रज्ञया साधयितुंशक्यते किं हि बुद्धिमद्भिः प्रयुक्तं नोपैति शोभां तथा चेमांकथां शृणु कथयामि।

पुरासीत् महासेनो नाम कश्चित् नृपः। स च अन्येनकेनचित् बलवत्तरेण राज्ञा अभियुक्तः स्वकार्य्यभ्रंशरक्षिभिरमात्यैःतस्मै द्विषे अर्थदण्डं दापितः। स च बलवान् नृपः तेनैव सन्तुष्टः स्वपुरमगात्। महासेनस्तु

मानी दत्तार्थदण्डः भृशमतप्यत। कथं मया शत्रोः प्रणतिः कृतेति चिन्तयतः तस्य शोकेन गुल्मरोगः समपद्यत। तदाक्रान्तश्च स राजा क्रमेण मुमूर्षुरभवत्। अथैकः राजभिषक् तं औषधासाध्यं मत्वा मतिमान् कौशलेन चिकित्सुः मृता ते देवीति मिथ्यावचनं तं नृपमवादीत्। तदाकर्ण्य सहसा भूमौ पततः तस्य बलीयसा शोकावेगेन गुल्मः स्वयमस्फुटन्। अथ रोगोत्तीर्णः स राजा तयादेव्या सह ईप्सितान् भोगान् बुभुजे जिगाय च पुनः सर्वान् रिपून्।

तद् यथासौभिषक्प्रज्ञया राजहितं चकार, तथा वयमपि राजहितार्थनः यथास्य समग्रा मेदिनी वशवर्त्तिनी भवेत् तथा यतामहे। एकः प्रद्योतो नाम मगधेश्वरस्तत्र परिपन्थी विद्यते, स खलु पार्ष्णिग्राहः पश्चात् अस्मासु कुपितो भवेत्। तस्य तु पद्मावती नाम कन्यकारत्नमस्ति, वत्सराजस्य कृतेवयं तं तां याचामहे। वासवदत्ताञ्च निभृतं स्वप्रज्ञया कुत्रचित् सुगुप्तां संस्थाप्य वासगृहे अग्निंदत्त्वा देवी दग्धेति सर्वतः उद्घोषयामः। नान्यथा मगधाधिपः तां सुतां राज्ञे दास्यति। एतदर्थञ्च स मया पूर्वं याचितः प्रत्युक्तवान् नाहं वत्सेश्वराय प्राणाधिकामिमां सुतां दास्यामि, तस्य हि वासवदत्तायां महान् स्नेहो विद्यते। सत्याञ्च देव्यां वासवदत्तायां वत्सेशो नान्यांपरिणेष्यति।तस्मात्देवी दग्धेति ख्यातौसमुत्पन्नायां सर्वमेतत् सेत्स्यति। लब्धायाञ्च पद्मावत्यां स राजश्वशुरो मगधेश्वरः पश्चात् कोपं न करिष्यति

प्रत्युत महायतां गमिष्यति। ततः पूर्वा दिशं ततश्चअन्या दिशः क्रमात् जेतुं गमिष्यामः। इत्थंसर्व्वामेव धरां वत्सेश्वरस्य साधयितुंयतिष्यामहे। अस्मासु च कृतोद्योगेषु एषः समग्रां महीं प्राप्नुयादिति पूर्वं दिव्या वागुदचरत्।

श्रुत्वैतन्मन्त्रिमुख्यस्य वचनं रुमण्वान् महासमाशङ्क्यतमभाषत, यदेतदुक्तंभवता तत्सर्वं युज्यते परं पद्मावतीकृते क्रियमाणं कपटं कदाचन अस्माकं दोषाय स्यात् तदत्र मया वर्ण्यमानां कथामेकां शृणु।

अस्ति जाह्नवीतटे माकन्दिका नाम काचित् नगरी। आसीत् तस्यां पुरा मौनव्रती कश्चित् परिव्राजकः। सचानेकपरिव्राट्परिवृतः भिक्षाजीवी देवकुलान्तर्वर्त्तिनि क्वचित् मठे वासमकरोत् कदाचित् भिक्षार्थमटन् कस्यचिद्बणिजः सदने भिक्षांआदातुं निर्गतां शुभाङ्गीं कन्यकां एकां ददर्श। दृष्ट्वैव कामशरसंविद्धःस शठः हा हा कष्टमिति तस्यैव बणिजः शृण्वतः समब्रवीत्।गृहीतभिक्षञ्चतस्मात् निर्गच्छन्तं तं असौ बणिक् सविस्मयः पृष्ठतो गत्वा तमपृच्छत् भिक्षो! त्वं मौनं विहाय किमद्य सहसा एवमुक्तवान्? तदाकर्ण्य परिव्राडब्रवीत् भद्र ! दुर्लक्षणेयं कन्या, यदास्या विवाहो भवेत् तदा ससुतदारस्य गृहस्वामिनः अस्याः पितुः क्षयो भवेदिति दुःखेन मे तादृशी वाक् सहसा निरगच्छत्।

त्वञ्चातीव मे भक्तः तस्मात् मौनमपि विहाय त्वत्कृते एवमुक्तवानस्मि। तदेषा कन्यका नक्तंमञ्जूषायां उपरित्यक्तदीपायां निवेश्य गङ्गायां क्षिप्यतामिति। सोऽपि बणिक्

तथेति प्रतिपद्य गृहं गत्वा भवात् नक्तं तथैव सर्वं चक्रे। परिव्राजकोऽपि तत्कालं स्वाननुचरानुवाच भद्राः! गङ्गांगच्छत, तदन्तरुह्यमानां यां द्रक्ष्यय पृष्ठन्यस्तदीपां मञ्जूषां, तां सुगुप्तं इह आनेष्यथ, सा च नोद्घाटनीया अन्तर्ध्वनौ श्रुतेऽपि। तथेति ते च गङ्गां जग्मुः। राजपुत्रः कश्चिदत्रान्तरे बणिजा क्षिप्तां मञ्जूषां दीपालोकाद्वीक्ष्यभृत्यैरानाय्य सहसा तां कोतुकादुद्घाटयत्। अपश्यच्च तत्रान्तःस्थां हृदयोन्मादकारिणींकामपि कन्याम्। उपायच्छत च तां तत्क्षणं गान्धर्वविधिना। ताञ्च मञ्जूषां पृष्ठन्यस्तदीपिकां कृत्वा तदन्तर्वानरमेकं घोरं निवेश्य गङ्गायां तत्याज च। तस्मिंश्च सम्प्राप्तकन्यारत्ने नृपसुते गते परिव्राजकशिष्यास्तामन्विच्छन्तः तत्राययुः। ददृक्षुश्च तां मञ्जूषाम्।निन्युश्च तां गृहीत्वा गुरोरन्तिकम्। अथ स परिव्राट् संहृष्टस्तान् जगाद अहमेकः एतामादाय एतदुपरि मन्त्रं साधये, युस्माभिः तूष्णीमिमां निशांशयितव्यम्। इत्युक्त्वास मञ्जूषांमठोपरि आरोप्य तस्यामेव कन्यायामभिलाषुकलामुद्घाटयत्। उद्घाटितायाञ्च तस्यां स भीषणाकृतिर्वानरः निर्गत्य स्वकृतोमूर्तिमान् दुर्णय इव तमभ्यधावत्। चिच्छेद च तस्य नासां कर्णौ च तत्क्षणं दशनैर्नखैश्च। अथतथाभूतं तं परिव्राजकं दृष्ट्वाते शिष्या यत्नस्तम्भितहासाः अधोमुखाः क्षणमतिष्ठन्। प्रातश्च तत्सर्वं वृत्तान्तं ज्ञात्वा सकलो जनो जहास, स बणिक् सा च तत्सुता प्राप्तसत्पतिः ननन्द च।

एवं यथा स परिव्राट् हास्यत्वं गतः तथा वयमपि

व्याजप्रयोगस्य असिद्धौकदाचित् हास्यत्वंगच्छेम। राज्ञः वासवदत्तया विरहः बहुदोष इव सम्भाव्यते। इत्थं रुमण्वतोक्तः योगन्धरायणः प्राह सखे! नान्यथा उद्योगसिद्धिर्भवेत्,अनुद्योगे च राजनि व्यसनासक्ते सर्वं अभीप्सितं नश्येत् अस्माकं मन्त्रिताख्यातिर्लब्धापि स्वामिनः समुन्नतिं विना व्यभिचारिणी भवेत्। स्वायत्तसिद्धे तु नृपे सचिवाः तस्य प्रज्ञोपकरणमात्राण्येव, कार्ये सिद्धे असिद्धेवा न तेषां गुणो दोषो वा भवेत्। सचिवायत्तसिद्धे तु तेषां प्रज्ञैवार्थसाधनं ते तु निरुत्साहाश्चेत् श्रियाः जलाञ्जलिर्दत्तः स्यात्। देवी पितुश्चण्डमहासेनाच्च न शङ्कितव्यं स सपुत्रः देवी च मे वचनं शृणोति। इत्युक्तवन्तं धीरप्रवरं यौगन्धरायणं रुमण्वान् प्रमादाशङ्कया पुनरब्रवीत् सखे! अभिमतरमणीवियोगव्यथया सुधीरोऽपि विचाल्यते, किं पुनर्वत्सराजोऽयं नितरां स्त्रीपरायणः, अत्रैतां कथां शृणु।

पुराभूत् देवसेनाख्यः कश्चित् महामतिर्नरपतिः श्रावस्ती नाम नगरी तस्य राजधान्यासीत्। तस्याञ्च नगर्य्यांकश्चित् महाधनो बणिक् प्रतिवसति स्म। तस्यैका निरुपमा कन्या समजनि। यतश्च तस्या रूपं दृष्ट्वा सर्वो जनः उन्माद्यति तस्मात् सा उन्मादिनीति ख्यातिमगमत्। तनयेयं राज्ञेअनावेद्य न कस्मैचित् देया, अन्यथा राजा कुप्येदिति विविच्य तत्पिता राजानं गत्वा न्यवेदयत् देव! अस्ति मे कन्यारत्नं यदि रोचते गृह्यताम्। तदाकर्ण्य राजा सुविश्वस्तान् द्विजान् अवादीत् गच्छन्तु भवन्तः, सा सुलक्षणा वा दुर्लक्षणा

परीक्ष्यतामिति तथेति ते द्विजाराजानमुक्त्वाबणिगालयंगत्वा ताञ्च बणिक्सुतां निरीक्ष्य उन्मादिनींसद्य एव सञ्जातमन्मथविकाराः क्षोभं ययुः। प्रकृतिप्राप्ताश्च मन्त्रयामासुः यदि राजा इमां परिणयेत् तदा एतदेकमनाः सर्वाणि राजकार्य्याणि त्यजेत्, तर्हि महाननर्थः संजायते, तत् किमनया, इति अवधार्य्यकुलक्षणेयमिति राज्ञेन्यवेदयन्। ततो राज्ञा त्यक्तां तां बणिक् तत्सेनापतये उन्मादिनीं प्रादात्।

कदाचित् भर्त्तृवेश्मनि हर्म्मस्था सा राजानं तेन पथा गच्छन्तम्आलोक्य आत्मानमदर्शयत्। राजा तु दृष्ट्वैवतां उन्मादिनींकामप्रयुक्तां जगत्मंमोहनौषधिमिव सञ्जातोन्माद इव अभूत्। गत्वा च कथमपि स्वंभवनं ज्ञात्वा च तां पूर्वावधीरितां भृशमुन्मनाः स्मरजनितां महतींव्यथामवाप। अथ तत्स्वामिना सेनापतिना निवेदितं प्रभो! सा दासी, न परस्त्री,गृह्यतां, अथवा अहं त्वां देवगृहे त्यजामि महाराजः प्रतिगृह्णातु इति स एवं सेनापतिनाअभ्यर्थ्यमानोऽपि राजा तमब्रवीत् नाहं परदारान् स्पृशामि, यदि त्वं तां त्यक्ष्यसि तदा ते धर्मो लङ्घयति, दण्ड्यश्च भविष्यसि इति। तदाकर्ण्यमन्त्रिणः अन्ये च तूष्णीमासन् स च राजा क्रमेण कामज्वरेणाक्रान्त एव पञ्चत्वमगात्।

एवं स राजा धीरोऽपि उन्मादिनीं विना विनष्टः, वत्सराजस्तु विना वासवदत्तां कथं भवेत्? एतत् रुमण्वद्वाक्यंवा यौगन्धरायणः पुनरब्रवीत् सखे ! कार्य्य

दर्शिभिः राजभिः क्लेशः सह्यते, पश्य रावणवधाय युक्तिं कृत्वादेवैर्नियोजितो रामः सीतावियोगं किं न से हे? एतदाकर्ण्यरुमण्वान् भूयोऽभाषत महामते ! ते हि रामादयो देवाः तेषां मनः सर्वंसहते, मनुष्याणान्तु न तथा। तथा च अपरामेकां कथांकथयामि श्रूयताम्।

अस्ति महारत्नाढ्यामथुरानाम्नी पुरी। तस्यामभूदेको बणिक्सुतः इल्लको नाम। तस्यैका प्रिया तदेकासक्तचित्ता भार्य्या आसीत्। स तया सह वसन् कार्य्यगौरवात् एकदा देशान्तरं गन्तुमैच्छत्।भार्य्या च तत्सङ्गिनी भवितुमभिललाष, सतीनां हि पतिविरहोऽतीवअसह्यः। स तु बणिक्पुत्रः शुभेऽहनि यात्रामकरोत् तान्तुसहगन्तुमुद्यतां नैवाग्रहीत्। सा तु प्रस्थितं पतिमवलोकयन्ती साश्रुलोचना प्राङ्गणद्वार कवाटान्तरवर्त्तिनी अतिष्ठत्। गते च तस्मिन् दृष्टिपथात् तद्धियोगासहायास्तस्याः सद्य एव प्राणा निर्ययुः। तच्च ज्ञात्वा बणिक्पुत्रः प्रत्यावृत्य विह्वलः सन् तत्क्षणं कान्तां तामुत्क्रान्तजीवितां सुन्दरापाण्डुरच्छायां विलोलालकमूर्द्धजां भुवि पतितां चान्द्रमसीं लक्ष्मीमिव ददर्श। दृष्ट्वैवतामङ्कं नयतः क्रन्दतश्च तस्य शोकाग्निज्वलितात् देहात् भीता इव असवस्तत्क्षणं व्यगमन्।

एवं परस्परवियोगात् तौ दम्पती यथा विनाशमापतुः तथा अनयोः राजदम्पत्यो रकस्वाणं मास्मभूत्। इत्युक्त्वातस्मिन् रुमण्वति सशङ्केविरते धैर्य्यसागरः धीमान् यौगन्धरायणः पुनरब्रवीत् मया सर्वमेतत् निश्चितं कार्य्याणि

च महीभुजामीदृशान्येव भवन्ति तदत्रकथामेतां शृणु।

पुरासीत् उज्जयिन्यां पुण्यसेनो नाम नृपः। कदाचित् प्रबलः कश्चित् नरपतिस्तं अभियुक्तवान्।अथ मन्त्रिणः सुधीरास्तमरिं दुर्जयं वीक्ष्यराजा मृत इति मिथ्याप्रवादं घोषयामासुः। स्थापयामासुश्च प्रच्छन्नं तं नृपं पुण्यसेनम्। देहुश्चअन्यं कञ्चित् शवंराजार्हविधानेन। अथ, अराजकानामस्माकं त्वमेव राजा भव इति तमरिं दूतमुखेन अभ्यर्थयामासुः। ततश्चतथेत्युक्तवतस्तस्य रिपोस्तुष्टस्य सतः सर्वाणि कटकानि क्रमात् ते सैन्यसहिताः मिलित्वा विभिदुः। भिन्नेच सैन्यचये तं नृपं पुण्यसेनं प्रकाश्य सम्प्राप्तवलाः शत्रुं तं निजघ्नुः।

इदृशानि राजकार्य्याणि नीत्या प्रयोज्यानि, तद्वयं देवीदाहप्रवादेन कार्य्यमिदं धैर्येण साधयामः।इत्याकर्ण्य निश्चितमतेः यौगन्धरायणात् रुमण्वानवदत् यद्येष निश्चयः, तदा देव्या भ्रातरं गोपालकमानीय समादरञ्च तेन सम्मन्त्र्यसम्यक् कार्य्यमारभ्यताम्। यौगन्धरायणश्च तथेति प्रत्यपद्यत। रुमण्वांश्च तत्प्रत्ययात् सर्वञ्च कर्तव्यनिश्चयं चक्रे। अथापरेद्यूस्तौ मन्त्रिप्रवरौ केनचित् व्यपदेशेन गोपालकं आनेतुं दूतं व्यसर्जयताम्। स च गोपालकस्तद्दूतवचनात् सत्वरमेव उत्सव इव मूर्तिमान् समायात्। आगतञ्च तं रुमण्वता सहितं यौगन्धरायणस्तस्यामेव निशि निर्जनं गृहं निनाय कथयामास च

च सर्वंतत् चिकीर्षितं मन्त्रितम्। स च राजहितैषी स्वसुर्दःस्वावहमपि तत् सर्वं अनुमेने कार्य्यैकप्रबलं हि मनीषिणां चेतः। अथ रुमण्वता, सर्वमेतत् सुविहितं परं देवीं दग्धामवेत्य प्राणान् त्यक्ष्यन् वत्सेशः कथं रक्ष्य, इति चिन्त्यतां, सत्यपि उपायानां सञ्चये विनिपातप्रतिक्रियैव मुख्यमङ्गं मन्त्रस्येति पुनरुक्तेसमालोचिताशेषकार्य्योयौगन्धरायणः समब्रवीत् नास्त्यत्रचिन्ता, राजपुत्री वासवदत्ता गोपालकस्य कनीयसी स्वसा प्राणेभ्योऽप्यधिकप्रिया, एतस्य शोकमल्पमालक्ष्य वत्सेश्वरः कदाचित् जीवेत् देवीति मत्वा धैर्य्यमवाप्स्यति। किञ्चायमुत्तमसत्त्वः,शीघ्रञ्चानेन पद्मावती परिणीयते, ततश्च अचिरादेव देवी द्रक्ष्यते इति।

इत्येवमवधार्य्ययौगन्धरायणः रुमण्वान् गोपालकश्च त्रयएते पुनर्मन्त्राय उपाविशन्। युक्त्यावयं देव्या नृपेण च सहलावाणकं गच्छामः। स हि मगधासनवर्त्तीअस्माकं देशपर्य्यन्तः सुलभाखेटत्वाच्च राज्ञः प्रियः सदा च तदासक्ततया बहिः स्थातव्यमनेन। तत्रान्तःपुरमादीप्य युक्त्या पद्मावतीगेहे देवी स्थाप्यते, प्रच्छन्नंस्थितायाश्चास्याः सा एव शीलसाक्षिणी भवेत्। इत्थं निशि परस्परं सन्मन्त्र्यते अपरेद्युःप्रातरेव राजमन्दिरं प्राविशन्। प्रविश्य च तत्र रुमण्वान् महीपतिं व्यजिज्ञपत् देव! लावाणके देशे अस्माकं गन्तव्यं दीर्घकालञ्च तत्र स्थातव्यंस चातिरम्यो विषयः मृगयाभूमयश्च तत्र बहवः सन्ति, अश्वघासश्च सुलभः, परन्तु नैकट्यात् मगधेश्वरस्तमस्मद

धिकृतंदेशम्बाधते, तद्रक्षणाय विनोदाय च तत्र श्रीमद्भिर्गम्यताम्। एतदाकर्ण्यवत्सराजः क्रीड़ापरायणः समं वासवदत्तया तत्रलावाणके गन्तुंमतिमकरोत्। निश्चिते च गमने निर्धारिते च शुभे लग्ने अकस्मात् नारदमुनिः कान्त्याआदीपयन् तं प्रदेशं राजसकाशमाजगाम। आगत्य च गृहीतातिथ्यसत्कारःप्रीतः पारिजातकुसुमस्रजंतस्मै प्रणताय भूभुजे प्रददौ, कृतादरश्चाभिननन्द तां वासवदत्तां विद्याधराधिपं कामदेवांशं पुत्रमवाप्स्यसीति। उवाच च शृण्वति यौगन्धरायणेराजन्! तव वासवदत्तां दृष्ट्वा स्मृतं मया, पुरा युधिष्ठिरादयः तव प्रपितामहाः पञ्च अभूवन्। तेषाञ्च पञ्चानामेव एका द्रौपदीति नाम्ना प्रेयसी आसीत्। ताञ्च वासवदत्तामिव रूपेणाप्रतिमां दृष्ट्वा दोषमाशङ्क्य तानहमभ्यधां स्त्रीवैरं न रक्षणीयं वः, एतदेव बीजंमहापदां, तथाह्येतां कथां कथयामि श्रूयताम्।

पुरा सुन्दोपसुन्दनामानौ दौ भ्रातरौ बभूवतुः। तौविक्रमेण त्रिलोकजयिनौसंवृत्तौ। विधाता तयोर्विनाशार्थं विश्वकर्म्माणमाहूय तिलोत्तमा नाम दिव्यनारीं निर्मापयामास। यस्या रूपमालोकयितुं ब्रह्मा हरश्चचतुर्दिक्षुप्रदक्षिणं कुर्वत्याः चतुराननः सम्भभूव। एकदा सा विधातुर्निदेशात् कैलासोद्यानवर्तिनोस्तयोः सुन्दोपसुन्दयोः प्रलोभनाय समीपमागमत्। तौ चासुरौ तामन्तिकागतां दृष्ट्वाकाममोहितौ उभावेव तां बाहुभ्यामग्रहीष्टाम्। अथ द्वावेव इयं मम प्रिया इयं मम प्रियेति विवदमानौ तुमुलं सम्प्रहारं चक्रतुः मम्रतुश्च परस्परं भृश

माहतौ। तदेवं नारीरूपविषयः कस्य निदानं नापदाम्? युष्माकं पञ्चानामेव एका द्रौपदी वल्लभा, एतन्निमित्तश्च विद्वेषः परस्परं यथा न भवेत् तथा क्रियताम्। मम वचनादेष नियमोऽस्तु यदेयं ज्येष्ठान्तिकगता भवेत् तदा कनीयसा मातेयं मन्तव्या, हे कनिष्ठान्तिकस्था तु ज्येष्ठेन स्नुषा मन्तव्या। हे राजन्! तव ते प्रपितामहा ममैतत् वचनं सर्व एव तथेति प्रत्यपद्यन्त। ते च मम सुहृद आसन्, तत्प्रीत्या चाहमिहागतः। हे वत्सेश!तदेतत् यदब्रवीमि तदाकर्ण्य, यथा तैर्मम वाक्यंकृतं तथा त्वंमन्त्रिणां वाक्यं कुर्य्याः, तर्हिअचिरेणैव महतींऋषिमवाप्स्यसि, कञ्चित् कालञ्च ते दुःखं भविता, न च तत्रत्वया अतिमोहःकर्तव्यः, सुखान्तं हि तद् भविता। एवमभिधाय तत् क्षणंदेवर्षौतिरोहिते ते च यौगन्धरायणादयः मुनिवचनप्रत्ययात् सिद्धिं निश्चित्य स्वकाय्यार्थं प्रयत्नपराः सुभृशमभवन्।

इति पञ्चदशस्तरङ्गः।
— — — —

अथ षोड़शस्तरङ्गः।

तत स्तेयौगन्धरायणादयो मन्त्रिणः युक्त्या तं वत्सेश्वरं सवासवदत्तंलावाणकं देशमनयन्। स राजा सैन्यकोलाहलेन दिशो व्याप्नुवन् तं देशं प्राप। तत्र उप

स्थितञ्चतं विदित्वा मगधेश्वरः सशङ्कश्चकम्पे। विससर्ज च महामतिर्यौगन्धरायणान्तिकं दूतम्।सोऽपि मन्त्रिमुख्यः तमागतं दूतं अभ्यनन्दत्। वत्सेश्वरस्तु तस्मिन् देशे निवसन्प्रतिदिनं मृगया व्यसनी अटव्या अटवीं दवीयसीमपि पर्यटति स्म।

एकदा राजनि आखेटं गते सर्वे मन्त्रिणः गोपालकसहिताः संविदं कृत्वा विजने वासवदत्तासकाशमगमन्। अभ्यर्थयंश्च तां पूर्वं भ्रात्रा प्रबोधितां तत्तद् युक्तिभिः राजकार्य्यसाहाय्यार्थम्। सा च विरहक्लेशदमपि तत् कथञ्चिदनुमेने किं हि नाम स्वाम्यनुरक्ता न सहन्ते कुलनार्य्यः। ततो यौगन्धरायणः तस्यै रूपविवर्त्तनं योगं दत्त्वा सद्यएव ब्राह्मणीरूपां तां देवीं कृतवान् वसन्तकञ्च काणं वटुरूपम्। स्वयञ्च स्थविरब्राह्मणवेशः अभूत्। अथ स महामतिः तथारूपेण वसन्तकेन सार्द्धंतथारूपां देवीं गृहीत्वा मगधान् प्रति प्रतस्थे। वासवदत्ता तु तदा गृहात् निर्यती चित्तेन भर्त्तारं देहेन च पन्थानमगच्छत्। अथ रुमण्वता तन्मन्दिरं अग्निनाआदीप्य उच्चैर्हाहाकाररवंकृत्वा वसन्तकयुता देवी दग्धेति किल घोषितम्। तदा च तत्र दहनं आक्रन्दश्च सममुदतिशष्ठतां परं दहनः क्रमेणशशाम न पुनराक्रन्दः। यौगन्धरायणश्च तया वासवदत्तया वसन्तकेन च सह मगधेश्वरनगरीं प्राप। उपाययौच तव पद्मावतीं राजसुतामुद्यानस्थिताम्।पद्मावत्याश्च तां ब्राह्मणीरूपां वासवदत्तां दृष्टवत्याःनितरां नेत्रानन्दः समजायत। साराजकन्या

रक्षिणोनिवार्य्यब्राह्मणाकृतिं यौगन्धरायणमन्तिकमानाययत्। अपृच्छच्च ब्रह्मन्! का तवेयं वाला? किमर्थमागतो वा? अथ सोऽब्रवीत् राजपुत्रि! इयमावन्तिका नाम मम सुता, अस्याश्च भर्त्ता व्यसनी इमां त्यक्त्वाकुत्रचित् गतः, तदेनां तव हस्ते स्थापयामि यावदहमस्याः पतिमन्विष्य आनयामि, भ्राता चास्याः काणः इहैव अस्याः समीपे तिष्ठतु येनेयं एकाकिनी दुःखं न प्राप्नोतीति।

इत्युक्त्वाअङ्गीकृतवचसं तामामन्त्र्यअसौ मन्त्रिवरः शीघ्रमेव लावाणकं प्रत्याजगाम। पद्मावती च कृतसत्कारा सादरा सस्नेहा च तां आवन्तिका नामधेयां वासवदत्तां काणवटुरूपञ्च वसन्तकमादाय सकौतुकं राजभवनं विवेश। वासवदत्ता तु तत्र स्थिता चित्रभित्तिषु रामस्य चित्रपटे सीतां पश्यन्ती भर्तृविरहमसहत। पद्मावती च आकृत्या सौकुमार्य्येण शयनाप्तनादिक्रियया शरीरसौरभेण नीलोत्पलसुगन्धेन, तां वराङ्गनां निश्चित्य आत्मनि विशेषैरुपचारैः यथाकामं पर्य्यचरत्। अचिन्तयच्च कापि एषा छन्नवेशा नूनं, विराटभवनस्था द्रौपदीव मेप्रतिभाति एकदा वासवदता वत्सेश्वरशिक्षितां अम्लानमालां तिलकञ्च अस्याः पद्मावत्याश्चकार। अथ राजमहिषी तां पद्मावतीं तादृशमालातिलकाभ्यामलङ्कृतां दृष्ट्वा रहसिपर्य्यपृच्छत् पुत्रि! केन तव इमौ मालातिलकौप्रदत्तौ? पद्मावती उवाच मातः! काचित् आवन्तिका नाम ब्राह्मणी मद्गेहे स्थिता सैव मम एतौनिर्मितवती। तदाकर्ण्यतयोक्तम्वत्से! तर्हि सा मानुषीन, कापि देवी, मानुष्या इदृशं विज्ञानं न

सम्भवति, देवता मुनयश्च वञ्चनार्थं सतां गेहे एवं तिष्ठन्ति अत्र चैतां कथां कथयामि श्रूयताम्।

पुरा कुन्तिभोजः नाम नृपोऽभूत्। एकदा दुर्वासा मुनिस्तन्निकेतनमगात् स राजा तस्य परिचर्य्यार्थं कुन्तिं नाम सुतां न्ययोजयत्। सापि यत्नेन तं परिचचार। एकदा मुनिस्तां जिज्ञासुः अभाषत कन्ये! परमान्नंपच, शीघ्रमहं स्नात्वा आगच्छामि। इत्युक्त्वा मुनिस्त्वरितं स्नात्वाआगत्य भोक्तुमुपातिष्ठत।कुन्ती च तस्मै तदन्नपूर्णाम्पात्रींन्यवेदयत् अतितप्तेन अन्नेनज्वलन्तीमिव तां मत्वा स मुनिः कुन्त्याः पृष्ठे हस्तग्रहायोग्यां दृशं ददौ। सापि अवगताभिप्राया पृष्ठेनतांपात्रीं दधार। मुनिस्तु ततः स्वेच्छं बुभुजे, कुन्त्याश्च पृष्ठमदह्यत। दह्यमानापि निर्विकारा यदतिष्ठत् तेन तुष्टो मुनिर्भुक्त्वातस्यै वरमदात्। तदेवमेषा आवन्तिकामपि कापि देवी तव गृहे स्थिता भवति तदेनां यत्नत आराधय। इति मात्राभिहिता पद्मावतीअन्यरूपिणींतां वासवदत्तां बहु अमन्यत। वासवदत्ता च भर्तृविनाकृता विच्छाया निशीयस्था पद्मिनीव अतिष्ठत्। केवलंवसन्तकमुखविकारा एव तस्या वियोगिन्याः स्मितावसरं विदधुः।

अत्रान्तरे वत्सराजश्चिरमतिदूरेषु आखेटभूमिषु विचरन् सायं लावाणकमियाय। आगत्य च अन्तःपुरमग्निना दग्धमपश्यत् अशृणोच्चमन्त्रिभ्यः सवसन्तकांदेवीं दग्धाम्। शृत्वैवमुमोह पपात च भूमौविगतचेतनः। क्षणाच्च लब्धसंज्ञः विलपन् दुःखार्त्तः देहन्यासकृतनिश्चयश्चाचिन्त

नारदेनोक्तंविद्याधराधिपं पुत्रं जनयिष्यति देवी, तच्चनैव मृषा, पुनरुक्तञ्च तेन यत्किञ्चित् तव दुःखं भविष्यति, गोपालकस्य च शोकः स्वल्प एव दृश्यते यौन्धरायणादयश्च नातिदुःखिता इव लक्ष्यन्ते। तस्मात् मन्ये सा देवी कथमपि जीवति मन्त्रिभिरेव काचित् नीतिः प्रयुक्ता भवेत्, अतः सम्भविष्यति मम पुनर्देवीसमागमः, इत्यालोच्यस भूपतिर्मन्त्रिभिः प्रबोध्यमानश्च कथमपि धैर्य्यमाप। गोपालकश्च यथायथं सन्दिश्य तत्क्षणंमगधराजाय अलक्षितंचारान् प्रजिघाय। इत्थम्भूते च व्यतिकरे तदा लावाणकवासिभिर्द्रुतैर्मगधराजाय तत्सर्वमावेदितम्। स तु कालज्ञःविदितवृत्तान्तः पूर्वं यौगन्धरायणाभ्यर्थितां स्वां सुतांपद्मावतीं वत्सराजाय दातुमैच्छत् अथ स दूतमुखेन वत्सेश्वराय यौगन्धरायणाय च तमर्थं सन्दिदेश। वत्सराजस्तुयौगन्धरायणयुक्त्या तमर्थमङ्गीचकार।यौगन्धरायणश्च लग्नंशुभमवधार्य्यमगधराजाय प्रतिदूतं व्यसर्जयत्। सन्दिदेश च भवदभिलाषः स्वीकृतोऽस्माभिः, इतः सप्तमेऽहनि वत्सेशोऽत्र गमिष्यति, तथा सति वासवदत्तां विस्मरिष्यतीति।प्रतिदूतश्च गत्वा सर्वमेतत् मगधराजाय यथादिष्टमभ्यधात् मगधपतिश्च तत् सर्वं प्रतिदूतवचः समभिनन्द्य दुहितृस्नेहाभिलाषानुरूपं विवाहसंस्कारसम्भारं कर्तुमारेभे। पद्मावती च अभीष्टवरश्रवणेन सुदमतितरामाययौ, वासवदत्ता तु तद्वार्त्ताकर्णनात् शोकम्। सावार्त्ता कर्णमागत्य तस्यावैवर्ण्यमादधाना प्रच्छन्नवासवैरूप्यसाहायकमिवाकरोत् इत्थंमित्रीकृतः शत्रुरयं मगध

पतिः न च भर्त्ता तवान्यथा कदापि सम्भवति इति वसन्तकवाक् अस्याः सखीव धृतिं व्यधात्।

अथ विवाहविधौ समासन्नेसा मनस्विनी पुनः पद्मावत्या अम्लानमालातिलकौप्रादात्। ततो वत्सेश्वरः सप्तमे दिने मन्त्रिभिः सार्द्धंससैन्यः परिणेतुं तत्राययौ मगधेश्वरश्च सानन्दः प्रजानेत्रानन्दं उद्यन्तं चन्द्रमिव सागरः तं सद्य एवप्रत्युद्ययौ। वत्सेश्वरश्च मगधपतिपुरं समन्तात् पौराणां मानसमिव महोत्सवः प्रविवेश। तत्रस्था नार्य्यस्तं विरहक्षामवपुषं मनःक्षोभप्रदं रतिहीनमिव स्मरं ददृशुः।वत्सराजस्तु मगधेश्वरगृहं प्रविश्य तत्र पतिपत्नीभिः परिवृतं कौतुकागारमगात् अद्राक्षीच्च तत्रान्तःकृतकौतुकमङ्गलां जितपूर्णेन्दुमुखींपद्मावतीम्। तस्याश्च मालातिलकौदिव्यौनिजौसमालोक्य कुतोऽस्याएताविति विममर्श। ततः विवाहवेदिं गत्वा यदस्याः करमग्रहीत् तदेवास्य पृथिवीकरग्रहेआरभतां प्रापत्। प्रियवासवदत्तोऽयं नेक्षितुमिदं शक्नोतीतीव वेदिधूमोऽस्य दृशौ पिदधे। तदा चअग्निंप्रदक्षिणीकृतवत्याः पद्मावत्यामुखमाताम्रंविदितपत्यभिप्रायतया कोपाकुलमिवबभौ। कृतविवाहश्च वत्सेश्वरः तां पद्मावतीं करात्मुमोच नतु वासवदत्तां तां हृदयात् क्षणमपि। ततो मगधेश्वरस्तस्मै तथा रत्नौघं यौतुकमदात् यथा तत्क्षणंनिर्दुग्धरत्नरिक्तेव वसुधा लोकैर्बुबुधे। यौगन्धरायणश्च तदानीमग्निं साक्षीकृत्य मगधेशं राज्ञः अद्रोहप्रत्ययमकारयत्। अत्रा

न्तरे प्रवृत्तवाराङ्गनाविलासः प्रगीतचारणः प्रदत्तवसनाभरणः समन्तात्महोत्सवः संववृते। वासवदत्ता तु पत्युरुदयमाकाङ्क्षन्ती अलक्षितस्थिता दिवा कान्तिरैन्दवीव क्वचित् निभृता तस्थौ। ततः वत्सेश्वरे अन्तःपुरमायाते देवीसन्दर्शनाशङ्की कृती यौगन्धरायणः मन्त्रभेदभयात् मगधेश्वरमभ्यधात् राजन्! अद्यैव मम भूपतिस्तद्गृहात् गच्छति। तेन च तथेत्यङ्गीकृते स मन्त्री वत्सेशमभ्येत्य तमर्थं व्यजिज्ञपत्। स च तथेत्युक्त्वाभुक्तपीतपरिजनः मन्त्रिभिः साकं पद्मावतींनवोढ़ामादाय उच्चचाल। वासवदत्ता च पद्मावत्या विसृष्टं वाहनोत्तममारुह्यसुगुप्तं सैन्यस्य पृष्ठतः कृतरूपविवर्त्तं तं वसन्तकंपुरस्कृत्य समाययौ। क्रमाच्च लावाणकं प्राप्य वत्सेशोनिजां वसतिमासदत् तया बध्वा। सा च वासवदत्ता गोपालकस्य भ्रातुर्मन्दिरं प्रविवेश। तत्र गोपालकं भ्रातरं कृतादरं प्राप्य रुदती वाष्पाकुललोचना कण्ठे जग्राह। क्षणे च तस्मिन् कृतसंविदौ तत्र यौगन्धरायण-रुमण्वन्तो समाजग्मतुः यावदसौ मन्त्रीअस्याःवियोगदुःखं व्यपोहति, तावत् ते वासवदत्तावाहका महत्तराः पद्मावतीमभ्येत्य व्यजिज्ञपन् देवि! यासावावन्तिका अस्माभिरानीता सा अस्मान् विधूय राजपुत्रस्यगोपालकस्य गृहं प्रविष्टा इति पद्मावती तु तैरेवं विज्ञापिता वत्सेश्वरसमीपे, साशङ्का तानेवमब्रवीत् गच्छत, अवन्तिकां ब्रूत, त्वं मे निक्षेपस्थापिता, तदत्र किं तव, यत्राहंतत्रैव त्वयागम्यतामिति। तदाकर्ण्यतेषु यातेषु राजा पद्मावतीमिथो

ऽपृच्छत् केनेमौते मालातिलकौकृताविति सा अवोचत् मद्गेहे केनचित् विप्रेण न्यस्ता आवन्तिका नाम द्विजबधूः, तस्याः शिल्पमेतत्। तदाकर्ण्यैव वत्सेशो नूनं सा वासवदत्ता भवेदिति चिन्तयन् तत्क्षणमेव गोपालकगृहमगात्। प्रविवेश च द्वारस्थितमहत्तरम् अन्तःस्था देवी गोपालकमन्त्रिद्वयवसन्तकम्। ददर्श च तां प्रेषितागतां उपप्लवनिर्मुक्तां चान्द्रमसीमिव मूर्त्तिं वासवदत्ताम्। दृष्ट्वैव स शोकविह्वलः क्षितौनिपपात सह वासवदत्तया सकम्पहृदयया विरहपाण्डुरगात्र्या। अथ सा संज्ञां प्राप्य निन्दन्ती स्वचरितं बहु विललाप। इत्थं तौ दम्पती शोकदीनौतथा रुरुदतुर्यथा यौगन्धरायणोऽपि वाष्पाकुलमुखः संबभूव। तथाविधञ्च तं कोलाहलमकाले श्रुत्वा पद्मावत्यापि समाकुला तं प्रदेगमुपागमत्। क्रमाच्च विदितवृत्तान्ता सा राजवासवदत्तयोः समवास्थैवासीत् सत्यः स्त्रियः स्निग्धमुग्धा हि। किं मे जीवितेन भर्तृदुःखप्रदायिना, इति वासवदत्ता रुदती मुहुर्व्याजहार। धीरो यौगन्धरायणः अब्रवीत् देव! मगधेशसुतालाभात् तव साम्राज्यं भवेदिति मयैव एतत् सर्वं कृतंनात्र देव्याः कश्चन दोषः, इयमेव पद्मावती अस्याः प्रवासे शीलसाक्षिणीति। पद्मावती निर्मत्सरा राजानमब्रवीत् अहमग्नौविशामि अस्याः शुद्धिप्रकाशनाय।राजाब्रवीत् अहमेव अपराधीः यत्कृते देव्या अयं सुमहान् क्लेशः सोढ़ इति। वासवदत्ता तु कृतनिश्चया अग्निप्रवेशो मे कार्य्यः शरीरशुद्धये इत्यब्रवीत्। ततः सुकृती धीमान् यौगन्धरायणः

प्राङ्मुख आचम्य शुद्धामिति वाचमभ्युदैरयत् यदि अहमस्य राज्ञः हितार्थी, देवी च शुद्धाभवति हे लोकपालाः! ब्रूत नचेत् देहं त्यजामि। एवमुक्त्वाविरते तस्मिन् सहसा दिव्या वागुदतिष्ठत् राजन्! त्वमेव धन्यः यस्य तत्रमन्त्री यौगन्धरायणः वासवदत्ता च पत्नी, या प्राक् जन्मनि देवी आसीत् न कश्चिदस्या दोष इति। अथैतदाकर्ण्यसर्वे रोमाञ्चितकलेवरास्तत्क्षणमभूवन्। गोपालकसहितश्च राजा हर्षनिर्भरमानसातत् यौगन्धरायणचरितं स्तौति स्ममहीञ्च हस्तगतां मेने। ततो नृपतिः सानन्दः मूर्त्तिमत्यौ रतिनिर्वृती इव भार्य्येदधत् अनुदिनं परममहोत्सवेन कालमनयत्।

इति षोडषस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1722147011Screenshot2024-07-24072147.png"/>

अथ सप्तदशस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1722147038Screenshot2024-07-27173331.png"/>

अथान्येद्युर्वत्सराजः प्रियया वासवदत्तया पद्मावत्या च समेतः संसक्तपानशीलः विजने गोपालकं यौगन्धरायणंरुमण्वन्तं वसन्तकञ्च आनीय नाना विश्रम्मिणीः कथाः कथयन् स्वविरहप्रसङ्गे एतां कथामवर्णयत्।

पुरासीत् पुरूरवा नाम परमवैष्णवः नरपतिः। तस्य

स्वर्गेऽपि अप्रतिहता गतिरभूत्। कदाचित् नन्दने विचरन्तंतं उर्वशीनाम काचित् सुरसुन्दरी ददर्श किल। दृष्टमात्रेण तेन सा तथा हृतचेतना अभवत् यथास्याः सख्यः रम्भादयोऽपि सभयकम्पाः सद्यः समभवन्। सोऽपि राजा तां लावण्यरसनिर्झरिणीमालोक्य तत्क्षणमेव तत्परिष्वङ्गलोलुपः अप्राप्य तां मुमूर्च्छ।

एतस्मिन्नन्तरे क्षीरसागरनिलयः सर्वज्ञो भगवान् नारायणः दर्शनार्थमागतंमुनिवरं नारदमादिदेश देवर्षे! नन्दनोद्यानवर्त्ती राजा पुरूरवाः उर्वशीहृतस्तिष्ठति। तद्गत्वा मम वचसा शतक्रतुं बोधयित्वा अस्मै राज्ञे उर्वशीं दापय। इत्यादिष्टः स नारदः तत्क्षणमागत्य तं प्रबोध्य पुरूरवसं अभ्यधात् राजन्! उत्तिष्ठ त्वत्कृते अहं विष्णुना प्रहितोऽस्मि, स हि भक्तानामापदं न द्रष्टुं पारयति। एवमाश्वास्य तेन राज्ञा सह देवराजसकाशमगमत् अदापयच्चहरेः सन्देशंनिवेद्य तस्मै महेन्द्राय उर्वशीम्। तदा उर्वश्या दानञ्च स्वर्गस्य निर्जीवकरणं उर्वशीपुरूरवसोस्तु मृतसञ्जीवनोषममासीत्। अथ पुरूरवास्तामूर्वशीमादाय भूलोकमागमत्। ततः प्रभृति तावन्योन्यासक्तौ तथा अभूतां यथा क्षणमपि अदर्शनं सोढुंन शेकतुः।

कदाचित् दानवैः सार्द्धंसम्प्रहारे प्राप्ते वज्रिणा समाहूतः साहाय्यार्थं पुरूरवाः सुरलोकमगात्। तत्र मायाधराख्ये असुराधिपे निहते शक्रसंसदि प्रनृत्यस्वर्गाङ्गनासार्थः सुमहान् उत्सवः समभवत्।तासु च नृत्यन्तीं रम्भां स्खलिताभिनयां दृष्ट्वाराजासौ पुरूरवा आचार्य्यस्य तुम्बुरोः

समक्षं जहास। रम्भापि जानेऽहं दिव्यं नृत्यं त्वं पुनर्मानुषः, किं जानासि इति सासूयातमभाषत।पुरुरवाश्चजानेऽहमुर्वशीसङ्गात् तत्सर्वं यत् युष्माकं मुरुतस्तुम्बुरुरपि न जानाति इति साहङ्कारमुवाच। तदाकर्ण्यतुम्बरुस्तस्मै कुपितः शापमदात् उर्वश्या ते वियोगो भवतु, आकृणाराधनान्। एवं प्राप्ताभिशापश्च राजा विमनाः समागत्य मर्त्यलोकं अकालाशनिपातकल्पंतद्वृत्तान्तमुर्वश्यै न्यवेदयत्। ततश्च सहसा समागतैः गन्धर्वैः निपत्य भूपेन अलक्षितैः सा समाहृता। अथ तद्वियोगविधुरो राजा वदरिकाश्रमं गत्वा तं शापं शमयन् हरेराराधनं चकार। उर्वशी तु वियोगार्ता गन्धर्वसदनस्था मृतेव सुप्तेवलिखितेव विचेतना तस्थौ केवलं शापान्ताशावलम्बिनी चक्रवाकीव रजन्यां प्राणैर्न व्ययुज्यत। पुरूरवाश्च तपसा भगवन्तमच्युतं तथा समराधयत् यथातत्प्रसादेन ते गन्धर्वाः स्वयमानीय तामुर्वशींतस्मै पुनर्ददुः। अथ स राजा शापान्ते पुनर्लब्धया प्रेयस्या अस्मरसा साकं दिव्यान् भोगान् बुभुजे।

इत्युक्त्वातस्मिन् राजनि विरते वासवदत्ता उर्वशीवृत्तं श्रुतवती सोढ़वियोगत्वात् लज्जामाप।ततस्तां कौशलेनोपालब्धां विलचितां देवीं दृष्ट्वा आप्याययितुं राजानमब्रवीत् यौगन्धरायणः राजन्! यदीयं कथा न श्रुता तदा कथयामि श्रूयताम्।

अस्ति तिमिरा नाम नगरी निकेतनमिव श्रियः। तस्यामभूत् विहितसेनाभिधः ख्यातिमान् नरपतिः। तस्या

सीद्भार्य्या तेजोवती नाम क्षितिस्था सुराङ्गनेव। स राजा तस्याः स्पर्शलोलुपः क्षणमपि कञ्चुकधारणं न सेहे। कदाचित् अस्य राज्ञः संजज्ञे जीर्णामयज्वरः। वैद्याश्च तयादेव्या सङ्गमं न्यवारयन्। ततश्च देवी सङ्गविहीनस्य तस्यनृपतेः हृदि अनोषधसाध्यः कश्चिदपरो व्याधिः समजायत। अथ ते चिकित्सकाः रहसि मन्त्रिणः सनब्रुवन् भयात् शोकाभिघाताद्वाअस्य राज्ञःरोगोऽयं कदाचन यदि स्फुटेत् तदैव रोगशान्तिः परं पृष्ठपतितेऽपि महोरगेनतत्रास, नापि चुक्षुभे परसैन्ये अन्तःपुरं प्रविष्टेऽपि, तस्य महासत्त्वस्य अस्य राज्ञः कथं भयं जायेत, नास्ति अत्रास्माकमुपायबुद्धिः, तद्ययास्यशोको भवेत् तथा क्रियतामिति निश्चित्य ते मन्त्रिसहितास्तां देवीं प्रच्छाद्य भूपतिमूचुः मृता देवीति। तदाकर्ण्य शोकातिभारेण मय्यमानस्य तस्य विह्वलस्य सहसा महीभृतः हृदयव्याधिरस्फुटत्। ततश्च तस्यारोपविपदः समुत्तीर्णस्य तस्यसा महादेवी सुखसम्पदिवापरा सम्प्रदत्ता मन्त्रिभिः। राजा तु मतिमान् तां प्राणप्रदायिनीं बहु मेने न पुनरस्यै प्रच्छादितात्मने कदाचित् चुकोप।

या तु पत्युर्हितैषिता सैव देवीत्वस्यलक्षणं केवलं प्रियकारित्वमेव नैव देवीशब्दप्रतिपाद्यम्। यच्च राजकार्य्यभारस्य चिन्तनं तदेव मन्त्रिकार्य्यं न पुनश्चित्तानुवर्त्तनं तद्धिउपजीवकलक्षणम्। अस्माभिः परिपन्थिना मगधराजेन सन्धातुं तव पृथीविजयकाङ्क्षिभिरयं यत्नःकृतः। देव! तस्मात् असह्यवियोगयापि देव्या भवदभ्युन्नतिकाम

यैव तथा कृतं नात्र देव्या स्वल्पमप्यपराद्धंप्रत्युत सम्पूर्णा उपकृतिः कृता।

एकदाकर्ण्यमुख्यमन्त्रिणो यथार्थं वचनं राजा वत्सेश्वरः आत्मानमेव अपराद्धममन्यत तुतोष च।उवाच च जानेऽहं युष्मत् प्रयुक्तया देव्या मूर्त्तिमत्या नीत्येव मम हस्ते मेदिनी दत्ता परन्त्वतिप्रणयात् मया एतदसमञ्जसम् उक्तंकुतश्चानुरागान्धमनसां विचारसहता? इत्यादिभिः संलापैः स उदयनस्तद्दिनं देव्याश्च लज्जोपरोधं अपनिनाय।

अन्येद्युर्विज्ञातवृत्तान्तेन मगधेश्वरेण प्रेषितो दूतस्तमभ्येत्य वत्सराजं व्यजिज्ञपत्पुत्र! तव मन्त्रिभिर्वयंवञ्चिताः, तत् त्वया तथा कार्य्यं यथा जीवलोकः शोकमयो न भवेत्। एतदाकर्ण्य वत्सेश्वरस्तं सम्मान्य दूतं प्रतिसन्देशलब्धये पद्मावतीपार्श्वं प्राहिगोत्। सापि वासवदत्तावशवर्त्तिनी तत्सन्निधावेव तस्यदूतस्य दर्शनं दत्तवती। व्याजेन पुत्रि! नीता त्वं, पतिर्हि तव अन्यासक्तः, तन्मया कन्याजननफलं लब्धमिति पितृसन्देशे तेन निवेदिते सा पद्मावती जगाद भद्र! तातो मद्वचनात् विज्ञाप्यः, किं शोकेन आर्य्यपुत्रोहि मयि परं सदयः, देवी वासवदत्ता च मयि सस्नेहाभगिनीव वर्त्तते, तत् तातेन आर्य्यपुत्रं प्रति विकारिणा नैव भाव्यं यदि निजसत्यमिव मदीयं जीवितमत्याज्यमिति।

पद्मावत्या इति प्रतिसन्देशे यथोचिते अभिहिते वाससत्कृवदत्ता तं दूतं त्य प्राहिणात्। दूते च प्रतिगते पद्मा

वती पितृवेश्मनः स्मरन्ती किञ्चिदुन्मनाः क्षणमतिष्ठत्। ततस्तस्या विनोदार्थमुक्तो वासवदत्तया सन्निहितोवसन्तककथामेतामवर्णयत्।

अस्ति पाटलिपुत्राभिधं पृथ्वीविभूषणमिव पुरम्। तत्रधर्म्मगुप्तो नाम कश्चित् महाबणिक् प्रतिवसति स्म। तस्यासीत् चन्द्रप्रभानाम भार्य्या, सा तु कदाचित् गर्भवतीअभवत् प्रासूत च कन्यामेकां सर्वाङ्गसुन्दरीम्। सा तु जातमात्रैवकान्त्या द्योतितमन्दिरा सुव्यक्तमालापं चक्रे उत्थाय उपविवेश च। तदालोक्य तत्रस्थः सर्व एव स्त्रीजनः विस्मयेन वित्रस्तमभवत्। धर्म्मगुप्तोऽपि श्रुत्वा सभयस्तत्राययौ पप्रच्छ च प्रणतस्तां कन्यकां रहसि भगवति! का त्वंमम गृहे अवतीर्णासि? सा अब्रवीत् त्वया कस्मैचिदपि अहं न देया, अहं तव गृहे स्थिता शुभाय, अलमन्येन प्रश्नायासेन।इत्युक्तः स भीतः स्वमन्दिरे सुप्तस्तामेव रक्षितवान् ख्यापयामास च बहिस्तां मृताम्। ततः सोमप्रभा नाम सा कन्या क्रमात् ववृधे मानुषेण रूपेण कान्त्या तु दिव्यया।

एकदा गुहचन्द्रो नाम कश्चित् बणिक्तनयः प्रमोदेन वसन्तोत्सवविलासिनीं हर्म्म…स्थांतामवलोकयामास मुमोह च तत्क्षणात् मनोभवशरसंविद्धः। अथ चिरेण लब्धसज्ञःस कथञ्चित् गृहं गत्वा अस्वास्थ्यकारणं निर्बन्धपृष्टः स्ववयस्यमुखेन, पित्रोर्निवेदयामास। ततस्तत्पिता गुहसेनो नाम पुत्रस्नेहवशंवदस्तां कन्यां याचितुं धर्म्मगुप्तस्य बणिजोगृहमगच्छत् धर्म्मगुप्तस्तु कन्या मे मृतेति

तं स्नुषार्थिनं गुहसेनं प्रत्याचचक्षे। सोऽपि निह्नुतां तांमत्वा गृहं गत्वा दृष्ट्वाच सुतं स्मरज्वराकुलितं समचिन्तयत् अत्र तावत् राजानं अनुरुणध्मि, स हि मे पूर्वसेवितः शक्नोति च स एव मे पुत्राय कन्यामिमां दापयितुम्। इत्यवधार्य्यस गत्वा रत्नमेकमुत्तमं तस्मैउपहारीकृत्य व्यजिज्ञपत् स्वाभिलषितम्। राजापि प्रीतः अस्य साहाय्यार्थं नगराधिपं प्रजिघाय, स च तेन सार्ध्वंधर्म्मगुप्तभवनमयासीत् अरुणच्चतद्गृहं राजवलैः। ततः सोमप्रभा तं धर्म्मगुप्तमभाषत तात! देहि मां माभूत् ते मदर्थः कश्चिदुपद्रवः, सम्बन्धिना च सह त्वया एव नियमः कार्य्यःयदेषा भर्त्त्राशय्यायां कदाचन नारोपणीयेति। इत्युक्तः स धर्म्मगुप्तः शय्यारोपणवर्ज्जलाभाय तां कन्यां दातुं प्रत्यपद्यतगुहसेनश्च सान्तर्हास्रःविवाहस्तावत् भवतु पुत्रस्येति चिन्तयन् तथास्त्विति प्रतिज्ञातवान्।

अथ गुहचन्द्रः तां सोमप्रभां कृतोद्वाहां नीत्वा स्वगृहमगात्। सायञ्च पिता पुत्रमवादीत् वत्स! शय्यामिमां बधूमारोपय, कस्य स्वभार्य्या शयनस्था न भवेत्? तदाकर्ण्यसोमप्रभा सकोपा श्वशुरं तं विलोक्य यमाज्ञामिवतर्जनीं भ्रामयामास। ताञ्च तस्या अङ्गुलिं भ्रमन्तीं दृष्ट्वा स्नुषायाः तत्क्षणमेव बणिजः प्राणा विनिर्जग्मुः, अन्येषाञ्च भयमागयौ। गुहचन्द्रस्तु पितरि पञ्चतामुपगते महामारी मम गृहे प्रविष्टा भार्य्यारूपेणेति व्यचिन्तयत्। ततश्चानुपभुञ्जानस्तांगृहवर्त्तिनीं भार्य्यां

असिधारमिव व्रतं सिषेवे। भोजयामास च विप्रान् प्रत्यहं कृतव्रतः भोमविहीनतया नितरां मनोदुःखदह्यमानः। सा च सोमप्रभाकृतमौनव्रता मुक्तवद्भ्यस्तेभ्यः विप्रेभ्यः प्रतिदिनं दक्षिणामदात्। एकदा कश्चिद्ब्राह्मणः भोजनार्थमागतस्तां जगदाश्चर्य्यरूपिणीं बधूं ददर्श सकौतुकश्च पप्रच्छ गुहचन्द्रं रहसि,केयं ते कामिनी, त्वया कथ्यतामिति। निर्बन्धपृष्टश्च स सुदुःखितः सर्वमेव तद्वृत्तान्तं द्विजन्मने तस्मै कथयामास। तदाकर्ण्यस विप्रमुख्यः सानुकम्पः तस्मै स्वेष्टसिद्धये अग्न्याराधनमन्त्रमदात्। अथ तेन मन्त्रेण रहसि जपतस्तस्य गुहचन्द्रम्य समक्षमग्निमध्यात् कश्चिद् ब्राह्मणरूपः समुत्तस्थौ। जगाद च तं चरणानतं बणिक्पुत्रं अद्याहं तव भवनेभोक्ष्येरात्रौ स्थास्यामि च साधयिष्यामि च तव वाच्छितं तत्वं दर्शयन्। इत्यक्त्वास ब्राह्मणरूपी अग्निः गुहचन्द्रगृहे अन्यविप्रवत् भुक्त्वा रात्रौ तद्गृहे याममात्रं शयनं सिषेवे। तावच्च संसुप्तजनात् तस्मात् गृहाभ्यन्तरात् सासोमप्रभा निर्ययौ। ब्राह्मणस्तद्दृष्ट्वा गुहचन्द्रमबोधयत् अब्रवीच्च एहि स्वभार्य्यावृत्तान्तमवलोकय। इत्यक्त्वायोगेन गुहचन्द्रं आत्मानञ्च भृङ्गरूपं कृत्वा तस्मात् गृहात् निर्गत्य तां भार्य्यांगृहनिर्गतामदर्शयत्। सा तु सुन्दरी नगराद्बहिरतिदूरं जगाम, गुहचन्द्रोऽपि तेन ब्राह्मणेन सह तामनुजगाम। ततस्तत्रासौगुहचन्द्रः प्रकाण्डमेकं न्यग्रोधपादपमपश्यत्। अशृणोच्च तदधस्तात् वीणावेणुरवान्वितं दिव्यं मधुरं सङ्गीतनादम्।स्कन्धदेशे

च तस्य तरोः कृतासनपरिग्रहां स्वभार्य्यासदृशाकृतिं कामपि दिव्यां मनोहरां कन्यकां लक्षयित्वा वृक्षमारुह्यतस्या अर्द्धासने उपविष्टां तां स्वभार्य्यामद्राक्षीत्। तत्कालञ्चसमप्रभे सङ्गते ते उभे कन्यके पश्यतस्तस्य त्रिचन्द्रेव यामिनी प्रतिभाति स्म। ततः स कौतुकाविष्टः क्षणमचिन्तयत् किमयं मे स्वप्नः, भ्रान्तिर्वा अथवा किमेतद् इयम्? इत्येवं चिन्तयति तस्मिन् ते दिव्यकन्ये स्वोचितं दिव्यं भोज्यं भुक्त्वाआसवं पपतुः। अथ सा सोमप्रभाऽब्रवीत्भगिनि! अद्य मद्गेहे कश्चित् महातेजा द्विजः समायातः तस्मात् मे चेतः शङ्कितं तदद्य ब्रजामि इत्युक्त्वा तां द्वितीयां कन्यामामन्त्र्यतरोरवातरत्।तद्दृष्ट्वा भृङ्गरूपौ तौ अग्रतएव गृहमागत्य पूर्ववत् स्थितौ। सापि गुहचन्द्रगेहिनी अलक्षिता समागत्य स्वमेव मन्दिरं प्रविवेश। ततः स ब्राह्मणः स्वैरं गुहचन्द्रमब्रवीत् दृष्टं त्वया? यदेषा ते भार्य्या दिव्या, न मानुषी अस्याश्च द्वितीया अद्य त्वया दृष्टा, दिव्यास्त्री कथं मनुष्येण सङ्गममिच्छेत्। तदेतत् सिद्धये द्वारोल्लेख्यं मन्त्रं ते ददामि तदुपवृंहिणीञ्च बाह्यां युक्तिमुपदिशामि। एक एव अग्निर्ज्वलति वात्यायोगेतु किमु वक्तव्यं? तथा मन्त्रोऽयमेक एव सिद्धिदः, युक्तियुक्तः किं पुनरिति व्याहृत्य मन्त्रं दत्त्वा युक्तिञ्च उपदिश्य प्रभाते अन्तरधात्। गुहचन्द्रोऽपि भार्य्याया गृहद्वारे तं मन्त्रमभिलिख्य पुनः सायं युक्तिं प्ररोचनीमकरोत्। कृतोदारमण्डलश्च तस्याःपश्यन्त्याः कयापि वरयोषिता सह संलापं चकार। तद्दृष्ट्वैव सा

सोमप्रभा दिव्यकन्या सेर्ष्यामन्त्रोन्मुद्रितया गिरा तमाहूय पप्रच्छ केयं रमणीति। स तु एषा वरनारी मय्यनुरागिणी अहमद्य एतस्या गृहं गच्छामीति तां मृषा प्रत्यवोचत्। ततः सा साचीकृतदृशाबलितभ्रुणामुखेन्दुना तिर्य्यगवलोक्य तमुवाच हं ज्ञातं एतदर्थोऽयं ते वेशस्तदत्र मा याहि, किमनया, मामुपैहि त्वंअहमेव तव गेहिनीति। एवमुक्तस्तया संक्षोभाकुलया मन्त्रप्रभावाकृष्टया सपुलकोत्कम्पः प्रविश्य वासगृहं सद्यएव तथा समं दिव्यंसुखसम्भोगमकरोत्।ततः प्रभृति तां मन्त्रसिद्धिवशंवदामनुरागिनींदिव्ययोषितं प्राप्य गुहचन्द्रः यथासुखं कालमतिवाहयाम्बभूव।

एवं योगप्रदानादिभिः सुकृतैः दिव्याः शापच्युता वरनार्य्यःपुण्यवतां गृहिणीपदमधिरोहन्ति।देवानां द्विजानाञ्च सपर्य्या सतां कामधेनुर्मता, तया किं हि न साध्यते? अत्युच्चपदस्थानां दिव्यानामपि दुष्कृतं पुष्पाणांप्रकतमिव अधःपातैककारणम्। इत्युक्त्वास वसन्तकः पुनरब्रवीत् राजपुत्रि! अत्रान्तरे अहल्यायाः वृत्तान्तम्कथयामि श्रूयताम्।

पुरासीत् गोतमो नाम त्रिकालज्ञो महामुनिः। तस्य च अहल्यानाम परमरूपवती, जितापरोरूपा भार्य्या। एकदा रूपेणाप्रतिमेन तस्या अतिलुब्धः शतक्रतुः रहसि तामभ्यर्थितवान् ऐश्वर्य्यमदमत्तानामीदृशी हि कुपथगामिता? सा तु वृषस्यन्ती तं शचीपतिमनुमेने, तच्च प्रभावेणावबुध्य मुनिस्तत्राययौ। इन्द्रोऽपि भयात् तत्

क्षणंमार्जाररूपमकरोत्। अथ गोतमः कोऽवस्थित प्रति अहल्यामपृच्छत् सा तु एसो ठिओ खु मज्जाओ इतिप्राकृतया वाचा सत्यानुरोधिन्या तं पतिमब्रवीत्। सत्यं त्वच्चार इत्युक्त्वाविहसन् मुनिः सत्यानुरोधात् विहितान्तंशापं तस्यामपातयत् पापशीले! चिरं शिलाभावमवाप्नुहि आराघवविलोकनादिति, इन्द्रञ्च शशाप पाप! योनिलुब्धस्य ते अङ्गेषु एतत्सहस्रं भविता, यदा च विश्वकर्म्मादिव्यनारीं तिलोत्तमां निर्म्मास्यति तदा तां विलोक्य ते अक्ष्णांसहस्रमेतत् भविष्यति इति एवं दत्तशापः स मुनिर्यथाकामं तपसे ययौ। अहल्या दारुणं शिलाभावमपद्यत। इन्द्रोऽपि वराङ्गैरावृतसर्वाङ्गस्तत्क्षणमभवत् दौःशील्यं कस्य न भवेत् तापकारणम्।

एवं दुष्कर्म्मं सर्वस्यैव सर्वदा फलति, यो यथा वीजं वपति स तथैव फलमाप्नोति। तस्मात् महान्तः परानिष्टेषु न प्रवर्त्तन्ते एतदेव महीयसां प्रकृतिसिद्धंव्रतम्। युवां पूर्वम् भगिन्यौ आस्तं देव्यौ, ततः शापच्युते सम्प्रति मर्त्यलोकमागते, तथा हि युवयोरन्योन्यहितकृत् निर्द्वन्द्वंहृदयं लक्ष्यते। एतद् वसन्तकादाकर्ण्य वासवदत्तया पद्मावत्या च परस्परम् ईर्ष्यामुक्तया समभावि। देवी वासवदत्ता साधारञ्चपतिं प्राप्य आत्मनीव पद्मावत्यां हितैषिणी प्रियमकरोत्। मगधेश्वरस्य पद्मावतीविसृष्टदूतेभ्यः तस्यादेव्या महानुभावत्वं तादृगाकर्ण्यतुतोष।

अथ अवरेद्युर्महामतिः यौगन्धरायणः वत्मेश्वरमभ्येत्य देव्याः। समक्षम् अन्येषु स्थितेषु समभाषत देव! अधुना उद्योगाय

कौशाम्बी गम्यतां सम्प्रति वञ्चितादपि मगधेश्वरादाशङ्का न विद्यते, कन्यासम्प्रदानेन नितरां बद्धोऽसौ नैव विगृह्य कन्यां जीविताधिकां त्यजेत। सत्यं तस्य अनुपाल्यंत्वया च स न वञ्चितः, मयैव स्वयमेतत् कृतं अतस्त्वयि स न कथञ्चन कुप्येत् चारेभ्यश्च मया ज्ञातं यथा स नैव विकुरुते, तदर्थञ्चास्माभिर्बहून् दिवसान् इह स्थितम्। एवं वदति निर्व्यूढ़कार्य्येमन्त्रिमुख्ये मगधेश्वरसकाशात् दूतः कश्चित् समाययौ। तत्क्षणञ्च प्रतीहारनिवेदितः प्रविश्य प्रणम्य च उपविष्टः वत्सराजं न्यवेदयत् राजन्! देवीपद्मावतीदत्तसन्देशेन सुपरितुष्टस्ते श्वशुरः यदिदं समादिशत् तदाकर्णय, सोऽब्रवीत् वत्स! किं बहुना, मया सर्वम् ज्ञातं प्रीतोऽस्मि त्वयि तस्मात् यदर्थोऽयमारम्भः तत् क्रियतां वयं प्रणता इति।

एतत् दूतवचः श्रुत्वा वत्सेशो भृशमभिननन्द। ततस्तत्र पद्मावतीं वासवदत्ताञ्चआनाय्य तं वृत्तान्तं श्रावयित्वां दत्तपुरस्कारं तं दूतं सम्मान्य व्यसर्जयत्। अथ चण्डमहासेनदूतोऽपि तत्क्षणमागत्य प्रविष्टः प्रणम्य राजानमब्रवीत्देव! चण्डमहासेनः कार्य्यज्ञः सर्वमिदं वृत्तं श्रुत्वा संहृष्टः सन्दिदेश वत्स! प्राशस्त्यं भवतस्तावत् एतावतैव वर्णितं यत्ते यौगन्धरायणो मन्त्री किमन्येन बहुनोक्तेन, वासवदत्ता च धन्या, यया त्वद्भक्त्या तथा कृतं येन अस्माभिः सतां मध्ये शिर उन्नमितं, न च मे पद्मावती वासवदत्तातो भिन्नाप्रतिभाति। तयोरेकं हि हृदयं श्रुतमस्माभिः तत्सत्वरमुद्योगमातनु।

एतत् श्वशरदूतवचोनिशम्य वत्सेश्वरस्य मनसि महान् आनन्दः, देव्यां कोऽपि प्रणयोत्कर्षः, मन्त्रिमुख्ये च बहुसम्मानप्रकर्षः संववृधे। अथ स ताभ्यां देवीभ्यां समं तं दूतमुचितसत्कारविधिना सन्तोष्य त्वरितमुद्योगं विधास्यन् मन्त्रिभिः समन्त्र्यकौशाम्बीम् प्रति गमने मतिमकरोत्।

इति सप्तदशस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1722180730Screenshot2024-07-24072147.png"/>

अथअष्टादशस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1722180730Screenshot2024-07-24072147.png"/>

अथान्येद्युर्नरपतिः सचिवैः स्ववलैश्च सह प्रेयसीद्वयसहितः कौशाम्बीमुञ्चचार। तस्य आपूरितभूतलैः सकोलाहलैर्बर्लैःअसमयोद्वेलजलराशिजलैरिवसमन्तात् प्रचलितम्। यदि रविर्गगने उदयाद्रिसहितः समुद्गच्छेत् तदा तस्य गजेन्द्रगामिनो नृपस्य साम्यंस्यात्। स नृपतिः सितेनातपत्रेण कृतच्छायः जितार्कतेजः प्रीतेनेव इन्दुना सेव्यमानोव्यराजत। सामन्तास्तं तेजस्विनमभितः नभसि ग्रहा इव परिववृतिरे। पश्चाच्च करेणुकारूढ़े उभे देव्यौ अनुरागेण सङ्गते श्रीभुवाविव विरेजतुः। एवं वत्सेश्वरः कतिपयैरहोभिर्वन्दिभिः स्तूयमानः सन्ततोत्सवां कौशाम्बींआससाद। सा तु पुरी प्रवासादागते पत्यौ ध्वजरक्तांशुका गवाक्षोत्फुल्ललोचना प्राग्द्वारविनि-

वेशितपूर्णकलसकुचा जनकोलाहलानन्दसंलापा सौधहासिनी तत्कालं रराज। अथराजा देवीभ्यामनुयातः पौराणां महोत्सवमादधानः पुरीं तां प्राविशत्। तदा च पुरस्त्रीणां देवीद्वयदर्शनार्थिनीनां मुखेन्दुभिरपूरि नभस्तलं सौधोपरिगतानाम्। वातायनस्थाश्च काश्चित् सुन्दर्यः अनिमिषेक्षणाः पश्यन्त्यः कौतुकदर्शनागता अप्सरस इवव्यराजन्त। काश्चिच्च गवाक्षजालाग्रेषु संसक्तपक्ष्मललोचनाः समसृजन्निव नाराचपञ्जराणि मदनस्य। कस्याश्चिच्चसोत्सुका राजदर्शनविकस्वरा दृष्टिः श्रुतेः पार्श्वमपश्यन्ती तदा अख्यातिमगच्छदिव। द्रुतमागच्छन्त्याश्च कस्याश्चित् मुहुरुच्छसितौस्तनौ कञ्चुकादिव निर्गन्तुमीषतुस्तद्दर्शनार्थिनौ। अपरायाश्च ससम्भ्रममागच्छन्त्याश्छिन्नहारमुक्तावलयः गलन्त इव हृदयस्य हर्षवाष्पाम्बुविन्दवः विभान्ति स्म।काश्चन यदि अस्यां पापमाचरिष्यत् विभावसुर्लावाणके, तदा जगति प्रकाशकोऽपि सम्बन्धं तमः पातयिष्यत् इति वासवदत्तामुद्दिश्य तं दाहप्रवाहं स्मरन्त्यः सोत्कण्ठाः परस्परं बभाषिरे। अपरा वयस्यां प्रति दिष्ट्या देवी वासवदत्ता भगिनीतुल्यया सपत्न्यान लज्जिता इति सानन्दमभाषत। नूनं हरेणहरिणा च एतयोः रूपं न दृष्टंअन्यथा कथं तौ बहुमानं उमालक्ष्म्यौभजेताम्। इत्थमपरा नार्यस्ते देव्यौ दृष्ट्वा ऊचुः। एवं वत्सेश्वरः देवीभ्यां सह जनतानयनोत्सवं विदधत् कृतमङ्गलः स्वमन्दिरं प्रविवेश। तदा च प्रवाते पद्मसरस इव चन्द्रोदये सागरस्येव तस्य राजभवनस्य कापि शोमा सम

भवत्। क्षणेन च तत् राजभवनं सामन्तानां मङ्गलोपायनैः समपूरि। ततः नरपतिरुदयनः कृतोत्सवः सर्वम् राजलोकं सम्मान्य चित्तमिव सर्वजनस्य अन्तःपुरमविशत्। निनाय च दिनशेषंदेवीभ्यां परिवृतः रतिप्रीतिभ्यामिव मन्मथः पानादि लीलया।

अथापरेद्युः कश्चित् द्विजः सभामण्डपवर्त्तिनःमन्त्रिपरिवृतस्य नृपस्य द्वारि भ्रमं अब्रह्मण्यमिति कृत्वा चक्रन्द। उवाच च प्रभो! अटव्यां पापात्मभिर्गोपालकैर्मे पुत्रस्य चरणोच्छेदो विहितः कारणं विना। तदाकर्ण्यराजा तत्क्षणंद्वित्रान् गोपालानानाय्य वृत्तान्तमपृच्छत् ते चाब्रुवन् देव! वयं गोपालका भूत्वा विपिने चरामः अस्माकं देवसेनाख्यः क्वचित् गोपोऽस्ति। स तु काननैकदेशे शिलातलोपविष्टः राजा युष्माकमस्मीति व्याहरन् अस्माननुशास्ति। अस्मासु च केनापि तदाज्ञा न विहन्यते, एवं सः अरण्येराज्यं कुर्वान्नास्ते। अद्य तु अस्य विप्रस्य तनयः तेन पथा गच्छन् तस्य गोपालराजस्य प्रणामं नाकरोत्। मा याहि त्वमप्रणम्य राजानमिति नृपादेशेन जल्पतः अस्मान् विधूय स शासितोऽपि वटुर्हसन् चलितः। ततस्तेन गोपालराजेन अस्य दुर्विनीतस्य वटोः पादच्छेदरूपं दण्डंकुरुतेति वयमादिष्टा धावित्वा तस्य वटोः पादच्छेदमकुर्म्म। प्रभो! अस्माकं प्रभोराज्ञांको लङ्घयितुमीष्टे? गोपालकैरेवं विज्ञापिते धीमान् यौगन्धरायणः सम्प्रधार्य्य राजानमेकान्तेसमब्रवीत् देव! नूनं तत् स्थानं निध्यादियुतं भवति, यत्प्रभावात् गोपालकोऽपि एवं प्रभवति तत्तत्र

गम्यतामिति। इत्यभिहितो मन्त्रिणा भूपतिस्तान् गोपालकान् पुरतः कृत्वा ससैन्यः सपरिच्छदस्तत्काननप्रदेशं ययौ। अथपरोक्ष्ययावत् तत् स्थानं खनकैः खन्यते स्म तावत् तदधस्तात्कश्चित् शैलमयाकृतिर्यक्षःसमुत्तस्थौ। उवाच च राजन्! इदं तव पितामहनिखातं चिरं रक्षितं निधानं गृहाण, इत्यक्त्वाराजानं तत्पूजाञ्च प्रतिगृह्ययक्षस्तिरोदधे। निधिश्च महान् आविरभूत्। ततश्च महार्हंरत्नसिंहासनम् उदतिष्ठत् उक्तञ्च सम्पद् सम्पदमनुबध्नाति विपद्विपदमिति। ततः कृत्स्रं तत् निधानं प्रतिगृह्यगोपालांश्चप्रशास्य वत्सेश्वरः सानन्दः स्वां पुरीमाययौ।

अथ नरपतिना आनीतं तत सहेमसिंहासनं निधिजातं दृष्ट्वा सर्वे पुरवासिनः समाहतदुन्दुभिनिनादैःसमं आनन्दकोलाहलं चक्रुः। मन्त्रिणश्च भूपतेर्जयं भाविनं निश्चित्य उत्सवमकुर्वन् आमुखापातिकल्याणं हि कार्य्यसिद्धिंशंस्रति। ततः पताकाविद्युद्भिर्गगनमण्डले आकीर्णे राजाम्बुदः स्वानुजीविषु हेमवृष्टिं ववर्ष। अथैकदा सोत्सवेषु दिवसेषु गतेषु मन्त्रिसत्तमो यौगन्धरायणः राजचित्तबुभूत्सया वत्सराजमभाषत देव! यदेतत् ते कुलक्रमागतं रत्नसिंहासनं प्राप्तं एतत् अधिरुह्य अलङ्क्रियताम्। परन्तु पृथ्वीं विजित्य यत्र तव प्रपितामहा आरूढाः, तत्र दिशः सर्वा विजत्य आरोहतस्तव कुलप्रथा अनुसृता भवेदिति। राजा च जित्वैवससागरां धरां पूर्वेषामेतत् महासिंहासनमलङ्करोमीति उक्त्वातदा सिंहासनं नारुरोह। सम्भ

वति हि महात्मनाम् अक्रुत्रिमोऽभिमानः? ततश्च प्रीतो यौगन्धरायणः गुप्तमाह स्म देव! तर्हिपूर्वं प्राच्यां जयोद्यमः क्रियताम्। तदाकर्ण्यराजा अब्रवीत् मन्त्रिन्! कथं स्थितासूत्तराद्यासु प्राचीं दिशमग्रतः प्रयान्ति भूपतयः?

एतदाकर्ण्ययौगन्धरायणः पुनरब्रवीत् राजन्! समृद्धापि कौवेरीम्लेच्छानां संसर्गेण दूषिता, पश्चिमा च सूर्यादीनामस्तमयहेतुत्वात् न पूज्यते, दक्षिणा च आसन्नराक्षसतया अन्तकाश्रिततया च गर्हिता। प्राच्यान्तु सूर्य्यउदेति इन्द्रश्च तस्या अधिष्ठाता, जाह्नवी च प्राचीं याति तस्मात् प्राची सर्वतः प्रशस्यते। देशेषु च हिमवद्विन्ध्यमध्यवर्त्तिषु जाह्नवीजलपूतो देशः प्रशस्ततमः। तस्मात् आदौ मङ्गलार्थिनो नृपतयः प्राचीमेव प्रयान्ति निवसन्ति च अस्मिन् सुरसिन्धपूते देशे। पूर्वैरपि भवतः प्राचीक्रमेणेवदिशोविजिताः, कृतञ्च गङ्गातीरे हस्तिनापुरं नगरम्। शतानीकस्तु रमणीयतया कौशाम्बीं अध्यतिष्ठत् साम्राज्यं पौरुषाधीनं मत्वा देशमकारणं गणयन्। इत्युक्त्वातस्मिन् मन्त्रिमुख्येविरते राजा पुरुषकारमेव बहुमन्यमानः समभाषत सत्यमुक्तंनैव देशःसाम्राज्यस्य कारणं एकमेव हि पौरुषम्। एकोऽपि पौरुषवान् आश्रयनहीनोऽपि लक्ष्मीमुपैति युष्माभिः सत्यवतः पुंसः कथा न खलु श्रुता? स वत्सेशः एवमुक्त्वाकथं सा कथेति सचिवेनाभ्यर्थितः देव्योः समक्षमाख्यत्।

अस्ति भूतलविख्याता उज्जयिनी नाम पुरी। तत्रासीदादित्यसेनाख्यःपूर्वमेको नरपतिः।आदित्यस्येव प्रताप

निधेर्यस्य एकचक्रवर्त्तितया रथः क्वचिदपि न च…वाल। यस्यच हिमकान्तौसमुज्ज्वले छत्रेअन्तरीक्षमुद्गते अन्येषां राज्ञांच्य तदर्पाणां आतपत्राणि न्यवर्त्तन्त। स खलुअम्बुराशिरिव समस्तभूतलाकरजानां रत्नानामेकमेव भाजनं बभूव। कदाचित् स नृपतिः केनापि कारणेन ससैन्योऽत्रजाह्नवीकूले समावासितकटकः समवस्थितः। तत्र कश्चित् गुणवर्म्मानाम तत्रत्यः कन्यारत्नमुपायनंगृहीत्वा तं राजानमियाय। अब्रवीच्च देव! कन्यैषा त्रिभुवनरत्नं मम गृहे समुत्पन्ना, न चैषा अन्यत्र दातुंयुज्यते, नृपतिरेव रत्नभाजनम्। इत्यावेद्य प्रतिहारमुखेन स राजसमीपमागत्य तस्मै तां कन्यामदर्शयत्। स तु राजा तां तेजस्विनींनाम कान्तिद्योतितदिगन्तरां अनङ्गमङ्गलावासरत्नोद्दीपशिखामिव पश्यन् तत्क्षणं मन्मथाविष्टचेताः महादेवीपदोचितां मन्यमानः स्वीचकार चकार च गुणवर्म्माणंपरितोष्य परमाप्यायितम्। ततश्चशुभेऽहनि तां तेजस्विनीं परिणीय कृतार्थम्मन्यस्तया साकं उज्जयिनीं प्रत्याजगाम। तत्रचागत्य राजासौ यथातन्मुखासक्तदृष्टिरनुक्षणमासीत् तथा सुमहान्त्यपि राजकार्य्याणि न ददर्श तेजस्विन्या मधुरालापेन कीलितेव तस्य श्रुतिरापन्नप्रजानामाकन्दैर्नाकृष्टुमशक्यत। स चिरप्रविष्टोऽपि अन्तःपुरात् नैव निरगात्, निरगात्तु, केवलमरिवर्गस्य हृदयात् सन्तापज्वरः।

अथ कालेन तस्य राज्ञः सर्व्वानन्दकरी एका कन्या तेजस्विन्यां संजज्ञे बुद्धौ विजिगीषुता च।परमाश्चर्यरूपिणी सा कन्या जगत्त्रयं तृणीकृत्य तस्य हर्षमकरोत्।

जिगीषुता च प्रतापम्। एकदा स भूपतिः कचित् सामन्तमभियोक्तमुज्जयिन्या निरगात्। अकरोच्च तां तेजस्विनीं समारूढ़करेणुकां सैन्यव्यूहाधिदेवतामिव सङ्गिनीम्।स्वयञ्चअत्युङ्गंउल्लिखन्तमिवाम्बरं स्वरैर्मह्यजबं तुरङ्गमारुह्यकिञ्चिद्गत्वासमां भूमिं सम्प्राप्य तेजस्विन्याः सम्पदर्शयम् अश्वमुत्तेजयामास। स तु अश्वः कशाघातेन शर इव धनुषः अतिजवात् लोकलोचनैरदृश्यः क्वापि अलक्ष्यः गतिमकरोत्। तद्दृष्ट्वासैन्येषु विह्वलेषु सहस्राधिकाः अश्वरोहिणः तमन्वधावन् परमश्वापहृतं नृपं न प्रापुःततश्च मन्त्रिणः ससैन्या अनिष्टमाशङ्क्य भयात् क्रन्दन्तीं देवीमादाय उज्जयिनीमेव निववृतिरे। आगत्य च तत्र राज्ञःप्रवृत्तिमन्विच्छन्तः प्रजा आश्वास्य पिहितद्वारतया कृतप्राकारगुप्तयस्तिंष्ठन्ति स्म।

अत्रान्तरे स राजापि तेन प्रजविना महातुरङ्गेन प्रचण्डश्वापदसङ्कुलां सुदुर्गमां विन्ध्याटवींनीतोऽभूत्। तत्र सहसा तस्मिन्नश्वे स्थिते स राजा महारण्यं पश्यन् सञ्जातदिमोहः विह्वलेन्द्रियः क्षणं स्थित्वा गतिमन्यामयश्यन् तस्मादवतीर्य्य प्रणम्यच तं तुरङ्गवरं अश्वजातिज्ञतयासमब्रवीत् हे अश्ववर! त्वंदेवः त्वादृशःप्रभुद्रोहं नैव कर्त्तुमर्हति। त्वमेव मे शरणं अस्मात् कुशस्वेनअध्वना मां राजधानीं नय। तन्निशम्यस जातिस्मरः अश्वराजः सानुतापः तथेति प्रभुवाक्यमग्रहीत्। अथ राजनि तत् सङ्केतविदि समारूढेस तुरङ्गमः स्वच्छशीतलाम्बुना

अध्वक्लेशापनोदिना मार्गेण प्रत्यागच्छन् महाजबेन सायं शतयोजनान्तरं उज्जयिनीसमीपवर्त्तिनं देशमुपगम्य तद्देगविजितान् सप्त निजतुरङ्गान् वीक्ष्य लज्जयेव अस्ताचलकन्दरालीने अंशुमालिनि, तमसि च समन्तात् प्रसृते उज्जयिन्या द्वाराणि पिहितानि दृष्टा तत्कालभीषणं बहिः श्मशानं भूपतिं तं निनाय। स च नृपः तस्यां रजन्यां तस्य श्मशानस्य एकदेशस्थितमेकं विप्रमठं निशायापनयोग्यं दृष्ट्वा श्रान्तवाहनः प्रवेष्टमुपचक्रमे। विप्राश्च तन्निवासिनः श्मसानपालश्चौरो वा अयमिति वदन्तस्तस्य प्रवेशं रुरुधुः। निर्ययुश्च संसक्तकोलाहलाश्छान्दसा द्विजाः। तेषु च तथा रटत्सु विदूषको नाम कश्चित् गुणवान् महासत्वाद्विजवरस्तस्मात् मठात् निर्जगाम। यो हि युवा महाबाहुस्तपसा पावकमाराध्य तस्मात् चिन्तितोपस्थायिनम् असिवरं प्राप्तवान्। स तु धीरवरः निशि समुपस्थितं तं नृपं भव्याकृतिमवलोक्य कोऽपि प्रच्छन्नविग्रहः देवोऽयमिति क्षणं दध्यौ। अथासौ महाशयः तान् रटतो विप्रान् विधूय तं नृपं मठान्तरमनयत्। विश्रान्ताय च किङ्करीभिः क्षणेन परिचर्य्यया गताध्वक्लेशाय तस्मै राज्ञेसमुचिताहारमदात्। अकरोच्चतं तदीयं हयोत्तममपनीतपर्य्याणं यवसादिप्रदानेन परिवृपम्। अवोचच्च विरच्य शयनं प्रभो! रक्षामि अहं ते शरीरं तत् सुखं स्वपिहीति राजानं श्रान्तम्। सुप्तेच तस्मिन् राजनि स द्विजः चिन्तितोपस्थितखड्गमात्रसहायस्तांनिशांद्वाःस्थः जागरयामास। प्रातश्च अनुक्त एव विदूषकः स्वयं प्रदुषस्य तस्य

राज्ञस्तुरगं सज्जीचकार। राजापि समुत्थाय तं समामन्त्र्य विप्रं समारुह्य च वाजिनं पौरान् हर्षयन् उज्जयिनीं विवेश। प्रविष्टश्च तं सर्वाः प्रकृतयः क्षणात् सञ्जातानन्दकोलाहलाः समाजग्मुः। क्रमेण राजा सचिवैरन्वितः राजभवनं विवेश तेजस्वत्यास्तु मनोज्वरः निरगमत्। तत्क्षणञ्च नगर्य्याः शुचः वातोद्धूतध्वजांशुकपङ्क्तिरुत्सारिता इव अभूवन्। देवी च तेजस्वती आदिनान्तंतावत् महोत्सवमकारयत् यावत् नगरलोकः सार्कः सिन्द, रपिङ्गलः समभवत्।

अथापरेद्युर्नृपतिरादित्यसेनस्तं विदूषकं मठात् सर्वैर्द्विजैः सह समानयामास।रात्रिवृत्तान्तंप्रख्याप्य तस्मै आनीताय उपकारिणे विदूषकाय तत्क्षणं ग्रामसहस्रमदात् अकरोच्च तं कृतज्ञोनृपतिः प्रदत्तच्छत्रवाहनं पुरोहितम्। स तु विदूषकः तदेव सामन्ततुल्यः सम्भभूव महत्सुउपकृतिर्न खलु कदापि मोघा भवति। स च महाशयः नृपसकाशात् यान् सर्वान् ग्रामान् प्रापत् तान् सर्वेभ्य एव मठवासिभ्यः समं विभज्यात्मना प्रददौ। तस्थौच तं राजानं सेवमानः तैश्च ब्राह्मणैः समं ग्रामसञ्जयान् भुञ्जानः।

अथ गच्छति कालेते सर्वे द्विजा धनमदान्धाः प्राधान्यमिच्छतःतं विदूषकंनैव गणयामासुः।विभिन्नमतिभिश्च तेः सप्तसंख्यकैरेकस्थानाश्रितैर्द्विजैः परस्परसंघर्षात् दुष्टैर्ग्रहैरिवग्रामाः अबाध्यन्त।तेषु तादृशेषु उच्छृङ्खलेषु धीमान् विदूषक उदासीन एवाभवत्। अवज्ञैवाल्पसत्त्वेषु धीरा

णामुचिता। एकदा कलहासक्तान् तामवलोक्य कश्चित् बक्रधरो नाम द्विजः प्रकृतिनिष्ठुरस्तत्रैवसमाययौ। स तु काणोऽपि परार्थन्यायवादेषु अम्लानदर्शनः कुञ्जोऽपि स्पष्टवादी विप्रस्ताम् अब्रवीत् रे शठाः! भवद्भिर्भिक्षुकैरियं श्रीः प्राप्ता, तत्कथमन्योन्यस्पर्द्धिनःइमान् ग्रामान् नाशयथ, विदूषकस्यैव दोषोऽयं येन यूयमुपेक्षिताः, तत् नूनमचिरात् पुनर्भिक्षां यूयं करिष्यथ। वरं देवायत्तैकबुद्धिस्थानमनायकं न तु विप्लुतसर्वार्थं विभिन्नं बहुनायकम्। तदेकं नायकं धीरं मद्वचसा कुरुत, यदि युस्माकं स्थिरया लक्ष्म्याप्रयोजनमिति तदाकर्ण्यसर्वे तेआत्मन एव नायकत्वमैच्छन्। तद् दृष्ट्वा मूढांस्तान् पुनश्चक्रधरोऽब्रवीत् सङ्घर्षशालिनो यूयं,वः समयं दास्यामि, इतः श्मशाने त्रयश्चौराः शूलेषु निसूदिताः, यस्तेषां नासाश्छित्वा सुमत्त्व इहानयेत् स एव युष्माकं नायकः स्यात् धीरो हि स्वाम्यमर्हति। इति चक्रधरेणोक्तान् तान्ं समीपस्थः विदूषकोऽब्रवीत् को दोषः कुरुध्वमेतत्। ततस्ते विप्रा अवोचन् नैतत् कर्त्तुंक्षमा वयं ,यः शक्तः स कुरुतां वयञ्च समये स्थिताः, ततो विदूषकोऽवादीत् अहमेतत् करोमि, अहं तेषां नासाश्छित्वा श्मशानत आनेष्यामि। ततस्ते मूड़ास्तत् दुष्करं मत्वा तमब्रुवन् एवं कृतेत्वंअस्माकं स्वामी भविष्यसि एषः नियमोऽस्तु। इत्येवं नियमं प्रख्याप्य प्राप्तायां निशायां तान् विप्रान् आमन्त्र्य सः विदूषकस्तत् श्मशानमगात्। प्रविश्य च तत्र चिन्तितोऽपस्थिताग्नेयकृपाणपाणिर्डाकिनीनां नादेन

संबर्द्धितगृध्रवायसनादिते उत्कामुखमुखोल्काभिर्विस्तारितचितानले शूलाधिरोपितान् तान् त्रीन् चौरान् नासाच्छेदभियेव उत्क्षिप्ताननान् ददर्श। यावच्च स तेषां समीपमगमत्तावत् त्रयोऽपि वेतालाधिष्ठितास्तंमुष्टिभिः प्राहरन्। सोऽपि निष्कम्प एव खड्गेन तान् प्रतिजघान नहि धीराः कदाचित् भिया क्षुभ्यन्ति।

अथक्षणेनापगतवेतालविकाराणां तेषां स नासाश्छित्त्वाकृती वाससि बद्धाच जग्राह।ततश्चागच्छन् शवोपरि तिष्ठन्तं जपन्तमेकं प्रव्राजकमपश्यत्। अतिष्ठच्चतत् पृष्ठतः तस्य क्रियादर्शनकौतुकी प्रच्छन्नम्। क्षणेन चासौ तस्यप्रव्राजकस्य अधःफुत्कारममुञ्चत्। तेन च फुत्कारेण तस्य मुखात् अग्निशिखा नाभेश्च सर्षपा निरगुः। ततः स तान्त्रिकः तान् सर्षपान् गृहीत्वा उत्थाय तं शवं पाणितनेन अताडयत्। ताड़ितश्च स वेतालाधिष्ठितः शव उदतिष्ठत्। प्रव्राजकश्च तस्यस्कन्धे आरुरोह। तदारूढश्चसहसा ततो गन्तुं प्रचक्रमे। विदूषकोऽपि प्रच्छन्नस्तूष्णीं तमन्वगच्छत्। कियद्दूरमतीत्य च शून्यं कात्यायनीगृहमपश्यत्। तान्त्रिकस्तु तत्र वेतालस्कन्धादवतीर्य्य गृहाभ्यन्तरमाविशत् शवश्चभूवि अपतत्। विदूषकश्च प्रच्छन्नं स्थित्वा सर्वं व्यापारमवालोकयत्। स हि प्रव्राजकस्तत्र देवीं संपूज्य व्यजिज्ञपत् देवि! यदि तुष्टासि, वरमभिलषितं मे प्रयच्छ, अन्यथा स्वदेहोपाहारेण त्वामहं प्रीणामि। इत्युक्तवन्तं तं साधकं गर्भगृहोद्गतावाग्देवी समब्रवीत् वत्स! आदित्यसेननृपस्य कुमारीमहानीय उपहारी

कुरुष्व, ततस्ते श्रेयो भविष्यतीति। एतदाकर्ण्य स तस्मात् गर्भगृहान्निर्गत्य करतलेन तं शवम् आहत्य पुनस्ताड़यामास ययौ च तस्य निर्यद्वक्त्रानलार्चिषः मुक्तफुत्कारस्य वेतालस्य स्कन्धमारूढस्तां राजपुत्रीमानेतुं नभसा। विदूषकस्तु तत् सर्वं दृष्टा श्रुत्वा च चिन्तयामास कथं मयि जीवति राज्ञः सुता अनेन दुरात्मना हन्यते, इहैव तावत् तिष्ठामि यावदसौ दुरात्मा समायाति इत्यालोच्यविदूषकः प्रज्छन्न एव तत्र तस्थौ। प्रव्राजकस्तु नभसा गत्वा वातायनमार्गेण सुप्तां निशि नृपात्मजां कान्त्याभिद्योतितदिङ्मुखांराहुः शशिकलामिव हा तात हा मातरिति क्रन्दन्तीं वहन् ययागतमाजगाम अवततार च अन्तरीक्षात्तत्रैव देवीभवने वेतालं विहाय आदाय च तां कन्याम्।यावदसौ तां राजपुत्रीं निहन्तुमुद्युक्ते तावदेवाकृष्टकृपाणः विदूषकस्तत्र समागत्य आ! पाप! मालतीलतामश्मना हन्तुमीहसे इत्युक्त्वैव तं केशेषु गृहीत्वा विचेष्टमानस्य तस्य शिरस्तेनैव खड्गेन चिच्छेद आश्वासयामास च तां राजपुत्रीं भयविह्वलां किञ्चित् प्रत्यभिजानतीं प्रविशन्तीमिवाङ्गानि।अथ स वीरः कथमिमां राजपुत्रींअन्तःपुरं नयेयमिति विचिन्तयन्नेव शुश्राव आकाशवाणीं भो विदूषक वीरप्रवर! शृणु, योऽयं प्रव्राट् त्वया हतः, एतस्यमहान् वेतालः सिद्धोऽभूत् सर्षपाश्च। अस्य दुरात्मनः पृथ्वीराज्ये राजात्मजासु च वांञ्छा उपपद्यत, सोऽयमद्य देवेन विवञ्चितः। तदेतदीयान् सर्षपान् गृहाण, येन इमामेकां निशामम्बरे गतिस्ते भविष्यतीति। ततः सञ्जा

तहर्वोऽसो विदूषकस्तस्य परिव्राजकस्य वस्त्राञ्चलात् तान् सर्षपान् हस्ते गृहीत्वा ताञ्च नृपात्मजाङ्केनिधाय यावत् देवीभवनात् बर्हिनिर्ययौतावत् पुनरन्या भारती अन्तरीक्षादुत्पपात। हे वीर! इहैव देवीभवने मासान्ते त्वया आगन्तव्यंन पुनरेतत् कदापि विस्मर्त्तव्यम्। तदाकर्ण्यस विदूषकः राजपुत्रीं वहन् नभसा वेतालाधिष्ठितः देवीप्रसादात् त्वरितमेव तां राजान्तःपुरं अनयत् समाश्वस्ताञ्चोवाच राजनन्दिनि! प्रातर्मे व्योममार्गे गतिर्न भविष्यति, ततश्च मां अस्मात् निर्गच्छन्तं सर्वे द्रक्ष्यन्ति, तस्मात् सम्प्रत्यहं गच्छामि। एवमुक्त्वासा बाला बिभ्यती तमगादीत्वीर! त्वयि अस्मात् गते मम सन्त्रस्ताः प्राणाः सत्वरमेव प्रयान्ति, तस्मात् त्वं मा याहि, अत्र तिष्ठन् मे जीवितं देहि। विदूषकस्तु तेन तस्याः निर्बन्धेन सुतरां दयालुर्महासत्वश्चिन्तयामास यदि इमांत्यक्तागच्छामि तदेयं त्रासात् जीवितं मुञ्चेत्। तर्हि मया का राजभक्तिः प्रदर्शिता, सर्व एव प्रयासो मे विफलो भवेत् इत्यालोच्य तत्रैवान्तःपुरे रजन्यामतिष्ठत्। क्रमेण च व्यायामजागरश्रान्ततया निद्रामुपागमच्च। राजपुत्री तु भयादनिद्रैव तां रात्रिमनैषीत् न च तं प्रभातेऽपि प्राबोधयत् प्रेमार्द्रमनाः सुप्तः क्षणं विश्राम्यतु इति।

अथ राजान्तःपुररक्षिणः तत्र प्रविश्य तं ददृशुर्व्यजिज्ञंश्च ससम्भ्रमाः सत्वरं गत्वा राजानम्। राजापि तत्त्वमवेक्षितुंप्रतीहारं प्रेषयत्। प्रतीहारश्च गत्वा दृष्ट्वा च तत्र विदूषकं श्रुत्वा च सर्वं वृत्तान्तं राजसुतामुखात् राज्ञे

सर्वं न्यवेश्यत्। राजा तु विदूषकस्य महानुभावतां जानन् विदितसर्ववृत्तान्तः,किमेतदिति उद्भ्रान्त एवाभवत् समानयच्च कन्यान्तःपुरात् तं विदूषकम्। अपृच्छच्च सस्नेहमनाः सर्वं वृतान्तम्। सोऽपि विप्रः आमूलतः सर्वं वृत्तान्तमब्रवीत् अदर्शयच्च वस्त्रान्तवद्धास्तिस्रश्चौरनासिकाः तांश्च प्रव्राट् सम्बन्धिनः सर्षपान् अथ राजा तत् सत्यं सम्भाव्य तांश्च मठद्विजान् चक्रधरसहितान् आनाय्य तन्मूलकारणं पृष्ट्वास्वयं श्मशाने गत्वा तांश्चछिन्ननसःशवान् तञ्च छिन्नकण्ठं तान्त्रिकाधमं दृष्ट्वासमुत्पन्नविश्रम्भः सुभृशं तुतोष ददौ च प्राणदायिने तस्मै कृतिने विदूषकाय तदेव तां तनयां किमदेयमुदाराणां परितुष्यतामुपकारिषु? राजकन्याकरे अम्बुजभ्भ्रान्त्या श्रीरुवास नूनं येन विदूषकः अस्या गृहीतपाणिलक्ष्मीमुपलेभे तस्थौ श्वशुरमन्दिरे लब्धया राजोपचारेण तया कान्तया सह।

अथ गच्छति काले कदाचित् दैवविमोहिता राजपुत्री निशायां विदूषकमब्रवीत् नाथ! स्मरस्येतत् तत्र देवीगृहे नियायां यत् त्वं मासान्तेइहैवागच्छेरिति दैववाणी उदचरत्। अद्य च मासो गतः, भवतस्तच्चविस्मृतमिति। एवमुक्तः प्रियया सञ्जहर्ष उवाच च सुन्दरि! साधु त्वया स्मृतं मया पुनस्तत् विस्तृतं इत्त्युक्त्वा तां सुदृढ़मालिङ्ग्यसन्तुष्टामकरोत्। अथ तस्यां सुप्तायां निशि तस्मादन्तःपुरात् खड्गसहायः निर्गत्य तदेव देवीसदनमगात्। गत्वा च तत्र विदूषकोऽहं प्राप्त इति वदन् बहिस्थ एव केनाप्युदीरितां प्रविशात्रेति वाचमशृणोत्।

प्रविश्य चात्र दिव्यमावासमपश्यत्। दिव्यरूपां दिव्यपरिच्छदां ज्वलन्तीमिव रजनीं कामपि कन्यकाञ्च। किमेतदिति विस्मितः सम्प्रहृष्टया तथा कुमार्य्यासस्नेहबद्धुमामानेन स्वागतेनाभ्यनन्द्यत। उपविष्टञ्चसञ्जातविश्रम्भं प्रेमदर्शनेन तत्स्वरूपविज्ञानसमुत्सुकं तमब्रवीत् सा महाभाग! अहं भद्रा नाम महाकुलीना विद्याधरी, कामचरत्वात् इह त्वामहं तदापश्यम् अभूवञ्च त्वद्गुणाकृष्टचित्ता असृजञ्च पुनरागमनाय ते तां वाणीम्। विद्याप्रयोगात् सम्मोहिता सा मया राजसुता अस्मिन् कार्य्येतव स्मृतिमुत्पादयामास। हे सुभग! त्वदर्थमिहाहं स्थिता तदिदं शरीरं तुभ्यमर्पितं मम पाणिग्रहं कुरु। इत्युक्तस्तया विद्याधर्य्या तथेति तां गान्धर्वविधिनोपयेमे अतिष्ठच्चतत्र तथा सङ्गतः दिव्यं भोगमुपभुञ्जन् यथाभिलषितम्।

अत्रान्तरे सा राजपुत्री प्रभाते प्रबुद्धा भर्त्तारमपश्यन्ती भृशं विषादमगमत्। मातुश्चान्तिकं प्रस्खलन्ती पदे पदे विगलद्वाष्पाकुललोचना अवादीच्च सानुतापा। स्वापराधशङ्किनी मातः! पतिर्मेरात्रौ काऽपि गत इति। ततः क्रमेण राजापि तदाकर्ण्यपरमाकुलतामगात्। मन्ये श्मशानवाह्यंतद् देवतागृहं गतोऽसाविति सुतया अभिहितश्च स्वयं तत्र समाययौ।तत्र विद्याधर्य्या विद्यया तिरोहितं विदूषकं स्थितमपि नविवेद। अथ तस्मिन् राज्ञिपरावृत्ते निराशं तां राजसुतां देहत्यागोद्यतां कोऽपि ज्ञानी समब्रवीत् भद्रे! अलमनिष्टशङ्कया जीवति

ते पतिः दिव्येन भोगेन सम्प्रति युक्तः अचिरात् त्वामुपेष्यतीति। तदाकर्ण्यसा राजपुत्री हृदयङ्गमया तत् प्रत्यागमप्रत्याशया निरुद्धं जीवितं धारयामास।

विदूषकस्यापि तथा तिष्ठतः काचित् योगेश्वरी नाम विद्याधरी भद्रामुपेत्य रहस्येन तामब्रवीत् सखि! मनुष्यसम्पर्कात् विद्याधरास्त्वयि कुपिताः, अनिष्टञ्च ते करिष्यन्ति तदितो गम्यताम्। अस्ति पूर्वसागरपारे कार्कोटकं नाम नगरं तदतिक्रम्य शीतोदा नाम पावनी नदी वर्त्तते, तामुत्तीर्य्यउदयाख्यंसिद्धक्षेत्रं महागिरिरस्ति योऽसौविद्याधरैर्नाक्रमितुं शक्यते, तत्र त्वंसाम्प्रतमेव गच्छ, इह च प्रियस्य मानुषस्य कृते चिन्ता न कार्य्या, एतत् सर्वमस्य कथयित्वा गमिष्यसि येनायं सत्वरमेव त्वामनुगमिष्यतीति। एवमुक्ता सा भद्रा सख्या भयविह्वला प्रियानुरक्तापि तथैव तत् प्रतिपेदे। तिरोदधे च निशान्ते तत्सर्वं विदूषकाय उक्त्वादत्त्वा च स्वमङ्गुलीयकम्। विदूषकस्तु प्रबुद्धः पूर्वस्मिन् शून्ये देवगृहे स्थितमात्मानमपश्यत् न भद्रां नापि तत् दिव्यं मन्दिरम्। स्मरंश्च विद्याप्रभावं पश्यंश्च तदङ्गुलीयकं विषादविस्मयरसमग्नः किमेतत् स्वप्नविजृम्भितमिति व्यचिन्तयत्। सा मम प्रिया भद्रा निवेद्य सर्वमुदयपर्वतं गता, मया चाशु तत्रैव गन्तव्यंतदवाप्तये।किन्तु राजा लोकैर्दृष्टं मां न खलु परित्यजेत् तदद्य तथा युक्तिंकरिष्यामि यथा मे कार्य्यंसेत्स्यति इति संचिन्त्य स महाप्राज्ञः अन्यत् रूपमाश्रयम् जीर्णवसनः रजोलिप्ताङ्गः तस्मात् देवीगृहात् हा भद्रे!

क्वासीति वदन् निरगात्। क्षणे च तस्मिन् तद्देशवासिनस्तं दृष्ट्वा विदूषकोऽयं प्राप्त इति कोलाहलमकुर्वन्। तदाकर्ण्य राजा तं तथाविधमुन्मत्तवेशं दृष्ट्वा अवष्टभ्य स्वमन्दिरं निनाय। तत्र स्रिग्धैर्बन्धुभिर्भृत्यैश्चयद्यदुक्तंतत्र तत्र हा भद्रे इति प्रत्त्युत्तरमदात्।वैद्योपदिष्टैरभ्यङ्गविधिभिरभ्यक्तोऽपि पुनर्भूरिणा भस्मना अङ्गानि उद्धूलयामास। स्नेहेन राजपुत्र्या स्वहस्ताभ्यांय आहार उपाहृतः स तेन सहसा पादेनाहत्य क्षितौ चिक्षिपे चिच्छिदे च नूतनं वसनजातम्। एवं स उन्मत्तवत् कतिचित् दिवसान् तत्रातिष्ठत्। राजा तु अशक्यप्रतिकारोऽयं तत् किं कदर्थ्यते कदाचित् प्राणान् त्यजेद्वातर्हि ब्रह्महत्या मम भवेत् तदनेन स्वच्छन्दचारिणा यथा चिकीर्ष्यते तत्क्रियतां कालेन कुशलमपि सम्भवेत् इत्यालोच्य तं मुमोच।

अथ स विदूषकः साङ्गुलीयकः स्वच्छन्दचारी भद्रां प्रति समुत्सुकमनाः प्रतस्थे गच्छंश्चप्राचां क्रमेण पौण्ड्रबर्द्धनं नाम नगरं प्राप। तत्र च रजन्यां मातरत्र इमां रजनीं नयामीति वदन् कस्याश्चित् वृद्धायाः ब्राह्मण्या मन्दिरमविशत्। सा तु ब्राह्मणी दत्ताश्रया कृतातिथ्या च समुपेत्य सान्तर्दुःखा समब्रवीत् पुत्र! तुभ्यमेव सर्वमिदं गृहं मया दत्तंतद्गृहाण यतोनाहं सम्प्रति जीवामि। कथमेवं ब्रवीषीति विस्मितेनोक्ता तेन साब्रवीत् श्रूयतां कथयामि। पुत्र! अस्तीह नगरे देवसेनाख्यो नरपतिः।तस्य चैका भूतलरत्नं कन्यका जाता, राजा।

प्रतिवत्सलः दुःखेन लब्धेति तां दुःखलब्धिकामेव नाम्ना चकार। अथ गच्छता कालेन अतीतशैशवां तां स्ववेश्मनिआनीताय कच्छपनामाय राज्ञेसम्प्रददे स तु कच्छपेश्वरस्तया बध्वा सह वासगृहं प्रविष्ट एषनिशि पञ्चतामगमत्। ततोविमनसा राज्ञा पुनः आहताय अन्यस्यै भूभुजे सा समर्पिता सोऽपि तथैव व्यपद्यत। यदातु तद्भयात् अन्ये नृपा नैव तां वाञ्छन्ति, तदा राजासौ निजं सेनानीं समादिदेश यथा त्वया अस्माद्देशात्प्रत्यहं क्रमेण एकैकः ब्राह्मणः क्षत्रियो वा पुमान् एकैकतो गृहादानेतव्यः। प्रवेशयितव्यश्च मत्कन्यका गृहे पश्यामस्तावत् कियन्तो विपत्स्यन्तेऽत्रेति। यस्तु तरिष्यति स एषास्याभर्ता भविता। नहि दैवगतिः केनापि परिच्छेत्तुं शक्यते इत्यादिष्ट सेनापतिः प्रत्यहं एकैकस्मात् गृहात् पर्य्यायक्रमेण एकैकं पुरुषं नयति। एवं तत्र बहुशो नराः क्षयं नीता, मन्दभाग्यायाः एक एव पुत्रो वर्त्तते तस्याद्य वारः समायातः, तदभावे च मया प्रातरेवाग्नौप्रवेष्टव्यम्।तत् जीवन्ती अहं गुणवते तुभ्यं स्वहस्तेन सर्वमिदं वित्तजातं ददामि येनाहं पुनर्जन्मनि एवं दुःखभागिनी न स्यामिति। एवमुक्तवतीं तां धीरो विदूषकः समवोचत् मातः यद्येवं तर्हि मा विक्लवतां गमः, अहं तत्राद्य गमिष्यामि तव पुत्रो जीवतु, कथमेनं घातयामीति कृपा च तव माभूत् मम हि एतादृशी सिद्धिरस्ति येन तत्र गतस्य नास्ति मे भयमिति।

एवमभिहिता सा ब्राह्मणी अगादीत्पुत्र! तर्हि

पुण्यैर्ममायातो गृहं भवान् कोऽपि भवति, तत्प्राणान् मे देहि। इत्यनुनीतो विदूषकः सायं सेनापतिनियुक्तेन किङ्करेण सह राजसुतागृहमगात्। अद्राक्षीच्च तत्र नृपसुतां तां यौवनप्रदोद्धतां अनवचितपुष्पभारावनतां लतामिव ततो निशायां शयने राजसुतया आश्रिते स विदूषकः ध्यानोपनतमाग्नेयं कृपाणं विभ्रत् जाग्रन्नेव तस्थौ। प्रसुप्ते च समन्ततो जने सहसा अपावृतकवाटात् द्वारदेशादायान्तं घोरं राक्षसमेकं ददर्श। स च राक्षसः द्वारि स्थितएव वासगृहान्तरे नरशताकाण्डयमदण्डमिव वाहुदण्डंन्यवेशयत् विदूषकस्तु क्रुधाधावन् एकेनैव खड्गप्रहारेण तं रक्षसो बाहुं चिच्छेद। छिन्नबाहुश्चस निशाचरः तस्य विदूषकस्य सत्त्वोत्कर्षात् सन्त्रस्तः सत्वरमेव तस्मात् देशात् पलायाञ्चक्रे। राजपुत्री तु प्रबुद्धा वीक्ष्य पतितं राक्षसबाहुंभीता हृष्टा विस्मिता च बभूव। राज्ञाच प्रातरागत्य तत् कन्यकान्तःपुरद्वारि स्थितः छिन्नच्युतोबाहुरदृश्यत। ततः सञ्जातहर्षो नृपतिः दिव्याभावप्तपन्नाय विद्यकाय तांकन्याबहुविभवसंयुता प्रादात्। अथ विदूषकस्तत्र तया कान्तया रूपवत्येव सम्पदा परिचर्य्यमाणः कतिचित् दिनानि तस्थौ। कदाचित् सुप्तां राजपुत्रींनिशिपिधाय तां … प्रति समुत्सुकः तस्मात् देशादपससार। राजपुत्री तु प्रातस्तमनासादयन्ती भृशं दुःखिता पित्रा नृपेणविदित जामातृप्रभावेण कथञ्चित् पुनः प्रत्यावर्त्तनाश्या समाश्वासिता।

सोऽपि विदूषकः अहरहर्गच्छन् क्रमात् पूर्वसागरा

ददूरवर्त्तिनीं ताम्रलिप्तिकां नाम नगरीमाससाद। चकार च तत्र केनापि अब्धेःपारं यियासुना बणिजा स्कन्ददासाभिधानेन सह मैत्रीम्। प्रतस्थे च तत्साहाय्येनतदीयमनल्पधनसम्भृतं यानपात्रमारुह्याम्बुधिवर्त्मना। यथाकस्मात् समुद्रान्तरुपागतं तत् यानपात्रं व्यासक्तमिव केनचित् संरुद्धमभवत्। पोतस्वामिना तु रत्नादिना समर्चितोऽपि अर्णवे यदा तत् यानपात्रं न चचाल तदासौ पोतबणिक् भृशमार्त्तः समभ्यधात् योहिमे प्रवहणमिदं संरुद्ध मोचयेत् तस्मै स्वधनार्द्धंस्वाञ्च कन्यकां दास्यामि। तदाकर्ण्य धीरचेता विदूषकः प्राह अहमत्रावतीर्य्यअम्बुधेर्जलं विचिनोमि मोचयामि च क्षणादेव तव प्रवहणम्। यूयं पाशराज्जूभिर्मां बध्वाअवलम्बध्वं, विमुक्तेप्रवहणे युष्माभिर्वारिमध्यादवलम्बनरज्जुभिरहमुद्धर्त्तव्यः। तथेति तद्वचसि बणिजा तेनाभिनन्दिते कर्णधारास्तं विदूषकं रज्जुभिः कक्ष्ययोर्वबन्धुः। विदूषकस्तु तथा बद्ध एव वारिराशौअवततार न ह्यवसरे सत्त्ववद्भिरवसद्यते? वीरः सः विदूषकः ध्यानोपस्थितमाग्नेयं कृपाणं करे धृत्वा प्रवहणस्य अधोमध्ये च विवेश। ददर्श च तत्र सुप्तमेकं महाकायं पुरुषं तस्यजङ्घायाञ्च यानपात्रंरुद्धम्। दृष्ट्वैव स खड्गेन तस्य तां जङ्घां चिच्छेद, रोधमुक्तञ्च तत् प्रवहणं तत्क्षणात् चचाल। तद्दृष्ट्वैवऽसौ बणिक् पापात्मा प्रतिपन्नार्थदानकातरः तस्य विदूषकस्य ता रज्जुश्छेदयामास। पापचाम्बुनिधेः पारमतिवेगगामिना प्रवहणेन। विदूषकस्तु छिन्नरज्ज्वा

लम्बः सागरमध्यपतितः कथञ्चिदुन्मज्ज्यतत् तथा दृष्ट्वा धीरः क्षणमचिन्तयत् किमिदं तेन बणिजा पापेन कृतं अथवा किमच्युते कृतघ्नानांधनलोभान्धानां चरितम्? तदेषः अधैर्य्यस्य न समयः न हि सत्त्वावसादः स्वल्पामपि आपदं व्याहन्तुमीष्टे तस्मात् प्राप्तकाल एव उपाय आश्रयणीय इत्यवधाय तां तस्य अन्तर्जलसुप्तस्य पुंसः छिन्नां जङ्घामारुरोह ततार च तयैव नावेवाम्बुराशिम्। दैवमेव साहायकं कुरुते सत्त्ववताम्। मारुतिमिव रामदूतं तं अम्बुधिपारगतं वलवन्तंविदूषकमाकाशभवा भारती एवमुवाच साधु साधु विदूषक! त्वदन्यः कः सत्त्ववान् तवानेन धैर्य्येण अतिप्रीतास्मि शृणु मद्वचनं सम्प्रति नग्नविषयकं प्राप्तोऽसि अस्मात् सप्तभिर्दिनैः कर्कोटकाख्यं नगरं प्राप्तासि ततो लब्धधृतिः शीघ्रमीप्सितं लप्स्यसे। अहं पूर्वं तवाराधितस्तनूनपात् मत्प्रभावाच्च इदानीं त्वां क्षुत्तृष्णा च न क्लेशयिष्यति। तद्गच्छ सिद्ध्यैइत्येवं विश्रब्धं व्यादिश्य सा भारती व्यरंसीत्।

विदूषकश्च तदाकर्ण्य देवमग्निंप्रणम्य हर्षितः प्रतस्थे प्राप च सप्तमेऽहनि कार्कोटकं पुरम्।प्रविवेश च तत्र कञ्चित् मठं आर्य्यैरभ्यागतप्रियैर्नानादेशोद्भवैस्तैस्तैर्द्विजैरधिष्ठितं श्रीमता तत्रत्येन नृपतिनाआर्य्यवर्म्मनामकेन निर्म्मितं समृद्धं समग्रसौवर्णहृद्यदेवगृहान्वितम्।तत्र सर्वैःकृतातिथ्यमतिथिं विदूषकमेको ब्राह्मणः स्वगृहं नीत्वास्नानभोजनादिना तमुपाचरत्। सायञ्च तत्र मठे स्थितः स विदूषकः पुरे घोष्यमाणं सपटहमिदं वचः

रम्यामेकां दीर्घिकां दृष्ट्वा तस्याः स्वागतमिव वदन्त्या भ्रमद्भ्रमरगुञ्जितैः प्रफुल्लपद्मवनविराजितायास्तीरे निषसाद ददर्श च स्त्रीणामिव सुविस्तरां अयं तव प्रियागृहमार्ग इति प्रदर्शयन्तीमिव पदपङ्क्तिम्। तत्रोपविष्टस्य अलङ्घ्योऽयं गिरिर्मानवैस्तदिहैव क्षणं निवसामि पश्यामि कस्येयं पदपद्धतिरित्येवं चिन्तयतस्तस्य तत्र तोयार्थं कतिपयाः गृहीतकाञ्चाः सुरम्या योषितः समाययुः। वारिपूरितकलसाश्च ताः सविनयमपृच्छत् विदूषको महाभागः। कस्येदं सलिलंनीयते भवतीभिरिति। ताः समब्रुवन् भद्र! अस्त्यत्र पर्वते भद्रा नाम विद्याधरी, तस्याः स्नानार्थमिदमुदकम्। विचित्रा खलु दैवगतिः। तत्रैका महिला सहसा तमब्रवीत् महाभाग! मम स्कन्धेकुम्भोऽयमुत्क्षिप्यतामिति। तथेति स बुद्धिमान् तस्याः स्कन्धोत्क्षिप्तेघटे पूर्वं भद्रया दत्तं तदङ्गुलीयकं निदधे। उपाविशच्चतत्रैव सरस्तटे पूर्ववत्। ताश्च स्त्रियस्तत् सलिलमादाय भद्रागृहं ययुः। यावत् ताभिस्तस्या भद्रायाः स्नानोदकं दीयते तावत् तस्या उत्सङ्गे तत् रत्नाङ्गुलीयकं सहसा न्यपतत्। तद्दृष्ट्वा जातप्रत्यभिज्ञासौ भद्रा ताः योषितः पप्रच्छ सख्यः! दृष्टः किं युष्माभिः कश्चिदपूर्वः पुरुष इति। ताश्चोचुःसखि ! दृष्टोऽस्माभिरेको युवा मानुषो दीर्घिकातटे, तेन च घटोऽयमुत्क्षिप्त इति। भद्रावोचत् शीघ्रं प्रक्लृप्तास्नानमण्डनमिहैव तमानयत सहि मे भर्त्ता समागतः।एवमुक्तेताभिर्नारीभिस्तत्र वापीतटे गत्वा यथावृत्तंनिवेद्य

स्नायितानुलिप्तश्च विदूषकः प्रियान्तिकमनीयत। गत्वा च सः चिरात् मार्गोन्मुखीं प्रियां निजसत्त्वतरोः पक्वांफलश्रियमिव भद्रामपश्यत्। सापि दृष्ट्वा उत्थाय हर्षवाष्पाम्बुशीकरैर्दत्तार्घेवास्य कण्ठे भुजलतास्रजंवबन्ध। परस्पराश्लेषतश्च तयोः स्वेदच्छलादिव अतिपीड़नात् चिरसम्भूतः स्नेहः सस्यन्दे। अथान्योऽन्यमुपाविष्टौ अवितृप्तदर्शनी उभौशतगुणामिव उत्कण्ठामुदूहतुः। कथमिमां भूमिमागतोऽसीति भद्रया पृष्टस्तत्कालं विदूषकः समभ्यधात् गुणवति!भवत्स्नेहमालम्ब्यप्राणसंशयानारुह्य बहुन् इह सम्प्राप्तः किमन्यद् ब्रवीमि? तदाकर्ण्यतस्य अनपेक्षितजीवितां प्रणयितां दृष्ट्वा स्नेहात् समभाषत आार्य्यपुत्र! न मेसखीभिः सिद्धिभिश्चकार्य्यं, त्वं मे प्राणः, हे प्रभो! गुणैः क्रीतास्मि ते दासीति। विदूषकोऽब्रवीत् प्रिये! तर्हिदिव्यमिमं भोगं मुक्त्वाउज्जयिनीं वस्तुं मया सहागछ। भद्रापि तथेति सपदि तद्वचः प्रत्यपद्यत जहौ च सत्सङ्कल्पपरिभ्रष्टा विद्यास्तृणवत्। ततस्तया सह तां निशांतत्र नीत्वाप्रातस्तस्मादुदयाद्रेः प्रियासखीऽवतीर्य्य तं यमदंष्ट्रं राक्षसं सस्मार। स्मृतमात्रागतस्य च तस्य स्कन्धे समारुह्य प्रियामुत्सङ्गे निधाय गन्तव्याध्वक्रमं तस्मै निशाचराय उक्त्वाप्रतस्थे। सापि भद्रा तदत्युग्र राक्षसस्कन्धाधिरोहणक्लेशं सेहे, अनुरागपरायत्ता हि नार्यः किमिव न कुर्वते।

अथ क्रमेण विदूषकस्तत् कार्कोटकं पुरं प्राप। आगत्य च आर्य्यवर्म्माणं स्वां भार्य्यां ययाचे। तेन च दत्तां तां भार्य्यांगृ

हीत्वा पूर्ववत् राक्षसारूढ़ः, सम्प्रतस्थे। ततश्च अम्बुधेस्तटे येन पूर्वमस्य वारिधौक्षिप्तस्य रज्जवश्छिन्नाःतं पापं बणिजं गत्वा तस्य सुतां धनैः सह प्राक्प्रतिश्रुतां जहार मेने च धनापहारमेवास्य वधं कदर्य्याणामर्थसञ्चया हि प्रायेण प्राणा एव। ततः स राक्षसरथमारूढ़ एवं भद्रया राजपुत्र्यातया बणिक्सुतया च सह नभ उत्पपात ततार च पूर्वसागरम्। अथ पुनस्तत् पौण्ड्रबर्द्धनं नगरमासाद्य सविस्मयं सर्वैः पौरैर्वीक्ष्यमाणः राजभवनमाविशन् तां चिरविरहोत्सुकां देवसेननृपसुतां प्रियां सम्भावयामास। तत्पित्रा अनुरुध्यमानोऽपि उज्जयिनीं प्रति समुत्सुकस्तां राजसुतां गृहीत्वा प्रायात्। क्रमेण नानाजनपदानतीत्य राक्षसवेगतः शीघ्रमेव उज्जयिनीमाससाद।ततः समन्तात् विस्मितवित्रस्तेपौरजने राजा आदित्यसेन विदितवृतान्तः अस्य प्रत्युद्गमनाय पुरो निरगात्। विदूषकस्तु दूरात् तं श्वशुरमागच्छन्तं दृष्ट्वा सपदि तस्मात् रक्षसोऽवतीर्य्य सप्रणामं नृपमभ्यगात् राजापि तं भृशमभ्यनन्दत्। ततस्ताः समस्ताः पत्नीरवतार्य्य राक्षसं कामचाराय व्यसर्जयत्। तस्मिंश्च राक्षसे गते स विदूषकः स्वभार्य्यः श्वशुरेण साकं राजभवनमविशत्। गत्वा चान्तःपुरं तस्य तनयां प्रथमप्रेयसीं सुचिरविरहोत्कण्ठितां भृशमानन्दयत्। अथ राज्ञा कथमेतास्त्वया भार्य्याःप्राप्ताः, कथञ्च राक्षसोऽयं वशीकृत इत्येवं पृष्टः सर्वं यथावृत्तमस्मै कथयामास। ततः प्रभावतुष्टेन कार्य्यज्ञेन महीभुजा तस्मै जामात्रे निजराज्यार्थं प्रदत्तम्।

ततश्च स विप्रोऽपि विदूषकः समुच्छ्रितसितच्छत्रो विधूतोभयचामरः राजाअभूत्। तदाच माङ्गलिकतूर्य्यनादेन पौरजनहर्षनिनादेन च सा पुरी उज्जयिनी प्रहर्षमुक्तनादेव रराज। क्रमेण च स स्वप्रभावेण समग्रां महीं जित्वा, अखिलराजमुकुटचर्च्चिताङ्क्रिकमलस्ताभिर्मनोरथप्रियाभिश्चिरं विगतमत्सराभिररंस्त।

एवमनुकूले दैवे निजंसत्त्वमेव धीराणां लक्ष्म्याःसमाकर्षणसिद्धौ मन्त्रो भवति।

इत्थं वत्सराजमुखात् विचित्रां कथामाकर्ण्य ते पार्श्वस्थाः सर्वे मन्त्रिणः देव्यौ च परां प्रीतिमवापुः।

इत्यष्टादशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722356182Screenshot2024-07-24072147.png"/>

अथोनविंशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1723452400Screenshot(11"/>.png)

<MISSING_FIG href="#"/><MISSING_FIG href="#"/> अथ तत्र यौगन्धरायणः वत्सेस्वरमब्रवीत् देव! तवपौरुषंदैवेन दत्तहस्तावलम्बंवर्त्तते, वयञ्च नीतिशास्त्रेकिञ्चित् कृतश्रमाः, तत् यथाभिलषितं शीघ्रं दिशां विजये यतस्व। इत्युक्तो मन्त्रिमुख्येन राजा प्राह अस्त्वेतत् कार्य्यसिद्धयस्तु बहुविघ्नाः, अतस्तदर्थं तपसा शम्भुमाराधयामि तत्प्रसादेन विना न हि वाञ्छितार्थसिद्धयो भवन्ति। तदाकर्ण्यमन्त्रिणस्तदस्य अभिप्रेतमनुमेनिरे।

ततस्त्रिरात्रोपोषितं सह देवीभ्यां मन्त्रिभिश्चतपस्यन्तं तं शम्भुः स्वप्ने समादिशत् तुष्टोऽस्मि ते वत्स! उत्तिष्ठ निर्विघ्नं जयमाप्स्यसि सर्वविद्याधराधीशं पुत्रञ्चाचिरादिति। ततः स राजा अपगततपःक्लेश एवं सहसा बुबुधे समनन्दयच्च प्रातः स्वप्नवृत्तान्तेन तेन व्रतोपवासक्लान्ते कुसुमसुकुमारे देव्यौ सचिवांश्च।अथान्येद्युःकृतयथोचितव्रतपारणं तपसा पूर्वजैः समप्रभावं राजानं यौगन्धरायणः समभाषत देव! त्वमेव धन्यः यस्य भगवान् हरः प्रसन्नः तदिदानीं रिपून् जित्वा कुलक्रमागतां लक्ष्मीं भज! स्वधर्म्मसमुपार्जिता हि लक्ष्मीर्भूभृता मन्वये स्थिरा भवति, पश्यतु देवः चिरभूमिष्ठोऽपि पूर्वजसम्भूतः निधिः प्रनष्टो भवता लब्धइत्यत्र कथामेतां शृणु।

आसीत्पुरा पाटलिपुत्रे नगरे देवदासो नाम कश्चित् महाधनो महाकुलीनश्च बणिक्पुत्रः। स हि पौण्ड्रवर्द्धने नगरे समृद्धस्य कस्यापि बणिजः सुतामुदवोढ़। कालेन पितरि पञ्चत्वमुपागते स देवदासः क्रमेण व्यसनासक्तः द्यूतेन सर्वं धनमहारयत्। ततश्च तस्य भार्य्या दुःखदारिद्र्यसंयुता श्रुत्वा तत्पित्रा पौण्ड्रवर्द्धनादागत्य स्वालयमनीयत। अथ गच्छता कालेन स देवदासः पुनर्विपत्खिन्नः स्वकर्म्मणि स्थातुमिच्छन् मूल्यार्थी श्वशुरं याचितुं तद्गृहं प्रययौ। सायञ्च तत्रोपस्थितः आत्मानं रजसा ध्वस्तंमलिनवसनञ्च वीक्ष्य व्यचिन्तयत् कथमीदृशोऽहं श्वशुरवेश्मनि प्रविशामि वरं मानिनोमृत्युर्न दैन्यंंबन्धुसमीपे इत्यालोच्य आपणे गत्वा क्वापि विपणौ बहिः

सङ्कुचितः नक्तंकमलोपमस्तस्थौ। क्षणाच्च तस्यां विपणौ कश्चित् युवानं प्रविशन्तंतदनन्तरञ्च तत्र निःशब्दपदसञ्चारमागतां कामपि स्त्रियं व्यलोकयत्। ततश्चतदन्तराले ज्वलत्प्रदीपे यदासौ दृष्टिमदात् तदा तामेव निजां गेहिनीं प्रत्यभिज्ञातवान् ।दुःखाशनिहतश्चाचिन्तयत् धनहीनेन देहो हार्य्यते, स्त्रीषु का कथा, यासां विद्यतामिव नैसर्गिकं चापलम्। इत्येवं चिन्तयन् स बहिःस्थित एव रतान्तविश्रम्भजुषः स्वकान्तायाः कथालापमिवअशृणोत्। अथ द्वारावकाशदत्तकर्णे अवहिते तस्मिन् सा पापा रहसि उपपतिमब्रवीत् कान्त! शृणु कथयामि ते किञ्चित् रहस्यं मम भर्त्तुःप्रपितामहः वीरवर्म्मा नाम पुराभूत् तेन स्वगृहाङ्गणे चत्वारः स्वर्णपूरिताः कुम्भाश्चतुर्षु कोणेषु गूढं निहिता इति स केवलमेकस्यै स्वभार्यायै कथितमासीत् सा चान्तकाले स्नुषायै तदुक्तवती, सापि स्नुषायै मम श्वश्व्रैमम श्वश्रूश्चमह्यम्। तदेतत् मया दरिद्रस्यापि मत्पतेर्न कथितं स हि द्यूतकरत्वात्मम द्वेष्यः, त्वन्तु मे परमः प्रियः, अतस्त्वया तत्र गत्वा मद्भर्त्तुः सकाशात् धनैस्तत् गृहं क्रीत्वातत् सर्वं सुवर्णमादाय इहागत्य सुखेन मां भजस्व। एवमुक्तस्तया पापया स जारः बणिक् भृशमस्यै तुतोष मेने च लब्धंनिधिमयत्नत एव। देवदासोऽपि तस्याः कुलटाया वाक्शल्येन नितरां निहतोऽपि हृदये धनाशामादधत् सद्य एव पाटलिपुत्रकमगमत् स्वीचकार चागत्य तत्सर्वं निहितं सुवर्णराशिम् ।

अथासौ जारः बाणिज्यव्याजेन निधिलोलुपस्तंदेशमागत्य देवदाससकाशात् तद् गृहमक्रीणात्। देवदासोऽपि भूयसा मूल्येन तद्गृहं तस्मै दत्त्वा पुनरन्यत्रगृहादिकं निर्म्माय श्वशुरवेश्मनस्तां स्वगेहिनींशीघ्रमानिनाय। अथ तद्भार्याच्छन्नकामुकः स बणिक् एकदा अलब्धनिधिस्तं देवदासमभ्येत्याब्रवीत् एतद् तव गृहमतिजींर्णं न मह्यं रोचते, तद् देहि मे मूल्यं गृहाण च स्वगृहम्। इत्येवं जल्पन् स बणिक् देवदासश्चविब्रुवन् उभौ विवदेमानौ राजान्तिकमुपजग्मतुः। देवदासस्तत्र राजान्तिके वक्षस्थविषदुःसहं स्वभार्य्यावृत्तान्तं कृत्स्त्नंन्यवेदयत्। ततश्च राजा तस्य भार्य्यामानाय्य तत्त्वमन्विष्य तं पारदारिकं बणिजं सर्वस्वमदण्डयत्। देवदासोऽपि तां कुलटां कृत्तनासां कृत्वा अन्यां परिणीय लब्धनिधिः सुखमुवास।

इत्थं धर्मोपार्ज्जिता लक्ष्मी रासन्तान मनपायिनी, इतरा तु जलापाततुषारकणेव नश्वरी। तस्माद्धर्म्मेणार्ज्जयितुं यतेत विशेषतः राजा यतो धनमेव राज्यतरोर्मूलम्। अतः सिद्धये मन्त्रिमण्डलं यथावत् सम्मान्य धर्म्मेण श्रियमर्जयितुं दिशो विजयस्व। श्वशुरयोर्मैत्राप्रसक्त्यनुप्रसक्तितः बहवो राजानो न विकुर्वते प्रत्युतमिलन्ति च यस्त्वेष ब्रह्मदत्तो नाम वाराणस्यां भूपतिरस्ति, स एव ते नित्यवैरी, तमेवाग्रतो विजयस्व, तस्मिंश्चजिते प्राचींततः क्रमेणाखिला दिशःजेष्यसि। इत्थं कुरुष्व पाण्डोर्यशःकुमुदं समुज्ज्वलम्। इत्युक्तो मन्त्रि

मुख्येन वत्सराजः प्रकृतिषु विजयोद्यतः प्रयाणारम्भमादिशत्। तदानीञ्च नृपतिः सुनीतिज्ञः सत्कारार्थं श्वशुरसुताय गोपालकाय वैदेहराज्यमददात् पद्मावती भ्रात्रे च सिंहवर्म्मणे स्वसैन्यसमागताय सम्मान्य चेदिराज्यम्। ततश्च स विभुः भिल्लराजंपुलिन्दकं नाम वलैर्व्याप्तदिगन्तरं प्रावृट्कालमिवाम्बुदैर्मित्रमानाययत्।तस्य महाराजस्य राष्ट्रेमहतो यात्रासंरम्भात् शत्रूणां हृदयं भृशमाकुलञ्च समजायत। यौगन्धरायणश्चाग्रे ब्रह्मदत्तस्य विचे जिज्ञासुर्वाराणसीं प्रति चारान् प्राहिणोत्। ततः शुभेऽहनि जयशंसिभिः सुनिमित्तैःसुप्रीतो वत्सेश्वरः समुच्छ्रितच्छत्रंप्रोत्तुङ्गंजयकुञ्जरं प्रफुल्लैकतरुंगिरिमिव समारूढ़ो दुर्म्मदोद्विपेन्द्र इव प्राप्तया सिद्धिदूत्येव अतिसुगमं स्वल्पाम्बुनिम्नगं मार्गं दर्शयन्त्या शरदा दत्तसम्मोदः समन्ततो नदङ्भिःसैनिकैर्भुवस्तलमकाण्डनिर्मेघवर्षासमयविभ्रमं कुर्वन् प्रथमं प्राच्यां ब्रह्मदत्तंप्रति प्रययौ। समागच्छतश्च तस्य सेनानिर्घोषप्रतिनादाकुलीकृताः दिशः परस्परं तदागमभयमिवाचख्युः। तस्य च काञ्चनसन्नाह सम्भृतार्कप्रभास्तुरङ्गा नीराजनप्रीतपावकानुगता इवचलन्ति स्म। गजाश्चास्यश्वेतचामरालङ्कृतश्रवणा विगलद्गण्डसिन्दूरशोणदानजलाः शरत्पाण्डुराम्भोदालङ्कृतशिखराः स्रवद्धातवो भीतैःभूर्धरैर्याचानुप्रेषिताः स्वार्भका द्रव पथि व्यराजन्त। नैवायं नृपः परेषामूर्जितं तेजः प्रसहते इतीव भूरेणुभिरर्कतेजस्तिरोदधे। ते द्वेदेव्यौ मार्गे नयगुणाकृष्टे मूर्त्तिमत्यौकीर्त्तिजयश्रिया

विव तं नृपमनुजग्मतुः। पवनाक्षिप्तविक्षिप्तैश्च तस्य सैनिकध्वजांशुकैर्नमत वापलायध्वमितीव विद्विषः प्रोचिरे।एवं स राजा समाकृष्टचतुरङ्गसैनिकः परितः शरत्फुल्लसिताम्बुजान् दिग्विभागान् स्वयशोभिः परीतानिव पश्यन् ययौ।

अत्रान्तरे यौगन्धरायणोपदिष्टास्ते चारा धृतकापालिकब्रताः पुरीं वाराणसीं प्रापुः। तेषाञ्चैकः कुहकाभिज्ञो ज्ञानित्वमुपदर्शयन् गुरुरभवत् अपरे च तच्छिष्यभूतास्तमनुजग्मुः।

ते चशिष्या आचार्य्योऽयमस्माकं त्रिकालज्ञ इति व्याजगुरुं तं भिक्षाशिनमितस्ततःख्यापयामासुः। स ज्ञानी पृच्छतां सकाशे यत् अग्निदाहादिकमुवाच तच्छिष्याः गुप्तं तत् चक्रिरे तेन स नितरां पप्रथे। क्रमेण च स कपटाचार्य्यःक्षुद्रसिद्ध्यारञ्जितं तत्रत्यं नृपवल्लभं कमपि राजपुत्रमुपासकमलभत। अभवच्च तस्मिन् सम्प्राप्तेवत्सेशसंग्रामे शुभाशुभं पृच्छतस्तन्मुखेन ब्रह्मदत्तस्य नरपतेः रहस्यज्ञः। अथास्य ब्रह्मदत्तस्यमन्त्री योगकरण्डकः वत्सेश्वरस्य आगच्छतः पथि विविधान् कपटप्रयोगानकरोत्। प्रतिपथं विपादिद्रव्यसंयोगैर्वृक्षान् कुसुमलताः तोयानि तृणानि च दूषयामास। सैन्येषु पण्यविलासिनी र्विषकन्याःनिशासु छद्मघातिनः पुरुषांश्च न्ययोजयत्। तच्च सर्वं विज्ञाय स ज्ञानिलिङ्गी चारः स्वानुचरैः सत्वरमेव यौगन्धरायणाय न्यवेदयत्।योगन्धरायणश्च तत्सर्वं बुद्ध्वा पथि दूषितं तत्तृणतोया

दिकं प्रतियोगैर्व्यशोधयत्। कटकेषु च अपूर्वस्त्रीसमायोगं न्यषेधत् निजघान च तान् छद्मबधकान् सह रुमण्वता। ततश्च प्रतिकृतं मायया तं सैन्यपूरितदिगन्तरं वत्सेश्वरममन्यत दुर्जयं ब्रह्मदत्तः। अथ स ब्रह्मदत्तः सम्मन्त्र्यमन्त्रिभिः दूतञ्च विसर्ज्यस्वयं शिरोवद्धाञ्चलिर्निकटीभूतं तं वत्सेश्वरमभ्यगात्। वत्सराजोऽपि तं प्रदत्तोपायनमुपस्थितं प्रणतं नृपं ब्रह्मदत्तं प्रीत्या सम्मानयामास शूराहि प्रणतिप्रियाः। इत्थं तस्मिन् ब्रह्मदत्तेविजिते स शूरः प्राचीं शमयन् वायुरिव नमयन् मृदून् उन्मूलयंश्च कठिनान् द्रुमानिव नृपान् चलद्वीचिविलोलितं गङ्गावनयवित्रास वेपमानमिवाम्बुधिं प्राच्यमियाय। निचखान च तस्य वेलातटान्ते पातालादभय याच्ञार्थमुद्गतं नागराजमिव जयस्तम्भम्। ततः कलिङ्गैरग्रगामिभिरवनतैस्तस्य करे दत्ते यशस्विनस्तस्य यशः महेन्द्राद्रिमारुरोह। तत्र राज्ञामुपायनीकृतैर्गजैर्भीतैर्विन्ध्याद्रिकूटेरिवागतैरनुगतोदक्षिणां दिशं ययौ। तत्र शरत्काल इवाम्बुदान् शत्रून् निःसारपाण्डुरान् अपगर्जितान् पर्वताश्रयिणश्च चकार। तेन सम्मर्द्दकारिणाउल्लङ्घ्यमाना कावेरी तत्रत्यचोलकानामधीशस्य कीर्त्तिश्च समं कालुष्यं ययतुः। स वत्सराजः मुरलानां मूर्द्धसुतत्कान्ता च करैराहन्यमानेषु कुचेषु उन्नतिं समं न सेहे। तस्यमातङ्गायत् गोदावरी पयः सप्तधा विभिन्नं पपुः तत् मदव्याजात् सप्तधेव व्यमुञ्चन्निव। अथ स वत्सेशः रेवामुत्तीर्य्यउज्जयिनीमगात अविशच्चतां दण्डमहासेनेन

श्वशुरेण पुरस्कृतः। अगमच्च सत्वरालोकन सम्भ्रमात् श्लथमाख्यधम्मिल्लशोभाद्वैगुण्यशालिनां मांसवमहिलाकटाक्षाणामेकलक्ष्यताम्। तत्र श्वशुरेण सत्कृतस्तथानिर्वृत्तस्तस्थौ यथाभीष्टामपि स्वदेशजान् भोगान् विसस्मार। वासवदत्ता तु पित्रोः पार्श्वविवर्त्तिनीसौख्येऽपि शैशवं स्मरन्ती विमना इवा तिष्ठत्। राजा चण्डमहासेनस्तया तनयया यथा तथैव पद्मावत्या समागतः सातिशयमनन्दत्। तत्र काचित् निशा अतिवाह्यप्रीतः श्वाशुरैः सैनिकैरन्वितः पश्चिमां दिशं प्रययौ।तस्य असिलता नूनं प्रतापानल धूमिका, यत् लाटनारीणामुदश्रुकलुषादृश्चकार। असौनृपः मामुन्ममूनल्यअम्भोधिंपुनर्मन्यिष्यति नूनमितीव तद्गगजाधूतवनो मन्दरः प्रावेपत्। सत्यमयं कोऽपि सूर्य्याचन्द्रमसोर्विलक्षणः प्रतीच्यामुदयमुदयनः प्रापेति तत्रत्या अमन्यन्त। ततः स नृपतिः कुवेरतिलकामङ्गशंसिनीमलकामिव कैलास हाससुभगामाशामभिजगाम। तत्र सिन्धुराजं विजित्य हरिसैन्यैरनुद्रुते राघव इव राक्षसान् म्लेच्छान् वशमनयत्। क्षुब्धस्याब्धेरून्मय इव तुरुष्काणां तुरगन्नातास्तंदलशोऽन्वयुः। ततो गृहीतारिकरः श्रीमान् वत्सेश्वरः पापस्य राहोरिव पारसीकपतेः पुरुषोत्तमः शिरश्चिच्छेद। ततोहूनान् जयतस्तस्य मुखरीकृतदिङ्मुखा द्वितीयेव गङ्गा कीर्त्ति र्हिमाचले विचचार। नदन्तीषु सेनासु भयाकुलानां विद्विषां प्रतीपः शैलरन्ध्रेषु निनादः केवलं शुश्रुवे। कामरूपेश्वरः अपच्छत्रेण शिरसा तं वत्सराजं नमन् यत् विच्छायतामगात्

तन्नचित्रम्। सम्राट् वत्सराजः मद्दत्तैःनागैरन्वितः तस्मात् विववृते। एवं स वत्सेश्वरः वसुधां विजित्य सपरिच्छदः पद्मावतीपितुर्मगधराजस्य पुरं प्राप। मगधेश्वरोऽपि देवीभ्यामन्विते तस्मिन् जामातरि उपस्थिते निशाज्योत्स्नावति चन्द्रे स्मर इव महोत्सवः संववृते। स मगधपतिः प्रथममविज्ञातस्थितां तदनु प्रकाशं गतां वासवदत्तामधिकप्रश्रयास्पदममन्यत। अथ स विजयी वत्सराजः तेन मगधराजेनार्च्चितः समग्रजनमानसैः चिरानुरागागतैर्नागरैरनुगतः वलभरेण प्रकम्पितवसुधातलो निजमेव विषयं लावाणकं जगाम।

इति एकोनविंशस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1722400067Screenshot2024-07-24072147.png"/>

** अथ विंशस्तरङ्गः।**
<MISSING_FIG href="../books_images/U-IMG-1722400083Screenshot2024-07-27173331.png"/>

ततः स राजा सेनानां विश्रामाय लावाणके स्थितः रहसि यौगन्धरायणमब्रवीत् महामते! तव बुद्ध्यैव मया पृथिव्यां सर्वे पार्थिवा विजिताः, उपायस्वीकृताश्चनैव कदाचित् मे व्यभिचरन्ति परन्तु एको वाराणसीपतिर्दुरात्मा ब्रह्मदत्तो व्यभिचरतीति मन्ये विश्वासः कुटिलेषु कः? एवमुक्तो यौगन्धरायणः प्राह राजन्! ब्रह्मदत्तस्तं भूयो न व्यभिचरिष्यति, एव खतु आक्रमणेनोपनत्

स्त्वया भृशं सम्मानितः कः सचेताः शुभाचारस्याशुभमाचरेत्? यस्तु तादृशोऽपि तादृशस्याशुभमाचरेत् तस्य तदैव अशुभंस्वयमुपतिष्ठेत। अत्रैतां कथांकथयामि श्रूयताम्।

पुरासीत् पद्माख्येजनपदे अग्निदत्तो नाम कश्चित्ख्यातिमान् राजदत्ताग्रहारभुक् द्विजोत्तमः।तस्य द्वौसुतौ तयोर्ज्यायान् सोमदत्ताभिधः द्वितीयः वैश्वानरोनाम। सोमदत्तस्तु सुश्रीकः परं मूर्खः दुर्विनीतश्च।अपरः विद्वान् विनीतश्च। कृतदारौ तौ पितरि अस्तंगते तदीयस्य अग्रहारादिकस्य अर्द्धमर्द्धंविभज्य जग्टहतुः। कनीयांस्तु विद्यावत्तया राजा सम्मानितोऽभवत्, ज्येष्ठस्तुसोमदत्तश्चपलः क्षेत्रकर्म्मणिरतोऽभूत्। एकदा कश्चित् पितृबन्धुः सोमदत्तंशूद्रैः सह बद्धगोष्ठीकं विलोक्य प्रोवाच रे मूर्ख! अग्निदत्तसुतो भूत्वा इत्थंशूद्रवत् चेष्टसे, निजमनुजं राजसत्कृतं पश्यन् न लज्जसे? तदाकर्ण्य सोमदत्तः कुपितः प्रधाव्य परित्यक्तमर्य्यादः पादप्रहारे तं विप्रमाजघान। स तु विप्रस्तत्क्षणं अन्यान् तत्रोपस्थितान् विप्रान् साक्षिणःकृत्वा पादाघाताकमानितःराजानं गत्वा समावेदयत्। राजापि सोमदत्तस्य बन्धाय भटान् प्राहिणोत्। ते च भटास्तस्य सोमदत्तस्य मित्रैर्निगत्य शस्त्रपाणिभिर्जघ्निरे। ततो राजा नितरां क्रुद्धबहु बलं प्रेष्य अस्य गृहीतस्य सोमदत्तस्य शूलारोपणमादिदेश।

अथाकस्मात् शूलायामारोप्यमाणः स केनापि प्रक्षिप्त

इव क्षितौनिपपात। रक्षन्ति हि कल्याणोदर्कं भाग्यसम्बदः यतोऽस्य तदानीं बधका अपि पुनरारोपणोद्यता अन्धा अभवन्। अत्रान्तरे च कनीयसा वैश्वानरेण भ्रातृशोकार्त्तेन विज्ञप्तो महीपतिर्बन्धात् तममोचयत्। ततः मरणनिस्तीर्णः सोमदत्तः राजापमानेन तेन भृशं सन्तप्तः सपरिजनो देशान्तरं गन्तुमियेष। यदा तु तद्बन्धुभिस्तस्य देशान्तरगमनं नैच्छन् तदा राजाग्रहारार्द्धंवृत्तिं तां त्यक्त्वास्थितिं प्रतिपेदे।

ततोवृत्त्यन्तरहीनः स कृषिं कर्त्तुकामस्तद्योग्यांभुवं द्रष्टुं शुभेऽहनि अटवींजगाम। गत्वा च तत्र शुभां भूमिं सम्भाव्य फलसम्पदं प्राप्य तन्मध्ये एकं महाविस्तारमश्वस्थतरुमैक्षत। तञ्च शुभघनच्छायाच्छन्नसूर्य्यांशुमण्डलं शीतलं प्राप्य कृषिकामः प्रावृषमिव भृशं तुतोष। योऽस्याधिष्ठाता तस्यैवाहंभक्तोऽस्मीत्यभिधाय कृतप्रदक्षिणस्तमश्वत्थं प्रणनाम। ततः कृतस्वस्त्वयनस्तस्य तरोरधः वलिं विधाय वलीवर्दयुग्मं नियोज्य कृषिं कर्त्तुं आरेभे। तस्थौ च तस्यैवाधस्तात् दिवानिशम्। तत्रैव तद्गृहिणी तस्य भोजनादिकमानिन्ये। अथ यथाकालंपक्वेषु शस्येषु सा भूमिः परराष्ट्रेण निःशङ्कमागत्य दैवात् व्यलुण्ठ्यत्। ततः परबले याते शस्ये च नष्टप्राये ससत्त्ववान् रुदतीं भार्य्यामाश्वास्यकिञ्चिदवशिष्टं तस्यै ददौ। पुनश्च पूर्ववत् कृतवलिस्तथैव कृषिं विधाय तरोरधस्तात् तस्थौ स्वभाव एष धीराणां यदापद्यपि अचला भवन्ति।

एकदा चिन्तया विनिद्रस्य एकाकिनः स्थितस्य तस्य निशि तस्मादश्वत्थतरोरशरीरिणी वागुदतिष्ठत् भोः सोमदत्त! तुष्टोऽस्मि तवाध्यवसायात् तद्गच्छादित्यप्रभनाम्नः भूपतेः श्रीकण्ठदेशगं राष्ट्रम्। तस्य महीपतेर्द्वारि सन्ध्याग्निहोत्रमन्त्रान् पठित्वा इदं वचः ब्रूयाः अहं फलभूतिर्नाम विप्रः, शृणुत मम वचनं शुभकारी शुभमाप्नुयात् अशुभकारी अशुभमिति। एवं वदं स्त्वंतत्र महतींसमृद्धिमाप्स्यसि ,सन्ध्याग्निहोत्रमन्त्रांश्चमत्त एवाधुना शिक्षस्व, अहं कश्चिद्यक्षइत्युक्त्वास्वप्रभावेण तं तान् मन्त्रान् अध्याप्य सा वाणी तस्मिन्नेव वटे तिरोदधे। अथ प्रातः स सोमदत्तः भार्य्यया सह फलभूतिरिति नाम लब्ध्वायज्ञदत्तंप्रतस्थे। क्रमेण च तास्ता विषमाः परिवर्त्तिनीःदुर्दशा इव अटवीरतिक्रम्य श्रीकण्ठविषयं प्राप। तत्र भूपतेर्द्वारि यथोक्तं सन्ध्याग्निमन्त्रान् पठित्वा फलभूतिरिति स्वं नाम संश्राव्य शुभकारी शुभमशुभकारी अशुभं लभते इति लोकस्य कौतुकोत्पादकं वचः प्रोवाच। इत्थंपुनः पुनर्वदन्तं तमादित्यप्रभो नरपतिः कथमेवं वदेदसाविति कौतूहली स्वसकाशं प्रावेशयत्। सोऽपि प्रविश्य तथैव नृपतेरग्रतः मुहुरब्रवीत् तेन च नृपः पार्श्वचरैः सार्द्धंजहास ददौ च तस्मै वस्त्राण्याभरणानि ग्रामांश्च। न हि महान्तः मृषा तुष्यन्ति? एवं स फलभूतिर्यक्षप्रसादेन राजदत्तां विभूतिमासाद्य दारिद्र्यदुःखं विजहौ। प्राप च राजप्रियतामेवं पुनः पुनर्वदन् प्रभूणां हि विनोदरसिकं मनः। क्रमेणच तस्मिन् राजगृहे

अन्तःपुरेषु च राज्ञः प्रिय इति प्रीतिं बहुमानञ्चलेभे।

अथ कदाचित् स आदित्यप्रभो नृपतिर्मृगयातः प्रत्यावृत्यसहसान्तःपुरमाजगाम। ददर्श च हारपालसम्भ्रमशङ्कितः प्रविश्य देवार्च्चन व्यग्रकरां दिगम्बरां ऊर्द्धकेशीं अर्द्धमीलितलोचनां स्थूलसिन्दूरतिलकां जपप्रस्फुरिताधरां विचित्रवर्णकन्यस्तमहामण्डलमध्यगां असृक्सुरामहामांस कल्पितोग्रवलिक्रियां राज्ञींकुवलयाबलींनाम। प्रविष्टे च नृपतौसा ससम्भ्रमं परिहितवसना तत्क्षणमनुयुक्ताकिमेतदिति राजा याचिताभया समभाषत प्रभो! तवेवोदयलाभार्थमेवं व्रतं कृतवत्यस्मि अत्रैतामागमवार्त्तां सिद्धिञ्च शृणु कथयामि।

पुराहं कन्या पितृसद्मनि स्थिता मधुमहोत्सवे उद्यानमगमं तत्र मद्वयस्याभिः समेत्याहमुक्ता भर्त्तृदारिके! अस्त्यत्र प्रमोदोद्यानवर्त्तितरुमण्डलमध्यगः दृष्टप्रभावो वरदो देवो विनायकः।तमुपागत्य वाञ्छितप्रदं भक्त्या पूजय, येन निर्विघ्नमाशुसुयोग्यं पतिमाप्स्यसि। तदाकर्ण्य मया मौग्ध्यात् ताः सख्यः पर्यपृच्छन्त, सख्यः! कन्या विनायकपूजया किं भर्त्तारं लभन्ते? अथ ताः प्रत्यवोचन् किमेवमुच्यते त्वया, तस्मिन् अपूजिते कस्यापि कापि सिद्धिरिह न भवेत्, शृणु एतस्य प्रभावं वयं वर्णयामः। एवमुक्त्वाताः सख्यः मे कथामिमामकथयन्।

ताः पुरा तारकेणासुरराजेन उपद्रुतेशक्रे पुरारातस्तनयं सेनान्यमिच्छति दग्धे च तत्प्रसङ्गेन कुसुमायुधे गौरी

कृततपाः अर्द्ध्वरेतसमत्युग्रे तपसि स्थितं त्र्यम्बकं पतिं प्राप्य सुतप्राप्तिं मदनस्य जीवितञ्च प्रार्थितवती परं सिद्ध्यर्थं विघ्नेश्वरपूजनं न सस्मार। अभीष्टलाभार्थिनीञ्च तां कान्तामसौ हरः प्रोवाच प्रिये! पूर्वं प्रजापतेर्मानसात् कामः समजायत। जातमात्रः सः कं दर्पयामीति मदात् जगाद, तेनासौ विधाता अमुंकन्दर्पनामानं चक्रे। ऊचे च पुत्र! प्रति दृप्तोऽसि तत् त्रिनेत्रादात्मानं रक्षेः; मा नाम तस्मात् मृत्युमवाप्स्यसि इत्येवं पित्रा कथितोऽपि स दुरात्मा मां धर्षयितुमागतः मया च स दग्धः, तदेतस्य कथं पुनरुद्भवः? भवत्याश्च स्वप्रभावेणेव पुत्रमुत्पादयामि, न हि मे मदनोत्साहजनिताः प्रजाः सामान्यजनवत्। एवं वदत एव पार्वतीं तस्य शम्भोः शतमखान्वितः पद्मयोनिराविरासीत्।स्तुतश्च ताभ्यां तारकासुरशान्तये स भगवान् भवः देव्यामात्मजं स्रष्टुं कामस्य च देहिनां मनसि समुद्भवमनुमेने। ददौच निजचित्तेमनोभुवोऽवकाशम्। तेन च तुष्टो धाता स्वालयं ययौदेवी च मुदं प्राप।

अथ कदाचित् रहसि स्थितः शङ्करः उमया सह सुरतक्रीड़ामारेभे। यदा तु वर्षशतेष्वपि गतेषु रतान्तो नाभवत् तदा तदुपमर्देन भुवनत्रितयमकम्पत। ततो जगत्शान्तये पितामहोपदिष्टाः सुरास्तस्य देवस्य रतविघ्नाय वैश्वानरं स्मरन्ति स्म। अग्निरपि स्मृतमात्रः समागत्य दुर्धर्षं मदनान्तकं मत्वा पलाय्य जलान्तः प्रविवेश। जलचारिणोभेकाश्चतस्याग्नेस्तेजसादह्यमानाः विचिन्वतां देवानां अग्निमन्तर्जलस्थं शशंसुः। ततोऽग्निस्तान् भेकान्

अनभिव्यक्तवाचः कृत्वा तिरोभूय च भूयो जगाम स्वं मन्दिरम्। देवाश्चइतस्ततोऽन्विष्यन्तस्तं तत्र कोटरान्तःस्थंशम्बुकरूपिणं गजैः शुकैश्च दर्शितं प्रापुः, स चैषां दर्शनं ददौ। ततोऽसौ जातवेदास्तेषां गजानां शुकानाञ्च जिह्वाविपर्य्यासरूपमभिशापं दत्त्वा देवैः शतस्तुतिरतेषां कार्य्यमङ्गीचकार। अथ स ज्वलनः स्वोष्मणा समुपेत्य शाप भीत्या प्रणम्य सुरतात् शङ्करं निवार्य्य देवकार्य्यमस्मै न्यवेदयत्। शर्वोऽपि प्रवृद्धवेगस्तस्मिमग्नौस्वं वीर्य्यमादधे। तद्धितस्य शुक्रं धारयितुं शक्तो वह्निरुमा वा। अथ न मया त्वत्तस्तनयः सम्प्राप्त इति खेदाकुलां देवीमुवाच भगवान् भवः।देवि! विघ्नराजपूजनात् विना तवात्र विघ्नः सञ्जातः, तदर्च्चयैनं येनाशुवह्नौ नः सुतोजनिता।इत्येवमुक्त्वाशम्भुना पार्वती विघ्नेश्वरमपूपूजत्। अनलोऽपि सगर्भं शाम्भवं वीर्य्यंविभ्रत् अन्तः प्रविष्टतिग्मांशुरिवावभौ। अथ कालेन सः गङ्गायां तद्गर्भमुद्ववाम। गङ्गापि तं धारयितुमशक्ता शिवाज्ञया मेरौअग्निकुण्डेतं तत्याज। तत्र शाम्भवैर्गणैः संरक्ष्यमाणः स गर्भः सहस्राब्दान्ते निष्पद्य षड़ाननः कुमारोऽभूत्। ततो गौरीनियुक्तानां कृत्तिकानां पयोधरान् स षड्भिर्मुखैः पीत्वा स्वल्पैरेवाहोभिर्ववृधे।

एतस्मिन्नन्तरे देवपतिस्तारकासुर निर्जितस्त्यक्तसंग्रामः मेरुशृङ्गाणि शिश्रिये। सुरा ऋषिभिः साकंतं कुमारं शरणं ययुः। सोऽपि षड़ाननस्तान् सुरान् रक्षन् तैः परिवृतस्तस्थौ।इन्द्रस्तुस्वस्यहारितं राज्यं मत्वा स

क्षुब्धः समत्सरस्तं कुमारमयोधयत्। तद्वज्राभिहताच्च षण्मुखाङ्गात् कुमारस्य शाख विशाखाख्यौद्वौसुतावजायेताम्। अथ सपुत्रमुत्क्रान्तदेवराजपराक्रमं तमुपेत्य तनयं स्वयं शर्वः संग्रामादवारयत् अवोचच्च पुत्र! जातोऽसि तारकं हन्तुमिन्द्रस्य राज्य रक्षितुञ्च तत् निर्जं कार्यं कुरुष्व इति। ततः प्रणम्य प्रीतेन वज्रपाणिना स्तुतः सेनापत्येअभिषेक्तुमुपचक्रमे। यदा तु तमभिषेक्तुंसुरपतिः उत्क्षिप्तकलसोऽभूत् तदा स्तब्धबाहुःशुचा सन्तप्तंतमवदत् शङ्करः।यस्मात्त्वया सेनान्यमभिलषता गजाननो न पूजितस्तस्मात् ते विघ्नो जातः तस्मात् विघ्नराजमर्च्चय।तदाकर्ण्यसुरपतिर्गणेशमर्च्चयित्वा मुक्तबाहुः सम्यक् अभिषेकोत्सवं सेनान्यो निरवर्त्तयत्।ततोऽचिरात् सेनानीस्तारकासुरं निजघान। देवाश्च सिद्धकार्य्या ननन्दुः, गौरी च पुत्रवती। तदेवं भर्त्तृनन्दिनि। देवानामपि हेरम्बे अनर्च्चिते नास्ति सिद्धिस्तत् एनंवरार्थिनी समर्च्चय।

हे आर्य्यपुत्र! इत्युक्त्वाअहं ताभिर्वयस्याभिरुद्यानमध्यवर्त्तिनं विघ्नराजमुपेत्य अपूजयं पूजान्ते च सहसा गगनाङ्गनेऽपश्यम् ताः स्वसखीः स्वसिद्धितोविहरन्तीः। तदवलोक्य कौतुकात् ता अन्तरीक्षात् समाह्वय अवतार्य्यच मया सिद्धिविषयं पृष्टाः सद्यः समब्रुवन् इमा नरमांसाशनजा डाकिनीमन्त्रसिद्धयः, कालरात्रिर्नामकापि ब्राह्मणी अत्रास्माकं गुरुः। एवमहं सखीभिरुक्त्वाखेचरीसिद्धिलोलुपा नृमांसाशनभीता च तत्क्षणमासम्। अथ सिद्धिलोभात् ताः सखी रहमपृच्छं ममात्र युष्माभिरु

पदेशो दाप्यतामिति। ततो मदभ्यर्थनया तास्तत्क्षणंगत्वा तां विकटाकृतिं मिलद्भ्रुवं कातराक्षीं न्यञ्चच्चिपिटनासिकां स्थूलगण्डींकरालोष्ठीं दन्तुरां दीर्घकन्धरां लम्बस्तनीं महोदरींविदीर्णोत्फुल्लपादां धात्रा वैरूप्यनिर्म्माणवैदग्धीमिव दर्शितां कालरात्रिमानिन्युः। सा मां पादानतां स्नातां पूजितविघ्नेयां विवस्त्रां मण्डले भीमां भैरवार्च्चामकारयत्। अभिषिच्य च मह्यं तान् तान् निजान् मन्त्रान् भक्षणाय च देवार्च्चनवलीकृतं नृमांसश्च ददौ। अहन्तु गृहीतमन्त्रा कृतनरमांसाशना तत्क्षणं दिगम्बरा एव सखीभिः सममम्बरमुत्पतिता। देव! ततश्चतत्रकृतकीड़ा गुर्वनुज्ञया अवतीर्य्य निजं कन्यान्तःपुरं सह सखीभिरगमम्। एवमहं वाल्येऽपि डाकिनीचक्रवर्त्तिनी ख्याता, तत्र चास्माभिर्बहवो नराः समेत्य भक्षिताश्च। नाथ! अत्रान्तरे कथामेतां कथयामि शृणु।

विष्णुस्वामी नाम तस्याः कालरात्र्याः पतिः कश्चिद् विप्र आसीत्। स च वेदपारगः तस्मिन् देशे नानादिगागतान् शिष्यानध्यापयत्। तस्य च शिष्याणामेकः सुन्दरको नाम युवा शीलेन विराजितवपुर्गुणः शिष्यः समभवत्। एकदा सा गुरुपत्नीकालरात्रिः पत्यौ क्वापि ग्रामान्तरे गते रतार्थिनी रहसि तं सुन्दरकमभ्यर्थयामास। स तु अभ्यर्थ्यमानोऽपि कथमपि धर्म्मविप्लवं कर्त्तुं नैच्छत्। स्त्रियो यथा विचेष्टन्तां सतान्तु मनःनिष्कम्पमेव ।ततः सा कालरात्रिरपसृतेतस्मिन् सञ्जातक्रोधा स्वयं दण्डनखक्षतैः स्वमङ्गंपाटयामास। यावत् स्वामी गृह

मायात् तावत् विकीर्णवस्त्रकेशान्ता भृशं रुरोद प्रविष्टश्चभर्त्तारमब्रवीत् नाथ! पश्य सुन्दरकेण वलात्काराभिलाषिणामम किं कृतं? तदाकर्ण्यउपाध्यायः क्रुधा जज्वाल प्रत्ययः स्त्रीषु विदुषामपि विवेकं मुष्णाति। सायञ्च गृहमागतं सुन्दरकं दृष्ट्वा विप्रः प्रधाव्य सशिष्यो मुष्टिभिः पादैर्लगुडैश्चतथा अताडयत् यथा तं प्रहारनिश्चेष्टं मृतमेव मत्त्वा शिष्यैर्निशि रथ्यायां तत्याज।

ततोऽसौ सुन्दरकः शनैर्निशानिम्नसञ्जीवितस्तथाभिः भूतमात्मानं पश्यन्नेवमचिन्तयत् अहो स्त्रीणां चारित्रम्? येन तादृशा अपि महात्मानो गुरुवः एवं कलुषीक्रियन्ते, तथाहि विद्वानपि वृद्धोऽपि आचार्य्यःअविचार्य्यअतिक्रोधात् मयिएवमकारणदण्डमकरोत् अथवा कामक्रोधयोरेष महिमा येन मुनयोऽपि पूर्वं स्वदारव्यभिचारशङ्किनः देवदारुवने देवदेवाय शङ्करायापि चुक्रधुः न चैनं क्षपणकवेशमृषीणामपि अशान्ततामुमायै दर्शयन्तंदेवं विविदुः। ते चातिक्रुद्धा दत्तशापाः सन्तः पश्चात् त्रिजगत्क्षोभकारणं तं देवं विदित्वा तमेव शरणं ययुः। तदेवं कामक्रोधादिभिर्वञ्चिता मुनयोऽपि विमुह्यन्ति गृहिषु का कथा। इत्येवं चिन्तयन् सुन्दरकः निशि दस्युभयात् समीपवर्त्तिनि शून्ये गोवाटहर्म्ये निभृतस्तस्थौ। अत्रान्तरे तत्रैवहर्म्येसा कालरात्रिराकृष्टवीरक्षुरिका मुक्तफुत्कारभीषणा नयनाननवातोल्का डाकिनीमण्डलमध्यवर्त्तिनी समामयो। सुन्दरकस्तु तां तादृशींकालिरात्रिमुपागतां दृष्ट्वाभीतः रक्षोघ्नान् मन्त्रान् जजाप।

सा तु तेन मन्त्रेण मोहिता भय……..रेकान्ते, स्थितं तं सुन्दरकंनाद्राक्षीत्। अथ सा सखीजनसहिता ….मन्त्रं पठित्वा सहसा तेन गोवाटहर्म्येण सह शुभः उत्पपात। सोऽपि सुन्दरकस्तं मन्त्रं श्रुत्वा तदैव जग्राह।सापि नभसा सहर्म्याक्षणादेव उज्जयिनीं ययौ। शप्त्वाच तत्रहर्म्यंमन्त्रबलात् शाकवाटके अवतार्य्यडाकिनीभिः सह श्मशाने चिक्रीड़।सुन्दरकश्चतस्मिन्शाकवाटके अवतीर्य्यक्षुधितः उत्खातमूलकैर्वृत्तिमकरोत्। कृताहारे च तस्मिन् प्राग्वत् गोवाटमाश्रिते साकालरात्रिपितृकाननात् निवृत्त्यअधिरूढ़ गोवाटाशिष्याभिः सह मन्त्रसिद्धिबलात् पुनराकाशमार्गेण तस्यामेव निशायां स्वगृहमाययौ। आगत्य च स्वस्थानं स्थापयित्वा च यथास्थानं गोवाटवाहनं विसृज्य च ताः सर्वा अनुचरीः शयनागारमविशत्। सोऽपि सुन्दरकः तद्दर्शनविस्मितस्तां निशां तत्रैव गोवाटेनीत्वा प्रभाते त्यक्तगोवाटः सुहृदामन्तिकं ययौ।तत्राख्यात स्ववृत्तान्तः देशान्तरगमनोद्यतोऽपि तैर्मित्रैरनुरुद्धस्तेषामेव मध्ये वासमकल्पयत् अभ्यवहारविधिन्तुस च सद्मनिप्रत्यहमकरोत्।

एकदा कालरात्रिरापस्थे गृहोपकरणानि क्रेतुंनिर्गता तं सुन्दरकं ददर्श जगाद च समीपमेत्य पुनः का वार्त्ता, सुन्दरक! अद्यापि त्वदायतजीवितां स्मरातुरांमां भज। एवमुक्तः सुन्दरकोऽपि तामब्रवीत् मैवं वद, नैष …. त्वं मममाता गुरुपत्न्यसि। ततः कालरात्रिर

ब्रवीत्, धर्म्मंयदि अपेक्षमे, तद् रक्ष मेप्राणान्, प्राणरक्षणात्कोऽधिको महान् धर्मः?।सुन्दरकोऽवोचत् मातः! मैवं पुनर्वादीः गुरुतल्पगमनं कुत्र धर्म्मइति ख्यायते! एवं तेननिराकृता सा कालरात्रिस्तं रुषा तर्जयन्ती स्वहस्तेन उत्तरीयं पाटयित्वा गृहमगात्। आगत्य च पश्य सुन्दरकेण पुनर्धावित्वा ममेदमुत्तरीयं पाटितमिति पतिं दर्शयामास। स च तस्याः पतिः क्रोधात् आगत्य सुन्दरकंवध्यसुदीर्य्यं तत्क्षणात् सत्रे सुन्दरकस्य भोजनमवारयत्। ततःसुन्दरकः खेदात् तं देशं त्यक्तुमुद्यतः गोवाटे शिक्षितं आकाशोत्पतनमन्त्रंजानन्नपिअवरोहणेऽपरं मन्त्रंशिक्षितमपि विस्मृतंध्यायन् तदेवं गोवाटहर्म्यंनिशिपुनर्ययौ।

अथतस्मिन् तथास्थिते सा कालरात्रिः पूर्ववत् सखीजनपरिवृता उपेत्य तथैव हर्म्यस्था अन्तरीक्षेणमार्गेण उज्जयिनींययौ। तत्रच मन्त्रेणशाकवाटके गोवाटमवतार्य्यपुनः पितृनिकेतनं विहाराय प्रययैा।

सुन्दरकस्तु मन्त्रंभूयः श्रुत्वापि नाग्रहीत् कुतोहि विना गुरूपदेशं सिद्धिः? ततोऽत्र शाकवाटके कतिचित् मूलकानि भुक्त्वाअपराणि च नेतुं गोवाटे प्रक्षिप्य पूर्ववत् निभृतस्तस्थौ। अथ सा कालरात्रिस्तथैवारूढगोवाटा नभसातस्यामेव निशि यथास्थानस्थापित गोवाटा स्वं भवनमाजगाम। सुन्दरकोऽपि प्रातः गोवाटात् निर्वर्त्त्यभोजनमूल्यार्थोगृहीतमूलकः विपणिमगमत्।विक्रीणानस्य तत्र तत्र राजपुरुषा मालवदेशीयाः स्वदेशं तत्

मूलकं दृष्ट्वाविना मूल्यमहरन्।ततः सुन्दरकः….. दूतः कलहं कुर्वन् पाषाणैरस्मान् ताडयतीति तैःशठैः राजान्तिकमनीयत अवादि च नृपः मालवकात् आनीय कान्यकुब्जेऽत्र कथं मूलकं विक्रीणीषे इत्येवं पुष्टोऽपिएषः न किमपि जल्पति प्रत्युत पाषाणैरस्मान् हन्तीति। ततो राजा किमेतदिति पृष्ठे तस्य सुहृदोऽब्रुवन्राजन्! यद्येषः अस्माभिः सह प्रासादमधिरोप्यते तदेतत् …. जल्पेत् नान्यथा। तथेति राज्ञाप्रासादमारोपितः यः सप्रासाद एव मन्त्रेण पश्यत एव तस्य राज्ञः सद्यः खमुत्पपात नभः। समित्रश्चतेन प्रासादेन प्रयागं गत्वाश्रान्तः तत्र कमपि राजानं स्नातुं ददर्श। अत्र च प्रासादं संस्तभ्य स्वात् गङ्गायां निपत्य सर्वैस्तत्रत्यैर्विस्मयोहीक्षितस्तं राजानमभ्यगात्। कस्त्वं कथं गगनादवतीर्णोऽसि प्रति तेन राज्ञा विनीतेन पृष्टः एवमवादीत् अहं भुरणकोनाम देवस्य सम्भोगेणतदाज्ञया मानुषभोगार्थीं त्वत्सकाशमिहागतः। तदाकर्ण्य स नृपः सत्यं मत्वा तस्मैशस्यपूर्णंसरत्नं सस्त्रीकं सोपकरणं पुरं प्रादात्। सुन्दरकश्च तस्मिन्पूरे प्रविश्य दिवि उत्प्लुत्यसानुचरः चिरं स्वच्छन्दं विचचार। बुभुजे च हेमपय्यङ्केशयानश्चामरैर्वीज्यमानः वराङ्गनाभिः सेव्यमानश्चऐन्द्रं सुखम्।

अथेकदा कश्चित् योगी आकाशचारी सञ्जातपरिचयस्तस्मैव्योमावरोहणमन्त्रंददौ। ततः प्राप्तमन्त्रःसः निश्वेदेशे कान्यकुञ्जेव्योममार्गादवातरत्। राजातु तु तं कपूरं पूर्णलक्ष्मीकं नभस्तथादवतीर्णंविदित्वा स्वयं

कौतुकात्तमुपाययौ। अथ राज्ञासविशेषमनुयुक्तःकालवित् राजाग्रेकालरात्रिवृत्तान्तं सर्वमकथयत्। राजा च तत्क्षणात् तां कालरात्रिमानाय्य पप्रच्छ। सा तु निर्भया स्वमविनयं सर्वं स्वीचकार। ततः कुपिते नृपे तस्याः कर्णौ च्छेत्तुमुद्यते सा गृहीतापि पश्यतामेव सर्वेषा तत्रैव तिरोदधे। ततो राजा तस्याः स्वराष्ट्रे वासं न्यषेधत्। सुन्दरकस्तु राज्ञासत्कृतः पुनर्नभस्तलशिश्रिये।

इत्युक्त्वाआदित्यप्रभः भूपतिं पतिं पुनश्च राज्ञीकुवलयावली अवादीत् देव! एवं विधा डाकिनी मन्त्रसिसिद्धयः सन्ति, तच्च मत् पितृराज्ये सर्वत्र विश्रुतम्। अहञ्च कालरात्रेःशिष्याभिः आदौतव कथितम्। मम तु पातिव्रत्यात् ततोऽपि समधिका सिद्धिरस्ति। भवता चाद्यअहं दृष्टा, कृता च मया तवैव श्रेयः साधनी अर्च्चना, उपहाराय च मन्त्रेण पुरुषमाक्रष्टमुद्यताहम्। तदस्मदीये नये त्वमपि सम्प्रति प्रविश कुरुष्व च सिद्धियोगजितानां राज्ञांशिरःसु पदम्। तदाकर्ण्य स राजा क्वमहामांसभोजनं डाकिनीनयः, क्वच राजत्वमित्युक्त्वातत् निषिषेध। अथ तस्यां राज्ञ्यांप्राणत्यागोद्यतायां स राजा तत् प्रत्यपद्यत। विषयैराकृष्यमाणा हि कथं सुपथे तिष्ठन्ति?।ततः सा राज्ञीतं राजानं गृहीतसमयं पूर्वपूजिते मण्डले प्रवेश्यैव इदमब्रवीत् नाथ! यस्त्वेष फलभूतिर्नाम विप्रस्तवान्तिके स्थितः स एव मया उपहारार्थमद्य आक्रष्टुमुपकल्पितः। परन्त्वाकर्षणंसायानं तस्मात् कश्चित् सूपकृत् अत्र कार्य्ये

नियुज्यतां यस्तं स्वयं हन्ति पचत्यपि। नात्रघृणा कार्य्या, यस्मात् तन्मांसवलिभक्षणात् अर्च्चनेसमापिते पूर्णा सिद्धिः स्यात् एष तावत् उत्तमः कल्पः। इत्युक्तः प्रियया स राजा पापभीतोऽपि तदङ्गीकार कष्टा हि स्त्रीषु अनुवृत्तिः?। अत्रसाहसिकनामानं सूपकारमानाय्य विश्वास्यच तौ दम्पती सहैवोचतुः राजा देवीद्वितीयोऽद्य भोक्ष्यते, तत् त्वयाकुरु आहारस्य इति यःअभ्येत्य त्वां ब्रूयात् त्वंतं तत्क्षणंनिपात्य तन्मांसैश्चरहसि सुस्वादु भोजनमावयोः सम्पादयेरिति।एवमादिष्टश्च स सूपकृत् तथेति प्रतिज्ञाय गृहमगात्। प्रातश्च फलभूतिं तं प्राप्तं दृष्ट्वा राजाब्रवीत् गच्छ साहसिकं ब्रूहि सूपकारं यथा राजा देवीद्वितीयोऽद्य स्वादुभोजनं भोक्ष्यते अतस्त्वरितमुत्तममाहारं सम्पादय इति।

तथेति निर्गतञ्च फलभूतिमेत्य राजपुत्रश्चन्द्रप्रभोनामाब्रवीत् ब्रह्मन्! अनेन सुवर्णेन शीघ्रं मम द्वे कुण्डले पितुरिव शोभने कारय। इत्युक्तः फलभूतिस्तेन राजपुत्रेण कृतानुरोधः कुण्डलार्थमेव प्रहितः प्रययौ। राजपुत्रोऽपि एकाकी फलभूतिना कथितं राजनिदेशं कथयितुं स्वैरं महानसमगात्।स च साहसिकः सूपकारः यथासमयं उक्त राजादेशं तं राजपुत्रं सद्यः क्षुरिकया अवधीत्।राजदम्पती च कृतार्च्चनौअजानन्तौतन्मांसैः साधितं भोजनमभुञ्जाताम्। सानुतापः ब्रह्मवधेन राजा तां रात्रिं कथञ्चित् नीत्वा प्रातः कुण्डलहस्तमायान्तंतं फलभूतिमद्राक्षीत्। अप्राक्षीच्च विभ्रान्तः कुण्डलोद्दे

शात् तं तत्क्षणम्। अथ तेनाख्यातवृत्तान्तः सद्य एव भूतले पपात चक्रन्द च हा पुत्र! इति भार्य्यां निन्दन् पुनः पुनः।

ततः पृष्टश्चसचिवैर्यथातत्वमवर्णयत् अवोचच्च फलभूतिनोक्तमनुदिनं भद्रकृत् भद्रमाप्नुयादभद्रकृदभद्रमिति प्रायेण अन्यार्थं चिकीर्षितः दोषः आत्मन्येव फलति कन्दुको भित्तिनिक्षिप्तः प्रतिफलन्निव पतति। यदस्माभिः पापात्मभिर्ब्रह्महत्यां चिकीर्षुभिः स्वपुत्रघातनं कृत्वा तन्मांसभक्षणं कृतमिति। इत्युक्त्वास्वान् अधोमुखान् मन्त्रिणः बोधयित्वा तमेव फलभूतिं निजे राज्ये अभिषिच्य अपुत्रः पापशुद्धये दत्तदानः सभार्य्यःअनुशयाग्निना दग्धाऽपि पुनराग्निंप्रविवेश।फलभूतिश्च तद्राज्यं प्राप्य पृथ्वीं शशास तस्मात् भद्रमभद्रं वा कृतमात्मन्येव फलतीति।

इत्येवं कथां कथयित्वा यौगन्धरायणः पुनर्भूपतिमवोचत् राजेन्द्र! यदि जित्वा शुभमाचरतोऽपि तव ब्रह्मदत्तोविकुर्वीत तदा स एव स्वदोषैर्हन्यत एव। इत्युक्तो मन्त्रिमुख्येन वत्सराजस्तद्वचनमभिनन्द्य उत्थाय तद्दिनकर्त्तव्यंसर्वमशेषयत्।अपरेद्युश्चकृतसर्वदिग्विजयस्तस्मात् लावणकात् कौशाम्बीं स्वपुरीं प्रति ससैन्यपरिच्छदः समुदचलत्। क्रमेण च उत्सवपूर्णांउत्पताकां नृत्यन्तीमिव नगरींप्राप्य पौरश्रीनयनोत्पलवने प्रवातारम्भमिव वितन्वन् चारणोद्गीयमानयशाः स्तूयमानश्च वन्दिभिः प्रणम्यमानश्च नृपैः प्रासादमविशत्। ततोऽसौ वत्सेशः विनम्रेषु अखिलेषु राजसु शासनमधिरोप्य पूर्वमधिगतं

कुलोचितं निधिभूतं सिंहासनमारुरोह! क्षणे च तस्मिन् मङ्गलसमाहुत तारधीरतूर्य्यरवप्रतिध्वानैस्तन्मन्त्रिमुख्यपरितोषितलोकपालदत्तैःसमसाधुवादैरिव प्रतिदिशं नभः पुपूर। ततः कृतमहोत्सवः द्विजेभ्यो वसुधा विजयलभ्यंअर्थजातं वितीर्य्यमन्त्रिणश्च कृतार्थानकरोत्। तस्मिंश्चनरेन्द्रेयथायोग्यं वसूनि वर्षति ध्वनद्घनमृदङ्गनिनादपूर्णायांतस्यां पुरि भावि बहुफलं सम्भाव्य सर्वे जनाः प्रतिगृहंकृतमहोत्सवा अभूवन्। इत्थं वसुमतीं विजित्य स यौगन्धरायण-रुमण्वतोर्विनिवेशित राज्यतन्त्रः यथेच्छं वासवदत्तया पद्मावत्या च सह रमते स्म।कीर्त्तिश्रियोरिवतयोर्देव्योर्मध्यगतः स वरचारणगीतयशाः निजयशोववर्ध चन्द्रोदयं सिषेवे पपौ च शत्रुप्रतापमिव सुधारात्रंयथावत्।

इति विंशस्तरङ्गः।

समाप्तोऽयं लावाणको नाम

तृतीयो लम्बकः।
<MISSING_FIG href="../books_images/U-IMG-1722444775Screenshot2024-07-24072147.png"/>

अथ एकविंशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722444793Screenshot2024-07-27173331.png"/>

ततो राजा उदयनः कोशम्ब्यामवस्थितः एकातपत्रां विजितां महीं भुञ्जानः रुमण्वति यौगन्धरायणेच न्यस्त

रात्र्यतन्त्रः वसन्तकसखः सुखैकपरायणः सह वासवदत्तया पद्मावत्या च विहारैकरसः स्वयं वीणां वादयन् सङ्गीतकामसैवत। वाराङ्गनाश्चस्वर्णकलसैरहस्तस्य स्मरराज्याभिषेक इव रागोज्ज्वलं मधु आहरन्। स हि आरक्तसरसस्वच्छंअन्तःस्फुरिततन्मुखंस्वचित्तमिव तयोर्देव्योर्मध्ये आसवंउपनीतवान्। ईर्षारुषामभावेऽपि तयो राज्ञ्योर्मुखेभङ्गुरभ्रुणि सरागे तस्य दृष्टिर्न तृप्तिमगमत्। मधुपूर्णास्फाटिक बहु चषका तस्य पानभूमिर्वालातपारक्तसितपद्मा पद्मिनीव रराज। अन्तरान्तरा च व्याधैः समं पलाशश्यामकच्ञुकः सःधनुर्बाणः स्वयोग्यं मृगकाननं भेजे।जघान च शरैर्मरीचिमालीव करैरविरलैस्तिमिरौघान् पङ्ककलुषान् वराहनिकरान्।तस्मिंश्चप्रधावितेवित्रस्तप्रसृताः कृष्णशाराः पूर्वजितानामाशाना ईर्षाकटाक्षाइव वभुः।महिषघातिनोऽस्य रक्तारक्तामही तच्छृङ्गपातमुक्त्वासेवागतेव वनपद्मिनी विरेजे।व्यात्तवक्तपतत्प्रासप्रोतेषु मृगारिषु सान्तर्गर्जितनिष्क्रान्तजीवितेषु स खलु तोषमवाप। एवं व्यसनेषु समासक्तं तमेकदा सभामण्डपगतं नारदो मुनिरभ्यगात्। स तेन राज्ञा प्रणतेन कृतातिथ्यः क्षणमिव विश्रम्य प्रीतस्तंनृपतिमभ्यधात्। हे वत्सेश्वर! शृणु सङ्क्षिप्तमेतत् ते वदामि।

पुरासीत् पाण्डुरिति नाम राजा ते पूर्वपितामहः। तदेव तस्य द्वेसुन्दर्य्यौभार्य्येवभूवतुः तयोरेको कुन्ती नाम, द्वितीया माद्रीति विश्रुता। स पाण्डुः ससागरामेतां धरां विजित्य कदाचित् सुखपरतन्त्रः मृगयाव्यसनी

वनमगात्। तत्रासौमृगयां चरन् अरिन्दमनामानं मुनिंमृगरूपेण मृग्यां विहरन्तमेकेन पत्रिणा जघान। स तु मुनिः मृगरूपं त्यक्त्वाकण्ठविवर्तिभिः प्राणैस्तं पाण्डुंविषण्णंमुक्तशरासनं शशाप।यस्मात् त्वया निर्विवेकेन स्वैरविहारस्थोऽयं जनः हतः तथा त्वमपि भार्य्यासङ्गमकाले मृत्युमवाप्स्यसीति। इत्येवमाप्तशापस्तद्भीत्या त्यक्तभोगस्पृहः स पाण्डुः पत्नीभ्यां सहितः शान्तेतपोवने बासमकल्पयत्। तत्रस्थोऽपि शापेन तेन प्रेरितः कदाचित् माद्रीं सङ्गन्तुं यावत् प्रववृते तावदेव पञ्चतामगात्। हे नृप! तस्मात् मृगया नाम भूभृतां महान् प्रमादः, अनया अन्येऽपि बहवो नृपा मृगा इव क्षयं नीताः। घोरनादा धूलिधूम्रा आमिषलोभिनी कुन्तदन्ता सा मृगया राक्षसीव कथं शुभं कुर्य्यात्। तस्मात् विफलमायासं जहीहि त्वं पूर्वपुरुषप्रीत्या ममातिप्रियपात्रं पुत्रश्च तव यथा कामांशोजनिष्यते तदाकर्ण्य। पुरा अनङ्गस्य देहोत्पत्तये रत्या स्तुतिभिरर्च्चितः प्रीतः शङ्करः रहसि इदमवादीत् गौरी स्वयं निजांशेनावतीर्य्य पुत्रार्थिनी भूमौ मां समाराध्य कामं पुत्रं जनयिष्यतीति। तस्मात् सा देवी चण्डमहासेनसुता भूत्वा तव महिषी जाता, तदेषा शिवमाराध्य कामांशं सुतं प्रसोथते। स च सर्वविद्याधराणां चक्रवर्ती भविष्यति। इत्युक्त्वाराज्ञासमर्च्चितः स ऋषिस्तत्क्षणाददर्शनं ययौ गते च तस्मिन् राजा वासवदत्तया तया सञ्जातपुत्रकामया सार्द्धंपुत्रचिन्तयैवदिवसमनैषीत्॥

अथान्येद्युरास्थानवर्त्तिनंतं भूपं नित्योदिताख्य प्रतीहारोऽभ्येत्य न्यवेदयत् देव! कापि ब्राह्मणी उत्शङ्कित शिशुयुगला दुःस्था देवदर्शनार्थिनी द्वारि स्थिता तदत्रदेव प्रमाणमिति। तदाकर्ण्य राजा तत्प्रवेशे अभ्यनुज्ञाते सा ब्राह्मणी कृशाङ्गी पाण्डुरधूसराकृतिः मानेनेव विशीर्णेन वाससा समाच्छादितावयवा राजान्तिकमुपेत्य कृतयथोचितविनया व्यजिज्ञपत् देव! ब्राह्मणी कुलीनाचाहं ईदृशींदुर्गतिं गता, दैवाच्च युगपदेतौ मम सुतौ जातौ, तत् देव! नास्ति मे अभुक्तायाः स्तन्यमेतयोरर्भकयोर्जीवनाय। तस्मात् अनाथा दीनाहंशरणागतवत्सशंदेवं शरणमाप्ताः तदत्रदेवः प्रमाणम्। तत्श्रुत्वादयार्द्रचेता राजा प्रतीहारमादिशत् गच्छ इयं देव्यैवासवदत्तायै समर्प्यतामिति।प्रतीहारश्च तां नीत्वा देव्यैसमर्पयामास। देवी वासवदत्ता तां राजप्रेषितांप्रतीहारात् निशम्य विशेषेण श्रद्धया समग्रहीत् व्यचिन्तयच्च युग्मापत्यामेतां पश्यन्ती अहो वामैकवृतित्वं विधातुः, अहो वस्तुनि मात्सर्य्यमहो अवस्तुनि भक्तिः, नाद्यप्येकोऽपि मे जातस्तनयः अस्यास्तु यमौ जातौ? एवं चिन्तयन्ती सा देवी स्ननार्थिनी तस्या ब्राह्मण्याःस्नानादिषु चेटिकां नियुज्य स्वयमपि स्नानादिकमकरोत्। सा च ब्राह्मणी चेटिकाभिः स्नपिता दत्तवसना स्वादु भोजिता च प्रथमाम्बुसिक्तातप्ता भूरिव समुदश्वसत्। एवं समाश्वस्ताश्चतां कथालापैः परीक्षितुं देवी वासवदत्ता समभाषत ब्राह्मणि! भवत्या कापि कथा मम

कथ्यताम्। तदाकपर्ण्यसा तथेत्युक्त्वाकथामेतांवक्तुमारभे।

पूराभूत् जयदत्तोनाम कश्चित् सामान्योभूपतिः। देवदत्तनामा तस्य पुत्रोऽजनिष्ट, स तु राजा योवनस्थस्य तस्य तनयस्व विवाहार्थोचिन्तयामास राजलक्ष्मी रतिचञ्चलावेश्येव बलवद्भिरेव भोग्या, कुलवधूरिवबणिजं लक्ष्मीरनन्यगामिनी स्थिरा दृश्यते, तस्मात् पुत्रस्य विवाहं वणिजां गृहात् दास्यामि येनबहुदायादेऽपि तस्य राज्ये कदाचिदापदो न भविष्यन्ति इत्येवं निश्चित्य पुत्रार्थं सभूपतिः पाटलिपुत्रकात् वसुदत्तनाम्नोवणिजः कन्यां चक्रे। वसुदत्तोऽपि श्लाघ्यसम्बन्धस्पृहया दूरदेशेऽपि राजपुत्राय तां कन्यामदद्यात्। अपूरयच्च धनैर्यौतकैः जामातरम्। ततश्चराजा जयदत्तः तेन अवाप्तबहुधनपत्नीकेन तनयेन सुखमनुभवन् तस्थौ।

अथैकदा वसुदत्तः सम्बन्धिसद्मनि समागत्य कार्य्यान्तरव्यपदेशेन तां सुतां स्वगृहमनैषीत्। ततः सहसाराजा जयदत्तः पञ्चतामगमत्। तद्गोत्रजैश्चदायादैस्तस्य तत्राज्यंबलात् अधिकृतम्। तेषाञ्च दायादानांभयेन राजपुत्रोऽसौ देवदत्तः जनन्यादेशान्तरं निशि अलक्षितमपसार्य्यःनीतः। तत्रसा माता दुःखितमानसा तंराजपुत्रंप्रोवाच वत्स! अस्माकं सम्राट् पूर्वदिगीश्वरः प्रभुरस्ति तदन्तिकं गच्छ, स ते राज्यंसाधयिष्यति। एवमुक्तो मात्रा स देवदत्तस्तां मातरमगादीत् जननि! तत्र निर्धनं निव्यरिकरं मां को बहु मंस्यते? तदाकर्ण्य

माता अब्रवीत् वत्स! प्रथमं श्वशुरस्य गृहंगच्छ ततः तस्मात् धनंप्राप्य परिकरं कृत्वा चक्रवर्त्तिनः सकाशंव्रज। इति मात्रा प्रेरितः स राजपुत्रः सलज्जोऽपि श्वशुरगृहमेव प्रययौ सायञ्चतद्गृहं प्राप। स तु पितृहीनः विनष्टराज्यः लज्जया अकाले तत्र प्रवेष्टुं नाशकत्। अतःनिकटे सत्रवाह्येस्थितः रजन्यां श्वशुरमन्दिरात् रथ्याअवरोहन्तींकामपि स्त्रियमकस्मात् अवलोकयामास। क्षणेन च स्वामेव भार्य्यां रत्नद्युतिसमुज्ज्वलां तामुक्त्वामिवाकाशपतितां प्रत्यभिज्ञाय पर्य्यतप्यत। सापि तं धूसरक्षामं पतिं दृष्ट्वापि अपरिजानती कोऽसीत्यपृच्छत्सोऽपि देवदत्तः पान्थोऽहमिति समब्रवीत्।ततः सःवणिक्सुतातस्या एव सत्रशालाया अन्तःप्रविवेश, राजपुत्रोऽपि तां गुप्तमवेक्षितुमन्वगात्।साचात्रकमपिपूर्वं स्थितं पुरुषमभ्यगात् स तु पुरुषः तां त्वं चिरेणागतासीति पादाघातैरताडयत्।ततः सा पापीयसी ….. तमुपपतिं प्रसाद्य तेन सहिता तत्र यदृच्छया अतिष्ठत्। तद्दृष्ट्वा स राजपुत्रः सुप्रज्ञः कुद्धोऽपि व्यचिन्तयत् कोपस्य नायं कालः अन्यत् कार्य्यंसम्प्रति वर्तते कथमेतत् शत्रुयोग्यं मम कृपाणं एतयोः कृपणयोपरि पात्यते? अलमेतया कुलटया, सर्वदा दुर्विलसितमेतत् मम दौर्भाग्यवलीयसो विधातुः। अतुल्यकुचसम्बन्धस्यैतत्फलं एषा वा कृपया कथमपराध्यति, न हि कालीबलिभुजं सुक्त्वा कोकिले रमते? इत्यालोच्यस तां भार्य्यामुपपतिसहितामुपेक्षत सतां हि गुरुजिगीषे

चेतसि स्त्री तृणमिव। तत्कालञ्च सुरतावेगवशात् तस्या वणिक्सुतायाः श्रवणात् सुरत्नाक्यं विभूषणमस्खलत्। तच्च सा व्यस्ततया न ददर्श, सुरतान्ते च सत्वरा उपपतिमापृच्छ्य यथागतं गृहमयासीत्। प्रच्छन्नकामुकेच तस्मिन् द्रुतं क्वापि गते स राजपुत्रः तत् रत्नाभरणं स्फुरच्छिन्नामण्डलं प्रनष्टलक्ष्मीगवेषणेहस्तदीपमिवाग्रहीत्। महार्घेतदालोक्यस राजपुत्रस्तत्क्षणं सिद्धार्थमात्मानं मन्यमानः तत्क्षणं निर्गत्य कान्यकुब्जं प्रतस्थे। तत्रबन्धकत्वेन तत् रत्नं निधाय स्वर्णलक्षंगृहीत्वा तेन च हत्स्यश्वान् क्रीत्वा चक्रवर्त्तिनः सकाशमगात्। ततश्चतेन चक्रवर्तिना सम्मानितः तद्दत्तैर्बलैः साकं स्वनगरमेत्य रिपून्रणे विजित्य तत् पैतृकं राज्यं प्राप। तच्च रत्नं बन्धात् विनिर्मोच्य श्वशुरान्तिकं तत् रहस्यं प्रकटीकर्त्तुंअशङ्कितं प्राहिणोत्। श्वशुरश्च तदुपागतं स्वसुताकर्णभूषणं सम्भ्रान्तः सुतायै तस्यै समदर्शयत् ।साऽपि पूर्वपरिभ्रष्टंस्वचारित्रमिव तत् समालोक्य भर्त्रा प्रेषितञ्च बुद्ध्वाव्याकुलैव समस्मरत् इदं मे तस्यां रात्रौ सत्रगृहान्तरे पतितं यस्यां तत्र स्थितः कोऽपि पथिको मया दृष्टः। तन्नूनं स मम पतिर्मे शीलं जिज्ञासुश्छलेनाययौ। मयातु स नज्ञातः, तेन च इदं भूषणं प्राप्तम्। इत्येवं चिन्तयन्त्यास्तस्याःवणिक्सुताया दुर्नयव्यक्तिविक्लवं हृदयं कातरमस्फुटत्। ततस्तस्याः पिता रहस्यज्ञांतच्चेटीं पृष्ट्वा स्वयुक्तितः सर्वं तत्त्वं बुद्ध्वाऋचमत्यजत्। राजपुत्रोऽपि

प्राप्तराज्यः गुणार्जितां चक्रवर्त्तितनयां लब्ध्वां भार्य्यामपरां श्रियमिव सुखमवाप।

तदेवं स्त्रीणां साहसे हृदयं वज्रवत् कर्कशं साध्वसावेगसम्पाते तु पुष्पकोमलम्। तासाञ्च काश्चन सद्वंश जाता मुक्ता इव योषितः सुवृत्ताच्छहृदया भुवि भूषणतामुपयान्ति। राजश्रीश्चहरिणीव सदा विल्पविनीं धैर्य्यपाशेन बन्धुं बुधाएव जानते, तस्मादापद्यपि सम्पदर्थिभिः सत्त्वं न त्याज्यं अयमेव मम वृत्तान्तो निदर्शनं येन मया एवं गतोऽपि चारित्रं रक्षितं तच्च भवत्या दर्शनमङ्गलप्राप्त्याअद्य फलितम्। इति तस्या मुखात् ब्राह्मण्यास्तां कथां श्रुत्वा देवी वासवदत्ता सादरा समचिन्तयत् ब्राह्मणीयं कुलवती नूनं अस्या हि भङ्गिः स्वशीलोपक्षेपे प्रौड़िश्च वाचि उदारतां शंसति, राजसभायां प्रवेशे च अस्याः प्रावीण्यं दृश्यते, इति संचिन्त्य सा देवी पुनस्तां ब्राह्मणीमवोचत् ब्राह्मणि। त्वंकस्य पत्नी, कश्च ते वृत्तान्तः कथ्यतां तदाकर्ण्य ब्राह्मणी सा वक्तुमुपचक्रमे।

देवि! मालवे जनपदे अग्निदत्त इति कोऽपि द्विजः लक्ष्मीसरस्वत्यो र्निलय आसीत्। तस्य तु अर्थिभिरात्तधनस्य क्रमात् स्वानुरूपौ द्वौ सुता वभूताम् । तयोर्ज्येष्ठः शङ्करदत्तो नाम अपरः शान्तिकरः। हे यशस्विनि! शान्तिकरः विद्यार्थीवाल एव पितुर्निलयात् निर्गत्य क्वापि गतः ज्येष्ठस्तु मां परिणीतवान् यज्ञदत्ततनयाम्। अथ कालेन स मम श्वशुरः अग्निदत्तः वृद्धो लोकान्तरमगात्। श्वश्रूश्च तमन्वगात्। मद्भर्त्ता च धृतगर्भां मां विमुच्य

तीर्थोद्देशं गतः शोकेन पित्रोर्वियोगजेन सरस्वतीकूले तनुमत्यजत्। वृत्तान्तेचास्मिन् तत्सहगामिभिरेत्य स्वजनेभ्यः कथिते सगर्भया मया नानुगन्तुं लब्धम्। ततो मयि अभिनवपतिवियोगातुरायां अकस्मादेत्य दस्युभिरस्मन्निवासः सकलोऽपि अग्रहारो विल्लण्ठितः। ततश्चाहं तिसृभिर्ब्राह्मणीभिः सार्द्धं शीलभ्रंशभयात् गृहीतस्वल्पवसना पलायिता। विदूरञ्च गत्वा देशं ताभिरन्विता कृच्छ्रकर्म्मोपजीविनी मासमात्रमतिष्ठम्। अनन्तरं अनाथशरणं वत्सेश्वरं लोकतः श्रुत्वा ताभिरेव ब्राह्मणीभिः शीलैकपाथेया इहागतैव प्रसूतास्मि युगपत् द्वौ तमयौ। तदेवं शोको विदेशः दारिद्र्यंद्विगुणश्च प्रसवः अहो विधात्रा मे आपदां द्वारं सममेव विवृतं, गतिश्चामयोर्वालयोवर्द्धमाय नास्तीत्येतदालोच्य लज्जां नारीभूषणं विमुच्य प्रविश्य च राजद्वारं सदसि राजा मया याचितः। कोहि शक्नोति आपन्नवालापत्यार्त्तिदर्शनं कर्त्तुं? तदादेशेन च मया भवत्याश्चरणान्तिकं प्राप्तं विपदश्च मे निवृत्ताः तदेष मम वृत्तान्तः, येन आवाल्यात् अग्निक्रियाधूमैर्मेदृशौ पिङ्गलिते अतोर्नाम्ना अहं पिङ्गलिका हे देवि! स तु देवरः शान्तिकरः विदेशगः कुत्र तिष्ठति इति नाद्यापि ज्ञायते।

एवमुक्तनिजवृत्तान्तायां तस्यां देवी वासवदत्ता तां कुलीनामित्यवधार्य्य प्रीत्या वितर्क्य एवमवादीत् इह वैदेशिकः शान्तिकरो नामास्माकं पुरोहितः स्थितः मन्ये स एव ते देवरो भविष्यति। इत्युक्त्वा उत्कलिकाकुलां तां ब्राह्मणीं, नीत्वा च रात्रिं सा देवी प्रातः शान्तिकरमानाय्य अन्वय-

मपृच्छत्। अदर्शयच्च उक्तान्वयाय तस्मै तां भ्रातृजायां पुत्रवतीम्। अथ विज्ञातवृत्तान्तः बन्धुक्षयार्त्तस्तां भ्रातृजायां शान्तिकरो गृहमनयत्। तत्र च पितरौ भ्रातरश्चानुशोच्य यथोचितं बालकद्वयसहितां तां भ्रातृपत्नीमाश्वासयत्। देवी वासवदत्ता च तस्यास्तौ सुतो भाविनः स्वपुत्रस्य पुरोहितौ पर्य्यकल्पयत्। तयोर्ज्येष्ठः शान्तिसोमः द्वितीयः वैश्वानरर इति नामकरणमकरोत् सा देवी बहुसम्पदा, स्वकर्म्मभिः फलभूमिं नीयमानस्य जन्तो रन्धस्येव स्वपौरुषं हेतुमात्रम्। अथ प्राप्तबहुविभवास्ते तत्र सङ्गता बालकयुगलसहित-ब्राह्मणी-शान्तिकरा अतिष्ठन्।

अथ गच्छत्सु दिवसेषु एकदा पञ्चभिः सुतैः सह शरावान् आदाय आगतां काञ्चित् कुम्भकारिकां दृष्ट्वा देवी वासवदत्ता पार्श्ववर्त्तिनीं तां पिङ्गलिकां ब्राह्मणीमवादीत् सखि पिङ्गलिके! पश्य पञ्चएतस्याः सुताः, नाद्यापि ममैकोऽपि, ईदृश्यपि पुण्यानां पात्रं न मादृशी। ततः पिङ्गलिकाब्रवीत् देवि! दुःखायैव दरिद्रेषु पापभूयिष्ठा प्रजा जायते भूयसी, भवादृशीषु यो जायते सः कोऽपि तादृशः पुण्यवान्। तदलं त्वरया विषादेन च, अचिरेणैव योग्यं सुतमाप्स्यसि। इति पिङ्गलिकयोक्ताऽपि सुत जन्मनि सोत्सुका समभवत्। तदानीञ्च राजा अन्तःपुरमेत्याब्रवीत् देवि! गिरिशाराधनं विना ते पुत्रो न भविता इति नारदोनोक्तं, तद् आशु वरदोऽसौ देवस्त्वया समाराध्य इति राजनियुक्ता सा देवी तत्क्षणं व्रताय

निश्चयमकरोत्। तस्याञ्च गृहीतव्रतायांराजापि मन्त्रिगणसहितः सर्वश्चलोकः शङ्कराराधनव्रतं निदधे।

अथ विभुः शङ्करः त्रिरात्रोपोषितौ तौ दम्पती प्रसादप्रवणीभूय स्वयं स्वप्ने समादिशत् उत्तिष्ठतं युवां युवयोः सुतोऽचिरादेव जनिता यः मत्प्रसादात् विद्याधराणामधीशो भविष्यति। इति वचनमुदीर्य्य चन्द्रमौलौ सपदि तिरोहिते तौ दम्पती प्रबुध्य कृतार्थौअधिगतवरमकृत्रिमं प्रमोदमापतुः। प्रातश्चोत्थाय नरपतिः स्वप्नवृत्तंप्रकृतिषु प्रकाश्य महोत्सवपूर्णः व्रतपारणमकरोत्। कतिपयदिवसान्तेच तस्या देव्याः स्वप्ने कश्चित् जटिलः पुरुषः समागत्य फलमदात्। ततो वत्सेश्वरः तया विनिवेदितस्वप्नवृत्तान्तया निवेदितः मन्त्रिभिरभिनन्दितः शशिमौलिना फलव्याजेन दत्तं सुतं विचिन्त्य मनोरथं समीपगममन्यत।

इति एकविंशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172067557820.png"/>

अथ द्वाविंशस्तरङ्गः।

अथ वासदत्तायाः गर्भोऽभवत्। सा लोलनेत्रेण आपाण्डुना मुखेन शशाङ्केनेव गर्भस्थकामप्रण्यसमागतेन विवभौ। भाविविद्याधराधीश्वर गर्भसेवार्थमागता मूर्त्तिमत्यो विद्या इव सख्यस्तां पर्य्युसासत। सा च गर्भस्थसुताभिषेकायेव पल्लवाच्छादितमुखौ कलसाविव श्याममुखौपयोधरौ बभार। स्वप्ने च सरसारब्धसङ्गीता

विद्याधर्य्यःतामाकाशस्थितामुपतस्थिरे। सा तु प्रबुद्धातदेव नभः क्रीड़ाविलसितं साक्षात् सेवितुमभिलाष। यौगगन्धरायणश्च तं तस्या दोहदं मन्त्रयन्त्रेन्द्रजालादिप्रयोगैः समपूरयत्। सा च तै स्तैःप्रयोगैर्गगनस्थिता खेचरीव पौरनारीजनानां कौतुकमादधाना विजहार। एकदा वासगृहस्थितायास्तस्या हृदि विद्याधराणामुदाराः कथाः श्रोतुं कौतूहलमजनि। ततस्तत्र देव्या अभ्यर्थितो यौगन्धरायणः शृण्वत्सु सर्वेषु कथामेतामभाषत।

देवि! अस्ति हिमवान् नाम गौरीजन्मदाता पर्वतराजः। तस्मिंश्च विद्याधरनिवासे जीमूतकेतुर्नाम विद्याधराधिपः प्रतिवसतिस्म। तस्य गृहे पितृक्रमागतः कल्पवृक्ष आसीत् येन यदा यदसौ कामयतेस्म तत्क्षणादेव तदनेन प्रसूयते। कदाचिदसौराजा उद्याने देवरूपिणं तमभ्युपेत्य कल्पतरुमयाचत हे देव! सर्वदास्माभिस्त्वत्तः सर्वमभीप्सितं प्राप्यते, तदपुत्राय मे एकं गुणवन्तं पुत्रं देहि। ततः कल्पतरुरवादीत् राजन्! उत्पत्स्यते तव पुत्रः जातिस्मरो दानवीरः सर्वभूतहितङ्करः। तदाकर्ण्य स राजा सम्प्रहृष्टः तं प्रणम्य गत्वा स्वां प्रियां निवेद्य समनन्दयत्। अथ अचिरादेव तस्य राज्ञः सुतोऽजायत। पिता च नाम्ना तं जीमूतवाहनं चक्रे। ततः स महासत्त्वः जीमूतवाहनः नैसर्गिक्या सर्वभूतानुकम्पया सहवृद्धिमगमत्। क्रमाच्च यौवराज्यस्थः स विजने परिचर्य्यया प्रसादितं पितरं व्यजिज्ञपत् तात! ज्ञायते भवेऽस्मिन् सर्वे भावाः क्षणभङ्गुराः, केवलमेकं यश एव महतामाकल्प-

स्थिरम्। परोपकारसम्भूतं तद् यदि लभ्यते तदा किमिव न लब्धम्? या च सम्पत्, सा विद्युदिव केवलं लोकलोचनखेदाय, परेषामनुपकारिणी। तदेषः योऽस्माकं कामदः कल्पतरुरस्ति एष चेत् परार्थं विनियुज्येत तदा महत् फलं लब्धंभभेत्। अहन्तु तथा कर्तुमिच्छामि यथा एतस्य समृद्धिभिः सर्वे अर्थिनः अदरिद्रा भवन्तीति। इति पितरं विज्ञाप्य तदनुज्ञामवाप्य च स जीमूतवाहनो गत्वा तं कल्पपादपमब्रवीत् देव! त्वमस्माकं शश्वदभीष्टफलदः,तदेकमद्य मम वाञ्छितं पूरय, इमामखिलां पृथिवीमदरिद्रांकुरुष्व। स्वस्ति अस्तु ते, धनार्थिभ्यो लोकेभ्यः प्रदत्तोऽसि। इत्युक्तस्तेन धीरेण कल्पवृक्षः भूतले भूरि भूरि कनकं ववर्ष। प्रजा निखिलाः समृद्धा ननन्दुः। जीमूतवाहनादन्यः को दयालुः, यः कल्पवृक्षमपि अर्थिसाच्चकार। इतिजातानुरागासु दिक्षु विदिक्षु च जीमूतवाहनस्य उच्चैर्यशः पप्रथे। तत्र समत्सरा स्तद्गोत्रजा स्तस्य जीमूतकेतोर्वद्धमूलं राज्यं दृष्ट्वा विकृता दानक्षयित कल्पवृक्षं तं निष्प्रभावं सुजेयं मेनिरे। ततः सम्भूय युयुत्सुषु तेषु स धीरो जीमूतवाहनः पितरमेत्याब्रवीत् पितः। यदा इदं शरीरं जलबुद्बुदसन्निभं, तदा प्रवातदीपचपलाः श्रियः कस्य कृते? ताश्चान्योन्योपमर्द्देन को मनस्वी अभिवाञ्छति? तस्मात् मया एतैर्गोत्रजैः सहः न योद्धव्यं प्रत्युत राज्यं मुक्ताक्वापि वनं गन्तव्यम्। कृपणा एते तिष्ठन्तु, स्वकुलक्षयो माभूत्। इत्युक्तवन्तंपुत्रं जीमूतकेतुः समभाषत पुत्र! मयापि वनं गन्तव्यंवृद्धस्य मम का स्पृहा। तृण इव

त्यक्ते राज्ये यूनापि कृपालुना त्वया?। इत्युक्तवतापित्रा जनन्याच सह स जीमूतवाहनः मलयाचलं जगाम। तत्र पित्रोः परिचर्य्यापरः सिद्धानामावासे चन्दनतरुसमाच्छन्ननिर्भरे अतिष्ठत्।

अथैकदा वशी सिद्धाधिराजस्य विश्वावसोः सुतो मित्रावसुस्तस्य जीमूतवाहनस्य मित्रमभवत्। स चैकदा ज्ञानी जीमूतवाहनः तत् स्वसारं कन्यकां जन्मान्तर प्रियतमामेकान्तेददर्श। तत्कालञ्च तयोर्यूनोस्तुस्थमन्योन्यदर्शनं मृगीद्वन्द्ववागुराबन्धसदृशमभृत्। एकदा प्रीतोमित्रावसु स्त्रिजगत्पूज्यं तं जीमूतवाहनमभ्येत्य अकस्मादवादीत् सखे! मलयवती नाम मम कनीयसी स्वस्राअस्ति तामहं तुभ्यं दातुमिच्छामि ममेच्छां मान्यथाकुरु।तदाकर्ण्यसोऽपि जगाद जीमूतवाहनः। सखे! सा तव कनीयसी पूर्वस्मिन् जन्मनि ममैव भार्य्या आसीत् त्वमपि तत्रैव पूर्वे जुनने मम द्वितीयं हृदयमिव सुहृदासीः। अहञ्च जातिस्मरः, सर्वं पूर्वजम्प्रवृत्तं स्मरामि। इत्युक्तवन्तं तं मित्रावसुरुवाच सखे! जन्मान्तरकथां तावत् कथय परं कौतुकं मे वर्त्तते। ततः सुकृतीजीमूतवाहनः पूर्वां कथामकथयत्।

पूर्वमहं व्योमचारी विद्याधर आसम्। कदाचित् हिमालयशृङ्गमार्गेण खे चरन्तं मां अधःस्थितः क्रीड़न्गौर्य्या सह गौरीपतिरुल्लङ्घनेन कुपितः मर्त्त्ययोनौ पतेति शशाप। ततश्च विद्याधरीं भार्य्यां प्राप्य स्वपदे सुतं नियोज्य स्सृतजातिः पुनः वैद्याधरीं योनिमाप्स्यसीति एवं

शापान्तमुक्ता विरते तस्मिन् शर्वे तिरोहिते अचिरेणैवहंभूतले वणिजां कुले वल्लभीनगर्य्यां महाधनस्य वणिजः सुतोऽभवं वसुदत्तो नाम। कालेन तारुण्यमापन्नः पित्रा कृतपरिच्छदः वाणिज्यार्थं द्वीपान्तरमगमन्। तत्राटव्यांगच्छन्तंमां तस्कराः सन्निपत्य हृतसर्वस्वं बद्ध्वा स्वपल्लींक्षण्डिकागृहमनयन्। तत्र चाहं देवीं पूजयतः पुलिन्दकनाम्नः प्रभोरन्तिक मुपहारार्थ मुपनीतः। स तु शवरोदृष्ट्वैव मामार्द्रहृदयोऽभवत्। शंसति हि जन्मान्तरप्रीतिमकारणं स्रिह्यन्मनः। ततः शवराधिपः मां बन्धनात् मोचयिस्वा आत्मोपहारेण पूजासमापनं कर्त्तुमैच्छत्। अथमैवं कुरु, प्रसन्नास्मि ते याचस्वाभिमतं वरं इतिदिव्यया वाचोक्तश्च एवमवादीत् देवि! त्वं प्रसन्ना, अतोऽन्यो वरः कः? तथाप्येतदर्थये, जन्मान्तरेऽपि अनेन वणिजा सह मेसख्यमस्तु इति। एवमस्तु इति उक्ता विरतायां दिव्यवाचि स शवरः मां प्रदत्तविशिष्टार्थंनिजं गृहं प्राहिणोत्। ततश्च मृत्युमुखात् प्रवासात् प्रत्यागते मयि स मम पिता ज्ञातवृत्तान्तः महोत्सवमकार्षीत्।

अथ कालेन तत्र नगर्य्यां सार्थावलुण्ठनात् अवष्टभ्य राज्ञा आनायितं तमेव शवराधिपमपश्यम्। तत्क्षणञ्च मया पितरमावेद्य महीपतिं विज्ञप्यच स्वर्णलक्षेण वधनिग्रहात् सः मोचितः। एवं प्राणदानोपकारस्य प्रत्युपकारं कृत्वा प्रीत्या तं गृहमानीय सम्यक् सुचिरमहं सम्मानितवान् सेवितवांश्च। ततः सत्कृत्य प्रेषितः सः प्रेमार्द्रं हृदयं निधाय स्वां पल्लींप्रत्याययौ। तत्र च गतः सः

मम प्रत्युपकारार्थं प्राभृतं चिन्तयन् स्वाधीनं मुक्ताकस्तूरिकादिकमपि स्वल्पं मत्वा धनुर्द्वितीयः मदर्थं महामूल्यं मुक्ताहारमाहर्त्तुंगजानां निधनाय हिमाचलं प्रायात्। तत्र च भ्रमन् तीरस्थदेवागारं महत् एकं सरः प्राप्य तदम्बुपानार्थं वन्यहस्तिनामागमं विशङ्क्य प्रच्छन्नस्तदेकान्ते तेषां जिघांसया सचापस्तस्थौ। ददर्श च क्षणे तस्मिन् तत्सर स्तीरवर्त्तिनं हरं पूजयितुं कामपि अद्भुताकारां सिंहवाहनां कुमारींतुषाराद्रिसुतामिवापरं शम्भुपरिचर्य्यया समागताम्। दृष्ट्वैव विस्मयाविष्टः स शवराधीशःसमचिन्तमत् केयं यदि मानवी कथं तत् सिंहवाहना, अथ दिव्ययोषित् कथं मादृशैर्दृश्या, अथवा चक्षुषोर्मम पूर्वजन्मकृतपुण्यानां परिणतिरियम्। यदि अनया तं मम मित्रं योजयितुं शक्नुयां ततः कापि अन्यविधा प्रत्युपकृतिः कृता स्यात् तदेतां तावत् उपसर्पामि प्रष्टुं वरमित्यालोच्य यावत् स मे मित्रंशवरस्तामुपाययौ, तावत्सा च सिंहादवतीर्य्य सरःपद्मानि अवचेतुमुपचक्रमे। अन्वरञ्जयच्च तमन्तिकप्राप्तं कृतानतिमपूर्वं शवरं अतिथिंबुद्ध्वा स्वागतेन। कस्त्वं कथमिमामतिदुर्गमां भूमिमागतोऽसीति पृष्टवतीञ्च तां स शवरः प्रत्यवादीत् देवि! अहं भवान्याश्चरणशरणः कश्चित् शवराधिपः, मातङ्गमुक्ताहेतोरिदं वनमागतोऽस्मि। त्वाञ्च दृष्ट्वामम प्राणप्रदः सुहृत् सार्थवाहतनयः वसुदत्तः मया स्मृतः। सुन्दरि! स हि त्वमिव रूपेण यौवनेन च विश्वस्य अद्वितीयो नयनामृतनिर्झरः। सैव धन्या कन्या लोके, यस्यास्तेन मैत्री-

दानदयाधैर्य्यनिलयेन कङ्कणवान् करः गृह्यते। तदेषा भवत्या आकृतिस्तादृशेन न युज्यते चेत् व्यर्थं वहति कामः कोदण्डमिति मे मतिः।

इत्येवं व्याधराजवचनैः सद्यः समाकृष्टमानसा सा कुमारी तत्क्षणमेव कन्दर्पवशवर्त्तिनी समभवत्। उवाचतं शवराधिपं क्व ते स सुहृत् आनीय दर्श्यतामिति। तदाकर्ण्य स तदैव तामान्त्र्यकृतार्थन्मन्यः सम्प्रहृष्टः प्रत्यागमत् स्वपल्लीम्। आगत्य च स्वगृहं गृहीत्वा च भूरिभारि शतैर्वाह्यं मुक्तामृगमदादिकं मम गृहमाययौ। सर्वैश्च पुरस्कृतस्तत्र प्रविश्य सर्वं तत् प्राभृतं बहुस्वर्णलक्षणमूल्यं मम पित्रे समर्पयत्। ततश्चोत्सवेनैव दिने याते रात्रौ रहसि स मे सखा कन्यादर्शनवृत्तान्तमामूलादवर्णयत्। एहि तत्रैव गच्छावः इत्युक्त्वा स समुत्सुकमना मामादाय तस्यामेव निशि स्वैरं प्रायात्। प्रातश्चमां क्वापि गतं शवरेण बन्धुना सह बुद्ध्वा तत् प्रत्ययाच्च धृतिमालम्ब्य मम पिता तस्थौ। स च मया सह क्रमात् तुषाराचलमति त्वरया प्रापत्। तच्च सरः प्राप्य स्नात्वा सायं स्वादुफलभुजौ आवां तस्मिन् वने तां निशामनयाव।

अथापरेद्युःप्रतिपदमुत्कलिकाकुलेन तन्मार्मधाविनामनसा प्रत्युद्गतेव दक्षिणेन दिदृक्षयेव स्फुरता चक्षुषा सूचितागमना सा कन्या सटातसिंहवाहिनी शरदम्भोधरोत्सङ्गसङ्गिनीव चन्द्रकला यथासमयमागमत्। उल्लसद्विस्मयौत्सुक्यसाध्वसं पश्यतश्च तां मम हृदयं कथमिवाभूत् तत्कालं न जाने। अथ सा कन्यका सिंहादवतीर्य्य पुष्पाणि

उच्चित्यसरसि स्नात्वा तत्तीरगतं हरमपूपूजत्। कृतपूजाञ्च तामुपेत्य कृतादरां मम सुहृत् स शवरराजः प्रणम्य आत्मानमावेद्य अवोचत् देवि! स मम सुहृत् तव योग्यो वर आनीतः। यद्यनुमन्यसे तदधुना तं तुभ्यं दर्शयामि। तदाकर्ण्यदर्शयेत्युक्ते तया स शवरः मामुपेत्य नीत्वा मां तदन्तिकं तामदर्शयत्। सापि मां सप्रणयेन चक्षुषा तिर्य्यगालोक्य मदनावेशवशा तं शवरमभ्यधात्। सखायं ते न मानुषः, कोऽप्ययं देवो मद्वञ्चनाय अद्य समागतः, न हि मर्त्त्यस्यैवंविधा आकृतिः। तदाकर्ण्य अहमुक्तवान् सुन्दरि! सत्यमहं मर्त्त्यः, त्वां प्रत्याययितुं ब्रवीमि, आर्जवसम्पन्ने जने व्याजेन किम्? अहं वल्लभीवासिनः साथवाहप्य महाधनाख्यस्य महेश्वरवरार्जितस्तनयः। स मम पिता पुत्रार्थं तपस्यन् महेशमाराधयन् तेन भक्तानुकम्पिना स्वप्ने एवमुक्तः उत्तिष्ठ, जनिष्यते कोऽपि महात्मा तव पुत्र इति। एतत् श्रुत्वा प्रबुद्धस्य मम पितुः कालेनाहं वसुदत्तो नाम पुत्रो जातः। अयञ्चशवरपतिर्मया देशान्तरगतेन स्वयम्वरसुहृत् कृच्छ्रैकबान्धवः प्राप्तः। एष तावत् मम तत्त्व संक्षेप इत्युक्ता मयि विरते सा कन्या लज्जावनतमुखी समभाषत अस्त्येतत् माञ्चाद्य स्वप्ने कृतार्च्चनां महेशानः समादिशत् प्रातः प्राप्स्यसि भर्त्तारमिति तस्मात् त्वं मे भर्त्ता, अयञ्च तव सुहृत् मम भ्राता इति वागमृतेन मामभिष्टष्य विरताभवत्। ततस्तयासाकंविवाहाय यथाविधि सम्मन्त्र्यसमित्रो निजं गृहं गन्तुमवधारितवान्। सा च इङ्गितेन वाहनं सिंहमाहूय

अत्र उपविश आर्य्यपुत्र! इति मामवोचत्। अहञ्च तेन सुहृदा शवरेण समनुज्ञातः सिंहमारुह्य दयितां तामुत्सङ्गे गृहीत्वा कृतार्थः गृहं प्रति प्रस्थितवान्। सुहृञ्च मम पुरःसर एव चलितः। क्रमेण च वयं शवराधीश शरनिर्भिन्नहरिणमांसवृत्तयः सर्वे वल्लभीं पुरीं प्रापिम। तत्र मां सिंहारूढ़ं सदयितमागतं दृष्ट्वा साश्चर्य्याः सर्वे मम पित्रे समब्रुवन्। सोऽपि मत्पिता सविस्मयः प्रत्युद्गम्य हर्षादवतीर्णं मृगेन्द्रात् पादप्रणतं अभ्यनन्दत्। मुमुदे च भृशं तामनन्यसदृशीं कृतपादाभिवन्दनां ममोचितां भार्य्यापश्यन्। ततश्च गृहं प्रवेश्यास्मान् वृत्तान्तंपरिपृच्छ्यच शवराधीश सौहार्द्दं प्रशंसन् महोत्सवमकार्षीत्। ततो दैवज्ञनिर्णीते शुभेऽहनि समागताखिलबन्धुरहं तां वराङ्गनां परिणीतवान्। तदालोक्य च स सिंहः सहसा सर्वेषु पश्यत्सु पुरुषाकृतिरभवत्। किमेतदिति समुत्सुके तम्मिन् जनसङ्घेस दिव्यवसनाभरणः पुमान् मामेव मयादीत्। अहं चित्राङ्गदो नाम विद्याधरः, इयञ्च मम मनोवती नाम प्राणाधिकप्रिया तनया, एनामङ्केकृत्वा सदा विपिनेच भ्रमन्नहं एकदा तीरतपोवनां गङ्गामनुससार। तपस्विलङ्घनभयात् तां त्यजतोऽपि मम दैवात् पुष्पमाला तदम्भसि पपात। अन्तर्जलस्थितश्च नारदस्तपोधनः सहसा पृष्ठे पतितया तया भृशं क्रुद्धः मामशपत् पाप! अनेनौद्धत्येन सिंहो भव, हिमाचलस्थश्च एतां सुतां पृष्ठेन वोढ़ासि, यदा च एषा मानुषेण परिणेष्यते, तदा तद्दर्शनादेव, शापादस्मात् विमोक्ष्यसे। ततः प्रभृति अहं सिंहो भूत्वा

हिमाचले हरपूजापरां तनयामिमां वहन्नतिष्ठम्। अनन्तरं यथा शवराधिपतेर्यत्नात् इदं कल्याणं सम्पन्नंतत् तव विदितमेव, तदहं साधयामि भद्रमस्तु ते, अद्य स मे शापस्तीर्णः इत्युक्ता स विद्याधरो नभः समुदपतत्। ततस्तद्विवरणेन विस्मयान्वितः श्लाघ्यसम्बन्धे न सम्प्रहृष्टः पिता मम नन्दत्सु स्वजनबान्धवेषु महोत्सवं व्यधात्। अचिन्त्यं हि निर्व्याजमित्राणां चरितं, ये पुनः प्राणैरुपकृत्यापि सुहृत्सु न तृप्यन्ति। इत्येवं तत्रसर्वोजनः शवराधिपतेश्चरितं ध्यायन् ध्यायन् सचमत्कारमभ्यधात्। राजापि तत्रस्थः तस्य सदाशयस्य शवरपतेस्तत् चरितं विदित्वा आमत्स्नेहेन च परं प्रीतिमवाप। तुष्टश्चमत्पितुरभ्यर्थनया सहसैवतस्मै शवरनाथाय रत्नोपायनदायिने अशेषमटवीराज्यमदात्।

ततोऽहं तया मनोवत्या कान्तया तेन च मित्रेण शवरराजेन कृतार्थः सुखमवात्सम्। स च शवरराजः श्लथीकृतस्वदेशवसतिर्भूयसा अस्मद्गृहेष्वेव न्यवसत्। इत्थंपरस्परमनुरागवहचेतसोर्मम तस्य च शवरस्य मित्रयोरुभयोः परमेणेव सुखेन कालोऽतिजमाम। अचिराच्चमनोवत्यां तस्यां सर्वजनहृदयानन्दनः सुतोऽजनि। स च हिरण्यदत्तनामा क्रमेण कृतविद्यः यथाविधि कृतोद्वाहश्च वृद्धिमाययौ। तद् दृष्ट्वा च वृद्धौमत्पितरौ जीवितफलं पूर्णं मत्वा देहत्यागाय भागीरथीमगच्छताम्। अहन्तु पितृशोकार्त्तः कथञ्चित् बान्धवैर्धृतिं ग्राहितो गृहभारमुदवहम्। एकतो मनोवत्या मोहनमुख-

चन्द्रदर्शनं अन्यतः शवरेन्द्रसङ्गतिः मां स्वयमेव भृशमनन्दयत्।

एवं गच्छत्सु कालेषु क्रमेण जरया क्रान्तकलेवरोऽहं पुत्रंकुटुम्बभरणयोग्यं दृष्ट्वा तस्मिन् भारं निवेश्य च सदारो वनं गन्तुमिच्छन् कालिञ्जरंगिरिमगमम्। सखा च स मत्स्नेहेन त्यक्तराज्यस्वजनः मामेवान्वगच्छत्। तत्र गतस्यैव मम स शर्वविहितः शापः आत्मीया वैद्याधरी जातिश्च सहसा स्मृतिपथमाययौ। तदानीञ्च पत्र्यैमनोवत्यै सख्ये च शवरेन्द्राय तत्सर्वमाख्याय मानुषीं तनुं मुमुक्षुः इमे एव भार्य्यामित्रे मम स्मरतो भूयास्तामन्यजन्मनि इत्युक्त्वा हृदये शङ्करमनुस्मृत्य तस्मात् गिरितटात् सहपत्नीमित्रो निपत्य प्रसभं शरीरमत्यजम्। सोऽहं नाम्ना जीमूतवाहनः विद्याधरकुले जातिस्मरः समुत्पन्नः। स च शवरेन्द्रस्त्वं शर्वप्रसादात् सिद्धराजस्य विश्वावसोः सुतो मित्रावसुः जातः। या च मम भार्य्या मनोवती नाम विद्याधरी, सैव तव स्वसा मलयवती संजज्ञे। तदेवं ते भगिनी मम पूर्वपत्नी त्वञ्च मम पूर्वमित्रं तस्मात् युक्ता परिणेतु मसौ मम, किन्तु पूर्वमिदं गत्वा मम पित्रोर्निवेदय, तयोर्मतेन च एतत् समीहितं पेत्स्यतीति।

इत्थंनिशम्य मित्रावसुः प्रीतमनाः गत्वा तत्पितृभ्यां तत् कथयामास। ताभ्यामभिनन्दितश्च संहृष्टः स्वपित्रोर्निवेद्य सत्वरं स्वसुर्विवाहोद्योगमकरोत्। ततो जीमूतवाहनः सिंहराजसत्कृतस्तस्या मलयवत्याः पाणिं

जग्राह। तत्र च महान् विद्याधराणां महोत्सवः समभवत्। कृतोद्वाहश्चस जीमूतवाहनः महाविभवसम्पन्नःबध्वा सह तस्मिन् मलयाद्रौ समवस्थितः एकदा श्वशुरसुतेन मित्रावसुना सह जलधेर्वेलावनानि अवलोकयितुमगात्। अपश्यच्च तत्र युवान मुद्विग्नंहापुत्र इति क्रन्दन्तीं जननीं निवर्त्तयन्तं अपरेण भटेनेव अनुयायिना पुरुषेण पृथूत्तुङ्गं शिलातलं प्रापय्य परित्यक्तं पुरुषम्। जीमूतवाहनेन तु कस्त्वं किमीहसे, कथञ्च ते माता त्वामनुशोचति इति पृष्टे सोऽपि तस्मै वृत्तान्तमब्रवीत्।

पुरा कश्यशस्य प्रजापतेर्द्वे भार्य्येकद्रुर्विज्ञतास्ताम्। ते च परस्परं कथाप्रसङ्गेन विवादंचक्रतुः। प्रथमा रवेरश्वान् श्यामानवादीत् द्वितीया सितानिति। एवं विवदमाने च पराजये अन्योन्यदास्यं पणं वबन्धतुः। ततो जयार्थिनी कद्रुः निजात्मजैः नागैः अर्कस्य अश्वान्विषफुत्कारमलिनान् अकारयत् चकार च दासींतादृशांश्च तान् प्रदर्श्य कपटजितां विनताम्। तद् विदित्वा गरुड़ः विनतासुतः सान्त्वेन मातुर्दासत्वमुक्तिं विमातरं कद्रुमयाचत। ततः कद्रुसुता नागा विचिन्त्य तमब्रुवन्वैनतेय! क्षीराब्धिर्मथितुमारब्धो देवैः, त्वं तम्मात् सुधां समाहृत्य नः प्रतिदानं प्रयच्छ, मातरं गृहाण च। एतत् नागानां वचनं निशम्य गत्वा च क्षीरोदं सुधार्थं महान्तं पराक्रममदर्शयत्। तेन च पराक्रमेण परितुष्टो भगवान्नारायणः स्वयं तमादिदेश तुष्टोऽस्मि खगराज! वरं क्वञ्चित्वृणीष्वेति स तु गरुड़ः मातुर्दास्येन कोपितः

नागा मे भक्ष्याभवन्तु इति वरं वव्रे। तथेति हरिणा दिष्टो निजवीर्य्यार्जितामृतः सः ज्ञातवृत्तान्तेन शक्रेण एवं गदितः पक्षीन्द्र! त्वया तथा कार्य्यं यथा मूढैर्नागैः सुधा न पीयते, अहमपि शीघ्रं गत्वा एतां प्रत्याहरामीति।

एतदाकर्ण्य तथेत्युक्त्वा स गरुड़ः सुधाकलसमादाय नागानुपाययौ। जगाद च तान् वरप्रभावमुग्धान्, एतदानीतममृतं, मातरं मे मुक्त्वा गृह्यताम्। यदि युष्माकमप्रत्ययः तदा एतदहं दर्भसंस्तरे स्थापयामि, मातरं मोचयित्वा गच्छामि यूयं सुधां गृह्णीत। तथेत्युक्ते तैर्नागैः स पवित्रे कुशे सुधाकलसमस्थापयत् ते चास्य जननीं तत्यजुः। एवं दास्यात् मुक्तायां मातरि गते च गरुड़े यावत् ते नागा निःशङ्कममृतं आदातुमुद्यतास्तेतावत्निपत्य सहसा स्वशक्तितस्तान् विमोह्य शक्रः कुशसंस्तरात्तं सुधा कलसं जहार। अथ विषणस्ते नागा अस्मिन्अमृतश्चेत् , लेपोऽप्यस्तीति कृत्वा तं दर्भसंस्तरं लिलिहुः प्रापुश्च तेन पाटितजिह्वा वृथैवद्विजिह्वतां किमिव हि लुब्धानां हास्यादृतेऽन्यत् फलम्।

अथ तार्क्ष्यःहरेर्लब्धवरः पुनः पुनर्निपत्य पूर्ववैरानुबन्धेन अलब्धामृतरसान् तान् नागान् भोक्तुं प्रववृते।तस्य आपाते च रसातलं वासनिर्जीवराजिलं प्रभ्रष्टगर्भिणीगर्भं क्षपितपन्नगमभूत्। अनुदिनञ्चेतदालोक्य भुजगेश्वरो वासुकिः कृत्स्नंनागलोकमेकपदे नष्टं मन्यमानः तस्य च गरुत्मतः दुर्वारवीर्य्यतां विचिन्तयन् प्रार्थना-

पूर्वमेवं समयं चकार। हे पक्षीन्द्र! तव आहारार्थं प्रत्यहमेकमेकं नागं अहं पयोधि पुलिनवर्त्तिनि अचत्वे प्रेषयामि, त्वयातु पाताले नैव प्रवेष्टव्यं एकदैव सर्वस्मिन् क्षयिते तवैव स्वार्थहानि भवेदिति। एवंवासुकिना अभ्यर्थितः पक्षीन्द्रः तथेति प्रतिज्ञाय ततः प्रभृतिअन्वहं तत्प्रेषितं एकैकं नागं भक्षयति। क्रमेण असंख्याः पन्नगाः क्षयं नीताः। अद्य तु शङ्खचूड़नाम्नो मम वारः, तस्मादहं नागराजादेशात् गरुड़ाहारार्थ मिमां बध्य शिला मायातो मातुश्च शोच्यता मिति।

इति तस्य शङ्खचूड़स्य वचः श्रुत्वा सोऽन्त दुःखितः जीमूतवाहन स्तमभाषत अहो! वत वासुकेः किं निःसत्वं राजत्वंयत् स्वहस्तेन प्रजा रिपोरामिषतां नीयन्ते। प्रथम मेव तेन किमात्मैव गरुत्मने न दत्तः क्लीवेन केयं स्वकुलक्षयसाक्षिता अभ्यर्थिता। तार्क्ष्यश्चकश्यपात् उत्पद्य कथमिदं पापं कुरुते, देह मात्रार्थं कथमयं महतामपि मोहः। तदहं तावदद्य त्वां गरुत्मतो रक्षामि स्वशरीरप्रदानेन मा विषादं कुरु। तदाकर्ण्य शङ्खचूड़ोऽपि धैर्य्यात् तमुवाच शान्तं पापं महासत्त्व! मैवं वद नहि काचस्य कृते मुक्तामणेः क्षतिर्युज्यते। नचाहं कुलकलङ्कितां कथांसोढुं शक्तुयाम्। एवमुक्त्वा स साधुर्नागः जीमूतवाहनं निषिध्य क्षणान्तरगामिनीञ्च गरुड़वेलांमत्वा वारिधेस्तीरवर्त्तिनं गोकर्णाख्यं शिवं नमस्कर्त्तुं अस्तकाले जगाम। गतेच तस्मिन् स कारुण्यनिधिः जीमूतवाहन स्तस्य प्राणाय आत्मदानस्य

अवसरं मन्यमानः स्वयुक्तितः विस्मृत मिवात्मानं प्रदर्श्यकार्य्यान्तर व्यपदेशेन निजं मित्रं मित्रावसुं गृहं प्राहिणोत्। क्षणेच तस्मिन् समासन्न तार्क्ष्यंपक्षानिला हता सा भूस्तत् सत्त्वदर्शनाश्चर्य्यादिव अकम्पत। तेन च नागरिषु मायान्तं मत्वा स जीमूतवाहनः परानुग्राहकस्तां बध्यमिलामारुरोह। क्षणाच्च तत्रनिपत्यपक्षीन्द्रस्तं महासत्त्व माहत्य चञ्च्वाजहार। गृहीत्वा च स्रवदसृग्धारंच्युतोत्खातशिखामणिं गिरिशिखरं नीत्वा भक्षयितुं प्रावर्त्तत। तत्कालच्च नभस्तलात् पुष्पवृष्टिः पपात। तद्दर्शनाच्च किमेत दितितार्क्ष्योविसिस्मिये। तावच्च स शङ्खचूड़स्तं गोकर्णं नत्वा समानतः बध्यशिलातलं रुधिरासारसिक्त मद्राक्षीत् हा धिक्! मदर्थं तेन महात्मना। नूनमात्मा दत्तः, तत्कुत्र नीतस्ताणर्क्ष्येण सम्प्रति भविष्यति यावदन्विष्यामि इति विविच्य स साधुस्तद्रक्तधारा मनुसरन् ययौ।

अत्रान्तरे च हृष्टं तं जीमूतवाहनं दृष्ट्वा गरुड़ःभक्षणाद् विरतः सविस्मयं अचिन्तयत् कच्चिदसौ अन्यः कोऽपि, यो मया भक्ष्यमाणोऽपि अविपद्य प्रत्युत हृष्यति। इति विमृशन्तं तां तादृगवस्थोऽपि स जीमूतवाहनः स्वाभीष्टसिद्धये जगाद, पक्षिराज! ममाद्यापि शरीरे मांसशोणितं वर्त्तते, तृप्तिं पश्यामि च न ते, तत् कस्मादकस्मात् भक्षणात् विरतोऽसि। तदाकर्ण्य साश्चर्य्यः पक्षिराड़् अब्रवीत् हे साधो! त्वं तावत् न नागः, ब्रूहि को भवानिति। नाग एवास्मि भुङ्क्ष्व मामिति यावत्

तं जीमूतवाहनः प्रत्युवाच तावत् स शङ्खचूडः दूरात्प्राप्त स्तमभाषत गरुत्मन्! मा तावत्, नैष नागः,नागोह्यहमागतः, मुञ्च एनं कोऽयं अकाण्डे एवं महान् भ्रमः सञ्जातः। तदाकर्ण्य खगराजोऽतीव विस्मितः समभवत् भेजे च जीमूतवाहनः स्ववाच्छित सिद्धिविघ्नखेदम्। ततो गरुड़ः परस्परालापेन मोहात् तं विद्याधराधिपंभक्षितं व्रुद्ध्वाअन्वतप्यत अहो! वत नृशंसस्य मम सुमहत् पातक मापतितं अथवा उन्मार्गगामिनः सुलभपापाभवन्त्येव। श्लाघ्यस्तु अयमेक एव महात्मा येन परार्थप्राणदायिना विश्वमिदं मोहवणं अधःकृतम्। इति चिन्तयन्तं पापशुद्धये वह्निं विविक्षुमालक्ष्य जीमूतवाहनः समभ्यधात् पक्षीन्द्र! किं विषीदसि, सत्यं पापाद् विभेषि चेत् तदा अतःपरं ते भुजङ्गा न भक्ष्याः पूर्वभुक्तशेषु च पन्नगेषु अनुशयः कार्य्यः, एष एव ते प्रायश्चित्तंअन्यत् चिन्तितं वृथा। इत्युक्तः तेन सर्वभूतानुकम्पिना जीमूतवाहनेन प्रीतः गरुत्मान् तथेति तस्य वचः गुरोरिव प्रत्यपद्यत। ययौचामृतमानेतुंत्रिदिवात् जवेन क्षताङ्गंतं अन्यांश्य भक्षितान् अहीन जीवयितुम्। ततश्च साक्षादागत्यदेव्या मलयवतीभक्तितुष्टया अमृतेन सिक्तो जीमूतवाहनः अधिकतरोद्भुत कान्तीनि अङ्गानि प्राप। गीर्वाणश्च तदानीमम्बरे सानन्द दुन्दुभि भवादयन्। स्वस्थोत्थिते च तस्मिन् गरुडः अमृतमानीय तस्मिन् वेलातटे ववर्ष। तेन च सर्वे पन्नगा जीवन्त एव समुत्तस्थुः। क्षणे तस्मिन् तत् वेला विनिर्मुक्त गरुड़ भयं भुजङ्ग कुलाकुलं

जीमूतवाहनालोकनार्थमागतं पाताल मिव बभौ। ततोऽक्षयेन देहेन यशसाच विराजितं जीमूतवाहनं बुद्ध्वातद्वन्धुजनो भृश मभ्यनन्दत्। तस्य भार्य्या मलयवती च भृशं ननन्द। पितरौ च जहृषतुः कोहि सुख परिणामेन दुःखेन न प्रहृष्येत्? अथ तेन विसृष्टः शङ्खचूड़ः पातालमगात् जीमूतवाहनयशस्तु त्रिलोकीम्। ततस्ते राज्याहारका मतङ्गाद्या दायादाः प्रीतिप्रह्वसुरनिकरं गरुड़ं प्रणम्य सभयास्तं विद्याधरतिलकं जीमूतवाहनमभ्येत्य हिमगिरि सुतानुग्रहेण महाप्रभाव माकलय्य विनम्रा बभूवुः न च कदाचिदपि विकृतिं ययुः। ततः सुकृती जीमूतवाहनः तस्मात् मलयाचलात् निज निलयं तुहिनाचल मगमत् बुभुजे च तत्र पितृभ्यां सहितः मित्रावसुना मलयवत्या च चक्रवर्त्तिपदम् एव मशेषजगत् पूज्यचरितानां स्वयमनुधावन्ति पदवीं कल्याणपरस्पराः। इत्थं कथां यौगन्धरायणात् निशम्य देवी वासवदत्ता गर्भदोहदिनी भृशंमुमुदे। निनाय तं वासरं भाविविद्याधरेन्द्र पुत्रचिन्तया पतिसमीपवर्त्तिनी।

इति द्वाविंशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172067659820.png"/>

अथ त्रयोविंशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172233758041.jpg"/>

अथान्येद्युर्वासवदत्ता तं समीपस्थं सचिवैरन्वितं पतिमब्रवीत् आर्य्यपुत्र! यतः प्रभृति गर्भोऽयं मया धृतः, ततः प्रभृति तीव्रा तस्य रक्षा मां बाधते। अद्य च तश्चिन्तया निशि सुप्ता अहं कथञ्चनस्वप्ने कञ्चित् पुरुषमागतमद्राक्षम्। स च पिशङ्गजटः शूली मां समुपेत्य सानुकम्प इवावोचत् पुत्रि। गर्भार्थं चिन्तां मा कृथाः, अहमेव एनं रक्षामि मयैव हि एष दत्तः, अन्यञ्च श्रूयतां कथयामि अभिज्ञानार्थं, प्रभाते कापि नारी बलात् साक्षेपं पतिमाकर्षन्ती पञ्चभिः सुतैर्बन्धुजनैश्च परिवृता विज्ञापनार्थं युष्मानुपैष्यति परन्तु सा दुश्चारिणी स्वबान्धवानां बलात् पतिं घातयितुमिच्छन्ती यत् वक्ष्यति तत् सर्वं मिथ्येति त्वंपूर्वं वत्सेशं विज्ञापयेः येन स साधुः तस्याः कुलटायाः सकाशात् मुच्येत। इत्यादिश्य तस्मिन् पुरुषे अन्तर्हिते सहसैव सा राज्ञी प्रबुद्धा, शर्वरी च व्ययासीत्। एवमुक्ते तया देव्या सर्वे सचिवाः शङ्करानुग्रहवादिनः विस्मिताः संवादमपेक्षमाणा आसन्।क्षणे च तस्मिन् द्वारपालाग्रणीरकस्मात् प्रविश्य आर्त्तानुकम्पापरं वत्सराजं व्यजिज्ञपत्देव! द्वारि स्थिता कापि योषित् बान्धवैर्वृता पञ्च पुत्रान् गृहीत्वा पतिञ्च विवशमाक्षिप्यन्ती विज्ञप्त्यैआगता, श्रुत्वा देवः प्रमाणम्।

तदाकर्ण्यराजा देव्याः स्वप्नसंवादेन विस्मितः प्रवेश्यतामिह सेति प्रतीहारमादिशत्। देवी च सप्नसत्यत्वप्रत्ययात् सञ्जातसत्पुत्रप्राप्तिनिश्चया परां मुदं प्राप। अथ द्वारोन्मुखैः सर्वैः सकौतुकं वीक्ष्यमाणा योषित् प्रतीहारपुरःसरा तथैव विवेश। प्रविश्य च दीनेव यथाक्रमकृतानतिः संसदि स्थितं देवीसहितं नृपं न्यवेदयत् महाराज! अयं मम पतिः निरपराधाया मम अनाथाया अन्नाच्छादनादिकं न ददाति। इत्युक्ते च तया तद्भर्त्तापि व्यज्ञापयत् देव! एषा सबन्धुर्मद्वधैपिषी मिथ्या जल्पति आवत्सरान्तं सर्वमन्नाच्छादनादिकं मयास्यै अग्रत एव प्रदत्तं एतस्या अन्येबान्धवा एवात्र मे साक्षिणः एवं विज्ञापितो राजा स्वयमब्रवीत् देवि! स्वप्ने देवेन शूलिनैव साक्ष्यंदत्तं स्वयमत्र, तत् किमन्यैः साक्षिभिः, एषा सबान्धवा स्त्री निर्ग्राह्या। इति नृपेणोक्तेधीमान् यौगन्धरायणः समभावत देव! तथापि लौकिकसाक्षिवचनात् यथायथं वादनिर्णयः कार्य्यःलोकोहि एतत् अजानन् न कथञ्चन प्रतीयात्। तदाकर्ण्यराजा साक्षिणोऽन्यान् तत्क्षणमानाय्य पप्रच्छ ते च तां मिथ्यावादिन सर्वएव शशंसुः। ततः स वत्सेशः प्रख्यातसत्यपतिद्रोहिणीं सपुत्रां सबान्धवामेनां देशात् निरवासयत्। व्यमर्जयच्च दयार्द्रधीस्तदुभर्त्तारं साधुं विवाहान्तरपर्य्याप्तविपुलं धनं दत्त्वा। असती हि नितरां क्रूरबुद्धिः पतिं दुर्दशापन्नं जीवन्तमेव वृकीव कृष्णाति, स्रिग्धा कुलीना तु गृहिणी तापहारिणी तरुच्छायेव मार्गवर्त्तिनी पुण्यैरेव कस्यापि

जायते। इत्येवं प्रसङ्गेन वदन्तं तं महीपतिं पार्श्वस्थितो वसन्तकः कथानिपुणः समब्रवीत् देव! स्नेहो विरोधो वा देहिनां प्राग्जन्मवासनाभ्यासवशादेव प्रायशो जायते, तदत्र कामपि कथां कथयामि श्रूयताम्।

आसीत् किल वाराणस्यां विक्रमचण्डो नाम महीपालः। तस्य सिंहपराक्रमाख्यः कश्चित् प्रियः रणेषु द्यूतेषु च अद्वितीयः जयी भृत्यः स्थितः। तस्य भार्य्या च कलहकरीति अन्वर्थनाम्नी विकृता वपुषि मनसिच। स तु सततं द्यूतेन राजतश्च प्रचुरं धनं प्राप्य सर्वमेव तस्यै पत्न्यैसमर्पयत्। स तु समुत्पन्नपुत्रत्रितयापि शाठ्यात्कलहं विना क्षणमपि नातिष्ठत्। त्वंबहिः पिबसि भुङ्क्षेच नास्मभ्यं किञ्चित् ददासि च इत्येवं वदन्ती तं नित्यं तापयामास। प्रतिदिनमाहारपानाद्यैःप्रसाद्यमानापि दुरन्ता भोगतृष्णा भृशं जज्वाल। ततः क्रमेण नितान्तखिन्नःस सिंहपराक्रमः गृहं त्यक्त्वाविन्ध्यवासिनीं द्रष्टुमगमत्। सा तु देवी स्वप्ने निराहारखिन्नं तं समादिदेश पुत्र! उत्तिष्ठ, वाराणसीं गच्छ। तत्र यः अतिमहान् न्यग्रोधतरुरस्ति, तन्मूलात् खन्यमानात् वाञ्छितंलप्स्यसे। येन तन्मध्यात्गारुड़मणिमयमसिनिर्म्मलं एकं पात्रं उत्थास्यमि तत्रार्पितदृष्टि रन्त प्रतिबिम्बितामिव सर्वस्य जन्तोः प्राग्जातिं द्रक्ष्यसि या तव जिज्ञासिता। तेनेव भार्य्याया आत्मनश्च पूर्वजातिं बुद्ध्वा कृतार्थःगतखेदश्च सुखी भविष्यसि। एवमुक्तश्च तथा देव्या स सिंहपराक्रमः प्रातः प्रबुद्धः कृतपारणः वाराणसीं प्रायात्।

प्राप्य तां पुरीं तस्मात् न्यग्रोधमूलात् निधानं मणिमयं पात्रंलेभे। ददर्श च तस्मिन् पूर्वजन्मनि स्वकां भार्य्यां घोरां ऋक्षीं आत्मानञ्च मृगाधिपम्। ततःसः पूर्वजन्ममहावैरनिश्चलं परस्परद्वेषं बुद्ध्वाशोकमोहौ तत्याज। अथ तस्य पात्रस्य प्रभावात् परिज्ञाता वह्नीः प्राग्जन्नभिन्नजातीयाः कन्यकाः परिहृत्य जन्मान्तरे तुल्यां सिंहीं विचित्य परिणीतवान्। एवं स सिंहश्रीनाम्नीं द्वितीयाभार्य्यां परिणीय कलहकरींतां ग्रामैकभागिनीं विधाय निधानप्राप्तिसुखितश्चिरं तस्थौ। हे राजन् ! दारादयः इत्थंप्राक् संस्कारवशात् केऽपि प्राप्तवैराः केचन स्नेहवन्तश्च भवन्ति।

इति विचित्रां कथामाकर्ण्य राजा देव्या वासवदत्तया सह भृशं तुतोष। एवं गच्छति काले राज्ञस्तस्य मन्त्रिणां सर्वेषां शुभलक्षणा भाविकल्याणसूचिनस्तनया उदपद्यन्त यौगन्धरायणम्य मरुभूतिरिति रुमण्वतो हरिशिख इति वसन्तकस्य तपन्तक इति ततो नित्योदितनाम्नः प्रतीहाराध्यक्षस्य इत्यकापरामिधस्य गोमुखो नाम तनयो जज्ञे। एते भाविनश्चक्रवर्त्तिनो वत्सराजसुतस्य वैरिवंशध्वंसिनो मन्त्रिणो भविष्यन्ति। इति तेषु जातेषु वर्त्तमाने च महोत्सवे सहसा नभसोऽशरीरिणी वागुदचरत्। अथ दशमे मासि वत्सराज महिषी वासवदत्ता आसन्नप्रसवा चित्रं पुत्रिणीभिर्नारीभिः परिष्कृतं सार्कशमीगुप्तगवाक्षं रत्नदीपप्रभासङ्गमण्डलैरिव

आयुधधरै गर्भरक्षाक्षमं तेजो ज्वलयद्भिरिवावृतं मातृगणस्येव जातं दुर्गं सूतिकागृहमध्यास्त। तत्र च सा कान्तदर्शनं द्यौरिवेन्दुं कुमार मसूत। जातेन च तेन तत्क्षणात् मातृहृर्दयमिव सर्वं पुरं निःशोकतामसं प्रकाशितमभूत्। ततः प्रमोदे प्रसरति पुरवासिनां राजा अभ्यन्तरचरात् जनात् सुतजन्म अशृणोत्। श्रुतपुत्रजन्मा चराजा तस्मै प्रियनिवेदकाय यत् राज्यमपि न ददातत्केवलं अनौचित्यभयेन न तु भोगतृष्णया। ततः स नृपः सिद्धमनोरथः समुत्सुकेन चेतसा सद्यः अन्तःपुरमभ्येत्य रक्तायताधरतलंचञ्चलोर्णाचारुकेशं साम्राज्य लक्ष्मीलीलाकमलोपमं मुखं दधानं छत्र चामराङ्कित पादयुगलं सुत मद्राक्षीत्। तस्मिंश्च काले गमनात् भारतिरेषा समुच्चचार। राजन्! कामदेवावतारोऽयं तवात्मजो जातः, एनञ्च नरवाहनदत्तनामानं कुरु। अनेन च दिव्यं कल्पं सर्वविद्याधरेन्द्राणां चक्रवर्त्तिना भवितव्यम्। इत्युक्त्वा तया वाचा विरत एव पुष्पाणि दिव्यानि नभसः पेतुः दुन्दुभयश्च व्यजृम्भन्त। ततः स नृपतिः इत्थं दैवसुलक्षण जनितातिहर्षः परमेणोत्साहेन महोत्सवं वितेने। तस्मिंश्च क्षणे अन्तरीक्षात् राजमन्दिर प्रतिध्वनितुमुला विद्याधराणां तूर्य्यनिनादाः राज-जन्माभिनन्दितुमिव समुद्ययुः। सौधाग्रेषु पवनोद्धूताः शोणरागाः पताकाः स्वकान्तिभिरन्योन्यंसिन्दूरमिव समकिरन्। सुराङ्गनाश्च दिवि अनङ्गाङ्गजननाति-हर्षादिव समागताः प्रतिपदं ननृतुः।

तस्मिंश्च महोत्सवे सर्वा पुरी नववस्त्र विभूषयोद्भासिता समानविभवेव समदृश्यत। तदाच नृपतौ अनुजीविषु अन्येषुच अर्थान् वर्षति सर्वोजनः कोषादृते पूर्णतामगात्। समन्ताच्च सर्वाः सामन्तानां अन्तःपुरस्त्रियः मङ्गल्यपूर्णाःसदुपायनहस्ताः सुरक्षिभिरधिष्ठिताः साक्षादिव अखिलाः दिशः समापेतुः। तस्याञ्च आनन्दमय्यां पुरि नृत्यमयी चेष्टा, पूर्णपात्रमयं वचः, महादानमयो व्यवहार, तूर्य्यमयो ध्वनिः चीनपिष्टमयो लोकः, भूव चारणैकमयी अभूत्। एवं बहुदिवसवर्द्धितः महोत्सव स्तत्र पूर्णैःपौरमनोरथैः समं निर्वत्तते स्म। सोऽपि राजसुतः शिशुः प्रतिपदिन्दुरिव कृतनरवाहमदत्तनामा पित्रा दिने दिने व्यवर्द्धत। अथ मन्त्रिणः महीपतिहृदयानन्दकरान् शिशून् स्वपुत्रान् आनीय तस्मे राजपुत्राय समर्पयन् प्रथमं यौगन्धरायणः मरुभूतिं ततो रुमण्वान् हरिशिखं इत्यकनामा प्रतीहारी गोमुखं वसन्तकश्च तपन्तकम्। शान्तिकरोऽपि पुरोधाः भ्रातृसुतं शान्तिसोमं वैश्वानरञ्च समर्पितवान्। तस्मिन्नपि च अन्तरीक्षात् नान्दीनिनादसुभगा दिव्या सुरपुष्पवृष्टिः पपात। तेन च राजा महिषी च तत्र मन्त्रिपुत्रान् अभिमन्द्य भृशं तोष मगमत्। स च राजपुत्रः बाल्येऽपि अभिमते स्तैःषड्भिर्मन्त्रि-पुरोहित-पुत्रैः महोदयहेतुभिः गुणैरिव सङ्गतः शैशवलीलामकरोत्। राज्ञश्च तस्य तं पुत्रं क्रीड़ाकलित-ललिताव्यक्त-नर्म्माभिल्लाषं पुरवासिनां प्रीति-श्रवण-मनसामङ्कात् अङ्गंगच्छन्तं

स्मेराननेन्दुं सादरं पश्यतो वर्द्धमानमहोत्सवा एव दिवसाः समतीयुः।

इति त्रयोविंशस्तरङ्गः।

समाप्तश्च चतुर्थो लम्बकः।

  •  *
    

अथ पञ्चमो लम्बकः।

अथ चतुर्विंशस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-172067690320.png"/>

अथ वत्सराजः देव्या सह तं पुत्रं लालयन् महता आनन्देन समयमतिवाहयन् अतिष्ठत्। एकदा यौगन्धरायणः स्तस्य पुत्रस्य रक्षायां कातरं विजने, समवलोक्य समभाषत राजन्! पुत्रस्य कृते नैव चिन्ता कार्य्या असौ भगवता शर्वेण भवतीमन्दिरे विद्याधर-चक्रवर्ती समुत्पादितः। दिव्यप्रभावाच्चैतत् विदित्वा पापाशयाः विद्याधराधीशाः असहिष्णवः परं क्षोभं गताः। तच्च विज्ञाय देवश्चन्द्रमौलिरस्य रक्षार्थं स्तम्भको नाम निजोगणः नियोजितः। स चालक्ष्यस्तव सुतं रक्षन् तिष्ठति, एतत् नारदो मामभ्येत्य अद्य व्यज्ञापयत्। इति जल्पति तस्मिन् मन्त्रिणि सहसा व्योममण्डलात् किरीटी कुण्डली खड़्गी दिव्यः पुमानवातरत्। तञ्चागतं प्रणतं कृतातिथ्यं वत्सनाथः सकौतुकंसमपृच्छत् कस्त्वं कुत आयातः, किमिह ते कार्य्यमिति, सोऽवदत् अहं मर्त्योऽपि शक्तिवेगाख्यः

विद्याधराधीशः संवृत्तोऽस्मि, प्रभूताश्च मम सन्त्यरयः। राजन्! सोऽहं प्रभावात् भवतः पुत्रं भाविनमास्मच्चक्रवर्त्तिनं द्रष्टुमुपागतः। इत्युक्तवन्तं दृष्टमाविचक्रवर्त्तिनं भीतं तं दृष्ट्वा सविस्मयः संहृष्टः पुनरपृच्छत् कथं विद्याधरत्वं प्राप्येत? तच्च कीदृक् प्रकारं कथञ्च त्वया तत्प्राप्तंएतत् सर्वं कथय। तदाकर्ण्य स प्रच्छ्रयावनतः शक्तिवेगः तं प्रत्यभाषत राजन्!इह पूर्वस्मिन् वा जन्मनि शङ्करमाराध्य धीरा स्तदनुग्रहात् विद्याधरपदं प्राप्नुवन्ति, तच्च बहुविधं विद्याखङ्गमालादि साधनवैचित्र्यात्, मया च तत् यथा प्राप्तं तत् कथयामि श्रूयताम्। एवमुक्त्वा शक्तिवेगः देव्या वासवदत्तायाः सन्निधौ कथामिमामाचचक्षे।

अस्ति वर्द्धमानं नाम भुवनभूषणं पुरम्। तत्रासीत्परोपकारी नाम पुरा परन्तपो नृपतिः। तस्य समृद्धिशालिनः कनकप्रभा नाम धाराधरस्य विद्युदिव परं निर्मुक्तचापला महिषी समभवत्। कालेन तस्यां तस्य राज्ञः लक्ष्मीदर्पोपशमनीव धात्रा निर्म्मिता कन्यका समजनि। सा च लोकलोचनानन्ददायिनी शनैर्नृपदुहिता पित्रा कनकरेखेति कृतनामधेया व्यवर्द्धत। कदाचित् राजा यौवनस्थायां तस्यां विजनोपस्थितां देवीं कनकप्रभामवादीत्। देवि! वर्द्धमाना एषा कनकरेखा असहेच एतत्समानोद्वाहचिन्तया मे हृदयं बाधते। स्थानप्राप्तिहीना हि कुलकन्यका गीतवत् परस्यापि श्रूयमाणा कर्णयोरुद्वेजिनी भवति। मोहात् अपात्रे प्रतिपादिता तु विद्येव

न यशसे नापि धर्म्माय, केवलमनुशयायैव। तत् कस्मै नृपतये इयं सुता दीयते, को वा अस्या अनुरूपः पतिरिति चिन्ता मामनुदिनं दुनोति देवि !।

तदाकर्ण्य सा देवी कनकप्रभा विहस्य एवमब्रवीत् नाथ! त्वमेवं चिन्तयसि, कन्या तु उद्दाहमेव नेच्छति, अद्यैव नर्म्मणा कृतकृत्रिमपुत्रिकापरिणया सा मयोक्ता वल्से! कदाते एवं विवाहं द्रक्ष्यामीति। सा तु तदाकर्ण्यसाक्षेपं मामभाषत मा मा एवमम्ब! नाहं कस्मै चिदपि देया, मद्वियोगो नचादिष्टः कन्यैवाहं सुशोभनास्मि अन्यथा मां मृतां विद्धि, अस्त्यत्र किञ्चित् कारणम्। एवं तयोक्ताहं उद्विग्ना त्वत्सकाशमागता तदलं निषिद्धविवाहत्याः वरस्य विवेचनया। इति देव्या वचनात् स राजा समुद्भ्रान्तः कन्यकान्तःपुरं गत्वा तां सुतामब्रवीत्वत्से! सुरासुरकन्यकाश्च तपसा यं कामयन्ते तस्य पत्युरभिलाषः कथं त्वया विवर्ज्जितः।

एतत् पितृवचः श्रुत्वा सा कनकरेखा भूतलन्यस्तलोचना पितरमवादीत् तात! नैव मे विवाहः समीप्सितः साम्प्रतं, तत् पितुस्तेन किं कार्य्यं कथञ्च निर्बन्धः। एवमुक्तः स दुहित्रा परोपकारी राजा सुमतिरेवमभ्यधात् पुत्रि! दानात् विना कन्या कथं पापशान्तये? बन्धुपराधीना च कन्या नैव स्वातन्त्र्यमर्हति जाता हि कन्या परस्यैवार्थे रक्ष्यते, बाल्यंविना तस्याः पितुर्गृहं कीदृक्? यौवने तस्या भर्तृगृहमेव बान्धवैरिष्टं तस्याञ्च ऋतुमत्यां बान्धवा अधोगतिं लभन्ते। सा ऋतुमती कन्या वृषली, तस्याः

पतिश्च वृषलीपति रुच्यते, एवं तेन पित्रा अभिहिता सा कनकरेखा मनोगतां वाचं तमणमवोचत् तात ! यद्येवं तत् येन क्षत्रियेण विप्रेण वा कृतिना कनकपुरी नाम नगरी दृष्टा, तस्यै अहं दातव्या स एव मे भर्त्ता भविष्यति। एवमुक्तस्तया सुतया स राजा समचिन्तयत् दिष्ट्या दानस्य प्रसङ्गोऽनया अङ्गीकृतः, नूनञ्चात्र कारणेन केनापि भवितव्यं कापि देवी मद्गृहे समुत्पन्नेयं नूनं कथमन्यथा इयं वाला भूत्वा एतत् जानातीति। एवं संचिन्त्य स राजा तां कन्यां तथेत्युक्त्वा उत्थाय तद्दिनकार्य्यं निरवहत्। अन्येद्युश्चसभां गतः पार्श्वगानगादीत् युष्मासु केनचित् कनकपुरी नगरी दृष्टा? येन सा दृष्टा तस्मै विप्राय क्षत्रियाय वा कनकरेखा यौवराज्यञ्च मया दास्यते। ते तु पार्श्वगाः समब्रुवन् देव! श्रुतापि नास्माभिः दर्शने कैव कथा तथा राजा प्रतीहारमानीयादिशत् गच्छ अत्र समग्र राष्ट्रे पटहं घोषय, ज्ञायतां यदि केनापि सा नगरी दृष्टेति। एवमादिष्टः प्रतीहारस्तथेति राजाज्ञया निर्गत्य राजपुरुषान् समादिश्य पटहं घोषयामास, विप्रः क्षत्रियो वा युवा यदि कश्चित् कनकपुरीं दृष्टवान् तदा संवदतु, राजा तस्मै तनयां यौवराज्यञ्च दास्यति। इति च वचस्तस्मिन् राष्ट्रे पटहानन्तरं सकौतुकं सर्वैर्जनैरश्रावि। पौराश्च तां घोषणां श्रुत्वा सर्व एव परस्परमवदन् केयं कनकपुरी, या वृद्धैरपि कदापि न दृष्टा नापि श्रुता। इत्थंयावदेकोऽपि कश्चित् नैव दृष्टेति कथयति तावत् तत्र निवासी शक्तिदेव इति कश्चित् द्विजः बलदेवद्विजसुतः तां

घोषणामशृणोत्। स तु युवा व्यसनी द्यूतेन हारितसर्वस्वः राज्ञकन्यामदाताकर्णनोत्को व्यचिन्तयत् ममा धुवा द्यूतनिर्जितस्य पितुर्गेहे वाराङ्गनासद्मनि वा प्रवेशो नास्ति, तस्मादगतिकः वरं मया सा पुरी दृष्टेति पटहघोषकान् मिथ्या ब्रवीमि को मां अदृष्टपुरीकं प्रत्येति, केन वा सा पुरी दृष्टा कदापि दृष्टा स्यात्? तदेवं मे राजपुत्री-समागमो भवितेति संचिन्त्य स राजपुरुषान् तान्समस्युपेत्य समभ्यधात् अस्मि शक्ति देवोनाम द्विजः, मया सा पुरी दृष्टा, इति अवादीत्। दिष्ट्यातर्हि प्रतीहारसकाशमागच्छ इति तत्क्षणमुक्तवद्भिश्च तैः साकं स शक्तिदेवः प्रतीहारमभ्यगात्। अशंसच्च तस्मै तथैव मृषा तत्पुरीदर्शनम्। तेन च प्रतीहारेण सत्कृत्य असौ राजान्तिक मनीयत। आनीतश्च राजान्तिकं स निर्विकल्पस्तथैव मृषाब्रवीत् किं हि द्युतकरस्य कितवस्य दुष्करम्?। राजापि निश्चयं ज्ञातुं तं ब्राह्मणं तस्याः कनकरेखाया दुहितुरन्तिकं निनाय। तया च प्रतीहारमुखात् ज्ञात्वा समीपगतः सः विप्रः कच्चित् त्वया कनकपुरी दृष्टेति पृष्टः वाढं मया सा विद्यार्थिना भ्रमता नगरी दृष्टेति तां प्रत्यब्रवीत्। केन पथा त्वं तत्र गतः कीदृशी च सा इति पुनस्तया पृष्टः सः भूयोऽभाषत राजनन्दिनि! इतो हरपुरं नगरं गत्वा ततः क्रमात् वाराणसीं प्राप्तोऽस्मि, तस्याश्च कतिपयैर्दिवसेः पौण्ड्रवर्द्धनं नगरमतीत्य कनकपुरींनगरीमगमम्। सुकृतशालिनां भोगभूमिः स्वर्गिणाममरावतीव सा पुरी मया दृष्टा। तत्रचाधिगतविद्योऽहं कालेन इहा-

गमम्। इत्येवं विरचितवाचि अस्मिन् विप्रे भक्तिदेवे सा नृपात्मजा सहासं व्यहार्षीत् महाब्रह्मन्! अहो सत्यं सा नगरी त्वया दृष्टा? ब्रूहि पुनः केन पथा तत्र गतवानसि। तदाकर्ण्य स शक्तिदेवो यदा पुनर्धाष्ट्यमकरोत्तदा सा राजसुता चेटीभिस्तं निरवासयत्। निर्वासितेणीस्मिन् सा तदैव पितुरन्तिक मयासीत्। पित्रा च स्त किमसौ विप्रः सत्यं वक्तीति पृष्टा जनकं प्रत्यभाषत तात! त्वं राजा सन् एवमविचार्य्य चेष्टसे? धूर्त्ताः सरलान् वञ्चयन्तीति किं न जानासि? स हि विप्रो मिथ्या मां प्रतारयितुमागतः तेन अलीकवादिना न पुनः सा पुरी दृष्टा, धूर्तैर्विविधा वञ्चनाः क्रियन्ते, अत्र चैतत् शिवमाधववृत्तान्तंकययामि श्रृणु, इत्युक्त्वासा कन्या तां कथामकथयत्।

अस्ति रत्नपुरं नाम यथार्थं नगरम्। तत्रास्तां शिवमाधवनामानौ द्वौधूर्त्तौ। तौ च बहुधूर्त्त परिजनौ अचिरेण मायाप्रयोगनिःशेषमुषिताढ्यजनं पुरं विदधतुः। एकदा तौ मिथो मन्त्रंचक्रतुः इदं तावत् नगरं समग्रमस्माभि विलुण्ठितम्। अतः सम्प्रति उज्जयिनीं वस्तु गच्छावः श्रूयते तत्र राजपुरोहितः महाधनसमृद्धिमान्शङ्करस्वामी नाम। कौशलेन तस्मात् हृतैर्धनैर्मालवविलासिनीनां रतिरसज्ञतां यास्या वः स हि कीनासो दक्षिणार्द्धस्य ग्रहीता भ्रूकुटीमुखः सप्तकुम्भीनिधानः गीयते। तस्यापि विप्रस्य एवं कन्यारत्नमस्ति, तदपि कौशलेन लप्स्यते। इति निश्चित्य मिथः संविदं कृत्वा तौ

शिवमाधवौतस्मात् पुरात् प्रतस्थाते। क्रमेण च शिवं उज्जयिनीं प्रवेश्य माधवः सपरिच्छदः राजपुत्रवेशेन बहिः कश्चित् ग्रामे तस्थौ। शिवस्तु बहुमाया विचक्षणः अविकलेन वर्णिवेशेन तां नगरीं प्राप्य तत्र शिप्रायास्तीरे मठिकामेकां दृश्यस्थापितमृद्दर्भभिक्षाभाण्ड मृगाजिनामध्युवास। स च प्रातः धनया मृदा लिप्तसर्वाङ्गः तस्याः सरित स्तोये कृतस्नानः अवाङ्मुखः कुकर्म्मजामधोगतिं भाविनीमभ्यस्यन्निव बहुक्षणमस्थात्। स्नानोत्थितश्च सूर्य्यमभिलक्ष्यऊर्द्ध्वदृष्टिश्चिरं शूलाधिरोपणौचित्यमात्मनः दर्शयन्निव तस्थौ। ततो दम्भचतुरामनः सः देवाग्रतो गत्वा कृशकूर्च्च करोऽघमर्षणं जपन् पद्मासनासीनः कियन्तं कालमास्त। अन्तरान्तरा साधूनां हृदयानीव स्वच्छानि पुष्पाणि समाहृत्य कैतवेन पुरारिं समपूजयत्। कृतपूज्यश्च भूयोऽपि मिथ्याजयपरः समभूत्। अपराह्ने च कृष्णसाराजिनाम्बरः भिक्षार्थी तस्यां पुरि तद्वञ्चनामायाकटाक्ष इवा भ्रमत्। मौनी द्विजगेहेभ्यः भिक्षात्रयमादाय दण्डीत्रिसन्ध्यामिव खण्डशश्चक्रे। एकं खण्डं काकेभ्यः अपरमभ्यागताय दत्त्वा अपरेण खण्डेन स्वोदरमपूरयत्। पुरुश्चसायं निजानि पापानि गणयन्निव चिरं मिथ्या अक्षमालां आवर्त्तयामास। रजन्याञ्च स मठिकान्तरे अद्वितीयसूक्ष्माणि लोकस्य तर्कस्थानानि चिन्तयन्नवतस्थे। एवं प्रतिदिनं कष्टं तपश्चरन् सर्वत्र नगरवासिनां मनः आवर्ज्जयामास। यदा च भक्तिनम्रे चाखिले जने अहो शान्तोऽयं तपस्वी इति ख्यातिः सर्वतः समुदपादि, तदा

स द्वितीयो धूर्त्तः माधवः चारमुखेन तं तथाविधं विज्ञाय तांनगरीं प्रविवेश। स चात्र दूरवर्त्तिनि देवकुलान्तरे वसतिं गृहीत्वा राजपुत्रच्छद्मा स्नातुं सिप्रातटमगात्। स्नात्वा च सानुचरो देवा जपतत्परं तं शिवं दृष्ट्वा परमप्रह्वःपादयोरस्य निपपात।जगाद च सर्वजनसमक्षं नास्तीदृक् तापसोऽपरः, मया असकृत् एव तीर्थानि भ्रमन् दृष्टः। शिवस्तु तं विलोक्य दम्भेन स्तम्भितकन्धरस्तथैवासीत् सोऽपि माधवः स्वां वसतिं ययौ। रात्रौ तौ उभौ मिलित्वा एकत्र भुक्त्वा पीत्वा च शेषं कर्त्तव्यंमन्त्रयामासतुः। पश्चिमे रात्रियामे च शिवः स्वं मठमगात् माधवस्तु प्रभाते स्वमेकं धूर्त्त समादिशत् त्वमेतत् वस्त्रयुग्ममुपायनं गृहीत्वा राजपुरोधसः शङ्करस्य सकाशं व्रज। गत्वा च स सविनयमेवं वाच्यः यथा राजपुत्रः कश्चित् माधवोनाम गोत्रजैः पराभूतः पित्र्यंबहु धन मादाय दक्षिणापथादायातः, समैः कतिपयैरन्यै राजपुत्रैरनुगत इहैवास्ते, स हि भवदीयस्य राज्ञः सेवां करिष्यति। हे ब्रह्मन् ! तदर्थं प्रथममहं भवत्सकाशं प्रेषित इति।

एवं स माधवेनोक्तोधूर्त्तः उपायनकरः तस्य पुरोहितस्य गृहमगात्। अशंसच्च माधवसन्देशंतं विजने प्राप्य उपदामग्रतो दत्त्वा। सोऽपि उपायनलोभात् बहुतरं मङ्गलमाशंसन् तत् श्रद्धधे, लिप्सूनामेकं हि उपप्रदानमाकर्षणौषधम्। ततः प्रत्यागते तस्मिन् धूर्त्ते अपरेद्युः स माधवः लब्धावकाशस्तं पुरोधसं द्रष्टुं स्वयमुपाययौ। राजपुत्रापदेशिनश्चापरेधूर्त्ता गृहीतयष्टयः धूर्त्तकापटिक-

वेशास्तमनुजुम्मः। पुरोगैश्चावेदितश्च स माधवः एनंपुरोहिमभ्यगात् स चापि प्रत्युद्गमादिभि रेनमभ्यनन्दत्। ततश्च तेन सह कथालापैः क्षणं स्थित्वा माधवः पुनः स्वां वसतिमाययौ। अपरेद्युश्च पुनः प्राभृतं वसनयुगलं प्रेष्य तमुपागच्छत् पुरोहितमुवाच च ब्रह्मम्! वयं परिवारानुरोधेन केवलंसेवार्थिनः, तेन त्वमस्माभिराश्रितः अर्थमात्रास्तु नःपर्य्याप्ताः सन्ति। तत्श्रुत्वा स पुरोहितः प्राप्तिमाकाङ्क्षन् तस्मै माधवाय प्रतिशुश्रुवान् राजानं व्यजिज्ञपात्। राजापि तद्गौरवात् तथेति प्रतिपेदे। अपरेद्युश्च स पुरोहितः तं माधवं सपरिच्छदं राजान्तिकं नीत्वा तस्मै सगौरवं दर्शयामास। राजापि माधवं राजपुत्रसमाकृतिं दृष्ट्वा आदरेण परिजग्राह आदिदेश च वृत्तिम्।

अथ स माधवः तं नृपं सेवमानस्तिष्ठन् प्रतिरात्रम्शिवेन समगच्छत। इहैव मम गृहे वसेति सोऽर्थितातेन पुरोधसा लोभाक्रान्तेन सहचरैः सार्द्धं तस्यैव गृहमशिश्रियत्। तत्र कृत्रिममाणिक्यमयैराभरणैर्भृतिं भाण्डं कृत्वा तदीये कोशवेश्मनि, समस्थापयत्। अन्तरान्तरा च तदुद्घाट्य तैस्तैर्व्याजार्द्धदर्शितैराभरणैस्तस्य शष्पैरिव पशोर्मनः समाकर्षत्। अथ तस्मिन् पुरोधसि विश्वस्ते समृषा अल्पतराहारकृशीकृततनुर्मान्द्यं चकार। कतिपये चाहनि गते एकदा स धूर्त्तराजः स्वल्पया गिरा शय्योपान्तवर्त्तिनं पुरोधसमुवाच ब्रह्मन्! मम तावत् शरीरे विषमा दशा वर्त्तते, तत् त्वं कञ्चित् ब्राह्मणश्रेष्ठमानय।

यस्मै अहम् इहासुत्र च शर्मणे सर्वस्वं दास्यामि, अस्थिरे चास्मिन् जीवितेकास्था धनेषु। इत्यभिहितः स पुरोधादानोपजीवी तथेति प्राह स्म। स चास्य पुरोधसः पादयोः पपात। ततः स पुरोहितः यं यं ब्राह्मणमानिनाय, विशेषेच्छाभावात् स माधवः तं तं न श्रद्दये। तच्छ्रुत्वा तस्य पार्श्वचरः कश्चित् धूर्त्तः समभाषत ब्रह्मन्! अस्य तावत् सामान्यो विप्रः न रोचते, तदद्य सिप्रातीरे शिवो नाम यः महातपाः विप्रस्तिष्ठति सोऽस्मै रोचते न वेति पृच्छ्यताम्। तदाकर्ण्य माधवोऽब्रवीत् कल्पिताधिस्तं पुरोहितं ब्रह्मन्! तमेवानय, नान्योऽस्ति तादृशो विप्रः। इत्युक्तः सः तथेति शिवान्तिकमगात्। अपश्यच्च गत्वा तं रचितध्याननिश्चलम्। ततः स पुरोधाः तं प्रदक्षिणं कृत्वा तत्पार्श्वे उपाविशत्, सोऽपि धूर्त्तस्तत्क्षणं शनैरुन्मीलितलोचनोऽभवत्। अथ तं प्रणम्य स प्रोवाच प्रभो! न कुप्यसि चेत्, किञ्चित् निवेदयामि, इह कश्चित् दाक्षिणात्यः महाधनो राजपुत्रः माधवो नाम स्थितः। स चास्वस्थः सर्वस्वं दातुमुद्यतते, यदीच्छसि तत्सर्वं स तुभ्यं दानेन कृतकृत्यो भवितुमिच्छति। तदाकर्ण्य स शनैर्मुक्तमौनः समभ्यधात् ब्रह्मन्! भिक्षाशनस्य मादृशस्य कोऽर्थोऽर्थेन। ततः पुरोहितः स तमवोचत् ब्रह्मन्! मैवं वादीः, आश्रमक्रमं किं न वेत्सि? कृतदारो गृहे देवानां पितृृणाम् अतिथीनाञ्च क्रियाः कुर्वन् धनैस्त्रिवर्गंसाधयति, तस्मात् गृही एव आश्रमिणां वरः।

ततः शिवोऽब्रवीत् कुतो मम दारसंग्रहः, नह्यहंयस्मात्

कस्मादपि कुलात् परिणेतुमिच्छामि। तच्च निशम्य पुरोधाः लुब्धः प्राप्तावसरः सुखभोग्यं तस्य तत् धनं मत्वा तमवादीत् ब्रह्मन्! अस्ति तावत् मम विनयस्वामिनौनामैका कन्या अतिरूपवती। तांतुभ्यं दास्यामि। यच्च तस्मात् माधवात् प्रतिग्रहधनं लप्स्यसे, तदहं तव रक्षिष्यामि, तस्मात् गृहाश्रममाश्रय। इत्याकर्ण्य सिद्धकामः शिवोऽब्रवीत् ब्रह्मन्! यद्ययं ते आग्रहः, तदा ते वचः करिष्यामि, हेमरत्नयोः स्वरूपमहं तापसो न वेद्मि त्वद्वाचैव प्रवर्त्ते, त्वं यथा वेत्सि तथा कुरु।

एवं शिववचः समाकर्ण्य सानन्दः पुरोधा मूढस्तथेति तं स्वं गेहं निनाय। नीत्वा च तत्र तं सन्निवेश्य शिवाख्यमशिवं तापसं संप्रहृष्यन् माधवाय यथाकृतं शशंस ददौ च तदानीमेव तस्मै शिवाय क्लेशविवर्द्धितां निजां सुतां सम्पत्तिमिव मूढत्वहारिताम्। अथ कृतोद्वाहं तं प्रतिप्रहार्थं तृतीयेऽह्नि माधवस्य कपटास्वस्थस्य समीपमनयत्। माधवोऽपि अतर्क्यतपसं त्वामहं वन्दे इत्यवितथं वदन् उत्थाय अस्य चरणयोरपतत्। अदाच्च तस्मै विधिवत् कोशागारात्आहृतं प्रचुरं कृत्रिममाणिक्यमयाभरणभाण्डकम्। शिवोऽपि तत् सर्वं प्रतिगृह्य तस्य पुरोधसः हस्ते नाहं वेद्मि त्वमेवैतत् वेल्सीति अभिधाय समर्पयत्। पुरोहितश्च अङ्गीकृतं पूर्वमिदं मया, तवात्र का चिन्ता इत्युक्त्वातत्क्षणंतत् सकलं जग्राह। ततः शिवे कृताशिषि वधूवासकं यातेस पुरोहितः तं निजे कोशागारे स्थापयामाम। माधवश्चापरेद्युस्तत् अस्वास्थ्यभावं शनैः त्यजन् महादानप्रभावेण

रोगशान्तिमशंसत्। अथाहं त्वया धर्म्मनिष्ठेन सहायेन आपदः समुत्तीर्णोऽस्मि इति अन्तिकमायान्तं पुरोधसं प्रशस्य एतस्य प्रभावेण मे शरीरं रक्षितमिति कीर्त्तयन्प्रकाशमेव तेन शिवेन सह मित्रतामकरोत्।

अथ गच्छत्सु दिनेषु एकदा शिवः श्वशुरं पुरोहितमवादीत् तात! कियच्चिरं भवदुगेहे मया एवं भोक्ष्यते, तत् त्वमेव मूल्येन तत् आभरणं किं न क्रीणासि ? महार्घं चेत् मन्यसे यथासम्भवं मूल्यं देहि। तदाकर्ण्य सः पुराधाः तच्चानर्घं मत्वा तथेति तन्निष्क्रयं सर्वस्वं तस्मै शिवाय ददौ, कारयामास च तद्धनं स्वधनादधिकं मत्वा स्वहस्तेन तदर्थं लेख्यपत्रं, स्वयञ्च चकार। एवमन्योन्यलिखितं हस्ते कृत्वा स पुरोहितः पृथक् आसीत्, स च शिवः पृथक् गृहे स्थितिमकरोत्। ततश्च स शिवः स च माधवः उभौ सङ्गतौ यथेच्छं पुरोहितार्थान् भुञ्जानौ तत्रातिष्ठताम्।

अथ गच्छति काले सः पुरोधा मूल्यार्थी आपणीतदेकमलङ्गरणं कटकं विक्रेतुमगमत्। तत्र रत्नततत्त्वविदो वणिजः परीक्ष्य अहो कस्यापि एतत् विज्ञानं येन इदम्ईदृशं कृत्रिमं कृतम्। काचस्फटिकमया हि नानारोगेणोपरञ्जिता इमे रीतिबद्धाः, नैते मण्यो न वा काञ्चनानि। तदाकर्ण्य स पुरोधा विह्वलो गत्वा तदैव गेहात्समग्रम् आभरणमानीय तेषामदर्शयत्। ते च वणिजस्तानि दृष्ट्वा सर्वाण्येव तथैव कृत्रिमाणीति समब्रुवन्। स किल पुरोधास्तदाकर्ण्यवज्राहत इव कथञ्चिदापणादागत्य विमूढ़ः

शिवमवादीत् वत्स! स्वान् अलङ्कारान् गृहाण, मम च निजं धनं देहीति। कुतो ममाद्यापि धनं, तत् हि समग्रमेव मया गृहे कालेन भुक्तमिति शिवस्तं प्रत्यब्रवीत्। ततो विवदमानौ तौ शिवपुरोहितौ पार्श्वस्थितमाधवं राजानमुपजग्मतुः। पुरोहितः राजानं न्यवेदयत् देव! काचस्फटिकयोः खण्डैः रीतिबद्धैःसुरञ्जितै रचितं समग्रमैव कृत्रिमालङ्करणं दत्त्वा शिवेन अजानतो मम सर्वस्वं भक्षितमिति। शिवो व्यज्ञापयत् राजन्! अहमाशैशवात्तापसोऽभूवम्। अनेनैव पुरोधसा अभ्यर्थ्यतत्प्रतिग्रहमहं ग्राहितः, तदैव मयोक्तं मुग्धस्य मम रत्नादिषु अनभिज्ञस्य भवानेव प्रमाणमिति। अहमेवात्र प्रमाणमिति अभिधाय अयं तदेव मामग्राहयत्। मया च तत्सर्वं प्रतिगृह्य तदानीमेव अस्य हस्ते समर्पितम्। ततश्चानेन स्वेच्छया मूल्यं दत्त्वा तत्सर्वं गृहीतम्, अत्र चावयोः मिथः स्वहस्तलिखिनं विद्यते, तदत्र युवराजो माधव एवात्र दाता कृत्रिमाकृतिमत्वे प्रमाणमिति। एवमुक्त्वाशिवे विरतवाचि माधवस्तत्रोपस्थितः समभाषत ब्रह्मन्! मामेवमादिश, त्वं मै महामान्यः, नात्रापराधो मम, मया भवतः शिवस्य वा किञ्चित् न गृहीतं मम तु पैतृकं धनं चिरमन्यत्र न्यासीकृतम्, आगच्छता मया स्वात् राज्यात् तत्सर्वमिहानीतं दत्तञ्च द्विजन्मने, यदि तत् सत्यं न स्वर्णं नापि रत्नानि,तदा रीतिस्फटिककाचानां प्रदानात मे किं फलं स्यात्? निर्व्याजहृदयस्य मे दाने प्रत्ययोऽस्ति, येन सद्यएव तथा विधात् दुस्तरात् रोगात् मुक्तोऽस्मि। एवमभिन्नमुखच्छायं

कथयति माधवे राजा मन्त्रिभिः परिवृतो जहास तुतोष च। नात्र माधवस्य शिवस्य वा कश्चिदन्याय इति सभ्यैः सान्तर्हासमभिहितेस पुरोहितः हारितार्थः विलज्जित एव गृहमगात्, अतिलोभान्धानामीदृशी हि गतिः। तौच धूर्त्तौ शिवमाधवौसन्तुष्टराजप्रसादलाभेन सुखितौ तत्रचिरमतिष्ठताम्।

हे तात। जालोपजीविनो धूर्त्ता धीवरा इव तैस्तैः सूत्रशतेर्जिह्वाजालानि विस्तारयन्ति। एषोऽपि कनकपुरी दृष्टेति मृषा वदन् त्वां प्रतार्य्य मां प्राप्तुमिच्छति। तत् सम्प्रति मम विवाहार्थं त्वया त्वरा न कार्य्या, कन्यैव तावत् तिष्ठामि पश्यामि च भक्तिव्यता कीदृशीति। इत्युक्तः सुतया कनकरेखया स परोपकारी तदा तामभाषत पुत्रि। यौवने चिरं कन्यकाभावो न युज्यते, गुणमत्सरा दुर्जना हि मिथ्या दोष वदन्ति। विशेषेण जना उत्तमस्येव कलङ्कानुत्पादयितुं यतन्ते, अत्र तावत् हर स्वामिकथां कथयामि श्रूयताम्।

अस्ति गङ्गाकूले कुसुमपुरं नाम नगरम्। तत्रासीत्हरस्वामी नाम तीर्थार्थीं कश्चित् तापसः। स भिक्षाशनो विप्रः गङ्गातीरेकृताश्रमः तपसः समुत्कर्षात् लोकानां विशेषेण गौरवास्पदमभूत। कदाचित् तं भिक्षाविनिर्गत दूरात् दृष्ट्वा कश्चित् तद्गुणासहिष्णु खलः जनमध्यात् जगाद यूयं कञ्चित् जानीय? अयं कीदृक् कपटतापसः,अनेनैव अमुस्मिन् नगरे सर्वे शिशवो भक्षिताः। तदाकर्ण्य द्वितीयो जनस्तथैव समभ्यधात् सत्यं मयापि श्रुतंजनैः

रुच्यमानमेतदिति। तृतीयः तथैव एवमेतदिति प्राहः स्म। दुर्जनसंवादशृङ्खला आर्य्यपरीवादं बध्नाति हि। एवं क्रमेण एषः परीवादः सर्वत्र पुरे बहुलीभवन् कर्णपरम्परामाससाद। पौराश्चसर्वे हरस्वामी बालान् भक्षयतीति वदन्तः गेहात् स्वान् स्वान् बालान् न तत्यजुः। ततश्च सर्वे ब्राह्मणाः सन्ततिक्षयभीरवः सम्भूय तस्य पुरात्प्रवासनममन्त्रयन्। कुपितः सोऽस्मान् ग्रसेत् इति भयेनते साक्षात् वक्तुमशक्नुवन्तः दूतान् व्यसर्जयन्। ते च गत्वाः दूता दूरादेव तमब्रुवन् ब्रह्मन! नगरादस्मात् गम्यतामिति द्विजातयस्त्वां कथयन्ति। अथ तेन विस्मितेन किंनिमित्तमित्युक्तास्ते पुनः प्रोचुः त्वं बालान् दृष्ट्वैव भक्षयसीति। तदाकर्ण्य स हरस्वामी स्वयं तेषां प्रत्यायनेच्छया विप्राणामन्तिकं ययौ। विपाश्च तं दृष्ट्वा त्रासात् मठोपरि आरुरुहुः, प्रवादमोहितो हि न काश्चित् विचारक्षमो भवति। अथ हरखामी अधःस्थित एव उपरिस्थितान् तान् विप्रा समाहूय नामग्राहमेकैकमवादीत् कोऽयं को मोहः? नावेक्षध्वंपरस्परम्? कस्य कियन्तो बालकामयाकदा भक्षिताः? तदाकर्ण्य यावत् ते विप्रा अन्योन्यंपरिमृशन्ति तावत् सर्वेऽपि तेषां बालकाः जीवन्त एव स्थिताः दृष्टाः। क्रमात् सर्वेऽपि पौरास्तथैक विमृशन्तः प्रत्यपद्यन्तः अब्रुवंश्च अहो विमूढैरस्माभिः साधुर्मिथ्या एव दूषितः, सर्वेषामेव बाला जीवन्ति, तत् कस्यानेना भक्षिताः? इत्युक्तवत्सु सर्वेषु हरखामी तदैव सञ्जातशुद्धिस्तस्मात् नगरात् गन्तुं प्रववृते, अविवेकिनि दुर्देशे

मनस्विनो नैव रतिः। ततो वणिग्भिर्विद्वद्भिर्विप्रैव चरणानतैः प्रसान्त्वितःस हरस्वामी कथञ्चित् तत्र वस्तुमङ्गीचकार।

इत्थं सञ्चरितावलोकनेन जनितविद्वेषा दुर्जनाः प्रायेण सतां मिथ्यापवादं ददति, तस्मात् मां विशल्यं कर्तुमिच्छसि चेत् वत्से! उन्मिषति नूतने यौवन एवास्मिन् स्वेच्छं न व्यवहर्तुमिच्छसि, एवमुक्ता नृपतिना पित्रा सा कनकरेखा राजतनया निश्चितमतिः पुनः पितरमब्रवीत् पितः! उक्तमेव मया, येन हि सा कनकपुरी दृष्टा तस्मै विप्राय क्षत्रियायवामां देहि तस्मात् क्षिप्रं तमेष गवेषय। तदाकर्ण्य राजा तां दृढ़निश्चयां जातिस्मरां सुतां विगण्यन्नान्यां गतिञ्च पश्यन् तत्र देशे पुनरनुदिनं नवागन्तुकान्वेषणाय। पटहघोषणमकारयत्। आदिशञ्च यो विप्रः क्षत्रियो वा युवा कनकपुरीं दृष्टवान् स आगच्छतु, तस्मै स्वां तनयां कनकरेखां यौववाज्यञ्च दास्यामीति। परमेको नैव लभ्यतेस्म यः कनकपुरीं दृष्टवानिति।

इति चतुर्विंशस्तरङ्गः।

  •    *
    

अथ पञ्चविंशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1720776514243.png"/>

अत्रान्तरेस शक्तिदेवो द्विजयुवा राजकन्यावमानेन सुदुर्मनाः समचिन्तयत् मयाद्य मृषा कनकपुरीवादिना परम् अवमानना प्राप्ता न पुनः राजबाला। तदेतस्याः प्राप्तये तावदहं महीं पर्य्यटिष्यामि यावत् सा कनकपुरी न दृश्यते, यावद् वा प्राणैर्न गम्यते। ताञ्च पुरीं दृष्ट्वा तत्पणेन यदि राजबालामिमां न लभेय, तत् जीवितेनालम्। एवं प्रतिज्ञारूढ़ः स तस्मात् वर्द्धमानात् दक्षिणां दिशमालम्ब्यप्रतस्थे। क्रमेण गच्छन् स विन्ध्यमहाटवीं प्राप। तत्र शनैस्तान् तान् दुरवगाहान् प्रदेशानवगाहमानः दिवसैः कतिपयेर्दूरमध्वानमतीत्य एकान्ते शीतलस्वादुसलिलं पुण्डरीकोच्छ्रितच्छत्रं प्रोल्लसद्धंसचामरं सर्वेषां सरसामधिराजतामिव कुर्वाणमतिमहत् सरो ददर्श। तत्र च स्नानादिकं विधाय तत्पार्श्वे कियत्युत्तरे सफलस्निग्धपादपम् आश्रमपदमेकं तत्र च कञ्चित् अश्वत्थतरुमूले निषणं तापसैर्वृतं सूर्य्यतपसं नाम स्थविरं मुनिमद्राक्षीत्। स युवा प्रणामपूर्वं तं सुनिमभ्यागमत् स चैनम् आतिथ्येनाभ्यनन्दत्। अवोचञ्च भद्र ! कुत आगतोऽसि, क्व च गन्तासि, उच्यतामिति।

सोऽब्रवीत् भगवन्! वर्द्धमानपुरादहमागतः, प्रतिज्ञया कनकपुरीं दिद्वक्षुःपरं न जाले सा क्व भवेत् यदि भगवान्

वेत्ति तदा ब्रवीतु इति शक्तिदेवेनैवमभिहितः स तापसः समब्रवीत वत्स! वर्षशतान्यष्टौ मयास्मिन्नाश्रमे वसता अतिक्रान्तानि, न च कदाचिदपि सा पुरी मया श्रुता। इति तेन गदितः स शक्तिदेवः परं विषादंगतः पुनरब्रवीत् भगवन्! तर्हि मृतमेव मामवधारय। इति कथितः स मुनिर्ज्ञातार्थस्तमभाषत यदि ते अयं निश्चयः, तर्हि यदहं वचमि तत् क्रियताम्।

अस्त्यस्मात् योजनानां गतेषु त्रिषु काम्पिल्यो नाम विषयः। तत्र उत्तरो नाम गिरिरस्ति। तत्रैकश्चाश्रमो द्रक्ष्यते। तत्रार्य्योदीर्घतपा नाम मम ज्येष्ठस्तपस्यति, तत्पार्श्वं व्रज, स वृद्धो जातु तां पुरीं जानीयात्। एवमुक्तः स शक्तिदेवः कथञ्चिदाश्वस्तस्तां निशां तत्र नीत्वा प्रातस्तमुद्दिश्य प्रतस्थे। क्रमेण च बहुभिर्दिवसैः क्लेशातिक्रान्तकान्तारश्रान्तश्चिरात् तं काम्पिल्यविषयं प्राप्य तस्मिन्नुत्तरे गिरौ आरुरोह। तत्र च तं दीर्घतपसं मुनिमाश्रमवर्त्तिनं दृष्ट्वा प्रणम्य च प्रीतः कृतातिथ्यम् उपाययौ। व्यज्ञापयच्च भगवन्! कनकपुरीं प्रस्थितोऽहं न च जानामि सा क्व स्यात्। परमवश्यमेव सा गन्तव्या, तदुपलब्धयेमुनिना सूर्य्यतपसा प्रेषितोऽस्मि भवदन्तिकम्। इत्युक्तवन्तं तं मुनिरवादीत् वत्स! इयता वयसा मयाद्यसा पुरी त्वत्तः श्रुता। देशान्तरागतैः जनैर्नास्ति मे परिचयः, ज्ञायते मया, सा नियतं दवीयसि क्वचिद् भवेत् द्वीपान्तरे। तत्र चोपायं ब्रवीमि शृणु।

अस्ति तावत् वारां निधेरभ्यन्तरे उत्स्थलाख्यंद्वीपम्।

तत्र सत्यव्रतो नाम धनीनिषादपतिः प्रतिवसति। तस्य सर्वेष्वेव द्वीपेषु गतागतमस्ति। तेन सा पुरी श्रुता वा दृष्टा जातु भवेत्। तस्मात् प्रथम तावत् जलधेः कूलस्थितं विटङ्कपुराभिधं नगरं व्रज। ततः केनापि वणिजा सम प्रवहणेन तत् निषादस्य पुरम् अभीष्टसिद्धये गमिष्यसि। इत्युक्तस्तेन मुनिना स शक्तिदेवस्तत्क्षणं तथेति मुनिमामन्त्र्यातदाश्रमात् प्रतस्थे।

कालेन च बहून् देशान् क्रोशांश्चातिक्रम्य वारिधेस्तीरस्थितं विटङ्कपुरं प्राप्य तस्मिंश्च समुद्रदत्ताख्यम् उत्स्थलद्वीपगामिनं वणिजमन्विष्य तेन सह सख्यमकरोत्। ततश्च तेन साकं तदीयं यानमारुह्य तत्प्रीतिपूर्णपाथेयः समुद्रवर्त्मना प्रतस्थे। अल्पावशेषे चाध्वनि सहसा महान् कृष्णमेवः सविद्युत् समुत्तस्थौ। प्रबवौ च प्रचण्डसमीरणः सागरमुत्तम्भयन् तेन सह। वाताहताच्च जलधेर्महोर्म्मयः आश्रयाभिभवक्रोधात् सपक्षाः शैला द्रवोदतिष्ठन्। तच्च प्रवहणं धनिनामुन्नत्यवनतिपर्य्यायं दर्शयन्निव क्षणमूर्द्ध्वं क्षणञ्चाधः प्रयाति स्म।क्षणान्तरे च तत्प्रवहणं वणिजामाक्रन्दैः पूरितं भरादिवोत्पत्य समभज्यत। भग्ने च तस्मिन् यानस्वानी स वणिक् अम्बुधिपतितः कथञ्चित् फलकारूढ़श्चिरात् अन्यत् वहनं प्राप। शक्तिदेवन्तु पतन्तंव्यात्ताननः कश्चित् महामत्स्यः अपरिक्षतसर्वाङ्गमेव निगीर्णवान्। विधिनिर्बन्धाच्च स मत्स्यः सागरमध्ये स्वेच्छया चरन् उत्स्थलद्वीपसन्निधिमगात्। तत्र च तस्यैव कैवर्त्तपतेः सत्यव्रतस्य किङ्करैःशफर-

ग्राहिभिः स मत्स्यः सहसा समगृह्यत। ते च धीवराः कौतुकात् सुमहाकायं तं मत्स्यमाकृष्य तत्क्षणात्स्वामिनोऽन्तिकं निन्युः। सोऽपि सत्यव्रतः तादृशं तं दृष्ट्वा कुतूहलवान् भृत्यैर्निजैस्तंपाठीनं पाटयामास। पाटितस्य च तस्योदरात् जीवन् दैवबलेन स शक्तिदेवः साश्चर्य्यं सर्वैर्दृश्यमानो विनिर्ययौ। सत्यव्रतश्च सविस्मयस्तथा निर्यातं तं वीक्ष्य कृतस्वास्थ्यं युवानमपृच्छत् ब्रह्मन्! कस्त्वं, कुतश्चेदं शफरोदरशायित्वं भवतः, कश्च ते वृत्तान्त इति। तदाकर्ण्य शक्तिदेवस्तं दाशपतिंप्रत्यभाषत भद्र! अहमस्मि शक्तिदेवो नाम ब्राह्मणः, वर्द्धमाननगरादागतः। गन्तव्या च मयावश्यंकनकपुरी नाम पुरी। अजानंश्च तां सुचिरं भुवं पर्य्यटन् दीर्घतपसो मुनिर्वाक्यात् द्वीपवर्त्तिनीं तां सम्भाव्य तज्ज्ञप्तये दाशपतेरुत्स्थलद्वीपवासिनः मत्यव्रतस्य पार्श्वंगच्छन् वहनभङ्गतः अम्बुधौ मग्न इमां दशामापन्न इति एवमुक्तवन्तं तं सत्यव्रतः समवोचत् ब्रह्मन्! मत्यव्रतः सोऽहम्, एतच्च तत् उत्स्थलाख्यंद्वीपं, मया तु बहवो द्वीपा दृष्टाः सा पुनर्न कदापि, परं द्वीपान्तेषु सा नगरीश्रुता। इत्युक्त्वा विषमं तं शक्तिदेवं समीक्ष्य अभ्यागतप्रीत्या पुनरब्रवीत् ब्रह्मन्! मा विषादं कार्षीः, त्वभिहैवाद्य निशां वस, प्रातः कञ्चिदुपायं ते अभीष्टसिद्धये विधास्यामीति तेनाश्वास्य प्रहितः सुलभातिथिसत्कारं द्विजमठं प्रायात्।

तत्रैकेन विष्णुदत्तनाम्ना द्विजेन सह कृताहारः आलापं कृतवान्। तेन च प्रसङ्गात् पृष्टः स शक्तिदेवस्तस्मै संक्षे-

पेण निजं देशं कुलं वृत्तान्तञ्च सर्वं शशंस। तद्विदित्वा विष्णुदत्तः एनं परिरभ्य तत्क्षणं हर्षवाष्पाम्बुघर्घराक्षरमुवाच दिष्ट्या मातुलपुत्रस्त्वम् एकदेशभवश्च मम, अहञ्च शैशव एव तस्मात् देशादिहागतः। तदिहैव तिष्ठ, अचिरादेव ते इष्टं द्वीपान्तरादागच्छन्ती वणिक्कर्णिपरम्परा साधयिष्यति। इत्युक्त्वा स्वमन्वयम् आवेद्य विष्णुदत्तः यथोचितैरुपचारैस्तत्कालं तं शक्तिदेवमुपाचरत्। शक्तिदेवोऽपि विस्मृताध्वक्लेशः परां मुदं प्राप, बन्धुलाभो हि विदेशगतानां मराविव अमृतनिर्भरः। अमन्यत च स्वेष्टसिद्धिमदूरवर्त्तिनीम् अन्तरागतं हि श्रेयः कार्य्यसंसिद्धेः सूचकं भवति। ततो रात्रौ विनिद्रस्य शय्यायां निषेदुषः स्वेष्टचिन्तारतस्य तस्य शक्तिदेवस्य विनोदनार्थं विष्णुदत्तः पार्श्वस्थःकथामिमां कथयामास।

पुरासीत् गोविन्दस्वामी नाम महान् विप्रः कालिन्द्या उपकण्ठे महाप्रहारे जनपदे। तस्य गुणशालिनः सदृशौ द्वौ सुतौ अशोकदत्तो विजयदत्तश्चेति समभूताम्। कालेन तत्र वसतां तेषामतिदारुणं दुर्भिक्षमुदपादि। तेन गोविन्दस्वामी भार्य्यामुवाच प्रिये! अयं तावत् देशः दुर्भिक्षेणोपतापितः, तदहं सुहृद्बान्धवदुर्गतिं द्रष्टुं न शक्नोमि। कस्य वा कियत् दीयते, तस्मादन्नं यदस्ति नः, तद् बन्धुमित्रेभ्यो दत्त्वा अस्मात् स्थानात् वासाय सपरिवाराः वाराणसीमाश्रयामः। इत्युक्तयोर्भार्य्यायानुमतः सः निजमन्नं बन्धुमित्रेभ्यो दत्त्वा सदारसुतभृत्यस्तस्मात् देशात् प्रययौ, उत्सहन्ते हि साधवो न हि स्वज-

नापदं द्रष्टुम्। गच्छंश्च पथि जटिलं भस्मपाण्डुं कपालिनं सार्द्धचन्द्रमिवेशानं महाव्रतिनमीक्षाञ्चके। स तु तं ज्ञानिनमुपेत्य स्नेहेन पुत्रयोः शुभाशुभमपृच्छत्। स च योगी प्रत्यब्रवीत् ब्रह्मन्! पुत्रौ तव कल्याणिनौ भविष्यतः, किन्तु एतेन कनीयसा विजयदत्तेन ते वियोगो भविता। ततोऽस्वअशोकदत्तस्य प्रभावात् पुनरेतेन सह समागमो युष्माकं भविष्यति। इत्युक्तस्तेन ज्ञानिना स गोविन्दस्वामी तदा सुखदुःखाद्भुताक्रान्तस्तथामन्त्र्यययौ, क्रमेण च वाराणसीं प्राप्य तद्वाह्येचण्डिकागृहे देवीपूजादिव्यापारेण दिनमतिवाहयामास। सायञ्च तत्र तरोर्मूले सकुटुम्बः कार्पटिकैरन्यदेशागतैः समं समावसत्। रात्रौ च तत्र सर्वेषु अध्वश्रान्तेषु आस्तीर्णपर्णादिशय्यानिषादिषु सुप्तेषु तदीयस्य विबुद्धस्य कनीयसः सुतस्य विजयदत्तस्याकस्मात् महान् शीतज्वरोऽजनिष्ट। स च तेन भाविबन्धुविश्लेषहेतुना भयेनेव ज्वरेण सवेपथुरूर्द्धरोमा समभवत्। अवोचच्च शोतार्त्तः प्रबोध्य पितरं तात! बाधते मां सम्प्रति तीव्रः शीतज्वरो महान्। तत् शीघ्रंकाष्ठमानीय अग्निं ज्वलय शीतघ्नं, नान्यथा मे शान्तिः, न चाहं यामिनीं नेतुं शक्नोमि। तदाकर्ण्य गोविन्दस्वामी तद्वेदनार्त्तः समभ्यधात् पुत्र! कुतोऽधुना वह्निरिति। तदाकर्ण्य तात! नन्वयं निकटे ज्वलन्नग्निर्दृश्यते, अत्रैव भूयिष्ठेऽग्नौ गत्वा अङ्गं तापयामि, तस्मात् सकम्पं मां हस्ते गृहीत्वा अत्र द्रुतं नय इत्युक्तस्तेन पुत्रेण स विप्रोऽब्रवीत् पुत्र! श्मशानमेतत्, एषा च चिता ज्वलति, तत्कथं पिशाचादिदारुणेऽत्र गम्यते, त्वं हि बालकः।

एतत् पितुर्वत्सलस्य वचः समाकर्ण्य विहस्य स वीरो विजयदत्तः सावष्टम्भं तमब्रवीत् तात! पिशाचादिभिर्वराकैः किं मे क्रियते, किमहमल्पसत्त्वः, तदशङ्कं तत्र मां नय। एवमाग्रहेण पिता तं तत्रानयत्। सोऽपि बालः अङ्गतापनार्थं ज्वलन्तीं धूमत्र्याकुलमूर्द्धजां नृमांसग्राहिणीं रक्षोधिदेवतामिव चितामुपससर्प। क्षणात् तत्र समाश्वस्य स शिशुस्तं पितरं चितान्तर्दृश्यते, किमेतदिति पप्रच्छ। सोऽपि पिता कपालमेतत् मानुषस्य चितायां दह्यते इति प्रत्यवादीत्। ततः सोऽर्भकः ससाहसमेकेन दीप्ताग्रेण काष्ठेन निहत्य कपालं स्फोटयामास। तेनोच्चैः तस्मात् निर्गता वसा तस्य मुखे श्मशानाग्निनार्पिता नक्तञ्चरीसिद्धिरिवाविशत्। तदास्वाटेन च स बालस्तत्क्षणात् ऊर्द्ध्वकेशः शिखोत्खातखड़्गी दंष्ट्राविशङ्कटः राक्षसो भूत्वा कपालमाकृष्य तद्वसां पीत्वाअस्थिलग्नया निजजिह्वयालिलेह। ततः कपालं त्यक्त्वा उद्यतासिर्यावत् तं निजं पितरं गोविन्दस्वामिनं हन्तुमुपक्रमते तावत् भोः कपालस्फोट देव! पितायं ते न हन्तव्य इति श्मशानात् भारती उदचरत्। तदाकर्ण्य स राक्षसः कपालस्फोट इति नाम लब्ध्वापितरं मुक्त्वातिरोऽभूत्। तत्पितापि गोविन्दस्वामी हा पुत्र! हा गुणशालिन्! विजयदत्त! क्व गतोऽसीति मुक्ताक्रन्दस्तस्मात् चण्डीगृहमेत्य प्रातः पत्नैवसुताय ज्येष्ठाय अशोकदत्ताय च यथावृत्तमशंसत्। ततस्ताभ्यां पत्नीपुत्राभ्यां सह स तथा शोकानलसंवेगमतिदारुणं प्राप यथा देवीदर्शनागतोऽप्यन्यो जनस्तत्समदुःखतां ययौ।

तदा च देवीपूजार्थमागतः समुद्रदत्तनामा कश्चित्महाधनो वणिक् तत्र तथाविधं गोविन्दस्वामिनमपश्यत्। दृष्ट्वा चासौ समुपेत्य साधुस्तंद्विजं समागम्य सपरिजनपरिच्छदं निजावासमनैषीत्। उपाचरञ्च स्नानादिना उपचारेण, निसर्गो ह्येषः यदापन्नानामनुकम्पनम्। सोऽपि गोविन्दस्वामी पत्न्या सह योगिवचनादाश्वस्तः कथञ्चित्धृतिमलभत। ततः प्रभृति स तस्यामेव वाराणस्यां तेन महावणिजा अभ्यर्थितस्तदावास एवाध्युवास। तत्र च तदपरसुतः अशोकदत्तः क्रमात् प्राप्तयौवनः अधीतविद्यश्च बाहुयुद्धमशिक्षत। क्रमेण च स तथा प्रकर्षं प्राप यथा भूतले केनापि प्रतिमल्लेन नाजीयत।

एकदा देवयात्रायां मल्लसमागमे कश्चित् महामल्लः ख्यातिमान् दक्षिणापथात् समाययौ। तेन अत्र वाराणसीपतेः प्रतापमुकुटस्य पुरतः सर्वे मल्लाः पराजिताः। ततः स राजा मल्लयुद्धे तस्मात् वणिजो गृहात् तमशोकदत्तमानाय्य योद्धुं समादिशत्। सोऽपि मल्लः भुजं दत्त्वा भुर्जन युद्धमारभत। अशोकदत्तस्तु तस्य भुजं भङ्क्त्वातं न्यपातयत्। ततस्तत्र महामल्लनिपातोत्थितशब्दया संग्रामभुवापि सन्तुष्य साधुवादे उदिते राजा परितुष्टस्तं अशोकदत्तंरत्नैरपूरयत् अकरोच्च निजपार्श्वचरम्। सोऽपि राजप्रियो भूत्वा दिने दिने अभ्युदयं प्राप। अथ स राजा कदाचित् चतुर्द्दश्यां पुराद् बहिः सुप्रतिष्ठितः देवं शङ्करमर्च्चयितुमगात्। कृतपूजश्च नक्तंश्मशानस्य अन्तिकेनागच्छन् तदुद्गतां गिरमेतामशृणोत् प्रभो! अहं दण्डा-

धिपेन इह मिथ्याबध्यानुकीर्त्तनात् द्वेषेण शूलायां विद्धः, अद्य तृतीयो दिवसस्तथापि मे पापात्मनः प्राणा न निर्गच्छन्ति, तद् देव! अहमस्मि भृशं तृषितः, दापय मे किञ्चित् जलमिति। तदाकर्ण्य राजा कृपापरतन्त्रः पार्श्वस्थं तमशोकदत्तमब्रवीत् वीर! अस्य जलं ददातु भवान्। अशोकदत्तस्तु कोऽन्योऽत्र रात्रौ व्रजेत्, तदहमेव स्वयं गच्छामीत्युक्त्वाअम्बु गृहीत्वा तत्र ययौ। राजनि च स्वपुरं याते स वीरः महता तमसा सर्वतो वृतं क्वचित्शिवावकीर्णपिशितयुक्तसन्ध्यावलि क्वचिच्च चितानलज्योतिर्विदीपिप्तं क्वचिदपि नृत्यदुत्तालवेतालतालवाद्यं तदतिदारुणं कालरात्रिवासभवनमिव श्मशानमविशत्। गत्वा च केनाम्भो याचितं राज्ञ इत्युच्चैर्वदन् मया याचितमित्येकतः वाचमशृणोत्। गत्वा तद्वचनानुसारेण निकटस्थं चितामलं शूलाग्रविद्धं पुरुषम् अधश्च रुदतीं सर्वालङ्कारभूषिताम् अदृष्टपूर्वांकामपि सर्वाङ्गसुन्दरीं नारीञ्चापश्यत्। अवदच्च का त्वमम्ब! कथञ्चेह रुदती तिष्ठसीति एवमभिहिता सा योषित् तमब्रवीत् भद्र! अहमस्य शूलविद्धस्य दुर्लक्षणा भार्य्या अमुना सहैव चितारोहे निश्चितमतिः स्थितास्मि, अस्य प्राणानां निष्क्रमकालं प्रतीक्षेच परमद्य तृतीयेऽह्नि गतेऽपि नास्य प्राणा निर्यान्ति, अयञ्च पुनःपुनस्तोयं याचते, आनीतञ्च मया तोयं, किन्तु अहमुन्नते शूले अस्य मुखं न प्राप्नोमि। इति तस्य वचः श्रुत्वा स वीरोऽवोचत् भद्रे! इदमपि राज्ञाप्रेषितं जलं मम हस्ते तिष्ठति, तत् मम पृष्ठे पदं दत्त्वा अस्य मुखे जलं दीयतां,

न ह्यापदि परस्पर्शनमात्रंसतीनां दोषायेति। तदाकर्ण्य तथेत्युक्त्वाजलमादाय च शूलमूलावनतस्य तस्य अशोकदत्तस्य पृष्ठे पदद्वयं दत्त्वा सा आरुरोह। क्षणात् भुवि स्वपृष्ठे च रक्तविन्दून् पततो दृष्ट्वा स वीरः मुखमुन्नमय्य यावत् पश्यति तावत् तां स्त्रियं छुरिकया छित्वा तस्य शूलविद्वस्य मांसानि खादन्तीमपश्यत्। ततः स वीरः तां विकृतिं मत्वा क्रोधादाकृष्य भूतले निपातयिष्यन् रणितनूपुरे पदे जग्राह। सापि तरसा पादं तमाक्षिप्य स्वमायया गगनमुत्पत्य क्वाप्यदर्शनमगात्। अशोकदत्तस्य तु करान्तरे तस्मात् पादात् आकर्षणस्रस्तं मणिनूपुरमस्थात्। ततः स वीरः प्रथमं तां सुपेशलां ततः पापिनीं ततश्च विकृतदर्शनां दुर्जनसङ्गतिमिव नष्टां विचिन्तयन् हस्ते च दिव्यं नूपुरं पश्यन् सविस्मयः सतापः सहर्षश्च बभूव। ततः श्मशानात् स आत्तनूपुरः निजगेहमगमत्। प्रातश्च स्नातः राजकुलम् गत्वा च तस्य तृषितस्य जलं दत्तं किमिति पृच्छते राज्ञे स तथेत्युक्त्वा तं नूपुरमुपानयत्। कुत एतदिति सविस्मयं पृष्टश्च राज्ञा स सर्वं रात्रिवृत्तान्तमकथयत्। ततः स राजा तस्य अनन्यसामान्यं गुणोत्कर्षं सत्त्वमवधार्य्य भृशं तुतोष। गृहीत्वा च तं नूपुरं गत्वान्तःपुरं देव्यै हृष्टस्तं वृत्तान्तं समवर्णयत्। सापि तदाकर्ण्य दृष्ट्वा च दिव्यं नूपुरम् अशोकदत्तप्रशंसया मुदिताभवत्। अथ राजा तामगादीत् देवि! जात्या विद्यया सत्येन रूपेण चायं महतामपि महान्, तदयमशोकदन्तः यदि ममदुहितुर्मदनलेखाया भर्त्ता भवेत् तदा भद्रमहं मन्ये।

वरस्य गुणा एव लक्ष्याः, क्षणसङ्गिनी लक्ष्मीर्न, तदेतस्मै प्रवीराय प्रहं कन्यामिमां ददामि।

इति भर्त्तुर्वचनमाकर्ण्य सा देवी सारदमब्रवीत् नाथ! युक्तमेतत्, असौ युवा मम दुहितुर्योग्यो वरः, सा च मधुवनदृष्टेन तेन हृतचित्ता शून्याशया दिनेष्वेषु न शृणोति न च पश्यति। तस्याः सखीभ्यः एतत् श्रुत्वा सचिन्ताहं रात्रिशेषे सुप्ता कयापि दिव्याया स्त्रिया उक्तास्मि वत्से! मदनलेखेयं कन्यका नान्यस्मै देया, एषा हि अशोकदत्तस्य जन्मान्तरगेहिनीति। तदाकर्ण्य प्रबुद्धाहं प्रत्यूष एव गत्वा स्वयं तत्प्रत्ययात् वत्सां मदनलेखां समाश्वासितवती, अधुनाचार्य्यपुत्रेणेवमभिहितं तस्मात् वृन्तेनेव आर्त्तवी लता तेन वीरेणासौ सङ्गच्छताम्। इत्युक्तः प्रियया स राजा अशोकदत्तमाह्वय महता उत्सवेन तस्मै स्वां तनयां ददौ। तयोश्च राजसुताब्राह्मणपुत्रयोः लक्ष्मीविनययोरिव अन्योन्यशोभायै सङ्गमोऽभूत्।

अथैकदा राज्ञी अशोकदत्तानीतं तं मणिनूपुरमुद्दिश्य राजानमभाषत आर्य्यपुत्र! अयमेको बूपुरो न शोभते, तदेतस्य अनुरूपो द्वितीयः परिकल्प्यताम्। तन्निशम्यभूपतिः स्वर्णकारादीन् आहूय अस्यानुरूपो द्वितीयः विरच्यतामिति समादिशत्। ते तु तन्निरूप्य जगदुः देव! नेदृशः शक्यतेऽस्माभिरपरः कर्त्तुम्। एतत् हि दिव्यं शिल्पं न मानुषम्, इदृशानि रत्नानि नैव भूतले प्राप्यन्ते। तस्मात्यत एषः प्राप्तः, तत्रैव एतदनुरूपो द्वितीयो गवेष्यतामिति। एतदाकर्ण्य देव्या सह राजनि विषादं गते पार्श्वस्थितो-

ऽशोकदत्तः सहसा समब्रवीत् देव! अहमेव अस्य द्वितीयमानयामि। एवं प्रतिज्ञारूढः राज्ञा अपायशङ्किना निवार्य्यमाणोऽपि स्नेहात् निश्चयात् न चचाल। जगाम च पुनस्तन्नूपुरं गृहीत्वा श्मशानं निशि कृष्णचतुर्द्दश्याम्। प्रविश्य च तत्र निशाचरैरवकीर्णे पितृकानने पूर्वदृष्टां तामेव स्त्रियं पश्यन् महामांसविक्रयमुपायं बुद्धा तरुपाशात् शवमेकं जग्राह। बभ्राम च को महामांसं क्रीणातीति घोषयन्।

क्षणान्तरे च महासत्त्व! नीत्वागच्छ मया सहेति दूरतः समालपन्त्याः स्त्रिया वचनमाकर्ण्य स तामेव महिलामनुसरन् आरात् तरुमूले दिव्यरूपामेकां नारीमद्भुताकृतिंरत्नाभरणभूषिताम् आसनोपविष्टां स्त्रीभिः सहचरीभिरावृतामम्भोजिनीमिव मरावद्राक्षीत्। तथा च पूर्वदृष्टया स्त्रिया समुपनीतस्तथाभूतां तामुपेत्य नरमांसं विक्रीणे, गृह्यतामिति समभाषत। सा तु दिव्ययोषित् भो महासत्त्व! केनैतत् मूल्येन दीयते इति प्राह स्म। ततः स वीरः स्कन्धस्थितशवः करस्थं तमेकं मणिनूपुरं सन्दर्श्याब्रवीत् सुन्दरि! योऽस्य सदृशं द्वितीयं नूपुरं मे ददाति तस्य मांसमेतत् ददामि, यदि के अस्ति तदा गृह्यताम्। तदाकर्ण्य सा अभ्यधात् अस्त्यपरो नूपुरो मम, असौ तव हस्तस्थः मदीय एव त्वयैव पूर्वं हृतः। सा चाहं त्वया या शूलविद्धस्य पार्श्वतः कृतान्यरूपा दृष्टा, तस्मात् नाधुना परिज्ञातास्मि। तन्मांसेनालं

यदहं ब्रवीमि तत् करोषि चेत् तदास्य द्वितीयं सदृशं तुभ्यं निःसंशयं दास्यामि।

एवमुक्तः स वीरस्तथेति प्रतिपद्यावोचत् यत् त्वयोच्यते तत् अविलम्बितं साधयाम्येव। ततः सा तस्मै स्वाभिलषितमगदत् भद्र! अस्ति हिमाचलशिखरे त्रिघण्टं नाम पुरम्। तत्रासीत् लम्बजिह्वाभिधः प्रवीरो राक्षसाधिपतिः। तस्य विद्युच्छिखा नाम भार्य्याहं कामरूपिणीअस्मि। स च मे पतिर्देवदोषात् एतस्यां सुतायां जातायां कपालस्फोटस्य प्रभोः पुरतः संग्रामे निहतः। ततस्तेन प्रभुणा कपालस्फोटेन तुष्टेन निजपुरं मे दत्तं तत्राहं ससुता सुखेन स्थितास्मि। दुहिता चेयं सम्प्रति समारूढयौवना, तदर्थञ्च वरप्राप्तये अनुदिनं मे चिन्ता वर्त्तते। अतस्तदा चतुर्दश्यां राज्ञा सह समायान्तं त्वाममुना नक्तं विलोक्य इह स्थिताचिन्तयम्, अयं हि भव्यो युवा ममास्या दुहितुर्योग्यो वरः, तदेतत्प्राप्तये कञ्चिदुपायं कल्पयामीति। ततः शूलविद्धस्य वचसा मित्रेण जलं याचित्वा मध्ये श्मशानं त्वामुपनीतवत्यस्मि। तत्र च मायया अलीकवादेन त्वां विप्रलभ्य क्षणं पुनरिहाकर्षणाय युक्त्या स्वनूपुरमेकं त्वद्ग्रहणशृङ्खलापाशमिव संत्यज्य गताभूवम्। अद्य तु मया भवान् प्राप्तः, तदेतु गृहं नः, भजस्व मे सुतां गृहाण चापरं नूपुरम्।

एवमुक्तो निशाचर्य्या स वीरस्तथेत्युक्ता तया सह तद्योगेन गगनपथा तत्पुरमगात्। अपश्यच्च हिमवतः शृङ्गे सौवर्णं गगनाध्वविश्रामार्थं स्थितमर्कबिम्बमिव तत्पुरम्

तत्र च विद्युत्प्रभां नाम तस्याः सुतां स्वसाहसमहासिद्धिमिव मूर्त्तामवाप्य तया सह कञ्चित्कालं श्वश्रूविभवनिर्वृतस्तस्थौ।

अथैकदा सोऽशोकदत्तः श्वश्रुमवादीत् मातः! देहि मै तं नूपुरं, सम्प्रति वाराणस्यां गन्तव्यं, प्रतिज्ञातंमया राज्ञः पुरः एतस्य लब्धये। इत्युक्ता सा रात्रिचरी तं द्वितीयं नूपुरं तस्मे दत्त्वा पुनः सुवर्णकमलमेकं ददौ। ततः स वीरः पुनरागमनवचसा तां परितोष्य तस्मात्पुरात् निर्गत्य तयैव श्वश्र्वाआकाशपथेन तत् श्मशानं प्रापितः। तत्र च तरुमूले स्थिता सा जामातरमगादीत्वत्स! सदा कृष्णचतुर्दश्यामिह रजन्यामागमिष्यामि, तस्मात् यदा यदा निशि तस्यां त्वमत्र आगमिष्यसि तदैव अस्मात् वटतरोर्मूलात् मां प्राप्स्यसि।

एतदाकर्ण्य सः अशोकदत्तः तथेति तामामन्त्र्यपितृगृहमगात्। पितरौ च कनीयः सुतविरहदुःखद्वैगुण्यदायिना तत्प्रवासेन नितरामार्त्तौअतर्कितागतं तं सुतमालोक्य यावत् अभिनन्दतः, तावत् तस्य श्वशुरो नरपतिस्तत्राययौ। स नृपस्तंप्रणतं साहसिकस्पर्शभीतैरिवाङ्गैः सकण्टकैः समालिङ्ग्यभृशं मुमुदे। निनाय च तं स्वपुरं रूपवन्तमिव प्रमोदम्। ततः स वीरः श्वशुराय तत् दिव्यं नूपुरयुगलं तच्च सुवर्णकमलं समर्पयत्। पृष्टश्च श्वशुरेण श्वश्र्वाच कौतुकात् यथावृत्तं सर्वमवर्णयत्। को हि साहसं विना ईदृशं सौभाग्यं लभते? एवं वदन् राजा राज्ञी च तेन जामात्रा आत्मानं कृतार्थममोन्यत।

अथान्येद्युः स राजा स्वकृते सुरसद्मनिं शोभने रजतकलसोपरि तत् स्वर्णपद्ममस्थापयत्। तौ च पद्मकलसौ रक्तसितौ यशःप्रतापाविव नृपाशोकदत्तयोः शुशुभाते। तौ च तादृशौ विलोक्य शैवो नरपतिः सहर्षो भक्तिरसेन समभाषत अहोः अमुना सौवर्णेन कमलेन भूतिशुभ्रः कलसोऽयं राजतः कपर्द्दीव बभ्रुणा जटाजूटेन विभाति, यदि द्वितीयमीदृशं स्वर्णाञ्चलभ्यते, तदा द्वितीये कलसे तदपि एवं स्थापयामि। इत्येवं राजवाक्यं निशम्य सः अशोकदत्तः समभाषत देव! आज्ञापय माम्, आनेष्यामि द्वितीयमम्भोजं त्वदर्थम्। तदाकर्ण्य राजा प्रत्युवाच वत्स! अलं साहसेन, न ममास्ति अन्येन प्रयोजनमिति।

अथ गच्छत्सु दिवसेषु आयान्त्यां कृष्णचतुर्दश्यां रजन्यां स वीरः प्रसुप्तां राजपुत्रीं विहाय तत् श्मशानं पुनर्ययौ। ददर्श च तत्र तां श्वश्रूं राक्षसीमादरेण कृतस्वागतवचनाम्। ततस्तया सह पुनस्तद्भवनमेत्य कञ्चित् कालं तस्या दुहित्रा सह स्थित्वा तामब्रवीत् मातः! द्वितीयं मे कनकाम्बुजं देहि। तन्निशम्य साब्रवीत् वत्स! कुतो मेऽस्य द्वितीयम्? अस्मत्प्रभोः कपालस्फोटस्य सरो विद्यते, यत्र ईदृशानि शतशो हेमाब्जानि सन्ति, स तु प्रीत्या मम भर्त्रे तदेकं दत्तवान्।

एवं तयोक्त सोऽब्रवीत्, तर्हि तत्सरो मे दर्श्यताम्, अहं स्वयं तस्मात् कनकाम्बुजमादास्ये। न त्वयैतत् शक्यं, तद्धि दारुणै रक्षोभिः संरक्ष्यते। एवं निषिद्धोऽपि श्वश्र्वास निर्बन्धं नात्यजत्। ततः कथञ्चित् श्वश्र्वातया नीतश्च

दूरात् तुङ्गाद्रिकटकान्वितं निरन्तरोद्दीप्तहेमसराजेश्चितं तत् दिव्यंसरो ददर्श। यावच्च तत्र गत्वा पद्मानि सञ्चिनोति तावत् तं घोरा निशाचराः संरुरुधुः। स च शस्त्रैस्तान् अन्यांश्चाबधीत्। ये च पलायितास्ते सत्वरं गत्वा कपालस्फोटस्य तं वृत्तान्तं न्यवेदयन्। स तु रक्षसां पण्डितस्तदाकर्ण्य कुपितः स्वयमागत्य अशोकदत्तं तं लुण्ठिताम्बुजमपश्यत्। प्रत्यभिजानाच्च सविस्मयः कथं स मे भ्रातायमशोकदत्तः समायातः? ततः शस्त्रमुत्सृज्य सहर्षबाष्पाकुलनयनः धावित्वा अस्य पादयोः पतित्वा सद्यस्तमब्रवीत् अयं ते विजयदत्तो नाम सोदरः, आवां द्विजवर्य्यस्य गोविन्दस्वामिनः सुतौ इयच्चिरञ्च जातोऽहं दुर्देवात् निशाचरः चितायाः कपालस्फोटनात्कपालस्फोटाख्यः। भवद्दर्शनाच्च इदानीं मेब्राह्मण्यं स्मृतावारूढ़ं गतञ्च राक्षसत्वं मोहाच्छन्नचैतन्यम्। ततश्चाशोकदत्तः विजयदत्तस्य भ्रातुरङ्गं राक्षसीभावदूषितं परिरभ्य वाष्पाम्बुपूरेरात्मानमपूरयत्।

अथ कोशिको नाम विद्याधरगुरुर्दिवः समागत्य तौ भ्रातरावब्रवीत् यूयं सर्वे विद्याधराः शापादीदृशीं दशां गताः, अधुना च स शापो व्यतिक्रान्तः, तदेतां निजविद्यां गृह्णीतं गच्छतञ्च स्वं धाम। एवमुक्त्वाविद्यां दत्त्वा तयोर्गुरुर्दिवमगात्। तौ विद्याधरीभूतौ प्रबुद्धौगृहीतकनकाम्बुजौहिमवतः शृङ्गः व्योम्ना जग्मतुः। तत्र चाशोकदत्तः तां राक्षससुतां प्रियां प्राप। सा च तदानीं क्षीणपापा विद्याधरी संवृत्ता। तया च सह तौ भ्रातरा-

दुभावपि गगनमार्गेण क्षणात् वाराणसीं प्रयातौ। तत्र च पितरावुपेत्य वियोगानलसन्तप्तौ दर्शनामृतवर्षणेन निरवापयताम्। बभूवतुश्च शरीराभेदेऽपि प्राप्तचित्रजन्मान्तरौ च न पित्रोरेव सर्वस्यापि जनस्योत्सवाय। चिराच्च विजयदत्तः गाढ़माश्लिष्यतः पितुरुरस्थलं मनोरथमिवापूरयत्। ततस्तत्र राजा प्रतापमुकुटोऽपि श्वशुरोऽशोकदत्तस्य विदितवृत्तान्तो हर्षात् समाययौ। तेन च सत्कृतः अशोकदत्तः स्वजनैः सार्द्धं समुत्सुकप्रियां बद्धमहोत्सवां तद्राजधानीमगमत्, अदाञ्च राज्ञे बहूनि कनककमलानि। स तु नृपः प्रार्थिताधिकलाभेन भृशं परितुतोष।

ततः पिता गोविन्दस्वामी श्रृण्वत्सु सर्वेषु समाश्चर्य्यकौतुकः तं विजयदत्तमपृच्छत् वत्स! तदा श्मशाने सहसा राक्षसीभावं गतस्य ते सर्वो वृत्तान्तः संवर्ण्यतामिति। विजयदत्तोऽभ्यधात तात! चापलात् दुर्दैवनिबन्धनात्प्रस्फोटितचितादीप्तकपालोऽहं मुखप्रविष्टया तद्वसया रक्षोभावमापन्नस्त्वया मोहाच्छन्नविग्रहः दृष्टः। तेन च कपालस्फोट इति नाम्ना राक्षसैरन्यैराहूतस्तैश्च तत्क्षणात्मिलितोऽभवम्। तैश्च क्रमेण रक्षसां पतेः पार्श्वमुपनीतः। सोऽपि राक्षसेन्द्रः मां दृष्ट्वा सम्प्रीतः सेनापतिमकरोत्। ततः कदाचित् सः राक्षसपतिः मदेन गन्धर्वान् अभियोक्तं गतो निहतश्च संग्रामे रिपुभिः। तदैवाहं तदीयैर्भृत्यवर्गैस्तद्राज्यंग्राहितस्तत्पुरे स्थितः राक्षसाधिपत्यमकार्षम्। अकस्मात् आर्य्यस्य अशोकदत्तस्य काञ्चनकमलार्थं तत्र गतस्य दर्शनात् सा मम दशा प्रशान्ता। अनन्तरञ्च यथा

आवाभ्यां शापमोक्षात निजा विद्याः प्राप्ताः तथार्य्यो वः सर्वमावेदयिष्यति। एवं विजयदत्तेन निवेदिते अशोकदत्तस्तदा सर्वं सविस्तरमवर्णयत्।

पुरावां विद्याधरौ गगनात् गालवस्य मुनेराश्रमे गङ्गायां स्नान्तीःमुनिकन्यका अपश्याव। ततश्च तुल्यानुरागास्तास्तत्र रहसि कामयमानौ बुद्ध्वा तद्बन्धुभिर्दिव्यदृष्टिभिः क्रोधात् शप्तौ पापाचारौ युवां प्रजायेथां मनुष्ययोनौ तत्रापि युवयोर्विचित्रो वियोगो भविता, यदा च मानवागम्ये देशे विदूरे युवयोरेकः अपरेण सङ्गमिष्यते तदा प्रज्ञानमाप्स्यथः, तदा च विद्याधरगुरोः सकाशात्विद्यां लब्ध्वापुनः शापमुक्तौ विद्याधरौ भविष्यथ इति। एवं तैर्मुनिभिरभिशप्तौ आवां भवतां कुले समुत्पन्नौ, वियोगश्चावयोर्यथाभूतस्तत् सर्वं घोविदितम्, इदानीं कनकाब्जार्थं श्वश्रूसिद्धिवशात् रक्षोराजस्य पुरं प्राप्य प्राप्तोऽयमनुजः । ततश्चावां कौशिकात् गुरोर्विद्याः समधिगम्य सद्यो विद्याधरत्वमापन्नौ भवद्दर्शनार्थं क्षिप्रमिहागतौ।

एवं पितरौ तनयाञ्च भूपतेः प्रियतमामुक्त्वाअशोकदत्तः सद्यः शापविमुक्तिमुदितः स्वैर्विद्याविशेषैस्तैस्तैस्तथा संव्यभजत् यथा एतेऽपि बन्धुवर्गाः प्रबुद्धमनसः सद्यः विद्याधरत्वमगमन्। ततश्च तं नृपं समामन्त्र्यभ्रात्रा पितृभ्यां प्रियतमाभ्यां द्वाभ्याञ्च सह गगनमार्गेणोत्पत्य विद्याधरपुरमगच्छत्। तत्र च गत्वा तौ भ्रातरौ तं विद्याधरराजमालोक्यतदाज्ञया अशोकवेगविजयवेगनामानौ सन्तौ स्वजनैः निजावासं गोविन्दकूटाख्यमचलं ययतुः।

प्रतापमुकुटञ्च वाराणसीपतिरद्भुतदर्शनेन सञ्जातहर्षः स्वस्मिन् देवसद्मनि द्वितीयकलसे न्यस्तहेमाम्बुजः अपरैश्च स्वर्णकमलैरभ्यर्चितशङ्करः कृतार्थमात्मानं कुलञ्चामन्यत।

एवं दिव्याः शापवशादवतीर्णा जन्तवो जीवलोके महासत्त्वं दधानाः अन्यदुर्लभामर्थसिद्धिं प्राप्नुवन्ति। तत्महासत्त्व! मन्ये भवानपि कोऽपि देवविशेष एव तस्मात्अवश्यमेव मनोरथसिद्धिर्भविता, सोत्साहता हि दुष्करासु क्रियासु महतां प्रकृतेर्विशेषं प्रायशः शंसति। साऽपि भवदभिमता राजवाला कनकरेखा नूनं दिव्या, नो चेत्कथं कनकपुरीदर्शिनं पतिं काङ्क्षति। इत्येवं विष्णुदत्तात्रहसि सरसां कथामुपनिशम्य हृदि कनकपुरीविलोकनाशां दधौ निनाय च धृतिमालम्ब्यकथञ्चित् त्रियामाम्।

इति पञ्चविंशस्तरङ्गः।

  • *
    

अथ षड्विंशस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1720922668243.png"/>

अथ तत्र उत्स्थलद्वीपे प्रातस्तंमठस्थं शक्तिदेवं दासपतिः सत्यव्रतः समुपायातः समभाषत ब्रह्मन्। चिन्तितो मया त्वदिष्टसिद्ध्यर्थमुपायः। अस्त्युम्बुधेरन्तः रत्नकूटाख्यं द्वीपवरम्। तत्र भगवान् नारायणः अब्धिना कृतप्रतिष्ठ

आस्ते। आषाढशुल्कद्वादश्यां तत्र यात्रोत्सवे सदा सर्वद्वीपेभ्यः तत्पूजार्थमागच्छन्ति भक्तिमन्तो जनाः। तत्र अवश्यमेव बहुतरजनसङ्गेन सा कनकपुरी ज्ञातव्या, तदागच्छ तत्र गच्छावः, प्रत्यासीदति च सा तिथिः।

एवं सत्यव्रतेनोक्तः शक्तिदेवस्तथेति प्रतिपद्य दृष्टः पाथेयं विष्णुदत्तकल्पितं गृह्णन् सत्यव्रतदत्तञ्च वाहनमारुह्य तेनैव सत्यव्रतेन साकं वारिधिवर्त्मना त्वरितं प्रायात्। गच्छंश्च स तत्र द्वीपनिभनक्रे अद्भुतनिकेतने कर्णधारतया स्थितं सत्यव्रतमपृच्छत् भद्र! इतो दूरात् किमेतदम्बुधौ महाभोगं यदृच्छया समुत्थितसपक्षपर्वतनिभं किं दृश्यते? सत्यव्रतोऽवादीत् ब्रह्मन्! असौ वटवृक्षः, अस्याधस्तात् सुमहावर्त्तं वड़वामुखं कीर्त्त्यते, इमञ्च परिहृत्य प्रदेशमिह गम्यते, अस्मिंश्चावर्त्ते पतितानां नैव पुनरागमः। एवं सत्यव्रते वदति एवं तद् वहनं वायुवेगतस्तस्यामेव दिशि गन्तुं प्रववृते। तद् दृष्ट्वा सत्यव्रतः शक्तिदेवं पुनरवदत् ब्रह्मन्! विनाशोऽयमस्माकं ध्रुवमुपस्थितः पश्य यदकस्मात् प्रवहणमेतत् अत्रैव प्रयाति, कथमपि मयाधुना रोद्धुं न शक्यते। तदस्मिन्नावर्त्ते मृत्युमुख इव वयमम्बुधिना बलीयसा स्वकर्म्मणाकृष्य क्षिप्यन्ते, न च मे किञ्चन दुःखमेतेन, शरीरं हि क्षणभङ्गुरम्, एतदेव दुःखं यत्ते मनोरथो न कृच्छ्रेणापि पूरितः। तत् यावदेतत् प्रवहणं मनाकधारयामि तावदस्य वटतरीः शाखां द्रुतमवलम्बस्व। कदाचित्तवेदृशाकृतेः जीवनोपायो भवेत्, को हि विधिविलसितानि सामरतरङ्गांश्च तर्कयेत्। एवं वदत एव सुधीरस्य सत्य

व्रतस्य सविधे वटतरोः प्रवहणं तत् समगच्छत्। क्षणेन च शक्तिदेवः कृतोत्फालः साध्वसात् तस्यवटतरोर्विशालां शाखामग्रहीत्। सत्यव्रतस्तु परार्थकल्पितेन देहेन वहनेन चवड़वामुखमविशत्। अथ शक्तिदेवः शाखाच्छादितदिशस्तस्य तरोः शाखामेकामाश्रित्य निराशः संचिन्तितवान् हा हन्त! मया सा पुरी न दृष्टा, प्रत्युत अपदे नश्यता दाशेन्द्रोऽपि मत्कृते नाशितः, अथवा केन पुनः सर्वजनशिरसि न्यस्तपदा भगवती भवितव्यता व्यतिक्रम्यते। एवं चिन्तयन् स विप्रकुमारः कथञ्चित् तस्मिन्नेव तरुस्कन्धे दिनमनयत्। सायञ्च तस्मिन् समन्ततः समागच्छतो महाविहगान् बहून् शब्दपूरितदिङ्मुखाम् पृथपक्षवातधूतार्णवोर्म्मिभिः परिचयप्रीत्या कृतप्रत्युद्गमानिव गृध्रान् ददर्श। ततश्च क्रमेण शाखाविलीनानां तेषां पक्षिणां मनुष्यवाचा मिथः संलापं स पत्रसङ्घैः समावृतदेहः समशृणोत्। कश्चित् द्वीपान्तरं कोऽपि गिरिं कश्चित् दिगन्तरं तद्दिनचरणस्थानमेकैकः समकथयत्। तेषाञ्चै को वृद्धगृध्रः समभाषत अहमद्य कनकपुरीं विहर्त्तुमगमं, प्रातश्च तत्रैव सुखं विहर्त्तुं गमिष्यामीति। एवमतर्कितसुधासारसमेन वचसा सः शक्तिदेवः शान्ततापः समचिन्तयत् दिष्ट्यासा नगरी अस्त्येव, तत्प्राप्त्यैच अयमेव विहगराजः मम वाहनीकृतः। इत्यालोच्य स शक्तिदेवः शनैरेत्य तस्य सुखसुप्तस्य विहगवरस्य पृष्ठपक्षान्तरे समलीयत। प्रातश्च तेषु अन्येषु पक्षिषु इतस्ततो गवेषु स पक्षीदर्शिताश्चर्य्यपक्षपातः विधिरिव दत्तास्कन्दे पृष्ठ शक्तिदेवमलक्षितं वहन् क्षणात् तां कनक-

पुरीं चरितुं पुनर्जगाम। तत्रोद्यानान्तरेसमुपविष्टे तस्मिन् विहङ्गे स शक्तिदेवः निभृतं तस्य पृष्ठादवातरत्। अपसृत्य च तस्मात् यावत् तत्र भ्राम्यति तावत् पुष्पावचयव्यग्रे द्वे महिले समदृश्येताम्। ते च सहसा तस्य विलोकनेन विस्मिते दृष्ट्वा सोऽब्रवीत् भद्रे! कः प्रदेशोऽयं, के च युवाम्? अथ ते तमूचतुः भद्र! इयं कनकपुरी नाम विद्याधरनगरी, अस्यां चन्द्रप्रभा नाम विद्याधरी वर्त्तते तस्याश्चावामुद्यानपालिके विजानीहि, तदर्थश्चायं पुष्पावचय इति।

अथ स युवागदत् भद्रे! युवां दयां मे तथा कुरुत यथा युवयोः स्वामिनीमहम् अद्य पश्यामि। एतदाकर्ण्ये ते उभे तं विप्रयुवानं नगर्य्यामन्तः राजमन्दिरमनयताम्। सोऽपि तत्र गत्वा माणिक्यस्तम्भभास्वरं सम्पदां निकेतनमिव सौवर्णभित्ति तत्सदनमद्राक्षोत्। तञ्चागतमपूर्वं युवानं दृष्ट्वा सर्वः परिजनः चन्द्रप्रभासकाशं गत्वा न्यवेदयत्। सापि श्रुत्वा अविलम्बितमेव प्रतीहारीमादिश्य तम् अभ्यन्तरं स्वनिकटं प्रविशयत्। प्रविश्य च सः तां नेत्रानन्ददायिनीं धातुरद्भुतसृष्टिमिव रूपवतीमद्राक्षीत्। सापि तद्दर्शनजनितानन्दा तत्क्षणात् रत्नपर्य्यङ्गात् समुत्थाय स्वयं स्वागतेन समादृतवती। अब्रवीच्च समासीनं कल्याणिन्! कस्त्वमीदृशः? कथं वा मानुषागम्याम् इमां भूमिमनुप्राप्तो भवान्? इत्युक्तस्तया चन्द्रप्रभया स शक्तिदेवः सकुतूहलं निजं देशं जातिं नाम चावेद्य तत्पुरीदर्शनपणात् तां राजकन्यां कनकरेखां प्राप्तुं ययागतं तच्च

सर्वं समवर्णयत्। तदाकर्ण्य किमपि ध्यात्वा दीर्घं निःश्वस्य च चन्द्रप्रभा विजने तमवादीत् सुभग! श्रूयतां किञ्चित्ते वक्ष्यामि। अस्ति अस्यां पुरि शशिखण्डो नाम विद्याधरराजः। वयं चतस्त्रस्तस्य दुहितरोजाताः। ज्येष्ठा चन्द्रप्रभाहं, द्वितीया चन्द्ररेखा, तृतीया शशिरेखा, चतुर्थी शशिप्रभा। तासाञ्च नः पितृगृहे वर्द्धमानानां द्वितीयादयस्तिस्रः भगिन्यः कदाचित् कन्याव्रतस्थायां मयि स्त्रातुं मन्दाकिनीमगच्छन्। तत्रारब्धजलक्रीड़ाश्चासिञ्चन् सलिलैर्यौवनदर्पोद्धता अग्र्यतपसं नाम मुनिम्। स च मुनिः परिक्रुद्धस्ताः शशाप कुकन्यकाः! मर्त्यलोके प्रजायध्वमिति। विदित्वैतत् मम पित्रा तत्र गत्वा प्रसादितः स महर्षिः पृथक् पृथक् शापान्तमुक्त्वा सर्वासामेव तासां दिव्येन विज्ञानेन सह जातिस्मरत्वमादिशत्। ततस्तासु भगिनीषु स्वं स्वं देहं त्यक्त्वा मर्त्त्यलोकमितासु स मे पिता शोकार्त्तः मह्यमिमां नगरींदत्त्वा वनमियाय।

अथ कदाचित् इह वसन्तीं मां देवी चण्डिका स्वप्ने किल समादिदेश पुत्रि! मानुषस्ते भर्त्ता भवितेति। तेन च बहून्विद्याधरान् समतिक्रम्य अद्यापि कन्यैवास्मि, अधुना च अद्भुतेनानेन ते आगमनेन वपुषा च वशीकृत्य तुभ्यमेवाहं समर्पिता। तदागामिन्यां चतुर्दश्यां पितरमामन्त्रयितुं भवत्कृते ऋषभाख्यं गिरिं गच्छामि। तत्र चास्यां तिथौ सर्वे विद्याधरा देवं त्र्यम्बकमर्चयितुं दिग्भ्यः समागत्य प्रतिवर्षं मिलन्ति। तातोऽपि तत्रायाति, अतस्तदनुज्ञामवाप्य तूर्णमिहागच्छामि, ततस्त्वंमां परिणेष्यसि।

उत्तिष्ठ तावत् इत्युक्त्वासा चन्द्रप्रभा विद्याधरोचितैर्भोगैस्तं शक्तिदेवमुपाचरत्। तस्य च तत्र स्थितस्य तथा सुखमभूत् दावानलतप्तस्य यथा सुधाह्रदनिमज्जने। अथागतायां चतुर्दश्यां सा चन्द्रप्रभा तमब्रवीत् अद्याहं भवत्कृते पिंतरं विज्ञप्त्यै गच्छामि, परिजनश्च सर्वः मयैव सह यास्यति, तत्त्वयैकाकिना अत्र मन्दिरे तिष्ठता दिवसद्वयं न दुःखं चिन्त्यं, मध्यमा भूमिः कथञ्चन नारोहणीया। इत्युक्त्वा तं युवानं तदन्तिकन्यस्तचित्ता तञ्चिन्तानुगता च सा चन्द्रप्रभा पितुरन्तिकमगात्। शक्तिदेवोऽपि एकाकी तत्र वसन् स्थानस्थानेषु महासमृद्धिसम्पन्नेषु भ्रमंश्च किंस्विदनया विद्याधरसुतया मध्यमभूमावारोहणं निषिद्धमिति जातकौतूहलस्तामेव भूमिमध्यारुरोह। प्रायेण वारितकामा हि मानवानां प्रवृत्तिः। तत्रारूढश्चत्रीन्गुप्तान् गर्भगृहान् दृष्ट्वा एकम् उद्घाटितद्वारं तेषां प्रविवेश। प्रविश्य च तत्र सदत्नपर्य्यङ्केन्यस्ततूणिके वसनाच्छादितदेहां शयानां कामपि नारीमपश्यत्, यावच्च उत्क्षिप्य पटमीक्षतेतावत् परोपकारिनृपतेस्तनयां मृतां वरतनुं दृष्ट्वा समचिन्तयत् किमिदमद्भुतम्? किमप्रबोधसुप्ता इयं किंवा मे भ्रमः, यस्याः कृते मम प्रवासः सा एव किमिह तिष्ठति, असावत्र गतप्राणा, तत्र देशे च जीवति अम्लानकान्तिश्च दृश्यते, अथवा विधात्रा मम मोहनार्थम् इन्द्रजालमिदं वितन्यते? एवं संचिन्त्य तस्माच्च निर्गत्य क्रमात् अन्यौ मण्डपौप्रविश्य तयोरन्तश्चतद्वत्द्वे कन्यके ईक्षाञ्चक्रे। अथ ततोऽपि निर्गतः कौतुक-

बद्धचेता अधस्तादुपविष्ट उत्तमांवापीमपश्यत्। तीरे च तस्या रत्नपर्य्याणमेकं वाजिनं दृष्ट्वा कौतुकात् तत्समीपं गत्वा तमारोढुमैच्छत्। तेन चाश्वेन पादेनाहत्य तस्यामेव वाप्यां निक्षिप्तः। स शक्तिदेवस्तत्र निमग्नः क्षिप्रं वर्द्धमानपुरात् निजादुद्यानदीर्घिकामध्यात् ससम्भ्रमः समुतस्थौ। ददर्श चात्मानं जन्मभूमौ वापीजले स्थितं चन्द्रप्रभाविरहदीनं कुमुदेन तुल्यम्। समचिन्तयच्च अहो किमेतत् आश्चर्य्यमायाकरण्डमुज्जृम्भितम्? कष्टं किमपि, केनापि मन्दभाग्योऽस्मि वञ्चितः, अथवा को जानाति कीदृशी भवितव्यता? एवं मनसा वितर्कयन् स शक्तिदेवः स्वं पितृभवनं गत्वा पित्रा चाभिनन्दितः सोत्सवैःस्वजनैः सह दिवसमनयत्। द्वितीये चाह्निस वहिर्गतस्तदेव घोष्यमाणं सपटहं विप्रो वा क्षत्रियो यः कनकपुरीं तत्त्वतो दृष्टवान् स आगच्छतु तस्मै तनयां यौवराज्यसहितां ददाति नृपतिरिति वचनमशृणोत्।

तदाकर्ण्य सः पटहघोषिणः समुपेत्य समभाषत दृष्टामया कनकपुरोति। तेश्च पूर्ववत् नृपतेरन्तिकं स समनीयत। नृपस्तु तं प्राग्वत् पुनर्वितभाषिणममन्यत। ततस्तेन मिथ्यात् ब्रवीमि चेत् मम शरीरनिग्रह एवात्र पणोऽस्तु, अद्य राजपुत्री मां पृच्छतु एवमुदिते राजा तां सुतां सभायामानाययत्। सा तु दृष्टपूर्वं विप्रकुमारं दृष्ट्वा राजानमभ्यधात् पितरेष भूयोऽपि मिथ्या किञ्चित् वक्ष्यतीति। शक्तिदेवोऽब्रवीत् राजपुत्रि ! अहं सत्यं मृषैव वा ब्रवीमि त्वन्तु वदतत्त्वतः, ममात्र महत् कौतुकं कनक-

पूर्य्यां त्वं पर्य्यङ्के गतजीविता मया दृष्टा, इह तु कथं जीवन्तीं पश्यामि भवतीम्। एवमुक्ता साभिज्ञानं शक्तिदेवेन सा नृपदुहिता कनकरेखा सद्यः पितरमवादीत्तात! सत्यमनेन महात्मना सा नगरी दृष्टा, अचिराच्च एष तत्रस्थाया मे भर्त्ता भविता, तत्र चान्या मम भगिनीश्च तिस्रः परिणेष्यति, करिष्यति च तस्यां पुरि विद्याधराधिराज्यम्। मया त्वद्यैव स्वा तनुः प्रवेश्या, सा पुरी च मुनिशापादेवाहं भवत्कुले सञ्जातास्मि। यदा कनकपुर्य्यां तव देहमालोक्य कश्चित् मानुषस्तत्त्वभेदं करिष्यति, तदा ते शापविमुक्तिः भविष्यति, स च मानवस्ते पतिरिति पुनः स मुनिः समादिशत्। अहञ्च मर्त्त्यभावेऽपि जातिस्मरा विज्ञानवती चाभवं तदधुना सिद्धये वैद्याधरं पदं व्रजामि। इत्युक्त्वा सा राजसुता सद्यस्तनुं त्यक्त्वा तिरोदधे। क्षणे च तस्मिन् उदभवत् तुमुलः समाक्रन्दस्तस्मिन्राजसद्मनि। शक्तिदेवस्तु किंकर्त्तव्यविमूढ़ः असम्पूर्णमनोरथः ते द्वे अपि प्रेयस्यौचिन्तयन् राजभवनात् निर्गत्य क्षणं पर्य्यालोचयत्, अभीष्टं मे अवश्यंभावि कनकरेखया उक्तं तत् किं विषीदामि, सिद्धिञ्चसत्वमपेक्षते, तस्मात्तेनैव पथा पुनस्तां पुरीं गच्छामि, अवश्यमेव दैवमुपायंविधास्यति। इत्यालोच्य स तस्मात् प्रायात् नह्यसिद्धमनोरथा निवर्त्तन्ते सत्त्ववन्तः। गच्छश्च चिरेण पुनर्विटङ्कपुरं प्राप्य तं सम्मुखागतं वणिजमपश्यदतर्कयच्च येन सह समुद्रं गतस्य प्रथमं पोतोऽभज्यत स एवायं समुद्रदत्तःदृश्यते, कथं स अम्बुधौ पतितस्ततः समुत्तीर्णः चित्रमिदम् अथवा

अहमेवात्र निदर्शनमिति। अथ यावत् स द्विजस्तंमुपगच्छति तावत् स वणिक् तं परिज्ञाय हृष्टः कण्ठे समग्रहीत् अनैषीच्च स्वंनिकेतनं अप्राक्षीच्चकृतातिथ्यः कृत्स्नं वृत्तान्तम्। शक्तिदेवः सविस्तरं स्ववृत्तमाख्यत्यथाहं मत्स्यनिगीर्णः प्राक् उत्स्थलद्वीपमगमम्। ततश्च तमपि वणिजं प्रत्यपृच्छत् कथं त्वया अम्बुधिमग्नेन समुत्तीर्णं वर्ण्यतामिति। सोऽब्रवीत् अहम्बुधिमग्नः दिनत्रयं प्लवन् एकं फलकमात्रमाश्रितः कथमपि आसम्। दैवाच्च तेन पथा एकं वहनमागच्छत् दृष्टम्। तत्रस्यैश्चाहमाक्रन्दन् दृष्ट्वा कृपया तत्राधिरोपितः स्वमेव पितरं तत्र स्थितं पूर्वं वाणिज्यार्थं द्वीपान्तरागतमपश्यम्। स तु मां चिरात् दृष्ट्वा प्रत्यभिज्ञाय च कृतकण्ठग्रहः रुदनपृच्छत् कयमेवमवस्थां गतोऽसीति। अहमब्रुवं तात। चिरेणापि प्रयाते भवति अनायाते विषीदन् कथमपि स्वजनैः परिसान्वितः पश्चात् स्वधर्म्म इति वाणिज्ये प्रवृत्तोऽस्मि। तत्प्रसङ्गेन च द्वीपान्तरं गच्छन् दुर्दैवात् वहनभङ्गतः अद्य दिनत्रयमम्बुधौ निमग्नः सम्प्रति भवद्भिरुद्धृतः। एवमुक्तस्तातो मां सोपालम्भमब्रवीत् पुत्र! कथमीदृशान्प्राणसंशयानारोहसि? धनमस्ति मे प्रभूतम्, अहञ्च तदर्जने स्थितोऽस्मि, पश्य मयेदं काञ्चनपूरितं प्रवहणमानीतम्। एवमुक्ता मां समाश्वास्य तेन वहनेन पिता मां विटङ्कपुरेऽस्मिन् स्वं गृहमनयत्।

निशम्यैतत् स शक्तिदेवः विश्रम्य तां त्रियामां परेद्युस्तमभाषत भद्र! पुनर्मया उत्स्थलद्वीपं गन्तव्यं, कस्तत्रो-

पायः कथ्यतामिति। सोऽब्रवीत् मदीया व्यवहारिणस्तत्रैवाद्य गन्दुं प्रवृत्ताः, तत्त्वं तेषां यानमारुह्य तैः सह तत्र गच्छ। एवमुक्तः स द्विजयुवा यावत् तैः वणिग्भिः सह तत् उत्स्थलद्वीपं गन्तुं प्रवर्त्तते, तावत् दाशपतेः सत्यव्रतस्य सुता दैवात् तं दृष्ट्वा प्रत्यभिज्ञाय च इदमवदन्ब्रह्मन्! तातेन साकं कनकपुरींविचिन्वन् इतस्ततस्त्वमगाः अद्य एकः कथमागतो भवान्? शक्तिदेवोऽब्रवीत् स युस्माकं पिता अम्बुराशौ अम्बुभराकृष्टवहनो बड़वामुखे निपतित इति। तदाकर्ण्य ते दाशपुत्राः परिक्रुद्धाभृत्यान् वभाषिरे दुरात्मानमिमं बध्नीत, अनेनैव स मम पिता निहतः, नो चेत् कथमेकस्मिन् प्रवहणे द्वयोरेकः बड़वामुखे पतेत् द्वितीयो जीवेत्, तस्मादेष नः पितृहन्ता देव्याश्चण्डिकायाः पुरस्तात् प्रभाते अस्माभिः पशूकृतो हन्तव्य इति। एवमुक्त्वा भृत्यान् ते सत्यव्रतस्य दाशपतेः पुत्राःतं शक्तिदेवं बद्ध्वा भयावहं चण्डिकागृहमनयन्। तत्र चण्डीगृहे बद्धः स शक्तिदेवः स्वजीविते निराशः रात्रौ तां देवीं चण्डिकां व्यजिज्ञपत् भगवति! वरदे! सततमेव त्वया दानवदैत्यराक्षसादिनिपीड़ितं जगत् त्रायते, तन्मां शरणागतं सततप्रणतं दस्युहस्तगतं सुदूरागतमभीष्टजनतृष्णया अकारणहत्याया रक्षस्व। इत्येवं देवीं विज्ञाप्य कथञ्चन जातनिद्रः स्वप्ने कामपि दिव्यां योषितमैक्षत। सा तु सदयाभ्येत्य तमब्रवीत् शक्तिदेव ! मा भेषीः नानिष्टंते भविता, एषां दाशपुत्राणां स्वसा विन्दुमती नाम कन्यका प्रातस्त्वां वीक्ष्यमन्मथवशंवदा भर्त्तृत्वे अभ्यर्थयिष्यति, तच्च

त्वं प्रतिपद्यस्व, सैव त्वां मोचयिष्यति। न च सा दाशपुत्रीति शङ्कनीया, सा हि दिव्या महिला शापतश्च्युता। एतदाकर्ण्य प्रबुद्धस्य तस्य प्रातर्नेत्रामृतवर्षिणी सा दाशसुता तदेव देवीगृहमाययौ। अब्रवीश्च एनमभ्येत्य आत्मानं निवेद्य समुत्सुका। सुभग! इतः सङ्कटात् त्वामहं मोक्षयिष्यामि त्वं मे अभीप्सितमङ्गीकुरुष्व भ्रातॄणां सम्मताश्च वराः बहवः मया प्रत्याख्याताः, त्वयि तु मे भृशं प्रीतिरस्ति, तन्मां परिणय। इत्युक्तः शक्तिदेवः स्वप्नं स्मरन् हृष्टस्तथेति प्रत्यपद्यत। तया च मोचितस्तस्मात् सङ्कटात् तां सुन्दरीं परिनिणाय। तस्थौ च तया दिव्यया योषिता पुण्यैकलब्धया सुखसिद्ध्यैव सह कञ्चित् कालम्।

एकदा हर्म्यपृष्ठगतः धृतगोमांसभारं पथि समायान्तं चाण्डालमेकं दृष्ट्वा स तां प्रियामब्रवीत् प्रिये! पश्य यास्त्रिजगतां वन्द्या धेनवः, तासां पिशितमयं पापात्मां अश्नाति। तदाकर्ण्य सा विन्दुमती अवादीत् नाथ! अचिन्त्यमेतत् पापं किमत्रोच्यते, अहं गवामेव प्रभावात्स्वल्पेनाप्यपराधेन दाशकुलेऽमुस्मिन् जातास्मीति। एवमुक्तवतीं तामब्रवीत् शक्तिदेवः चित्रमेतत् प्रिये! का त्वं कथमत्र दाशकुले ते जननमिति। अतिनिर्बन्धपृष्ठा च सा तमभाषत नाथ! ब्रवीमि गोप्यमप्येतत् यदि मे वचनं करोषि। वाढ़ं करोमि वचनमिति सशपथ तेनोक्त स समवोचत् आर्य्यपुत्र! अस्मिंश्च द्वीपे ते द्वितीया भार्य्या भविता सा चाचिरात् गर्भवती भविष्यति, अष्टमे च गर्भमासे त्वया तस्या उदरं पाटयित्वा तस्या गर्भः क्रष्टव्यः,

नैवात्र ते घृण कार्य्या। एवमुक्ता सा कथमेतदिति विस्मिते तस्मिन् पुनर्दाशेन्द्रपुत्रोअवादीत् कान्त! इत्येतत्त्वया कस्यापि हेतोः कर्त्तव्य, शृणु मम वचनं, या चाहं यथा च मे दाशकुले जन्म तदपि आकर्णय। अहं पूर्वं कापि विद्याधरो आसं साम्प्रतं शापदोषेण मर्त्त्यलोके परिभ्रष्टास्मि, विद्याधरत्वे दन्तवित्वा वीणासु तन्वोः समयोजयत्, तेनैव इह दाशकुले जातास्मि। तदेवं शुष्केण गवां स्नायुना वदनस्य स्पर्शात् ईदृशी मे अधोगतिः, किं वक्तव्यं तन्मांसभक्षणे। इत्येवं वदन्त्यां तस्यां सहसा तस्या भ्राता समेत्य शक्तिदेवमवादीत् द्रुतमुत्तिष्ठ। एष कुतोऽपि आगत्य शूकरः निहताशेषजनः दर्पात् इतोऽभिमुखमायाति। तदाकर्ण्य स शक्तिदेवः ससम्भ्रमं हर्म्यपृष्ठादवतीर्य अश्वमेकं समारुह्य तं शूकरं प्रति अधावत्, प्राहरञ्च। तस्मिन् वीरेऽभिधावति दृष्ट्वैव सोऽपि वराहः प्रहारसञ्जातव्रणः पलाय्यसत्वरं विलमेकमविशत्।शक्तिदेवोऽपि तमन्विष्यन् तदेव विलं प्रविश्य क्षणात् महदेकम्उद्यानं सहर्म्यं पश्यन् तत्र अद्भुताकृतिं कन्यकामेकां सम्भ्रमेणोपेतः प्रीत्या वनदेवतामिवाद्राक्षीदप्राक्षीच कल्याणि! का त्वं, कथञ्च ते सम्भ्रमः? तदाकर्ण्य सा सुमुखी तं प्रत्यभाषत।

अस्ति दक्षिणस्या दिशोऽधिपतिर्नृपतिश्चण्डविक्रमो नाम। सुभग। तस्याहं विन्दुरेखा नाम कन्यका, अकस्माच्च पापः कश्चित् दैत्यश्छलेन मामपहृत्य पितुरालयादत्रानीतवान्। स चाद्य आमिषार्थी वाराहं रूपमास्थाय

वहिर्गतः क्षुधार्त्तः केनचिद् वीरेण शक्त्या विद्धः प्रविश्यैवात्र पञ्चतामगमत्। तददूषितकौमारा चाहम्। तदाकर्ण्य शक्तिदेवस्तामुवाच कस्तर्हि सम्भ्रमः? नृपात्मजे! मयैव स दुरात्मा शूकरो निहतः। ततः सा अवदत् ब्रूहि तर्हि को भवानिति। स चोवाच अहं शक्तिदेवो नाम द्विजातिः। तया चोक्तं तर्हि त्वमेव मे पतिः। सोऽपि वीरस्तथेति तामादाय विलद्वारेण निर्गत्य दाशपतेरालयमेत्य भार्य्यायै विन्दुमत्यै तन्निवेद्य तदनुमत्या तां विन्दुरेखामुदवहत्। ततस्तयोर्भार्य्ययोरेका विन्दुरेखा गर्भमधत्त अष्टमे च गर्भमासे आगते विन्दुमतीरहसि तं शक्तिदेवमुपेत्य अवोचत् वीर! स्मर तत् प्रतिश्रुतं यत्त्वया मह्यं, सोऽयं द्वितीयभार्य्यायास्ते अष्टमो गर्भमासः समुपस्थितः, तद् गत्वा अस्या गर्भं विपाट्य उदरमाहर, अनतिक्रमणीयं हि अङ्गीकृतं महात्मनाम्। एवमुक्तस्तया शक्तिदेवः स्नेहकृपाकुलः प्रतिज्ञापरतन्त्रश्च दोलाचलचित्तवृत्तिः क्षणं निरुत्तर एवासीत् अगमञ्च जातोद्वेगस्तां विन्दुरेखाम्। सापि खिन्नमागतं तं पतिं विलोक्याब्रवीत् नाथ! विषस्मोऽसि कथं, वेद्मि अहं विन्दुमत्या यदर्थं मत्सकाशं प्रेषितः, तञ्च त्वया अवश्यं कार्य्यं, हेतुरत्र विशेषोऽस्ति, नाप्यत्र नैष्ठुर्य्यंतस्मात् मा घृणां कार्षीः, तथाहि अत्र देवदत्तकथामेतां शृणु कथयामि।

पुरासीत् हरिदत्तो नाम कश्चित् द्विजः कम्बुकाख्ये पुरे। तस्य च श्रीमतः पुत्रः देवदत्तो नाम शैशवे कृतविद्योऽपि द्यूतैकव्यसनी अभूत्। स एकदा द्यूतहारित

वस्त्रादिः पितृगृहं गन्तुमशक्तः शून्यमेकं देवगृहमविशत्। अपश्यच्च तत्र जालपादाभिधं साधितानेककामं जपन्तं महाव्रतं कञ्चित् पुरुषम्। शनैव तमुपेत्य कृतप्रणनिस्तेन च समाप्तव्रतेन स्वागतेन अभ्यनन्द्यत। क्षणञ्च तत्र स्थितप्तेन कातर्य्यदर्शिना पृष्टः स्वस्य व्यसनजनितमापदं शशंप्त। ततः स व्रती तं देवदत्तमगदत्। वत्स! व्यसनिनां पर्य्याप्तं धनं भुवि न विद्यते। यदि विपदं धातुं तेऽभिलाषस्तदामद्वचनं शृणु, हे सुलक्षण! मया विद्याधरत्वप्राप्त्यर्थं यत्परिकरः कृतः, त्वमपि तत् साधय। ममादेशस्तव पालनीयस्तर्हि ते विपदो नश्यन्ति। एवमुक्तस्तेन महाव्रतिना स देवदत्तस्तथेति प्रतिश्रुत्य तत्पार्श्वे स्थितिमकरोत्।अपरेद्युश्च स महाव्रती श्मशानान्ते गत्वा वटतरोरधस्तात्रजन्यां पूजां विधाय परमान्नं निवेद्य दिक्षु वलीन् विक्षिप्य च समापितार्चनविधिस्तं पार्श्ववर्त्तिनं विप्रमब्रवीत् वत्स! एवमेव त्वया विद्युत्प्रभे! गृहाणेमां पूजामिति वदता प्रत्यहमर्चनं कार्यम्। ततश्चावयोः सिद्धिर्ध्रुवा न चान्यथा इति। एवमुपदिश्य स व्रती तेन समं स्वालयं गतवान्। देवदत्तोऽपि प्रत्यहं तथैव तस्य तयोरधस्तात् गत्वा यथोपदिष्टमर्चनमकरोत्। एकदा च सपर्य्यान्ते तस्य पश्यत एवाकस्मात् कापि दिव्या द्विधाभूतात् तस्मात् तरोर्विनिष्क्रम्य एहि भद्र! अस्मत्स्वामिनी त्वां ब्रवीति इति वदन्ती तं तस्यैव तरोरभ्यन्तरे प्रवेशयामास। स तु तत्र प्रविश्य दिव्यं मणिमयं गृहं तत्रस्थाञ्च काञ्चित् पर्य्यङ्गनिषस्मांवराङ्गीमैक्षत। यावच्च स विग्रहवतीअस्मत्सिद्धिरियमिति

ध्यायति तावत् सा कृतातिथिसत्कारा वराङ्गना समुत्थाय रणिताभरणैरङ्गैर्विहितस्वागतवचनैरिव, तं स्वपर्य्यङ्कै स्वयं समुपावेशयत् अवादीच्च महाभाग! अहं यक्षपते रत्नवर्षस्य कन्यका विद्युत्प्रभा नाम। एष च जालपादो महाव्रती मामाराधयत्, तस्यार्थसिद्धिदायिनी अस्मि, त्वन्तु मे प्राणानामपि प्रभुः, तस्मात् अनुरागिण्या मे प्राणिग्रहं कुरु। इत्युक्तस्तया स देवदत्तस्तथेति तद्वचनात् तां परिणीय कञ्चित् कालं तत्र स्थित्वा तस्याञ्च गर्भवत्यां पुनराममिष्यामीत्युक्त्वातं महाव्रतिनं प्रति प्रतस्थे। कथयामास च तस्मै स्ववृत्तान्तं सभयम्। सोऽपि महाव्रती स्वसिद्धये तमवादीत्भद्र! भद्रं कृतं त्वया, परन्तु गत्वा अस्यायक्षतनयाया उदरं विपाट्य शीघ्रं गर्भं तमानय। इत्युक्त्वा स्मारयित्वाच पूर्वाङ्गीकारं तेन प्रेषितः स देवदत्तस्तां प्रियामगात्यावञ्च स तद्भावनया दुर्मनास्तत्र तिष्ठति तावत् सा यक्षी विद्युत्प्रभा स्वयमभाषत आर्य्यपुत्र! विषीदसि किमर्थं विदितं मया यदादिष्टं तैजालपादेन मम गर्भपाटनं तदेतत्उदरं पाटयित्वा गर्भमाकर्ष, न चेत् स्वयं करोम्येतत्कार्य्यमत्र किञ्चन विद्यते। तथा एवमुक्तोऽपि स देवदत्तस्तत् कर्तुं यदा नाशकत् तदा सा स्वयं पाटितोदरा गर्भमाकृष्टवती तञ्चाकृष्टं पुरतस्त्यक्त्वातं पतिमभाषत भोक्तुर्विद्याधरत्वस्य कारणमयं गृह्यताम्। अहं हि विद्याधरी शापात् यक्षी जाता, अथञ्च ममेदृक शापान्तः, जातिस्मरा चास्मि। इदानीमहं स्वं धाम व्रजामि, भविता चावयोः पुत्रःसङ्गमः। इत्याभाष्य सा विद्युत्प्रभा क्वापि विलय-

मगात्। देवदत्तोऽपि तं गर्भमादाय खिन्नमनास्तस्य व्रतिनो जालपादस्य सकाशमायात्। उपानयत् तस्मै तं गर्भं सिद्धिप्रदायिनम्। साधवो हि दुर्लभे वस्तुनि नात्मम्भरित्वं व्रजन्ति। सोऽपि महाव्रतीतत् गर्भमांसं पाटयित्वा भैरवार्च्चार्थं तं देवदत्तं व्यसृजत्। अथ यावत् दत्तवलिरागत्य स देवदत्तः पश्यति तावत् तेन व्रतिना अशेषं तन्मांसं भक्षितम्। कथंत्वयासर्वं भुक्तमिति वदत एवास्य देवदत्तस्य स जालपादः जिह्मो विद्याधरो भूत्वा सद्यः खमुदपतत्। तस्मिंश्च तथा भूते स देवदत्तः समचिन्तयत् कष्टं किमेतत् अनेनाहं पापमतिना विप्रलब्धोऽस्मि, अथवा अतिमार्द्दव कस्य न परिभूतये? तदेतस्यापकारस्य कथमपि प्रतिक्रियाः कुर्य्यां विद्याधरीभूतः, नात्र वेतालसाधनादन्यः कश्चिदुपायोऽस्ति इति निश्चित्य स रात्रौपितृवनमगमत्। तत्र च तरुमूले नरकलेवरे वेतालमाहूय पूजयित्वा नृमांसवलितर्पणमकात् यावच्चस अतृप्यन्तम् अन्यानयनासहं तं वेतालं तर्पयिष्यन् स्वमांसानि छेत्तुमुपक्रमते तावत् स वेतालस्तं महासत्त्वमभाषत महापुरुष! तवानेन सत्त्वेन तुष्टोऽस्मि मा साहसं कार्षीः, किन्तेऽभीष्टं वद साधयामि तत्। इत्युक्तवचनं वेतालं स वीरः समभ्यधात् भद्र! विश्वस्तवञ्चको जालपादोनाम व्रती यत्र स्थितः, तं विद्याधरनिवासं तन्निग्रहाय मां नय। तथेत्युक्तक्ता तेन वेतालेन स्कन्धे आरोह्य क्षणात् गगनमार्गेण स देवदत्तः वैद्यावरपदं नीतस्तं जालपादं प्रासादवर्तिनं विद्याधरराजत्वदृप्तं रत्नासनाधिष्ठितं तामेव लब्धविद्याधरीपदां विद्याधरीमनि-

च्छन्तीं भार्य्यां कर्तुं तत्तदुक्तिभिः प्रतारयन्तमद्राक्षीत्। दृष्ट्वैव स वेतालारूढ़ः हृष्यदुविद्युत्प्रभानेत्रानन्दनो युवा तमभ्यधावत्। जालपादोऽपि अकस्मात् तथागतं दृष्ट्वा त्रासात्विच्युतासिरासनात् भुवि पपात। देवदत्तस्तु तं खङ्गं लब्ध्वापि तं नाबधीत् भीतेषु रिपुष्वपि सानुकम्पा हि महान्तः। तञ्च वेतालं तं जिघांसुं दृष्ट्वा स वारयन् निजगाद भद्र! पाषण्डिनानेन हतेनापि किम्? स्थाप्यतामयं भुवि नीत्वा स्वनिलये, भूयोऽपि तत्रैव पापः कापालिकस्तिष्ठतु। एवं वदतस्तस्य ततक्षणात् दिवः अवतीर्य्य देवी भवानी प्रत्यक्षपरिदृश्यमाना तं प्रणतं देवदत्तमब्रवीत् पुत्र! तुष्टास्मि ते अनन्यसदृशेन सत्त्वोत्कर्षेण तन्मया, विद्याधरराजत्वं मयाद्य ते दत्तम्। एवमुक्त्वासा अर्पितविद्या देवी सद्यस्तिरोभूत्। जालपादस्तु विभ्रष्टसिद्धिस्तेन वेतालेन भूतले नीत्वा तथैव निहितः न ह्यधर्म्मश्चिरमृद्धये? देवदत्तस्तु तया विद्युत्प्रभया समेतः प्राप्तविद्याधराधिपत्यः मुखमवात्सीत्।

कथामेतामुक्त्वासा विन्दुरेखा मृदुमधुरभाषिणी सत्वरापुनस्तं शक्तिदेवमवादीत् नाथ! एवमीदृशानि कार्य्याणि सन्ति, तदिदं मे गर्भं विन्दुमत्या कथितं गर्भं विपाटय, नात्र शोकः कार्य्यः। एवमभिदधत्यां तस्यां पापशङ्गिते च शक्तिदेवे सहसा गगनादुदभूद भारती शक्तिदेव! निःशङ्कं त्वमस्या गर्भी विपाट्यतां, कण्ठे च मुष्ट्या गृहीतोऽसौ गर्भस्तेहस्तगः खङ्गोभविष्यतीति। तां दिव्यां गिरं श्रुत्वा स शक्तिदेवः आशु तस्या गर्भं पाटितोदरं कृत्वा समा-

कृष्य पाणिना कण्ठे समग्रहीत्। गृहीतमात्रश्च स तस्य हस्तगतः खङ्गः सिद्धेः पाश इव समुपस्थितः। ततः स विप्रः सहसा विद्याधरः समजनि, विन्दुरेखा च तत्क्षणमदर्शनमगात्। ततश्च स विद्याधरीभूतः शक्तिदेवः दाशपुत्र्यैगत्वा विन्दुमत्यै यथावृत्तमकथयत्। ततश्च साः प्राह नाथ! वयं विद्याधरपतेः सुतास्तिस्रो भगिन्यः कनकपूरीतः शापतश्च्युताः। एका कनकरेखा, यस्यास्त्वया वर्द्धमानपुरे शापान्तो दृष्टः, सा तु तां स्वां पुरीं गता, द्वितीया विन्दुरेखा, तस्याश्च शापान्तस्त्वया कृतः, तृतीया चाहम्, अधुना च मे शापान्तः भविता, मया चाद्य स्वा पुरी गन्तव्या, नाथ! तत्रास्माकं विद्याधरशरीराणि सन्ति। चन्द्रप्रभा हि अस्माकं ज्यायसी भगिनी तत्रैव स्थिता, तत् त्वमपि खङ्गसिद्धिप्रभावात् आशु तत्रायाहि, अस्मांश्च चतस्रः भार्य्याः संप्राप्य वनस्थेन पित्रा समर्पितास्तस्यां पुरि राज्यं करिष्यसि। इत्येवं निजतत्त्वयुक्तवत्या विन्दुमत्या सहस शक्तिदेवः प्राप्तविद्याधरशरीरः गगनपथा तां कनकपुरीं प्रतस्थे। तस्याञ्च यानि पर्य्यङ्कतलनिषणानि मृतशरीराणि दृष्टानि तान्यनुप्रविष्टाः कनकरेखाद्याः निजप्रियाः प्रणतास्तिस्रः। तासां ज्येष्ठां रचितमङ्गलां चन्द्रप्रभाञ्च चिरदर्शनोत्सुकया दृष्ट्या पिबन्तीमिवाद्राक्षीत्। अथ नियोगव्यापृतपरिजनगणैरभिनन्द्यमानो वासगृहगतस्तया चन्द्रप्रभया जमदे सुभग! या तत्र वर्द्धमानपुरे कनकरेखा नाम राजसुता दृष्टा, सैवेयं चन्द्ररेखा नाम मम भगिनी। या च दाशाधिपपुत्री विन्दुमती उत्स्थलद्वीपेप्राप्ता सेयं शशिरेखा नाम द्वितीयामम

स्वसा। या तु तत्र विन्दुरेखान्या राजनन्दिनौ दानवाहत त्वया परिणीता, सेयं शशिप्रभाभिधाना मम तृतीया भगिनी। तदिदानीमस्मत्पितुरन्तिकमेहि, तेन प्रत्ताश्च अस्मान् यथाविधि परिणयस्व।

एवं तस्यामभिदधत्यां चन्द्रप्रभायां स शक्तिदेवस्ताभिश्चतसृभिः सहितस्तत्पितुः सकाशं वनान्तमगमत्। स च विद्याधरराजश्चरणनताभिस्ताभिरावेदितो दिव्यवाक्प्रेरितश्च युगपत् तस्मै शक्तिदेवाय हृष्टस्ताश्चतस्त्र एव कन्यकाः प्रादात्। व्यतरच्च तदनु कनकपुर्य्यां विद्याधराधिराज्यं स्वाश्च समस्ता विद्याः। व्यधित च समुदितेन स्वनाम्ना विद्याधरेषु स्वेषु तमेव शक्तिदेवम्। ततश्च अन्यो न जेष्यति त्वामति प्रभाववन्तं केवलमेको वत्सेश्वरात् यश्चक्रवर्त्ती उदेष्यति नरवाहनदत्तो नाम, स एव तव विभुर्भविता, तस्यैव नतिं विदध्या इति उपदिश्य महाप्रभावः स आत्म तपोवनात् तं सप्रियतमं निजराजधानींसत्कृत्य प्राहिणोत्। अथ स शक्तिवेगो राजा भूत्वा स्ववधूभिः समं कनकपुरींविद्याधरलोक वैजयन्तीं गत्वा प्रविवेश। तस्याञ्च तिष्ठन् असौ परमप्रेयसीभिस्ताभिश्चतसृभिः समं विद्याधरैश्वर्य्यसुखमलभत।

इत्येवं स्वचरितमाख्याय शक्तिवेगो वाग्मी भूयो वत्सेश्वरमवादीत् चन्द्रवंशावतंस! मां शक्तिवेगमुपागतं विद्धि, उत्पन्नस्य भाविनः निजचक्रवर्त्तिनः भवत्सुतस्य पादयुगलदर्शनार्थिनम्। तदेवं मयापि मनुजेन शङ्करप्रसादात्विद्याधराधिपतित्वं लब्धं व्रजाम्यधुना स्वं धाम, दृष्टश्च नः

प्रभुः, साम्प्रतमभङ्गुरं मङ्गलं तेऽस्तु। एवमभिधाय कृताञ्जलौ प्राप्तानुज्ञे तस्मिन्नुत्पतिते मृगाङ्ककान्तौद्यां शक्तिवेगे वत्सेश्वरोऽपि देवीभ्यां सह स बालतनयः मन्त्रिभिः परिवृतः कामपि सम्मदमयीभवस्थामभजत।

इति षड्विंशस्तरङ्गः।

समाप्तोऽयं चतुर्द्दारिका नाम
पञ्चमो लम्बकः।

  • *
    

मदनञ्चुका नामकः षष्ठो लम्बकः।

<MISSING_FIG href="../books_images/U-IMG-1721009419270.png"/>

अथ सप्तविंशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721009492271.png"/>

कुमारो नरवाहनदत्तः पितुः प्रयत्नात् निजैर्गुणैर्दिने दिने परिवर्द्धमानः नवमे वर्षे मन्त्रिकुमारैः सार्द्धं विद्यानुशीलनरतः क्रमेण अस्त्रविद्यामभ्यस्तवान्। अत्रान्तरे वितस्तानदीतीरे तक्षशिलानाम्नि नगरे कलिङ्गदत्तो नाम कश्वित् जैनो नरपतिरासीत्। स तु राजधर्मं विहाय सततं व्रजाः स्वावलम्बितधर्म्ममशिक्षयत्। अस्मिन्नेव नगरे वितस्तदत्तो नाम कोऽपि प्रभूतधनसम्पन्नो बणिक् वसति स्म। स तु नितरामतिथिप्रिय इति तत्पुत्रो रत्नदत्तो जनकं पापिनमिति निरन्तरमकुत्सयत्। कदाचित् असौ वणिक्पुत्रः पित्रा निन्दाकारणमनुयुक्तः सासूयमभ्यधात् तात!

त्रयोधर्म्मं विहाय केवलं भिक्षुकसेवातत्परेण भवता महान् अधर्म्मःसञ्चीयते इति।

वणिक् पुत्रेणैवमुक्तः प्रत्यभाषत वत्स! धर्म्मो हि नानाप्रकारतया संविभक्तः तेषु प्रकारेषु अहिंसैव परमो धर्म्म इति मन्यन्ते सुधियः, अहं तदनुसारेणैव प्रवर्त्ते, तत् कथं मामधार्म्मिकं मन्यसे? रत्नदत्तः पितुरेवमुपदेशेनापि असन्तुष्टस्तथैव पितरमनिन्दत्। पिता पुत्रेणैवं विनिन्दितः सातिशयमसहमानः राजानं कलिङ्गदत्तं व्यजिज्ञपत। तदाकर्ण्य राजा तेन तस्य वणिक्सुतस्य स्वमतविरुद्धव्यवहारेण भृशं सञ्जातकोपः तस्य बधदण्डमादिदेश। वितस्तदत्तेन तु पुत्रस्य बधादेशमाकर्ण्य सभयं तन्निवारणाय पुनरावेदितो नरपतिरभ्यभाषत साधो! अस्य मासद्वयम् अवसरो दीयते, यदि एतावत्सु कालेषु असौ प्रकृतिस्थः धर्म्मचर्य्यासु प्रवर्त्तते तर्हि मत्समीपमानेतव्यः क्षन्तव्यश्चेति। एवमभिधाय वणिक्सुते परित्यक्ते तत्पिता पुत्रं गृहीत्वा स्वं गृहमगमत्।

रत्नदत्तस्तु राजाज्ञया नितरां त्रस्तः आसन्नमृत्युचिन्तया त्यक्ताहारनिन्द्रः दिने दिने अतितरां कार्श्यमापन्नः। क्रमेण अतीते मासद्वये वितस्तदत्तः स्वतनयं राजान्तिकमनयत। नृपतिर्वणिक्सुतं तथा कृशमालोक्य अवादीत् कथं त्वमेवं कृशः संवृत्तः? तव आहारं न रहितमकार्षम्। वणिक्पुत्रः समब्रवीत् राजन्! यावत् ममोपरि बधदण्डादेशः कृतः ततः प्रभृति तश्चिन्तयैव दिवारजन्यतिपातात्इत्थम्भूतः कृशोऽस्मि संवृत्तः। राजाव्रवीत् ज्ञातं तर्हि,

मृत्योर्भयानकत्वं कौशलेनैतदुपदेशार्थं मया तवोपरि बधदण्डादेशः पातितः सम्प्रति समालोचय तावत् मृत्युः तवेवसर्वेषामेव भयावहः, तद हिंसादेर्लोकोपकारकात् अन्यः महान् धर्म्मः कोऽस्ति? मृत्युभयप्रदर्शनेन त्वां प्रति धर्म्मोपदेशं कृतवानस्मि, बुद्धिमन्तो हि मरणादतित्रासमापन्नामोक्षधर्म्मंकामयन्ते। तस्मात् त्वमिदानीं मोक्षार्थिनं पितरं मा निन्दीः।

एतदाकर्ण्य वणिक्सुतः समभाषत महीपते। अहमिदानीं श्रीमत एतादृशं धर्म्मोपदेशमाकर्ण्य कृतार्थतामगमम्। मोक्षलाभे च मे महान् आग्रहः समभूत्। नृपते! तदेतस्य धर्म्मस्योपयोगिनो विषयान् उपदेष्टुमिदानीमर्हसि येन सत्वरं चरितार्थो भविष्यामीति। राजा तथा तेनाभिहितः सम्प्रीतः कदाचित् नगरोत्सवे बणिक्सुतस्य तस्य हस्ते तैलपूर्णमेकं पात्रं दत्त्वा समभ्यधात् वत्स! एतदादाय नगरं परिभ्रम्यागच्छ, पश्य तावत्विन्दुमात्रमपि तैलमस्मात् यथा न निपतेत् तथा अवहितेन भवितव्यं, यदि पतेत् तदा एते त्वत्पृष्ठगामिनो राजपुरुषास्त्वां तत्क्षणमेव विनाशयेयुः। एवमुपदिश्य राज्ञा सम्प्रेषितो वणिक्तनयः नगरं भ्रमितुमुपचक्रमे, राजपुरुषाश्च तत्पश्चात् निष्कोषासिपाण्यः प्रतस्थिरे। क्रमेणासौ वणिक्पुत्रः कृच्छ्रेण नगरं परिभ्रम्य राजान्तिक सुपाजगाम।

अथ नृपतिर्यथादिष्टं विना तैलपातमागतं तं वीक्ष्य अवादीत् वत्स! भ्रमता त्वया नगरे लोकानामुत्सवदर्शना-

र्थिनामितस्ततः सञ्चारो दृष्टः कश्चित्? सोऽब्रवीत् देव! तैलविन्दुपाते राजपुरुषाणां निष्कोषसिपातभयात् किमपि न श्रुतं नापि दृष्टम्। तदाकर्ण्य भूपतिरवोचत् वत्स! त्वं तैलपातं प्रति यादृगेकाग्रचित्तः किमपि नाद्राक्षीः, नाप्यश्रौषीः, तथा समवधानेन परमात्मानमनुचिन्तय, एकाग्रतया बाह्यवस्तुभ्यः स्वान्तर्निवर्त्तनात् तत्वज्ञानं जायते, तत्त्वदर्शी तु पुनः कर्म्मजालेन न जड़ीक्रियते, तदेषः संक्षेपेण ते मोक्षोपायः प्रदर्शितः। एवमभिधाय राजा तं बणिक्सुतं स्वं निवेशनं संप्रेष्य सहर्षं गृहाभ्यन्तरमगच्छत्।

कलिङ्गदत्तस्य नरपतेः महिषी तारादत्ता नाम अतिगुणवती रूपवती च। राजा तया सार्द्धं परमसुखेनैव कालमतिवाहयामास।

कदाचित् कस्मिंश्चित् महोत्सवे देवसभायां सवर्णा अप्सरसः विना सुरभिदत्तां समागताः समालोक्य देवपतिरिन्द्रः प्रणिधानेनापश्यत् यथा सुरभिदत्ता नन्दनाभ्यन्तरे विद्याधरसम्भोगेन मत्ताधितिष्ठति। तदवलोक्य कुपितेन तेन चिन्तितं आः कष्टं कथमेते एतादृशाः दुराचाराः कामपरतन्त्राः यत् सुखासङ्गेन मत्ता अस्मानपि न स्मरन्ति? अत्र च विद्याधरस्य तथापराधो न सम्भवेत्यतः सः तस्या अप्सरस एव रूपेणाकृष्ट इत्यमसदृशमाचरति नूनम्। पुरा यावत् पुराणपुरुषः यानातामेव वस्तूनां सारभूतं तिलशः संगृह्य तिलोत्तमां निर्म्मसेतावत् तां वीक्ष्य त्रिलोक्यां को न मोहमुपागतः ? विश्वामित्रश्च

महर्षिर्मेनकामवलोक्य किं तपसो न निववृते? ययातिरपि नरपतिः शर्म्मिष्ठाया रूपविमोहितः किं जरायां नन्यपतत्? तस्मात् मन्ये विद्याधरस्य कश्चिदत्र दोषो नास्तीति।

एवमालोच्य देवेन्द्रः स्त्रिय एवानर्थमूलानीति विचार्य्य सुरभिदत्तामभिशाप पापीयसि! अनेन दोषेण त्वं मर्त्त्यलोके अयानिजा जन्मपरिग्रहं कुरु तत्र च स्थिता यदा स्वर्गोचितकर्त्तव्यकर्माणि अनुष्ठास्यसि तदैव शापमोक्षस्ते भवितेति।

अत्रान्तरे च राजमहिषी तारादत्ता ऋतुमती आसीत्। सा तु अप्सराः शापभ्रष्टा तस्या एव उदरे समुदपद्यत। तस्मिंश्च ममये तारादत्ताया हृदये कश्चित् स्वप्नदर्शन इव भावः समजनि यथा किमपि तेजः गगनादागत्य मदुदरे प्रविशतीति। अनन्तरं तया तद्वृत्तान्तमावेदितो नरपतिः कलिङ्गदत्तः सहर्षमब्रवीत् प्रिये! युज्यते खल्वेतत्, स्वर्गिणो हि शापच्युताः मानुषलोके जन्म लभन्ते। मन्ये कश्चित्देवयोनिर्वा देवो वा देव्या गर्भे जननार्थं प्रविष्टः, शुभाशुभकर्माण्येव जन्तूनां संसारप्राप्तिबीजानि। राज्ञी प्रत्यभाषत देव! सत्यम् अहमप्येतदनुकारिणींकामपि कथयामि श्रूयताम्।

पुरा किल कोशलाख्ये जनपदे समभूत् धर्म्मदत्तो नाम भूपतिः। तस्य नागश्रीर्नाम पतिव्रता महिषी आसीत्। गच्छता कालेनाहमेव तस्य कन्या अजनिषि। शैशवे च वर्त्तमानायां मयि मज्जननी अकस्मात् पूर्वजातिं स्मृत्वा

पितरं मे समवादीत् देव! अद्य सहसा मम पूर्वजननं स्मृतिपथमायातं परं तन्मे नातिप्रीतिकरम् एतस्य प्रकटनमात्र एव मे मृत्युर्भविता तदेतदनुस्मृत्य अहमतीव विषादमुपगतास्मि। राजोवाच प्रिये! तवेव ममापि सहसा पूर्वजातिरनुस्मृता, तत् त्वयाग्रे एव पूर्ववृत्तमनुवर्णय, पश्चादहमपि वर्णयिष्यामि स्ववृत्तम्। कोऽतिवर्त्ततेदैवम्। एवमभिहिता सा देवी समभाषत, नाथ! भवतैवमनुरुद्धया अवश्यमेव मया वक्तव्यं शृणु तावत्। अस्मिन्नेव जनपदे अस्ति माधवदत्तो नाम कश्चित् द्विजातिः। अहं तस्य गृहे दासी आसम्। देवदासो नाम मम पतिरपि कस्यचित् वणिजो निकेतने दासत्वमकरोत्। आवाम्अवस्थोचितमेकं कुटीरं निर्म्माय तत्रैव वसावः स्म। अभक्षयाव च स्वात् स्वात् स्वामिगृहात् सिद्धान्नमानीय। घटोकलसः मार्ज्जनो मञ्च अहं पतिश्च एते एव षट् गृहाधिवासिन आसन् नान्यत् किमपि यदि च किञ्चिदधिकं वस्त्रादिकं कदाचित् लब्धमभूत् तदपि तत्क्षणात् दुर्गतेभ्यः प्रायच्छाव। तदेवं परमेण सुखेनैवावां कालमत्यवाहयाव।

अथैकदा दुर्भिक्षे सञ्जाते स्वामिगृहे यदावाभ्यामन्नं प्रापिव तदपि अल्पमात्रकमभवत्। किं कुर्वः, तेनैव उभौ कथमपि जीवनमतिवाहयन्तौ नितरां कृशौ समभूव। अत्रान्तरे कश्चित् बुभुक्षुः क्लान्ततरः द्विजः अस्मद्भवने आहारकाल एव अतिथिः समाययौ। कथमतिथिमभोजयित्वा भुञ्चावहे इति विविच्य प्राणसंशयेऽपि अतिथये तत् सर्वभावयोराहारद्रव्यं समर्पयावः स्म। तेन च अतिथौ

सपरितोषं भुक्त्वाप्रस्थिते पतिर्मम क्षुधार्त्तस्तत्क्षणमेव प्राणान् जहौ। समनन्तरञ्च पतिं श्मशानं नीत्वा चितां ज्वलन्तीमधिरोह्य अहमपि तेनैव सह तामेव ज्वलचितामारूढ़वत्यस्मि। अथ राजवंशे समुत्पद्य तव महिषी संवृत्तास्मीति।

अथ राजा धर्मदत्तः समब्रवीत् प्रिये! अहमेव स तवपूर्वजन्मपतिः। अहमेव देवदासोनाम कस्यचित् वणिजो गेहे भृत्यत्वमकार्षम्। अद्यैतत् सर्वं स्मृतिपथमारूढ़म्। एवमभिधाय उभावपि स्वर्गमीयतुः। तदा च मदीया मातृस्वसा मामादाय स्वं निलयमगात्। कौमारे च वर्त्तमानां मां कदादित् सा मम मातृभगिमी गृहागतस्य कस्यचित् अतिथेः परिचर्य्यार्थं नियुक्तवती। मया च यथोचितं यथासामर्थ्यञ्च परिचर्य्यायां कृतायां सोऽतिथिः सम्यक् परितोषमापन्नः मह्यं वरं दत्त्वा प्रायात्, तत्प्रभावेणैव अहं भवन्तं पतिमवाप, तस्मात् धर्म्म एव लोकमङ्गलहेतुरिति।

एवं देव्याभिहितः कलिङ्गदत्तः निजगाद देवि! स्वल्पेऽपि धर्म्मे सम्यगाचरिते तत्प्रभावेण भूरिशः फलावाप्तिर्दृश्यते, तदत्र सप्तानां ब्राह्मणानामाख्यानं कथ्यते श्रूयताम्।

अस्ति कुण्डिनं नाम नगरम्। तत्रासीत् कश्चिदुपाध्यायः। तस्य सप्त द्विजकुमाराः शिष्या आसन्। उपाध्यायः दुर्भिक्षविक्लवः कदाचित् श्वशुरं धेनुमर्थयितुं शिष्यान् प्राहिणोत्। शिष्या उपाध्यायस्य श्वशुरभवने समागत्य

धेनुमभ्यर्थितवन्तः। श्वशुरोऽपि जामातुरभ्यर्थनया एकां धेनुं तेभ्यः प्रायच्छत् परं कस्मैचिदपि एकामत्रमुष्टिं न ददौ। शिष्यास्तु अगत्या धेनुमादाय सद्य एव प्रस्थिताः अर्द्धपथ एव क्षुत्पिपासापरित्कान्त्या सर्व एव धरातले निषेदुः। तस्माच्च प्रदेशादुपाध्यायगृहस्य अतिदूरवर्त्तितया तेषां प्राणत्राणं नितराम् असाध्यमिति समालोच्य सर्व एव तां धेनुं विनाश्य जीवनं रिरक्षिषवस्तन्मांसेन प्राणयात्रामकुर्वन्। अथ भुक्तावशिष्टन्तु मांसं गृहीत्वा गुरोः सकाशमभ्येत्य प्रणम्य च यथावृत्तमस्मै न्यवेदयन्। उपाध्यायस्तु तेषां सत्यवचसा सम्प्रीतः कृतापधान् अपि तान् क्षमयामास। सत्यवचनस्य प्रभावाच्च ते सापराधा अपि निस्तारमापुः, जातिस्मराश्च बभूवुः। देवि! इत्थं विशुद्धेन सङ्कल्पवारिणा सिक्तेषु पुण्यबीजेषु अङ्कुरितेषु शुभानि फलानि अवश्यमेव जायन्ते, वैपरीत्ये वैपरीत्यमेव। अत्र चास्थानमिदं कथयामि श्रूयताम्।

पुरा किल कश्चित् ब्राह्मणः कश्चित् चाण्डालश्चगङ्गातटे अमशनव्रतमाचरन्तौ तपश्चेरतुः। एकदासौ ब्राह्मणः क्षुधानिपीड़ितः कस्यचित् मत्स्यजीविनः सकाशात् मत्स्यं भिक्षित्वा भक्षयन् व्यचिन्तयत् अहो ! एते खलु धीवरा एव धरण्यां धन्याः, ये प्रतिदिनममृतोपमं शफरमासं यथेच्छं भुञ्जते। चाण्डालस्तुतान् धीवरान् दृष्ट्वा पापीयसो मत्वा निमीलितलोचनोऽभवत्। अथ गच्छता कालेन तयोरनशनेन निधनमापन्नयोः ब्राह्मणः श्वभिर्भक्षितः। चाण्डालस्तु गङ्गाजलेविलीन आसीत्। अनन्तरमनयो-

रैको ब्राह्मणः कैवर्त्तकुले जन्म परिगृह्णन् जातिस्मरतया निरन्तरमनुतापानलदग्धः कालमत्यवाहयत्। द्वितीयस्तु चाण्डालः गङ्गातीरे जातिस्मरी जारकुलोत्पन्नः सततं परमेणानन्दसन्दोहेन सुचिरमतिष्ठत्। तस्मात् यस्य यादृशमन्तरं स तदनुरूपमेव फलं भजते।

राजा कलिङ्गदत्तः राजमहिषीमेवमुक्त्वा पुनरभ्यभाषत देवि! अवन्तिदेशे उज्जयिनी नाम या नगरी अस्ति तस्याममरसिंहो नाम राजासीत्। स खलु बाहुवीर्य्ये अस्त्रवेदे च नितरां पटीयान्। देशेषु कोऽपि तस्य प्रतिद्वन्दी नासीदिति सोऽन्वतप्यत। कदाचित् नृपतेराशयवित् महामन्त्री अमरगुप्तो नाम देवं रहसि व्यजिज्ञपत्प्रभो! श्रीमद्भिर्दोर्दण्डास्त्रवेददर्पेण प्रतियोद्धारमनासादितवद्भिरनुदिनमनुतप्यते मया विज्ञातम्। परं भवादृशामेतदसदृशं मन्यामहे वयम्। प्रभूतबलशालिनोऽपि शत्रुभिः परिभूयन्त, अतः सर्वदा अहङ्कारं परिहृत्य सन्तोष्टव्यम्। यदि देवस्य शस्त्रशिक्षानेपुण्यं दर्शयितुमिष्टं तर्हि अटव्यां गत्वा मृगया कार्य्या। मृगया हि राज्ञां व्यायामाद्यर्थंसेव्येव। मृगयया श्रमसहत्वमभ्यस्यते, अश्रमशीला हि नैव कदाचित् युद्धादिके वीरकार्य्ये समर्था भवन्ति। अपरञ्च वन्या दुष्टजन्तवः पृथ्वीं जनशून्यां चिकीर्षन्ति, तस्मात् तेषां बधार्थमपि मृगया विधेया। समधिका च मृगया नितरां दोषमावहति, तया च बहवो नृपाः क्षयं नीताः श्रूयन्ते।

राजा विक्रमसिंहः मन्त्रिणस्तादृशं हितोपदेशमाकर्ण्य

तथैव प्रत्यपद्यत। निर्जगाम च प्रत्यूषे मृगयार्थं बद्धपरिकरः ससज्जः नगरात्। ददर्श च पथि कस्मिंश्चित् देवसद्मनि द्वौ पुरुषौ किमपि मन्त्रयतः। अनन्तरं काननं पर्य्यटन्इतस्ततो मृगमनुसरन् श्रान्तचेताः पुनः स्वनगरीमुज्जयिनीं प्रति निवर्त्तमानस्तथैव तस्मिन् देवनिलये तावेव पुरुषौ किमपि मन्त्रयन्तौ दृष्ट्वा व्यचिन्तयत् अहो! कावेतौ? कथं वा विजनेऽस्मिन् किमुद्दिश्य मन्त्रयतः? मन्ये इमौ कस्यापि भूपतेः गूढ़चरौ। एवं विचार्य्य प्रतीहारमुखेन तावाहूय आनीय चापृच्छत् कौ युवाम्? किं मन्त्रयथः, निःशङ्कं ब्रूथ इति। इत्थं महीपतिनाभिहिते तयोरेकः अभयदानेन निर्भीकः समब्रवीत् देव ! श्रूयताम्।

आमीदत्र नगरे करभको नाम कश्चित् विप्रः। तेन सुपुत्रकामेन अग्निदेवे उपासिते अहमजनि। दुर्भाग्यात्शैशव एव वर्त्तमानस्य मम पितरौ पञ्चतामायातौ, अनाथश्चाहमासम्। विद्यारसास्वादमलभमानेन च मया स्वधर्मं विहाय द्यूतशस्त्रविद्ययोरनुशीलने प्रवृत्तम्। क्रमेणातीतशैशवः कदाचित् शरनिक्षेपशिक्षार्थं वनं प्रवेष्टुकामः येन पथा नगरात् निरगच्छम् तेनैव पथा काचित् रमणी यानमारुह्य सहचरीभिः कतिभिः सह नगरात् निरगमत्। क्षणे चास्मिन् सहसा कोऽपि करीन्द्रः भग्नशृङ्खलः कस्मादपि स्थानात् समागत्य तां ललनामभ्यधावत्। तदवलोक्य च सर्वे तदनुयायिनो भयात् आत्मरक्षणार्थिनः पलायाञ्चक्रिरे। अहन्तु तदवलोक्य चिन्ताकुलः पर्य्यालोचयं हा! असारचेतस इमे तपस्विनीं वधूमनाथां परिहाय पलायिताः,

तदहमेतां मृत्युमुखादस्मात् परिरक्षामि, आपदश्चैतादृशः परित्राणे अबलायाः वैमुख्यमसाराणां लक्षणं, तज्जीवनात्मरणमेव वरम्। एवमभिधाय हुङ्कारपूर्वं तं हस्तिनमभ्यधावम्। मयात्यन्तं निर्भत्सितश्च गजपतिस्तां महिलां परित्यज्य मां प्रत्याचक्राम। अहञ्च सचीत्कारं धावन् हस्तिनं समतिक्रामन् पर्णभूयिष्ठस्य कस्यचित् भग्नतरोः शाखायां समाच्छादितकलेवरः स्थितिमकरवम्। स्तस्वेरमस्तु क्रोधात् द्विगुणरयः समापत्य तस्य वृक्षस्य शाखाः समचूर्णयितुं प्रववृते। अत्रान्तरे अलक्षितगतिना मया तस्या एव कामिन्याः सन्निधिः समासादितः। अनन्तरं भयविह्वलां तां सीमन्तिनोमनामयमपृच्छम्। सा च मद्दर्शनसमाश्वासिता सलज्जमवादीत् भद्र! मम तावत् कुशलं दूरे तिष्ठत्, भवान् पुनः मम परित्राणार्थमुद्यतः अक्षतशरीरः प्रत्यागतः एतदेव परमं मङ्गलम्। अद्य भवन्तमेव पतिं वृणे, आगच्छतु भवान् मम पश्चात्। गते च कियति अध्वनि सुयोगवशेन मिलितावावां कमपि देशं प्रति प्रस्थास्यावहे। अहञ्च तामन्वसरम्। अतीते च कियति क्षणे तस्याः पतिः स्वदलपरिवृतस्तामन्वेषयितुसुदचलत्। अहन्तु तया दत्तं किञ्चित् पाथेयमवलम्ब्यकथञ्चित् प्राणान् धारयन् सुगुप्तं तामन्वगच्छन् व्यलोकयं सा रमणी हस्त्याक्रमणजं गात्रवेदनं छलमाकलय्य पत्ये स्वाङ्गस्पर्शमपि कर्तुं न प्रायच्छत्। क्रमेण च वयं लोहनगरवर्त्तिनि तदीये भर्त्तृगृहे उपतिष्टाम। गृहं गतेषु च तेषु अहं तस्यैव नगरस्य वाह्यं कञ्चित् देवालयमाश्रित्य तं दिवसमत्यवाहयम्।

अस्मिन्नेवावसरे अयं मेब्राह्मणो मित्रं मामुपस्थितः। चित्तं प्राक्तनं प्रण्यमवबुध्यते, तथाहि प्रथमेनैव दर्शनेनावां नितरामार्द्रौ समाश्वस्तौ चाभूवं। अनन्तरं मया मदीये तादृशे रहस्ये आवेदिते सखायं परिचितया तस्या एव कामिन्या ननन्द्रा मदभीष्टं साधयितुं प्रत्यजानात्। गत्वा च तदानीमेव तस्याः सकाशं सर्वं सुगुप्तमावेदयत्। सापि चतुरा परेद्यवि तां भ्रातृजायां पुंवेशेन सुगूढ़ं देवालयं तमानीय मित्रं मम भ्रातृवधूवेशधारिणं कृत्वा पुनर्नगरमनैषीत्। अहन्तु तथा पुरुषवेशिन्या सह मिलितः तस्मात् प्रदेशात् सद्य एव नगरीमुज्जयिनीं प्रति प्रातिष्ठे। सा च ननन्दा तां रात्रिं भ्रातृगृहेऽवस्थाय तेन मित्रेण सह पूर्वसङ्केतमनुसृत्य मया सह मिलिता। भूपते! इत्थमावां द्वे तरुण्यौ समधिगम्य सभयौ विजनेऽस्मिन् देवालयेवसतिमकार्ष्व। अद्य तु कथमनयोर्योगक्षेमविधिः सम्पद्येतेति मन्त्रयन्तौदेवस्य दृष्टिपथे पतितौ। ततश्च प्रतीहारिणां समाहृतो देवसकााशमासाद्य यथावृत्तं सर्वमावेदितवानस्मि, तदत्र देवः प्रमाणमिति।

नृपतिर्विक्रमसेनः तस्य ब्राह्मणस्य तत् सर्वं वृत्तमाकर्ण्य तावब्रवीत् प्रीतोऽस्मि वः, निर्भया एवात्र नगर्य्यां वसथ। यथेष्टमर्थञ्च वः प्रदास्यामि। एवमभिधाय नृपतिना गृहं गत्वा प्रचुरेषु अर्थेषु प्रहितेषु ते तत्रैवोज्जयिन्यां राजप्रसादेन निर्भयाः सुखेन अवसन्। तदेवमध्यवसायमवलम्ब्य सर्वं कार्य्यं साध्यते, साहससम्पन्ने बुद्धिमति च जने राजप्रसादः सर्वथा सम्भवेत्, कर्म्मबलेनैव शुभाशुभं सङ्घटते च,

अयमेव संसारधर्म्मः, तस्मात् देवि! यत् स्वप्ने स्वर्गीयं तेजः स्वोदरं प्रविष्टं दृष्टं तत्र चित्रम्। कोऽपि देवांशः कर्म्मवशेन भूतलमागत्य भवत्या उदरं जननार्थं प्रविष्ट इति सम्भावयामि। एतदाकर्ण्य राज्ञो सम्प्रहृष्टा समभवत्।

इति सप्तविंशस्तरङ्गः।

  •    *
    

अथ अष्टाविंशस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1721050214243.png"/>

दिने दिने राजमहिष्या गर्भो व्यवर्द्धत। अथ दशमे मासि देवो अलौकिकरूपराशि कन्यामेकां प्रसूतवती। राजा तादृशं कन्यारत्नमालोक्यापि नैव सुखमवाप, प्रत्युत चिराकाङ्क्षितपुत्रलाभाभावेन विफलमनोरथः सम्यक् विमनाः समधिकदुःखितश्चाभवत्। अथ नृपतिः स्वान्तविनोदनार्थं कमपि जैनाश्रममियाय, प्रत्याजगाम च तत्र विविधानुपदेशान् श्रुत्वा स्वगृहम्।

कश्चित् स्थविरो द्विजातिः नरपतिं कन्याजननदुःखितं नितरां विषादमुपगतं दृष्ट्वा अवादीत् देव! कथमीदृशं ते कन्याजनने दुःख, कन्या हि उभयलोकयोरपि शुभकरो, पश्य, कुन्तिभोजप्रमुखा महीपाला कुन्तीप्रमुखानां कन्यकानां गुणैः दुर्वासःप्रभृतीनाम् अतिकोपनानां महर्षीणां दुःसहपराभवात् समुत्तीर्णाः श्रूयन्ते। अपरं कन्यादानम्

इह परत्र च शुभदं कविभिरुच्यते। तदत्र सुलोचनाया आख्यानं स्मृतिपथमारूढ़ं कथयामि शृणु।

आसीत् पुरा चित्रकूटाख्ये पर्वते परमरूपवान् युवा कश्चित् नरपतिः सुषेणो नाम। स तु तस्मिन्नेव महीध्रे एकमतिरमणीयमुद्यानं प्रस्तुतमकरोत्, येन दिव्यं नन्दनकाननमपि विस्मार्य्यते। तत्रोपवने कमलसन्तानसुशोभिता रत्नालङ्कृतसोपानराजिविराजिता कापि दीर्घिका निर्मिता। राजा अनुरूपाया महिष्या अलाभात् निरन्तरमेव तदीये तटे अवस्थानमकरोत्। कदाचित् सुरसुन्दरी रम्भा यदृच्छया विहायसा गच्छन्ती तत्र कानने परिवर्तमानं सुरेणमद्राक्षीत्, व्यचिन्तयञ्च तदीयेन रूपराशिना विमोहिता, अहो! न दृष्टपूर्वः कदाप्येवंविधो रूपवान्। एकाकी अयं विचरति किमसौ सहचरीविरहितः? एवमालोच्य कुतूहलाक्रान्ता तस्मिन्नेवोद्याने अवततार, धृतमानवरूपा च तत्समीपमुपतस्थे। नृपस्तु तादृशीं दिव्ययोषितं सम्मुखीनामवलोक्य सविस्मयः क्षणमचिन्तयत् अहो! केयं? न कदापीयं मानवी, तथात्वे पदधूलिर्नेत्रनिमेषश्च स्यात्, तदेषा कापि देवी भवितुमर्हति। सहसा परिचयप्रश्नश्च साहसमवलम्बते, न जाने विरक्ता वा स्यात्पलायेत वा। इत्थमालोचयन् नृपतिस्तदन्तिकमाययौ। प्रस्तुताश्चोभयोः परस्परमालापाः।

अथोभौ परस्परं तथानुरक्तौ यथा कण्ठाश्लेषमासाद्य तस्मिन्नेव उपवने विहारमारेभाते। रम्भा तु सुषेणसंसर्गमासाद्य स्वावासभूतां सुरपुरीमपि विसस्मार, सुषुवे

च क्रमेण तत्सहयोगेन गर्भवती कामपि परमसुन्दरीं कन्यकाम्।

अनन्तरं सा राजानमभ्यधात् नाथ! अहं रम्भा नाम सुरयोषित्। मम कोऽपि शापोऽभूत्, येन त्वत्सहयोगमवाप्तवती अस्मि, अधुना स शापोऽन्तर्हितः, त्वां प्रत्यनुरक्ताया मम गर्भ आसीत्, तदिमां कन्यकां यत्नेन पालयस्व, ममायं स्वर्गप्रस्थानकाल एवमभिधाय सा पश्यत एव नृपतेरन्तर्दधे।

अथ राजा सुषेणस्तस्याः सुरनार्य्या वियोगार्त्तः प्राणान्विहातुमुद्यतोऽपि मन्त्रिणामाश्वासवचोभिः कथञ्चित्धैर्य्यमवलम्ब्यभाविनः पुनःसङ्गमस्य प्रत्याशया तां कन्यां जग्राह, चकार च तस्याः सुलोचनेति नामधेयम्। सुलोचनान्तु क्रमेणातीतशैशवां तस्मिन्नेवोद्याने विचरन्तीं यदृच्छया वत्सो नाम मुनिः पर्य्यटन्नपश्यत्। दृष्ट्वैवासो तथा धीतरागोऽपि रागपरतन्त्रः समचिन्तयत् अहो अपूर्वमिदं रूपं, यद्यहमेतां नावाप्नुयां तर्हि तपश्चर्य्या मेविफला। इति विचिन्त्य स तपोधनः क्रमेण तस्या नयनयोरतिथिरभवत्। सापि सुलोचना साक्षसूत्रकमण्डलुं मुनिं निरीक्ष्य सहसा अनुरागवती कोऽयं शान्तात्मा कमनीयाकृतिश्चेति वितर्क्य तं महर्षिं नयनोत्पलमालया संवेट्य प्रणतिमकरोत्। स तु मदनबाणव्यथाकुल एव तामाशिषा समवर्द्धयत् अचिरेणैव सदृशं पतिमाप्नुहीति।

अथ सुलोचना मुनियुवकस्य असामान्यरूपदर्शनेन विगलितलज्जा सादरमब्रवीत् भगवन् ! यदि भवतां वरं

दानं न परिहासजल्पितं तर्हि मत्पितुः सकाशं गत्वा मां प्रार्थयस्व। मुनिकुमारस्तु कन्याया अभिप्रायं विदित्वा प्रथमं तदीयकुलपरिचयं गृहीत्वा पश्चात् तत्पितुः समीपमभ्येत्य तं सुलोचनां ययाचे। नृपतिः कन्याप्रार्थिनं तं तपोधनयुवानं परमरूपगुणभूषितमालोक्य सविनयमवादीत् भगवन्! मदीयेयं कन्या रम्भाभिधानाया अप्सरसः सम्भूता। रम्भायाः शापमोक्षावसरे उक्तिरियं यदस्या विवाहाय परतः सुरलोके तया सह मम समागमो भवितेति। तदेनां परिणय्य कथं मया दिवि उपस्थेयमिति कथयित्वा कन्यायाः मम पाणिं गृह्णातु भवानिति।

एतदाकर्ण्य मुनिसुतः क्षणमचिन्तयत् पुरा किल मुनयस्तपोबलेन किमिव न कृतवन्तः? विश्वामित्रो महर्षिस्त्रिशङ्कुंयथा स्वर्गमनयत् अहमपि तथैनंनरेश्वरं स्वतपसा सुरलोकं नेष्यामि। एवमालोच्य देववृन्द! अयं नृपः सुषेणः मदीयेन तपोऽंशेन सशरीरः स्वर्गं गत्वा रम्भासंसर्गमवाप्नोतु इति संसदि अमीचैरभिहिते तथेति अन्तरीक्षचारिणी वागुदचरत्। श्रुत्वैतत् नृपतिः सुषेणः वत्साय मुनिकुमाराय सुलोचनां सम्प्रदाय त्रिदिवमगादापच्च देवशरीरः सह रम्भया सुखसन्तानसम्भोगम्।

तदेवं नृपते! राजा सुषेणः कन्यागुणेनैव कृतार्थतामवाप। भवादृशां कुलेषु च तादृश्यः कन्यकाः समुत्पद्यन्ते, कन्येयं तव अवश्यमेव कापि सुरकामिनीशापात् प्रच्युता भवतः कुले समुत्पन्नेति निःसंशयं प्रतिभाति तदेनां कन्यां मत्वा न शोचितुमर्हसीति।

नरपतिः कलिङ्गदत्तः वृद्धमुखात् कथामिमामाकर्ण्य चिन्तां परिहाय सहर्षं कन्यां कलिङ्गसेनाभिधामकार्षीत्। सा तु कन्या सखीभिः परिव्रता प्रतिदिनमवर्द्धत शशिकलेव। विजहार च कदाचित् प्रासादोपरितले कर्हिचिद्वा उपवनमण्डपे सविलासम्। एकदा हर्म्मतले विहरन्तीं तां सोमप्रभा नाम मयदानवकुमारी गगनतलसञ्चारिणी समपश्यत्, व्यतर्कयञ्च तस्या रूपमाधुरीमवलोक्य सविस्मयम् अहो! केयं न चन्द्रमाः, स हि दिवसे न शोभते, रतिरपि नेयं, यतो बालिका। तदेनां मन्ये कापि देवी शापात् विद्युता महीतलमवतीर्णेति। अपरञ्च यथास्यां दृष्टायां मनो नितगमनुरज्यते तत् सम्भावयामि पूर्वस्मिन्जन्मनि अनया सह मम सख्यमासीदिति तदिमामहं स्वयंवरसखींकरोमीति निश्चित्य तस्या भीतिपरिहाराय अलक्षितं नभोमण्डलादवतीर्य्य मानवकन्यावेशेन तत्समीपमुपययौ। कलिङ्गसेना तु तादृशीममानुषाकृतिं बालां सहसोपस्थितामालोक्य अभ्युत्थाय सादरं सखीभावेन समालिलिङ्ग, पप्रच्छ च तदीयं नाम गोत्रञ्च। सोमप्रभा तु क्षणं तिष्ठ सर्वमभिधास्ये इत्युक्त्वा परस्परं पाणिना पाणिमावेष्ट्य सख्यमकरोत्।

अथ सोमप्रभा समवोचत् सखि। त्वं राजबाला, राजबालकैः सह ते सख्यं सम्भाव्यते। परं तदतीव क्लेशबहुलम्अल्पेनैवापराधेन ते कुप्यन्ति, अत्रेमामाख्यायिकां ब्रवीमि आकर्ण्यताम्।

आसीत् पुष्करावत्यां नगर्य्यां गूढ़सेनो नाम नृपतिः।

तस्यैक एव पुत्रः। एकपुत्रो राजा पुत्रेण कृतमन्यायाचरणमपि सेहे, न कदापि तं प्रति चुकोप। एकदासौ राजतनयः स्वोपवने भ्रमन् कञ्चित् वणिक्सुतं रूपसम्पद्भ्यामात्मनः सदृशं विलोक्य तेन सह सौहृद्यमकरोत्। ततः प्रभृति तयोरन्योन्यं प्रति तथानुरक्तं मनः, यथा मुहूर्त्तमपि परस्परमदर्शने नितरां व्याकुलतामाप। मनो हि जन्मान्तरसङ्गमवबुध्यते।

अथ गच्छता कालेन विवाहसम्बन्धे समुपस्थिते राजपुत्रस्तेन मित्रेण सह करिपोतमारुह्य ससैन्यः अहिच्छत्रं नाम नगरं प्रतस्थे। इक्षुमत्यास्तीरे सायकालस्य उपस्थितेस्तत्र ते सर्वे अवतस्थिरे। क्रमेण भगवति चन्द्रमसि भनुदिते तावुभौ सुहृदौसुरापानेन मत्ताबभूताम्। राजपुत्रस्तु स्वधात्र्या अनुरुध्यमानः गल्प कर्तु प्रारेभे, परं कथा प्रारम्भ एव श्रान्ततया मत्ततया च अग्रत एव निद्रामवाप। ततश्च धात्री राजलोकाश्च सर्वे क्रमशः श्रान्ततया निद्राभिभूता आसन्। केवलमेको बणिक्सुतो जजागार। क्षणे चास्मिन् राजपुत्रमुद्दिश्य खेचरीणां सलापाः प्रावर्त्तन्त। एकाब्रवीत् यतोऽसौ पापीयान् कथाशेषमकृत्वा निद्रां गतः, तस्मादहमेनं शपामि यथा प्रातरसौयं हारं तप्स्यते तस्मिन् कण्ठधृत एव मरिष्यति। द्वितीयोवाच अस्मात्शापादयं समुत्तीर्णोऽपि पथि यं फलिनम् आम्रतरुं द्रक्ष्यति, तस्य फलभक्षणेऽपि प्राणान् विहास्यति। तृतीयावोचत् एतस्मादपि कथञ्चित् यदि मोक्षः स्यात् तदा विवाहात् परं गृहं प्रविशत एवास्य छादभङ्गः पृष्ठे पति-

ष्यति। चतुर्थी समभ्यधात् यद्यसौ अस्या विपदोऽपि समुत्तीर्णः स्यात् तदा वासगृहं प्रविश्य यत् शतकृत्वः क्षुतं करिष्यति तत्र यदि कोऽपि जीवेति वाक्यं शतवारं न वदेत्तदा तत्क्षणमेव मृत्युमवाप्स्यति। अपरञ्च यदि कश्चित्कथामिमां श्रुत्वा अस्य रक्षायै एतत् सर्वं सद्यः प्रकाश्येत्सोऽपि कालकले पतिष्यति। एवमभिधाय सर्वास्तूष्णीमासन्।

वणिक्तनयः आकाशचारिणीं वाचमिमामाकर्ण्य सञ्जातदारुणोत्कण्ठः समचिन्तयत हा! मित्रं मे यां कथामारब्धवत् देव्यस्तां श्रोतुमलक्षिता अतिष्ठन्। परं तस्यामसमाप्तायामस्य निद्राभिभवात् एनमभिशापेनायोजयन्। का गतिः? मित्रमस्या आपदः कथमुद्धरेयम्? यदि नोद्धर्तुं शक्नुयां तदा जीवनं वृथैव। तद् यावत् प्राणसमं बन्धुमवश्यमेव युक्त्या रक्षिष्यामि। यदि वृत्तान्तमिमं व्यक्तीकुर्य्यां तदाहमपि मरिष्यामि। इत्थं समनुचिन्तयन्नसौपरमेणा सुखेनैव रजनीमयापयत्। प्रभात एव राजपुत्रः निद्रां विहाय बन्धुना सह अध्वशेषं गन्तुमारेभे। गच्छन्तञ्च पथि सहसा भूतलपतितं हारमेकं दृष्ट्वा ग्रहीतुकामं दृष्ट्वा वणिक्सुतो निवार्य्यावदत् मित्र! नायं हार, ध्रुवमेषा माया, नो चेत् कथमग्रयायिनः सैनिकपुरुषा न प्रापुः, तदेषः त्यज्यताम्। तदाकर्ण्य राजसुतः हारं त्यक्त्वाप्रतस्थे।

अथ कियन्तमध्वानमतिक्रम्य फलवन्तमेकमाम्रतरुमालोक्य राजपुत्रे तत्फलं जिघत्सति वणिजस्तनयोऽसौ

तथैव न्यवारयत्। ततः श्वशुरगृहे समुत्तीर्णस्य तस्य विवाहव्यापारे निर्वृत्ते राजकुमारो यदा गृहं प्रविशति तदासौ वणिक्सुतस्तथैव तं प्रवेष्टुं न्यवारयत्। इत्थमापत्त्रयात् समुत्तीर्णो राजपुत्रो वासगृहं यदा प्रविशति तदासौ वणिक्तनयोऽपि अलक्षितमेव तत्र प्रविवेश। अथ यावत् नृपात्मजः शय्यायां शयित्वैव शतकृत्वः क्षुतमकरोत् तावदसौ बन्धुरपि जीवेति शतवारमुच्चार्य्य तं मृत्युमुखान्मोचयित्वा आत्मानं कृतार्थममन्यत। ततः सम्प्रहृष्टो यावत् गृहादस्मात् निरगमत् तावत् नृपसुतस्तं दृष्ट्वा ईर्ष्यापरश्रुक्रोध आदिदेश च दौवारिकं तद्बन्धनाय। द्वारपालोऽपि तथादिष्टस्तां रात्रिं वणिक्सुतं बन्धनागारे न्यक्षिपत्। प्रत्यूषसि बध्यभूमिं नीयमानः स वणिगात्मजः समवोचत्घातकाः! प्रथमं मां राजपुत्रसकाशं नय, तत्सकाशे मे वक्तव्यमस्ति किञ्चित्, ततो मां हनिष्यथ।

अथ दौवारिकस्तां तस्य कथां राजपुत्राय व्यजिज्ञपत्। राजपुत्रोऽसम्मतोऽपि मन्त्रिभिरनुरुध्यमानः तं साक्षात्कर्तुमाज्ञापयत्। वणिक्पुत्रस्तथा बद्धः सम्मुखे स्थित्वा यावत्सर्वं वृत्तमवर्णयत् तावत् राजपुत्रः तत्क्षणं गृहपातघटनया तत्सर्वं सत्यं मत्वा सम्प्रोतः बन्धुं बन्धनान्मोचयित्वा तत्रैव परिणाय्य स्वां राजधानीं प्रत्यागमत्। तदानीं वणिक्सुतं प्रतिष्ठमानं सर्वे प्रशशंसुः।

सखि ! राजपुत्रा इत्थं मत्तहस्तिन इव सततमुच्छृङ्खला हिताहितं नावबुध्यन्ते। वेताला इव ते हसन्त एव प्राणिनो विहिंसन्ति। तस्मात् तैः सार्द्धं प्रणयो न कार्य्य एव।

एतदाकर्ण्य कलिङ्गसेना सस्नेहं सोमप्रभां सम्बोध्याब्रवीत् सखि! एवं तर्हि ते पिशाचाः, न राजपुत्राः, किन्तु राजकन्या नेदृश्यः, तदहं राजपुत्राणां चरितं सम्यगवबुद्धवती, कदापि तैःसङ्गं न करिष्यामि, त्वं निश्चिन्ता भव। सोमप्रभा कलिङ्गसेनायाः कथामाकर्ण्य प्रीता आकाशयानेन स्वस्थानं प्रस्थिता।

कलिङ्गसेना सख्यास्तादृशीमद्भुतगतिमालक्ष्य विस्मिता व्यतर्कयत् सखीयं मे किं सिद्धाङ्गना, वा सुरनारी, आहो स्वित्विद्याधरी? अनेन गगनसञ्चारेणास्याः दिव्यत्वं स्पष्टमवगम्यते। स्वर्गवासिन्यः प्रायशः एवं भूमण्डले विचरन्ति, सख्यं बध्नन्ति च मानुषीषु। श्रुतं मया, पुरा सुरलोकवासिनी अरुन्धती पृथुराजस्य कन्यया सौहृद्यमकार्षीत्। तेन च प्रणयेन पृथुराजः सुरभिं कामधेनुं त्रिदिवात् भुवमानिनाय जगाम च। तस्याः क्षीरपानेन स्वर्गच्युतोऽपि पुनः स्वर्गम्। तदहमपि धन्या, यानया सखीभावेनानुगृहीतेति चिन्तयन्ती रात्रिमत्यावाहयत्। सोमप्रभापि सुरलोकमिता पुनः कलिङ्गसेनादर्शनोत्सुका कष्टेनैव शर्वरीमनयत्।

इति अष्टाविंशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721105515293.png"/>

अथ ऊनत्रिंशस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1721114270243.png"/>

प्रत्यूषस्येव सोमप्रभा स्वां करण्डिकामादाय आकाशचारेण कलिङ्गसेनान्तिकमागतवती। कलिङ्गसेना तां तथा गतामालोक्य सानन्दगद्गदं पार्श्ववर्त्तिनींकण्ठं धृत्वावदत् सखि! तव वदनशशाङ्कमदृष्ट्वा त्रियामा मे शतयामेव आयामवतीप्रतिभाति स्म। तदहं मन्ये त्वया सह मे जन्मान्तरीणं सख्यमस्तीति। सखि। तत् यदि तव विदितं स्यात् तदाख्याय मामाप्यायस्व। सोमप्रभा चख्यौ सखि! यदात्थ, तत् सम्भाव्यते, परमहमपि तन्नाज्ञासिषमजातिस्मरा।

अनन्तरं कलिङ्गसेना सविश्रम्भं सोमप्रभामपृच्छत्सखि! कस्तव पिता? कञ्च वंशमलङ्कृतवत्यसि? किमाख्या वासि? करण्डिका चेयं किमर्थं विधृता? किं वात्र वस्तु विद्यते? एतत्सर्वं श्रोतुं परं कौतूहल मे वर्त्तते इति। सोमप्रभा संख्याः सप्रणयः विश्रम्भं वचनमाकर्ण्य सर्वमाख्यातुं प्रचक्रमे सखि! त्रिलोकीतलविदिते दानयेन्द्रे मये असुरभावं विहाय भगवन्तं शरणमापन्ने विश्वसम्राट् भगवान् नारायणस्तमभयदानेन कृतार्थमकरोत्। तदा प्रभृति दितिजभियासौ विन्ध्याद्रेरभ्यन्तरे यन्मायागृहं निर्मितवान् तस्य निर्माणकौशलस्य वैचित्र्यात्असुराः कथमपि तत् प्रवेष्टुं नाशक्नुवन्। स एवास्माकं

पिता, द्वे कन्ये तस्य, ज्येष्ठा स्वयंप्रभा, ब्रह्मचारिणी एवपितृसदने न्यवसत्, अहन्तु कनिष्ठा सोमप्रभा नाम पित्रा कुबेरपुत्राय नलकूवराय सम्प्रदत्ता। या चेयं करण्डिका दृश्यते, अस्यां पितुः शिक्षितानि मायायन्त्राणि मे सन्ति, इयञ्च त्वां दर्शयितुं मयात्रानीता। एवमभिधाय करण्डिकामुद्घाट्य विविधानि कौतुकानि प्रदर्श्य सख्याश्चित्तविनोदं कृत्वा करण्डिकां सखीसविधे संरक्ष्य स्वस्थानं प्रतस्थे।

तानि च विविधानि कौतुकानि दृष्ट्वा कलिङ्गसेना क्षुत्पिपासाविवर्जिता तस्मिन् दिने किमपि भोज्यं नाभक्षयत्। जननी तारादत्ता कन्याया आहारवितृष्णां दृष्ट्वा पीड़ां सम्भाव्य आनन्दनामानं कमपि वैद्यकमानीय कन्यामदर्शयत्। वैद्यस्तु दृष्ट्वा समाचचक्षे देवि! नास्या रोगो लक्ष्यते, आनन्देनैव क्षुधा तृष्णा च विलुप्ता, तस्मादेनां समुचितस्नानं भोजनञ्च कारय, एवमवस्था विलयमेष्यतीति।

अथापरेद्युः सोमप्रभा कलिङ्गसेनान्तिकमागत्य न्यगदत् सखि! पतिर्मे सम्मुखेनावयोः सख्यवृत्तमाकर्ण्य सातिशयं सन्तोषमवाप, आदिदेश च त्वत्सकाशं मामागन्तुम्। अधुना त्वमपि पित्रोरनुमतिं गृहीत्वा मया सह निर्भयं विहरस्व।

कलिङ्गसेना सोमप्रभां हस्ते गृहीत्वा पित्रोः सकाशमभ्येत्य तस्याः परिचयमदात्। पितरौ च सोमप्रभामालोक्य सानन्दमाचख्यतुः वत्से! अद्य प्रभृति वत्सा कलिङ्गसेना तव हस्ते समर्पिता। युवां यथेच्छविहारेण‍

चित्तविनोदं कुरुतम्। कलिङ्गसेना पित्रोरभ्यनुज्ञामासाद्य चरितार्था करण्डिकासहचारिण्या सोमप्रभया सह उद्यानं विचरितुमगात्। सोमप्रभा तस्याः करण्डिकाया यन्त्रमयं यक्षमेकं निःसार्य्य तत्याज। स तु यक्षः क्षणेन विहायसा गत्वा, मुक्तारत्नं स्वर्णकमलञ्चानिनाय। सोमगभा तेन पूजोपहारेण बुद्धदेवमपूपुजत्।

ततश्च राजदम्पती तं वृत्तान्तमाकर्ण्य स्वयमुद्याने समुपस्थितौ तं यन्त्रवत्तान्तमपृच्छताम्। सोमप्रभा समाचख्यौ राजन्! यन्त्रस्यास्य विचित्रं वृत्तं, पुरा मम पिता यानिविविधानि मायायन्त्राणि निर्म्मेमे तेषु पृथिवीप्रदानयन्त्रंतोययन्त्रं तेजोमययन्त्रं वातयन्त्रम् आकाशयन्त्रम् अन्यञ्च कतिपययन्त्रं मह्यंशिक्षितानि। प्रथमस्यायंप्रभावः यत् द्वारि रुद्धायां न कोऽपि तामुद्घाटयितुं शक्नोति। द्वितीयेन यन्त्रेण निर्जीवः सजीव इव दृश्यते। तृतीयात् यन्त्रात् ज्वाला निर्गच्छति। चतुर्थेन वातयन्त्रेण सर्वत्र गन्तुं शक्यते। पञ्चमेन आकाशयन्त्रेण आलापः स्पष्टीक्रियते अन्यञ्च यत् चक्रयन्त्रमस्ति तत्पितैवमेजानाति नान्यः। एतत् सर्वमाकर्ण्य राजा राज्ञी च परं विस्मयमासाद्य भवनमाययतुः।

अत्रान्तरे सोमप्रभापि यन्त्रबलेन कलिङ्गसेनामादाय अन्तरीक्षगत्या समुत्थाय क्षणेन विन्ध्याद्रेरभ्यन्तरवर्त्तिनि पितृनिकेतने ज्येष्ठायाः स्वयंप्रभायाः सकाशमाजगाम। कलिङ्गसेना स्वयंप्रभाया रूपसम्पदा विमोहिता सोमप्रभा चोभे स्वयम्प्रभां प्रणेमतुः। स्वयंप्रभा तु यथोचितसमादरेण

उभाभ्यां विविधानि सुमिष्टफलानि आहारार्थमददात्। सोमप्रभा कलिङ्गसेनां सम्बोध्य समब्रवीत् सखि। फलमिदम् अभ्यवहारयितुं त्वमिहानीता, फले चास्मिन् भक्षिते शरीरे जरा न प्रविशेत्। एतत् श्रुत्वा कलिङ्गसेना तानि फलानि यत्नेन बुभुजे। फलेषु च भुक्तेषु शरीरमस्या अमृतरससिक्तमिवाभूत्। अनन्तरं सा सम्मुखवर्त्तिनि मनोरमे उद्याने विहर्त्तुमगमत्, भ्रमन्ती च नानाविधानि अद्भुतानि वस्तूनि अवलोक्य विस्मयाम्बुधौ न्यमज्जत्। अथ सोमप्रभा कलिङ्गसेनां तक्षशिलायां संरक्ष्य स्वस्थानं प्रचलिता। कलिङ्गसेना मयदानवसदने गत्वा यानि यानि अद्भुतानि दृष्टानि तानि सर्वाणि पित्रोः सकाशे समवर्णयत्।

इत्थमुभयोः प्रतिदिनमवर्द्धत सख्यम्। एकदा सोमप्रभा कलिङ्गसेनामाह सखि! यावत् ते परिणयः न सम्प्रद्यते, तावत् त्वया सह मे सख्यं स्थास्यति, ततश्च यदा त्वं भर्तृभवनं गमिष्यसि तदा त्वया सह मे पुनः साक्षात्कारो न भविता। परन्तु विशेषमविविच्य कमपि भर्तृत्वेन न वृणुष्व, पश्य श्वश्रूर्व्याघ्रीव मेषरूपां पुत्रबधूं प्रायशो भक्षयितुं यतते। अत्रेमां कीर्त्तिसेनायाः कथां कथयामि श्रूयताम्।

आसीत् पाटलिपुत्रनगरे धनपालितनाम्नः कस्यचित्धनशालिनो वणिजः कीर्तिसेनाख्या परमसुन्दरी कन्या। वणिक् मगधदेशभवाय देवसेननाम्ने तुल्यधनवते वणिजे तां प्राणसमां कन्यां प्रददौ। दैवसेनः अतीव सुचरित्रः,

परं तस्य विधवा जननी तयादुर्वृत्ता, ययातां देवीसदृशीं स्नुषां दृष्ट्वेवकोपज्वलिता अभवत्। निरभर्त्सयच्चपुत्रे परोक्षवर्तिनि सततम्। कीर्तिसेना तु तत् सर्वं भर्तृसकाशे कथयितुं न शशाक। हा कष्टं कुटिलमत्यास्तादृश्याः श्वश्र्वाःसकाशे अवस्थानमतिभयङ्करं वधूनाम्।

कदाचित् देवसेनं मित्रकार्य्यार्थं वल्लभनगरीयायिनं कीर्तिसेना आह स्म आर्य्यपुत्र ! बहोर्दिवसात् मया विज्ञापयितुमिष्टं, परं न विज्ञापितम्, अद्य तु अविज्ञाप्य स्थातुं न शक्नोमि। भवति गृहस्थितेऽपि जननी विना कारणं मां सततं तिरस्करोति, अद्य तु प्रोषिते किं करिष्यति, तत्कथं वक्तुं शक्नुयाम्। देवसेनः पत्न्याईदृशं वचनमाकर्ण्य उद्भ्रान्तचित्तः समभवत्, अवदच्चसमयं मातृसकाशमभ्येत्य सप्रणामम्। मातः! अहन्तु विदेशं व्रजामि, कीर्तिसेना तव हस्ते समर्पिता, एषा कुलीनतनया, एतस्यां सस्नेहं व्यवहर्तव्यमिति।

देवसेनमाता पुत्रस्य एतादृशं वचनमाकर्ण्य कीर्त्तिसेनामाहूय पुत्रं सम्बोध्य चाब्रवीत् वत्स! त्वमेव वधूं पृच्छ, अहमस्याः किमकार्षं, युवामुभावेव मे समानौ। देवसेनः जनन्यास्तत् वचः समाकर्ण्य समाश्वस्तो बभूव। कीर्त्तिसेना तु सोत्कण्ठं स्मितमुखीएवातिष्ठत्। अथान्येद्युर्देवसेने वल्लभीनगर्य्यां प्रस्थिते कीर्तिसेनां भर्तृविरहातुरां प्रति श्वश्रूः सातिशय ललाग। बध्वा दासीं निराचकार, प्रजहार च निजया दास्या मन्त्रयित्वा पुत्रवधूं विजने समाहूय विवसनां कृत्वा केशेष्वाकृष्य निष्ठूरं निर्भर्त्स्य च। अथ

तेनापि क्रोधानपायात् विनाशार्थम् एकस्मिन् अन्धकारमये गृहे निपात्य द्वारं बबन्ध, प्रददौ च दिनान्ते यत्किञ्चनाहारद्रव्यं, निश्चिकाय च पतिविरहोत्कण्ठया स्वयं मृतेति पुत्रसकाशे दोषक्षालनवचनम्।

सुखोचिता कीर्तिसेना तादृशीं दुर्द्दशामासाद्य क्लेशस्य परां काष्टाप्नवाप। निरन्तरं रोरुद्यमाना चाचिन्तयत्पतिर्मेकुलीनो धनवान् सुचरित्रश्च। हा दैवम् ईदृशस्य हस्ते पतिताया अपि मे एतादृशी दुरवस्था! एतदर्थमेव बन्धुजनाः कन्याजननं विनिन्दन्ति। श्वश्र्वाननान्दुश्च सकाशात् या यन्त्रणा सा अतिभयङ्करौ। एवं चिन्तयन्ती तस्मिन्नेव गृहे खनित्रमेकमासादितवती। तेन च तथैकां सुरङ्गामखनत् यथा तेन पथा वहिर्गन्तुं शक्यते। ततश्च स्वान्याभरणानि वसनानि च गृहीत्वा तेन सुरङ्गापथेन रजन्यामवसितायां वहिर्निर्जगाम। अनेन वेशेन पितृभवने गमनात् पत्युः सकाश एव गमनं वरमिति सम्प्रधार्य्य राजपुत्रवेशेन विपणिं गत्वा किञ्चित् सुवर्णं विक्रीय कस्यचिद् वणिजः सदने तं दिवसमनयत्। परेद्युः समुद्रसेनो नाम वणिक् बलभीं गमिष्यतीति संवादमवगम्य तत्समीपं गत्वा च तेन सह संलापमकरोत्, प्रययौ च तेनैव सार्द्धं वलभीनगरीम्। समुद्रसेनस्तु तां सद्वंशजातं सम्भ्रान्तराजतनयं मत्वा पथि समुचितेन यत्नेनोपचचार। परन्तु दौर्भाग्यात् शुल्कभयेन विजने पथि गच्छन् भीषणायाः कस्याश्चिदटव्याः सम्मुखे समुपतस्थौ। वेलावसानवशात् अग्रसरेण न भवितव्यमिति निश्चित्य अरण्यप्रान्तु

एवावतस्थे। क्रमेणास्तमिते भगवति पद्मिनीप्राणकान्ते अन्धकारपटलैः धरणी समाच्छन्ना आसीत् शिवाश्च भीषणं चीत्काररवमारेभिरे। वणिजः सर्वे चौरापातभयात् गृहीतास्त्रशस्त्राः सशङ्गमवतस्थिरे।

अत्रान्तरे पुरुषवेशा कीर्तिसेना व्यचिन्तयत् हा कष्टम् अहं येन भयेन श्वश्रूसकाशात् पलायिता, अद्य पुनस्तदेव भयमुपस्थितम्। यदि तस्करकरे म्रियेयं तदा भर्त्ता मामन्यासक्ताम्पलायितामवगमिष्यति। यद्यत्र कोऽपि मां स्त्रियमवबुध्यते तदा मे चारित्रं संशयितुं स्यात् तन्मृत्युरेव वरम्। तदेनं सुहृदं वणिजमपहाय आत्मरक्षा कर्तव्या स्त्रीणां सतीत्वमेव परमं धनम्, इत्यमवधार्य्य कीर्तिसेना इतस्ततोऽन्विष्यन् गृहाकृति तरुकोटरमेकं प्राप्य चरितार्थमन्या सत्वरं तदभ्यन्तरं प्रविश्य पत्रसङ्घैः शरीरमाच्छाद्य च पतिसमागमप्रत्याशया तूष्णीमवास्थित।

अथ निशीथे महती चौरसेना शस्त्रास्त्रपाणिस्तत् सार्थवाहशिविरं परिवेष्ट्य सकोलाहलमाचक्रमे। उभौ पक्षी घोरतरं संग्रामं कृत्वा मेदिनीं रुधिरस्रोतसा समाच्छादितवन्तौ। ततस्तस्कराः विजयिनः समुद्रसेनं सवर्गं निहत्य सर्वस्वं हृत्वा च स्वस्थानं प्रतस्थिरे। क्रमेण प्रभातायां रजन्यां सूरे च गगनमण्डलं रश्मिभिरापूरितवति कीर्तिसेना तस्मात् तरुकोटरात् विनिर्गता। भाग्यवशात् तस्मिन्नेव क्षणे कश्चित् तापसः कमण्डलुकरस्तत्रागत्य कीर्तिसेनां वृत्तान्तमपृच्छत्। अथ तया सर्वमावेदितो मुनिः समाश्वास्य तां कमण्डलूदकं पानाय तस्यै प्रादात् अन्तर्दधे च

प्रदर्श्य वलभीगमनाय पन्थानम्। सा तु पीतकमण्डलु जला शान्तक्षुत्पिपासा तापसदर्शितेन पथा पतिमुद्दिश्य प्रचचाल। क्रमेण दिवसमणावस्तमुपगते सा पुनरपि तथैव महारण्यसकाशमुपागमत्। उपायान्तराभावेन च आश्रयमन्विष्यन्तीतथैव कमपि तरुगर्भं प्राप्य तदभ्यन्तरं प्रविश्य च काष्ठान्तरेण तस्य द्वारमवरुरोध।क्षणान्तरे च ददर्श छिद्रद्रत्तलोचना, कापि राक्षसी कतिपयैः शिशुभिः सह तत्रोपस्थिता। ताञ्च दृष्ट्वा कीर्तिसेनाया जीवनाशा सम्यक् विलुप्ता। पश्यन्त्या एव तस्याः सा निशाचरी तस्य वृक्षस्यान्तिकमुपगच्छन्ती क्रमेण तदुपरि समारुरोह। शिशवश्च क्रमेणारुरुहुः। ततश्च ते मातरं रात्रिचरीमब्रुवन् मातः! किं भक्षयामः, किमपि अस्मभ्यं देहि। राक्षसी प्रोवाच वत्साः! अद्य महाश्मशाने किमपि अप्राप्तवती डाकिनीभ्यः किञ्चित् प्रार्थयं, परं किमपि न प्राप्तम्। ततश्च भगवन्तं भैरवं प्रार्थयन्तीं मां स खलु कृपापरतन्त्रः नामगोत्रे च आपृत्छ्य आदिष्टवान् निशाचरि! परिचयेन ज्ञातं त्वं खरदूषणवंशजा, तस्मात् सन्निहितं वसुदत्ताख्यं नगरं व्रज, तस्मिन् वसुसेनी नाम कश्चित् धार्मिकः पृथिवीपतिः प्रतिवसति। स एव इमां सर्वामटवीं रक्षति शुल्कं गृह्णाति चौरांश्च शास्ति। एकदासौ राजा अटव्यां मृगयार्थं भ्रमन्परिश्रान्ततया निद्रामवाप्तवान्। तस्मिंश्च निद्रया अभिभूते कृमिरेकस्तस्य कर्णविवरं प्रविष्टः। गच्छता च कालेन तस्मिन्कृमौ तस्य मस्तकाभ्यन्तरे असंख्यान् कृमीन् प्रसूतवति नृपतिः स्नायुशोषाख्यरोगेण आक्रान्त आसीत्। शतश-

श्चिकित्सकाः समागच्छन् परं कोऽपि रोगं निर्णेतुं नाशकत्न शक्ष्यति च। तदसौ नरपालः सत्वरमेव कालसागरे पतिष्यति, तस्मादपेक्षस्व, तन्मांसभक्षणेन षाण्मासिकीं तृप्तिं प्राप्स्यसीति। पुत्राः! भूतनाथो भैरवः स्वयं मदर्थं यदा भागं निरदिशत्, तदा अहं किं करिष्यामि, कथं वा युष्मभ्यमाहारं दास्यामीति।

एतदाकर्ण्य पुत्रा ऊचुः मातः! नृपतेस्तस्य रोगस्य शान्तये उपायोऽस्ति कश्चित्? राक्षसी प्रोवाच वत्साः! रोगे निर्णीय चिकित्सिते राजा जीवितुं शक्ष्यति। एकमात्रोऽस्य शान्तेरुपायोऽस्ति शृणुत। इत्युक्त्वारोगशान्तेरुपायं सर्वं वर्णितवती। कीर्तिसेना तरुकोटरान्तरवर्तिनी समस्तं वृत्तान्तमाकर्ण्य व्यचिन्तयत् यद्यहमद्य अस्याः विपदः निस्तारं लभेयं, तदा राजानमेनं रक्षिष्यामि। समुद्रसेनेनोक्तम् अस्या अटव्याः प्रान्तभागस्य शुल्कमल्पमिति वणिजः सततम् अनेनैव पथा गच्छन्ति, पतिश्च मम अनेनैव गृहमागमिष्यति। तदहमस्य महारण्यस्य प्रान्तवर्तिनि वसुदत्तनगरे गत्वा राजानं निरुजं कृत्वा तत्रैव पतिमपेक्षिष्ये।

इत्यवधार्य्य कीर्तिसेना कथमपि निशामतीत्य प्रातस्तरुकोटरात् निःसृत्य तेनैव अटवीमार्गेण गच्छन्ती दिनशेषे कमपि सुचरित्रं गोपालमपश्यत्। किमाख्यमिदं स्थानमिति पृष्टश्च सोऽब्रवीत् महाशय! एषा सम्मुखवर्तिनी वसुदत्तनगरीदृश्यते। सम्प्रति अस्याः पतिः वसुसेनो नाम नृपतिः व्याधितः मरणं प्रतीक्षमाणस्तिष्ठति। एवमभि-

हिता सा तमभाषत भद्र! यदि कश्चित् मां तत्र नयेत्, तदाहं राजानं रोगोन्मुक्तं कर्तुं शक्नोमि। श्रुत्वैतत्गोरक्षकः प्राह महाशय! अहं तत्र गमिष्यामि, मया सहैवागच्छतु भवान्, यथाशक्ति भवन्तं प्रति यत्नं विधास्यामि। एवमुक्त्वासौ तां तां नगरीमनयत्। अवोचञ्च राजद्वारि उपस्थाय प्रतीहारं सर्वं वृत्तम्। प्रतस्थे च समर्प्य प्रवेशां कीर्तिसेनां तत्करे।

प्रतीहारी तु तत्क्षणमेव तं संवादं विज्ञाप्य कीर्त्तिसेनां राजान्तिकं निनाय। मुमूर्षुः नरनाथः अद्भुताकृतिं चिकित्सकमालोक्य एव किञ्चित् समाश्वस्तः समब्रवीत्भद्र! यदि त्वमस्मात् रोगान्मां मोक्षयितुं शक्नोषि, तदा तुभ्यं राज्यार्द्धंप्रदास्यामि। एवमुक्त्वा कीर्तिसेना तथेति प्रतिज्ञाय यथाश्रुतेन राक्षसीकथितेन उपायेन राजानं निरोगं कर्तुमचेष्टत। सर्वे तत्रत्याः राज्ञस्तथाविधरोगमुक्तिप्रक्रियादर्शनविस्मिताः कीर्त्तिसेनां बहुशः प्रशशंसुः। राज्ञः प्रधानमहिषी तां समधिकेन सेवाविधानेन राजयोग्ये सदने अवस्थानमकारयत्। परेद्युर्मध्याह्ने कीर्तिसेना सर्वजनसमक्षं राक्षसीकथितया युक्त्या राज्ञःकर्णविवरात् सार्द्धशतमितान् क्रमीन् वहिरकरोत्। तदा राजा सम्यक् रोगनिर्मुक्तः लब्धस्वास्थ्यः स्नानाहारादिकं निरवर्तयत्। अददाञ्च तदानीमेव चिकित्सकाय असंख्यान्ग्रामान् हस्तिनः अश्वान् प्रचुराणि च सुवर्णानि सन्तोषार्थम्। मन्त्रिणः राजमहिष्यश्च पृथक् पृथक् वस्त्रालङ्कारादिभिस्तमतोषयत्। कीर्तिसेना तत् सर्वमधिगम्य तस्मि-

न्नेव नगरे अवतस्थे। अथ गच्छति कियति काले सार्थवाहान् वलभ्यां नगर्य्यामागच्छतः श्रुत्वा सत्वरं तान् उपगम्य तेषु च पतिमवलोक्य सवेगं धावन्ती तच्चरणयोर्निपपात।

देवसेने तु प्रथममपरिचितविमूढ़तया क्षणं स्थित्वा सत्वरं स्वां प्रियामलक्षयित्वा विस्मिते सर्वे वणिजः साश्चर्य्यं सर्वं वृत्तान्तमपृच्छन्। अथ सा आमूलतः सर्वं वृत्तमवर्णयत्। संवादमेतमाकर्ण्य राजा वसुसेनः स्वयमागत्य तस्याः कीर्तिमुद्दिश्य सम्यक प्रशशंस। ततो देवसेनः समस्तं वृत्तान्तमाकर्ण्य कोपक्षमाविस्मयहर्षजड़ स्वमातरि सम्यक्विद्वेषमकार्षीत्। अथ तत्रत्याः सर्वे एकमतयः समब्रुवन्यासां पतिभक्तिः रथः, सुशीलं कवचं, धर्म्मः सारथिः, पतिश्च अस्त्रं ताः सत्यः कदाचन न परिभूयन्ते, प्रत्युत सर्वत्र जयं लभन्ते। एवमभिधाय कीर्तिसेनाया यशो गायन्ति स्म। ततो नृपतिरब्रवीत्, इयं पतिभक्त्या सीतामप्यतिचक्राम, तदेषा मम धर्म्मभगिनी अभूत्। एतदाकर्ण्य कीर्तिसेनावदत् देव! भवता प्रीतेन यानि द्रव्याणि मह्यंपुरस्कृतानि तानि सर्वाणि मम पत्ये समर्पयतु। राजापि तानि सर्वाणि देवसेनाय दत्त्वा पुनः तस्य शिरसि विशेषसम्मानसूचकं पट्टबन्धमेकमबध्नात्।

अनन्तरं देवसेनः स्वोपार्जितं राजदन्तश्च वसुजातमासाद्य कीर्तिसेनां बहुशः प्रशस्य दुरन्तां जननींपरित्यज्य च तस्मिन्नेव वसुदत्ताख्ये नगरे सुखेन वसतिमकरोत्। कीर्तिसेना च पतिभक्तिनिदर्शनभूता

धरातले असामान्यां कीर्तिं लब्ध्वापत्या सह परमसुखेन न्यवसत्।

सोमप्रभा एवमुक्त्वा पुनरवदत् राजपुत्रि! एवं वध्वः श्वश्रूणां ननन्दृृणाञ्च दोषेण बहून् क्लेशान् प्राप्नुवन्ति। तस्मात् भगवन्तमभ्यर्थाय यथा त्वं भर्तृभवने सुखेन वस, श्वश्रूनन्दारश्च ते सदाशया भवन्तु। कलिङ्गसेना सोमप्रभामुखात् आख्यानमिदं श्रुत्वा परमं सन्तोषं लेभे। अथ सा सोमगभासखीमालिङ्ग्य सत्वरं स्वस्थानं प्रातिष्ठत।

ऊनत्रिंशस्तरङ्गः समाप्तः।

  •   *
    

अथ त्रिंशस्तरङ्गः ।
<MISSING_FIG href="../books_images/U-IMG-1721122773023.png"/>

अथापरेद्युः प्रातः कलिङ्गसेनां प्रियसख्यागमनं प्रतीक्षमाणां कश्चित् मदनवेगो नाम विद्याधरः विमानेन सञ्चरन् ददर्श। दृष्टा च तस्या रूपलावण्यं विभुग्धश्चाचिन्तयत्अहो! किमाश्चर्य्यं मानुषीषु निर्म्माणकौशलं, यदीयंमे प्रेयसी न स्यात्, तदा जीवनं विफलम्, अथवा विद्याधरोऽहं कथं मानुषीसंसर्गदूषितो भवेयम्? एवं विचिन्त्य प्रज्ञप्तिं नाम विद्यां सस्मार। सा च तत्क्षणं देहधारिणी समीपमागत्य अभाषत नेयं कन्या मानुषी, कापि सुराङ्गना शापभ्रष्ट्वाकलिङ्गदत्ताभिधानस्य राज्ञः कुले स्म

जायत। तदाकर्ण्य मदनवेगः स्वालयमेत्य इत्थं निश्चयमकरोत्, यथा कन्येयं नापहृत्य बलात् भोक्तव्या, तथात्वे मम मृत्युशापोऽस्ति, तदेतस्याः प्राप्तये गौरीपतिमाराधयामि।

एवमवधार्य्यमदनवेगः ऋषभाख्यं पर्वतं गत्वा तत्र पदैकेन तिष्ठन् घोरं तपश्चचार। देवादिदेवो नीलकण्ठस्तस्य तादृशेनातिकठोरेण तपसा सन्तोषितः समागत्य समभ्यधात् वत्स! कन्या कलिङ्गसेना पृथिव्यां यादृशी सुन्दरी, तादृशस्तस्याः सदृशो वरः वत्सराजस्तिष्ठति। स खलु एनां परिणेतुमभिलषति केवलं वासवदत्तायाः भयाकुलः स्पष्टाक्षरमेनां प्रार्थयितुं न शक्नोति। कलिङ्गसेना तु सोमप्रभामुखात् वत्सराजगुणान् श्रुत्वा स्वयंवरार्थिनी तदीयां राजधानीं गमिष्यति। तस्मात् त्वं स्वयंवरात् प्राक्तत्र सन्निधेहि, पूरयस्व च वत्सेश्वरवेशधारी गान्धर्वविधिना तामुद्वाह्य स्वमनोरथम्।

एतस्मिन्नन्तरेभूतलस्थाः सर्वे राजानः कलिङ्गसेनाया रूपगुणसमृद्धिवार्त्तामाकर्ण्य तां प्रार्थयितुं कलिङ्गदत्तस्य नृपतेरन्तिकं दूतान् प्राहिण्वन्। कलिङ्गदन्तस्तु कस्यापि प्रार्थनानामदत्तकर्णः केवलं श्रावन्तीनगरीपतेः वृद्धस्य राज्ञः प्रसेनस्य प्रार्थनां पूरयितुमभिललाष। कलिङ्गसेनया तु तस्यां वार्त्तायां निवेदितायां सोमप्रभा दुःखिता रुदती समभाषत सखि! नरेश्वरः प्रसेनो मया सम्यक् ज्ञातः, स खलु सर्वमेव प्रियसख्या योग्यः, परं वृद्धः। वृद्धेन सह तव परिणयः मम न सम्मतः। तस्मादेतच्छ्रवणे मम हर्षो दूरे

आस्तां, प्रत्युत विषाद एव संवृत्तः। कल्याणि! यदि वत्सेश्वरः उदयनस्ते पतिः स्यात्, तदा सर्वाङ्गीनं कुशलं भवेत्। रूपे गुणे समृद्धौ शौर्य्येविद्यायां वा तत्सदृशः पुमान्पृथिव्यां नास्ति। तदेवं योग्ययोजने विधातुः सृष्टिकौशलस्य साफल्यं नो चेत् वैफल्यमिति।

एतदाकर्ण्य कलिङ्गसेना वत्सराजं प्रति सातिशयमनुरक्ता अवादीत् सखि!स वत्सराजः कस्मात् कुलात्सम्भूतः, कथं वासौ उदयननामा, एतन्मे आख्याय कौतुकं मे उपशामय। सोमप्रभाब्रवीत् सखि। एतत् तव श्रुतिपथमायातम्? यत् अर्ज्जुनः पाण्डुसुतः, तत्पुत्रोऽभिमन्युः, तस्य तनयः परिक्षित् नाम सुप्रसिद्धो नरपतिः, तदात्मजो जनमेजयः, तस्य सुतः शतानीकः, स खलु वत्सदेशानां महानगर्य्यां कौशाम्ब्यामध्यास्त। यश्च देवासुरयुद्धे असुरान् निहत्य सशरीरः स्वर्गमगात्, तत्पुत्रः सहस्रानीकः। तस्य मृगावती नाम महिषौआसीत्। तस्याउदरे उदयनो नृपः समजनि। एकदा मृगावती अन्तर्वत्नी शोणितमयह्रदे स्नानार्थमभिलाषमकरोत्। राजा प्रेयस्यास्तादृशमभिलाषं श्रुत्वा शङ्गितः लाक्षारसपूर्णां वापीमेकामखानयत्। राजमहिष्यां तत्र स्नातुमवतीर्णायां सहसा पक्षिराजो गरुड़ः समापत्य आमिषलोभात् तां तस्मात्ह्रदात् हृत्वा जीवन्तीमवलोक्य उदयाचले निचिक्षेप। तत्र जमदग्निर्नाम महर्षिरासीत्। स कदाचित् भ्रमन् तां पतितां मृगावतीं दृष्ट्वा स्वमाश्रयमनयत्। अरक्षञ्च सयत्नं पतिलाभाश्वासं दत्वा तां तस्मिन्नाश्रमे। तस्याश्च ईदृश्या

अवस्थायाः कारणं श्रूयतां, पूर्वमेकदा स्वर्गवनिता मृगायती तिलोत्तमामवजज्ञे। तिलोत्तमा तेन तामभिशशाप, तस्य फलमिदं सा भुक्तवती।

अथ दशमे मासि सा मृगावती तस्मिन्नेवोदयगिरौ पुत्रमसूत। तदा च दैववाणी तां वराकीं समाश्वासयत्देवि! यं पुत्रं प्रसूतवती असि, अयं हि विद्याधराधि राजः सम्भविष्यति, ख्यातिमाप्स्यति च उदयन इति समाख्यया। सखि! तदयमुदयनो नाम। अत्रान्तरे राजनि सहस्रानीके मृगावतींविना नितरां शोकाकुले कथञ्चित्कालं नयति एकदा उदयगिरिनिवासी कोऽपि शवरः कार्य्यानुरोधेन मृगावत्याः शापावसानकालस्यागमात् दैवग्रहित इव कौशाम्बीं नगरीमाजगाम। अस्मिश्च क्षणान्तरे अन्तरीक्षवाण्या प्रियतमासंवादमवगम्य नृपतिस्तेन शवरराजेन सह प्रेयसीमानेतुमुदयाचलं प्रातिष्ठत। तत्र च गत्वा सपुत्रां प्रियतमामादाय पुनः स्वां नगरीमनुप्राप्तः पुत्रमुदयन यौवराज्ये अभिषिच्य मन्त्रिपुत्रान् यौगन्धरायणादीन् तद्वयस्यभावे नियुज्य कियन्तं कालं सुखेनानयत्। गच्छता च कालेन तस्मिन् नरनाथे सचिववृन्दैः साकं महापथं प्रस्थिते असौ उदयनः सम्प्रति पितृसाम्राज्यं प्राप्य तैस्तैर्मन्त्रिपुत्रैः पृथिवीमनुशास्ति।

इत्युक्त्वासोमप्रभा पुनः समभाषत सखि! असविवोदयनस्तवानुरूपः पतिः, त्रिलोक्यां तस्य समो द्वितीयो नास्ति। स चोदयनस्तव भुवनविख्यातं नाम श्रुत्वा त्वय्यनुरक्तोऽपि केवलं प्रधानमहिष्या वासवदत्ताया भयात् स्पष्टं

प्रार्थयितुं न शशाक। तस्याश्च वासवदत्तायाः नरवाहनदत्तो नाम यः पुत्रः सम्भूतः, स एव विद्याधरचक्रवर्त्ती भवितेति दैववाक् तस्य जन्माभ्यनन्दयत्। तदेवं तवाभिमतिरेव प्रमाणमिति।

कलिङ्गसेना सोमप्रभामुखात् उदयनचरितमाकर्ण्य समवादीत् सखि! श्रुतं सर्वं सिद्धान्तितञ्च स एव मे योग्यः पतिरिति, किन्तु दुर्घटोऽयं मे मनोरथः पित्रोरपि।

सखि! त्वं सर्वज्ञा प्रभावशालिनी अपि, तदत्र त्वामन्तरेण नास्त्यभ्युपायः वैवाहिको विधिश्चदैवायत्तः, अत्रेमामाख्यायिकां वर्णयामि निशामय।

आसीत् पुरा उज्जयिन्यां विक्रमसेनो नाम नृपः। तस्य तेजस्वती नाम एका सुन्दरीकन्यका अजनिष्ट। राजा तदर्थं बहु अन्विष्यन्नपि अभिमतं वरं कुत्रापि नावाप्तवान्। कदाचित् तेजस्वती हर्म्यपृष्ठमधिष्ठिता कञ्चन पथिकं दृष्ट्वा तस्मिन्रनुरागपरतन्त्रा स्वाभिप्रायं व्यञ्जयितुं स्वां सहचरींतदन्तिकं प्राहिणोत्। सख्यां सकाशमेत्य कन्यायाः प्रार्थनां निवेदितवत्यां पथिकः शङ्काकुलः तां राजकन्याप्रार्थनां नाभ्यनन्दत्। परन्तु राजनन्दिन्याः सखी सनिर्बन्धं समभाषत भद्र! नास्त्यत्र ते भयम्। त्वं सन्ध्यायामुपस्थितायां अस्मिन् देवभवने राजपुत्रों प्रतीक्षस्व। एवमुक्त्वादास्यां प्रचलितायां पथिकोऽसौ कथञ्चित् सम्मतोऽपि भयात् पलायाञ्चक्रे न पुनराजगाम।

अत्रान्तरे सोमदत्तो नाम कश्चित् सामन्तपुत्रः पितरि स्वर्गते दायादैर्हृतराज्यः राजाधिराजसकाशमभियोक्तुम्

उज्जयिनीमागच्छन् सहसा तं प्रदेशमागत्य सन्ध्यायामुत्तीर्णायां स्थित्यर्थं तं देवालयमविशत्। तेजस्वती च तदानीं सङ्केतमनुसृत्य तत्रोपस्थिता कोऽयमिति न दृष्ट्वैव पथिकं मत्वा तं राजतनयं पतित्वे ववार। सोमदत्तोऽपि सविस्मयः अनुक्तप्रतिवचनः सानन्दं तस्याः प्रार्थनाभिमननन्द। अथ राजपुत्री सोमदत्तं सत्यपाशेन संयम्य आत्मानं कृतार्थम् मन्यमाना सुखावासं प्रत्याजगाम। राजपुत्रः सोमदत्तोऽपि एकाकी तत्रावस्थाय तां रजनीमत्यवाहयत्। अथ प्रातः मित्रं विक्रमसेनमेत्य स्ववृत्तान्तमावेद्य तत्साहाय्यमभ्यर्थयामास। विक्रमसेनोऽपि तदीयशत्रुदलने कृतसङ्कल्पः तस्मै एव सोमदत्ताय स्वां तनयां दातुं प्रस्तावमकार्षीत्। सोऽपि पूर्वरात्रिपरिचितां विक्रमसेनदुहितरं विवेद, सुतरां विवाहप्रसङ्गंश्रुत्वा विक्रमसेनाय तत्वृत्तं सर्वमवर्णयत्। तेजस्वती च गृहमेत्य विश्वस्तया सख्या रात्रिवृत्तान्तं मात्रे न्यवेदयत्। अथ राजनि काकतालीयवत् एतत् संघटनं श्रुत्वा विस्मितवति मन्त्री समुवाच देव! भवितव्यतैवेयं सतां प्रयोजनसिद्धये विधिरेव जागर्त्ति, तदत्र कथामेकामाकर्णय।

आसीत् कस्मिंश्चित् जनपदे हरिशर्म्मा नाम ब्राह्मणः। स तु मूर्खो दरिद्रश्च। तस्य बहवः पुत्रा आसन्। एकदासौ भिक्षार्थमटन् सपरिवारः नगरमेकं प्राविशत्। तत्र च शीलदत्तं नाम गृहपतिं शरणं गतः पुत्रान् तस्य गोरक्षणे, भार्य्यां दासीत्वे, स्वयञ्च दास्ये नियोज्य तदालयसकाशे न्यवसत्। कदाचित् गृहपतेः कन्यापरिणयोत्सवे

बहवो लोकाः निमन्त्रिताः। हरिशर्म्मा सपरिवारः प्रभुगृहे यथेष्टं भोजं भोक्तुम् अनाहारमेवातिष्ठत्। क्रमशः सर्व एव सयत्नमाहूय भोजं कारिताः, परं हरिशर्म्मा एव सपरिजनो माहूतः। हरिशर्म्मा अनाहारेण नितरां क्लिष्टः रजन्यां गृहिणीमब्रवीत्, पश्य, मां दरिद्रं मूर्खञ्च मत्वा अगौरवात् कोऽपि भोजनार्थं नाहूतवान्। तस्मादहं युक्त्या एवं करोमि यथा शीलदत्तो मां सगौरवमाद्रियते। अहं सर्वासमक्षम् अस्य जामातुरश्वं हत्वा स्थानान्तरे गोपयिष्यामि। ततश्च अश्वानुसन्धाने संवृत्तेयदा कोऽपि तमनुसन्धातुं न शक्ष्यति, तदाहं गणनाविद्यायां मम नैपुण्यं प्रकटयिष्यामि। अथ सर्वेषु निद्रितेषु असौ हरिशर्म्मा सुगूढ़म्अश्वं स्थानान्तरं निनाय। प्रातश्च अश्वमदृष्ट्वा परिजनेषु अमङ्गलमाशंसत्सु सर्वे एव अनुसन्धानाय सत्वरा अभवन्। परं कोऽपि अश्वं नापश्यत्। ततश्च हरिशर्म्मणो गृहिणी यथाशिक्षितं शीलदत्ताय समाचख्यौ महाशय! मम भर्त्ता
गणनायां निपुणो भवदन्तिके आस्ते, तं पृच्छ, स खलु गणनया सर्वं वेत्स्यति।

एवमुक्तः शीलदत्तो हरिशर्म्माणमाहूय प्रोवाच भद्र! पूर्वेद्युर्विस्मृतिहेतोः त्वामाहूय भोजनं न कारितवानस्मि, अद्य अश्वे चोरिते स्मृतं तन्मनसि दुःखं मा कृथाः, सम्प्रति गणनायां निपुणस्वं ब्रूहि को मे जामातुरश्वमपजहार। एवमुक्तो हरिशर्म्मा कियतीर्मिथ्यारेखा अङ्कयित्वा प्राब्रवीत्महाशय! तस्कराः स्थानादस्मात् दक्षिणस्यां दिशि अश्वमपहृत्य सुगुप्तं ररक्षुः, नेष्यन्ति च रात्रौस्थानान्तरम्।

तत् साम्प्रतमेव गत्वा सत्वरमश्वमानयस्व। एवमुक्ते कियतो लोकाः दक्षिणस्यां प्रचलिताः प्रत्यागताश्च सत्वरम् अश्वं नीत्वा। तद्दृष्ट्वा सर्वे हरिशर्म्मणो गणनानैपुण्य प्रशशंसुः। प्रायच्छंश्च ततः प्रभृति तं ज्ञानिनं मत्वा बहु सम्मानम्। शीलदत्तोऽपि तं बहुयत्नेन समादृतवान्।

अथ गते च कियति काले राजगृहात् प्रभूतानि सुवर्णानि चोरितानि। बहुसन्धानेनापि चौरेषु अप्राप्तेषु गणनार्थं हरिशर्म्मा समाहतः। सुतरां घोरायामापदि पतितः हरिशर्म्मा राजभवनमेत्य पलायनार्थं कल्यं गणविष्यामीत्युक्तवान्। राजा तु तम् एकस्मिन् गृहे अवरोद्धुमादिदेश। रक्षिणश्च तथैव चक्रुः। कोऽतिवर्त्तते दैवम्। राज्ञः अन्तःपुरचारिणी जिह्वानाम्नी कापि चेटी आसीत्। सा स्वेन भ्रात्रा सह चक्रान्तं कृत्वा उल्लिखितानि द्रव्याणि अपाहरत्। हरिशर्म्मणि तथा स्थिते सा निशायां तगृहद्वारि निभृतं स्थित्वा किं वदेदिति कर्णं दत्त्वा अतिष्ठत्। क्षणे च तस्मिन् हरिशर्म्मा स्वां जिह्वां सम्बोध्य समुवाच जिह्वे! कथमीदृशं कर्म्म कृतवती, तदिदानीं यादृशं कर्म्म, तदनुरूपं फलं लभस्वेति।

एतदाकर्ण्य चेटीस्वकृतं चौर्य्यं गणको ज्ञातवानिति निश्चित्य निरुपायन्मन्या कौशलेन हरिशर्म्माणो गृहमविशत्, अवदच्च तत्पदयोः पतित्वा महाशय! गणनयायं यं चौरं निश्चितवानसि, साहं जिह्वानाम। अहमेव समस्तं धनम् अपहृत्य अस्य सदनस्य पश्चिमायां दिशि उद्यानाभ्यन्तरे दाड़िम्बमूले निहितवत्यस्मि।

तदिदानीं ब्रह्मन्! मम हस्ताभरणमेतत् गृहीत्वा मां रक्ष।

हरिशर्म्मा तु चेटीमुखेन सर्वं श्रुत्वा सगर्वमाह स्म रे पापीयसि! गच्छ दूरम्, अहं त्रिकालदर्शी न विदितस्तव। तद् यावत् त्वं दरिद्रा, तव कथां न प्रकाशयिष्यामि, परं तव हस्ते यदस्ति तत् मामर्पय। चेटी तथेति प्रतिज्ञाय तस्मात् गृहात् प्रचलिता। हरिशर्म्मा सविस्मयश्चिन्तितवान् अनुकूलदैवस्य सर्वं समीहितं सेत्स्यति, क्वाहं स्वां जिह्वां निन्दामि, क्व वा कृतचौर्य्या जिह्वानाम्नी किङ्करी, या मद्वचनश्रवणार्थं ममावरोधगृहे दत्तकर्णा तिष्ठन्ती जिह्वायाः निन्दावादं श्रुत्वा मां परिज्ञातवानिति निश्चित्य मत्पदयोर्निपतिता सर्वं वृत्तान्तं न्यवेदयत्। इत्थं विचिन्तयन् हरिशर्म्मा हृष्टो रात्रिमयापयत्। प्रातश्चोत्थाय अलोकगणनया धनस्थानमदर्शयत्, क्षमयामास च राजानं चौरः किमपि न गृहीत्वा पलायित इति।

राजा तु तस्य तादृशगणनानैपुण्येन भृशमनुरञ्जितः तस्मै कतिपयान् ग्रामान् सुवर्णानि छत्राणि वाहनानि च प्रदत्तवान्। इत्थमसौ चातुर्य्येण क्रमशः समृद्धिमान् समभृत्। तदेवं देव! दैवमेवानुकूलं पुरुषार्थान् साधयति। तदेव सोमदत्तमानीय राजनन्दिनीमयोजयत्।

मन्त्रिण एतादृशं वचनमाकर्ण्यनृपतिः प्रीत्या तेजस्वतींसोमदत्ताय सम्प्रददौ। सोमदत्तश्व श्वशुरसैन्यपरिवृतः स्वान् शत्रून् निराचकार, निनाय च सुखेन कालं प्राप्तराज्यः सकलत्रः।

तस्मात् सखि! दैवं सहायमन्तरेण कः समर्थी वत्सराजं प्रति त्वां घटयितुम्। कलिङ्गसेना सोमप्रभामुखात्सर्वमाकर्ण्य तस्मिन्नेव वत्सेश्वरे अनुरागिणी त्यक्तवपाभया तत्प्राप्तये एव अयतिष्ट। सायञ्च कमलिनीबान्धवे अस्तमुपगच्छति सोमप्रभा स्वालयं प्रातिष्ठत।


अथ एकत्रिंशस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1721189962243.png"/>

परेद्युः प्रातरेव सोमप्रभायामुपस्थितायां कलिङ्गसेना प्रावोचत् सख! श्रुतं मया, तातो मम प्रसेनेन नरपतिना सह मत्परिणयार्थं यतते, परं त्वया वत्सराजं प्रति समासञ्जिताहं दिवानिशं तद्गुणानेव चिन्तयामि तद्भवती मां नरेश्वरं प्रसेनं दर्शयित्वा तदनु वत्सराजं प्रति नयतु। नाहमिदानीं पितृभ्यां बिभेमि। एतच्छ्रुत्वा सोमप्रभावदत सखि! तर्हि अन्तरीक्षेण पथा यन्त्रमारुह्य गमिष्यावः। त्वमात्मनः सर्वं द्रव्यजातं गृहीत्वा सत्वरा भव, यतो वत्सेश्वरं सकृद् दृष्ट्वा त्वं पुनः प्रत्यागन्तुं न शक्ष्यमि। पितरं मातरं माञ्च विस्मयिष्यसि। तदेवमहमपि पुनर्नागमिष्यामि। कलिङ्गसेना एतदाकर्ण्य रुदती प्राब्रवीत् सखि! युद्येवं त्वमेव गत्वा तं वत्सेश्वरमिहानय। नाहं त्वया विना तत्र क्षणमपि स्थातुं शक्ष्यामि, श्रुतवत्यस्मि चित्रलेखा ऊषाया दानवनन्दिन्याः कृते अनिरुद्धमानीतवती।

मन्ये त्वमपि एतदाख्यानं जानासि, मया पुनराख्यायते श्रूयताम्।

आसीत् पुरा असुरराजस्य वाणस्य ऊषा नाम कन्दका। तया गौर्य्यामाराधितायां सा तस्यै वरमदात् यथा त्वं स्वप्नेयमालिङ्गिष्यति स एव तव पतिर्भविष्यति। ततश्च निद्रावस्थायां कोऽपि देवकुमारी गान्धर्वविधिना तामाश्लिषत्। अथ निद्रापगमे यदा सा तं देवसुतं न प्रत्युत, तत्सभोगचिह्नमपश्यत् तदा देव्या वरस्मरणेन विस्मिता। चित्रलेखामब्रवीत् सखि! स्वप्ने यो मया दृष्टः आलिङ्गितश्च देवकुमारः, तस्य नामगोत्रे न मया विदिते,नाभिज्ञानञ्च किमपि रक्षितं, किमिदानीं करोमि, तेन विना क्षणमपि स्थातुं न शक्नोमि, सत्वरमुपायः क्रियतामिति। योगेश्वरी चित्रलेखा प्रत्युवाच सखि! सर्वमेवैषः गौर्य्या वरप्रभावः। परं किमप्यभिज्ञानं विना कथं तमन्वेषयामि, यदि त्वयामौ मम्यक् आकारतोऽपि परिज्ञातः, तदाप्यहमनुसन्धातुं शक्नोमि, अहं सुरासुरमानवसहितं जगत् अविकलं चित्रयामि, तन्मध्यादपि यदि त्वत्प्रियतमं दर्शयितुं पारयसि, तदप्यहं योगबलेन तमिहानेष्यामीति। तथेति ऊषयाभिहिता सा तूलिकया समस्तं जगत् अङ्गितवती। अनन्तरमूषा सविशेषमभिनिविश्य अङ्गुल्या द्वारकानिलयं यदुप्रवीरमनिरुद्धमदर्शयत्।

चित्रलेखा समभाषत सखि! धन्या त्वं, यया भगवतः कृष्णस्य पौत्रः पतिर्लब्धः। स खलु अस्मात् प्रदेशात् सहस्राष्टकयोजनान्तरे तिष्ठति। ऊषीवाच सखि! अद्यैव

गत्वा तमिहानय, नो चेत् जीवनं मे संशयितमवगच्छ। एवमुक्त्वा सखीं चित्रलेखामनिरुद्धसकाशं प्राहिणीत्।

चित्रलेखा च तत्क्षणं द्वारकामेत्य अनिरुद्धावासमविशत्, अनयञ्च प्रसुप्तं अनिरुद्धं योगबलेन प्रियसखीसकाशम्। तत्प्राप्त्याच दानवेन्द्रसुता चरितार्था बभूव। वाणराजश्च तद्वृत्तान्तमाकर्ण्य क्रुधा अनिरुद्धं बन्धनागारममैषीत्। अथ भगवान् नारायणः पौत्रं तथा निरुद्धं नारदमुखात् श्रुत्वा ससैन्यो वाणनगरं रुरोध, प्रत्यानिनाय च पौत्रं वधूसहितं द्वारकां वाणासुर जित्वा। तदेवं सखि! त्वमपि वत्सराजमिहानेतुमर्हसि। सोमप्रभा न्यगदत् सखि! चित्रलेखाया मम च महदन्तरम्। तस्माद्गच्छ, त्वां तत्रैव नयामि। तदाकर्ण्य कलिङ्गसेना सद्य एव स्वसम्पत्तिं परिगृह्य पितरौ अनापृच्छ्यसोमप्रभया सह मायायन्त्रेण आकाशमार्गे समुत्तस्थौ। सोमप्रभा अग्रतः प्रसेनं नृपं दर्शयितुं श्रावन्तीं गत्वा दूरात् राजानं मृगयार्थं निर्गतं दृष्ट्वा कलिङ्गसेनामब्रवीत् सखि! पश्याग्रतः, स्थविरो नृपतिः प्रसेनः मृगयार्थं यात्रामकरोत् पिता तव अस्यैव हस्ते त्वां समर्पयितुमभिललाष। कलिङ्गसेना दूरात् राजानं वीक्ष्य कोपज्वलिता सोमप्रभामवादीत् सखि! दृष्टोऽयं, सम्प्रति वत्सराजसकाशं गच्छ। तथाभिहिता सोमप्रभा कौशाम्बीमभिप्रस्थिता क्षणेन तस्याः प्रान्तभूमायुपस्थिता उद्यानस्थितं वत्सेवरमदर्शयत्। कलिङ्गसेना दृष्ट्वैव विमोहिता सोमप्रभामवादीत् सखि! दृष्टं द्रष्टव्यं, विलम्बेनालं सत्वरम् अनेन मां संयोजयस्व।

सोमप्रभा तस्याः सत्वरतामालोक्य प्रोवाच सखि! अद्य किञ्चित् अशुभं दृश्यते, तदद्य अस्मिन्नेवोद्याने अलक्षिता तिष्ठ, दूतादिकं न प्रेषणीयम्। अहं परेद्युः प्रातरेवागत्य युवयोर्यथा मेलनं स्यात् तथा यतिष्ये। एवमभिधाय पत्युश्चित्तविनोदार्थं गृहमगात्। वत्सेश्वरोऽपि तस्मादुद्यानात् राजभवनमियाय।

एतस्मिन्नेवावसरे विलम्बमसहमाना कलिङ्गसेना सखीवचनमुल्लङ्घ्यवत्सराजं प्रति महत्तरं नाम दूतं प्रास्थापयत्। दूतो राजसकाशमेत्य प्रणम्य च सविनयमभाषत राजन्! श्रुतमेतत् कल्याणाभिनिवेशिनां, यत् तक्षशिलायां नगर्य्यां कलिङ्गदत्तो नाम नरपतिरस्ति। तस्य भुवनमोहिनी कलिङ्गसेनाख्यकन्यका वर्तते, तस्याः सखी सोमप्रभा नाम, सा खलु मयदानवनन्दिनी नलकूवरस्य कुबेरतनयस्य पत्नी। तस्याः प्रमुखात् श्रीमतां गुणराशीनाकर्ण्य मत्स्वामिदुहिता कलिङ्गसेना विमोहिता गुरुजननिरपेक्षा निभृतं तयैव सोमप्रभया सह मायाविमानमारुह्य देवस्य उद्यानमवतीर्णा महाराजं स्वयंवरमाल्येनाभ्यर्च्चयितुमभिकाङ्क्षति, तदेवं स्थिते देवः प्रमाणमिति।

वत्सराजः महत्तरमुखात् वार्त्तामिमामाकर्ण्य भृशं सन्तोषमवाप। सम्मतश्च दूतायपारितोषिकं यथेष्टं प्रादात्। अथ मन्त्रिवरं यौगन्धरायणमाहूय अब्रवीत् पश्य कलिङ्गदत्तस्य नरपतेः कन्या जगन्मोहिनी कलिङ्गमेनाः मां पतित्वेन वरयितुमिह दूतंप्रजिघाय। तदेवं सा परित्यक्तुंन युज्यते। अहं शीघ्रं तां परिणेष्यामि। यूयंत्वरा-

वन्तः लग्नं निरूपयध्वम्। राजहिताकाङ्क्षी मन्त्रिप्रवरो यौगन्धरायणः, श्रुत्वैतत् क्षणमचिन्तयत् श्रुतं, कलिङ्गसेना अद्वितीया रूपवती। यदि राजा तामुद्वहेत् तदा सर्वं राजकार्य्यादिकं परिहरेत्। देवीच वासवदत्ता म्रियेत। मातृवियोगेन च राजकुमारस्य नरवाहनदत्तस्य अनिष्टमभिसम्भवितुमर्हति। अन्या च देवी विपदमाप्नुयात्। एतायाः पितरौ च राजानं प्रति कुपितौ स्याताम्। तदेवंसर्वं सङ्कुलं दृश्यते। अन्यञ्च यदि राजा अस्मादाग्रहात्निवार्य्येत, तदास्यापि महदनिष्टं सम्भाव्यम्। तस्मादस्य विधेर्विशेषविवेच्यतया कालहरणं कर्त्तुं युक्तमिति विचार्य्य राजानमब्रवीत् देव! धन्यो भवान्, देवा अपि यां प्रार्थयन्तो न लभन्ते, सा पुनरद्य महाराजं स्वयंवरीतुमागता। तदेकं गणकमाहूय शुभलग्नं निश्चेयम्, अनन्तरं देवः कलिङ्गसेनां परिणेष्यति। साम्प्रतं तां समुचितेन सम्मानेन समभ्यर्च्चयतु, प्रयच्छतु च वासभवनमशनवमनादिकञ्च समुचितं भवान्। श्रुत्वा तु राजा सम्प्रहृष्टस्तत्क्षणं कलिङ्गसेनायाः सवर्णांव्यवस्थामादिदेश भृत्यान्। सा च प्रहर्षमुपगता राजनिर्द्दिष्टं वासभवनं प्राविक्षत्।

चतुराग्रणीर्यौगन्धरायणः सर्वं व्यवस्थाय गृहं गत्वा प्रायेण कालहरणमेवाशुभकर्म्मणः प्रतिक्रिया इति विभाव्य गणकमाहूय च कालविलम्बेन लग्नं निरूपयितुमादिक्षत्। अत्रान्तरे विदितवृत्तान्ता देवी वासवदत्ता मन्त्रिवरं यौगन्धरायणं स्वभवनमानीय सास्रमुवाच आर्य्य! पूर्वतः प्रतिश्रुतं भवता, यत् पद्मावतीमन्तरेण मम नान्या

सपत्नी कदाचन न भविता, श्रुतञ्चाद्यआर्य्यपुत्रः कलिङ्गसेनामुद्वक्ष्यति, तदेवं भवतो मृषावादित्वं ममं मरणं समं निपतितं का गतिरिति। यौगन्धरायणः प्राह देवि! समाश्वस, जीविते मयि नैतत् कदापि सम्भाव्यते। मदनुरोधेन च भवत्यः महाराजं प्रति मातु प्रतिकूलवर्त्तिन्योऽभूत। न हि रोगिणः भिषजां प्रतिकूलवचसा वशीक्रियन्ते। तस्मात् राजा यदा युष्माकमन्तिके तिष्ठेत् तदा यूयमविकृतमनस एव तं सेवेध्वं वर्णयेध्वञ्च तस्याः पाणिग्रहणे हर्षं प्रदर्श्य राज्यवृद्वेः सम्भावनाम्। एवं स्थिते महाराजो भवतीर्दाक्षिण्येन सततं पश्येदेव। तदेवं देवि! निश्चिन्तया त्वया मदीयं युक्तिबलं दृश्यताम्। एवं वासवदत्तां प्रबोध्य मन्त्री स्वस्थानं सम्प्रतस्थे। देवी तद्वचसा विश्वस्तातदादेशानुरूपाचरिर्तन व्यवस्थिता।

द्वात्रिंशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721194518270.png"/>

अथापरेद्युः प्रातरेव सुचतुरो मन्त्रिवरः राजान्तिकमुपगम्य प्रोवाच देव! शुभस्य शीघ्रम् अद्यैव शुभलग्नं प्राप्येत चेत्। किं वा महाराजी भणति? राजाब्रवीत्ममापि एवमाशयः, कलिङ्गसेनां विना भृशमुत्कण्ठते मे Xतः, अद्यैव लग्ने प्राप्ते सुमङ्गलं स्यात्। एवमुक्ता सम्मुखस्थं

प्रतीहारिणं गणकाह्वानार्थमादिशत्। प्रतिहारी च तत्क्षणं गणकान् आनिनाय। ते चागत्य मन्त्रिमतानुवर्त्तिनः कपटगणनया अवदन् देव! मासषट्काभ्यन्तरे वैवाहिक लग्नं न लभ्यते इति। एतदाकर्ण्य धूर्त्तशिरोमणिर्यौगन्धरायणः किमप्येते न जानन्तीत्यभिधाय तं विज्ञं गणकराजं महाराजसम्मतमानाय्य दिनावधारणं करोतु देव इति न्यवेदयत्। तन्निशम्य राजा तं गणकमानेतुम् आदिदेश। स च राजाज्ञया समीपमेत्य तथैव मासषट्कान्तरे सुलग्नंन प्राप्यत इति कथितवान्।

अथ यौगन्धरायणे कपटोद्वेगं प्रकटयित्वा किमिदानीं कर्त्तुभुचितमिति कथयति राजा सोत्कण्ठः समभ्यधात्साम्प्रतमत्र कलिङ्गसेनाया अभिप्रायो ज्ञातुमुचितः। एवमुक्त्वायौगन्धरायणं सगणकवृन्दं तदन्तिकं प्रहितवान्। स खलु धूर्त्ततमो मन्त्री गत्वा समवोचत् राजपुत्रि! अहमद्य महाराजादेशेन युवयोः परिणययोग्यं शुभलग्नं स्थिरीकर्तुं गणकैः सार्द्धमागतः। एवमुक्त्वाकलिङ्गसेनाया जन्मनक्षत्रे जिज्ञासिते तस्याः परिजनाः तदीयं जन्मनक्षत्रमाख्यन्। ततस्ते गणकाः कपटगणनया समवादिषुः षण्मासाभ्यन्तरे शुभलग्नं न लभ्यते इति। राजबालायां गणकानां तद्वचनमाकर्ण्य नितरामुत्कण्ठितायां महत्तरोऽब्रवीत् अनुकूललग्नं यावत् न प्राप्यते तावदेष परिणयः तिष्ठतु सर्वथा उभयोर्मङ्गलं वाञ्छनीयमिति। तदाकर्ण्य सर्वे सन्तुष्टा अभवन्। यौगन्धरायणः प्रोवाच अशुभे लग्ने विवाह संवृत्ते राजा कलिङ्गदत्तोऽपि अत्यन्तं

दुःखितः स्यात्। तदाकर्ण्य कलिङ्गसेना यद् भवद्भ्योरोचत इत्यभिधाय तूष्णीमभवत्।

अथ यौगन्धरायणः, गणकवर्गैःसह राजान्तिकमुपगम्य राजनन्दिन्यास्तमभिप्रायं निवेद्य राजानञ्च सुस्थिरं कृत्वा गृहमगमत्। विश्रान्तश्च क्षणं योगेश्वरं नाम सुहृदं ब्रह्मराक्षसं सस्मार। स्मृतश्च स तत्क्षणमुपेत्य सप्रश्रयमवोचत् मित्र! किमर्थं मांस्मृतवानसि? ततो मन्त्री राजकलिङ्गसेनयोर्वैवाहिकीं वार्त्तां कथयित्वा अब्रवीत् मित्र! साम्प्रतं मासषट्काभ्यन्तरे विवाहः प्रतिबद्धः, एतस्मिन्नन्तरे अस्याः प्रवृत्तिस्त्वया प्रच्छन्नमवगन्तव्या, विद्याधरा निश्चितमेवैनां प्रच्छन्नं कामयन्ते, न खलु तादृशी रूपराशिस्त्रिलोक्यां दृष्टचरा वा श्रुतपूर्वा। यथा केनापि सिद्धविद्याधरेणास्याः सङ्गमः स्यात् तथा भवता यतितव्यं तथा सति अस्माकं राजा तामन्यासक्तां दृष्ट्वा विरज्येत। ब्रह्मराक्षसोऽभ्यधात् मन्त्रिन्! यदि तुभ्यं रोचते, तदेनां कौशलेन निहनिष्यामि।मन्त्रीन्यगदत् मित्र! मामैवं, तथात्वे सम्यक् अधर्म्मोऽस्माकं भवेत्। तत्त्वया यथा कथञ्चिदस्या दोषानुद्घटयितुं यतस्व, तेनैवास्माकं मनोरथसिद्धिर्भविता। एवमुपदिश्य ब्रह्मराक्षसं प्रास्थापयत्।

अथ ब्रह्मराक्षसे तदादेशं शिरसि गृहीत्वा प्रच्छन्नं कलिङ्गदेशगृहं प्रविशति सा दानवकन्या सोमप्रभा तदन्तिकमाजगाम। श्रुत्वा च तन्मुखात् रात्रिवृत्तान्तं वक्तुं प्राक्रमत सखि! बहुपूर्वमागताहं प्रच्छन्नं यौगन्धरायणेन सह युष्माकमालापान् श्रुतवत्यस्मि, त्वया मम निषेधः

मुल्लङ्घ्य सहसा कथं राजान्तिकं दूतः प्रहितः? दुर्निमित्तमदूरीकृत्य कार्य्येसमारब्धे प्रायशः अनिष्टं घटत एव, अत्रेतां कथां शृणु।

पुरासीत् अन्तर्वेद्यां नगर्य्यां वसुदत्तो नाम ब्राह्मणः। तस्य विष्णुदत्ताख्ये तनये षोड़शवर्षीये विद्यालाभाय वलभीं गन्तुमुद्यते अन्ये सप्त ब्राह्मणसुताः सङ्गिनः समभवन्। सर्व एव ते मूर्खाः, केवलं विष्णुदत्तः सुबुद्धिः कुलीनश्च। प्रयाणात् पूर्वं ते परस्परशपथमकार्षुः कोऽपि कमपि न परित्यक्ष्यतीति। एवं स्थिते विष्णुदत्तः पितृभ्यामननुमोदित एव रात्रौ प्रस्थितः पथि सहसा किमपि दुर्निमित्तं दृष्ट्वा अन्यान् बन्धून् गृहं प्रत्यागन्तुं परामर्शमदात्। अकरोच्च पुनः शुभेऽहनि यात्रायाः प्रस्तावम्। परं मूर्खाः सहचराः तत्रासम्मताः प्रत्यागन्तुं नैच्छन्। अगत्या विष्णुदत्तोऽपि निरन्तरं हरिं स्मरन् तैः सह अनिच्छन्नेव गन्तुं प्रारभत। परेद्युश्च गच्छन् अपरमेकमनिमित्तं दृष्ट्वा बन्धून्पुनः प्रत्यागन्तुमवदत् परं ते समधिकभर्त्सनया तं तिरश्चक्रुः। तदा विष्णुदत्तः क्षुब्धमना एव चचाल, प्रतिजज्ञे च प्राणहानावपि हितमहितं वा किमपि न कदाचित् कथयिष्यामीति।

एवमधार्य्य विष्णुदत्तो गच्छन् सायं कमपि शवरग्राममासेदितवान्। तत्र च कामपि तरुणीं शवरींदृष्ट्वा विश्रामाय सर्वे तद्गृहं प्राविशन्। अथ श्रान्तेषु सर्वेषु निद्राभिभूतेषु केवलमेको विष्णुदत्तो जाग्रदवतस्थे। ददर्श च क्षणान्तरे कमपि युवानं प्रच्छन्नंतद्गृहमागच्छन्तम्। ततश्च

सुचिरं तौ विहरन्तौ क्रमेण निद्रया अभिभूतौ दृष्ट्वा विष्णुदत्तः सनिर्वेदं सुचिन्तित एव तस्थौ।

अत्रान्तरे गृहपतिर्गृहमागत्य तथास्थितं जारं दृष्ट्वैव तच्छिरश्चिच्छेद। सा तु युवती तथैव निद्रिता व्यतिष्ठत। अथ स करस्थमसिं भुवि निक्षिप्य खद्दान्तरे अशेत। क्षणान्तरे च सा जागरिता उपपतिं विनष्टं पतिं निद्रितञ्च दृष्ट्वा उत्थाय एकेन हस्तेन जारस्य शिरः, अपरेण कबन्धं गृहीत्वा गृहात् निश्चक्राम। ततश्च शीघ्रमेव तच्छरीरं कस्मिंश्चित् भस्मराशौ निधाय पुनर्गृहं प्रत्यागमत्। विष्णुदत्तोऽपि शवर्य्याः पश्चात् निष्क्रान्तस्तत् सर्वं दृष्ट्वा अग्र एव प्रत्यागत्य बन्धूनां मध्ये शयनमकरोत्। अपश्यच्च सा शवरी पुनर्गृहं प्रविश्य तेनैवासिना पत्युः शिरश्छित्त्वा वहिर्गत्वा चीत्कारमकार्षीत्। तेन च चीत्काररवेण सर्वे ते बन्धवः अजागरुः प्रतिवासिनश्च सर्वे समागच्छन्। अथ ते शवरराजं तथा निहतं दृष्ट्वा यावत् तान् पथिकान् बन्धून् हन्तुमुदयच्छन् तावत् विष्णुदत्तः सविनयमब्रवीत् भद्राः। मा ब्रह्महत्या कार्य्या, न वयमस्य अकार्य्यस्य कर्त्तारः, इयमेव दुराचारा शवरी पतिं निहतवती, मया द्वारान्तरालात्सर्वमामूलतो दृष्टं वहिर्गत्वा च। यद्यभयं दीयते, तदासर्वमाख्यातुमिच्छामि। एवमभिहिते सर्वे ते साम्प्रतं क्षमावन्तः सर्वमाख्यातुं समादिशन्। ततोऽसौ विष्णुदत्तः तान्वहिर्नीत्वा तस्मिन् भस्मकूटे सकबन्धं मस्तकमेकमदर्शयत्।

तथा दृष्ट्वा ते शवराः विष्णुदत्तादीन् निर्दोषान् मत्वा तत्यजुः। ते च सर्वे मूर्खा बन्धवः प्रस्थिता दुर्निमित्तदर्शने-

नैवेयमापदुपस्थितेति निश्चितवन्तः विष्णुदत्तं बहुशः प्रशशंसुः।

सोमप्रभा कलिङ्गसेनामेतदाख्याय पुनरब्रवीत् सखि! कस्मिंश्चिदपि कार्य्ये आरब्धे यदि तत्र किमपि अनिमित्तं दृश्यते तदा अनिष्टमेव घटते, तस्मात् राजान्तिकं दूतप्रेषणेन भवत्या न भद्रं कृतम्। विधाता निर्विघ्नेन ते पाणिग्रहणं सम्पादयतु, परं कुलग्ने उद्यमस्य कृतत्वात् विवाहो विलम्बतः सम्भविष्यतीति मन्ये। अन्यच्च देवतास्त्वां प्रति अनुरागिणो लक्ष्यन्ते, नीतिनिपुणो यौगन्धरायणश्च ते नानुकूल इव प्रतिभाति, स खलु धूर्त्ततमो धर्म्मशीलत्वात् त्वां न विनाशयेत् परं विवाहविघ्नं जनयेदेव, यतेत च विवाहे निश्चितेऽपि दोषाननुसन्धातुम्। अपरञ्च श्रूयताम्।

अस्ति इक्षुमती नाम नगरी। तस्याः प्रान्ते इक्षुमती नाम या नदी वर्त्तते, सा विश्वामित्रस्य राजर्षेः सृष्टिः। अस्याः समीपे यत् महावनमस्ति तत्रैवास्य महर्षेराश्रमः। तत्रैवाश्रमे सङ्कणको नाम कश्चिदूर्द्धपादो महामुनिस्तपश्चचार। कदाचित् मेनका नामाप्सराः अन्तरीक्षेण गच्छन्ती तस्य ऋषेर्नयनानन्दिनी अभूत्। तेनैवास्य वीर्य्यं स्खलितं कस्मिंश्चित् कदलीगर्भे पपात, तस्माच्च कन्यैका अजनि। सङ्कणकस्तां नाम्ना कदलीगर्भामकरोत्। सा च तदाश्रम एव दिने शशिकलेव व्यवर्द्धत।

एकदा मध्यदेशाधिपतिर्दृढ़वर्म्मा मृगयार्थमश्वारूढ़स्तद्वनं प्रविष्टस्तां कदलीगर्भां निरीक्ष्य तां परिणेतुमियेष। मुनौ समित्कुशादिकमाहृत्य आश्रममुपगते राजा अश्व

पृष्ठादवरुह्य प्रणम्य च स्वं परिचयमदात्। ततश्च मुनिना आहूय राज्ञः आतिथ्यं कर्तुमादिष्टासौ कन्यका सविनयं राजानं यथोचितेनातिथ्येन समभ्यर्च्चितवती। अथ राज्ञा कन्यावृत्तान्तंपरिपृष्टो महर्षिस्तस्या आजन्मवृत्तान्तं नाम च समाख्यत्। अनन्तरं तांमेनकासम्भूतां विदित्वा राज्ञा तद्विवाहार्थमभिलषिते मुनिरपि तां तस्मै दातुमभिललाष।

मेनका च दिव्यदृष्ट्या कन्यापरिणयं जानन्तीतमाश्रममागम्य विवाहयोग्येन वेशेन कन्यामलङ्कृत्य तस्याश्च हस्ते कतिपयान् सषेपान् दत्त्वा समभाषत वत्से! यदि कदाचित् पत्युरवमता अत्रागन्तुमभिलषेः, तदा एतेषां सर्षपाणां प्रभावेण अत्रागन्तुं शक्ष्यसि। एवमुपदिश्य कन्यां यथाविधि समुद्वाह्य राज्ञा सह प्रास्थापयत्। कन्या च मातुरादेशेन सर्षपान् पथि विकिरन्ती पत्या सह प्रस्थिता। क्रमेण नृपतिः स्वां राजधानीमुपस्थितः सचिवान् सर्वं वृत्तान्तमाख्याय अन्यस्त्रीसङ्गवर्जितः केवलयां कदलीगर्भयैव समं निरन्तरं विजहार।

अथ महादेवी पत्युस्तथाचरितेन नितरां विरक्ता मन्त्रिणं रहसि आहूय सकरुणमवादीत् धीमन्! राजासौ नवीनां वधूमासाद्य अस्मान् सर्वा एव परित्यक्तवान् विस्मृतवांश्च अस्माकं पूर्वानुरागम्। तद् यावत् कौशलेन सपत्नीमिमां दूरीकुरुष्व, नो चेत् प्राणांस्त्यक्ष्यामीति। मन्त्रीअवादीत् देवि! नैतत् मादृशानां कर्म्म, कार्य्ये चास्मिन्बहु कुहकं कूटञ्च प्रयोक्तव्यम्। परिव्राजिका एव अत्र निपुणा, तत् कामपि परिव्राजिकामाहूय अभीष्टं साध-

यितुं यतस्व। एवमुपदिश्य मन्त्रिणि प्रस्थितेराजमहिषी चेटीमुखात् तमाहूय परिव्राजिकामेकां स्वमभिप्रायं तस्यै निवेद्य बहून् पारितोषिकान् दातुमङ्गीचकार।

अथ परिव्राजिका धनलुब्धा महाराज्ञ्या अभीष्ट साधयितुंसम्मता प्रतस्थे। न चचाल च बहुतरमनिष्टमाशङ्कमानापि तदध्यवसायात्। ततश्च सुहृदमेकं नापितमासाद्य सर्वे वृत्तान्ते तया वर्णिते धूर्तोऽसौ नापितः प्रभूतार्थलोभात् कदलीगर्भां दूरीकर्तुं प्रतिजानानस्तथा कौशलं प्रायुङ्ता, यथा राजा अविलम्बमेव तां परितत्याज। कदलीगर्भा तु महत्यामापदि निपतिता स्वतिक्षिप्तसर्षपजनितान् वृक्षान् अनुसृत्य पितुराश्रममागमत्। पिता च सहसोपस्थितां तां समीक्ष्य प्रथमं दुश्चारिणीं मत्वा समनन्तरमेव प्रणिधानेन सर्वं वृत्तान्तमवगम्य स्वयं कन्यां पुनस्तत्पतिसमीपं नीत्वा राज्ञे समस्तं वृत्तान्तं न्यवेदयत्प्रायोXXञ्चराजन्! देव्याः प्रबलतरमापत्न्यभाव एवास्यानर्थस्य मूलं, तदत्र यद् भवते रोचते तत् क्रियताम्। नापितश्च तदानीमुपस्थितः ऋषेर्भयात् सर्वं प्रकटितवान्। राजा च तत्सर्वमाकर्ण्य सम्यक् विश्वस्तः पुनः कदलीगर्भां गृहीत्वा मुनिं समुचितेन सत्कारेण सन्तोष्य आश्रमं प्रास्थापयत्।

तदेवं सखि! सपत्न्यःविना हेतुं नाना दोषान् उद्भावयन्ति। तस्मात् त्वमत्र अवहिता तिष्ठव, मा केनापि विप्रलब्धा भूः, केवलं वत्सेश्वरं प्रति समनुरक्ता कालंप्रतीक्षस्व। अहमद्य बहुयत्नेन भर्त्तुरादेशं लब्ध्वा त्वदन्तिकमा-

गता, अतः परं पुनरागमनं मे नैव घटते, तदिदानीमहं गृह गच्छामि, कार्य्यञ्च मेप्रभूतं विद्यते, यदि पुनः स्वामी तवान्तिकमागन्तुं मामनुमन्येत तदा पुनरागमिष्यामीति समाख्याय साश्रुमुखी प्रस्थानमकरोत्।

  •   *
    

त्रयस्त्रिंशत्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1721211800270.png"/>

अथ कलिङ्गसेना त्यक्तपितृमातृबन्धुवर्गा केवलं वत्सराजं ध्यायन्तौ कौशाम्ब्यां नगर्य्यामेकाकिनी कालं निनाय। वत्सराजः कलिङ्गसेनाप्राप्तौ बहु विलम्बं दृष्ट्वा अत्यर्थमुत्कण्ठितः चित्तविनोदनार्थं देव्या वासवदत्तायाः भवनं प्राविशत्। देवी च सा मन्त्रिणः परामर्शेन राजानं सविशेषं परिचचार। राजा कलिङ्गमेनावृत्ताXX XXविरक्तेति सम्भाव्य शुश्रूषया तु तद्विपरीतं दृष्ट्वा देवीमपृच्छत् प्रिये! श्रुतं भवत्यायत् कलिङ्गसेना नाम राजकन्या स्वयंवरार्थं मामुपगतेति। तदाकर्ण्य देवी अविकृतमना एव प्रत्यभाषत नाथ! श्रुतं सर्वम्, आह्लादिता चास्मि। आर्य्यपुत्रेण तस्याः पाणौ गृहीते कलिङ्गदत्तोऽस्माकं वशे भविष्यति, तद्राज्यञ्च नाथेन लप्स्यते। एतदाकर्य वत्सभूपतिरतीव प्रीतमनास्तामभ्यनन्दत्। क्रमेण रजन्यामुपस्थितायाम् उभौ राजा राज्ञी च पानभोजने कृत्वा सुखेन निद्रामगमताम्।

क्षणेन च राजा निद्रां विहाय जागरितश्चाचिन्तयत्किमसौ देवी महानुभावा, उतास्मन्मनस्तुष्टये एवमभ्यधत्त, कलिङ्गसेनायां सपत्न्यां कथमेवं मनस्तुष्टिः सम्भवेत्, पद्मावती वा मनस्विनी किमेतदनुमोदना सहिष्यते? मन्ये परिणये संवृत्त एव उभे प्राणान् त्यक्ष्यत इति तदेवं महदनिष्टं सर्वनाशश्च सम्भवेत्, तस्मात् कलिङ्गसेनापरिणयनं न मे श्रेयस्करमिति। एवमालोच्य तां रात्रिं तत्र नीत्वा परेद्युरपराह्णसमये पद्मावतीगृहमगमत्। सा च अविकृतमनसैव पत्युः शुश्रूषायां निरता तथैव राजानं पर्य्यचरत्, यथा तस्याः किमपि चित्तवैलक्षण्यं न लक्ष्यते स्म।

परेद्युर्नृपतिर्देव्योराचरणं सर्वं यौगन्धरायणाय व्यज्ञापयत्। ततः कालज्ञोमन्त्री राजनि दृष्टिं निवेश्य क्षणं विविच्य चाब्रवीत् देव! यद् भवता मनसि कृत्वोच्यते, तादृशमनयोः प्रकृतिर्न। स्त्रीणां भयङ्कर एष स्वभावः, यत्साध्व्यःस्त्रियः प्राणान्तेऽपि सापत्न्यंन सहन्ते। दर्शयन्ति च सर्वेषु विषयेषु निःस्पृहताम्। तन्मन्ये देव्यौ मरणाय कृतनिश्चयेअभूताम्। अत्रेतां कथां कथयामि श्रुतयाम्।

अस्ति भारतवर्षस्य दक्षिणेन गोकर्णं नाम नगरम्। तत्रासीत् श्रुतसेनो नाम कृतविद्यो नृपतिः। स तु सर्वासां विद्यानां सम्पदाञ्च आश्रयोऽपि अनुरूपायाः पत्न्याअभावात् सततमतप्यत। कदाचित् हरिशर्म्मा नाम कश्चिद्ब्राह्मणः प्राह देव! मया अद्भुतद्वयं दृष्टं श्रूयताम्।

पुराहं तीर्थदर्शनार्थमयासिषम्। क्रमेण पञ्चसु तीर्थेषु कृतस्नानो गच्छन्नपश्यं कश्चित् कृषीबलः क्षेत्रेऽवस्थाय

गायति। अवसरे चास्मिन् कथन परिव्राजकः समागत्य पन्थानमपृच्छत्। कर्षकोऽनवधानात् तद्वाक्यं नाशृणोत्। परिव्राजकस्तु कुपितस्तं तिरश्चकार। ततः कृषीबलस्तस्य तिरस्कारं श्रुत्वा सङ्गीतं विहाय चाब्रवीत् अहो! परिव्राड़पि धर्म्मस्य लेशमपि नावगतवान्, हा कष्टम्! अहं मूर्खोऽपि धर्म्मतत्वमज्ञासिषम्। तदाकर्ण्य भिक्षुः कौतुकादब्रवीत् भद्र! किं त्वया धर्म्मतत्त्वमवगतं ब्रूहि। कर्षकोऽब्रवीत् यदि ते कौतूहलं तदस्यां छायायामुपविश, ब्रवीमि। परिव्राडुपाविशत् कर्षकश्च वक्तुमारभत।

सन्त्यत्र देशे यज्ञदत्तः सोमदत्तः विश्वदत्तश्चेति त्रयः सोदरा द्विजातयः। तेषु ज्येष्ठमध्यमौ कृतदारौ, कनिष्ठस्य तु विवाहो न समजनि। अहं तेषां गृहस्थितः कर्षकः। कनिष्ठस्तु भृत्यवत मयैव सह सततमतिष्ठत्। विश्वदत्तस्त सच्चरित्र परं नितरां निर्बोधः। कदाचित् भ्रातृपत्न्यौकामपरे कनिष्ठान्तिकमुपयातेअपि स तयोरभिमतं नैव चकार। ततश्च ते स्वं स्वं पतिमुपगच्छन्त्यौ देवरोऽयमस्मान् कामयते इति मिथ्याभियोगं ददतुः। स्त्रीबुद्धिर्हि लोकानां सदसद्विवेकहरी। तथाच तौ तदाकर्ण्य भृशं कुपितौ कनिष्ठमूचतुः भ्रातः! त्वं क्षेत्रेषु गत्वा तत्स्थंवल्मीकं कर्त्तित्वा समानं कुरु। तस्मिंश्च भ्रात्रोर्वचनमाकर्ण्य क्षेत्रं गत्वा कुद्दालेन तत् वल्मीकं कर्त्तितुमुपक्रान्ते अहं निषिध्य तमब्रुवंवल्मीकं मा कृन्त, सर्पोऽत्र तिष्ठति।

स तु श्रुतमद्वचन एव यदा तत् खनति तदैव तन्मध्यात्स्वर्णपूरित कलसद्वयंनिर्गतम्। मया निषिद्धोऽपि

असौ तदादाय भ्रातोः सकाशं गत्वा ताभ्यां तत् समर्पयत्। तथापि क्रूरमतीतौ सोदरौअंशं दातुमनिच्छन्तौ तस्य हस्तौपदौच कर्त्तितवन्तौ। तथापि कनिष्ठस्तयोरुपरि न विद्वेषमकरोत्। अनन्तरञ्च तस्य ज्येष्ठभ्रातृभक्त्यतिशयेन पुनर्हस्तपदौ प्ररूढ़ौ। अहमेतादृशं व्यापारं स्वचक्षुषा निरोक्ष्य क्रोधमलं पर्य्यहरम्। त्वं तापसोऽपि क्रोधमद्यापि न परित्यक्तवानसि। अक्रोध एव स्वर्गसोपानमित्यत्रैव पश्य। एवमुक्त्वा स कर्षकः सद्य एव देहं त्यक्त्त्वास्वर्गमगमत्। इदमेव प्रथममद्भुतं, द्वितीयं शृण।

अहमेकदा तीर्थं पर्य्यटन् समुद्रतटे वसन्तसेननाम्नः कस्यचित् नृपतेः नगरमगमम्। अपश्यञ्च तत्र राजभवने यज्ञोत्सवनिमित्तं ब्राह्मणभोजनं प्रवृत्तम्। अहमपि तत्रोपस्थितः राजान्तिकं गतः तस्य विद्युद्योतां नाम कन्यकामद्राक्ष्यम्। तस्याः सौन्दर्य्यं दृष्ट्वा मुनयोऽपि कामसन्तप्ताः प्राणान् धारयितुं न शक्नुवन्ति। तादृशमद्भुतं रूप कदाचित्न दृष्टम्। ज्ञायते मया सम्यक् यन्महाराजो विद्युद्योतां समेत चेत्, सर्वं त्यक्ष्यतीति तथापि मया वक्तव्यमेव। पुरा देवसेनो नाम नृपतिरुन्मादिनींनाम कामपि वणिक्सुमृतामलक्षणेति न परिणीतवान्, परं तस्य प्रधानसचिवस्तां परिजग्राह। कदाचित् उन्मादिनीं स्वामिगृहोपरि गवाक्षमार्गे दण्डायमानां निरीक्ष्य राजा परित्यक्तसर्वविषयः प्राणान् जहौ।

अथ नृपतेः श्रुतसेनो विप्रमुखात् विद्युघोतामाकर्ण्य XXत्तवत् अस्थिरचेताः सद्य एव ब्राह्मणेन तामानाय्य पर्य्य-

पर्य्यणैषीत्। अनन्तरञ्च मातृदत्ताख्यायाम् अन्यस्यां कन्यायां परिणीतायां सा विद्युद्योता शुचा विदीर्णहृदया एव सद्यः। प्राणान् तत्याज। तच्छ्रुत्वा राजा ममार, मातृदत्ता अग्निं प्रविवेश, राज्यञ्च तदीयं विनष्टमभूत्।

तदेवं राजन्! प्रकृष्टप्रेमभङ्गः नितरां दुःसहः। यदि भवान् कलिङ्गसेनां परिणयेत् तदा देव्यौ वासवदत्तापद्मावत्यौ निःसंशयमेव प्राणान् त्यक्ष्यतः। तथा मातृशोकार्त्तो राजकुमारो नरवाहनदत्तश्च शोचनीयां दशामाप्स्यति देवोऽपि निरतिशयमनुतापं लप्स्यते। तदेवं महाननर्थपातः सम्भाव्यते। तस्मात् यथा सर्वं समञ्जसं स्यात् तथा देवेन संविधातव्यं, तिर्य्यञ्चोऽपि स्वार्थमपरित्यजन्त एव चेष्टन्ते। महाराजः सर्वं जानाति, किमधिकेनास्माकं प्रलापेन। इत्युक्त्वा यौगन्धरायणो विरराम।

अथ वत्सेश्वरस्तद्वचनमाकर्ण्य सचेतनः समभाषत मन्त्रिन्! यदुक्तं भवता, तत्र नास्ति सन्देहः, तदलं कलिङ्गसेनापरिणयेन, लग्नं दूरवर्त्तितया यन्निर्णीतं तद् भद्रंकृतम्। नो चेत् स्वयंवराया महिलायाः परित्यागे महानधर्म्मः समभविष्यत्। एवं नृपतिनोक्ते यौगन्धरायणः परं हर्षमवाप। ततश्च राजा देवीं वासवदत्तामुपगम्य तां सान्त्वयन् प्रोवाच देवि! कमलस्य कमलमिव त्वं मे जीवितं विवाहो दूरे आस्तां, नाहं तस्या नामापि करिष्यामि। एवमभिधाय सानन्दं तया सह तां रात्रिमनयत्।

यौगन्धरायणनियुक्तोऽपि ब्रह्मराक्षसः कलिङ्गसेनाप्रवृत्तिमवगच्छन् तस्यामेव रजन्यां स्वस्य प्रभुसकाशमाप, प्रोवाच

च अहं कलिङ्गसेनाया गृहाभ्यन्तरे तद्वहिश्च स्थितः सम्यगद्राक्ष्यं तत्रदिव्यो वा मानुषः समागमी नास्ति। परन्त्वस्य सायमेकोऽव्यक्तशब्दः सहसा हर्म्याग्रभूम्यन्तरीक्षतः श्रुतः। श्रुत्वा च तत्कारणं विज्ञातुं ज्ञापनीं विद्यामचोदयम्। सापि किमपि निश्चेतुं नाशकत्। अथाहं बहु चिन्तयन् निश्चयमकार्षं यथा कलिङ्गसेनाया रूपलावण्यविमुग्धः कश्चित्दिव्यपुरुष एवास्य निदानमिति। इमाञ्च दिव्या अभिलषन्तीति तत्सख्या वचनेनैव विज्ञातम्। एतद्विज्ञापनमेव अस्या गमनस्य प्रयोजनम्। साम्प्रत पृच्छाम्येतत् तिर्य्यञ्चोऽपि आत्मानं रक्षित्वा स्वार्थाय यतन्ते इति यद्राजान्तिके भवतोक्तं तदहमलक्षितं स्थित्वा अशृण्वं कौतूहलञ्च तदारभ्य तदवृत्तं श्रोतुं वर्तते, तदाख्याय तदाख्यानं मामाप्यायस्व। यौगन्धरायणोऽब्रवीत् मित्र! शृणु, कथयामि।

आसीत् विदिशाया नगर्य्या वहिर्महान् वटतरुः। तत्र नकुलोलूकमार्जारमूषिकाः निवसन्ति स्म। सर्वेषामेव तेषां कुलायाः विभिन्नाः। नकुलमूषिकौमूलदेशवर्तिनि विले, बिड़ालः मध्यवर्तिनि कोटरे, पेचकः शिरःस्थिते लतासन्ताने न्यवसन्। एषु च मूषिकस्त्रयाणामेव बध्यः, मार्जारस्तु त्रयाणामेव हन्ता। मूषिकः नकुलविड़ालाभ्यां भयात्आहारार्थं पेचकस्तु स्वभावत एव रात्रौ भ्रमति स्म। मार्जारः पुनर्दिवा रात्रौ च निर्भयं विचरन्ति सा। वृक्षस्य तस्यान्तिके यदेकं यवश्चेत्रमासीत्, बिड़ालः सर्वदैव तस्मिन्मूषिकान् अन्वेषितुमगमत्। अन्येऽपि यवान् खादितुं गच्छन्ति स्म।

कदा्चित् कस्मिंश्चिद् व्याधे तत्रागत्य बिड़ालस्य पदपङ्क्तिं दृष्ट्वा पाशं बध्नति मार्जारोऽसौ रजन्यामागत्य तत्र बद्धः। मूषिकः आहारार्थं तस्मिन्नागच्छन् जालपतितं बिड़ालं दृष्ट्वा साह्लादं नृत्यति स्म। इत्थं व्यतिकरे मूषिकप्रवेशमार्गेण पेचकनकुलावपि तत्रागच्छताम्। तौ बिड़ालं पाशबद्धं दृष्ट्वा मूषिकं धर्तुं बद्धपरिकरावभूताम्। मूषिकोदूरात् तदवलोक्य सोद्वेगमचिन्तयत् किमिदानीं कर्तुं युज्यते, यदीदानींसामान्यशत्रुं बिड़ालमाश्रयेयं तदासौबद्धोऽपि मामेकेनैव प्रहारेण हन्यात्। अथास्माद्बिड़ालात्पलाय्य दूरमपसरामि, तदेतयोः कोऽपि मां नाशयेत्। तदस्मिन् शत्रुसङ्कटे क्व गच्छामि, किं वा करोमि, यद् भवतु, विपन्नमेनं मार्जारमेवाश्रये। कदाचित् मां पाशच्छेदनसमर्थं दृष्ट्वा आत्मरक्षार्थं रक्षिष्यति।

एवं विभाव्य मूषिकः शनैर्मार्जारसकाशमेत्य अब्रवीत्भद्र! त्वां पाशबद्धं दृष्ट्वा दुःखितोऽस्मि, यद्यनुमन्येथाः, त्वांपाशान् छित्वा रक्षामि। सहवासस्नेहात् सुमतीनां शत्रुष्वपि स्नेहो जायते। किन्तु यावत् तव मनो न ज्ञातं तावत् त्वयि नैव विश्वासः। एतदाकर्ण्य बिड़ालोऽवदत्भद्र! विश्वसितु भवान्, प्राणदानेनाद्य त्वं मम मित्रं जातः। एतच्छ्रुत्वामूषिकस्तं मार्जारं क्रोड़ं निनाय। नकुलोलूकौ तद् दृष्ट्वा निराशौ पलायाञ्चक्राते। अथ बिड़ालः पाशबन्धनेन पीड़ितः मूषिकमब्रवीत् मित्र! रात्रिर्गता एव। तत् शीघ्रंमे पाशान् छिन्धि। मूषिकः शनैः शनैः पाशान्छेत्तुमारब्धः व्याधागमनं प्रतीक्षते स्म। यावत् व्याधः समीपंो

नागच्छति, तावत् मिथ्यादर्शनशब्दं करोति स्म। प्रातश्च यावद् व्याधः समायाति तावत् सोऽपि पाशान् चिच्छेद। मार्जारः व्याधभयात् पलायते स्म मूषिकोऽपि पलायमानः स्वं विवरं प्रविष्टः। अथ मार्जारे पुनराहूतवति मूषिको नोत्तरं ददौ। तदेवं कार्य्यानुरोधेन शत्रूणापि मित्रता कर्तुं युज्यते, पश्य मूषिकस्तिर्यग्योनिरपि प्रज्ञाबलेन बहुभ्यः शत्रुभ्योऽपि आत्मानम् अरक्षत्, का कथा मनुष्याणाम्। तस्मात् बुद्धिरेव परं मित्रं न पुरुषकारः। तदेवं योगिन्! बुद्ध्यातथा सर्वमनुतिष्ठ, यथा कलिङ्गसेनायाः कोऽपि दोष उद्घाट्यते। इदञ्च निश्चितं यत्देवता अपि कलिङ्गसेनां प्रार्थयन्ते। त्वञ्चाकाशे कस्यापि आलापं श्रुतवानसि, तस्मिंश्च शब्दे पुनर्गृहान्तरे श्रुते कलिङ्गसेनायाः सम्यग् अमङ्गल भविता, राजा तां न कदाचनोद्वहेत्। अकृते च विवाहं न तस्याधर्म्मः।

मन्त्रिणैवमभिहितो योगेश्वरस्तस्य प्रज्ञाबलं बहु प्रशस्य अब्रवीत् मित्र! अभीष्टसाधनाय गच्छामीति उक्त्वा सम्प्रतस्थे। कलिङ्गसेना च वत्सराजानुरागिणी तद्विरहेण व्याकुला कदाचित् राजानं हर्म्योपरि पादचारेण विहरन्तं दृष्ट्वा शान्तिमलभत।

अवान्तरे विद्याधरराजो मदनवेगः कलिङ्गसेनादर्शनेन सञ्जातमदनवेगः तल्लभार्थं सुयोगमन्विच्छन् अपि अकृतकार्य्यएव प्रतिदिनं तस्या वासभवनोपरि सञ्चरमाण एव गच्छति स्म। अथ तपसाराधितम्य धूर्जटेरादेशं स्मरन्विद्याप्रभावेण वत्सराजवेशः कलिङ्गसेनागृहं प्राविशत्।

सा च स्वाभिमतं वत्सेश्वरमुपस्थितं वीक्ष्य भयसम्भ्रमकम्पितकलेवरा समुत्थाय गान्धर्वविधानेन तस्य पाणिं जग्राह। अस्मिंश्चावसरे योगेश्वरो ब्रह्मराक्षसः अलक्षितं तद्गृहं प्रविष्टः वत्सराजं तत्र स्थितं दृष्ट्वा विषादमुपगतः सत्वरमागत्य तद्वृत्तान्तं यौगन्धरायणाय प्रोवाच। यौगन्धरायणेन वासवदत्तागृहं गत्वा पश्य इत्यभितोऽसौ राक्षसः सत्वरं तत्र गत्वा देव्या वासवदत्तायाः पार्श्वे निद्रितं वत्सभूपतिमद्राक्षीत्। दृष्ट्वा च पुनः प्रतिनिवृत्तः कलिङ्गमेनागृहे तद्वेशधारिणं मदनवेगं निद्रितमपश्यत्। ततश्च योगेश्वरः पुनर्मन्त्रिवरमभ्येत्य अभाषत, मित्र! अन्धो मादृशः क्षुद्रमतिः, त्वन्तु नीतिचक्षुषा सर्वमेव वेत्सि, तव मन्त्रबलेन असाध्यमपि साध्यते। असूर्य्यमाकाशम्, अनन्तः सरः, मन्त्रिशून्यं राज्यं सत्यशून्यञ्च वचः शोचनीयमित्युक्ता तिरोऽभृत्।

अथापरेद्युः प्रातः यौगन्धरायणः योगेश्वरमानीय तेन सह प्रस्तावसदृशम् आलापं कृत्वा राजान्तिकमाजगाम, प्रोवाच च कलिङ्गसेनाकामुकं राजानम्। देव! कलिङ्गसेना स्वैरिणी, तस्याः पाणिग्रहणं महाराजस्य नैव कर्त्तव्यम्। इयं प्रथमतः प्रसेनं नरपतिमभिगता, ततस्तं वृद्धं दृष्ट्वाविरक्ता भवन्तं सर्वगुणरूपभूषितमुपस्थिता। तदेषा इच्छयाअन्यसङ्गमपि कर्तुं न पारयति इति न। नात्र किमपिवैचित्र्यम्? तदाकर्ण्य राजावदत् मन्त्रिन्! कुलकामिनी सा, ईदृशे अकार्य्ये किं प्रवर्त्तते? मदन्तःपुरे च प्रवेशेकस्य भक्तिरस्ति? एवमुक्तो यौगन्धरायणः प्रत्यभाषत देव!

यदि मे वचसि न विश्वासः, तद्रात्रावद्य प्रत्यक्षं दर्शयिष्यामि, तथात्वे देवस्य संशयनिरासः स्यात्। शतशः दिव्यपुरुषाः कलिङ्गसेनामर्थयन्ते, ते चाप्रतिहतगतयः, कथं तेषां गतिनिवार्य्येत। एवमभिहितो नृपतिस्तूष्णीमासोत्। यौगन्धरायणश्च राजानं प्रणम्य देवीं वासदत्तामभ्येत्य सहर्षमवादीत् देवि! सिद्धं नः समीहितम्। इत्युक्त्वा सर्वस्मिन्वृत्तान्ते आवेदिते सा सन्तुष्टा मन्त्रिणं प्रणनाम।

अथ निशीथे वत्सराजो यौगन्धरायणेन सह कलिङ्गसेनागृहम् अलक्षितं यावत् प्रविशति, तावत् तत्पार्श्वे निजवेशधरं मदनवेगं शयानमद्राक्षीत्। तदवलोक्य राजा यावत् तं हन्तुं यतते, तावत् स जागरित एव स्वया विद्यया विद्याधररूपः सहसा गृहान्निःसृत्य खमुत्पपात। अचान्तरे च कलिङ्गसेना विगतनिद्रा शय्यां शून्यामालोक्य सोत्कण्ठमवादीत् कथं वत्सराजः अग्रत एव जागरितः मां त्यक्त्वा गच्छति? एतदाकर्ण्य यौगन्धरायणः प्राब्रवीत् देव! दिव्योऽयं पुरुषः महाराजरूपेण अबलामिमामग्रहीत्। अहमग्रत एव योगबलनैतत् दृष्ट्वा अद्य महाराजं स्वचक्षुषा दर्शितवान्, विद्याप्रभावेण देव एनं हन्तु नैवाशकत्।

एवमभिभाष्य उभौ कलिङ्गसेनान्तिकमगच्छताम्। सा च तावुभौ दृष्ट्वा समुचितसमादरेण समभाषत महाराज! सहसा मां विहाय कुत्र गतोऽसि, मया एतावन्तं कालं सातिशयमुत्कण्ठया स्थीयते। अथ यौगन्धरायणः प्रोवाच राजपुत्रि! कोऽपि वत्सराजवेशं धृत्वागतस्त्वां प्रतार्य्य पर्य्यणैषीत्, प्रभुरस्माकं त्वां न परिणीतवान्। एवमुक्ता

कलिङ्गसेना शल्यप्रोतहृदयेव क्षणं विह्वला साश्रुलोचना समब्रवीत् देव! पुरा दुष्मन्तः शकुन्तलामिव मां गान्धर्वविधिना परिणीय अद्य विस्मृतवानसि? राजा तदाकर्ण्य अवनतमुखः समब्रवीत् राजकन्ये! सत्यमेवाहं त्वां न पर्य्यणैषम्, अद्यैव तव गृहमभ्यागतोऽस्मि। ततश्च यौगन्धरायणः आगच्छतु देव इत्यभिधाय राजानं स्वगृहमनयत्।

अथ तस्मिन् नृपे समन्त्रिणि गृहान्निष्क्रान्ते सा विदेशिनी यूथच्युतेव मृगी शोचनीयामवस्थां गता आत्मानम्असहायं निरुपायञ्चालोक्य अन्तरीक्षनिहितदृष्टिरवादीत्योऽसौ देवः वत्सेश्वररूपेण मां प्रलोभ्य पाणिमग्रहीत्सोऽधुना आत्मानं प्रकाश्य मत्समीपमागच्छतु, स एव मेप्रियतमः पतिरिति। एवमुक्ता विरतायां तस्यां सहसा मदनवेगोदिव्यवेशेन नभोमण्डलादवतीर्य्य तत्समीपमाययौ। कलिङ्गसेनापृच्छत् कस्त्वम्? सोऽब्रवीत् अहं मदनवेगो नाम विद्याधराधिपतिः। पूर्वमहं स्वेच्छया भ्रमन् त्वां तव पितृभवनवर्त्तिनींदृष्ट्वा विमोहितस्त्वत्प्राप्तये देवं त्रिलोकीनाथमाराधितवानस्मि। स तु देवदेवो मत्तपसा प्रसन्नः मह्यं वरमभिमतं दत्त्वा अभाषत वत्स! कलिङ्गसेना ते पत्नी भविता, यदा सा वत्सराजं प्रत्यनुरक्ता तत्परिण्यार्थिनी स्थास्यति, तदा त्वं वत्सराजरूपेण तां परिणष्यसीति। तदहं तस्य भगवतो वरप्रदानप्रभावेण त्वां परिणीतवानस्मि। कलिङ्गसेनां तदाकर्ण्य समाश्वस्तां प्रियतमामालोक्य बहुविधेन अलङ्कारेण भूषयित्वा तस्या-

श्चानुरोधेन तत्रैव संरक्ष्य पुनरागमनाय आकाशयानेन स्वस्थानं प्रातिष्ठत।

________

अथ चतुस्त्रिंशत्तरङ्गः।

अथ कदाचित् वत्सनाथः कलिङ्गसेनाया निरुपमसौन्दर्य्यमालोक्यं सञ्जातमन्मथावेश रजन्यां बद्धनिस्त्रिंशः एकाकी तस्या गृहं प्राविशत्। तया च सगौरवंदत्तासनस्तां प्रार्थयामास। तदा सा अहं परकलत्रमिति उक्त्वा तत्प्रार्थनां नाभ्यनन्दत्। राजाब्रवीत् तृतीये पुरुषे अनुरक्तासि, तस्मात्त्वं बन्धकी जाता, त्वया सह संसर्गे न मम परदाराभिगमनदोषः सम्भवेत्।

एतदाकर्ण्य कलिङ्गसेना प्रत्यभाषत राजन्! भवत्स्वयंवरार्थिनींमां विद्याधरो मदनवेगः महाराजस्य रूपेण मां प्रलोभ्य परिणिनाय। स एव मे पतिर्न द्वितीयः, तत्कथमहं बन्धकीति देवेनाभ्यधायि? याः खलु कुमार्य्यःबन्धून् परित्यज्य एवं स्वेच्छाचारे प्रवर्त्तन्ते, तासामियमापद घटेत, नात्र सन्देहः। सख्यां मम दुर्निमित्तं विदित्वा भवत्सकाशं दूतं प्रेषयितुं निवारयन्त्यामपि नाहं विलम्बमसहमाना तद्वाक्यमशृणवं तस्यैवैतत् फलम्। यदि भवान् मामसहायां प्रसह्य गृह्णीयाः, तदाहं सद्य एव प्राणान् त्यक्ष्यामि, कुलवधूर्भूत्वा पत्युरमङ्गलं कदापि नैव

करिष्यामि। महाराज! पुरा चेदिवंशसम्भूतः इन्द्रदत्तो नाम राजासीत्। स खलु स्वकीर्तिमक्षयां कर्तुं कस्मिंश्चित्तीर्थे देवालयं प्रतिष्ठाप्य अन्तरान्तरा तद्दर्शनार्थमगमत्। अन्ये च बहवो लोकाः स्नानार्थं तत्र समागच्छन्ति स्म। कदाचित् एकस्यां वणिक्पत्न्यां तत्र स्नातुमागतायां स राजा तां दृष्ट्वा मोहितस्तस्यामेव रजन्यां तामभ्येत्य स्वाभिलाषं प्रकाशयामास। सा तु विदेशिनी कुलकामिनी प्रत्यब्रवीत् राजन्! स्वयं रक्षकेण एतदकार्य्यं नैव करणीयं, यदि हतबुद्धिः बलात् मां स्पृशेः, तदा ते महानधर्म्मः भविष्यति। अहमपि सद्यः प्राणास्त्यक्त्वा स्वं कलङ्क क्षालयिष्यामि। अथ कामान्धो नरपतिर्यावत् तस्याः विनयवचनमगणयित्वा तां बलात् धर्तुं यतते, तावदेव सा भयविदीर्णहृदया प्राणान् परितत्याज। ततश्च पापात्मासौ नृपस्तेन पापेन दग्धः अल्पीयसैव कालेन पञ्चतामापत्।

एवमुक्त्वा सा पुनरपि राजानमब्रवीत् देव! मम प्राणान्हत्वा नाधर्मं सञ्चेतुमर्हसि, अह भवतः सदने वसामि, यदि अनुमन्येत, स्थानान्तरं गम्यते। वत्सेश्वरः कलिङ्गसेनायास्तत् सर्वं वचनमाकर्ण्य सविनयमब्रवीत् राजनन्दिनि! त्वं पत्या सह अस्मिन्नेव आवासे निर्भया निवस, नातः परमहं त्वां किमपि वक्ष्यामि।

एवमुक्त्वानृपे प्रचलिते मदनवेगः गगनमण्डलात् अलक्षितं सर्वमिदं श्रुत्वा सहसा कलिङ्गसेनालयं प्रविश्य अवादीत् प्रिये! भद्रं कृतं, यद्येवं नाकरिष्यः, तदा ते शुभं नाभविष्यत्, अहं कदापि तत् सोढुं नैव शक्नुयाम्। इत्थ-

मुक्त्वा तां सान्त्वयित्वा सुखेन रजनीमतिवाह्य प्रातस्तिरोऽभवत्। एवं स प्रत्यहं कलिङ्गसेनासम्भोगार्थं यातायातमकरोत्।

कियता कालेन सा गर्भवती। कदाचित् विद्याधरो मदनवेगस्तस्या गर्भलक्षणमालक्ष्य अभाषत प्रेयसि! स्वर्गवासिनामस्माकमेष नियमः, यत् मनुष्यगर्भं परित्यज्य गम्यते, यथा कण्वमुनेराश्रमे मेनका शकुन्तलां तत्याज इति,तत्त्वयापि मानवगर्भस्त्याज्यः, परं त्वं पूर्वमप्सरा आसीः, इदानीं स्वेनैव अविनयेन देवराजात् शापं प्राप्य मनुष्ययोनिं प्राप्तासि, साध्वी अपि अस्मिन् लोके बन्धकीत्यभिहितासि च। तदिदानीं स्वं गर्भं रक्ष, अहं स्वस्थानं प्रतिष्ठे, यदाहं स्वया स्मर्य्येय, तत्क्षणमेव त्वत्समीपमागमिष्यामि। एतदाकर्ण्य सा अश्रुमुखी यावत् न किञ्चित् वक्तुं शशाक तावत् मदनवेगस्तां बहुरत्नादिप्रदानेन समाश्वास्य प्रतिज्ञापाशेन बद्ध्वा च स्वावासं प्रतस्थे। कलिङ्गसेना च अपत्यलालसा तस्मिन्नेव वत्सेश्वरनिकेतने अवास्थित।

एतस्मिन्नन्तरे भगवानुमापतिः कामपत्नीं रतिमादिशत्यथा तव पतिर्मत्सकाशे भृशमपराद्धतया भस्मीभूतः। सोऽधुना मदनुग्रहात् वत्सराजगृहे नरवाहनदत्ताख्यया समजनि। यदि त्वं पतिं पुनः प्रातुमिच्छसि, तदा मत्प्रसादेन मर्त्यलोके अयोनिसम्भवा भूत्वा स्वं पतिं पुनर्लभस्व। एवं रतिमादिश्य अम्बिकापतिर्ब्रह्माणमादिक्षत्त्वं रतिं त्याजितदिव्यदेहां मानुषीं कन्यां सृष्ट्वा कलिङ्गसेनाप्रसूतं पुत्रं मायया हृत्वा तत्स्थाने तां कन्यां संरक्ष्य

च आगच्छ। पद्मयोनिश्च ईश्वरादेशेन तत् सर्वं कृत्वा स्वं धाम प्रययौ।

अथ कलिङ्गसेना अलोकसामान्यां तनयां प्रसूय पुत्रलाभादपि समधिकं सन्तोषमवाप। वत्सराजः कलिङ्गसेनायाः कन्याजननवार्त्तामीश्वरानुग्रहादवगम्य श्रृण्वति यौगन्धरायणे वासवदत्तामवादीत् अहं निश्चितमज्ञासिषं, कलिङ्गसेना सुरयोषित् शापच्युता मर्त्यलोकमागता, तस्याश्च या अद्भुतरूपा कन्या जाता, सा अतिसौन्दर्येण मम पुत्रस्य योग्या। सैव नरवाहनदत्तस्य महादेवी भविता। मन्त्री अब्रवीत् देव! कथमेवमात्थ, राजतनयो नरवाहनदत्तः विशुद्धवंशसम्भूतः, सा तु बन्धक्याः कलिङ्गसेनायाः पुत्री, तदनयोर्महदन्तरम्। तस्मादनयोः संयोगो न प्रशंसनीयः। एतदाकर्ण्य राजा क्षणं विचिन्त्याब्रवीत् नाहं स्वयमेवं ब्रवीमि, कश्चिद् दिव्यपुरुषो मदन्तः प्रविश्यमामाह। कलिङ्गसेना चेयं सद्वंशसम्भूता एकपत्नी च कर्म्मदोषेण बन्धकीत्यभिधीयते।

मन्त्री प्रोवाच देव! श्रूयते रतिर्मानवदेहं लब्ध्वा मर्त्त्यलोकमवतीर्णेन पत्या मदनेन पुनः सङ्गममाप्स्यति। कामदाहात् परं तपसा सन्तुष्टो हरस्तस्यै एवं वरमदात्। अन्यच्च आकाशवाक् राजपुत्रं नरवाहनदत्तं मदनावतारंरतेश्चहरादेशेन मनुष्यलोके जन्म प्रथममेवासूचयत्। अद्य च या धात्री कलिङ्गसेनां प्रासावयत्, सा रहसि मामेत्य अब्रवीत् देव! प्रथमं गर्भशय्या पुत्रिणी दृष्टा, परतश्च कन्यावतीदृश्यत इति अनेन च प्रमाणेन अवधार्य्यत यथेयं

कन्या अयोनिसम्भवा रतिरेव। कश्चिद् गर्भतस्करो देवः इत्त्यं विनिमयमकार्षीदिति मे मतिः। तदियं कन्या कन्दर्पावितारभूतस्य राजपुत्रस्य महिषीभविष्यति। एवमुक्त्वा यां कथामकथयत् तां मन्त्रिवाचं श्रुत्वा गजदम्पती परं विश्वासं जग्मतुः। गते च मन्त्रिप्रवरे अन्तःपुरं प्रविश्य विविधेन पानभोजनेन परितृप्तो दिवसं निन्यतुः। कन्या च कलिङ्गसेनाया दिने दिने स्वया रूपसम्पदा ववृधे। मदनवेगस्य पुत्रीति तां मदनमञ्चुकेति नाम्ना सर्वे समाह्वयन्ति स्म।

एकदा देवी वासवदत्ता मदनमञ्जुकाया निरुपमं रूपं श्रुत्वा तां द्रष्टुं स्वंगृहमनयत्। सर्वे तस्या अलौकिकं नयनान्दकरं रूपं दृष्ट्वा रतिरेवं मूर्तिमतीति तां निश्चिक्युः। तां दृष्ट्वा देवी स्वं नेत्रानन्दं पुत्रं तत्रानिनाय। तावुभौ शिशू अन्योन्यावलोकनेन अपरितृप्तौ तया समाससजतुः, यथा क्षणमपि अदर्शनं न सेहातं। तद्दृष्ट्वा राजनि उभयोः परिणयार्थं त्वरावति कलिङ्गसेना तं नृपतेरभिप्रायं ज्ञात्वा परं सन्तोषमाप, चकार च ततः प्रभृति नरवाहनदत्ते जामातृस्नेहम्।

अथ राजा नरवाहनदत्तं यौवराज्ये अभ्यषिञ्चत्। अभिषेकाम्बुना तदीये मुखकमले धौते दिशः सर्वाः प्रसेदुः। जननीषु माङ्गल्यमालां वर्षन्तीषु त्रिदिवात् पुष्पसाल्यानि अवृष्यन्त। देवदुन्दुभयः आनन्दतूर्य्यरवैः सह नभोमण्डलं पूरयामासुः। ततो नृपतिः पुत्रस्य शैशवबन्धून् आनाय्य यथायोग्यं तस्य कर्म्मणि न्ययोजयत्। यौगन्धरायणपुत्राय

मरुभूतये मन्त्रित्वं रुमण्वत्पुत्राय हरिशिखाय सैनापत्यं वसन्तकपुत्राय नर्म्मसाचिव्यं गोमुखाय प्रतीहारं वैश्वानराय शान्तिसोमाय च पौरोहित्यं दत्तवान्। इत्थं तेषु तेषु तत्तत्कर्म्मसुनियुक्तेषु सपुष्पवृष्टिराकाशभवा सरस्वती सहसा समुदतिष्ठत्। यथा एते नियुक्ताः पुरुषा अस्य युवराजस्यसर्वार्थसाधका भविष्यन्ति, गोमुखस्तु अस्मादभिन्नः शरीर एव भविष्यति चेति। एतश्च दैववचनमाकर्ण्य राजा सम्प्रहृष्टः मन्त्रिभ्यो वसनाभरणादिकं पारितोषिकम् अन्येभ्यश्चअनुजीविभ्यः प्रचुरमर्थं प्रददौ। नगरी पताकामण्डलैः हसन्तीव व्यतिष्ठत। नर्तक्यश्चारणाश्च समन्तात् आनन्दमहोत्सवं वितेनुः, वासवदत्ताप्रभृतयश्च गजयोषितः परं हर्षमवापुः।

अथ युवराजोजयकुञ्चरमारुह्य नगरीं प्रदक्षिणीकुर्वन्स्वभवनं प्रत्यागमत्। कलिङ्गसेना ममधिकेन रत्नाभरणवसनादिना जामातरमभ्यनन्दयत्। इथं पूर्णमहोत्सवायां नगर्य्यां रात्रौकलिङ्गसेना शय्यायां शयाना सोमप्रभां सम्मार। स्मृतमात्रा च सा स्वामिने निवेद्य किं कर्तव्यमिति समादेशं प्रतीक्षमाणा तस्थौ। ज्ञानी नलकूवरश्चतामब्रवीत् प्रिये! कलिङ्गसेना सोत्कण्ठमद्य त्वां स्मरति, त्वं तत्र गत्वा तस्याः कन्यायाः कृते एकं दिव्यमुद्यानं निर्म्माय प्रयच्छ। एवमादिष्टा च सोमप्रभा सत्वरमागम्य बहोः कालात् परं तस्याः कण्ठं धृत्वा सवाष्पं समाश्वास्य कुशतवार्त्तामापृच्छ्य च समभाषत सखि! देवदेवस्य प्रसादेन त्वं विद्याधरसहधर्मिणी अभूः, रतिश्च ते कन्या ससु-

जनि। वत्सराजतनयश्च नरवाहनदत्तः कन्दर्पावितारः सम्भूतः, तवेयं नन्दिनी च तस्य प्रणयिनी भविष्यति। स हि तव जामाता कालेन विद्याधरचक्रवर्त्तीभविता। त्वं पूर्वम् अप्सरा आसीः, महेन्द्रशापात् भुवनमवतीर्णासि। अस्मिंश्च लोके तव कार्य्ये शेषितेशापमुक्तिर्भविष्यति। सर्वज्ञो मे पतिरेतत् सर्वं कथितवान्। मा उद्वेगं कार्षीः, अतः परं ते शुभं भविष्यति, साम्प्रतं तव कन्यार्थमेकं दिव्यं सुमनोहरमुद्यानं निर्म्माय प्रयच्छामि, यत् त्रिलोक्यां कुत्रापि न दृश्यते। एवमुक्त्वादिव्येन प्रभावेण उद्यानं निर्म्माय दत्त्वा च स्वस्थानं प्रतस्थे।

अथ रजन्यां प्रभातायां महसा अतर्कितं मनोहरमुद्यानं निरीक्ष्य सर्वे विस्मयोत्फुल्ललोचना अभूवन्। क्रमेण एतद्वृत्तान्ते सर्वतः प्रसृते राजा युवराजेन मन्त्रिभिश्च परिवृतः तद्दर्शनार्थमापपात, ददर्श च प्रविश्योद्यानं, पुष्पाणि फलानि च सर्वर्त्तुलभ्यानि विराजन्ते वृक्षराजिषु। नानामणिमयस्तम्भसमेतभित्तिशोभितभूमिभागैः परिवेष्टिता दीर्घिका शोभते। नानाविधाः सौवर्णाः पक्षिणः समन्ततः सञ्चरन्ति, सुरभिवनवाताश्च मन्दं मन्दं वहन्ति। राजा तादृशमद्भुतमुद्यानं निरीक्ष्य कलिङ्गसेनामपृच्छत्। कलिङ्गसेना राजानं समुचितेन सत्कारेणाभ्यर्च्य सर्वसमक्षमवादीत् श्रुतमेतत् महाराजस्य यत् विश्वकर्म्मावतारो मयो नाम दानवराजोऽस्ति, यश्च पुरा राज्ञो युधिष्ठिरस्य यज्ञगृहं निर्मितवान्। तस्य सोमप्रभा नाम कन्या मम प्रियसखी, सा गतायां रजन्यां मत्समीपमागत्य उद्यानमिदं

मायया निर्माय मत्कन्यायै दत्त्वा प्रस्थिता। एवमुक्त्वा सखीप्रोक्तं सर्वं भूतं भभिष्यत् वर्तमानञ्च वृत्तं समवर्णयत्। तदाकर्ण्य सर्वे सुविश्वस्ताः परं सन्तोषमापुः। वत्सराजस्तु तयासत्कृतः सपुत्रमन्त्रिवर्गस्तस्मिन्नेवोद्याने तं दिवसमनैषीत्।

अथापरेद्युर्नरपतिर्देवदर्शनार्थं देवालयं प्रविष्टः कतिपया वसनाभरणाद्यलङ्कृताः स्त्रियः पश्यन् का यूयमिति अपृच्छत्। ता अब्रुवन् राजन्! वयं विद्याः कलाश्च त्वत्पुत्रार्थमागताः स्मः, तद्वयं तच्छरीरं प्रविशाम इत्युक्त्वा ता अन्तर्हिताः। तद् दृष्ट्वा वत्सराजो गृहं प्रतिनिवृत्य सर्वाननुजीविनः समाहूय तद्वत्तान्तमाख्यत्। सर्वे च ते तद्वचः समभिनन्द्य अवदन् देव! सर्वमिदं दैवानुग्रह एव।

कदाचित् राजा पुत्रं नरवाहनदत्तं कलासु शिक्षितं परीक्षितुं वासवदत्तां वीणावादनार्थं समादिशत्। तस्याञ्च वीणां वादयितुं प्रवृत्तायां पुत्री युवराजः सविनयमब्रवीत्मातः! वीणीयं स्थानात् च्युता लक्ष्यते। एवमुक्तायां मातरि तत्क्षणं पुत्रहस्ते वीणां समर्पयन्त्यां स खलु युवराजस्तथा वीणामवादयत यथा तत् श्रुत्वा गन्धर्वा अपि विमोहिताः समभवन्। एवं कलासु सर्वासु विद्यासु च पारदर्शिनि जाते पुत्रे राजा परीक्ष्य नितरां सन्तोषमलभत कलिङ्गसेनासुतां च मदनमञ्चुकां शिक्षयितुमारेभे।

एकदा युवराजो मदनमञ्चुकामदृष्ट्वा अतीव समुत्सुकः तदीयमुद्यानमगमत्। मदनमञ्चुका च तदानीं तत्समीपमाययौ। सुचतुरो गोसुखो नानालापैः युवराजस्व सन्तोषमतनोत्। मदनमञ्चुका च नृत्यगीतादिकलासु सम्यक्

शिक्षिता युवराजस्य परं सन्तोषमकार्षीत्। इत्थंविविधैः प्रमोदैःकौमारे समतिक्रान्ते एकदा युवराजः प्रियासहचरः गोमुखेन सह नागवनं जगाम। तत्र काचित् वणिग्वधूर्गोमुखं विषेण हन्तुमैषीत्। गोमुखस्तु तद्विदित्वा कथञ्चित् तस्मान्मुक्तः स्त्रीजातिमुद्दिश्य सातिशयमनिन्दत्। धाता अग्रतः साहसं सृष्ट्वा परतः स्त्रियं समर्ज, तस्या अकार्य्यं न किमपि। अस्याश्च सृष्टौअमृतं विषञ्चीभयम् उपादानम्, अस्यामनुरक्तायाम् अमृतं, विरक्तायान्तु विषं निःसरेत्। बालकोऽपि गोमुखः एवं स्त्रीचरितमनिन्दत्। ततश्च युवराजो नागान् समाराध्य गृहमयासीत्।

एकदा युवराजेन राजनीतिमनुयुक्तो गोमुखः समभाषत राजनन्दन! राजा सिंहासनोपविष्ट एव प्रथमं दुर्दान्तान् बाह्येन्द्रियगणान् वशीकृत्य पश्चात् कामादीन्आभ्यन्तरशत्रून् जयेत्। विना जितेन्द्रियतां न केनापि प्रकारेण वाह्यशत्रुजये अधिकरोति। तस्मात् प्रथममेव प्रधानेन्द्रियं मनो जयेत्। ततो मन्त्रिवर्गाणामपि इन्द्रियदमने यत्नं कुर्य्यात्। पुरोहितम् अथर्वसंहितायां तपसि च सुदक्षं कारयेत्। मन्त्रिणश्चसुपरीक्षार्थं छलं विदध्यात्। कार्य्यव्यापृतांश्च सततं परीक्षेत, सत्येन सन्तुष्येत्, कापट्ये दण्डयेत्। चारैश्च नियुक्तैःकार्य्यकारिणां चरित्रं पश्येत्। इत्थं सर्वतोदृष्टिः शत्रूनुन्मूल्य अर्थं चिन्तयेत्। ततश्च क्रमेण बद्धमूलः स्वपरराष्ट्राणामवस्थां पर्य्यालोच्य विजयार्थं यतेत। आप्तैर्विचक्षणैर्विद्वद्भिः सह सततं मन्त्रयेत्। मन्त्रितञ्च निजबुद्ध्या सर्वाङ्गविशुद्धं कुर्य्यात्। सामादिषु उपायेषु च

सुविचक्षणः सततं योगक्षेमं विदध्यात्, सन्धिविग्रहादिकञ्च प्राङ्गुण्यं यथायथं प्रयुञ्ज्यात्। इत्थं सततं सावधानो नरपतिः स्वं परञ्च चिन्तयित्वा कार्य्येषु विचरन् अवश्यमेव विजयीभवेत्। अज्ञं कामान्धञ्च नृपं धूर्त्ता अधिकारिणः प्रतार्य्य विपन्नं कुर्वन्ति, सर्वस्वं हृत्वा च स्वेषां, स्वार्थं साधयन्ति, परित्यजन्ति च। तस्मात् राज्ञा जितेन्द्रियेन युक्तदण्डेन विशेषज्ञेन च सदा भाव्यम्। यश्च प्रजानामनुरञ्जने तत्परः स्यात् तस्य श्रीरनपायिनी वर्द्धेत।

युवराजो नरवाहनदत्तः गोमुखमुखादेवं राजनीतिं श्रुत्वा हृष्टः मदनमञ्जुकादर्शनार्थं समुत्सुकः कलिङ्गसेनाभवनमगात्। सर्वेषु युवराजपरिजनेषु कृतासनपरिग्रहेषु कलिङ्गसेना गोमुखं सम्बोध्याब्रवीत् आयुष्मतो युवराजस्य आगमनविलम्बेन समुत्सुकायां वत्सायां मदनमञ्चुकायां मया सह हर्म्म्यपृष्ठमारोहन्त्यां सहसा कश्चिद् विमानचारी पुरुषः असिहन्तः समवरुह्य सामवादीत् प्रिये! अहं मदनवेगो नाम विद्याधरराजः, त्वं मम पूर्वपत्नी सुरभिदत्ता नामाप्सराः, वासवशापात् भूतलमवतीर्णा। कन्या चेयं यथा तव तथा ममापि, तदेनां मम हस्ते समर्प्य विद्याधरजातिसदृशं समाचारमवलम्बस्व।

तेनैवमुक्ताहं सस्मितमवादिषम् आर्य्यपुत्र! भगवान्भवानीपतिरस्याः कृते नरवाहनदत्तं कामावतारं निर्माय सर्वविद्याधराधिपत्ये अभिषेक्तुमादिदेश। तत् कथमिमां तव हस्ते समर्पयामीति। एतदाकर्ण्य स आकाशमार्गेण यथागतं सम्प्रतस्थे।

तदाकर्ण्य गोमुखोऽभ्यधात् विद्याधरोऽसौ राजकुमारं भाविनं प्रभुं श्रुत्वा अन्तरीक्षमारुह्य भावावबोधार्थं भवत्याः सकाशमागतः। मन्ये विघ्नकरणार्थमेव विद्याधरमण्डलेषु चक्रान्तं वर्त्तते, भद्रे! उत्पथगामिनो हि एवं विद्वेषं समाचरन्ति। यद्भवतु, भगवानुमाकान्तः अग्रस्तएव इमं व्यापारमवगत्य नरवाहनदत्तं रक्षितुं स्वानुचरान् प्रमथान् नियुक्तवान्। एषा नारदोक्तिर्मया पितृमुखात् श्रुता,साम्प्रतं विद्याधरा अस्माकं सम्यक् वैरिणः संवृत्ताः।

एतत्रिशम्य कलिङ्गसेना सत्रासमवादीत् भद्र! साम्प्रतं ममैतद्भयं यत्कोऽपि विद्याधरः मामिव मायया मदनमञ्चुकां प्रतार्य्य यदि परिणयेत्। तदहं सद्य एव राजकुमारेण मदनमञ्चुकां परिणीतामिच्छामि। गोमुखादयश्च सर्वे तदाकर्ण्य वत्सराजम् अस्मिन् व्यापारे त्वरयितुं तामेव कलिङ्गसेनामनुरुरुधुः।

अत्रान्तरे युवराजोमदनमञ्चुकां प्रति सातिशयमनुरक्तस्तयैव सह उद्यानविहाराय मनो निदधे, तां विना क्षणमपि नावस्थातुमशकत्। मदनमञ्चुकाया वदनमुत्फुलकमलं, नयने विकसिते कुवलये, ओष्ठाधरौ विम्बफलोपमौ, स्तनद्वयं मन्दारस्तवकसमं, सौकुमार्य्यं शिरीषकुसुमादपि चारु, किमन्यत्, मदनः जगद्विजेतुमिव पुष्पमयं मदनमञ्चुकाया देहं विरचितवानित्येव दिवानिशं तस्य मनस्तां प्रत्योत्सुक्येनाकल्पयत्।

अथ कल्लिङ्गसेनया पुत्र्या विवाहार्थं त्वर्य्यमाणो नृपस्तां तथेत्युक्ता मन्त्रिणः समाहूय देव्याः वासवदत्तायाः समक्ष-

मब्रवीत् पश्यत, कलिङ्गसेना विवाहार्थं त्वरयति, परं बन्धक्या सह कथं वा वैवाहिकसम्बन्धः स्थिरोक्रियते? कलिङ्गसेनां निर्दोषामपि लोको न विश्वसिति। पुरानृपतो रामचन्द्रो लोकरञ्जनार्थं प्रेयसीं निर्दोषामपि जानकीं परिजहार। पुरा भ्रातुः परिण्यदानोत्सुकेन भीष्मेण अन्यवृता अम्बेव मया अन्यवृता सा परित्यक्ता पश्चात् मदनवेगेन परिणीता। एतदर्थमेव लोको निन्दति, तन्ममायमभिप्राय, यत् पुत्रः स्वयं मदनमञ्चुकां गान्धर्वेण विधिना परिणयतु, ममात्र हस्तावलम्बनेनालम्।

एवमुक्त्वा राजनि विरतेमन्त्रिवरो यौगन्धरायणःप्रत्यभाषत देव! ईदृशे कार्य्येकलिङ्गसेनायाः सम्मतिर्न सम्भाव्यते, सा खलु दिव्या योषित् न सामान्या, मित्राद् ब्रह्मराक्षसात् पुनः पुनर्मया श्रुता। इत्थं व्यतिकरे दिव्यवाणी आविरासीत् यथा कामे मम नेत्रानलदग्धे पुनरहं कृपया तं कामं नरवाहनदत्तरूपेण सृष्टवानस्मि, तदनन्तरं रतेश्च तपसा सम्प्रीतस्तामपि मदनमञ्चुकां कृत्वा भुवमवतारितवानस्मि। तदयं नरवाहनदत्तः मदनुग्रहेण शत्रून् जित्वा मदनमञ्चुकां महादेवीं कृत्वा राज्यसुखमनुभविष्यतीति।

एतदाकर्ण्य राजा सपरिजनः शम्भुं प्रणम्य सहर्षं पुत्रस्य विवाहमहोत्सवविधानार्थं यत्नमकरोत्।

अथ वत्सराजामन्त्रिवरं यौगन्धरायणं प्रशस्य सुविज्ञान् गणकानाहूय विवाहार्थं शुभलग्नस्थिरीकरणाय समादिशत्। ते च सद्य एव शुभं लग्नं निश्चित्य अवदन् दिव! युवराजः स्वल्पं कालं मदनमञ्चुकां सम्भुज्य विच्छेद-

मवाप्स्यतीति। ततो राजा शुभेऽहनि मदमञ्चुकयासह पुत्रस्य विवाहदीक्षाम् उत्साहविभवानुरूपां निरवर्त्तयत्।

_______

अथ सप्तमो लम्बकः।

<MISSING_FIG href="../books_images/U-IMG-1721296389023.png"/>

अथ पञ्चत्रिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721296453270.png"/>

अथ परिणीतमदनमञ्चुको नरवाहनदत्तः वयस्यवर्गैः परिवृतः कौशाम्ब्यां सुखेन वसन् मनसा यत् यत् काङ्क्षितं तत्तत् सर्वं यथायथमभुनक्। कदाचित् वसन्तोदये तरवः नवं नवं पल्लवं कुसुमञ्च निःसार्य्य दिशोऽशोभयन्। मलयसमीरणः सुमन्दं वहति स्म। पुष्पाणां सौरभैश्चतुर्दिशः आमोदिताः, कौसुमैरजोभिः समाच्छन्ना मधुलिहोऽमाद्यन्त, पुंस्कोकिला मधुरमकूजन्। प्राणिनः सर्वे प्रफुल्लमनसः समभवन्, वियोगिनः क्लेशेन संयोगिनश्च सुखेन व्यचरन्।

अस्मिंश्च समये युवराजोमन्त्रिगणपरिवृतः उद्यानविहारार्थं यात्रामकरोत्, सर्वे चानुजीविनः स्वेच्छया इतस्ततः परिभ्रमन्तः सुखेन विचरन्ति स्म। क्षणान्तरे वसन्तकतनयस्तपस्तको युवराजमभ्येत्य अवादीत् सखे! स्थानादस्मादनतिदूरे परिभ्रमन्नहम् एकमपूर्वं वस्तु दृष्ट्वा विस्मितः समभवम्। भ्रमन्नपश्यम् नभोमण्डलात् कापि

परमसुन्दरी सह सखीभिर्भुवमवतीर्णा सन्निहितमेकमशोकतरुमूलमाश्रिता मां दृष्ट्वा समाहूय च भवदाह्वानार्थं प्रहितवती, तत् सत्वरमागत्य नेत्रानन्दं विदधातु युवराज इति।

श्रुत्वैतत् राजतनयः सत्वरमधावत्, सचिवाश्च तमनुव्रजन्ति स्म। नरवाहनदत्तः दूरादेव अशोकमूले स्थितायास्तस्याः अद्भुतं रूपमालोक्य विस्मितः क्रमेण तदन्तिकमगमत्। सा दृष्ट्वैव तंसविनयं प्राणमत्00। ततश्च सर्वेषु समासीनेषु मन्त्रिवरो गोमुखः कन्यां तामपृच्छत्। सा च सगद्गदमीषद्विगलितलज्जा सतृष्णं युवराजं निरीक्ष्य स्वं वृत्तान्तमवोचत् भद्र!

अस्ति कैलासशिरसि काञ्चनशृङ्गं नाम स्वर्णमयं नगरम्। तत्र हेमप्रभो नाम विद्याधरः प्रतिवसति। तस्य सत्यपि परिग्रहबहुत्वे रोहिणीव चन्द्रमसः अलङ्कारवती नाम पत्नी एव प्रियतमा। स खलु सुधार्मिकः भगवतोः पार्वतीपरमेश्वरयोरतिभक्तः प्रतिदिनं प्रातः स्नात्वा देवदेवं देवीञ्च प्रेयस्या सह समाराधयति। अनन्तरञ्च भूतलमागत्य दीनदरिद्रानाथेभ्यः भूदेवेभ्यश्च लक्षसुवर्णमुद्राः प्रदाय पुनर्गृहं गत्वा स्वकार्य्यं करोति। मुनिवच्च नियतव्रतः पानभोजनं सम्पादयति।

गच्छति च काले अमुं विद्याधरं पुत्रहीनतया उद्विग्नमनसं दृष्ट्वा प्रियतमा अलङ्कारवती कारणमपृच्छत्। सोऽब्रवीत् प्रिये! मम सर्वा एव सम्पत्तयः सन्ति, केवलमेकः पुत्रो नास्ति, एतेनैव दुःखेनाहं समुद्विग्नचेताः कालं

नवामि। पूर्वं मया अपुत्रस्य समाख्या श्रुता, अद्य तु सा स्मृतिपथमवतीर्णा मां भृशं कलुषीकरोति।

अथ प्रियया सनिर्बन्धं कथय तां कथामित्यभिहितः स विद्याधरवरः पुनरब्रवीत् सुन्दरि! आसीत् चित्रकूटाख्य नगरे कश्चित् द्विजवरो नाम नरपतिः। स किल ब्राह्मणेषु भक्तिमान्। तस्य सत्त्वशीलो नामैकः प्रवीरपुरुष आसीत्। स तु प्रभोः सकाशात् शतसुवर्णं मासिकं वेतनं प्राप्यापि दानशौण्डतया सततमभाववानेव क्लेशेन जीवन् कदाचित् चिन्तयामास अहमपुत्रोऽपि दानशीलतया कथञ्चित्सन्तोषं लभे, परन्तु विधिर्मह्यं तदुपयोगि धनमपि अदत्त्वा तेनापि सुखेन मां वञ्चितवान्, तस्मात् दरिद्रस्य दातुर्जीवनात् वनेषु जीर्णशुष्कतरूणां पाषाणानाञ्च जन्मग्रहणं वरम्। अथैकदा स इतस्ततो भ्रमन् सहसा किञ्चित् धनमासाद्य भृत्यैर्गृहीत्वा गृहमयासीत्। ततः प्रभृति यथेच्छं सुखेन वितरन् स्वयञ्च भोगसुखेन कालं हरन् व्यतिष्ठत।

अत्रान्तरे तस्य धनप्राप्तिवार्त्तायां ज्ञातिवर्गैरावेदितायां राजा सद्य एव तमाजुहाव। श्रुत्वैव तस्मिन् राजभवनमागते दौवारिकः राजानं तद्वार्त्तांन्यवेदयत्। अत्रान्तरे सत्वशीलः अन्यमनस्कतया वज्रसमेन मुष्टिप्रहारेण प्राङ्गणं खनन् तत्र प्रचुरार्थपूर्णं ताम्रपात्रमपश्यत् समाच्छादयच्च सद्य एव मृत्तिकाभिः। अथ प्रतीहारी समागत्य तं राजान्तिकं निनाय।

राजा तमभ्यागतं दृष्ट्वा अवदत् सत्वशील! त्वया यत् धनमासादितं तत् सर्वं राजप्राप्यं, तस्मादनीय तत् मह्यं

समर्पय। तदाकर्ण्य सत्वशीलः अम्लानवदनः समभ्यधात् देव! किं पूर्वलब्धम् उत अद्य लब्धं दास्यामि, आज्ञापयतुदेवः। राज्ञोक्तम् अद्य लब्धमानय। सत्वशीलस्तत्क्षणमेव राजभवनप्राङ्गणलब्धं तत् सर्वमुत्तोल्य राजान्तिकमनयत्। तद् दृष्ट्वा सम्प्रीतो नरपतिः तस्मै पूर्वलब्धं सर्वं धनं भोगार्गं प्रादात्। स तु गृहं गत्वा तत् यथेच्छमुपभोज्य अपुत्रतानिमित्तं क्लेशं विस्मरन् अतिष्ठत्।

अलङ्कारवतीप्रत्यभाषत आर्य्यपुत्र! सत्यमेव विधिः सुचतुरस्य जनस्य साहायकं करोति। सत्वशीलो विपदि यत्तादृशम् अपरं धनमाससाद तत्र विधातुरेव हस्तालम्बः कारणम्। भवानपि निजेनैव सत्वेन स्वमभीष्टमासादयिष्यसि, अत्रैतदाख्यानं स्मृतिपथमारूढ़ंकथयामि श्रूयताम्।

पुरासीत् पाटलिपुत्रं नाम नगरम्। तत्र विक्रमतुङ्गो नाम नरपतिराविरासीत्। एकदा स मृगयायां पर्य्यटन्कञ्चित् अग्नौ विल्वपत्राणि हवनीयानि प्रयच्छन्तं ब्राह्मणं दृष्ट्वा कोऽसौ ब्राह्मणः कथं वात्र जुहोतीति प्रष्टुकामोऽपि मृगमनुसरन् अतिदूरतरं गहनं काननं प्रविवेश। क्रमेण बहून् वन्यान् स्वीकृत्य विहृत्य च विविधेन कन्दुकक्रीड़नादिभिः सायं तमेव ब्राह्मणमभ्यागमत्। अपृच्छत् तं तदवस्थं दृष्ट्वा सप्रणामं क्रियमाणकर्म्मफलम्। ब्राह्मणो जयोऽस्तु महाराज इत्याशिषं प्रयुज्य प्रत्यभाषत राजन्! अहं नागशर्म्मा नाम इदञ्च होमफलं यत् देवे वैश्वानरे सन्तुष्टे अस्मात् अग्निकुण्डात् सुवर्णकुण्डलं निर्गमिष्यति, वरञ्चाभिमतं स भगवान् दास्यतीति। अहन्तु सुचिरमेतत्

कार्य्यं करोमि, तदपि मम दौर्भाग्यात् देवो ममाभीष्टं न साधयति।

एतदाकर्ण्य धीरो नरपतिरवोचत् ब्रह्मन्! यदि कृपया माम् एकं विल्वपत्रं होतुम् अनुमन्येथाः, तदाहमेकेनैव आहुतिप्रदानेन भगवन्तं प्रसादयामि। विप्रोऽब्रवीत्सम्भाव्यते, परं भवान् अशुचिः, अशुचिना कथमेतत् समाधातुं शक्यते? राजाब्रवीत् ब्रह्मन्! तदर्थं मा चिन्तय, भवान् एकं विल्वदलं मह्यं दत्त्वा आश्चर्यं पश्यतु। विप्रस्तथेत्युक्त्वातस्मै विल्वपत्रमेकं ददौ। राजा कायेन मनसा वाचा ध्यात्वा तत् पत्रं जुह्वदुवाच देव! यदानेन न तुष्येः, तदा स्वेन मस्तकेन आहुतीकृतेन त्वां तोषयामीति। एवमुक्ते सहसा भगवान् जातवेदा हेमं बिल्वदलं बिभ्रत्आविर्भूय समभ्यधात् राजन्! सन्तुष्टोऽस्मि तव साहसात्, वरं गृहाण। ततश्च राजा सप्रणाममवादीत् देव! वरेण मे नालं यदि तुष्टोऽसि, द्विजाय अस्मै अभिलषितं प्रयच्छ। देवस्तनूनपात् नृपतेस्तादृशमौदार्य्यं दृष्ट्वा ततोऽपि प्रीतः प्रोवाच राजन्! ब्राह्मणोऽसौमतासादेन अतुलम् ऐश्वर्य्यं लभतां, त्वञ्च अक्षयां सम्पत्तिं प्राप्नुहि। ततो द्विजः प्राब्रवीत् देव! भगवान् यथेच्छाचारी, राज्ञ एकेनैव विल्वदलेन सन्तुष्टः सहसा आविरासीः, मया एतावन्तं कालमुपासितोऽपि मह्यं दर्शनं नाददा, कोऽत्र हेतुः?

एतदाकर्ण्य अब्जिरुवाच विप्र! यद्यहं राज्ञे दर्शनं नादास्यं तदा तीक्ष्णवीर्य्योऽसौ नरपतिः सद्य एव स्वं मस्तकं छित्त्वा मह्यम्आहुतिमदासत्। तदवेहि तीक्ष्ण-

वीर्य्यस्य कार्य्यसिद्धिरल्पवीर्य्यकार्य्यसिद्धेः शीघ्रतरा। एवमुक्त्वादेवे तिरोहिते नागशर्मा विक्रमतुङ्गं सम्भाष्य कृतार्थः स्वं गृहं गत्वा अतुलैश्वर्य्यवानभूत्। ततश्च एतत् अद्भुतं कार्य्यं दृष्ट्वा अनुचरैः सविस्मयं प्रशस्यमानो नरपतिः स्वं नगरं प्रातिष्ठत।

कदाचित् तस्मिन् विक्रमतुङ्गे सभामण्डपम् अध्यासीने शत्रुञ्जयो नाम द्वारपालः समुपेत्य सप्रणाममवादीत्देव! कश्चित् द्विजन्मा रहसि महाराजान्तिके किमपि विज्ञापयितुं द्वारि तिष्ठति, तदत्र देवः प्रमाणमिति। तथोक्तो नरवरस्तमानेतुमादिदेश। दौवारिकश्च तदादेशन द्विजं राजसमोपमनयत्।

ब्राह्मणः स्वस्तिवाच्य समब्रवीत् राजन्! अहं चूर्णसंयोगेन ताम्रं सुवर्णं कर्तुं शक्नोमि। तदाकर्ण्य राजा विस्मितस्तत्क्षणमेव ताम्रमानाय्य तस्म प्रादात्। ततोऽसौ ब्राह्मणस्ताम्रं द्रवीकृत्य यावत् तत्र चूर्णं प्रक्षिपति तावत्कश्चिद् यक्षः अलक्षितमेत्य तत् हरति स्म। चूर्णसंयोगाभावेन च ताम्रं न सुवर्णीभूतम्। ब्राह्मणः पुनः पुनस्तथैव त्रिः प्रक्रियामकरोत्, परम् अकृतकार्य्यतया परां त्रपामवाप। विक्रमतुङ्गस्तु पूर्वमग्निमतोषयत्, तेनैव स यक्षं चूर्णं हरन्तमद्राक्षीत्, ततः स स्वयं यावत् चूर्णं गलितताम्रेन्यक्षिपत् तावत् सद्य एव तत् सुवर्णीभूतं दृष्ट्वा यक्षोऽसौ हर्त्तुमशक्नुवन् विलक्षितस्तस्मात् स्थानात् प्रतस्थे।

तदवलोक्य विस्मिते विप्रे कारणं पृष्टवति राजा तं यक्षवृत्तान्तमवर्णयत्। अथ ब्राह्मणात् तस्य चूर्णस्य प्रक्रियां

शिक्षित्वा तस्मै परितुष्टः विवाहमदात्। स तु दरिद्रो द्विजातिस्तेनैव कृतार्थम्मन्यः स्वस्थानमगात्। अथ राजा तेन चूर्णेन सुबहूनि सुवर्णानि प्रस्तुत्य धनागारं पर्य्यपूरयत्, अनयच्च सुखेन कालं दरिद्रेभ्यः दीनेभ्यश्चानाथेभ्यः प्रार्थनाधिकं धनं वितरन्।

एवमुक्त्वाअलङ्कारवती पुनरगादीत् नाथ! विधाता भयाद्वा सन्तोषाद्वा तीक्ष्णवीर्य्यस्य कार्य्यं शीघ्रं साधयति, भवान् धीरप्रकृतिर्दानशीलश्च, भवता समाराधितो हरः अवश्यमेव पुत्रधनं प्रदास्यति, तस्मात् मा पुत्रार्थं दुःखितो भूः।

हेमप्रभः प्रेयस्याः समुदीरितमेतद्वचनमाकर्ण्य प्रोत्साहितः शिवमाराधयितुं समधिकभक्तिमानभूत्। परेद्युः प्रेयस्या सह भवानीपतिमाराध्य कोटिस्वर्णमुद्राः सत्पात्रसात् कृत्वा दृढ़तराध्यवसायैः पुत्रप्राप्तये यतते स्म।

अनन्तरं निराहारं त्रिरात्रं तिष्ठन् भगवन्तं तथा तुष्टाव, यथा स सद्य एव परितुष्टः स्वप्ने तमादिदेश वत्स ! मदनुग्रहेण तवैकः कुलधुर्य्योऽद्वितीयः पुत्रो जनिष्यते। भगवत्या गौर्य्याः कृपया यैका कन्या जनिता, सा विद्याधरचक्रवर्त्तिनो नरवाहनदत्तस्य महिषीभविष्यतीति समाख्याय स खलु भक्तवत्सलस्तत्क्षणमेवान्तर्दधे। असौ विद्याधरी हेमप्रभः प्रत्यूषे समुत्थाय प्रियायै अलङ्कारवत्यै स्वप्नवृत्तान्तमकथयत्। ततः कृतस्नानो देवदेवं पूजयित्वा स्तुत्वा च पारणं चक्रे।

अथ गते कियति काले सालङ्कारवती पुत्रमसूत।

जातस्य तस्य देहप्रभया सूतिकागृहमरुणाभिर्भाभिरुद्भाषितमभूत्। पिता पुत्रस्य रत्नवत् प्रभामालक्ष्य रत्नप्रभ इति नाम चकार। पुत्रोऽसौ प्रतिपञ्चन्द्र इव प्रतिदिनमवर्द्धत। अनन्तरञ्च सा अलङ्कारवती पुनरापन्नसत्त्वा अलोरुसामान्यामेकां चारुतरां पुत्रींप्रसूतवती। सा च हेमप्रभेति कृतनामधेया शशिकलेव प्रतिदिनं वर्द्धते स्म।

अथ रत्नप्रभम् अतिक्रान्तशैशवं पिता अनुरूपकन्यया सह परिणाय्य तस्मिन् राज्यभारं समर्प्य निश्चिन्तोऽपि कन्याया हेमप्रभायाः परिणयार्थं समधिकोद्विग्नमनाः समभवत्। परन्तु तस्यां जातमात्रायामेव कन्येयं नरवाहनदत्तस्य सहधर्मिणी भविष्यतीति दैववाणींस्मृत्वा राजा निवृत्तान्यवराभिलाष एव तस्थौ।

कदाचित् हेमप्रभा नरवाहनदत्तो मे पतिर्भवितेति पितुर्वचनमाकर्ण्य कन्यान्तःपुरं प्रविश्य कियन्तं कालं तदेव चिन्तयन्ती निद्रामभजत। निद्रितायाञ्च तस्यां स्वप्ने भगवती गौरी समादिशत् पुत्रि! श्वः प्रातरतिशुभम्, अस्मिंश्च समये त्वं कौशाम्बीं गत्वा वत्सराजसुतं पश्य। ततश्च तव पिता स्वयं तत्र गत्वा तं स्वां राजधानीमानीय त्वां तस्मै प्रदास्यति। एवमुक्त्वासा देवीतिरोऽभूत्, विभावरी च व्ययासीत्।

अथ प्रातः हेमप्रभया समुत्थाय मातुरन्तिकमुपगम्य रात्रिवृत्तान्तं निवेदिता माता तां कौशाम्ब्यां गमनाय अनुमेने। सा तु सपरिजना मातुरादेशेन कौशाम्बीमभ्यागता उद्यानवर्तिनो नरवाहनदत्तस्य सकाशमुपस्थितेति।

राजपुत्रो नरवाहनदत्तस्तस्या रूपेण वाग्वैदग्ध्येन च विमोहितःप्रत्यवदत् सुन्दरि! अहमेव धन्यः, यत् तादृशीमनोहराकृतिरपि मामन्विच्छति। एवमुक्त्वा तां प्रेमदृष्ट्या सन्तोषयति युवराजे सहसा अन्तरीक्षात् तत्पिता सपुत्रपरिजनः सन्निपत्य समीपमागमत्। युवराजस्तान् दिव्यपुरुषान् उपस्थितान् दृष्ट्वाआसनादिना समभ्यर्च्चयत्। तदनन्तरं राजा उदयनः वार्त्तामिमां विदित्वा समन्त्रिवर्गः तत्र समागत्य विद्याधरराजस्य हेमप्रभस्य प्रस्तावमनुजज्ञे। ततश्च तेनानुमतो हेमप्रभः विद्याबलेन विमानमेकं विरचय्य युवराजेन सपरिजनेन सह स्वं नगरं काञ्चनशृङ्गं प्रतीयाय। ददौ च तस्मै राजपुत्राय स्वां दुहितरम्। युवराजश्चकियन्तं कालं श्वशुरभवनेऽवस्थाय तथा पत्न्या सह कौशाम्बीं प्रत्यागम्य पितरौ नन्दयामास।

________

अथ षट्त्रिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721306453243.png"/>

एकदा प्रातः गोमुखादिषु मन्त्रिषु शयनगृहद्वारमुपस्थितेषु द्वाररक्षिणी तान् निषिध्य हेमप्रभां व्यजिज्ञपत्। हेमप्रभा श्रुत्वैव तान् प्रवेशयितुमादिदेश।द्वारपालिका सर्वान् तान् स्वामिन्याः सकाशमनैषीत्। सा च तान् यथोचितं समादृत्य द्वारपालिनीमवादीत् पश्य आर्य्यपुत्रस्य वयस्या मदभिन्नहृदयाः, अतः परमेतान् मदन्तःपुरं प्रवेष्टुं मा निवारय। एवमुक्त्वा नरवाहनदत्तं सम्बोध्य समभाषत

नाथ! स्त्रीणामन्तःपुरनिरोधनं कुनीतिर्मोहश्च। तासां चरित्रमेव तासांरक्षकं, तासां चापल्यं रक्षितुं देवता अपि न समर्थाः। विशेषेण च मत्ता योषित् स्रोतस्वत्याः स मा, कस्तस्या वेगं निषेद्धुं शक्नुयात्? अत्रैतां कथां कथयामि श्रूयताम्।

आसीत् समुद्रान्तर्वर्त्तिनि रत्नकूटाख्ये द्वीपे परमवैष्णवः कश्चित् राजा। स खलु सर्वां पृथ्वीं जेतुं सर्वांश्च राजकन्यकाः परिणेतुं भगवन्तं विष्णुमाराधयामास। कियता कालेन च समाराधितः प्रसन्नो देवः समागत्य अगादीत्वत्स! कश्चित् गन्धर्वः कुतश्चित् कारणात् मुनिनाभिशप्तः, श्वेतहस्तीभूत्वा कलिङ्गदेशे श्वेतरश्मिनाम्ना प्रसिद्धो वर्तते। स तु मत्प्रमादात् ज्ञानी आकाशचरो जातिस्मरश्च। अहं स्वप्ने तमादिशामि यथा स तव आकाशमार्गे वाहनो भवितेति। त्वं तस्य हस्तिनः पृष्ठमारुह्य आकाशयानेन यं नृपमाक्रमिष्यसि,स कन्यादानमिषेण तुभ्यं करं दास्यति। इत्थं समग्रमेदिन्यामधीश्वरः अशीत्यधिकसहस्रराजकन्यानां पतिश्च भवितासि।

इत्थं वरं दत्त्वा देवे तिरोहिते राजा तपसः समुत्थाय पारणादिकं विधाय परेऽहनि प्रत्यूषे समुपस्थितं श्वेतरश्मिमारुह्य क्रमेण सर्वां धरित्रीमजयत्, स पर्य्यणैषीच्च अशीत्यधिकसहस्रराजकन्याः। अथ ताः सर्वाः समानीय तस्मिन्नेव रत्नकूटे सुखेन कालं निमाय, भोजयामास च प्रत्यहं पञ्चशतब्राह्मणान् श्वेतरश्मेस्तुष्टिहेतोः।

कदाचित् हस्तिपृष्ठमारुह्य स्वमण्डलोपरि आकाशे

भ्रमत एव तस्य पक्षिराजोगरुड़श्चञ्च, पुटेन तं श्वेतहस्तिनं तथा आजघान, यथासौ वेगेन भूतले पतितो मूर्च्छितश्च। अथ राजनि त्वरितं पृष्ठादवतीर्णे करीन्द्रोऽसौ संज्ञां लेभे, परं पुनः पुनश्चेष्टमानोऽपि उत्थातुं नाशकत्। पञ्च दिवसान् निराहार एवातिष्ठत्। राजा च स्वयमपीड़ितोऽपि तत्पीड़यानितरां दुःखितः निराहारश्च विपदोऽस्याः ममुत्तरणार्थं लोकपालेभ्यो वलिमुपहर्त्तुं स्व मस्तकं खङ्गेन छेत्तुं प्रावर्तत। एतस्मिन्नन्तरे अन्तरीक्षचारिणी वाणी तमभ्यतोषयत् राजन्! मा साहसं कार्षीः, कयापि साध्व्या स्त्रिया हस्तिनः पृष्ठे मार्जिते एव असौ आरोग्यं लप्स्यते।

एतदाकर्ण्य राजा आत्मनः प्रधानां महिषीमाहूय हस्तिपृष्ठमार्जनार्थमादिदेश। सा च राजमहिषी भर्त्तरनुज्ञया हस्तिपृष्ठं मार्जितवती, परं हस्तीनोत्तस्थौ। क्रमेण सर्वासु पत्नीषु तथादिष्टासु हस्तिगात्रं मार्ज्जितवतीषु अपि हस्ती नारोग्यं लेभे। इत्थम् अन्यास्वपि नगरवासिनीषु निरस्तासु राजा अत्यर्थं दुःखितोऽभवत्। अत्रान्तरे ताम्रलिप्तनिवासी हर्षगुप्तो नाम वणिक् सस्त्रीकस्तस्मिन् नगरे समाजगाम। तस्मिंश्च एतद्वृत्तान्तं ज्ञात्वा राजसकाशमुपस्थित राजा तत्पत्नीं शीलवतीं नाम समादिशत्। तया च हस्तिगात्रे मार्जित एव असौ हस्ती स्वस्थः संवृत्तः, प्रवृत्तश्च भोक्तुम्। एतदवलोक्य सर्वे सविस्मयं शीलवतींप्रशंसन्ति स्म।

अथासौ नरपतिस्तौ वणिग्दम्पती प्रति परं परितुष्टस्ताभ्यां बहुतरमर्थं पुरस्कृत्य प्रासादसविधे वासमदात्।

सर्वांश्च राजमहिषोर्व्यभिचारिणोर्विज्ञाय तत्संसर्गरहितः केवलं ग्रासाच्छादनदानेन पुपोष। ततो नृपः शीलवतीमाहूय तत्पत्युः समक्षमब्रवीत् पतिव्रते! यदि ते पितृकुलेत्वादृशी साधुशीला कन्या वर्तते, तदा तया सह मत्परिणयं विधेहि। शीलवती प्रोवाच राजन्! अस्ति ताम्रलिप्ताख्ये नगरे राजदत्ता नाम मम भगिनी। सा अतिरूपवती सच्चरित्रा च। यदि रोचते तत्तां परिणेतुमर्हति देवः।

राजा तस्या वचसि सम्मतः ताभ्यां दम्पतीभ्यां सह श्वेतरश्मिमारुह्य नभसा तत्क्षणमेव प्रस्थितः ताम्रलिप्तनगरे हर्षगुप्तभवनमाससाद। अथ शीलवत्या भगिन्याः परिणयार्थमावेदितस्तत्पिता तथेति प्रतिज्ञाय शुभलग्नावधारणाय गणकान् आजुहाव। ते चागम्य उभयोर्जन्मनक्षत्रं निरूप्य गणनया प्रोचुः राजन्! मासत्रयात् परं लग्नं वर्त्तते, परमद्य यत् लग्नं दृश्यते तस्मिन् विवाहिता नैव साध्वी भविता, तदत्र यद् भवते रोचते इति।

राजा राजदत्ताया रूपेण विमोहितः गणकानां वचसि विरक्तः समचिन्तयत् विलम्बेनालम्, अद्यैव परिणयामि, शीलवत्या अनुजा न खलु निर्द्दया असतीभवितुमर्हति। समुद्रान्तः पुंवर्जिते क्षुद्रे द्वीपे हर्म्यमेकं निर्म्माप्य केवलाभिः स्त्रीभिः सह राजदत्तां रक्षिष्यामि। तदेवमस्या असतीत्वं नैव कदाचित् सम्भविष्यति। एवमवधार्य्य तस्मिन्नेव दिवसे राजदत्तायाः पाणिमग्रहीत्, प्रत्यागमच्च सस्त्रौकहर्षगुप्तेन नवबध्वा च समं हस्तिपृष्ठमारुह्य रत्न-

कूटद्वीपम्। अत्यवाहयञ्च राजदत्ता सम्भोगसुखेन तां रजनीम्। परेद्युश्च प्रत्यूषे हस्तिवाहनेन समुद्रान्तःपातिनि कस्मिंश्चित् पुरुषरहिते द्वीपे उपस्थाय एकामट्टालिकां निर्म्माप्यराजदत्तां तत्र कतिभिः स्त्रीभिः सहचरीभिः संरक्षितवान्। अविश्वस्तसर्वजनश्च प्रयोजनमनुसृत्य तेनैव हस्तिना स्वयमानीय सर्वाणि द्रव्याणि प्रदत्तवान्। रात्रौ राजदत्ताभवने सुखेन शयित्वा प्रातः रत्नकूटद्वीपे आगत्य राजकार्य्याणि दृष्टवांश्च।

कदाचित् अतिक्रान्तायां निशायां राजदत्ता दृष्टकुस्वप्नापत्युरशुभं चिन्तयन्तीउद्वेगशमनार्थं सुरामपिबत्। तेन चातिमत्ता कथमपि राजानं त्यक्तुं नैच्छत्। परं राजा कार्य्यानुरोधपरतन्त्रः प्रियतमानिषेधवाक्यमगणयित्वा रत्नकूटं प्रतीयाय। तत्र राजकार्य्यप्रवृत्तोऽपि प्रियाया असम्मत्यागमनेन विल्कवान्तःकरणः कथं तां विहाय आगममिति अन्वतपत्।

अत्रान्तरे परिचारिकासु स्वं स्वं कार्य्यमनुसृतासु मत्तामगम्यदेशवर्त्तिनोमेकाकिनींतां राजदत्तामाप कश्चित्परमरूपवांम् युवकः। राजदत्ता तमन्तिकागतं वीक्ष्याप्राक्षीत् कस्त्वं, कथं वा अगम्येऽस्मिन् प्रदेशे प्रागतः? सोऽवदत् अहमतीव हतभाग्यः, पितरि स्वर्गते ज्ञातिभिश्च मत्सर्वस्वे हृते अहमनन्यगतिर्दास्यमवलम्ब्यबहुकष्टेन किञ्चित् संस्थानं कृत्वा च वाणिज्यार्थं देशान्तरमगमम्। पथि तस्करा मे तदपि अपहृतवन्तः। ततश्च निःसम्बलः कतिपयैः समदशैः सहचरैः सार्द्धं भिक्षया अटन् रत्नाना-

माधारभूतं सुवर्णक्षेत्रं नाम स्थानमगच्छम्। तत्र च राजे यथानिर्दिष्टं राजकरमङ्गीकृत्य सर्वे आकरात् रत्नानिरुञ्चैतुं कृतसङ्कल्पाअभूम। संवत्सरं परिश्रम्यसर्वेऽपि किञ्चित् किञ्चित् रत्नमासेदुः, अहमेव केवलं निष्फले आसम्। तेनैव दुःखेन मयि प्राणान् व्यक्तुं सागरतटमागत्य अग्निप्रवेशाय समुद्योगं कुर्वति जीवदत्तो नाम कश्चित् समुद्रपोतवाही वणिक् मत्समीपमुपगम्य कृपया मां मरणव्यवसायात् निवार्य्य मासिकेन वेतनेन मां नीत्वा सुवर्णद्वीपमभिप्रययौ। पञ्चसु दिनेषु गतेषु सहसा अन्तरीक्षे मेवोदयात् वृष्टिः प्रबलवात्यया सह प्रादुरासीत्, तेनास्माकं तरणी जलमग्नाभूत्। अहमेकं काष्ठखण्डमवलम्ब्यसन्तरन् क्रमेण तीरमनुप्राप्तः समन्तात् दृष्टिं निक्षिपन् वनाभ्यन्तरे हर्म्म्यमिदं व्यलोकयम्। क्रमेण च सन्निहितः प्रविश्य भवत्या नयनपथे निपतितोऽस्मि, एषतावन्मम वृत्तान्तः।

यत्न स्त्री, पुमान्, विजनता, मत्तता, अवरुद्धता चेति पञ्चाग्नयः सन्ति तत्र सुचरित कियन्तं कालमदग्धं तिष्ठति? सा राजदत्ता तस्य पुंसस्तं वृत्तान्तमाकर्ण्य तत्क्षणं कामयाञ्चक्रे, सम्बुभुजे च तेन रतिरसम्। अस्मिन्नेवावसरे राजा समुद्विग्नचेतास्तत्समीपमुपययौ, ददर्श च शय्यागृहे तेन पुरुषेण सह शयानां राजदत्ताम्। दृष्ट्वैव च क्रोधान्धो यावत् निष्कोषेण असिना तं दुराचारं हन्तुमुदयच्छति स्म तावत् स आगन्तुकः नृपतिमाततायिनं दृष्ट्वा शरणमगमत्। राजा तथागतं तं दृष्ट्वा सहसा तद्विनाशात्

निवृत्त्यराजदत्तां भयविह्वलामेवमालक्ष्य व्यचिन्तयत् मद्यपानासक्तायाः स्त्रियाः सतोत्वं क्व? चपला स्त्रीजातिरवरुध्यापि नैव रक्षितुं शक्यते। भवतु, गणकानां कथाद्य सप्रमाणा, आप्तवचसि अवहेलिते अवश्यमेव क्लेशः प्राप्यते? कोऽतिवर्तते दैवम्। राजा एवमालोच्य कथञ्चित् शान्तक्रोध आसीत्। आगन्तोश्च सर्वं वृत्तान्तं श्रुत्वा तममोचयत्। सोऽपि निरुपायतया पुनः समुद्रतटमेत्य काष्ठखण्डमेकं प्राप्य जले निपपात, चकार चोचैश्चीत्कारं मां जीवयेति।

अस्मिन्नेवावसरे दैवचोदित इव क्रोधवर्म्मा नाम समुद्रवणिक् तत्र प्रवहन् चीत्कारं श्रुत्वैव कृपया तं स्वं पोतमनयत्। यस्य हस्ते यस्य मृत्युर्विधिना निरूपितः, कस्तं खण्डयितुं शक्नोति, स खलु दुर्भगः पुमान् ज्ञात्वा श्रुत्वापि तस्मिन् स्वसंहारके कर्म्मणि प्रवर्तते। स समुद्धृतः पुरुषः जीवनप्रदस्य क्रोधवर्म्मण एव स्त्रिया सङ्गतः कोपात्तेन समुद्रं प्रक्षिप्तः पञ्चतां प्राप।

अथ नृपतिः सपरिजनः श्वेतरश्मिमारुह्य रत्नकूटमागत्य राजदत्तां शीलवत्यै समर्प्य सर्वसमक्षं तद्वृत्तान्तमाख्याय च प्राब्रवीत् अहम् असारेऽस्मिन् परिणामविरसे भोगमुखे व्यासक्तः सन्तापस्य परां काष्ठामध्यगच्छम्। तस्मादिदानीं वनं गत्वा हरिं शरणं वजामि, पुनरीदृशे दुःखतरङ्गे संसारवारांनिधौ नैव निमज्जामीत्युक्त्वाविरराम। मन्त्रिभिः शीलवत्या च सम्यक् बोधितोऽपि नाध्यवसायाच्चचाल। ततो धनागारं गत्वा अर्द्धसम्पतिं शील-

वत्यै, अपनार्द्धञ्च ब्राह्मणेभ्यः समर्प्य पापभञ्जनं नाम द्विजंराज्यरक्षणे नियुज्य च तपोवनगमनोत्सुकः श्वेतहस्तिनमानिनाय। आश्चर्य्यम्! स किल हस्तीआनीत एव चतुष्पदरूपं परित्यज्य केयूरशोभितं दिव्यं गान्धर्वं वपुः समाससाद।

तदवलोक्य विस्मिते राजनि परिचयं पृष्टवति, सोऽब्रवीत् देव! आवामुभौ मलयगिरिवासिनी सोदरौ, अहं सोमप्रभो नाम, भवान् देवप्रभः। राजवती नाम भवतः या प्रेयसी भार्य्यासीत्, तामुत्सङ्गे कृत्वा मया सहैकदा सिद्धवासं नाम स्थानं गतवानसि। तत्र भगवन्तमाराध्य अस्मासु मिलित्वा देवसमक्षं प्रारब्धसङ्गीतेषु सहसा कश्चित्सिद्धपुरुषस्तत्रागत्य निर्निमेषं राजवतीं पश्यति स्म। तदवलोक्य ईर्ष्यापरे भवति क्रोधेन तं तिरस्कुर्वति स सिद्धपुरुषः त्वां क्रोधेनाभिशशाप रे मूढ़! अहं सङ्गीतं प्रति समुत्सुकस्तव पत्नीं दृष्टवानस्मि न कामतः, तद् यथा त्वं मम अमदभिसन्धिं मनसि कृत्वा मां विना दोषेण अवमतमकरोः, तथा त्वमीर्ष्यापर एव सस्त्रीको भूतले जनिष्यसे, भार्य्याञ्चेमामन्यासक्तां द्रक्ष्यसि।

एवमुक्त्वा तस्मिन् सिद्धे विरते अहं बालचापल्यात् क्रुद्धः सन् हस्तस्थेन मृण्मयेन श्वेतहस्तिना तमाहतवान्। आहतश्च स मां प्रति कोपात् शशाप यस्त्वं मृण्मयेन हस्तिना मामकारणम् आहतवानसि, तस्मात्त्वं भूतले श्वेतहस्ती भूत्वा जन्म ग्रहीष्यसि। एवमुक्त्वातस्मिन् विरतेभवान् सभयं सविनयञ्च तं सिद्धमन्वनैषीः, तेन च स कृपा-

लुरेवं शापान्तमकरोत् यथा त्वं देवानुग्रहेण द्वीपाधिपतिर्भूत्वा अशीत्यधिकसहस्ररमणीनां पतिर्भवितासि, ततश्च लोकेषु तासामसतीत्वे प्रकटिते पुनरिमां स्त्रियमुद्वक्ष्यसि, अनन्तरं यदा अस्या अपि असतीत्वे प्रकटिते वैराग्यात्राज्यं परिहाय वनं गन्तुं यतिष्यसे, तदा ते सोदरोऽयं गजरूपं परित्यज्य दिव्यं रूपमवाप्स्यति, तदनन्तरञ्च त्वमपि सभार्य्याया शापमुक्तो भविष्यसीति, देव! आवयोरीदृशः शाप आसीत्, अद्य सोऽतिक्रान्तः।

अथ रत्नकूटाधिपतिः भ्रातृमुखात् सर्वं श्रुत्वा पूर्वां जातिं स्मरन्नब्रवीत् हा कष्टम्! अद्य स्मृतम्, अहमेव स देवप्रभः, इयञ्च राजदत्ता मम पूर्वजाया राजवती, एवमुक्त्वाभार्य्याया सह नरकलेवरं त्यक्त्वा सर्वसमक्षं गान्धर्वेण रूपेण आकाशमुत्पतन् मलयाचलमगात्। असौशीलवतीच चारित्रप्रभावेण अतुलां सम्पदमधिगम्य ताम्रलिप्ते नगरे सुखेनावात्सीत्। हेमप्रभा कथामिमां समाप्य पुनरभाषत नाथ! न कोऽपि त्रिलोकीतले बलेन स्त्रियं रक्षितुमीष्टे, एक एव तस्या विशुद्धः स्वभावस्तां रक्षति, तस्मादीर्ष्येव मनुष्यस्य दुःखनिदानं सा रक्षितुमसमर्थैव प्रत्युत अन्यं प्रति औत्सुक्यं वर्द्धयतितराम्। एतदाकर्ण्य युवराजोनरवाहनदत्तः परां तुष्टिमवाप।

सप्तत्रिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721361934023.png"/>

अथ गोमुखोऽब्रवीत् युवराज! साधुशीलाः स्त्रियोऽतिविरला इत्यव्यभिचारि, अपरा स्वभावचपला अविश्वासिन्यश्च, अत्र कथामेतां कथयामि श्रूयताम्।

उज्जयिन्यां नगर्य्यां निश्चयदत्तो नाम कश्चित् वणिक्तनयः प्रतिवसति स्म। स खलु द्यूतेन बहूनि धनान्यर्जयित्वा सिप्रायां तरङ्गिण्यां स्नात्वा भगवन्तं महाकालेश्वरम्अर्च्चयित्वा ब्राह्मणेभ्यः दीनेभ्यः अनाथेभ्यश्चधनानि दत्त्वा च स्वयमङ्गरागम् आहारञ्चाकरोत्। अनन्तरः महाकालसन्निहिते श्मशानवर्त्तिनि शिलामये स्तम्भे विलेपनद्रव्यं संरक्ष्य तेन पृष्ठं घर्षति स्म। तेन बहुदिनमेवं कृते स्तम्भोऽयं मसृणतां प्राप। कदाचित् कश्चित् चित्रकरः केनचित् रूपकारेण सह तेन पथा गच्छन् तस्मिन् स्तम्भे गौरीमूर्त्तिमङ्कयित्वा प्रचचाल।

अथैकदा काचित् विद्याधरकन्या भगवन्तं महाकालमाराधयितुं तत्रोपस्थाय तां गौरीमूर्त्तिं दृष्ट्वा अभ्यर्च्य च विश्रामार्थं तस्य स्तम्भस्य अभ्यन्तरं प्राविशत्। क्षणान्तरे स निश्चयदत्तस्तत्रागत्य स्तम्भपृष्ठे गौरीमूर्त्ति विलोक्य विस्मितः पूर्ववत् तदेकदेशे चन्दनादिकं संरक्ष्य पृष्ठघर्षणे प्रववृते। सा तु विद्याधरकुमारी अभ्यन्तरात् निश्चयदत्तस्य मोहनरूपेण विमोहिता प्रेम्णा बाहुं प्रसार्य्यतत्पृष्ठे चन्दनं विलेपितुमारभे। निश्चयदत्तेन सहसा कङ्कणध्वनिं

श्रुत्वा करस्पर्शसुखञ्चानुभूय तस्या हस्ते धृते सा स्तम्भमध्यादुवाच भद्र! किन्तेऽपकृतं मया, यन्ममहस्तं धृतवानसि, तत् सत्वरं मुञ्चतु भवानिति। निश्चयदत्तोऽवदत्का त्वम् अग्रतः परिचयं देहि, ततस्ते हस्तं त्यक्ष्यामि। विद्याधरी प्रत्यभाषत अग्रतः मुञ्च मां, ततः सन्मुखीना परिचयं ददामि। अथ निश्चयदत्तेन हस्ते मुक्ते विद्याधरीसन्मुखवर्तिनीउपविश्याब्रवीत् भद्र! अस्ति हिमाचलान्तर्वर्तिनि पुष्करावतीनगरे विन्ध्यसरो नाम विद्याधरः। अहमस्मि तस्याकन्या अनुरागपरा नाम। मयि भगवदाराधनार्थमागत्य अत्र विश्रमितुमुपस्थितायां भवान्पृष्ठविलेपनाय प्रवृत्तः, पतिता चाहं भवद्दर्शनपथे। अद्भुतःखलु भगवतः कुसुमायुधस्य प्रभावः, येन दृष्ट एव भवति हृदयं मे तथानुरञ्जितं यथा पृष्ठवर्षणप्रवृत्तस्य तव पृष्ठे स्वेन हस्तेन चन्दनं विलेपितुं प्रवृत्तास्मि, अनुरागपरतन्त्रया मया आत्मा स्वयमग्रतः धारितः, तेनैव त्वं मे करं धृतवान्। तदिदानीं मां विसर्जय, अहं गच्छामि। एवमुक्त्वातस्यां गन्तुमुद्यतायां निश्चयदत्तः तदीयं मनोहरं रूपं वीक्ष्य अवादीत्सुन्दरि! अहं ते हृदयं हृतवानिति त्वया स्वयमेव कथितं, तत् साम्प्रतम् अमुक्ता त्वं कथं गन्तुं शक्नुयाः, तस्य तत् वचनमाकर्ण्य सा विद्याधरसुता अतीवानुरक्ता तं पुष्करावतीनगरे गमनाय आश्वास्य अनुरुध्य च प्रस्थानमकरोत्।

अथ निश्चयदत्तस्तस्या विद्याधर्य्याश्चिन्तया त्यक्तान्यकार्य्यः कथञ्चित् गृहं गत्वा तं दिवसमतिक्लेशेन यापया-

मास। ततः परेऽहनि प्रत्यूष एवं उदमुखः पथि गच्छन्उत्तरापथयायिनः कतिपयान् सार्थान् प्राप। क्रमेण बहूनि नगराणि ग्रामान् वनानि नदान् नदीश्च उत्तीर्य म्लेच्छबहुलामुत्तरभूमिमाससाद। तत्र ते सार्था निश्चयदत्तेन सह प्राणसंशयमापन्नाः। निश्चयदत्तस्तु तदा निरुपायः एकाग्रया भक्त्या भगवतीं भवानीं तथा तुष्टाव यथा सा तुष्टा तान् तेभ्यो दस्युभूतेभ्यो म्लेच्छेभ्यः मोचयामास। ततः सर्वेषु बहुतरमध्वानमतिक्रम्य म्लेच्छदेशमतिक्रान्तेषु सङ्गिनस्तेततो दक्षिणापथं प्रतस्थिरे। निश्चयदत्तः केवलमेकाकी अपि अनुरागपराया अनुरागमात्रसहायः उत्तराभिमुख एव प्रातिष्ठत। पथि गच्छंश्चचतुर्भिर्यतिभिः सह मिलितोवितस्तां नदीमतिवाह्य आहारादिकमकरोत्। ततश्च कृताहारास्ते अपराह्णसमये तस्मात् प्रदेशादुत्थाय सायं कस्मिंश्चिद् विपिने प्रविष्टाः कियन्तमध्वानं गच्छन्तः कतिपयैः काष्ठभारिकैः सह समगच्छन्। ते ऊचुः भद्राः! अतः परमग्रसरा मा भूत, ग्रामो न सन्निहितः, वने चास्मिन् य एकःशिवालयोऽस्ति तदतीव भीषणं स्थानम्। यः खलु तस्मिन् मन्दिरे वा तद्वहिः तिष्ठति, तस्य जीवनाशा वृथा। तत्र शृङ्गोत्पादिनी नाम कापि यक्षी प्रतिवसति, सा शृङ्गोत्पादनमन्त्रेण मनुष्यान् मुग्धान्पशुवत् कृत्वा भक्षयति। तदिदानीं यद् भवद्भ्यो रोचते इति उक्त्वाते स्वस्थानं प्रस्थिताः।

अथ सन्यासिनस्तेषां वचोऽविगणय्य निश्चयदत्तमब्रुवन्मित्र! वयं पञ्च, सा पुनर्यक्षी एकाकिनी, किमस्माकं

करिष्यति, वयं कतिषु कतिषु भीषणेषु श्मशानेषु अपि अवसाम। एवमुक्त्वा तेषु शिवालयमभिप्रस्थितेषु निश्चयदत्तोऽपि तैः सह तत् शिवमन्दिरमुपययौ। तत्र च सर्वे अङ्गेषु भस्मानि विलिप्य अग्निं प्रज्वाल्य आत्मरक्षार्थं मन्त्रं जपितुमारेभिरे। क्रमेण निशीथे समुपस्थितेसा शृङ्गोत्पादिनो कङ्कालमयवेणुं वादयन्ती नृत्यन्ती च तत्रोपतस्थे। ततश्च तेषामेकं सन्न्यासिनं प्रति दृष्टिं निक्षिप्य स्वं मन्त्रं पठितुमुपचक्रमे। मन्त्रप्रभावेण च तस्य सन्न्यासिनः शृङ्गमुत्तस्थौ। स तु उत्थितशृङ्ग एव मोहितो नृत्यन् तस्मिन्अग्निकुण्डे निपपात। अग्नावर्द्धदग्धञ्च तं सा यक्षीतस्मात्समाकृष्य सहर्षं भक्षयितुमारब्धवतो। क्रमेण एकैकशस्त्रयोऽपि सन्न्यासिनो भक्षिताः। चतुर्थस्य सन्न्यासिनो भक्षणावसरे तस्यां स्वं वेणुयन्त्रं भूमौ संरक्ष्य भक्षयितुं प्रवृत्तायां निश्चयदत्तः समुत्पत्य तं वेणुयन्त्रं गृहीत्वा सनृत्यहासं वादयितुं प्रववृते। सा तु यक्षी वेणुविरहेण जड़मतिर्मृतेव सविनय निश्चयदत्तमवादीत् साहसिन्! अहमबला स्वभावतश्च भीरुः। तन्मां मा विनाशय। इदानीमहं त्वां शरणं गता, भवान् मन्त्रं मा पठतु, रक्षिता अहं भवन्तमधुनैव अनुरागपरान्तिकं नेष्यामि, करिष्यामि च भवतोऽभीष्टसिद्धिम्।

एवमुक्त्वाविरतायां तस्यां निश्चयदत्तस्तद्वचसि विश्वस्तः वेणुवादनात् निवृत्तः। ततश्च सा निश्चयदत्तं स्कन्धमारोप्य आकाशयानेन अनुरागपरासाकाशं प्रस्थिता। गत्वा च बहुतरं दूरं प्रभातायां शर्वर्य्यां कस्मिंश्चित् पर्वत-

कानने उपस्थाय निश्चयदत्तमवादीत् भद्र! उदितं कमलिनीक्रान्ते अस्माकम् आकाशसञ्चरणसामर्थ्यं नश्यति, तद् भवानस्मिन् सुखादं फलं मूलञ्च भक्षयित्वा निर्भरवारि च पीत्वा दिनमतिवाहयतु। अहमपि स्वस्थानं व्रजामि, रजन्यामागतायां पुनरागत्य अनुरागपरासमीपं नेष्यामि। एवमभिधाय तदनुमता स्वं स्थानं प्रतस्थौ।

अथैकाकी निश्चयदत्तः समन्तात् निक्षिप्तदृष्टिः समीपवर्त्ति सरोवरमेकं दृष्ट्वातदन्तिकमाजगाम। अघ्रायैव तद्वारि सविषं वहिः स्वच्छशीतलमनुमाय पिपासार्त्तोऽपि तज्जलपानविरतश्चचाल। गच्छश्च अधित्यकायामारुह्य अद्राक्षीत् कश्चित् मर्कटो भूतलनिखातो वर्तते, परं तस्य चक्षुषो ज्वलितेइव राजेते दृष्ट्वैव विस्मयात् दण्डायमानं तमसौ मर्कटो मनुष्यवाचाब्रवीत् भद्र! अहं मानवः, ब्राह्मणश्च, विधेःप्रतिकूलतया अस्यामवस्थायां निपतितोऽस्मि, यदि कृपया मामुद्धरसि, तदा स्वं वत्तान्तमाख्याय कौतूहलं निवारयामि।

कपिमुखात् तादृशं मनुष्यवचस्तमतीव विस्मिततरमकरोत्। स खलु निश्चयदत्तस्तत्क्षणं तं भूमध्यात् उद्धधार। स तु उद्धृत एव उद्धर्तुः पदतले निपतितः समभाषत भद्र! लब्धजीवितोऽस्मि भवत्प्रसादात्, भवन्तमिदानीं परिश्रान्तं पश्यामि, तन्मया सहागम्य परिश्रममपनयतु भवान्। भवत्प्रसादात् अद्य अहमपि पारणं करवानि। एवमुक्त्वानिश्चयदत्तं कस्मिंश्चित् नदीतटे नीत्वा तत्रत्याच्च वृक्षात् नानाविधानि स्वादूनि फलानि आज-

हार। अथोभौ तानि फलानि भक्षयित्वा स्त्रोतस्वत्याश्च सुशीतलं पानीयं पीत्वा स्वस्थौ संवृत्तौ। क्षणान्तरे विश्रान्तेन निश्चयदत्तेन पृष्टः कपिः स्वं वृत्तान्तमवर्णयत्।

अहमासं वाराणसीनिवासी ब्राह्मणः सोमस्वामी नाम। पिता मम चन्द्रस्वामी, माता च सुवृत्ता नाम। क्रमेणाहमतिक्रान्तशैशवः सुदुर्द्दमं यौवनमनुप्राप्य नगरवासिनः कस्यचित् वणिजः कन्यायां बन्धुदत्ताभिधानायामासक्तः। सा हि मथुरावासिनः वराहदत्तनाम्नः कस्यचिद्वणिजो भार्य्यापि अविवाहात् पितुरालये एवातिष्ठत्। कियन्तं कालं तया सहैवं प्रणये चलिते तत्स्वामी तां नेतुं समाजगाम। तत्पित्रोर्जामातुरभ्यर्थनायां साह्लादं सम्मतयोः सा बन्धुदत्ता आत्मनः सर्वनाशमिव मन्यमाना रहसि विश्वस्तां सखीमाहूय समब्रवीत् सखि! पतिर्मां निश्चितमितो नेष्यति, परमहं सोमस्वामिनं विना न जीविष्यामि, कात्र गतिः?

एवमुक्त्वाअतिव्याकुलां तामवादीत् सुयशा नाम सा सखी, बन्धुदत्ते! मा उद्वेगं कृथाः, मम सन्निधौ मन्त्रद्वयं वर्तते, तयोरेकं पठित्वा कण्ठे सूत्र बद्धे मनुष्यो वानरो भवति, द्वितीयं पठित्वा तस्मात् सूत्रे निष्कासिते असौ वानरो नरो भवति। तस्य च मानववानरस्य बुद्धिवृत्तिर्नान्यथा भवेत्। यदि रोचते, तत् तव प्रियतमं मर्कटशिशुं विधाय स्वच्छन्दं श्वशुरालयं गच्छ। इदानीं मन्त्रद्वयं शिक्षस्व, तथा कृते ते प्रियसम्भोगो न कदाचित्व्याहन्येत।

बन्धुदत्ता सख्या उपदेशेन परमप्रीता तथेति सममंस्त। अनन्तरं रहसि समाहूय तथा प्रबोधिते अहमपि सम्मतिमकार्षम्। ततश्च सुखयशसो मन्त्रेण गलबद्धसूत्र एवाहं मर्कटोऽभूवम्। अनन्तरं सा मां पतिसमीपं नीत्वा अवादीत् नाथ! सखी मे मर्कटशिशुमिमं प्रदत्तवती, तदहमिमं नीत्वा त्वया सह यास्यामि। इत्यमाग्रहेणानुरुद्धोऽसौ सरलमतिर्वराहदत्तः सानन्दस्तथाभ्यनुजज्ञे। अहं पूर्ववत् बुद्धिवाक्शक्तिसम्पन्न एव मर्कटरूपेणातिष्ठम्। अहसञ्च मनसि स्त्रीचरित्रमद्भुतमहिमेति समालोचयन्। व्यभावयञ्च कामुकानामीदृशी विड़म्बना प्रायेण घटते इति।

अथ निरूपिते दिवसे बन्धुदत्ता पत्या सह मथुरां प्रस्थिता। वराहदत्तस्तु मां कस्यचित् भृत्यस्य स्कन्धमारोपयामास। क्रमेण दिवसत्रये समतिक्रान्ते वयं वानरपूर्णमेकं काननमविशाम। प्रविष्टञ्च मां मानवस्कन्धारूढं दृष्ट्वा ते वानरा दलबद्धा अस्मान् प्रति अधावन्, अकुर्वंश्च समीपमेत्य मद्वाहनं भृत्यं नखरैः क्षतविक्षताङ्गम्। भृत्यश्चतथा विल्कवे मां परित्यज्य पलायितः। ततस्तेषु मां गृहीतवत्सुबन्धुदत्तामतिकातरां विलोक्य तत्पतिर्मां तेभ्यः समाच्छेत्तुं सवर्गः सत्वरमाक्रमन् वानरान् प्रति घोरतरमाघातं कृतवान्। परं कथमपि तान् पराजितुमशक्नुवन् अगत्यामां विहाय गन्तुं प्रावर्तत।

अथ वानरा लोमान्युत्पाट्य मां व्यतिव्यस्तमकार्षुः। अहमगतिः कियन्तं कालं मृतवदवस्थाय देवदेवं स्मरन्

सबलः संवृत्तः परित्राणमलभे च तस्मात् पलाय्य एकं निविड़ंवनमाश्रित्य। क्रमेण बहूनि वनान्यतीत्य अस्मिन्उपस्थितोऽपि दुर्दैववशात् अपरां घोरामापदं प्राप्तवानस्मि। एकदा वर्षासु काचित् हस्तिनी सहसा समुपेत्य मां शुण्डेन गृहीत्वा अत्र वल्मीककर्दमे निधाय प्रस्थिता। अहं तस्मात्कर्दमात् उत्थातुं चेष्टमानोऽपि यदा नाशकं तदा अनुमितं सा करिणीन, कापि देवता तथाभूता मामीदृशीं दशां नेतुमागतेति। अहन्तु तत्र पतितो निरन्तरं भगवन्तं शम्भुं चिन्तयन्नजीविषं, मम तु क्षुधा तृषा च तदानीं नासीत्। एतावन्तं कालं विनाहारमतिष्ठं, तथापि मम बलहानिर्नासीत्। यद् भवतु, ममेदानींमर्कटत्वमुक्तेरयमेकोऽभ्युपायोऽस्ति, यदि कदाचित् कापि योगिनी तं मन्त्रं पठित्वा मत्कण्ठात् सूत्रं मोचयेत् तदाहं पुनर्मनुष्यत्वं लभेयम्। एष मम वृत्तान्तः भवतस्तावदस्मिन् दुर्गमे वने समागमनकारणं श्रोतुमिच्छामि।

अथ निश्चयदत्तेन स्ववृत्तान्तमावेदितः कपिरूपी सोमस्वामी प्रत्यभाषत भद्र! अहमिव भवानपि स्त्रियाः कृतेक्लेशमिमं भुङ्क्ते, वयस्य! स्त्रियः श्रियश्च कदाचित्न सुस्थिराः, अपरं स्त्री सन्ध्येव क्षणरागिणी, नदीव कुटिला या, भुजङ्गीव अविश्वासिनी, सौदामिनीव चपला च। तस्मात् सा विद्याधरदारिका यत् भवन्तं प्रति अनुरागं दर्शितवती, तदपि क्षणिकमवधारयतु। सा स्वाभिमतं सजातिं नायकं प्राप्यैव त्वदनुरागं तत्क्षणमेव त्वक्ष्यति। मित्र ! परिणामविरसोऽयं व्यापारः। तदस्मा-

दध्यवसायाद् विरम्य यक्ष्याः स्कन्धमारुह्य उज्जयिनीमेव प्रत्यागच्छ। मद्वाक्यमगणयित्वा नैव तत्र गन्तव्यं गर्तेन च ध्रुवं विप्रलम्भोलप्स्यते। अहमपि प्रथमं सुहृद्वचोऽविमणय्य इदानीमनुतपामि। हरिशर्म्मा नाम मम प्रियसुहृद्मां बन्धुदत्तासक्तां विज्ञाय निषिध्याब्रवीत् मित्र! स्त्रिया वंशगो मा भूः, स्त्रिया अन्तःकरणमतिदुर्बोधम्। एतदुक्त्वा बहून् दृष्टान्तानदर्शयत्।

तनैव प्रबोधितोऽपि तद्वाक्यमश्रुत्वा एवमवस्थां प्राप्तोऽस्मि। तद्भवानपि अनुरागपरानुरागं विजहातु। स्त्रीजातिनित्यंनवं नवं प्रार्थयते। तस्मात् ममेव तवापि शेषदशा पतिष्यति। कपेस्तत् वचनं निश्चयदत्तस्य मनसि तदा न स्थानमलभत। सोऽवदत् वयस्य! सा विद्याधरी विशुद्धे कुले जाता नैव मदनुरागं विस्मरिष्यति। एवमालपतोस्तयी रविरस्ताचलमगमत्।

सन्ध्यायामतिक्रान्तायाम् उपस्थितां यक्षीमालोक्य निश्चयदत्तः सोमस्वामिनमापृच्छ्य तस्याः स्कन्धमारुरोह। सा तु वेगेन गत्वा निशीथे पुष्करावतीं नगरीमाससाद। अनुरागपरा च योगेन प्रियतमागमनं विज्ञाय तं प्रत्युद्जगाम। यक्षी अग्रत एव तामागतां समीक्ष्य अवादीत्असौ तव कान्ता समायाति, अधुनाहं व्रजामि, एवमुक्त्वा तमवरोप्य स्वस्थानमगात्। अनुरागपरा प्रियतमागमनेन पुलकिता तमालिङ्ग्य गान्धर्वेण विधिना पतिमकरोत्। पितरौ मा द्राष्टामिति कौशलेन विद्याबलात् उद्यानवाटिकां निर्म्माय तत्र तेन पत्या समं सुखेनावात्सीत्।

अथ निश्चयदत्तेन अध्वक्लेशे आवेदिते अनुरागपरा तं यथोचितं सिसेवे। ततश्चैकदा सोमस्वामिनो मर्कटत्वमोचनाय तद्वृत्तान्ते विज्ञापिते साब्रवीत् तादृशं कार्य्यंनास्मदीयं, योगिन्य एव मन्त्रेण तत् साधयितुमर्हन्ति। तदपि तव प्रियमिति यथाशक्ति यतिष्ये तस्य मर्कटत्वमोचनाय। भद्ररूपा नाम अस्ति काचित् सिद्धयोगिनी, तया सह मे अतीव सौहार्दं वर्तते, तेनैव द्वारेणाहं त्वमित्रस्य कपित्वं मोचयिष्यामि। एतदाकर्ण्य अतीव सन्तुष्टेन निश्चयदत्तेन सोमस्वामिसकाशं गमनार्थमनुरुद्धा सा तत्क्षणमेव सममंस्त। आससाद च परेद्यवि प्रियतमं क्रोड़े कृत्वा विद्याप्रभावेण सोमस्वामिसकाशम्।

सोमवामी निश्चयदत्तम् अनुरागपरया सहोपस्थिं दृष्ट्वा अभिनन्द्य च आशिषा आसनपरिग्रहार्थमनुरुरोध। अनन्तरमुभौ प्रणम्य तं शिलातले समुपविश्य कुशल वार्त्तां पृष्ट्वाकपित्वमोचनाय समाश्वास्य च स्वं स्थानं प्रत्ययासीत्। अथापरेद्युरपि निश्चयदत्तः पुनः सोमस्वामिसकाशगमनाय प्रियामनुरुरोध, परं सा तदसम्मता तस्मै आकाशसञ्चारणविद्यां दत्त्वा तमेव स्वयं गन्तुमचोदयत्। निश्चयदत्तोऽपि लब्धविद्याप्रभावेण आकाशसञ्चरणक्षमः सत्वरं कपिसकाशं तथैवोपस्थाय बहुभिः कथाप्रसङ्गैस्तमनन्दयत्।

अत्रान्तरे अनुरागपरायां नगरात् वहिर्गम्य उद्यानं प्रविश्य चोपविष्टायां कश्चिद् विद्याधरयुवकः अन्तरीक्षेण सञ्चरन् तत्र समाययौ। विवेद व विद्याप्रभावेण तां दृष्ट्वैव मनुष्यासक्ताम्। अथ सानुरागपरा तमागतं स्वावलोकनेन

मदनवाणजर्ज्जरितं वीक्ष्य अवनतमुखी मृदुमधुरमपृच्छत्कस्त्वम्? विद्याधरकुमारोऽवदत् भद्रे! अहं विद्याधरो रागरञ्जनो नाम। अहं तां दृष्ट्वैव सहसा मदनशरविद्धः समभवं, समर्पयञ्चात्मानं त्वयि अपश्यन्नन्योपायम्। यदि रोचते, तत् पित्रोरजानतीरेव मनुष्यपतिं विहाय मां पतित्वेन वृणुष्व। एवमुक्त्वातस्मिन् विरतेअनुरागपरा तमेव योग्यं पतिं विचिन्त्य तं प्रति साभिलाषं दृष्टिमदात्। स च तेनैव बोधितस्तां गाढ़माश्लिष्य प्रतस्थे।

अथ निश्रयदत्ते सोमस्वामिसकाशात् प्रत्यागते सा शिरोवेदनाव्याजेन तमालिङ्गनादिना पूर्ववत् नाभ्यनन्दत। सरलमतिर्निश्चयदत्तस्तत् सत्यं ज्ञात्वा तं दिवसमतिक्लेशेन अतिवाहयाञ्चकार। परेद्यवि तथैव सोमस्वामिसकाशमभ्येत्य सविषादमुपविष्टं तं सोमस्वामी कारणं पर्य्यपृच्छत्। निश्चयदत्तेन तु तस्याः शिरोवेदनैव विषादकारणमित्युक्ते ज्ञानी मर्कटः सस्मितमवादीत् मित्र! सर्वंज्ञात, यदीदानीं त्वं सत्वरं गत्वा निद्रितां तामनुरागपरामुत्सङ्गं नीत्वा मत्सकाशमानेतुं शक्नुयाः, तदा त्वामेकमद्भुतं दर्शयामि।

एतदाकर्ण्य निश्चयदत्तस्तथेति सम्मतिमकरोत्। अत्रावसरे स विद्याधरयुवा अनुरागपरान्तिकमुपगम्य तथा सहस्रविशेषं सम्भोगसुखमुपभुज्य निद्रामयासीत्। सापि तिरस्करिण्या विद्यायाः प्रभावात् तयुत्सङ्गेनाच्छाद्य स्वयं निद्रामभजत।

अथ निश्चयदत्तः सत्वरं नभसा समुत्पत्य अनुरागपरा

गृहमभ्येत्य च तां निद्रितामपश्यत्। दृष्ट्वैव च क्रोड़ेन गृहीत्वा पुनः समुत्पत्य सोमस्वामिसकाशमियाय। उपस्थितञ्च तं दिव्यज्ञानसम्पन्नः सोमस्वामी योगप्रभावेण दिव्यचक्षुषमकार्षीत्। स च लब्धदिव्यदृष्टिरनुरागपराया उत्सङ्गे स्थितं विद्याधरयुवानं दृष्ट्वा विसिस्मिये। तञ्च धिङ्मामिति वादिनं निश्चयदत्तं कपिरूपी असौ ज्ञानीयथार्थतत्त्वमबोधयत्।

अथ निश्चयदत्ते नितरां कुपिते असौ विद्याधरः योगबलेन आकाशमुत्पतन् तिरोदधे। अथानुरागपरां जागरितां सलज्जमधोमुखीं निर्भर्त्सयन्नाह पापिनि! त्वं विश्वस्तं वञ्चयसि? विदितमद्य अतिचपलं स्त्रीहृदयं, माया च तस्या मनुष्यबुद्धेरगम्या। एवमुक्त्वानिर्भत्सिता सा निरुत्तरैव रुदती अन्तर्दधे।

अनन्तरं मर्कटः प्राह वयस्य! मद्वचः अनादृत्य यदनुरागपरामनुसृतवानसि, तस्यैतत् फलमनुतापं सहस्व। सम्पदः स्त्रियश्चातिचञ्चलाः, ताः प्रति क्षणमपि न विश्वसितव्यम्। तदलमनुतापेन, शाम्येदानीम्। कोऽतिक्रामति दैवम्? एवं प्रबोधितो निश्चयदत्तः शोकं मोहञ्च त्यक्त्वा सवैराग्यं देवदेवं शरणं ययौ। स च मर्कटस्तेनैव सह तत्राध्युवास।

गच्छति च काले कामपि तापसीं यदृच्छया तस्मिन् वने प्रविष्टामालोक्य निश्चयदत्तः सप्रणामं तदन्तिकमेत्य दण्डायमानोऽतिष्ठत्। तापसीअप्राक्षीत् भद्र! अस्मिन् भीषणे विपिने मर्कटेन सह तव मैत्री कथं जाता? निश्चयदत्तः

प्रथमं स्ववृत्तान्तं ततश्च मित्रवृत्तान्तमाख्याय मित्रं वानरत्वात् मोचयितुमनुरुरोध। सर्वज्ञासौतापसी तथेति यावत्समन्त्रं मर्कटकण्ठात् सूत्रं मोचयति, तावत् स सोमस्वामी वानररूपं विहाय त्वं रूपं दधार। योगिनी च क्षणप्रभेव तत्क्षणमन्तर्हिता।

अथ निश्चयदत्तः सोमस्वामी च तत्र वने तपसा देवं समाराध्य त्रिदिवमापतुः। नरवाहनदत्तोऽपि स्त्रीचापलविषयिणीं कथामिमामाकर्ण्य परितोषं लेभे।

_______

अष्टत्रिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721368736270.png"/>

अथ मरुभूतिरब्रवीत् देव! सर्वा एव स्त्रियश्चपला इत्यश्रद्धेयमेतत्। वेश्यापि परमसत्त्वसम्पन्ना दृष्टा, तत्प्रसङ्गेन यदेतदाख्यानं मे स्मृतिपथारूढ़ं तदाकर्णयतु युवराजः।

आसीत् पाटलिपुत्रनगरे विक्रमादित्यो नाम भूपतिः। तस्य परमसुहृदौराजानौ आस्ताम्। तयोरेकोहयपतिः, द्वितीयो गजपतिर्नाम। सुविख्यातप्रतिष्ठानाख्यनगराधिपतिर्नरसिंहस्तस्य परमशत्रुरासीत्। सत्यपि नरसिंहस्य अपर्य्याप्ते पदातिबले राजा विक्रमादित्यः सुहृदोर्गजाश्वबलदर्पितः ससैन्यस्तदभिमुखं यात्रामकरोत्। सन्न्यवेशयच्च प्रतिष्ठानगरात् वहिः सैन्यानि। राजा नरसिंहोऽपि

शत्रोरागमनं श्रुत्वा अमर्षपूरितः ससज्जस्तमाचक्राम। उभयोर्घोरः सम्प्रहारः संवृत्तः। बहुक्षणात् परं विक्रमादित्यसैन्येषु रणात् पराजितेषु राजा नरसिंहः जयश्रिया विराजमानः बन्दीगणान् गृहीत्वा पुरं प्रविवेश।

अथ राजा विक्रमादित्यः बलेन निर्जेतुमशक्नुवन्लोकापवादभयमगणयित्वा कौशलेन पराजेतुमयतत। स किल योग्ये मन्त्रिणि राज्यभारं समय बुद्धिवरं नाम प्रधानमन्त्रिणं शतं राजपुत्रान् पञ्च वीरपुरुषान् गृहीत्वा कार्पटिकवेशेन सुगुप्तं प्रतिष्ठाननगरमविशत्। अस्मिंश्च नगरे काचित् मदनमाला नाम परमसमृद्धा वेश्यासीत्। राजा सपरिजनस्तस्या एव गृहे अतिथिरभवत्। तस्या भवनं वेश्याभवनमिव नालक्ष्यत। सततं दासदासीहस्त्यश्वपूर्णंवर्तते। राजा पूर्वम् अपूर्वां भवनशोभामालक्ष्य प्रतीहारभूमिमुपस्थितो मदनमालान्तिकं संवादं प्राहिगोत्। मदनमाला श्रुत्वैव स्वयमागत्य राजानमन्तःपुरं नेतुं समावृत्य आसनोपवेशनार्थमभ्यर्थयामास। गजा समुपविष्टः मदनमालाया अलौकिकं रूपलावण्यं सौजन्यञ्च विलोक्य चमत्कृतोमोहितश्चाभवत्। प्राशंसञ्च तां भूरिणः साधुवादेन। विश्रामात् परं मदनमाला स्नानानुलेपनमहार्घवसनादिभिः राजानं विशेषेण सम्मानितवती, भोजितवती च राजानं मन्त्रिणं प्रधानानुचरांश्च विविधानि भोज्यद्रव्याणि। निर्द्धारितवती च अपरेषां परिजनानां दैनिकीं वृत्तिम्, इत्थं विविधेनोत्सवेन दिवसमतिवाह्य रात्रौ रजन्यामात्मानं राजहस्ते समर्पितवती। राजापि तत्-

सम्भोगेन परितृप्तश्छद्मवेशोऽपि यथोचितं दानादिकं कुर्वन्परमेण सुखेन कालमतिवाहयाञ्चकार। इत्थं राज्ञा मदनमालाया धने यौवने च सम्भुक्तोऽपि सा आत्मानं कृतार्थममन्यत। न्यवारयच्च पुरुषान्तरपराङ्मुखा नरसिंहागमनमपि कौशलेन।

एकदा राजा विक्रमादित्य मन्त्रिवरं बुद्धिवरं रहसि समाहूय अवादीत् मन्त्रिन्! पश्य मदनमालाया महानुभावत्वं, मयास्याः सर्वाः सम्पत्तयो भुज्यन्ते, तदपि न विरज्यते, प्रत्युत सन्तुष्यते एव। तस्मादस्याः कथं प्रत्युपकरोमि, उपदिश्यताम्। बुद्धिवरोऽवदत् देव! यदि प्रत्युपकर्त्तुमिच्छसि, तदा प्रपञ्चबुद्धिनामा भिक्षुर्यत् यदमूल्यं रत्नं भवते दत्तवान्, तस्य कियतांशेन एनां तोषयतु। राजोवाच मन्त्रिन्! यद्यहं भिक्षुदत्तानि सर्वाणि रत्नानि अस्यै प्रदद्यां तदपि अस्याः ऋणात् नैव मुक्तिः। मन्त्रीप्रत्यभाषत देव! भिक्षुः कथमिमानि भवते प्रददौ? श्रोतुं मे परं कौतूहलं वर्तते। राजा बुद्धिवरेण निर्बन्धपृष्टः प्राब्रवीत्।

पुरा भिक्षुरसौ प्रत्यहं मत्समीपमेत्य एकमेकं दारुमयं पात्रमुपहृत्य गच्छति स्म। अहमपि तदनुद्घाट्य कोषाध्यक्षहस्ते प्रादाम्। स च कोषाभ्यन्तर एव संरक्षितवान्। इत्यमेकस्मिन् वर्षे समतिक्रान्ते कदाचित् तद्दत्ते दारुभाजने मम हस्तात् भहसा भूपतिते एव भग्ने तस्मात्महामूल्यं रत्नमेकं वहिर्ययौ। तद्दर्शनविस्मितश्चाहं पूर्वप्राप्तानि सर्वाण्येव भाजनानि आनेतुमाज्ञापयम्। आदि-

ष्टेन च भाण्डागारिणांआनीतेभ्यस्तेभ्यो बहूनि रत्नानि समध्यगच्छन्।

परेद्यवि प्रपञ्चबुद्धिः समागतः कारणं परिपृष्टोऽब्रवीत्देव! आगामिन्यां कृष्णचतुर्दश्यां श्मशानं गत्वा अहं कामपि विद्यां साधयिष्ये, तत्र च वीरपुरुषसाहाय्यमावश्यकं तस्मिंश्च समये भवता कृतं किञ्चित् साहायकमिच्छामीति भवन्तमाराधितवानस्मि। एवमुक्त्वा तस्मिन् विरते अहमकपटमतिस्तत्प्रार्थनायां सममसि, सोऽपि परितुष्टः स्वस्थानमगात्।

अथ चतुर्दशीरात्रावागतायां भिक्षुप्रार्थना मत्स्मृतिपथमारूढ़ा। अहं सन्ध्यामुपास्य भुक्त्वाच निशीथं प्रतीक्षमाणोऽभ्यतिष्ठम्। दैवाच्च निद्रया समाकृष्टोऽशयिषि। अत्रान्तरे भगवान् नारायणः सदयः स्वप्ने मामादिष्टवान्वत्स! प्रपञ्चबुद्धिरात्मनो मण्डलेश्वरत्ववासनया त्वां श्मशानं नीत्वा त्वन्मस्तकेन छिन्नेन अभीष्टदेवतामर्चयिष्यति। तदग्रत एव त्वां सावधानं करोमि, यदा स त्वां किमपि कर्तुमादेक्ष्यति, तदा त्वं तस्मात् तत् शिक्षितुमग्रतः कथयिष्यसि, त्वदनुशिष्टश्च स यदा त्वां तत् दर्शयिष्यति, तदैव त्वं खङ्गेन तन्मस्तकं छेत्स्यसि। तदेवं कृतं तदभिप्रायसिद्धिस्तवैव भविष्यतीति। एवमादिश्य तस्मिन् भक्तवत्सलेतिरोहिते अहं प्रबुद्धोऽभ्यचिन्तयम् अद्य देवानुग्रहेणाहं लब्धजीवनः तं मायाविनं हनिष्यामि। एवमालोच्य प्रथमे यामे अतीते खङ्गपाणिरेकाकी तत् श्मशानमुद्दिश्य प्रातिष्ठे। कापटिकोऽसौ भिक्षुर्मां दृष्ट्वा समादृत्य चाब्रवीत् राजन्!

भवान् नेत्रे निमील्य अङ्गं प्रसार्य्य च भूतले शेतां ततश्चोभयोरभीष्टसिद्धिर्भवितेति। अहमवादिषम्अज्ञोऽहमीदृशमाचरितुं, तदग्रतो मां दर्शयेति। भिक्षुस्तथेति मद्वचसि सम्मतो नेत्रे निमील्य अधोमुखो भुवि अशेत। तदैवाहं तथा शयानस्य तस्य शिरः सत्वरमेवासिना छिन्नमकरवम्। छिन्नमात्र एव तस्मिन् सहसा दैववाणी उदचरत् राजन्! इमं पापीयसं भिक्षुमुपहारीकृत्य त्वमेवास्य इष्टसिद्धेरधिकारीअभवः। अहं धनपतिः कुवेरः, तवैतत् साहसं दृष्ट्वा प्रीतोऽस्मि, वरं वृणुष्व। एवमुक्त्वातस्मिन् देवे सम्मुखीने अहं प्रणम्य तमब्रुवम् भगवन्! यदाहं वरं ग्रहीतुमेषिष्यामि तदैव भवन्तं स्मरिष्यामि, स भवान् तदैव मह्यं प्रदास्यसि, अधुना वरेणालम्। एवमुक्त्वाविरते मयि स देवस्तथेति अभिधाय तिरोदधे। अहञ्च सिद्धिलाभेन नभःसञ्चरणक्षमस्तत्क्षणमेव गृहं प्रत्यागमम्। तद्वेष तस्य वृत्तान्तः। साम्प्रतं कुवेरवरेण मदनमालां प्रत्युपकर्तुमिच्छामीति उक्त्वाराजा महामात्यादीन् विसर्ज्य मदनमालया सह तां रात्रिं सुखेन यापयामास।

अथापरेऽहनि प्रातःकृत्यं समाप्य जपव्याजेनेकाकी देवमन्दिरं विवेश, सस्मार च देवं धनपतिम्। स्मृतमात्रञ्च तमुपस्थितं दृष्ट्वा राजा वरं प्रार्थयामास देव! मह्यं स्वर्णमयाम् पञ्च अक्षयान् पुरुषान् प्रयच्छ, येन तेषां शरीरतो यावदिच्छं स्वर्णं ग्रहीतुं शक्नोमि, न च ते कदापि क्षयं गच्छन्तीति। तथेत्युक्त्वाच तस्मिन् देवे तिरोहिते तत्क्षणमेव राजसमक्षं पञ्च सुवर्णमयाः पुरुषाः प्रादुरासन्। ततो

नरपतिः स्वां प्रतिज्ञां स्मरन् आकाशसञ्चारेण पाटलिपुत्रमेत्य यथापूर्वं राजकार्य्याणि पर्य्यालोचयितुं मनो दधे, न तु विसस्मार प्रतिष्ठाननगरव्यापारम्।

अत्रान्तरेमदनमाला राजदर्शनव्याकुलिता तमन्वेष्टुं देवमन्दिरं गता अपश्यत् राजा तत्र नास्ति, केवलं स्वर्णमयाः पञ्च महाकायाः पुरुषास्तत्रस्थिताः। तदा सा विषणमनाः समचिन्तयत् प्रियतमो मे कश्चिद् विद्याधरो वा गन्धर्वः सम्भवति। मन्ये स एव महापुरुषो मदर्थं पञ्चैतान् काञ्चनपुरुषान् रक्षित्वा क्वापि गतः, तत्तेन विना मे किमेतैः? एवं चिन्तयन्तौ परिजनान् इतस्ततः तत्संवादं पृच्छन्ती च तस्माद् देवगृहाद् वहिर्गत्वा च समन्तात्अन्वेषितुमारब्धवती। अथ कुत्रापि राजानमदृष्ट्वाप्राणांस्त्यक्तुमुद्यतां तां परिजनाः अशेषतः समाश्वसन्। सा तु तदानीं प्राणत्यागाद्विरम्य प्रतिजज्ञे यदि षण्मासाभ्यन्तरे प्रियतमं न प्राप्नुयाम्, तदा सर्वस्वं अग्निसात् कृत्वा स्वयमग्नौ प्रवेक्ष्यमीति। इत्थंप्रतिजानती एव केवलं राजानं निरन्तरं ध्वायन्ती मुक्तहस्ता सदा दानव्रतपरा व्यतिष्ठत। एकदा एकस्य काञ्चनपुरुषस्य हस्तमेकं छित्त्वा विप्रसात्कृत्वा च परेऽहनि प्रातरपश्यत् तत्तस्य हस्तस्तथैव तिष्ठति। दृष्ट्वा विस्मिता तस्मिन् दिने सर्वेषां हस्तान् छित्वा अर्थिभ्यः सम्प्रदत्तवती, परेद्यवि तथैव हस्तसमेतान् तान् सर्वान्अद्राक्षीत्। तदनन्तरमतीव विस्मयाविष्टा सुवर्णपुरुषान्अक्षयान् मन्यमाना प्रतिदिनं तेषां हस्तान् छित्त्वा अर्थिसात् कर्तुमारंभे।

एवं दानशीलताकीर्त्तिं मदनमालायाः सर्वत्र प्रचारितां निशम्य पाटलीपुत्रनिवासी कश्चित् संग्रामदत्ती नाम दरिद्रो द्विजः मदनमालान्तिकं धनं याचितमाजगाम। दानशीला मदनमाला चतुर्वेदिने विप्राय चतुरो हैमहस्तान् प्रददौ। संग्रामदत्तस्तस्यावदान्यतातिशयेन परितुष्टोऽपि तत्परिजनानां सकाशात् तदीयां कठिनां षण्मासोत्तरमरणरूपां प्रतिज्ञां निशम्य अत्यर्थं विषसाद। ततोऽसौ तत् हस्तचतुष्टयं हस्तिपृष्ठे निधाय गृहमेत्यराजानं विक्रमादित्यमब्रवीत् राजन्! अहमस्मि अस्मिन्नगरे सुदरिद्रो ब्राह्मणः संग्रामदत्ती नाम। अहं भिक्षार्थं दक्षिणापथं व्रजन् प्रतिष्ठानमगमम्, अश्रृण्वञ्च तत्रत्या काचित् मदनमाला नाम वारयोषित् अतिदानशीला वर्त्तते, परं तत्सकाशे कोऽपि दिव्यपुरुषः कञ्चित् कालमुषित्वा तस्यै पञ्च अक्षयान् काञ्चनपुरुषान् दत्वा तामनाथां कृत्वा पलायितः सा तु वाराङ्गना तद्विरहेण नितान्तमुन्मनाः प्राणांस्त्यक्तुमुद्यताभवत्। तत्परिजमस्तु ताम् अशेषेण सान्त्वयिता साम्प्रतं मरणव्यवसायात् निवर्त्तयामास, परं सा प्रतिजज्ञे यदि षण्मासाभ्यन्तरे प्रियतमं न लभेयं तदाग्नौप्रवेक्ष्यामीति निश्चित्य मुक्तहस्ता ततः प्रभृति आहारनिद्रादिकमपि परित्यज्य दिने दिने कृशतामवाप। मह्यन्तु वेदचतुष्टयसंख्यया चतुरः स्वर्णमयान् हस्तान् प्रददौ तमहाराज! यदर्थं सा मर्तुमुद्यता, तस्य तां त्यक्तुमयुक्तम्। अहमिदानीं तद्दत्तेन स्वर्णहस्त-

चतुष्टयेन यज्ञं कर्त्तुमिच्छामि, परन्तु अस्मिन् महाराजेन सहायेन भवितव्यमिति।

राजा संग्रामदत्तमुखात् मदनमालावृत्तान्तमाकर्ण्य सविशेषमुद्भ्रान्तचित्तोऽभवत्, आदिशच्च विप्रसाहाय्यार्थं प्रतीहारम्। ततश्च मन्त्रिणि राजभारं समर्प्यं व्योमयानेन पुनः प्रतिष्ठानं गत्वा मदममालामजीवयत्। अनन्तरं कृतप्रणयालापो राजा मदनमालां रहसि नीत्वा स्वं परिचयमदात्। अथ यदर्थं गुप्तवेशेन प्रतिष्ठाने अवस्थानं, प्रपञ्चसारं भिक्षुं विनाश्य यथा खेचरत्वाधिगमः, कुवेरसकाशात् वरप्राप्तिप्रभावेण यथा सुवर्णपुरुषचतुष्टयप्राप्तिः, यथा च विप्रमुखात् मदनमालावृत्तान्तश्रवणात् पुनः प्रतिष्ठानागमनं तत्सर्वं वर्णयित्वा पुनरवादीत् प्रिये! राजा नरसिंहो बलात् जेतुमशक्यः। खेचरेण च द्वन्द्वयुद्धे भूचरविनाशः क्षत्रियेण अधर्म्मयुद्धे जयलाभश्चातीव गर्हित इति मन्यमानः कौशलेन त जेतुमेतत् सर्वमकरवम्। साम्प्रतं त्वया कृतं साहाय्यम् अभीष्टसिद्धेर्हेतुरिति कथयित्वा तत्कर्णं एवमेवं कर्त्तव्यमिति समादिदेश। सा च वारवनिता तथेति प्रतिज्ञाय द्वारपालं बन्दिनः प्रतीहारञ्चाहूय राजाज्ञानुसारेण कार्य्यं कर्त्तुमुपदिश्य सर्वान् विससर्ज।

अत्रान्तरे राजा नरसिंहोऽपि मदनमालाया दिगन्तव्यापिनीं तदान्यताकीर्त्तिं निशम्य कदाचित् तां साक्षात्कर्त्तुमभ्यागमत्। प्रतीहारस्तु स्वामिन्या आदेशेन तं प्रवेष्टुं न न्यवारयत्। प्रत्युत अन्तःपुरप्रवेशोद्यतन्तु तं द्वारस्था वन्दिनः तारस्वरेण प्राब्रुवन् देव! राजा नरसिंहो भवन्त-

मनुरक्तः प्रणतश्चेति। ततश्च तैरेवमुक्ते नरसिंहः कुपितः शङ्कितश्चापृच्छत् अस्ति कोऽपि मदनमालागृहे साम्प्रतम्? ते प्रोचुः, राजा विक्रमादित्योऽत्र वर्त्तते। इति निशम्य राजा नरसिंहः क्षणं चकितोऽचिन्तयत् मन्ये विक्रमादित्या बलेन मां जेतुमशक्नुवन् कौशलेन जेतुं यतते, भो विक्रमादित्य! तव तेजस्वितां धिक्। साम्प्रतं गृहागतं मां बलेन निहन्तुं न युक्तमित्युक्ता अन्तःपुरं प्रविश्य सन्मुखोनोऽभवत्। विक्रमादित्यस्तु तमागतं वीक्ष्य सस्मितम् आसनादुत्थाय बाहुना कण्ठमाश्लिष्य समाहृतवान्। अनन्तरमुभौ कुशलं परिपृच्छन्तौ परां प्रीतिमवापतुः।

ततश्च प्रसङ्गेन सुवर्णपुरुषवृत्तान्ते नरसिंहेन पृष्टे राजा आमूलात् सर्वं वृत्तान्तमवर्णयत्। तदाकर्ण्य नरसिंहो विक्रमादित्यं विमानचारिणं महाबलशालिनञ्च मन्यमानः तेन सह मैत्रीमैच्छत्। विक्रमादित्योऽपि तस्य प्रस्तावमन्वमोदत। अनन्तरं नरसिंहस्तं विक्रमादित्यंमित्रं राजभवनं नीत्वा यथोचितं समादृत्य च व्यसर्जयत्।

राजा विक्रमादित्यः इत्थं दुस्तरं प्रतिज्ञामुत्तीर्य्य मदनमालागृहं प्रत्येत्य स्वं नगरं गन्तुमभिप्रायमकरोत्। तदाकर्ण्यमदनमाला तद्विरहमसहमाना स्वं भवनं विप्रसात्कृत्वा राज्ञा सह गन्तुमैषीत्। राज्ञा च तत्प्रस्तावे सम्मते सा सर्वस्वमर्थिभ्यो दत्तवती। अथ राजा तथा मदनमालया सह हस्त्यश्वरथपत्तिभिः स्वसैन्यैःपरिवृतः स्वां राजधानीं प्रतस्थे। सुखमुवास च नरसिंहेन सह मैत्रीं विधाय।

मरुभूतिः कथामिमां समाप्य अवादीत् युवराज!

वेश्यापि यदा राजमहिषीव सुशीला दृढ़दानुरागिणी क्वदृश्यते, तदा कुलकामिन्यस्तादृश्यो भवन्त्येव नात्र कश्चित्संशयः इति। राजकुमारो नरवाहनदत्तः तस्य कथावैचित्रींनिशम्य परां तुष्टिमापेदे।

  •      *
    

ऊनचत्वारिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721381222270.png"/>

अथ हरिशिखः प्राब्रवीत् प्रभो। श्रूयताम्। आसीत्पुरा वर्द्धमाननगरे वीरबाहुर्नामातिधार्मिको नरपतिः। तस्य शतं महिला आसन्। तासु गुणवरानाम्नीमहिषो एव प्रियतमाभूत्। राजा सर्वास्ताः अपुत्राः संवीक्ष्य पुत्रोत्पत्तेरौषधार्थं श्रुतवर्द्धनं नाम भिषजमाहूय स्वमभिप्रायं व्यज्ञापयत्। वैद्यस्तथेति प्रतिज्ञाय बन्धमेकं छागं प्रार्थयामास।

अथ राज्ञा आनीतं छागं छित्वासौ भिषक् पाचकेन रन्धयित्वा राजमहिषीः सर्वाः समवेताश्चकार। एका गुणवरा नागमत्। सा तु तत्कालं देवार्चनव्यग्रा राजान्तिकमुपस्थितासीत्। वैद्यराजो गुणवरानपेक्षी तन्मांसक्वाथं केनचित् चूर्णेन मिश्रयित्वा सर्वाभ्य एव ताभ्यः विभज्य दत्तवान्। न रक्षितवांश्च गुणवरार्थं किञ्चिदपि।

अनन्तरं देवार्च्चायां समाप्तायां राजा गुणवरथा सह तत्रागत्य मांसक्वाथोनास्तीति दृष्ट्वा अतीव विरक्तः समभवत्। तद् दृष्टासौ वैद्यः नितान्तं लज्जितस्तत्क्षणं तस्य

छागस्य शृङ्गक्वाथंप्रस्तुत्य राजानमब्रवीत् देव! अनेनैव शृङ्गक्वाथेन भवतोऽभीष्टसिद्धिर्भवितेति। एवमुक्त्वा तस्मिन्चूर्णं प्रक्षिय्य गुणवरायै दत्त्वा राजानं समतोषयत्।

अथ गच्छता कालेन सर्वा एव महिष्यः दशमे मासि एकैकं पुत्रं प्रसूतवत्यः। गुणवरा च सर्वशेषतः सर्वलक्षणयुतं पुत्रमसूत।

राजा पुत्रजन्महर्षितः महोत्सवं विधाय पुत्राणां नामकरणमकरोत्। शृङ्गक्वाथ भक्षणेन कनिष्ठपुत्री जात इति तं शृङ्गभुज इति नाम्ना समाजुहाव। सर्व एव पुत्राः पितुः प्रयत्नेन दिने दिने वर्द्धमानाः क्रमेणातिक्रान्तशैशवाः सर्वासु विद्यासु पारदर्शिनोऽभवन्। शृङ्गभुजस्तु रूपे कामेन, पराक्रमे भीमेन, धनुर्वेदे चार्ज्जुनेन समोऽभूत्। अपरा महिष्यः कनिष्ठं पुत्रं सर्वगुणालङ्कृतं दृष्ट्वा ईर्ष्याकलुषिताः सशपथम् ऐकमत्येन गुणवराया दोषप्रकटने चक्रान्तमकुर्वन्।

एकदा यशोलेखानाम्नी राजमहिषी सपत्नीभिः सह राजान्तिकमुपगम्य सविषादमब्रवीत् नाथ! महती हृदयविदारिणो घटना उपस्थिता, अवाच्यमपि असह्यमिति निवेदयामि, यस्य परेषां दोषनिवारणं कार्य्यं स कथमात्मनस्तादृशं दोषं सहते? देवस्यान्तःपुररक्षकेण सुरक्षि तेन सह भगिन्या गुणवरायाः प्रसक्तिरन्तःपुरेषु प्रकटितेति। राजा यशोलेखया समुदीरित निर्घातसमं वचनमाकर्ण्य म्रियमाण इव क्षणं तूष्णीमतिष्ठत्। अनन्तरं सर्वा एव महिष्यः राज्ञा सत्यनिर्णयार्थं पृष्टास्तथैवास्तानवदनाः

सत्यमिति प्रत्यूचुः। परन्तु सुचतुशे जितेन्द्रियश्च राजा तादृशं प्रवादमसम्भवं विभाव्य परिणामदर्शनार्थं कौशलेन सर्वा एव ताः परित्यक्तुमैषीत्।

अथापरेद्युः सभासीनो नरपतिः सुरक्षितं सर्वजनसमक्षमाहूय कपटकोपेन अभ्यभाषत पाप! मया ज्ञातं त्वं ब्रह्महत्यामकार्षीः, तद् यावत् त्वं तीर्थेषु पर्य्यटित्वा नागच्छसि तावत् ते मुखं न द्रक्ष्यामि। निरपराधः सुरक्षितस्तु सहसा अपवादमिमं श्रुत्वा भ्रान्तचित्तः नाहमीदृशं पापमाचरितवानिति कथयन्नपि राज्ञाभिहितः दुरात्मन्। नात्र काचित्ते कथा, सत्वरं काश्मीरं व्रज, तत्रत्यं विजयक्षेत्रं नन्दिक्षेत्रं वराहक्षेत्रम् अन्यच्च पुण्यक्षेत्रं परिभ्रम्यपापं प्रक्षालयन् आगच्छ। एवमुक्त्वासुरक्षितं तीर्थयात्रायां प्राहिणोत्। सोऽपि निर्दोषः राजाज्ञापरतन्त्रः स्वदेशं परित्यज्य तीर्थभ्रमणार्थं प्रस्थितः।

अनन्तरं राजा गुणवरान्तिकमुपगम्य सस्नेहकोपं सदुःखञ्च उपाविशत्। परिव्रता गुणवरा पत्युस्तथाविधं भावं दृष्ट्वा व्याकुलिता कारणं परिपप्रच्छ। राजा सकपटमत्रादीत् प्रिये! अद्य कोऽपि महापुरुषो मत्समीपमागतः समाचख्यौ राजन्! त्वं गुणवरां क्वचित् भूमध्यवर्तिनि गृहे संरक्ष्य स्वयं कियन्तं कालं ब्रह्मचर्य्यमवलम्बस्व, नो चेत्राज्यनाशो भवितेति।

पतिहितैषिणी गुणवरा राज्यनाशवार्त्तामाकर्ण्य सभयमगादीत् नाथ! यद्येवं सत्वरं मां. भूमध्यगृहे निर्वासय, यया प्राणेषु अपि दत्तेषु यदि भवतो हितं स्यात् तदपि

मे सम्मतम्। पतिरेव नारीणामिह परत्र च गतिः। राजा तस्या एवमुदारां वाचं निशम्य सवाष्पमचिन्तयत्मन्ये उभावेव निरपराधौ। मया यावत् सुरक्षितमाहूय ब्रह्महत्यापवादं दत्त्वा देशत्यागाय आदिष्टं, तावत् तस्य कोऽपि विकारो न लक्षितः। तद् यावत् अपवादमिमं सत्यमनिश्चित्य ईदृशे कार्ये प्रवृत्तिरतीव गर्हिता क्लेशदा च। इत्थं विविच्य दुःखेन गुणवरामन्तः पुरमध्यवर्त्तिनि क्वचित् भूगृहे निर्वासितवान्। गुणवरा पत्युर्हितमिति तदेव भूगृहं स्वर्गं मन्यमाना तत्रैवावसत्।

अथराजपुत्रेशृङ्गभुजे सविषादं मातरं प्रति एतादृशाचरणकारणं पृष्टवति राजा राजमहिषीं यथा प्राबोधः यत् तथा तमपि प्रबोध्य समाश्वासयत्।

यशोलेखा इत्थं सपत्नीं निर्वास्य तत्पुत्रमपि तथैव निर्वासयितुं स्वं पुत्रं निर्वासितभुजमनुरुरोध। सोऽपि मातुराज्ञया अन्यैर्भ्रातृभिःसम्भूय तथैव शृङ्गभुजं निर्वासयितुं कौशलमकार्षीत्।

अग्निशिखोनाम कश्चित् निशाचरो वकरूपेण मानवान् सततं संहरति स्म। तमेकदा क्रौञ्चरूपेण राजभवनोपरि उपविष्टंदृष्ट्वा सहसोपस्थितः कश्चित् क्षपणकः राजकुमारान् अदर्शयत्। ततश्च ते राजसुतास्तं प्रति शरवर्षमकार्षुःपरं तं निहन्तुं नैव शेकुः। अथ क्षपणकेन शृङ्गभुज एव एनं वकं हन्तुंशक्त इत्यभिहिते अपरे पुत्रास्तेनैव सुयोगेन तं निर्वासयितुकामाः पितुर्धनुर्वाणञ्चप्रदाय तंमायाविनं हन्तुम् अनुरुरुधुः। ततश्च शृङ्गभुजेने

शरासने शरं सन्धाय विद्वः स वकस्तेन वाणेन सहैव पलाध्य वनमविशत्। अथ धूर्तो निर्वासितभुजः अपरैर्भ्रातृभिः समेत्य शृङ्गभुजं पितुः स्वर्णनिर्मितं शरमानेतुंसनिर्बन्धमवादीत् यदि त्वं शरमिमं नानयेः, तदा वयं त्वत्समक्षमात्मघातिनो भविष्यामः। स तु भ्रातॄणां तथा प्रतिज्ञामाकर्ण्य पितुर्वाणमानेतुं प्रतिजानान एव स्वं धनुर्वाणं गृहीत्वा वकमनुससार। अथ ते भ्रातरः सहर्षं स्वांस्वांमातरमुपगम्य तं वृत्तान्तमवर्णयन्। ताश्चातीव सन्तोषमवापुः।

शृङ्गभुजस्तु रुधिरधारादर्शनेन वकमनुसरन् कामपि अटवीं प्रविश्य नगरमेकमपश्यत्। उपाविशच्च श्रमापनोदनार्थं नगरोपकण्ठवर्तिनि उद्यानतरुतले।क्षणेन च अद्भुतरूपा कापि कन्यका तत्समीपमाययौ। राजसुतः शृङ्गभुजस्तां स्ववृत्तान्तमपृच्छत्।

कन्या राजतनयं प्रति सकटाक्षं दृष्टिं निक्षिप्य साश्रुलोचना मृदुमधुरमब्रवीत् भद्र! नगरमिदं धूमपुरं नाम। अग्निशिखो नाम राक्षसस्य अस्याधिपतिः। अहञ्च तस्य कन्या रूपशिखा नाम। अहमुद्यानपर्य्यटनार्थमागता भवतो रूपेण मोहितास्मि। तत् स्वं वृत्तान्तमाख्याय मे कौतूहलं खण्डयतु। शृङ्गभुजस्तयैवमभ्यर्थितः स्वं परिचयं दत्त्वा अवादीत् मया कश्चिद् वाणविद्धो वकस्तेनैव वाणेन सह अस्यामेव दिशि पलायितः, अहं तमनुसरन् अत्र समागतोऽस्मि।

रूपशिखावदत् महात्मन्। मम पितैव वकरूपेण भुवं

पर्य्यटति परं तं निहन्तुं न कोऽपि त्रिभुवनवासिषु शक्नोति। भवता तु यदा वकरूपी पिता मे वाणेन विद्धः तदा त्वत्समो वीरस्त्रिलोक्यां न दृश्यते। पिता मम तं सुवर्णमयं शरमक्लेशेन सोढ़वान्। स्वस्थतामपिदिवांश्च तं वाणमुत्पाट्य विशल्यकरण्या महौषध्या। तद् यावदहं अद्यप्रभृति भवन्तम् आर्य्यपुत्रेति सम्बोध्य भवते आत्मानंसमर्पयामि, स भवान् मां परिणीय ममाभिलाषं पूरयतु। क्षणमिह मामपेक्षतां भवान् अहं गत्वा सत्वरं पितरमनुमान्य त्वामन्तःपुरं नेष्यामीति।

एवमभिधाय रूपशिखा सत्वरं पितुः समीपमेत्य राजपुत्रस्य शृङ्गभुजस्य आगमनं गुणग्रामाश्च कथयित्वा अवादीत् तात! यदि तेन सह मत्परिणयं न विदध्याः, तन्निश्चितंजीवितं त्यक्ष्यामीति।

अग्निशिखः कन्यायास्तादृशं निर्बन्धं श्रुत्वा तं शृङ्गभुजमन्तःपुरमानेतुमादिदेश।

रूपशिखा च पितुरादेशेन सन्तुष्टा राजपुत्रसकाशमेत्य सर्वं कथयित्वा पितुः सकाशं तमनयत्। शृङ्गभुजे सप्रणामं समक्षवर्त्तिनि राक्षसराजः सादरमब्रवीत् राजपुत्र! यदि कदापि मद्वचः नातिक्रामेः, तदाहं तुभ्यं कन्यामिमां ददामि। शृङ्गभुजं तथेति सम्मतं स्नानाय समादिश्य रूपशिखां तद्भगिनीनामानयनार्थमाज्ञापयत्।

पथि रूपशिखा शृङ्गभुजमाह नाथ! वयं शतं भगिन्यः अविवाहिताः, अस्माकं सर्वासामेव रूपं वसनं भूषणञ्च समम्। सर्वासामेव कण्ठे एकविधो हारः शोभते। पिता

मम त्वां कथयितुम् अस्माकं सर्वासां मध्यात् मां निर्वाच्य ग्रहीतुं त्वामादेक्ष्यति। अहन्तु तदा मत्कण्ठस्थं हारं शिरसिधारयिष्यामि, त्वं तेनैव सङ्केतेन मां लक्षयित्वा मत्कण्ठे वनमालाम् अर्पयिष्यसि। पितास्माकं जड़मतिः, तस्य हिताहितविकेको नास्ति। तस्मात् स यदा त्वां विप्रलब्धं यद् यद् आदिशेत् तत् सर्वं मम्मत्य मत्समीपमागमिष्यसि, अहं तत् सर्वं प्रतिविधास्ये। एवमुक्त्वा भगिनीसकाशं गत्वा सर्वास्ताः पितुरन्तिकमानिनाय।

अत्रान्तरेशृङ्गभुजं स्नात्वा समीपमुपस्थितं दृष्ट्वा अग्निशिखस्तस्मै वनमालामेकां प्रदाय अब्रवीत् इयं माला तव प्रियतमायाः कण्ठमारोप्यताम्। शृङ्गभुजो मालाहस्तः कन्यानामन्तिकं गत्वा सङ्केतकारिण्या रूपशिखाया हारं शिरसि धृतां दृष्ट्वा च तस्या एव कण्ठे तां मालां समर्पयत्। ततश्च अग्निशिखः परेऽहनि प्रातर्विवाहदानाय सम्मतः कन्याभिः सह शृङ्गभुजमन्तःपुरं प्रविशयत्।

क्षणान्तरे च राक्षसः शृङ्गभुजमाहूय वृषद्वयं प्रदाय पुराद् वहिःक्षेत्रं कर्षयित्वा तत्र सप्तखारीमितान् तिलान् वप्तुमादिशत्। शृङ्गभुजस्तथेति प्रतिज्ञाय रूपशिखासमीपमेत्य तद्वृत्तान्तमकथयत्। सा च तं साहसं दत्त्वा क्षेत्रं प्रति प्राहिणोत्। स तु क्षेत्रं गत्वा राशीकृतान तिलान्दृष्ट्वा भीतः किंकर्तव्यविमूढ़ आसीत्, परम् अग्निशिखा मायया भूमिं कर्षयित्वा क्षणमात्रेण तिलान् तत्रोप्ता पत्युरुद्वेगमशमयत्।

शृङ्गभुजो रूपशिखाया मायाबलसाधितं कार्य्यजात-

मवलोक्य विस्मितश्चमत्कृतश्चाभवत्। ततोऽग्निशिखमुपेत्याब्रवीत् आर्य्य! भवदादेशः सम्पादितः। पुनश्च राक्षसोऽवदत्अद्यैव यदेतत् तिलवपनं कृतं तत् पुनः राशीकुरु। शृङ्गभुजस्तथेति अभिधाय रूपशिखान्तिकमेत्य तथादेशं न्यवेदयत्। साच मायया तत्क्षणमेव तत् कार्य्यं सम्पादयामास। ततश्च शृङ्गभुजः श्वशुरमुपत्य तथैव तत्समाधानमब्रवीत्।

मूर्खो धूर्त्तोऽग्निशिखस्तथाप्यसन्तुष्टः पुनः शृङ्गभुजमादिक्षत् वत्स। स्थानादस्माद् दक्षिणेन योजनद्वयान्तरवर्तिनि अरण्ये शिवमन्दिरमेकमस्ति। तत्र धूमशिखो नाम मत्सहोदरः कनीयान् प्रतिवसति। त्वं तत्र गत्वा तं निमन्त्रादण्डाभ्यन्तरेपुनरागच्छ। प्रत्यागतात च तुभ्यं श्वः प्रातरेव कन्यां दास्यामीति। राजपुत्रस्तथेति प्रतिज्ञाय पुनः प्रेयसीसमीपमेत्य तदवृत्तान्तमावेदयत्। साध्वी रूपशिखा राजकुमारं सज्जलकण्टकाग्नीन् एकं सदश्वञ्च दत्त्वाब्रवीत् आर्य्यपुत्र! त्वमश्वनिमारुह्य गत्वा च त्वरितं तद्वनं, निमन्त्र्यच पितृव्यं नक्षत्रवेगेन अश्वं कशाघातेन ताड़यित्वा आगच्छन् मुखं प्रत्यावृत्य पुनः पुनः पश्चाद्भागं निरीक्षिष्यसे। यदि धराशिखागमनं पश्येः, तर्हि पश्चाद्भागे मृत्तिकामिमा निक्षिपेः, तथापि यदि पश्चादागच्छति, तदा जलमिदं प्रक्षेप्तव्यं, तथाप्यागच्छति चेत् पथि कण्टकानेतान् निक्षिपेः, तथापि यदि आवच्छेत् तदा अग्निर्निक्षेप्तव्यः। सत्त्वरंधावन्नेव एतत्सर्वं कुर्वीथाः क्षणमात्रमपि न विश्रमितव्यम्। एवं कृते भवान् निर्बाधं प्रत्यागमिष्यति, तद्भवता विश्रब्धं गम्यताम्।

राजकुमारो रूपशिखायास्तमुपदेशं श्रुत्वा तत्क्षणमेव मृत्तिकादिकं गृहीत्वा अश्वमारुह्य च तं देवालयमुद्दिश्य प्रस्थितः। क्षणान्तरे चाश्ववेगेन तं देवालयमुपस्थाय अद्राक्षीत वामांशेगौरो, दक्षिणे गणपतिः, मध्ये विश्वेश्वरो विराजते। दृष्ट्वैव भक्त्या प्रणम्य देवदेवं निमन्त्र्यच धूमशिखं, सत्वरं वायुवेगेन अश्वमचोदयत्। अपश्यत् प्रत्यावृत्य धूमशिख आगच्छति, तञ्च दृष्ट्वा राजपुत्रोऽसौ पश्चाद्भागे मृत्तिकां निक्षिप्तवान्, सा च निक्षिप्ता एव पर्वताकारा संवृत्ता। धूमशिखो बहुना क्लेशेनापि तं पर्वसमुल्लङ्घ्य शृङ्गभुजमनुससार। शृङ्गभुजः पुनरपि पश्चात् यावत् दृष्टिं निक्षिपति, धूमशिखमागच्छन्तं पुनरपश्यत्। सोऽपि राजतनयः तदागमनवारणाय जलं निचिक्षेप, निक्षिप्तमात्रमेव तज्जलं भीषणतरङ्गमालासङ्कुला महानदी प्रादुरासीत्, धूमशिखोऽपि तां नदीं कथमपि समुत्तीर्य्य तं शृङ्गभुजमनुसृतवान्। तदवलोक्यशृङ्गभुजेन पश्चात् निक्षिप्तंकण्टकं कण्टकाकीर्णं गहनं काननमभूत्। पापीयसा धूमशिखेन तस्मिन्नप्यतिक्रान्तेशृङ्गभुजः पश्चादग्निं न्यक्षिपत्। स खलु वैश्वानरः खाण्डवं दहन्निव प्रचण्डं प्रजज्वाल। धूमशिखस्तदवलोक्यतमतिक्रमितुमशक्नुवन् आकाशगतिमपि रूपशिखाया मायाप्रभावेण विस्मृत्य तस्मात् स्थानात्प्रत्यावर्त्तत।

अनन्तरं शृङ्गराजः प्रेयस्यास्तादृशमद्भुतं मायाप्रपञ्चं दृष्ट्वा प्रशस्य च सम्प्रीतःपुनर्धूमनगरं प्रतिनिवृत्तः। प्रथमं रूपशिखान्तिकमेव दीयामाश्चर्य्यशक्तिं सानन्दं वर्णयित्वा

अग्निशिखमभ्युपगम्य अवादोत् आर्य्य! भ्राता ते निमन्त्रितः। अग्निशिखस्तदाकर्ण्य समभाषत वत्स! निमन्त्रणप्रमाणमाख्याहि, नो चेत् कथं विश्वसितव्यम्? सोऽब्रवीत् आर्य्य! तस्मिन् देवमन्दिरे विभोर्वामे भगवती पार्वती, दक्षिणे च विनायको विराजते इति। अग्निशिखः कुमारस्य तद्वचः समाकर्ण्य सविस्मयं क्षणं स्थित्वा व्यचिन्तयत् कथमयं तत्र गत्वा प्राणान् रक्षित्वा प्रत्यागतः? धूमशिखस्य दृष्टिपथं गतः कोऽपि न जीवेत्, तदयं न मानुषः, कश्चिद् देव एव मानवरूपेणागतः, तस्मादयमेव कन्यायाः सदृशो वर इत्यवधार्य्य शृङ्गभुजं रूपशिखान्तिकं प्राहिणोत्। शृङ्गभुजः प्रियान्तिकमेत्य परिणयोत्सुकोऽपि पानभोजनादिकं कृत्वा कथञ्चित् रात्रिमतिवाहयाम्बभूव।

अथापरेऽहनि अग्निशिखः अग्निमेव साक्षीकृत्य यथाविधि शृङ्गभुजाय रूपशिखां प्रादात्। किमद्भुतम्? क्व मानवो राजपुत्रः, क्व वा राक्षसनन्दिनी, सर्वथा अदृष्टमेव जीवानां योजनपटीयः। ततः शृङ्गभुजो रूपशिखया सह श्वशुरगृहेऽवस्थाय विविधानि अलौकिकानि भोगसुखानि भुञ्जानः कियन्तं कालमयापयत्।

अथ कदाचित् गृहगमनोत्सुको रूपशिखां रहसि समाहूय स्वमभिप्रायं प्रकाश्य तां तत्र नेतुमनुरुरोध। रूपशिखा तथेति सम्मताब्रवीत् नाथ! किं जन्मभुवा, स्वजनवर्गेण वा, नारीणां पतिरेव सर्वस्वम्। पितरि एतदर्थं विज्ञापिते स कथमपि नानुमोदियते। तस्मात् तद-

विज्ञाताषेव प्रस्थास्यावहे। यदासौ आवयोः पलायनं श्रुत्वा आवामनुसरिष्यति तदाहं विद्याबलेन तं निवारयिष्यामि।

एतदाकर्ण्य शृङ्गभुजोऽतीव प्रीतः रूपशिखायै राज्यार्द्धं प्रतिशुश्राव। सा च प्रस्थातुमुद्यता तत् सौवर्णं शरम्आानीय स्वामिने प्रदत्तवती। अथापरेद्युः प्रातः उभौ उद्यानविहारव्याजेन शरवेगं नाम घोटकमारुह्य वर्द्धमानमभिप्रतस्थाते। इत्थंबहुषु अध्वसु गतेषु अग्निशिखः संवादं श्रुत्वा कुपितः नभोमार्गेण तावनुससार। अथ वेगात् तदागमनशब्दं निशम्य रूपशिखा शृङ्गभुजमब्रवीत् नाथ! पितावां प्रत्यानेतुमागच्छति, तद् भवान् अश्वोपरि निर्भयेन स्थित्वा, एवं यथा वञ्चयामि तदालोकयतु, अहं तिरस्करिणीप्रभावेण त्वामाच्छाय तथा रक्षिष्यामि, यथा पिता कथमपि नावां द्रष्टुं शक्ष्यति। एवमभिधाय रूपशिखा अश्वादवतीर्य्य पुरुषवेशं धृत्वा च काष्ठाहरणार्थमागतं कमपि काष्ठिकं राक्षसागमनभयं प्रदर्श्य तूष्णीमवस्थातुमशिक्षयत्, प्रावर्त्तत च तदीयं कुठारं गृहीत्वा काष्ठकर्त्तनाय। शृङ्गभुजस्तु केवलं कौतुकं पश्यन्नेव तस्थौ।

अत्रान्तरे अग्निशिखः समेत्य तां काष्ठिकवेशिनीं रूपशिखामपृच्छत् भद्र! अत्र पथि काचित् कामिनी, कश्चित्पुरुषश्च गच्छन् दृष्टः? पुंवेशाऽब्रवीत् मान्य! नाहमत्र व्रजन्तं कमपि अद्राक्षम्, राक्षसपतिरग्निशिखो मृत इति तद्दाहार्थं काष्ठानि छिनझि। एतदाकर्ण्य निर्बोधोऽसौ राक्षसा व्यचिन्तयत् किमहं मृतः, तदलं मे कन्यया, इदानीं गृहं गत्वा परिजनं पृच्छामि। एवमुक्त्वासत्वरं गृहाभि-

मुखः प्रतस्थे। रूपशिखा च हसन्ती स्वामिना सह वर्द्धमानं प्रायात्।

राक्षसो गृहमेत्य परिजनमपृच्छत् लोकैः कथ्यते अहं मृत इति। यदि तत् सत्यं तदा कन्यया मे किम्? परिजनस्तस्य हासजनकं वाक्यमाकर्ण्य मनसि हसन् तस्य संशयमभनक्। तदा च स सन्तुष्टः पुनः कन्यां प्रत्यानेतुमुदतिष्ठत्। रूपशिखा पुनः सत्वरं पितरमागच्छन्तमवबुध्य अश्वादवतीर्य्य पतिं तथैवाच्छाद्य रूपं परिवर्त्त्यकस्यचित्पत्रवाहकस्य हस्तात् पत्रं गृहीत्वा च दण्डवत् व्यतिष्ठत। राक्षसः समीपमागत्य तथा प्रपच्छ। रूपशिखावदत्महाशय! न मया पथि दृष्टः कश्चित्? राक्षसपतिरग्निशिखः शत्रुहस्तेन आहतो मुमूर्षुदशायां पतितः कनिष्ठाय भ्रात्रे धूमशिखाय राज्यं दातुं पत्रमिदं मम हस्ते समर्प्य मां तदन्तिकं प्रजिघाय। हा प्रजापतेरद्भुतरूपा तामससृष्टिः! स खलु मूर्खोऽग्निशिखस्तदाकर्ण्य सन्दिहान एव तत्क्षणं पुनर्गृहं प्रत्यागमत्। अपृच्छश्च सर्वान् परिजनान्संशयभञ्जनाय। अथ तैः तत् सर्वं मिथ्येति प्रबोधिते असौ राक्षसराजः रूपशिखां विसस्मार। रूपशिखा इत्थंमूर्खं पितरं विप्रलभ्य अश्वमारुह्यपत्या सह निरुदुवेगं वर्द्धमानान्तिकमाजगाम। राजा वीरबाहुः चिरात् पुत्रं सस्वीकमागतं निशम्य सानन्दं नगरात् निष्क्कम्य आनन्दाश्रूणि वर्षन् प्रणतं सवधूकं पुत्रमाश्लिष्य राजधानीमनैषीत्।

अथ क्षणं विश्रम्य शृङ्गभुजः सर्वं वृत्तान्तं पित्रे निवेद्य

भ्रातृन् आहूय तेभ्यः तं सौवर्ण शरं प्रददौ। तदा सुविज्ञो नरपतिः पुत्राणां चातुरीं विदित्वा अत्यर्थं तान् प्रति विरक्ताः शृङ्गभुजं प्रति सन्तुष्टश्च भूत्वा सर्वं पर्य्यालोच्यगुणवरां निर्दोषां निश्चित्य च अकारणपरित्यागेन आत्मानं पापात्मानं मन्यमानो भृशमन्वतप्यत।

अथ समस्तं दिवसं बहुविधं समालोच्य रजन्यां यशोलेखागृहमविशत्। सा च भर्त्रा सह सुरां पीत्वा सम्भोगजनितनिद्रावेगा स्वप्ने एवमवादीत् यदि गुणवरां प्रति मिथ्यादोषं नारोपयिष्यं तदा पतिर्मे गृहं किमागमिष्यत्। राजा पापिन्याः कथामिमां श्रुत्वा निःसंशयः अतीव संक्रुद्धः समुत्थाय गृहात् निर्जगाम। समाजुहाव च स्वं गृहमेत्य महत्तरादीन्। सिद्धपुरुषादेशेन अनिष्टशान्त्यर्थं गुणवरां भूतलगृहमध्ये यदरक्षिषं, तस्य समयोऽतिक्रान्तः, तदिदानीमेव यूयं तत्र गत्वा गुणवरामानीय स्नापयित्वा मत्समीपमानयत।

ते च परिजनाः प्रभोरादेशेन भूगृहात् गुणवरामानीय स्नापयित्वा वसनाभरणादिना सुसज्जितां कृत्वा च राजान्तिकमनयन्। राजा चिरविरहात् गुणवरामासाद्य गाढ़माश्लिष्य सानन्दं पुत्रस्य शृङ्गभुजस्य वृत्तान्तं कथयित्वाप्रीतामकरोत्। अत्रान्तरे यशोलेखा प्रबुद्धा पतिमदृष्ट्वा नितरां विषादमगमत्। प्रातश्च वीरबाहुना समीपमानीतः सवधूकः शृङ्गभुजः सानन्दं मातरं दृष्ट्वा चरणयोर्निपपात। सा च पुत्रं पुत्रवधूञ्च सस्नेहमालिङ्ग्य आनन्दाम्बुधौ निममज्ज। अनन्तरं शृङ्गभुजेन पितुरादेशेन मातृ-

समक्षं रूपशिखाचरितेवर्णिते गुणवरा प्रीता प्रावोचत्वत्स! स्नुषेयं मे वत्सा रूपशिखा त्वदर्थं सर्वं परित्यज्य त्वय्येव जीवनं समर्प्य सतीनां शिरसि पदं न्यधात्। मन्ये कापीय देवी, विधिना त्वदर्थं भूतलं प्रेषिता। इत्येषं प्रशस्य स्नुषामभ्यनन्दयत् सा राजा च। ततः सुरक्षितमाहूय सम्यक् सम्मान्य च अपरा दुश्चारिणोः राजमहिला भूगृहान्तः संरक्षितुं समादिशत्। स च प्रणम्य राजाज्ञां शिरसि दधार।

तदाकर्ण्य सर्वा एव महिष्यस्त्रस्ताः समभवन्। तदवलोक्य गुणवरया दयावत्या पुनः पुनरनुरुद्धे नृपतिस्तासां तादृशाद् बन्धनदण्डात् विरराम। तास्तु सपत्न्यः गुणवराया औदार्य्यं दृष्ट्वा सलज्जमधोमुखाः स्वं स्वं निकेतमगच्छन्। देव! महतामनुग्रह एव शत्रोः प्रतिविधानम्।

अथ नरपतिः निर्वासभुजादीन् ऊनशतपुत्रान् आहूय रेषु नरहत्यापवादमारोग्य तीर्थपर्य्यटनाय समादिशत्। पुत्राः पितुरादेशं प्रतिहन्तुं नैवाशकन्। कः प्रभुकार्य्यं व्याहन्तुमीष्टे? ततः सर्वेषु नगरात् चलितुमुद्यतेषु दयार्द्रः शृङ्गभुजः भ्रातृन् तथा कातरान् दृष्ट्वा सवाष्पं पितुश्चरत्योर्निपत्य तेषां प्रथमापराधं क्षमयितुमनुरुरोध। राजा शृङ्गभुजं भूभारक्षमं विदित्वा तदनुरोधवशंवदः तेषां दुश्चरितानां पुत्राणां तमपराधं चक्षमे। अनन्तरं सर्वे ते भ्रातरः कनीयांसं शृङ्गभुजं प्राणदं मन्यमानास्तं बहुशः प्रशशंसुः। यावन्तः प्रकृतिवर्गाश्च शृङ्गभुजस्य गुणातिशयदर्शनेन सम्प्रीतास्तं प्रति भृशमनुरक्ता आसन्।

अथापरेद्युर्नृपतिः ज्येष्ठेषु सत्स्वपि कनीयांसं शृङ्गभु यौवराज्ये अभ्यषेचयत्। स च पित्रानुमतः सैन्यसामन्तपरिवृतोदिग्विजयाय प्रतस्थे। अथ जित्वा सर्वान् नृपतीन् संगृह्य च प्रचुरान् अर्थराशीन् जयश्रीविभूषितः स्वां पुरीं प्रत्याजगाम। अनन्तरं विनीतैर्भ्रातृभिः सार्द्धंराज्यभारं वहन्पितरं मातृृश्च अत्यर्थमनन्दयत्। अनयञ्च कालं रूपशिखया सह सुखसम्भोगेन।

देव! सत्यः स्त्रियः केवलं प्रतिसेवामेव परं धर्म्मंजानन्तीत्यस्य निदर्शनं गुणवरा रूपशिखा च। एवमुक्त्वा तस्मिन् विरते युवराजो नरवाहनदत्तः प्रियतमया सार्द्धं तं पुनः पुनः साधुवादेन समतोषयत्। अथ समुत्थाय प्रातः कृत्यं समाप्य च प्रियया सह पितुरन्तिकमाजगाम। तत्रच सर्वं दिनं स्थित्वा पितरमामन्त्र्यपुनरन्तःपुरं विवेश।

**_______ **

चत्वारिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721445247270.png"/>

परेद्युः प्रातः युवराजं रत्नप्रभया सह समासीनं गोमुखादयो मन्त्रिणः समासदन्। ततो मरुभूतिं माल्यचन्दनं गृहीत्वा सद्वासं चिरेण स्खलितपदमागच्छन्तं दृष्ट्वा गोमुखः सपरिहासमब्रवीत् मरुभूते! त्वं यौगन्धरायणसुतोऽपि एतावन्तं कालं यत् नीतिं न शिक्षितः, एतदतीव कष्टं, प्रातः सुरां पीत्वा प्रभुसमीपागमनं किं नीतिसङ्गतम्? मरुभूतिः सक्रोधमभाषत गोमुख! राजास्माकं

गुरुः, स एव अस्मान् शिक्षयितुमधिकरोति, नान्यः पापीयान्। एतदाकर्ण्य गोमुखः सस्मितमवदत् मरुभूते! दुष्कर्म्मकारिणं प्रभुः स्वयं किं तिरस्करोति? यं प्रति यद्वक्तुमुचितम् अधिकारिण एव तद्वदन्ति। अहं पापात्मा सत्यं, परं त्वं मन्त्रिवृषभः केवलं शृङ्गरहितः एतदपि अमृषा। मरुभूतिरवादीत् गोमुख! तद्वृषभत्वं तवैव युक्तं, तथापि तव अवश्यत्वं जातिधर्म्मः।

उभयोरेवंरूपं परिहासवचनमाकर्ण्य सर्वेषु हसत्सु गोमुखोऽभ्यभाषत मरुभूतिरेकमवेध्यं रत्नं, कोऽपि अस्मिन्सूत्रं चालयितुं न शक्तः, परं पुरुषरत्नमेतद्विलक्षणं वस्तु, तदक्लेशेनैव विद्धं कर्तुं शक्यते, अत्र वालुकासेतोराख्यानं कथ्यतेश्रूयताम्।

आसीत् प्रतिष्ठाननगरे तपोदत्तो नाम कश्चिद् ब्राह्मणः। स तु शैशवे अध्ययने एकान्तमनाविष्ट इति सर्वे स्वजनास्तं निरभर्त्सन्। एकदा स अत्यन्तं निर्भर्त्सितः सञ्जातवैराग्यः तपचरणार्थं गङ्गातीरमगात्! अथ गच्छता कालेन देवराजस्तं दुश्चरं तपश्चरन्तं दृष्ट्वा निवारयितुं द्विजवेशेन तत्रागत्य तटात् वालुकाः समुद्धृत्य तरङ्गोपरि निक्षेप्तुमारेभे। तपोदत्तेन तद्दर्शनजनितकौतुकेन मौनं परित्यज्य सनिर्बन्धं कारणं परिपृष्टश्चाब्रवीत् ब्रह्मन्! मया लोकानां पारगमनार्थं सेतुर्निर्मीयते। तदाकर्ण्य तपोदत्तः प्रोवाच ब्रह्मन्! प्रबलस्रोतसि वालुकाभिः सेतुनिर्म्माणप्रयासः केवलं मूर्खतामनुमापयति। तन्निवर्त्तस्व। इन्द्र उवाच यदि तव ईदृशंज्ञानमस्ति, तदा विना अध्ययनम् उपदेशञ्च,

व्रतोपवासैर्विद्या साधयितुं कथमुद्यतोऽसि? यदि एवं कृते विद्या लभ्येत, तदा पृथिव्यां न कोऽपि अध्ययनाय यतेत। एवमुपदिष्टो देवराजेन, तपोदत्तस्तदीयमुपदेशं युक्तं मत्वा तपसो विरम्य गृहं प्रत्यावर्तत। तस्मात् सुबोधो जनोऽक्लेशेन बोध्यते न तु दुर्बोधः, स तु बोधितोऽपि प्रत्युत कुप्यति, तन्निदर्शनं मरुभूतिरेव।

अथ हरिशिखोऽवादीत् देव! सुबुद्धिरनायासेन बोधितुं शक्यते, अत्र ममैका कथा स्मृतिमारूढ़ा, सा निशम्यताम्। पुरा वाराणस्यां विरूपशर्म्मा नाम कुरूपो निर्धनश्च कश्चित्ब्राह्मणः प्रतिवसति स्म। स खलु स्वस्य कुरूपतया निर्धनतया च नितरां दुःखितस्तपोवनं गत्वा रूपसम्पत्तिलाभाय तपस्तेपे। कदाचित् देवराजं कुत्सितविकृतव्याधितशृगालवेशेन अग्रतः समुपस्थितं दृष्ट्वा असौ व्यचिन्तयत् सर्वमेव सुकृतमीश्वराधीनं तस्मात् अलं क्लेशेन, इत्यवधार्य तपसोविरस्य गृहं प्रस्थितः।

हरिशिखस्य दृष्टान्तगर्भमिदं श्रुत्वा गोमुखी अन्वमोदत। परं मरुभूतिः सकोपमवादीत् गोमुखस्य मुखे एव सर्वं, हस्ते किमपि नास्ति। वीरा हि वाक्कलहं लज्जाकरमामनन्ति। एवमुक्त्वा योद्धुमुद्यतं तं युवराजः सस्मितं सान्त्वयित्वा गृहं प्राहिणोत्, अगमयञ्च दिनं स्वयं दैनिकंकार्य्यं समाप्य।

अपरेद्युः सर्वेषु समासीनेषु मरुभूतिःपूर्वदिनव्यापारेण सलज्जमधोमुखः समतिष्ठत। ततो रत्नप्रभा समभाषत नाथ! भवान् गुरुभक्तान् विशुद्धचरितानेतान् मन्त्रिणः

प्राप्य यथा सौभाग्यशाली वर्तते, एते अपि त्वां प्रभुं प्राप्य तथा धन्यन्मन्या वर्तन्ते। तन्मन्ये भवतां पूर्वसुकृतमेव एतादृशसंयोगस्य कारणमिति।

रत्नप्रभायां विरतायां वसन्तकतनयस्तपन्तकः प्रोवाच देवि! सत्यं वयं प्राक्तनसुकृतप्रभावेण एतादृशं प्रभुमलभामहि। विना पूर्वसुकृतम् एतादृशी सङ्घटना नैव भवेत्, तदत्र कथामेकां कथयामि श्रूयताम्।

अस्ति श्रीकण्ठाख्ये जनपदे विलासपुरं नाम नगरम्। तत्रासीत् विलासशीलो नाम महीपतिः। स खलु प्राणसमया महिष्या कमलप्रभया सार्द्धंभोगसुखेन कालमनयत्। क्रमेण सौन्दर्य्यहारिण्यां जरायां तच्छरीरं प्रविष्टायां राजा नितरां दुःखितः जरया म्लानं मुखं प्रियायै दर्शयितुमनिच्छुर्बहु विचिन्त्य मरणमेव श्रेयस्करं निश्चिकाय। अनन्तरं सभासीनस्तरुणचन्द्रं नाम वैद्यमाहूय जराशान्तेरुपायमपृच्छत्। धूर्त्तो भिषक् राज्ञस्तथाविधं वचनमाकर्ण्य प्रबलेनार्थलोभेन परिणाममदृष्ट्वा अब्रवीत्महाराज! उत्तममौषधमस्ति, यदि भवान् षण्मासं निरन्तरं भूगृहेऽवस्थाय तदौषधं सेवेत, तदा निःसंशयं पुनर्यौवनमाप्स्यति। मूढ़मतिर्नृपस्तद्वचसि सुविश्वस्तः भूतले गृहमेकं विनिर्ममे। मूर्खा विषयिणः प्रायेण सदसद्विवेकरहिता भवन्ति, तथाहि मन्त्रिभिर्विशेषेण प्रबोधितः स राजा तेषां वचांसि अनादृत्य धूर्त्तं वैद्यमेव अनुससार। प्रविवेश च राजपरिच्छदं विहाय तत् भूमध्यगृहम्। केवलमेको वैद्यभृत्यस्तस्य परिचारकोऽभवत्।

षण्मासात् परमेकदासौ भिषक् तत्र राजानं द्रष्टुं गतोऽपश्यत् क्रमेण जराया एव प्रादुर्भावो वर्तते। अनन्तरं बहिरागत्य अनुसन्धाय राजसदृशाकृतिं पुरुषमेकं प्राप्य सर्वं वृत्तान्तं तस्मै निवेद्य राज्यलोभं प्रदर्श्य वशीचकार। अनन्तरं तस्मैभूगृहस्य अपरप्रान्तादारभ्य सुगुप्तं सुरङ्गामेकां निर्म्माय रात्रौ तया तत्र प्रविश्य राजानं सुप्तमबधीत्, अरक्षीच्च तं पुरुषं राजशय्यायां तिमिरमये कूपे राजकलेवरं निक्षिप्य। अनन्तरं सुरङ्गामरुणच्च।

परेऽहनि प्रातः धूर्त्त राजो वैद्यः सभामेत्य मन्त्रिणोऽब्रवीत् अहं षण्मासाभ्यन्तर एव जरां शमयित्वा राजानं युवानमकार्षम्, अनन्तरं मासद्वयात् परं राजा नूतनं कलेवरमाप्स्यति, यदि मम वचसि अविश्वासः, तर्हि भवन्तः सुरङ्गाद्वारि स्थित्वा प्रत्यक्षं पश्यन्तु। एवमुक्त्वा मन्त्रिणो भूगृहं नीत्वा दूरात् कृत्रिमं राजशरीरं दर्शयामास। कथयामास च अस्मिन्नेवावसरे मन्त्रिणां प्रत्येकस्य नामधेयम् अधिकारञ्चकृत्रिमाय राज्ञे। ततश्च क्रमेण मासत्रयाभ्यन्तरे कौशलेन अन्तःपुरवासिनां नामानि अधिकारांश्च कथयित्वा तं नूतननृपं सर्वाभिज्ञं चकार।

अथ नवमे मासि वैद्येन तस्मिन् नवे राजनि भोगपुष्टशरीरे भूगृहादानीते सर्वे मन्त्रिणः परिजनाश्चतं युवानं राजानं परितस्थुः। ततोऽसौ युवा नरपतिः कृतस्नानः अजरेति नाम ख्यापयन् सिंहासनासीनः प्रजापालनकर्म्मणि प्रावर्तत। प्रजाश्चवैद्यस्य रसायनप्रभावेण राजानं पुनर्यौवनप्राप्तममन्यन्त। अजरो नृपः प्रकृतिवर्गान् प्रधान-

महिषीञ्च वशीकृत्य मित्रैः सह सुखेन राज्यंशशास संवर्द्धयामास च विशेषसम्मानेन तरुणचन्द्रं मित्रं पद्मदर्शनञ्च हस्तिनोऽश्वान् ग्रामांश्च पुरस्कृत्य। परं स तं वैद्यं विश्वासघातकम् अल्पमपि न विशश्वास। कदाचित् असौ वैद्यः तम् अजरं स्वेच्छाप्रवृत्तं दृष्ट्वा अवादीत् त्वं मामवज्ञाय स्वेच्छया आधिपत्यं करोषि, किमाश्चर्यम्? अनात्मज्ञ! न जानासि, कस्यानुग्रहेण राजासीरिति।

तदाकर्ण्य अजरोऽब्रवीत् वैद्य! त्वमतिमूर्खः कोऽपि कस्यापि न कर्त्ता नापि दाता, प्राक्तनं कर्मैव सर्वस्य सर्वं विधत्ते। तत् त्वं वृथा दर्पं मा कार्षीः, अहं निजेन तपसैव राजाभवम्, अतिशीघ्रमेव तत् तव प्रत्यक्षीकरष्यामि। एवमुक्त्वा तस्मिन् विरते भीतो वैद्यः समचिन्तयत्, हा कष्टम्! अद्य अजरो गम्भीरं प्राज्ञ इव कथयति, विभेमिहि यदि विरक्तः सर्वं रहस्यं प्रकाशयेत्, तद् यावत् इदानीमजरो मया अनुवर्त्तनीयः, किञ्चायं मां किं प्रत्यक्षीकारयेत् तदपि द्रष्टव्यम्। इत्यालोच्य वैद्यस्तथेति विरराम।

एकदा नरपतिरजरस्तरुणचन्द्रादिभिः सार्द्धं पर्य्यटनार्थं वहिर्निर्गत्य कस्याश्चित् नद्यास्तीरे समुपतस्थे। तत्र च स्रोतसि भासमानानि पञ्च सौवर्णानि पद्मानि दृष्ट्वा भृत्यैरानीतानि पर्य्यवेक्ष्य सन्निहितं तरुणचन्द्रं वैद्यं तदाकरान्वेषणाय समादिशत्। वैद्यः अगत्या राजादेशेन सम्मतः नद्यास्तीरमनुसृत्य पद्माकरमन्वेष्टुं जगाम। अजरश्च कियन्तं काल पर्य्यटित्वा पुनर्गृहं प्रत्यागमत्।

वैद्यः सुबहुदूरं गत्वा नदीतटे एकं शिवमन्दिरं दृष्ट्वा

प्रविवेश, ददर्श च तत्समक्षम् अपूर्वमेकं सरः, तत्तीरेच महान् वटवृक्षः, तस्य शाखायाम् एकं नरकङ्कालं लम्बते। स तु तत्तरुतले क्षणं विश्रम्य तस्मिन् सरसि स्नात्वा देवदेवं प्रपूज्य च उपविष्टः स्वं कर्त्तव्यमचिन्तयत्। अत्रान्तरे सहसा मेघोदयात् वृष्टिः पपात, तेन च लम्बमानात् नरकङ्कालात्यावन्तो वारिविन्दवः सरसीसोपानसलिलेषु पेतुः ते एव सौवर्णकमलान्यभवन्। एतदवलोक्य विस्मितो वैद्यराजो व्यचिन्तयत् किमाश्चर्य्यम्? अस्मिन् विजने कं वा पृच्छामि, अथवा वैचित्र्यंविधातुः केन वा लक्ष्यते? भवतु तावत्पद्माकरोऽयं मया दृष्टः, इदानीं लम्बमानं नरकङ्कालं सरसि निक्षिपामि, यदा एतत्संयोगेन जलविन्दुभ्यः सौवर्णकमलानि उत्पद्यन्ते, तदा अस्मिन् सलिले निक्षिप्ते बहूनि तादृशानि पद्मानि सम्भविष्यन्ति। इत्यालोच्य वृक्षशाखायास्तत् नरकङ्कालं पातयित्वा सरसि निचिक्षेप। प्रतिनिववृते च स्वदेशाभिमुखं तं दिवसं तत्र देवमन्दिरे स्थित्वा। अथ कियता कालेन विलासपुरमेत्य अजरं नृपमभ्यवादयत्।

अथ तेन सकुशलं स्वं निदेशं परिपृष्टोऽसौ वैद्यराजः सर्वं वृत्तान्तमवर्णयत्। ततो नरपतिः वैद्यं निर्जनमानीय अवादीत् यदिदं त्वया सौवर्णपद्मस्थानं दृष्ट्वागतं तदतिमनोरमम्। तत्र च वटशाखायां यत् नरकङ्क्षालं दृष्टं तत्ममैव पूर्वकलेवरम्। पूर्वमहम् ऊर्द्धपदं स्थित्वा तपस्यामकरवं, सिद्धे च तपसि तत् कलेवरम् अत्यजम्। मदीयेन तपःप्रभावेणैव तत्कलेवरसंयोगात् सौवर्णकमलानि उत्-

पद्यन्ते। त्वं तत् कङ्कालं जले निक्षिप्य बन्धुकार्य्यं कृतवानसि, तस्मिंश्च जन्मनि त्वं में बन्धुरासीः, तेन साम्प्रतमपि मया सहैव मिलितः। तद्वयस्य! अहं यत् पूर्वतपःप्रभावात् जातिस्मरत्वं राज्यञ्चावाप्तवानस्मि, तत् त्वया प्रत्यक्षीकृतं, तस्मादहङ्कारं परिहर, मा दुःखं कार्षीः, विना प्राक्तनं कोऽपि किमपि दातुं न शक्नोति। प्राणिनः सर्वेभूमिष्ठा एव प्राक्तनस्य कर्म्मतरोः फलानि भुञ्जते। वैद्यराजः नरपतेरजरस्य तद्वाक्यं निशम्य विश्वास्य च सन्तोषमवाप। ततोऽसौ नरवरः वैद्याय प्रचुरान् अर्थान् प्रदाय बन्धुभिः परिवृतः पूर्वसुकृतिलब्धं राज्यं निष्कण्टकं बुभुजे। तन्महाराज! भवानपि अस्माकं पूर्वसुकृतोपार्ज्जितः प्रभुः, नो चेत् कथमेवं मादृशेषु देवस्य महान् प्रसादः? नरवाहनदत्तः अपूर्वमिदम् आख्यानं तपन्तकमुखात् श्रुत्वा स्नातुमुदतिष्ठत्। समाप्य च स्नानादिकं गत्वा च पितुरन्तिकं तैस्तैर्मन्त्रिभिः सार्द्धम् आहारादिकमकरोत्। ततोऽपराह्णेसुरादिकं भोगद्रव्यं सेवित्वा सानन्दं तं दिवसमत्यावाहयत्।

_________

एकचत्वारिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721449526415.png"/>

परेऽहनि युवराजे रत्नप्रभया मन्त्रिभिश्च सार्द्धं स्वंभवनमध्यासीने नानाविधानालापान् कुर्वति भवनाद्

वहिः पुरुषस्य रोदनध्वनिरुदतिष्ठत्। कथं कथमिति युवराजेन पृष्टे कापि किङ्करी समेत्य अब्रवीत् देव! धर्म्मगिरिर्नाम कञ्चुकी तीर्थयात्रार्थं गतः प्राणान् तत्याज इति संवादम् एकस्मात् मूर्खात् बन्धोः प्रमुखात् आकर्ण्य तस्य भ्राता धर्म्ममित्रः शोकेन रोदिति। साम्प्रतं तत्स्वजनास्तं सान्त्वयित्वा गृहमनयन्।

एतदाकर्ण्य दयार्द्रचेतसं युवराजमतीव दुःखितं दृष्ट्वा रत्नप्रभा समभाषत नाथ! बन्धुवियोगो मानवानां यथा क्लेशावहस्तथान्यः कोऽपि नाथ। यदि विधाता मनुष्यम्अजरामरमकरिष्यत् तदा ते नैतादृशदुःखभागिनो आभविष्यन्। मरुभूतिरवादीत् देवि! यदाज्ञापयति भवती, तत्सत्यं, किन्तु मनुष्याणां तदसम्भवम्। अत्रैतां कथां कथयामि निशम्यताम्।

अस्ति चिरायु नाम नगरम्। तत्रासीत् चिरायुर्नाम राजा। तस्य नागार्ज्जुनाभिधः दयावीरः प्रसिद्धः सचिवोऽभवत्। स खलु रसायनगुणेन राजानमात्मानञ्च चिरायुषमकरोत्। कदाचित् सहसा स्वं पुत्रं कालकवले निपतितं दृष्ट्वा असौ अमात्यः नितरां शोकाकुलो भूत्वा मर्त्यलोकात् मृत्युं निवारयिष्यन् रसायनविद्याग्रभावेण अमृतं प्रस्तुतं कर्त्तुमुदयच्छत। क्रमेण अमृतं प्रायेण प्रस्तुतं परमेकमात्रयैव ओषध्या विहीनमतिष्ठत्। तस्याश्चओषधेर्योगं प्रतीक्षमाणं तं नागार्जुनं दृष्ट्वाभीतोदेवराजः तत्क्षणम् अश्विनौ समाहूय कार्य्यमुपदिश्य च मर्त्त्यलोकप्राहिणोत्।

तौ च भुवसवतीर्य्य नागार्जुनस्य गृहमेत्य तं सम्बोध्य च देवराजसन्देशं न्यवेदयतां महात्मन्! भवान् विधातुर्नियममुल्लङ्घ्य मरणधर्मिणो मानवान् अमरान् कर्त्तुमुद्यतः अनुचितमाचरति, एवं कृते देवमनुष्ययोः कः प्रभेदः?याज्ययाजकयोरसद्भावेन जगत् विनश्येत्, तदलममृतकरणप्रयासेन भवतः, नो चेत् देवाः क्रुद्धा भवन्तमभिशप्स्यन्ति, भवान् यस्य शोकेन अभिभूतः कार्य्येऽस्मिन् प्रावर्त्तत, स खलु स्वर्गं गतः।

एवमुक्त्वा अश्विनी विरतौ दृष्ट्वा नागार्जुनः सविषादमचिन्तयत् यद्यहं देववचसि अवज्ञामकरिष्यं तदोभौदेवकुमारौ साम्प्रतमेव मामभिशापेन अयोजयिष्यताम्, एतस्माच्च महोद्योगात् विरतौ मनोरथसिद्धेर्बाधः, पुत्रश्च स्वेन कुर्म्मबलेन स्वर्गमगात्, तदलं शोकेन, किं करोमीति समालोच्य कुमारौ सम्बोध्य प्रत्यवादीत् भवतोरादेशेन देवराजवाक्य गृहीतं, यदि भवन्तौ अद्यप्रभृति पञ्च दिनाभ्यन्तरे नागमिष्यतां तदा मेएष समुद्योगः सफलोऽभविष्यत्, मनुष्याश्च अजरामरा अभविष्यन्। एवमुक्त्वापश्यतोस्तयोरमृतनिर्म्माणोपयोगीनि सर्वाणि द्रव्याणि भूमध्ये निधाय तौ यथाविधि सत्कृत्य व्यसर्जयत्। तावपि त्रिदिवं गत्वा संवादमिममिन्द्राय निवेद्य तं निरुद्वेगमकार्ष्टाम्।

अथ चिरायुषा नरपतिना यौवराज्ये अभिषिक्तः पुत्रो जीवहरो नाम स्वां जननीं धनपराभिधाम् अभिवादयितुं तत्समोपमगात्। धनपरापुत्रं प्राप्तयौवराज्य सहर्षं दृष्ट्वा अवादीत् वत्स! यौवराज्यमिदं लब्ध्वा मा नन्दोः,

अस्य प्राप्तिस्ते कुलक्रमागता, न तु तपोलब्धा। तव अनेके सोदराः सुचिरं यौवराज्यं कृत्वा कालग्रासे निपतिताः, कोऽपि तेषां कदापि राजा नाभवत्। तद् युष्माकं यौवराज्य विड़म्बनमेव। तव पिता साम्प्रतम् अष्टशताब्दीमतिक्रान्तः, अतोऽपि कति कालान् जीविष्यति, को वक्तुं शक्नुयात्।

तदाकर्ण्य विषणं पुत्रं पुनर्धनपरा प्राह वत्स! यदि राजा भवितुमिच्छसि, तदा इममुपायमवलम्बस्व। युष्माकममात्यो नागार्जुनः प्रतिदिनमाह्निकं समाप्य यदा भोजनाय गच्छेत् तदा यो यत् प्रार्थयते, तस्मै तद् दत्त्वा आहाराय स उपविशति। तद् यदि त्वं तस्मिन् समये तत्रोपस्थाय तं तदीयं मस्तकं प्रार्थयेथाः, तर्हि स सत्यपाशसंयतस्तत्क्षणं तुभ्यं शिरो दत्त्वा प्राणान् त्यक्ष्यति। राजापि तादृशमन्त्रिशोकात् निश्चितं देहं त्यक्ष्यति वा वनमाश्रयिष्यति।

जीवहरो मातुर्वचनं बहु समादृत्य राज्यलोभेन तादृशे अतिभयावहे कार्य्ये प्रवृत्तः बन्धुस्नेहमपि विसस्मार। तस्थौच परस्मिन्नहाने नागार्जुनगृहं गत्वा तस्य आहारसमयं प्रतीक्षमाणः। अथाहारसमये उपस्थिते वदान्यवरो नागार्जुनः कोऽत्रउपस्थित इति अपृच्छत्। जीवहरस्तदैव तदन्तिकमुपसृत्य तन्मस्तकं प्रार्थयामास। नागार्जुनो राजनन्दनस्य तादृशीं प्रार्थनामाकर्ण्य सविस्मयमवादीत् वत्स! त्वं मांसास्थिकेशरक्तमयं मदीयं मस्तकं गृहीत्वा किं करिष्यसि? अथवा किं तेन श्रुतेन, यदि प्रयोजनं तदा छित्त्वा

गृहाण। एवमुक्त्वातेन शिरसि प्रदातुं प्रसारित राजकुमारो रमायनदृढ़ायां तद्ग्रीवायां खङ्गमपातयत्, परं खङ्गएव चूर्णतामाप। इत्थं बहुषु खङ्गेषु चूर्णितेषु जीवहरस्तन्मस्तकं ग्रहीतुमशक्नुवन् परं विसिस्मिये।

क्रमेण वार्त्तामिमामाकर्ण्य राजा तत्क्षणं मन्त्रिभवनमेत्य तस्मात् व्यापारात् पुत्रमवारयत्। नागार्जुनन्तुराजानं सम्बोध्य प्राब्रवीत् देव! अहं जातिस्मरः, अहं प्रथमात् जन्मनः प्रभृति अर्थिने स्वं शिरो दददेव नवाधिकनवति जन्म समतिक्रान्तवान्, अस्मिन् जनने शिरोदानव्रतं मे प्रतिष्ठां यास्यति। परार्थिनि पराङ्मुखे अहं शतजन्मार्जिते व्रतफले वञ्चितो भवामि, केवलमहं महाराजसाक्षात्कारं प्रतीक्षमाण एतावन्तं समयमत्यवाहय, तदिदानीं राजसाक्षात्कारो मया लब्धः, तदलं विलम्बेन, राजकुमारेण सुखेन स्वं शिरश्छेदयामि, न वारयतुं मां महाराज इत्युक्त्वाराजानमालिङ्ग्य एकविधं चूर्णमानीय राजकुमारस्य खङ्गमलेपयत्। अवदच्च राजकुमारं प्रहरमामिति। ततश्च राजकुमार एकेनैव पहारेण तस्य शिरश्चिच्छेद। छिन्ने च तस्मिन् अन्तःपुरेमहान् रोदनध्वनिरुत्तस्थौ। तच्छ्रुत्वा राजनि हा मन्त्रिन्! इत्युक्त्वा प्राणांस्त्यक्तुद्ध्यर्तसहसा आकाशसरस्वती सादुरासीत् यथा नागार्जुनोऽयं जननान्तरे बोधिसत्त्वेन सदृशींशुभां गतिं प्रतिविम्ब्या। अप्रहाराX! अभहXXया विरम्यबन्धुवर्गेषु XXसांलभताम्।

XXX दववाश्यां वितायां राजा तस्माम्मरण

सायात् विरतः कियन्तं कालं गृहं गत्वा जीवहराय राज्यं समर्प्य तपोवनमगमत् अलभत च कियन्तं कालंतपस्तप्त्वा शुभां गतिमिति।

कियति काले च गते नागार्जुनतनयाः पितृघातिनं जीवहरं सिंहासनस्थं यमसदनं प्रेषयामासुः। तञ्च पुत्रं मृतं श्रुत्वा तन्माता च मानवीं लीलामत्यजत्। तस्माद्देवः पश्यतु, यो हि अनार्य्यचरिते पथि वर्त्तते, कदापि तस्य शुभं न भविष्यति। यश्च मर्त्यानां मृत्युनिवारणाय अमृतं सृष्ट्वाजगति अलौकिकीं रसायनविद्यानिपुणतां प्रादर्शयत् सोऽपि नागार्जुनो देहं त्यक्त्वा मृत्योर्वशतां प्रतिपदे, का कथा अन्येषामिति।

_________

द्विचत्वारिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721457710270.png"/>

अथान्येद्युः प्रातर्युवराजो रत्नप्रभां सान्त्वयित्वा पित्रा सह मन्त्रिगणपरिवृतो मृगयार्थं ससैन्यः प्रायात्। सततं नानाविधान् वन्यान् जन्तूननुसरन् श्रमापनोदनार्थं कियन्तं कालं विशश्राम। विश्रमानन्तरं पुनरश्वमारुह्य गोमुखेन सह वनान्तरं प्रविश्य गुटिकाभिः क्रीड़ितुमारभे। अत्रान्तरे तेन पथा कापि सिद्धतापसी गच्छन्तीसहसा युवराजप्रक्षिप्तांगुटिकां गात्रे पतितामवलोक्य सस्मितमवादीत् राजपुत्र! त्वादृशेन अहंयुना सह कर्पूरिकायाः

परिणयो युज्यते। एतदाकर्ण्य नरवाहनदत्तः अश्वादवत्तीर्य्य तापसीसकाशमेत्य क्षमां प्रार्थयाञ्चक्रे। सापि तुष्टा तमाशिषा समयोजयत्।

अथ युवराजंस्तापसींसाधुशीलां सत्यवादिनीञ्चालक्ष्य सविनयमपृच्छत् भगवति! भवती यस्याः कर्पूरिकायाः कथामाख्यातवती, सा का? तस्याः परिचयदानेन मे कुतूहलं शमयतु। तापसी अब्रवीत् वत्स! समुद्रपारवर्त्तिनि कर्पूरसम्भवनगरे कर्पूरको नाम राजा अस्ति, कर्पूरिका तस्यैव कन्या। नास्ति त्रिलोक्यां तत्समा कापि सुन्दरी। परमतीव पुरुषद्वेषिणी, विवाहकथायां प्रवृत्तायाम् अग्निरिव ज्वलति। मन्ये यदि त्वं स्वयं गत्वा तां प्रार्थयेथाः, तदा सा त्वां परिणेतुं कदाचित् अभिलषिष्यति। तत्सत्वरं गच्छ, पथि दुर्गमानि वनान्यतिक्रमितुं यस्ते क्लेशो भविता, तं न गणय, तस्मिन् क्लेशे सोढ़े तव परमंमङ्गलं भविष्यति।

एवमुक्त्वातापस्यामन्तर्हितायां नरवाहनदत्तः कर्पूरिकार्थं नितान्तमुन्मना अभवत्। अथ कर्पूरिकान्वेषणार्थं त्वर्य्यमाणः पार्श्वचरो गोमुखोऽब्रवीत् देव! नाममात्र श्रवणेनैव दिव्याङ्गनां परित्यज्य एकस्याः सामान्यमानव्याः कृते एकाकिनः संशयदोलामारुह्य सागरपारगमनं किं युक्तम्? पश्यतु देवः कियदसङ्गतमेतत्, तद् विशेषविदुषा भवता सहसा ईदृशे कार्य्ये न प्रवर्त्तितव्यम्। इत्थंप्रबोध्यमानोऽपि युवराजः सिद्धतापस्याः कथामनुसृत्य मन्त्रिवाक्यमगणयित्वा अश्वमारुह्यकर्पूरनगरं प्रतस्थे। प्रभुणा

भृत्यवचसि अगृहीतेऽपि भृत्यस्य प्रभोरनुसरणमविचारेणैव कर्त्तव्यमिति विविच्य गोमुखः युवराजमनुसरन् अश्वमचोदयत्।

राजा तु पुत्रं नरवाहनदत्तमदृष्ट्वा अग्रत एव चलित इति मन्यमानः ससैन्यः कोशाम्बीं प्रति न्यवर्त्तत। युवराजसहचारिणोऽपि तदेव विविच्य राजानमनुजग्मुः। क्रमेण राजा राजधानीमागत्य युवराजमनागतं निशम्य सोत्कण्ठं सपरिजनो रत्नप्रभान्तिकमगमत्। रत्नप्रभा युवराजस्य अनागमनेन नितान्तमुत्कण्ठितं श्वशुरं दृष्ट्वा प्रणिधानेन ज्ञातवृत्तान्ता अवादीत् देव! आर्य्यपुत्रः कस्या अपि सिद्धतापस्याः प्रमुखात् कर्पूरिकाया वार्त्तांनिशम्य तामुद्वोढुं गोमुखेन सह समुद्रपारस्थं कर्पूरसम्भवं नगरं प्रायात्, शीघ्रमेव कृतकार्य्यः प्रत्यागमिष्यति। एतदाकर्ण्य समाश्वस्तः वत्सराजः स्वं मन्दिरं जगाम।

सपत्नीसङ्घटनेन स्त्रियः प्रायेण ईर्ष्यापरा भवन्ति, रत्नप्रभा प्रत्युत तदाकर्णनेन सन्तुष्टा एव पथि पत्युः क्लेशशान्तये मायावतीं नाम विद्यां प्राहिणोत्। सा च पथि युवराजं प्राप्य तं रक्षितुमनुससार। अहो पतिहितैषिण्यःपतिव्रता नियतमेव पत्युर्हितं कामयन्ते। नरवाहनदत्तस्तु गोमुखेन सह सुदूरं गत्वा यदा भीषणमेकमरण्यं विवेश तदा सा विद्या कुमारीवेशेन उपस्थाय तमब्रवीत् भद्र! अहं रत्नप्रभा प्रेषिता मायावती नाम विद्या, अहमलक्षिता पथि भवन्तं रक्षिष्यामि, तद् भवान् निःशङ्कं व्रजतु। एवमुक्त्वातस्यामन्तर्हितायां तत्प्रभावेण युवराजस्य

क्षुधा तृष्णा अध्वश्रमश्च सुदूरमगमन्। तेनासौ रत्नप्रभां बहुप्रशशंस।

क्रमेण पद्मिनीनायके अस्ताचलशिखरमारोहति नरवाहनदत्तः गोमुखेन सह एकं सरः संप्राप्य स्नानादिकं विधाय स्वादूनि फलानि मूलानि चोपयुज्य तरुतलेषु अश्वं संयम्य वृक्षमारुह्य च निद्रामभजत। क्षणान्तरे सन्त्रस्ततुरङ्गचीत्कारेण उभावेव जागरितौ तलेषु दृष्टिं निक्षिप्य एकं मृगेन्द्रम् अश्वमेकमाक्रम्य हतवन्तं ददृशतुः। एतदवलोक्य नरवाहनदत्तम् अश्वरक्षणार्थमवतरन्तं निषिध्य गोमुखोऽब्रवीत् देव! शरीरं सम्पत्तिः मन्त्रश्च राज्ञो राज्यमूलं तत् सर्वथा शरीरं रक्षणीयं, भवान् तत् शरीरम्अगणयित्वा विना शस्त्रं केन साहसेन केशरिणमभिधावति? देहरक्षणायैव वयं वृक्षमारुह्य स्थिताः। तन्निवर्त्ततामस्मात् प्राणसंशयात्।

गोमुखे एवमुक्ता विरते नरवाहनदत्तः सकोपं तरोः स्कन्धात् एकेनैव छुरिकाप्रहारेण अश्वहन्तारं विव्याध। स तु विद्धोऽपि यदा द्वितीयमश्वमाक्रम्य विनाशितवान्तदा नरवाहनदत्तः गोमुखसकाशात् खङ्गमादाय तं मृगराजं द्विखण्डमकरोत्। ततश्च वृक्षाग्रादवतीर्य्य खङ्गं गृहीत्वा पुनर्वृक्षमारुह्य सुष्वाप।

अथ प्रभाते समुत्थाय पादचारेणैव कर्पूरिकामुद्दिश्य प्रस्थितं तं गोमुखश्चित्तविनोदनार्थं कथामेकां वक्तुमारेभे।

अस्ति इरावती नाम नगरी। तत्रासीत् परित्यागसेनो नाम नरपतिः। तस्य द्वेभार्य्ये, एका अधिकसङ्गमा

नाम मन्त्रिकन्या। द्वितीया काव्यालङ्काराख्या राजवंशीया। द्वयोरपि पुत्रानुत्पत्तौ क्षुब्धमना राजा पुत्रकामो यथाविधि अम्बिकां देवीमाराधितवान्। अथ सन्तुष्टा सा भगवती प्रत्यक्षमाविर्भूय तस्मै दिव्यं फलद्वयं दत्त्वा समादिशत् वत्स! समुत्तिष्ठ, इमेफले नीत्वा पत्नीभ्यां प्रयच्छ, एतयोर्भक्षणात् तव पत्न्यौवीरं सुतद्वयं प्रसोष्येते। एवमुक्त्वादेव्यामन्तर्हितायां राजां प्रातरुत्थाय हस्तयोः फलयुगले दृष्ट्वा परां प्रीतिमापन्नःपत्नीभ्यां स्वस्ववृत्तान्तमाख्याय रात्रौ मन्त्रिणः सम्मानार्थं तद्दुहित्रे अधिकसङ्गमायै अग्रतः एकं फलं दत्तवान्। सा च प्राप्तमात्रमेव तत् भक्षितवती। ततश्च राजा द्वितीयपत्न्यार्थं द्वितीयं फलं शय्याशिरसि निधाय तां रात्रिं तद्गृह एव यापयन् निद्रामलभत। अत्रान्तरे सा अधिकसङ्गमा एवं पुत्रद्वयार्थिनो राजानमनिवेद्य तत् फलमपि अभक्षयत्। प्रातश्च फलमन्वेषितुं प्रवृत्ते अधिकसङ्गमा अब्रवीत् देव! अहमेव तदपि अभक्षयम्। तच्छ्रुत्वा राजा सविषादं समस्तं दिनमतिवाह्य रात्रौ काव्यालङ्काराया भवने शयितुमगमत्। तस्यां स्वं फलं प्रार्थितवत्यां राजा तत् सर्वं सत्यमेवाचख्यौ। तदाकर्ण्य सा नितरां दुःखिता तूष्णीमतिष्ठत्।

अथ गच्छति काले गर्भवती अधिकसङ्गमा समये पुत्रद्वयमसूत। राजा पुत्रजन्मना हर्षितः बहून् महोत्सवान्कृत्वा ज्येष्ठं नाम्नाइन्दीवरसेनं कनिष्ठं स्वस्य अनिच्छया फलभक्षणात् अनिच्छासेनमकरोत्। काव्यालङ्कारा तु सपत्न्याः पुत्रयोर्दिनेदिने वृद्धिं निशम्य ईर्ष्ययासमधिक-

दुःखिताभवत्, व्यचिन्तयच्च कौशलेन तौ विनाशयितुम्। बालकौ यथा प्रतिदिनं वृद्धिं प्रापतुस्तथा काव्यालङ्काराया अपि वैरतरुर्व्यवर्द्धत। क्रमेण तौ अतिक्रान्तशैशवौभुजबलेन दर्पितौ पितरमेत्य दिशो विजेतुं प्रार्थितवन्तौ।

राजा पुत्रयोः प्रार्थनया नितरां प्रीतस्तावनुज्ञाय दिग्विजयार्थम् आयोजनाय समादिदेश। संवृत्ते च सर्वस्मिन् आयोजने पुत्रावाहूय प्रोवाच वत्सौ! युवां मे देवीदत्तौ सन्तानौ, यदा युवयोः किमपि सङ्कटभाषतेत्तदा दुर्गतिहरां भगवतीमम्बिकां स्मरिष्यथः। एवमुपदिश्य पुत्रौ दिग्जयार्थं व्यसर्ज्जयत्।

प्रयाणसमये च तयोर्जननी अधिकसङ्गमा बहूनि मङ्गलानि अन्वतिष्ठत्। राजा पुत्रयोर्मातामहं प्राज्ञतमं प्रधानमन्त्रिणं सङ्गमकमपि पुत्रावनुप्राहिणोत्। भ्रातरौ प्रथमं प्राचीं जित्वा बहुभिर्नृपैः समेतो दक्षिणाभिमुखं प्रतस्थाते। क्रमेण पुत्रयोर्जयवार्त्तामुपश्रुत्य राजदम्पती अत्यर्थं हर्षमापतुः, परं विमाता नितान्तदुःखिता प्रतिदिनं विद्वेषानलदग्धशरीरा तौविनाशयितुकामा राजनामाङ्गितं पत्रमेकं लिखित्वा केनचित् स्वानुचरेण स्कन्धावारं प्रैरिरत्। पत्रार्थोऽयं, यथा सामन्ता! पुत्रौमम भुजबलदर्पितौसर्वां वृथिवींजित्वा ततो मां विनाश्य स्वयं राज्यं ग्रहीतुकामौ मया विदितौ, तद् यदि युष्माकं मयि अनुरागः स्यात् तदा पत्रपाठमात्रमेव इमौ निहत्य मां सुखीकुरुत इति।

पत्रवाहकस्तत् पत्रं गृहीत्वा क्रमेण स्कन्धावारं प्रविश्य

राजपुत्रयोरसमक्षं सामन्तान् समेत्य पत्रं प्रदत्तवान्। ते च पत्रार्थमवगम्य प्रभोरादेशात् तौ हन्तुम् उदयच्छन्। तत्र कश्चित् राजपुत्रयोः परमसुहृत् सैनिकपुरुषोऽतिष्ठत् स तेषां चक्रान्तमवबुध्य सत्वरं कुमारौ समेत्य न्यवेदयत्। तौ च तत्क्षणं व्यापारमिमं मातामहाय मन्त्रिणे निवेद्य तत्परामर्शेन शिविरात् पलाय्य तेनैव मन्त्रिणा सह रजन्याम् अश्वमारुह्य विन्ध्यारण्यं समाश्रयताम्। अटव्यां रात्रौ प्रभातायामपि ते क्रमागतमगच्छन्। गच्छताञ्च तेषां मध्याह्नसमयः समुपस्थितः। अश्वास्तृष्णया समाकुलाः प्राणानत्यजन्। वृद्धो मातामहश्च क्षुधया तृष्णया च पश्यतोरेव तयोः कलेवरं विजहौ। ततः कुमारौ क्षुत्पिपासार्द्दितौ असहायौ विपदोऽस्याः परित्राणाय उपायचिन्तनव्याकुलौअभूताम्। विषेदतुश्च विमातरमेवास्य अनर्थस्य मूलं निश्चित्य। ततश्च पितुरुपदेशं स्मृत्वा विन्ध्यवासिनीं सस्मरतुः। स्मृतायाञ्च तस्यां तयोः क्षुधा तृष्णा च तिरोहिता। किञ्चित् बलं प्राप्य च तां द्रष्टुं प्रस्थितौ तत्र गत्वा निराहारौ देवीं समाराधयितुं प्रावर्त्तेताम्।

अत्रान्तरे शिविरस्थाः सामन्ता राजपुत्रावनासाद्य मन्त्रभेदशङ्कया राजान्तिकं प्रत्यागच्छन्। अवर्णयंश्च तत्पत्रं दर्शयित्वा सर्वं वृत्तान्तम्। एतदाकर्ण्य राजा समुद्भ्रान्तः क्रुद्धश्चावदत् पत्रमिदं न मम, कस्यापि दुष्टाशयस्य प्रयोगोऽयम्। मूढ़ाः! किं न जानीथ यूयम्, अहं विन्ध्यवासिनीमाराध्य बहुना कष्टेन पुत्राववाप्तवान्। यूयं निश्चितमेव मे तौपुत्रौ निहनिष्यश्च, केवलं मम सुकृतिबलेन मन्त्रिणश्च

सुमन्त्रेण तौ जीवत इत्युक्त्वातं कूटपत्रवाहकं कायस्थमानाय्य तथ्यमुद्घाटयितुं निपीड्यसनिर्बन्धमपृच्छत्। ततः सः कयमपि रहस्य गोपितुमशक्तः सर्वं प्रकाशयामास।

अनन्तरं राजा तं कारायामवरुध्य तां पुत्रघातिनीं भार्य्यां भूमध्यवर्त्तिनि गृहे न्यक्षिपत्। ततः समागतान्सामन्तानन्तरेण पुत्रवैरिणः सर्वान् विनाश्य अम्बिकां स्मरन् पत्न्या सह पुत्रान्वेषितुं प्रावर्त्तत। इतो विन्ध्यवासिनी देवी राजपुत्रस्य इन्दीवरसेनस्य तपसा सन्तुष्टस्तस्मै स्वप्ने खङ्गं प्रदाय प्रोवाच वत्स! अनेन खङ्गेन युवां सर्वविजयिनौ भविष्यथः, यच्च मनसि एषिष्यथः, तत् सर्वं सेत्स्यति, इत्युद्दिश्य भगवती तिरोदधे।

अथ राजकुमार इन्दीवरसेनः प्रबुद्धः करे खङ्गंदृष्ट्वा विस्मितः कनिष्ठाय सर्वं स्वप्रवृत्तान्तमाख्याय समाश्वस्तचित्तः फलान्युपभुज्य पारणामकार्षीत्। ततश्च भक्त्या भगवतीं प्रणम्य तमसिं हस्ते गृहीत्वा उभौ प्रतस्थाते। बहु दूरञ्च गत्वा सुवर्णमयमेकं नगरं तस्य द्वारि भीषणमेकं राक्षसं प्रहरिणञ्च दृष्ट्वा च पप्रच्छतुः भद्र! किन्नामेदं नगरं, कश्चास्य प्रवेशमार्ग इति। सोऽवदत् नगरमिदं शैलपुरं नाम, यमदंष्ट्रो नाम राक्षसोऽस्याधिपतिः।

इन्दीवरसेनो राक्षसमुखात् तदाकर्ण्य यमदंष्ट्रं निहन्तुं पुरप्रवेशाभिमुखोऽभवत्। प्रथमं द्वारावरोधिनं तं राक्षसं कोपादेकेन खङ्गप्रहारेण निहत्य सवेगं राजभवनमविशत्अपश्य च। भीषणकायो घोरदंष्ट्रवदनो यमदंष्ट्र सिंहासन-

मधितिष्ठति, वामे एका वराङ्गी योषित्, दक्षिणे दिव्यरूपा एका कन्यका शोभते। क्रमेण तस्मिन् राजसुते यमदंष्ट्रं समेत्य युद्धाय समाह्वयति स दुष्टाशयः सत्वरं सिंहासनादुत्थाय असिं गृह्णन् संग्रामाय समुदयच्छत्। इन्दीवरसेनस्तत्क्षणम् एकेन खङ्गाघातेनैव तस्य शिरोऽच्छिनत्। परं तत् शिरः पुनस्तत्कलेवरे युयोज। पुनश्छिन्नं तथैवाभवत्। एवं पुनः पुनश्छिन्नमपि पुनर्योगमवाप।

इत्यवलोक्य राजकुमारे विस्मयविलक्षित पार्श्वस्थासौ कुमारी कुमारस्य अद्भुतं वीर्य्यं दृष्ट्वा सानुरागा राक्षसस्य छिन्नं शिरो द्विखण्डं कर्तुं समज्ञापयत्। इङ्गितज्ञश्च राजसुतः तदीयं मस्तकं छित्त्वा तत्क्षणं द्विखण्डमकरोत्। एवं कृते सा राक्षसी माया तिरोहिता, न पुनस्तत् शिरो योगमाप।

एवं राक्षसं विनाश्य सानुजेऽसौ इन्दीवरसेनः सहर्षमुपविष्टस्तां कुमारींताञ्च महिलामपृच्छत् के युवाम्? अस्मिन् नगरे कथमेकेन द्वारपालेन रक्षिते आस्तं, राक्षसे चास्मिन् निहते कथं सम्प्रहृष्टे? इत्थमनुयुक्ता कुमारी अवादीत् महानुभाव! अस्मिन् नगरे वीरभुजा नाम राजासीत्। इयं तस्य महिषी, मदनदंष्ट्रा नाम। कदाचित् अयं यमदंष्ट्रः सहसा समुपेत्य राजानं भक्षयित्वा मदनदंष्ट्रामिमांसुरूपां दृष्ट्वा भार्य्यामकरोत्। निरमाच्च पुरीमिमामनायासेनैव सुवर्णमयीम्। अहमस्य कनिष्ठा भगिनी खङ्गदंष्ट्रा नाम। अहं भवन्तं दृट्वैव अनुरक्ता शत्रुनाशार्थं कृतसङ्केतातन्नाशेन सम्प्रहृष्टा च। तदिदानीं मया भवते

आत्मा समर्पितः, भवान् मां परिणीय स्वं मनोरथं पूरयतु। एवमभिहित इन्दीवरसेनः गान्धर्वेण विधानेन तां परिणीयं खङ्गप्रसादेन तदेव नगरमध्युवास।

एकदा इन्दीवरसेनः खङ्गप्रभावेण विमानमानीय कनिष्ठं पित्रोः सकाशं प्रैषयत्। अनिच्छासेनस्तेन दूरावतीं नगरीमेत्य पितरावभ्यवादयत्। अथ पितृभ्यां समालिङ्गितः पुत्रः अनिच्छासेनः ज्येष्ठस्य कुशलवार्त्तया तावभिनन्द्य सर्वं वृत्तान्तमवर्णयत्। अभवच्चसुदुःखितः विमातुर्दुश्चेष्टां तस्याश्च पितृकृतां दुरवस्थां श्रुत्वा।

गच्छता कालेन अनिच्छासेनाोदुःस्वप्नं दृष्ट्वा उत्कण्ठितः पितरमुपेत्य ज्येष्ठम् इन्दीवरसेनं गृहमानेतुं प्रस्तावमकरोत्। तदाकर्ण्य उत्कण्ठिताभ्यां राजदम्पतिभ्यामनुमोदितः अनिच्छासेनस्तत् दिव्ययानमारुह्य शैलपुरमेत्य भ्रातुर्भवनं प्रविश्य अद्राक्षीत् इन्दीवरसेनो विचेतनः पतितो वर्त्तते, तत्पार्श्वयोश्च खङ्गदंष्ट्रा मदनदंष्ट्रा च अश्रूणि मुञ्चतः। तद्दर्शनजातोत्कण्ठेन अनिच्छासेनेन वृत्तान्ते परिपृष्टे खङ्गदंष्ट्रा अधीवदनाब्रवीत् कुमार! त्वयि इतोः निष्क्रान्ते एकदा स्नातुं चलितायां मयि मदनदंष्ट्रा अनेन सह सुरतक्रीड़ायां प्रवृत्तासीत्, तदानीमहं स्नानादागत्य उभयोस्तथाविधं व्यापारं दृष्ट्वा ईर्ष्याविमोहिता एनं शासितुम् अस्य दर्पभूतमसिमहार्षम्। न्यक्षिपञ्च रात्रौ अस्मिन् प्रसुप्ते तं खङ्गम् अग्नौ। सोऽयं खङ्गः यतः प्रभृतिः अग्निपातेन कलङ्कितां दशामापन्नः, तत आरभ्य तवायं Xताविचेतनतां प्राप्तः, तदहमेव अस्यानर्थस्य मूलमिति

निरन्तरमनुतप्ता मदनदंष्ट्रया तिरस्कृता शोकान्धचित्ता च प्राणांस्त्यक्तुमुद्यतास्मि। इदानीं त्वमागतोऽसि तत्त्वमेव खङ्गेनेन मे शिरश्छिन्धि।

अनिच्छासेनो भ्रातृजायाप्रमुखात् सर्वं श्रुत्वा अनुतापाग्निना अदह्यत। अत्रान्तरे सहसा अन्तरीक्षसरस्वती समुदचरत् राजपुत्र! भ्रातायं ते न मृतः, खङ्गं प्रति अमास्थया भगवत्याः कोपात् मूर्च्छितस्तिष्ठति। अत्र खङ्गदंष्ट्राया अपि नास्ति दोषः। इमे द्वे एव तव भ्रातुः पूर्वजन्मभार्य्ये। इदानीं देव्यां प्रसन्नायामेव सर्वापदो दूरं गमिष्यन्ति। एवमुक्त्वा तस्मिन् आकाशवचसि विरते त अग्निकलङ्गितं खङ्गमादाय तेनैव विमानेन विन्ध्यवासिनीमगात्। गत्वा च तत्र प्रबलया भक्त्या देवीं प्रसादयितुं स्वं शिरश्छेत्तमुद्यत एव तस्मिन् गगनाद्भारतीयं समुदतिष्टत् वत्स! प्रसन्नास्मि, तव ज्येष्ठश्च जीवितः अयञ्च खङ्गः पुनर्निर्मलतामापन्नः युवयोर्जयं विधास्यतीति।

अथ अनिच्छासेनः समुत्थाय पूर्ववत् सुनिर्म्मलं खङ्गं दृष्ट्वा सम्प्रहृष्टः भगवतीं देवीं प्रदक्षिणं कृत्वा प्रणस्य च समुत्सुकस्तदेव विमानमारुह्य शैलपुरं समुच्चचाल। तत्रोपस्थितञ्च तमनुजम् इन्दीवरसेनः सहसा निद्रितवत्समुत्थाय प्रणतं समालिलिङ्ग। ते च भ्रातृभार्ये देवरं पदतलपतितं बहु प्रशस्य अभ्यनन्दताम्। इन्दीवरसेनः सोदरमुखात् भगवत्याः प्रसादवार्त्तां निशम्य अनुजं प्रतिसम्प्रहृष्टः खङ्गदंष्ट्रोपरि जनितं क्रोधमत्यजत्। ततश्च भ्रातुर्मुखात् पित्रोर्दर्शनौत्सुक्यं विमातुर्दुःशीलताञ्च श्रुत्वा

स्वमसिं प्रगृह्य विमानं सस्मार, उत्पपात च ध्यातमात्रमुपस्थितं तद्विमानमारुह्य सस्त्रीकः सानुजश्च नभोमण्डलम्। क्षणेन च इरावतीं प्राप्य विमानादवरुह्य पित्रोः सकाशं गत्वा च तौ प्रणनाम। तौ च राजदम्पती चिरागतं पुत्रमालोक्य हर्षेण क्षणमश्रूणि अत्यजताम्। अनन्तरं पुत्रमालिङ्ग्य अमृतह्रदमिवावगाढ़ौचिरसन्तापानलं निरवापयताम्। अथ कथाप्रसङ्गेन ते स्नुषे इन्दीवरसेनस्य पूर्वजन्मपत्न्यौइति श्रुत्वा पुत्रस्य विमानगतिप्रभृतिमशेषविधमलौकिक प्रभावं दृष्ट्वा च परां प्रीतिमवापतुः। ततोऽमौराजतनयः सस्त्रीकः सानुजश्च पित्रोरानन्दं वर्द्धयन्सुखेन कालमनयत्।

अथ गच्छता कालेन इन्दीवरसेनः पितृभ्यामनुमतः पुनर्दिग्जयार्थं प्रतस्थे। जिगाय च तेन खङ्गेन सर्वां पृथिवीम्। अथ अपरिमितान् हस्तिनो अश्वान् रत्नादींश्च जयलब्धान् समाहृत्य महोत्साहं गृहं प्रत्येत्य पुनः पित्रोरानन्दमवर्द्धयत्। गृहागतश्च सहागतान् राजलोकान्सवर्द्ध्य परेद्यवि स्वहस्तजितां मेदिनों पित्रे समर्प्यस्वां जातिं स्मरन्नब्रवीत् तात! अद्य मम पूर्वजातिः स्मृतिपथमारूढ़ा, हिमालयान्तर्वर्त्तिनि मुक्तापुराख्ये नगरे मुक्तासेनोनाम विद्याधराधिपतिः प्रतिवसति। कम्बुवती नाम विद्याधरी तस्य प्रधानमहिषी। तस्या गर्भे पद्मसेन रूपसेनाख्यौ द्वौ गुणवन्तौ रूपवन्तौ च पुत्रौजातौ। सूर्य्यप्रभा नाम विद्याधरकन्या पद्मसेनं प्रति अनुरक्ता सख्या चन्द्रावत्या सह तं पतित्वेन आवृणोत्।

गच्छति च काले पद्मसेनः पत्न्योः परस्परमीर्ष्याकलहेन नितान्तमुत्यक्तः संसारं परित्यज्य तपोवनमाश्रयितुमीहाञ्चक्रे। तदर्थञ्च पुनःपुनरनुमतौ प्रार्थितायां पिता मुक्तासेनः कुपितस्तं शशाप दुरात्मन्! तपोवनमगत्वा सपरिवासे मर्त्त्यलोकं व्रज। इयञ्च कलहकारिणौ सूर्य्यप्रभा चन्द्रावती च राक्षसीभूत्वा तवैव भार्य्येभविष्यतः। अयञ्च तं कनीयान् रूपसेनस्त्वामनुसृत्य तव कनिष्ठसोदरो भविता, तत्रापि त्वया द्विभार्य्यत्वेन कियन्तं कालं दुःखं सहिष्यते। अनन्तरं यदा पृथिवीं जित्वा पित्रे प्रदास्यमि, तदा सपरिजनो जातिं स्मृत्वा पुनर्दिव्यं कलेवरमाप्स्यसीति।

पितः! सोऽहं पद्मसेनः देवस्य ज्येष्ठपुत्रतया इन्दौ वरसेननाम्नासमभवम्। अकरवञ्च स्वं कर्त्तव्यं मेदिनीं जित्वा तुभ्यं समर्प्यं च। स च रूपसेनो भवतो द्वितीयपुत्रः अनिच्छासेनाख्यया सञ्जातः, ते च मम पूर्वभार्य्ये सूर्य्यप्रभाचन्द्रावत्यौ राक्षस्यौ भूत्वा खङ्गदंष्ट्रा मदनदंष्ट्रा समाख्यया ममैव भार्य्ये अभूताम्। इदानीमस्माकं शापोऽवसितः, तद्वयं साम्प्रतं विद्याधरपदं पुनर्गच्छाम इति अभिधाय पितरौ प्रणस्य इन्दीवरसेनः सोदरेण पत्नीभ्याञ्च सह मानुषीं तनुं त्यक्त्वाप्रतिपन्नविद्याधरकलेवरः सभार्य्यः सोदरेण सह गगनमुत्पत्य तत्क्षणं मुक्तापुरमुपयौ। तत्र च गत्वा पित्रोरानन्दं वर्द्धयन् पूर्ववत् भोगरतः सुखमुवास।

गोमुखः पथि रमणीयमाख्यानमिदं कथयित्वा पुनर-

ब्रवीत् युवराज! इत्थंमहतामपि द्विभार्य्यत्वेन महान्क्लेशःमहोन्नतिश्चस्यात् किमपरेषां भवान् विद्याशक्तिप्रभावेण यथा रत्नप्रभामवाप्तवान् तथा कर्पूरिकामपि अनायासेनैव प्राप्स्यति। युवराजो नरवाहनदत्तः गोमुखमुखात् एतां रम्यां कथां शृण्वन् अरपाह्नसमये एक सरोवरमाससाद। तत्र च कृतस्नानादिव्यापारः हरं पूजयित्वा फलानि मूलानि चोपयुयुजे। अनन्तरं तेन सहचरेण गोमुखेन सह पर्णशय्यासीन एव रजनीमतिवाहयाञ्चकार।

_________

त्रिचत्वारिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721473790293.png"/>

अथ प्रत्यूषे युवराजः समुत्थाय पुनः प्रतिष्ठमानो गोमुखमभाषत मित्र! गतायां निशि अपूर्वमेकं स्वप्नमपश्यम्। श्वेतवसना कापि दिव्याङ्गना मामुपेत्याब्रवीत्वत्स! अलमुद्वेगेन, शीघ्रमेव कर्पूरसम्भवं नगरं प्राप्य तस्य राजकन्यां कर्पूरिकामवाप्स्यसि। एवमुक्त्वाअन्तर्हितायां तस्यामहं प्रबुद्ध आसम्। एतदाकर्ण्य गोमुखः प्रत्यभाषत देव! यदा देवा अपि भवदनुकूला दृश्यन्तेतदा श्रीमतां न किमपि दुरापं वा दुष्करम्। सेत्स्यत्येव अचिरात् भवन्मनोरधः। गोमूखे एवं वदति नरवाहनदत्तः सत्वरं समुद्रतीरस्थं तन्नगरं समासदत्, अपश्यच्च सविस्मयम् अपूर्वांतस्य शोभाम्।

अथ सुवर्णमयं सप्तप्रकोष्ठं राजभवनं क्रमेण पश्यन्अभ्यन्तरं प्रविश्य रत्नसिंहासनासीनं पुरुषमेकमद्राक्षीत्। सतु पुरुषो राजकुमारं दृष्ट्वा संवर्द्धयन् रत्नासनमेकमध्यासितुं प्रादात्। अप्राक्षीच्च सम्मुखासीनः महानुभाव! कथमिमाममानुषां भूमिमागतोऽसीति। नरवाहनदत्तः स्वं वृत्तान्तमाख्याय अपृच्छत् को भवान्? कथं वा नगरमिदं भवतो निर्म्मितमिति। तदाकर्ण्य पुरुषोऽभ्यभाषत।

अस्ति सुप्रसिद्धे काञ्चीपुरे बाहुबलो नाम राजा। तस्मिंश्चपुरे सहोदरावावां निवसावः। जात्या वयं सूत्रधराः विचक्षणाश्च मयदानवसदृशेकारुकर्म्मणि। मम ज्यायान्प्राणधरो नाम नितरां वेश्यासु समासक्तः। अहं तस्यैव भ्रातुरनुरक्तो राज्यधरो नाम। स च वेश्यासक्तिवशात्सर्वां पैतृकींसम्पदं हारयित्वा यदा मदुपार्जितामपि सम्पत्तिं विनाश्य निःस्वः संवृत्तः, तदा धनाहरणार्थ रज्जुयन्त्रवाहि हंसयुगलं निर्म्ममे। तत् हंसयुगलं रजन्यांयन्त्रबलेन बाहुबलस्य राज्ञः अन्तःपुरं गवाक्षमार्गेण प्रविश्य चञ्चुपुटेन तत्रत्यानि आभरणानि आनीय मद्भ्रात्रे प्रददौ। तानि च आभरणानि विक्रीय मद्भ्राता वेश्यामतोषयत्। मया बहुशो निवारितोऽपि कथमपि तस्माद्दुर्व्यवसायात् न निववृते।

अथ क्रमेण राजकोषे क्षयं गच्छति कोषाध्यक्षः रहसिं कारणमनुसन्धातुं प्रावर्त्तत। परं केन रूपेण रुद्धधनागारात् धनामि ह्रियन्ते इति निश्चेतुमशक्नुवन् इमं व्यापारं राजानं न्यवेदयत्। ततो राजा कतिपयान् रक्षिणो

धनाध्यक्षेण सह कोषागारे समरक्षत्। ते च प्रबुध्यमाना एव तिष्ठन्तः निशीथे गवाक्षमार्गेण काष्ठमयं हंसयुगलं कोषागारे रज्ज्वा प्रविश्य चञ्चुपुटेन आभरणानि गृहीत्वा गन्तुमुद्यतं दृष्ट्वा तां रज्जुं छित्त्वा तत् हंसद्वन्दं जगृहः, निन्युश्च प्रातः राजसमीपम्।

अत्रान्तरे छिन्नायां रज्ज्वां शिथिलायां भ्राता मम शशव्यस्तः समागत्य मामवादीत् भ्रातः! सत्यं ते वचनं सञ्जातं, रक्षिणः यन्त्रहंसयुगलं छित्त्वा जगृहुः। शङ्गे प्रातरेवागत्य अस्मान् बद्ध्वानेष्यन्ति। तदागच्छ, इदानीमेव स्थानादस्मात् पलायावहे। मम यद् वातयन्त्रमस्ति तत्प्रतिदिनं शताष्टयोजनं गच्छति। तदारुह्य अतिदूरे देशे प्रस्थातव्यम्। एवमुक्त्वा स स्वंवातयन्त्रमाश्रित्य प्रतस्थे। अहञ्च राजभयात् स्वहस्तनिर्मितं वातयन्त्रमारुह्य प्रातिष्ठे। शतयोजनद्वयमतीत्य क्षणं विश्रम्य पुनः शतयोजनद्वयमतिक्रान्तः सम्मुखापतितं समुद्रमपश्यम्। तत्र चावतरन् पादचारेण कियन्तमध्वानं गत्वा शून्यमिदं नगरं प्राप्य राजभवनमदः प्राविशम्। अपश्यञ्च राजभवनमिदं वसना भरणशयनादिभिः राजभोग्यैरुपकरणैः परिपूर्णम्। पार्श्वे च मनोरममुद्यानं, स्वच्छसलिला दीर्घिका च। अथ सायं तज्जलमवगाह्य वृक्षात् नानाविधानि फलानि आहृत्य अभक्षयम्। सन्ध्याया अतीतायां राजोचिते शयने शयित्वा अचिन्तयम् अस्मिन् जनशून्ये नगरे स्थित्वा एकाकी किंकरिष्यामि, तत्प्रभाते स्थानान्तरं यास्यामि, यत्रागतोऽस्मि अत्र राजभयं न सम्भवेत्। इत्थं चिन्तयन् निद्रा-

मलभे।निद्रितश्च मामेत्य कश्चिद्मयूरवाहनो दिव्यपुरुषः समब्रवीत् भद्र! त्वया कुत्रापि न गन्तव्यं अत्रैव निर्भयं वस। आहारसमये च मध्यमं पुरमारुह्यं स्थातव्यम्।

इत्यमुक्त्वा तस्मिन् देवे तिरोहिते गतनिद्रोऽहमचिन्तयं स्थानमिदं कार्त्तिकेयेन निर्मितं नात्र संशयः। भगवान्कुमारः स्वप्ने आविर्भूय यस्मामनुजग्राह तत् केवलं मे पूर्वसुकृतबलेनैव। तदहमत्रैव वत्स्यामि, अत्र वासे कृते अवश्यमेव मङ्गलं भवितेति निश्चित्य स्नानादिकं समाप्तवानस्मि। क्रमेणाहारसमये प्राप्ते तस्यैव दिव्यपुरुषस्य आदेशमनुस्मरन् मध्यमं पुरमारुह्य अतिष्ठम्। क्षणान्तरे च मनोहरान्रव्यञ्जनादिपूर्णं स्वर्णभाजनं ममाग्रतः समुपस्थितम्। तदवलोक्य विस्मितोऽहं सुखेन तत्सर्वमुपयुज्य परां तृप्तिमन्वभवम्। इत्थं प्रतिदिनं राजभोगमुपयुञ्जानः अस्मिन्नेव नगरे परिचारकाभावेन कार्य्यसौकर्य्यार्थं यन्त्रमयान् इमान् सर्वान् मानवान् निर्माय सुखं वसामि। तदहं महाभाग! नगरेऽस्मिन् एकाकीदैवानुग्रहेण राजत्वं भुञ्जान एव तिष्ठामि। प्रार्थये च भवन्तं विनयेन, यदि मद्भाग्यात् भवन्तोऽत्र समागताः, तदेकं दिनमत्रावस्थाय विश्रामसुखमनुभवतु महाभागः, अहं यथाशक्ति भवत्परिचर्य्यया आत्मानं कृतार्थं करवाणि।

एवमुक्त्वा राज्यधरो गोमुखेन सह युवराजं पार्श्वस्थमुद्यानसनैषीत्। सर्वे तत्र वापीमवगाह्य कमलानि उच्चिन्नन्तः भगवन्तं देवदेवं समभ्यर्च्चयन्। समागते च मध्याह्ने राज्यधरः तौ गोमुखनरवाहनौ द्वितीयतन-

मध्यारोहयत्। अनन्तरं यथासमयं विविधानि राजयोग्यानि अन्नव्यञ्जनादीनि समुपस्थितानि दृष्ट्वा तौ सपरितोषमभ्यवहारयत्। आहारान्ते च ताम्बूलासवादिकं दत्त्वा स्वयमाहारं कृत्वा तत्समीपमुपययौ। अथ नानालापैर्दिवसमवसाय्य तौराज्यधरनिर्दिष्टं शयने अशयतां राज्यधरश्चअशेत। शयानश्च कर्पूरिका चिन्तया निर्निद्रःयुवराजस्तं राज्यधरं कर्पूरिकावृत्तान्तमपृच्छत्। स च तं समाश्वास्य महासत्त्वं जनं स्त्री स्वयं वृणोतीति प्रसङ्गमुत्थाप्य कथामेकां वक्तुं प्राक्रमत।

यत् पूर्वमुक्तंकाञ्चीपुराधिपतेर्बाहुबलस्य चरितं किञ्चिदत्र भवते, तस्यार्थलाभो नाम किञ्चित् धनशाली प्रतीहार आसीत्। तस्य मानपरा नाम्नी पत्नी। स च वाणिज्यमारभ्य सर्वं क्रयविक्रयभारं पत्न्यौसमर्पयत्। मानपरा अनिच्छुरपि पत्युरनुरोधेन सम्मता मधुरवचसा सर्वं जनं सन्तोष्य क्रयविक्रयादिव्यापारं निर्वर्त्तितुमारेभे। तेनार्थलोभः क्रमेणोन्नतिं दृष्ट्वा परं सन्तोषमवाप।

कदाचित् सुदूरात् कश्चित् सुखधरो नाम वणिक् प्रभूतान् घोटकादीनादाय समागतः। तदवलोक्य अर्थ लोभः भार्य्यानुपेत्य अवादीत् प्रिये! सुखधरो नाम वणिक्विंशतिसहस्राणि सदश्वान् चैनानि नानाविधानि वसनानि च गृहीत्वा वाणिज्यार्थमत्रागतः, तत् त्वं तत्समीपं गत्वा पञ्चसहस्राणि अश्वान् दशसहस्राणि च पट्टयुगलानिं क्रीत्वा नय। अहं तान् अश्वान् वसनानि च राज्ञे उपहरिष्यामि वणिज्यञ्च करिष्यामि। मानपरा पत्युर्वचसा

सम्मता सुखधरसमीपमेत्य अनुरूपाणामश्वानां वसनानाञ्च मूल्यम् अपृच्छत्। वणिक् तस्या रूपेण मधुरेण वचसा च विमोहितः तां रहसि समाहूय विना मूल्येन अश्वान्वसनानि च दास्यामीति प्रतिज्ञाय रतिं चकमे। निरङ्कुशां योषितं को वा न प्रार्थयते?

तेनैवं प्रार्थिता मानपरा ब्रवीत् अहं पतिपरतन्त्रा, तदेष प्रस्तावः स्वामिने विज्ञाप्यः। अहं निश्चितं जानामि, स मे पतिर्नितान्तलुब्धः, तत् भवतः प्रार्थनामवश्यमेव सफलयिष्यति। एवमुक्त्वामानपरा गृहं प्रतिनिवृत्य पतिं तस्य वणिजः प्रार्थनां न्यवेदयत्। पापात्मा पतिरर्थलोभः धनलोभेन अन्ध इव सहर्षं मानपरां वणिक्सहवासे अनुज्ञाप्य अवादीत् प्रिये! का क्षतिः? अद्य रजनीं तेन सह तत्र स्थित्वा प्रातरश्वान् वसनानि चादाय आगमिष्यसि। मानपरा कापुरुषस्य भर्तुरीदृशं वचनमाकर्ण्य समचिन्तयत् हा कष्टं! यः पुरुषः अर्थलोभेन स्वं मानं पौरुषञ्च विक्रीणीते, तेन समः कापुरुषः कोऽपि त्रिलोक्यां न विद्यते। तदेनं कापुरुषं पतिं धिक् अस्मात् यः शतं शतम् अश्वान् चीनांशुकानि च दत्त्वा एकां रजनीं मत्सम्भोगं कामयते स एव श्रेयान् सहस्रशः प्रशंसनीयश्च।

इत्यवधार्य्य मानपरा सुखधरसमीपं गत्वा तत्सहवासे पत्युरनुज्ञां निवेदितवतौ। सुखधरस्तु तदाकर्ण्य विस्मितः आत्मानं कृतार्थं मन्यमानः प्रतिश्रुतानश्वान् पट्टवस्त्राणि च सत्वरं अर्थलोभाय प्राहिणोत्। अन्यवाहयञ्च तां रजनीं मानपरासम्भोगसुखेन। प्रत्यूष एव निर्लज्जोऽर्थलोभः मान-

परां नेतुं सुखधरसमीपं भृत्यं प्रैरयत्। मानपरा तं भृत्यमवादीत् भद्र! युष्माकं स्वामी अर्धलोभात् मां विक्रीतवान्। यदाहम् अन्यसङ्गताभूवं तदा पुनर्निर्लज्जा कथं तत्सकाशं गमिष्यामि, तस्मात् यो मां क्रीतवान् अद्यप्रभृति तस्यैव पत्नी अभवम्। युष्माकं प्रभवे एषा कथा वक्तव्या। एवमुक्त्वाभृत्यान् व्यसर्ज्जयत्। भृत्याः प्रत्यागम्य अवनतमुखाः प्रभवे अर्थलाभाय सर्वं न्यवेदयन्। अथ नराधमो यदा बलेन पत्नीमानेतुं कृतसङ्कल्पोऽभवत् तदा हरबलो नाम कश्चित् तत्सुहृदब्रवीत् मित्र! त्वं कदापि ताम् आनेतुं नैव शक्ष्यसि, यतः सुखधरो बाहुबलेन मित्रबलेन वा त्वत्तः श्रेयान्, तस्मात् तत्सकाशे तव वीरत्वं नैव सङ्गच्छते। अन्यच्च स दानशीलतया तव पत्न्या विशेषेण प्रेमबद्धः प्रोत्साहितः प्रबलैर्मित्रैः सह साम्प्रतं मिलितश्च। त्वन्तु अर्थलाभात् स्वां पत्नीं विक्रीय विशेषेण लोकसमाजे अपमानितः निन्दितश्च। यदीयं वार्त्ता राज्ञो विदिता स्यात् तर्हि सोऽपि त्वां प्रति अत्यर्थं कुपितो भविष्यति। अतस्त्वां परमसौहार्द्देन उपदिशामि कदापि तेन सह वैरं विधाय लोकान् मा हासय, निवर्त्तस्व।

निर्बोधोऽर्थलोभः सुहृदाक्यमविगणय्य सक्रोधं सैन्यपरिवृतः सुखधरगृहमवारुणत्। सुखधरबलानि सबन्धुसुखधरस्य आदेशेन अर्थलोभसैन्यानि तत्क्षणादाचक्रमुः, सहसा परासाञ्चक्रिरे च। अर्थलोभस्तु तेनापि अनिवृत्य राजद्वारं गत्वा पत्नीमानेतुमभियुक्तवान्। श्रुत्वैव राजा

क्रुद्धः सन् सुखधरमवरोद्धुमैषीत् परं सन्धाननामा मन्त्री सुखधरस्य बहुतराणि सैन्यानि मित्राणि च वर्णयित्वा विना तथ्यानुसन्धानं तमवरोद्धुं न्यवारयत्, उपादिश्च दूतेनतथ्यानुसन्धानार्थम्।

अथ राजा मन्त्रिणस्तं परामर्शं श्रुत्वा क्रोधरहितः सुखधरसमीपं दूतं प्राहिणोत्। दूतेन समीपमेत्य राजा देशं निवेदितः सुखधरः मानपरां न्ययोजयत्। सा तु स्वं वृत्तान्तं समाचख्यौ। अथ दूतेन सर्वं वृत्तान्तं श्रुत्वा प्रत्यागत्य तथ्यमावेदितो नृपतिः सकौतुकं मानपरां द्रष्टुम्अर्थलोभेन सह सुखधरभवनं ययौ। सुखधरे राजानं दृष्ट्वा विनते राजा मानपराया रूपलावण्यं निरीक्ष्य विस्मयमगमत्। मानपरया प्रणम्य अर्थलोभसमक्षं सर्वस्मिन्वृत्तान्तेवर्णित अर्थलोभो निरुत्तरोऽभवत्। राजा च मानपराया वचसि विश्वस्तस्तामेव साम्प्रतिकं कर्त्तव्यमपृच्छत्। मानपराब्रवीत् देव! यो मां केवलेन अर्थलोभेन अन्यस्मै विक्रीणीते स्म, कथमहमिदानींतं पुरुषं भजे। एतदाकर्ण्य राजनि मानपरां साधुवादेन स्तुवति अर्थलोभः कामक्रोधलोभैर्नितरामाकुलोऽभवत्। अथ पुनरपि राजसमक्षं प्रार्थये अवादीत् देव! अलं सैन्यैः, आवाम् अन्योन्यं इन्दयुद्धं कुर्वः, तत्र यो जयेत्, स मानपरां लप्स्यते।

राज्ञा तथेति समादिष्टे उभौ अर्थलोभसुखधरौ स्वं स्वम् अश्वमारुह्य रणभूमिमवतीर्णौ। मानपरया सह राजनि मध्यस्थिते परस्परं घोरं संग्रामं चक्रतुः। परं सुखधरोऽर्थलोभं परासाञ्चक्रे। ततः सर्वे सुखधरं साधु साध्विति

अस्तुवन्। राजा बाहुबलाऽपि तं सुखधरं बहु प्रशस्य मानपरं तस्मै समर्प्य अर्थलाभस्य च सर्वस्वमन्यायलब्धमिति हृत्वा तत्पदे अन्यंजनं प्रतिष्ठाप्य च सहर्षं भवनं प्रत्ययासीत्। सुखधरो मानपरया सह सुखेन कालमनैषीत्। देव! एवं कामिन्यः सम्पदश्च हीनसत्त्वं परित्यज्य महासत्त्वमाश्रयन्ते। तदलं चिन्तया, सुखेन निद्रां भजस्व, सत्वरमेव कर्पूरिकां लप्स्यसे।

नरवाहनदत्तः राज्यधरमुखादेतदाकर्ण्य गोमुखेन सह सुखं निद्रामभजत। गोमुखः प्रातरुत्थाय सर्वं कृत्यं समाप्य च राज्यधरं युवराजस्य विमानगमनाय वायुयन्त्रंसज्जितुमनुरुरोध। राज्यधरः पूर्वनिर्मितं वायुविमानं सज्जयित्वा समानयत्। युवराजः गोमुखेन सह तद् विमानमारुह्य दुस्तरं सागरमतिक्रम्य क्षणेन समुद्रतीरवर्त्ति कर्पूरसम्भवं नगरमाससाद। अथ विमानादवतीर्य्य गोमुखेन सह नगरं प्रविश्य सकौतुकमितस्ततः पर्य्यटन् सानन्दं क्रमेण राजसदनसमीपमगमत्। प्रविशच्च तत्र कस्या अपि वृद्धाया योषितो गृहम्। वृद्धया तौ संवर्द्ध्य उपवेशनार्थमासने प्रदत्ते युवराजः क्षणं विश्रम्य तां तत्रत्यराजभवनवार्त्तां पप्रच्छ। वृद्धा नरवाहनदत्तस्य मनोहराकृतिनिरीक्षणेन सन्तुष्टा प्राब्रवीत् वत्स! अस्य नगरस्याधिपतिः कर्पूरसेनो नाम, अस्य महाराज्ञौबुद्धिकार्य्या, राजा अनपत्यतया सस्त्रीकः शिवं देवमाराधयितुं त्रिरात्रमुपावसत्। प्रापञ्च स्वप्ने वरं कन्या ते पुत्रादपि समधिकप्रिया भविता, तस्याश्च पतिर्विद्याधरराज्येश्वरो भविष्यतीति। राजा प्रत्यूष एव।

प्रबुद्धः राजमहिषीं स्वप्नवृत्तान्तं कथयित्वा तथा सह पारणामकरोत्।

गच्छता कालेन राजमहिषी गर्भवती दशमे मासि निरुपमामेकां कन्यां प्रासोष्ट। राजा स्वेन नाम्ना कन्यां कर्पूरिकाख्यां कृत्वा यथाविधानेन महोत्सवमन्वतिष्ठत्। ताञ्च कन्यां शशधरकलामिव दिने दिने वृद्धिंगच्छन्तीं क्रमेण अतिक्रान्तशैशवां निरीक्ष्य राजा विवाहार्थं समुत्सुकोऽभूत्। कन्या तु अतिमनस्विनी पुरुषद्वेषात् विवाहं न कामयते। एकदा ममैकया कन्यया विवाहं प्रति विद्वेषहेतुं पृष्टा सा अवादीत् सखि! अहं जातिस्मरा, पूर्वजन्मवृत्तं मे सर्वं स्मृतम्। तदेव मे विवाहानिच्छाया हेतुः। स च वृत्तान्तोऽयम्-

समुद्रस्यास्य तीरे यो महान् चन्दनतरुरस्ति तस्य सन्निधौ एकं पद्मसरो वर्त्तते। अहं कर्म्मदोषात् तस्मिन्सरसि हंसयोनौ सञ्जाता। कदाचित् भर्त्रा सह तस्मिन्चन्दनपादपे कुलायो मया निर्मितः। कियता कालेन मम कतिपये शावकाः समभवन्। मया तैः शावकैः सह कुलाये तस्मिन्नध्युषिते सहसा समुद्रः वृद्धिंगच्छन्नीड़ात् मच्छिशून् तरङ्गैरपातयत्। अहमपत्यशोककातरा निराहारेण स्थित्वा तत्रत्यस्य कस्यचित् शिवलिङ्गस्य सन्निधौ अरुदम्। अत्रान्तरे मत्पतिः राजहंसः समागत्य मृतशावकार्थं शोकं कर्त्तुं निषिध्य अब्रवीत्प्रिये! अलं शोकेन, जीवतोरावयोर्बहवः शावकाः समुत्पत्स्यन्ते। अहं पत्युस्तादृशैर्वाग्वाणैर्हृदि विद्धा व्यचि-

न्तयं हां! पुरुषा अतिनिष्ठुरा, ते शिशून् भक्तिमतीं स्त्रियञ्च न स्नेहेन पश्यन्ति, तन्मे अलमनेन पत्या शोकसन्तप्तेन च देहेन। एवमुक्त्वादेवदेवं भक्त्या प्रणम्य तमेव हृदि ध्यायन्ती पत्युः समक्षं जननान्तरे जातिस्मरा राजकन्या भवितास्मीति कामनया समुद्रजले न्यपतम्। अनन्तरं पुरुषद्वेषिणो राजकन्या जातास्मि, तस्मात् विवाहो मे न रोचते, तदिदानीं यथाभाग्यं तदेव सम्पत्स्यते इति।

मत्कन्या च इमं वृत्तान्तं मह्यं निवेदितवती, तद्वत्स! मया एतावत् विदितं मन्ये सा श्रीमतो भवत एव भार्य्या भाविनी, यतः विद्याधरचक्रवर्त्ती तस्याः पतिर्भविष्यतीति देवादेशः, तल्लक्षणञ्च सर्वं त्वयि दृश्यते, कथमन्यया अस्मिन् प्रदेशे समये श्रीमतामभ्यागमनं, मन्ये विधाता एव अस्य संयोगकारी भवन्तमिहानीतवान्। साम्प्रतमस्मद्गृहे अवस्थानेन इमं जनं कृतार्थं कुरु। इत्यभिधाय वृद्धया यथालाभम् आहारद्रव्ये समाहृते युवराजःगोमुखेन सह तदुपयुज्य तां रात्रिं तत्र निनाय। ततश्च प्रातः प्रभाते नरवाहनदत्तः सन्न्यासिवेशो गोमुखेन सह राजद्वारं समेत्य हा हंसि! हा हंसि। इत्येवं पुनः पुनराजुहाव। तदवलोक्य तत्र जनतायां सविस्मयमुपस्थितायां कर्पूरिकायाः सख्योऽपि समागम्य तं विस्मयकरं व्यापारं राजदारिकायै गत्वा समाचख्युः भर्तृदारिके! द्वारि कश्चिदपूर्वः सन्न्यासी उपतिष्ठते, स सद्वितीयोऽपि रूपेण अद्वितीयत्वं बिभर्त्ति जगति। हा हंसि हा हंसीत्येवं मन्त्रं सततं जपति च। तञ्च मन्त्रं श्रुत्वा नारीणां मनांसि

नितरां मुह्यन्ति। पूर्वहंसी राजकन्या चेटीमुखात् तदाकर्ण्य एकया चेट्या तं सन्न्यासिनं स्वसकाशं आहूय समानयत्।आनीतञ्च तं हरमाराधयितुं व्रतं धारयन्त्रं काममिव दृष्ट्वा मुमोह। युवराजः कर्पूरिकां निरीक्ष्य साक्षात्रतिमिष विग्रहिणीममन्यत। अथ तस्यां कर्पूरिकायां नरवाहनदत्तं प्रति हा हंसि हा हंसीति मन्त्रजपकारणं परिपृच्छन्त्यां स युवराजस्वदेव वाक्यं तथैव व्याजहार। ततस्तत्सहचरो गोमुखः कर्पूरिकायै हंसमिथुनवृत्तान्तमाख्याय पुनरब्रवीत् राजपुत्रि! अयं कौशाम्बीपतेरुदयनस्य पुत्रो नरवाहनदत्तो नाम जातिस्मरः समजायत। अस्मिंश्च प्रसूत एव आकाशवाणी उदचरत्, एष विद्याधरचक्रवर्त्तीभवितेति। ततोऽमुमतिक्रान्तशैशवं राजा यौवराज्ये अभिषिच्य मदनमञ्चुकया सह विवाहमदात्। ततश्च हेमप्रभनाम्नः विद्याधरपतेर्दुहिता रत्नप्रभा स्वयमागत्य एनं पतित्वेनावृणोत्। तदपि असौ युवराजः तस्या एव हंस्याः कारणात् क्षणमपि सुस्थतामप्राप्नुवन् एकदा मृगयार्थं वनं गतः एकां सिद्धतापसीं सहसोपस्थितामद्राक्षीत्। सा तु कथाप्रसङ्गेन इममनुगृह्य प्रोवाच त्वं पूर्वजन्मकर्म्मबलात् हंसत्वं प्राप्य समुद्रतीरवर्त्तिनि चन्दनपादपे वसतिमकरोः, कापि स्वर्गवनिता शापात् हंसयोनौ पतिता तव भार्य्यासीत्। सहसा तस्याः शावकेषु समुद्रजले निपत्य मृतेषु सा हंसी सुतशोकात् तस्मिन्नेव उल्लम्फ्यप्राणान्विजहौ। त्वञ्च तस्याः शोकेन तत्पदवीमेव अवाप्तवान्। साम्प्रतं शम्भुवरेण त्वं राजराजतनयः जातिस्मरश्च संवृत्तो-

ऽसि। सा च हंसी समुद्रपारवर्त्तिनि कर्पूरसम्भवे नगरे कर्पूरसेननाम्नः नृपतेर्दुहिता जातिस्मरा च अजनि। तस्मात् वत्स! त्वं तत्र गत्वा तां ते पूर्वभार्य्यां गृहाण। एवमुक्त्वातस्यां तिरोहितायाम् अयं तव गतिं श्रुत्वा नितरामधीर एव मया एतन्नगरमुद्दिश्य प्रस्थितः। बहूनि दुर्गमाण्यतीत्य च क्रमेण समुद्रतीरवर्त्ति नगरमेकं प्राप्य तत्रत्यं राज्यधरं नाम एकं सूत्रधरं मित्रमाप। तेन च प्रदत्तं वायुविमानमाश्रित्य आवां समुद्रपारमेत्य नगरमिदं समासादितवन्तौ। अत्र चोपस्थाय अस्माकं युवराजोऽयं हा हंसि हा हंसीत्येवं सदा जपन् उन्मत्त इव विचरति, तदिदानीं भवत्यै यथा रोचते तत् क्रियतामिति।

एवमुक्त्वागोमुखे विरतं कर्पूरिका तत् सर्वं सत्यं प्रतीत्य आत्मानं प्रति नरवाहनदत्तस्य प्रगाढ़ं स्नेहमनुचिन्त्य प्रेमार्द्रा प्रत्यवादीत् सत्यमेवाहं सा हंसी, मदर्थञ्च आर्य्य पुत्रः जननद्वयेऽपि महान्तं क्लेशं प्राप। तदहमेव धन्या, अद्यप्रभृति युवराजस्य प्रेमदासी अस्मीति समाख्याय स्नानभोजनादिना तौ परिचचार। अथेमं वृत्तान्तं परिजनमुखादुपश्रुत्य राजा कर्पूरसेनस्तत्क्षणं युवराजसमीपमेत्य तं चक्रवर्त्तिलक्षणाक्रान्तं तनयाजिवृक्षुञ्च दृष्ट्वा आत्मानं कृतार्थममन्यत। अथ शुभे लग्ने अग्निं साक्षीकृत्य यथाविधि कन्यां तस्मै सम्प्रदाय त्रिकोटीः स्वर्णमुद्रास्तत्परिमितानि कर्पूराणि दशकोटि वस्त्राणि शतं दासीश्च यौतकानि प्रदात्।

अथ युवराजः प्रियया तया सह कियन्तं कालं श्वशुर-

गृहे सुखेनोषित्वा कर्पूरिकां प्रति कौशाम्बीं प्रत्यागन्तुं प्रस्तावमकार्षीत्। सा च सम्प्रता प्रत्यवोचत् नाथ! येन विमानेन भवान् आगतः, तदतीव क्षुद्रम्। अस्मादपि बृहत्तरं विमानं प्रस्तुत्य आनयामि एवमुक्त्वाप्राणधरो नाम यो वैदेशिकः सूत्रधरः कियन्तं कालं तत्रागतः, तम् अभिमतयन्त्रनिर्माणार्थमादिदेश। आदिष्टेन च तेन तादृशं विमानं प्रस्तुत्य आनीतं दृष्ट्वा नरवाहनदत्तो व्यचिन्तयत्मन्ये अयमेव राज्यधरस्य भ्राता प्राणधरः। एवं विभाव्य तं परिचयमपृच्छत्, स च सर्वं यथातर्कितं युवराजाय न्यवेदयत्। अथ युवराजेन राज्यधरवृत्तान्ते कथिते सूत्रधरः सातिशयं परितुष्टः सत्वरं गत्वा स्वं विमानं गृहीत्वा समानयत्। अथ कर्पूरसेननृपेण यथोचितं विसर्जितः युवराजः प्रियया गोमुखेन तेन च सूत्रधरेण सह तत् विमानमारुह्य सत्वरं समुद्रपारवर्त्तिनं राज्यधरमाससाद। राज्यधरी ज्येष्ठसमागमेन परां प्रीतिमवाप्य तान् यथोचितं संवर्द्धयामास। अनन्तरं युवराजस्तमपि सहगन्तुकामं विमानमारोप्य सानन्दं कौशाम्बी समाजगाम।

वत्सराजः पुत्रागमनवार्त्तां निशम्य सोत्साहानन्दनिर्भरं देवीभ्यां स्नुषाभ्यां मन्त्रिभिश्च परिवृतः युवराजं प्रत्युद्गन्तुं पुरात् निर्जगाम। नरवाहनदत्तः बध्वा सह विमानादवरुह्य पितरं मातरौ च प्रणम्य विनयनम्रः सर्वान् राजमन्त्रिणः आशिषः प्रयुञ्जानान् यथायथं सम्मानितवान्। ते च सर्वे तं सादरं समालिङ्ग्य हर्षाश्रुजर्जराः समभवन्। रत्नप्रभा मदनमञ्चुका चोभे सपत्नीसहितं पति-

मवाप्य भृशं ननन्दतुः। अथ राजपुत्रः सर्वं वृत्तान्तमभिधाय पित्रादिभिरभिनन्दितः यौगन्धरायणादिभिः प्राचीनमन्त्रिभिः सार्द्धं राजभवनं प्राविशत्। अथ युवराजेन समुचितं सत्कृत्य अपरिमितान् अर्थांश्चप्रदाय विसर्जितः प्राणधरः स्वं विमानमारुह्य कर्पूरसम्भवं नगरं प्रत्येत्य राजानं कर्पूरसेनं दुहितृजामात्रादीनां कुशलवार्त्तया सन्तोष्य स्वं भवनमगात्।

__________

अथ अष्टमो लम्बकः।

<MISSING_FIG href="../books_images/U-IMG-1721585629243.png"/>

अथ चतुश्चत्वारिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721585777447.png"/>

अथ कदाचित् पुत्रेण सह सभासीने राजनि कश्चिद् विद्याधरः अन्तरीक्षाद् भूतलमवतीर्य्य राजान्तिकमुपगम्य तेन च राज्ञासंवर्द्धितः सत्कृतश्च अवादीत् राजन्! हिमालयान्तर्वर्त्तिनि वज्रकूटाख्ये नगरे मम वसतिः, अहं वज्रप्रभो नाम। भगवान् भवानीपतिर्मदीयेन तपसा सन्तुष्टः मामरातिदुर्जयमकार्षीत्। अद्य अहं भगवन्तं प्रणम्य आगच्छन् विद्यया अज्ञासिषं राजकुमारो नरवाहनदत्तः देवस्य उमापतेः परमो भक्तः, तदिच्छया च कामदेवांशेन सम्भूतः तस्यैव भगवतः कृपया उभयस्मिन् लोके राजत्वं करिष्यति। पुरा पृथ्वीपतिः सूर्य्यप्रभः महादेवं प्रसाद्य

विद्याधरसिंहासनस्य दक्षिणार्द्धं तथा श्रुतशर्म्मा नाम राजा उत्तरार्द्धं प्राप्तवान्। साम्प्रत राजनन्दनः स्वेन पुण्यबलेन सर्वचक्रवर्त्ती भविष्यतीति।

एवमुक्त्वावज्रप्रभे विरते नरवाहनदत्तः सूर्य्यप्रभस्य विद्याधरैश्वर्य्यलाभवार्त्ता कीदृशी इति तमपृच्छत्। सोऽब्रवीत् देव ! पुरा मद्रजनपदानां प्रधाननगरे शाकले चन्द्रप्रभो नाम राजा प्रतिवसति स्म। तस्य प्रधाना महिषी कीर्त्तिर्नाम। एकदा गर्भवत्यास्तस्याः पुत्रे प्रसूते इयमाकाशभारती उदतिष्ठत् यथायं शिशुर्महादेवेन स्वहस्तनिर्मितः, अयञ्च सूर्य्यप्रभ इति प्रसिद्धः विद्याधरचक्रवर्त्ती भविष्यतीति। राजा चन्द्रप्रभः अनेन देवादेशेन अत्यन्तमानन्दितः महोत्साहं महत्या समृद्ध्या तस्य जातकर्म्मादिकमकरोत्। कुमारः क्रमेण दिने दिने शशीव वर्द्धमानः शैशव एव निखिलानि शास्त्राणि कलाश्चशिक्षितवान्। तदवलोक्य राजा अतीव हर्षितः शैशवातिक्रान्तमेव तं यौवराज्येऽभ्यषेचयत्। स च भासप्रभाससिद्धार्थनामभिः त्रिभिर्मन्त्रिपुत्रैः परिवृतः स्वं कार्य्यजातं यथायथं निरवर्त्तयत्।

कदाचिदमुस्मिन् युवराजे पित्रा सह सभासीने मयदानवः सहसा धरातलं विदार्य्य सभां प्रविष्टः सप्रणाममवादीत् राजन्! भगवान् शूलपाणिर्युवराजं विद्याधरचक्रवर्त्तिनं कर्त्तुं स्वहस्तेन निर्म्माय मर्त्त्यलोकं प्राहिणोत्। इदानीं मामाहूय युवराजं तत्पदप्राप्त्यनुकूलान् विद्यासमूहान् शिक्षयितुं प्रैरिरत्। तन्महाराजेनादिष्टः युवराजं शिक्षयितुं नेतुमिच्छामि। श्रुतशर्म्मा नाम राजा युव-

राजस्य प्रतिद्वन्द्वी, तमस्माकं साहाय्येन सिद्धविद्यः पराजित्य सिंहासनं लब्धव्यमिति।

एवमुक्तो राजा चन्द्रप्रभः पुत्रं मयदानवाय सविश्रम्भं प्रादात्। दानवेन्द्रः राजपुत्रं स्वमन्त्रित्रयसहितं पातालं नीत्वा यथापूर्वं सर्वा विद्या प्रशिक्षयत्। अनन्तरं भूतासनं नाम विमानं साधयित्वा युवराजं ससहचरं तेन विमानेन तत्पितरं प्रापय्य अब्रवीत् यावदहं पुनर्नागच्छामि, तावत्त्वं सिद्धविद्याप्रभावेण अशेष सुखं सम्भुज्य काल नय। इत्युक्त्वातस्मिन् प्रस्थिते राजा चन्द्रप्रभः पुत्रस्य विद्यासाधनेन परां प्रीतिमन्वभवत्।

अथ युवराजः सूर्य्यप्रभः सिद्धविद्याप्रभावेण विमानमारुह्य समन्त्रिवर्गःनानादेशान् परिभ्रमितुं प्रावर्त्तत। स खलु क्रमेण ताम्रलिप्तनगराधिराजस्य वीर्य्यभटस्य दुहितरं मदनसेनां, काञ्चीराजस्य कुम्भीरस्य तनयां चन्द्रिकावतीं, लावणकराजस्य पौरवस्य कन्यां वरुणसेनां, चीनाधिपतेः सुतां सुलोचनां, श्रीकण्ठराजस्य कान्तिसेनस्य पुत्रींविद्युन्मालां, कौशाम्बीपतेरपरान्तस्य कुमारीं चन्द्रावतीं, तथा जनमेजयस्य राज्ञः कन्यकां परपुष्टां अपहृत्य ताभिः सह कदाचिद् व्योमयानेन वा कदाचित् उद्यानविहारेण कालं नयन् सुखमुवास।

एकदासौ ताम्रलिप्तनगरोद्याने ताः सर्वा राजकन्यकाः संरक्ष्य मन्त्रिभिः सह विमानमारुह्य वज्ररात्रं नाम नगरं जगाम। तत्र च तारावलीं नाम राजकन्यां तत्पितुः रम्भकस्य समक्षमपहरन् सत्वरं पुनस्ताम्रलिप्तं नगरं समास-

दत्। ततो विलासिनीं नाम राजकन्यामपहृत्य पित्रोः सकाशं गमिष्यन् सर्वाभिः पत्नीभिः सह शाकलनगरं प्रतस्थे।

अथ तस्मिन् युवराजे पित्रोः सकाशं प्राप्ते तासां राजकन्यानां पितरः नरपतेश्चन्द्रप्रभस्य सकाशं विधिवत् कन्यादानप्रस्तावं कर्त्तुं दूतान् प्रैरिरन्। राजा सन्तुष्टः तेषां प्रार्थनामनुमान्य सर्वत्र च गत्वा पुत्रोद्वाहविधिं यथाशास्त्रं निर्वर्त्तयास। सर्वे एव राजानः कन्याभिः सह विविधानर्थान् यौतकीकृत्य राजानं बहुशः सत्कृत्य च प्राहिण्वन्। ताश्च सर्वाः कन्यकाः सदृशं पतिमवाप्य परां प्रीतिमनुभवन्त्यः सुखेन कालमनयन्।

___________

पञ्चचत्वारिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721619093023.png"/>

एकदा राजा चन्द्रप्रभः पुत्रेण सूर्य्यप्रभेण सह मन्त्रिभिः परितो मयदानवं सस्मार। स्मरणमात्रेण सहसा सभामध्यभागे विदीर्णे सुगन्धवायुना सह मयदानवमुपस्थितं दृष्ट्वा तं सिंहासनमध्यवासयत्। स तु सत्कृतः समुपविष्टः प्राब्रवीत् युवराज! साम्प्रतं पार्थिवं सर्वं सुखमुपभुक्तं भवता, अतः परमन्यविधं सुखमन्वेषणीयम्। तद् भवानग्रतः दूतैः सर्वान् सम्बन्धिनो नृपतीनाह्वयतु, तदनन्तरं विद्याधरपतिना सुमेरुणा सह सख्यं कृत्वा तेन सहायेन श्रुतशर्म्माणंजयम् खेचरराज्याधीश्वरो भविष्यति। यतः

सुमेरुः देवदेवादेशेन युवराजाय कन्यां दत्त्वा साहाय्यं विधास्यति। चन्द्रप्रभो मयदानववचसा सर्वान् नृपतीन्समाह्वातुं प्रहस्तादीन् खेचरान् समन्ततः प्रेषयामास।

अथ एकस्मिन् दिवसे देवर्षिर्नारदः समागत्य अर्घंगृहीत्वा समुपविष्टः प्रोवाच राजन्! देवराजः मां भवदन्तिकं प्रेष्य कथितवान् यूयं महादेवादेशेन मयसहाया यत् मर्त्त्यवासिनं सूर्य्यप्रभं विद्याधरपदे प्रतिष्ठापयितुं कृतसङ्कल्पाः स्थ, तत् सर्वथा असाम्प्रतम्। यतः पदमिदम्अस्माभिः पूर्वं श्रतुशर्म्मणेप्रदत्तं, तच्च तस्य कुलक्रमागतत्वेन निर्द्धारितम्। तदस्माकं प्रातिकूल्येन यद् यूयं चेष्टध्वे, तत्युष्माकमेव आत्मविनाशहेतुः। त्वञ्च रुद्रयज्ञं कर्तुमुद्यत इति श्रुत्वा त्वामश्वमेधं कर्त्तुंसमादिशं तदपि त्वया न कृतम्। इत्थं सर्वान् देवानपहाय एकमात्रे शम्भौ समाराधिते युष्माकं मङ्गलं दूरापेतमवधार्य्यताम्।

एतद् देवर्षेर्वचनमाकर्ण्य मयः सस्मितमवादीत् देवर्षे! भवतः प्रमुखात् महेन्द्रेण यदुक्तं तत् सर्वथा अयुक्तम्। प्रथमतः अस्माकं युवराजं मर्त्त्यवासीति कृत्वा यद्नागणयत्तत् देवराजस्य अनुचितम्। युवराजाऽयं यत् सर्वशक्तिमान्, तत् किं दामोदरसंग्रामे न प्रत्यक्षीकृतं देवेन्द्रेण। यश्च मर्त्त्यःसर्वां शक्तिमापद्यते स किं सर्वसिद्धेरधीश्वरो न भवितुमर्हति। पूर्वं राजा नहुषः मर्त्यवासी अपि किं देवराज्यं नाकरोत्। तेनोक्तं तैः श्रुतशर्म्मणे विद्याधरपदं प्रदत्तमिति तस्य तत् कुलक्रमागतमिति तदपि न श्रद्धेयम्। यत्र महेश्वरः स्वयं दाता, तत्र अन्येषां का शक्तिः?

हिरण्याक्षस्य ज्येष्ठं हिरण्यकशिपुं गतमिन्द्रत्वं कथं हृतं तत् किं तस्य कुलक्रमागतं नासीत्? वयं देवानां प्रातिकूल्येन अधर्म्ममाचराम इत्यपि नैव वक्तुमुचितम्। वयं तावत् न मुनिपत्नीं हरामः, नापि ब्रह्महत्यां कुम्भः। वयं केवलं शत्रून् जेतुं चेष्टामहे, अत्र तावत् कोऽस्त्यधर्म्मः? वयमश्वमेधमकृत्वा रुद्रयागं कुर्म्मः, यतोऽस्माभिर्ज्ञातं रुद्र एव सर्वदेवमयः, तस्यार्च्चनयैव सर्वे देवा अर्चिताः परितुष्यन्ति, तत् कथमुक्तं देवान् प्रति वयमवज्ञां कुर्म्म इति। देवराजेन शिवाराधनया अमङ्गलभयं प्रदर्शितम् एतत् किं विज्ञस्य तस्य वक्तुमुचितम्। देवराजस्य कथामिमाकर्ण्य वयं नितान्तं दुःखिताः स्मः। सूर्य्ये अभ्युदिते किमपरैस्तेजोभिः। महर्षे! भवान् एतत् सर्वं भवता देवराजाय गत्वा वक्तव्यम्। अस्माभिस्तावत् कर्म्मारब्धं, साम्प्रतं देवराजाय यद् रोचते तत् क्रियतामिति।

एतदाकर्ण्य देवर्षौप्रस्थिते चन्द्रप्रभो नृपः भयमाययौ। मयदानवोऽब्रवीत् महाराज! सर्वे दानवा भवतां सहायाः, भगवान् भवानीपतिरपि भवताम् अनुकूलः, तत् कस्मादपि भयं मा कृथाः, वीराः यूयं मद्वाक्यानुसारिणः निःशङ्खं कार्य्यमारभध्वम्। सर्वे मयवाक्यं बहु समादृत्य सन्तोषमवापुः।

अत्रान्तरे दूतमुखादवगतवृत्तान्ताः सर्वे महीपतयः ससज्जाश्चन्द्रप्रभ समासदन्। चन्द्रप्रभे समागतान् नृपतीन्यथायोग्यं समादृत्य दत्तासने दानवराजोमयःसर्वसमक्षं पुनरवदत्राजन्! अद्य रजन्यां रुद्रमुद्दिश्य महाबलिः

प्रदातव्यः। ततोऽहं यद् यद् वक्ष्यामि तत् तत् असङ्कुचितं कर्त्तव्यम्। ततो राजा मयोपदेशेन रुद्रबलियोग्यानि नानाद्रव्याणि समाहृत्य महारण्यं गत्वा च रुद्रमुद्दिश्य बलीन् प्रददौ, चकार च यथाविधानं होमान्। तत्र च तदा नन्दी प्रमथगणवृतः राजसमक्षमाविर्बभूव। स च राज्ञा सम्पूजितः प्रहृष्टः प्रोवाच राजन्! भगवान् भूतपतिर्भवने सन्दिष्टवान् यूयं मत्प्रसादात् शतात् शक्रेभ्योऽपि मा विभीत, युवराजः सूर्य्यप्रभः सत्वरमेव विद्याधरचक्रवर्त्ती भविष्यतीति। एवमुक्त्वा तस्मिन् तिरोहिते राजा पुत्रस्य अभ्युन्नतौ स्थिरनिश्चयो भूत्वा कार्य्यं समाप्य च मयेन सह स्वं नगरं प्रत्यागमत्।

अथापरेद्युः प्रातः सर्वेषु राजसु सभासीनेषु दानवपतिर्मयः समब्रवीत् महाराज! रहस्यमाकर्ण्यतां भवान्सुनीथो नाम मत्पुत्रः, सूर्य्यप्रभः सुमण्डीकनामा भवदनुजः एतावुभौ देवासुरे संग्रामे निहतौ अत्र पितापुत्रभावेन समुत्पन्नौ। भवतस्तत् दानवशरीरं दिव्यौषधिभिर्घृतैश्च अनुलिप्य पाताले मया रक्षितम्। स भवान् मया सह पातालं गच्छतु, प्रविशतु च मदुपदिष्टेन मार्गेण तत् शरीरम्। एवं कृते महातेजस्वी बलशाली च भूत्वा देवान्पराजेष्यते। सुमण्डीकावतारः सूर्य्यप्रभस्तु अनेनैव शरीरेण खेचरेश्वरत्वमाप्स्यतीति।

दानवराजस्य कथामिमां श्रुत्वा सुचतुरो मन्त्रिवरः सहार्यःप्रोवाच दानवेन्द्र! अस्माकंप्रभुरन्यदेहं प्रविश्य
किं पञ्चतामाप्स्यति? मृत इवास्मान् विस्मरिष्यति च?

मयः प्रावदत्! मन्त्रिन् युष्मत्प्रभुरेषः योगबलेन देहान्तरं प्रविश्य युष्मान् न विस्मरिष्यति, न च पञ्चतामाप्स्यति। अत्र तावदयं हेतुः, यः अस्वाधीनतया देहं विसृज्य अन्यगर्भे जायते, तस्य मरणादिक्लेशेन किमपि न स्मृतिपथमायाति। यश्च योगेन, विना क्लेशं देहान्तरं विशति, तस्य सर्वमेव स्मृतौ तिष्ठति। तदलमुद्वेगेन, युष्माकं राजा जराव्याधिशून्यं दिव्यशरीरमाप्स्यति। यूयञ्च सर्वे अनेन सह रसातलं गत्वा सुरापानेन नीरोगाः दिव्यदेहाश्च भवत इति वचनमाकर्ण्य सर्वे निःसंशयाः संवृत्ताः।

परस्मिन्नहनि राजा चन्द्रप्रभः सपरिजनः सवर्गः नगरात् निर्गम्य चन्द्रभागेरावत्योर्नद्योः सङ्गमे उपस्थाय तत्र सर्वान् नृपतीन् सूर्य्यप्रभस्य सर्वान् परिजनांश्च संरक्ष्य मयदर्शितेन विवरेण पातालमविशत्। सूर्य्यप्रभः राजमहिष्यः सिद्धार्थादयो मन्त्रिणश्च तमनुजग्मुः।

अत्रान्तरे नभोमण्डलात् सहसा विद्याधरबलानि आविर्भूय मायया तान् नृपतीन् स्तम्भयित्वा सूर्य्यप्रभस्य सर्वा महिषीरपाहरन्। अपहृतमात्रमेव दिव्यवाणी उदतिष्ठत् रे पापीयन् श्रुतशर्म्मन्! यदि त्वं सूर्य्यप्रभस्य भार्य्याः स्पृशेः, तदा ससैन्यस्तत्क्षणं निधनमाप्स्यसि, एताश्च मातृवत् सगौरवं रक्ष, अहमधुनैव त्वां विनाश्य एत नोद्धृतवानस्मि, तस्यास्ति किञ्चित्कारणम्। एवमुक्त्वाराजानः! यूयं क्षमध्वम्, एतासां योषितां नास्ति विनाशः। पुनरपि यूयं स्वां स्वां कन्यामवाप्स्यथ, अत्रैवेदानीं सुस्थिरास्तिष्ठत। एवमुक्त्वादैववाण्यां विरतायां ते खेचरा भयात् तिरो-

हिताः। राजानश्च तस्मिन् देववचसि कृतविश्वासास्तत्रैवावतस्थिरे।

अत्रान्तरे योगीश्वरो दानवेन्द्रः पातालमध्यवर्त्तिनि देवमन्दिरे स्थितं राजानं चन्द्रप्रभं देहान्तरप्रवेशाय योगमुपदिश्य तस्मात् द्वितीयं रसातलं निनाय। राजा सवर्गस्तत्र प्रविश्य अपश्यत् सर्व एव तत्र निद्रागताः, एकस्मिंश्च शयने महाकायो भीषणमूर्त्तिः कश्चित् पुरुषः शेते। कतिपया दैत्यकन्यास्तं समन्तात् परितिष्ठन्ति। दैत्यराजा मयः अङ्गुलिसंज्ञया प्रोवाच राजन्! अयं स ते पूर्वदेहः, स्त्रीभिः परिवेष्टितस्तिष्ठति। तद् भवान् मदुपदिष्टेन योगेन अत्र प्रविशतु। राजापि तत्क्षणं वर्त्तमानशरीरं परित्यज्य योगेन पूर्वतनं दानवदेहं प्रविष्टः चन्द्रप्रभसुनीथ इति नाम दधार। प्रविष्टे च राजनि तत् कलेवरं जृम्भां परित्यज्य चक्षुषो उन्मील्य च समुत्तस्थौ। तदवलोक्य अद्य सुप्रभातमस्माकं, देवः सुनीथः पुनर्जीवित इत्येवमानन्दकोलाहलैरसुरवधूनां मुखकमलानि प्रापूर्य्यन्त। सूर्य्यप्रभादयस्तु नृपतेर्जीवशून्यं कलेवरं दृष्ट्वा परं विषादमवापुः।

अथ चन्द्रप्रभसुनीथं पितुर्दानवराजस्य चरणयोर्निपतितं दृष्ट्वा दानवराजः पुत्रमालिङ्ग्य सर्वसमक्षमब्रवीत् पुत्र! तव जन्मद्वयं स्मृतिपथमायातम्? सुनीथः वाढ़मित्युक्त्वाउभयोरेव जस्मनोर्वृत्तान्तमाचख्यौ। ततश्च दानवेन्द्रो मयश्चन्द्रप्रभस्य तत् कलेवरं कदाचित् कार्य्यं करिष्यतीति विविच्य सयत्नमरक्षत्। अनन्तरं सर्वान् तृतीयं तलातलं नीत्वा एकां वापीं सुरासलिलामदर्शयत्। सर्वेषु तस्यास्तीरमुप-

विष्टेषु सुनीथमहिला सर्वेभ्य एव तेभ्यः पत्रपुटेन सुरामानीय प्रादात्। अथ सर्वे सूर्य्यप्रभादयः अमृतरसां तां सुरां पीत्वा मत्ताः सुप्तोत्थिता इव दिव्यं कलेवरं प्राप्य महाबलपराक्रान्ता अभवन्।

तदनन्तरं चन्द्रप्रभसुनीथश्चतुर्थम् अतलं प्रविश्य तत्र सर्वसम्पत्तिशालिनि निकेतने स्थितां जननीं लीलावतीं ददर्श। निपपात च तस्याश्चरणयोः। सा च पुत्रं चिरागतं दृष्ट्वा ससम्भ्रममासनात् उत्थाय समालिङ्ग्य तस्य शिरश्चुम्बनादिकं कृत्वा सानन्दं पत्युर्भूयसीं प्रशंसामकरोत्। अथ दानवराजः सूर्य्यप्रभं प्रति अङ्गुलिं निर्दिश्य अब्रवीत् देवि! सोऽयं तेद्वितीयः पुत्रः सुमुण्डीकः, इदानीं चन्द्रप्रभस्य पुत्रः सूर्य्यप्रभ इति प्रसिद्धिं गतः। भगवान् भवानीपतिरेनं विद्याधरचक्रर्त्तिनं कर्तुं स्वहस्तेन सृष्ट्वा भूतलं प्राहिणोत्, अयं हि मर्त्त्यशरीर एव तत्पदमवाप्स्यतीति।

एतत् श्रुत्वा सूर्य्यप्रभं सस्नेहं पश्यन्तीं लीलावतींदृष्ट्वा सूर्य्यप्रभः सचिववृन्दैः सार्द्धं मातरं चरणयोर्ववन्दे। लीलावती साशीर्वादमब्रवीत् वत्स! तवेदमेव शरीरमपूर्वां शोभां दधार, तदलं पूर्वशरीरेण। अथ दानवेन्द्रः कन्यां मन्दोदरीं विभीषणञ्चास्मरत्। तौ च स्मृतावेव तत्क्षणमागत्य समुचितं सत्कारमवाप्य प्रोचतुः तात! वयं कमपि प्रति बलं प्रयोक्तुं नेच्छामः, तत् यदि देवराजः अस्मान्प्रति बलं प्रयुञ्ज्यात् तत् कथं वयं सहिष्यामहे। ये चासुरा देवैर्निहताः, तेषामनवधानता एव दोषः कारणम्। बलिप्रभृतीन् असुरान् सततमवहितान् देवा अपि न

विनाशयितुं शक्ताः, तदिदानीं गच्छाम इत्युक्त्वातौ प्रस्थितौ। ततश्च दानवराजः बलिं दानवेन्द्रं साक्षात् कर्तुं सुनीथेन सूर्य्यप्रभादिभिश्चसह तृतीयं पातालं प्रविश्य तं दैत्यपतिं प्रणनाम। बलिना यथायथं सत्कृतेषु तेषु समासीनेषु बलिर्मयप्रमुखात् सर्वं वृत्तान्तं श्रुत्वा सानन्दं पितामहं प्रह्लादं चरणयोः निपत्य अवादीत् तात! सुनीथोऽयं स्वं शरीरं प्राप्य पुनर्जीवितः सूर्य्यप्रभोऽयं मृतस्य सुमुण्डीकस्यावतारः। भगवान् भूतपतिरस्मै सुप्रसन्नः विद्याधरसाम्राज्यं दातुमादिष्टवान्। अहञ्च देवदेवस्य तस्य यज्ञप्रभावेण शिथिलबन्धनः संवृत्तोऽस्मि। तत् सुनीथसमुण्डीकयोः पुनःप्राप्तिरस्माकं भाविने मङ्गलायैव। तदानीं तत्र स्थितः दैत्यगुरुः शक्रोऽब्रवीत् धर्म्ये पथि वर्त्तमानानां कदापि नामङ्गलं, तन्मदीयं वाक्यमाकर्ण्य धर्म्मं चरतिति।

तच्च गुरुवाक्यं सर्व सप्तपातालवासिनः असुरा अनुमुमुदिरे। राजा बलिश्च सुनीथप्राप्तिहर्षितः महोत्सवं व्यधात्।

ततः सुरपुरात् देवर्षिः बलेः सभामुपगतोऽर्घ्यं गृहीत्वा कृतासनपरिग्रहः सर्वानब्रवीत् दानवाः! देवपतिः पुनरपि सन्मुखेन युष्मान् इदमाह, अहं युष्माकं सुनीथस्य पुनर्जीवनं श्रुत्वा परमाप्यायितोऽस्मि, तदधुना अस्माभिः सह अकारणं वैरं मा कुरुत, मा विरुन्ध च अस्माकं पक्षेण श्रुतशर्म्मणा सह।

प्रह्लादः प्राब्रवीत् सुनीथस्य जीवनप्राप्त्या देवराजस्य परितोष इति सुखितमस्माभिः, अद्य अस्माभिः गुरोः

सकाशे प्रतिज्ञातं कदाप्यधर्म्मंनाचरिष्याम इति। धर्म्येपथि स्थिता एव सर्वं साधयिष्यामः, परन्तु देवपतिः श्रुतशर्म्मसहायोऽस्मान् प्रति यत् विरुद्धमाचरितुं प्रवृत्तः, तदतीव आश्चर्य्यमनुचितञ्च। भगवान् चन्द्रमौलिः सूर्य्यप्रभस्य सहायः। स खलु एनं प्रति प्रसन्नः अस्मै विद्याधरचक्रवर्त्तित्वं प्रदातुमादिदेश। तस्मात् देवदेवादिष्टे कर्म्मणि नास्माकं दोषावकाशः। तत्कथं देवपतिरस्मान् अकारणवैरिणः कथयति एतदस्माकमतीव दुःखाकरम्। नारदेदानवेन्द्रमुखादेतदाकर्ण्य इन्द्रं विनिन्द्य तिरोहित शुक्रः प्राब्रवीत् कार्य्येऽस्मिन् इन्द्रस्यैव वैरानुबन्धो दृश्यते, यदा देवादिदेवोऽस्माकं पक्षो वर्त्तते, तदा देवेन्द्रस्य किं साध्यम्अस्माकमपक्रियायाम्? यच्च इन्द्रं प्रति उपेन्द्रस्य यत्नातिशयोऽस्ति, तेनैव वा युष्माकं का भीतिः? यूयं निर्भयं तिष्ठतेति। एतदाकर्ण्य सर्वे दैत्याः स्वं स्वं भवनं प्रतस्थिरे, बलिश्च सभागृहात् अन्तःपुरमासदत्।

अथ सुनीथे मातुःसमीपमेत्य कृताहारादिव्यापारे सा कुवेरदुहितरं तेजस्वतीं, तुम्बुरोः कन्यां मङ्गलावतीं, प्रभासस्य सुतां कीर्त्तिमतीञ्च प्रधानास्तिस्रो महिषीस्तस्य हस्ते समर्पयामास। ततः सुनीथे प्रथमं ज्येष्ठां भार्य्यामादाय शयनगृहं प्रविष्टे सूर्य्यप्रभादयः सर्वे स्वैः स्वैः परिजनैः सह गृहान्तराणि अविशन्। अथ सर्वेषु निद्रितेषु सूर्य्यप्रभो निर्निद्र एव तिष्ठन् कामपि महिलां सख्या सह तत्र प्रविष्टामद्राक्षीत्। दृष्ट्वैव व्यचिन्तयत् अहो रूपमाधुर्य्यम्! अन्येस्वर्गे अस्यां स्थितायाम् अप्सरसामवमानः स्यादिति

विधाता इमां पातालं नीत्वा अरक्षत्। सा तु क्रमेण सर्वान् सुप्तान् अवलोक्य पश्चात् चक्रवर्त्ति लक्षणोपेतं सूर्य्यप्रभं समेत्य समभाषत सखि! त्वमिमं पादयोः स्पृष्ट्वा प्रबोधय इति। सखी च तथाकरोत्।

सूर्य्यप्रभस्तु व्याजनिद्रानिमीलिताक्षः क्रमेण चक्षुषी उन्मील्य अवादीत् का यूयम्? किमर्थं वा अत्रागताः? एतदाकर्ण्य सखी प्रत्यवादीत् भद्र! हिरण्याक्षस्य यः अमीलनामा पुत्रः, तस्य इयं प्राणसमा दुहिता कलावती नाम। अद्य सोऽमीलः बलेरन्तिकात् गृहं गत्वा सुनीथस्य पुनर्जीवनं तदनन्तरं शम्भोः प्रदादेन सुमुण्डीकावतारस्य सूर्य्यप्रभस्य विद्याधरैश्वर्य्यस्यभवितव्यतां परिजनेभ्यः कथयित्वा सूर्य्यप्रभाय स्वां दुहितरं कलावतीमभिप्रायमकार्षीत्। तदाकर्ण्य सेयं कलावती भवन्तं द्रष्टुमागतेति।

सूर्य्यप्रभः कथामिमाकर्ण्य तस्याः आशयं जिज्ञासुः पुनः कपटनिद्रामभजत। परं सा विनिद्रं प्रहस्तमुपेत्य सख्या स्वमभिप्रायं प्रकटय्य वहिरगात्।

अथ प्रहस्तः सूर्य्यप्रभं समेत्य प्रावोचत् देव! जागर्षि? सूर्य्यप्रभः सहसा नेत्रे समुन्मील्य वाढ़ं जागर्म्मि, अद्य अल्पमपि निद्रां न लभे। अपरं संवादमेकं कथयामि शृणु। साम्प्रतमेव काचित् परमसुन्दरी कन्यका सख्या सह गृहं प्रविश्य दर्शनं दत्त्वैव प्रस्थिता। तदनुसन्धे हि, सा कुत्र गतेति। प्रहस्तः श्रुत्वैव वहिरागत्य अपश्यत् सा कन्या सख्या सह दण्डायमाना तिष्ठति। तदवलोक्य स समीपमेत्य तामब्रवीत् दानवकन्ये! भवत्या अनुरोधात् प्रभुं

प्रबोधितवानस्मि, तद् भवतीमदनुरोधेन पुनस्तं साक्षात्कृत्य दर्शनेन्द्रियं सफलयतु। एवमुक्त्वा कलावतीं पुनः सूर्य्यप्रभसकाशमनैषीत्। स च तां दृष्ट्वा प्राब्रवीत् चण्डि! निद्रितस्य हृदयं प्रविश्य हर्तुं युक्तं भवत्याः? तदिदानीं गान्धर्वेण विधिना आवयोः समागमो भवतु। एवमभिधाय तत्क्षणं तेनेव विधानेन तस्याः पाणिमग्रहीत्।

प्रत्यूष एव सूर्य्यप्रभादयः सर्वे मिलित्वा प्रह्लादमुपजन्मः। प्रह्लादः समाहूय मयमब्रवीत् अद्य सुनीथस्य पुनर्जीवनमहोत्सवे सर्वैरेव असुरैः समवेतैः सानन्दं भोक्तव्यमिति सर्वान् दूतैर्निमन्त्रयस्व। मयस्तथेति दूतैः सर्वान्निमन्त्रयामास। अथ सर्वे निमन्त्रिताः समागत्य क्षणं विश्रम्य मयेन सह भोगवतीमवगाह्य चतुर्विधानि आहारद्रव्याणि सानन्दमुपयुज्य च दानवकन्यानां नृत्यं द्रष्टुमुपाविशन्। सूर्य्यप्रभः प्रह्लादकन्यां महल्लिकां दृष्ट्वा अनङ्गशरपीडितः मोहमापेदिवान्। ततश्च अमीलः कलावतीं प्रह्लादश्च महल्लिकां तस्मै सूर्य्यप्रभाय सानन्दं प्रायच्छत्। अथ स सूर्य्यप्रभः कुमुदावतीं मनोवतींसुभद्रां सुन्दरीं सुमायाञ्च असुरकन्यकाः परिणीतवान्।

कदाचित् सूर्य्यप्रभः कथाप्रसङ्गेन महल्लिकामपृच्छत्प्रिये! तस्यां रजन्यां ये द्वेसख्यौ त्वया सहागते, ते कुत्र गते? न दृश्यते किमिति।

महल्लिकावदत् नाथ! मम द्वादश सख्यः। पितृव्यो मम सर्वास्ताः स्वर्गात् अपहृत्य आनीतवान्। तासाम्अमृतप्रभा केशिनी च पर्वतस्य मुनेः कन्यके। कालिन्दी,

भद्रा, कनकमाला च एतास्तिस्रः महामुनेर्देवलस्य कन्यकाः। सौदामिनी उज्ज्वला च द्वे हाहाख्यस्य गन्धर्वस्य कुमार्य्यौ। हुहुनाम्नः गन्धर्वस्य कन्या पीवरा, काणस्य तनया खञ्जनिका च। केशरावलीपिङ्गलाख्यस्य प्रमथस्य सुता। मालिनीकम्बलस्य दुहिता, वसोः कन्या मन्दारमाला। एतां सर्वा एव अप्सरःसम्भूता दिव्ययोषितः। तद् भवान् एतासामपि पाणीन् गृह्णातु एवमभिधाय सूर्य्यप्रभं प्रथमं पातालमनयत्। पर्य्यनाययच्च एकैकशः सर्वास्ताः स्वयम्। सूर्य्यप्रभस्तां रात्रिं ताभिरमृतप्रभादिभिः सह सुखेन नीत्वा परेऽहनि प्रातः प्रह्लादसभामाजगाम।

अथ दानवेन्द्रः प्रह्लादः मयसुनीथौ प्रोवाच यूयमतः परं दितिं दनुञ्च साक्षात् कुरुत। एवं दानवेन्द्रादेशं लब्ध्वा मयसुनीथौ भूतासनं नाम विमानं स्मृत्वा स्मृतमात्रोपस्थितञ्च तदारुह्य सपरिजनौ मलयाचलवर्त्तिनं कश्यपाश्रममासेदतुः। अथ मुनिभिर्दर्शितेन पथा तमाश्रमं गत्वा दैत्यदानवजननीं दितिं दनुञ्च चरणयोर्निपेततुः। ते च असुरमातरौ वंशधरान् तान् समागतान् अवलोक्य हर्षाश्रुनिर्भरं समाश्लिष्य आशिषा संवर्द्धयामासतुः। अथ ते मयमूचतुः वत्स! तव पुत्रं सुनीथं पुनर्जीवितं दृष्ट्वा परमाप्यायिते स्वः। त्वाञ्च प्रतिपुण्यवन्तं मन्यावहे। सुमुण्डीकश्च यत् सूर्य्यप्रभो भूत्वा भूतले अजनिष्ट, तदपि आकर्ण्य परां प्रीतिमनुभवावः। तद्वत्स! सत्वरं गत्वा प्रजापतिं कश्यपमभिनन्दयतं, कुरुतञ्च तदादेशवशवर्त्तिनौ कार्य्याणि, युष्माकं मङ्गलं भवत्विति।

इत्थं मातुरनुज्ञया ते सर्वे दिव्यमाश्रमं गत्वा गुरोः कश्यपस्य चरणौ ववन्दिरे। भगवान् कश्यपस्तान् आशिषा अभिनन्द्य उपवेष्टुमादिशत्। अवदच्च सहर्षम् अद्य सर्वान्सुतान् समवेतान् दृष्ट्वा परां प्रीतिमापन्नोऽस्मि। मय! त्वं सदाचरिते पथि तिष्ठन् अत्यन्तं प्रशंसनीयोऽसि, सुनीथ! त्वं पुनर्जीवितः परं सौभाग्यं प्रपन्नः। सूर्य्यप्रभः! त्वं स्वेन पुण्यबलेन विद्याधराधीश्वरो भवितासि। तत् साम्प्रतंसर्वे यूयं धर्म्ममास्थाय मदादेशेन परां प्रीतिं प्राप्नुत। अधुना युष्माकं पूर्ववत् पराभवो मास्तु। पूर्वं धर्म्मातिक्रमेण देवैः पराभूताः स्थ। सुनीथ! पुरा ये असुरा देवैर्निहताः, ते सर्व एव मर्त्त्यलोके समजायन्त। सुमुण्डीकः सूर्य्यप्रभोऽभूत्, अन्ये च बहवोऽस्य बान्धवरूपेण सञ्जाताः। सूर्य्यप्रभस्य मन्त्री प्रहस्तः शम्बरावतारः। त्रिशिराः सिद्धार्थ इति वातापिः प्रज्ञाढ्यइति, उलूकः शुभङ्गर इति, वीतभीतिः काण इति प्रसिद्धिं गता एते अस्य वयस्यतामापन्नाः। यौ च भासप्रभासौ मन्त्रिणौ, तौवृषपर्वप्रबलनामकदैत्यावतारौ। मदनो भयङ्करश्च उभौ सुन्दोपसुन्दावास्ताम्। स्थिरबुद्धिमहाबुद्दिनामानौसचिवौहयग्रीवविकटाक्षावतारौ। अन्ये च ये दैत्यदानवाः पूर्वं देवैः पराजिता ते च क्रमेण वृद्धिं गता युष्मानेव आश्रयिष्यन्ते। यूयं सहिष्णवो भवत, सत्वरं वृद्धिं लप्स्यध्वे। कदाचिदपि अधर्म्मं मा कुरुत।

एवमुपदिशति देवासुरगुरौ दाक्षायण्यः अदितिप्रभृतयस्तत्पत्न्यस्तत्र समाजग्मुः। देवराजोऽपि सपत्नीकः पितर-

मंXवा दयितुं तत्राजगाम। अथ मयादिषु असुरेषु प्रणतेषु देवपतिः सरोषं सूर्य्यप्रभं प्रति दृष्टिं निक्षिप्य मयदानवमत्रवीत् मया विज्ञायते बालकोऽयं विद्याधरचक्रवर्त्ती भवितुमभिवाञ्छति। किमनया अल्पया अभ्यर्थनया, इन्द्रत्वं प्रार्थयितुं युक्तमासीत्। मयोऽब्रवीत् देवेन्द्र! भगवान्जगदीश्वरो भवते यथा इन्द्रत्वमदात् तथा प्रसन्नः अस्मै खेचरत्वं दातुमङ्गीचकार। एतदाकर्ण्य देवेन्द्रः सकोपपरिहासमब्रवीत् मय! अयं यया शुभलक्षणैः सन्पन्नः, तथाऽस्य विद्याधराधीशत्वं लघ्वी मात्रा। मयः प्रत्यवादीत्यदिश्रुतशर्म्मा विद्याधरराज्यमर्हति, तदा अस्माकं सूर्य्यप्रभोऽपि इन्द्रत्वं प्राप्तुमर्हति। एतदाकर्ण्य महेन्द्रः क्रोधरक्तेक्षणः सहसा वज्रपाणिरुदतिष्ठत्। तदवलोक्य भगवान्कश्यपः सरोषहुङ्कारमकरोत्। दितिप्रभृतयश्च कश्यपपत्न्यः कुपिता दिवराजं धिगिति निरभर्त्सयन्। तद् दृष्ट्वा देवेन्द्रः सभयं वज्रं संहरन् अवनतमुखः समुपविश्य पितरं मातॄश्च चरणयोर्निपत्य कृताञ्जलिरवादीत् पितः। मयसहायेन अजेयसूर्य्यप्रभेण श्रुतशर्म्मणे अस्माभिर्दत्तं विद्याधरराज्यमपहर्तुं युज्यते? कश्यपस्तदाकर्ण्य प्रत्यवोचत् इन्द्र! यथा श्रुतशर्म्मा तव प्रियः, तथा सूर्य्यप्रभोऽपि शम्भुप्रियः। यथा देवदेवो मयदानवं सूर्यप्रभार्थं नियुक्तवान्, तदास्य को दोषः? अयं शिवाज्ञां लङ्घयितुं नालं, तस्य च देवस्य इच्छा न हि व्यर्थतामापत्स्यते। अयञ्च मयः धार्मिकः ज्ञानवान् गुरुभक्तश्च। तस्य पराक्रमं त्वमनेकशो विदितवान्।

तद् यदि त्वम् एतान् प्रति विरुद्धमाचरेः, तदा वयं कोपात्त्वां तत्क्षणमेव भस्मीकरिष्याम इति।

इत्थमाकर्ण्य देवेन्द्रे सलज्जभयमधोमुखे तिष्ठति अदितिः श्रुतशर्म्मणमानयितुमादिदेश। इन्द्रः सारथिं मातलिं श्रुतशर्म्माणमानेतुं तत्क्षणं प्राहिणोत्। श्रुतशर्म्मा च मातलिनावेदितवृत्तान्तः सत्वरमुपगम्य सर्वान् तान्ताश्च प्रणम्य समुपाविशत्। कश्यपपत्न्यःउभौ प्रति दृष्टिं निक्षिप्यकश्यपमपृच्छन् नाथ! कोऽनयोः श्रुतशर्म्मसूर्य्यप्रभयोः समधिकेन रूपेण शुभेन च लक्षणेन विराजते? कश्यपः प्रत्यभाषत देव्यः! सूर्य्यप्रभ एव रूपेण लक्षणेन च श्रुतशर्म्मणः श्रेयान्, यथा चायं सौभाग्यचिह्नैरुपेतो दृश्यते, तथास्य इन्द्रत्वमपि सुलभं मन्ये। इन्द्रादन्ये सर्व एव एतद्वचनमनुमुमुदिरे। अथ भगवान् कश्यपः सर्वेषु श्रृण्वत्सु मयमब्रवीत् वत्स! इन्द्रे वज्रमुद्यच्छति त्वं यत् निर्विकारमासीः, तेनाहं तुष्टः वरं ददामि यथा वज्रमये‍ण अस्त्रेण कदापि तव शरीरं न क्षयं गमिष्यति। सुनीथः सूर्य्यप्रभश्च शत्रूणामजेयौ भविष्यतः। मत्पुत्रः सुवासकुमारः स्मृत एव युष्माकं साहाय्यं करिष्यति च।

एवमभिधाय तस्मिन् महामुनी विरते तत्पत्न्यःअन्ये ऋषयः लोकपालाश्च सर्वे तान् मयादीन् वरप्रदानेन अभ्यनन्दन्। अथ देवमाता इन्द्रमब्रवीत् वत्स! शान्तो भव, इमञ्च मयदानवं प्रसादय। अद्य त्वया स्वेनैव चक्षुषा विनयस्य फलं दृष्टं, विनयबलेनैव मयः सर्वश्रेष्ठतासम्पादकं वरं प्राप्तवान्। इत्थंमातुर्वचः समाकर्ण्य देवेन्द्रः हस्ते

धृत्वा मयं प्रासादयत्। श्रुतशर्म्मा च दिवसचन्द्रमा इव सूर्य्यप्रभसकाशे हीनकान्तिरभवत्। अथ देवराजः पितरं प्रणम्य लोकपालैः सह स्वं धाम प्रातिष्ठत। मयप्रभृतयश्च असुराः सानन्दं मुनिमभ्यनुज्ञाप्य स्वं स्वं कार्य्यं साधयितुंप्रतस्थिरे।

अथ सूर्य्यप्रभः कियन्तं कालं पाताले दानवैः सहोषित्वा मर्त्त्यलोकं स्मरन् पातालात् सुरङ्गया तया निर्गत्य चन्द्रभागेरावत्योः सङ्गमे रक्षितान् स्वान् परिजनान् नृपतींश्च सर्वान् समागमत्। ते च सर्वे तं प्राप्य भृशमरोदन्। सूर्य्यप्रभस्तान् तदा चन्द्रप्रभादर्शनविषणान् समाश्वास्य यथावृत्तं सर्वमवर्णयत्।

_________

षट्चत्वारिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721637840023.png"/>

अथ राजभिः श्रुतशर्म्मकर्त्तृकं सूर्य्यप्रभस्य दारापहरणवृत्तान्ते तदनन्तरञ्च दैववाणीवृत्तान्ते निवेदिते सूर्य्यप्रभः रोषताम्राक्षः दारापहारिणं तं संरक्षकमपि विनाशयितुं प्रतिजानानः सप्ताहात् परं युद्धयात्रार्थं दिनं निर्द्धारितवान्। अत्रान्तरे मयदानवः समागत्य वत्स! दुर्वृत्तः श्रुतशर्म्मा तदीयान् दारान् अपहृत्य पाताले रक्षितवान् इति वार्त्तामाख्याय सर्वान् सन्तोष्य च सूर्य्यप्रभेण सह पुनस्तेनैव पथा पातालमभ्यागमत्। समर्पयच्च तस्मै तदी-

यान् दारान्। अथ सूर्य्यप्रभः स्वानुचरैः सह दानवेन्द्रं प्रह्लादमुपागमत्, स तु कृतककोपः तमवदत् दुराचार! त्वया मत्सोदरेणानीता द्वादश सुरकन्यका हृताः? तदहमधुनैव त्वां विनाशयामीति। एतदाकर्ण्य सूर्य्यप्रभः सभयं निर्विकारचित्त एवाब्रवीत् प्रभो! शरीरमिदं भवदधीनं यथेच्छं कर्तुमर्हति इत्याभाष्य क्षमां ययाचे।प्रह्लादः सम्प्रीतः प्राह वत्स! अहं त्वां परीक्षितुमेवमवोचं, दृष्टं ते शरीरं निरहङ्कारं, तद् वरं वृणु। सूर्य्यप्रभः केवलं गुरुषु देवदेवे हरे चाचलां भक्तिमवृणोत्। तच्छ्रुत्वा सर्वे सन्तुष्टास्तमभ्यनन्दन्। प्रह्लादश्च तथेति वरं, तथा यामिनीं नाम द्वितीयतनयां तस्मै दत्त्वा पुत्रद्वयमपि तत्साहाय्यार्थं न्ययोजयत्। ततोऽसौ श्वशुरं दानवेन्द्रमभ्यनुज्ञाप्य अमीलमुपजगाम। स च सम्प्रीतः द्वितीयां सुतां सुखावतीं तस्मै प्रदाय स्वं पुत्रद्वयमपि तदानुकूल्यार्थं नियुयोज। सूर्य्यप्रभः सानुचरः षड् दिवसान् तस्य भवने अतिष्ठत्। तस्मिंश्च समये सुनीथस्य तिसृषु भार्य्यासु गर्भवतीषु मयदानवो दिव्येन चक्षुषा समपश्यत् पूर्वं विनष्टा असुरा एव तेषु गर्भेषु जननं लेभिरे इति। अथ सप्तमे दिवसे सूर्य्यप्रभः सपरिजनः पत्नीभिः सह पातालात् भूतलमभिययौ।

अथ चन्द्रप्रभस्य शिशुं पुत्रं पृथ्वीराज्ये अभिषिच्य भूतासनविमानेन विद्याधरराजस्य सुमेरोः गङ्गातीरस्थं तपोवनमभ्यागमत्। सुमेरुणा सर्वेषु यथायथं सत्कृतेषु मयदानवः सर्वं वृत्तान्तमकथयत्। अथ सूर्य्यप्रभः मयादिष्टया विद्यया सुमेरुसदनं प्राप्य स्वैः स्वैः सैन्यैः सह

बन्धुवर्गान् तत्रानेतुमादिदेश। आदिष्टैश्चदूतैः सर्वत्र संवादे प्रदत्ते सूर्य्यप्रभस्य श्वशुरवर्गीया दानवाः बान्धवैः परिवृतास्तत्र समाजग्मुः। सप्तभ्यश्च रसातलेभ्यः हृष्टरोमा, महामाया, श्वदंष्ट्रः, प्रकम्पनः, तन्तुकच्छः, दुरारोहः सुमायः, वज्रपञ्जरः, धूमकेतुः, प्रमथनः, विकटाक्षः, अन्ये च दानवाः स्ववर्गाः समागच्छन्। तेषु च कोऽपि अयुतेन, कोऽपि सप्तभिरयुतैः, कश्चन अष्टायुतैः कश्चित् षड्भिरयुतैः, कोऽपि त्रिभिरयुतैः, अतिसामान्योऽपि अर्द्धायुतेन रथैःपरिवृताः समापतन्। कोऽपि त्रिभिर्लक्षैः, कश्चन द्विलक्षैः, कश्चित् लक्षपरिमितैः, अधमोऽपि अर्द्धलक्षमितैः सैन्यैः परिवृताः समापेतुः। सर्वेषामेव तेषां यथायोग्यं हस्त्यश्वबलानि सहाजग्मुः। अनन्तरं मयसुनीथसूर्य्यप्रभाणाम सख्यानि बलानि उपतस्थिरे। ततश्च वसुदत्तादीनां राज्ञां बलानि, सुमेरोश्च सैनिकानि समागमन्।

इत्थं पातालात् धरातलाच्च अगण्येषु सूर्य्यप्रभपक्षीयबलेषु समवेतेषु मयदानवः कश्यपं सस्मार। स्मृतमात्रमुपपस्थितञ्च तं मयः प्राब्रवीत् भगवन्! अत्र अगण्यानामस्मदीयसैन्यानां सुचारुसन्निवेशो न घटते, तदाज्ञापयतु, क्वचित् सुविस्तृते प्रदेशे एतानि समावेश्य भवते दर्शयिष्याम इति। तदाकर्ण्य कश्यपस्तस्मात् स्थानात् योजनव्यवहिते कलायक्षेत्रभूते सुविस्तीर्णप्रदेशे सैन्यानि प्रेषयितुमादिशत्। अदिष्टाश्च सर्वे स्वानि स्वानि आयुधानि समादाय तस्मिन्नेव प्रदेशे समागत्य समवेता आसन्। इत्थं राज्ञामसुराणाञ्चवाहिनीषु ससज्जंपृथक् पृथक् सन्निवेशितासु

विद्याधरराजः सुमेरुरभाषत, महर्षे! युवराजस्य सूर्य्यप्रभस्य पक्षीयाणि यादृशानि अपरिमितानि बलानि समावेशितानि, ईदृशानि कदापि न दृष्टानि। विपक्षस्य श्रुतशर्म्मणः सैन्यानि एतेभ्योऽपि समधिकानि अनुमीयन्ते। तद् यावत् अहं तेभ्यो बहूनि भेदयित्वा आनेष्यामि। तत् प्रातरेवास्मात् स्थानात् वाल्मीकिनामके प्रदेशे अस्माभिर्गन्तव्यम्। कल्यं फाल्गुनकृष्णपक्षस्य महाष्टमी, तिथावस्यां तत्र मताश्चक्रवर्त्ति लक्षणं प्राप्नुवन्ति। एतस्मात् कारणात् प्रतिवर्षं विद्याधरा अस्यां तिथौ तत्र गच्छन्तीति।

इत्थंसुमेरोर्वचः श्रुत्वा सर्वे सम्मताः प्रातरेव ससैन्यास्तत्क्षेत्राभिमुखं जग्मुः। तत्र च गत्वा हिमालयप्रस्थदेशे सैनिकानि निवेश्य अदूरात् बहूनां विद्याधराणां समागमं ददृशुः। कश्विद् विद्याधरोऽग्निं संस्थाप्य जुहोति, कोऽपि जयति, कश्चन पूजयति, कोऽपि वा स्नाति। ददाति, पाययति, पठति गायतीत्यादि। तदवलोक्य सूर्य्यप्रभस्तत्रावरुह्य क्वचित् प्रदेशे अग्निकुण्डं सज्जितवान्। सज्जितमात्रमेव तत् विद्याप्रभावात् स्वयं जज्वाल। तदवलोक्य सर्वे परं विस्मयमापेदिरे। केनचिद् विद्याधरेण विद्वेषपरेण मर्त्त्यवासिनामनुगत इति सुमेरौ तिरस्कृते सोऽपि सुमेरुस्तं निर्भर्त्स्य सूर्य्यप्रभमवादीत् देव! भीमो नाम कश्चिद् विद्याधरोऽस्ति, तत्पत्न्यां स्वेच्छया ब्रह्मणाभिगतायाम् अयं समुदपद्यत, ब्रह्मरक्षितत्वाच्च ब्रह्मगुप्त इति समाख्यां भजते च। तद् यादृशमस्य जननं तादृशमेव

वचनम्। एवमुक्त्वासुमेरुरपि एकमग्निकुण्डं प्राज्वालयत्। ततश्वोभौ सुमेरुसूर्य्यप्रभौ होमं कर्तुमारभाते। क्षणेन च जुह्वतोस्तयोर्होमप्रभावात् कश्चिदजगरः भूगर्भात् भयङ्कराकृतिर्निर्गत्य फुत्कारवातेन सुमेरुतिरस्कारिणं तं ब्रह्मगुप्तं शतहस्तदूरेनिचिक्षेप। अथ श्रुतशर्म्मणोऽनुचराः महावीरास्तेजःप्रभदुष्टदमनविरूपभक्त्यङ्गारविजृम्भकप्रभृतयो विद्याधरा आततायिनः अजगरं तमाक्रमन्। स च अवलीलयैव सर्वान् तान् तथैव फुत्कारवायुना दूरे निक्षिप्तवान्। तेषु च तेजःप्रभः अतिबलीयान् अजगस्तं तं निहन्तु धावति स्म। अजगरस्तं तथैव निश्वासमारुतेन सुदूरं निचिक्षेप। तदवलोक्य दुष्टदमनविरूपक्तिविजृभकाङ्गारकप्रभृतयो ये पुनर्धावन्ति स्म तानपि सोऽजगरस्तथैव दशामापादितवान्। इत्थं सर्वेषु विद्याधरेषु तेनाजगरेण परास्तेषु श्रुतशर्म्मा क्रुद्धः स्वयं तं भुजङ्गं नाशयितुं समापतत्। अजगरस्तमपि निश्वाप्तवायुना दूरं न्यक्षिपत्। अथोत्थाय तं पुनर्मारणोद्यत दृष्ट्वा अजगरस्तं तथा सुदूरं निक्षिप्तवान् यथा चूर्णिताङ्गः कथमपि समुत्थाय लज्जावनतवदनः सानुचरः पलायाञ्चक्रे।

अथ सुमेरुणा सर्पं तं धर्त्तुं समादिष्टं सूर्य्यप्रभम् अजगरसकाशं यान्तं दृष्ट्वा सर्वे विद्याधरा अहसन्। सूर्य्यप्रभस्तु क्रमेण समीपमुपगम्य यावत् अजगरं विलमध्यात्अबलीलया निरकासयति तावत् सोऽजगरः एकं तूणीरंभूत्वा तस्य हस्ते अशोभत। अथ सूर्य्यप्रभशिरसि दिव्या पुष्पवृष्टिः पपात, आकाशभारती च उदचरत् सूर्य्यप्रभ !

त्वमिदम् अक्षयं तूणं गृहाण, अनेन ते सर्वसिद्धिर्भवितेति। ततः सूर्य्यप्रभे तत् तूणं धृतवति विद्याधराः विषादं परं समासेदुः। असुरा राजानश्च सर्वे महतींप्रीतिमापेदिरे।

अथ श्रुतशर्म्मणः कश्विद् दूतः समागत्य सूर्य्यप्रभमब्रवीत् भद्र! अस्माकं प्रभुः श्रुतशर्म्मा भवन्तमादिशति यदि ते जीवितेन प्रयोजनं, तत् शीघ्रं तूणीरं मे समर्पय। सूर्य्यप्रभः प्रत्यवादीत् दूत! त्वं सत्वरं गत्वा तव प्रभुं ब्रूहि, यथा तव कलेवरमेव सत्वरं शरपूरितं तूणीरत्वम् आप्स्यति, किमन्येन तूणीरेणेति। एतदाकर्ण्य दूतः शीघ्रं गत्वा श्रुतशर्म्मणेसूर्य्यप्रभस्य प्रगल्भंवचनं न्यवेदयत्।

इत्थंदेवानुग्रहेण सर्वसिद्धिप्रदायिणि अक्षये तूणे लब्धे सुमेरुप्रभृतयः सानन्दं तस्य जयशीलं धनुः साधयितुं सानुचराः हेमकूटस्य उत्तरपार्श्ववर्त्तिनि मानससरसिसमुपस्थाय तदीयामपूर्वां शोभां, स्वच्छानि सलिलानि, सौवर्णानि कमलानि च अपश्यन्।

अत्रान्तरे श्रुतशर्म्मा सानुचरस्तत्र समुपस्थितः। सूर्य्यप्रभस्तु सवर्गः सघृतेन पद्मेन होमं कर्तुमारेभे। तस्य च होमस्य प्रभावात् सहसा तस्मात् सरसः सुघोरा मेघाः समुत्थाय प्रबलेन वेगेन वारीणि ववृषुः। वर्षद्भ्यश्चमेघेभ्यः सहसा कश्चित् सर्पः निःसृत्य सरसि निपपात। तत्क्षणञ्च सुमेरुणा समादिष्टः सूर्य्यप्रभः समुत्थाय तं सर्पं दधार। धृतमात्रश्च स मनोहरं धनुरभवत्। ततश्चतस्मात् मेघात्द्वितीयः सर्पस्तथैव सरसि पपात। सूर्य्यप्रभः पतन्तमेव तं तयैवाधारयत्। धृतमात्रश्च स तस्यैव धनुषः मौर्वी-

रूपमग्रहीत्। ततश्च तत् सर्वं मेघवृन्दं सहसैव विलयं प्रत्यपद्यत, न्यबधीच्चाग्निवर्षणेन विपक्षान् खेचरान्। अनन्तरं सपुष्पवृष्टिराकाशवाणी पुनरुच्चाचर वत्स! सूर्य्यप्रभ! त्वमिदम् अच्छेद्यगुणयुक्तमतिबलं धनुः गृहाणेति। तदाकर्ण्य सूर्य्यप्रभस्तत् सगुणं धनुर्गृहीत्वा सूर्य्यप्रभः समपद्यत। श्रुतशर्म्मणि तदवलोक्य सानुचरे निष्प्रभतां गते मयादयः सर्वे सानन्दं महोत्सवं विदधुः।

अथ तैः सर्वैः तादृशस्य धनुषः समुत्पत्तेः कारणे पृष्टे सर्वज्ञः सुमेरुरब्रवीत् अस्मिन् प्रदेशे कीचकैः पूर्णं दिव्यमेकं नगरमस्ति। तस्माद् वशे छित्त्वा अस्मिन् सरसि विक्षिप्तेनानाप्रकाराणि दिव्यानि धनूंषि उत्पद्यन्ते। सर्वैर्देवैरसुरैः गन्धर्वैः विद्याधरैः किन्नरैश्चअनेनोपायेन धनूंषि लभ्यन्ते, तानि च पृथक् पृथक् संज्ञया अभिधीयन्ते। तेषु च चक्रवर्त्ति धनुरसितबलसमाख्यया कीर्त्त्यते। पुरा देवेः तादृशानि अत्र निक्षिप्तानि। ये च पुण्यवन्तः भाविचक्रवर्त्तित्वमभिवाञ्छन्ति ते एवं बहुना क्लेशेन ईश्वरानुग्रहात् अमूनि संसाधयन्ति। अयञ्च सूर्य्यप्रभः ईश्वरस्य कृपया भाविचक्रवर्त्तिलक्षणं धनुरिदं प्राप्तवान्। अस्य च वयस्याः स्वं स्वमनुरूपं धनुः साधयितुं शक्नुवन्ति। तस्मात् ते यूयं स्वानि स्वानि अनुरूपाणि धनूंषि साधयत।

एवं सुमेरोर्वचः समाकर्ण्य सूर्य्यप्रभानुचराः तत्कीचकनगरं गत्वा तत्रत्यं राजानं निर्जित्य वंशान् छित्त्वा तस्मिन्नेव मानससरसि न्यक्षिपन्। ततश्च जपहोमादिकं विधाय सप्ताहाभ्यन्तर एव स्वं स्वमनुरूपं धनुर्लब्ध्वाकृता-

र्थतामापुः। ततः सूर्य्यप्रभः सानुचरः धनुर्लाभेन कृतार्थम्मन्यः सुमेरोस्तपोवनं प्रति समागमत्। आगते च तपोवने सुमेरुः सूर्य्यप्रभानुगान् दुर्ज्जयस्य वेणुनगराधिपतेश्चन्द्रदत्तस्य जयेन महापराक्रान्तान् इति प्रशशंस।

अथ दानवेन्द्रो मयः सूर्य्यप्रभं सम्बोध्याब्रवीत् वत्स! त्वं सर्वविद्याविशारदोऽसि तत् साम्प्रतं महर्षिं याज्ञवल्क्यमुपेत्य तत्सकाशात् मोहिनीं परिवर्त्तिनीञ्चनाम विद्यां लभस्व। सूर्य्यप्रभस्तथेति प्रतिज्ञाय महर्षिं समेत्य तां तां विद्यां ययाचे। महर्षिस्तदीयं मनोरथं पूरयितुं तं सप्ताहं भुजगह्रदे तथा दिनत्रयम् अग्निमध्ये तपश्चरितुमादिदेश। अथ महर्षिस्तं सप्ताहं भुजङ्गदंशनं तथा दिनत्रयम्असह्यमग्निसन्तापम् अनुभूय तस्मादुत्तीर्ण दृष्ट्वा भृशं तुतोष, आदिदेश च दत्त्वा प्रार्थित विद्याद्वयीं पुनर्वह्निप्रवेशाय। सोऽपि तथेति महर्षेरादेशं पुनः प्रतिपालितवान्।

अस्मिंश्चावसरे नानारतमण्डितं महापथं नाम व्योमयानं सूर्य्यप्रभमुपाययौ, उच्चचार च दैवभारतौवत्स! चक्रवर्त्तिविमानमिदं गृहाण, अस्मिन् सिद्धविमानान्तःपुरे रक्षितास्ते अन्तःपुरिकाः कदाचन शत्रुभिर्न धर्षयितुं शक्याः इति। सूर्य्यप्रभस्तां दिव्यसरस्वतीमाकर्ण्यं महर्षिसकाशं गत्वा च प्रोवाच भगवन्! कां ते दक्षिणामुपहरामीति। सोऽब्रवीत् वत्स! त्वम् अभिषेकसमये मां स्मरिष्यसि, तदेव मे दक्षिणा, साम्प्रतं गत्वा स्वैर्गणैःसङ्गच्छस्वेति उक्त्वातं व्यसर्ज्जयत्।

सूर्य्यप्रभः भक्त्या मुनिं प्रणम्य तेन विमानेन सुमेरु-

भवनाभिमुखं प्रस्थितः क्षणेन आश्रममवरुह्य स्वैरनुचरैः सह मिलितः। मयादयः सर्वे तन्मुखात् विमानसिद्धिपर्य्यन्तां वार्त्तां निशम्य नितरां प्रीता अभवन्। अथ सुनीथेन सुवासकुमारे स्मृते स तत्क्षणं तेषां पुरः आभिर्भूयमयादीन् सर्वान् शत्रुजयार्थं समादिशत्। मयोऽब्रवीत्प्रयाणात् पूर्वं शत्रून् प्रति दूतः प्रेषणीय इति नीतिविदो मन्यन्ते। मुनिपुत्रोऽवदत् का क्षतिः? तत् प्रहस्तमेव दौत्यकार्य्य नियुङ्क्ष्व, यतः स वचनरचनचतुरो दूतकर्म्मज्ञः। अथ सर्वे तथेति मोदमानास्तं प्रहस्तमेव यथायथम् उपदिश्य श्रुतशम्भोऽन्तिकं प्रेषयामासुः।

अथ सूर्य्यप्रभः सर्वान् अनुग्रामिनः समवेतानब्रवीत्वयस्याः। गते निशीथे मया स्वप्ने दृष्टं यथा वयं सर्व एव नृत्यन्तः अनिमग्ना नदीरायेण नीयमनाः क्षणेन प्रतिकूले वायौ वहति केनचित् अग्निसमेन महापुरुषेण धृत्वा अग्निकुण्डे निक्षिप्ताः, परं न कोऽपि दह्यते स्म। अनन्तर सहसा समुदितात् मेघात् शोणितवृष्ट्या चतस्त्र एव दिशो रक्तवर्णाः समजायन्त। एतदवलोक्य प्रबुद्धस्य मम निद्रादेवीक्वापि गता, न पुनः प्रत्यावृत्ता।

एवमुक्त्वा तस्मिन् विरते सुवासकुमारः प्राब्रवीत् एतेन स्वप्नेन एतदेव सूचितं यथां अभ्युन्नतिः सम्यगायाससाध्या। जलस्रोतसि अनिमज्ज्यसनर्त्तनगमनम् अपराजयेन रणाङ्गणे विचरणं प्रतिपादयति। बहुक्षणजलनिमज्जनेन शीतार्त्तानाम् अग्निपरिचर्य्या एवं विधेयेति महापुरुषोऽस्माकमाराध्यः शम्भुरेव अस्मान् अग्निकुण्डे निक्षिप्तवान्।

न तु ददाह इत्येवं प्रतीयते। ततो मेघोदयात् रक्तवर्षणेन चतुर्दिशां लोहितीकरणात् शत्रूणां रुधिरपातेनैव तथा भविष्यतीति स च मेघः अस्माकं कश्चित् प्रवीर इति च ध्वन्यते। स्वप्नोऽपि द्विविधः, सत्यः असत्यश्च। सुषुप्तौ देवादीनामादेशरूपः प्रथमः। अनवरतचिन्तया स्वल्पनिद्राजनितः द्वितीयः। सत्यश्च कालवशात् सत्वरं सविलम्बं वा फलमुपदधाति। यश्च रात्रिशेषे दृश्यते सत्वरमेव फलति। मुनिसुते एवं स्वप्नफलाफलं वर्णितवति सर्वे निरुद्वेगाः समुत्थाय दिवसकृत्यं सम्पादयामासुः।

अथ श्रुतशर्म्मसकाशात् प्रत्यागतः प्रहस्तः सर्वानवादीत्अहमितस्त्रिकूटपर्वतोपरिस्थितं त्रिकूटपताकाख्यं सौवर्णं नगरं गत्वा राजद्वारि उपस्थाय राजान्तिकं संवादं प्राहिणवम्। आदिष्टश्च राज्ञा अभ्यन्तरं प्रविश्य अपश्यं राजचक्रवर्त्तीश्रुतशर्म्मा पित्रा सह विद्याधरगणैः परिवृतः सभामध्यास्ते। दामोदरादयश्च प्रधानामात्याः स्वं स्वं कार्य्यमनुतिष्ठन्ति। मया च समुपविष्टेन उक्तं श्रुतशर्म्मन्! अहमस्मि राजचक्रवर्त्तिनः सूर्य्यप्रभस्य दूतः, भगवतो धूर्जटेः प्रसादेन स खलु अलौकिकीं विद्यां सहायान् सम्पत्तीश्च लेभे, तत्त्वम् अस्मत्प्रभोरादेशेन सानुचरं तं शरणं व्रज। स केवलं विपक्षवह्निः प्रणतानान्तु बान्धवः। अन्यच्च त्वं सुनीथस्य तनयामपहृत्य अतीव गर्हितमाचरितं, तामविलम्बं त्यज, नो चेत् महदमङ्गलं भवितेति। एवमुक्त्वामयि विरते सर्वे विद्याधराः सकोपं युवराजं मानुष इति बहुशो निरभर्त्सयन्। मयोक्तं यदा देवाधिदेवस्तं चक्रवर्त्तिन

मकरोत् तदा तस्य मानुष्येऽपि देवतात्वं सिद्धम्। युष्माभिस्तत्पराक्रमो दृष्टः, अथवा अत्रागतस्य तस्य यथा पराक्रमं बलञ्च सर्वं द्रक्ष्यथ इति। एवं मयोक्तं निशम्य सर्वासु क्रोधसंक्षुभितासु श्रुतशर्म्मा धुरन्धरश्च मां हन्तुमुदयच्छताम्। अहमपि आगच्छेत्युक्त्वासमुदतिष्ठम्। दामोदरस्तु दूतो न बध्य इति ताववारयत्। ततो विक्रमशक्तिरब्रवीत् दूत! त्वं पलायस्व, तव प्रभुरिव वयमपि देवनिर्मिताः, तत् त्वं मत्वा ब्रूहि, वयं तं द्रक्ष्याम इति। तदाकर्ण्य मया सहासमुक्तं यावत् गगनं न मेघैराव्रियते, राजहंसस्तावत् पद्मवनेषु क्रीड़तीति समाख्याय तानवज्ञाय प्रातिष्ठम्। प्रहस्तमुखादेतदाकर्ण्य सर्वे ससन्तोषं संग्रामाय कृतसङ्तल्पा अभूवन्। सैनापत्यं प्रभासहस्ते समर्पितम्। क्रमेण रजन्यां घोराय सर्वे सुवासकुमारादेशेन शयनं मेजिरे।

अत्रान्तरे सुमेरोर्भ्रातृकन्या विलासिनी नाम सहसखीजना सूर्य्यप्रभस्य शयनमन्दिरं प्रविष्टा तत्समीपमाययौ। सूर्य्यप्रभे दृष्ट्वैव मोहिते कौतुकाविष्टे च व्याजनिद्रामुपेते विलासिनो निःशब्दपदं समीपमेत्य तदीयरूपदर्शनेन आत्मानं कृतार्थममन्थत। अथ सा सख्याः सकाशं तदीयं रूपं प्रशस्यतमेव पतिं लब्धुकामा तस्य श्रुतशर्म्मणा संग्रामे जयमाचकाङ्क्ष। ततश्च तदीया सखी सूर्य्यप्रभस्य सर्वविद्यासु पारदर्शितां जयलाभस्य चावश्यं भावितां वर्णयित्वा प्राब्रवीत् सखि। त्वं सुप्रभा च एकवंशीया, युवामस्य भार्य्येभविष्यश्च इति सिद्धादेशोऽस्ति। तत् तव बन्धूनामपेक्षणं वृथा। विलासिनी प्रोवाच सखि।

तथ्यमात्थ, अहं पुनर्बन्धून्नापेक्षिष्ये। अयं सर्वविद्यासिद्धोऽपिओषधिसिद्धो नेति परं दुःखितास्मि। चन्द्रपादस्य गिरेर्गुहायां या ओषधयः सन्ति, पुण्यशीलाश्चक्रवर्त्तिन एव ताः साधयितुमधिकुर्वन्ति। तद् यद्यसौ तत्र गत्वा ताः सर्वा ओषधीः साधयेत् तदास्य परं मङ्गलं भवितेति।

व्याजनिद्रितः सूर्य्यप्रभस्तत् सर्वं श्रुत्वा समुत्थाय च सप्रणयमवादीत् सुन्दरि! त्वं मयि परं स्नेहं प्रदर्शितवती, तदागच्छ इदानीमेव चन्द्रपादगिरिगुहां गच्छाम इति। एवमुक्त्वा परिचये पृष्टे सा कन्या लज्जावनतमुखी आसीत्। मदीया सखी प्रावदत् युवराज! इयं विद्याधरराजस्य सुमेरोः कनिष्ठसोदरस्य तनया, बिलासिनी नाम, भयन्तं द्रष्टुमिहागता, एवमुक्त्वातस्यां विरतायां विलासिनी सखि! आगच्छ साम्प्रतं गच्छाव इति अभिधाय प्रस्थिता।

ततः सूर्य्यप्रभः सेनापतिं प्रभासं प्रबोध्य तन्मुखेन भयदानवादीनां सकाशे तम्म् ओषधिसाधनवृत्तान्तमकथयत्। ते च तस्यामेव रजन्यां सानुचरं तं चन्द्रपादगिरिं प्रैरयन्। यक्षान् गुह्यकांश्च मार्गरोधिनः सिद्धविद्यया निर्जित्य सूर्य्यप्रभः ससचिवः तस्य गिरेर्गुहाद्वारमुपाययौ। तत्र विविधान् विकृताननान् शिवानुचरान् प्रवेशवारकान्दृष्ट्वासुवासकुमारः तैर्युद्धं निवार्य्य भगवन्तं देवदेवं स्तोतुं समादिशत्। सर्वे तद्वाक्यं बहु मत्वा भगवन्तं स्तोतुमुपचक्रमिरे। तेन च स्तवेन तुष्टाः प्रमथाः केवलं प्रभासमेव तदन्तः प्रवेष्टुम् आदिशन्। प्रवेशमात्रं गुहास्थिते तमसिविलीने प्रभासः सप्तविधा दिव्यौषधीः समाहृत्य वहिर्गत्वा

च सूर्य्यप्रभाय समर्पितवान्। ततश्च सूर्य्यप्रभः सानुचरः सुमेरोराश्रमं प्रत्यावृत्य सर्वेभ्यः ओषधिसाधनवृत्तान्तं वर्णयामास।

अथ सुनीथः सुवासकुमारमपृच्छत् भगवन्! गुहाभ्यन्तरे सूर्य्यप्रभप्रवेशनिषेधस्य प्रभासस्य समादरस्य च हेतुं श्रोतुमिच्छामि। सुवासकुमारः प्रत्यवादीत् प्रभासः सूर्य्यप्रभस्य परम मित्रम् अद्वितीयो वीरश्च, पूर्वजन्मनि असौ गुहा प्रभासस्यैवाधिक्वता आसीत्, तदर्थमस्य तादृशः समादरः। तदस्य पुरावृत्तं श्रूयताम्।

पुरासीत् नमुचिर्नाम सुविख्यातनामा दानवेन्द्रः। स खलु यथा वीरस्तथा दाता च। यो यत् प्रार्थयाञ्चक्रे, तस्मै तद् दत्त्वा तं सन्तुष्टमकरोत्। पूर्वं स दशसहस्राणि वत्सरान् धूमं पिबन् विष्णुमाराध्य तस्मात् लौहेन प्रस्तरेण काष्ठेन वा नाहं मरिष्यामीति वरं लेभे। इन्द्रोऽपि अस्मात् बिभ्यत् पलायाञ्चक्रे। अथ कश्यपः नमुचिमनुनीय उभयोः सन्धिमकारयत्।

अथ गच्छता कालेन देवासुरैः सन्मन्त्रा मन्दराद्रिणा क्षीरनिधौ मथिते यानि रत्नानि उदतिष्ठन्, तन्मध्यात्भगवान् नारायणः कमलां लेभे नमुचिरुच्चैः श्रवसं नाम अश्वम्। अपरे देवासुराः विधातुरादेशेन यथायोग्यं रत्नानि विभज्य जगृहुः। यच्च मन्यनदण्डमन्दराग्रात् अमृतमुत्थितं तस्मिन् केवलं देवैरपहृते पुनर्देवासुरसंग्रामः प्रावर्त्तत। तत्र ये असुरा देवैर्निहतास्ते पुनरुच्चैःश्रवसा पुनर्जीवयितुं प्रारब्धाः। तस्माच्च असुरा देवानामजेया अभवन्।

तदा बृहस्पतिर्विपदं दृष्ट्वा इन्द्रमब्रवीत् देवराज! त्वं नमुचिसकाशं गत्वा उच्चैःश्रवसं प्रार्थयस्व, नमुचिः शत्रवेऽपि तुभ्यं तमश्वं दास्यति, न खलु खां वदान्यताकीर्त्तिं खण्डयिष्यति। शचीपतिः गुरोरुपदेशेन देवैः सह नमुचिसकाशं गत्वा तदश्वरत्नं ययाचे। अतिदानशीलो नमुचिरचिन्तयत् नाहं कदापि कमपि अर्थिनं विमुखं कृतवान्, अद्य देवराजः स्वयं याचकः, कथमेनं पराङ्मुखं करोमि? तदस्मै उच्चैःश्रवाः दातुं युज्यते। अस्मिंश्चार्थिनि निराकृते मम भुवनविख्यातं यशः कलुषितं भतिष्यति, तथात्वे जीवनेन किम्? एवं विचिन्त्य गुरुणा काव्येन निषिद्धोऽपि वासवाय तत् हयरत्नं प्रादात्।

अथ वृत्रहा अन्यैरस्त्रैरबध्यं तं नमुचिं वज्रविन्यस्तेन गोशृङ्गेण निहतवान्। नास्ति विषयलालसायाः पर्य्यन्तः। देवा अपि एतदधीना दुष्कीर्त्तिमर्ज्जयन्ति। दानवमाता तपसा नमुचेर्विनाशमवगम्य शोकाकुला पुनरपि स्वोदरे नमुचेर्जन्म आचकाङ्क्ष। तेन च नमुचिस्तस्या गर्भे पुनः समुत्पद्य प्रबलोनाम दुर्जयो दानवः प्रादुरासीत्। सोऽपि शतकृत्वो देवराजं निर्जिगाय। कदाचित् देवा नरमेधव्याजेन तदीयं शरीरं ययाचिरे। सोऽपि दानवीरः शत्रुभ्योऽपि देवेभ्यो निजं शरीरं प्रददौ। देवाश्च तच्छरीरं शतधा चिच्छिदुः। तदनन्तरमसौ प्रबलः प्रभास इति प्रसिद्धो मर्त्त्यलोके समुदपद्यत। इयञ्च ओषधिगुहा तदा प्रबलस्यैव अधिकृतासीत्। तस्य चानुचराः किङ्करास्तां गुहां रक्षन्ति। अस्याश्च गुहाया अधस्तात् पाताले प्रबलस्य राजभवन-

मद्यापि विद्यते, तत्र चास्य द्वादश पत्न्यः, विविधानि रत्नानि बहूनि च अस्त्राणि शस्त्राणि च सन्ति। प्रबलः स्वभुजबलेन अमूनि सर्वाण्युपार्जयत्। नमुचेरवतारस्य प्रभासस्य न किमपि असाध्यम्। तस्मात् तत्रस्थाः किङ्करा एनं समाहृत्य तत्र प्रवेशयामासुरिति।

अथ सूर्य्यप्रभः मुनिकुमारप्रमुखात् एतदद्भुतं वृत्तान्तं श्रुत्वा पातालात् प्रबलगृहान्तर्वर्त्तीनि रत्नानि संग्रहीतुमुदयच्छत्। प्रभासः एकाकी एव सुरङ्गया पातालं प्रविश्य स्वां पूर्वपत्नीं चिन्तामणिम् अश्वारोहीणि असुरसैन्यानि सर्वाणि रत्नानि च संगृह्य पातालादाजगाम, संवर्द्धयामास च प्रभवे सूर्य्यप्रभाय तत् सर्वं समर्प्य। अथ सूर्य्यप्रभः सानुचरः स्वं शिविरमगात्।

__________

सप्तचत्वारिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721656103023.png"/>

अथ रात्रौप्रभातायां सूर्य्यप्रभःश्रुतशर्म्माणंजेतुं सुमेरुतपोवनात् ससैन्यः त्रिकूटाभिमुखं जगाम, निवेशयामास च तत्र गत्वा कस्मिंश्चित् विस्तृते क्षेत्रे स्कन्धावारम्। इमञ्च संवादं प्राप्य त्रिकूटाधिपतिस्तस्मै दूतं प्राहिणोत्। दूतः समागत्य खेचरेश्वरं सुमेरुं सम्बोध्य प्राब्रवीत् खेचरराजा श्रुतशर्म्मणः पितुस्त्रिकूटाधिराजस्य अयं सन्देशः। भवन्तं दूरवर्त्तिनं न कदाचित् वयं समादृतवन्तः। स भवानद्य

स्वैर्गणैः परिवृतो मत्सौभाग्यात् देशमिममलङ्कृतवान्, तस्मादिच्छामः समुचितेनातिथ्येन भवन्तं सत्कर्त्तुमद्य इति। सुमेरुर्दूतमुखात् शत्रुसन्देशमिमं श्रुत्वा दूतेन तेन सह प्रभुं त्रिकूटाधिपतिमभिययौ।

अत्रान्तरे सूर्य्यप्रभादयो जिगीषवः सेनानिवेशविभागान् द्रष्टुमुच्चैस्तरं प्रदेशमधिरुरुहुः। सुनीथः पितरं मयं सैन्यानां रथादिकं पृथक् पृथक् वर्णयितुमनुरुरोध। मयः पुत्रेणाभ्यर्थितः प्रोवाच वत्स! सैन्येष्वषु ये सुबाहुविघातमुष्टिकमोहनप्रलम्बप्रमाथकेकटपिप्पलवसुदत्तप्रभृतयो राजानः सन्ति, तेषां प्रत्येकं अर्द्धलक्षं रथा वर्त्तन्ते। विशालोन्मत्तकदेवशर्म्मपितृशर्म्मकुमारकहरिदत्तादीनां राज्ञां लक्षं रथाः। प्रकम्पककुम्भीरमहाभटवीरस्वामिधुराधरभाण्डीलकसिंहदत्तगुणशर्म्मकीकटभद्रङ्करादीनां नृपाणां द्विगुणा रथाः। विरोचनयज्ञसेनवीरसेनादीनां राजपुत्राणां त्रिगुणा रथाः। सुशर्म्मविशाखशलप्रचण्डप्रभृतीनां राजसुतानां चतुर्गुणा रथाः। जञ्जुरीवीरशर्म्मप्रवीरसुप्रतिज्ञप्रभृतयो राजानः राजपुत्राश्च पञ्चगुणरथसमन्विताः। उग्रवर्म्मणः एकाकिनोऽपि षड्गुणा रथाः। विशोकसुतन्तुसुगमनरेन्द्रशर्म्मणां राजपुत्राणां रथाः सप्तगुणाः। सहस्रायुर्नाम राजकुमारो महारथः। शतानीको महारथानां यूथपतिः। सूर्य्यप्रभस्य वयस्याः शुभविमलसुहर्षभयङ्करशुभङ्करप्रभृतयः सर्व एव महारथाः। अस्य च मन्त्रिणो विश्वरुचिभाससिद्धार्थाः महारथानां यूथपतयः। महामात्यः प्रहस्तो रथयूथपतिः। प्रज्ञाढ्यस्थिरबुद्धी अपि रथयूथपती।

सर्वदमनो नाम दानवः असुराश्च प्रमथनधूमकेतुप्रवहनवज्रपञ्जरकालचक्राः रथानामतिरथानाञ्च अधिपतयः। प्रकम्पनसिंहनादौरथयूथपतीनामधिपती। महामायकम्बलिककालकम्पनप्रहृष्टाश्चत्वारो असुरेन्द्रा रथाधिपतीनामधिपतयः। प्रभासः सेनापतिः सूर्य्यप्रभेण तुल्यः। सुमेरुतनयः श्रीकुन्धरः कुमारीमहाहरिश्च यूथाधिपती। एवमन्येऽपि एषु सैन्यसागरेषु बहवो वीराः सन्ति। पुत्र! यत्र देवदेवः सहायः, तत्र एतत्संख्यकानि सैन्यानि किं जयं साधयितुं नालम्?

इत्थं सैन्यविभागेषु वर्णितेषु त्रिकूटाधिपतेः सकाशात्द्वितीयो दूतः समागत्य प्रावदत् महाराजोऽस्माकमादिशति संग्रामस्तावत् वीराणामुत्सवक्षेत्रम्। इयञ्च भूमिरतिक्षुद्रा, तत् स्थानादस्मात् कलायग्रामाख्ये प्रदेशे सुविस्तृते सैन्यानि चालयन्तु भवन्त इति। तदाकर्ण्य सुनीथादयः तस्मिन्शत्रुप्रस्तावे सम्मताः कलायग्रामाभिमुखं सैन्यानि अचालयन्। समरोन्मुखः श्रुतशर्म्मा च विद्याधरसैन्यः परिवृतः सैन्यानि कलायग्रामं नीत्वा स्कन्धावारं समस्थापयत्। सूर्य्यप्रभः श्रुतशर्म्मणः सेनासु असंख्यानि गजसैनिकानि निरीक्ष्य सत्वरं गजसैन्यानि संजग्राह।

श्रुतशर्म्मा महावीरं दामोदरं सैनापत्ये अभ्यषिञ्चत्। स्वयञ्चातिष्ठत् व्यूहपार्श्वे मन्त्रिभिः परिवृतः। दामोदरे च रणाग्रवर्त्तिनि स्थिते सर्वे महारथाः समन्तात् सैन्यानि संस्थाप्य अवतस्थिरे। सूर्य्यप्रभसेनापतिः प्रभासः अर्द्धचन्द्रं व्यूहं विरचय्य स्वयं मध्यविभागे व्यतिष्ठत। प्रहस्तः श्रीकुन्ध-

रेण कुमारेण च सह व्यूहस्य पार्श्वौ अरक्षत्। सूर्य्यप्रभः सुनीथश्च सानुचरः व्यूहस्य पृष्ठदेशं ररक्षतुः। ततश्च सुमेXसुवासकुमारयोर्यथास्थानं स्थितयोः उभयोरेव सैन्ययो रणभेर्य्यः समवाद्यन्त।

इत्थं सेनाव्यूहे सञ्जाते इन्द्रादयो देवा दिक्पालाश्च अप्सरोभिः सह नभोमण्डलं व्याप्य व्यतिष्ठन्त। भगवान्विश्वेश्वरोऽपि पार्वत्या मातृभिः प्रमथगणैश्च सह अन्तरीक्षमध्यतिष्ठत्। भगवान् पद्मयोनिः सावित्र्यामहर्षिभिश्च सह गगनमधितष्ठौ। भगवान् विष्णुर्गरुड़ासनः कमलया सह रणदिदृक्षुः खनुदतिष्ठत्। महामुनिः कश्यपो भार्य्याभिः सह समागमत्। क्रमेण एकादश रुद्राः, अष्टौ वसवः, यक्षाः, राक्षसाः, गन्धर्वाः, किन्नराः, प्रह्लादादयोऽसुरेन्द्राश्च रणदिदृक्षया नभोमण्डलमध्यतिष्ठन्।

अथ वाद्यमानेषु रणवाद्येषु वीराः समुत्तेजिता मत्ताश्च बभूवुः। उभयोरेव सैन्ययोः शस्त्रपातानां भीषणध्वनिरुदतिष्ठत्। दिशः सर्वाः शरनिकरैः समाच्छादिताः मेघावृता इव व्यराजन्त। अन्योन्यशरसङ्घर्षजनितो वैश्वानरो विद्युदिव व्यशोभत। शस्त्रक्षतानां गजानामश्वानां वीगणाञ्च शोणितैः समाच्छन्ना रणभूमिरभूत्। क्रमेण सा रणभूः वीराणां शृगालानां भूतगणानाञ्च महोत्सवक्षेत्रं समयद्यत। कोऽपि नृत्यति, कश्चन हसति, कश्चिच्च गायति। इत्थमसंख्येषु सैन्येषु निहतेषु सुबाहुर्हसन् अट्टहासेन द्वन्द्वयुद्धमकरोत्। सोऽट्टहासः तस्य शिरश्चिच्छेद। मुष्टिकोऽपि तदवलोक्य क्रोधात् तमाचक्राम। स च तमापि निधन-

मनैषीत्। अथ मुष्टिकं निहतं दृष्ट्वा नरपतिः प्रलम्बः क्रोधाध्मातः अट्टहासमभि शरान् ववर्ष। अट्टहासस्तदीयं सैन्यं निर्जित्य प्रलम्बंनिजधान। प्रलम्बे पतिते मोहनस्तमभिययौ। सोऽपि महावीरात् अट्टहासात् पञ्चतामाप।

इत्थम् अट्टहासेन चतुर्षु वीरेषु निहतेषु श्रुतशर्म्मणा सैन्यानि सिंहनादं कुर्वन्तः जयमघोषयन्। एतदाकर्ण्य सूर्म्मप्रभस्य मित्रं हर्षः ससैन्यः अट्टहासमभिगम्य वाणैस्तदीयानि सैन्यानि निर्जित्य तस्य यन्तारमच्छिनत्। ततश्च तस्य धनुः शरांश्च निरस्य तमपातयत्। तस्मिंश्च वीरे अट्टहासे निपतिते महान् कलकलः समवर्त्तत। सैन्ययोरुभयोरर्द्धमात्रमवशिष्टम्। इतस्ततः कबन्धाः विचरन्ति स्म। ततः सर्वे सायं स्वं स्वं व्यूहं भङ्क्त्वाशिविराणि जग्मुः।

___________

अष्टचत्वारिंशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721662218023.png"/>

अथ प्रभाते तावुभौ विजयप्रेप्सू पुनः स्वं स्वंसैन्यं सज्जयित्वा युद्धाय समुपस्थितौ। इन्द्रादयो दिक्पाला देवैः सह नभीमण्डलमध्यतिष्ठन्। यथा राक्षसाश्च रणदिदृक्षया समागच्छन्। विद्याधरसेनापतिर्दामोदरश्चक्रव्यूहं सूर्य्यप्रभसेनानीः प्रहस्तश्चवज्रव्यूहं विरचय्य व्यतिष्ठत। ततः संग्रामे प्रवृत्तेरणतूर्य्यसैन्यघोषैर्नभः प्रापूर्य्यत। सेनानी-

प्रवरं प्रभासं दामोदरस्य व्यूहं भित्वा प्रविशन्तं दृष्ट्वा दामोदरः स्वयं व्यूहच्छिद्रम् आवृत्य युद्धाभिमुखोऽभवत्। तदवलोक्यसूर्य्यप्रभः प्रभासमनु प्रकम्पनधूमकेतुसिंहनादप्रभृतीन् षष्टिमहारथान् प्राहिणोत्। तांश्च महारथान्वेगेन आगच्छतो दृष्ट्वा दामोदरः अपूर्वं रणकौशलं प्रदर्शयन् एकाकी एव पञ्चदशभिर्वीरैः समयुध्यत।

एतदवलोक्य देवराजः पार्श्ववर्त्तिनं नारदमब्रवीत् देवर्षे! सूर्य्यप्रभादयः दानवांशसम्भूताः। श्रुतशर्म्माः मयांशेन सञ्जातः। विद्याधराश्चेमे देवांशप्रभवाः। तस्मादयं देवासुरसंग्राम एवं। भगवान् नारायणः श्रुतशर्म्मण एव साहाय्यं करिष्यति। यतस्तत्सेनानापतिर्दामोदरः विष्णोरंशेन प्रादुर्भूतः। इत्थं नारदं प्रति देवराजेकथयति दामोदरं रक्षितुं ब्रह्मगुप्तसुषेण्यमदंष्ट्रप्रभृतयश्चतुर्दशमहारथाः समुत्तस्थुः। दामोदरस्तैर्मिलित्वा शत्रूनाचक्राम। दामोदरः प्रकम्पनेन, धूमकेतुर्ब्रह्मगुप्तेन, महामायोऽतिबलेन, कालकम्पनस्तेजःप्रभेण, मरुद्वेगः वायुबलेन, वज्रपञ्जरः यमदष्ट्वेण, कालचक्रश्च सुरोषेण सह द्वन्द्वयुद्धमकरोत्।

विकृतदंष्ट्रे निहतेचक्रवालनामा विद्याधरः सक्रोधं हर्षं प्रत्यभिमच्छन् तं सधनुष्कं विच्छेद। अथ तं निपतितं दृष्ट्वा अभिमुखमापतन्तं दैत्यनरपतिं स एव चक्रवालः सञ्जहार। ततश्चापरानपि चतुरो दैत्यवीरान् स एव यमसदनमनैषीत्। ततो निर्घातनामा दितिजश्चक्रवालश्च। विद्याधरः उभौ द्वन्द्वयुद्धं कुर्वाणौ अन्योन्यं रथं चूर्णयामासतुः। अथ असिधरचक्रधरौबहुक्षणं सुयुद्धं कृत्वा रण-

भूमौ शयानौ दृष्ट्वाउमे एव सैन्ये विषादमापतुः। ततः राजपुत्रः प्रकम्पनः कालकम्पनेन विद्याधरेण युध्यमानः क्षणेन रणशय्यां शायितः। तञ्च निपतितं दृष्ट्वा तदनुयायिनः कालिकचण्डदत्तप्रभृतयो वीरा रथमारुह्य कालकम्पनमभ्यधावन्। महावीरः कालकम्पनः क्रमेण सर्वानेव रथेभ्यः निपात्य नाराचेन निजघान। तदालोक्य खेचरा भृशं सिंहनादमकुर्वन्, मनुजसैन्यानि तु परं विषादमापुः।

अनन्तरम् उन्मत्तकं प्रशस्तं विलम्बिकं धुरन्धरञ्च चतुरो वीरानाभिमुखमापततः एक एव महावीरः कालकम्पनः परिजग्राह, निजघान चावलीलयैव तानन्यांश्च बहून् महारथान्। तदवलोक्य सुगणो नाम राजपुत्रः क्रोधपूर्णेक्षणस्तमभिधावन् तुमुलं संग्राममकरोत्। परं रणपण्डितः कालकम्पनस्तमपि यमभवनातिथिमकार्षीत्। इत्थं चलति संग्रामे सहस्ररश्मिरस्तमगमत्। रणभूमौ शोणितपरिप्लुतायां कबन्धा ननृतुः। एवं द्वितीयदिनसंग्रामे निर्वृत्ते उभयसैन्यानि रणाङ्गणं विहाय स्वं स्वं शिविरम् अभिययुः। अस्मिंश्चसंग्रामे श्रुतशर्म्मपक्षीयास्त्रयः सूर्य्यप्रभपक्षीयाश्च त्रयस्त्रिंशत् महारथा निधनं गताः।

सूर्य्यप्रभः स्वजनानां बहूनां नाशात् सुदुःखितः शयनमन्दिरं गत्वा मन्त्रिभिः संग्रामविषयिणीं कथां कथयन्रात्रेःप्रथमं भागमतिवाहयति स्म। तदीया महिष्यः ममवेताः बन्धुविनाशदुःखिताः क्षण रुदित्वा परस्परं सान्त्ववादेन प्रबोधिताः शोकं व्यनयन्त। अनन्तरं तासां विविधा आलापाः प्रावर्त्तन्त। स्वभाव एवं नारीणां यत् सुखे वा दुःखे

नानालापैस्ताभिः कालो नीयते इति। तासां काचित्राजनन्दिनी प्रोवाच आर्य्याः! कथमद्य आर्य्यपुत्रः एकाकी शयनं भजते? द्वितीयाब्रवीत् आर्य्यपुत्रोऽद्य बन्धुवियोगव्याकुलः एकाकी शेते। तृतीयावदत् सत्यं यदि पुनरस्मिन्समये आर्य्यपुत्रः कामपि नवीनां कामिनींप्राप्नुयात् तदा क्षणे चास्मिन् विस्मृतसर्वदुःखस्तया सह प्रमोदेनैव रजनीमतिवाहयेत्। चतुर्थी अवादीत् यदि चार्य्यपुत्रः अत्यर्थं कामुकः, तथाप्यद्य कदापि नैव तादृशे व्यापार रमेत। पञ्चमी प्राह आर्य्यपुत्रः कथमीदृशः स्त्रीषु लालसो भवति, वक्तुं पारयथ, राजानश्च नवीनां नवीनां राजकन्यामासाद्य न च तृप्तिमाप्नुवन्ति च कथम्? एतदाकर्ण्य काचित्मनस्विनी प्राब्रवीत् राजानः अवस्थाभेदेन बहुवल्लभा भवन्ति। इत्थमालपन्तीषु तासु सा विभावरी व्ययासीत्।

परस्मिन्नहनि संग्रामे प्रवृत्ते सुनीथो मयमब्रवीत् हा कष्टं स्वपक्षान् विविधशस्त्रास्त्रपारगानपि महारथानवद्धवत्सु, प्रतिवीरेषु एकाकीसेनापतिः प्रभासः स्वच्छन्दं व्यूहं भित्त्वा प्रतिबलसागरं प्रविष्टः। न जाने प्रभासस्य का दशा भविष्यतीति। एतदाकर्ण्य सुवासकुमारोऽब्रवीत्वत्स! त्रिलोकी समवेतापि प्रभासस्य न किमपि कर्त्तुं शक्नुयात्, केवलाः खेचरास्तस्य किं करिष्यन्ति? विदित प्रभासपराक्रमाणामपि युष्माकं कथमीदृशीशङ्का? एवमालापेषु प्रवृत्तेषु कालकम्पनः प्रभासमभिगच्छन् तुमुलं युद्धमकरोत्। प्रभासस्तु अवलीलयैव तं शरजालैः समाच्छाद्यतिजघान। तदवलोक्य मानवबलानि सिंहनादेन गगन-

मपूरयन्, खेचरास्तु परं विषादमापेदिरे। अथविद्युत्प्रभो नाम खेचरः प्रभासं निहन्तुमाजगाम। प्रभासोऽपि तं विचित्रकौशलेन रणभूमौ न्यपातयत्।

एतदाकर्ण्य श्रुतशर्म्मा स्वपक्षान् अब्रवीत् हे वीराः! प्रभासोऽयम् अस्माकं द्वौ महारथौ निहतवान्, तदयंन क्षन्तव्यः, सर्वेः समवेतैरयं निहन्यतामिति। तदाकर्ण्यऊर्द्ध्वरोमा, विक्रोशनः, इन्द्रमालो, कान्तकः, वराहस्वामी, दुन्दुभिः, गर्द्दभरथः, कुमुदपर्वतश्चैते अष्टौ महारथाः समवेताः प्रभासमभिधावन्ति स्म। महावीरः प्रभासः अनवरतं शरनिकरान् वर्षन् तेषाम् अश्वान् सारथीन् ध्वजान् धनूंषि च क्रमेण छित्त्वा सर्वानेव शमनभवनं प्राहिणोत्। इत्थं जयति प्रभासे आकाशात् पुष्पवृष्टिरपतत्। असुरसैन्यानि मानवमन्यैः सह परं हर्षमापुः, विद्याधराश्च निरुत्साहतां जग्मुः।

अथ श्रुतशर्म्मणा चोदिताः काचरकदिण्डिमालिविभावसुधवलनामानो वीराश्चत्वारः सन्निपत्य प्रभासम् अरुन्धन्। प्रभासः एकैकेन वाणेन तेषां ध्वजान् धनूंषि सारथींश्च निहत्य अष्टभिर्वाणैः शिरांसि चिच्छेद। ततश्चान्यानपि पञ्च योधान् सम्मुखमापततः शरववर्षेण समन्तात् व्याप्नुवतो दृष्ट्वा प्रभासः नारायणास्त्रेण सर्वानेव पातयामास। तदनन्तरं श्रुतशर्म्मणा प्रेरिता दशाख्यादयः अपरे दश योधाः प्रभासमवरुध्य घोरं युद्धमकुर्वन्। अत्र च सूर्य्यप्रभप्रेरितौ सकुञ्जरकुमारप्रहस्तौ व्यूहाग्रं विहाय सशस्त्रौ आकाशमार्गेण प्रभासान्तिकमुपगम्य पादचारेण युध्यमानौ

रथस्थं प्रदमं नियमञ्च नाम वीरौ समाक्रम्य तयोर्धनुषी सारथी च निहत्य व्याकुलावकार्ष्टाम्। अथ तौभयाकुलो आकाशमुत्पतितौअपि सकुञ्जरकुमारप्रहस्तौ आकाशमुत्पत्य धावतः स्म। एतदवलोक्य सूर्य्यप्रभः महाबुद्धिमचलबुद्धिश्चतयोः सारथ्ये नियुज्य प्रैषयत्। अथ सकुञ्जरकुमारप्रहस्तौ मायया अदृश्यौ सिद्धाञ्जनप्रयोगेण प्रदमनियमौ तथा वाणैरवाकिरतां यथा तौ क्षणमपि रणे स्थातुमशक्ती भयात् पलायाञ्चक्राते। ततः प्रभासः अपरैर्द्वादशभिर्वीरैःसमं युध्यमानः तेषां चापानि चिच्छेद। प्रहस्तस्तेषां सारथीन् हतवान्। सकुञ्जरकुमारस्तेषाम् अश्वसैन्यानि न्यपारायत्। इत्थं ते द्वादश वीरा हताश्वसारथिचापाः शरैः क्षतविक्षतदेहाः संग्रामं परित्यज्य पलायिताः।

तदवलोक्य श्रुमशर्म्मणा क्रोधपरीतेन प्रेरितौ अपरौ द्वौ वीरौ शत्रुहस्तं प्राप्य निधनं गतौ सूर्य्यप्रभसैन्यानि अभ्यनन्दयताम्। अथश्रुमशर्म्मामहारथैश्चतुर्भिः परिवृतः स्वयं योद्धुमुपाययौ। ते च प्रभासादयस्त्र्यस्तमभिधावन्तिस्म। वीराणां शरवृष्टिभिरन्तरीक्षं समाच्छन्नमदृश्यत। अत्रान्तरे च पूर्वभग्ना अपि वीराः समेत्य श्रुमशर्म्मणः साहाय्यार्थमुपाधावन्। सूर्य्यप्रभः प्रभासादीनां साहाय्याय प्रज्ञाढ्यप्रभृतीन् बन्धून् भूतासनविभानेन प्रैषयत्। तदवलोक्य अपरे च सर्वे विद्याधराः श्रुतशर्म्माणमन्वसरन्। उभयसैन्येषु तुमुलः संग्रामः प्रावर्त्तत। क्रमेण बहूनि सैन्यानि उभयोरेव निधनं जग्मुः। श्रुमशर्म्मा बहूनां सैन्यानां क्षयं दृष्ट्वा क्रोधारुणाक्षः शतानीकमभ्यधावत। इत्थमसंख्येषु

सैन्येषु रणशय्यायां निपतत्सु सन्ध्याकालः समुपस्थितः। देवगन्धर्वादयः तादृशं घोरं संग्रामं दृष्ट्वा विस्मयमगमन्। शतशः कबन्धाः समुत्थिता नृत्यन्तः भूतानामानन्दमहोत्सवमसूचयन्। विद्याधरसैन्यानि सविषादं रणात् न्यवर्त्तन्त। असुराश्चसहर्षं जयलाभजनितोल्लासाः स्वं शिविरं प्रत्यगच्छन्।

अत्रान्तरे द्वौ विद्याधरौसुमेरुणा समादिष्टौ श्रुतशर्म्माणं परित्यज्यसूर्य्यप्रभमभिजग्मतुः ऊचतुश्च सप्रणामं प्रभा। आवां विद्याधरौ, महायानसुमायनामानौ। आवां विद्याधरगणालक्षितौसिंहबलाख्येन विद्याधरेण सह महावेतालसिद्धये श्मशानमेकमध्यवात्स्व। कदाचित् शरभाननाख्या महाप्रभावा काचित् योगिनी आवामुपाययौ। आवाञ्च सप्रणामं तामपृच्छाव का भवती, क्व वा तिष्ठति, यत्र च स्थिता, तत्र किमपूर्वं वस्तु विद्यते? योगिनी प्राह अहं योगिनीभिः परिवृता प्रभुं द्रष्टं महाकालनिकेतनं गत्वा अपश्यम् कश्चिद् वेतालः प्रभुमुपेत्य अब्रवीत् प्रभो! अस्माकं सेनाध्यक्षस्य या कन्यास्ति सा विद्याधरचक्रवर्त्तिनः पत्नी भवितेति सिद्धादेशः। परन्तु पश्यतु देवः तेजःप्रभो नाम विद्याधरस्तां बलात् हरति, तदेनामस्मात् मोचयितुमर्हति देव इति। तदाकर्ण्य भगवान् सदयोऽस्मान् प्रतितस्या मोचनाय समादिशत्। वयञ्च आदिष्टा एव आकाशचारिणं तेजःप्रभं कन्यां हरन्तं रुरुधिम। तस्मिंश्च तेजःप्रभे कन्येयं श्रुतशर्म्मणः कृते हृतेति उक्तवत्यपि वयं बलात्तस्मात् मोचयित्वा प्रभुमभ्येत्य तां समर्पितवत्यः। भग-

वानपि कन्यां तत्स्वजनाय समर्पितवान्। इदमेकमद्भुतं वस्तु दृष्ट्वा प्रभुं प्रणम्य कियन्तं कालं तत्र स्थित्वा अत्रागतास्मि।

एतदाकर्ण्य वयं पुनरपि तामवादिष्म योगिनि! नास्ति भवत्याः किमप्यविदितं, तदाख्यातु भवती, को विद्याधरचक्रवर्त्तीभविष्यतीति। एवं पृष्टा मा सूर्य्यप्रभ इति प्रत्यवादीत्। तदाकर्ण्य सिंहबलः प्राह इन्द्रादयो देवा यस्य पक्षाः तस्य पराजयो नैव सम्भाव्यते। योगिनी प्रत्यभाषत साम्प्रतं मद्वचसि युष्माकमप्रत्ययोऽस्तु, परमचिरभाविनि विद्याधरासुरसंग्रामे सिंहबलोऽयं युष्मत्सु पश्यत्सु, मानवेन निहनिष्यते। इत्थं भाविनीं घटनां दृष्ट्वा युष्माकं मम वचसि विश्वासो भवितेति प्रोच्य तस्यां प्रचलितायाम्अद्य च सिंहबलं निहतं दृष्ट्वा योगिन्या वाक्यं सत्यं मन्यमानावावां भवन्तं शरणं गताविति।

सूर्य्यप्रभः शृण्वत्सु मयादिषु विद्याधरमुखादेतदाकर्ण्य सन्तुष्टः तौ संगृह्य समुचितेन सम्मानेन समवर्द्धयत्। श्रुतशर्म्माणं वार्त्तामिमां श्रुत्वा चिन्ताकुलं देवराजो विश्वा वसुमुखेन नानाविधैः प्रबोधवाग्भिः समसान्त्वयत्। सूर्य्यप्रभः शुभया वार्त्तया सुलक्षणेन च परमानन्दितः सचिववर्गैः शय्यागृहमगात्।

__________

ऊनपञ्चाशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1721669616243.png"/>

अथ शयनतलगतः सूर्य्यप्रभः वीतभीतिं नाम अमात्यमब्रवीत् सखे। निद्रां न लभे, तत् त्वं वीरधर्म्माश्रिता कामपि कथामपूर्वां वर्णयित्वा मम चित्तं विनोदय। वीतभीतिस्तथेत्युक्त्वाकथामारेभे।

आसीत् पुरा उज्जयिन्यां महासेनो नाम नृपतिः। तस्य चाशोकवती नाम परमसुन्दरी महिषीअभवत्। तत्र च गुणशर्म्मा नाम सर्वशास्त्रदर्शी कश्चिद् ब्राह्मणयुवा सतत राजानुचरः राजानमनन्दयत्। एकदा अन्तःपुरवर्त्तीराजासर्वेषु समासीनेषु गुणशर्म्माणं नर्त्तितुमादिदेश। गुणशर्म्मणा शिष्टाचारविरोधात् अस्वीकृतेऽपि राजा राजमहिषाआग्रहात् त पुनरपि समादिशत्। स च राजादेशलद्वनभीतः कथमपि सम्मतः प्रथमं साङ्गविक्षेपं नृत्यमारब्धवान्। तदवलोक्य राजा राजमहिषी च भृश विस्मितो ननन्दतुः।

नृत्यानन्तर राजा तस्मैवीणां वादयितुं प्रददौ। स तु वीणादिषु सुनिपुणस्तां वीणामादायैव नेयं प्रशस्तेति अन्यां वीणां प्रार्थयमानः समभाषत देव! अस्या वीणायास्तन्त्रीषु कुक्कुरलोमानि विद्यन्ते इति। तदैव तत् परीक्ष्य सुविस्मितः अपरां वीणामानाय्य दत्तवान्। गुणशर्म्मणि तया वीणया संयोज्य मधुरेण स्वरेण सङ्गीतं कुर्वति राज-

दम्पती अद्भुतं मन्यमानौपरां प्रीतिमासेदतुः। राजा तस्य यन्त्रविद्यानैपुण्यमवलोक्य बहु प्रशस्य तं मन्त्रिणमकार्षीत्। राज्ञी अशोकवती गुणशर्म्मणो रूपेण तादृशेन गान्धर्वनैपुण्येन च सानुरागा व्यचिन्तयत् यद्येनं गुणनिधिं नासादयेयं तज्जीवनं मे वृथा। एवमवधार्य्य राजानमुपेत्य गुणशर्म्मणस्तादृशीं यन्त्रशक्तिं बहु प्रशस्य तस्मात् वीणां शिक्षिष्ये इति राजानमभ्यर्थयाञ्चक्रे। राजा देव्यास्तथाविधां प्रवृत्तिं निशम्य ससन्तोषं गुणशर्म्माणमाहूय राज्ञ्याः शिक्षार्थमादिदेश। स च तथेति राजाज्ञां शिरसि निधाय शुभे दिवसे शिक्षा आरब्धव्येति कथयित्वा गृहमगात्।

अथ शुभेऽहनि प्राप्ते गुणशर्म्मा राज्ञीं वीणां शिक्षयितुमारेभे। गच्छति च काले वीणाशिक्षको गुणशर्म्मा देव्याश्चरित्रं प्रति सन्दिहानीराज्ञः भोजनसमये उपस्थितः पाचकस्य व्यञ्जनं परिविशतो हस्ते व्यञ्जनं दृष्ट्वैव तत् दातुं तं न्यवारयत्। कथं कथमिति राज्ञा पृष्टश्चाब्रवीत् देव! व्यञ्जनमिदं विषाक्तं परीक्षतां महाराजः। यदि कोऽपि इदं भुक्त्वा विषमूर्च्छितो भवेत् तमहं निर्विषं करिष्यामीति। तदाकर्ण्य राजा तद् विषं पाचकमेवाभोजयत्। भक्षित एवं मूर्च्छितं पाचकं स गुणशर्म्मा सत्वरं मन्त्रबलेन निर्विषमकरोत्। अथ राज्ञा इमं व्यापारमनुयुक्तोऽसौ पाचकः प्राब्रवीत् देव! गौड़ाधिपतिः राजा विक्रमशक्तिः भवन्तं विषं भक्षयितुं मां नियुक्तवान्। एतदर्थञ्चाहं देवस्य पाकशालायां पाचकत्वमङ्गीकुर्वन् अवसरं प्रतीक्षमाणोऽभ्यतिष्ठम्। अद्य तु सुयोगमवबुध्य व्यञ्जनंसविषं दातुं

देवाय समुपस्थित एव अनेन महात्मना विदितः। तदिदानीं यथा रोचते देवस्येति अभिधाय तस्मिन् विरते राजा अविलम्बमेव तं कारायां बद्धा गुणशर्म्माणं प्रति सन्तुष्टः शतं ग्रामान् तस्मै पुरश्चकार।

अथ गच्छता कालेन अशोकवतीअतीवानुरक्ता गुणशर्म्माणं प्रति विविधान् विलासान् दर्शयित्वापि अकृतार्था आत्मनः दुष्टं मनोरथं वाचैव व्यक्तीचकार। तदाकर्ण्य गुणसर्म्माब्रवीत् राजमहिषि। भवतीराजगेहिनी, भृत्यम्ईदृशं प्रार्थयितुं नार्हति, अस्माच्च असतो मनोरथात् विरमतु। एवमुक्त्वाअस्वीकुर्वन्तमपि तं सा दुराचारा बहु प्रलोभ्य पुनःपुनर्निर्बन्धमकरोत्। गुणशर्म्मा च विहस्यैव पुनःपुनस्तं परिजहार। अथ अशोकवत्यां तदा कुपितायां त्वां निहत्य स्वयमपि मरिष्यामीति भय प्रदर्शयन्त्यामपि सगुणशर्म्माअधर्म्मात् तदपि वरमिति अमन्यत, न तु तां भेजे। सदुपदेशः न कदापि असतीनामन्तःस्थानं लभते। तथापि सा त प्रति नितरामासक्ता पुनःपुनः स्वं मनोरथं साधयितुं तमनुरुरोध। गुणशर्म्मा अतः परमुपदेशो निष्फल इति विचार्य्य कौशलेन तां सान्त्वयितुं वाचनिकीमाशांप्रदर्श्य कियन्तं कालं विलम्बितुमनुरोधं कृतवान्। नष्टाराज्ञी आपततस्तेनैव समाश्वासेन शान्तिमलभत।

अनन्तरं गच्छति काले राजा महासेनः ससैन्यः समागत्य सोमेश्वरस्य राजधानीमवरुरोध। तदाकर्ण्य गौड़ेन्द्रो विक्रमशक्तिः सक्रोधं समागत्य त ससैन्यमाचक्राम। ततश्च राज्ञा महासेनेन सङ्कटमापतितं विलोक्य किं कर्त्तव्य-

मित्यनुयुक्तो गुणशर्म्मा समभाषते देव! उत्कण्ठां मा कृथाः, सत्वरमेव मया विपदोऽस्याः परित्राणाय प्रतीकारः कश्चित्क्रियते। एवमाख्याय राजानं समाश्वास्य रजन्यां योगबलेन नेत्रयोरन्तर्धानाञ्जनं प्रयुज्य च अलक्षितं विक्रमशक्तेःस्कन्धावारमविशत्। प्रविश्य च निद्रितं विक्रमशक्तिं प्रबोध्य प्रोवाच राजन्! देवदूतोऽस्मि, भवान् खलु विष्णुभक्तः, तस्माद् देवोनारायणस्तव हितार्थं मां भवत्सन्निधिं प्राहिणोत्, समदिच्चभवान् महासेनेन सन्धत्तां, नो चेत्महान्तमनिष्टं लप्स्यते, भवता दूतमुखेन सन्धिं कर्त्तुं प्रार्थिते स राजा अवश्यमेव तत्र संभस्यते इति।

एवमुक्त्वागुणशर्म्मणि विरते राजा विक्रमशक्तिस्तथा दुष्प्रवेश स्कन्धावारे मानवः कः प्रविशेदिति विचिन्त्य सत्यमेव तत् मत्वा सविस्मयस्तं देवं निश्चित्य आत्मानम्ईश्वरानुगृहीतममन्यत, सममन्यत च तस्मिन् प्रस्तावे। ततश्च तस्मिन् गुणशर्म्मणि अञ्जनप्रभावेण अन्तर्हिते राजा विक्रमशक्तिस्तत्र दृढ़ं विश्वासमकार्पीत्। अथ गुणशर्म्माणम्इत्थंकार्य्यं साधयित्वा सकाशमुपस्थितं दृष्ट्वा राजा महासेनः अवगतवृत्तान्तस्तं कण्ठे धृत्वा अत्यर्थमादृतवान्। प्रातरेव विक्रमशक्तेः कश्चिद् दूतः समागत्य राज्ञासह सन्धिं स्थापयित्वा विक्रमशक्तिसकाशं प्रायात्।स च तस्मात् आक्रमणात् विरम्य स्वां राजधानीं प्रतस्थे। अथ महासेनः गुणशर्म्मप्रभावेण सोमेश्वरं निर्जित्य उज्जयिनीं प्रतिनिववृते।

अथैकदा राजानं गुणशर्म्मणा सह नदीतीरवर्त्तिनि

उपवने गतं कश्चित् कृष्णसर्पः सहसा अदशत्। अशेषगुणाकरो गुणशर्म्मा सद्य एव तं निर्विषमकार्षीत्। कदाचित्नरपतिर्महासेनः ससज्जः पुनः विक्रमशक्तिमाचक्राम। स च विक्रमशक्तिस्तमभ्याजगाम। उभयोर्घोरः समरः प्रावर्त्तत। ततश्च द्वन्द्वयुद्धे विक्रमशक्तिना पातितं निरस्त्रं महासेनं स एव गुणशर्म्मा समजीवयत् न्यहनच्चविक्रमशक्तिम्। ततश्च महासेनः गुणशर्म्मणः प्रभावेण विक्रमशक्तेः सर्वं राज्यमात्मासात्कृत्य उज्जयिनीं प्रत्याजगाम, निनाय च निष्कण्टकः सुखेन कालम्।

एतावत्यपि समतिक्रान्ते काले अशोकवत्या गुणशर्म्माणं प्रति सञ्जातश्चित्तानुरागः न शान्तिं लेभे, प्रत्युत ववृधे एव। केनोपायेन गुणशर्म्माणं लभेयमिति चिन्तयैवसा कालमनयत्। यदा तु अपश्यत् गुणशर्म्माप्राणानपि त्यक्ष्यति, तथापि मां न भजिष्यत इति तदा सञ्जातकोपा तद्विनाशाय साभिमानं राजानमुपेत्य मिथ्या अभियोगमकरोत्। नाथ! विश्वस्तमुखात् श्रुतं गुणशर्म्मा भवन्तं विनाशयितुकामो गौड़पतेः सकाशादर्थलाभमाकाङ्क्षन्तत्समीपं दूतमेकं प्राहिणोत्। तस्मिंश्च दूते गौड़ेश्वरमुपेत्य गुणशर्म्मणोऽभिसन्धिं प्रकटयति तस्य राज्ञः कश्चिद् विश्वस्तः सचिवः विना स्वार्थं भवद्बधं स्वयं सम्पादयितुं प्रतिजज्ञे। प्रजिघाय च गुणशर्म्मणा प्रयुक्तं दूतमवरुध्य विषप्रदानेन भवन्तं नाशयितुं तं पाचकमुपदिश्य प्रैरयत्। अत्रान्तरे गुणशर्म्मप्रयुक्तेन दूतेन कौशलमुद्भाष्य तस्मादवरोधगृहात्पलाय्य गुणशर्म्मसकाशमेत्य सर्वस्मिन् वृत्तान्ते समावेदिते

गुणशर्म्मासौ कुपितस्तं पाचकं विषप्रयोक्तारं कारारुद्धं विनाश्य अद्य तस्य पाचकस्य वार्त्तां जिज्ञासुकामानपस्थितान् तदीयान् भार्य्याजननीकनिष्ठसहोदरान् कारायामवरुध्य तस्य पत्नीं जननीञ्च न्यबधीत्। भ्राता तु तस्य प्राणभयात् पलायमानः ममान्तःपुरमविशत्। मयि च तन्मुखात् सर्वं वृत्तान्तं शृण्वत्यां सहसा तं गुणशर्म्माणं वेगेन ममालयं प्रविशन्तं दृष्ट्वा असौ भयात् क्व पलायितस्तदहं न वेद्मि। गुणशर्म्मा तु सहसा मम सम्मुखमेत्य कर्त्तव्यविमूढ़ इव क्षणं किमपि चिन्तयन्नतिष्ठत्। ततश्च मया तदवस्थस्य तस्य आगमनप्रयोजनं परिपृष्टः स मूढमतिर्मतकामुकः प्रत्युवाच यदि त्वं मम मनोरथं न पूरयेः, तदाहं प्राणान् परित्यक्ष्यामीति एवमभिधाय मम चरणयोरपतत्। तदवलोक्य भयेन पादावाकृष्य प्रद्रवन्तीं मां स दुरात्मा समुत्थाय बलात् समालिलिङ्ग। क्षणे च तस्मिन् पल्लविकां नाम मदीयां दासीं तत्रोपस्थितां दृष्ट्वा स दुराचारः पलायितः। यदि पल्लविका तत्र नागमिष्यत् तदासौ मम सतीत्वम् अवश्यमेवानाशयिष्यत्।

स्त्रीषु विश्वस्तानां महतामपि विवेकशक्तिर्विलुप्यते। राजा अशोकवत्यास्तद्वचनं निशम्य क्रोधज्वलितः प्रत्यवादीत् प्रिये! समाश्वस ! सत्वरमेव तं दुराचारं यमसदनं प्रेषयामि परं कौशलेनैतत् कार्य्यं सम्पाद्यं नो चेत्लोकेषु महती अकीर्त्तिर्भविता। स खलु पञ्चधा मां विपद्भ्यः समरक्षदिदं सर्वविदितं तदस्य ईदृशी नृशंसता न लोकेषु प्रकटनीया। एवमुक्त्वा नृपतिः सभामगमत्।

क्रमेण सर्वे एव पारिषदाः सामन्ताश्च समेत्य राजानं प्रणम्य यथास्थानमुपाविशन्। गुणशर्म्मा तु राजसभां गन्तुमुद्यतः पथि विविधानि दुर्निमित्तानि पश्यन् प्राणसंशयं सम्भावयन् राज्ञः शुभं भूयादिति मनसि चिन्तयंश्च क्रमेण सभामेत्य राजानं प्रणम्य च स्वमासनमध्यतिष्ठत्। राजा गुणशर्म्मणो यथापूर्वं समादरमकृत्वा वक्रचक्षुषा तं प्रति कोपकटाक्षमपातयत्। गुणशर्म्मा सहसा नृपतेर्भावान्तरमिदं दृष्ट्वा नितरां व्यथितः शङ्कितश्चाभवत्।

अथ राजानं सहसा सिंहासनात् उल्लम्फ्यस्कन्धमारुढ़मवलोक्य गुणशर्म्मा प्रोवाच प्रभो! भवानस्माकं स्वामी वयञ्च भृत्याः, भृत्येषु च प्रभोः सर्वतोमुखी प्रभुता, तद्भवान्सिंहासनमलङ्कृत्य यथारुचि समाज्ञापयतु। एवमुक्त्वा तस्मिन्विरतेसर्वैर्मन्त्रिभिः प्रबोधितो राजा पुनः सिंहासनासीनः प्रावदत् मन्ये सर्वैरेतत् विदितं यदहं मौलान् मन्त्रिणोऽविगणय्य गुणशर्म्मणे मन्त्रित्वमदाम् मन्ये च आत्मना सदृशमेतम्। परमसौ गुणशर्म्मा अर्थलोभपरः गौड़ेश्वरसन्तोषाय मां विनाशयितुमुद्यत, आसीदित्यभिधाय अशोकवतीवर्णित सर्वम् अलोकं व्यापारं सर्वेषां समक्षमकीर्त्तयत्।

गुणशर्म्मा एतद्राजवचनमाकर्ण्य चमत्कृतः प्रत्यवादीत्महाराज! वृत्तान्तोऽयं कस्य मुखादाकर्णितो देवेन। राजाब्रवीत् यद्येतदसत्यं तर्हि त्वं व्यञ्जने विषं कथं विदितवान्? ज्ञानबलेन सर्वं विज्ञायते इति गुणशर्म्मणा प्रत्युक्ते विपक्षा मन्त्रिणस्तन्नागणयन्। गुणशर्म्मा पुनरब्रवीत्याथार्थ्यमननुसन्धाय सहसा कमपि दूषयितुमयुक्तं विशे-

षतो राज्ञः। अविवेकं नृपं विद्वांसो बहुशो विगर्हयन्ति। एतदाकर्ण्य राजा नितरां क्रुद्धः वेगेन निपत्य गुणशर्म्माणम्एकया छुरिकया आजघान। तदवलोक्य अन्येऽपि राजकिङ्करा गुणशर्म्माणं प्राहरन्। तदा च गुणशर्म्मा तं तं प्रहारं सोढुमशक्नुवन् समुत्थाय सर्वानेव तान् निरस्त्रान्कृत्वा केशेषु केशेषु बद्ध्वासभामण्डपान्निरगात्। निर्गत्य च अनुधावमानान् शतम् आततायिनो विनाश्य अञ्चलस्थेन अन्तर्धानाञ्जनेन नेत्रे प्रलिप्य अदर्शनं गतः। क्षणेन च दक्षिणापथे उपनीतः समचिन्तयत् नियतमेव दुश्चारिण्या अशोकवत्याः परामर्शात् राजा निर्विवेकः कृतवानिदमकार्य्यम्। अद्य विदितं दुश्चारिणीनां न किमप्यसाध्यं साधूनाञ्च राजसेवा सर्वथैव अकरणीयेति।

एवं चिन्तयन् गुणशर्म्मा कमपि ग्राममासाद्य अपश्यत्कश्चिद् ब्राह्मणः वटतरुमूले समासीनः कतिपयान् छात्रानध्यापयतीति। क्रमेण तत्रागत्य कृतप्रणामं तम् अध्यापकः सादरः आतिथ्येन अभ्यर्च्य परिचयमप्राक्षीत्। गुणशर्म्माब्रवीत् ब्रह्मन्! सामवेदस्य द्वादशशाखाः, ऋग्वेदस्य द्वेशाखे यजुषः सप्त शाखाः, अथर्वणश्च एका शाखा मयाधीताः। उपाध्यायः गुणशर्म्मणो विद्यापरिचयेन विस्मितस्तं देवमिवोपाचरत्। गुणशर्म्मावदत् ब्रह्मन् ! उज्जयिन्यामादित्यशर्म्मानाम कश्चिद् ब्राह्मणः प्रतिवसति स्म। शैशव एव तस्य पितरि स्वर्गते माता च पतिमनुजगाम। ततश्च पितृमातृहीनोऽसौ तस्मिन्नेव नगरे मातुलभवनवासी वेदान् कलाश्च शिक्षितुं प्रावर्त्तत। क्रमेण कृत-

विद्यस्य तस्य जयव्रतसेविना केनचित् परिव्राजकेन सख्यमभूत्। स च परिव्राट् तेन मित्रेण सह श्मशानं गत्वा यक्षीसिद्धये होममारभे। कदाचित् कापि सर्वाभरणभूषिता दिव्ययोषित् सखीगणपरिवृता स्वर्णविमानेन जुह्वतस्तस्य समीपमभ्येत्य मधुरवचसा प्राब्रवीत् अहं विद्युन्माला नाम यक्षी, एताश्च मे परिचारिण्यः, तदासां यामिच्छसि गृहाण। मत्प्राप्तिसाधनं मन्त्रप्रकरणञ्चान्यत्। तत् मदर्थं वृथा परिश्रममकृत्वा सन्तुष्टो भव। एवमुक्त्वाप्रबोधितोऽसौ परिव्राट् सम्मतस्तस्याः परिचारिणीनां मध्यात् एकां जग्राह। विद्युन्माला चान्तर्दधे।

अथ आदित्यशर्म्मतां परिव्राजकस्य यक्षीमपृच्छत् अस्ति कापि विद्युन्मालायाः अपि श्रेयसी यक्षी? यक्षी प्रोवाच भद्र! विद्युन्माला, चन्द्रलेखा, सुलोचना चैतात्रिस्र एवं श्रेष्ठा यक्षकन्याः। तासु च सर्वश्रेष्ठा सुलोचना। एवमुक्ता सा यथासमयमागमिष्यामीति प्रतिज्ञाय अन्तर्हिता। परिव्राड़पि तेन मित्रेण सह स्वमावासं प्रस्थितः। सा तु यक्षीप्रतिदिनं यथासमयमागत्य तस्मै परिव्राजकाय विविधानि भोग्यवस्तूनि प्रदाय तं यथासुखं परिचरति स्म। एकदा आदित्यशर्म्मयक्षकन्यायाः समक्षंपरिव्राजकं सुलोचनासाधनार्थं मन्त्रविधिमपृच्छत्। यक्षीप्रोवाच ब्रह्मन्! दक्षिणस्यां दिशि अवितुन्तुनामके कानने समुद्रतटवर्त्तिनिभदन्तो नाम प्रतिवसति कश्चित् यतिः। स एवअस्यायक्षकुमार्य्याः साधनमन्त्रं सम्यक् वेत्ति। आदित्यशर्म्मएतदाकर्ण्य तयेव यक्ष्यासह भदन्ताश्रमाभिमुखं

प्रतस्थे।तत्रचागत्य वत्सरत्रयं तस्या यक्षकन्यायाः साहाय्येन तं भदन्तं सम्यक् पर्य्यचरत्। भदन्तश्चतस्य परिचर्य्यया सम्प्रीतः तस्मै सुलोचनासाधनमन्त्रमदात्। आदित्यशर्म्मणि मन्त्रबलेन विजने यथाविधि होमं कुर्वति सुलोचना विमानेनाविर्भूय तमब्रवीत् ब्रह्मन् ! आगच्छ, त्वंमन्त्रबलेन मामाराधितवान्, परन्तु अद्यारभ्य षण्मासान् मे कुमारीव्रतं चेत् रक्षेः, तर्हि त्वं महावीरं समृद्धं सुलक्षणं पुत्रमेकं लप्स्यसे। तञ्च तत्र सुसम्मतं विज्ञाय सुलोचना स्वां पुरीं तमनयत्।

आदित्यशर्म्माअलकायां सुलोचनया सह वसन् षण्मासान् आसिधारं व्रतम् अन्वतिष्ठत्।कुवेरस्तस्य व्रतेन सम्प्रीतस्तस्मै सुलोचनामदात्। अहं तस्यां सुलोचनायामजाये। पिता मां गुणवन्तं भाविनं सम्भाव्य गुणशर्म्मणं नाम्नाकरोत्। अहम् अलकायामेव वसन् तत्रत्यात्मणिवराख्यात् यक्षपतेः सकाशात् वेदान् कलाश्च सर्वाः शिक्षितवान्। कदाचित् देवेन्द्रे धनपतिसकाशमागते सर्वे समुत्थायतं संवर्द्धयामासुः। पिता तु मम अनवहिततया न समुत्थानादिकमकरोत्। तेन च परिकुपितः स देवराजस्तं शशाप आदित्यशर्म्मन् ! त्वमलकानिवासं नार्हसि, मर्त्यलोकं गच्छ। ततश्चपित्रा मे सुलोचनया सह बहु अनुनीतः स क्रोधं संहृत्य अवादीत्नाहं मृषा ब्रवीमि, तत्ते पुत्रो मर्त्यलोकं व्रजतु, पुत्र एव पितुरात्मेति श्रूयते इति।
एवमुक्त्वादेवराजे अन्तर्हिते पिता मां नीत्वा उज्जयिन्यांमातुलभवने संरक्ष्य प्रातिष्ठत। कोऽतिवर्त्तते

भाग्यम्। तत्र च तिष्ठतो मम दैवगत्या तत्रत्येन राज्ञा सख्यमासीत्। इत्युक्त्वाराजसम्बद्धं सर्वं वृत्तान्तमामूलान् समाख्याय गुणशर्म्माअद्य भवदन्तिकं प्राप्तोऽस्मीति समवर्णयत्।

एतत् सर्वमाकर्ण्य ब्राह्मणः प्रावदत् अहमग्निदत्तो नाम भवदागमनेन कृतार्थोऽस्मि, मद्गृह एव स्थित्वा मामाप्यायस्व। एवमुक्त्वागुणशर्म्माणंस्वं गृहमनयत्। गुणशर्म्माणंतस्य ब्राह्मणस्य निर्बन्धेन तद्गृहमभ्येत्य कृतस्नानंस ब्राह्मणःवसनाभरणादिना समभ्यर्चयत्। अभोजयच्चस्वादूनि द्रव्याणि। अथाग्निदत्तः लक्षणपरीक्षणव्याजेन सुन्दरीं नाम स्वां कन्यां तत्समक्षमानयत्, गुणशर्म्माकन्याया रूपेण विमोहितः तस्या लक्षणानि दृष्ट्वावदत् ब्रह्मन् ! योगेन अस्या नासिकायाम् ऊर्वोश्च कतिपये तिलाः दृश्यन्ते। तदस्याः कतिपयाः सपत्न्यःसम्भविष्यन्तीति। अग्निदत्तः गुणशर्म्मणिविद्यापरीचार्थं पुत्रेण सुन्दर्य्यास्तत्तत्प्रदेशेषु तिलाः सन्ति न वेति परीक्षयाञ्चक्रे। ततश्च परीक्षया सविस्मयःविजने गुणशर्म्माणंनीत्वा कन्यां मे गृहीत्वा अत्रैव मद्गेहे वसेति अनुरुरोध। गुणशर्म्माप्राब्रवीत् ब्रह्मन् ! सत्यमेव भवदाश्रये स्थिते परमं सुखं भवेत्, परं राजापमानसन्तप्ते मदीये हृदये साम्प्रतं का प्रीतिः ? स्त्रीप्रभृतयश्च सुखिनमेव सुखयन्ति, असुखिनन्तु दुःखयन्त्येव। स्वयमनुरक्ता स्त्रियः न कदापि व्यभिचरन्ति, परम् अशोकवतीवपितृदत्ता कन्या प्रायेण व्यभिचरति। अन्यच्च अस्मात् प्रदेशादुज्जयिनी सन्निहिततरा। अहमत्र

निवसामीति राजा महासेनः यदि शृणुयात्, तर्हि अत्रापिआगत्य मां पीड़यिष्यति। तदहं तीर्थेषु परिभ्रमन् एतज्जन्मपापानि क्षालयित्वा देहं त्यजन् निर्वृतिमप्स्यामीति मतिमकरवम्।

एतदाकर्ण्य अग्निदत्तोऽब्रवीत् वत्स ! यदि अज्ञानाम् अवमानैः भवादृशा अपि व्याकुलीक्रियन्ते तदा द्रुमसानुमतां किमन्तरम् ? आकाशे लोष्ट्रनिक्षेपे निक्षेपुरेव उपरि तत् प्रायशः पतति, तथा अल्पेनैव कालेन राजासौस्वस्या अज्ञतायाः फलमवाप्स्यतिराजलक्ष्मीर्न हि तादृशमज्ञंनिर्विवेकं चिरमाश्रयेत्। किञ्च एकामशोकवतींदृष्ट्वा सर्वांस्त्रियं प्रति भवतामविश्वासो नैव युज्यते। कन्या च मम सुलक्षणेति भवता स्वयं परीक्षिता। तत्कथं तस्या अकारणं दोषं सम्भावयति भवान्। यदि चोज्जयिनी सन्निहितेति भोगोऽसि, तदहं तत् प्रतिकरोमि। भवन्तमेतादृशे प्रदेशे रक्षिष्यामि, यथा कोऽपि समनुसन्धातुं न शक्नुयात्। गार्हस्थ्यं सर्वेषुआश्रमेषु प्रधानं, तदकृत्वा तीर्थाश्रयणं धर्म्मशास्त्रविरुद्धतया अवैधमेव। यच्च भवान् देहपरित्यागायकृतसङ्कल्पः तदपि न युक्तम्, आत्मघातिनां हि नरकयातनायाः आनन्त्यं सर्ववादिसम्मतम्। तदस्मात् दुरध्यवसायाद्विरम्य मम वचनं शृणोतु।अहं त्वदर्थं मनोज्ञमेकं भूगृहं निम्र्मापयामि, तत्र स्थित्वा सुखेन कालं नयतु भवान्।

गुणशर्म्मा तस्य तादृशं सुपरामर्शमाकर्ण्यस्वादध्यवसायात् विरम्य प्रत्यवादीत् ब्रह्मन् ! अहं भवतां प्रस्तावमेव

अनुमोदे, परमहमिदानीमकिञ्चनः अकृती च, तत् कथमिदानीं भवतः कन्यां गृह्णामि ? साम्प्रतं तस्य कृतघ्नस्यराज्ञः प्रतीकारवाञ्छया कमपि देवमाराधयामीति। अथ अग्निदत्तेन तथेत्यभ्यनुज्ञातः स गुणशर्म्मातां रात्रिं तदीये भवने न्यवसत्। अनन्तरम् अग्निदत्तस्तदर्थं पातालगृहं नाम भूगृहमेकं निर्म्माप्य तस्मिन् तमवासयत्। गुणशर्म्मा तत्र स्थित्वा अग्निदत्तदत्तमन्त्रेण देवम् कुमारं आराधयितुमारेभे।

तस्मिन् तथा प्रवृत्तेअग्निदत्तकन्या सुन्दरी पितुरनुज्ञया तं पर्य्यचरत्। गच्छता कालेन भगवान् कुमारस्तं प्रति प्रसन्नः प्रादुर्भूय वरमदात् वत्स ! गुणशर्म्मन्! त्वम् अतुलसम्पत्तिशाली भूत्वा महासेनं राजानं दण्डयन् निष्कण्टकंराज्यभोगसुखं लभस्वेति। एवमुक्त्वादेवे अन्तर्हितेगुणशर्म्माअचिरेण अक्षयां सम्पदं लब्ध्वाअग्निदत्ततनयां सुन्दरीमुपयेमे। ततश्च क्रमेण बहूनि चतुरङ्गाणि बलानि संगृह्यउज्जयिनीमभिययौ। तत्र च गत्वा अशोकवत्याश्चारित्रमुद्धोष्य महासेनं समरे निपात्य तदीयं सिंहासनमध्यासीनः सुखेन राज्यमशासत्। इत्थं कोऽपि महासेनवत् अज्ञतया विपदमाप्नोति, कोऽपि वा गुणशर्म्मवत् धैर्य्यमाश्रित्य जितशत्रुः परमेण सुखेन कालं नयतीति। सूर्य्यप्रभइत्थंमन्त्रिसुखादद्भुतं मनोहरमाख्यानं श्रुत्वानिर्भीकःप्रोत्साहितश्च रजनीमत्यवाहयत्।

_______

पञ्चाशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722709769EBS.png"/>

प्रातश्च सूर्य्यप्रभः दानवसैन्यपरिवृतः सचिववृन्दैः सह संग्रामभूमिमवातरत्। श्रुतशर्म्माच विद्याधरबलसंयुतः सूर्य्यप्रभमभ्याजगाम। रणदिदृक्षवश्च देवा असुराश्च गगनमध्यतिष्ठन्। उभयोरेव सैन्ययोरर्द्धचन्द्राकृतौ व्यूहेसंग्रामःप्रावर्तत। सर्व एव सैनिकाः परस्परं सिंहनादं कुर्वन्तःप्रतिद्वन्द्विनः अभ्यधावन्। अस्त्रप्रहारक्षतानां वीराणां हस्तिनाम्अश्वानाञ्च रुधिरधाराभिः परिप्लुता असयःकृतान्तस्य रसना इव अलक्ष्यन्त। छिनैश्चवीराणां शिरोभिराकीर्णा भूः परेतराजस्य पानभूमिरिव व्यराजत।

इत्थंबहुषु सैन्येषु उभयोरेव निपतितेषु सूर्य्यप्रभः श्रुतशर्म्मणा, दामोदरः प्रभासेन, अन्ये च महारथाः सदृशैः महावीरैः सह द्वन्द्वयुद्धमारेभिरे। महोत्पातः सिद्धार्थं प्रति धावन् वाणैर्वाणान् निवार्य्यअन्येन वाणेन तस्य धनुः अश्वान् सारथिञ्चव्यवधीत्। हताश्वसारथिश्छिन्नधन्वा च सिद्धार्थः क्रोधेन धावन् लौहदण्डेन महोत्पातस्य सवाहनं रथं चूर्णयित्वा बाहुयुद्धेन तमपि भूतलमपातयत्। पातितञ्च त तस्य पिता भगः समापत्य रक्षितवान्।

प्रहस्तः ब्रह्मगुप्तं सुचिरं योधयित्वा यावत् भूतलमध्यशाययत् तावत् तस्य पिता पद्मयोनिः समापत्य तमरक्षत्। तदवलोक्यदानवा जहसुः। देवा युद्धं द्रष्टुं नागताः केवलं स्वंस्वंपुत्रं रक्षितुमेवागता इति। वीतभयः

प्रद्युम्नास्त्रेण संक्रमम् उरसि दृढ़माजघान। प्रज्ञाढ्येनचन्द्रगुप्ते निहते तत्पिता देवश्चन्द्रमा पुत्रहन्तारं प्रति परमक्रुद्धः योद्धुंप्रावर्त्तत। सूर्य्यप्रभः श्रुतशर्म्मणानिहतं विरोचनमवलोक्य अतिक्रुद्धःदमं नाम विद्याधरं यमसदनमनैषीत्। तस्मिंश्चपुत्रे निहते अश्विनीनन्दनौ शोकक्रोधाकुलौ योद्धुमागतौ दृष्ट्वा सुनीथस्तावाचक्राम।स्थिरबुद्धिशक्तिना निहतं पुत्रं पराक्रमं दृष्ट्वा अष्टौ वसवः परिकुपिताः पुत्रहन्तारं प्रति योद्धुमभ्यागमन्।

प्रभासस्वदामोदरेण युध्यमानः एकेन वाणेन महीनकंनिजघान। प्रकम्पनेन तेजःप्रभे निहते भगवानग्निः पुत्रबधपरिक्रुद्धःरणभूमौ अवातरत्। धूमकेतुना यमदंष्ट्रेनिपातिते यमः परिक्रद्धःपुत्रहन्तारं प्रति योद्धुमभ्याययौ। सिंहदंष्ट्रेण सुपेणे शिलाप्रहारचूर्णिते तस्य पिता निरतिः पुत्रबधमसहमानःयुद्धार्थमभिययौ। कालचक्रेण महारथेन चक्रेण द्विधाकृते वायुबले पवनः कोपात् पुत्रहन्तारमभि युद्धार्थमाजगाम। महामायेन मायया बहुविधानि रूपाणि कृत्वा कुवेरदत्ते निहते तत्पिता देवः कुवेरः कोपपूर्णः पुत्रघातकं प्रति योद्धुमागमत्। इत्थंसर्वएव देवाः स्वंस्वम् अंशावतारं पुत्रं विपन्नं दृष्ट्वा क्रुद्धाःरणेषु प्रववृतिरे। बहवो विद्याधरा मानवैर्दानवैश्चयुध्यमाना हता आहताश्चाभवन्।

अनन्तरं प्रभासदामोदरयोर्भीषणं युद्धंप्रावर्त्तत। महावीरः सेनापतिर्दामोदरः छिन्नधन्वाहतसारथिरपि स्वयं सारथ्यमपि कर्वन् युयुधे। तदवलोक्य ब्रह्मा तं साधु-

वादेन समवर्द्धयत्। देवराजश्चतुर्मुखमपृच्छत् प्रभो ! पराजितं कथमेवं प्रशंसति भवान् ? प्रजापतिः प्रत्यवादीत् दामोदरो विष्णोरवतारः, नो चेत् प्रभासेन सह एतावन्तं काल योद्धुंकः समर्थः ? अस्य प्रभासस्य सम्मुखे देवाः सर्वेऽपि तृणान्येव। नमुचिर्नाम यो दुर्जयो दानवः पुरासीत्, तस्य पुत्रः प्रबलः, प्रबलस्यतनयो भासः। भासः पूर्वं कालनेमिर्नाम असुर आसीत्। तस्य भासस्यायं पुत्रः प्रभासः। यश्च हिरण्यकशिपुर्नाम दैत्यराजः, तस्मात् कपिञ्जलः,कपिञ्जलात् सुमुण्डीकः। तस्यायं पुत्रः सूर्य्यप्रभः। पूर्वं यश्च हिरण्याक्षआसीत्, स एवायं सुनीथः। ये चान्ये दैत्यदानवाःपूर्वं संग्रामे निहतास्ते एव मयप्रभृतयः पुनरसुरकुलेषु सञ्जाताः सूर्य्यप्रभमाश्रिताः। पश्य अयं दैत्यराजो बलिः सूर्य्यप्रभस्य रुद्रयज्ञप्रभावेण बन्धनमुक्तो युद्धदर्शनार्थं समागतः। यः स्वं सत्यं पालयितुमधुना पातालतलमधिवसति। यश्च तवाधिकारात् परम् इन्द्रत्वं प्राप्स्यति। साम्प्रतं सर्वे असुरा देवदेवेन हरेण पाल्यन्ते तदिदानीं न संग्रामावसरः, सन्धिरेव एतैः कर्त्तव्य इति।

एवं वदति पितामहे महावीरः प्रभासः पाशुपतमस्त्रममुञ्चत्। भगवान् नारायणः सर्वसंहरणक्षमं जाज्वल्यमानं तदस्त्रं निरीक्ष्य पुत्रस्नेहेन सुदर्शनमत्यजत्। उभयोरेव दिव्यास्त्रयोराविर्भावात् त्रिभुवनं चकम्पे। भगवान् विष्णुः सृष्टिसंहारभयार्त्तः प्रभासं पाशुपतास्त्रसंहरणार्थं पुनःपुनरनुरुरोध। प्रभासः प्रत्यवदत् भगवन् ! ममैतदस्त्रं न संहर्त्तुंशक्यते, भवानग्रतःदामोदरं परित्यज्य परा-

ङ्मुखो भवतु, ततोऽहम् अस्त्रंसंहरिष्यामीति। भगवानब्रवीत् त्वमपि सुदर्शनं सम्मानय। प्रभासोऽवदत् तथास्तु, भवतश्चक्रं मदीयं रथं नाशयतु, इत्थमुभयोरेव साफल्यमास्ताम्।

इत्थमवधारिते दामोदरः नारायणादेशात् संग्रामात् निववृते। पाशुपतसुदर्शने चप्रतिपक्षरथं विनाश्य संहृते। प्रभासदामोदरौ अन्यं रथमारुह्य स्वंस्वं प्रभुं प्रति प्रचलितौ।

श्रुतशर्म्मसूर्यप्रभयोर्घोरं युद्धमासीत्। उभावेव अस्त्रवृष्टिभिःस्वंस्वंरणकौशलं प्रदर्शयन्तौ सुचिरं युयुधाते। श्रुतशर्म्मासूर्य्यप्रभायब्रह्मास्त्रंतत्याज। सूर्यप्रभोऽपितत् संहर्त्तुंपाशुपतमस्त्रंमुमोच। यावत् तत् पाशुपतं ब्रह्मास्त्रं निरस्य श्रुतशर्म्माणंनिहन्तुम् उद्यच्छति तावत् सर्व एव इन्द्रादयो लोकपालाः स्वं स्वं कुलिशादिकमस्त्रंतत्यजुः। यावच्च तत् पाशुपतं सर्वेषामेव देवानामस्त्राणि न्यक्कृत्य क्रोधेन श्रुतशर्म्माणं प्रति गच्छति, तावत् सूर्य्यप्रभः कृताञ्जलिःअस्त्रराजंस्तुवन् प्रार्थयाञ्चक्रे हे महास्त्र ! श्रुतशर्म्माणंमा विनाशय, परं बद्ध्वामदन्तिकमानयेति।

सर्व एव देवा यदा श्रुतर्म्माणमाश्रयन् तदा असुरा अपि सर्वे सूर्यप्रभसहाया बद्धपरिकराः संग्रामाय प्रावर्त्तन्त। अत्रान्तरे वीरभद्रो नाम कश्चित् शिवानुचरः समागत्य देवान् निवार्य्याब्रवीत् देवाः !भवन्तो युद्धदिदृक्षयासमागताः, न तु युद्धं कर्त्तुम्। यदि अन्यथाचरेयुः, महानर्थो भविता। तद् भवन्तः शाम्यन्तु इत्येष देवदेवादेशः।

एतदाकर्ण्य देवा अब्रुवन् भद्र ! एते विद्याधराः सर्व एव अस्माकमंशसम्भूताः, पुत्रस्नेहःनातिक्रमणीयः, तदेषां विनाशं दृष्ट्वा कथमस्माभिः तूष्णीं स्थातुं शक्यते? अवश्यमेव तेषां रक्षणार्थं यत्नः करणीय इत्युक्त्वासर्व एव देवा असुरैः सार्द्धंयोद्धुंप्रववृतिरे। वीरभद्रोऽपि तदवलोक्य स्वस्थानं प्रतस्थे।

देवा असुरान् प्रति यानि यानि अस्त्राणि अमुञ्चन्भगवान् शम्भुर्हुङ्कारेणैव तानि तानि भस्मसाच्चकार। तदवलोक्य देवाः सर्वे सभयं पलायाञ्चक्रिरे। देवराजः स्वयंयुध्यमानः सूर्य्यप्रभं प्रति यानि यानि महास्त्राणि तत्याज सूर्य्यप्रभस्तानि तानि लीलयैव छित्त्वा आकृष्टधन्वा नाराचवर्षणेन देवेन्द्रं क्षतविक्षतमकरोत्। सुरपतिः क्रोधाध्मातोयावत् कुलिशं सूर्य्यप्रभाय न्यक्षिपत् तावत् भगवानुमापतिः घोरेण हुङ्कारेण तत् भस्मीचकार। नारायणोऽपि प्रभासेन युध्यमानंयद् यद् अस्त्रंप्रभासाय न्यक्षिपत् रुद्रस्तत्तदपि खण्डयामास। इत्थंसर्व एव सेन्द्रोपेन्द्रा देवाः विषादमापन्नाःपराङ्मुखा आसन्। असुरा जयलाभेन सिंहनादंचक्रुः। श्रुतशर्म्मारुद्धोऽभवत्।

अथ देवैः स्तूयमानो वृषध्वजः प्रसन्नस्तानब्रवीत् देवाः ! सूर्य्यप्रभस्य प्रतिज्ञा नान्यथा भवितुमर्हति। देवा ऊचुः अस्माभिः श्रुतशर्म्मणे यत् प्रतिश्रुतं तदपि न्यायादनपेतं, तदुभयोरपि साफल्यमस्तु। शम्भुरवदत् उभयोः पक्षयोः सन्धौ विहिते तत् सर्वं यथोचितमेव भविता। साम्प्रतं श्रुतशर्म्मासानुचरः सूर्य्यप्रभं प्रणमतु, ततश्चउभयोरेव

कुशलं यथा भवेत् तत् कर्त्तव्यम्। देवास्तथेति श्रुतशर्म्माणं सूर्य्यप्रभं शरणमाश्रयितुमादिशन्। श्रुतशर्म्मणातथा कृते सूर्य्यप्रभः वैरं त्यक्त्वा तं बन्धुतया आलिलिङ्ग। इत्थंदेवासुरैः परस्परं सन्धौ स्थापिते देवादिदेवः सूर्य्यप्रभं सम्बोध्य अभ्यधात् वत्स ! सूर्य्यप्रभ ! त्वं वेद्यादक्षिणार्द्धंगृहीत्वा उत्तरार्द्धं श्रुतशर्म्मणेप्रयच्छ। अचिराच्चअस्माच्चतुर्गुणं किन्नरसाम्राज्यं लप्स्यसे। ततश्च किन्नराधिराजो भूत्वा दक्षिणर्द्धमेतत् सकुञ्चरकुमाराय दास्यसीति एवं संग्रामनिहतान् वीरान् पुनर्जीवयित्वा सानुचरः पश्यतामेव सर्वेषामन्तर्दधे।

अथ सूर्य्यप्रभः सिंहासनार्द्धंश्रुतशर्म्मणेदत्वा अर्द्धंस्वयमधिचकार। प्रभासादयो मन्त्रिणः सूर्य्यप्रभमनु सभामधितस्थुः। दामोदरादयश्च श्रुतशर्म्माणमन्ववसन्। सुनीथादयोऽसुराः विद्याधराः सर्वे यथायोग्यमासनं भेजिरे। अथ सप्तपातालाधिपतयः प्रह्लाद्दयोऽसुरा इन्द्रादयश्चदेवा सुमेरुप्रभृतयश्च विद्याधराः सूर्य्यप्रभसभाजनायोपतस्थिरे। सूर्य्यप्रभस्य पत्न्यश्च भूतासनविमानेन सर्वा एव समाजग्मुः। इत्थं सर्वेषु समुपविष्टेषु सिद्धिर्नाम दनोः सहचरी समागत्य सर्वान् सम्बोध्याब्रवीत् देवासुराः !दनुः पृच्छति वः, यूयं देवासुराः कदापि एकस्यां सभायामीदृशं सौमनस्यमन्वभवत ? अद्य किं सौभाग्यदिनं ! यत् चिरविरोधिनोऽपि अद्य एकत्र समासीनाः सौभ्रात्रसुखम् अनुभवथ । तदतः परं कदापि यूयं परस्परं मा विरोधं कुरुत, विरुद्धाश्च दुःखं मा लभध्वम्। हिरण्याक्षादयोअसुरेश्वराःस्वर्गाय

व्यापारभावं निवेश्य स्वयं कैलासं मत्वा प्रभुसकाशमुपतस्थे, तुष्ठाव च पार्वतीपरमेश्वरौ निपत्य चरणेषु विविधैः स्तवैः। तौ च भक्तवत्सलौ तस्य स्तवैर्नितरां परितोषमापतुः। अथ भगवता विसर्जितः सूर्य्यप्रभः निर्द्धारिते दिवसे विद्याधरराज्याभिषेकं प्राप्य परमेण सुखेन कालं नयति स्म इति समाख्याय असौ वज्रप्रभस्तिरोदधे।

अथ अलङ्कारवतीनामको नवमो लम्बकः।

<MISSING_FIG href="../books_images/U-IMG-1722709769EBS.png"/>

एकपञ्चाशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722709769EBS.png"/>

एतां महतीं कथामाकर्ण्य नरवाहनदत्तः सविस्मयः कदाचित् गोमुखेन सह गहनं काननं प्रविष्टः सुदूरात् वीणाध्वनिमशृणोत्। युवराजः तमनुधावन् कियन्तं दूरं गत्वा शिवमन्दिरमेकं ददर्श। क्रमेण सन्निहितः तरुतले अश्वं बद्ध्वामन्दिरं प्रविश्य अपश्यत् कापि दिव्यकुमारी सखीजनपरिवृता वीणायन्त्रेण मधुरस्वरेण देवटेवमुमापतिं स्तौति स्म। युवराजस्तां समीक्ष्यैव मदनशरशरजर्ज्जरितदेहः सहसा समपद्यत। कन्या च सा युवराजस्य रूपेण विमुग्धीकृता सद्य एव सङ्गीतादिव्यापाराद् विरराम। प्रभुचित्तविदि गोमुखे कन्यायाः परिचयं प्रष्टुमुपक्रान्त एव अधरा कापि सुराङ्गना गगनादवतीर्णा कन्यान्तिकमागत-

वती। कन्यां ससम्भ्रमं कृताभ्युत्थानप्रणामं सा योषित् सन्तुष्टा विद्याधरचक्रवर्त्ती ते पतिर्भूयादिति आशिषा संवर्द्धयामास।

अत्रान्तरे युवराजः समीपमभ्येत्य तां योषितं प्रणम्य कन्यायाः परिचयमपृच्छत्। विद्याधरीप्रोवाच भद्र ! हिमालयान्तवर्त्तिनि सुन्दरपुरनामके नगरे अलङ्कारशीलो नाम प्रतिवसति कश्चिद्विद्याधरराजः। तस्य महिषी काञ्चनप्रभा नाम। सा खलु कदाचित् भगवत्या गौर्य्याः कृपया पुत्रमेकमसूत। अलङ्कारशीलश्च तस्य धर्म्मशील इति नामाकरोत्। तञ्च सुतं क्रमेणातिक्रान्तशैशवं गुणवन्तं दृष्ट्वा पिता यौवराज्ये अभ्यषिञ्चत्। अनन्तरमसौ काञ्चनप्रभा कन्यामेकां प्रासोष्ट। प्रसवानन्तरमेव आकाशभारती उदचरत् कन्येयं नरवाहनदत्तस्य भाविविद्याधरचक्रवर्त्तिनो महिषीभविष्यतीति। अथ पिता कन्यां नाम्नाअलङ्कारवतीमकार्षीत्। कन्या दिने दिने वर्द्धमाना क्रमेण समतिक्रान्तबालभावा पितुः सकाशात् समधिगतविद्याच पितुरनुज्ञया शिवपूजापरायणासीत्।

अथ गच्छति काले युवराजं धर्म्मशीलं विषयभोगविरक्तं वनं गन्तुकामं दृष्ट्वा स्वयमपि पुत्रस्नेहविक्लवस्तेनैव पुत्रेण सह वनं गमिष्यन् पत्न्यैअलङ्कारवतीं समर्प्य संवत्सरेपूर्णे इहागत्य नरवाहनदत्ताय कन्यां दास्यामि, जामाता चासौ मदीयं राज्यं लब्ध्वाआधिपत्यं करिष्यतीति चसमाख्याय प्रतस्थे। काञ्चनप्रभा च भर्तुरादेशात् कन्यां पालयन्ती तस्मिन्नेव नगरे न्यवसत्।

अथ अलङ्कारवतीं मात्रा सह शिवाराधनतत्परां बहुषु देवायतनेषु भ्रमन्तींकदाचित् प्रञ्चप्तिर्नाम विद्या इत्थमादिदेश यथा काश्मीरदेशान्तर्वर्त्तिनि स्वयम्भु क्षेत्रे यत् शिवलिङ्गमस्ति तस्मिन्नाराधिते शीघ्रमेव त्वं नरवाहनदत्तंपतिमाप्स्यसीति। तदाकर्ण्य अलङ्कारवती मात्रा सहकाश्मीरं गत्वा तत् शिवलिङ्गमाराध्य अद्य गृहमायाता। या चास्मिन् देवमन्दिरे सखीभिः परिवृता देवमुमाकान्तं वीणयास्तौति स्म सैवेयमलङ्कारवती, अहञ्चास्या जननी काञ्चनप्रभा। अहमद्य विद्याप्रभावेण नरवाहनदत्तंभवन्तमवागतं विदित्वा सत्वरमागतास्मि। भर्त्ता च मे स्वयं सम्प्रदास्यतीति कथितमेव पूर्वमायुष्मते। तदपेक्षस्व दिनमेकम्। श्वः कन्यामिमां परिणीय अस्माकं मनोरथं पूरयित्वा कौशाम्बीं प्रति गमिष्यसि। एतदाकर्ण्य कन्याजामातरौएकान्तानुरक्ततया विलम्बमसहमानौ दृष्ट्वा काञ्चनप्रभा पुनरब्रवीत् युवामेकं दिनं विरहदुःखं सोढुं न शक्नुथः, पश्यतं पुरा राजा रामचन्द्रः सीता च कियन्तं दीर्घकालं विरहयन्त्रणां सेहाते। एवमुक्त्वासीतावनवासवृत्तान्तकीर्त्तनेन तौसमाश्वासयत्।

अथ काञ्चनप्रभायां प्रभातेआगमिष्यामीति प्रतिश्रुत्य सकन्यायां चलितायां नरवाहनदत्तोऽपि विमनास्तेन मित्रेण सह कौशाम्बीं प्रत्याजगाम। रात्रौ अलङ्कारवत्या विरहेण निर्निद्रं युवराजमालोक्य गोमुखस्तस्य चित्तविनोदाय मनोहरमेकमाख्यानं वक्तुमारेभे।

युवराज ! अस्ति दक्षिणापथे प्रतिष्ठानं नाम नगरम्।

तत्रासीत् पृथ्वीरूपो नाम कश्चित् परमरूपवान् नृपतिः। एकदा परमज्ञानसम्पन्नौ द्वौयती समीपमेत्य तस्य निरुपमरूपमाधुरीं दृष्ट्वा प्रोचतुः देव ! अस्माभिः सर्वा एव महीपर्य्यटिता, परं क्वचिदपि भवतः सदृशः रूपवान् पुरुषो न दृष्टः। मुक्तिपुराख्यद्वीपाधिपतेः रूपधरस्य रूपलता नाम कन्यैका अस्ति, सा एव देवस्य अनुरूपा सम्भाव्यते। विधाता यदि उभयोर्युवयोः संयोगं विधास्यति तत् परमं योग्ययोजनं स्यात्। एवमुक्त्वाविरतयोस्तयो राजा स्वं चित्रकरं कुमारीदत्तमाहूयस्वां प्रतिकृतिमङ्कयितुंसमादिदेश।अथ प्रतिकृतौ चित्रितायां राजा ताभ्यां यतिभ्यां सह सचित्रंकुमारीदत्तंमुक्तिपुरं प्रजिघाय।

चित्रकरः सयतिः सत्वरं समुद्रतीरवर्त्तिनि पोत्रपुराख्येनगरे पोतमारुह्य पञ्चभिर्दिवसैः मुक्तिपुरं प्राप, घोषयामास च राजद्वारि समुपस्थाय कोशलेन स्वंचित्रनैपुण्यम्। अथ राजा तदाकर्ण्यतं चित्रकरमाजुहाव।चित्रकरस्तु राजान्तिकमुपगम्य सप्रणामं स्वस्य चित्रनैपुण्यस्य परां काष्ठां ख्यापयन् अब्रवीत् देव! पृथ्वीधरनरपतेः सकाशादागतोऽस्मीति। राजा तं कन्यायाः प्रतिकृतिं चित्रयितुमादिशन् तत्समक्षं कन्यामानयत्। अथ कुमारीदत्तेऽपि कन्याया रूपलतायाश्चित्रपटम् अङ्कयित्वा राजान्तिकमुपयातेराजा कुमारीदत्तस्य चित्रनैपुण्यंबहुशः प्रशस्य चित्रकरेण सहागतौ सन्यासिनौ समादृत्य अपृच्छत् युवाभ्यां सर्वा एव पृथिवी भ्रान्ता, ब्रूतं तावत् मत्कन्यासमा रूपवती कापि कन्या कुत्रापि दृष्टा न वेति। सन्यासिनाववो-

चतां राजन् ! भवतः कन्यायाः सदृशी रूपवती क्वापि नास्माभिर्दृष्टा, परं यादृशीभवतः कन्येयं तादृशी रूपराशिः पृथ्वीधरो नाम राजा दृष्टः, श्रुतञ्च स राजा युवापि सदृश्याः कन्याया अलाभादद्यापि अपरिग्रह एव तिष्ठति, यद्येतयोः संयोजनं भवेत् तत् विधातुः रूपनिर्म्माणसाफल्यं स्यादिति। अस्मिन्नेवावसरे चित्रकरोऽपि यदि द्रष्टुमिच्छति देवस्तदेकं मम प्रभोश्चित्रपटंमत्समीपे वर्त्तते, अवलोकयतु देव इत्युक्त्वा पृथ्वीधरस्य तत् चित्रपटं दर्शयामास। रूपधरस्तदवलोक्य बहुशः प्रशस्य च कन्यासकाशं प्रैषयत्। कन्या च दृष्ट्वैव तत् विमोहिता विस्मिता चाभवत्। राजा कन्यां तथाविधामालोक्य चित्रकर पुरस्कृत्य च कन्यायाश्चित्रपटं दत्त्वा इदमब्रवीत् चित्रकर! गच्छ त्वत्प्रभुंपृथ्वीधरं चित्रमेतदस्मै दर्शय, यदि तस्य चित्रदर्शनेन मम कन्यायामभिलाषः स्यात् तदासौ कन्यां मम रूपलतां परिणीय मां कृतार्थयतु इति। चित्रकरः भिक्षुभ्यां सह राजपुरस्कृतः समुद्रमुत्तीर्य्य प्रतिष्ठानं प्राप्य राजान्तिकमुपगम्यरूपधरसन्देशंनिवेद्य च रूपवतायाश्चित्रपटं दर्शयामास। पृथ्वीधरश्चित्रंदृष्ट्वैवविमुग्धीभूतः रूपधरस्य सन्देशश्रवणेन सम्प्रीतः चित्रकरं भिक्षू च धनैः परितोष्य तदेव चित्रंविलोकयन् अतिकृच्छ्रेण दिवसमनैषीत्।

अथापरेऽह्नि शुभं लग्नं निश्चित्यशक्रमङ्गलं नाम हस्तिनमारुह्य चससेन्यसामन्तः मुक्तिपुराभिमुखं प्रायात्। द्वितीये दिवसे विन्ध्याटवीं प्राप्त एव शवरसैन्यैराक्रान्तोऽपि तान्पराजित्य सागरमुत्तीर्य्यच अष्टभिर्दिवसैः मुक्ति-

पुरमुपेयाय। राजा रूपधरः पृथ्वीधरमुपस्थितं निशम्य ससम्भ्रमं प्रत्युद्गम्य तं राजधानीमानिनाय। सर्वे राजपरिजनास्तमनुरूपं वरमागतं दृष्ट्वा भृशंननन्दुः। अथराजा रूपधरः शुभे लग्ने पृथ्वीधरं यथोचितमभ्यर्च्य कन्यां सम्प्रददौ। अन्योन्यावलोकने च वधूवरौ परस्पररूपदर्शनेन चरितार्थतामापतुः।

सम्पन्नेच विवाहमहोत्सवे राजा रूपधरः पुनस्तंचित्रकरं भिक्षुकौ च वस्त्रालङ्कारादिना समतोषयत्। जामाता पृथ्वीधरः स्वानुचरैः सह श्वशुरभवने दश दिनानि सुखेन नयन् एकादशेऽहनि प्रियतमया सह स्वांराजधानीं प्रति प्रतस्थे। रूपधरस्तुआसमुद्रतीर तमनुजगाम। ततो राजा पृथ्वीधरः श्वशुरम् अभिनवकन्यावियोगाकुलं समाश्वास्य पीतेनसमुद्रम् अष्टभिरहोभिः समुत्तीर्य्य तत्रत्यस्य पोत्रपुराधिपतेरुदारचरितस्य राज्ञःसदने त्रातिथ्यमङ्गीकृत्य च स्वां नगरींप्रत्यागात्। पौराङ्गनाः रूपलताया रूपलावण्यदर्शनेन सञ्जातविस्मयाःअभूवन्। राजा राजभवनंप्रविश्य सर्वाननुयायिनो यथोचितं पुरस्कृत्य प्रियतमया रूपलतया सार्द्धंसुखेन कालमहरत्।

एतदुक्त्वामन्तिवरो गोमुखः पुनरब्ररीत देव ! सर्व एव महानुभावा राजानो राजपुत्राश्च इयम् अल्पंवा बहुतरं विरहदुःखं सहन्ते, भवान् पुनरेकामेव रजनोमतिवाहयितुमशक्ताः व्याकुलतामुपयाति ? रात्रौप्रभातायामेव अलङ्कारवतीमाप्स्यतीतिसमाख्याय गोमुखे विरते मरुभूतिरुपस्थितोऽब्रवीत् यावत् लोकः कुसुमशरशरनिकर-

लक्ष्यतां नोपेयात् तावत् तस्य धैर्य्यशीलता तिष्ठेत्। देवी सरस्वती, देवः कुमारो जिनश्च एते त्रय एव वसनलग्नं तृणमिव कामं सुदूरं निरस्य जगति जितेन्द्रियतायाः परां कोटिमधिरूढाः श्रूयन्ते। एवमुक्त्वातूष्णीम्भूते तस्मिन् गोमुखः किञ्चिद्विमना इवाभवत्। युवराजस्तु तत्पक्षमेव समर्थयन् अन्याभिर्विविधाभिः कथाभिः कथञ्चित् तां रात्रिमनयत्।

अथ प्रभाते अलङ्कारशीलः पत्न्याकाञ्चनमालया कन्यया चालङ्कारवत्या सह अन्तरीक्षात् भूतलमवतीर्य्यकृतनित्यक्रियं युवराजमभ्याजगाम। स च तं समुचितेन सत्कारेण समवर्द्धयत्। अथ वहवो विद्याधराः सुवर्णानां रत्नानाञ्च भारानादाय नभोमण्डलात् अवतेरुः। वत्सराजः समाकर्ण्य वार्त्तामिमां सपत्नीकः तत्रोपस्थितः अलङ्कारशीलं सम्यगभ्यर्थयामास। अलङ्कारशीलः सविनयमवादीत् राजन् ! कन्येयंमम अलङ्कारवती, अस्याञ्च प्रसूतायामेव दैववाण्यदतिष्ठत् भाविचक्रवर्त्तिनो नरवाहनदत्तस्य इयं प्रतिपादनीयेति। अद्य शुभलग्नं विद्यते, तदेनामादाय वयं सवर्गाः भवन्तमुपस्थिताः।

एतदाकर्ण्य वत्सराजः महाननुग्रह इत्युक्त्वातमनुमुमुदे। अलङ्कारशीलः यथाविधि युवराजाय नरवाहनदत्ताय कन्यां सुबहुभिः रत्नैः सह सम्प्रदाय राज्ञासम्पूजितःसद्य एव स्वस्थानं प्रतस्थे। वत्सराजश्चक्रमशः पुत्रस्य समुन्नतिं विलोक्य परां प्रीतिमनुभवन् सुखेन कालमनयत्।

__________

द्विपञ्चाशत्तरङ्गः।

____________

अथ गच्छति काले काञ्चनप्रभाकौशाम्बीमागत्यजामातरं स्वं नगरं नेतुं प्रस्तावमकार्षीत्। युवराजोऽपि सम्मतः पितुराज्ञया गोमुखेन मरुभूतिना सह काञ्चनप्रभादर्शितेनआकाशवर्त्मना हिमाचलमुपस्थितः अप्सरसां किन्नराणाञ्च मनोहरं सङ्गीतमाकर्णयन पश्यंश्च विविधानि आश्चर्यवस्तूनिसुवर्णमयं सुन्दरग्रामं प्राप। तत्र काञ्चनप्रभया जामातृसमागमकरणीयमङ्गलसंविधानेन निजभवनं प्रवेशितःदिव्यप्रभावेण च सम्पादितदिव्यभोगः परिजनैः सह स्वर्गसुखमनुभवन् तं दिवसमनैषीत्।

परेद्यवि प्रातः काञ्चनप्रभा जामातरम् अलङ्कारवत्या समेत तत्रत्यं भूतपति शम्भुमाराधयितुं पतिनिर्मित गङ्गासरोनामकतीर्थे मनोहरे उपवने विहारयितुमैच्छत्। कुमारश्च श्वश्रूसन्तोषाय सम्प्रोतः शम्भुमाराधयितुंप्रिययामन्त्रिम्भाञ्च सह तत्र गत्वा गङ्गासरसि तीर्थे कृतस्नानः उमापतिमर्चयामास। कृतार्चनविधिश्चतस्मिन् मनोज्ञे उद्याने विहरन् मरुभूतेः सकौतुकहासपरिहासात्मकविनोदेन प्रायशो मासमेकं स्वर्गसुखमन्वभवत्। अथ काञ्चनप्रभया नानाविधैर्दिव्यवसनाभरणादिभिः सत्कृतेषु सर्वेषु युवराजश्वश्र्वासज्जितं दिव्यं विमानमधिरुह्य सपत्नीपरिजनस्तया च काञ्चनप्रभया सह पुनः कौशाम्बीमेत्य पित्रोर्विरहपर्य्युत्सुकयोरानन्दमवर्द्धयत्।

एकदा काञ्चनप्रभा राजदम्पत्योः समक्षम् अलङ्कारवतीमुपादिशत्वत्से ! न खलु ईर्ष्याकलुषितया कोपपरीतया वा भर्तुर्वैमनस्यं त्वया करणीयम्। वैमनस्यं हि पत्युर्महदनिष्टंजनयति। पूर्वमीर्ष्यावशाहंपत्युस्तथा मनोः दुखमदांयथासौ तेनैव वैराग्येण कलुषितात्मा वनमुपायात्। अद्याप्यहं तेनानुतापेन दग्धहृदया दिवानिशमदह्मे।एवमुक्त्वातनयामाश्लिष्य रुदतीं स्वपुरं प्रातिष्ठत।

अथ परेऽहनि प्रातः कृतनित्यक्रिये युवराजे मन्त्रिभिः सह संलपति काचित् भयविह्वला महिला अलङ्कारवतींशरणमागता। अलङ्कारवती तामभयदानेन समाश्वास्यवृत्तान्तमपृच्छत्। साब्रवीत् देवि ! अहमत्र नगरे बलसेनाख्यक्षत्रियस्य तनया अशोकमाला नाम। मां तरुणीं वीक्ष्य मदीयेन रूपेण समाकृष्टचेताः कश्चित् हठशर्म्मा नाम समृद्धिशाली द्विजः पितरं मे प्रार्थयाञ्चक्रे। तदाकर्ण्यपिता मम अनिच्छन्तीमपि मां भयेन तस्मै दत्तवान्। स तु मां परिणीय वलात्स्वंभवनमनैषीत्, अहन्तु तत्सहवासं परिहर्त्तुकामा कमपि क्षत्रिययुवानमशिश्रयम्। तत्रापि तेन दुराचारेण पत्या उपद्रुता तं क्षत्रियकुमारं विहाय अपरमाश्रितवती। तत्रापि भर्त्राविरोधिता अन्यं शरणमगमम्। भर्त्तरि मम तमपि पीड़यितुमारब्धे अहं वीरशर्म्माख्यस्य कस्यचित् राजपुत्रस्य किङ्करी अभूवम्। तदवलोक्य पतिर्मे प्रतिकर्त्तुमशक्नुवन् सततोद्विग्नमना अस्थिचर्म्मावशेषोऽभवत्। बहोः कालादनन्तरम् अद्य पथि विनिर्गतां मां वीक्ष्यअसिहस्तः इत एव मां प्रति प्रधा-

वितः, तदहं प्राणभयात् पलायमाना प्रतीहारिणः कृपया भवतींशरणमागता, मन्ये स दुरात्माबहिर्द्वारभूतौइदानीमपि वर्त्तते।

एतदाकर्ण्य अलङ्कारवत्या सङ्केतितो युवराजस्तंहठशर्म्माणमाहूयसक्रोधं स्त्रीविनाशहेतुमप्राक्षीत्। सोऽवदत् युवराज ! इयं मम पत्नी, पत्त्या व्यभिचारं कः शक्नोति सोढुम् ? एतदाकर्ण्य अशोकमाला लोकपालान् सम्बोध्य निजचारित्रस्य याथार्थ्यंप्रकटयितुमनुरुरोध। अनुरुद्धवत्यामेव तस्यां सहसा आकाशात् भारती समुदचरत् शृणुत यूयम् इयमशोकमाला पूर्वस्मिन् जन्मनि अशोकवरस्य विद्याधरस्य कन्यासीत्। परिणयोचिते चास्या वयसि पित्रानीतेषु कतिपयेषु वरेषु एषा रूपमदेन मत्ता कमपि नागणितवती। ततश्चास्याःपिता कुपितः शापेनैनामयोजयत् दुर्वृत्ते ! त्वं मानवी भूत्वा कमपि दुर्जनं गमिष्यसि। ततश्च तं परित्यज्य बहुषु पुरुषेषु विचरिष्यसि, अनन्तरं यदा ते पतिः पथि त्वां दृष्ट्वा प्रहर्तुमुद्यमं करिष्यति, तदा त्वं राजभवनं गत्वा राजसकाशमुपस्थिता शापनिर्मुक्ता भविष्यसि। अथविद्याधरी भूत्वा विद्याधरलोकमागत्य अभिरुचेर्विद्याधरस्व सहधर्मिणी भविष्यसीति। एवमुक्त्वादेववचसि विरतेअशोकमाला सद्य एव परित्यक्तमर्त्यदेहा स्वं रूपमास्थाय विद्याधरलोकं गत्वा च अभीष्टं पतिं लेभे। एतदवलोक्य विस्मिते नरवाहनदत्ते सपत्नीके हठशर्म्माविगतक्रोधः. सहसा स्वां जातिं स्मरन् युवराजमब्रवीत् राजपुत्र ! स्मृतं

मया साम्प्रतं पूर्वमहं हिमालयान्तर्वर्तिनि मदनपुरेप्रलम्बभुजाख्यस्य विद्याधरस्य तनयः स्थूलभुजो नामाऽभवम्। अहञ्च पितुः शापात् मर्त्यभूमिं प्रपत्रोऽस्मि। श्रूयतां कुमारेण, एकदा समतीतशैशवं तारुण्ये वयसिवर्त्तमानं मां दृष्ट्वा सुरभिवत्सो नाम विद्याधरः स्वां कन्यां सुरभिदत्ताख्यां गृहीत्वा पितुर्मे सकाशमेत्य मह्यं कन्यादानाय प्रसङ्गमकरोत्। पिता मम करणीयसम्बन्धं विगणय्य मामाह्वयन् सुरभिदत्तामुद्वोढुमन्वमन्यत। अहन्तु तदा स्वेनैव रूपमदेनपितृवाक्यं तत् न गृहीतवान्। यदा च पिता भूयोभूयो निर्बन्धेनापि मम असम्मतिमज्ञासीत् तदा सञ्जातकोप एवं मामभिशशाप दुरात्मन्। यतस्त्वं रूपगर्वेण मत्तः इमां कन्यां मदनुरुद्दोऽपि न गृहीतवान् तस्मात् कुरूपो विकटाननश्चमर्त्यभूमौजनिष्यसे, शापभ्रष्टाञ्च अशोकमालां तदिच्छामन्तरेणापि परिणेष्यसि। ततश्चतां त्वां परित्यज्य पुनःपुनरन्यासक्तां वीक्ष्य त्वं तद्विरहेणजनितान्तर्दाहः बहून्क्लेशान् सहिष्यतेइति। अनन्तरं सुरभिदत्तया सातिशयमनुनीतः स कृपया मामवदत् वत्स स्थूलभुज। मम शापो नान्यथा भवितुमर्हति, परं तस्यामशोकमालायां शापनिर्मुक्तायां त्वमपि सञ्जातपूर्वजननस्मृतिःतत्क्षणं शापच्युतो निजं विद्याधरकलेवरं प्राप्य सुरभिदत्तामिमां परिणयन् सुखमवाप्ससीति।

एतदाकर्ण्यमा साध्वी सुरभिदत्ता धैर्य्यमवालम्बत। अहमहङ्कारदोषेण एतावन्तं कालम् ईदृशं दुःखमन्वभवम्।

नाहङ्कारात् परो रिपुरद्यमया विदितः। तदद्य मेशापः अस्तमुपगतः, तदिदानीं स्वां गतिं गच्छामीति अभिकायपश्यत्सु राजपुत्रादिषु विकृतं देहं त्यक्ता हठशर्म्माविद्याधरलोकं गत्वा सुरभिक्षांपरिणीय विविधानि सुखानि बुभुजे।

एतदवलोक्य सर्वेषु विस्मितेषु गोमुखः युवराजं सम्बोध्याब्रवीत् देव ! महावराहनाम्नः कस्यचित् नरपतेः परमरूपवती अनङ्गरतिर्नाम कन्यैकासीत्। सा परिणयोचितवस्त्रा पितरमब्रवीत् तात ! वीरं रूपवन्तं ज्ञानवन्तञ्चान्तरेणनान्यं पतिमहं न वरिष्यामीति। तदाकर्ण्य महावराहस्तमभिप्रायं कन्यकाया डिण्डिमेनाघोषयत्। श्रुत्वा तं वृत्तान्त बहवो महीपालास्तामर्थयितुं समागमन् परं सा तेषु न कमपि मनोनीतमकरोत्। कदाचित् दक्षिणापथादागताश्चत्वारो युवानः अनङ्गरतिं प्रार्थयितुं राजान्तिकमभिययुः। अथ राज्ञा तेषां परिचये जिज्ञासितं एकः प्रोवाच राजन्। अहं शूद्रजातिः पञ्चपट्टिको नाम, प्रत्यहमहं पञ्च पट्टयुगलानि बन्धुं शक्नोमि। द्वितीयः प्रावदत् अहं जात्या वैश्यः भाषाख्यो नाम, अहं मृगपक्षिणां भाषाः सम्यक् वेद्मि। तृतीयोऽभ्यधात् अहं क्षत्रियःखड्गधरोनाम, खड्गयुद्धे नास्ति मत्समस्त्रिलोक्याम्। चतुर्थोऽवदत् अहं ब्राह्मणःजीवदत्तो नाम, अहं गौर्य्याःप्रसादलब्धया विद्यया मृतं जीवयामि। एवं तेषु स्वंस्वंनाम जातिगुणानां परिचयं दत्तवत्सु राजा तान् प्रतीहरभवने वासार्थं समादिशत्। अथ अनङ्गरतिमाहूय

एतेषां परिचयं दत्तवति राजनि अनङ्गरतिस्तान् सर्वान् एव सुयोग्यानवधार्य्यबरत्वेन कामयाञ्चक्रे

परस्मिन्नहनि ते चत्वारो युवानःनगरदिदृक्षया वहिर्गत्य ददृशः पद्मकवलो नाम राजहस्ती भग्नालानःपथिधावन् इतस्ततो लोकान् विहस्तीकरोति। कोऽपि तत् प्रतिकर्त्तुं न शक्नोतीति। अथ ते उद्यतायुधास्तंहस्तिनं प्रति धावन्ति स्म। सोऽपि हस्तीतानापततः समीक्ष्यवेगेन तानेवाभिगच्छति स्म। तदवलोक्य खड्गधरः सर्वान् तान् स्त्रीन्बन्धून् निषिध्य स्वयमेव एकाकी हस्तिनं प्रति धावन् द्वाभ्यामेव खड्गप्रहाराभ्यां गजराजं विनाश्य अपातयत्।

तस्य तादृश पराक्रमं दृष्ट्वा नगरवासिनः सर्वे विस्मितास्तंप्रशशसुः। राजापि तां वार्त्तामुपलभ्य सविस्मयः तमभ्यनन्दत्। अनन्तरं परेऽहनि तैश्चतुर्भिरेव वीरेः सार्धंमृगयार्थं वनमगमत्। तत्र च ते राजसमक्षम् अवलीलयैवमहाबलान् भीषणान्सिंहव्याघ्रादीनपि बहून्जन्तून् विनाश्य अलौकिकं शौर्य्यमदर्शयन्। राजा तदवलोक्य साधु माध्विति प्रशस्य तेषु श्रेष्ठं वीरं खड्गधरमेव निश्चत्यतस्मै कन्यां दातुं कृतसङ्कल्पःस्वां राजधानीं प्रतीयाय।

अथ अन्तःपुर प्रविश्य अनङ्गरतिमाहूयखड्गधराय वरत्वेनानुमन्तुं निर्बन्धमकरोत्। सा च पितुराज्ञया तथेति सममंस्त। अथ राजा महावराहः सुविज्ञंगणकमाहूयकन्यायाः शुभलग्नंनिरूपयितुमादिदेश। गणकः कियन्तंकालं गयित्वा अब्रवीत् राजन् ! गणनया दृश्यते, कन्याया अस्याः परिणयो भूलोके नैव भवेत्, कन्या चेयं शापभ्रष्टा

मर्त्यलोकमागता, मासत्रयाच्च परमनया शापनिर्मुक्तयाभवितव्यमिति। तदहं विवेचयामि,मासत्रयात् परमस्या विवाहविधिरायोजनीय इति। एतदालोक्य युवानश्चत्वारस्तदेवाभ्यमन्यन्त। विश्वस्तगणकवचसा च मासत्रयंविश्वस्तगणकवचसा तस्मिन्नेव राजनिर्दिष्टेभवने अवतस्थिरे।

क्रमेण चातीतेषु त्रिषु मासेषु राजा सर्वसमक्षं दैवज्ञानाहूय पुनः कर्त्तव्यमपृच्छत्। एतस्मिन्नेवावसरे अनङ्गरतिर्वस्त्राञ्चलेन मुखमाच्छाद्य स्वांजातिं स्मरन्ती मानुषीं तनुमत्यजत्। समनन्तरञ्च यावत् कन्याया मुखावरणमुद्घाटितं तावत् कन्यां त्वक्तजीवितां विलोक्य राजा राज्ञीच भृशं शोकार्त्तौभूतले मूर्च्छितावपतताम्। ततश्च क्षणेनलब्धचेतनो राजा अनङ्गरति जीवयितुमनुरुध्य जीवनदायिने एव जीवदत्ताय कन्यां दातुं प्रत्यशृणोत्।

जीवदन्तस्तु अनङ्गरतिजीवयितुं विन्ध्यवासिनीदत्तं मर्वंप्रकरणं प्रायुङ्क्त, परं केनापि प्रकारेण कन्या न जीविता। तदवलोक्य विषादेन विद्यया जीवनस्य च वैफल्यं निश्चित्य स्वंशिरः छेत्तुमुपक्रान्ते सहसा आकाशसरस्वती प्रादुरासीत् वत्स जीवदत्त ! अनङ्गरतिः स्वर्गं गता, त्वमिदानीं साहसात् निवृत्य पुनर्विन्ध्यवासिनीमाराधय, तस्यां प्रसन्नायाम् अवश्यमेव तां प्राप्स्यसीति। एवमुक्त्वा आकाशसरस्वत्यां विरतायां राजा शोकं परित्यज्यकन्यायाः संस्कारादिकमकरोत्। अपरे त्रयो वीराः स्वं स्वं स्थानं गताः। जीवदत्त एव विन्ध्याचलं गत्वा तामाराधयामास।

अथ मते कियति काले विन्ध्यवासिनी देवी प्रसन्नातमवादीत् वत्म ! हिमालयान्तर्वर्त्तिनि वीरपुराख्येनगरे समरो नाम विद्याधरः प्रतिवसति। तस्य अनङ्गरतिनाम्न्यांभार्य्यायाम् अनङ्गप्रभा नाम कापि कन्यका समजनि। ताञ्च कन्यां रूपयौवनमदात् कमपि वरत्वेन अगण्यन्तीमालोक्य तस्याः पितरौ तामभिशापेन अयोजयतां यथा त्वं मानुष्यकं लब्ध्वापि पतिसुखेन वञ्चिता भविष्यसि, वर्षे च षोड़शे प्राप्तेतत् मनुष्यकलेवरं विहाय पुनःस्वर्गमाप्स्यसि च। एकदा खड्गसिद्धः कश्चित् वीरः कस्यापि सुनेस्तनयामभिलषन् तदपराधात् मुनिना तेनाभिशप्तः मनुष्य एव तव पतिर्भूत्वा अनिच्छन्तीमपि त्वां मर्त्यलोकं नेष्यति, तव विरहेण च अस्यर्थं दुःखं लप्स्यते। स तव पतिःपूर्वस्मिन् जन्मनि अष्टौ महिला हृतवान् तेनेव पापेन अस्मिन्नेव जनने अष्टजन्मभोग्यं दुःखं समवाप्स्यति। मदनप्रभोनाम यः खेचरस्त्वां चकमे स एव मनुष्यो भूत्वा तव पतिर्भविष्यति। अनन्तरं त्वं शापनिर्मुक्ता स्वर्गमाप्सासि, तव पतिश्च पुनः खेचरत्वमवाप्य त्वामेव लप्स्यते। इत्थम् अनङ्गरतिः पित्राभिशप्ता भूतलमवतीर्णा साम्प्रतं त्यक्तमनुष्यदेहा पितृसमीपमेव गता अनङ्गप्रभाख्याभवत्। तत् त्वम् इदानीं वीरपुरं गत्वा तदीयं पितरं संग्रामेण निर्जित्य तां परिणय।असिरयं मया दीयते गृहाण, एमत्प्रभावेण खेचरोऽजेयश्चभवितासि। इत्युक्त्वाखड्गंप्रदाय देवी सद्य एवान्तर्दधे।

अथ जीवदत्तः समुत्थाय देव्याः प्रसादेन विगततपः-

केशः तं देवीदत्तम् असिं करे गृहीत्वा आकाशमुत्पपात, गत्वा च हिमालयान्तवर्त्ति वीरपुरं तत्र श्वशुरंनिर्जित्य प्रियामनङ्गप्रभां लेभे। अथ श्वशुरेणानुमतः अनङ्गप्रभां भूतलमानेतुं यत्नमकरोत्। अनङ्गप्रभाम् अनिच्छन्तीमपि अगत्या सम्मतामङ्के धृत्वा असौ वीरःनभोमार्गमुदगमत्। पथि अनङ्गप्रभानुरोधात् पर्वतमेकमासाद्य श्रमविनोदनाय तत्रकृतपानभोजनादिव्यापारौ सुखेन कञ्चित् कालमवतस्थाते। तत्रासौजीवदत्तः अनङ्गप्रभां किञ्चित् सङ्गीतंकर्तुमनुरुरोध। तस्याञ्च पत्युर्निर्बन्धन मधुरस्वरं शिवस्तोत्रसङ्गीतं कुर्वत्यां जीवदत्तः सुखेन निद्रामवाप।

अत्रान्तरे राजा हरिवरो मृगमनुसरन् पिपासया जलाहरणार्थी सहसा तं गीतध्वनिमाकर्ण्य मृग इव मुग्धः समाकृष्टश्चएकाकी एव तत्र समाययौ, मुमोह च तस्या रूपेणगीतेन चानङ्गशरनिकरवशतामापन्नः। सा चानङ्गप्रभा राजानम् अतिरूपवन्तं दृष्ट्वा समां दशामापन्नातं मनसि बहुशः प्रशस्य परिचयमपृच्छत्। राजा च सर्वं स्ववृत्तान्तमाख्याय तां परिचयमप्राक्षीत्।

अनङ्गप्रभामितया वाचाब्रवीत् अहं विद्याधरी, अयंमम पतिः खड्गसिद्धः। अहं भवन्तं दृष्ट्वैव भवदनुरागिणी संवृत्तास्मि इति समाख्याय निद्रितं पतिं विहाय सर्वंवृत्तान्तं तव भवन एव गत्वा वक्ष्यामीति ब्रुवाणा राजानं हरिवरमुपागमत्।

हरिवरस्तु तां प्राप्य कृतार्थम्मन्यः त्रिभुवनराज्यमपि चागणयत्। अनङ्गप्रभासत्वरं राजानमङ्केकृत्वा आकाश-

मुत्पपात, परं भर्तृद्रोहेणतेन विद्याभ्रष्टा सद्य एवपितृशापस्मरणात् विषसाद च। तदालोक्यराजाब्रवीत् प्रिये ! नायं विषादसमराइत्युक्त्वातां स्वंरथं नीत्वा, स्वंनगरमगमत् सुखमवसच्चतया दिव्ययोषिता, सह क्रीडन्। अनङ्गप्रभा च शापप्रभावात् विस्मृतपतिका हरिवरेणैव सह कालमनयत्।

अत्रान्तरे जीवदन्तः प्रबुद्धः अनङ्गप्रभां खड्गञ्च अदृष्ट्वासहसा, समुद्भ्रान्तचित्त एवाभवत्, अनुसमधत्त च तस्मिन् पर्वते, नानातर्कानुद्भावयन्। अनन्तरं पर्वतादवतीर्य्यवनेवने भ्रमन् क्वचिदपि अन्विष्य अन्विष्य तां न प्राप। अथ हा दुरात्मन् ! दुर्दैव हतक ! प्रियतमां मह्यं दत्त्वा कथं पुनरहरः? इत्येवं विलपन् अनशन एव भ्रमंश्च कञ्चित्ग्रामं विवेश, प्राय च कस्यचित् समृद्धस्य द्विजस्य भवनम्। सुभगा प्रिवदन्तानाम्नी गृहस्वामिनी जीवदत्तमासने उपवेश्य त्रयोदश दिनानि अभुक्तमिति सन्नातकृपा पादप्रक्षालनाय सखीमादिशत्। तदाकर्ण्य जीवदत्तः सविस्मयश्चिन्तयामास अत्र किमनङ्गप्रभा में विद्यते ? अथवा इयमन्तर्यामिनी कापि योगिनी ? नो चेत् ईदृशसमये कथं मामनुकम्पते इति। एवं विचिन्त्य प्रक्षालितकरचरणः तया दत्तं भोज्यवस्तु किञ्चिद् भुक्त्वासप्रणाममपृच्छत् सुभगे ! मन्ये भवती मद्वृत्तान्तं सम्यक् अवगच्छति, तदनुकम्पया मम पियतमा प्राणाधिकः खड्गश्चक वर्त्तते ? वतुमर्हवीति।

एवमभिहिता पतिव्रता, ब्राह्मणी प्रत्यब्रवीत् अहं पत्यु-

रम्यं पुरुषं न कदापि मनसि स्थापयामि, सर्वांश्चअन्यान् पुरुषान् भ्रातॄन् मन्ये। अन्यच्चमद्गृहात् कदापि अतिथिः पराङ्मुखतां नाप्नोति। एतस्मादहं भूतं भवत् भविष्यञ्च ज्ञातुं शक्नोमि, यदा त्वं निद्रित आसीः, तदा हरिवरो नाम राजा तवप्रियतमां हृत्वास्वंनगरमगात्। राजा चासौअतीव दुर्धर्षं, तस्मादनङ्गप्रभा ते प्रिया अनितुमशक्या, कथञ्चिदानीतापि सा कुलटा त्वां पुनः परित्यज्य अन्यत्र गमिष्यति, यदा च सा क्रियते स्म तदैव स खड्गोदेव्याः सकाशं गतः, एतच्च सर्वं देव्या तव पूर्वमादिष्टम् अपि विस्मृतं त्वया ? तदलम् अवश्यभाविनि वृथानुतापेन त्वं तस्याः पापीयस्याः समासक्तिं मुञ्च, तवोपरि द्रोहेण च तस्या विद्या विफलीभूता।

एवमावेदितस्तया गृहस्वामिन्या जीवदत्तः विगतसन्तापः तस्यां निराशश्च तामब्रवीत् पतिव्रते ! प्राक्तनपापवशादेव ईदृशंदुःखदुर्दिनं घटते, तद् यथा पुनःपापपङ्के नपतेयं तथा यतिष्ये इत्यभिधाय निर्म्मत्सरस्तीर्थयात्रायां छतसङ्कल्पः समभवत्।

अत्रान्तरे गृहस्वामी गृहमागत्य गृहिण्या कृतातिथ्यमतिथिं बहु प्रबोध्य पुनरपि तं सान्त्वयामास। स च तेन सम्यक् सान्त्वितः तीर्थेषु क्रमशः पर्य्यटन् पुनर्विन्ध्यवासिनीदर्शनार्थं विन्ध्याचलमुपागमत्, चकार च दुश्चरंतपः देवीमन्त्रं जपन्। ततश्च देवी पुनः परितुष्टा अवादीत् वत्स ! उत्तिष्ठ पूर्वं पञ्चचूड़ः चतुर्वक्तःमहोदरः विकताननश्च एते चत्वारो हरानुचराः कदाचित् गङ्गाम्भसि विहरन्तः

कपिलजटस्य मुनेस्तनयां शायलेखां नाम गङ्गायां स्नान्तींचकमिरे। कन्यया निवारितास्तेषां त्रयः मुनेर्भयात्न्यवर्त्तन्त, एकस्तु बलात् तस्याः करं जग्राह। तस्यान्तु ऋषिकन्यायां हा तात ! परित्राहीति आरटन्त्यां मुनिरसौ सहसा समीपमागत्य तां तथा व्याकुलितां दृष्ट्वाक्रोधेन सर्वानेव शशाप पापात्मानः ! सद्य एव अधोगामिनो भवत इति। ततश्च तैः त्रिभिः प्रणतैरनुनीतः इत्थं शापान्तमकरोत् यदा यूयं राजकन्यामनङ्गरतिं कामयिष्यध्वे, तदा यूयं शापनिर्मुक्ताः पुनः स्वं पदं प्राप्स्यथ, अयन्तु दुरात्मा तामनङ्गरतिम् अनङ्गप्रभानामान्तरितां पुनः प्राप्यापि हारयिष्यति। अस्याश्च शापलेखायाःकरस्पर्शेन परदारहरणजनितां घोरां मनः पीड़ामाप्स्यतिचेति। अनन्तरं यूयंदक्षिणापथे सम्भूताः पञ्चकुटिकभाषाङ्गखड्गधरजीवदत्ताख्यया प्रसिद्धिमगमत। प्रथमे त्रयः अनङ्गवत्यां मृतायां मत्प्रसादात् स्वंस्वं पदमधिरूढाः, केवलं तेषामवरस्त्वंजीवदत्तः बहून् क्लेशाननुभूय साम्प्रतं मत्सेवया निष्पापःसंहत्तोऽसि, अधुना अग्निदेवतां धारणां मत्सकाशात् गृहीत्वा तनुं त्यज। एवमुक्त्वाधारणां प्रदाय देव्यामन्तर्हितायां जीवदत्तस्तया धारणयाकलेवरं त्यक्त्वास्वं पदमधिरुरोह।

परदारस्पर्शे देवानामपि एषा दुर्गतिः, का कथा मानवानाम् ? अनन्तरं राजाहरिवरः मन्त्रिणि सुमन्त्रे राज्यभारं निधाय दिवानिशम् अनङ्गप्रभासम्भोगेनैवव्यनैषीत्। एकदामध्यदेशात् लब्धवरो नाम कश्चित्

नवीनो नाप्याचार्य्याःहरिवरं राजानमुपागमत्। राजाःतस्य नाट्यनैपुण्यदर्शनेन सम्प्रीतः तमन्तःपुरनाट्याचार्य्यकर्म्मणिन्ययोजयत्। सर्वासु शिष्यासुअनङ्गप्रभा एवनर्त्तनशिक्षायां समधिकं नैपुण्यमलभत। अपरा अपि तामनुकर्तुं अयतन्त, परं न कापि शशाक। अथ नाट्याचार्य्यःसततमेकत्रावस्थानभोजनपानादिसाहचर्य्यात् अनङ्गप्रभां प्रति समनुरक्तः तां हृत्वा पलायमानः वियोगपुरं नाम नगरमियाय। तत्र च तावुभौ सुखेन विहरन्तौकालमनयताम्।

अथ राजा हरिवरःअनङ्गप्रभाविरहेण नितरां व्याकुलः प्राणानपि परित्यक्तुमैहिष्ट, परं मन्त्रिणा सुमन्त्रेण प्रबोध्य मरणव्यवसायात् निवर्त्तितःशोकं परिहृत्य राजमहिष्या एव सह पूर्ववत् सुखमनुभवन् कथञ्चित् न्यवसत्। अथ गच्छता कालेन वियोगपुरे नगरे लब्धयरस्य केनचित् सुदर्शनाख्येन द्यूतकरेण सम्प्रीतिरभवत्। क्रमेण लब्धवरः सुदर्शनेन सह दीव्यन् सर्वस्वमहारयत्। अनङ्गप्रभा लब्धवरं निःस्वंदृष्ट्वा सुदर्शनं पतिमकरोत्। लब्धवरस्तु प्रियया धनैश्च वञ्चितः सज्जातविरागः जटावल्कलधारी तपस्वी सन् गङ्गातटे वासमरोचत।

अथ कदाचित् चौरैर्हृतसर्वस्वः सुदर्शनः नितरां दारिद्र्यमवाप। अनङ्गप्रभां पत्युस्तादृशीं दुर्गतिं दृष्ट्वा अनुतापिनीमाश्वास्य सुदर्शनस्तयैव सार्द्धंहिरण्यगुप्तसकाशं गत्वा किञ्चित् ऋणमयाचत। स तु हिरण्यगुप्तः अनङ्गप्रभाया रूपेण विमुग्धः तां प्रति साभिलाषदृष्टिंन्यक्षि-

पत्, अन्वरुणच्चभोजनाय सुदर्शनं परेद्यवि अर्थं दास्यामि, अद्य तिष्ठ मद्गृहे इति वदन्। सुदर्शने भोजनार्थं स्थातुमसम्मतेऽपि तदीयां पत्नीमनङ्गप्रभां न्यमन्त्रयच्च। सा तु अनङ्गप्रभा दृष्ट्वैव तदासक्ता तथेति प्रतिश्रुत्य तत्रैव हिरण्यगुप्तसदने प्रतिष्ठत्, व्यहरच्च तदन्तःपुरं गता तेन नवीनेनपुरुषेण यथाकामम्। सुदर्शनस्तु अर्थप्राप्तिलालसया अनङ्गप्रभागमनप्रत्याशया च वहिरेव निस्तब्धोव्यवस्थित। अथ चिरेणापि कामपि वार्त्तामप्राप्य सुदर्शनेन कस्मिंश्चित् अन्तःपुरं प्रेषिते हिरण्यगुप्तस्तमित्थमुक्त्वाव्यसर्जयत् त्वं गत्वा सुदर्शनं ब्रूहि यथा अनङ्गप्रभा कृताहारा क्वापि गतेति। अथ सुदर्शनं मृषा तदिति पुनः पुनः कृतनिर्बन्धं निशम्य असौ हिरण्यगुप्तो बणिक् तं प्रहृत्य वहिरकरोत्,

अथ सुदर्शनःसविषादं गृहं गत्वा पापस्य फलं मयोपलब्धमिति निश्चित्य क्रोधविरहितः वदरिकाश्रममगमत्। अचरच्च संसारच्छेदाय दुश्चरं तपः। अनङ्गप्रभा तु पुष्पान्तरगता भृङ्गीव तेन नवेन पत्या सह सुखमभुनक्।

कदाचित् हिरण्यगुप्तः बहूनि धनानि संगृह्यअनङ्गप्रभया सह सुवर्णभूमिनाम्नि द्वीपे बाणिज्यकरणाय सागरतटमियाय। तत्र तस्य सागरवीराख्येन धीवरराजेन सह सख्यमभूत्। ततश्च उभौ एकम् अर्णवपोतमारुह्य यात्रामकार्ष्टम्। पथि सहसा प्रबलात् मेघमण्डलादुदित्मात् महावात्यया सह मुषलधारया वृष्टिराविरासीत्। अर्णवपोते चास्मिन् उद्दामसागरतरङ्गसञ्चयैर्दोलायते क्रमेण जलेषु निमग्ने हिरण्यगुप्तः कटिबद्वोत्तरीयः अनङ्गः

प्रभाया मुखकमलं निरीक्ष्यहा प्रिये ! इत्युच्चैरारटन् समुद्राम्भसिनिममज्ज। ततश्च सन्तरन् दैवात् प्रवहणीमाश्रित्य पञ्चभिर्दिवसैः तीरमुत्तीर्णः प्रियाविरहकातरः दुःखेन स्वं गृहं प्रत्यगात्। सागरवीरस्तु अनङ्गप्रभया सह एकं फलकमवलम्ब्यप्राणान् पर्य्यरक्षत्। क्रमेणनभोमण्डले मेघावरणशून्ये शान्ते च सागरे बाहुबलेन क्षेपणीं वाहयन् एकेनैवाह्नासमुद्रतीरमापन्नः अनङ्गप्रभया सह स्वंगृहमयासीत्। सा च तंदासपतिमतुलैश्वर्य्यशालिनं दृष्ट्वापतित्वेनाश्रित्य सुखेन तद्गृह एव न्यवसत्।

अथैकदा अनङ्गप्रभा हर्म्याग्रेविचरन्ती पथि गच्छन्तं विजयवर्म्मनामक कमपि सुरूपं क्षत्रिययुवानं दृष्ट्वा हर्म्याग्रादवरुह्य तत्समीपमागता तमुपयाचितवती। स तु आकाशचन्द्रमिव तां हस्ते प्राप्य परमहर्षितः स्वंगृहमनैषीत्। सागरवीरस्तु तादृश्याः प्रियतमाया विरहात् ससारमसारं मन्यमानः तपसा देहविसर्ज्जनकामः जाह्नवीतटमगात्। कदाचित् तत्रत्यो राजा सागरदत्ता नाम करेणुकामारुह्य नगरीं परिभ्रमन् अनङ्गप्रभां नूतनपतिगृहगवाक्षवर्त्तिनीं दृष्टा मुमोद्ध। अनङ्गप्रभा च राजानं तदवस्थं दृष्ट्वा सर्वजनसमक्षमाहूयतेन सह तां करेणुकामारुह्य तदङ्कवर्त्तिनो तं कृतार्थमकरोत्। राजापि तां निधिमेवासाद्य नितरां हर्षितः स्वं भवनं प्रत्यगात्। विजयवर्म्मातु संवादमिममाकर्ण्यैवक्रोधपरीतः राजद्वारि समुपस्थाय विवदमानः राजभटैः युध्यमानः प्राणान् विजहौ। वीराः भार्य्याया व्यभिचारदर्शिनः प्राणान्

तृणमिव गणयित्वा परित्यजन्ति हि। ततश्चानङ्गप्रभा सागरदत्तेनितान्तमनुरक्तान्यवसत्। गच्छता कालेन अनङ्गप्रभा गर्भवती यथासमये पुत्रमेकमसूत।सागरदत्तः पुत्रंसागरवर्म्माणं नाम्ना कृत्वा महोत्साहेन महासमृद्ध्याच महोत्सवमकार्षीत्। अथ सागरदत्तः क्रमेण परिवर्द्धमानमतिक्रान्तशैशवं पुत्रंसागरवर्म्माणं यौवराज्ये अभिषिच्य कमलवतीसमाख्यया कयाचित् कन्यया परिणाय्य पुत्रगुणेन परां प्रीतमुद्वहन् कालमत्यवाहयत्। ततश्च विदित्वा पुत्रंराज्यभारवहनक्षमं तस्मै राज्यं सर्वं प्रादात्।

सागरवर्म्माप्राप्तराज्यःपितरं प्रणम्य दिग्विजयार्थमनुज्ञां प्रार्थयाञ्चक्रे। पितरि तद्विरहसहनाक्षमतया असम्मतेऽपि निर्बन्धातिशयेन कथमपि पित्रा दत्ताभ्यनुज्ञः दिग्विजयाय प्रतस्थे। अथ क्रमेण सर्वां पृथिवीं निर्जित्य हस्त्यश्वरत्नसञ्चयपरिपूरितः स्वंनगरं प्रतिनिववृते। सागरदत्तस्तथा प्रत्यागत पुत्रं राज्ये प्रतिष्ठितं दृष्ट्वाप्रियया अनङ्गप्रभया सह प्रयागमगात्। सागरवर्म्मा च पितरं तथा परित्यक्तराज्यमनुशोचन् मन्त्रिभिः प्रबोधितः स्वं राज्यं यथाशास्त्रमन्वशात्।

कदाचित् भगवान् शम्भुःनिशावसानसमये स्वप्ने सागरदत्तमादिशत् वत्स ! अहं त्वां प्रति परितुष्टोऽस्मि, पूर्वस्मिन् जन्मनि अनङ्गप्रभा त्वञ्चविद्याधरौआस्तं, शापच्युतौमर्त्यलोकमागतौ, अद्य युवयोः शापक्षयोऽभूत्, प्रभाते युवाभ्यां स्वंपदं गन्तव्यमिति। प्रातश्चोत्थाय राजा अनङ्गप्रभान्तिकं स्ववृत्तान्तमवर्णयत्। अनङ्गप्रभा सहर्ष-

मवादीत् नाथ। अहंविद्याधरराजस्य समरस्य तनया, पितृशापात् भ्रष्टा विद्याहीना च मनुष्यलोके स्थिता, विद्याधरीत्वञ्च मया विस्मृतम् अद्य तु सर्वमेव स्मृतावाविर्भूतम्इति वदन्त्यामेव तस्याम् आकाशात् तत्पिता समरःभूतलमवतीर्य्यसागरदत्तेन कृतप्रणामोऽनङ्गप्रभामब्रवीत् वत्से ! शापस्ते गतः, तदागच्छ, विद्यां गृहाण, हा। त्वमेकस्मिन्। जन्मनि अष्टजन्मक्लेशमन्वभवः। एवमुक्त्वाकन्यां क्रोड़े कृत्वा विद्यां दत्त्वा च सागरदत्तमवादीत् भवान् मदनप्रभो नाम विद्याधरराजः, अहं समरः, कन्या चेयमनङ्गप्रभा, पूर्वमियं रूपगर्विता बहून् वरान् मयानीतानपि नागणयत्। त्वमस्याः सदृशोऽपि दुर्बुद्धिहतयानया अवधीरितः, तस्मादहं क्रोधादिमामशपम्। तेनैवेयं भूतलमवतीर्ण। त्वञ्च गौरीपतिं मनसा ध्यायन् मर्त्यलोकेपिइयं मे भार्य्या भवतु इति कामनया योगमार्गेण विद्याधरतनुं त्यक्त्वामर्त्यदेहंपरिगृहीतवानसि, ततश्चइयं भूतले तव भार्य्या भूता, इदानीं युवां स्वं धाम प्रतिपद्येथाम्।

सागरदत्तः समरमुखादेतदाकर्ण्य गङ्गायमुनासङ्गमपवित्रे प्रयामे देहं त्यक्त्वासद्यः स्वं मदनप्रभदेहं परिजग्राह। अनङ्गप्रभा च विद्याधरपरिग्रहेण दीप्तिमतीसमुज्ज्वलाभं स्वं रूपं प्रत्यपद्यत। ततः सर्वे सम्प्रीता विद्याधरनगरे वीरपुरे प्रतस्थिरे। ततः समरःयथाशास्त्रं मदनप्रभमभ्यर्च्य तस्मै अनङ्गप्रभां प्रादात्। मदनप्रभोऽपि प्रियतमया सह स्वं गृहमेत्य सुखेन न्यवसत्।

युवराज ! देवा अपि इत्थंशापभ्रष्टा नरलोकेषु जायन्ते, शापमुक्ताश्च पूर्वसुकृतबलेन पुनः स्वं स्वं पदं प्राप्नवन्ति च। नरवाहनदत्तः प्रेयस्या सह गोमुखात् इमामद्भुतांकथामाकर्ण्य परां प्रीतिमवाप।

–––––––––

त्रिपञ्चाशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722709769EBS.png"/>

अथापरेद्युः मरुभूतिरलङ्कारवत्या समासीनं युवराजमत्रवीत् देव ! अयं जटिलःसन्न्यासी चर्म्मवासास्तव द्वारि दिवारात्रं शीतातपवर्षमपि अगणयन् निश्चलः समासीनस्तिष्ठति, एनं प्रति भवतो दया समुचिता। समये अल्पदानमपि वरं न तु असमये प्रचुरमपि, तदेष यावत् जीवति, तावदस्मै किञ्चित् अनुकम्पया दीयतामिति। गोमुखोऽपि मरुभूतेर्वचस्तथेति अभिनन्द्याब्रवीत् सत्यं परं यावत् मानवो न निष्पापो भवेत्, तावदनुरुद्धोऽपि तस्मै दातुं कश्चित् नाभिलषति। क्षीणपापाय तु निवारितोऽपि प्रभुरर्थिने स्वयं दातुमिच्छति। सर्वमेव मनुष्यस्य कर्मायत्तम्, अत्रैतांकथां कथयामि श्रूयताम्।

अस्ति लक्षपुरं नाम नगरम्। तत्रासीत् लक्षदत्तो नाम नृपतिः। स खलु कदाचिदपि लक्षमुद्रान्यून कस्मैचिदपि न दत्तवान्। तेनैव च लक्षदत्त इति तस्य प्रसिद्धिः। तस्य सिंहहारि लब्धदत्तो नाम कश्चित् दरिद्रः भिक्षुः

सुचिरं कालं दिवारात्रंन्यवसत्। राजा कदापि दयया तस्मैकिमपि न ददौ।

कदाचिदसौ नरपतिःसशस्त्रःमृगयायामगमत्। द्वारस्थः सन्न्यासी च लगुड़पाणिस्तमनुसरन् कामनं प्रविश्य तेनैवलगुड़ेन अग्रत एव बहून् पशून् व्यनाशयत्। तदा राजा तस्य पौरुषदर्शनेन तं महावीरं जानन्नपि तस्मै किमपि नादात्। समाप्ते च मृगयाव्यापारे राजा गृहमागमत्। सोऽपि भिक्षुस्तथेव तमनुगच्छन् राजद्वारिपूर्ववत् आगत्य तस्थौ।

एकदा दायादैर्विरोधितो नृपः ससैन्यस्तान् अभिजगाम। स च सन्न्यासी राजसमक्षमेव एकाकीतेषां विरोधिनां दायादानां बहूनि सैन्यानि तेनैव लगुड़ेन संजहार। राजा जयलाभेन सम्प्रीतः स्वं गृहं प्रत्याजगाम। तथापि तस्मै भिक्षवे किमपि न प्रददौ। इत्थं पञ्च वत्सरान् अतिकृच्छ्रेण अतिवाहयते तस्मैएकदा राजा परितुष्टः किञ्चित् दित्सुरपि कमला तं प्रति सदया न वेति कौशलेन परीक्षितुमभिललाष। ततश्च एकस्मिन् निम्बौ बहूनि रत्नानि पूरयित्वा सर्वसमक्षं लब्धदत्तमाजुहाव। सोऽपि राजाज्ञया सद्य एव समीपमाजगाम। अथ राज्ञा किमपि आवर्त्तयितुमादिष्टोऽसौ इमामार्य्यां पपाठ।

“पूरयति पूर्णमेषा तरङ्गिणीसंहतिः समुद्रमिव।
लक्ष्मीरधनस्य पुनर्लोचनमार्गेऽपि न संयाति॥”

राजा आर्य्यां श्रुत्वासन्तुष्टोऽपि पुनः पाठयित्वा तस्मै तत् रत्नपूर्णं निम्बु प्रददौ। सन्न्यासी तादृशंपुरस्कारं लब्ध्वा

दुःखितोऽपि तदादायैव प्रतस्थे। सभ्याश्च सर्वे अस्य याथातथ्यमविदित्वा परस्परं सुदुःखिताः अब्रुवन् राजायं यं प्रति सन्तुष्येत् तस्य दारिद्र्यंनश्यति, परमस्य भिक्षोर्हतभाग्यतां पश्यत, हतभाग्यानां कल्पतरवोऽपि पलाशविटपिन इति।

अथासौ भिक्षुः राजदर्शनार्थमागताय राजवन्दिनाम्ने भिक्षुकाय वसनविनिमयेन तत् रत्नपूर्णं मातुलुङ्गं प्रादात्। सोऽपि राजान्तिकमुपगम्य तस्मै तत् उपायनं प्रददौ। राज्ञाविदितमपि तदागमहेतुं परिपृष्टोऽसौ तस्यैव सन्न्यासिनो नामाकरोत्। तदाकर्ण्य राजा विस्मितः नाद्यापि अस्य पापक्षयो जात इति निश्चित्य तत् निम्बु गृहीत्वा स्नानादिव्यापारसमाधानाय आस्थानमण्डपात् समुत्तस्थौ।

अथापरेद्युः पुनरपि राजा तं सन्न्यासिनमाहूयपार्श्वे समुपवेश्य तथैव तामार्य्यां पाठयित्वा पूर्ववत् तदेव निम्बु तस्मै पुरश्चकार। ततश्च सन्यासिनि तथैव तदादाय निर्गते सर्वे पारिषदाः राज्ञःवृथा पुरस्कार इति मन्यमानाविषेदुः। अथासौ भिक्षुः राजदर्शनार्थमागताय कस्मैचित् विषयिणे वस्त्रयुगलविनिमयेन तत् निम्बु पुनः प्रददौ। सोऽपि अन्यैर्नानाविधैः द्रव्यैः तदपि राज्ञे उपायनीचकार। राजा तमपि पूर्ववत् निम्बुप्राप्तिकारणमपृच्छत्। सोऽपि तमेव सन्न्यासिनमदर्शयत्।

राजा तदाकर्ण्य अद्यापि लक्ष्मीस्तं नानुकम्पते इति दुःखितः सभामण्डपात् समुत्थाय अन्तःपुरमविशत्। सन्यासी तयोरेकं वस्त्रखण्डं विक्रीय आहारादिकं संजग्राह चकार

च द्वितीयं छत्वा परिधेयवसनम्। अथ तृतीयेऽह्नि राजा तथैव भिक्षुमाहूय तामार्य्यांपाठयन् तदेव मातुलुङ्गं पुरश्चकार। तदवलोक्य पारिषदाः सर्वे नितरां विस्मिताः समभूवन्। सन्न्यासी राजसकाशात् निर्गत्य तत् मातुलुङ्गं राजवारविलासिन्यै समर्पयत्। वाराङ्गना परितुष्टा तन्त्रेकिञ्चित् स्वर्णं दत्त्वा व्यसर्जयत्। सन्न्यासी तदवाप्त्वासन्तुष्टः सुखी चाभवत्।

अथ सा वारयोषित् राचान्तिकमुपगस्य तत् रमणीयं फलं राजे उपाहरत्। राजा तदादाय तदागमकारणं विदित्वापि तामपृच्छत् कुतस्त्वयेदमासादितमिति। गणिकावदत् सन्न्यासिनः सकाशादधिगतमिति। राजा सन्न्यासिनं प्रति कमलाया नितान्तवैमुख्यं विचिन्तयन् समुत्थाय स्नानभोजनाद्यर्थम् अन्तःपुरमगात्।

अथ चतुर्थेऽहनि राजा यावत् तस्मैसन्न्यासिने तत् फलं पुरस्करोति तावत् तत् तस्य सन्न्यासिनो हस्तात् सहसा भूमौ पतदभज्यत। भग्नमात्राच्च तस्मात् राजरक्षितानि तानि निरगच्छन्। तदालोक्य सर्वे सभासदः सविस्मयमवदन्देव। वयमस्य तत्त्वमजानन्तः एतावन्तं कालं देवस्य वृथानुग्रह इति मन्यमानाः भ्रान्ताःसमभूम। तद् यावत् देवस्य अनुग्रहप्रकार एवविध एव।

अथ राजाब्रवीत् लक्ष्योःकियति काले एनं पापिष्ठम्अनुग्रहीष्यतीति जिज्ञासुरहं कौशलमिदमुद्भावयम्। दृष्टमद्य एनंप्रति सदया, तन्मन्ये अस्य पापक्षयोजात इति कथयित्वा तस्मैअन्यदपि प्रचुरमैश्वर्य्यंप्रादात्।

एतदाकर्ण्य सर्वे राजानं साधु साधु इति प्राशंसन्। ततश्च राजनि सभागृहादुच्चलिते भिक्षुरसौ सिद्धकामः स्वं स्थानं प्रतिपेदे।

युवराज।अक्षीणे पापे प्रभवोऽपि भृत्यान् प्रति न प्रसीदन्ति, सति दुरदृष्टे बहुषु क्लेशेषु पतितमपि जनं न कोऽपि अनुकम्पते। तन्मन्ये अद्यापि अस्य सन्न्यासिनः पापक्षयो न जातः, नो चेत् प्रभुरवश्यमेव एनं प्रति सदयो भवेत्।

युवराजो नरवाहनदत्तः गोमुखमुखात् सन्न्यासिनो वार्त्तांश्रुत्वा तं भूयसा प्रशशंस प्रददौ च त सन्न्यासिनमाहूयतस्मै प्रचुराणि धनानि। कृतज्ञंसुशीलं प्रभुं सेवित्वा न कोऽपि निष्फली भवति।

अथैकदा दक्षिणापथादागतः प्रलम्बबाहुर्नाम कश्चित् वीरो द्विजातिःयुवराजस्य दिगन्तव्यापिनीं कीर्त्तिं समाकर्ण्य समीपमागत्य प्रत्यहं शतमुद्रावृत्तिमयाचत। युवजोऽपि तस्य मनोरथमविचार्य्यैव पूरयामास। तदवलोक्य गोमुखः युवराज बहु प्रशस्य कथामेतामाचख्यौ।

अस्ति विक्रमपुरं नाम नगरम्। तत्रासीत् विक्रमतुङ्गोनाम भूपतिः। तस्य वीरवरो नाम कश्चित् सेवकः। तस्य परिजनास्त्रय, एका धर्मवती पत्नी, द्वितीया वीरवती कन्या, तृतीयः सत्त्ववरो नाम पुत्रः। स खलु राज्ञः सकाशात् प्रत्यहं पञ्च शतानि दीनारान् वेतनं यथाचे। राजा गुणज्ञतया तं गुणवन्तंविदित्वा तथैवाङ्गीचकार, नियुयोज च कञ्चित् चरं स एताभिर्मुद्राभिः किं करोतीति

तथ्यमनुसन्धातुम्। चारः सम्यक् अनुसन्धाय राजानं व्यज्ञापयत् देव ! देवसकाशात् असौ पञ्चशतदीनारान् प्राप्य तेषु एकं शतं गार्हस्थ्यनिर्वाहाय पत्न्यै समर्पयति, शतद्वयेन देवार्च्चनार्थं वस्त्रमाल्यादिद्रव्याणि क्रीणाति, अपरेण च शतद्वयेन ब्राह्मणान् दीनाननाथांश्च परितोषयति। एतत् सर्वं समाप्य दिवारात्रं देवस्य सिंहद्वारि समासीनस्तिष्ठति। एतदाकर्ण्य राजा तं प्रति परितुष्टः चारम् एतदुवृत्तान्तं प्रकटयितुं निवार्य्यव्यसर्ज्जयत्।

कदाचित् महामेघपटलावृताद् गगनतलात् साशनिपातासु मुषलधारया पतन्तीषु वृष्टिषु पृथिवी समाप्लाविता। गृहस्थिता अपि प्रलयमिव मन्यमानाः परां शङ्कामवापुः। वीरो वीरवरस्तु एकाकी तस्मिन्नेव सिंहद्वारि निश्चलस्तस्थौ। राजा विक्रमतुङ्गः प्रासादाद् वीरवरमेकाकिनं तथा स्थितं दृष्ट्वा बहु प्रशस्य च महानुभावत्वेन महासाहसिकत्वेन समुन्नतपदयोग्यममन्यत।

अत्रान्तरे दूरात् वामारोदनध्वनिर्नृपकर्णविवरं प्राविशत्। राजा सद्य एव वीरवर तदनुसन्धानाय समादिश्य स्वयमपि तमनुससार। वीरवरस्तथेति राजाज्ञां शिरसि विधृत्य तं सूचीभेदद्यं तमोराशिं भिन्दन् रोदनानुसरणक्रमेण एकं सरसीतटमगात्, अद्राक्षीच्च तत्र कापि रमणी हा नाथ ! हा अनुकम्पिन् वीर ! क्वमां परिष्यज्य गमिष्यसीति विलपन्ती तारस्वरेण रोदिति, वीरवरेण शनेः समीपमुपस्थितेन किमर्थं रोदिषि, का त्वमिति परिपृष्टा सा प्राब्रवीत् अहं त्रिकालज्ञा पृथ्वी, धार्मिको राज्ञा

विक्रमतुङ्गोमम पतिः, इतस्तृतीये दिवसे पतिर्मेमरिष्यति, तत्तादृशः पतिः क्ववान्यत्र मया लप्स्यते? इत्येतत् मे शोकहेतुरिति।

एतदुक्त्वाविरतां तां वीरवरः प्रोवाच देवि ! अस्ति कश्चिदस्य प्रतीकार इति। वसुन्धरा प्रत्यभाषत वत्स! यदि कश्चित् तस्य सेवकः चण्डिकायै स्वं पुत्रं बलिरूपेणोपाहरेत् तदा राजा जीविष्यतीति। वीरवरस्तथेत्यभिधाय गृह प्रत्यगात्। देवी च भूतधात्री अन्तर्दधे।

वीरवरस्तु सद्य एव गृहमेत्य स्वंपुत्रं सत्त्ववरं प्रबोध्य वसुमतीसंवादमकीर्त्तयत्। पुत्रोऽपि सानन्दं तत् मममंस्त। अथ वीरवरस्तं पुत्रं बहु प्रशस्य स्कन्धे निधाय पत्नीं तनयाञ्च पृष्ठतः कृत्वा चण्डिकामन्दिराभिमुखं प्रतस्थे। राजापि किमयं करोतीति कुतूहलाक्रान्तहृदयः तमनुसरन् देवीमन्दिरं प्रति अलक्षितः प्रचचाल। वीरवरश्रण्डोगृह प्राप्य सत्त्ववरं पत्नींतनयाञ्च अवरोप्य कृताञ्जलिर्देवीं व्यजिज्ञपत् मातः। अनेन पुत्रशिरसा सम्प्रीता अस्मतस्वामिनः प्राणान् रक्षतु भवती, स च राजा निष्कण्टकं राज्यं भुनक्तु इति प्रार्थ्यधन्योऽसि पुत्र। इति वदन् तस्य शिरश्चिच्छेद, उपजहार च तत् राज्ञः कुशल भूयादित्युक्त्वाटेवीसमक्षम्।

समनन्तरञ्च आकाशाद्दिव्या वागुदचरत् वीरवर ! धन्योऽसि त्वमेव माधुः, त्व प्रभोः कुशलार्थी पुत्रशिरःप्रदानेनापि देवीं प्रीणयित्वा प्रभुभक्तेः परां काष्ठांप्रादर्शयथाः, अथवा प्रभुभक्तानाम् आत्मनि वा पुत्रोदारेषु वा

न ममताभिमानः स्यात् इति। राजा वृत्तान्तमिमं प्रत्यक्षीकृत्य श्रुत्वा च परं विस्मयमाजगाम। अथ वीरवरस्य तनया वीरवती भ्रातृशोकविधुरा तत् छिन्नंमस्तकमादाय पुनश्चुम्बित्वा च हा भ्रातरित्युच्चैर्विलपन्ती प्राणान् विजहौ। ततश्च तत्पत्नी धर्मवती पुत्रकन्ययोर्विनाशं पश्यन्तीकृताञ्जलिः सकरुणं वीरवरमभाषत नाथ ! राज्ञस्तावत् मङ्गलमभूत्, साम्प्रतम् अनुमन्यस्व माम्, अहम् अग्निं प्रविश्य प्राणान् त्यजामीति। शिशुमेतां कन्यां भ्रातृशोकेन त्यक्तजीवितामालोक्य ममेदानीं जीवनं न कथमपि शोभते इति। पत्न्याएतद्वचनमाकर्ण्य वीरवरः प्रोवाच प्रिये। पुत्रशोकमयेऽस्मिन् संसारे स्थित्वा तव सुखं नास्ति सत्यं तदपेक्षस्व, अहमेव त्वदर्थं चितां रचयामि, यत्र प्रविश्य तवाङ्गं शीतलं भविष्यतीति समाख्याय तस्मिन्नेवचण्डीक्षेत्रे काष्ठान्याहृत्य चितां रचयित्वा प्रज्वालयत्। धर्मवतीपत्युश्चरणावभिवाद्य आर्य्यपुत्र ! जन्मान्तरेऽपि त्वमेव मे पतिर्भूयाः, राज्ञश्चशुभमित्युक्त्वाज्वलन्तीं चितामधिरुरोह।

राजा विक्रमतुङ्गः अद्भुतं लोमहर्षणं व्यापारमिमम् अवलोक्य कथमहं वीरवरर्णादात्मानं मोचयामीति चिन्तासरसीसलिले न्यमज्जत्। धीरवरो वीरवरस्तु इत्थं स्वामिकार्य्यं निर्वर्त्य व्यचिन्तयत् मया सर्वस्वभूतेन पुत्रेण स्वामिकार्य्यं निर्वाह्य भर्त्तृपिण्डस्य आनृण्यंलब्धं, श्रुतञ्च दिव्यवचः, तदेवं स्थिते साम्प्रतं स्वजीवनार्थं प्रयासाः आत्मम्भरित्वमेव, तस्मादसारेण निष्प्रयोजनेनानेन जीवनेन

देवीमर्च्चयन् जीवनं सफलयामीति निश्चित्य देवींस्तुवन्यावत् स वीरवरः स्वं शिरश्छेत्तुमुद्यच्छति, तावदपरा अन्तरिक्षवाक् समुदतिष्ठत् पुत्र ! निवर्त्तखास्माद् व्यवसायात्, तवअलोकसामान्येन साहसेन नितरां तृप्तास्मि, तद् गृहाण वरं यदिच्छसि तदेव ददामीति।

एतदाकर्ण्य वीरवरःस्वशिरश्छेदनादिरम्य कृताञ्जलिरवादीत् मातः ! यदि प्रसन्नासि, तदा राजानं विक्रमतुङ्गंशतायुष कृत्वा मम पुत्रं कन्यां पत्नीञ्च जीवयतु भवतीति। अथ “तथास्तु” इति दैववाचि उच्चरितायामेव सर्वे वीरवरपुत्रादया अक्षतकलेवराः सुप्तोत्थिता इव समुत्तस्थुः। वीरवरः पुत्रकन्ये पत्नीञ्च जीवितां विलोक्य सानन्दः सपरिजनः देवीं प्रणम्य गृहं प्रति प्रायात्। रक्षित्वा गृहेपरिजनान् पुनः नृपतेः सिंहद्वारमागत्य तथेव निश्चलस्तस्थौ।

राजा तु सर्वं वृत्तान्तं दृष्ट्वा विस्मितो हृष्टश्च तथैवालक्षित एव राजभवनमेत्य प्रासादमध्यतिष्ठत्। विश्रम्य च क्षणं पुनरपृच्छत् कोऽस्ति सिंहद्वारि साम्प्रतम् ? वीरवरः प्रत्यभाषत प्रभो। अहं तिष्ठामि वीरवरःयां स्त्रियमनुसन्धातुं मामादिशन्महाराजः, सा मया सकृत् अवलोकितैव अन्तर्हितेति। सर्ववृत्तान्तदर्शी नृपतिः वीरवरमुखादित्थमाकर्ण्य भूयोऽपि विस्मयाम्बुधौ निमग्नः समचिन्तयत् किमद्भुतम् ? ईदृशालौकिकप्रकृतिः पुरुषः कदापि क्वापि न श्रुतो न च दृष्टः, अयमीदृशम् अलोकसाध्यंकर्म कृत्वापि सकृदपि मुखेन तदुल्लेखं नाकरोत्

सागरो गम्भीरो विशालो महासत्वोऽपि वात्यया क्षुभ्यति, वीरवरस्तु न कथमपि। किमिदानीं करोमि, यः सपरिवारो जीवनप्रदानेन मां जीवितवान्, केन प्रत्युपकारेणतस्य ऋणादात्मानं मोचयामि, किमपि निश्चेतुं न शक्यते। एवं चिन्तयन् अन्तःपुरं प्रविश्य निशामत्यवाहयत्।

अथ प्रभाते राजा सभासीनः सर्वजनसमक्षंवीरवरमाहूय रात्रिवृत्तान्तमवर्णयत्। तदाकर्ण्य विस्मिताः सर्वे वीरवरं भूयसा प्रशंसन्ति स्म। राजा पश्यत्सुपारिषदेषु वीरवरशिरसि सम्मानदं पट्टबन्धं ददत् प्रभूतया सम्पदात पुरश्चकार। वीरवरस्तामतुलां सम्पदमासाद्य सुखेन द्वितीया नृप इव कालमनयत्।

गोमुखः इदमाख्यानमुक्त्वापुनरवदत् युवराज ! भवतः सिंहद्वारि स्थितः प्रलम्बबाहुरपि तथाभूतसर्वगुणसम्पन्नः कोऽपि महात्माभवितुमर्हति, अस्य आकृतिप्रकृती दृष्ट्वा मन्ये नायं साधारणो मानव इति। नरवाहनदत्तः गोमुखात् सर्वमेतदाकर्ण्य परां प्रीतिमवाप।

_________

चतुःपञ्चाशत्तरङ्गः।

<MISSING_FIG href=”../books_images/U-IMG-1723376093Screenshot2024-08-11170403.png"/>

कदाचित् नरवाहनदत्तः गोमुखेन सह रथमारुह्य मृगयार्थमरण्यमगात् सन्न्यासीप्रलम्बबाहुरपि तदग्रतः अश्वादीनप्यतिक्रम्य गच्छति स्म। युवराजः रथस्थित

एव शरैःदुष्टमृगान् सिंहव्याघ्रादीन् व्यापादयामास। प्रलम्बबाहुस्तु पादचारी असिमात्रसहायः बहून् सिंहादीन् व्यनाशयत्। युवराजः प्रलम्बबाहोरसामान्यं शौर्य्यं वीक्ष्यविस्मितः मृगयाश्रमेण तृषाकुलः जलान्वेषणाय दूरवर्त्ति महावनमविशत्, अपश्यच्च तत्र समुत्फुल्लसुवर्णकमलशोभितमेकमपूर्वं सरः। अथतत्र सर्वे क्षणं विश्रम्यस्नानपानादिकमकुर्वन्।

अथयुवराजः सहसोपस्थितान् तानि कमलानि वेल चतुरः पुरुषानवलोक्य तेषामन्तिकमाजगाम। ते च तं दृष्ट्वा परिचयमपृच्छन्। अथ युवराजेन स्वपरिचये दत्ते तेऽब्रुवन् सागरमध्यवर्त्तिनि नारिकेलद्वीपे मैनाको वृषभः चक्रःबलाहकश्चेति सन्ति चत्वारः पर्वताः। तेषु वय वसामः। अस्माकमेको रूपसिद्धिः द्वितीयः प्रमाणसिद्धिः, तृतीयो ज्ञानसिद्धिश्चतुर्थो देवसिद्धिर्नाम। रूपसिद्धिर्बहुरूपं धत्ते, प्रमाणसिद्धिर्वृहत् सूक्ष्मञ्च प्रमाणं साधयितुं शक्नोति, ज्ञानसिद्धिः कालत्रय वेत्ति, देवसिद्धिःसर्वासु देवतासु सिद्धिमापन्नः। वयं श्वेतद्वीपवासिनो भगवतो नारायणस्य सेवकाः तत्कृपयैव एषु पर्वतेषु आधिपत्यं कुर्मः। साम्प्रत तदाराधनार्थं पद्मान्याहर्त्तुमागताः, आहृतेषु च पद्मेषु पुनस्तत्रैव गमिष्यामः। यदि भवान् भगवन्त द्रष्टुमिच्छति, तदागच्छतु अस्माभिः सह। वयं विमानेन भवन्तं तत्र नेष्याम इति।

युवराजस्तेषां देवानां वचसि सम्मतः गोमुखादीन् तत्रैव सरसीतीरे अपेक्षितुमादिश्य तैः सह श्वेतद्वीपं

प्रायात्। गत्वा च तत्र भगवन्तंगरुड़ध्वजम् आराधयितुमागच्छतः भक्तान् नारदप्रमुखान् सिद्धान् गन्धर्वान् विद्याधरांश्चदृष्ट्वा स्वयं भक्तिनम्रकायः स्तोतुमारेभे। भगवान् नारायणः युवराजं प्रति प्रसन्नः नारदम् अब्रवीत् नारद ! गच्छ त्वममरावतीं वाच्यश्च त्वया मद्वचनात् देवराजः, यथा पूर्वमह क्षीरसागरा याः काश्चिदप्सरसस्त्वयि न्यस्ताः, ताः सत्वरं मत्सकाशं प्रेष्यन्तामिति सन्दिश्य नारदं व्यसर्जयत्। अब्रवीच्च युवराजं नरवाहनदत्त ! त्वं विद्याधरचक्रवर्ती भविष्यसि, त्वमेवासामप्सरसां योग्यःपतिरिति एतास्तुभ्यं दास्यामीति। नरवाहनदत्तः भगवतस्तादृशेन अनुग्रहेण कृताञ्जलिः साष्टाङ्गपातं प्रण्यपतत्।

अथ देवेन्द्रः हरेरादेशात् रथेन ताः अप्सरसः प्रेष्य सारथिं मातलिमादिशत् मातले ! त्वमिमाः सुरसुन्दर्य्यःश्वेतद्वीपवर्त्तिने नरवाहनदत्ताय प्रदेयाः, स च येन पथा राजधानीं गन्तुमेषिष्यति, तेनेव पथा आभिः सुरङ्गनाभिः सह स्वंराजभवनं नेतव्य इति। मातलिस्तथेति भर्त्तुराज्ञया युवराजसमीपमेत्य अप्सरसस्तस्मैदत्त्वा इन्द्रसन्देशमकथयत्। युवराजस्तु रूप सिद्ध्यादीनामनुरोधपरतन्त्रः मातलिसारथिना रथेन नारिकेलद्वीपमुत्तीर्णः चतुरो दिवसान् तत्त्रत्येषु पर्वतेषु चतुर्षु नानाविधानि अद्भुतानि द्रष्टव्यानि वस्तूनि समालोक्य तैर्विसर्ज्जितः देवविमानेन तेन तत् सरोवरमाजगाम। आगत्य च तत्र गोमुखादीन् गमनाय समादिश्य मातलिसारथिना रथेन ताभिरप्सरोभिः परिवृतः कोशाम्बीं प्रत्यागमत्। आगत्य च स

भवनं मातलिं सम्मानयन् विसर्ज्यं सुरसुन्दरीभिः सह अन्तःपुरं प्रविश्य ताश्चयथास्थानं संरक्ष्य पित्रोः सकाशं गत्वा प्रणिपपात। तौ च पुत्रं तादृशाभ्युदयशालिनमभिनन्द्य परां प्रीतिमूहतुः।

अथ गोमुखे प्रलम्बबाहुना सह नगरमागते राजा तत्प्रमुखात् नरवाहनदत्तंप्रति भगवतस्तादृशम् अनुग्रहं श्रुत्वा विस्मितः प्रहृष्टश्च महामहोत्सवमकारयत्। अथ मोमुखेन वन्दयितुमानीताः देवरूपादीः चतस्रः सुरसुन्दरीःदासीभिः समवेताः समीक्ष्य परमानन्दमलभत।कौशाम्बी अप्सरसां सङ्गेन सुरपुरीव व्यराजत। अथ नरवाहनदत्तः विरहकृशाःपूर्वप्रेयसीःसम्बर्द्ध्यसर्वा एव सुखिनीरकार्षीत्।

एकदा युवराजः अलङ्कारवत्या समासीनः गोमुखादिषु पारिषदेषु तिष्ठत्सु सहसा तूर्य्यध्वनिमशृणोत्। कथमेतत् सहसा ध्वनतीति पृष्टो युवराजेन हरिशिखः सत्वरं बहिर्निगत्य सर्वं वृत्तंविज्ञाय पुनः प्रविश्य च अवादीत् देव ! एतन्नगरवासी रुद्रोनाम बणिक् सुवर्णद्वीपे वाणिज्यार्थं गतः यथायथं कृतवाणिज्यः गृहं प्रत्यागच्छन् समुद्रेभग्नपोतोऽभूत्। तत्र च जलसात्सर्वम्वोऽसौ एकाकीकथञ्चित् जीवन् गृहं प्रत्यागात्। अद्य दिवसषट्कमतीतं तस्य प्रत्यागमनदिनात्। स खलु वराकःधनशोकेन निरस्तरं श्लानवदनः शीर्णकलेवरःसौभाग्योदयात् स्वमुद्यानं विचरन धनराशिं दैवदत्तमासादितवान्। तदीयेश्चदायादैरीर्याकषायितचेतोभिस्तां वार्त्तां विज्ञापिते

नृपतीस भयेन राजान्तिकं समेत्य सर्वं तत् अर्थजातं प्रभुचरणेषु समर्पितवान्। महाराजस्तु तस्य सम्पद्विनाशश्रवणेन दुःखितः तत् सर्वं धनं तस्मै एव भोक्तुंसमादिदेश।तदयं वणिक् प्रभुचरणेषु निपत्य प्रभुणासमाश्वासितो हर्षेण तूर्य्यनादं कारयन् गृहं प्रति गच्छतीति।

एतद्राकर्ण्य युवराजः पितुरसामान्यामुदारतां प्रशस्य सविस्मयमवादीत् चित्त्रमिदं विधाता यथा अर्थान् नाशयति, तथैव ददाति, केवलं संसारवृत्तमिदं तस्य क्रीड़ाविलसितमेव। एतदाकर्ण्यमोमुखस्तथेति तद्वाक्यंप्रतिनन्द्य प्राब्रवीत्।

देव ! पुरा हर्षणाख्ये नगरे समुद्रशूरो नाम कश्चित्समृद्धोधार्मिको वणिक् प्रतिवसति स्म। स एकदा वाणिज्यार्थं सुवर्णद्वीपं यास्यन् अर्णवतीरमागत्य समुद्रपोत्तमारुरोह। कियन्तमध्वानं गते तस्मिन् सहसा समुदितात् मेघमण्डलात् सवातवृष्टिरतिमहती प्रादुरासीत्। तच्च प्रवहणं प्रबलतरङ्गाघातेन भग्नंदृष्ट्वा समुद्रशूरः जलराशीनिपत्य कमपि शवमशिश्रयत्। क्रमेण वात्यया सह वृष्टिषु निवृत्तासु शान्ते च जलनिधौ अनुकूलवायुवशात् भासमान एव सुवर्णद्वीपस्य उपकण्ठं प्राप।तत्र च तीरमुत्तीर्य्यकिञ्चित् लब्धस्वास्थ्यः शवस्य परिधेयात् सहसा निर्मतं बहु रत्नमयं स्वर्णहारं प्राप्य सागरजलनिमग्नंसर्वं स्वं धनं तृणाय मन्यमानः परां प्रीतिमवाप। ततःकृतस्नानाहारः कलसाख्यंनगरमभिजगाम। गच्छंश्चपथिदेवालयमेकं दृष्ट्वा तदन्तः प्रविवेश। प्रविश्य च तत्र श्रमार्त्तः

वृक्षच्छायायां सुस्वाप। निद्रितस्य तस्य हस्तेतत् बहुमूल्यं कण्ठाभरणं दृष्ट्वा राजपुरुषास्तत्रागताः तत्रत्यराजकन्यायाश्चक्रसेनाया अपहृतं तदाभरणं प्रत्यभिज्ञाय चौर इति तं जगृहुः, निन्युश्च राजद्वारम्। अथ राज्ञापीड़ितः स सर्वमेव यथावृत्तमाख्यत्, परं राजा तत् सर्वमलीकं मत्वा यावत् तदाभरणं हस्ते कृत्वा सभ्यान् दर्शयति, तावत् सहसा आकाशात् एको गृध्रो निपत्य राजहस्तात् तदाच्छिद्य उत्पपात। तदालोक्य बणिक् रुदन् देवदेवंशम्भुं शरणमस्मरत्। अथ राज्ञा क्रुद्धेन तं प्रति बधदण्डेआज्ञप्तेसहसा दैववाणी अभवत् राजन् ! मा विनाशयैनम्। अयं हर्षणपुरवासी समुद्रशूरो नाम बणिक्। अतिसज्जनोऽयं कार्य्यवशात् भवद्विषयमुपागतः। आभरणमिदं राजकन्याया एव यश्चादश्चोरितवान्, स नगररक्षकभयात् पलायमानः समुद्रं गत्वा प्राणानत्यजत्। बाणिज्यार्थमागच्छन्नेष बणिक् यानभङ्गविनष्टसर्वस्वः सागराम्भमि यतितः दैववशात् तस्यैव चौरस्य मृतदेहं जले भासमानमाश्रित्य कथञ्चित् तीरमुत्तीर्णः। ततः सहसा शवस्य वस्त्रात् आभरणमिदं प्राप्य भवद्विषयमुपस्थितः। तदेनमहत्वा सादरं पुरस्कृत्य विसर्जयेति।

एतदाकर्ण्य राजा सविस्मयः सर्वं तथ्यं मत्वा समुद्रशूरं बधदण्डात् मोक्षयित्वा बहुतरमर्थं तस्मै पुरस्कृत्य व्यसर्ज्जयत्। समुद्रशूरः इत्थं बहूनर्थान् प्राप्य तैश्च बहुतराणि द्रव्याणि क्रीत्वानिर्विघ्नेन समुद्रादुत्तीर्णः गृहाभिमुखं गच्छन् पनि कतिपयेः सार्थवाहैर्मिलितः प्राक् सन्ध्यायाः

कामपि अटवींप्रविवेश। विभावरी च घोरा समायात्। ततश्चागतिकेषु सर्वेषु तरुमूलमाश्रित्य श्रमवशात् निद्रितेषु केवलमेकः समुद्रशूर एव जजागार। अथ निशीथे सहसा चौराः समागत्य तान् पान्थान् सार्थवाहान् हताहतान् कुर्वन्तः सर्वाणि अर्थजातानि तेषामहरन्। एकः समुद्रशूरः त्यक्तसर्वस्व एव पलाय्य अलक्षितं वटतरुमारोहन् प्राणानरक्षत्। अथ गतेषु दस्युषु समुद्रशूरः कथञ्चित्तमेव वक्षमाश्रित्य रजनीमयापयत्। ततश्च प्रातः यावत् तरोरवरोहति, तावत्तस्यैव तरोः स्कन्धदेशवर्त्तिनि विवरे देदीप्यमानं पक्षिकुलायमेकं दृष्ट्वा तदन्तिकं गत्वैव तत् कण्ठाभरणमद्राक्षीत्। दृष्ट्वैवतदेवैतदिति प्रत्यभिज्ञायतरारुधस्तादवतीर्य्यसानन्दं देवी विचित्रा गतिरिति विभावयन् स्वगृहाभिमुखं प्रतस्थे। समागत्य चगृहं सपरिवारः सुखेन कालं नयति स्म। युवराज !विधिविलसित पश्यतु देवः, सुकृतिनः बहून् क्लेशान्प्राप्यापि परिणामसुखिनो भवन्त्येव। एतदाकर्ण्यगोमुख मुखात् युवराजः स्नानभोजनादिसमाधानाय सभामण्डपादुत्तस्थौ।

अयापरेद्युः सर्वेषु समासीनेषु गोमुखोरवदत्प्रभो। आसीत् हस्तिनापुरे समरबालो नाम सर्वशक्तिसम्पन्न कश्चिन्महीपतिः। एकदा तत्प्रतिवासिनी दायादाः समेत्य त पराजेतुं कृतसङ्कल्पाः गणकानाहूयप्रयाणस्यशुभलग्न निर्धारयितुं समादिशन्। गणका गणयन्तःसमब्रुवन् वर्षाभ्यन्तरेएकमपि दिनं यात्रिकं नास्ति, यदि

भवन्तो निषेधमवजानन्तो यात्रां कुर्य्यात, नियतमेव भवतां विपदापतिष्यति। समधिकाः सम्पदोऽपि निजाः क्षयं गमिष्यन्ति । एवमुक्त्वागणकाः कथामेतामाख्यातुमुपचक्रमिरे।

अस्ति कौतुकपुरं राम नगरम्। तत्रासीत् बहुसुवर्णो नाम नृपतिः। तस्य यशोवर्म्माख्यः कश्चित् क्षत्रियः सेवकोऽभूत्। तेनार्थमर्थितो राजा कदापि तस्मै किमपि न प्रादात्। केवलं सूर्य्यदेवं दर्शयित्वा इत्थमवादीत् पश्य अहं तुभ्यं दातुमिच्छामि, परं देवोऽयं भाग्वान् तुभ्यं दातु निषेधति। तदत्र नास्ति मे दोष इति। पुनः पुनरेवमर्थयन्नपि राज्ञाप्रतारितोऽसौ यशोवर्म्माएकदा सूर्यग्रहणोपलक्षेण बहूनर्थान् दातुं प्रवृत्त महीपतिमभ्येत्यन्यवेदयत् प्रभो ! योऽयं दिवाकरो मां प्रति विरुद्धः सततं दित्सुमपि देवं निवारयति सोऽयमद्य राहुणा ग्रस्यते, तदस्मिन्नेव समये मह्यं किञ्चित् ददातु महाराज इति। राजातस्य एतद्वचनमाकर्ण्यसहासं तस्मै वसनानि सुवर्णादीनि च प्रददौ।

अथ कियता कालेन निःशेषितसर्वधनो यशोवर्म्मा पुनरपि राजानं किञ्चिदर्थन् न किमपि आससाद। राजा पूर्ववत् तं प्रतार्य्यन किमपि तस्मै प्रादात्। अथैकदा मृतायां यशोवर्म्माअर्थकार्श्यात्देहविसर्जनाय कृतसङ्कल्पः विन्ध्यारण्यवासिनीं विन्ध्यवासिनीमुद्दिश्य प्रायात्। तत्र च गत्वा अनाहारेण तिष्ठन् देवीमाराधयितुं दुश्चरं तपश्चचार। देवी तपसा तुष्टा तं स्वप्ने समादिशत् वत्स !

प्रीतास्मि ते तपसा, तत् अर्थश्रियं वा भोगश्रियं प्रार्थयसे वद।

एतदाकर्ण्य यशोऽवदत् देवि ! भगवत्या आदिष्टायाः श्रियोर्भेदं नावगच्छाक। देवीप्रत्यभाषत पुत्र ! तव देशे भोगवर्म्मा अर्थवर्मा चद्वौवणिजौ वर्त्तेते। तयोः सुखसमृद्धिमालक्ष्य यतेऽभिरोचते, मदन्तिकमेत्य तत् प्रार्थयस्व, अहं तत् तुभ्यं दास्यामीति।

एतत् श्रुत्वा यशोवर्म्मा प्रबुद्धः व्रतपारणां निर्वर्त्त्यस्वदेशं हर्षणपुरं प्रत्यगात्। प्रथममर्थवर्मणःसमीपमेत्य स्वर्णरत्नादीनां धनजातानां व्यवसायेन समुपार्ज्जितां बह्वींसम्पत्तिंदृष्ट्वा अर्थश्रीशब्दस्य तात्पर्य्यं बुबुधे। अर्थवर्म्मा गृहागतं यशोवर्म्माणम् आतिथ्येन निमन्त्रय तदर्थं घृतपक्वानि मांसानि विविधानि व्यञ्जनानि च प्रस्तुत्य तमाहाराय आजुहाव। यशोवर्म्मा अर्थवर्म्मणःपार्श्वोपविष्टः तान्युत्तमान्नानि बुभुजे। अर्थवर्म्मा तु अपलमात्रकेणघृतेन सह अन्नव्यञ्जनादिकमल्पमात्रमेवाभक्षयत्। यशोवर्म्मणाअर्थवर्म्मणस्तादृशाल्पभोजन कारणं परिपृष्टोऽ सौ अर्थवर्मामब्रवीत् भद्र ! अद्याहं भवदनुरोधेनैव एतादृशं सघृतमन्नव्यजनं भक्षितवान स्मि, नित्यभोजनन्तु मम केवलमईपलमितं हविरल्पमात्रश्चशक्तुः, अग्निमान्धादतोऽधिकं न परिपाकमेति।

यशोवर्म्माएतदाकर्ण्य अर्थवर्म्मणस्तादृशीं सम्पत्तिं वृथेति मनसा निनिन्द। अथार्थवर्म्मणा आनीतं चोरं यशोवर्म्मा प्राचुर्येण भक्षितवान्, अर्थवर्म्मातु पलमात्रक-

मेव तत् भक्षयामास। कृतभोजनौच तौ एकस्मिन्नेव शयने अशेताम्। निशीथे समनुप्राप्ते यशोवर्म्मास्वप्ने अपश्यत् दण्डपाणयःकतिपये पुरुषा गृहं प्रविश्य अर्थवर्म्माणं रे पापिष्ठ ! त्वमद्य घृतमांसादिकं क्षीरञ्चभुक्तवानसि इत्युक्त्वाप्रहरन्तः यत् किञ्चित्तेन भक्षितं तत् सर्वं तस्योदरात् वहिरकारयन्। यशोवर्म्मा सहसा जागरितः समपश्यत् अर्थवर्म्माशृलवेदनानिपीड़ितः केवलं वमति, ततश्च वमनानन्तरं शूलवेदनाया मुक्तः। यशोवर्म्माएतदालोक्य अर्थश्रियं धत्य तस्मात् निर्गतः भोगवर्म्मगृहमुपायात्। भोगवर्म्मातमतिथिमागतं दृष्ट्वासतकृत्य च भोजनार्थं न्यमन्त्रयत्। यशोवर्म्माभोगवर्म्मःकामपि अर्थसम्पत्तिं नालोकितवान् केवलं सुन्दरं हर्म्यं भुशंभनानिवसनाभरणादीनि एवं अद्राक्षीत्। भोगवर्म्मणःस्वं मूलधनं न किञ्चिदप्यस्ति, केवलं ममाजेषु सम्भ्रमोविद्यते। तेनैव च अन्यस्य सम्पत्तिमन्यस्मैदत्त्वा तस्मात् किञ्चित् किञ्चिदुपार्ज्जयति। तस्तिंश्चदिवसे तयैव रीत्याअर्थमाहृत्यत्य सर्वमेव भृत्यहस्तेसमर्प्यविविधानि अन्नअञ्जनानि प्रस्तोतुमादिदेश। अत्रान्तरेइच्छाभरणो नाम कश्चित् सुहृदागत्य प्रावीक्षत्मित्र ! समुत्तिष्ठ, प्रस्तुतं भोजनम, अपरे बन्धवस्त्वांप्रतीक्षन्ते इति। तदाकर्ण्य भोगवर्म्माऽवदत् मित्र ! श्रद्य मद्भवने अतिथिरागतः, तदहमद्य कथं गच्छामीति, तदाकर्ण्य इच्छाभरणः सनिर्बन्धमुभावपि स्वंभवनं नीत्वा उत्तमान्नादिकमभोजयत्। ततश्च भोगवर्म्मायशोवर्म्माणंस्वंगृहमानीय रजन्यां स्वादूनि

अन्नानिभोजयामास। अथ स स्वां पत्नीं दुग्धेषु सारोऽस्ति न वेति अपृच्छत्। साब्रवीत् नाथ ! नाद्य सारोविद्यते इति। भोगवर्म्मातदहं रात्रिशेषे कथं जलं पास्यामीति उक्त्वाशयनं भेजे। यशोवर्म्माच तत्पार्श्वे शयित्वा निद्रामवाप। अपश्यन्त पूर्ववत् स्वप्ने, द्वौपुरुषौ अग्रतः प्रविशन्तौ अन्वसरन् कतिपये अपराः पुरुषाः। प्राहरंश्च रात्रिशेषभोजनायप्रभोः कथं सारो न रक्षित इति। ततश्च दण्डाहताभ्यां ताभ्यां वापराधे स्वीकृते सर्वे शान्ता बहिरगमन्निति। ततश्च यशोवर्म्माप्रबुद्धः किमाश्चर्य्यंभोगश्रियः भोगसम्पदागमनमचिन्त्यं प्रशंसनीयञ्च। इति चिन्तयन् रात्रिमत्यवाहयत्।

अथ प्रभाते यशोवर्म्माभोगवर्म्मणमामन्त्र्यविन्ध्यवासिनीसकाशं प्रतस्थे, प्रार्थयामास च तां भोगश्रियमेव। देवी तस्मै तां प्रादात्। ततो यशोवर्म्माकृतार्थम्मन्यः गृहमागत्य शततम् अचिन्तितोपस्थितेन अर्थेन परमां सुखसमृद्धिं बुभुजे। तस्मात् भोगरहितायाः समधिकाया अपि सम्पदो भोगयुक्ताल्पसम्पदपि श्रेयसी। अस्य च कृपणस्य राज्ञः समरबालस्य सम्पदा कोऽर्थः ? तदाक्रमणं भवतां न शुभावहमिति मतमस्माकम्। शुभलग्नाभावात् भवतां जयाशा न हि दृश्यत इति।

गणकेषु एवमभिधाय विरम्य प्रस्थितेषु ते सामन्तादायादाः समरबालं प्रति संग्रामाय निरगच्छन्। समरबालेन विपक्षान् सन्निहितान् दृष्ट्वा कृतस्नानेन देवदेवे आराधिते एषा दैववाणी उदभूत् यथा त्वं निःशङ्कंगत्वा

शत्रून्विजयस्वेति। एतदाकर्ण्यराजा सम्प्रहृष्टःसज्जित्वा युद्धाय निरगात्। संग्रामप्रवत्तेन च क्रमेण तेषां पञ्चसु वीरेषु निर्जितबद्धेषु अपराणि सैन्यानि भयेन समन्तात् प्रदुद्रुयुः। अथ राजा समरबालः विपक्षमुख्यस्य सामन्तस्य प्रतापसेनस्य सुन्दरीं महिषीं बलादानीय स्वं नगरं प्रविशत्। पुरश्चकार च स्वान्सेनापतीन् सैन्यानि च यथायोग्यंपट्टबन्धादिदानेन। युवराजः गोमुखमुखादेतदाख्यानं श्रुत्वा स्नानभोजनाद्यर्थं समुत्तस्थौ।

पञ्चपञ्चाशत्तरङ्गः

अथान्येद्युरलङ्कारवती सद्मन्यवस्थितं नरवाहनदत्तंसर्वेषु मन्त्रिषु स्थितेषु समभ्येत्य मरुभूतेः सेवकः राजान्तः पुररक्षिणः सौविदल्लस्य सहोदरः कश्चित् व्यजिज्ञपत् देव। मयास्य मरुभूतेः वर्षद्वयसेवा कृता, अमुना च सपत्नी कस्य मे भोजनाच्छादनानि दत्तानि, निवारितानि च वेतनानि प्रतिवर्षं पञ्चाशत् सुवर्णानि। मया तु तद्वेतनप्राप्तये बहुवो विज्ञप्तं परं नासादितं किमपि। अथ निर्बन्धातियये कृते असौ मां पदाहन्। तेन च भवता सिंहद्वारे अह प्रायोपवेशनमाचरामि। यदि देवो नात्रविचारयेत् तदाहं अग्निप्रवेशं करिष्यामि। इत्युक्त्वातस्मिन् विरतवचसि मरुभूतिरब्रवीत् देव। देया मयास्मे सुवर्णदीनाराः, साम्प्रतन्तु मे न सन्ति। इत्युक्तवन्तं तं सर्वेषु

मन्त्रिषु हसत्सु मन्त्रिणं प्रोवाच नरवाहनदत्तः। किमेवंवर्त्तसेमूर्ख ! नेयं ते समीचीना मतिः, तदुत्तिष्ठ देह्यस्मैदीनारशतमविलम्बेन। एवं प्रभोर्वचः समाकर्ण्य विलक्षितो मरुभूतिः सपदि तत् सुवर्णशतं स्वगृहात् समानीय सर्वं तस्मै सेवकाय प्रदत्तवान्।

ततस्तत्र गोमुखोऽब्रवीत् देव ! नायं वाच्योमरुभूतिः। अस्य सृष्टौदेवस्य प्रजापतेः विचित्रा चित्तवृत्तिः प्रकाशिता। भवद्भिरेषां चिरदातुः नृपतेः प्रसङ्गाभिधेयस्य सेवकस्य च कथा न श्रुता। कथयामि तामवहितैर्भवितव्यम्।

पुराभूत् राजा चिरदातेति चिरपुराधिपतिः। स खलु अतिसुजनः, परं तस्य परिजनाऽतिदुर्जन आसीत्। कदाचित् प्रसङ्गो नाम मित्राभ्यामन्वितः देशान्तरागतः कश्चित् तस्य भूपतेः परिचारको बभूव। क्रमेण पञ्चाब्देषु व्यतीतेष्वपि सेवमानाय तस्मै राजासौनिमित्तेष्वप्युत्मवादिषु न किञ्चित् प्रददौ। स च प्रसङ्गः कालेष्वेतावत्सु प्रभुसन्निधौविज्ञप्रवसरं नालभत। अथैकदा तस्य राज्ञः शिशुरेकस्तनयः पञ्चत्वमपद्यत। सर्वेऽपि भृत्या दुःखितास्तं शोकार्त्तं महीपतिं पर्य्यवारयन्। तत्र चासौ सेवकः शोककालोऽयं न विज्ञापनावसर इति सुहृद्भ्यांवार्य्यमाणोऽपि तं राजानं व्यज्ञपयत् देव। आबहोः कालात् वय देवस्य सेवकाः, न च किञ्चिदद्यापि श्रीमद्भिरम्मभ्यं दत्तं, केवलं भवत्सुतानुरोधेन एतावन्तं कालम् अस्माभिः स्थितं,राजपुत्रःअस्मानेवं प्राबोधयत् यदि राजा युष्मभ्यं वेतनानि

न दास्यति तदाहमेव दास्यामोति। सोऽपीदानीं दैवेन नीतः, तत् किमिदानीं साम्प्रतं व्रजामो वयमित्युक्त्वासखिभ्यामुपेतः राज्ञः पादयोः पतित्वा मिरगात्। राजा तु अहो पुत्रेमम वद्धास्था इमे सेवकाः सुदृढ़ाःनैव मे त्याज्या इति सपदि विचिन्त्य तान् प्रसङ्गादीन् तथा धनैरपूरयत् यथा ते दैन्यनिर्मुक्ताः समभूवन्।

हे देव ! एवं विचित्रा दृश्यन्ते देहिनां स्वभावाः यदसौ राजा काले किञ्चिन्नादात्, अकाले तु समधिकं ददौ।

इत्युक्त्वाकथाविचक्षणो गोमुखः पुनर्वत्सेश्वरसुतादेशादिमां कथामाचख्यौ।

आसीत् पुरा गङ्गातले तदम्भः पूतपौरं सौराज्यरम्यंकनकपुरं नाम नगरोत्तमम्। यत्र गिरां बन्धः, पत्राणां छेदः, नारोणामलकेषु भङ्गः, मस्यानां संग्रहणे खलः सदा प्रजानां समदृश्यत। तत्रासीत् वासुकेर्नागराजस्य यशोदानाख्यायां राजसुतायां जातः तनयः कनकवर्षो नाम नृपतिः। यः समग्रधरणीभारवाहकोऽपि अशेषगुणरञ्जितः, यशसि लोलुपः न त्वर्थेषु भीतः पापात् न तु शत्रुतः, मूर्खः परापवादेषु न तु शास्त्रेषु समभवत्। यस्य च महात्मनःकोपेषु अल्पता, न प्रसादेषु, चापेषु बद्धमुष्टित्वं न दानेषु समदर्शि। येन चाद्भुतरूपेण रक्षिणापि दृष्टेन सर्व एव जगतीतलवासी नारीजनः मन्मथव्यथाकुलः कृतः।

एकदासौ नरपतिः सोष्मणिउन्मदगजराजे राजहंसकुलानन्दिनि महोत्सवपूर्णलोके शरदृतौसमगुणैर्वयस्यैरन्तु चित्रप्रासादमाविगत्। यावत्तत्र आकृष्टकमन्तामोदे

वहति मन्दं मन्दं समीरणेस राजा तानि तानि प्रासादस्थानि चित्राणि प्रशंसति तावत् कश्चित् प्रतीहारस्तत्र प्रविश्य तं भूपं व्यजिज्ञपत् प्रभो ! अपूर्वःकश्चन चित्रकरःरोलदेवो नाम विदर्भेभ्यः समागतः। स च चित्रकर्म्मणिआत्मनःअनन्यसाधारणत्वमस्मासु समाचक्षाणःदेवस्य सिंहद्वारिस्थितः लिपिमिमां प्रादात्। तदाकर्ण्य वाचयित्वा लिपिं नरपतिःतमानयेति प्रतीहारमादिशत्। प्रतीहारोऽपि गत्वा तत्क्षणं तं चित्रकरं राजान्तिकमानयत्। म च चित्रकरः प्रविश्य चित्रालोकनोत्सुकं वारविलामिनोकुचोत्सङ्गममर्पितकलेवरभरं सविलासमञ्चितक रोपात्तताम्बूलवीटिकं तं भूपतिं सबहुमानादरं प्रणिपत्य शनैःसविनयं न्यवेदयत्। देव ! भवच्चरणसरोकहदिट्टतयैव मया चीरिका उल्लम्बिता, न तु विज्ञानमदात्, तदिदानीं क्षन्तव्यं मम समुद्दतं वचः, आदिश्यतामधुना किञ्चित् अलिखितुकामोऽस्मि। राजोक्तं किञ्चिदालिख्यतां त्वया येन त्वत्कौशलेन वयं चक्षुः प्रीतिमनुभवाम इति। ततः पार्श्वस्था राजानुचराः प्राब्रुवन् राजा एव त्वयाभिलिख्यतां किमन्येर्विरूपेरभिलिखितेः। एवमभिहितः म रोलदेवाख्यः चित्रकृत् परमप्रीतस्तंराजानं तुङ्गनासिकम् आयतारक्तनयनं विपुलललाटोरस्कंनीलकुञ्चितमूर्द्धजं रूढ़वाणव्रणशोभिताङ्गम् आजानुलम्बितबाहुम् उपायनीकृतमुष्टिमेयमध्यमिव पराक्रमपराजितैः केशरीन्द्रकिशोरैः, यौवनद्विरदालाननिभोरुयुगम् अशोकपल्लवारुणाङ्घ्रियुगलं सर्वावयवानवद्यंसमालिखत्। दृष्टैत

वयस्याः अद्भुतं मन्यमानास्तं चित्रकरं साधु साधु इति प्राशंसन्। अगदंश्च न बयमेकाकिनं प्रभुं द्रष्टुमिच्छामः, तदस्यां चित्रभित्तीएतास्वालिखितासु राज्ञीषु एकां सुविचार्य्यअनुरूपाम् अस्य नृपतेः पार्श्वे अभिलिख, येनास्माकं नेत्रोत्सवः पूर्णोऽस्तु। तदाकर्ण्य स विलोक्य चित्राणि प्राब्रवीत् बह्वीष्वप्येतासु अद्य राज्ञः समनुरूपा नात्रकाचन। मन्ये च धरायामस्यामस्यानुरूपाङ्गना नास्तिकापि, एकैवास्ति राजसुता, शृणुत कथयामि ताम्।

अस्ति विदर्भेषु श्रीमत् कुण्डिनाख्यं नगरम्। तत्र च देवशक्तिरिति ख्यातो नरपतिरस्ति। तस्यानन्तवती नाम प्राणाधिक प्रियतमा राज्ञी वर्त्तते। तस्याञ्च मदनसुन्दरी नाम तस्य राज्ञः सुतैका समुत्पन्ना।तस्या रूपं वर्णयितुमेकयारसनया मादृशः कः प्रगल्भते, परमेतावन्मात्रं कथयामि शङ्खेतां निर्म्माय बिधिः सञ्जातेच्छोऽपि तदाकारामन्यां निर्म्मातुं युगसहस्रेणापि नैव शक्ष्यतीति। मा गवैका अस्य राज्ञः रूपलावण्यविनयैर्वचसा कुलेन च सुसदृशीराजकन्या। एकदाहं तयान्तः पुरस्थया तत्रत्यश्चेटिकया समाहतस्तदन्तिकमगाम्, अद्राक्षञ्च तत्र तां चन्दनार्द्रविलेपनां मृणालहारां विसिनीपत्रान्तरविवर्त्तिनीं सखीजनैः कदलीदलव्यजनैर्वीज्यमानां पाण्डुक्षामामभिव्यक्तस्मरज्वरलक्षणां हे सख्यः! किमेभिश्चन्दनालेपकदलीदखवीजनैः विफलेन श्रमेण वः, एतानि शिशिराण्यपि मन्दभाग्यां मां दहन्ति इत्येवं वदन्तीञ्च। अहञ्च ताः सखीराश्वाससमाकुलास्तदवस्थाञ्चतामवलोक्य सवितर्कं कृतप्रणामस्तस्याश्वर-

सोपान्ते समुपाविशम्। अथ सा उपाध्याय! इदमालिख्य चित्रेमे रूपकं देहि इत्यभिधाय वेपमानेन पाणिना धृत वर्त्तिना शनैरालिख्य मां दर्शयन्ती राजसुता मया कञ्चित् अतिरूपवन्तंयुवानमलेखयत्। मया च सुन्दरावयवं तदभिलिख्य चिन्तितं काम एवायं साक्षात् मया आलेखितः, परं पुष्पचापः अस्य करे न लेखितः, तेनावगतं न कामोऽयं तद्रूपः कोऽपि युवा, अयञ्च नूनमनया क्वापि दृष्टः श्रुतो वा तन्निबन्धमञ्चास्याः स्मरविजृम्भितं तदिदानींमेअमुनैव पथा यथागतं गन्तव्यम् अयञ्च नृप उग्रदण्डः अस्याः पिता देवशक्तिर्नैव दोषं क्षमेत। इत्यालोच्य ताञ्च प्रणम्य मदनसुन्दरीं तत्सम्मानितश्च तस्मादन्तःपुरान्निरगाम्। हे महाराज! द्रुतञ्चात्र मया परिजनात् मिथः स्वैरं कथयतसा त्वयि सानुरागेति श्रुतम्। ततश्चित्रपटे गुप्तां तां नृपात्मजामालिख्य आदाय भवत्पादमूलं त्वरितगतिरागच्छम्। साम्प्रतं देवस्य आकारं दृष्ट्वा संशयो मे निवृत्तः। ज्ञातञ्च देव एव तथा मत्करेणाभिलेखितः। सा चासकृत्रैव लिखितुं शक्या इति चिचैकपार्श्वे समामपि न लिखामीत्युक्तवन्तंतं रोलदेवं राजा प्राह तर्हि सा त्वच्चित्रस्थाक्षिप्रं दर्श्यतामिति। ततोऽसौ चित्रकरः स्वचित्रार्पितां तां मदनसुन्दरीमदर्शयत्। राजापि कनकवर्षस्तां चित्रगतामपि चित्ररूपामालोक्य सद्यः स्मरशरसंलक्ष्यतामाययौ। बहुना च काञ्चनेन तं चित्रकृतं समभ्यर्च्य गृहीततच्चित्रपटःस्वमभ्यन्तरमगात्। ततश्च स राजा तस्या रूपलावण्यदर्शनातृप्तलोचनः परित्यक्तसर्वकार्य्यः

तदेकमनाः समयमतिवाहयाम्बभूव। लब्धान्तरश्चमदनःरूपस्पर्द्धासमुद्भूतमात्सर्य्य इव धैर्य्यहारी तं शरैर्निघ्नन् बबाधे। रूपलुब्धानां योषितां तेन या स्मरार्त्तिर्दत्ता सा तस्य महीभुजः शतशाखं फलितेव। ततः कतिपयेषु दिनेषु गच्छत्सु विरहक्षामः पाण्डुच्छायः स राजा आप्तेभ्यः सचिवेभ्यस्तां वार्त्तां पृच्छद्भ्यःस्वं मनोगतं शशंस। ततश्च मन्त्रिभिर्मन्त्रयित्वा तां मदनसुन्दरीं प्रार्थयितुं राज्ञेदेवशक्तत्तये सङ्गमस्वामिनामानं कार्य्यज्ञं कालवेदिनं विप्रमाप्तं कुलीनं मधुरोदात्तभाषिणं दूत प्राहिणोत्। स तु दूतः सुमहार्हेण परिकरेण तान् विदर्भान् गत्वा कुण्डिनं पुरं प्राविशत्। अपश्यच्चतत्र राजानं देवशक्तिम्। ययाचे च तत्सुतां स्वामिनोऽर्थे।तदाकर्ण्य देवशक्तिः, देयैव मे अन्यस्मै दुहितैषा समन्विष्य, यदि कनकवर्षः स्वयमेवैनामदृष्टामपि प्रार्थयते तदास्मैएव एतां दास्यामीति सम्मन्त्र्यतत्सङ्गमस्वामिनो वचः श्रद्दधानः तस्मै दूताय रम्यं रूपमिव अद्भुतं मदनसुन्दर्य्यानृत्यमदर्शयत्। ततः स राजा तद्दर्शनप्रीतं सङ्गमस्वामिनं सुतादानस्वीकारेण सम्मान्य तेन सह उद्वाहलग्नं निर्द्धार्य्यआगम्यतामिति सन्दिश्य राज्ञेकनकवर्षाय प्रतिदूतं व्यसर्जयत्। अथ सङ्गमस्वामीअतिदूतेन तेन सह प्रतिनिवृत्त्य राज्ञे कनकवर्षाय सिद्धं कार्य्यं न्यवेदयत्। अथ शुभं लग्नंनिश्चित्य तं प्रतिदूतं प्रपूज्य च तां रक्तां मदनसुन्दरीं विज्ञाय तद्विवाहाय निःशङ्कमानसः स राजा तत् कुण्डिनं पुरं प्रायात्। पथि अश्वारूढः दुर्वारवीर्य्यःस भूपतिः प्रत्यन्तारण्यचारिणः

प्राणिप्राणहरान् सिंहादीन् दस्यूनिवविनिघ्नन् विदर्भान् प्राप्य कुण्डिनं प्राविशत्। ततश्चाग्रतो निर्गतेन राज्ञादेवशक्तिना प्रत्युद्गतः पौराङ्गमानां नेत्रोत्सवं बर्द्धयन् सज्जितोद्वाहसम्भारं राजमन्दिरमविशत्। व्यश्राम्यच्च तत्र सपरिच्छदः देवशक्तिना यथोपचारमनुरञ्जितः तं दिवसम्।

अथापरेद्युःदेवशक्तिः तस्मै मदनसुन्दरींतनयां राज्यैकशेषेण सर्वस्वेन समं प्रादात्। ततः स राजा कनकवर्षः तत्र सप्ताहमवस्थाय नवबध्वा समागतः स्वं नगरमागमत्। तस्मिंश्चप्राप्तकान्तारत्ने जगदाह्लाददायिनि सकौमुदीके शशिनीव तत् पुरं महोत्सवपूर्णमभवत्। सा च मदनसुन्दरी बह्ववरोधस्यापि तस्य कृष्णस्य रुक्मिणीवत् प्राणाधिकप्रिया आसीत्। अन्योन्यमुखसंसक्तैश्चारुपक्ष्मभिः लोचनैः सायकैरिव तौ दम्पती कीलितौ इवास्ताम्।

अथेकदा विकसत्केसरनिचयः मानिनीमानमातङ्गविदारी मधुकेसरी समाजगाम। कुसुमाकरः लग्नालिमालामौर्वीकाणि पुष्पधन्वनः प्रोत्फुल्लचूतवल्लीधनूंषि सज्जयामास। मलयानिलश्च उपवनानीवाध्वगयोषितां समुद्दीपितकामानि चेतांसि कम्पयन् ववौ।नदीनां सलिलानितरुणां कुसुमानि शशिनश्च कलाःक्षीणानि पुनः पोषमायान्ति न तु यौवनानि देहिनां,तदुन्मुक्तमानकलहासदयिता रमध्वमितीव मधुरालापाः कोकिलानां शुश्रुविरे। तस्मिंश्च काले स राजा मधुवनं विहर्त्तुकामः सर्वाभिरन्तःपुरिकाभिः समं प्रविवेश। तत्र च साबरोधोऽपिदेव्या मदनसुन्दर्य्याएव समं कुसुमावचयनादिभिः कियन्त

कालं विहृत्य स्नातुं गोदावरीं नदीं सान्तःपुरजनः समवतीर्य्य जलक्रीड़ां ब्यधात्। तस्य चाङ्गनाः तरङ्गदर्शिता मर्षभ्रूभङ्गायास्तस्या नद्याः पद्मानि मुखैः, उत्पलानि नयनैः, रथाङ्गयुग्मानि पयोधरः, पुलिनानि च नितम्बैः विजित्य आशयं क्षोभयामासुः। करवारिणा सिक्तेनसर्वान्तःपुरिकासु पश्यन्तीषु विस्रस्तवसनमालोक्य सा वरारोहा मदनसुन्दरी सेर्ष्या मृदुकोपा च कियत् क्षोभ्या नदीत्येवं वदन्तीउत्तीर्य्य तस्मादम्भसः परिहितवसनान्तरा रुषा स्वसखीभ्यः प्रियापराधं शंसन्ती स्वमन्दिरं प्रायात्। ततो राजा विज्ञाताशयस्तस्याः जलक्रीड़ां विमुच्य तस्या एव वासगृहमाययौ। तत्र च पञ्जरस्थैरपि शुकैर्वार्य्यमाणः प्रविश्य तामन्तर्मन्युभरपीडितां वामहस्ततलन्यस्तवदनाम्बुजां स्वच्छमुक्ताफलनिभैः पतद्भिर्वाष्पविन्दुभिरुपेतां करुणं विलपन्तीं कोपेऽपि मनोरमां कान्तामपश्यत् उपायाच्च सलज्जसाध्वसः समीपम्। अथ पराङ्मुखीं तां प्रीतिपेशलैर्वचोभिराश्लिष्य सविनयं प्रसादयितुं प्रावर्त्तत। अशक्नुवंश्च विविधाभिर्वक्रोक्तिमनोरमाभिर्वाग्भिः प्रसान्त्वयितुं आत्मानमपराधिनं शंसन् पादयोस्तस्या निपपात। सा अश्रुवारिणेव तन्मन्युना गलितेन अस्य कण्ठे लग्ना भूपतेः प्रससाद। अथ स राजा हृष्टः कुपिततुष्टया तया सह दिनं नीत्वा सुरतमासेव्य च निशि निद्रामगात्।

ततः सुप्तःसहसापश्यत् स्वप्ने, विकृता कापि नारी कण्ठात् एकावलींशिरसश्च चूड़ारत्नं हरति। ततश्चकञ्चित्वेतालं नानाप्राण्यङ्गविग्रहं बाहुयुद्धप्रवृत्तं दृष्ट्वा

स्वयं तं भूमावपातयत्। अथ पृष्टेन उपविष्टेन च तेन पक्षिणेव विहायसा उड्डीय अम्भोनिधौ स निचिक्षिपे। ततः कथञ्चिदुत्तीर्य्यसमुद्रपारं तथैव गले एकावली मूर्ध्नि च स्थितं चूहारत्रमैक्षत। इत्येवं स्वप्नं दृष्ट्वा सम्प्रबुद्धः स राजा प्रातः परिचयागतं क्षपणकमेकमस्य स्वप्नस्य फलाफलं परिप्रपच्छ। स चाब्रवीत् देव! न वाच्यमप्रियं किन्तु पृष्टोऽहं कथं न वदामि, त्वया या एकावली च्युतादृष्टा चूड़ामणिश्च, एतावता तव देव्या पुत्रेण च सह वियोगो भावीति यच्चपुनरुत्तीर्णाम्बुधिना त्वया सा एकाबली पुनः प्राप्ता स च चूडामणिः, तेन दुःखान्ते ते पुनःपत्नीपुत्रसमागमोभविष्यतीति सूच्यते। इत्येवं क्षपणकेनाभिहितः स राजा प्राब्रवीत्पुत्रो मे नाद्यापि जातः, स तु तावज्जायतामिति। अथ स कदाचित् समागतात् कस्माच्चित् रामायणपाठकात् अश्रौषीत् पुत्रार्थं विहितक्लेशं राजान दारण्यम्। अथ स भूपतिः क्षपणके गते राज्ञः, दशरथस्यअद्भुतस्वरूपां सुतोत्पत्तिं चिन्तयन् विमनास्तद्दिनमनयत्। रात्रौ च एकाकी शयने स्थितः विदितः सहसा अनुद्घाटितद्वारेऽपि अन्तः प्रविष्टां स्त्रियमैक्षत। विनीतसौम्यरूपा च सा तं राजानं साश्चर्य्यमुत्थितं कृतप्रणामं क्षितीश्वरम् आशीर्भिरभिनन्द्य अभाषत पुत्र! मां नागराजस्य वासुकेरात्मजां त्वत्पितुर्ज्येष्ठां भगिनीं रत्नप्रभां नाम जानीहि। रक्षार्थं ते सततमदृश्या तवान्तिके वसामि, अद्य तु त्वां सचिन्तं दृष्ट्वा आत्मा मम ते दर्शितः
तव ग्लानिं द्रष्टुं नोत्महे, तत्कारणं ब्रूहि। इत्युक्तः स

पितृष्वस्रा तथा तां जगाद हे अम्ब! धन्योऽहं यत् त्वं मे प्रसादं करोषि पुत्राभावनिबन्धनामनिर्वृति मेबिद्धि, राजर्षयोऽपि दशरथादयः स्वर्गार्थं पुत्रानैच्छत्। हे मातः ! तत्र मादृशः कथं नेच्छतु। एतत्तस्य कनकवर्षस्य नृपतेः तत् वचनमाकर्ण्य सा रत्नप्रभा भ्रातुः पुत्रं तमब्रवीत् पुत्र! उपायमेकं वदामि, कुरुष्व तम्। गत्वा त्वं स्वामिनः कुमारस्य सकाशं तं प्रसादय। याच ते शरीरे विघ्नधारा पतिष्यति तां मम त्वच्छरीरप्रविष्टायाः प्रभावात् सहिष्यसे। क्रमेण विनधारामतीत्य वाञ्छितं लप्स्यसे। इत्युक्त्वासा नागी अन्तर्दधे, राजा च हृष्टः क्षपामक्षपयत्। प्रातश्चमन्त्रिषु सन्न्यस्तराज्यतन्त्रः पुत्रकाङ्क्षयास्वामिकुमारस्य पादमूलमगात् स राजा कनकवर्षः। तत्र च गत्वा तीव्रेण तपसा तमाराधयन् व्यतिष्ठत अन्तःप्रविष्टनागीदत्तप्रभावः। अथ तस्य राज्ञः मूर्द्धनि अशनिनिभमाकुमारेण प्रेरिता वारिधारा अनारतं पतितुं प्रवृत्ता। स च राजा शरीरान्तर्गतनागीबलेन तां सेहे। ततश्च पुनर्विघ्नार्थं कुमारः हेरम्बं प्रैरयत्। स तु हेरम्बः तासां धाराणां मध्ये महाविषमत्युग्रम् आजगारमसृजत्। स च राजा तेनापि नाकम्पत। अथ विनायकः साक्षात् एत्य तस्य राज्ञ उरसि दन्ताघातान् दातुं प्रववृते। अथ स राजा देवैरपि दुर्जयं तं मत्वा तं दन्ताघातं विषह्यैव स्तोतुमुपचक्रमे। सर्वार्थसिद्धिदायिने लम्बोदराय विघ्नेशाय नमस्ते। त्वं लीलोत्क्षिप्तकराघातेन आसनपङ्कजं धुन्वन् ब्रह्माणमपि सोत्कम्पमकरोःजय विभो गजानन!।

लोकैकशरण्ये शङ्करप्रिये त्वयि अतुष्टेसुरासुरमुनीन्द्राणामपि सिद्धिर्न जायते। सुरोत्तमास्त्वां घटोदरः, शूर्पकर्णः, गणाध्यक्षः, मदोत्कटः, पाशहस्तः, अम्बरीषः, जम्बकः, विशिखायुधः इत्यादिभिः पापघ्नैरष्टषष्टिभिर्नामभिः स्तुवन्ति स्म। प्रभो! त्वां स्मरतः स्मरतः रणात् राजकुलात् द्यूतात् चौरात् अग्नेः श्वापदादितश्चभयं विनश्यति। इत्येवमन्यैश्च विविधैः स्तुतिपदैरसौ राजा कनकवर्षःविघ्नेश्वरमपूपुजत्। ततश्च सुप्रसन्नः स विघ्नजित् तुष्टोऽस्मि न ते विघ्नं करिष्यामि, पुत्रमाप्नुहि इत्युक्त्वापश्यतस्तस्य राज्ञः अन्तर्दधे। ततः स्वामिकुमारस्तं धाराधारिणं नृपमब्रवीत् वत्स! तुष्टोऽस्मि ते, याचस्व वरमिति। तदाकर्ण्य स राजा तं देवं व्यजिज्ञपत् प्रभो! भवत्प्रसादेन मे पुत्र उत्पाद्यतामिति। एवमस्तु, सुतस्ते भावी मद्गणांशजः। हेभूपते! स च नाम्ना हिरण्यवर्षो भविष्यति। इत्युक्त्वाअन्तर्गृहप्रवेशाय सविशेषप्रसादाभिलाषिणं तमाह्वयत् शिखिवाहनः। अत्रान्तरे सा नागी नृपस्य देहात् अदृश्या निरगात्। राजा च तस्य देवस्य पावकेरन्तर्भवनं प्राविशत्। स तु देवः नाग्यनधिष्ठानात् पूर्वतेजोविरहितं नृपं दृष्ट्वाकिमेतदिति चिन्तयन् प्रणिधानात् नागीबलव्याजेन निर्व्यूढ़विषमव्रणंज्ञात्वा शशाप। यतस्त्वया मदाराधने व्याजः कृतः, अतः जातेन तनयेन महादेव्या च ते वियोगो भवितेति। निर्घातदारुणमेतं शापमाकर्ण्य स महाकविः भूपतिः मोहमुक्त्वा सूक्तैस्तं देवं तुष्टाव। तेन च सन्तुष्टः षण्मुखस्तमभाषत राजन्! तुष्टोऽस्मि ते सूक्तैः, तव शापान्तं

वच्मि, अब्दमात्र ते पत्नीपुत्रवियोगःस्थास्यति, इत्युक्ता विरतेषण्मुखे स राजा तं प्रणम्य तत्प्रसादेन परितुष्टः स्वपुरमगात्।

अथ कालेन देवीमदमसुन्दरी गर्भमधात्, प्रासोष्ट च सुपुत्रंसुखेन। राजा पुत्रमुखदर्शनेन परां निर्वृतिं लभमानःमहोत्सवं विदधत्, दीनेभ्यःअनाथेभ्यःद्विजेभ्यश्चप्रचुराणि वसूनि वर्षन् निजां कनकवर्षाख्यां भुवि यथार्थामकरोत्। अथ पञ्चसु रात्रिषु गतासु षष्ठ्यांरजन्यां जातवेश्मनि यथाबिधि अनुष्ठितरक्षाविधाने सहसा मेघः नभसि प्रादुरासीत्, तेन च क्षुद्रेणापि क्रमशो बृद्धि गच्छता उपेक्षितेन शत्रुणा प्रमादिनः नृपस्य राज्यमिव क्रमशः नभः समाक्रान्तम्। ततश्च वर्षस्य मदस्येव धाराः क्षिपन् उन्मूलयंश्च द्रुमान् वातमत्तमतङ्गजः प्रवाति स्म। क्षणेच तस्मिन् भीषणा कापि नारी सार्गलमपि द्वारमुद्घाट्यक्कुरिकाहस्ता तत् जातवेश्म प्राविशत्। सा च देव्या मदनसुन्दर्य्याः स्तनासक्तमुखं तं बालं बलात् हृत्वा सहसा प्रदुद्रुवे। सा च राज्ञीहा हा हृतो मे पुत्रः राक्षस्या इति विलपन्ती विह्वला क्रन्दन्तीच तमस्यपि तां राक्षसीमन्वधावत्। सा तु स्त्री सबालका कस्मिंश्चित् सरसि पतात। राज्ञी चागत्य पुत्रलालसा तामन्वपतत्। क्षणेन च मेघोऽन्तर्हितः यामिनी व्ययासीत्।एतस्मिन्नन्तरे परिवारस्य जातवेश्मगतस्य महानाक्रन्दः समभवत्। राजा कनकवर्षोऽपि तमाकर्ण्य जातवेश्म गत्वा शून्यमालोक्य भूमौ पपात, विललाप च भगवन् स्कन्द! मन्द-

भाग्यस्य मे वरः शापसंपृक्तःकथं त्वया विषामृतसन्निभोदत्तः, हा हा देव्या विना युगसहस्रायमाणं कथं नेष्यामि वत्सरम्। एवमाक्रन्दन् भूपतिः मन्त्रिभिः तत्तद्वृत्तान्तेन बोध्यमानोऽपि नैव धृतिमाससाद। क्रमेण च मदनावेगविवशः स राजा पुरात् निर्गतः उन्मत्त इव भ्रमन् बिन्ध्यक्रान्तारमगमत्। तत्र च बालमृगीनेत्रैःप्रियाया लोचनश्रियं चमरीबालसञ्चयैः कवरीभारसौन्दर्य्यंकरिकरेणूनां गतैः गतेःमन्थरतां स्मरतस्तस्य सुत्तरां जज्वाल मदनानलः। क्रमेण च भ्राम्यन् तृषातापाकुलः बिन्ध्यपादमवाष्यनिर्भरपानीयं पीत्वा तरुमूले यावत् उपाविशत् तावत् बिन्ध्यस्य गुहामुखात् अट्टहास इव उन्नदन् सटालःसिंहस्तं हन्तुमुत्पपात। क्षणे च तस्मिन् गगनतलादापतितः कश्चित् विद्याधरःजवात् निपत्य असिना तं सिंहं द्विधा अकरोत्। अपृच्छत् समीपमागत्य तं भूपतिं राजन्! कथमेतां भुवं प्राप्तोऽसि? तदाकर्ण्य स राजा स्मृतिं लब्ध्वाप्रत्यवदत् भद्र! विरहानिलविक्षिप्तंमां बिद्धि। ततश्चविद्याधरोऽब्रवीत् राजन्! अहंमानुषः बन्धुमित्राख्यः पुरा त्वत्पुरे न्यवसम्। ततः सेवया प्रार्थिना मया त्वया साहायके कृते अहं प्रव्राजको भूत्वा वेतालसाधनात् विद्याधरत्वं प्राप्तोऽस्मि। तेन च त्वां प्रत्यभिज्ञाय प्रत्युपकारार्थिना मया त्वज्जिघांसुरयं सिंहःव्यापादितः। साम्प्रतं बन्धुप्रभ इति गृहीतनामास्मि। इति वादिनं तं राजा सम्प्रहृष्टस्तमवादीत् हन्त स्मरामि ते मैत्रीं, सा चाद्य त्वया निर्वाहिता। तदिदानीं ब्रूहि कदा मे भार्य्यापुत्रसमा-

गमोभावीति। इति तस्य वचः श्रुत्वा विद्याधरः विद्या प्रभावेण विदित्वा प्राब्रवीत् राजन्! दृष्टायां बिन्ध्यवासिन्यां ते पत्नीपुत्रौ समाप्प्यसि। तत्तत्र सिद्ध्यैगच्छ अहञ्च स्वंलोकं व्रजामि, इत्युक्त्वातस्मिन् खेचरे खं गतेराजा लब्धधृतिः शनैः तां बिन्ध्यवासिनीं द्रष्टुंसमाययौ। गच्छन्तञ्च तं नृपं कश्चित् वन्यः महान् आधूतमस्तकः मत्तः करीकरं प्रमारयन् अभ्यधावत्। तदवलोक्य स राजा श्वभ्रमार्गण तथा अचरत् यथा स गजः तमन्वधावन् श्वभ्रपतितः विपदमपद्यत। ततः स राजा अध्वश्रमार्त्तः व्रजन् उद्दण्डपुण्डरीकाक्ष्यम् एकं महत् सरः प्रापत्। तत्र स्नात्वा पीत्वा च जलं जग्धमृणालः पादपतले विश्रान्तः क्षणेन निद्रया जङ्के। ततश्चमृगयानिवृत्ताः कतिचित् शवराः तेन पथा समागतास्तं तथागतं सुलक्षणं राजानं व्यलोकयन्। दृष्ट्वैव ते देव्युपहारार्थं बद्धा तत्क्षणमेव तं स्वामिनो मुक्ताफलाख्यस्य शवरराजस्य सकाशनिन्युः। सोऽपि शवरनराधिप तं प्रशस्तम् उपहारं विविच्य बिन्ध्यवासिन्या मन्दिरं पशूकर्त्तुमनयत्। दृष्ट्वैवच स राजा तां देवीं प्राणमन् तदनुग्रहात् स्कन्दप्रसादाच्च तत्क्षणमेव स्रस्तबन्धनःसमभवत्। तदालोक्य अद्भुतं मत्वा च देव्यनुग्रहं म शवराधिपः तं बधादमोचयत्। इत्थं तृतीयादपमृत्युतःअपक्रान्तस्य तस्य कनकवर्षस्य पूर्णं तच्छापवत्सरमभवत्। तावञ्च सा नागीपितृम्वसासपुत्रां राज्ञींमदनसुन्दरीमुपादाय तत्रैवायात्। अवादीच्च तं राजन्! विदितकुमारशापया मया तवेतौजायापुत्रौ युक्त्या स्वभवनं

नीत्वारक्षितौ, तदिदानीम् इमौ प्रियासुतौ गृहाण, अधुना क्षीणशापः पृथिवीराज्यं भुङ्क्ष्व। इत्युक्त्वातं प्रणतंनृपति सा नागो तिरोदधे। राजा च त भार्य्यासुतागमं स्वप्नमिव मेने। ततश्चराजदम्पत्योः चिरात् मिथः आश्लिष्यतोः विरहक्लेशः सह हर्षवाष्पाम्बुभिः निरगलत्। ततः कनकवर्षं त पृथ्वीपति प्रभुं बुद्धामुक्ताफलोऽपि शवरराजः तस्य पादयोरपतत्। स्वाञ्च पल्लीं क्षमयित्वा प्रवेश्य च निजोचितैस्तैस्तैरुपचारैस्तं नृपम् अपूजयत्। अथ स राजा कनकवर्षः तत्र स्थितः दूतैः श्वशुरं देवशक्तिंनिजञ्च सैन्यंस्वपुरात् अनाययत्। ततश्चआस्थितकरेणुकां प्रियां मदनसुन्दरींकुमारकृतहिरण्यवर्षनामधेयञ्च सुतं पुरतः विधाय श्वशुरवेश्म वर्म्माश्रितः तेन श्वशुरेण समन्वितः चचार। क्रमेण च कतिपयेर्वासरैःसमृद्धं श्वशुरंविदर्भजनपदाश्रयं कुण्डिनाख्यं नगरमासाद्य तत्र श्वशुरेण सुसत्कृतः कानिचित् दिनानि सपुत्रदारः स्थितिमकरोत्। ततश्च शनैः स्वंकनकपुरं प्राप्य चिरादर्शनोत्सुकैः पौरबधूजननयनैर्निपीयमान इव सपुत्रकलत्रः स्वंराजप्रासादमविशत् उत्सव इव विग्रहवान्। तत्र च सर्वान्तःपुरमुख्यां मदनसुन्दरीमभिषिच्यबद्धपट्टामकरोत्। अथ तया देव्या सुतेन च तेन नित्यबद्धोत्सवः पुनरदृष्टविरहदुःखं निष्कण्टकं कनकराज्यमशासत्। इत्थं मन्त्रिमुख्यात् गोमुखात् रुविरामिमां कथामाकर्ण्य नरवाहनदत्तस्तया अलङ्कारवत्या समं सुतरां तुतोष।

षट्पञ्चाशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1723714346Screenshot2024-08-15150120.png"/>

अथ प्रियासखः नरवाहनदत्तः गोमुखाख्यातया कथया परितुष्टः कोपविकृतं सेर्थं मरुभूतिमालोक्य तमनुरञ्जयन् न्यगादीत् मरुभूते! त्वमपि एकां कथामाख्यातुमर्हसि।ततः स मरुभूतिर्वाढमित्युक्त्वापरितुष्टेन चेतसा कथामेतां वक्तुंप्रचक्रमे।

देव! पुरासीत् कमलवर्म्मा नाम नृपतिः। तस्य कमलपुराख्ये नगरे चन्द्रस्वामी नाम ब्राह्मणः प्रतिवसति स्म। तस्य सुमतेः लक्ष्मीसरस्वत्योस्तृतीया विनयवती देवमतिर्नाम सदृशी भार्य्याभवत्। कालेन तस्यां तस्य विप्रस्यसुलक्षणस्तनयः समजनि। यस्मिंश्चजात एव अन्तरीक्षात् वाणी समुदचरत् यथा चन्द्रस्वामिन्! त्वया पुत्रोऽयं नाम्ना महीपालः कार्य्यः। यदयं राजा भूत्वा चिरं महीं पालयिष्यतीति। एतद्दैववचः समाकर्ण्य स विप्रः महोत्सवेन सह तं तनयं नाम्ना महीपालमकरोत्। क्रमेण च स महीपालः परिवर्द्धमानः सर्वासु शस्त्रास्त्रविद्यासु ग्राहितः सुशिक्षितश्चाभवत्। तदानीञ्च सा देवमतिः चन्द्रस्वामिपत्नीसर्वावयवानवद्यामेकां तनयामसूत। ताञ्च पिता चन्द्रावतीनाम्नीमकार्षीत्। क्रमेण तौविप्रसुतौ पितृवेश्मनि परिबृद्धिमापतुः।

अथ तस्मिन् देशे रविरश्मिभिः शस्येषु विदग्धेषु दुर्भि-

सकृतोमहानुपप्लवः समपद्यत। राजा च मुक्तसत्पथः तथाविधेऽपि समये अधर्म्मेण प्रजाभ्यः करान् आदात प्रारभत। तदा च देवमतिरसौ ब्राह्मणी तं ब्राह्मणं चन्द्रस्वामिनमवादीत् नाथ। आगच्छ, सर्वे वयं मत्पितृगृह व्रजामः, इह स्थिते अपत्ये एते विनश्येताम्। तदाकर्ण्य सविप्रः ब्राह्मणों तामाह स्म प्रिये! दुर्भिक्षे गेहात् पलायनं महत्पापं, तदेतौबालकौ नीत्वा त्वत्पितृसद्मनि स्थापयित्वा, अहं शीघ्रमेष्यामि त्वमिहैवास्व। एवमुक्त्वा भार्य्यांतां स्वगृहे एवं स्थापयित्वा तौ च दारकौ गृहीत्वा चन्द्रस्वामी तस्मान्नगरात् श्वशुरगृहं प्रति प्रतस्थे। गच्छश्चक्रमेण त्रिचतुरैर्दिनैः सूर्य्यांशुतप्तसिकतां विशुष्कविरलद्रुमां कामपि महाटवीं प्राप्य तृषातुरौ बालकौतत्र स्थापयित्वा तयोः कृतेवारि अन्वेष्टुंकिञ्चित् दूरमयासीत्। गच्छतश्चतस्य अग्रतः सिंहदंष्ट्राख्यः कश्चित् शवराधिपः क्वचित् कार्य्यार्थंसानुगप्रस्थितः समाययौ। स च भिलपतिस्तं जलार्थिनं दृष्ट्वा पृष्ट्वा बुद्ध्वाच संज्ञया भृत्यान् समचोदयत् प्राप्यतामयं जलान्तिकमिति। तदाकर्ण्य तस्य भृत्या द्वित्रालब्धाशयाः तम् ऋजुं चन्द्रस्वामिनं पल्लींनीत्वा बद्धमकुर्वत। एवं विवशश्च चन्द्रस्वामी नरोपहाराय सुसंयतमात्मानमवबुध्य अटवीगतौ निजौदारकोशुशोच हा वत्स महीपाल! हा वत्से चन्द्रावति! कथं मया मूढ़ेन अपदे सिंहव्याघ्रसमाकुले कान्तारे युवां परित्यक्तौ। आत्मा च चौरेर्घातितः, न चास्ति में शरणम् इत्येवमाक्रन्दन् स ब्राह्मणःव्योम्निनिविष्टदृष्टिःसवितार-

मपश्यत्, अवदञ्च अहमिदानीं स्वप्रभुं विपद्धन्तारम् एनमाश्रये इति। एवमालोच्य स आदित्यमुपस्तोतुमुपचक्रमे। हे परापराकाशशायिन् ज्योतिषाभ्यते!वाह्याभ्यन्तरतमोनुत् देव! तुभ्यं नमोऽस्तु। त्वं त्रिजगद्व्यापी विष्णुः, त्वं सर्वश्रेयसामाकरः शिवः, त्वं सुप्तं जगत् विचेष्टयसि, त्वं परमः प्रजापतिरसि। तव अप्रकाशे एतौ चन्द्राग्नी प्रकाशेतामितीव दयया तयोः न्यस्तात्मतेजसे तुभ्यं नमः। त्वयि अभ्युदिते रक्षांसि विद्रवन्ति, दस्यवः पलायन्ते, गुणिनश्च प्रमोदन्ते। हे त्रैलोक्यैकप्रदीप! शरणागतं मां रक्ष, इदं दुःखान्धकारं विदारय, आशु दयां कुरु। इत्येवमभिष्टुवतोऽस्य चन्द्रस्वामिनःपुरतः सहसा गगनादुच्चचार वाक् हे चन्द्रस्वामिन्! तुष्टोऽस्मि ते, नैव त्वं बधमाप्स्यसि, मम प्रसादाच्च ते पुत्रादिसङ्गमो भविता। इत्युक्तो दिव्यवाचा चन्द्रस्वामी तत्र जातस्वस्थः शवरोपाहृतस्नानभोजनस्तस्थौ।

एतस्मिंश्चावसरे कश्चित् सार्थधरो नाम महान् सार्थवाहस्तेन पथा समागच्छन् तं महीपालं चन्द्रस्वामितनयंभगिन्या चन्द्रावत्या युतम् अरण्यगं पितर्य्यनागते शोकबिधुरम् अशुभमशङ्किनमाससाद।पप्रच्छ च कौयुवां किमर्थमिहागतौ, कथञ्च युवयोरीदृशी समवस्थेति। अथ ताभ्यां स्ववृत्तान्तमाख्यातः स बणिक् तावाश्वास्य सुलक्षणौ च दृष्ट्वा स्वंदेशमनैषीत्। तत्रासीमहीपालः बाल्येऽपि अग्निक्रियायां निरत आसीत्।

एकदा तस्य बणिजः पुत्रस्नेहेन तौ पालयतः सदने

तारापुरनिवासिनः रौतोवर्म्मनामकस्य नृपतेर्मन्त्रींअनन्तस्वामी नाम सार्थवाहस्य सखा द्विजः हस्त्यश्वपदातिभिः सह कार्य्यार्थमागतः। स तु कियन्तं कालं विश्रम्य तत्र स महीपालं शुभाकृतिंजपाग्निकार्य्यादिनिरतंदृष्ट्वा वृत्तान्तंपरिपृच्छ्यविदित्वा च सार्थवाहमुखात् तयोः सवर्णतां बन्धुं सार्थवाहं तो अपत्यार्थी ययाचे। अथ तेनवैश्येन दत्तौ तौ दारकौ गृहीत्वा सः अनन्तस्वामी तारापुरं ययौ। तत्र तेन मन्त्रिणा पुत्रीकृतः स महीपालस्तस्यैव भवने स्वस्रासह अवात्सीत्।

अत्रान्तरे स भिल्लपतिः सिंहदंष्ट्रः तं बद्धचन्द्रस्वामिनमेत्यतस्यामेव पल्ल्यामभाषत ब्रह्मन्। मया स्वप्ने भगवता सहस्रभानुना समादिष्टोऽस्मि, यथा भवान् संपूज्य भोक्तव्यः, नैव हन्तव्यः, तदुत्तिष्ठ यथेच्छं व्रज इत्युक्त्वाबहुन् मुक्ताफलमृगमदादीन् अनुयात्रिकांश्च दत्त्वा तममुञ्चत्। अथ मुक्तः स चन्द्रस्वामी इतस्ततो गवेषयन् अनुजायुतं तं महीपालमरण्यतः अलब्ध्वा भ्रमन् सागरतटे जलपुरं नाम पुर प्राप। विवेश च अतिथिर्भूत्वा कस्यचित् गृहिणी गृहम। तत्र चातिथ्येन सुसत्कृतं नं चन्द्र स्वामिनं वृत्तान्तं परिपृच्छ्यस गृहपतिस्तमब्रवीत् ब्रह्मन्।कनकर्म्माख्यः कश्चिद् बणिक् अतीतेषु दिनेषु इहागात्। तेन चाटव्यां स्वसृसहितः कश्चित् ब्राह्मणदारकः प्राप्तः, आगतञ्च तौ सुभव्यौ दृष्ट्वा चादाय इह नारिकीलमहाद्वीपे तेन तु तयोर्नामनी नोक्ते। एतदाकर्ण्य तावेवमामकाविति चिन्तयन् स चन्द्रस्वामी तं द्वीपवरं गन्तुं

मनिमकरोत्। अथ कथञ्चित् रात्रिमतिवाह्य नारिकील प्रयास्यता केनचित् विष्णुवर्म्मणा नाम बणिजा सह सङ्गतिमकार्षीत्। तेन च सहायेन यानपात्रं समारुह्य स चन्द्रस्वामी सुतस्नेहात् तदेव द्वीपमगात्। तत्र गत्वा पृच्छन्तंतं सर्वे बणिजः समब्रुवन् कनकवर्म्माख्यो बणिक् अत्रागत आसीत्। अधुना तु सुरूपौ अरण्यप्राप्तौ दौ द्विजदारकौ गृहीत्वा कटाहद्वीपमगमत्। तदाकर्ण्य स विप्रः दानवर्म्माख्येन गच्छता बणिजा सह कटाहद्वीपमभ्यगात्। तत्रापि स विप्रः तं बणिजं कनकर्म्माणं ततः द्वीपात् कर्पूरद्वीपं गतमश्रौषीत्। एवं क्रमेण बणिग्भिः सह तत्तत् कर्पूरसुवर्णसिंहलादिकं द्वीपं गत्वापि तं बणिजं न प्राप। ततश्च सिंहलद्वीपे शुश्राव तं बणिजं निजं देशं चित्रकूटाभिधं गतम्। अथ कोटीश्वराख्ये न केनचिद् बणिजा समं चन्द्रस्वामी तत्पोतेन समुत्तीर्णवारिधिः चित्रकूटमगच्छत्। प्रापञ्च तं बणिजं कनकवर्म्माणं तत्र। आख्यञ्च तस्मै स्वोदन्तं पुत्रसमुत्सुकः। ततः कनकवर्म्माज्ञातार्त्तिस्तस्य दारकौ दर्शयामास उवाच एतौ मया अरण्यतः समानीतौ इति। चन्द्रस्वामी यावत् तौ वीक्षते, तावत् तौ तदीयौ न, अन्यौ कौचन इति बुद्धावाष्पशोकार्त्तोनिराशश्च बिललाप हा इयद् भ्रान्त्वापि मयानासादितौ दारकौ, धात्रा कुप्रभुणेवाशा मे दर्शिता, न च पूरिता, मिथ्यैव दूराद्दूरं भ्रामितोऽस्मि। इत्येवं बहु विलपन् चन्द्रस्वामी तेन कनकवर्म्मणा समाश्वासितः शुचाब्रवीत् यद्यहं भुवं भ्रमन् आत्मजौ न प्राप्स्यामि ततस्त्यक्ष्यामि शरीरं

सागराम्भसि। इत्युक्तवन्तं तं कोऽपि ज्ञानी समभ्यधात् ब्रह्मन्। नारायण्याः प्रसादात् आत्मजौ प्राप्त्यस्येव, व्रज। तदाकर्ण्य सम्प्रहृष्टःभास्करानुग्रहं स्मरन् बणिग्भः पूजितस्तस्मात् पुरात् प्रायात्। ततः क्रमेण अग्रहारान् ग्रामान् नगराणि च चिन्वन् प्रांशुमहाद्रुमं महारण्यमाससाद। तत्र रात्रिंक्षपयितुं फलाम्बुभिर्वृत्तिंविधाय सिंहव्याघ्रादिशङ्कया तरुमेकं महान्तमारुह्य तस्थौ।

निशीथे समनुप्राप्ते अनिद्रः स तरोरधस्तात् महानारायणं मुख्यं मातृचक्रं भैरवप्रतीक्षया समागतमपश्यत्। ताश्च मातरः चिरयति कथमद्य देव इति नारायणीमपृच्छन्। सा तु जहास न किमपि प्रत्यब्रवीत्। अथ निर्बन्धपृष्टा ताभिः सा प्रत्यवादीत् सख्यः। यद्यपि लज्जावहमेतत् तथापि युष्माकमाग्रहात् वच्मि।

अस्ति सुरपुराख्ये पुरे शूरसेनो नाम राजा। तस्य विद्याधरी नाम ख्यातरूपाआत्मजा वर्त्तते। तेन च राजा प्रदेयायाः कन्यायाश्चास्या रूपसमः विमलाख्यस्य नृपतेस्तनयः प्रभाकरः श्रुतः। अथ तस्मिन् राज्ञि तां कन्यां तम्मे दित्सति तेनापि विमलेन स्वपुत्रानुरूपा सा श्रुता। ततश्च स विमलः दूतमुखैः त शूरसेनं तत्पुत्रींविद्याधरीं स्वपुत्रार्थे अयाचत। शूरसेनश्च तत्सुताय प्रभाकराय यथाविधि तांकन्यामदात्। ततः सा विद्याधरी विमल पुराख्यं श्वशुरंपुरमवाप्य भर्त्त्रासमं निशिशयनीयमगात्। तत्र सा यावत् सुप्तं पतिं प्रभाकरं निरीक्षते तावत् तं नपुंसकमपश्यत्। दृष्ट्वैवहा हतास्मि, कथं मया षण्डःपति-

र्लब्ध इति शोचन्ती कथञ्चित् तां रात्रिमनयत् प्राहिणोश्चप्रातः पित्रे लेखम् अपुंसकायहंत्वया अनन्विष्य कथं दत्तेति। स तु शूरसेनः तं लेखं वाचयित्वा विमलेनास्मि वाञ्चितश्छद्मनेतिक्रुद्धः विमलं प्रति यदहं त्वया नपुंसकाय स्वसुताय व्याजात् सुतां दापितः, तत्फलं भुङ्क्ष्व, पश्य, त्वामचिरात् निहन्मि इति लेखेन सन्दिदेश। विमलोऽषितं लेखमधिगम्य मन्त्रिभिः विमृष्य दुर्जये तस्मिन् शूरसेने कञ्चिदपि नोपायमैचत। ततस्तं विमलं लिङ्गदत्ताख्यो मन्त्री समभ्यधात् देव! अस्त्येक एव उपायः तमवलम्बतां देवःश्रेयसे। अस्ति स्थूलशिरा नाम यक्षः। तस्याहं मन्त्रं वेद्मि, येन आराधितोऽसौ इष्टवरं ददाति। तेन च मन्त्रेण साम्प्रतं यक्षमाराध्य पुत्रार्थं लिङ्गं याचस्व, सद्यश्चविग्रहः शाम्यतु। इत्युक्तो मन्त्रिणा असौ विमलस्तंमन्त्रमादाय सुतार्थं लिङ्गप्राप्तये तं यक्ष माराध्य प्रयाचत। यक्षेण च तदाराधितप्रसन्नेन दत्तस्वलिङ्गस्तत्सुतः प्रभाकरः सद्य एव पुमानभूत्, यक्षस्तु नपुंसक एव तस्थौ। अथ सा विद्याधरी तं प्रभाकरं सद्यः पुमांसं दृष्ट्वा तेन पत्या अवाप्तरतसौख्या व्यचिन्तयत् कथमहं भ्रान्ता, न मे भर्त्ता नपुंसकः, पुमानेवैष सुभगः, तदस्य मया वृथा विमानना कृता, इत्यालोच्य तमेवार्थं पुनर्लिखित्वा लज्जिता पित्रे लेखं प्राहिणोत् स च तेन शममभजत। एवं वृत्तान्तंज्ञात्वा अद्य कुपितेन भैरवेण देवेन स स्थूलशिरा यक्षःआनाय्य शप्तः यतस्त्वया लिङ्गत्यागेन षण्डत्वमाश्रितं ततःत्वमाजीवं षण्डएवं भव, सोऽस्तु प्रभाकरः पुमान्। एवं

स गुह्यकःनपुंसकीभूतः अद्य दुःखभाक् प्रभाकरश्च पुरुषीभूतः सुखाय भागी समजायत। तदेतेन व्यापारेण देवस्व भैरवस्य आगमने मनाक् विलम्बः सञ्जातः, शीघ्रमेव आगतं तं विजानीत। एवं यावत् नारायणीदेवी मधुरताः प्रब्रवीति तावदेव चक्रेश्वरः स देवो भैरवः तत्र समाययौ। स ताभिर्मातृभिः समुपचारेःसम्पूजितः क्षणं ताण्डवेन नृत्यन् ताभिर्योगिनीभिरक्रीड़त। तच्च सर्वं तरुपृष्ठस्थितश्चन्द्रस्वामी व्यलोकयत् नारायण्याश्चैकां दासीम्। सा च दासी तमैक्षत। दैवाच्च तौ तदा अन्योन्यं साभिलाषौ समभूताम्। नारायणी च देवो तौ तथाविधौ विवेद। अथ गते तस्मिन् देवे भैरवे मातृसहिते सा नारायणीविलम्ब्यपादपस्थं तं चन्द्रम्वामिनमाह्वयत्। ततः मा अवरुह्य समुपस्थित तं ताञ्च दासींपप्रच्छ कश्चिदन्योन्यमभिलाषोऽस्ति वामिति। अहन्तु एतां दासींते ददामि, युवां निर्वृतौ भवतम्। तदाकर्ण्य मोऽब्रवीत् देवि। यद्यपि चञ्चलं मनो मां रुणद्धि, तथापि परकीयां न स्पृशामि ममेषा प्रकृतिः, तदेतत् कायिकं पापं नाचरणीयमित्युचिवांसं तं धीरंविप्रं देवी नारायणी जगाद वत्स। प्रोतास्मि ने वचसा, भैरवश्चाय सुप्रीतः, शीघ्रं पुत्रादीनाप्स्यसि, इदञ्च अम्लानमुत्पलं मया दत्तं गृहाण इत्युक्त्वासदासी सा तिरोदधे। स च चन्द्रस्वामी प्राप्तोत्पलः तस्यां रात्र्यांव्यतीतायां ततः प्रस्थितः भ्रमन् क्रमेण तारापुरं नगरं प्राप यत्रास्य पुत्रो महीपालः सुता च चन्द्रावती व्यतिष्ठत। तत्र गत्वा स विप्रः तमनन्तस्वामिनं विप्रं मन्त्रिणम्अतिथिप्रियं श्रुत्वा

भोजनार्थं तस्यैव गृहद्वारिउपस्थाय आत्मानमतिथिं न्यवेदयत्। सच मन्त्री प्रतीहारैरावेदितान्तः प्रवेशितं विद्यां सं ते दृष्ट्वैव भोजनाय न्यमन्त्रयत। अथ निमन्त्रितश्चन्द्रस्वामी तत्र पापहरम् अनन्तदाख्यं सरः श्रुत्वा स्रातुंतत्र समभ्यगात्। यावच्च स स्नात्वा तस्मादागच्छति तावत् तत्र नगरे हा कष्टशब्दमशृणीत्। तत्कारणञ्च पृच्छन्तं तं तत्रस्थो जनोऽवदत् इह महीपालो नाम कश्चिद् ब्राह्मण पुत्रः स्थितः। स खलु सार्थवरेण सार्थवाहेन अटव्याः प्रप्तः। स चसुलक्षण इति कृत्वा मन्त्रिणा अनन्तस्वामिना अपुत्रेण तं सार्थवाहं याचित्वा सभगिनीकः इहानीतः, पुत्रीकृतश्च परं प्रियत्वमगाच्च तारावर्म्माख्यनृपतेः। स चाद्यकालसर्पेण दष्ट इति पुरे महान् हाहारवः श्रूयते। तदाकर्ण्य स एव मे पुत्र इति चिन्तयन् त्वरितं मन्त्रिगृहमाययौ, ददर्श च तत्र सर्वैः परिजनैर्वृतं तथाभूतं सुतं सुताञ्च। दृष्ट्वैवस हस्तस्थ देवीदत्तागदोत्पलभृशमनन्दत्, अठौकयच्च तत् नीलोत्पल महीपालस्य नासाथाम्। तेन तस्य गन्धेन स महीपालसहसा सुप्तोत्थित इव निर्विषः समुदतिष्ठत्। सर्वश्चसराजकः जनः पुरे तस्मिन् महोत्सवमकरोत्। तदानींचन्द्रस्वामी न मनुष्यः, कोऽपि देवांश इति अनन्तस्वामिना मन्त्रिणा पौरैः राज्ञा चबहुभिर्धनैरपूज्यत। स च तत्र मन्त्रिसद्मनि सुसत्कृतः सुतं सुताञ्च पश्यन् सुखमतिष्ठत्। त्रयश्चते पुत्रदुहितृपितरः परस्परं परिज्ञायैव तूष्णींतस्थुः, न हि कार्यार्थिनो नराः अकाले अभिव्यक्तिं कुर्वन्ति।

अत्रतारावर्म्मा नृपतिः गुणाकृष्टचेताः तस्मैमहीपालाय बन्धुमतीं नाम सुतां राज्यार्द्धेन समं प्रादात्, व्यधात्र अनन्यपुत्रतया तस्मिन्नेव सुखी राज्यधुरां कृत्साम्। स महीपालः सम्प्राप्तराज्यः तं चन्द्रस्वामिनं पितरं प्रख्याप्य स्वामनुजाञ्च सदृशाय गुणशीलसम्पन्नाय दत्त्वा यथासुखमस्थात्।

एकदा पिता चन्द्रस्वामी तं स्वैरमभाषत पुत्र ! एहि ते मातुरानयनार्थं स्वदेशं गच्छावः। सा हि राज्यस्थंत्वां विज्ञाय कथं विस्मृतास्मि चिरदुःखिनीति आत्मानमवमतं मन्यमाना क्रोधेन जातु त्वां शपेत्। मातापित्रोर्मनः पीड़ासु दत्तासु न जन्तुःसुखमश्नुते कदाचित्। तदत्र पुरातनींबणिक्पुत्रकथां शृणु।

पुरासीत् धवलाख्ये पुरे चक्रो नाम बणिक्पुत्रः। सकदाचित् पित्रोरनिच्छतोः बाणिज्यार्थं स्वर्णदीपमगात्। क्रमेण पञ्चभिरब्दैरुपार्जितमहाधनः रत्नपूरितं यानमास्थाय समुद्रपथमाश्रयत्। क्रमेण अल्पावशेषगन्तव्ये वारिधौ महसा महावातवर्षवेगाकुलः अम्बुदः उन्नदन् उदतिष्ठत्। पितराववमत्य किमेषनिर्गतः इतीव क्रोधात् तस्य वहनं निर्बभञ्जुर्महान्तस्तरङ्गाः। तत्रस्थाःकेऽपि तोयैर्हताः, अपरेमकरैर्भक्षिताः, चक्रस्तुबणिक्सुतः स्वायुषो बलात् तीरं प्रति वीचिभिर्निक्षिप्तः। तत्रस्थश्चावशः स स्वप्न इव रौद्रासिताकृतिं पाशहस्तं पुरुषमेकं ददर्श। तेन पुरुषेण ममुत्क्षिप्य पाशवेष्टितः स चक्रःदूरं सिंहासनस्थेन केनचित् पुंसास्थितां सभां नीतः। ततश्च तस्य सिंहासन-

स्वस्वाज्ञया तेन पाशभृता पुरुषेण स बणिक्तनयः लौहमये गेहे न्यवेश्यत। तत्र स चक्रःकमपि पुरुषं मूर्ध्नि तप्तेन लौहेन अनिशं भ्रमता चक्रेण अन्तःपीड्यमानमपश्यत्, अपृच्छच्च कस्त्वं, केन च दुष्कृतेन तवेदृशी गतिरिति। स प्रत्यवदत् अहं खड्गोनाम बणिक्। पित्रोर्वचः मया न कृतं, तेन च क्रुद्धौ तौ मानशपतां यदावां सन्तप्तलौहचक्रवत् दुर्वचमा दुनोषि तदीदृश्ये व ते यातना भविष्यतीति। इत्युक्त्वाविरतौ तौ रुदन्तं मामवोचतां मा रोदीर्वत्स ! एकमेव मासं ते ईदृशी पीड़ा भवितेति। तदाकर्ण्य अहं विमनाः शचा तद्दिनं शयनमाश्रितः निशि स्वप्न इव समागतं भीमं पुरुषमेकमद्राक्षम्। तेन च पुरुषेण बलादस्मिन् लौहमये अहं निक्षिप्तः, न्यस्तञ्च मे मूर्ध्नि ज्वलचक्रमिदम्। इत्येवं यातनयापि पितृशापात् मे प्राणा न यान्ति, स च मासोऽद्य सम्पूर्णः, न चाहं मुच्ये अस्या आपद इति।

एवं वादिनं खड्गंस चक्रः सकृपोऽब्रवीत् भद्र ! मयापि अर्थलालसया प्रवसता पित्रोर्वचःन कृतम्। तौ च प्राप्तंते वित्तंनङ्गप्रतीति मां शपतः स्म। तेन समग्रं दीपान्तरार्जितं मे वित्तं सागराम्भसि निमग्नं, तदलंमे जीवितेन, देहि मे शिरसि चक्रमेतत्, व्यपैतु ते शाप इति ब्रुवतिचक्रे सहसा दिव्या वाणी अश्रूयत। खङ्ग ! मुक्तोऽसि त्वं शापात् चक्रस्यास्य मूर्ध्नि चक्रमेतदर्पय इति। तदाकर्ण्य केनापि अदृश्येन भूतेन चक्रशिरसि न्यस्तचक्रः स खङ्गः पितृगृहमेवानीयत। आसोच्च तत्र पुनरनुल्लङ्घितपितृशासनः। चक्रस्तु शिरसि तत् चक्रमादाय एवमभ्यधात्।

पाप्रिनोऽन्येऽपि तत्तत्पातकेभ्यो मुच्यन्ताम्, एतत्तुचक्रम् अपापक्षयं मे मूर्ध्नि भ्राम्यतु। इत्युक्तवन्तं तं धीरसत्वंनभः स्थिता देवाः पुष्पवृष्टिमुचः परितुष्य एवमब्रुवन् साधु महामत्व ! साधु, अनया करुण्या ते पापं शान्तं व्रज, वित्तञ्च ते अक्षयं भविष्यतीति। एवमभिहितवत्सु देवेषु चक्रंतत्क्षणात् चक्रस्य शिरसः क्वाप्यदर्शनं जगाम। एकश्च विद्याधरकुमारः सहसोपेत्य तुष्टेन इन्द्रेण प्रेषितंमहार्घं रत्ननिचयं दत्त्वा तं चक्रम् अङ्के कृत्वा धवलाभिधं तन्नगरं प्रापयामास। सोऽपि चक्रः पित्रोरन्तिकमेत्य बन्धूनानन्दयन् स्ववृत्तान्तंयथावदाख्यत्। चन्द्रस्वामी पुत्रं महीपालमेवमाख्याय पुनरवदत् पुत्र ! विना मातापितरौ धनं पापफलं तद्भक्तिस्तु कामधेनुस्तत्राप्येतां कथ शृणु।

आसीत्, पुरा कोऽपि महातपाः वनवासी मुनिः। कदाचित् तरुच्छायोपविष्टस्य तस्योपरि वलाकैका पुरीषमुत्ससर्ज। स च क्रुद्धस्तां ददर्श। दृष्टमात्रैव सा वलाका भस्मसादभूत्। ततश्च स मुनिः तपःप्रभावादहङ्कारमापद्यत। एकदासौ मुनिः क्वापिनगरे एकं ब्राह्मणगृहमेत्य तद्गृहिणीं भैक्षमयाचत। सा तु गृहिणी पतिव्रता प्रतीक्षस्वक्षणं यावद् भर्त्तुः परिचर्य्यां समापये इति तं निजगाद। ततश्चतं कोपदृष्ट्या वीक्षमाणं निरीक्ष्यसा विहस्य अभ्यभाषत मुने ! नाहं वलाकेति। तदाकर्ण्य मुनिरद्भुतम्मन्यमानः समुपविश्य एतत् कथमिव ज्ञातमनया इति चिन्तयन् तत्र तस्थौ। ततश्चसा साध्वी प्रादौ अग्नि-

कार्य्यंततः भर्त्तुःशुश्रूषां कृत्वा भैक्षमादाय मुनेरन्तिकमाजगाम। स च मुनिर्बद्धाञ्जलिस्तामवदत् कथं त्वया अनन्यगोचरो वलाकावृत्तान्तो ज्ञात इत्यतो ब्रूहि, ततो भिक्षां ग्रहीष्ये इत्युक्तवन्तं तं मुनिं सोवाच मुने! न भर्त्तृसेवाया अपरं कञ्चन धर्मं करोम्यहं, तेन तत्प्रसादेन मे एतादृशं विज्ञानम्। किञ्चेतः धर्म्मव्याधाख्यं कञ्चन मांसविक्रयिणं गत्वा एतत् पृच्छ, ततस्ते श्रेयः, निरहङ्कारश्चभविष्यसीति एवं सर्वविदा पतिव्रतयाभिहितः गृहीतातिथिसत्कारस्तां प्रणम्य स मुनिस्तस्माद्गृहात् निरगात्।

अन्येद्युः स मुनिः समन्विष्य तं धर्म्मव्याधं विपणिस्थंमांसानि विक्रीणन्तमुपागच्छत्। धर्म्मव्याधश्चदृष्ट्वैव तं मुनिमभाषत ब्रह्मन्! किं पतिव्रतया तयाइह त्वं प्रेषितः? तदाकर्ण्य स मुनिर्विस्मितस्तं धर्म्मव्याधमवादीत् भद्र! मांसविक्रयिणस्ते कथमीदृशं विज्ञानम्? इत्यभिहितवन्तं तं मुनिं धर्म्मब्याधोनिजगाद ब्रह्मन्! अहं मातापित्रोर्भक्तः, तौ हि मम परायणं, तयोः स्वपितयोः स्नाभि, भोजितयोःभुञ्जे, शायितयोश्च शये, तेन मे एतादृशं विज्ञानम्। अन्यहतानाञ्च मृगादीनां मांसानि स्वधर्म्मइति वृत्त्यर्थं न तु अर्थलालस्येन विक्रीणे, हे मुने! ज्ञानविघ्नमहङ्कारम् अहं सा च पतिव्रता नैव कुर्वः, तेनैक हेतुना आवयोरीदृशंनिर्बाधं ज्ञानं तस्मात्त्वमपि अहङ्कारं मुक्त्वा स्वधर्म्मंचर, येनाशुपरं श्रेयोऽवाप्स्यसीति। इत्येवमनुशिष्टस्तेन धर्म्मब्याधेन स मुनिस्तद्गृहान् गत्वा तस्य धर्म्म-

ब्याधस्य सर्वांक्रियामवलोक्य परितुष्टः वनमगात्, प्रवापच्चतदुपदेशात् सिद्धिम्। तावपि पतिव्रताधर्म्मब्याधो सद्धर्म्मचर्य्ययापरमां सिद्धिं गतौ। पतिव्रतानां पितृपराणाञ्चएवं प्रभावः, तदेहि वत्स! दर्शनोत्सुकां मातरं सम्भावय। एवं पित्राभिहितः स महीपालः मातृदर्शनोत्सुकः स्वदेशाय गन्तुं प्रत्यपद्यत। ततश्च धर्म्मपित्रे अनन्तस्वामिने सत् सर्वं निवेद्य तस्मिन् निक्षिप्तराज्यभारःपित्रा सह निशि प्रायात्। क्रमात् स्वदेशं दर्शनोत्सुकां जननीञ्च देवमति प्राप्य मधुरिव कोकिलां समानन्दयत्। तत्र च बान्धवसत्कृतः कञ्चित् कालं मात्रा वृत्तान्ताख्यायिना च पित्रा सह तस्थौ।

तावच्च तत्र तारापुरे सा राजकन्या महीपालप्रिया बन्धुमती निशायामवसन्नायां सुप्ता व्यबुध्यत। दृष्ट्वा च पति क्वापि गत विरहातुरा क्वापि प्रासादादिषु गतिंनालभत, बलपच्चदिगुणीकृतहारेण बाष्पेण रुदती मृत्युना सुखमभिकाङ्क्षन्ती सकरुणम्। अथ मन्त्री अनन्तस्वामी तां प्रबोध्य समाश्वासयत् पुत्रि। स ते प्रियः, यामि कार्य्यार्थं, शीघ्रमेष्यामि इति स्वैरमुक्त्वैव गतः, तन्मा शोकं कृथा इति। एवमुक्त्वासा कथमपि घृतिमलभत। ततः सा भर्त्तुःप्रवृत्तिविज्ञानाय देशान्तरागतान् द्विजपुङ्गवान् दानैः सदा समपूजयत्।

एकदा सा दूरागतं सङ्गमदत्ताभिधंकञ्चिद् द्विजम् अभिज्ञाननामनी उक्त्वाभर्त्तुर्वार्त्तां पप्रच्छ। ततः स द्विजः प्रोवाच नैवंविधो मया दृष्टः कश्चित्, तथाप्यत्र नैव

त्वया अधृत्या भवितव्यं, चिरादभीष्टसंयोगः शुभेन कर्म्मणा सम्पत्स्यते, यच्च मया आश्चर्य्यंदृष्टं तदाकर्णय तव कथयामि। अहं तीर्थानि परिभ्रमन् एकदा हिमाद्रौमानसं सरः अध्यगच्छम्, अपश्यञ्च तत्रादर्श इव मणिमयं गृहम्। ततश्च अकस्मात् खङ्गपाणिरेकः पुमान् दिव्याङ्गनापरिवृतः तत् सरस्तीरमध्यारोहत्। तत्रोद्याने स ताभिः सुरसुन्दरीभिः मधु पिबन् अक्रीडत्। अहञ्च दूरात् सकौतुकं पश्यन् अलक्षित एव तत्रातिष्ठम्। तावच्च कुतोऽपि तत्र कश्चित् सुभगः पुरुषः समागात्। मया च मिलिताय तस्मै तत् सर्वं यथादृष्टमाख्यातम्। दर्शितश्च सह दिव्याङ्गनाभिः सहपुमान् तस्मै। तद्दृष्ट्वैवस स्ववृत्तान्तंमां समाचख्यौ।

अहमासं त्रिभुवनाख्ये पुरे त्रिभुवनाधिपः राजा। तत्र मे कश्चित पाशुपतः सुचिरं सेवां व्यधात्। स तु स्वैरं कारणंपरिपृष्टः मामभ्यधात् राजन्! विलखनप्रसाधने मे सहायकं कुरु, मया च तत् प्रतिपन्नम्। ततो मया सहासौपाशुपतः निशि अरण्यं गत्वा विवरं प्रकटीकृत्य मामब्रवीत् वीर! प्रविशात्र त्वं पूर्वं ततश्च खङ्गंप्राप्य निर्गत्य च मामपि प्रवेशयेः इत्यत्र समयः क्रियताम्। इत्येवमुक्तस्तेन अहं तेन सह समयं कृत्वा विवरं प्रविश्य एकं दिव्यं रत्नमयं गृहं व्यलोक्यम्। ततः सहसा निर्गत्य कापि सुराङ्गना प्रधाना प्रेम्णा मामन्तःपुरं प्रावेशयत्, प्रादाच्च खङ्गम्। सर्वसिद्धिप्रद एष खङ्गः खगतिदायी च, रक्षैनं यत्नत इति वादिन्या च तया सह तत्र सुखमवसम्।

गच्छति च काले खड्गहस्तोऽहं स्मृत्वा निर्गत्य तेन विवरेण तं पाशुपतं तस्मिन्नसुरपुरे प्रावेशयम्। अहं तथा प्रथमोद्दिष्टया सपरिजनया कन्यया सह स च पाशुपतः द्वितीयया सपरिजनया कन्यया सह सुखेन तत्र न्यवसावः। एकदा पानमत्तस्य मम हस्तात् स पाशुपतश्छलात् खड्गंहृत्वा निजहस्तगमकरोत्। तस्मिन् हस्तस्थिते खङ्गेसप्राप्तमहासिद्धिः क्षणात् मामादाय तस्माद्विवरात् निष्कास्य बहिःप्राक्षिपत्। ततो द्वादश वर्षाणि तस्मिन् विलमुखे कदाचित् स निर्गच्छेदिति स्थितं मया, अद्य तु सोऽयं शठः मदृष्टिपथे मदीययैवासुरकन्यया क्रीड़न् निपतितः। हे देवि! यावत् स त्रिभुवनाभिधः राजा इत्येवं मां वक्ति तावत् स पाशुपतः पानमदात् निद्रामवाप। स च राजा सहसा सुप्तस्यं तस्य हस्तात् खङ्गंतमग्रहीत् प्रापच्चदिव्यं प्रभावम्। ततस्तं पाशुपतं पादप्रहारेण प्रबोध्य निरभर्त्सयत्, केवलं नाबधीत्, प्राविशच्चसपरिच्छदया तवासुरकन्यया सिद्ध्येव मूर्त्तिमत्या सह तत् असुरसदनम्। स च पाशुपतः सिद्धिभ्रष्टः परं कष्टमापद्यत। एवं कृतघ्नाश्चिरसिद्धार्था अपि ध्रुवं विनश्यन्ति हि। एतत् साक्षादवलोक्य स्वयमिहागतः, तद् देवि! अवश्यमेव ते त्रिभुवनस्येव प्रियसङ्गमो भविता न हि शुभकृदवसीदति इति श्रुत्वा द्विजमुखात् सा बन्धुमती परं परितोषं ययौ चकार तं विप्रं बहुधनं दत्त्वा कृतार्थम्।

अपरेद्युश्च अपूर्वःकश्चिद् द्विजः अतिदूरतस्तत्रागात्। तञ्चबन्धुमती कथितनामाभिज्ञाना भर्त्रुःवार्त्तांपर्य्यपृ-

च्छत्। सोऽप्यवादीत् देवि! न मया स तव भर्त्ता दृष्टः क्वापि, किन्त्वहम् अन्वर्थः सुमना नाम अद्य ते गृहमागतः, तदाशु ते सौमनस्यं मे मनः कथयति, ईदृशे सौमनस्ये चिरविश्लेषिणामपि संयोगो भवत्येव,तदत्र कथामेतां कथयामि श्रूयताम्।

पुरासीत् नलो नाम निषधाधिपतिर्नृपतिः। यस्य रूपेणेव विजितःकामो अवमत्यात्मानं कोपितस्य त्रिपुरारेर्नेत्राग्नौतनुमजहात्। तेनाकृतदारेण विचिन्वता दमयन्तीति भीमस्य विदर्भाधिपतेः सुता सुसदृशीअश्रावि। भीमेनापि धरां विचिन्वता सर्वेषु राजसु नलादपरो राजा स्वदुहितुः सदृशः न ददृशे। अत्रान्तरे दमयन्ती जलक्रीडार्थं सरोवरमेकमवातरत्। तत्र कमपिराजहंसं दष्टाम्बुजं दृष्ट्वा क्रीड़ार्थं क्षिप्तोत्तरीया बबन्ध। स बद्धस्तांदिव्यहंसः दिव्यया गिरा समब्रवीत् राजपुत्रि! ते महान्तमुपकारं करिष्यामि, विमुञ्च माम्, अस्ति नैषधेषु नलो नाम राजा, यं हि सद्गुणैर्गुम्फिताहारमिव हृदि दिव्याङ्गनाः सततं वहन्ति। तस्य त्वं सदृशी भार्य्या, स च तव सदृशः पतिः, तदत्रयोग्यसंयोगे अहं युवयोः कामदूतो भवामि। तदाकर्ण्य सा दिव्यहंसं तं सत्यवादिनं मत्वा एवमस्तु इति वादिनी तममुञ्चत्। अगदच्चन मया अन्यः नलात् वरणीय इति।

ततश्च हंसोऽसौ निषधेषु आशु गत्वा जलक्रीडाप्रवृत्तेहं नलेन सङ्गतं सरः समाश्रयत्। नलोऽपि तमपूर्वं राजहंस दृष्ट्वाकौतुकाक्षिप्तचेताः स्वोत्तरीयेण तं बबन्ध। अथ

बद्धोऽसौराजहंसः मनुष्यगिरा समवादीत् राजन्! मुञ्चमां त्वदुपकारार्थमागतं शृणु यदहं कथयामि।

अस्ति विदर्भेषु भीमस्य राज्ञः सुता क्षितितलतिलोत्तमादेवैरपि स्पृहणीया दमयन्ती नाम। त्वद्गुणाकृष्टचेतसा तया त्वमेव भर्त्ता वृतस्तदहं वक्तुमितस्त्वामुपागतः। इत्येवं राजहंसस्य सफलोज्ज्वलैर्वचोभिः पुष्पधन्वनो विशिखैश्चसममसौ नलोऽबिध्यत। अब्रवीच्च हंसराज! धन्योऽस्मि योऽहं मूर्त्तयेव मनोरथसम्पत्त्या तया वृत इत्युक्त्वातेन राज्ञा मुक्तोऽसौ हंसःगत्वा दमदन्त्यै यथावृत्तं यथाक्रमं शशंस, जगाम च स्वस्थानम्। दमयन्ती च सोत्कण्ठा युक्त्या मातृमुखेन निजं पितरं नलप्राप्त्यैस्वयंवरमयाचत। राजा च विदर्भपतिस्तस्याः स्वयंवरमनुमत्य पृथिव्यां सर्वान् पार्थिवान् प्रति दूतान् व्यसर्जयत्। दूतमुखात् विदितवार्त्ताश्च भूमिपाः विदर्भान् प्रति व्रजन्ति स्म। नलोऽपि समुतसुको रथारूढश्चचाल। तावच्चइन्द्रादयो लोकपाला नारदान्मुनेः दमयन्त्यास्तस्या नलप्रेम स्वयंवरौ शृण्वन्ति स्म। तेषु च इन्द्रवायुयमाग्निवरुणाः सम्मन्त्रा समुत्सुकाः गच्छतस्तस्य नलस्यैवान्तिकमुपजग्मुः। ऊचुश्च तं विनीतं विदर्भान् प्रति प्रस्थितं नलमेत्य। राजन्! इतो गत्वा अस्मद्वचनात् दमयन्तीमिदं वचः ब्रूहि, पञ्चानामस्माकमेकतमं वरय, मर्त्त्येननलेन ते किम्? मर्त्त्याःमरणशीलाः, देवास्तु अमराः। नृपते! त्वञ्च अस्मद्वरात् अन्यैरलक्षितस्तत्पार्श्वं प्रवेक्ष्यसीति। नलोऽपि तथेति देवाज्ञांशिरसि गृहीत्वा गत्वा चान्तःपुरं तस्या अलक्षित एव

राजपुरुषैः शशंस सर्वं देवनिदेशं दमयन्त्यै। सा तु श्रुत्वैतत् साध्वी प्राब्रवीत् देवास्ते सन्तु तादृशाः, मम तु नल एव भर्त्ता, न प्रयोजनं मेदेवैरिति तस्यां वचः श्रुत्वा नलः आत्मानं प्रकाश्य गत्वां च यथावृत्तंदेवेभ्यः समाचचक्षे। देवाश्च वश्या वयं ते स्मृतमात्रोपगामिनो भविष्याम इति तुष्टा वरं तस्मै नलाय प्रद्दुः। अथ हृष्टे नले विदर्भान् प्रति प्रवातेतैश्चसुरेश्वरैर्दमयन्त्या वचनशुश्रूषुभिर्विदर्भान् गत्वा नलरूपमंकारि। ततश्च भीमसभां गत्वा स्वयंवरे प्रवृत्तेमर्त्त्यधर्म्मानुपाश्रिता नलान्तिकमेवोपाविशन्।

अथ दमयन्ती स्वयंवरा स्वयंवरमेत्य स्वेनभ्रात्रा समावेद्यमानान् एकैकशो नृपान् उज्मती क्रमात् नलान्तिकमापत्। दृष्ट्वाच तत्र छायानिमेषादिगुणान् षट् नलान् उपविष्टान् समुद्भ्रान्ता व्याकुला च समचिन्तयत् नूनंतैर्लोकपालैः पञ्चभिर्मायैषा परिकल्पिता, षष्ठञ्चैषां नलं मन्ये, न चात्र मेऽस्ति गतिः। इत्यालोच्यैव साध्वी सा नलैकासक्तमानसा आदित्याभिमुखी एवमब्रवीत् हे लोकपालाः! यदि मे मनः स्वप्नेऽपि नलादन्यत्र न चलितं तत्तेनसत्येन यूयं मे स्वं स्वंरूपं दर्शयत, कन्यायाःपूर्ववृतात् वरात् अन्ये परपुरुषाः, सा च कन्या तेषां परदाराः, तत् कथमेष मोहो युष्माकम्? एतदाकर्ण्य ते शक्रादयः पञ्चस्वेन स्वेन रूपेण तदा व्यराजन्, षष्ठस्तु सत्यनल एवाभवत्। अथ सा दमयन्ती तस्मिन् फुल्लेन्दीवरसम्मितां दृशं वरणमालाञ्च संप्रहृष्टा समर्पयत्! पुष्पवृष्टिश्च तदानीं नभसः समुत्पपात। ततो राजा भीमः तस्य नलस्य

तस्याश्चदमयन्त्या विवाहमङ्गलं व्यधात्। तेन च नृपेणविदर्भपतिना यथायथं कृतसत्क्रिया अपरे नृपा देवाश्चमहेन्द्रादयः यथागतं प्रतिजग्मुः। गच्छन्तश्च शक्रादयः द्वावागच्छन्तौपथि दमयन्त्यर्थं कलिद्वापरौददृशुः। ऊचुश्च न गन्तव्यंविदर्भेषु युवाभ्यां तत एवागता वयं, वृत्तश्वासौ स्वयंवरः, नृपतिर्नल एव तया दमयन्त्या वृत इति। तावूचतुः पापौ क्रोधपरीतौ, देवान् भवादृशान् हित्वा यत् स मर्त्त्यस्तयावृतः, तदवश्यमावां तयोर्वियोगं करिष्यावः। एवं कृतप्रतिज्ञौ तौ निवृत्य स्वस्थानं ययतुः। नलश्च सप्त दिवसान् श्वशुरसद्मनि स्थित्वा दमयन्त्या समं कृतार्थो निषधान् देशान् प्रत्यगमत्। तत्र तु दम्पत्योस्तयोर्यथा प्रेम समभवत् तथा गौरीशङ्करयोरपि न, गौरी शङ्गरस्य देहार्द्धं, सा तु दमयन्ती तस्य नलस्य आत्मैवाभूत्।

कालेन सा दमयन्ती नलात् इन्द्रसेनं नाम तनयम् इन्द्रसेनाञ्च नाम कन्यकां क्रमात् प्रासूत। तावच्चकलिरसौ अनुच्छास्त्रवर्त्तिनोऽपि नलस्य चिराय छिद्रं प्राप्य प्रतिज्ञातार्थनिश्चितः समभवत्। एकदासौ नलः पानमदेन मुषितस्मृतिरक्षालितचरणः सन्ध्यामनुपास्यैव सुष्वाप। दिवानिशं दत्तदृष्टिः कलिश्छिद्रमेतदवाप्य तस्य नलस्य शरीरान्तरमविशत्। देहप्रविष्टेन च तेन कलिना अपहृतज्ञानःअसौ नृपः धर्म्म्यमाचारमपहाय यथारुचि समाचचार।अक्षैरदीव्यत्, दासीभिररंस्त, असत्यमब्रवीत्, दिवास्वप्नमसेवत, रात्रिषु जजागार, अकारणं कोपं चकार, अन्यायेनार्थमाददे, सतामवमानमसताञ्च सम्मानं चकार

च।वापरश्च छिद्रं प्राप्य प्रविष्टान्तःशरीरः तस्य राज्ञःभ्रातरं पुष्कराक्षंसमुत्सृष्टसत्पथं ब्यधत्तं।

कदाचित् नृपतिर्नलःभ्रातुः पुष्कराक्षस्य गृहे दानाख्यंसुन्दरं धबलं वृषंव्यलोकयत्। लोभाच्च तं वृषं मृगयमाणाय तस्मै ज्यायसे नलाय असौ द्वापरग्रस्ततद्भक्तिः पुष्कराक्षः न प्रादात्। अवादीच्च यदि ते तस्मिन् वृषभे वाञ्छास्ति, तद् द्यूतेन मत्त एनं विजित्य गृहाण। तदाकर्ण्य सोऽपि नलस्तथैव प्रतिपेदे। प्रवृत्तं भ्रात्रोरुभयोः परस्परं द्यूतम्। पुष्कराक्षस्य धनं स एव वृषः, नलस्य तु इभादीनि बहूनि। पुष्कराक्षःपुनःपुनर्जिगाय, नलस्तु अजीयत एव। इत्थंद्विवेर्दिनैः समग्र बले कशे च दुरोदरहारिते वार्य्यमाणोऽपि नलः नेव चचाल व्यवसायात् कलिविप्लुतमतिः।

अथ क्रमेण समग्रं राज्यं हृतं विदित्वा दमयन्ती निजौतनयौ रथमारोप्य स्वपितुर्गृहं प्राहिणोत्। ततः सर्वं हारितमवलोक्य पुष्कराक्षःनलमब्रवीत् त्वया अन्यत् सर्वं हारितम्, इदानींमत्समक्षंदमयन्तीमानीय प्रतिपणं कुरु। इत्युक्तिवात्ययानल इवासौ नलः प्रजज्वाल, नचाकाले किञ्चित् प्रत्युवाच, नापि तां पणीचकार। ततः पुष्कराक्षःसमब्रवीत् न करोषि चेत् भार्य्यापणंतदस्मात् मम राज्यात् सभार्य्यःसत्वरं निर्याहि। तत् श्रुत्वैव नलः दमयन्त्या समं देशात्तस्मात् राजपुरुषैरासीमान्तप्रवासितःनिर्ययौ। हा कष्टं, नलस्यापि कलिना प्रतादृगवस्था कृता, किमन्येषां कृमीणामिव देहिनां

धिक् धिक् राजर्षीणामपि ईदृशं वैक्लव्यदं विपदामाश्रयं द्यूतम्।

अथ भ्रातृहृतैश्वर्य्योऽसौ नलः विदेशं व्रजन् दमयन्त्या सह क्षुधापरीतः वनात् वनान्तरं प्रापत्। तत्र तयाकुशक्षतसुकुमारचरणयासाकं कस्मिंश्चित् सरित्तीरे विश्रान्तश्चरन्तौ द्वौहंसौ समैक्षत। दृष्ट्वैवआहारार्थं तयोर्ग्रहणाय उत्तरीयकं चिक्षेप, तौ च हंसौ तत् हृत्वा प्रजग्मतुः। ततश्चविस्मितोऽसौ नलः हंसरूपेण तावेव कलिद्वापरौवासस्ते हृत्वा गताविति अन्तरीक्षात् वाचः शुश्राव। अथ स राजा एकवस्त्रःविमनाश्चयुक्त्या दमयन्त्याः पितुर्गृहगमनाय पन्थानमदर्शयत्। हे प्रिये! अयं पितृगृगमनाय विदर्भजनपदमार्गः, एषः अङ्गदेशगमनमार्गः असौ च कोसलजनपदपथः। तदाकर्ण्य सा दमयन्ती किमय मामार्य्यपुत्रस्तक्षन्निवमार्गं वदतीति शङ्कितेवाभवत्। ततस्तौदम्पतौफलमूलभुजौ तत्र वने निशायां श्रान्तौ कुरासंस्तरे समविशताम्। क्रमेण अध्वखिन्नादमयन्ती निद्रामवाप। नलस्तु कलिमोहितो गन्तुमनाः समुत्थाय एकवस्त्रस्तां दमयन्तीं विमुच्य छिन्नंतदुत्तरीयार्द्धंप्रावृत्य च प्रययौ। दमयन्ती तु रात्रार्द्धेप्रबुध्य तं पतिमपश्यन्ती समन्तात् विचित्य विललाप हा आर्यपुत्र! महासत्त्व! रिपुष्वपि कृपालो! हा मत्प्रियतम! केनासि मयि निष्करुणीकृतः? एकाकी च कथं पद्भ्याम् अटवीषु विचरिष्यसि? कस्ते श्रमापनयनाय सलिलादिदानेन सेवां करिष्यति? यौ च ते चरणाम्बुजौ महीभुजां मौलिमालापरागेण सततं

रञ्जितौ कथं तौ धूलिः कलुषयिष्यति? यच्च तेऽङ्गं हरिचन्दनचूर्णेनालिप्तं, तत् कथं मध्याङ्कार्कातपं सहिष्यते? किं मे शिशुना पुत्रेण दुहित्रावा आत्मना, तवैकस्यैव शिवं देवाः कुर्वन्तु यदि अहं सती। इत्येवमनुशोचती एकाकिनीदमयन्ती तत्पूर्वदर्शितेन पथा शनैः प्रतस्थे। कथञ्चित् सा नदीशैलवनानि अतिचक्राम, नातिचक्राम तु भर्त्तरि ऐकान्तिकींभक्तिम्। सतीतेजश्च मार्गे तामरक्षत, येन भुजङ्गंग्रसन्तं निघ्नन् कश्चित् लुब्धकः तां दमयन्तीं कामयमानः क्षणादेव भस्मसादभूत्। ततो दैवात् बणिकसार्थेन अन्तरामिलितेन सह गत्वा सुबाहुनाम्नः नरपतेः पुरं प्राप। स च राजा दूरात्तां राजपुत्रीमिव सौन्दर्य्यसमुज्ज्वलां दृष्ट्वा स्वात् हर्म्यतः अवतीर्य्य दासीभिः ससत्कारमानाय्य मात्रे प्राभृतीचकार। सा तु तस्या महादेव्याःसकाशे सततं भर्तृत्यक्तेतिविमनाः समतिष्ठत। तावच्च तस्याः पिता भीमनरपतिःतं नलोदन्तमवगत्य तयोर्दम्पत्योरन्वेषणाय आप्तान् द्विजान् व्यसर्जयत्। तेषाञ्च सुवेणो नाम एकःसचिवो ब्राह्मणरूपेण भ्रमन् तां सुबाहुराजधानीं प्राप। स तु तत्र तां दमयन्तीं सुदुःखितामागन्तुं समुदैक्षत, सा तं तथैव पितृमन्त्रिणमद्राक्षीत्।

अथान्योन्यं प्रत्यभिज्ञाय समेत्य तौ तथा रुदतः स्म यथा अस्य सुबाहो राज्ञीनाबुध्यत। यावच्च सा देवी तौ यथावत् वस्तु पृच्छति, तावत् तां दमयन्ती स्वं भगिनीमृतं बुबुधे। ततः सा तद्वृत्तान्तंभर्त्तुरावेद्य तां यथोचित सम्मान्य रथारूढां कृत्वा सुषेणसैनिकसहितां पितृ–

पापिनोऽन्येऽपि तत्तत्पातकेभ्यो मुच्यन्ताम्, एतत्तुचक्रम् आपापक्षयंमेमूर्ध्नि भ्राम्यतु। इत्युक्तवन्तं तंधीरसत्त्वंनभःस्थिता देवाः पुष्पवृष्टिमुचः परितुष्य एवमब्रुवन् साधु महासत्त्व! साधु, अनया करुणया ते पापं शान्तं ब्रज, वित्तञ्च ते अक्षयं भविष्यतीति। एवमभिहितवत्सु देवेषु चक्रंतत्क्षणात् चक्रस्य शिरसः क्वाप्यदर्शनं जगाम। एकश्च विद्याधरकुमारः सहसोपेत्य तुष्टेन इन्द्रेण प्रेषितं महार्घंरत्ननिचयं दत्त्वा तं चक्रम् अङ्के कृत्वा धवलाभिधंतन्नगरं प्रापयामास। सोऽपि चक्रः पित्रोरन्तिकमेत्य बन्धूनानन्दयन् स्ववृत्तान्तं यथावदाख्यत्। चन्द्रस्वामी पुत्रं महीपालमेवमाख्याय पुनरवदत् पुत्र! विना मातापितरौ धनं पापफलं तद्भक्तिस्तु कामधेनुस्तत्राप्येतां कथां शृणु।

आसीत् पुरा कोऽपि महातपाः वनवासी मुनिः। कदाचित् तरुच्छायोपविष्टस्य तस्योपरि वलाकैका पुरीषमुत्ससर्ज। स च क्रुद्धस्तां ददर्श। दृष्टमात्रैव सा वलाका भस्मसादभूत्। ततश्चस मुनिः तपःप्रभावादहङ्कारमापद्यत। एकदासौमुनिः क्वापि नगरे एकं ब्राह्मणगृहमेत्य तद्गृहिणीं भैक्षमयाचत। सा तु गृहिणी पतिव्रता प्रतीक्षस्व क्षणं यावद् भर्त्तुःपरिचर्य्यां समापये इति तं निजगाद। ततश्च तं कोपदृष्ट्या वीक्षमाणं निरीक्षसा विहस्य अभ्यभाषत मुने! नाहं बलाकेति। तदाकर्ण्यं मुनिरद्भुतम्मन्यमानः समुपविश्य एतत् कथमिव ज्ञातमनया इति चिन्तयन् तत्र तस्थौ। ततश्चसा साध्वी आदौअग्नि-

कार्य्यं ततः भर्तुः शुश्रूषां कृत्वा भैक्षमादाय मुनेरन्तिकभाजगाम। स च मुनिर्बद्धाञ्जलिस्तामवदत् कथं त्वया अनन्यगोचरो वलाकावृत्तान्तो ज्ञात इत्यतो ब्रूहि, ततो भिक्षां ग्रहीष्ये इत्युक्तवन्तंतं मुनिं सोवाच मुने! न भर्त्तृसेवाया अपरं कञ्चन धर्मं करोम्यहं, तेन तत्प्रसादेन मे एतादृशं विज्ञानम्। किञ्चेतः धर्म्मब्याधाख्यं कञ्चन मांसविक्रयिणं गत्वा एतत् पृच्छ, ततस्ते श्रेयः, निरहङ्कारश्चभविष्यसीति एवं सर्वविदा पतिव्रतयाभिहितः गृहीनातिथिसत्कारस्तां प्रणम्य स मुनिस्तस्माद् गृहात् निरगात्।

अन्येद्युः स मुनिः समन्विष्य तं धर्म्मब्याधं विपणिस्थंमांसानि विक्रीणन्तमुपागच्छत्। धर्मब्याधश्चदृष्ट्वैव तं मुनिमभाषत ब्रह्मन्! किं पतिव्रतया तया इह त्वं प्रेषितः? तदाकर्ण्य स मुनिर्विस्मितस्तंधर्म्मब्याधमवादीत् भद्र! मांसविक्रयिणस्तेकथमीदृशं विज्ञानम्? इत्यभिहितवन्तं तं मुनिं धर्म्मब्याधो निजगाद ब्रह्मन्! अहं मातापित्रोर्भक्तः, तौ हि मम परायणं, तयोः सपितयोः स्वामि, भोजितयोः भुञ्जे, शशयितयोश्च शये, तेनमे एतादृशं विज्ञानम्। अन्यहतानाञ्च मृगादीनां मांसानि स्वधर्म्मइति वृत्त्यर्थं न तु अर्थलालस्येन विक्रीणे, हे मुने! ज्ञानविघ्नमहङ्कारम् अहं सा च पतिव्रता नैव कुर्वः, तेनैव हेतुना आवयोरीदृशंनिर्बाधं ज्ञानं तस्मात्त्वमपि अहङ्कारं मुक्त्वा स्वधर्म्मंचर, येनाशुपरं श्रेयोऽवाप्स्यसीति। इत्येवमनुशिष्टस्तेन धर्म्मब्याधेन स मुनिस्तगृहान् गत्वा तस्य धर्म्म-

ब्याधस्यसर्वांक्रियामंवलोक्यं परितुष्टः वनमगात्, अवापच्चतदुपदेशात् सिद्धिम्। तावपि पतिव्रताधर्म्मब्याधोसद्धर्मचर्य्ययापरमां सिद्धिं गतौ। पतिव्रतानां पितृपराणाञ्च एवं प्रभावः, तदेहि वत्स! दर्शनोत्सुकां मातरं सम्भावय। एवं पित्राभिहितः स महीपालः मातृदर्शनोत्सुकः स्वदेशाय गन्तुं प्रत्यपद्यत। ततश्च धर्म्मपित्रे अनन्तस्वामिने सत् सर्वं निवेद्य तस्मिन् निक्षिप्तराज्यभारः पित्रा सह निशि प्रायात्। क्रमात् स्वदेशं दर्शनोत्सुकां जननीञ्च देवमतिं प्राप्य मधुरिव कोकिलां समानन्दयत्। तत्रचबान्धवसत्कृतः कञ्चित् कालं मात्रा वृत्तान्ताख्यायिना चपित्रा सह तस्थौ।

तावच्चतत्र तारापुरे सा राजकन्या महीपालप्रिया बन्धुमती निशायामवसन्नायां सुप्ता व्यबुध्य। दृष्ट्वा च पति क्वापि गतं विरहातुरा क्वापि प्रासादादिषु गतिं नालभत, व्यलपच्चद्विगुणीकृतहारेण वाष्पेण रुदती मृत्युना सुखमभिकाङ्क्षन्ती सकरुणम्। अथ मन्त्री अनन्तस्वामी तां प्रबोध्य समाश्वासयत् पुत्रि! स ते प्रियः, यामिकार्य्यार्थं शीघ्रमेष्यामि इति स्वैरमुक्त्वैव गतः, तन्मा शोक कथा इति। एवमुक्ता सा कथमपि धृतिलभत। ततः सा भर्त्तुःप्रवृत्तिविज्ञानाय देशान्तरागतान् द्विजपुङ्गवान् दानैः सदा समपूजयत्।

एकदा सा दूरागतं सङ्गमदत्ताभिधंकञ्चिद् द्विजम् अभिज्ञाननामनी उक्ता भर्त्तुर्वार्त्तां पप्रच्छ। ततः स द्विजः प्रोवाच नैवंविधो मया दृष्टः कश्चित्, तथाप्यत्रनैव

त्वया अधृत्या भवितव्यं, चिरादभीष्टसंयोगः शुभेन कर्म्मणा सम्पत्स्यते, यच्च मया आश्चर्य्यंदृष्टं तदाकर्णय तव कथयामि। अहं तीर्थानि परिभ्रमन् एकदा हिमाद्रौमानसं सरः अध्यगच्छम्, अपश्यञ्च तत्रादर्श इव मणिमयं गृहम्। ततश्च अकस्मात् खड्गपाणिरेकः पुमान् दिव्याङ्गनापरिवृतः तत् सरस्तीरमध्यारोहत्। तत्रोद्याने स ताभिः सुरसुन्दरीभिःमधु पिबन् अक्रीडत्। अहञ्च दूरात् सकौतुकं पश्यन् अलक्षित एव तत्रातिष्ठम्। तावच्च कुतोऽपि तत्रकश्चित् सुभगः पुरुषः समागात्। मया च मिलिताय तस्मै तत् सर्वं यथादृष्टमाख्यातम्। दर्शितश्चसह दिव्याङ्गनाभिः स पुमान् तस्मै। तदृष्ट्वैव स स्ववृत्तान्तंमां समाचख्यौ।

अहमासं त्रिभुवनाख्ये पुरे त्रिभुवनाधिपः राजा। तत्र मे कश्चित् पाशुपतः सुचिरं सेवां ब्यधात्। स तु स्वैरं कारणं परिपृष्टः मामभ्यधात् राजन्! विलखनप्रसाधने मे सहायकं कुरु, मया च तत् प्रतिपन्नम्। ततो मया सहासौ पाशुपतः निशि आरण्यंगत्वा विवरं प्रकटीकृत्य मामब्रवीत् वीर! प्रविशात्र त्वं पूर्वं ततश्च खड्गंप्राप्य निर्गत्य च मामपि प्रवेशयेः इत्यत्र समयः क्रियताम्। इत्येवमुक्तस्तेन अहं तेन सह समयं कृत्वा विवरं प्रविश्य एकं दिव्यं रत्नमयं गृहं व्यलोकयम्। ततः सहसा निर्गत्य कापि सुराङ्गना प्रधाना प्रेम्णा मामन्तःपुरं प्रावेशयत्, प्रादाच्च खड्गम्। सर्वसिद्धिप्रद एष खङ्गः खगतिदायी च, रक्षैनंयत्नत इति वादिन्या च तया सह तत्र सुखमवसम्।

गच्छति च काले खड्गहस्तोऽहं स्मृत्वा निर्गत्य तेन विवरेण तं पाशुपतं तस्मिन्नसुरपुरे प्रावेशयम्। अहं तया प्रथमोद्दिष्टया सपरिजनया कन्यया सह स च पाशुपतः द्वितीयया सपरिजनया कन्यया सह सुखेन तत्र न्यवसावः। एकदा पानमत्तस्य मम हस्तात् म पाशुपतश्छालात् खड्गंहृत्वानिजहस्तगमकरोत्। तस्मिन् हस्तस्थिते खड्गेस प्राप्तमहासिद्धिः क्षणात् मामादाय तस्माद्विवरात् निष्कास्य बहिःप्राक्षिपत्। ततो द्वादश वर्षाणि तस्मिन् विलमुखे कदाचित् स निर्गच्छेदिति स्थितं मया, अद्य तु मोऽयं शठः मद्दृष्टिपथेमदीययैवासुरकन्यया क्रीड़न् निपतितः। हे देवि! यावत् स त्रिभुवनाभिधः राजा इत्येवं मां वक्ति तावत् स पाशुपतः पानमदात् निद्रामवाप। स च राजा सहसा सुप्तस्य तस्य हस्तात् खड्गंतमग्रहीत् प्रापच्चदिव्यं प्रभावम्। ततस्तंपाशुपतं पादप्रहारेण प्रबोध्य निरभर्त्सयत्, केवलं नावधीत्, प्राविशच्चसपरिच्छदया तयासुरकन्यया सिद्ध्येव मूर्त्तिमत्या सह तत् असुरसदनम्। स च पाशुपतः सिद्धिभ्रष्टः परं कष्टमापद्यत। एवं कृतघ्नाश्चिरसिद्धार्था अपि ध्रुवं विनश्यन्ति हि।एतत् साक्षादवलोक्य स्वयमिहागतः, तद् देवि! अवश्यमेव ते त्रिभुवनस्येव प्रियसङ्गमो भविता न हि शुभकृदवसीदति इति श्रुत्वा द्विजमुखात् सा बन्धुमती परं परितोषंययौ चकार तं विप्रं बहुधनंदत्त्वा कृतार्थम्।

अपरेद्युश्चअपूर्वःकश्चिद्द्विजः अतिदूरतस्तत्रागात्। तञ्चबन्धुमती कथितनामाभिज्ञाना भर्त्तुःवार्त्तांपर्य्यपृ–

च्छत्। सोऽप्यवादीत् देवि! न मया स तव भर्त्ता दृष्टः क्वापि, किन्त्वहम् अन्वर्थः सुमना नाम अद्य ते गृहमागतः, तदाशु ते सौमनस्यंमे मनः कथयति, ईदृशे सौमनस्ये चिरविश्लेषिणामपि संयोगो भवत्येव, तदत्र कथामेतां कथयामि श्रूयताम्।

पुरासीत् नलो नाम निषधाधिपतिर्नृपतिः। यस्य रूपेणेव विजितःकामो अवमत्यात्मानं कोपितस्य त्रिपुरारेर्नेत्राग्नौ तनुमजहात्। तेनाकृतदारेण विचिन्वता दमयन्तीति भीमस्य विदर्भाधिपतेः सुता सुसदृशी अश्रावि। भीमेनापि धरां विचिन्वता सर्वेषु राजसु नलादपरो राजा स्वदुहितुः सदृशः न ददृशे। अत्रान्तरे दमयन्ती जलक्रीड़ार्थंसरोवरमेकमवातरत्। तत्र कमपि राजहंसं दष्टाम्बुजं दृष्ट्वा क्रीड़ार्थंक्षिप्तोत्तरीया बबन्ध।स बद्धस्तांदिव्यहंसः दिव्यया गिरा समब्रवीत् राजपुत्रि! ते महान्तमुपकारं करिष्यामि, विमुञ्च माम्, अस्ति नैषधेषु नलो नाम राजा, यं हि सद्गुणैर्गुम्फिताहारमिव हृदि दिव्याङ्गनाः सततं वहन्ति। तस्य त्वं सदृशी भार्य्या, स च तव सदृशः पतिः, तदत्र योग्यसंयोगे अहं युवयोः कामदूतो भवामि। तदाकर्ण्य सा दिव्यहंसं तं सत्यवादिनं मत्वा एवमस्तु इति वादिनी तममुञ्चत्। अगदच्चन मया अन्यः नलात् वरणीय इति।

ततश्च हंसोऽसौ निषधेषु आशु गत्वा जलक्रीडाप्रवृत्ते नलेनसङ्गतं सरः समाश्रयत्। नलोऽपि तमपूर्वं राजहंसं दृष्ट्वा कौतुकाक्षिप्तचेताः स्वोत्तरीयेण तं बबन्ध। अप

बद्धोऽसौराजहंसः मनुष्यगिरा समवादीत् राजन्! मुञ्चमां त्वदुपकारार्थमागतं, शृणु यदहं कथयामि।

अस्ति विदर्भेषु भीमस्य राज्ञः सुताक्षितितलतिलोत्तमा देवैरपि स्पृहणीया दमयन्ती नाम। त्वद्गुणाकष्टचेतसा तया त्वमेव भर्त्ता वृतस्तदहं वक्तुमितस्त्वामुपागतः। इत्येवं राजहंसस्य सफलोज्ज्वलैर्वचोभिः पुष्पधन्वनो विशिखैश्चसममसौ नलोऽबिध्यत। अब्रवीच्च हंसराज! धन्योऽस्मि योऽहं मूर्त्तयेव मनोरथसम्पत्त्यातथा वृत इत्युक्त्वातेन राज्ञा भुक्तोऽसौ हंसःगत्वा दमदन्त्यै यथावृत्तं यथाक्रमं शशंस, जगाम च स्वस्थानम्। दमयन्ती च सोत्कण्ठा युक्त्या मातृमुखेन निजं पितरं नलप्राप्त्यैस्वयंवरमयाचत। राजा च विदर्भपतिस्तस्याः स्वयंवरमनुमत्य पृथिव्यां सर्वान् पार्थिवान् प्रति दूतान् व्यसर्जयत्। दूतमुखात् विदितवार्त्ताश्च भूमिपाः विदर्भान् प्रति व्रजन्ति स्म। नलोऽपि समुत्सुको रथारूढश्चचाल। तावच्च इन्द्रादयो लोकपाला नारदान्मुनेः दमयन्त्यास्तस्या नलप्रेम स्वयंवरौ शृण्वन्ति स्म। तेषु च इन्द्रवायुयमाग्निवरुणाः सम्मन्त्र्यसमुत्सुकाः गच्छतस्तस्य नलस्यैवान्तिकमुपजग्मुः। ऊचुश्च तं विनीतं विदर्भान् प्रति प्रस्थितं नलमेत्य। राजन्! इतो गत्वा अस्मद्वचनात् दमयन्तीमिदं वचः ब्रूहि, पञ्चानामस्माकमेकतमं वरय, मर्त्त्येन नलेन ते किम्? मर्त्त्याःमरणशीलाः, देवास्तु अमराः। नृपते! त्वञ्च अस्मद्वरात् अन्यैरलक्षितस्तत्पार्श्वं प्रवेक्ष्यसीति। नलोऽपिं तथेति देवाज्ञांशिरसि गृहीत्वा गत्वा चान्तःपुरं तस्या अलक्षित एक

राजपुरुषैः शशंस सर्वं देवनिदेशं दमयन्त्यै। सा तु श्रुत्वैतत् साध्वी प्राब्रवीत् देवास्तेसन्तु तादृशाः, मम तु नल एव भर्त्ता, न प्रयोजनं मे देवैरिति तस्या वचः श्रुत्वा नलः आत्मानं प्रकाश्य गत्वा च यथावृत्तंदेवेभ्यःसमाचचक्षे।देवाश्चवश्या वयं ते स्मृतमात्रोपगामिनो भविष्याम इति तुष्टा वरं तम्मै नलाय प्रददुः। अथ हृष्टेनले विदर्भान्प्रति प्रयाते तैश्च सुरेश्वरेर्दमयन्त्या वचनशुश्रूषुभिर्विदर्भान् गत्वा नलरूपमकारि। ततश्चभीमसभां गत्वा स्वयंवरे प्रवृत्ते मर्त्त्यधर्म्मानुपाश्रिता नलान्तिकमेवोपाविशन्।

अथ दमयन्तौ स्वयवरा स्वयंवरमेत्य स्वेन भ्रात्रा समावेद्यमानान् एकैकशा। नृपान् उज्मती क्रमात् नलान्तिकमापत्। दृष्ट्वाच तत्र छायानिमेषादिगुणान् षट् नलान् उपविष्टान् समुद्भ्रान्ता व्याकुला च समचिन्तयत् नूनं तैर्लोकपालैः पञ्चभिर्मायैषा परिकल्पिता, षष्ठञ्चैषां नलं मन्ये, न चात्र मेऽस्ति गतिः। इत्यालोच्यैव साध्वी सा नलैकासक्तमानसा आदित्याभिमुखी एवमब्रवीत् हे लोकपालाः ! यदि मे मनः स्वप्नेऽपि नलादन्यत्र न चलितं तत्तेन सत्येन यूयं मे स्वंस्वंरूपं दर्शयत, कन्यायाः पूर्ववृतात् वरात् अन्ये परपुरुषाः, सा च कन्या तेषां परदाराः, तत् कथमेष मोहो युष्माकम् ? एतदाकर्ण्य ते शक्रादयः पञ्च स्वेन स्वेन रूपेण तदा व्यराजन्, षष्ठस्तु सत्यनल एवाभवत्। अथ सा दमयन्ती तस्मिन् फुल्लेन्दीवरसम्मितां दृशंवरणमालाञ्च संप्रहृष्टा समर्पयत्। पुष्पवृष्टिश्चतदानींनभसः समुत्पपात। ततो राजा भीमःतस्य नलस्य

तस्याश्च दमयन्त्या विवाहमङ्गलं व्यधात्। तेन च नृपेण विदर्भपतिना यथायथं कृतसत्क्रिया अपरे नृपा देवाश्चमहेन्द्रादयः यथागतं प्रतिजग्मुः। गच्छन्तश्च शक्रादयः द्वावागच्छन्तौ पथि दमयन्त्यर्थं कलिद्वापरौददृशुः। ऊचुश्चन गन्तव्यंविदर्भेषु युवाभ्यां तत एवागता वयं, वृत्तश्चासौ स्वयंवरः, नृपतिर्नल एव तया दमयन्त्या वृत इति । तावूचतुः पापौ क्रोधपरीतौ, देवान् भवादृशान् हित्वा यत् स मर्त्त्यस्तयावृतः, तदवश्यमावां तयोर्वियोगं करिष्यावः। एवं कृतप्रतिज्ञौ तौ निवृत्य स्वस्थानं ययतुः। नलश्च सप्त दिवसान् श्वशुरसद्मनि स्थित्वा दमयन्त्या समं कृतार्थो निषधान् देशान् प्रत्यगमत्। तत्र तु दम्पत्योस्तयोर्यथा प्रेम समभवत् तथा गौरीशङ्करयोरपि न, गौरी शङ्करस्य देहार्द्धंसा तुं दमयन्ती तस्य नलस्य आत्मैवाभूत्।

कालेन सा दमयन्ती नलात् इन्द्रसेनं नाम तनयम् इन्द्रसेनाञ्च नाम कन्यकां क्रमात् प्रासूत। तावच्च कलिरसौ अनुच्छास्त्रवर्त्तिनोऽपि नलस्य चिराय छिद्रं प्राप्य प्रतिज्ञातार्थनिश्चितः समभवत्। एकदासौ नलः पानमदेन मुषितस्मृतिरक्षालितचरणः सन्ध्यामनुपास्यैव सुष्वाप। दिवानिशं दत्तदृष्टिः कलिश्छिद्रमेतदवाप्य तस्य नलस्य शरीरान्तरमविशत्। देहप्रविष्टेन च तेन कलिना अपहृतज्ञानःअसौ नृपः धार्म्माचारमपहाय यथारुचि समाचार। अक्षैरदीव्यत्, दासीभिररंस्त, असत्यमब्रवीत्, दिवास्वप्नमसेवत, रात्रिषु जजागार, अकारणं कोपंचकार, अन्यायेनार्थमाददे, सतामवमानमसताञ्च सम्मानं चकार

च। द्वापरश्चछिद्रं प्राप्य प्रविष्टान्तःशरीरः तस्य राज्ञः भ्रातरं पुष्कराक्षं समुत्सृष्टसत्पथं व्यधत्त।

कदाचित् नृपतिर्नलः भ्रातुः पुष्कराक्षस्यगृहे दानाख्यंसुन्दरं धवलं वृषं व्यलोकयत्। लोभाच्च तं वृषंमृगयमाणाय तस्मै ज्यायसे नलाय असौ द्वापरग्रस्ततद्भक्तिः पुष्कराक्षः न प्रादात्। अवादीच्च यदि ते तस्मिन् वृषभे वाञ्छस्ति, तद् द्यूतेन मत्त एनं विजित्य गृहाण।तदाकर्ण्य सोऽपि नलस्तथैव प्रतिपेदे। प्रवृत्तं भ्रात्रोरुभयोः परस्परं द्यूतम्। पुष्कराक्षस्य धनं स एव वृषः, नलस्य तु इभादीनि बहूनि। पुष्कराक्षःपुनः पुनर्जिगाय, नलस्तुअजीयत एव। इत्थंद्वित्रैर्दिनैः समग्रेबले केशे च दुरोदरहारिते वार्य्यमाणोऽपि नलः नेव चचाल व्यवसायात् कलिविप्लुतमतिः।

अथ क्रमेण समग्र राज्य हृतं विदित्वा दमयन्ती निजौतनयौ रथमारोप्य स्वपितुर्गृहं प्राहिणोत्। ततः सर्वं हारितमवलोक्य पुष्कराक्षः नलमब्रवीत् त्वया अन्यत् सर्वं हारितम्, इदानीं मत्समक्षंदमयन्तीमानीय प्रतिपणं कुरु। इत्युक्तिवात्ययानल इवामौ नलः प्रजज्वाल, न चाकाले किञ्चित् प्रत्युवाचनापि तां पणीचकार। ततः पुष्कराक्षः समब्रवीत् न करोषि चेत् भार्य्यापणं तदस्मात् मम राज्यात् सभार्य्यः सत्वरं निर्याहि। तत् श्रुत्वैव नलः दमयन्त्या समं देशात्तस्मात् राजपुरुषैरासीमान्तप्रवासितःनिर्ययौ। हा कष्टं, नलस्यापि कलिना एताहगवस्था कृता, किमन्येषां कमीणामिव देहिनां,

धिक् धिक्राजर्षीणामपि ईदृशंवैक्लव्यदं विषदामाश्रयंद्यूतम्।

अथ भ्रातृहृतैश्वैर्य्योऽसौनलः विदेशंव्रजन् दमयन्त्या सह क्षुधापरीतः वनात् वनान्तरं प्रापत्। तत्र तयाकुशक्षतसुकुमारचरण्या साकं कस्मिंश्चित् सरित्तीरे विश्रान्तश्चरन्तौ द्वौ हंसौ समैक्षत।दृष्ट्वैव आहारार्थं तयोर्ग्रहणाय उत्तरीयकं चिक्षेप, तौ च हंसौ तत् हृत्वा प्रजग्मतुः। ततश्व विस्मितोऽसौ नलः हंसरूपेण तावेव कलिद्वापरौवासस्ते हृत्वा गताविति अन्तरीक्षात् वाचः शुश्राव। अथ स राजा एकवस्त्रःविमनाश्चयुक्त्या दमयन्त्याः पितुर्गृहगमनाय प्रन्थानमदर्शयत्। हे प्रिये ! अयंपितृगृहगमनाय विदर्भजनपदमार्गः, एषः अङ्गदेशगमनमार्गःअसौच कोसलजनपदपथः। तदाकर्ण्य सा दमयन्ती किमय मामार्य्यपुत्रस्तक्षन्निवमार्गं वदतीति शङ्गितेवाभवत्। ततस्तौ दम्पती फलमूलभुजौ तत्र वने निशायां श्रान्तौ कुशसंस्तरेसमविशताम्। क्रमेण अध्वखिन्ना दमयन्ती निद्रामवाप। नलस्तु कलिमोहितो गन्तुमनाः समुत्थाय एकवस्त्रस्तां दमयन्तीं विमुच्य छिन्नंतदुत्तरीयार्द्धंप्रावृत्य च प्रययौ। दमयन्ती तु रात्र्यर्द्धेप्रबुध्य तं पतिमपश्यन्ती समन्तात् विचित्य विललाप हा आर्यपुत्र ! महासत्त्व ! रिपुष्वपि कृपालो! हा मत्प्रियतम ! केनासि मयि निष्करुणीकृतः? एकाकी च कथं पद्भ्याम्अटवीषु विचरिष्यसि ? कस्ते श्रमापनयनाय सलिलादिदानेन सेवां करिष्यति ? यौ च तेचरणाम्बुजी महीभुजां मौलिमालापरागेण सततं

रञ्जितौ कथं तौ धूलि कलुषयिष्यति ? यच्च तेऽङ्गचन्दनचूर्णेनालिप्तं, तत् कथं मध्याह्नार्कातपं सहिष्यते ? किं मे शिशुना पुत्रेण दुहित्रावा आत्मना, तवैकस्यैव शिवं देवाः कुर्वन्तु यदि अहं सती। इत्येवमनुशोचती एकाकिनी दमयन्ती तत्पूर्वदर्शितेन पथा शनैः प्रतस्थे। कथञ्चित् सा नदीशैलवनानि अतिचक्राम, नातिचक्राम तु भर्त्तरिऐकान्तिकींभक्तिम्। सतीतेजश्चमार्गे तामरक्षत, येन भुजङ्गं ग्रसन्तं निघ्नन् कश्चित् लुब्धकः तांदमयन्तीं कामयमानः क्षणादेव भस्मसादभूत्। ततो दैवात् बणिकसार्थेन अन्तरामिलितेन सह गत्वा सुबाहुनाम्नः नरपतेः पुरं प्राप। स च राजा दूरात् तां राजपुत्रीमिव सौन्दर्य्यसमुज्ज्वलां दृष्ट्वा स्वात् हर्म्यतः अवतीर्य्य दासीभिः समत्कारमानाय्य मात्रे प्राभृतीचकार। सा तु तस्या महादेव्याः सकाशे सततं भर्तृत्यक्तेतिविमनाः समतिष्ठत। तावच्च तस्याः पिता भीमनरपतिः तं नलोदन्तमवगत्य तयोर्दम्पत्योरन्वेषणाय आप्तान् द्विजान् व्यसर्जयत्। तेषाञ्च सुवेणो नाम एकःसचिवो ब्राह्मणरूपेण भ्रमन् तां सुबाहुराजधानीं प्राप। स तु तत्र तां दमयन्तीं सुदुःखितामागन्तुंसमुदैक्षत, सा तं तथैव पितृमन्त्रिणमद्राक्षीत्।

अथान्योन्यंप्रत्यभिज्ञाय समेत्य तौ तथा रुदतः स्मयथा अस्य सुबाहो राज्ञी नाबुध्यत। यावच्च सा देवी तौ यथावत् वस्तु पृच्छति, तावत् तां दमयन्ती स्वं भगिनीसुतंबुबुधे। ततः सा तद्वृत्तान्तं भर्तुरावेद्य तां यथोचित सम्मान्य रथारूढ़ां कृत्वा सुषेणसैनिकसहितां पितृ-

गृहं प्रैषयत्। तत्र सा दमयन्ती प्राप्तापत्यद्वयापित्रा प्रबोध्यमानापि सततं पत्युर्वार्त्तां विचिन्वतौव्यतिष्ठत। ततश्चतत्पिता समन्ततः तं नलं मूदस्यन्दनविद्याभ्यां दिव्याभ्यामुपेतं समन्वेष्टुंचारान् व्यसर्जयत्, आदिशच्च भवद्भिर्यत्र स स्थितः सम्भाव्यते तत्र एवं वक्तव्यं यथा हे नृशंस ! चन्द्र ! बालां वने प्रसुप्तां कान्तां कुमुदिनीं सन्त्यज्य अम्बरखण्डं प्राप्य च अदृश्यः क्व यातोऽसि ?

अत्रान्तरे स राजा नलश्च तस्मिन् वने निशि प्रावृतार्द्धपटो दूरं गत्वा दावाग्निमैक्षत, अपश्यच्चतत्र भो महासत्त्व ! यावदहं न दह्येअनेन दावाग्निना तावन्माम् अस्य समीपादपसारय इति वदन्तम् आबद्धमण्डलं फलरत्नप्रभाजालजटिलं वनवह्निना उग्रहेतिहस्तेन शिरसि गृहीतमिव कञ्चन नागम्। यावच्चस उपेत्य कृपया तं दूरतो नीत्वात्यजति तावत् स नागस्तमब्रवीत् भद्र ! इतःपदानि दश गणयित्वा मां नय। ततः स नलः पदानि गणयन्नेव दशप्रययौ। एकं द्वौत्रीणि चत्वारिपञ्च षट् सप्त अष्टौ नव दश इति उक्तवन्तंतं नलं स्कन्धस्थितो नागो ललाटान्ते अदशत्। तेन चासौ नृपः स्वभुजः कृष्णः विरूपश्चाभवत्। ततः स राजा स्कन्धादहिमवतार्य्यपृष्टवान् को भवान् ? त्वया च केयं मे प्रत्युपक्रिया कृता? एतत्तस्य वचः श्रुत्वा स नागस्तमब्रवीत् राजन् ! कर्कोटनामानं नागराजं मामवगच्छ, दंशोऽयञ्च मया कृतस्ते गुणायैव, पश्चात् वेत्स्यसि। गूढ़ावासे च वैरूप्यं महतां कार्य्यसिद्धये, गृहाण च अग्निशौचाख्यमिदं मद्दत्तं

वसनद्धयम्, अनेन प्रावृत्तेनच सुरूपं पुनः प्रतिपत्स्यसे। इत्युक्त्वादत्ताग्निशौचवसनयुगे कर्कोटके गते नलस्तस्मात् प्रदेशात्गत्वा कोसलान् प्रत्यपद्यत। तत्र स कोसलाधिपस्य ऋतुपर्णस्य ह्रस्वबाहुमामा सन् सूदत्वमकरोत्। तस्य चदिव्यरसानि भोजनानि यच्चकार तेन रथचर्य्याविज्ञानतश्चपरां प्रसिद्धिमगमत्।

एवं गच्छत्सु कालेषु एकदा विदर्भराजचाराणां कश्चित् तत्र समाययौ। स तु चारः अत्र सूदरथविद्ययोर्मलतुल्यः कश्चित् ह्रस्वबाहुरिति सूदः अस्तीति वचःशुश्राव। ततश्च स तं नृपतेरास्थाने स्थितं दृष्ट्वा नलं सम्भाव्य युक्त्या तचएतां प्रभुणाउपदिष्टां

बालां वने प्रसुप्तां नृशंससन्त्यज्य कुमुदिनीं कान्ताम्।
प्राप्यैवाम्बरखण्डं चन्द्रादृष्यः क्व यातोऽसि॥

इति आर्य्यांपपाठ। तत्रस्थाश्चजनास्तदाकर्ण्यउन्मत्तवाक्यमिव मेनिरे। छद्मस्थितस्तु सूदः तं प्रत्युवाच अम्बरैकदेशवर्ती क्षीणश्चन्द्रः अन्यमण्डलं प्राप्य प्रविशन् कुमुदिन्या यददृश्यः तत्तस्य का नृशंसता ? एतत्तदुत्तरं श्रुत्वा सत्यमेव तं नलं विपदुद्भूतवैरूप्यंमम्भाव्य स चारस्ततः प्रययौ। आगत्य च विदर्भेषु भीमाय राज्ञेदमयन्त्यै च तत् सर्वं दृष्टं श्रुतञ्च समवर्णयत्। ततः सा दमयन्ती स्वैरं पितरमब्रवीत् तात ! सत्यमेवासौआर्य्यपुत्रः सूदव्याजमुपाश्रितः, तम्मात्तदानयने मन्मतानुमारिणी युक्तिर्विधीयताम्। तस्य ऋतुपर्णस्य राज्ञः समीपे दूतोविसृज्यताम्। गतेन च तेन दूतेन स राजा तत्र

भण्यतां यथा नलः क्वापि गतः, नांद्यापि तद्वार्त्ता श्रूयते, तत् प्रातरेव दमयन्तीभूयः स्वयंवरं कुरुते, अतोऽद्यैव त्वया विदर्भेषु शीघ्रमागम्यतामिति। ततः श्रुत्वैतां वार्त्तांरथचर्य्यानिपुणेनआर्य्यपित्रेणस राजा एकाहेनैव ध्रुवमिह आनेतव्यः इति। एवमभिहितो दमयन्त्या स राजा भीमः दूतमेवं सन्दिश्य कोमलेषु व्यसृजत्। तेन च तूर्णं गत्वा तथैवोक्तः स ऋतुपर्णः समुत्सुकः सूदरूपं तं पार्श्वगं नलं समानयन् जगाद ह्रस्वबाहो ! रथज्ञानं ममास्तीति अवदद् भवान् तद् यदि शक्नोषितत् शीघ्रमद्येव मां विदर्भान् प्रापय। तदाकर्ण्य नलः वाढ़ प्रापयामि इत्युदीर्य्यगत्वा वराश्वान् संयोज्य रथोत्तमं सज्जीचकार। स्वयंवरप्रवादोऽयं केवल मत्प्राप्तये नूनं तथा कल्पितः, न तु सा स्वप्नेऽपि ईदृशो सम्भवति। तद् यावदहं तत्रगच्छामि, पश्यामि च तामिति विचिन्त्य तस्य ऋतुपर्णस्य राज्ञः रथमुपानयत्। ततश्चतस्मिन् रथमारूढे नृपे नलःतार्क्ष्यजवजैत्रेणरंहसा रथं वाहयितुं प्रववृते। पथिरथवेगच्युतं वस्त्रं ग्रहीतुं रथविधारणं कर्त्तुकाममृतुपर्णं नलःप्रोवाच राजन् ! क्व तव वस्त्रम् ? अनेन क्षणेनायं तेरथः बहूनि योजनानि व्यतिक्रान्तः। श्रुत्वैतदृतुपर्णस्तमवादीत् ह्रस्वबाहो! देहि मे इदं रथज्ञानम्, अहं ते अक्षज्ञानं ददामि, येन अक्षा वश्या भवन्ति संख्याज्ञानञ्च जायते। साम्प्रतमत्त्र पश्य, तेविश्वासं जनयामि, यः पुरतोऽयं तरुर्विद्यते, अस्य फलपत्राणां संख्यां वच्मि, गणयित्वा एवं पश्य। इत्युक्त्वास ऋतुपर्णः यावन्त्येव फलपर्णानि

जगाद, तावन्त्येव नलेन अस्य तरोः गणितानि। ततो नलोऽपि ऋतुपर्णाय रथज्ञानं प्रादात्। ऋतुपर्णोऽपि तस्मै अक्षज्ञानं तत् प्रददौ। अथ नलः अपरे तरौतज्ज्ञानंपरीक्षते स्म, सम्यग् बुबुधे च। ततो यावत् स नलः हृष्यति तावत् तस्य शरीरतः कृष्णकायः कश्चित् पुरुषः निरगात्। कोऽसीति पृष्टवन्तं तं स पुरुषः प्राब्रवीत् अहं कलिः, दमयन्तीवृतस्य ते शरीरमीर्ष्यया प्राविशम्, तेन ते श्रियः तादृशीं दशामवाप्ताः, वने च कर्कोटकेन त्वं दष्टोऽपि न दग्धः, अहन्तु त्वयि स्थितः दग्ध एव, पश्य, मिथ्या परापकारः न हि कस्यापि शर्म्मणेभवति, तदिदानीं गच्छाम्येषः, शुभन्ते भूयादिति अभिधाय तिरोऽभूत्। नलश्च तत्क्षणात् प्राप्तधर्म्ममतिः प्राग्वदभवत्। अथ रथमारुह्य तस्मिन्नेवान्हि तेनैव जवेन तम् ऋतुपर्णं विदर्भाननयत्। आगत्य च पृष्टागमनकारणैस्तत्रत्यैर्जनैरुपहस्यमानो राजा ऋतुपर्णः राजगृहासन्नभूमौ समुपाविशत्। दमयन्ती तु आश्चर्य्यरथशब्दमाकर्ण्य सम्भावितनलागमना तं नलं प्राप्तं बुद्ध्वाजहर्ष विससर्ज च तत्त्वमन्वेष्टुंस्वां चेटिकाम् सा च चेटी अन्विष्यागता तां प्रियोत्सुकामुवाच देवि ! मया गत्वा अन्विष्टं य एषः कोसलेश्वर ऋतुपर्णस्ते स्वयंवरप्रवादं श्रुत्वा आगतः स एकेन ह्रस्वबाहुना रथवाहेन सूदेन रथविज्ञानशालिना एकेनाना आनीतः। स च सूदः सूदशालायां गत्वा मया निरीक्षितः कृष्णवर्णः विरूपश्च, परं तस्य कोऽपि प्रभावः, यदु अक्षिप्तमपि पानीयं तस्य चरुषु उत्थितं काष्ठान्यपि अनर्पितानि स्वयं प्रज्वलितानि।

क्षणेन च तत्तत् भोजनीयं दिव्यंनिष्पत्रम्। एतत् महाषर्य्यंदृष्ट्वा अहमिहागता।

एतदाकर्ण्य चेटीमुखात् दमयन्ती व्यचिन्तयत् यदयं वश्याग्निवरुणः रथविद्यारहस्यविच्च, तदयमेवार्य्यपुत्रः, मन्ये मद्विप्रयोगेण वैरूपं गतः, तदहममुंपृच्छामि इति सङ्कल्प्ययुक्त्या तया चेटिकया सह द्वौ दारकौ दर्शयितुं तदन्तिकं प्रैषयत्। स च नलः तौ निजौ सुतौ दृष्ट्वा अङ्के कृत्वा चिरं बद्धाश्रुधारः समरोदीत्, अवादीच्च तां चेटींवार्त्तांपृच्छन्तीं ईदृशावेव मे बालौ मातामहगृहे स्थितौ, तत्स्मरणान्मेदुःखं जातमिति। सा तु चेटी शिशुभ्यां सहागत्य दमयन्त्यै तत् सर्वं यथावत् शशंस। सापि तेन सम्यक् विश्वस्ताभवत्। अपरेद्युश्चप्रातः सा स्वांचेटीं समादिशत् सखि ! गत्वा त्वं मद्वचनात् तं सूदं वद, श्रुत मया, यत् भवता तुल्यो नान्योऽस्ति कश्चित्सूपञ्जत्, तदद्य त्वयागत्य मम व्यञ्जनं निष्याद्यतामिति। तथेति स तया चेट्या समर्थितः ऋतुपर्णमनुज्ञाप्य दमयन्तीमुपाययौ। अथ तं दृष्ट्वा सा दमयन्ती प्राब्रवीत् सत्यं ब्रूहि, यदि त्वं नलो राजा सूदरूपधारी, चिन्तान्धिमग्नं मां समुत्तारय इति। स तु श्रुत्वानलः स्नेहहर्षदुःखलज्जाजडःअवाङ्मुखः अश्रुगद्गदं तामवादीत् देवि ! स एवास्मि नलः पापः कुलिशकर्कशः, येन त्वां सन्तापयता व्यामोहात् अनलायितं, ततः साब्रवीत् कथं त्वयेदृशंवैरूप्यमासादितम् ? ततःस नलः तस्यै सर्वं स्वोदन्तम् आकार्कोटसंख्यात् कलिनिर्गमनान्तमवर्णयत्। तत्क्षणाच्चसः कार्कोटदत्तमग्नि-

शौचं तद् वस्त्रयुग्मंप्रावृत्य स्वंरूपं प्रत्यपद्यत। ततस्तं प्राप्ताभिरामरूपं नलं दृष्ट्वा सा दमयन्ती विकसद्वदनारविन्दा नेत्राम्बुभिः शमितदुःखाग्निः कमपि अनुपमं हर्षमवाप। अथ एतद्वृत्तान्तं परिजनमुखादाकर्ण्य विदर्भनाथः नलं समभिनन्द्यप्रपूज्य च पुरं महोत्सवपूर्णमकार्षीत्, व्यसर्जयच्चकृतयथोचितसत्क्रियः सत्रपम् ऋतपर्णं कोसलान् प्रति। ततश्च नलः निषधान् गत्वा तं पुष्कराक्षम् अक्षज्ञानेन पुनर्विजित्य धर्म्माचाररतः देहाद् गतद्वापरमनुजंतं कृतसंविभागं कृत्वा दमयन्त्या सह राज्यं सुनेनाशासत्। इत्येवं स सुमलो नाम द्विजः तारापुरेनगरे राजसुतां बन्धुमतीमिति कथां व्याख्याय पुनरब्रवीत् देवि ! एवं महान्तो विपदमतीत्य पुनः कल्याणं भजन्ते, अस्तगमनदुःखमनुभूय दिनकृत् पुनरुदयं लभते हि। तस्मात्त्वमपि अनतिचिरं तं पतिमवाप्स्यसि, धृतिमवलम्बस्व। इत्येवमुक्तवन्तं द्विजंबहुना धनेन अभ्यर्च धृतिमवलम्ब्यच दयितप्रतीक्षा बन्धुमती समाश्वस्ता व्यतिष्ठत। अथ अल्पीयसैव कालेन स महीपालः देशान्तरागतां तां जननीमादाय पितृसहितः समाययौ। आगत्य च अमृतां शुरिव पार्वणः लक्ष्मींजनयन् तां बन्धुमतीमभ्यनन्दयत्, अभुनक् च तत्र श्वशुरदत्तराज्यधुरः राजा सन् अभीप्सितान् भोगान्।

इत्यात्ममन्त्रिमरुभूतिमुखात् अपूर्वामाख्यायिकां निशम्य प्रियासखः स नरवाहनदत्तः सुभृशमभ्यनन्दत्।

सप्तपञ्चाशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1723116538Screenshot2024-08-08165843.png"/>

अथ रत्नदत्तनामा बणिक् वत्सेश्वराय विज्ञापयितुंप्रतीहारनिवेदितः तत्सकाशमाययौ। स तु प्रविश्य राजानम् उदयनं नत्वा व्यजिज्ञपत् देव ! अस्तीह वसुधरो नाम कश्चिद्दरिद्रो भारिकः। साम्प्रतन्तु स यथेच्छं ददत् खादन् पिबंश्च दृश्यते। मया पुनः कैतवेन स गृहं नीत्वायथेष्टंपानभोजनादिना परितोष्य वृत्तान्तं परिपृष्टोऽब्रवीत् मया राजकुलात् सत् रत्नकटकं लब्धं, ततश्चैकं रत्नमुत्सार्य्यअहं विक्रीतवान्। तेन च दीनारलक्षाणि मयावाप्तानि हिरण्यगुप्ताख्यबणिजः। तेनाहमिदानीं सुखेन तिष्ठामीति उक्त्वातेन देवनामाङ्कितं तत् कटकं मे दर्शित, तदिदानीं देवो मया विज्ञप्त इति। तदाकर्ण्य स वत्सेश्वरः तत्र तं भारिकं तञ्च सन्तंरत्नबणिजं हिरण्यगुप्तं सविनयमानाययामास। ततः स राजा तत् कटकं दृष्ट्वा प्राब्रवीत् हन्त स्मृतं कटकमिदं मत्प्रकोष्ठादत्र पुरे भ्रष्टमिति। तदेतत् कटकं किं त्वया लब्धमिति सभ्यैः पृष्टः स भारिकः प्रत्यवादीत् भारजीवी कुतो राजनामाक्षराणि वेद्मि, दारिद्र्यदुःखदग्धेन मया एतत् लब्धा स्वीकृतम्। इत्येवमुक्तवति तस्मिन् रत्नार्थमाक्षिप्तः स बणिगब्रवीत् मया मूल्येन आपणे गृहीतमिदं, न चात्र रत्ने राजनाम अङ्कितमस्ति, कटकान्निष्काषितत्वादस्य इति हिरण्यगुप्तस्य वचो

निशम्य यौगन्धरायणःप्रावोचत् नात्र कस्यापि दोषः, दरिद्रस्य अलिपिज्ञस्य भारिकस्य किमनेन। दारिद्र्यात् चौर्य्यमपि क्रियते, अनेन तु पथि च्युतं लब्धं, बणिक् चायं मूल्येन गृहीतवान् नैव वाच्यः। इत्येवं महामन्त्रिणो वचनमाकर्ण्य वत्सेशः श्रद्दधेआददे च भारिकेण व्ययीकृतांपञ्चसहस्रींदत्त्वा हिरण्यगुप्तात्तस्मात् स्वंरत्नम्। अकरोच्च तं भारिकं मुक्तं स्वं कटकं गृहीत्वा। स च भुक्तपञ्चसहस्रीकोऽपि गतभोर्गृहं प्रायात्। विश्वासघाती पापोऽयमिति अन्तर्द्विषन् नृपतिस्तंरत्नदत्तंबणिजंकार्य्यार्थमानयत्।

अथ गतेषु तेषु राजाग्रगः वसन्तकः प्राब्रवीत् अहो दैवाभिशप्तानां प्राप्तोऽपि अर्थः प्रणश्यति ? यदस्य भारिकस्य भद्रघटवद् वृत्तान्तः संवृत्तः। तथाहि आसीत् कश्चित् पाटलिपुत्रे नगरे शुभदत्तो नाम। स प्रत्यहं वनात् काष्ठभारम् आनीय विक्रीय स्वं कुटुम्बकम् अपुषत्। एकदा सः दूरं वनं यातो ददर्श चतुरं दिव्याभरणभूषितान् यक्षान्। ते सर्व तमागतं भीत वीक्ष्ययथायथ पृष्ट्वादरिद्रं बुद्धासञ्जातकृपा बभाषिरे भद्र ! इहामदन्तिके एकं कर्म्मकुरु,वयं तव अक्लेशेन गृहनिर्वाहं करिष्यामः। इत्युक्तस्तैःशुभदत्तस्तदन्तिके आसीत् अकरोच्च तेषां स्नानादिपरिचर्य्यां कृत्स्नाम्। अथ भोजनस्थाने सञ्जाते ते यक्षास्तमब्रुवन् भद्र ! अमुतो घटात् अस्मासुआहारं देहि। ततः स यावत् तं शून्यंघटं दृष्ट्वा विलम्बते, तावत् ते गुह्यकाः सग्मिताननास्तमवोचन् शुभदत्त ! न वेत्सि त्वम्,

अस्मिन् घटान्तरे हस्तं क्षिप, यथेष्टं लप्ससे, घटोऽयं कामप्रदो हि। तदाकर्ण्य यावत् पाणिं घटान्तरे क्षिपति, तावत् यथाकाममाहारपानादिकं तत्रापश्यत्। ततः शुभदत्तस्तेभ्यस्तद् यथाकाममददात् स्वयञ्च बुभुजे। एवं भक्त्या भीत्या च तान् परिचरन् प्रतिदिनं कुटुम्बचिन्तार्त्तस्तदन्तिके अस्थात्। तत्कुटुम्बकञ्च तैर्गुह्यकैः स्वप्नादेशेन आश्वासितं तेषां प्रत्ययात् कथमपि आसाञ्चक्रे। एवं मासं परिचरन्तं तं शुभदत्तंयक्षाः समभ्यधुः भद्र ! तुष्टाः स्मः तव अनया भक्त्या, ब्रूहि किं ते प्रियमुपकुर्म्मः? सोऽब्रवीत् यदि भवन्तः तुष्टाः सत्यतः, तन्मेएष भद्रघटः प्रदीयताम्। तमूचुस्ते यक्षाःभद्र ! नैष शक स्त्वया रक्षितुं भङ्गेपलायत एवैषः, तदपरं वरं वृणुष्व। इत्युक्तोऽपि स यक्षैःशुभदत्तः यदा अपरं वरं नैच्छत् तदा ते तस्मै तमेव भद्रघटं ददुः। ततः स तान् प्रणम्य हृष्टः तं घटमादाय जवात् गृहमागतः बान्धवाननन्दयत्। तत्र तस्मात् घटात् यद् यद् भोजनादि आवश्यकं तत्तद् वहिष्कृत्य कुटुम्बं परिपोष्य स्वयमपि अभुङ्क्त। एवं क्रमेण स भारमुक्तः सर्वान् कामानवाप्य पानमत्तो बभूव। एकदा बन्धुभिः कुतस्तवेदृशी श्रीरिति परिपृष्टः स मूढ़ःदेवदत्तं तं व्यक्तमवदत्। तञ्चघटंगृहीत्वा स्कन्धमारोप्य तथा नर्त्तितुं प्रारेभेयथा स मदोद्रेकस्वलद्गतेस्तस्यस्कन्धात् विच्युतः भुवि पतित्वा खण्डशः समभवत्, तिरोदधे च तदैवाक्षतीभूय निजस्थानाय। स च शुभदत्तः सविषादं पूर्वामवस्थामवाप। तदेवं पानदोषादिप्रमादविहतधियः अभव्याः प्राप्तमप्यर्थं

परिरक्षितुं नैव शक्नुवन्ति। इत्येवं भद्रघटाख्यानं वसन्तकात् निशम्य वत्सपतिरास्थानमण्डपादुत्थाय स्नानाहारादिकाः क्रियाश्चकार। नरवाहनदत्तोऽपि स्नात्वापितुरन्तिके भुक्त्वादिनान्ते सखिभिः साकं स्वंभवनमगात्। तत्र रात्रौ अनिद्रं शयनतलगतं तं सुहृत् मरुभूतिः शृण्वत्सुसर्वेषु दिव्यां कथामाचचक्षे देव ! जानेऽहं दासीसङ्गेच्छया त्वया अन्तःपुरं नाहूतं, सापि दासी नाहूता, तेन तेऽद्य निद्रा नास्ति, तत् किमद्यापि जानन्नपि वेश्यासु अनुरज्यसे ? न हि आसां सद्भावः कदापि भवेत्, तदत्रकथामेतां शृणु।

अस्तीह चित्रकूटाख्यं प्रधानं महासमृद्धंनगरम्।तत्रासीत् रत्नवर्म्मानाम महाधनपतिर्बणक्। इतरानुग्रहेण तस्य कश्चित् सूनुरजायत। तञ्च नाम्ना ईश्वरवर्म्माणमकरोत् पिता। क्रमेणाधीतविद्यम् अतिक्रान्तशैशवं तं पुत्रं वीक्ष्य स एकपुत्रोरत्नवर्म्मा व्यचिन्तयत् वेश्या नाम आढ्यनांयौवनान्यानां धनप्राणापहारिणीरूपिणीकुसृतिर्धात्रासृष्टा, तदिममात्मजं कस्याश्चित् कुट्टन्याः समर्पयामि वेश्यानां कापट्यशिक्षार्थं, येन ताभिर्नासौवञ्चते। इत्यालोच्य सपुत्रेण तेन यमजिह्वाख्यायाः कस्याश्चित् कुट्टन्याः सदनमासादितम्। तत्र स स्थूलहनुंदीर्घदशनां वक्रनासां स्वदुहितरं शिक्षयन्तींतां कुट्टनीं ददर्श हे पुत्रि ! धनेन सर्वः पूज्यते, विशेषतः वेश्या, अनुरागिण्यास्तुतत् धनं नास्ति, तस्मात् वेश्या रागं त्यजेत्, रागो हि वेश्यासायंसन्ध्ययोः दोषाग्रदूतः, तस्माद वेश्या मिथ्यैव

रागं दर्शयेत्, नटीव सुरक्षिता रम्यं रञ्जयेत्, रक्तञ्च धनंदुह्यात्। दुग्धार्थञ्च तं त्यजेत् पुनश्च प्राप्तार्थं गृह्णीयात्। तथा वेश्याजनः सुनिषत् सर्वत्र यूनि शिशौवृद्धेविरूपे तथा रूपवति समः स्यात्, एवं सति सर्वदा सुखमश्नुते। इत्येवमुपदिशन्तीं दुहितरं तां क्रुटनींसमाससाद।रत्नवर्म्मा तयाकृतातिथ्यस्तेसहस्रं निष्क्रयं ददामि त्वं मे पुत्रंविविधाः कलाः शिक्षय इति ताम् अन्वरुणत्। सा च यमजिह्वा तदाकर्ण्यत तस्य पुत्र तास्ताः कलाः शिक्षयामास। स तु पुत्रः वर्षेणेकेनसर्वाः शिक्षित्वा पितुरन्तिकमाजगाम। प्राग्षोडशवर्षश्चत पितरमुवाच तात ! अर्थादेव धर्मकामौ स्तः, तत् किञ्मेअर्थजातं देहि। एवमुक्तः पिता तद्वचसि श्रध्दयाप्रोक्तःसन्पञ्चानां द्रव्यकोटीनां भाण्डतस्मै ददौ। तदादाय स बणिकपुत्रःईश्वरवर्म्माससार्थः शुभे अहनि स्वर्णद्दीपाब्धिवाञ्छयाप्रायात्। अथक्रमेण पथि गच्छन् काञ्चनपुरं नाम नगरं प्राप्य तत्रासनेवाह्योद्याने समानमत्। ततस्तत्र स्नातानुलिप्तश्चप्रविश्वनगरं प्रेक्षणक द्रष्टुमेकदेवालयं जगाम ? ददर्श च तत्रनृत्यन्तीं सुन्दरीं नाम तारुण्यवातोच्छलितां लहरीमिव रूपाXकामपि कामिनीम्। स तु युवा दृष्ट्वैवतां तदायत्तमनाः तथा समभवत्, यथा सा कुट्टनीशिक्षा क्रुद्धेव तस्य दूरे अभवत्। ततश्च स वयस्यं प्रेष्य नृत्यान्ते तां पार्थयामास। सा च विनीता धन्यास्मीति वदन्ती तदन्वमन्यत। अथेश्वरवर्म्मा स्वेनिवासे निपुणान् भाण्डरक्षिणः स्थापयित्वा तस्याः सुन्दर्य्याःमन्दिरमगात्।

तञ्चगृहमायातं तस्याः वेश्याया माता तत्कालोचितैस्तैस्तैरुपचारैर्बहुसमादरमुपाचरत्। अथ निशागमे तया स्फुरद्रत्नवितानं विन्यस्तपर्य्यङ्कंशयनगृहं स प्रविश्यत। तत्र च तया विचित्रकरणे नृत्ये सुरते च विदग्धया तया सुन्दर्य्या सममरमत। गाढ़दर्शितानुरागां सततपार्श्वचरीं तां दृष्ट्वा स द्वितीयेऽह्नि निर्गन्तुं नैव शशाक ? ददौ च तस्यै पञ्चविंशंहेम लक्षाणाम् । सा तु सुन्दरी प्राप्तंमया भूरि धनं परं भवादृशं पुरुषरत्नं माहं प्राप्ता, स चेत् भवान् मया प्राप्तः, किं मे धनेन, इत्येवमसत्याभिसन्धानेन तद्रत्नजातमगृह्णतींसुन्दरीं माता एकापत्या मकरकटी नाम तामवादीत् पुत्रि ! इदानीम् अस्मदीयं यत् तदस्यैव स्वकं धनं, तदेतत् अनेन दत्तम् अर्थजातं तस्मिन्नेव स्थापय, कात्र क्षतिः ? एवमुक्ता सा सुन्दरी कृच्छ्रादिव तत् सर्वमग्रहीत्। ईश्वरवर्म्मा च मूढस्तां सत्यानुरागिणीममन्यत। इत्थंतस्या रूपेण नृत्येन गीतेन च हृतात्मनस्तत्रैव स्थितस्य तस्य मासद्वयमतिचक्राम। तावच्च स तस्यै सुन्दर्य्यै द्वेकोटीक्रमेण ददौ। अथ अर्थदत्तो नाम सखा उपेत्य तं स्वैरमुवाच सखे ! सा यत्नोपार्जितापि कुहनीशिक्षा कातरस्य अस्त्रविद्यैव किं निष्फला समवर्त्तत। यदस्मिन् वेश्याप्रेमणि सद्भावस्त्वया बुध्यते ? मरमरीचिकासु किं जलं सत्यं स्यात् ? तद् यावदिह ते समग्रं धनं न क्षीयते तावद्व्रजामः। ते पिता एतत् नैव जातु क्षमेत।

इत्येवमुक्तस्तेन मित्रेण स बणिग्युवा प्रत्यवादीत् सखे! सत्यंवदति विश्वासः, सुन्दरी तु न हि तादृशी, असौ

क्षणमपिमामपश्यन्ती प्राणान् मुञ्चेत्, तद्भवान् एतां बोधयतु यदि सर्वथा गन्तव्यम्। एवमुक्तस्तेनार्थदत्तः तस्य मकरकट्याश्च सन्निधौ तां सुन्दरीमवदत् सखि ! तव तावत् ईश्वरवर्मणि अमामान्या प्रीतिः, अनेन च अधुना बणिज्ययास्वर्णद्वीपमवश्यं गन्तव्यं ततश्चायं तथा महतीं सम्मृद्धिं प्राप्स्यतियथागत्य पुनस्त्वदन्तिके यावत्कालं सुखं स्थास्यति, तस्मादनुमन्यस्वतव प्रियतममीश्वरवर्म्माणम्। तदाकर्ण्यसाश्रुमुखीईश्वरवर्म्मणोमुखमवलोकयन्तीसविषादा प्राब्रवीत् यूयं जानीत, किमहं वच्मि, अन्तमनवेक्ष्य का कस्य प्रत्येति, तदलं यद्विधत्तां विधिर्मम। तदाकर्ण्य माता तामवादीत् पुत्रि ! मा दुःखं कुरुष्व, ते धृतिरस्तु सिद्धार्थश्चते प्रियोऽयम् इह एष्यत्येव इत्येवमाश्वास्य माता स्थितसंवित् तया सह एकस्मिन् कूपे मार्गाग्रगुप्तं जालमकारयत्। तदा वेश्वरवर्म्मादोलारूढमानसः समभवत्, सुन्दरी च शुचेव अल्पाल्पमाहारं पानञ्च अकार्षीत्, न बबन्ध च गीतवादित्रनृत्येषु रतिम्। ईश्वरवर्म्मणा च तैस्तैः प्रणयवचनैः सा समाश्वास्यते स्म।

ततो वयस्येन उक्त दिवसे स ईश्वरवर्म्माकुट्टनीकृतमङ्गलस्तस्मात् सुन्दरीभवनात् निर्जगाम, सुन्दरीच सा उदश्रुःसमातृका नगराद्वहिराकूपात् बद्धान्तर्जालकात् तमनुवव्राज। ततश्चयावत् स सुन्दरींनिवर्त्य प्रयाति तावत् तया सुन्दर्य्या तस्मिन् जालपृष्ठे कूपे आत्मा निचिक्षपे। हा हा पुत्रि ! क्व गतासीति महानाक्रन्दः सहसा तस्या दासीनां भृत्यानां मातुश्चसंजज्ञे। तेन च प्रतिनि-

वन्तः समित्रः स ईश्वरवर्म्मा कूपे क्षिप्ततनुं तांकान्तांदृष्ट्वा मोहमुपागमत्। सा च मकरकटी बहु विलपन्ती तस्मिन् कूपे स्निग्धान् स्वान् ससंविदःभृत्यानवातारयत्। ते च रज्जुभिरवतीर्य्यैव दिष्ट्याजीवति जीवतीति उक्त्वातां सुन्दरीं ततः कूपादुदक्षिपन्। अथोत्क्षिप्ता मृतकल्पा सा आत्मानं विनिवेद्य प्रत्यागतं बणिक्पुत्रंदृष्ट्वा शनकैरालापमकरोत्। ततश्चेश्वरवर्म्मासवयस्यः सम्प्रहृष्टः तां समाश्वस्तां प्रियामादाय प्रत्यावृत्य तद्गृहमेव प्रायात्, अजहार सुन्दरीप्रेमप्रत्ययं निश्चित्य तत्प्राप्तिञ्च जन्मनः फलं मत्वा पुनर्यात्राबुद्धिम्।

अथैकदा सोऽर्थदत्तः सखा पुनः तमभ्यधात् सखे ! मोहात् त्वया किमात्मा नाश्यते ? कूपपाततः सुन्दरीस्नेहप्रत्ययस्ते मा भूत्, अतर्क्या हि कुट्टनीकूटरचना विधेरपि। क्षयितार्थश्चपितुरन्तिके किं वक्ष्यसि क्ववा यास्यसि ? तदधुनापि यदि ते कल्याणी मतिः तन्निर्याहि।एवं तस्य वचः अवधीर्य्य असौ बणिग्युवा मासेन अन्यत् कोटित्रयं व्ययीचकार। ततो हृतसर्वस्वमःअर्द्धचन्द्रं दत्त्वा तस्मात् सुन्दरीगृहात् तथा कुट्टन्या निरवास्यत। ते च अर्थदत्तादयः त्वरितं स्वनगरं गत्वा तत्पत्रे तत् सर्वमशेषतः समाचख्युः। स च तत्पिता रत्नवर्म्मातद्विदित्वा सुदुःखितः तां कुट्टनीं यमजिह्वामभ्येत्य समभाषत एतावत् मूल्यं गृहीत्वा त्वया मे सुतस्तथा शिक्षितः यथा मकरकट्यातत्सर्वस्वंहेलया हृतम्। इत्युक्त्वातस्यै तत् सर्वं पुत्रवृतमवर्णयत्। ततस्तंयमजिह्वा वृद्धकुट्टनी प्रत्यवादीत्

भद्र! आनायय ते पुत्रमिह, अहं तथा तं करिष्ये यथा स मकरकट्यास्तत् सर्वं धनं हरिष्यति। एवं तया प्रतिज्ञाते स बणिक्पतिस्तदैव शीघ्रं दानपुरःसरया वृत्त्या तां परितोष्य तस्य पुत्रस्यानयनाय हितेषिणं मित्रमर्थदत्तं प्राहिणोत्। अर्थदत्तश्च पुनस्तत् काञ्चनपुरं गत्वा तस्मै ईश्वरवर्म्मणे तत् सर्वमुदन्तजातमशंसत्, पुनश्चाब्रवीत् मित्र ! त्वं मे वचः नाकार्षीः, अद्य च वेश्यानुरागस्त्वया प्रत्यक्ष कृतः, कोष्टिXकं दत्त्वापि अर्द्धचन्द्रः प्राप्तश्च, कः प्राज्ञो वेश्यासु स्नहमभिलषेत्। किमिह भवता वक्तव्यम्, ईदृशी वस्तुवृत्तिर्हि। तावत् नरो विदग्धः धीरः शुभभागी च यावत् रामाविभ्रमभृमिषु न पतेत्। तदागच्छ पितरन्तिकं, मन्युप्रतिकृतिं कुरुष्व इत्युक्त्वातेनार्थदत्तेन सः सत्यरं स्वं पुरमनीयत। स चेश्वरवर्म्माआश्वास्य पितुः पार्श्वमुपागतः। पित्रा च एकापत्यस्नेहात् सान्त्वयित्वा पुनर्यमजिह्वायाः सकाशं नीतः। तत्र च तया पृष्टःसर्वम् अर्थदत्तमुखेन सुन्दरीकूपनिपातान्तंधनक्षयवृत्तान्तमाचख्यौ। यमजिह्वावादीत् अहमेवात्रापराधिनी, यन्मया विस्मृत्य एतामेष विद्यां न शिक्षितः, यया हि विद्यया मकरकट्या अन्तर्निबद्धजालेकूपपृष्ठे सुन्दरी देहमक्षिपत् न तु ममार। तदवास्ति प्रतीकार इत्युक्त्वासा कुट्टनी स्वदासीभिः आलं नाम स्वंमर्कटमानाययत्। दत्त्वा च तदग्रतः स्वंदीनारसहस्रं सा तमुवाच निगिलेति। सोऽपि शिक्षितस्तत् सर्वं निगीर्णवान्। पुत्र !अस्मै विंशति देहि, अस्मै पञ्चविंशतिं देहि, अस्मै षष्टिम्,

अस्मै शतमिति नानाविधेषु व्ययेषु तथा यमजिह्वया दाप्यमानोऽसौ मर्कटस्तांस्तान् निगीर्णवान् पुनरुद्गीर्य्यउद्गीर्य्यसर्वमेव ददौ। इत्थमालयुक्तिं प्रदर्श्य पुनर्यमजिह्वाब्रवीत् ईश्वरवर्म्मन् ! त्वमेतं मर्कटपोतकं गृहाण। गृहीत्वा चैतं पुनः सुन्दरोसदनं गत्वा दिने दिने गुप्तनिगीर्णान् तान् अमुतो व्ययं मृगयस्व, सा तु सुन्दरी आलंचिन्तामणिनिभं दृष्ट्वा त्वां प्रार्थ्यसर्वस्वं दत्त्वा कपिमेतं ग्रहीष्यति। ततश्च अनेन मर्कटेन गृहीततत् सर्वधनदूरमविलम्बितं यायाः, इत्युक्त्वायमजिह्वा तस्मै ईश्वरवर्म्मणेतं मर्कटं ददौ तथा तत् पिता पुनः कोटिद्वयंप्रादात्। स च तद् गृहीत्वा पुनः काञ्चनपुरं प्रायात्, प्राविशच्च त्वरितं सुन्दरीभवनम्। सा च सुन्दरी तं तथा धनपूर्णमवेक्ष्यससुहृदं कण्ठाश्लेषादिभिर्भृशमनन्दयत्। अथेश्वरवर्म्मा यथासमयं तां विश्वास्य आलमानय गत्वा इति अर्थदत्तमवादीत्। तथेति तेन गत्वा स मर्कटःसमानीयत। तञ्च निगीर्णपूर्वदीनारसहस्रं सोऽब्रवीत् आल पुत्र ! अद्य दीनाराणां शतत्रयं प्रयच्छ पानाहारक्रियाकृते, शतं ताम्बूलादिव्ययाय, शतं मकरकट्यै अम्बायै तथा शतं द्विजातिभ्यः समर्पय इत्येवमीश्वरवर्म्मणोक्तो मर्कटस्तथैव तान् उद्गीर्य्यउद्गीर्य्यप्रददाति स्म। एतदवलोक्य सा सुन्दरी मकरकट्या समं व्यचिन्तयत् अहो अस्य कपिरूपधृक् चिन्तामणिःसिद्धः, यः प्रत्यहं सहस्रंदीनाराणां प्रयच्छति। अमुना चेश्वरवर्म्मणाएष चेन्मह्यंदत्तः तदा सिद्धं नः मनोरथैः। इत्यालोच्य मात्रा समं सा सुन्दरी

भुक्तोत्तरमुखस्थितम् ईश्वरवर्म्मणमर्थयत् नाथ ! यदि ते मयि प्रसादः सत्यं तदेवमालं मे प्रयच्छ। तदाकर्ण्यईश्वरवर्म्माहसन्निव तां न्यगादीत् प्रिये ! असौ तातस्यसर्वस्वंतत् दातुं न युज्यते, इत्युक्तवन्तं तं सुन्दरी पुनरभ्यधात् अहं पञ्च कोटीर्ददामि, तदयं दीयतामिति। ततश्चेश्वरवर्म्माक्षणं विचिन्त्य तामब्रवीत् प्रिये ! यदि सर्वस्वं वा इदं नगरं ददासि, तथापि अयं नैव देयः, किमुत कोटिभिः। श्रुत्वैतत् सुन्दरी पुनराह स्म सर्वस्वं ते ददाम्यहं देहि एतंमर्कटं मह्यम् इत्युक्त्वासुन्दरी तस्य ईश्वरवर्म्मणःपादौ जग्राह। तदा अर्थदत्तादयः सर्वे ऊचुः दीयतामयं मर्कटः, ततो भवितव्यं यथा तद्भवतु। ततश्चेश्वरवर्म्मातं तथा दत्तममन्यत, अनयच्च तं दिनं सुन्दर्य्या सम्प्रहृष्टया सह परमसुखेन। प्रातश्च पुनरम्यर्थमानायै सुन्दर्यै निगीर्णपूर्वदीनारसहस्त्रद्वितयं तं मर्कटं प्रादात्। ततश्च तन्मूल्यं गृहसर्वस्वंतस्याःसमादाय तत्क्षणं द्रुतं स्वर्णद्वीपं वणिज्यया प्रायात्। कपिश्च स तस्यै सुन्दर्य्यप्रहृष्टायै दिनद्वयं सहस्रं सहस्रं दीनारान् प्रददौ। तृतीयेह्निअसौप्रीत्या याच्यमानोऽपि यदा किञ्चिन्नादात् तदा सुन्दरोमुच्या तमताड़यत्। स ताड़ितः क्रुधा आपत्य दशनैर्नखैश्चसुन्दर्य्यस्तज्जनन्याश्चमुखं चिच्छेद। ततस्तज्जननी स्रवद्रक्तमुखी क्रुधालगुड़ैस्तं तथा ताडयामास यथा स कपिस्तत्क्षणात् ममार। त मृत सर्वस्वञ्च नष्टमालोक्य दुःखेन सा सुन्दरी मात्रा सह प्राणस्यागोद्यताअभूत्। तदा च तत्र विज्ञातवृत्तान्तो जनः

मकरकट्याजालं कृत्वा यस्य धनं हृतं, तेन स्वधिया आलमुपायं कृत्वा सर्वस्वं पुनर्हृतं तथा अन्यस्य कृते जालं ज्ञातंन तु आत्मनः कृते आल इति ब्रुवन् व्यहसत्। ततः सा सुन्दरी स्वजनैर्जननीयुक्त्या नष्टार्था पाटितानना च देहत्यागात् कथञ्चित् न्यवर्त्तत। स चेश्वरवर्म्मा स्वर्णद्वीपादर्जिताधिकसम्पत्तिः सत्वरं पितुर्गृहं चित्रकूटवर्त्ति समायात्। तमुपागतमुपार्ज्जितवित्तमालोक्य पिता रत्नवर्म्मासमभिनन्द्य कुट्टनीञ्च यमजिह्वां परितोष्य महोत्सवमकार्षीत्। ईश्वरवर्म्माच विलासिनीसङ्गेविदितातुलमायः विरक्तचेताः स्वगृहेकृतदारसंग्रहः सुखेन न्यवात्सीत्। हे नरेन्द्र ! एवं वनिताहृदये कूटादृते न कदापि सत्यकथालवोऽपि वसति, तत् भूतिकामः स्वार्थसाधनपरामु सदेवतासु शून्याटवीष्विव न रमेत। इत्येवं मरुभूतेर्वदनात् यथावदालजालकथां निपीय नरवाहनदत्तः श्रद्धायगोमुखादिभिः सह जहास।

_______

अष्टपञ्चाशत्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1723197782Screenshot2024-08-09153251.png"/>

एवं वेश्यासु असद्भावे मरुभूतिनाकथिते धीमान्, गोमुखः कुमुदिकां कथामाचचक्ष।

आसीत् पुरा प्रतिष्ठाने नगरे विक्रमसिंहः नाम महीपतिः। यः यथाविधानम् अन्वर्थनामा सिंह द्रव विक्रान्तः

समभवत्। तस्य सुभगा नदीनप्रभवा अलङ्कारतनुः शशिलेखेति देवी समवर्त्तत। एकदा स्वनगरे समवस्थितं तं राजानं गोत्रजाः पञ्चाशत् गृहमागत्य पर्य्यवेष्टयन्। तेषां महाभटः, वीरबाहुः, सुबाहु, सुभटः, तथा प्रतापादित्य एते सर्वे राजानः महाबलाः। एतेषु सामादि प्रयुञ्जानंस्वमन्त्रिणं निराकृत्य राजासौ विक्रमसिंहःयुद्धायैव निर्ययौ। अथ प्रवृत्तेशस्त्रसम्पाते उभयोः सैन्ययोः, स राजा शौर्य्यदर्पात् गजारूढ़ः स्वयम् आहवं प्रविवेश। धनुष्पाणिं द्विषतां चमूं दलयन्तंतं वीक्ष्य महाभटाद्याः पञ्चैव सममभ्यपतन्। तेषाञ्च बलेषु बहुषु अभिधावत्सु विक्रमसिंहस्य तद् बलमतुल्यमपि अभज्यत। ततोऽनन्तगुणो नाम मन्त्री पार्श्वस्थितस्तमभ्यधात् राजन् ! भग्नमस्मदबलं तत् साम्प्रतं नास्त्येवास्माकं जयः। अस्मांश्च अवधीर्य्य त्वया बलवद्विग्रहः समाश्रितः। तदिदानीं शिवाय मद्वचनं कुरु, अस्मात् द्विपादवरुह्य। तुरङ्गममारुह्य च एहि अन्यविषयं यावः, जीवन् पुनररीन् ज्येष्यसीति। इति मन्त्रिवचनात् स राजा स्वैरं वारणादवतीर्य्यहयारूढस्तेन मन्त्रिणा समं स्ववर्गान्निर्य्ययौ। निर्गत्य च च्छन्नवेशः सन् क्रमात् उज्जयिनीं पुरीमगमत्। तस्याञ्च कुमुदिकाख्यायाः कस्याश्चित् विलासिन्याः प्रख्यातसम्पदः वसतिं मन्त्रिसहायः प्राविशत्। अकस्माच्च तं गृहमायातं दृष्ट्वा सा व्यचिन्तयत् अहो ! कोऽयं पुरुषातिशयः मद्गृहमुपस्थितः। तैस्तैर्लक्षणैरेष महान् राजेति सूच्यते, तद यदि अयं स्वीकृतोभवेत् तदा मे अभीप्सितं सिद्ध्येत्। इत्यालोच्य समुत्थाय

स्वागतेन तं राजानमभिनन्द्य यथोचितमस्य कुमुदिका आतिथ्यमकरोत्, बिभ्रान्तञ्च तं क्षणान्तरे न्यगदत् धन्याहम् अद्य मे प्राक्तनं सुकृतंफलितं देवेन स्वयमागत्य यन्मे गृहं पवित्रितम्। अनेन प्रसादेन अस्मि ते क्रीता दासी, यन्मे हस्तिशतम् अस्ति, अश्वानाञ्च द्वे अयुते, तथा रत्नपूर्णं मन्दिरञ्च तदिदं सर्व देवस्य अधीनम्। एवमुक्त्वासा कुमुदिका तं नृपं समन्त्रिणं स्नानभोजनादिना उपचारेण पर्य्यचरत्। ततः स राजा विक्रमसिंहस्तत्र अर्पितस्वया तयासाकं खिन्नोऽपि यथासुखं तस्थौ, तस्या धनं बुभुजे, अर्थिभ्यश्चयथाकामं प्रददौ। सा च तस्मै कमपि विकारं न दर्शयति स्म, प्रत्युतः तुष्यति स्म। ततो मय्यनुरक्ता इयमिति तुष्टं नृपं सः अनन्तगुणोमन्त्री रहसि अब्रवीत् प्रभो ! वेश्यानां नास्त्येव सद्भावः, यच्चेयं ते भक्तिंकुरुते, तत्कारणन्तु न जाने। एतत्तस्य वचः श्रुत्वा स राजा तमवदत् मैवं कुमुदिका मदर्थं प्राणानपि त्यजेत्, न चेत्विश्वसिषि, ते प्रत्ययं जनयामि इत्युक्त्वास्वं सचिवं राजा व्याजं व्यधात् शनैः मितपानभोजनः तनुं कृशीकृत्यआत्मानं निश्चेष्टंलुठिताङ्गंचकार। ततः शिविकामधिरोप्यपरिजनेन शोचता श्मशानं नीतः। सा च कुमुदिका शोकात् बान्धवैर्वार्य्यमाणापि आगत्य तेनैव समं चितायां समारोहत्। यावन्नदीप्यते वह्निस्तावदन्वागतां सतींकुमुदिकां बुद्ध्वाराजा सद्यः समुत्तस्थौ। दिष्ट्या अयं प्रत्युज्जीवति इति वदन्तस्ते सर्वे प्रमुदिताः कुमुदिकायुक्तंराजानं स्वंसदनं निन्युः। अथ उत्सवे कृते स राजा

प्रकृतिंगतःरहसि कश्चिदनुरागोऽस्या दृष्ट इति मंन्त्रिणंप्राह स्म। ततस्तं सोऽब्रवीत् राजन् ! एवमपि न प्रत्येमि, अस्त्यत्र नूनंकिमपि कारणं, तदत्रनिश्चयं पश्यामः प्रकाशयामश्चापि त्वां स्वरूपतः येन एतदर्पितं बलं मित्रबलञ्च प्राप्य वयं रणे रिपून् हन्मः। इत्येवं वदति तस्मिन् मन्त्रिणि तत्र गुप्तः प्रेषितश्चारः समाययौ। स च पृष्टः प्रावदत् देव ! वैरिभिस्तेविषयो व्याप्तः, शशिलेखा तु राजमहिषी मृषा राजविपदं श्रुत्वा वह्निमाविशत्। एतच्चारवचः श्रुत्वा स राजा शोकाशनिहतस्तदा हा हा देवि ! क्वगतासीत्यादि बहु विललाप। ततः क्रमेणविज्ञाततत्त्वा कुमुदिका समुपेत्य समाश्वास्य च तं विक्रमसिंहमभाषत देव ! प्रागेव किं मम नादिष्टमिदं, तद् यावदधुनापि मदीयैर्बलैररिनिग्रहः क्रियताम्। इत्युक्तः स राजा तद्धनैरधिकं बलं संगृह्यप्रतिपक्षस्य बलवतोऽन्तिकं प्रययौ। गत्वा च तद्बलैः सबलैश्चयुद्धे तान् पञ्चापि अरीन्विजित्य पुनः तत् राज्यं समासदत्। ततस्तुष्टः कुमुदिकां राजा रहसि अब्रवीत् प्रिये ! प्रीतोऽस्मि ते, किन्ते प्रियं करणीयमुच्यताम् । सा प्रत्यवादीत् प्रभो ! सत्यं तुष्टोऽसि चेत् तदेकं मे हृदयशल्यं चिरस्थितं समुद्धर, उज्जयिन्यामस्यां श्रीधरं नाम मेप्रियं राज्ञाअल्पेन अपराधेन कारानिबद्धं विमोचय। भाविकल्याणं राजलक्षणैरलङ्कृतं त्वाम् एतत्कार्य्यक्षमंबुद्ध्वाअहं सेवितवत्यस्मि,आरूढवत्यस्मि च अभीष्टसिद्धिसम्भावनाविरहात् विफलं जीवनं मन्यमाना त्वच्चिताम्। एव-

मुक्तवतीं तांकुमुदिकां राजा प्राह साधयिष्यामो वयन्ते सुवचनेन इत्युक्त्वामन्त्रिवचनं संस्मृत्यं अचिन्तयत् सत्यमेव मेअनन्तगुणेन मन्त्रिणा वेश्यासु असद्भावः प्रोक्तः, अतोऽस्याः कामना मया अवश्यमेवपूरणीया, इति सञ्चिन्त्य सबलः स राजा तामुज्जयिनीमगात्, तञ्चश्रीधरं मोचयित्वा बहूनि द्रविणानि च दत्त्वा तां कुमुदिकां सुस्थामकरोत्। ततः स्वनगरमागत्य मन्त्रिमन्त्रबलेन स्वोत्साहेन च सर्वान् शत्रून् वशीकुर्वन् सर्वांमहीं बुभुजे। एवं वेशयोषितां हृदयमगाधमविज्ञेयम्। एवमुक्त्वातत्र गोमुखे विरते नरवाहनदत्तस्य पुरतस्तपन्तकः प्रत्यवदत् देव ! नैव स्त्रीषु क्वापि प्रत्ययः विशेषतश्चपलासु, अत्र मया यदृष्टं तद् वच्मि श्रूयताम्।

आसीत् पुरास्यामेव पुरि बलवर्म्माख्यः कश्चिद् वणिक्। तस्य भार्य्याचन्द्रश्रीर्नाम।सा चैकदा वातायनस्थिता सुरूपं शूलहरं नाम कमपि बणिक्सुतमद्राक्षीत्, अरंस्त चतेन सखीगृहमानीतेन तेन यथाकामं मदनासक्ता अलक्षितम्। एवं प्रत्यहं सा यावत् तेन समं तथा रमते तावत् सर्वे तद्बन्धुबान्धवास्तद् विजानन्ति स्म, एकस्तुबलवर्म्मा एव पतिस्तामसतींन ज्ञातवान्। प्रायेण स्नेहान्धा भार्य्यादौःशील्यं नेक्षन्ते।

एकदा तस्य बलवर्म्मणःदाहज्वरः समभवत् तेन च स बणिक् क्रमेण अन्त्यामवस्थां सम्प्राप्तः। तच्च दृष्ट्वा असौ जारः प्रतस्थे, सा तु तं कामुकमापृच्छ्यतेन पत्या सह शीलज्ञैःस्वजनैर्वार्य्यमाणापि शुचातच्चितामारुरोह। इत्थ-

मवितर्क स्त्रीहृदयं, यदेताः अन्यासक्तिञ्च कुर्वन्ति, पतिं विना म्रियन्ते च। एवं तपन्तकोत्तमाकर्ण्य हरिशिखः समभ्यधात् अत्र तावत् देवदासस्य वृत्तं किं न श्रुतं भवद्भिः ?

पुरासीत् कस्मिंश्चित् ग्रामे देवदासाख्यः कश्चित् गृहपतिः। दुःशीलेति च तस्यान्वर्थनामा गृहिणी समवर्त्तत। प्रतिवेशिनश्च तामन्यपुरुषासक्तां विविदुः। एकदासौदेवदासः कार्य्यवशात् राजकुलमगात्। सा च तद् भार्य्यातद्बधैषिणी गृहोपरितले तं परपुरुषमानीय अरक्षीत्। अथ निशीथे आगतं तं देवदासं पतिं भुक्तसुप्तं तेन जारेण अघातयत्। तञ्चोपपतिं विसृज्य तूष्णीं स्थित्वा निशाक्षये निर्गत्य हतोऽयं मेभर्त्ता तस्करैरिति उच्चैश्चक्रन्द।तदाकर्ण्य बन्धवस्तत्रागत्य अवोचन् यदायं चौरेर्हतः, तत् कथं तैः किञ्चिदपि न हृतम् ? इत्युक्त्वा तेतत्रस्थितं तदात्मजंबालमपृच्छन् केन ते तातो हत इति। स स्पष्टमवादीत् पृष्ठभूमौकोऽपि पुरुषः दिवागत्य स्थितः, अथ तेन रात्रौअवतीर्य्य पश्यतो मे तातःनिहतः, अम्बा तु मां गृहीत्वा आदौतातपार्श्वादुत्थिता। इत्युक्ते शिशुना भार्य्याजारेण तं हतं बुद्ध्वाते बान्धवा अन्विष्य तं जारंतदैव जग्मुः, निर्वासयाञ्चक्रुश्चतां दुःशीलां स्वीकृतभर्त्तृबधां शिशुना सह तस्माद् देशात्। इत्यमन्यरता स्त्री भुजगीव निःसंशयं पतिं हन्ति। एवमुक्त्वाविरतेहरिशिखे गोमुखः पुनरब्रवीत् देव ! किमन्येन, सम्प्रति इह वत्सेशसेवकस्य वज्रसारस्ययद् वृत्तं हास्यकरं तत् श्रूयताम्। शूरस्त्र

कान्तस्य तस्य वज्रसारस्य मालवदेशभवा प्राणाधिकप्रियतमा भार्य्याभूत्। एकदा तस्य भार्य्यायाः पिता पुत्रान्वितःमालवात् निमन्त्रणाय सोत्कण्ठः स्वयं समाजगाम। वज्रसारश्च तं श्वशुरंसत्कृत्य राज्ञेनिवेद्य च निमन्त्रितस्तेन समं भार्य्ययासह मालवमयासीत्, गत्वा च शुश्वरवेश्मनि मासमात्रंविश्रान्तः इह राजसेवार्थं प्रत्यागमत्, तद्भार्य्या तु तत्रैव आस्त।

ततो दिनेषु गच्छत्सु तं वज्रसारमुपेत्य अकस्मात् क्रोधनो नाम कश्चित् सुहृदभाषत सखे ! भार्य्यां पितृगृहे त्यक्त्वा किं त्वया गृहं नाशितं, तत्र तया पापया अन्यपुरुषासङ्गः कृतः। ततः आगतेनकेनचिदद्य मम कथितम्। मा एतद्वितथं मंस्थाः, तस्मादेतां निगृह्यअपरां वह। इत्युक्त्वा क्रोधने याते स तु वज्रसारः मूढ़ इव क्षणं स्थित्वा व्यचिन्तयत् शङ्केसत्यमेवैतत् अन्यथा कथम् आह्नायके विसृष्टेऽपि सा नागता ? तदेतां स्वयमानेतुं यामि, पश्यामि किं भवेत् इति संचिन्त्य मालवं गत्वैव श्वशुरमनुज्ञाप्य तां भार्य्यामादाय ततः प्रतस्थे, गत्वा च दूरमध्वानं युक्त्या अनुगान् विसृज्य तत्पथेन तामादाय गहनं वनं गत्वा तत्र तामुपवेश्य विजने वदति स्म त्वमन्यपुरुषासक्तेति आप्तान्मित्रात् मया श्रुतं, मया चात्र स्थितेन आह्लायकमुखेन त्वमाहूतापि नागतासि, तत्सत्यं ब्रूहि नो चेत् करिष्ये ते निग्रहम्। तदाकर्ण्य साब्रवीत् यदि ते अयं निश्चयः, तत् किं मां पृच्छसि कुरुष्व यत्ते रोचते, इति सावज्ञंतस्या वचनं निशम्य कोपात् स वज्र-

सारःतरौ लताभिस्तां बद्ध्वासमताडयत्। यावच्च स तस्या वस्त्रंहरति तावत् तां नग्नां दृष्ट्वा तस्य मूढ़स्य रागिणः रिरसा व्यजायत। ततो बद्धांयावत् रन्तुमाश्लिष्यति तावत् सा नेच्छति स्म, सुरतार्थ प्रार्थ्यमानाच जगाद यथाहं त्वया लताभिर्बद्धाताडिता, यद्यहं तथा त्वां ताड़येयं ततोऽहं त्वया सह रतमिच्छामि नान्यथा। स च काममोहितस्तथैव प्रत्यपद्यत। किमाश्चर्य्यंवज्रसारोऽपि स मनोभुवा तृणसारीकृतः। ततः सा तं सहस्तपादं तरौ बबन्ध। तस्य च शस्त्रेण हस्तात् गृहीतेन सा तस्य बद्धस्यकर्णनासं चकर्त्त च। तच्च शस्त्रंगृहीत्वा तस्य च वासांसि परिधाय सा पापा पुंवेशं कृत्वा यथाकामं ततः प्रतस्थे। स तु वज्रसारस्तत्र छिन्नश्रवणनासिकः गलता शोणितौवेन अवमानेन च नताननस्तस्थौ।

अथ कश्चिद् भिषक् ओषध्यर्थं तत्रागात्। तञ्च तथाविधं दृष्ट्वा कृपया स साधुरुन्मुच्य गृहं नीतवान्। तत्र च तेनाश्वासितः शनेः स्वगृहमागमत् न च प्रापत् समन्विष्य तां कुतोऽपि कुगेहिनीम्। ततः स तत् सर्वं वृत्तान्तं क्रोधनाय अवर्णयत्। तेनापि क्रोधनेन वत्सराजस्य पुरतः सर्वमेतत् कथितम्। अयं निष्पुरुषामर्षः स्त्रीभूत इति भार्य्ययाअस्य पुंवेशोहृतः कृतश्चादितः महान् निग्रहः इति राजकुले सर्वजनोपहसितोऽपि स वज्रसारःवज्रसारेण चेतसा इहैवास्ते। तदेवं देव ! स्त्रीषु कस्य विश्वासः इति गोमुखे उक्तवति पुनर्मरुभूतिरवादीत्। देव ! स्त्रीणां मनः अप्रतिष्ठं सततं तदत्रकथामिमां शृणु।

आसीत्पूर्वं दक्षिणापथे सिंहबलो नाम राजा। तस्यकल्याणवतीनाम सर्वान्तःपुरयोषितां प्रिया मालवराजसुता भार्य्या समभूत्। एकदा तथा सह राज्यं शासन् स महीपतिः बलिभिःमोत्रजैः सम्भूय देशात् प्रभ्रंशितः। नतु देवीद्वितीयः प्रच्छन्नंसायुधोऽल्पपरिच्छदः श्वशुरसदनं सम्प्रतस्थे। गच्छंश्चपथि अटव्यां स शूरः आधावन्तपुरः सिंहमेकेन खड्गप्रहारेण अवहेलया द्विधा चकार। पातयामास च गर्ज्जन्तमायान्तं वनद्विपंखङ्गच्छिन्नकरं। तथा अरण्यविक्रान्तः करी कमलिनीरिव एकाकी तस्करचमूविदलितमार्गमतिक्रम्य मालवं प्राप्य स्वां देवीं प्रावदत् प्रिये। न मे मार्गवृत्तं त्वया पितृगृहे वाच्यम्। देवि ! लज्जेऽहं, क्षत्रियस्य विक्रमे का श्लाघा इत्युक्त्वातयासाकं तत्पितुर्गृहं प्राप। संभ्रमात् तेन श्वशुरेण पृष्टश्च निजं वृत्तान्तमुक्तवान्। सम्मान्य च तेन श्वशुरेण दत्तहस्त्यश्वबलः स गजानीकनाम्नः बलिनो राज्ञः समीपं प्रागात्। विपक्षविजयोद्यतश्च तां देवीं कल्याणवतींतत्रैव पितृवेश्मनि स्थापयामास।

तस्मिंश्च प्रयाते यातेषु च कियत्सु दिनेषु सा देवी वातायनस्था कञ्चित् पुरुषमैक्षत। स तु दृष्ट एव रूपेण तस्था हृदयमपाहरत्। सा च कामाक्रान्ता तत्क्षणमचिन्तयत् जानेऽहम् आर्य्यपुत्रादन्त्यः सुरूपः शौर्य्यवांश्च पुरुषो नास्तीति, तथापि अस्मिन् पुरुषे मनो मे धावति, तद्यावदस्तु भजाम्येनम् इति संचिन्त्य सा तदा रहस्यधारिण्यै सख्यै स्वाभिप्रायं तं शशंस। न्यवेशयामास च तथैव तं

वातायनपथेनानाय्य रज्जूत्क्षिप्तं पुरुषमन्तःपुरम्। स तु पुरुषःप्रविष्टोऽपि सहसा तस्याः पर्य्यङ्कमध्यासितुं न शशाक, निषसाद च पृथगासने। तदवलोक्य नीचोऽयमिति बुद्ध्वायावत् राज्ञीविषीदति तावत् उपरिष्टात् भ्रमन् अहिरवागात् । तं विलोक्य सभयमुत्थाय सहसा पुरुषोऽसौ धनुरादाय विशिखेन तं भुजगमबधीत् अक्षिपच्चगवाक्षेण तं विपन्नपतितं वहिः। ननर्त्त च हर्षेण तद्भयादुत्तीर्णःस कातरः। नृत्यन्तंतमुद्वीक्ष्यसा कल्याणवती भृशमुद्विग्नाव्यचिन्तयत् धिक्धिक्किमेतेन निःसत्त्वेनाधमेन। ताञ्चविरक्तां दृष्ट्वा चित्तज्ञातत्सखी निर्गत्य आशुप्रविश्य च ससम्भ्रमा निजगाद देवि ! आगतोऽयं यदि ते अनभिमतः, तदायं युवा सम्प्रति प्रयातु यथागतेनैव पथा स्वगृहम्। एवं तयोक्तेस पुरुषः भयाकुलः वातायनाद्बहिः रज्ज्वा सम्पतितः सत्वरं स्वगृहंपलायितः।

अथ तस्मिन् गते सा कल्याण्वती तां सखीमवादीत् सखि ! कृतं त्वया शोभनं, यदयं नीचः सत्वरं वहिष्कृतः, त्वया मे हृदयं ज्ञातं, चेतस्तु मम दूयत एव, मे भर्त्ता सिंहव्याघ्रादीन् निहत्यापि क्रिया अपह्नुते। अयन्तु भुजगं हत्वैव प्रनृत्यति। तत्तादृशं हित्वा कथमस्मिन् प्राकृते रतिः ? तदव्यवस्थितमतिं मां धिक् अथवा सर्वा एव स्त्रियो धिक् या मक्षिका इवकर्पूरं हित्वा अशुचौ धावन्ति। इत्येवं जातानुशया सा कथमपि निशां नीत्वाभर्त्तारं प्रतीक्षमाणा पितुर्गृहे अतिष्ठत्। तावच्चस सिंहबलःगजानीकेन भूभृता दत्ताधिकबलःगत्वा तान्गोत्र-

जान् पञ्च पापान् शत्रूनबधीत्। ततः स पुनःस्वराज्यंप्राप्य तां भार्य्याञ्चपितुर्गृहात् आनीय तञ्च श्वशुरं प्रभूतैर्धनैरापूर्य्यसुचिरं निष्कण्टकां क्ष्मांशशास। एवं प्रवीरे सुभगेऽपि सत्पतौ वि वेकिनीनामपि योषितां चलं मनः यत्र कुत्रचित् धावति, अथवा विशुद्धसत्त्वा योषितः विरलाः खलु। इति मरुभूतिना निगदितां कथामाकर्ण्य स वत्सराजसुतो नरवाहनदत्तः सुखसुप्तस्तां रजनीमनैषीत्।

________

अथ दशमो लम्बकः।

<MISSING_FIG href="../books_images/U-IMG-1723209661Screenshot2024-08-08165843.png"/>

ऊनषष्टितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1723209661Screenshot2024-08-08165843.png"/>

अथ प्रातः कृतनित्यक्रियः स नरवाहनदत्तः सचिवैः सह स्वमुद्यानं विहरन् ययौ। तत्रस्थश्च आदौ व्योम्नः प्रभापुञ्जंततः बडीर्विद्याधराङ्गनाः समापतन्तीरैक्षिष्ट।तासाञ्च मध्ये ताराणामिव शीतांशुरेखां लोचनानन्ददायिनीं विकसत्पङ्कजनयनां नीललोचनषट्पदां सलीलहंसगामिनीं वहदुत्पलसौरभां तरङ्गहारित्रिवलीलतालङ्क्षतमध्यां साक्षात् स्मरोद्यानवापीशोभाधिदेवतामिव एकां कन्यकामद्राक्षीत्। स्मरसञ्जीवनीं तां चान्द्रींमूर्त्तिमम्भोधिरिव दृष्ट्वा स नरवाहनदत्तः उत्कलिकाकुलश्चुक्षुभे। अशंसच्चअहो सुन्दरनिर्म्माणवैचित्री विधातुः इत्येवमालोच्य

सचिवैः सह तामुपाययौ। पप्रच्छ च तां तिर्य्यक् पश्यन्तीं प्रेमदृष्ट्या, का त्वं शुभे ! कथमिहागमनं वा। तदाकर्ण्य साब्रवीत् शृणुत, वदामि।

अस्ति हिमाचले काञ्चनशृङ्गं नाम हैमं पुरम्। तत्रास्ति स्फटिकयशा नाम विद्याधरपतिः। स हि धार्मिकः कृपणानाथशरणागतवत्सलश्च। तस्य हेमप्रभा नाम महिषो। गौर्य्या वरेण अहं तयोः पञ्चभ्रातृभ्यः कनीयसी प्राणाधिकप्रिया कन्या शक्तियशानाम। अहन्तु सखीभिः समं पित्रोरादेशात् व्रतैः स्तोत्रैश्च पर्य्यचरम्। एकदा सा तु भगवतो तुष्टा समग्रा विद्या दत्त्वा मामादिशत् पुत्रि ! तव पितुर्दशगुणं विद्याबलं भविता, नरवाहनदत्तस्तेभर्त्ता भविष्यति। स च खेचराणां चक्रवर्त्ती भविष्यतीति उक्त्वातिरोऽभूत्। अहञ्च तत्प्रसादात् लब्धविद्याबला क्रमेण यौवनमवाप्तवती अद्य च रात्रौ सा देवीदत्तदर्शना मामादिशत् पुत्रि ! त्वया प्रातरेव गत्वा स्वयं निजः पतिः द्रष्टव्यः। आगन्तव्यञ्च एतदुद्यानम्। तव च पिताचित्तस्थितेतत्मङ्कल्पः मासेन, ते विवाहं संविधास्यति। इत्यादिश्य सा देवो तिरोदधे, यामिनी च व्ययासीत्। तदहमार्य्यपुत्र ! अद्य त्वां द्रष्टुमागता, तत् साम्प्रतं व्रजामि इति गदित्वा सा सखीभिः सह स्वमुत्पत्य पितुरन्तिकमाजगाम। नरवाहनदत्तोऽपि तद्विवाहोत्सुकः समुद्विग्नः मासं युगोपमं विचिन्तयन् अन्तःपुरमविशत्। तत्र च तं विमनसं दृष्ट्वा गोमुखोऽब्रवीत् देव। श्रुणुएकां कयां, येन त्वां विनोदयामि।

पुराभवत् काञ्चनपुरीति कापि नगरी। आसीच्चतस्यां सुमना नाम कश्चिम्महीपतिः। चित्रं येन विराजमानेन आक्रान्तदुर्गकान्तारभूमिना शत्रवोऽपि तादृशाः कृताः। एकदा आस्थानमण्डपगतं तं प्रतीहारो व्यजिज्ञपtदेव ! मुक्तालता नाम कापि निषादपतिकन्या पञ्जरस्थंशुकमादाय वहिर्द्वारि वीरप्रभेण भ्रात्रा सह देवं द्रष्टुकामा स्थिता इति। आनीयतामसाविति प्रभुणोक्तेमा भिल्लदुहिता प्रतीहारनिदेशात् नृपतेरास्थानमण्डपमदिशत्। सर्वेऽपि सभासदस्तस्या अद्भुतं रूपं दृष्ट्वान मानुषीयं कापि देवी नूनमसौ इति समचिन्तयन्। सा तु राजानं प्रणम्य व्यज्ञापयत् देव ! अयं शास्त्रगङ्गाख्यश्चतु र्वेदधरः शुकः कविः समग्रासु विद्यासु कलासु च विचक्षणः। मया पुनर्देवयोग्योऽयमिति कृत्वा अद्यअयमिहानीतःगृह्यतामिति अर्पितस्तदा प्रतीहारेण कौतुकात् नृपतेरन्तिकं नीतोऽसौ शुकः श्लोकं पपाठ,

राजन् ! युक्तमिदं सदैव यदयं देवस्य सन्धुक्षते
धूमश्याममुखोद्विषद्विरहिणीनिश्वासवातोद्गमैः।
एतत्त्वद्भुतमेव यत् परिभवाद्वाष्पाम्बुपूरप्लवे-
रासां प्रज्वलतीह दिक्षु, दशसु प्राज्यः प्रतापानलः॥

इमं श्लोकं पठित्वा शुकः पुनरब्रवीत् किं प्रमेयं कुतः शास्त्राद्ब्रवीमि तदादिशतु देव इति।

ततो विस्मिते राजनि मन्त्री अब्रवीत् प्रभो ! मन्ये शापादयं शकीभूतः कश्चन पूर्वर्षिः। इत्युक्ते मन्त्रिणा राजा तं शुकंपृच्छति स्म भद्र! कौतुकं मे, ब्रूहि स्ववृत्तान्तं,

क्वते जन्म ? कुतस्ते शुकत्वेऽपि शास्त्रविज्ञानम् ? को वा भवान् ? ततः स शुकः वाष्पमुत्सृज्य आह स्म देव! अवाच्यमपि एतत् देवस्य आज्ञया कथयामि, राजन् ! हिमवदन्तिके कश्चित् आम्नाय इव दिग्व्यापिभूरिशाखाश्रितद्विजःरोहिणस्तरुरस्ति। तस्मिन् एक शुकः कृतनिलयः भार्य्यया शक्या सह तस्थौ। तस्मात् तस्यामेषोऽहं दुष्कृतयोगादुत्पन्नः। जातमात्र एव मयि माता मम सा शुकी पञ्चतामगात्। तातस्तु वृद्धः पक्षान्तःमां निवेश्य वर्द्धयति स्म। वार्ध्दक्याद्विचरितुमशक्नुवश्च निकटस्थकानां भुक्तशेषाणि फलानि अश्नन्ददच्चमह्यंकथञ्चित् आसाञ्चक्रे।

एतस्मिन्नन्तरं सहसा सम्भ्रमोद्वेलचमरी वित्रस्तश्वापदा विद्रुतव्याकुलेव सा महाटवी समभवत्। पुलिन्दवृन्दे विविधप्राणिनां संहाराय प्रवृत्ते आखेटभूमिषु कृतान्तक्रीड़ितं कृत्वा आन्तैः पिशितभारैरापतिते एकस्तु वृद्धशवरस्तस्मादनासादितमांसःक्षुत्परीतः सायं तं तरुमारुरोह।आरुह्य च स तत्र सत्वरं शुकान् अन्यांश्च पक्षिणः नीड़ेभ्य आकृष्य आकृष्य हत्वा भुवि व्यपातयत्। आयान्तञ्च तं यमकिङ्करसोदरं दृष्ट्वा यावदहं भयात् शनैः तातस्य पक्षान्तः लोनो व्यतिष्ठं तावत् स पातकी अस्मत्कुलायं प्राप्य तं तातम् आकृष्य पीड़ितग्रीवं निहत्य तरुमूले न्यक्षिपत्। अहञ्च तातेन समं तस्य पक्षतेः पतित्वा निर्गत्य सभयं पर्णान्तःशनैः प्राविशम्। अथावतीर्य्यअसौ भिल्लः अग्नौ भृष्टान् तान् कियतः अभक्षयत्। अगाच्च

अन्यान् कतिपयान् गृहीत्वा निजां पल्लोम्। अहन्तुशान्तभयो दुःखदीर्घां तां निशां कथञ्चित् नीत्वा प्रातर्भूयिष्ठमुदिते जगच्चक्षुषि भास्करे असमुदितपक्षसंरुद्धोवसुधायां मुहुः स्खलन् व्यचरं, प्रापञ्च तृषार्त्तः आसन्नवर्त्तिनः कस्यचित् पद्मसरसस्तीरम्।अपश्यञ्च तत्र कृतस्नानं सैकसस्थित मरीचिनामान मुनिमग्रतः स्वं पूर्वपुण्यमिव। स तु मां दृष्ट्वामुखक्षिप्तोदविन्दुभिः समाश्वास्य पत्रपुटेन कृत्वा कृपया आश्रममनैषीत्। तत्रानोत मां दृष्ट्वा कुलपतिः पौलस्त्यःकिलाहसत्। अन्यमुनिपरिपृष्टश्च स दिव्यदृष्टिरुवाच इमं शापग्रस्तं शुकं दुःखेन सहितं दृष्ट्वा एतत् संबद्धांकथां कृताहिकः वः वक्ष्यामि। यस्याः श्रवगादयं स्वां जातिञ्च स्मरिष्यति। इत्युक्त्वापुलस्त्यः आह्निकाय समुत्थितोऽभवत्।

अथ कृताह्निकः स महर्षिः तथेवाभ्यर्थितः मत्संबद्धामेतां कथामवर्णयत्। पुरासीत् रत्नाकरे पुरे ज्योतिष्प्रभो नाम राजा। यः समूर्ज्जितशासनःआरत्नाकरमुर्वीं शशास। तस्य हर्षवत्यां नाम देव्यां तीव्रतपसा सन्तुष्टस्य भगवती गौरीपतेर्वरप्रभावात् पुत्र एकः समजनि। यदसौ देवी हर्षवती स्वप्ने मुखप्रविष्टंसोममद्राक्षीत् तेनासौ नृपः तं पुत्रंनाम्ना सोमप्रभमकार्षीत्। स च प्रजानां नयनोत्सवं वितन्वन् गुणैरमृतमयो राजपुत्रः क्रमात् सोम इवववृधे। अथ राजा ज्योतिष्प्रभः पुत्रं शूरं भारक्षमं युवानं प्रकृतिप्रियं दृष्ट्वा यौवराज्येऽभ्यषिञ्चत् अददाच्च प्रभाकराख्यस्य निजमन्त्रिणः पुत्रं प्रियङ्गरनामानं सद्गुणसम्पन्नमस्य मन्त्रित्वे।

एतस्मिन्नन्तरे अम्बरादश्वंदिव्यमादाय देवराजसा रथिर्मातलिः अवतीर्णस्तमभ्येत्य सोमप्रभमभाषत राजन् ! भवान् विद्याधरः सखा शक्रस्य इहावतीर्णः तेन च पूर्वस्नेहेन आशुश्रवा नाम उच्चैःश्रवसः सुतः अयं तुरङ्गमस्ते प्रहितः। एतमधिरूढस्त्वं शत्रूणामजेयो भविष्यसीति उक्त्वातस्मै सोमप्रभाय तं वाजिरत्नं दत्त्वा गृहीतसत्कारः स्वमुत्पपात। ततस्तमुत्सवमनोरमं दिवसं नीत्वा सोमप्रभः परेद्यवि पितरमवादीत् तात ! क्षत्रियस्य नैष धर्म्मःयदजिगीषुता, तदाज्ञांमे देहि, अहं तावत् दिग्विजयाय व्रजामि।तदाकर्ण्य स पिता तुष्टस्तथेति प्रत्यपद्यत, अकरोच्च तस्य यात्रासंविदम्। ततः पितरं प्रणम्य स सोमप्रभः स्वबलैः सह दिग्विजयाय शुभे अहनि शक्रहयारूढःप्रतस्थे। दुर्वारविक्रमः स तेन अश्वरत्नेन सर्वासां दिशां पतीन् महीभुजो जिगाय, आजहार च तेभ्यः प्रभूतानि रत्नानि। तेन तद्धनुः नमितञ्च विद्विषाञ्च शिरांसि नतानि च। तद्धनुरुत्रतिं पुनः प्राप न तु तद्विद्विषतां शिरांसि।

अथ कृतार्थः स हिमाद्रिनिकटे पथि आगच्छन् वनान्तरे सन्निविष्टबलः मृगयां चक्रे। दैवाच्च स तत्र रत्नखचितम् एकं किन्नरमपश्यत् अभ्यधावच्च तं प्राप्तुं तेन शक्रदत्तेन वाजिना। क्रमेण स किन्नरो गिरिगुहां प्राप्य अदर्शनमगात्। सोमप्रभस्तु तेनाश्वेन सुदूरमनीयत। तावच्च तीक्ष्णतेजसि सवितरि सन्ध्यासमागमाकाङ्क्षया पश्चिमाशामुपयाते राजपुत्रोऽसौ श्रान्तः कथमपि आवृत्यमहदेकं सरो ददर्श। तस्य च तीरे तां निशां नेतुं तस्मादैन्द्राश्वात्

अवततार। तस्मै च तृणोदकानि दत्त्वा आहताम्बुफल ! कियन्तंकालं विश्रान्तः अकम्मात् कुतश्चिदायान्तं गीतस्वनमशृणोत्। तदनुसारेण च गत्वा नातिदूरतः शिवलिङ्गाग्रतः समुपविष्टां गायन्तीं कामपि दिव्यकन्यकामद्राक्षीत्। केयमद्भुतरूपेयमिति जातविस्मयं तं सा अत्युदाराकृतिं राजपुत्रं दृष्ट्वा कृतातिथ्यमवोचत भद्र ! कस्त्वं कथमिमां भूमिमागतो भवान् दुर्गमाम् ? एतदाकर्ण्य स्ववृत्तान्तमुक्त्वास तां पप्रच्छ भद्रे ! कथय का त्वं कथमत्र वने एकाकिनी, क्वच ते स्थितिः। इति पृष्टवन्तं तं, सा दिव्यकन्या प्रत्यवादीत् महाभाग।यदि कौतुकं, तत् कथयामि शृणु। इत्युक्त्वासा वाष्पपूर्णमुखी वक्तुंप्राक्रमत।

अस्तीह हिमाद्रेः कटके काञ्चनाख्यं पुरम्। तत्रास्ति पद्मकूटो नाम विद्याधरराजः। तस्य राज्ञः हेमप्रभानाम्न्यांमहादेव्यां जातां पुत्राधिकप्रियां मनोरथप्रभां नाम तनयां मां विद्धि। साहं विद्याप्रभावेण सखीभिः साकं नानाविधानाश्रमान् द्वीपानि कुलशैलान् वनानि उपवनानि च विहृत्य प्रत्यहं पितुराहारसमये त्रिभिर्वासरप्रहरेः स्वभवनमागच्छामि। एकदाहमिह प्राप्ता सरसीतटे विहरन्ती सवयस्यमेकं मुनिपुत्रमपश्यम्। तस्य च रूपशोभया दूत्येवाहमाकुष्टा तमभ्यधावम्। सोऽपि साकूतया दृष्ट्या मय्यभिलाषमकरोत्। ततो मम उपविष्टायाः सखी उभयाश्चित्तज्ञा तद्वयस्यमपृच्छत् महाभाग ! कोऽयं महापुरुषः, ब्रूहि यदि न रहस्यमिति। स च तद्वयस्योऽब्रवीत् भद्रे ! नातिदूरे इतो मुनिःदीधितिमानिति प्रसिद्धो निवसति

आश्रमपदे। स ब्रह्मचारी कदाचित् अत्र सरसि स्नातुमागतो देव्या तत्कालागतया कमलयाददृश। सा च शरीरेणाप्राप्यं प्रशान्तं तं मुनिं मत्वा मनसैवचकमे, अवाप च तेन मानसमेकंपुत्रम्। तव दर्शनात् मम अयं पुत्रः सञ्जातः परिगृह्यतामिति अभिधाव तस्मै सुतं दत्वा तिरोदधे। स तु मुनिः अनायासलभ्योऽयं पुत्र इति प्रहृष्टः परिजग्राह चकार च रश्मिमानिति नाम। क्रमेण च परिवर्द्ध्यउपनीय स्नेहात् सर्वा विद्याःशिक्षयाञ्चकार। तमेतं रश्मिमन्तं मुनिकुमारं मया सह विहरन्तमिहागतं विद्धि। तद्वयस्येनतेन इत्युक्ता पृष्टा च मत्सम्बद्धां कथां सा मत्सखी सर्वं मदुक्तंनामान्वयसहितं वृत्तान्तमवर्णयत्। ततःपरस्परान्वयज्ञानात् स चाहञ्चपरस्परानुरागिणौ तत्रावस्थितौ यावत्, तावत् द्वितीया मे सखी समेत्य अवदत् मुग्धे ! उत्तिष्ठ, आहाराय पिता त्वां प्रतीक्षते। तदाकर्ण्यशीघ्रमेष्यामीत्युक्त्वा भिया तं तत्रावस्थाप्यपितुरन्तिकमगमम्। तत्र यथालाभं कृताहारा यावदहं विनिर्गता तावत् प्रथमा मे सखी समागत्य स्वैरमब्रवीत् सखि ! तस्य मुनिपुत्रस्य स सखायमागतः। स तु प्राङ्गणद्वारिस्थितः सत्वरः समावदत् मनोरथप्रभापार्श्वमहं रश्मिमता अधुनैव व्योमगमनां विद्यां पैतृकींदत्त्वा प्रेषितः। मन्मुखेनासौ एवं सन्दिदेश यथा तां प्राणेश्वरींमनोरथप्रभां विना मदनेन इमां दशां नीतोऽस्मि यथा क्षणमपि प्राणान् धारयितुं न शक्नोमि। तदाकर्ण्यैवतेनाग्रयायिना मुनिपुत्रवयस्येन

समन्विता सख्या सह निर्गता इहैव आगता। आगत्य च तं मुनिपुत्रंमया विना चन्द्रोदयेनैव गतासु मपश्यम्। ततोऽहं यावत् तद्वियोगार्त्ता स्वांतनुं निन्दन्तीतत्कलेवरं गृहीत्वा अग्निं प्रवेष्टुमैच्छम् तावत् अन्तरीक्षादवतीर्य्यतेजःपुञ्जाकृतिः कोऽपि पुमान् तच्छरीरमादाय गगनमुत्पपात। अथाहम् एकाकिनी एव यावदग्नौ पतितुमुद्गता, तावत् गगनादुच्चचार भारती, मनोरथप्रभे !मा एवं कुरु, पुनरपि कालेन तेअनेन मुनिपुत्रेण सङ्गमो भविता। एतदाकर्ण्य मरणान्निवृत्ता तत्प्रतीक्षा इहैव शङ्करार्च्चनतत्परा सुचिरमतिष्ठम्। सोऽपि मुनिपुत्रसुहृत् क्वापिअदर्शनं गतः। इत्येवं वादिनीं तां सोमप्रभोऽब्रवीत् स्थितासि सम्मति एकाकिनी सा तव सखीदानींक्वगता। तदाकर्ण्य सा विद्याधरकन्यका प्रत्यभाषत राजपुत्र ! अस्ति सिंहविक्रमो नाम विद्याधरपतिः। तस्यअनन्यसाधारणीमकरन्दिका नाम तनया वर्त्तते। सा तु मे प्राणसमा सखी मे दुःखेन दुःखिता। तया मे वार्त्तां ज्ञातुमद्य सखी प्रेषिताभूत्। मयापि तथा वार्त्तांविज्ञातुं मत्सखी तया सह प्रेषिता। तेनास्मि सम्प्रति एकाकिनी स्थिताहम्। एवं वदन्ती सा सोमप्रभा गगनादवतरन्तीं तदैव तां स्वसखीं दर्शयामास। अथ कथितसखीवार्त्तांतां सोमप्रभस्य पर्णशय्यामकारयत्, अदापयच्चतदश्वस्य घासम्। ततः सर्वे ते निशां नीत्वा प्रातरुत्थिता व्योम्नावतीर्णंविद्याधरमेकमपश्यन्।स च विद्याधरो देवजयो नाम कुत्रानतिः समुपविश्य मनोरथप्रभां तामगा-

दीत्मनोरथप्रभे ! राजा सिंहविक्रमस्त्वामाह यावत् तव वरःन निष्पन्नः, तावत् मत्सुता मकरन्दिका त्वत्सखी तव स्नेहात् विवाहं नेच्छति। तदेताम् आगत्य तथा प्रबोधय यथा विवाहे प्रवर्त्तते। एतत् श्रुत्वा सखीस्नेहात् तां विद्याधरकन्यां सखीं मकरन्दिकां प्रबोधयितुं गन्तुकामां तां मनोरथप्रभामवोचत् सोमप्रभः। अनघे ! मानवोऽहं, वैद्याधरं लोकं द्रष्टुं मे महत् कौतूहलं, तत्तत्रयदि न दोषस्तदा मां नेतुमर्हसि अश्वोऽयं दत्तवासोऽत्रैव तिष्ठतु। तत् श्रुत्वा सा सखीयुता तथेत्युक्त्वा देवजयोत्सङ्गारोपितेन तेन सोमप्रभेण समं ययौ। तत्र गतासा तया मकरन्दिकया कृतातिथ्या सोमप्रभं दृष्ट्वा कोऽयमिति स्वैरमपृच्छत। तस्यां च मनोरथप्रभायाम् उक्ततदुदन्तायां सा मकरन्दिका तेन सोमप्रभेण सद्य एव अपहृतचेतना समभूत्। सोऽपि सोमप्रभः तां रूपिणीं लक्ष्मीमिवमनसा प्राप्य समचिन्तयत् कः स सुकृती, येनास्याः पाणिर्ग्रहीष्यतेति। ततः स्वैरालापे संवृत्तेतां मकरन्दिकामाह स्म मनोरथप्रभा, सखि ! कस्मात् त्वं नोद्वाहमिच्छसि ? तन्निशम्य सा प्रत्यवादीत् कथं त्वया अनङ्गीकृते वरे अहं विवाहमिच्छेयं, त्वं हि मे शरीरादपि अधिकप्रिया। एवं तयामकरन्दिकया सप्रणयमभिहितेमनोरथप्रभावादीत् मुग्ध ! मया हि वृतो वरः, दौर्भाग्यात् लोकान्तरं नीतः, दैववचनात् साम्प्रतं तत्समागमप्रतीक्षया तिष्ठामि। त्वमधुना कथं न वरमाप्तुमिच्छसीत्यभिहिते सा मकरन्दिका तर्हि त्वद्वाक्यं करिष्यामीत्याह। सा च मनोरथप्रभा त्वच्चि-

त्तज्ञातां जगाद सखि ! सोमप्रभोऽयं पृथिवींजित्वा तवातिथिः प्राप्तः। तत् सुन्दरि ! त्वया अस्य आतिथ्यसत्कारः कर्त्तव्यः। इत्याकर्ण्य तया मकरन्दिकयोक्तं सखि ! दृष्टमात्रस्यैवास्य आशरीरात् सर्वमिदं मे धनं साम्प्रतम् उपहारीकृतं यदीच्छति कामं स्वीकरोतु। एवं तयोक्तेक्रमात् तत्प्रणयं तत्पितुरावेद्य मनोरथप्रभा तयोरुद्वाहनिश्चयमकरोत्। ततः सोमप्रभो लब्धधृतिःपरितुष्टस्तामवदत् साध्वि ! तदाश्रमपदं साम्प्रतं मे गन्तव्यं जातु मत्पदवीं चिन्वानंसमन्त्रिकं मे सैन्यमागच्छेत्, गच्छेच्च मामप्राप्य अहिताशङ्कि पराङ्मुखम्। तदिदानीं गत्वा सैन्यवृत्तान्तं परिज्ञाय ततः पुनरागत्य निश्चित्य च शुभेऽह्नि मकरन्दिकासिमामुद्वक्ष्यामि। तदाकर्ण्य सा तथेति तं स्वमाश्रममनषीत्। तावदेवास्य सोमप्रभस्य मन्त्री प्रियकरः अश्वपदवींविचिन्वन् ससैनिकस्तत्रागात्। यावच्च मिलिताय तस्मै निजमन्त्रिणे सम्प्रहृष्टः स्वंवृत्तान्तंशंसति तावत्तस्यान्तिकं स्वपितुः शीघ्रमागम्यतामिति लेखमादाय कश्चित् दूतः समाययौ।

तेनादेशेन पितुः सचिवानुमतेन सैन्येन सह सत्वरं स्वं नगरं जगाम। व्रजंश्च तातं दृष्ट्वाहं न चिरादागमिष्यामीति मनोरथप्रभां तं देवजयञ्च प्रोवाच। अथ स देवजयः गत्वा तत् सर्वं मकरन्दिकामबोधयत्, तेन सा विरहातुरा संजज्ञे। सा उद्याने सखीजने सङ्गीते च न रतिमलभत, न चशुकानामपि विनोदनसुभगा गिरःशुश्राव। किमधिकेन नाहारमपि सा अकरोत्, किमुत मण्डनादिकम्। प्रयत्नेन

पितृभ्याममुरुध्यमानापि न धृतिममबध्नात्। क्रमेण सा विसिनीपत्रशयनमपि विसृज्य उन्मादिनीव पितुरुद्वेगकारिणी बभ्राम।यदा तु सा समाश्वासयतोस्तयोर्वचांसि न प्रतिपेदे तदा तौ परिकुपितौ तामशपतां त्वंनिश्रीकेनिषाददेशे कञ्चित् कालम् अनेनैव शरीरेण स्वजातिस्मृतिवर्जिता निपतिष्यसि। इति पितृभ्यां शप्ता सा सद्य एव निषादसदनं गता निषादकन्या संववृते। स च सिंहविक्रमः शोकादनुतप्य शुकः तद्भार्य्या चारण्यशूकरी समभवत्। सोऽयं शुकः पुराधीतं तपोबलात् वेत्ति। तदस्य चित्रां कर्म्मगतिं दृष्ट्वा मया हरितम्। एतां कथामसौ राजसदसि समुक्त्वाविमोक्ष्यते। सोमप्रभश्चअस्य सुतां निषादीत्वमाप्तां मकरन्दिकां शूकरजन्मनि प्राप्मप्रति। मनोरथप्रभा च तं सम्प्रति जातं भूमिपं रश्मिमन्तं मुनिसुतं तदैव सम्प्राप्स्यति।

अथ सोमप्रभः पितरं दृष्ट्वा तदाश्रमे स्वप्रियावाप्तयेसाम्प्रतं शर्वमाराधयन् स्थितः। ततो येन अहं कृपया आश्रमं नीतः, स मरीचिमुनिस्तत्र मां गृहीत्वा अवर्णयत्, अहञ्च जातपक्षः पक्षित्वसुलभाच्चापलात् इतस्ततः परिभ्रमन् प्रदर्शयंश्च विद्याश्चर्य्यंक्रमात् निषादहस्ते पतितस्त्वदन्तिकं प्राप्तः। इदानीञ्चमें पक्षियोनिजं दुष्कृतं क्षीणम् इति तस्मिन्नृपसदसि कथामुक्त्वाविरते तस्मिन् विदुषि शुके सपदि स सुमनोमहीपतिः प्रमोदतरङ्गितविस्मृतान्तरात्मा समभवत्।

अत्रान्तरे भगवानुमापतिः परितुष्य स्वप्ने तं सोमप्रभः

मादिशत् राजन् ! उत्तिष्ठ, सुमनोमहीभृतः सकाशं व्रज, तत्र कन्यां प्राप्स्यसि। सा मकरन्दिका पितृशापतो निषादीभूत्वा मुक्त्वालताख्या अभूत्। सा अधुना स्वंपितरं शुकतां गतमादाय अस्य राज्ञः सुमनोमहीपालस्य सकाशं गता। तत्र त्वां विलोक्य विनिवृत्तशापा स्वां वैद्याधरींजातिं स्मरिष्यति। दृष्ट्वा चान्योन्यंयुवयोरन्योन्यविज्ञानविवृद्धहर्षशोभीसमागमः संभविष्यति। इति तं भूमिपतिं सोमप्रभं समादिश्य ताञ्च मनोरथप्रभां स्वभक्तां नक्तं कृपापरः समादिशत् भद्रे ! योऽयं रश्मिमान् नाम मुनिसुतस्त्वया वरोऽङ्गीकृतः, स सम्प्रति सुमनोऽभिधः नृपः सञ्जातः। तत्तत्र त्वं गच्छ, त्वां दृष्ट्वा सस्वजातिं स्मरिष्यति। एवं ते सोमप्रभमनोरथप्रभे प्रभुणा स्वप्नादिष्टे तस्य नृपस्य सुमनसः सभामीयतुः। सा तु निषादी मकरन्दिका तत्र सोमप्रभमागतं दृष्ट्वा संस्मृतजातिर्दिव्यंस्व कलेवरं प्रपद्य शापमुक्ता कण्ठे परिजग्राह। सोऽपि सोमप्रभः गिरिजापतेः प्रसादात् तां विद्याधरराजपुत्रीं स्वीकृतदिव्यभोगलक्ष्मीमिवावाप्य समाश्लिष्य च कृतार्थोऽभवत्। स च सुमनोनृपस्तां मनोरथप्रभां दृष्ट्वैव स्मृतस्वजातिः पूर्वांनभसशुचुयतांतनुं प्रविश्य सहसा मुनिपुत्रो रश्मिमान् समभूत्, अगमच्चचिरोत्सुकस्तया स्वकान्तया सङ्गस्य तामादाय च स्वां पुरीम्। शुकोऽपि पक्षियोनिं मुक्त्वास्वतपोभिरर्जितां वैद्याधरीं जातिमगच्छत्। इत्येवं देहान्तरितेऽपि देहिनामवश्यं सम्भविता समागमः।इति निजसचिवात् गोमुखात् अद्भुतांविचित्रां कथां निशम्य नरवाहनदत्तः भृशं परितुतोष।

षष्टितमस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1723285181Screenshot2024-08-08165843.png"/>

अथ गोमुखः सचिवाराणोर्विद्याधरीयुग्मकथामाख्याय पुनस्तं नरवाहनदत्तमभ्यधात् देव ! सामान्या अपि लोकत्रयहितैषिणः कृतबुद्धयः कामादेरपि आवेगं सहन्ते। तथा च शृणु कथयामि। आसीत् पुरा शूरवर्म्मानाम कश्चित् कुलपुत्रः कुलधराख्यस्य महीपतेः सेवकः विख्यातपौरुषं। स खलु कदाचित् संग्रामागतः अशङ्कितं गृहं प्रविष्टः स्वांभार्य्यांस्वैनैव मित्रेण स्वैरसङ्गतामद्राक्षीत्। स तु दृष्ट्वा धैर्य्यात् क्रोधं नियम्य चिन्तयामास किमनेन मित्रद्रोहिणापशुना निहतेन अनया वा पापया दुश्चारिण्यानिग्रहीतया, अहं वा एतेन पापभागिनात्मना किं करोमि इत्यालोच्यतावुभौ परित्यज्य उवाच पश्यतं युवयोर्यं पश्येयं पुनः, तमेव हन्यां, तस्मात् मम दर्शनगोचरं मा गच्छतम् इत्युक्तौ युक्तौ तौ क्वापि दूरतः प्रययतुः। ततश्च स अन्यां परिणीय मुनिर्वृतः समभूत्। देव ! एव जितक्रोधा नैव दुःखास्पदीभवन्ति, कृतबुद्धयश्च न जातु विपदा बाध्यन्ते। तिरश्चामपि प्रज्ञा श्रेयसे न तु पराक्रमः, तदिमां सिंहवृषादिसंबद्धां कथामाकर्णय।

आसीत् क्वचित् नगरे कोऽपि धनवान् बणिक्पुत्र। एकदा बाणिज्यार्थं मथुरां पुरीं व्रजतस्तस्य भारवोढ़ा धुरंकर्षन् भरेण युगभङ्गतः गिरिप्रस्रवणोद्भूतकर्दमे स्खलितः

सञ्जीवको नाम वृषः पथि विचूर्णितैरङ्गैःपपात। तञ्चाभिघातनिश्चेष्टं निराश्वासं दृष्ट्वा आश्वासनासमर्थः स बणिक्पुत्रस्तं त्यक्त्वाजगाम। स तु सञ्जीवकः दैवात् समाश्वस्तः शनैरुत्थाय मृदूनि शष्पाणि अश्वन् क्रमेण प्रकृतोमगमत्। नत्वा च यमुनातीरे हरितानि तृणानि समास्वाद्यस सच्छन्दचारी क्रमात् सम्पुष्टाङ्गो बलवांश्चाभवत्, व्यचरच्च पीनाककुत् माद्यन् वृषेन्द्रोपमः।

अत्रान्तरे पिङ्गलको नाम कश्चित् सिंहः विक्रमेण काननमाक्रामन् समध्युवास। तस्य मृगपतेः द्वौमन्त्रिणौजम्बूकावास्ताम्। एको दमनको नाम, अपरः करटकः। सचैकदा सिंहस्तोयार्थमागमत् यमुनातटम्, अश्रौषीच्च तस्यारात् सञ्जीवकककुद्मतो नादम्। श्रुत्वा चाश्रुतपूर्वं दिक्षु मूर्च्छितं तं नादं सिंहोऽचिन्तयत् वत कम्यायमी दृशोनादः। नूनमत्र महत् किञ्चित् सत्वंतिष्ठति, तद्धिदृष्ट्वैव मां हन्यात् वा वनादस्मात् प्रवासयेत्। इति सोऽपि अपीतपानीयस्तस्मात् प्रदेशात् वनं गच्छन भीतः सिंहः निगृह्याकारमनुगेषु व्यतिष्ठत।

अथ प्राज्ञः स्वमन्त्री दमनको नाम जम्बूकः द्वितीयं मन्त्रिणं करटकमवदत् सखे ! अस्मत्स्वामी पानीयार्थी गतः अपीत्वैव पानीयं कथं त्वरितमागतः, भद्र। अत्र कारणं प्रष्टव्यम्। ततःकरटकोऽब्रवीत् अस्माकंनैष व्यापारः, त्वया किं कीलोत्पाटनात् कपेर्वृत्तान्तः न श्रुतः? नगरे क्वापि केनापि बणिजा देवतागृहं कर्त्तुं बहूनि दारुणि सञ्चितानि। तत्र कर्म्मकराः क्रकचैः काष्ठंपाटितं

कृत्वा यावत् यन्त्रस्थं कीलं स्थापयित्वा गृहमगच्छन्, तावत् आगत्य कश्विद्वानरश्चापलात् प्नुतः कीलव्यस्तविभागेऽपि काष्ठे समुपाविशत्। तत्रोपविश्य खण्डितयोः काष्ठांशयोरभ्यन्तरे निक्षिप्तलाङ्गूलः यावत् हस्ताभ्यां निरर्थकं कीलमुत्पाटयति तावत् कीलोत्पाटनसमकालमेव काष्ठखण्डनिबद्धलाङ्गूलमपाकर्त्तुमशक्नुवन् पञ्चतामवाप। एवं यस्य यत् कर्म्मन, स तत् कुर्वन् विनश्यति। तस्मात् मृगराजस्य आशयेन विज्ञातेन किं नः प्रयोजनम्। एतत् करटकादाकर्ण्य धीरो दमनकः प्रत्यवादीत् प्रभोरन्तः प्रविश्य सर्वथा बुधैः परिचरणीयं, कोऽहि नाम केवलं स्वोदरपूरणं न कुरुते ? एवं दमनकेनोक्तः साधुः करटकः प्राब्रवीत् स्वेच्छया प्रभोरन्तः प्रवेशः सेवकस्य धर्म्मःन इति करटकेनोक्तो दमनकः प्रत्यवोचत् मैवं सर्वो हि आत्मानुरूपं फलं वाञ्छति ? श्वा तुष्यति अस्थिमात्रेण, केशरी दिपमभिधावति। एतत् श्रुत्वा कण्टकोऽवादीत् यद्येवं कृते स्वामी क्रुध्यति तर्हि विशेषफलं कुतः ? ईश्वरा हि अतिकर्कशाः स्तब्धाः हिंस्रजन्तुपरिवृताः पर्वता इव दुरासदा विषमाश्च। ततोदमनकोऽवादीत् सत्यमेतत् यस्तु बुधः, स स्वभावानुप्रवेशेन शनैः प्रभुं स्वीकरोति। ततः स करटकेन एवं कुर्विति अभिहितो दमनकः तस्य सिंहस्य अन्तिकमुपाययौ। उपेत्य च तं स्वामिनं पिङ्गलकं सिंहं प्रणिपत्य उपविष्टः सप्रश्रयं व्यज्ञापयत् प्रभो ! अहं क्रमागस्तव हितकरो भृत्यः, हितः परोऽपि स्वीकार्य्यः, स्वोऽपि अहितः परं हेयः। अन्यतो मूल्येनापि क्रीत्वा हितः मार्जारः पोष्यते,

अहितो गृहजातोऽपि मूषकः हन्यत एव। भूतिमिच्छता हितैषिभ्यो भृत्येभ्यः श्रोतव्यंतैश्चअपृष्टैरपि काले प्रभोर्हितं कर्त्तव्यम् । तस्मात् देव ! विश्वसिषि चेत् न च कुप्यसि, नापि निह्नुषे नोद्वेगं जनयसि च तदहं किञ्चित् पृच्छामि। एवं दमनकेनोक्त; सिंहः पिङ्गलकः प्रत्यभाषत भद्र। त्वं हि मे विश्वासार्हःभक्तश्च, तन्निःशङ्कमुच्यताम्।इति पिङ्गलकेनोक्तो दमनकः प्राब्रवीत् देव ! पानीयपानार्थी तृषितस्त्वं गतवान्, तदपीतजलः किमसि विमना इव त्वमागतः ? एतत् तस्य वचनमाकर्ण्य स मृगेन्द्रो व्यचिन्तयत् अये। लक्षितोऽस्मायहममुना, तत् किं भक्तस्य निगूह्यते इत्यालोच्य अब्रवीत् शृणु गोप्यंमे नास्ति त्वदन्तिके, मया जलपानार्थं गतेन अश्रुतपूर्वः कश्चित् नादः श्रुतः, न चाहं जाने आत्मनोऽधिकस्य कस्यचित् सत्त्वस्य तादृक् नादःसम्भवतीति अथवा प्रजापतेर्विचित्रा सृष्टिः, तेन च देहप्रविष्टेन मे न शरीरं न च वनं प्रीतिकरमिदानीं, तस्मात् मया इतोऽन्यत्र गन्तव्यम् इति वादिनं सिंहं दमनकोऽत्रवीत् देव! शूरः सन् कथं वनमिदं त्यक्तुमिच्छसि ? जलेन सेतुर्भज्यते, कर्णजपेन ग्रेहः, अरक्षणेन मन्त्रः तथा शब्दमात्रेण कातरः। ते चापि यन्त्रादिशब्दाः एवं भयङ्करा भवन्ति, तस्मात् प्रभो ! परमार्थमविज्ञाय न भेतव्यंतथा हि मेरी मोमायुकथामेतां कथयामि आकर्ण्यताम्।

आसीत् पुरा क्वापिवनोद्देशेकोऽपि गोमायुः। स एकदा भक्ष्यार्थी भ्रमन् प्रवृत्तयुद्धात् प्रदेशात् गम्भीरमेकं नादं श्रुत्वा भीतस्तस्मात् ययौ, ददर्श च पथि अदृष्टचरां

पतितस्थितां मेरीम्। तद् दृष्ट्वा किमीदृशोऽपि कश्चित् प्राणी स्यात् य एवं शब्दं करोतीति संचिन्त्य यावत् निष्पन्दतामुपागतः पश्यति तावत् स नायं प्राणीति वायुना चालितेन शरस्तम्बेनाहतात् चर्म्मपुटात् शब्दोऽयं निःसरतीति च बुद्ध्वाभयं जहौ। तदेवं देव ! शब्दमात्रेण भवादृशाः किं बिभ्यति। यद्यादिशसि तदाहं तत्तत् विज्ञातुं व्रजामि। इत्युक्तेन पिङ्गलकेन गच्छ, शक्नोषि चेत् इति गदितः स दमनकः यमुनातटमगात्। तत्र गब्दानुसारेण गत्वा तृणानि खादन्तं तं वृषभं ददर्श। ततश्च तस्यान्तिकमुपेत्य तेन परिचयं कृत्वा सिंहान्तिकं प्रत्येत्य च यथावस्तु सिंहाय शशंस। अथ सिंहेनोक्तंयदि त्वया महोक्षो दृष्टः कृतश्च तेन संस्तवः, तदिह युक्त्या तमानय, अहं पश्यामि कीदृशोऽयमिति। इत्युक्त्वापिङ्गलकः सम्प्रहृष्टः तं तदनकं तस्य वृषभस्य अन्तिकं प्राहिणोत्। स च गत्वा तत्पार्श्वं प्राब्रवीत् भद्र ! एहि तुष्टोऽस्मत्स्वामी मृगाधिपस्त्वामाह्वयति। वृषभस्तु तदाकर्ण्य भयात् यदा न प्रतिपेदे तदासौ पुनर्वनं गत्वा स्वामिने तस्य अभयं निवेद्य पुनरागत्य तं वृषभं सञ्जीवकं सिंहान्तिकमनैषीत्। स च सिंहः आगतं तं प्रणतं दृष्ट्वा कृतादरः प्रोवाच भद्र सञ्जीवक ! इहैव त्वं मत्पार्श्वे अकुतोभयस्तिष्ठ। तथेति प्रतिपद्य स्थितेन तेन वृषेण शनैः सः सिंहस्तथा उपचरितःयथा स सिंहःअन्यविमुखः तद्वश एवाभवत्। ततो दमनकः करटकं रहोऽवादीत् पश्य, स्वामी सञ्जीवकेन हृतः नास्मानवेक्षते। एक एवासौ आमिषं भुङ्क्ते, नावाभ्यां

भागं ददाति। मूढबुद्धिः प्रभुरद्यउक्ष्णान्यायं शिक्ष्यतै, मयैव दोषः कृतः अमुमत्रानयता। तत्तथाहं विधास्ये यथायमुक्षा अचिरात् विनश्यति, प्रभुश्चअस्थानव्यसनात् निवर्त्तते। एतद्दमनकादाकर्ण्य करटकोऽब्रवीत् सखे ! भवतैवाधुना अशक्यसाधनं कर्त्तुं शक्यते। ततो दमनकः प्रत्यवादीत् प्रज्ञयाध्रुवं शक्ष्यामि, आपदि यस्य प्रज्ञा न हीयते, स किं कर्त्तुं न शक्नोति ? तथाच वकहर्त्तुर्मकरस्य कथामाकर्णय।

आसीत् पूर्व मत्स्याढ्ये क्वचित् सरसि कोऽपि वकः। तस्य दृष्टिभयात् तत्रस्थाःमत्स्याः पलायन्ते। स च वकः मत्स्यानप्राप्य तान् मृषाब्रवीत् भद्राः ! इह कश्चित् जालवान् मत्स्यादः आगतः, स जालेन युष्मान् गृहीत्वा अचिरात् हनिष्यति। तन्मम वचसि विश्वासश्चेत्, कुरुध्वं मद्ववनम्। अस्ति एकान्ते स्वच्छंसरः, यन्नज्ञातं धीवरैः। युष्माकं तत्र निवासार्थम् अहं क्रमशः एकैकं नेतुं तत्र इच्छामि। तदाकर्ण्य सभयैस्तैर्मत्स्यैर्जडबुद्धिभिरुक्तम् एवं कुरुष्व, वयं सर्वे त्वयि विश्वस्ता इति। ततो वकस्तान् क्रमेण नीत्वा शिलातले क्वचित् निक्षिप्यएकैकं भक्षयामास। अथ तान् मीनान् नयन्तं वकं दृष्ट्वा तसरोगतो मकरस्तंवयं क्व नयसि मीनानिति पप्रच्छ। ततस्तं स तदेवाह यत् मत्स्यानन्यान् पूर्वम्। ततश्च सरुषा तेनोक्तं तर्हि मामपि तत्र नय। ततोऽसौ यावद् वकेन शिलातले न्यस्तः, तावत् स धीमान् मकरस्तस्य वञ्चकस्य वकस्य शिरश्चकर्त्त, शशंस चागत्य तदुवार्त्तां सर्वान् मत्स्यान्। ते चापि तं प्राणप्रदा-

यिनं तुष्टाः समभ्यनन्दयन्। तस्मात् प्रज्ञैव बलं निष्पज्ञस्य किं बलेन ? अत्र च सिंहशशयोरपरां कथां शृणु।

आसीत् कस्मिंश्चिद्वने कोऽपि अपराजितः सिंहः। स च यं यं सत्त्वमग्रतोऽपश्यत् तं तमेव तत्क्षणात् न्यपातयत्। ततस्तेसर्वे सम्भूय जन्तवस्तंसिंहमभ्येत्य अभ्यभाषन्त प्रभो ! तव आहारार्थं प्रत्यहमेकैकं मृगं प्रेषयामः, तत् कथं युगपत् सर्वान् विनाश्य स्वार्थहानिं करोषि। इति तेषां वचनमाकर्ण्य स सिंहस्तथेति प्रत्यपद्यत एकैकञ्च जन्तु तैः प्रेषितमन्वहमभक्षयच्च।

कदाचित् शशकस्य वारः कस्यचिदायातः। स तु सर्वैः प्रेषितो गच्छन् व्यचिन्तयत् स खलु धीरः य आपद्यपि न मोहमापद्यते। तदत्र उपस्थिते मृत्यौ युक्तिं कामपि करोमि, इत्यालोच्य कृतविलम्बः स शशकस्तं सिंहमभ्यगात्। तमागतं दृष्ट्वा केशरी प्राब्रवीत् अरे ! कथं त्वया ममाहारवेलाव्यतिक्रान्ता, रे शठ ! बधादपि किं ते अभ्यधिकं मया कर्तव्यम् ? इत्युक्तवन्तं सिंहं स शशकः प्रणम्य प्रावोचत् देव ! नात्रास्ति मे दोषः, अद्याहं सवयस्य आगच्छन् पथि द्वितीयेन सिंहेन विधृत्य चिरादुन्मतः, तदाकर्ण्यलाङ्गूलमास्फाल्य क्रोधारुणनयनः सिंहः समब्रवीत् कोऽयं द्वितीयः सिंहस्त्वया दर्श्यताम्। सोऽपि शशकः आगत्य प्रभो ! दृश्यतामिति तं निनाय। ततोऽन्वागतं सिंहं शशः दूरं कूपान्तिकं नीत्वा इष्टान्तःस्थं रिपुं पश्येत्युक्तवान्। ततस्तत्र सिंहः कूपनिक्षिप्तदृष्टिर्यदा स्वं प्रतिविम्बंपश्यति तावत् स गर्जन् स्वनादप्रतिनादमाकर्ण्य

सकोपःआत्मानं कूपे निक्षिप्य प्राणान् अत्याक्षीत्। शशस्तु स्वप्रज्ञया अखिलान् मृगान् तस्या आपदो मोक्षयित्वा तं वृत्तान्तं तेभ्यः समाख्याय तानभ्यनन्दयत्। तदेवं प्रज्ञैवपरमं बलं न तु पराक्रमः यत्प्रभावेण शशकेनापि केशरी निहतः। तदहं प्रज्ञयैव स्वमोहितं साधयामि। एवं दमनकेनोक्तःकरटकः तूष्णीमभवत्। ततो दमनकः तस्य स्वामिनः सिंहस्य अन्तिके एकदा विमना इव तस्थौ। पृष्टश्च तेन प्रभुणा वैमनस्यकारणं सः कृताञ्जतिर्जनान्तिकमब्रवीत् देव ! बुद्ध्वातूष्णीं स्थातुं न युज्यते अतस्त्वां ब्रवीमि यदि स्वामिनो हितमिच्छेत् तदा अनियुक्तोऽपि ब्रूयात्, तदन्यथा बुद्धिं विहाय इमां मे विज्ञप्तिमाकर्णय। योऽयं वृषःसञ्जीवको नाम त्वया परिपोष्यते, अयं त्वां हत्वा राज्यं चिकीर्षति, अनेन मन्त्रिणा सता त्वं भीरुरिति निश्चितः। पश्य त्वां जिघांसुरसौ निजायुधंशृङ्गयुग्मं धूनोति, अयञ्च प्रत्यहं सर्वान् प्राणिनः प्रत्यहं निर्भया सीवथ यूयं तृणाशनोऽहं राजा युष्माकं भविष्यामि, तदेतं दुर्मदं मांसभोजिनं मृगेन्द्रं युक्त्या निहन्मि इत्यादिभिरन्यैश्चसमाश्वासयति। तदेतं वृषभं चिन्तय अस्मिन् ते शुभमस्ति न वेति। एवं दमनकेनोक्तः पिङ्गलकस्तमभ्यधात् बलीवर्द्धोवराकोऽयं किं मे तृणभुक् कुर्य्यात्, दत्ताभयंशरणागतमेनं कथं वा हन्याम्। एतदाकर्ण्यदमनकः प्राह मा एवमादिशतु प्रभुः। राज्ञाकत्सुल्यः क्रियते तथा श्रीश्चयदा द्वयोर्दत्तपदा तुल्यबलयोः तदा चला एव चिरं न स्थातुं शक्नोति एकञ्च विमुञ्चति। यश्च प्रभुः हितं द्वेष्टि,

अहितञ्चसेवते, स वैद्यैर्दुष्टरोगीव वर्जनीयः। प्रथममप्रियस्य परिणामे हितस्य वक्ता श्रोता च यत्र स्यात्तत्रैव श्रीः पदमादधाति। यः सतां मन्त्रंन शृणोति प्रत्युत असतामेव शृणोति, स खलु अचिरादेव विपदं प्राप्य अनुतप्यते। तद् देव ! अस्मिन् वृषे कस्तव स्नेहः? अस्य वा त्वयि कः? दुह्यतश्च अभयदानं किम् ? शरणागतता वा का ? किञ्च देव ! नित्यं तव पार्श्वे सन्निहितस्य गोः मूत्रपुरीषयोः कीटाःप्रजायन्ते, ते च मत्तकरीन्द्रदन्ताघातव्रणाङ्कितं तव शरीरं नित्यं पीड़यन्ति, तदस्य युक्तितो बध एव श्रेयान्।विपश्चित् यदि दुर्जने स्वयं प्रतिक्रियां न करोति तदासौ क्रमशः सङ्घात् महान् समुत्पद्यते, तदत्र कथामेतामाकर्णय।

आसीत् कस्यापि राज्ञःशयने कुतश्चिदागता मन्दविसर्पिणीनाम अलक्षिता कापि यूका। अकस्माच्च कुतोऽपि पवनेरितः समुपेत्य टिट्टिभो नाम दंशस्तं शयनीयं विवेश। कथं त्वं मम निवासमागतः, तदहमन्यतो व्रजामि इति तया मन्दविसर्पिण्या स दृष्टो अभिहितः। भद्रे ! अपीतपूर्वं राजासृक् पास्यामि, मे प्रसीद, देह्यत्र मे वस्तुमिति स टिट्टिभस्तामब्रवीत्। सा तु तदनुरोधात् सायं प्रत्यवादीत् सखे ! यद्येवं तदास्व, किन्त्वस्य राज्ञोदेहे त्वया अकाले न दृष्टव्यम्, अस्य तु सुप्तस्य रक्तासक्तस्य वा लघुदंशः दातव्यः। तदाकर्ण्य तथेति सोऽत्र टिट्टिभस्तस्थौ। ददंश चाशुनक्तं शय्यागतं तं राजानम्। ततश्च हा दष्टोऽस्मीति ब्रुवन्नुत्तस्थौ। ततस्तस्मिन् शठे दंशे

त्वरितं पलायिते विचित्य राजभृत्यैः सा यूका अलभ्यत न्यपात्यत च। एवं टिट्टिभसंसर्गात् वराकीयूका नष्टा तत् सञ्जीवकसङ्गस्ते नैव शिवाय भविष्यति। न मे विश्वसिषि चेत् स्वयं तं शूलपातयोः शृङ्गयोर्दर्पात् शिरो धुन्वानं द्रक्ष्यसि। इत्युक्त्वातेन दमनकेन विकृतिं नीतोऽसौ सिंह तं सञ्जीवकं हृदा बध्यममंस्त।

ततोऽसौ दमनकस्तस्य आशयं बुद्ध्वातत्क्षणात् विषण इव सञ्जीवकस्य अन्तिकमुपागात्। तदवलोक्य सञ्जीवकस्तमब्रवीत् मित्र ! किमीट्टगसि, अपि कुशलं ते शारीरम् ? इत्येवं वृषेण पृष्टः स जगाद सखे ! कथमेवम् अस्माकं सदाकुशलम् ? को हि राज्ञां सदा प्रियः ? कश्चार्थी न लघुतां गच्छति ? कश्चकालस्य गोचरतां न प्राप्नोति ? इत्युक्तवन्तं तं सञ्जीवकः पुनः पप्रच्छ। वयस्य ! किमस्यद्य उद्विग्नइवाद्य कथ्यताम्। ततो दमनकोऽब्रवीत् शृणु यदहं त्वत्प्रीत्या वदामि। अद्य जड़ोऽसौ मृगराजस्तेविरुद्धःनिरपेक्षःअस्थिरस्नेहः त्वां भित्त्वा भोक्तुमिच्छति। अस्य च हिंस्रं स्वभावं पश्यामि। एतद् दमनकवचः पूर्व प्रत्ययात् ऋजुमत्या सत्यं विचिन्त्य च विमनाः प्रत्यभाषत धिक् सेवाप्रतिपन्नंक्षुद्रं क्षुद्रपरिग्रहं प्रभुं, यः सहसा वैरित्वमेति, तदिमामत्र कथां शृणु।

आसीत् मदोत्कटोनाम कश्चित् सिंहः। तस्य त्रयोऽनुचरा द्वीपिवायसजम्बूकाः। स कदाचित् वने सार्थभ्रष्टम् एकमुष्ट्रमद्राक्षीत्। कोऽयं प्राणीति सविस्मये मृगाधिपेब्रुवति देशदर्शी वायसः उष्ट्रोऽयमिति प्राह स्म।

ततस्तेन सिंहेन कौतुकात् दत्ताभयस्तमानीय स्वान्तिके अनुचरीकृत्य स्थापयामास। एकदा वन्येन केनचित् गजेन युध्यमानस्य तस्य मदोत्कटस्य शरीरे गजदन्तप्रहारैर्महती व्यथा सञ्जाता, तेन गतसामर्थ्यः स बहून् क्लेशाननुभवन् तैः तैरनुचरैः सह उपवासमकरोत्। ततः क्रान्तोऽतितरां स सिंहः क्षुत्परीतःभ्रमन् न किञ्चिदपि सत्त्वमाससाद।उवाच च तान् भृत्यान् किं कार्य्यमिदानीं कर्त्तव्यमिति। तेप्रोचुः प्रभो ! वाच्यमस्माभिर्युक्तम् उष्ट्रेण साकं भवतो मैत्री का ? अयं तृणाशनः, वयन्तु मांसादाः, तदयं प्रभोर्भक्ष्य एव, बहूनामर्थे च एकस्य नाशनं नैवायुक्तमामनन्तिविद्वांसः। यदि दत्ताभयमेनं कथं हन्मि इति प्रभुणोच्यते, तथाप्ययं स्वयमेवात्मानं प्रभवे यथा दद्यात् तथा यतिष्यामः, तथात्वे स्वयं बधदोषो नैव स्यात्। इत्युक्ते तेनाभ्यनुज्ञातः स वायसस्तंदासेरकमुपेत्य अवादीत् एषोऽस्माकं स्वामी क्षुधाक्रान्तः, अस्माकन्तु नास्ति किमपि, तद्वयमस्य आत्मप्रदानेन प्रियमाचरामः। इत्युक्तेवायसेन स उष्ट्रोऽपि तथैव प्रत्यपद्यत। ततः काकोऽब्रवीत् स्वायत्तं मामधुना भुक्त्वा प्राणान् धारयतु देवः। ततः सिंहोऽब्रवीत् क्षुद्रस्त्वं किं त्वया भक्षितेन इति। ततो जम्बूकेनोक्तंदेव ! मां भक्षय। सिंहस्तमपि तथा निराचकार। ततो द्वीपी अवदत् भुङ्क्ष्वमां देव इति। तमप्यसौ नखायुध इति स्वीचकार। अथोष्ट्रोऽवदत् प्रभो ! मां भक्षयतु। ततः सर्वे ते तं खण्डशः कृत्वा यथासुखमभक्षयन्। तदेवं केनापि पिशुनेन विधिना एष पिङ्गलको मयि प्रेषितः,

अधुना विधिरेवात्र प्रमाणमिति गृध्रोऽपि राजा हंससहचरः सेव्यः, न तु गृध्रानुचरः राजा हंसः, किमपरैः। एतत् सञ्जीवकादाकर्ण्य कुटिलो दमनकः प्राब्रवीत् सखे ! धैर्य्येण सर्वं साध्यते, श्रुण्वत्र एकां कथां कथयामि।

अस्ति कोऽपि टिट्टिभः पक्षी सभार्य्योवारिधेस्तटे। कदाचित् सगर्भा टिट्टिभी तं भर्त्तारमवदत् एहि नाथ ! क्वापि गच्छावः, अत्र प्रसूताया मे अपत्यानि अम्भोधिरय मूर्म्मिणाकदाचित् हरेत्। एतत् प्रियावचः समाकर्ण्य टिट्टिभोऽब्रवीत् प्रिये ! न शक्नोत्ययमम्बुधिर्मया साकं विरोधमाचरितुम्। तदाकर्ण्य टिट्टिभी अवदत् मैवं कातवतुला अम्बुधिना ? हितोपदेशः अनुष्ठेयः, अन्यथा विनाशः स्यात्, अत्रैतां कथामाकर्णय।

आसीत् कोऽपि कम्बुग्रीवाख्यः कूर्म्मः क्वचित् सरसि। तस्यास्तां ही सुहृदौ विकटसङ्घटौ नाम।

एकदा अवग्रहक्षीणजले सरसि तौ अन्यसरो गन्तुकामौहंसी कूर्मो जगाद मित्रे! युवां यत्र गन्तुमुद्यतौ तत्र मामपि नयतम्। तदाकर्ण्य तौ सुहृदौ मित्रं कुर्म्ममूचतुः यत्रावां गन्तुमुद्यतौ, सत् सरोऽतिदवीयः, तत्र चेत् तव गन्तुमिच्छा, तर्हि कथामस्माकं शृणु, दिवि व्रजन् आवाभ्यां धृतामेतां यष्टिं गृहीत्वा निरालापो अवतिष्ठेथाः अन्यथा भ्रष्टः व्यापत्स्यसे। तदाकर्ण्य तथेति दत्तात्तयष्टिना तेन कूर्मेण सह तौ गृहीतयष्टिकौहंसौ नभ उत्प्रेततुः। क्रमात् तत्सरः समीपं प्राप्तौ कूर्म्महारिणौ तौ तदधोवर्त्तिनगरनिलया जना अपश्यन्। किमेतत् नीयते

हंसाभ्यां चित्रमेतत् इति तैः कृतं कलरवं सचपलः कूर्म्मोऽशृणोत्। कुतोऽयं कलकलः अधस्तात् इति मुखात् तां यष्टिं विहाय तौ हंसौ पृच्छन् भ्रष्टः भुवि पतितः तैर्जनैर्निहतः। एवं बुद्धिच्युतो जनः यष्टिच्युतः कूर्म्मइव नश्येत्। इत्थंतयोक्तष्टिट्टिभः तां व्याजहार सत्यमेतत् प्रिये ! किन्तु स्वमपि मप्नैतां कथां शृणु।

पुरासन् क्वापि ह्रदे वयो मत्स्याः। अनागतविधाता एकः, प्रत्युत्पन्नमतिर्द्वितीयः, यदभविष्यस्तृतीयः, ते च त्रयः सहचारिणः। ते कदाचित् तेन मार्गेण गच्छतां दासानाम् अहो अस्मिन् ह्रदेबहवो मत्स्याः सन्तीति वचः अशृण्वन्। तेन च दासैरात्मबधमाशङ्क्यस अनागतविधाता नदीस्रोतः प्रविश्य अन्यत् सरो ययौ। प्रत्युत्पन्नमतिस्तु विशङ्कित एव तत्रासीत्। अहं ते भयं प्रतिविधास्यामि इति तं समाश्वास्य यद्भविष्यस्तत्र निर्भयो व्यतिष्ठत।

अथ तेधीवराः समागत्य तस्मिन् ह्रदे जालं न्यक्षिपन्। सद्यः तैर्जालाक्षिप्तःस प्रत्युत्पन्नमतिःसुबुद्धिःआत्मानं निष्पन्दं कृत्वा मृत इवातिष्ठत्। स्वयं मृतोऽयमिति तेषु तिमिघातिषु अघ्नत्सु स सहसा नदीस्रोतसि पतित्वा द्रुतमन्यतोऽगच्छत्। स तु यद्भविष्यः जालान्तः पतन् उद्वर्तननिवर्त्तनानि कुर्वन् मन्दबुद्धिर्गृहीतो निहतश्च। तस्मात् किपत्पातं प्रतिविधास्यामि, नाहमम्बुधेर्भयात् अन्यतो यास्यामि। इत्युक्त्वाटिट्टिभो भार्य्यां तां स्वस्मिन्नेव नीड़े अवात्सीत्। अम्बुधिश्च तस्य साहङ्कारं तत् वचनमशृणोत्। गच्छति च काले कदाचित् तस्य भार्य्या टिट्टिभी प्रसूतवती। समुद्रय

स्वेनोर्मिणा तानि पश्यामि किमयं मां प्रति टिट्टिभःसमाचरिष्यतीति कौतुकात् जहार। अथ सा टिट्टिभीतदेतत् व्यसनं प्राप्तं यन्मया तव पुरतः प्रोक्तम् इति रुदती व्याहरत्। ततः स टिट्टिभःधीरस्तां प्रियामभाषत। पश्यप्रिये ! किमहमस्य पापस्य जलधेः करोमीति। इत्यभिधाय सर्वान् पक्षिणः सन्धाय स्वं परिभवं वदन् तैः सह प्रभुंगरुड़ं शरणं ययौ। उवाच च प्रभो ! सति नाथे त्वयि अब्धिना अनाथमिव मां पराभूय अण्डा ममापहृताः। ततः क्रुद्धेन पक्षिराजेन विज्ञप्तो हरिरम्बुधिम् आग्नेयास्त्रेण संशोष्यटिट्टिभाण्डानि प्रदापयत्। तस्मात् धीमता अत्यक्तधैर्य्येण आपदि भाव्यं, यद् भवतु इदानीं ते उपस्थितं पिङ्गलकेन सह युद्धम्। तत्त्वम् उत्क्षिप्तलाङ्गूलःचतुर्भिः पादैः समं तदा त्वमुत्थास्यसि यदा स त्वां प्रति आक्रमिष्यते। एवं तं सज्जीवकमुक्त्वास दमनकः गत्वा करटकाय सिद्धं कार्य्यमभ्यधात्। ततः सञ्जीवकः शनैः स्वप्रभोश्चित्तमिङ्गितैर्जिज्ञासुंपिङ्गलकान्तिकमगात्। अद्राक्षीच्चउत्क्षिप्तलाङ्गूलं समाङ्गिकं तं युयुत्सुं सिंहम्। सिंहोऽपि तं शङ्कयासमुद्धृतमस्तकं सञ्जीवकम्। अथोत्पत्य स सिंहःनखैस्तस्मिन् वृषे प्राहरत्। वृषोऽपि तस्मिन् सिंहे शृङ्गाभ्याम्। इत्थमुभयोराहवः प्रावर्त्तत। तच्च दृष्ट्वा साधुःकरटकःदमनकमब्रवीत् सखे ! किमिदानींस्वार्थसिद्धये प्रभोर्व्यसनंत्वयोत्पादितम्। प्रजानुतापेन सम्पद्, शाठ्येन मैत्री, तथा पारुष्येण कामिनी न खलु चिरस्थायिनी भवेत्। अलं वा यः हितवाक्यावमा

निलोबहु ब्रूते, स तस्मात् कपिः सूचीमुख इव बहुदोषः लभते।

आसन् पूर्वमरण्ये बहवो वानरा यूथजारिणः। तेखलु शीते खद्योतं दृष्ट्वा अग्निरयमित्यमन्यन्त। ततस्तेतस्मिन् तृणपर्णानि विन्यस्य अङ्गान्यतापयन्। तेषान्वेकः मुखानिलैः खद्योतमधमत्। तदवलोक्यतत्रस्थःपक्षीसूचीमुखो नाम तं प्राह न एषः अग्निः, खद्योतोऽयं, मा क्लेशसनुभूरिति। तदाकर्ण्यापिअनिर्वृत्तंतं सः पक्षी वृक्षादभ्येत्य तथैव न्यवारयत्। तेन च पुनर्निर्बन्धेनस कपिश्चुकोप।चूर्णयामास च तं सूचीमुखं क्षिप्तया शिलया। तस्मात्तस्य न वक्तव्यं यः हितं न शृणुते। तदहं किं वदामि, अनयोर्भेदस्त्वया दुष्टया बुद्ध्याकृतः, परमेतन्नशुभमावहति। तदत्र कथामेतामाकर्णय।

पूर्वमास्तां द्वौभ्रातरौ बणिक्सुतौ धर्म्मबुद्धिः दुष्टबुद्धिश्च। तौ धनोपार्जनार्थं पितुर्गेहात् देशान्तरं गत्वा स्वर्णदीनारसहस्रद्वयमुपार्जितवन्तौ। आगतवन्तौ च तदादाय समुत्सुकौ पुनः स्वं नगरम्। आगत्य च स्वनगरं तौएकं दीनारशतं विभज्य वृक्षमूले तान् दीनारान् अवशिष्टान् निचख्नतुः। एकदासौ दुष्टबुद्धिरकाकी गत्वा तस्मात् तरुतलात् स्वैरं तान् सर्वान् दीनारान् स्वयमग्रहीत्। अथ मासमात्रेगते स दुष्टबुद्धिस्तं धर्म्मबुद्धिमब्रवीत् एहि विभजावस्तान् दीनारान् अस्ति मे बहुव्ययः। तदाकर्ण्य धर्म्मबुद्धिस्तथेति तेन सह गत्वा तत् वृक्षमूलं यत्र तौ दीनारान् निहितवन्तौ निचखान।यदा च खनित्वापि

दीनारा न दृष्टाः तदा शठोऽसौ दुष्टबुद्धिःसविषादं धर्म्मबुद्धिमभ्यधात् दुरात्मन् ! नीताः खलु त्वयैव ते दीनाराः, तद्देहि मे तदर्द्धमिति। न मया नीतास्ते, त्वयैव नीता इति स तमाह स्म। एवमन्योन्यं कलहे संप्रवृत्ते स दुष्टबुद्धिः शिरसि कराघातं कुर्वन् राजकुलं तं धर्म्मबुद्धिमनयत्। तत्र उक्त स्वस्वपक्षौ तौ अनासादितप्रमाणैराजपुरुषैर्विधृत्य स्थापितौ। अथ दुष्टबुद्धिस्तान् राजाधिकृतान् प्राब्रवीत् अत्र मम साक्षीवनदेवता विद्यते सा यद् वदिष्यतितदेव प्रमाणमवधार्य्यतां युष्माभिः। ते च राजपुरुषा विस्मिताः प्रातः स्वयमेव वयं प्रेक्षामहे इति समूचुः। ततस्तौ धर्म्मबुद्धिदुष्टबुद्धीउभौ दत्तप्रतिभुवौ विभिन्नौ विमुक्तौ स्वं स्वं गृहं जग्मतुः। दुष्टबुद्धिस्तु यथावत् वस्तु दत्तार्थं पितरं रहसि प्रोच्य अस्मिन्नेवाहि त्वं वृक्षकोटरं गत्वा तत्र स्थितः मम साक्षी भूया इत्यभाषत। वाढमित्युक्त्वा स तस्मिन्नेवाहनि तत्र गत्वा तस्य वृक्षस्य कोटरे तथैव स्थितः। अथ प्रातर्धर्म्माधिकरणिकैर्गत्वा यावत् पृच्छ्यतेकस्तान् दीनारान् हृतवानिति तावत् स वृक्षकोटरगतः तयोः पिता दीनारा धर्म्मबुद्धिना हृता इति तान् स्फुटमवदत्। ततस्ते राजपुरुषाः तदसम्भाव्यं निश्चितंदुष्टबुद्धिनाकोऽपि रात्रावत्र स्थापित इति निश्चित्य तरुकोटरे धूममददन्। तेन भयेनामातः स तस्मान्निर्गच्छन् अधोनिपत्य भुवि तयोः पिता पञ्चत्वमगात्। तदवलोक्य यथावस्तु विचार्य्य धर्म्मबुद्धयेतान् सर्वान्दीनारान् दापयित्वा निकृत्तहस्तजिहस्तंदुष्ट-

बुद्धिंदेशान्निरवासयन्। तदेवमन्याय्यया बुद्ध्याकृतं कार्य्यंनैव कदाचित् शुभमावहेत्। न्याय्यया तु बुद्ध्यावक्रेन अहेरिव प्रतीकारं कुर्य्यात्।

पूर्वं कोऽपि भुजङ्गः वकस्य कस्यचित्जातं जातमपत्य मागत्य भक्षयामास, स तु वकः परं सन्तापमवाप। अथ कस्यचिदुपदेशात् तेन वकेन नकुलालयात् विलमारुह्य मत्स्यमांसं व्यकीर्य्यत। नकुलश्च निर्गत्य तत्तत् मत्स्यमांसं खादन् विलप्रविष्ट तं भुजङ्गमबधीत्। एवमन्यच्च कार्य्यं मे शृणु।

आसीत् कश्चित् बणिक्सुतः पित्रर्थात् तुलाशेषः। स खलु लौहपलसहस्रेण घटितां तां तुलां कस्यापि बणिजो हस्ते निधाय देशान्तरमगात्। अथ तस्मादागतोऽसौ यावत् तं बणिजं तुलां न मार्गति तावत् स आखुभिर्भक्षितेति तमब्रवीत्। सोऽपि बणिक्पुत्रः सत्यं सुस्वादु तत् लौहं तेन तदाखुभिर्जग्धमिति हृदि हसन्नब्रवीत् अयाचत च तं बणिजं भोजनम्। सोऽपि सन्तुष्य तत् तस्मै दातुं प्रत्यपद्यत। ततः स बणिक्सुतः अस्य बणिजः सुतं सहकृत्य स्नातुं प्रायात्। ततःस धीमान् बणिक्सुतः स्नात्वा अर्भकं तं कस्यचिद् सुहृदो गेहे गुप्तं रक्षित्वा एक एव तस्य बणिजोगेहमाजगाम। क्वासौमे अर्भक इति पृच्छन्तं तं बणिजं स बणिक्सुतः सविषादं श्येनेन केनचित् सन्निपत्य सोऽर्भको नीत इति प्रत्यवादीत्। त्वया मे पुत्रश्छादित इति क्रुद्धेन बणिजा राजकुलं नीतः स बणिक्तनयः। राजपुरुषेषु तेन तत्तथा भणितम्। सभ्यैश्चअसम्भाव्यमिदं

श्येनो नयेदर्भकमिति अभिहितो बणिक्पुत्रःप्रत्यवादीत् यत्र देशे मूषकैर्महातुला भक्षिता तत्र श्येनो द्विषामपि न नयेत् किं पुनरर्भकम्। एतत् श्रुत्वा कौतुकात् पृष्टवन्तस्ते राजपुरुषा बणिजस्तस्मात् तां लोहतुलां बणिक्सुताय दापयित्वा च तमर्भकं प्रत्यर्पयन्तं वणिक्सुतमभ्यनन्दयन्। तदेवं चातुरी अवश्यमेव प्रकाशतां गता प्रयोक्तारं भृशमनुतापयतीति। एतत् करटकात् श्रुत्वा दमनको हसन् प्रत्यवादीत् मैवं किं वृषयुद्धेसिंहस्य पराजयोऽस्ति ? क्वासौ मत्तेभरदनाघातघनव्रणाङ्गः केशरी, क्व वा प्रतोदक्षतविग्रहो दान्तः वृषभः। यावत् तौ जम्बूको परस्परमित्थंजल्पतः, तावत् सिंहनासौसञ्जीवको युद्धे निहतः। तस्मिंश्च निहते स खलु दमनकः करटकेन समं तस्य मृगाधिपस्य पार्श्वे स्थितः सम्प्रहृष्टश्चिराय अप्रतिहतं मन्त्रित्वमवाप। एवं मन्त्रिवरात् गोमुखात् नीतिविदां बुद्धिविभवसम्पन्नां चित्रां कथामाकर्ण्य युवराजो भृशमनन्दत्।

______

एकषष्टितमस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1723353382Screenshot2024-08-08165843.png"/>

ततः शक्तियशानिमित्तमुत्कण्ठितं तं नरवाहनदत्तं विनोदयन् गोमुखः पुनरभ्यभाषत। देव ! त्वया प्राज्ञकथा श्रुता साम्प्रतं मुग्धकथामिमां शृणु।

पुरासीत् मुग्धबुद्धिर्नाम कस्यचिदाढ्यस्य बणिजः सुतः। स कदाचित् बणिज्यायै कटाहद्वीपमगात्। तस्य

भाण्डमध्ये महान् अगुवसञ्चयः स्थितः। तत्र च विक्रेता कश्चित् परभाण्डस्यतस्य तत् अगुरु न जग्राह तत्र च यो जन आसीत् स तत्र तदस्तीति न विवेद। एकदाकाष्ठिकेभ्यः अङ्गारान् विक्रीणतो जनान् दृष्ट्वा स बणिक् जड़बुद्धिस्तदगुरु दग्ध्वाअङ्गारानकरोत्। तच्च अङ्गारमूल्येन विक्रीय ततो गृहमागत्य च स तदात्मकौशलं शंसन् लोकेषु हास्यतामगमत्। तदेवमगुरुदाही कथितः, साम्प्रतं तिलकर्षकः श्रूयताम्।

अभूत् कश्चिद् ग्रामीणो भूतपूर्वकृषीबलः। स कदाचित् तिलान् भृष्ट्वा भुक्त्वाच स्वादून् तानवेत्य भ्रष्टानेव तान् बहून् तादृशानेव प्राप्तुं भूमावपत्। अथ भृष्टेषु तेषु अजातेषु जना नष्टार्थं तमहसन्। तथा जले अग्निक्षेपकमधुना शृणु।

आसीत् कश्चित् मन्दबुद्धिः पुरुषः। स चैकदा निशायां प्रभाते देवतापूजां करिष्यामीति समचिन्तयत्। तदुपयुक्तौ मम स्नानधूपाद्यर्थौजलानलौएकत्र स्थापयामि, येन तौ शीघ्रंप्राप्नुयामिति। एवमालोच्य स जलकुम्भान्तः अग्निं क्षिप्ता सुष्वाप। प्रातश्चयावत् अग्निं नष्टम् अम्बु च शुष्कम् अङ्गारमलिनञ्च वीक्षिते तावत् तस्य मुखं तादृगेवाभवत्। तदवलोक्य जनः सहासोऽभूत्। तदेवम् अग्निकुम्भवार्त्ता श्रुता, साम्प्रतं नासिकारोपणमाकर्णय।

अभवत् कश्चित् मूढमतिःमूर्खः पुमान् क्वचिद्देशे। स कदाचित् भार्य्यां चिपिटघ्राणां गुरुञ्च उन्नतनासिकं दृष्ट्वा तस्य प्रसुप्तस्य गुरोर्नासिकां छित्त्वा अग्रहीत् अरोपयच्च

तां भार्य्याया नासिकां छित्त्वा तत्स्थानम्। सा च गुरुनासा तस्या मुखे नैव आरुरोह। एवं तेन भार्य्यागुरू उभौछिन्ननासौ कृतौ। अधुना वनवासी कश्चित् पशुपालः श्रूयताम्।

आसीत् कोऽपि पशुपालो घने धनवान्। बहवो धूर्त्ताः समाश्रित्य तस्य मित्राणि अभवन्। ते च तं जगदुः सखे ! कस्यचिदाढ्यस्य नगरवासिनः सुता त्वदर्थमस्माभिर्याचिता, सा च तत् पित्रा तुभ्यं दातुं प्रतिश्रुता। तदाकर्ण्य स तुष्टः तेभ्यः अर्थं ददौ। ततस्ते कतिपयैर्दिनैर्गतैस्तव विवाहः सम्पत्स्यते इत्यूचुः। तेन च स अतीव सन्तुष्टः तेभ्यः भूरीणि धनानि प्रादात्। अथ कियत्सु दिनेषु गच्छत्सुते अभ्यभाषत सखे ! पुत्रस्ते जात इति। स च तेन सर्वंतेभ्यः समर्प्य धनं भृशं ननन्द। अथापरेऽहनि पुत्रं प्रत्युत्सुकोऽहं सर्वं वित्तं दत्तवानिति प्रारोदीत्। तेन च सर्वोजनस्तंधूर्त्तवञ्चितं प्रति जहसुः। तदिदानीं देव ! आरलम्बकं शृणु।

कश्चिद् ग्राम्यः भूमिं खनन् रात्रौ राजकुलादपहृत्यचौरैस्तत्र रक्षितं महदलङ्करणजातं प्राप। म च तद्गृहीत्वा सहर्षःतेन स्वांभार्य्यामभूषयत्। मूर्ध्नि मेखलां जघने हारं करयोर्नूपुरौ कर्णयोश्च कङ्कणौबबन्ध। अथ हसद्भिर्जनैः ख्यापितं तत् राजा बुद्ध्वातस्मात् तत्सर्वमाभरणं जहार तञ्च पशुसमं मुमोच। तदेवं देव ! अलङ्करणलम्बकः कथितः, साम्प्रतं तुलिकां वच्मि श्रूयताम्।

पुरा कश्चिम्मूर्खःपुमान् तूलविक्रयाय आपणमगात्।

तत्रतु कोऽपि जनःअशुद्धं तदिति न जग्राह। तावच्च स तत्र अग्नौनिक्षिप्तशोधितं हेम ददर्श। तद् दृष्ट्वासौ जड़ःतत् तूलं शोधयितुम् इच्छन् अग्नौ स्वर्णवच्चिक्षेप। ततश्च तस्मिन् दग्धे तत्रस्थो जनो जहास। श्रुतः अयं तूलिकः, साम्प्रतं खर्जूरीच्छेदकान् शृणु।

कदाचित् कैश्चिदधिकारिभिः केचिद्ग्राम्या मूर्खाःराजकुलादिष्टखर्जूरानयनाय समाहूय न्ययुज्यन्त। ते च तत्र गत्वा सुखग्राह्यामेकां खर्जूरींपतितां दृष्ट्वा स्वके ग्रामे अच्छिनन् अरोपयंश्च समाकृष्टफलानि सर्वाणि खर्जूराणि न चैषां परिश्रमः सिद्धिमवाप। ततश्चानीतखर्जूरास्ते कैरपि नादृताः, प्रत्युत राजा यथापराधं तानदण्डयत्। तदेवं खर्जूरवृक्षच्छेदका उक्ताः, साम्प्रतं निध्यालोकनमुच्यते शृणु।

पुरा केनापि नृपतिना कोऽपि निधिदृश्वासमाहूतः। स तु क्वचिदपि पलाय्य न गच्छेदिति राज्ञः कुमन्त्रिणा तस्य निधिदर्शिनः नेत्रे समुत्पाटिते। इत्थं भूलक्षणानि द्रष्टुमक्षमं गतागतोः समं तं कुर्वन्नसौ मन्त्री जड़ो जनैः हसितः। तदेवं निधानालोकनं श्रुतं, साम्प्रतम् लवणाशीकथ्यते श्रूयताम्।

अभवत् कश्चिद् गह्वरग्रामवासी जड़ःपुरुषः। सखलु नगरवासिना केनचिन्मित्रेण गृहं नीतः, भोजितश्च लवणस्वादूनि अन्नानि व्यञ्जनानि च। स च भुक्त्वाकथमेषा अन्नादेः स्वादुतेत्यपृच्छत्। स च सुहृत् लवणस्यैवं स्वादुतायां प्राधान्यमित्यवोचत्। तदेव तर्हि भोक्तव्यमिति प्रोच्य स पिष्टस्य लवणस्य मुष्टिमादाय मुखे प्रक्षिप्य अभ-

क्षयत्। तस्य च लवणस्य चूर्णं तस्य दुर्बुद्देरोष्ठौश्मश्रूणिच अलिपत्। तदवलोक्य हसतो जनस्य पुरतः लवणाशिनो मुखं धावल्यं ययौ। देव ! लवणाशी श्रुतः, अधुना गोदोहकं शृणु।

कश्चिदासीत् ग्राम्यः पुमान्। तस्यैका गौरभवत्। सा च धेनुस्तस्य पलशतं पयः प्रत्यहं प्रादात्। कदाचित् तत्प्रत्यासन्नः कश्चिन्महोत्सवःसमवर्त्तत। एकवारमेव तस्याः प्राज्यंपय उत्सवे ग्रहीष्यामीति विचिन्त्य स मूर्खः मासमात्रं तां न दुदोह। अथोत्सवे संप्रवृत्ते यावत् तां दोग्धि तावत्तस्या अखिलं पयो नष्टमैक्षत। तदवलोक्य लोका अहसन्। हे देव ! मूर्खो गोदोहकः श्रुतः सम्प्रति अपरौश्रूयताम्।

कश्चिदासीत् ताम्रकुम्भाभशिराः खलतिः पुरुषः। वृक्षमूलस्थितं तं कश्वित्तरुणः क्षुधापरीतस्तेन पथा कपित्थानि गृहीत्वा आगच्छन् समुदैक्षत। स तु क्रीड़ार्थम् एकेन कपित्थेन तस्य शिरोऽताडयत्। स तु खलतिस्तस्य तत् सेहे नोवाच च तस्य किञ्चन। ततः स क्रमशः सर्वैःकपित्थैस्तस्य शिरस्तथैव ताडयामास। सोऽपि प्रवहत्यपि शोणिते तूष्णीमतिष्टत्। सोऽपि मूर्खयुवा निष्फलया क्रीड़या विचूर्णितैः कपित्थैर्विरहितः क्षुधाक्षीणःतस्मात् प्रययौ। अपरोऽपि मूर्खः खल्वाटः कपित्थेः स्वादुभिः किं न घात सह्यतेइति ब्रुवन् गलद्रक्तशिराः स्वगृहमगात्। एतौ दृष्ट्वाकोऽत्र जनो न हसति स्म। तदेवं देव ! अबुदयो लोकेहास्यतां गच्छन्ति, न च संसिद्धिं लभन्ते, सुबुद्ध-

यस्तुपूज्यन्त एव। इति गोमुखतः मुग्धहासकथाः श्रुत्वा नरवाहनदत्तः समुत्थाय आह्निकं कृत्यमन्वतिष्ठत्। अत्र निशागमे समुत्सुकेन तेन पृष्टः स गोमुखः प्राज्ञनिष्ठामिमांकथां कथयामास।

आसीत् कस्मिंश्चित् वनोद्देशे महान् शाल्मलीतरुः। तत्रैको लघुपातीति कृतनामधेयो वायसः कृतनिलयस्तस्थौ। स कदाचित् स्वनीडस्थः तरोरधस्तात् जालहस्तं सलगुड़ं रौद्रमेकं पुरुषमैक्षत। ततस्तं यावत् स काकोवीक्षते, तावत् स जालं वितत्य भुवि तण्डुलान् विकीर्य्यप्रच्छन्नोऽभवत्। अत्रान्तरे चित्रग्रीवनामा कपोतपतिः परिवारशतैर्वृतः भ्रमन् तत्र समाजगाम। स तु तान् तण्डुलान् पतितान् दृष्ट्वा भोजनलिप्सया सवर्गःपतितः जाले शाकुनिके बद्धोऽभवत्। तद् दृष्ट्वैव स कपोतराजःसर्वाननुचरान् जगाद भद्राः ! चञ्चुभिर्जालंगृहीत्वा सर्वेसमकालमुत्पतत सवेगम्। ततस्ते भीताः कपोताः सर्वेतथेति जालमादाय वेगतः समुत्पत्य नभसा गन्तुंप्रचक्रमिरे। सोऽपि दृष्ट्वा ऊर्द्ध्वदृष्टिः समुद्विग्नोलुब्धकः सन्न्यवर्त्तत। अथ निर्भयश्चित्रग्रीवस्ताननुयायिनः कपोतानब्रवीत् भोः मित्रस्य मे हिरण्यस्य मूषिकस्य सकाशं व्रजामः, स एवास्माकं पाशानेतान् समुच्छेत्स्यति। इत्युक्त्वासः सानुगैः कपोतैर्जालकर्षिभिः समेतः सत्वरं तस्य मूषिकस्य विलहारं प्राप्य नभसः समवततार। भो मित्र हिरण्य ! निर्याहि, मित्रमहं ते चित्रग्रीवः समायातः। इत्थं स कपोतपतिस्तंमूषकम् आजुहाव। सोऽपि मूषको हिरण्यः

द्वारमार्गेण आगतं तं सुहृदं दृष्ट्वा ससम्भ्रमं तस्मात् शतमुखाद् विलात् निर्ययौ। सत्वरं समुपेत्य च तं वृत्तान्तं पृष्ट्वा तस्य सानुगस्य पारावताधीशस्य पाशानच्छिनत्। अथ छिन्नपाशः स कपोतराजःअनुगैः सह तं मूषकमामन्त्र्यस्वस्थानं ययौ। स तु लघुपाती वायसः अन्वागतःसर्वं तत् वृत्तंविलोक्यविलप्रविष्टं तं मूषकमागत्य अवादीत् भद्र हिरण्य ! अहं लघुपाती नाम काकः, त्वां मित्रवत्सलं विपन्नमित्रविपदुद्धरणक्षमं दृष्ट्वा मित्रंकर्त्तुमागतः। तदाकर्ण्य विवरात् वायसं दृष्ट्वासौ मूषकः प्रत्यभाषत गच्छ, का मैत्री भक्ष्यभक्षकयोरिति। ततो वायसोऽवादीत् शान्तं पापं त्वयि भुक्तेमम क्षणिका प्रीतिः, जीविते तुचिरं जीवनरक्षा मम इति। एवं बहु उक्त्वाशपथं समाश्वासञ्च कृत्वा व्याकुलः स वायसः निर्गतेन तेनाखुना मैत्रभावम् अधिरोपितः। स च आखुःमांसपेषीः शालिकणांश्च आनैषीत्। ततस्तौ एकत्र सहभुञ्जानौ परस्परं सुखमूषतुः।

एकदासौ काकस्तंमूषकमब्रवीत् मित्र ! इतोऽतिदूरे वनमध्यवर्त्तिनी काप्यस्ति नदी। तस्यां मन्थरो नाम कोऽपि कुर्म्मोमे मित्रं प्रतिवसति। तदहं तत्र सुप्राप्यामिषदेशे यास्यामि, इह कष्टेन लभ्यते आहारः, नित्यं व्याधभयञ्च। इत्युक्तवन्तं तं काकं मूषकोऽवादीत् सखे ! त्वयैव सहाहं वत्स्यामि, तन्मामपि तत्र नय। ममात्रापि स्थित्यां निर्वेदोऽस्ति, तं तत्र गत्वा ते निवेदयिष्यामि इति वादिनं तं हिरण्यं चञ्च्वाआदाय लघुपाती नभसा तत्

वननदीतटमगात्। तत्र च मन्थरकेण सुहृदा सह मिलित्वा कतातिथ्यःमूषकेणानुगतः स सुखं तस्थौ।

एकदा कथान्तरेषु स मन्थरः तं मूषकं देशनिर्वासकारणं वनारमनहेतुञ्च परिपप्रच्छ। ततो हिरण्यः तयोरुभयोः शृण्वतोःकाककूर्म्मयोः स्वां वृत्तान्तकथामकथयत्। अहमासं क्वचित् महानगरोमहाविलवासी।तत्र च वसन् एकदा राजकुलात् हारमानीय निशि विले अस्थापयम्। तेन च दृश्यमानेन हारेण सज्जातौजसं माम् अन्नाहारेण समर्थं ज्ञात्वा मूषकाः पर्य्यवारयन्।

एतस्मिन्नन्तरे तत्र मदीयविलान्तिके कश्चित् परिव्राट् मठिकां कृत्वा नानाविधानि भक्ष्याणि भिक्षया समानीय भुक्त्वाच सुखेन स्वपिति स्म, स्थापयामास च भुक्तशेषं भिक्षान्नंभिक्षाभाण्डस्थं कृत्वा प्रातर्जिघत्सया कचिद्देशे। अहञ्च प्रसुप्ते तस्मिन् प्रतिरात्रं विलेन अन्तः प्रविश्य तदन्नंनिःशेषमकरवम्। एवं गच्छति काले कदाचित् तस्य सुहृदपरः परिव्राट् भोजनानन्तरं तेन सह विविधांकथामकार्षीत्। तावच्च मयि तदन्नं संग्रहीतुं प्रवृत्ते स परिव्राट्जर्जरेणवंशखण्डेन मुहुस्तद् भाण्डकं वादयत्। कथं मे कथामाक्षिप्यअन्यत्र मनःसङ्गं करोषीति पृष्टः स परिव्राट् तमागन्तुमभ्यधात् मित्र ! इह मे मूषकोऽयं शत्रुर्जातः, यो दूरस्थमपि मदन्नमुत्प्लुत्य प्रत्यहं नयति। तदस्य त्रासार्थं जर्जरवंशखण्डेनाहमन्नाभाण्डभताड़यम्। इति वादिनं तमपरः परिव्राट् प्रत्यभाषत मित्र ! लोभ एवात्र प्राणिनां दोषाय, तदत्र कथामेतामाकर्णय।

अहमेकदा तीर्थानि भ्रमन् एकं नगरं प्रापम्, प्राविशञ्च तत्रैकस्मिन् ब्राह्मणगृहे निवासाय। मामुपस्थितं वीक्ष्यस विप्रो गृहिणीमवादीत् प्रिये ! अस्य ब्राह्मणस्य कृते अद्य पर्वणि कृषरान् पच इति। सापि कुतस्ते निर्धनस्यैतदिति प्रत्युवाच। ततश्च विप्रस्तामब्रवीत् भद्रे ! कर्त्तव्येऽपि सञ्चये नातिसञ्चयबुद्धिः कार्य्या, तदत्र कथामेतां शृणु।

एकदा कस्मिंश्चिद्वने कोऽपि मृगयुर्यन्त्रितसायकः धनुषि मांसखण्डम् निक्षिप्य शूकरमेकं प्रति प्राधावतत्। तेन च सह शरविक्षतपोत्रःस शूकरः सद्यो व्यपद्यत। तच्च दूरात् जम्बूकेनैकेन दृष्टम्। स च क्षुधार्त्तोऽपि आगत्य तत् वराहशरीरं सञ्चयाय रक्षन् तस्माद् भूयसोऽपि आमिषात् किञ्चिदपि न चखाद। यत्तु धनुषि स्थितम् आमिषं तदेव तदा भोक्तुं प्रववृते। ममार च तत्क्षणात् उच्चलता यन्त्रशरेणविक्षतः। तस्मान्नातिसञ्चयः कार्य्यइति तेन द्विजेन प्रोक्ता गृहिणी तथेति भर्तुर्वचः प्रतिपद्य तिलानातपे प्राक्षिपत्। तस्याञ्च तान् कर्त्तुं प्रवृत्तायां कुतोऽपि कचित् श्वा प्रविश्य तानदूषयत्। ततः कोऽपि तान् कृषरान् मूल्यादिना नाग्रहीत्। तदेवं लोभो नोपभोगाय, प्रत्युत क्लेशाय। इत्युक्वा पुनरपि स आगन्तुः प्रव्राट्अब्रवीत् मित्र ! खनित्रमस्ति चेत् देहि, अद्यैव युक्त्या तव एतं मूषकोत्पातमुपद्रवं नाशयामि। इत्यभिधाय तेन परिव्राजा दत्तं खनित्रमादाय तन्मे विलं खनितुमारेभे। क्रमाच्च तावदखनत्। ततः पलायनपरे मयि स शठः यावत् तं ततस्थंहारमन्यसञ्चयञ्चाहरत्। ततश्च तेन हारतेजसा मे

तद्विलंविरहितमभूत्। ततः स दुरात्मा परिव्राट् मयि शृण्वतितं स्थायिनं प्रव्राजमाह स्मपश्यायंमूषिकः स्वजातिसमतां गत इति। अनन्तरं तं सर्वस्वं हारं मूर्ध्नि निधाय तावुभौ आगन्तुस्थायिनौप्रव्राजौ सुखसुप्तौ दृष्टौ। अथ प्रसुप्तयोस्तयोः पुनस्तं हारं हर्तुमागतं मां वीक्ष्यस स्थायी परिव्राट्प्रबुद्धः यष्ट्यामां मूर्ध्नि अताडयत्। अहञ्च तेन सञ्जातव्रणः अमृतो विलमविशम्। ततो मम तदत्राहरणे पुनःशक्तिर्नाभूत्, अर्थो हि पुंसां यौवनं तदभावे वार्द्धकमेव। तेन च वार्द्धकेन ओजः, बलं रूपमुत्साहश्च परिहीयते। अथ आत्ममात्रभरणे यत्नवन्तं मां वीक्ष्य सर्वे ममानुचरा मां परित्यज्य गताः। अधनं प्रभुं भृत्याः, अपुष्पं तरुंभ्रमराः, अजलं सरोवरं हंसाश्च चिरोषिता अपि त्यजन्ति। हे कूर्म्मराज ! इत्थं तत्र विपन्नःसुहृदं लघुपातिनं प्राप्य कथमपि सुखितः पश्चात् त्वदन्तिकमायात इति। एवं हिरण्योक्तमाकर्ण्य कूर्म्मराजः समभ्यधात् मित्र ! स्वमेव स्थानमेतदाकलय्य मां मा अधृतिं कृथाः, गुणिनां न विदेशः सन्तुष्टस्य नासुखं, धीरस्य न विपत् न चासाध्यं व्यवसायिनः।

इति तस्मिन् वदति चित्राङ्गो नाम कश्विमृगः दूरात् व्याधवित्रस्तस्तद्वनमाययौ। तञ्चतथागतं दृष्ट्वा पृष्ट्वा च वृत्तान्तं दृष्ट्वा च अनागतं व्याधं तें कूर्म्मादयः तेन आश्वासितेन मृगेण सह सख्यमकुर्वन् न्यवसंश्च सुखेन।

एकदा चित्राङ्गंचिरगतमीक्षितुं स लघुपाती तरुमारुह्यतद्वनमैक्षिष्ट, ददर्श च नदीतीरे कीलपाशेन

संयतं तं चित्राङ्गम्। अथ अवरुह्य तस्मात् पादपात् तद् वृत्तान्तमाखवे कूर्म्माय च न्यवेदयत्। ततः सम्मन्त्रास लघुपाती चञ्च्वातं हिरण्यमादाय चित्राङ्गसमीपं निनाय। तञ्च तथागतं दृष्ट्वाहिरण्यः समाश्वास्य क्षणात् दशनछिन्नपाशं कृत्वा अमुञ्चत् तावच्चमन्थरकः कच्छपःनदीमध्ये न अभ्येत्य मुहृत्प्रियतयातेषां निकटं नदीतटमारुरोह। क्षणे च तस्मिन् कुतोऽपि आगतः स पाशहस्तः व्याधः विद्रुतान मृगादीन् वीक्ष्य तं कूर्म्मंलब्ध्वा सन्तुष्टोऽभवत्। ततश्च तं जालिकायां क्षिप्ता नष्टं मृगं प्रति समुत्सुको यावत् याति, तावत् दीर्घदर्शिनो हिरण्यस्य वचनात् मृगो दूरे गत्वा पतित्वा मृत इवातिष्ठत्। काकोऽसौ तन्मूिर्ध्निचञ्च्वाचक्षुषी पाटयन्निव स्थितः। तदवलोक्य स व्याधः मृगं मृतं गृहीतमेव मत्वा नद्यास्तटे तं कूर्म्मंजालान्तःस्थं निधाय मृगं प्रति गन्तुं प्रवृत्तः। तं यान्तं वीक्ष्यमूषकस्तस्य कुर्म्मस्य जालिकां सद्यश्चिच्छेद, स च कूर्म्मोनद्यां पपात। रागोऽपि आसन्नं तं व्याधं कच्छपरहितं वीक्ष्य उत्थाय पलाय्य अगात् काकोऽपि तरुमारूढः। ततश्च व्याधः प्रत्येत्य तं कूर्म्मंबन्धच्छेदपलायितम् अप्राप्य उभयविभ्रष्टः दैवं शोचन् गृहमगात्। ततस्ते कूर्म्मादयो हृष्टा एकत्र मिलित्वा अवतस्थिरे। ततो मृगोऽतिप्रीतस्तान् त्रीनुवाच पुण्यवानस्मि यदहं भवतः सुहृदः प्राप्तः, यैः प्राणानप्युपेक्ष्यअद्याहं मृत्योरुद्धृतः। एवं मृगेण प्रशस्यमानास्ते कृर्म्मादयः परस्परप्रीतियुजस्तत्र वसन्ति स्म। तदेवं प्रज्ञया तिर्य्यञ्चोऽपि समीहितं साधयन्ति, न मुञ्चन्ति

च प्राणात्यये मित्रमापन्नम्। एवञ्चमित्रेषु आसक्तिःश्रेयसी न तु अङ्गनास, ईर्ष्याश्रयत्वात्तासामिति समामनन्ति विपश्चितः। तथा चात्र कथामेतामाकर्णय। प्रभो ! कस्मिंश्चिन्नगरे कोऽपि ईर्ष्यालुः पुमान् प्रतिवसति स्म। तस्य भार्य्या रूपशालिनी वल्लभा च आसीत्। स तु अविश्वस्तां तां जातु एकाकिनींन मुमोच, शशङ्के च तस्याः शीलविभ्रं‍शंचित्रपुत्तलिकाभ्योऽपि।

एकदासौ पुमान् कार्य्यवशात् देशान्तरं व्रजन् तांभार्य्यामपि सह निनाय। पथि सभिल्लामटवींवीक्ष्यभयात् क्वचित् ग्रामे कस्यचिद् वृद्धस्य गृहे भार्य्यांतांस्थापयित्वा ययौ। तत्र स्थिता च सा तेन पथागतान् भिल्लान् दृष्ट्वा तेषां मध्यात् एकेन यूना भिल्लेन सह तस्मात् वहिर्गता। ततश्च तेन युक्ता सा तत्पल्लींयथाकामं भग्नसेतुरापगेव अपतिका चचार।

अवान्तरे तत्पतिः कार्य्यंसाधयित्वा आगत्य च तं ग्राम्यं द्विजं स्वां भार्य्यां ययाचे।सोऽपि विप्रस्तंजगाद ब्रह्मन् ! न जाने सा क्व गता, एतावन्मात्रंजानामि, भिल्ला अनेन पथा यान्ति, तैः साकं सा प्रगता, तेषाञ्च पल्लीसमीपे वर्त्तते, तत्त्वरितं तत्र व्रज, ततस्तां भार्य्यांप्राप्स्यसि,मान्यथा बुद्धिं कथाः।इति तेनाभिहितः स रुदन् आत्मबुद्धिंनिन्दन् तां भिल्लपल्लीं जगाम, ददर्श च तत्र तांपत्नीम्। सा च पापा तं दृष्ट्वा भीता प्राब्रवीत् नाथ ! न मे कश्चिद्दोषः, अहमेकेन भिल्लेन बलादिहानीतेति। तदेहि तावत् यावत् कश्चिन्नपश्यति बलाया-

वहे। इति वादिनं रागान्धं तं पतिं सोवाचभिल्लस्य आखेटगामिनः इयमागमनवेला, स खलु आगतः श्रुत्वैवअनुधावन् त्वां माञ्च ध्रुवं निहनिष्यति, तदेतां गुहांप्रविश्य प्रच्छन्नः साम्प्रतं तिष्ठ। रात्रौ सुप्तं तं हत्वा निर्भयौ यास्यावः। एवं तया शठयाभिहितः स पुमान् प्रविश्यं गुहामतिष्ठत्। कामान्धानां हृदि कोऽस्ति विवेकावसरः ? सा पापीयसी दिनात्यये गुहान्तःस्थं तं पतिं तस्मै भिल्लाय समागताय दर्शयामास। स च दुरात्मा पराक्रान्तः भिल्लापसदस्तं प्रातर्देव्या उपहारार्थं तरौ सुदृढ़मबध्नात्। ततश्चभुक्त्वारात्रौ तद्भार्य्यया सह पश्यतस्तस्य यथाकामं सुरतमासेव्य तया युतः सुखं सुष्वाप। तञ्च तथा सुप्तं वीक्ष्य ईर्ष्यावान् स पुमान् तरुसंयतः तत्रस्थां देवीं चण्डां स्तुतिभिर्वशीकृत्य शरणं ययौ। सा देवी आविर्भूय तस्मै तं वरमदात्, येन स पुरुषः तस्याः खड्गेनस्रस्तबन्धनः तस्य भिल्लस्य शिरश्चिच्छेद। एहि इदानीं स पापो मया निहत इति तां भार्य्यां प्रबोध्य प्रोवाच च। सापि पापा दुःखिता समुत्तस्थौ, जगाम च तेन पत्या सह तस्य भिल्लस्य छिन्नंशिरः अलक्षितं गृहीत्वा निशि। प्रातश्च नगरं गत्वा तत्र तत् शिरो दर्शयन्ती अनेन मे भर्त्ता हतोऽयमिति तं पतिमाक्रम्य चक्रन्द। ततः स पुररक्षिभिः राजान्तिकं नीतः, पृष्टश्चसदस्यैः ईर्ष्यालुः सर्वं यथावृत्तमाख्यत्। राजा च तत्त्वमन्विष्य तस्याः पापायाः कर्णौ नासाञ्च छेदयामास, तञ्च तत्पतिं मुमोच। स मुक्तश्चकुभार्य्यानुरागग्रहोज्झितःस्वगृहं प्रायात्। देव ! योषित एवमीर्ष्यानियन्त्रिताः

कुर्वते। ईर्ष्यैव स्त्रियाः अन्यपुरुषासङ्गं शिक्षयति। तस्मादीर्घामप्रकाश्यैव सुबुद्धिना स्त्रियो रक्ष्याः। वनितासु च कदापि रहस्यं न वक्तव्यं क्षेममिच्छता पुरुषेण, तदत्र कथामाकर्णय।

पुरा किल कश्चिन्नागः वैनतेयभयात् मानुषं रूपमास्थाय पलाय्य कुत्रचिद् गणिकावेश्मनि अवतस्थे।गणिका च सा हस्तिशतपञ्चकं भाटिं दातुं समर्थश्चेत् वसात्र इति तमब्रवीत्। स च नागः स्वप्रभावात् तदेव तस्यै प्रत्यहमदात्। सा तु विलासिनी कुतः प्रत्यहं ते इयन्तो हस्तिनः को वा भवानिति तं निर्बन्धतः पप्रच्छ। सोऽपि नागः काममोहितः मा वोचस्त्वं कस्यचित्, अहं नाग इस वैनतेय भयात् प्रच्छन्नंस्थित इति व्याजहार।सा गणिका रहसि कुट्टिन्यै तद्रहस्यमाचचक्षे। अत्र तार्क्षःजगत् अन्विच्छन् पुरुषाकृतिस्तत्रागात्। अवादीच्च तां कुट्टिनीमुपेत्य ! अहमद्य रजनीं त्वत्सुतागृहे वसामि,मे भाटिर्गृह्यतामिति। सा च कुट्टिनी इह कश्चिन्रागः प्रत्यहं करिपञ्चशतं ददत् स्थितः, तव एकाहभाट्याकिमिति प्रत्यवादीत्। ततः स गरुड़ः तत्र स्थितं नागमवेत्य अतिथिरूपेण तद् वनितागृहमविशत्। ततस्तत्र प्रासादपृष्ठगतं तं नायमवलोक्य स आत्मानं प्रकाश्य उत्पत्य च तं जघान जहास च। तस्मात् स्त्रीषु अनर्गल रहस्यं न कथयेत्। इत्येवं गोमुखो मुग्धकथां कथयित्वा पुनरवर्णयत्।

अस्ति कश्चित् ताम्रकुम्भोपमशिराः खल्वाटः। स च

मूर्खोऽर्थवांश्चकेवलं कचराहित्यात् लज्जते। अथैकदा कचित् धूर्तःसमागत्य प्रोवाच भद्र! अस्ति कश्चिदेको वैद्यः, स एव केशोत्पादनौषधं वेति। एतदाकर्ण्य स तमवदत् यदि त्वं तमानयसि तदाहं तुभ्यं तस्मै च धनं दास्यामि। एवमुक्तवतस्तस्य मुग्धस्य स धूर्त्तः चिरं धनं भुक्त्वाएकं मूर्खचिकित्सकमानिनाय। स च भिषक् तं खलतिं चिरमुपजीव्य युक्त्यावेष्टनमपास्य तस्मै मुग्धाय अदर्शयत्। तदवलोक्यापि अविमर्षः स खलतिःजड़धीःकेशार्थं तमौषधं ययाचे, स च वैद्यस्तमब्रवीत् अहञ्च खल्वाटः कथमन्यस्य कचान् जनयेयं, हे मूर्ख ! मया निर्लोभेन स्वशिरो दर्शितं तथापि त्वं न वेत्सि, धिक् त्वामित्युक्त्वास भिषक् गृहमयासीत्। तदेवं देव ! धूर्त्तैजड़मतय एवं विड़रब्यन्ते। तदिदानींकेशमुग्धः श्रुतः, तैलमुग्धो निशम्यताम्।

आसीत् कस्यचित् शिष्टस्य मुग्धः कश्चित् सेवकः। स कदाचित् प्रभुणा तैलमानेतुंतैलिकस्य वणिजोऽन्तिकं प्रेषितः पात्रे तैलमुपाददे। पथि तैलपात्रमादाय आगच्छन् असौ केनचित् मित्रेण उक्तः सखे ! रक्षेदं तैलपात्रम् अधः स्रवति। तदाकर्ण्य अधो वीक्षितुं तत्पात्रंपर्यवर्त्तयत्। तेन च तस्य मूढस्य तत्सर्वं तैलं भुवि अपतत्। तदवलोक्य स जनेनोपहसितः, निरस्तश्च स्वामिना। तदेवं तैलमुग्धः श्रुतः, साम्प्रतमस्थिमुग्धोनिशम्यताम्।

आसीत् कश्चित् मूर्खः पुमान् तस्य चासतीभार्य्या।सा कदाचित्पत्यौदेशान्तरं कार्य्यवशात्प्रस्थिते स्वा-

स्वमाप्तांसखीं कर्त्तव्यशिक्षां दत्वा गृहे संस्थाप्य एकाकिनी निर्गत्य निरर्गलसुखेच्छया उपपतेर्गृहं प्रायात्। अथ तत्पतिमागतंदृष्ट्वा तत्सखी शिक्षितपूर्वा अश्रुगद्गदमवादीत्स्वामिन् ! भार्य्या सा तव मृता दग्धा च इत्युक्त्वा सातंश्मशानं नीत्वा यान्यस्थीनि अदर्शयत् स तानि आदाय रुदन् कृतोदकः तीर्थेषुअस्थीनि तानि प्रक्षिप्य तस्याभार्य्यायाः श्राद्धविधानाय प्रववृते। ततः स श्राद्धकर्तासद्विप्रइति आनीतं भार्य्योपपतिं श्राद्धेविप्रमकरोत्। सा चतद्भार्य्या चारुवेशा तेन उपपतिना साकं तत्रागत्य मासि मासि श्राद्धंबुभुजे। अथ सा कर्म्मकरी तत्पतिमवादीत् प्रभो ! सती ते पत्नी तवधर्म्मप्रभावेण परलोकादागत्य ब्राह्मणेन समं स्वयं भुङ्क्ते। सोऽपि मूर्खस्तथैव सर्वं प्रतिपेदे।तदेवं सरलाशयाः कुभार्य्याभिः प्रतार्य्यन्ते। एष तावदस्थिमुग्धः कथितः, साम्प्रतं चण्डालकन्यावार्त्ता निशम्यताम्।

आसीत् क्वचित् प्रदेशे कापि रूपवती चाण्डालदारिका। सा सार्वभौमस्य सुतप्राप्तौ मानसमकार्षीत्। सा कदाचित् नगरभ्रमार्थं निर्गतं राजानं सर्वोत्तमं दृष्ट्वाभर्त्तृबुद्धिरनुगन्तुंप्रचक्रमे। तावञ्च तेन पथा कश्चिन्मुनिराययौ। तमसौ दृष्ट्वा गजारूढ़ो राजा तस्य पादौ प्रणम्य स्वभवनमगात्। ततस्तं मुनिं सा चण्डालकन्या राजतोऽपि अधिकं माननीयं दृष्ट्वा राजानं विहाय तं मुनिमचगात्।सोऽपि मुनिः पथि शून्यंशिवमन्दिरं दृष्ट्वा क्षितौसन्यस्तजानुः शिवं नत्वा ततो ययौ। अथ तदीक्ष्यसा

अन्त्यजामुनेरपि तं शिवं श्रेष्ठं मत्वा मुनिं त्यक्त्वा तमेवशिवं भर्तृबुद्ध्यासमशिश्रियत्। अथ क्षणेनकश्चित् श्वा तत्रप्रविश्य देवस्य पीठिकामारुह्य जङ्घामुत्क्षिप्य च स्वजातिसदृशं कर्म्माकरोन्। तदवलोक्य सा अधमा देवादपि श्वानमुत्तमं मत्वा देवं विहाय तमेव श्वानं भर्तृबुद्ध्याअन्वगमत्। स च श्वा चाण्डालगृहमागत्य तत्र परिचितस्य कस्यचित् चाण्डालयुवकस्य प्रणयात् पादयोः लुलुण्ठ। ततः सा त चाण्डालपुत्रं शुनोऽपि उत्तमं विलोक्य तमेव पतिं ववार। इत्थ उन्नतपदकाङ्क्षिणोजडाःस्वपद एव पतन्ति। अपरञ्चमूर्खनृपं शृणु कथयामि।

अभूत् कोऽपि मूर्खः कोशवानपि कृपणो महीपतिः। एकदा शुभाकाङ्क्षिणो मन्त्रिणस्तंजगदुः देव ! दानं हि पारलौकिकींदुर्गतिं नाशयति, तत् दानं दीयताम्, आयूंषि धनानि च भङ्गुराणि तदाकर्ण्य स नृपोऽवादीत् ततो दानं दास्यामि, यदि मृतमात्मानं दुर्गतिमापन्नपश्यामि। ततस्ते मन्त्रिणोऽन्तर्हसन्तः तूष्णीमतिष्ठन्। इत्थंमूढमतयः यावत् अर्थैः न परिहीयन्ते तावदर्थान् नोज्झन्ति। तदेवं राजमूर्खता श्रुता, साम्प्रतं मित्रद्वयं शृणु।

आसीत् कान्यकुञ्जे जनपदे चन्द्रापीड़ो नाम भूपतिः। तस्य धवलमुखो नाम एकः सेवकस्तस्थौ। स तु वहिःभुक्त्वापीत्वा च सततं गृहमायात्। एकदासौ भार्यया भुक्तपीतः कुतो नित्यमायासीति पृष्टस्तामवादीत् सुन्दरि ! सुहृदपार्षादहं भुक्त्वापीत्वा च प्रत्यहमायामि, मम द्वे

मित्रे स्तः। तयोरेकः कल्याणवर्म्मानाम मम भोसनाद्युपकारंकरोति। अपरःवीरबाहुः प्राणैरपि उपकारपरः। एतदाकर्ण्य भार्य्यातमब्रवीत् दर्शय मे तत् मित्रद्वयमिति। ततोऽसौ तया सहितः मित्रस्य कल्याणवर्म्मणःसकाशमगात्। स च महार्हैरुपचारैस्तंसभार्य्यमुपाचरत्। ततोऽपरेद्युः स तथैव भार्य्यायुतः वीरबाहोःसकाशमियाय। स च तदा द्यूतस्थितस्तं स्वागतेनाभिनन्द्य व्यसर्जयत्। ततः सा भार्य्या तं धवलमुखं सकौतुकमभाषत कल्याणवर्म्मामहतीं ते सत्क्रियामकरोत्। वीरबाहुना तु केवलेन स्वागतेन ते सत्कृतम्। तदार्य्यपुत्र ! तत् मित्रम् अभ्यधिकं मन्यसे ? तदाकर्ण्य सोऽब्रवीत् गच्छ तौ ब्रूहि च क्रमात् मिथ्या राजा अकस्मात् नः कुपित इति, ततः स्वयं ज्ञास्यसीति। इत्युक्त्वासा तदैव कल्याणवर्म्मणः सकाशं गत्वा अवोचत् राजा नः कुपित इति, अथ स तांजगाद भवति! अहं बणिक्पुत्रः, ब्रूहि राज्ञःकिं करोमीति। इत्युक्त्वातेन सा वीरबाहोरन्तिकं गता तस्मै तथैव भर्त्तरि राजकोपमशंसत्। स श्रुत्वैव खड्गचर्म्मधरः धावन् राजसकाशमाययौ। राजा मन्त्रिभिः कोपात् वारितः, अतस्त्वं व्रज वीरबाहो! इति स धवलमुखस्तंस्वगृहं प्राहिणोत्। अथ तेन धवलमुखेन सुन्दरि ! एवं मे मित्रयोरन्तरम् इति अभिहिता सा तद्भार्य्या तुतोष। इत्थमुपचारमित्रमन्यत्, सत्त्वतो मित्रञ्चान्यत् स्निग्धतायोगे तुल्येऽपि तैलं तैलं घृतं घृतम्। इत्येवंमुग्धकथामाख्याय गोमुखोनरवाहनदत्ताय पुनःकथामकथयत्।

कश्चित् मुग्धोऽध्वगः कृष्छ्रात् अटवीं तीर्त्त्वानदींप्राप्यापि जलं न पपौ परं वीक्षाञ्चक्रे। तृषितोऽपि कथमम्भः न पिबसीत्युक्तः केनचित् स इयत् कथं पिबामीति मन्दबुद्धिरुवाच। अथ तेन किं त्वां राजा दण्डयिष्यति यदि त्वया सर्वं जलं न पास्यते इति उपहसितोऽपि भीतःतदम्बु नापिबत्। एवमबुद्धयः यत् यत् कार्य्यमशेषतः कर्तुं न शक्नुवन्ति, तस्यांशमपि यथाशक्ति न कुर्वन्ति। तदिदानींजलभीतः श्रुतः, पुत्रघाती श्रूयताम्।

कश्विदासीत् दरिद्रो मूर्खो बहुपुत्रश्च पुरुषः। स एकस्मिन् सुते मृते सति कथमयं बाल एकाकी पथि व्रजेदिति द्वितीयमपि पुत्रंस्वयमबधीत्। ततः स जनैर्निन्द्यः हास्यःदेशान्निर्वासितश्च। एवं पशुश्च मूर्खश्चउभौ समौ निर्विवेकौ। तदेवं पुत्रघाती त्वया श्रुतः, साम्प्रतं भ्रातृभीतमिमं शृणु।

क्वचिद्देशे कोऽपि मुग्धधीर्जनमध्ये कथायां प्रवृत्तायां भव्यमेकं पुरुषं दृष्ट्वा इदमब्रवीत् एष मे भ्राता, अहमस्य रिक्थं हरामि, अहन्तु न कश्चिदस्य, तेन च मे एतत् ऋणं न इत्युक्तवान् स मूर्खः पाषाणानपि तत्र स्थितान् हासयामास। एवं स्वार्थान्धस्य मूढस्य मूढत्वमिति वैचित्राम्, इदानीं देव ! ब्रह्मचारिसुतं शृणु।

कश्चित् पुमान् मित्रमध्यवर्ती पितृगुणाख्यानेषु प्रवृत्तः पितुरुत्कर्षं वर्णयन्नभ्यधात् पिता मम आशैशवात् ब्रह्मचारी, तेन समः कोऽस्ति ? तदाकर्ण्य सुहृदस्तमब्रुवन् तर्हि त्वं कुतो जातः ? इत्येवं तैः स जड़ःविशेषेण उप-

हसितः। तदेवं जड़ाशयायथेच्छमसम्बद्धंप्रवदन्ति। अधुना गणकोऽयं श्रूयतां देव!

आसीत् कश्चिद विज्ञानवर्जितः गणकः। स खलु कापट्येन अर्थात् पूजाञ्चोपार्जयितुमयतिष्ट। एकदासौ सर्वजनाग्रतः वालं पुत्रं परिष्वज्य भृशं रुरोद। पृष्टश्च तैः कथं रोदिषीति स तानवादीत् अहं तावत् भूतं भव्यं भविष्यञ्चजाने, तदयं मे शिशुः सप्तमे दिवसे विपत्स्यस इति रोदिमि। इति तान् विज्ञाप्य प्राप्ते सप्तमे दिवसे प्रत्यूष एव स सुप्तं सुतं व्यापादितवान्। अथदृष्ट्वा तं बालं मृतं तैः सर्वैः सञ्जातप्रत्ययैः पूजितो धनमानाभ्यां स्वदेशं स्वैरमगमत्। इत्थमर्थलोभात् मुग्धविज्ञानज्ञापनार्थिनः मूर्खाः पुत्रमपि घ्नन्ति, तस्मात् तेषु सुबुद्धयो न विश्वसेयुः। इदानीं प्रभो ! कोपनः पुरुषः श्रूयताम्।

कुत्रापि नगरे वहिस्थितस्य शृण्वतः कस्यापि गुणान् कश्विदभ्यन्तरवर्त्ती स्वजनाग्रतः शशंस। स तु स्वजनस्तमब्रवीत् सखे ! सत्यं किन्तु तस्य दोषौद्वौस्तः, यदसौ साहसी क्रोधनश्च। इति वादिनमेव तं वहिस्थितः पुरुषः निशम्य सहसाप्रविश्य गले वासमा अवेष्टयत् रे जाल्म ! किं मे साहसं क्रोधश्च त्वया दृश्यते ? इत्येवं क्रोधाग्निना ज्वलन्नसौपुरुषस्तंसाक्षेपमभ्यधात्। ततो हसन्तः सर्वे तमूचुः किं ब्रवीष्यदः, त्वमिदानीमेव प्रत्यक्षतः क्रोधं साहसश्चदर्शयसीति। इत्थं प्रकटोऽपि स्वदोषोअज्ञैर्नबुध्यते। इदानींमुग्धकन्यावर्द्धयिता नृपः श्रूयताम्।

आसीत् कश्चिन्नृपतिः। तस्यैका कुरूपा कन्या अजनि।

स तां स्नेहेन वर्धयितुकामः सत्वरं वैद्यानानीय प्रीत्याभ्यभाषत वैद्यसत्तमाः ! सदैव मे कञ्चित् औषधप्रयोगं कुरुत, येन मे सुतैषा शीघ्रं वर्द्धते, सद्भर्त्रेच प्रदीयते। तदाकर्ण्य ते वैद्यास्तंजड़मतिं नृपमुपजीवयितुमब्रुवन् देव ! अस्त्यौषधमितो दूरात्, तत्तुकृच्छ्रादवाप्यते, यावत् तदौषधं वयमानयामः, तावदेषा ते सुता अदृश्या स्थापनीया, तत्र हीदृशी अनुष्ठानपद्धतिः। इत्युक्त्वाते छन्नांनृपात्मजां स्थापयामासुः। ततश्च बहून् संवत्सरान् औषधानुष्ठानंकथयन्तस्ते यौवनेन प्रवर्द्धितां तामौषधेन इति ब्रुवाणास्तस्मै महीभृते तां दर्शयामासुः। स च राजा तुष्टः तान् वैद्यान् प्रार्थनाधिकैः धनैः पूरयामास। इत्येवं जड़मतयो व्याजेन धूर्त्तैः प्रनुज्यन्ते धनिनः। तदिदानीं अर्द्धपणोमार्जनपण्डितः पुमान् श्रूयताम्।

आसीत् क्वचिन्नगरे कोऽपि प्रज्ञाभिमानो पुमान्। तस्यैको ग्राम्यः पुमान् भृतकः संवत्सरात् परं वृत्तसन्तोषःप्रभुमापृच्छ्य स्वगृहमगात्। तस्मिंश्च मते स स्वभार्य्यामपृच्छत् तन्वि! स भृत्यः त्वत्तः किञ्चिद् गृहीत्वा गतः? इति। सा तु अर्द्धपणमित्यब्रवीत्। ततः स सत्वरं नदीतटपर्य्यन्तगतात् तस्मात् भृत्यात् तदर्द्धपणमादाय गृहमायात्। इत्यमर्थकौशलं शंसन् स लोकेषु हास्यतामगमत्। इत्थं धनान्धधियः स्वल्पस्यार्थे बहून् क्षपयन्ति। साम्प्रतमभिज्ञानकर्त्ता श्रूयताम्।

एकदा कस्यचित् मूर्खस्य यानपात्रेण अम्बुधौ व्रजतः हस्तात् राजतं भाजनम् अम्बुधौ पपात। स तु मूर्खः तत्र

आवर्त्तान्तिके आगच्छन्नहमब्धितलादुद्धरिष्यामीतिअभिज्ञानबुद्धिमग्रहीत्। अथ अम्बुधेःपारं प्राप्तः स्वमभिज्ञानं मुहुःप्रख्यापयन् तत्रत्यैरुपहसितो धिक्कृतश्च। इदानींप्रतिमांसप्रदं नृपं शृणु।

पूर्वं कश्चित्मूर्खो नृपः प्रासादात् अधो द्वौनरौ अपश्यत्। तयोरेकेन महानसे सुहुतं मांसं दृष्ट्वा तस्य अपरस्य होतुरङ्गात् पञ्च मांसपलानि व्यकर्त्त्यन्त। ततः उत्कृत्तमांसंक्रन्दन्तं तं भुवि पतितं दृष्ट्वा राजासौ जातानुकम्पः प्रतीहारमादिशत् छिन्नमांसतया अस्य व्यथा वर्त्तते, तदस्मैअतोऽप्यधिकं मांसं दीयतामिति। देव ! शिरश्छिन्नःकिं जीवति शिरःशतैः प्रदत्तैः? तद्वदस्यापि कथमेषा व्यथा निवर्तेत इत्युक्त्वातत्क्षणाद् वहिर्गत्वा अहसत्। एवं मूढमतिर्नृपः निग्रहानुग्रहौ न वेत्ति। साम्प्रतं पुत्रान्तरकारिणी मन्दा स्त्री निशम्यताम्।

कापि पाषण्डी क्षुद्रतापसौ पृच्छन्तीं कामपि योषितमब्रवीत् भद्रे ! योऽयं ते पुत्रोऽस्ति, तं हत्वा देवताबलिः क्रियताञ्चेत् ततस्ते निश्चितमपरः श्रेष्ठः सुतो जायते। एवं तयोक्ता सा यावत् तथा कर्तुं व्यवस्यति, तावदन्या स्त्री वद्धाभ्येत्य तांरहोऽवदत् पापे ! जातं हंसि, अजातं प्राप्तुमिच्छसि, यदि स न जनिष्यते, ततः किं करिष्यसि? इत्थं तया आर्य्ययासा तस्मात् पापादवार्य्यत। इत्थं शाकिनीसङ्गताः स्त्रियः अकार्येषु प्रवर्त्तन्ते, वृद्धोपदेशेन चप्रायशो रक्ष्यन्ते। देव ! साम्प्रतमयमामलकानेता निशम्यताम्।

आसीत् कश्चिद्गृहस्थस्य कस्यचित् मुग्धो भृत्यः। स तु गृहस्थः आमलकप्रियस्तं भृत्यमादिशत् भद्र। गच्छ आरामात् सुमधुराणि आमलकानि मदर्थमानय। स च जड़ःएकैकमामलकं दशनच्छेदेनास्वाद्य आनीतवान्, उक्तवांश्चप्रभो ! स्वयमास्वाद्य मधुराण्येतानि मयानीतानि, प्रेक्ष्यन्तामिति। स तु गृहपतिस्तानि उच्छिष्टानि आलोक्य तेन निर्बुद्धिनाभृत्येन समं तत्याज। तदेवं निष्प्रज्ञो नाशयति प्रभोरात्मनश्चार्थम्। अधुना भ्रातृद्वयकथामिमामाकर्णय।

आस्तां तावत् पुरा पाटलिपुत्रे नगरे द्वौ विप्रौ।ज्येष्ठो यज्ञसोमो नाम द्वितीयः कीर्त्तिसोमः। तयोश्चपैतृकंभूरि धनमासीत्। कीर्त्तिसोमः निजं भागं व्ययात् रक्षन्अवर्द्धयत्। यज्ञसोमस्तु भुञ्जानो ददञ्च क्षयमनयत्। ततः स क्रमेण निर्धनीभूतः स्वांभार्य्यामवादीत् प्रिये ! तथाहं सधनी भूत्वा इदानींकथं निर्धनो बन्धनां मध्ये वसामि, तद्देशान्तरं व्रजावः। अथ तया पाथेयेन विना कुत्र याव इत्युक्तेच यदा निर्बन्धमकरोत् तदा भार्य्या तमाह स्म अवश्यं यदि गन्तव्यं, तदा भ्रातुस्ते कीर्त्तिसोमात् अनुजात् पाथेयं किञ्चित् याचस्वइति। ततो यावत् सः अनुजं गत्वा पाथेयं याचते, तावत् सोऽनुजः स्वयाभार्य्यया जगाद क्षपितस्वधनाय अस्मै कथं वयं धनं दद्मः, य एव दरिद्रः स्यात् स एव अस्मानेवं याचिष्यते इति।श्रुत्वेतत्, कीर्त्तिसोमोभ्रातृस्नेहार्द्रोऽपि किमप्यस्मै दातुं नाशकत् कष्ट हि स्त्रैणम्। ततो यज्ञसोमो गत्वा पत्न्यै-

तत् सर्वं विज्ञाप्य तयैव सह दैवशरणः प्रातिष्ठत। गच्छन्तञ्च अटवीम् अजगरेण निगीर्णं तमवलोक्य तद्भार्य्या भुवि पतिता भृशं चक्रन्द। कथमाक्रन्दसीति तेनाजगरेण मनुष्यभाषया निगदिता सा प्राब्रवीत् हे महासत्त्व ! कथंन क्रन्दामि, त्वया मे दुःखिताया विदेशे भिक्षाभाजनं हन्यते। तदाकर्ण्य कृपालुरजगरो वक्त्रादुद्गीर्य महत् स्वर्णपात्रमस्यै गृहाणेदं भिक्षाभाजनमिति वदन् प्रादात्। तया च ब्राह्मण्या महाभाग ! को मे अस्मित् भिक्षां मेप्रदास्यतीति निगदितोऽसौ अजगरस्तदा प्रत्यभाषत भद्रे ! यस्तेअस्मिन् भिक्षाभाजने भिक्षांन दास्यति तस्य शिरः शतधा यास्यति एतन्मे वचनं सत्यम्। तदाकर्ण्य सा सती द्विजपत्नी तमजगरमुवाच तर्हि प्रथमं त्वमेव मे अत्र भर्तृभिक्षां प्रयच्छ इत्युक्त एवासौ अजगरस्तत्क्षणात् मुखात् अक्षतं जीवितमेव तं ब्राह्मणम् उज्ज़गार। तमुद्गीर्य्यच सोऽजगरः सपदि दिव्यः पुमान् परितुष्टश्चाभवत्, अवोचच्चतौ दम्पती प्रहृष्टौ। अहंकाञ्चनवेगो नाम विद्याधरराजःगौतमशापेन इमामाजगरींयोनिमापन्नः, स च मे शापः सतीसंवादावसेयः। इत्युक्त्वातत्क्षणं तत् हेमपात्रंरत्नैःआपूर्य्यहृष्टः खमुत्पत्य यथास्थानमगात्। तौ च दम्पती तत् रत्नजातमादाय गृहमीयतुः। सत्वानुरूपमेव धाता सर्वस्यविदधाति हि। अपरञ्च श्रूयताम्। कश्चित् कर्णाटीयः स्वार्थमुग्धः नापितः रणे शौर्य्यात्स्वं प्रभुमतोषयत्। स तु प्रसन्नः प्रभुः तस्मै अभीष्टं वरमदात्। स तु नापितस्तस्मात् नपुंसकनिभं भटमयाचत। सर्वे

हि स्वचित्तप्रमाणेन सदसद्वाअभिवाञ्छन्ति।

शृणु देव ! न किञ्चिन्मार्गमाणं कश्चिन्मुग्धम्। कश्चित्पथिव्रजन् मूर्खः केनचित् शकटस्थेन ऊचे भद्र ! शकटमिदं मे मनाक् समं कुरु इति। यद्यहं समं करोमि तदा में किं दास्यसीति निगदितः शकटस्वामी प्रावोचत् न किञ्चिद्दास्यामीति। ततः स मूर्खः तत् समं कृत्वैव मे किञ्चद्देहीति तमाह स्म। स चाहसत्। तदेवं देव ! मूर्खाः इत्थं उपहसिता निन्दिताश्चसदैव भवन्ति। सन्तस्तु पूज्यन्त एव। एवं स राजपुत्रो नरवाहनदत्तः गोमुखात् इमां विनोदकथामाकर्ण्य रजन्यां विश्रामाय निद्रामियाय।

_________

अथ द्विषष्टितमस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1723702494Screenshot2024-08-08165843.png"/>

अथ प्रातः वत्सेश्वरसुतः समुत्थाय वत्सलस्य पितुरुदयनस्य अन्तिकमगात्, तत्र च पद्मावतीदेव्या भ्रातरि मगधेशसुते स्वगृहादागते सिंहवर्म्मणितस्य स्वागतप्रश्नादिवथाभिरहनि व्यतिक्रान्ते च राजपुत्रेनरवाहनदत्तः कृतभोजनः स्वं मन्दिरमाययौ। तत्र शक्तियशसि समुत्सुकं तं विनोदयितुंनिशि स धीमान् गोमुखः कथामिमामकथयत्।

आसीत् क्वश्चित् छायाप्रधानः सुमहान् न्यग्रोधपादपः

शकुन्तनादैः पथिकान् विश्रामाय आह्वयन्निव। तत्र मेघवर्णो नाम वायसः कृतनीड़ःसमतिष्ठत। तस्य अपमर्दनामा उलूकाधिपतिः रिपुरास। स च तस्य काकराजस्य बहून् काकान् राचावभ्येत्य हत्वा परिभूय याति स्म। ततश्च प्रातरसौ काकराजः समाहूय उड्डीवी आडीवीसण्डीवी प्रडीवी चिरजीवीति प्रसिद्धनाम्नः मन्त्रिणः प्राह स्म भद्राः ! स शत्रुः बली अस्मान् परिभूय लब्धस्पर्द्धःपुनर्यदि आपतेत् तदत्र प्रतीकारश्चिन्त्यतामिति। तदाकर्ण्य उड्डीवी अभाषत प्रभो ! अन्यदेशाश्रयः वा तदनुनयः कार्य्यः। तदाकर्ण्य आडीवी प्रोवाच स्वामिन् ! सद्यो न भेतव्यं रिपोराशयं स्वशक्तिञ्च वीक्ष्य यथातथं करवाम। ततः सण्डीवी प्राब्रवीत् देव! मरणमपि वरं न तु शत्रोः प्रणतिः, न वा विदेशे जीवनम्। तेन साकं योद्धव्यमस्माभिः, यदि स शत्रुः साम्प्रतमबध्यः तदपि प्राप्तेऽवसरे हन्तव्य एव। ततश्चिरजीवी प्रावोचत् कथं सन्धिः, कश्चात्र दूतः ? आसृष्टिवैरं काकानामुलूकैः ? तत्र को व्रजेत्। मन्त्रसाध्यमिदं मन्त्र एव राज्यस्य मूलमुच्यते। एतदाकर्ण्य स काकराजस्तंचिरजीविनमवादीत् सहायवान् शूरः सोत्साहो नृपः शत्रून् जयति। अथ प्रडीवीसमभ्यधात् देव ! स वली रणे न जेतव्यः। ततः काकराजः प्राह भद्र ! वृद्धस्त्वं, ब्रूहि कथं काकोलूकस्य वैरित्वं, कश्चात्र मन्त्र इति। तदाकर्ण्य चिरजीवी तं काकराजमब्रवीत् देव ! वाक्यदोष एवायं त्वयागर्दभाख्यानं किं न श्रुतम्? पुरा केनापि रजकेन कृश

एकोगर्दभः द्वीपिचर्म्मणाच्छाद्य पुष्टये परशस्येषु समासक्तः कृतः। स तु तानि खादन् द्वीपीति जनैस्तासान्नवारितः। कदाचित् केनचित् कर्षकेण धनुष्पाणिना स दृष्टः। ततः स तं द्वीपोति कुञ्जीभूय भयार्त्तः कम्बलावेष्टितशरीरस्ततो गन्तुं प्रववृते। तञ्च तथा यान्तमवलोक्य असौ खरः खरोऽयमिति चिन्तयन् शस्यपोषिताङ्गः समुच्चैर्व्याजहार। तदाकर्ण्य तं गर्दभं मत्वा समुपेत्य स कर्षकः शरप्रहारेण कृतवैरमबधीत्। एवं वाग्दोषेणैवास्माकम् उलूकैः सह वैरम्।

आसन् पूर्वमराजका एव पक्षिणः। ततस्ते सम्भूय सर्वे पक्षिणः गगनादायाताः उलूकस्य पक्षिराजाभिषेचनं कर्तुं प्रारभन्त। तदवलोक्य वायसोऽब्रवीत् रे मूढाः ! हंसकोकिलाः पक्षिसत्तमाः किं न सन्ति ? येन क्रूरदृशम् अप्रियदर्शनम् अमङ्गलम् उलूकमिममभिषिञ्चथ? धिक् युष्मान् राजा प्रभाववान् कार्य्यः,यस्य नाम्ना एव कार्य्यंसिद्ध्येत्। तदत्र कथामिमां शृणुत कथयामि वः।

अस्ति चन्द्रसरो नाम महत् सरः।तस्य च तीरेशिलीमुखो नाम शशकः प्रतिवसति स्म। तत्रैकदा अनादृष्टिपातनिपीड़ितो गजयूथपतिश्चतुर्दन्तो नाम समाजगाम। तत्र तेन गजयूथेन अवगाहमानेन तस्य शिलीमुखस्य शशकराजस्य बहवः शशकाः विचूर्णिताः। ततस्तेन सुदुःखितोऽसौ शिलीमुखः दुःखितं विजयं नाम शशंसर्वसनिधौ प्राह स्म भद्र ! लब्धास्वादोऽयं गजपतिः पुनः पुनरत्र समेष्यति निःशेषयिष्यति चास्मान् तदत्रउपाय-

श्चिन्त्यतां, गच्छ तस्यान्तिकं कापि युक्तिरस्ति चेत् प्रदर्श्यताम्। त्वमेव कार्य्यमुपायञ्च वेत्सि, वक्तुञ्च सुयुक्त्या शक्नोषि, यत्र यत्र त्वं गतः, तत्र तत्रैव शुभमभूत्। इत्येवं प्रीणितस्तेन स विजयस्तत्र शनैरगमत्, अद्राक्षीच्च वारणेन्द्रमागच्छन्तम्। यथातथं न बलिना सङ्गमः कार्य्यइति विविच्यसः अद्रिशिखरारूढस्तमब्रवीत् अहमस्मि दूतो भगवतःशशाङ्कस्य, स मद्वचनादिदमाह यदेतत् शीतं चन्द्रसरोऽस्ति तत्र मम निवासः, तत्रासन् शशकाः, अह तेषां राजा, ते च मम प्रियाः, अत एवाह शीतांशुःशशाङ्कश्चेति प्रसिद्धिं गतः, तदेतत् सरस्त्वया नाशितं शशकाश्च बहवो हताः, भूयश्चेदेवं कर्त्तासि, ततस्त्वमनुरूपमस्य फलमवाप्स्यसि। एतदाकर्ण्य स गजेन्द्रः सभयमब्रवीत् नेवमहं पुनः करिष्ये, मान्यः स मे भगवान् शशीति। एवं वादिनं विजयः सखे ! एहि दर्शयामि त्वां भगवन्तमिति उक्ता तं नागेन्द्रं सरसोऽन्तिकमानीय तस्मै चान्द्रं प्रतिविम्बं जलपतितमदर्शयत्। तद् दृष्ट्वा दूरतो नत्वा भयाकुलः सपदि सयूथःवनमगात् पुनस्तत्र नाययौ। प्रत्यक्षं तत् सर्वं दृष्ट्वा स शशराजः शिलीमुखः तं दूतं शशं सम्मान्य निर्भयः स्वस्थानमध्यवसत्। इत्युक्त्वावायसस्तान् पक्षिणः पुनरुवाच एवं स एव प्रभुः, यं कश्चिन्नबाधते, न तु अयमुलूकोदिवान्धः, क्षुद्रोऽयं कुतो राज्यमर्हति ? क्षुद्रो हि अविश्वास्यः, तदत्र कथामिमामाकर्णय।

कदाचित् क्वापि तरौ अहमवसम्।तत्र चाधः पक्षीकपिञ्जलो नाम कृतनिलयः प्रतिवसति। स कदाचित्

क्वापिगतः। यावदसौ बहून् दिवसान् नआयाति तावत् तन्नीड़मेत्य कोऽपि शशको वसति स्म। अथ गच्छति काले स कपिञ्जलः समायातः शशकं तं कृतनीड़ाधिकारं दृष्ट्वा प्राब्रवीत् गच्छ दूरं मन्नीडात् दुराचार ! इति। ततश्चोभयोरन्योन्यंतन्नीडमुपलक्ष्य विवादः प्रावर्त्तत। ततश्चोभौ निर्णेतारमन्वेष्टुं प्रस्थितौ। अहञ्च तत् कौतुकं द्रष्टुं तावन्वगमम्। अथ तौ सरस्तीर स्तोकं गत्वा हिसाधृतमृषाव्रतं ध्यानार्द्धमीलितदृशं मार्जारमपश्यताम्, अवोचताञ्चतं धार्मिकं मत्वा विहालं किमत्र न्याय्यं, त्वं हि भगवन् ! धार्मिकस्तपस्वीति। श्रुत्वा तत् बिड़ालःअल्पया वाचा जगाद नाहं तपःक्षामः शृणोमि दूरात्, आयात मत्सकाशं, धर्म्मोहि असम्यक् निर्णीतः उभौलोकौनिहन्ति, इत्थमाश्वास्य समीपमानीय स विड़ालः उभावप्यखादत्। तदेवं क्षुद्रे दुर्जने न विश्वासःकार्य्यः।तस्मादुलूकोऽयं दुर्जनो राजा भवद्भिर्न कर्त्तव्य इति अभिधाय तेन वायसेन उलूकाभिषेचनाद्वारिताः पक्षिणस्तथेति प्रतिपद्य स्वंस्वं धाम ययुः। अद्यप्रभृति यूयं वयञ्चान्योन्यशत्रव इति काकमुक्त्वास उलूकः क्रुधा ज्वलन् प्रययौ। काकोऽपि युक्तमुक्तं मत्वा निर्भयोऽभवत्, वाङ्मात्रोत्यादितात् वैरात् कोहि अनुतप्यते ? एवं वाग्दोषादेव कौशिकेःसह नो वैरं इत्युक्ता चिरजीवी तं काकराजं पुनरवदत् देव ! बहवोऽपि बलिनो जेतुं शक्याः, न तु कौशिकाः, बहवोऽपि जयन्तीत्यत्र निदर्शनं शृणु।

कश्चिद्द्विजः छागं क्रीतं स्कन्धे गृहीत्वा व्रजन् पथि

बहुभिर्धूर्त्तेर्ददृशे छागहरणार्थिभिः। तेषाञ्चैकः समेत्य ससम्भ्रमं तं द्विजमवादीत् ब्रह्मन् ! कथमयं श्वा स्कन्धे धृतः? सत्वरममुं मुञ्च। असौ द्विजः तद्वचनमनादृत्य यदा गच्छति तदापरौद्वौधूर्तौसमेत्य तमूचतुः भगवन् ! त्यजतामयं श्वा, जातु कोऽपि पश्येत्। ततोऽपि यावत् किञ्चिदुपजातसंशयः प्रयाति तावत् अपरे त्रयो धूर्त्ताः समेत्य अवदन् ब्रह्मन् ! कथं यज्ञोपवीत्तञ्च श्वानञ्च समं वहसि? नूनं त्वं व्याधः, नैव विप्रः, अनेन शुना मृगान् हंसि। इति श्रुत्वा स ब्राह्मणः क्षणं दध्यौ नूनमहं केनचिद् भूतेन मे दृशं हत्वा भ्रामितः, सर्वेऽपि किं मृषा पश्यन्ति। इत्थमालोच्य स विप्रस्तं श्वानमेव मत्वा स्नात्वा च गृहमगात् धूर्त्ताश्च सर्वे तमजंनीत्वा यथेच्छमभक्षयन्। इत्युक्त्वास चिरजीवी पुनस्तं वायसेश्वरमवदत् देव ! एवं हि दुर्ज्जना बहवो बलवन्तश्च, तदस्मिन् बलिविग्रहे यदहं वच्मि तत् कुरु, मां किञ्चित् लुञ्चितपक्षंकृत्वा अस्यैव तरोरधः संरक्ष्य यूयमिमं गिरिं यात, यावदहं कृतार्थःआगच्छामि। तदाकर्ण्य तं क्रुधेव उल्लुञ्चितपक्षं कृत्वा अधस्तात् प्रक्षिप्य काकराजः सपरिजनः तं गिरिं प्रायात्। चिरजीवी तु तरोरधः पतित्वा तत्रैवासीत्। ततस्तत्र स उलूकराट्सानुगः रात्रौ तत्राययो, न च ददर्श तत्र एकमपि वायसम्। तावत् स चिरजीवी तं रुजेवाल्पस्वरोऽवदत् अहं तस्य काकराजस्यचिरजीवीति मन्त्री, स च अन्यैर्मन्त्रिभिः सम्मन्त्रा तामाक्रमितुमयतिष्ट, अहन्तु तान् मन्त्रिणस्तञ्च नृपं निर्भर्त्स्यअब्रुवन् यदि मां मन्त्रं परि-

पृच्छसि, यदि चाहं ते सम्मतः, तदा बलवता कौशिकराजेन विग्रहो न कार्य्यः, यदि नीतिरनुस्रियते तदा तस्यानुनयः कार्य्यः।एतत् श्रुत्वा शत्रुपक्षोऽयमिति क्रोधात् स मूर्खः काकः मन्त्रिभिः सार्द्धं मम इमामवस्थामकरोत्, माञ्च तरुतले क्षिप्त्वा क्वापि सानुचरोऽगमत्। इत्युक्त्वास चिरजीवी श्वसन्नधोमुखस्तस्थौ। ततश्च उलूकपतिः स्वान् सचिवानप्राक्षीत्भद्राः। किमस्य मया विधातव्यं चिरजीविनः? तदाकर्ण्य दीप्तनयनो नाम मन्त्री तमवोचत्, अरक्ष्योऽपि चौरःउपकारीति सज्जनैः रक्ष्यते। तदत्र कथां शृणु।

आसीत् पूर्वं कश्चिद्बणिक्। स वृद्धोऽपि अर्थप्रभावेण कामपि बणिक्सुतां पर्य्यनैषीत्। सा तु जरतस्तस्य शयने नित्यं व्यतीतपुष्पकाला भ्रमरीव पराङ्मुखीअभूत्। एकदा निशि शय्यास्थयोस्तयोः सदने चौरः प्राविशत्। तं दृष्ट्वा सा परावृत्त्य भयात् पतिमाश्लिष्टा। बणिक् तमभ्युदयमाश्चर्य्यंमत्वायावत् दिशो निरीक्षते तावत् कोणे चौरम् अद्राक्षीत्। ततस्त्वम् उपकारी असि, नाहं त्वां भृत्यैर्घातयामि इत्युक्त्वातं रक्षित्वा गृहं प्राहिणोत्। तदेवमुपकारकोऽयमस्माकं चिरजीवी रक्ष्यः। इत्युक्ता तस्मिन् विरते कौशिकेश्वरः वक्रनासाख्यंमन्त्रिणमपृच्छत् भद्र ! किमत्र कार्य्यं सम्यक् वदतु भवानिति। वक्रनासोऽब्रवीत् अयं परमर्म्मविद्रक्षणीयः। अत्र तावदिमां कथां शृणोतुदेवः।

कश्चित् द्विजः पुरा प्रतिग्रहेण द्वेगावौ प्राप। ततश्च

चौरस्तस्य गावौ दृष्ट्वा हर्त्तुमचिन्तयत्। तस्मिन्नेव क्षणेकश्चिद्राक्षसः तं द्विजं खादितुमैच्छत्। एतदर्थञ्च निशि गच्छन्तौ तौ चौरराक्षसौ दैवात् मिलितो अन्योन्यमुक्तार्थौतत्र समं प्रययतुः। अहमादौ धेनुं हरामि, यतस्त्वद्गृहीतोऽयं सुप्तः द्विजः यदि प्रबुद्धः स्यात् तदा कथमहं धेनुंहरेयमिति। मैवम्, अहमेव पूर्व विप्रं खादामि नो चेत् क्रियमाणायागोः खुरशब्देन अस्मिन् द्विजे प्रबुद्धे मम परिश्रमो वृथा स्यादिति। यावत् तौ विप्रभवनं प्रविश्य कलहायेतेतावत् स द्विजः प्राबुध्यत। प्रबुध्य च गृहीतकृपाणे रक्षोघ्नमन्त्रजापिनि तस्मिन् द्विजे तौ चौरराक्षसौ द्वावेव पलायाञ्चक्राते। इत्थं तयोर्भेदो यथा द्विजस्यास्य हितायाभूत, तथा काकेन्द्रचिरजीविनोर्भेदः अस्माकं हिताय। इत्येवं वक्रनासेन मन्त्रिणाभिहिते स कौशिकराजः प्राकारकर्णं नामअपरं मन्त्रिणं पृच्छति स्म। सोऽब्रवीत् प्रभो ! चिरजीवी अयं शरणागतत्वादनुकम्पाः। पूर्वं शरणागतरक्षणाय स्वमांसं शिविरदात्। एवं तस्य वचनं निशम्य कौशिकपतिः क्रूरलोचनं नाम सचिवं पप्रच्छ। सोऽपि तथैवाभ्यधात्। ततो रक्ताक्षनामा मन्त्री राज्ञापरिपृष्टः प्राब्रवीत् राजन् ! अपनयेन एतैर्मन्त्रिभिर्भवान् नाश्यते। मूर्खो दृष्टव्यलीकोऽपि जातु सान्त्वेन तुष्यति। तदत्र कथामेतामाकर्णय।

आसीत् कचित्तक्षा। तस्य भार्य्या प्रियातीवाभृत। तामेकदा अन्यपुरुषासक्ताम् अन्यलोकतः श्रुत्वा तत्त्वं जिज्ञासमानस्तामवदत् प्रिये ! राजाज्ञयाहं सुदूरंप्रयामि,

तत्त्वया मम किञ्चित् पाथेयं सक्तु प्रदीयताम्। तथेति तयादत्तपाथेयः स गृहात् निर्गत्य सानुगः सुगुप्तंगृहमेत्य अलक्षितः खट्टायास्तलमध्यतिष्ठत्। सापि तद्भार्य्या परपुरुषमानीय तेन साकं खट्टायां रममाणा यदा पदा पतिं स्पृष्ट्वा तत्रस्थमेव तं पतिममन्यत। क्षणे च तस्मिन् तदुपपतिर्व्याकुलस्तां पप्रच्छ प्रिये ! ब्रूहि किन्ते प्रियोऽहमधिकः, अथवा पतिस्ते? तदाकर्ण्य चतुरा सा तं जारंनिजगाद प्रियो मम पतिस्तस्य कृते प्राणानपि परित्यजेयं इदञ्च स्त्रीणां सहजं चापलं, किमर्थमिदं क्रियते? आसां यदि नासिका न स्युः तदा अमेध्यमपि भक्ष्यंस्यात्। एवं तस्यावचः कुलटायाः कृत्रिमं श्रुत्वा तुष्टः पतिरसी तक्षासानुगः शय्यातलान्निर्गतः अनुगं प्राब्रवीत् भद्र ! दृष्टं त्वया, त्वमेत्र मे साक्षी, इयमीदृशी मम भक्ता, असूमेव कान्तामहमाश्रितः, तदेनां मूर्द्ध्नावहामि। इत्युक्ता सहसा खट्टास्थौ तावुत्क्षिप्य सानुगः स जड़ःशिरसा अवहत्। इत्थंप्रत्यक्षदृष्टेऽपि दोषे मूर्खः कपटसान्त्वेन तुष्यति हास्यत्वं गच्छति च। तदेष चिरजीवी चिररिपुत्वान्नरक्ष्यः। उपेक्षितोऽयं मेघोद्रुममिव रक्षितारं हनिष्यति। इति रक्ताक्षवचनमाकर्ण्य कौशिकेन्द्रस्तमब्रवीत् भद्र ! अस्मद्धितंकुर्वन्नसौसाधुरिमामवस्थां गतः, तत् कथमेषःन संरक्ष्यः, किंवा अयमेकाकी कुर्य्यात्। इत्युक्त्वास उलूकराट्मन्त्रिवाक्यं निराचकार, आश्वासयामास च तं वायसं चिरजीविनम्। ततः स चिरजीवी तमुलूके‍शंव्यजिज्ञपत्देव!किं मे एतदवस्थस्य जीवनेन। तन्मे वितां

रचयित्वा अग्निंदापय, अहमग्निं प्रविशामि। वरमहमुलूकयोनिं हुताशनात् वरं याचे तस्य वायसराजस्य प्रतिक्रियामाचरितुम्। इत्युक्तवन्तं तं रक्ताक्षोविहसन् जगाद अस्मत्प्रभोः प्रसादात् त्वं स्वस्यएव किं तेअग्निना, यावत् ते काकत्वमस्ति तावत् ते कौशिकत्वं न भविता, विधात्रा यो यादृशः कृतः, स तादृश एव स्यात्। तदत्र कथामेकामाकर्णय।

पूर्वं कश्चिन्मुनिः कस्यापि हस्तच्युतां मूषिकां शिशुं प्राप्य कृपया तपोबलात् कन्यामकरोत्। कालेन प्राप्तयौवनामाश्रप्रवर्द्धितां तां दृष्ट्वास मुनिः बलवते दातुमादित्यमादयत्, अवोचच्च च विभावसो ! बलवते दित्सितामेतां कन्यां परिणयस्व इति। तदाकर्ण्य रविरब्रवीत ब्रह्मन् ! मत्तोऽपि मेघो बलवान्, स हि क्षणेन मां स्थगयति। तदाकर्ण्य स मुनिस्तं विसृज्य तथेव मेवमाह्वयदवदच्च। ततः सोऽब्रवीत् भगवन् ! मत्तोऽपि वायुर्बलवान्, स क्षणात् मां दिक्षु क्षिपति। इत्युक्तः स मुनिर्वायुमाहूयतथैवावदत्। वायुरुवाच मत्तोऽपि शेलाःबलवन्तः, तदेकं तेषामाह्वयेतिश्रुत्वैतदृषिर्यावत् तमद्रिमाह तावत् सोऽपि तं जगाद ब्रह्मन् ! मूषका मत्तो बलवन्तः ते मम छिद्राणि कुर्वते। एवं क्रमेण देवतैर्ज्ञानिभिश्च प्रत्युक्तो महर्षिर्वनसम्भवमैकं मूषकमाजुहाव, उवाच च कन्यामेतां परिणयस्वेति। सोऽवदत् ब्रह्मन् ! कथमेषा विलं प्रवेक्ष्यतीति समादिश्यतामिति। ततः स पूर्ववत् मूषिकैवास्तु इति तां मूषिकां कृत्वातस्यैआखवे प्रायच्छत्। एवं सुदूरं गत्वापि यो

यादृशस्तादृशंएव सः।तत् त्वं कदापि उलूको न भविष्यसि। इत्युक्तो रक्ताक्षेण स चिरजीवी व्यचिन्तयत् नीतिज्ञस्यास्य वचनं राज्ञानेन न कृतं शेषा इमे सर्वे मूर्खाः, तन्मेकार्य्यंसिद्धमेव। इति सञ्चिन्तयन्तं तं चिरजीविनमादाय रक्ताक्षवाक्यमविगणय्यैव तद्बलगर्वितः कौशिकराजः स्वं निलयं प्रतस्थे। चिरजीवी च तद्दत्तेन मांसादिना परिपोषितः तत्पार्श्वस्थश्चिरेण बली सुपक्षश्च समभवत्।

एकदासौ तमुलूकेन्द्रमवदत् देव ! यामि अहम्, आश्वास्य तं काकराजम् स्वमास्पदमानयामि येनाद्य रात्रौ निपत्य युष्माभिः स निहन्यते। अहमस्य त्वत्प्रसादस्य निष्कृतिं कृत्वा कृतकार्य्यो भविष्यामि, यूयं तृणाद्यैर्द्वारमाच्छाद्य नीड़ाभ्यन्तरे तदापातभयात् रक्षितास्तिष्ठन्तु। इत्युक्त्वातृणपर्णादिच्छन्नद्वारगुहान्तरान् उलूकान् कृत्वा चिरजीवी स्वप्रभोरन्तिकमाययौ। ततो बायसैः स सम्भूय चञ्च्वग्रलम्बितेन वह्निदीप्तचितोल्मुकेन वह्निना तेषां छन्नं तृणादिभिर्गुहाद्वारं ज्वालयामास, ददाह च क्रमेण सर्वांस्तान् कौशिकान् समिद्धाग्निना। इत्थंशत्रून् विनाश्य चिरजीवी तं मेघवर्णं काकराजमवादीत् देव ! रक्ताक्षएव तस्य रिपोः सुमहान् नीतिनिपुणो मन्त्री आसीत्, तस्य वाक्यमकुर्वता मदान्धेन तेन अहं सुरक्षितः। यच्चासौ तद्वचनं न चकार, तेनैवासौ मूर्खः मया विश्वास्य व्याजानुवृत्त्या अहिना मण्डूका इव घातितः।

पूर्वं कश्चिद्वृद्धो भुजङ्गः सुखेन भोज्यमलभमानः कस्मिंश्चित् सरस्तीरे विनिश्चलस्तस्थौ। तथा स्थितं तं सुदूरात् भेकाः पप्रच्छुः, ब्रूहि कथमस्मान् पूर्ववन्न भक्षयसि ? एवं पृष्टः स पन्नगस्तान् भेकानवादीत् मया मण्डूकाननुधावता कस्यचिद् ब्राह्मणस्य पुत्री भ्रान्त्या अङ्गुष्ठे दष्टः पञ्चत्वमगात्। तच्च दृष्ट्वा तत्पित्रा अभिशापेन अहं भेकानां वाहनीकृतोऽस्मि, तत्कथं युष्मान् भक्षयामि प्रत्युत वहामि। तदाकर्ण्य तेषां राजा वाहसमुत्सुकः जलात् उत्तीर्य्यगतभीर्मुदा तत्पृष्ठमारुरोह। ततस्तं वाहनसुखैर्वशीकृत्य एकदा आत्मानमवसन्नमिव कृत्वा सकपटमुवाच देव ! आहारेण विना नाहम् एकमपि पदं गन्तुमुत्सहे, तन्मेअशनं देहि, भृत्यो हि अवृत्तिर्न वर्त्तते। तदाकर्ण्य भेकराजस्तमभ्यधात् भद्र ! कांश्चित् परिमितान् ममानुचरान् भुङ्क्ष्व। ततः सोऽहिः क्रमात् यथेच्छमहीनभक्षयत्। स च मण्डूकराजस्तद्वाहमाभिमानान्धस्तत् भेकाभिभवन सेहे। एवं स मूर्खः वृद्धेनाहिना यथा वञ्चितः तथा मयापि अनुप्रविश्य ते रिपवो हताः। तस्मात् राज्ञा कृतात्मना नीतिविदा भवितव्यम्। जड़ो हि प्रभुर्यधेष्टं भुज्यते हन्यते च। देव ! इयञ्च श्रीःसदा द्यूतलीलेवसकपटा वारिवीचिव चपला तथा मदिरेव विमोहिनी। सा तु धीरस्य सुमन्त्रस्य निर्व्यसनस्य विशेषज्ञस्य सोत्साहस्य राज्ञः सकाशे पाशबद्धेव तिष्ठति। तदिदानीं त्वमवहितः विद्वद्वचनस्थितः सन् अरीन् निहत्य सुखेन अकण्टकं राज्यं शाधि। इत्युक्तो मन्त्रिराजेन चिरजीविना स मेघ-

वर्णः काकराट्तं सम्मान्य तथैव राज्यमकार्षीत् इत्युक्त्वागोमुखो भूयो वत्सराजसुतमभ्यधात् देव ! प्रज्ञया तिर्य्यग्भिरपि राज्यं भुज्यते, निष्प्रज्ञाश्चअवसीदन्ति, उपहास्यन्ते च लोकैः। तथात्रकथामपरां निबोधतु देवः।

आसीत् कस्यचिद् धनिनः जड़मतिरेको भृत्यः। अजानन्नपि जानामीत्यभिमानात् तस्य प्रभोरङ्गेकरमदात्। ततस्तेन स्वामिना अवमतः परित्यक्तश्च स भृशमवससाद।अपरौमालवभ्रातरौ निशम्येताम्। द्वौविप्रौअभूताम्। तयोः पैतृकमद्वैधं वसु आसीत्। कालेन विभज्यमाने पित्रर्थे न्यूनाधिकविवादिनौ उपाध्यायं मध्यस्थमकार्ष्टम्। स च तावभाषत प्रतिवस्तु समीकृत्य विभज्यतां, येन युवयोर्न्यूनाधिकविभागतः कलिर्न भवेत्। तदाकर्ण्य वेश्मशय्यादिभाण्डं सर्वं पशूंश्च प्रत्येकं द्विधा कृत्वा तौ मूढ़ौ विभजतः स्म। एकासीद्दासी सापि ताभ्यां द्विधा कृता। तत् सर्वं ज्ञात्वा राज्ञा तौ सर्वस्वञ्च दण्डितौ। एवं हि मूर्खा मूर्खोपदेशात् द्वौलोकौनाशयन्ति, तस्मात् प्राज्ञः मूर्खान्न आश्रयेत्, पण्डितानेव सेवेत। असन्तोवश्च दोषाय भवतीत्यत्र कथा निशम्यताम्।

आसन् क्वचित् केचित् भिक्षासन्तोषशालिनः प्रव्राजकाः। तानवलोक्य तानवलोकय कतिचित् सुहृदोऽन्योन्यमब्रुवन् अहो भिक्षाशिनोऽपि एते प्रव्राजकाः पीनाः। तेषाञ्चैकः प्राब्रवीत् कौतुकमत्र वो दर्शयामि। अहमेतान्पूर्ववत् भुञ्जानानपि कृशीकरोमि। इत्युक्त्वासौ एतान् क्रमेण गृहे एकैकशः एकाहम् उत्तमं षड्विधरसमाहारं भोजया-

मास। अथ ते मूर्खाः परिव्राजः तथास्वादं स्मरन्तः पूर्ववत्भैक्ष्यभोजनं न अभिलषन्ति स्म, दुर्बलाश्चाभवन्। ततः स आहारदाता तेषां सुहृदां मध्ये तान् तादृशान् प्रदर्श्य सहासमब्रवीत् तदा भैक्ष्यसन्तुष्टा हृष्टाः पुष्टाश्च अमी आसन्, इदानीमसन्तोषदुःखात् दुर्बलतामगमन्, तस्मात् प्राज्ञः सुखमिच्छन् सन्तोषमवलम्बेत। लोकयोरुभयोरपि असन्तोषः दुःसहदुःखहेतुरिति तेन सुहृदा अनुशिष्टा अपरे सुहृदः दुःखास्पदमसन्तोषमत्यजन्। कस्यवातादृशसङ्गो न शुभाय ? अयञ्च देव ! सुवर्णमुग्धो निशम्यताम्।

कश्चित् युवा जलं पातुं तड़ागमगात्। स तु जडः स्वर्णचूलस्य पक्षिणः सुवर्णवर्णं लोमपश्यन् सुवर्णं मत्वा ग्रहीतुमुपचक्रमे। क्रमशस्तस्य स पक्षी धावत एव प्रनष्टो दूरमगात्, तड़ागजलञ्च पश्चात् पतितं विस्मृतमार्गेण तेन नासादितम्। इत्थमवसादं गच्छन् स स्वेन पित्रादृष्टः गृहं नीतश्च। एवमबुद्धयोनिर्विवेका मृषाज्ञानैर्विमुह्यन्ति, व्रजन्ति च परेषामुपहास्यतां शोच्यताञ्च बन्धूनामिति। अयञ्चापरो महामूर्खवृत्तान्तः श्रूयताम्।

कस्यापि बणिजः पथि भारवाही उष्ट्रः अवससाद।स बणिक् भृत्यं कञ्चिदब्रवीत् अहमितो गत्वा अन्यमेकमुष्ट्रं क्रीत्वा आनये, यो हि अस्य करभस्य भारादर्द्धमाहरेत्। युष्माभिरत्र स्थितैः मेघागमे यथा एतासु वस्त्रपेडासुजलं चर्म्माणि न स्पृशेत् तथा कार्यमित्यभिधाय तान्सर्वान् अनुगान् उष्ट्रस्य पार्श्वे अवस्थाप्य स बणिक् प्रस्थितः

घनश्चवर्षितुं प्रारभत। तथास्माभिः कार्य्यं यया नाम्भः पेड़ाचर्माणि स्पृशेत् इति स्वामिनोक्तंइत्यालोक्य ते जड़मतयः पेड़ाभ्यः वस्त्राणि कुष्ट्वा तैस्तैर्वस्त्रैस्तानि चर्माण्वभ्यवेष्टयन्, तेन च वस्त्राणि तानि विनष्टानि सर्वाणि। पापाः! कथमद्भिः सर्वाणि मे वमनानि नाशितानि? इत्यागत्य स वणिक् तान् सकोपमवादीत्। ते च जड़ाःप्रभुणैवादिष्टमम्भसः पेड़ाचर्माणि रक्षितुं, तत् कोऽत्रास्माकंदोष इति प्रत्यवदन्। चर्मसु आर्द्रेषु वस्त्राणि न नश्येयुरितिचर्मरक्षणं वस्त्ररक्षणार्थमेव मयोक्तम्। इति तान् प्रत्यभिधायअन्यकरभन्यस्तभारः स वणिक् गृह गत्वा भृत्यान् तान्सर्वस्वमदण्डयत्। एवमज्ञाताशया मूर्खा विपरीतमारचय्यस्वार्थं परार्थञ्च घ्नन्ति। अयञ्च अपूपिकामुग्धः संक्षेपेण निशम्यताम्।

अध्वगः कश्चित् ऋणेन अष्टौ अपूपान् क्रीणाति स्म।तेषाञ्च षट् भुक्त्वासौ न तृप्तिमाप परं सप्तमे भक्षित एवतस्य तृप्तिरुदपद्यत। ततः स जड़ःमुषितोऽस्मि कथंमयादित एव अयमपूपो न भक्षितः येनास्मि तर्पित इतिचक्रन्द। इत्येवं शोचन् क्रमात् तृप्तिमजानन् स जड़ उपहसितो जनैः। कश्चित् मूर्खो दासः केनापि वणिजा अभिहितः भद्र! रक्षद्वारं विपण्याः, यावदहं गृहं प्रविशामि। इत्युक्त्वातस्मिन् वणिजि गते स दासः द्वारपट्टकं विपण्या अंसे आदाय नटं द्रष्टुमगात्। अथागच्छन् स वणिक् तं तत आगच्छन्तं दृष्ट्वा निरभर्त्सयत्। त्वयोक्तंद्वारं मया रक्षितम् इति सोऽवादीत्। इत्येवं शब्दमात्रपरोऽतात्पर्य-

विद्जड़ःकेवलममर्थाय भवति। साम्प्रतं महिषमुग्धोऽपूर्वःनिशम्यताम्।

आसीत् कश्चित् महिषपालः। तेन चैकदा गत्वा राजाविज्ञप्तः, महिषो मे भक्षितो ग्राम्यैरिति। अथराजाग्राम्यान् तान् महिषभक्षकानानाययामास। स महिषस्वामी तेषां सन्निधौ राजानमभ्यधात् देव! तड़ागसन्निधौ वटतरोरधः एभिर्मे महिषोहत्वा भक्षित इति। तदाकर्ण्यं तेषामेकःवृद्धमूर्खः प्रावदत् देव! तड़ागएवास्मिन् ग्रामेनास्ति, न च वटतरुः क्वचित्। मिथ्यैषः ब्रवीति, क्वास्य महिषो हतो भक्षितो वा? श्रुत्वैतत् महिषस्वामी प्रत्यवादीत् नास्ति किं स वटः तड़ागश्च स पूर्वस्यां दिशिग्रामस्य। तत्रासौ मे महिषो अष्टम्यां युष्माभिर्भक्षितः। इत्युक्तः स वृद्धमूर्खःपुनरब्रवीत् देव! पूर्वा दिगप्यत्र ग्रामे नास्ति, नापि अष्टमी तिथिः। एतत् श्रुत्वा राजा तं जड़मुत्साहयन्नब्रवीत् त्वं सत्यवादी, नासत्यं किञ्चिद्वदसि, साम्प्रतंसत्यं वद स महिषो युष्माभिः भुक्तो न वा। एतदाकर्णं एवंजड़ोऽवादीत् मृते पितरि त्रिभिर्वत्सरैर्जातोऽस्मि तेन चउक्तिपाटवं शिक्षितोऽहम्। तन्महाराज! कदापि नाहमसत्यं वदामि, भुक्तोऽस्माभिरस्य महिषः, असौ अन्यत् मृषा वदति। श्रुत्वैतत् सानुगो राजा हासं रोद्धुंनाशकत्। ततश्च तस्य महिषमन्यंप्रदाप्य तान् ग्राम्यान् अदण्डयत्। इत्थमगुह्यं निगूहन्तिगुह्यं प्रकटयन्ति च मूर्खाः। शृणु देवापरं मूर्खवृत्तम्।

काचिद् गृहिणी कोपना कञ्चित् दरिद्रं मूर्खमभाषत

अहं प्रतिवेशिगृहे निमन्त्रिता उत्सवे यास्यामि, तत्त्वया कुतोऽपि एका उत्पलमाला नानीयते चेत् तदाहं ते भार्य्यां नास्मि, नापि त्वं मे भर्त्तेति। ततः स तदर्थं रजन्यां राजकीयं सरो ययौ। तत्प्रविष्टश्च रक्षिभिर्दृष्ट्वा कोऽसीतिसोऽपृच्छत। स च चक्रवाकोऽस्मीति वदन् प्रातः बद्धा राजान्तिकं नीतः। तत्रच पृच्छ्यमानो नृपसन्निधौ चक्रवाकरुतमकार्षीत्। ततः स स्वयं राज्ञा सनिर्बन्धंपृष्टःकथितवृत्तान्तो मूर्खः दयालुना मुक्तः स्वस्थानमगात्।

आसीत् कश्चित् मूढ़धीर्वैद्यः। तमेकदा कश्चिद् ब्राह्मणःप्रावदत् कविराज! मम पुत्रस्य कुब्जस्य ककुदम्अभ्यन्तरं नयतु भवान्। एतदाकर्ण्य भिषगब्रवीत् दश पणान् मे देहि, यदि ते कार्य्यं न साधयामि तदाह दश गुणान् ते दास्यामि। इत्थंकृतपणः स भिषक् तस्माद् द्विजात् तान् पणान् गृहीत्वा तं कुब्जंकेवलं खेदादिभिररुजत्, न चाशकत् समीकर्त्तुं ददौ च पणीकृतान् दशगुणान् पणान्। कोऽपि मानुषःकुब्जम् ऋजूकर्त्तुं शक्नुयात्? इत्थमशक्यार्थप्रतिज्ञानविकत्थना मूढाः केवलंहासाय लोकानां तदीदृशैः मूढमतिभिः न सवसेत् बुद्धिमान्। इत्येवं भद्रमुखात् गोमुखात् सचिवात् मुग्धकथां निशम्य नरदेवसूनुर्नरवाहनदत्तःरजन्यां सुमतिनीतिमतेन तस्मै भृशंतुतोष। तत्कथाविनोदाच्च शक्तियशः समुत्सुकोऽपि शयनीयतले स्ववयस्यैरुपेतो निद्रामभजत।

________

अथ त्रिषष्टितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172198469234.jpg"/>

अथ प्रातः समुत्थाय असौ नरवाहनदत्तः प्रियां शक्तियशसमनुध्याय भृशं व्याकुलतामगात्।तस्या विवाहविधेः शेषं मासं युगसन्निभं मन्यमानः समुत्सुकेन चेतसा न च धृतिमलभत। गोमुखमुखात् तद्वार्त्तांविदित्वा अस्यपिता वत्सराजः स्नेहात् स्वसचिवान् वसन्तकादीन् तत्सकाशं प्राहिणोत्। तेषाञ्च गौरवेण गृहीतधैर्य्येतस्मिन् नरवाहनदत्ते विदग्धो गोमुखो मन्त्री तं वसन्तकमभाषत आर्य्य वसन्तक! युवराजस्य मनस्तुष्टिकरींकामपि अभिनवां विचित्रां कथामाख्याहि। ततो धीमान् वसन्तकः कथामाख्यातुं प्रावर्त्तत।

अभूत् पुरा मालवे श्रीधरो नाम कश्चिद् द्विजातिः। तस्य द्वौयमजौ सुतावभूताम्। ज्येष्ठो यशोधरो नाम द्वितीयो लक्ष्मीधरः। तौ च यौवनस्थौ पित्रादेशेन विद्याप्राप्तये देशान्तरं गतौ। क्रमात् पथि गच्छन्तौ कामपि निर्जलां छायारहितां सन्तप्ताभिः सिकताभिश्चितां महाटवीं प्रापतुः। तृषा आतपेन च क्लान्तौ तौ सायमेकं सफलं छायाशून्यंतरुंप्राप्तवन्तौ। तस्य च तरोरन्तिके एकाशीतस्वच्छतोया कमलशोभिनी वापी आसीत्। तां दृष्ट्वा प्रहृष्टौ तौ तस्यां स्नात्वा कृतफलाहारौतत्पानीयं पीत्वा तत्र शिलातले उपविश्य क्षणंविश्रामसुखमलभेताम्।

अथास्तं गते सवितरि तौ सन्ध्यामुपास्य श्वापदभयात् निशां नेतुंतरुमारुरुहतुः। प्रदोषे च तस्या वाप्या जलान्तरात् पश्यतोस्तयोः बहवः पुरुषाः समुत्पेतुः।तेषाञ्च कश्चित् भूमिं तामशोधयत्,कश्चन अलिपत्,कोऽपि तत्र पञ्चवर्णानि पुष्पाणि अवाकिरत्। अपरस्तत्रकाञ्चनपर्य्यङ्कमानीय समस्थापयत्।अन्यश्च तत्र प्रच्छदोत्तरां तूलिकामस्तरत्। कश्चनतत्र तरोरधःपुष्पाङ्गरागादि उत्तमं पानमाहारञ्च आनीय संस्थापयामास।

अत्रान्तरे तस्माद् वापीतलात् रूपजितमन्मथः खड्गीदिव्याभरणभूषितः कश्चित् पुरुषः उदतिष्ठत्। तस्मिंश्च तत्र आसनासीने सर्वे परिजनास्तस्यामेव वाप्यां न्यमज्जन्।अथ स पुमान् मुखात् एकां सुभव्यां विनीतवेशां माङ्गल्याभरणालङ्कृतां कामिनीं द्वितीयाञ्च अतिरूपवतीं सहस्त्राभरणैरुज्ज्वलाम्। ते हि तस्य उभे भार्य्ये। पश्चिमा तु वल्लभा सुधीः तानि उपयोगद्रव्याणि पात्रद्वये निधायभर्त्तुः सपत्न्याश्चाहारं पानञ्च उपानयत्। ततश्च भुक्तवतोस्तयोः सापि बुभुजे।अथ तत्पतिः तथा द्वितीयया साकं तत्पर्य्यङ्गशयनमभजत अगच्छत् सुखनिद्राम् अनुभूय सुरतसुखम्। प्रथमा तु कृतभोजना तस्य पादसंवाहनमकार्षीत्। सापि द्वितीया निर्निद्रैव तत्र शयने तस्थौ। एतदवलोक्य तौ तरुस्थौ भ्रातरौ मिथः प्रोचतुः केयम्? आवामवतीर्य्य इमां पादसंवाहिनीं पृच्छावः सर्वे हि अमी अविकृता एव दृश्यन्ते। अथ तौ यावत् अवतीर्य्य तामाद्यामुपसर्पतः, तावत् सा द्वितीया तयोराद्यंयशोधर-

मद्राक्षीत्। उत्थाय च सा पत्युः सुप्तस्य शयनात् अतिचपला तं यशोधरमुपेत्य सुखाशया मां भजस्वेत्यभाषत। स तु पापे! त्वं हि परनारी, अहञ्च ते परपुरुषः, तत् कथमेवं वदसीति सरोषमवादीत्। सा पुनरब्रवीत् त्वादृशानां शतेनाहं सङ्गता, तत् किं ते परनारीसङ्गात् भयेन।न चेत् प्रत्येषि, पश्य एतानि मे अङ्गुलीयकानि। एकैकमङ्गुलीयम् एकैकस्मात् मया गृहीतम्। इत्युक्त्वासास्वादञ्चलात् अङ्गुलीयानि दर्शयामास। ततो यशोधरः प्रत्यवादीत् त्वं शतेन सहस्त्रेण लक्षेण वा सङ्गच्छस्व, मम तु त्वं माता, नाहं तथाविधोऽस्मीति तेन निराकृता सा क्रुधा पतिं प्रबोध्य तं यशोधरं सन्दर्श्य रुदती समभ्यधात् नाथ! सुप्ते त्वयि अनेन पापेनाहं बलात् ध्वंसिता। तदाकर्ण्यैव स तत्पतिः खड्गमाकृष्य सरोषमुत्तस्थौ। अथसा प्रथमा सती तं पादयोर्गृहीत्वा अब्रवीत् मैवं मिथ्यापापं कृथाः,शृणु मे वचनम्। अनया पापया इमं दृष्ट्वा सहसा त्वत्पार्श्वात् उत्थितया अयमर्थितः न च साधुरयमस्याःअभ्यर्थनां प्रत्यपद्यत। यदा चानेन माता मम त्वमिति निराकृता असौ, तदा अमर्षात् सकोपा अस्य बधाय त्वां प्राबोधयत् प्रभो! अनया पापया मत्समक्षं रात्रौ रात्रौ इह तरौ स्थिताः शतशोऽध्वगाः हृत्वाङ्गुरीयकंतेभ्यः भुक्ताः, द्वेषसम्भावनभिया कदापि ते मया नोक्तं, अद्य तु तव पापभीत्या एव अवाच्यमपि एतत् अहमब्रुवम्। न चेत् प्रत्ययः, वस्त्राञ्चले अस्या अङ्गुरीयकाणि पश्य। नायञ्च मे सतीधर्म्मःयत् भर्त्तरि अनृतं वचनम्। सतीत्व-

प्रत्ययोऽयं मम प्रभो! पश्य में प्रभावम्। इत्युक्त्वासा तं तरुंक्रोधाग्निना सहसा भस्मसादकरोत्। पुनश्च प्रसाददृष्ट्या तत्क्षणात् पूर्ववत् समजीवयत्। तदवलोक्य तद्भर्त्ता सम्प्रहृष्टश्चिरात् तामुपजुगूह निराचकार च तांद्वितीयां छिन्नकर्णनासिकाम्। अथ तस्या वस्त्रान्तात् अङ्गुलीयकानि संप्राप्य तमध्ययनार्थिनं यशोधरं सानुजं दृष्ट्वा सनिर्वेदः क्षमयामास, जगाद च ब्रह्मन्! भार्य्यामिमां परपुरुषेर्ष्यावशात् सदा हृदि निधाय रक्षामि, तथापीयं पापा न मया रक्षितुं शकिता। कोऽहि विद्युतं स्थिरीकुर्य्यात्, को वा चपलां स्त्रियं रक्षेत् यदि साध्वी परमधनेन एकेन शीलेन रक्ष्यते तत् सा रक्षिता भर्त्तारमात्मानञ्च उभयलोकतः रक्षति अद्यानया सत्या अहंमहतः पापात् रक्षितोऽस्मि, अद्य मे कुलटासङ्गमो विनष्टः, ब्रह्महत्या च नाद्य मामुपगता। इत्युक्त्वास पुरुषः तं यशोधरमुपवेश्य अप्राक्षीत् भवन्तौ कुत आगतो, कुत्र वा व्रजथः? ततो यशोधरस्तस्मै स्वं वृत्तान्तं निवेद्य विश्वासं प्राप्य च कुतूहलात् तमपि अपृच्छत् महाभाग! न चेद्रहस्यं तद्वदमे साम्प्रतं कस्त्वम्? कथं वा ते जलवासित्वम्? तदाकर्ण्य स श्रूयतां कथयामीति प्रोच्य जलवासी स्ववृत्तान्तंवक्तुं प्रावर्त्तत।

अस्ति हिमवतो दक्षिणे कश्मीराख्यः देशः। यं हि मर्त्त्यानां स्वर्गकौतूहलं हर्त्तुमिव विधिर्विनिर्ममे।यत्र हरिहरौ श्वेतद्वीपकैलासस्थितिसुखं विस्मृत्य स्वयं स्थानशतानि अध्यायेते। यश्च वितस्ताजलैरनिशं पूयते, शूरैः-

र्विद्वद्भिश्चसदा सेव्यते, न जीयते च द्विषद्भिर्बलिभिरपि छलदोषेण। एतस्मिन् जनपदे अहं भवशर्म्मानाम ग्रामवासी द्विजः द्विभार्य्यश्च पूर्वस्मिन् जन्मनि आसम्। कदाचिदहं भिक्षुभिः सज्जातसंस्तवः तेषां शास्त्रोक्तमुपोषणाख्यं नियममाश्रितः। तस्मिंश्च नियमे अनुष्ठितप्राये एकदा शयने मम पापैका भार्य्या हठादुपेत्य सुखाय। अथ तुर्य्ये यामे तद्व्रते स्त्रीनिषेवणमकार्य्यं विस्मृत्य निद्रामोहात् तया साकं सुरतमहं सेवितवान्। तन्मात्रेण च खण्डितेतस्मिन् व्रते अहं सहसा जलपुरुष इह जातः, ते च द्वे भार्य्येमम इहापि जन्मनि सञ्जाते, तयोरेका सा पापायथा मे व्रतं खण्डितं, द्वितीयेयं पतिव्रता। खण्डितस्यापिव्रतस्यायं प्रभावः येनाहं जातिं स्मरामि, रात्रौ च ममईदृशा भोगाः, यदि तन्मेव्रतं नाखण्डयिष्यत् तदितोऽपि मे समधिकं फलमभविष्यत्। इति स्ववृत्तान्तमाख्यायतावतिथी भ्रातरौ सुमिष्टभोजनैर्दिव्यैर्वस्त्रैश्चअपुपूजत्। ततोऽस्य सा सती भार्य्या तत् पूर्वं वृत्तमवेत्य भूमौ जानुनी विन्यस्य इन्दुं पश्यन्ती अभ्यधात् भोलोकपालाः! सत्यञ्चेदहं साध्वी, तदायं मे पतिरम्बुवासनिर्मुक्तः सद्य एव स्वर्गं यातुं। इत्युक्तवत्यामेव तस्यां स्वात् विमानमवातरत्। तदारूढ़ौ च तौ दम्पतीस्वर्गं जग्मतुः। स्वाध्वीनामिहजगति किमसाध्यम्? तौ च ब्राह्मणसुतौ तदालोक्य परं विस्मयमापतुः।

अथ तां रात्रिं तत्र नीत्वा तौ विप्रसुतौ यशोधरलक्ष्मी धरौ ततः प्रतस्थाते। क्रमेण सायं निर्जलारण्यवर्त्तिनी

वृक्षस्य कस्यचित् तलमवाप्य जलप्रार्थिनौ तस्मात् वृक्षात् वाणीमिमां शुश्रुवतुः। विप्रदारकौ ! तिष्ठतम् अहमद्य युवयोः स्नानपानभोजनादिभिरातिथ्यं करवाणि, अद्य हियुवां मद्गृहे अतिथी समागतौ। इत्युक्त्वासा वाक् व्यरमत् जज्ञे च तत्र सहसा कापि वापी, तस्याश्च तीरे समुपतस्थे विचित्रं पानभोजनम्। किमेतदिति सविस्मयं तौ द्विजसुतौ वाप्यां स्नात्वा यथाकाममाहारादिकं चक्रतुः। ततश्च सन्ध्यामुपास्य यावत् तौ तरुतले तिष्ठतः, तावत् तस्मात् तरोः कश्चित् कान्तवपुः पुरुषः समवातरत्। स च दृष्ट्वा ताभ्यामभिवादितः स्वागतप्रश्नादिना तावभिनन्दयन् क्रमेण उपविष्टः ताभ्यां को भवानिति अपृच्छ्यत।

सोऽवदत् अहमासं पुरा अतिदुर्गतो द्विजातिः। दैवाच्च मे श्रमणसङ्गोऽभवत्। तैश्च उपदिष्टम् उपवासव्रतमहमन्वतिष्ठम्। केनापि शठेन बलात् अहं सायं भोजितः,तेनाहं खण्डितात् व्रतात् गुह्यकोऽस्मि जातः। यदि व्रतं पूर्णमकरिष्यंतदाहं दिवि देवत्वमलप्स्यम्। एवमहं स्वं वृत्तान्तमकथयं, साम्प्रतं कौ युवां कथमिमां भूमिमनुप्रविष्टौ वदथः। तदाकर्ण्य स यशोधरः स्वं वृत्तान्तमस्मैसमाचचक्षे। ततस्तौ विप्रसुतौ यक्षःपुनरवादीत् यद्येवं तदहं स्वप्रभावात् वां विद्यां ददामि, कृतविद्यौ च गृहं यातं, किं विदेशभ्रमणेन? इत्युक्त्वास ताभ्यां विद्यामदात्, तौ च तदैव तत्प्रभावात् सहसा लब्धविद्यावभूताम्। ततस्तौ यक्षप्रावदत् एकान्तु गुरुदक्षिणां भवद्भ्यां याचे, एकरात्रं भिक्षुवेलायां भोजनं मनःसंयमं क्षमाञ्च

विधाय एतत् फलं मयि अर्पणीयं येनाहं पूर्णव्रतफलो दिव्यत्वमवाप्स्यामि। इत्यूचिवान् स यक्षः विनम्राभ्यांताभ्यां तथेति प्रतिपन्नार्थस्तत्रैव तरावन्तर्दधे। तौ भ्रातरौ अनायाससिद्धार्थौप्रहृष्टौ कथञ्चित् तां रात्रिं नीत्वा परावृत्य स्वमेव गृहमाजग्मतुः। तत्र च स्ववृत्तान्तेन पितरावभिनन्द्य यक्षपुण्याय उपोषणव्रतं चक्रतुः। अथागत्य स गुरुर्यक्षोविमानस्थस्तौजगाद वत्सौ! युवयोः प्रसादात् यक्षतामुत्तीर्य्य देवत्वमवाप्तवानस्मि,तद् युवाभ्यामात्मार्थमपि एतद् व्रतं कार्य्यं येन देहान्ते युवयोरपि देवत्वं भविता, मम च वरात् इदानीमुभौ अक्षीणार्थौभविष्यथः। इत्युक्त्वास कामचारी विमानेन खंधाम प्रायात। ततो यशोधरो लक्ष्मीधरश्चभ्रातरावुभौ व्रतं कृत्वा तत्प्रभावात् प्राप्तविद्यार्थौसुखेन अवतस्थाते। तदेवं धर्म्मप्रवृत्तानां कृच्छ्रेऽपि शीलं रक्षतां देवता अपि रक्षन्ति, कुर्वन्ति च इष्टार्थसंसाधनम्। इत्थं वसन्तकमुखात् अद्भुतकथाश्रवणविनोदितः वत्सेश्वरसुतः प्रियां शक्तियशसं प्रेप्सुरपि आहारसमयेपित्रा समाहूतः सचिवैः सह तदन्तिकं प्रायात्। ततश्च तत्र यथानुरूपं भुक्त्वावयस्यैर्निजैः सायं स्वमन्दिरमागतेयुवराजे भूयोऽपि गोमुखस्तं विनोदयितुं कथामेकामाख्यातुमुपचक्रमे देव!

आसीद् बलीमुखो नाम स्वयूथात् परिभ्रष्टः वारिधितीरोपान्तवर्त्तिनि उदुम्बरवने वानरराजः। तस्य कदाचित् भक्षयतो हस्तात् च्युतमेकमुदुम्बरं जलराशिस्थः शिशुमारश्चखाद। ततश्चास्वादेनतुष्टः उत्थाय कलरवं

चकार। तद्दर्शनात् स कपिरस्मै बहूनि फलानि अक्षिपत्। इत्थं नित्यं स शिशुमारो रुतं चक्रे, स च कपिः फलानि जले तदर्थं प्राक्षिपत् तेन च तयोर्मिथः सख्यमवर्द्धत। स च शिशुमारो नित्यं तस्य कपेः सकाशे दिनंनीत्वासायं स्वगृहं जलराशिमगात्।तस्य तु भार्य्या शिशुमारस्य ज्ञातार्थं दिवा विरहदुःखदं कपिसख्यमनभि‍लषन्ती व्याजेन पीड़ामशिश्रियत्। शिशुमारस्तु ब्रूहि प्रिये! किं ते अस्वास्थ्यं, केन वा शाम्यति? इत्येवमार्त्तः प्रियां मुहः परिपप्रच्छ।यदा तु सा निर्बन्धपृष्टापि न प्रत्युक्तवती, तदास्या रहस्यज्ञा सखी तं प्रत्यभाषत यद्यपि त्वमस्या मनोरथं न कुरुषे इत्येषा वक्तुं नेच्छति, तथापि अहंते ब्रवीमि, कथं हि जानन् प्राज्ञः परेषां खेदं निह्नुते? तवास्या भार्य्यायास्तथाविधो महान् गदः सञ्जातः, यो हि वानरहृत्पद्मयूषं विना न शाम्यतीति। इत्थं प्रियायासख्याभिहितः शिशुमारो व्यचिन्तयत् हा कष्टं कुतोऽहंवानरहृत्पद्मं लप्स्ये? यदि च सख्युद्रोहमाचरेयं तदपिन मादृशामुचितम्। अथवा किं सख्या? भार्य्यामे प्राणेभ्योऽपि प्रियतमा इत्यालोच्य स शिशुमारस्तां भार्य्यामवादीत् प्रिये। अद्यैवाहं कपिं त्वदर्थमानयामि, किमर्थं दूयसे? इत्युक्त्वास तस्य मित्रस्य कपेरन्तिकमयासीत्। गत्वा चतत्र कथाप्रसङ्गेन तं कपिमवदत् सखे! अद्यापि त्वयामम गृहं भार्य्या च प्रेयसी न दृष्टा, तदागच्छ तत्रगच्छावः एकमहर्विश्रामसुखमासादयितुम्। यत्र गृहं गत्वा अन्योन्यंन भुज्यते, नापि प्रदर्श्यन्ते दाराः, तत्

सौहृदं कौतुकमेव। इत्येवं वानरं प्रतार्य्यस शिशुमारः जलमवतार्य्य जत्वधौ तेन सह गन्तुं प्रववृते। गच्छन्तञ्चतं दृष्ट्वा वानरः सचकितः परिपप्रच्छ सखे! त्वामद्य अन्यदृशमिव पश्यामीति। अथ निर्बन्धेन पृच्छन्तं तं शिशुमारोहस्तस्थितमेष मत्वा जड़बुद्धिरेवं जगाद सखे! अस्वस्था मे प्रिया भार्य्या, पश्य, सा मां रोगोपशमनार्थं कषिहृत्पद्मंयाचते, तेनाद्य अहं विमना इति। श्रुत्वैतत् वचनंस प्राज्ञः कपिरचिन्तयत् हन्त एतदर्थमेवामुना पापेनाहमिहानीतः, अहो स्त्रैणेन मोहेनायं मित्रद्रोहेऽपि समुद्यतः,अथवा भूतग्रस्तो दन्तैः स्वमांसानि किं न खादति? इत्थं सचिन्त्य स कपिस्तंशिशुमारमब्रवीत् सखे! यद्येवंत्वया प्रथमं मे किं नोक्तम्, अहं स्वं हृदयं त्वत्प्रियाकृते समादाय आगमिष्यम्, उदुम्बरवृक्षेहि मम वासः, तच्च हृदयं तत्रैव स्थितम्। तदाकर्ण्य शिशुमारो जड़धीरार्त्तइदमब्रवीत् सखे! तर्हि तत् शीघ्रं तस्मादुदुम्बरवनात्समानय इत्युक्त्वास शिशुमारः पुनस्तमम्बुधेस्तीरेसमानयत्। तत्र तेनान्तकेन मुक्तः स कपिस्तटमारुह्य उत्प्लत्यवृक्षाग्रस्थितस्तंशिशुमारमवादीत् गच्छ रे मूर्ख! हृदयं देहात् पृथक् न खलु कदापि स्थितं श्रूयते मयाद्य त्वत्तो मोचित आत्मा, नाहं पुनस्तत्र धारयामीति। अपरञ्च मूर्खगर्दभाख्यानं भवता न श्रुतं तत् कथयामि निशम्यताम्।

आसीत् कोऽपि गोमायुसचिवः सिंहः क्वचिदरण्ये। स च कदाचित् व्याधस्य हेतिभिः क्षतो जीवन् गिरिगुहा-

मांससाद। तत्र स्थिते तस्मिन् स गोमायुर्वृत्तिग्लानसभभ्यधात् प्रभो। निर्गत्य यथाशक्ति आहारं किं न चिनुषे? शरीरन्ते परिजनेव समं सीदतीति। तदाकर्ण्य सिंहोऽब्रवीत् सखे! नाहं रणात् क्लान्तः, भ्रमितुञ्च शक्नोमि,यद्यहं खरस्य कर्णहृदयं भक्ष्यं प्राप्नोमि, तन्मेव्रणानि रोहन्ति अहञ्च प्रकृतिस्थो भवामि, तदाशु त्वं कुतोऽपि गर्दभमेकमानय इति। एवमुक्तस्तेन स गोमायुस्तथेतिप्रतिज्ञाय प्रययौ। भ्रमंश्च कस्यचिद्रजकस्यान्तिके गर्दभंदृष्ट्वा प्रीत्या तमभ्युपेत्य प्राह स्म भोः किं भवानीदृक् दुर्बल इति।कृशीभूतोऽस्मि, रजकोऽतिनिर्दयो मह्यमतिभारं वहतेऽपि घासमुष्टिमपि न प्रयच्छति इत्युक्तवन्तं तं खरं स प्रोवाच जम्बूकः भद्र! इह किं खेदमनुभवसि? एहि मया सह तद्वनं त्वां नयामि यत्र खरीभिःसमं त्वंस्वर्गसुखमाप्स्यसीति। तच्छ्रुत्वा स गर्दभस्तथेत्युक्त्वाभोगलोलुपः तेन गोमायुना सह सिंहसकाशमगात्। तत्रागतञ्च तं वीक्ष्यैव स सिंहस्तस्य पृष्ठे करप्रहारमदात्। स तु तेन विक्षतस्त्रस्तः खरः सत्वरं पलाय्य अगच्छत्। सिंहस्तु विह्वलाकुलं तं न पुनराक्रमत्। ततश्चासिद्धकार्य्यः सत्वरं गुहामविशत्। ततः स मन्त्री जम्बूकः सोपालम्भमब्रवीत् प्रभो! एष वराकः गर्दभश्चेत् त्वया न हतः, तदा हरिणादिवधे तव का वार्त्ता भविष्यति? तदाकर्ण्य ससिंहः सलज्जमवदत् यथा वदसि तत्तथा, साम्प्रतं पुनस्तं खरमत्रानय, अहं तावत् सज्जो भूत्वा तिष्ठामि तद्वधाय। इति सम्प्रेषितस्तेन स जम्बूकः पुनर्गर्दभमुपेत्य अभ्यभाषत

सखे ! किं विद्रुतोऽसि? अहं केनापि सत्त्वेन तत्र ताड़ित इति वादिनं त खरमाह स्मजम्बूको विहसन्,मिथ्या विभ्रमस्त्वया दृष्टः, न चात्र तादृशंकिमपि सत्त्वमस्ति येनाहमपि सुखं निवसामि तदद्य मयासाकं निर्बाधमरण्यमागच्छ। इति जम्बूकवचनात् विश्वस्तःस खरः पुनस्तत्राभ्यगात्। तञ्चागतं दृष्ट्वैव स सिंहः गुहामुखात् निर्गत्य पृष्ठे निपत्य नखैर्विदार्य्य न्यवधीत्। इत्थंतं गर्द्दभं निहत्य जम्बूकं तस्य रक्षकं नियुज्यश्रान्तः सिंहः स्नातुं सरोवरमगात्। तत्कालमेवासौधूर्त्तोजम्बूकः खरस्य हृदयं कर्णौ चाभक्षयत्। अथ स्नातागतः स केशरी त तथागतं दृष्ट्वा क्व गतौ कर्णौ हृदयञ्चास्येति त गोमायुमपृच्छत्। स च प्रत्यभाषत, प्रभो। अकर्णहृदय एवासौप्रागेवासीत्, अन्यथा कथं त्वां दृष्ट्वा प्रतिनिवृत्य पुनरायातः। तदाकर्ण्य स हरिस्तथैव मत्वा तं भक्षयामास। अन्यच्चशेषं तन्मांसं जम्बूकोऽपि चखाद।इत्याख्याय कपिर्भूयोऽपि शिशुमारमवोचत्, तन्नात्र गमिष्यामि पुनः खरवत्। एवं तस्मात् कपेराकर्ण्य शिशुमारोऽतिदुःखितः मोहात् भार्य्यार्थं कृतो यत्नः असिद्धः मित्रञ्च गतमिति चिन्तयन् गृहं प्रायात्। तस्य कपिसख्यापगमाच्च भार्य्यापि स्वस्थतां ययौ। सोऽपि कपिरम्बुधेस्तीरे यथासुखं विचरति स्म। तदेवं प्राज्ञःदुर्जने नविश्वसेत्, दुर्जने कृष्णसर्पे च विश्वासतः सुखं कुतः? इति कथामाख्याय मन्त्री गोमुखी नरवाहनदत्तं पुनर्विनोदयितुमब्रवीत्, देव! शृणु तावदिमान् अपरान् उप-

हास्यान् जड़मतीन्। तत्रादौ गन्धर्वपरितोषकतो जड़ः निशम्यताम्।

कश्चिदाढ्योजड़ःगान्धर्वविद्यया तौर्य्यत्रिकरूपया तोषितः भाण्डारिकमाहूय तत्समक्षमभाषत, देहि अस्मै गान्धर्विकाय द्वेसहस्रे पणान् इति। स तु भाण्डारिकः तथेति उक्त्वास्वस्थानमयासीत्। अथ गान्धर्विको भाण्डारिकेण विहताशः तदा आढ्यसमीपं गत्वा तस्मात् तान्पणान् अयाचत। तस्मिंश्च वीणावादनेन त्वया मे शीघ्रं श्रुतिसुखं विहितं मयापि पणदानादेशेन तव श्रुतिसुखं विहितं किन्तु दानकाले तथा क्षिप्रं न क्रियते इति वादिनि स वैणिकः विहताशोऽपि हसन् ययौ।देव! अथ मूर्खशिष्यद्वयं श्रूयताम्। आस्तां कस्यापि गुरोर्द्वौशिष्यौ अन्योन्यमत्सरौ। तयोरेकः गुरोर्दक्षिणपादममहत्त्वम् अभ्यञ्जन् संवाहयामास, अपरो वामपादम्।कदाचित् गुरुः दक्षिणाभ्यञ्चकेवाम संप्रेषिते तेनाभ्यक्तवामपादः द्वितीयं शिष्यमभ्यधात् त्वमद्य दक्षिणं पादमभ्यज्य क्षालय। श्रुत्वैतत्, स मूर्खस्तं गुरुं स्वेरमभाषत,गुरो! प्रतिपक्षस्य सम्बन्धी अयं पादो न मया अभ्यञ्ज्यः।एवमुक्तवतश्चास्य स गुरुर्निबन्धमकरोत्। ततो विपक्षस्तच्छिष्यो रोषात् तं गुरोः पादमादाय बलात् ग्राव्णा भग्नवान्। अथ तस्मिन् गुरौ उच्चैराक्रन्दति असौ कुशिष्य अन्यैः प्रविश्य ताड्यमानः तेनगुरुणा स्नेहात् मोचितः। अथान्येद्युः अपरः शिष्यः ग्रामान्तरादागत्य गुरोस्तामङ्घ्रिपीड़ामवलोक्य विदितवृत्तान्तः क्रुधा ज्वलन्नाह किं

तस्य द्विषः सम्बन्धिनं पादं भनज्मि इति द्वितीयं पादंगुरोराकृष्य तत्क्षणात् बभञ्ज। ततः सोऽपि अन्यैस्ताड्यमानः भग्नोभयाङ्ध्निणा तेन गुरुणा कृपया मोचितः। ततःसर्वदेशोपहास्यौ तौ द्वौशिष्यौगृहं जग्मतुः। गुरुरसौक्षमया तया सर्वैः श्लाघनीयः क्रमेणइत्थमन्योन्यविद्वेषपरः मूर्ख परिजनः स्वामिनो हितं जिहन्त्येव, नापि आत्महिताय कल्पते। द्विशिरः सर्पवृत्तान्तः निशम्यताम् ।

आस्तां कस्याप्यहेर्द्वेशिरसी अग्रपुच्छयोः। पौच्छमस्य शिरः अन्धमभूत्, प्रकृतं पुनश्चक्षुष्मत्। अहं मुख्यमह मुख्यमिति तयोरन्योन्यस्पर्द्धितायामपि सर्पः प्रकृतेनैव मुखेन विचचार। कदाचिदस्य पौच्छ शिर मार्गे ज्वलन्त काष्ठमवाप। तेनेव चान्येन मुखेन असावहिःभ्रमन् अग्नौपपात ममार च।

साम्प्रतं मूर्खं तण्डुलभक्षकं शृणु। कश्चित् मूर्खः पुमान् प्रथमं श्वशुरगेहमगात्। स तत्र श्वश्र्वापाकार्थं स्थापितान्सितान् तण्डुलान् दृष्ट्वा भक्षयितुं तेषां मुष्टिमेकामाननेप्राक्षिपत्। तस्मिन्नेव च क्षणे श्वश्र्वाआगतायां स मूर्खः लज्जया तान् तण्डुलान् निगिरितुं वा उद्गिरितुं नशशाक। श्वश्रूश्च तम् उत्पीनगल्लं निरालापमवेत्य रोगशङ्कया पति तत्राहूय आनिनाय। सोऽप्यालोक्य तथैव वैद्यमेकमानयत्। वैद्योऽपि शोफशङ्की तस्य मूढ़स्य मस्तकमाक्रम्य गल्लमपाटयत्। ततश्च लोकानां हास्येन समं तस्य

गल्लात् तण्डुला निर्ययुः॥ इत्थमकार्य्यमज्ञाःसमाचरन्तिन च गूहितुं शक्नुवन्ति॥

केचित् मूर्खा बालका गवादिषु दोहं दृष्टवन्तःएकदागर्दभं प्राप्य संरुध्य च दोग्धुमारेभिरे। कश्चिद्दुदोह, कश्चित् अधः क्षीरभाण्डमधारयत्, अन्यः अहमेव प्रथमंक्षीरं पास्यामीति ब्रुवन् ननर्त्त। परन्तु ते परिश्रमं कुर्वन्तोऽपि न क्षीरं लेभिरे। इत्थमवस्तुनिर्बन्धपरो मूर्खः केवलं पराभवमेव प्राप्नोति। देव! कश्चिद् द्विजतनयः मूर्ख आसीत्। एकदास्य पिता तं सायमवादीत्, पुत्र! त्वया श्वः प्रगे ग्रामो गन्तव्यः। श्रुत्वैतत् कार्य्यमपृष्ट्वा प्रातरेवासौ ग्रामं गत्वा वृथैव सायं कृतश्रमः प्रत्यागात्, अवोचच्च पितरम्, अहं ग्रामं गत्वा समागत इति। गते त्वयि किं कार्य्यंनः सिद्धमिति तत् पिता तमाह स्म। तत् देव! निष्कारणचेष्टितो मूर्खो लोकहास्यतां व्रजति क्लेशमनुभवति न च कार्य्यं साधयति। इत्येवं गोमुखात् सचिवप्रधानात् शिक्षावतींकथामाकर्ण्य आत्मानञ्च शक्तियशसः प्राप्तिबद्धस्पृहं निवेद्य भूयिष्ठञ्च गतां रजनीम् अवेत्य वत्सेश्वरसुतो निद्रामुद्रितनयनः स्ववयस्यैरन्वितः शयनमभजत।

___________

अथ चतुःषष्टितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172199219335.jpg"/>

अथान्येद्युः स गोमुखः नक्तं निजवासगृहस्थितं भक्तियशःप्राप्तिसमुत्सुकंवत्सेश्वैरसुतं तन्नियोगतः विनोदनीं कथामिमां वक्तुंप्रारभत।

आसीत् कस्मिंश्चिन्नगरे देवशर्म्मानाम ब्राह्मणः। तस्य यज्ञदत्ता नाम्नी भार्य्यासदृशान्वयसम्भूताभवत्। सा चधृतगर्भा यथाकालमेकं सुतमसूत। स च द्विजः दरिद्रोऽपि त पुत्रं निधिमिवामन्यत। सा कदाचित् तस्य भार्य्या स्नातुं नदीमगात्। देवशर्म्मातु सुतं रक्षन् गृहे तस्थौ। तस्मिंश्च क्षणे राजान्तःपुरात् कापि चेटी द्रुतं स्वस्तिवाचनजीविनो ब्राह्मणस्य पुरतः समाययौ। ततः स विप्रः दक्षिणालोभात् गेहे चिरमाबाल्यवर्द्धितं नकुलं शिशोःरक्षणार्थं स्थापयित्वा नृपतिगृहमयासीत्। तस्मिन् गते च अकस्मात् तस्य शिशोरन्तिकमागतं कृष्णसर्पमेकं दृष्ट्वासौ स्वामिभक्तो नकुलः संजहार। अथ तं देवशर्म्माणमागतं दूरतो विलोक्य सर्पशोणिताक्तो नकुलो हृष्टः अस्य पुरतो निरगात्। स देवशर्म्मादृष्ट्वैवतयाभूतं तं ध्रुवं सशिशुरनेन निहत इति सम्भ्रान्तः शिलाप्रहारेण न्यबधीत्।ततः प्रविश्यान्तः तं भुजङ्गं नकुलहतं बालकञ्च जीवितं स्थितं वीक्ष्य भृशमन्वतप्यत। तदैवागता अस्य भार्य्यापि तदवेत्य अविचार्य्य उपकारी स नकुलः किं हत इति स द्विजःभृशमुपालभ्यत। देव। तस्मात् बुद्धिमान्नरः सहसाकिमपि न कुर्य्यात्, सहसा कुर्वन् हि लोकयोरुभयोर्हन्यते। अविधिना च कर्म्मकुर्वाणः विपरीत फलमश्नुते। तदत्र कयामेकामाकर्णय। पुरा कश्चित् वायुनाक्रान्तदेहः समभवत्। कदाचित् कश्चिद्भिषक् तं वस्त्यर्थमौषधं दत्त्वा अवादीत्, त्वमेतत् गृहाण यावदहं गृह गत्वा आगच्छामीति। उक्त्वास वेद्यः क्षणं चिरयति स्म। स तु

मूर्खस्तावत् तत् पिष्ठमौषधं वारिणा सह पपौ। ततोऽसौभिषक् उत्पन्नापदं तमेत्य आचमनं दत्त्वा कृच्छ्रात् मृतकल्पमजीवयत्। ततस्तेन स नितरामुपालभ्यत, रे मूर्ख! वस्त्यौषधं गुदे दीयते, न तु पीयते, कथमहं न प्रतीक्षितः इति। अभीष्टमपि अविधिना कृतमनिष्टाय भवति,तस्माद् विधिमतिक्रम्य प्राज्ञो न किञ्चन कुर्वीत। अप्रेक्षाकारी बधकृत् निन्द्यते, तदत्र कथामेतां निशामय।

अभवत् क्वचित् कोऽपि जड़मतिः पुरुषः। कदाचित्तत्सुतः सार्थैरन्वितः अटवीमगमत्। तत्र स सार्थभ्रष्टः कस्यचित्तरोर्विवरं प्राविशत्। तत्र मर्कटैः क्लेशितः कृच्छ्रात् जीवन् स पितरमेत्य वानरानभिज्ञः पृच्छन्तमवदत्,पितः! वनेऽस्मिन् कैश्चित् लोमशैः फलभक्षिभिरस्मिपाटितोऽहम्। तदाकर्ण्य कोपाकृष्टासिस्तत्पिता तद्वनमागत्य फलानि आदधानान् जटिलान् तापसान् दृष्ट्वा अमीभिः सुतो मे क्षतो रोमशैरिति अभ्यधावत्। ततश्च केनचित् पान्थेन स ऋक्षैःतव पुत्रः पाटितो मया दृष्टः, मुनीनेतान् माबधीरिति बधादवार्य्यत। ततः स दैवात् तस्मात् पातकादुत्तीर्णः सार्थमगमत्। तन्नकदाचित् प्राज्ञः अप्रेक्षाकारी भवेत्, किमन्यत् सर्वैरेव सर्वथा कृतबुद्धिभिर्भव्यम्। अबुद्धयः सदा लोकोपहसिता इत्थं सीदन्ति। इयञ्चात्र कथा निशम्यताम्।

कश्चिन्निर्धनः पथिकः अध्वनि व्रजन् कस्यापि सार्थवाहस्य च्युतां हेमपूर्णां दृतिं प्राप। स मूढ़स्तां गृहीत्वैव अन्येन पथा न जगाम, प्रत्युत तत्रैव स्थित्वा तत्र स्थितानां

हेम्नांसंख्यां कर्त्तुमारेभे। एतस्मिनन्तरे धनखामी सार्थवाहः स्मृत्वा हयमारुह्य सत्वरं तेनेव पथा प्रत्यावृत्य तस्य हेमभस्त्रां पान्थहस्तस्थितामवलोक्य जहार। ततः स दरिद्रः प्राप्तनष्टार्थः शोचन् अधोवदनः प्रायात्। तदेवं प्राप्तोऽप्यर्थः क्षणादेव मन्दबुद्धिर्हीयते कञ्चित् पार्वणं चन्द्रं दिदृक्षुंजड़ं कोऽपि दृष्टनवेन्दुः अङ्गुल्यभिमुखं पश्येत्युवाच। स तु गगनं हित्वा तस्य तामङ्गुलिं विलोकयन् तस्थौ,न चन्द्रं ददर्श,ददर्श च हसतो जनान्। प्रज्ञया असाध्यमपि साध्यते, साम्प्रतं तदाकर्ण्यताम्।

काचित् महिला एकाकिनी ग्रामान्तरं गन्तुं प्रारभे। सा च पथि जिघृक्षन्तंवानरं वञ्चयितुकामा वृक्षसंश्रिता अवर्त्तत। स च मूढः कपिः तस्याः संश्रितं तं तरुं भुजाभ्यामवारुणत्। सापि बाहुभ्याम् अस्य हस्तौ भृशमपीडयत्। ततश्च तस्मिन् निष्पन्दे जातक्रोधे वानरे तेन पथा आगतं कञ्चिदाभीरयुवकं सा स्त्री जगाद, महाभाग! क्षणमिमं प्लवङ्गमं बाह्वोर्गृहाण,यावदहं वस्त्रं वेणीञ्च विस्रस्तामावृणोमीति। यदि च मां भजसे तदाहमेवं करोमीतितेनोक्ता सा तथैव प्रतिपेदे! ततः स तं कपिमग्रहीत्। ततः सा स्त्री तस्य हस्तात् छुरिकामादाय तं कपिं हत्वाएकान्तमेहीति तमाभीरं दूरमानयत्। अथ पान्थेषु मिलितेषु तैःसह तमाभीरं विहाय सा ईप्सितग्राममगमत् प्रज्ञया रक्षितचारित्रा। तदेवं प्रज्ञैव प्रधानं लोकस्थितिहेतुः। अर्थदरिद्रोऽपि जीवेत् बुद्धिदरिद्रस्तु नैव जीवति! अत्राद्भूतामेकां कथामाकर्णय।

क्वचित् पुरे घटकर्परनामानौ द्वौतस्करावास्ताम्। तयोस्तु कर्परः कदाचित् नक्तंबहिर्घटं न्यस्य सन्धिंछित्वा राजकन्या वासगृहमविशत्। तत्र कोणस्थितमर्थं गृहीत्वा स कर्परःप्रत्यावृत्य घटं प्रपूर्य्यच पुनस्तदेवान्तःपुरं स्वयं प्राविशत्। प्रविश्य च कामार्त्तः तवस्थया राजकन्ययासमं विहरन् पुनः पुनः सुरतश्रान्तः पानमत्तश्च तया भीतया राजपुत्र्यासह सुप्तःगतां निशां नाज्ञासीत्। प्रातश्च तं प्रविष्टैःरक्षिभिर्बद्ध्वागृहीतं राजान्तिकं नीतञ्च दृष्ट्वा राजा तस्य बधमादिशत्। यावत् स बध्यभूमिंनीयते, तावदस्य सखा घटः रात्रावनागतस्यास्य पदवीमन्वेष्टुमगात्। तथागतम् घटं वीक्ष्य स कर्परः राजसुतां हत्वा रक्षेरिति संज्ञया निजगाद। अथ घटेनापि संज्ञया तथेति प्रतिज्ञातार्थः स कर्परः सत्वरं नीत्वा तरौ उल्लम्ब्यघातकैर्निहतः। ततो घटो गेह गत्वा कर्परमनुशोच्यनिशागमे सुरङ्गां भित्त्वा राजस्तागृहं प्राविक्षत्। तत्रैकाकिनीॆसंयमितां तां वीक्ष्यजगाद,सुन्दरि। त्वत्कृते हतस्य कर्परस्याहं सखा घटो नाम। त्वामितोऽपनेतुं स्नेहादिहागतः। तदागच्छ यावत्ते पिता तवान्यत् किमपि नानिष्टं कुर्य्यात्। इत्युक्ता तेन सा राजपुत्री हृष्टातथेति प्रत्यपद्यत। स च तत्क्षणात् तस्या वसनानि अच्छिनत। ततस्तया समर्पितदेहयासमं स घटः सद्यस्तेन सुरङ्गापथेन निर्गत्य स्वमावासमयासीत्। प्रातश्च स राजा सुरङ्गयास्वसुतामपहृतामवेत्य समचिन्तयत्, ध्रुवं तस्य निगृहीतस्य पापस्य कश्चिद्

बान्धवःसाहसिकोऽस्ति, येन मे सुता हृता। इतिसञ्चिन्त्य नृपतिः कर्परकलेवरं रक्षितुं स्वान् भृत्यानादिशदब्रवीच्चयः शोचन् एतं गवं दाहाय नेतुमागच्छेत्स युष्माभिरवष्टभ्यः, ततश्च पापां तां कुलदूषितां लप्स्ये। इति समादिष्टा रक्षिणस्तथेति प्रतिज्ञाय तत् कर्परकलेवरं रक्षन्तस्तस्थुः। स च घटः अन्विष्य तद् बुद्ध्वा तां राजपुत्रीमब्रवीत्, प्रिये! यो मे परमो बन्धुः तत्प्रसादात् मया त्वं रत्ननिचयैः सार्द्धं प्राप्ता, अकृत्वा चतस्य स्नेहानृण्यं मम निर्वृतिर्नैवविद्यते। तत् स्वयुक्तिबलात् गत्वा तं प्रेक्ष्यअनुशोचामि अग्नौ च संस्करोमि, तोर्थे चास्य अस्थीनि निक्षिपामि, भयं ते माभूत् अहं नाबुद्धिः कर्पर इव। इत्युक्त्वातां तदैव स महाव्रतवेशभृत् सहसाभवत्। स दध्योदनं कर्पूरेणादाय कर्परो येन मार्गेण गतः, तेन पथागच्छन् स्खलद्गतिर्हस्तात् कर्परं दध्यन्नसहितं निपात्य भङ्क्त्वा च हाकर्पर। अमृतभृत इत्यादि वदन् त कर्परं शुशोच। ते चरक्षिणो भिक्षाभाण्डान्नशोचिन तं मेनिरे। ततश्च क्षणात्गृहमागत्य तत् राजपुत्रैश्चशशंस।

अथान्येद्युःएकं भृत्यं बधूवेशम् अग्रतः कृत्वा स्वयं ग्रामीणवेशो सधत्तूरभक्ष्यञ्च नीत्वा दिनात्यये प्रस्खलन्पदे पदे तेषां कर्परकलेवररक्षिणामन्तिकमगात्। रक्षिणस्तमपृच्छन्, कस्त्वं, केयञ्च ते भ्रातः।क्व यासीति च? स तुधूर्त्तस्तानेवं स्खलिताक्षरमवादीत्, अहं कश्चित् ग्रामीणः,एषा मम भार्य्या, श्वाशुरंगृहं व्रजामि, तदर्थञ्च मया

भक्ष्यकौशलिका नीयते, सम्भाषणेन यूयमधुना मे सुहृदोजाताः, तदर्द्धंभक्ष्यंतत्रनयामि, अर्द्धं युष्माकमस्तु इत्युक्त्वा स तेभ्यो रक्षिभ्योः एकैकं भक्ष्यंददौ। ते च तं धूर्त्तं सन्तोष्य गृहीत्वा अस्य समग्राणि भक्ष्याणि भुञ्जन्ते स्म। ततश्च तेषु रक्षिषु धत्तूरमोहितेषु स घटः निशि काष्ठान्याहृत्य तत् कर्परकलेवरमग्निसाच्चकार। अथ तस्मिन् गते प्रातः राजा बुद्ध्वातान् रक्षिणो निवार्य्य निगूढ़ानन्यान् स्थापयामास, उवाच च रक्ष्याणोमान्यस्थीनि अपि इदानीं, यस्तु एतानि आदातुमिच्छति, स युष्माभिर्ग्रहीतव्यः, न च किञ्चित् भक्ष्यं तस्मात् ग्रहीतव्यम्। इति राज्ञा समादिष्टास्ते दिवानिशं सावधानास्तत्रासन्, बुबुधे च तं वृत्तान्तं घटः। ततः स कञ्चित् प्रब्राजकं चण्डिकादत्तमोहमन्त्रप्रभावशालिनं मित्रमकरोत्, अग्रहीच्च तेन समं तत्र गत्वा तन्मन्त्रेण रक्षिणो मोहयित्वातानि कर्परास्थीनि। तानि च गङ्गायां निक्षिप्ययथाकृतं सर्वं राजपुत्र्यैसमाख्याय तेन प्रब्राजकेन सहितः सुखं तस्थो। राजापि तदस्थिहरणं रक्षिमोहनं विदित्वा आसुताहरणात् सर्वं योगिनः कस्यचित् चेष्टितममन्यत, घोषयामास च नगरे, येन योगिना मे तनयाहरणादिकमद्भुतं कार्य्यं कृतं तस्मैराज्यार्द्धंददामि ससाम्प्रतमभिव्यक्तिं व्रजतु इति। तदाकर्ण्य घटस्तदा आत्मानंदर्शयितुमिच्छन्नपि मैवं कृथाः,न कार्य्यःअस्मिन् छिद्रघातिनि राज्ञि विश्वास इति तथा राजपुत्र्यान्यवार्य्यत। ततश्च उद्भेदभयात् स घटः तेन प्रब्राजकेन मित्रेण साकं

राजपुत्री सहितो देशान्तरंप्रायात्। पथि सा राजपुत्री रहसि तं प्रब्राजमब्रवीत्, एकेनाहं ध्वंसिता, अन्येनामुना पदात् भ्रंशिता च स चौरः मृतः, अयं न मृतः, त्वन्तु मे बहुमतः। इत्युक्त्वातेन सङ्गम्य निशीथे तं घटमबधीत्। ततस्तेन प्रब्राजा सम यान्ती पथि सा पापाधनदेवनमकेन केनचित् वणिजा संजग्मे। कोऽयं भिक्षुः, त्वंमे प्रेयान् इत्युक्त्वा तं प्रब्राजं विहाय तेन वणिजा समं निशि प्रायात्। स च प्रब्राजकः प्रातः प्रबुद्धः समचिन्तयत्, अहो स्त्रीषु चापलादृते न स्नेहः, नापि आनृत्यं यदिय पापा मां विश्वास्य हृतार्था पलायिता, एष एवमे लाभःयद् घट इव न हतोऽस्मीति आलोच्यनिजंदेशमायात्। सा च राजसुता तेन वणिजा समं तद्देशं प्राप। सहसां इमां बन्धकीं किं गृहं प्रवेशयामीति स स्वदेशं प्राप्तो वणिक् व्यचिन्तयत्। विचिन्त्य च स वणिक्दिनात्यये तया राजपुत्र्यासह तत्रस्थाया एकस्या वृद्धाया योषितः सदनं विवेश। तत्र तां वृद्धांनक्तं गत्वा पर्य्यपृच्छत्, अम्ब! अपि जानासि धनदेवस्य वणिजोगृहवार्त्ताम्? तदाकर्ण्य साब्रवीत् का तत्र वार्त्ता वक्तव्या,यत्र सा तद्भार्य्यासदा नवेन नवेन पुंसा रमते। तत्र हि गवाक्षेण रज्ज्वा चर्मपेड़ा लम्ब्यते, यस्तस्यां नक्तं विशति, स एषान्तःप्रवेश्यते, ततः पश्चिमायां निशि तथेवतस्मात् निष्कास्यते, सा च पानमत्ता नैव किञ्चन विचारयति, एषा तस्य गृहस्थितिर्नगरे सर्वत्र ख्यातिमागता। स चतत्पतिर्बहुकालं विदेशं गतो नाद्यापि

आयाति। एतद् वृद्धावचःश्रुत्वा धनदेवस्तत्क्षणात् युक्त्या निर्गत्य सान्तर्दुःखः ससंशयश्चतत्रागात्। तत्र दासीभिःरज्ज्वालम्बितां पेड़ां दृष्ट्रा तां विवेश।ततस्ताभिरुत्क्षिप्यअन्तरनीयत। प्रविष्टश्चतया मदान्धया समालिङ्ग्यस्वगेहिन्या अविज्ञात एव शय्यातलं नीतः। यावदस्य तद्दोषदर्शनात् रिरंसा नास्ति तावदसौ पानमत्ता तद्गेहिनी निद्रां ययौ। अथनिशान्ते सत्वरं रज्जुपेड़या दासीभिः गवाक्षेण वहिः क्षिप्तः स खिन्नोबणिगचिन्तयत्, अलं मम गृहमोहेन, गृहे नार्य्य एव निबन्धनंतासाञ्च ईदृशी वार्त्ता, तस्मात् वनमेव परं श्रेयः। इतिसञ्चिन्त्य स तां राजसुतामपि सन्त्यज्य स धनदेवः सुदूरंवनं गन्तुं प्रावर्त्तत। गच्छतस्तस्य मार्गे कश्चित् रुद्रसोमो नाम ब्राह्मणः प्रवासादागतः मित्रतामाजगाम। स द्विजःतेन वणिजा उक्तस्ववृत्तान्तःसभयं स्वदाराशङ्कीतेनैव वणिजासाकं स्वं ग्रामं समासदत्। आगत्य चस्वभवनान्तिकनदीतटे आयान्तं माद्यन्तमेकं गोपंदृष्ट्वा नर्म्मणापृच्छति स्म, गोप! अस्ति ते तरुणी काचित् त्वय्यनुरागिणी? येन एवं मदात् जगत् तृणं मन्यमानो नृत्यंन् गायसि? तच्छ्रुत्वा स गोपःहसन्नब्रवीत् मम किमपि गोप्यं वस्तु अस्ति, चिरविप्रोषितस्य रुद्रसोमाख्यस्य द्विजस्य ग्रामाधिपस्य तरुणीं भार्य्यांसदाहं भजे, तद्दासी च स्त्रीवेशं मां तद्गेहं प्रवेशयति। एतद् गोपात् निशम्यमन्युमन्तर्निगृह्य च तत्त्वं जिज्ञासमानस्तं स रुद्रसोमः पुनरवादीत्, यदि ते मयि स्नेहः स्यात् तदा त्वं स्ववेशममुं

मह्यंदेहि, यावत्त्वमिवाहं तत्राद्य यास्यामि, महत् हि मेकौतुकम्। स च एवं कुरु, गृहाणेदं मदीयं कम्बल लगुड़ञ्च, यावदिह तद्दासी आयाति तावदिह प्रतीक्ष्यतां, नक्तं तत्र गत्वा तयारन्तव्यमहमेकां रजनीं विश्रमामिइत्युक्त्वाप्रादात्। स च रूद्रशर्मा तत्र तथैव तस्थौ, दासीच सा ततः समायाता। सा तूष्णीकं स्त्रीवस्त्रगुण्ठितं तम् एहि एहि इत्युक्त्वागोपधिया रुद्रसोमगृहमनयत्। गोपश्च स तेन धनदेवेन सार्द्धंदूरतस्तस्थौ। स च नीतःतां स्वभार्य्यांगोपालबुद्ध्याउत्थाय कृताश्लेषां दृष्ट्वा रुद्रसोमो व्यचिन्तयत्, हा! कष्टं सन्निकृष्टे निकृष्टे च कुयोषितो रज्यन्ति यदियं पापा आसन्नवर्त्तिनि गोपे रक्ता इति चिन्तयन् मिषं कृत्वा अस्फुटया गिरा निर्गत्यैवविरक्तचित्तः धनदेवसकाशमाययौ, उवाच च कथितगृहवृत्तान्तः, भद्र! त्वया सह अहमपि वनं गच्छामि,गृहं क्षयं यातु इत्युक्त्वा तेन वणिजा साकं तदैव वनं प्रतस्थे। तयोश्च गच्छतोः मार्गे सुहृत् शशी अमिलत्।कथाप्रसङ्गात् तौ तस्मै शशिने स्वं स्वंवृत्तान्तमाचख्यतुः। स तदाकर्ण्य चिरात् देशान्तरागतः स्वगेहिन्यां भूगृहे न्यस्तायामपि साशङ्कोऽभूत्। गच्छंश्च ताभ्यां सह सायं स्वगृहान्तिकमेत्य शशीगृहातिथ्यं कर्त्तुं तावन्वरुणत्। तावच्च स तत्र दुर्गन्धवहं कुष्ठशीर्णकरचरणं गायन्तं शृङ्गारंपुरुषमेकं स्थितमपश्यत्, अपृच्छच्चसविस्मयं कोऽसि त्वमीदृशइति? सोऽब्रवीत्, कुष्ठी कामदेवोऽहमस्मीति। का ते भ्रान्तिः? कामदेवत्वं मे रूप-

शोभैव वक्ति, इति शशिना तेनोक्तः स पुनरवादीत्, शृणु कथयामि, इह कश्चित् शशी नाम एकयापरिचारिकया सह भार्य्यां तरुणींभूगृहे निक्षिप्य सेर्ष्योदेशान्तरमगात्। विधिवशादिह तद्भार्य्यया मदनाकृष्टचित्तया दृष्टोऽस्मि, अर्पितश्च सद्य एव मह्यमात्मा, तया सह सदैवाहं प्रतिनक्तंरमे, तस्या दासी मां पृष्ठेगृहीत्वा तत्र प्रवेशयति, तद् ब्रूहि कथमहं न कामः, यत् तादृश्या मनोहारिण्या शशिनः प्रिययापि अहं मनोहरत्वेन गृहीतः। इति कुष्ठिवचःनिर्घातदुःसहं श्रुत्वा दुःखं निगृह्य तत्त्वं जिज्ञासुस्तमुवाच, सत्यं त्वं काम एव,अहन्तु त्वां तदेवार्थये,त्वत्तः श्रुतायां तस्यां मे महत् कौतूहलं जातं,तदद्य इमामेकां निशामहं त्वद्वेशेन तत्र व्रजामि, प्रसीद,अन्यफले हि अत्र तव का क्षतिः? इत्युक्तः शशिना स कुष्ठी तमभाषत, तथास्तु, गृहाण मे वेशं, त्वमपि स्वं वेशं मे देहि,अहमिव अत्र पाणिपादंमवेष्ट्य तिष्ठ, यावदस्याः सा दासी जृम्भिते तमसिआयाति,मद्बुद्ध्याच तया पृष्ठेगृहीताऽहमिव तत्रव्रज, अहं हि पादवैकल्यात् सदा तथा तत्र गच्छामि। इति कुष्ठिनोक्तः शशीतद्वेशमास्थितः तत्र तस्थौ। स कुष्ठी तौ च पान्थौनातिदूरतः स्थिताः। अथ तया शशिभार्य्यायाः दास्या आगत्य कुष्ठिवेशःस शशी कुष्ठिबुद्ध्याएहीति स्वपृष्ठे अधिरोपितः, नीतश्चनक्तं स्वभार्य्यायाः सकाशम्।तत्र तां स्वभार्य्यामनुशोचन् सवैराग्यमगमत्। ततस्तस्यां प्रसुतायाम् अदृष्ट एव निर्गत्य

स धनदेवरुद्रसोमयोरन्तिकमाजगाम। तौ च स्ववृत्तान्तमाख्याय खिन्नःप्राब्रवीत्, हा! धिक् निम्नाभिगामिन्यःलोला दूरात् मनोरमाः श्वभ्रापगा इवस्त्रियः पातुं न शक्याः, यदेषा मेभार्य्या भूगृहरक्षितापि कुष्ठिनं गता। तन्ममापि वनं श्रेयः, धिक् गृहाणि इति ब्रुवन् समदुःखाभ्यां ताभ्यां विप्रबणिग्भ्यां युतस्तां निशामनयत्।

अथ प्रातस्त्रयोऽपि ते वनं प्रस्थिताः। क्रमेण पथिव्रजन्तः दिनान्ते सवापीकमलं पादपमेक प्रापुः। तत्र च यथायथं भुक्तपीताश्च ते रात्रौ त तरुमारुह्य तत्र स्थिताःएकं पान्थमागत तरोरधः सुप्तं क्षणे च तस्मिन् सहसावापीमध्यादपरमुत्थित वदनोद्गीर्णसस्त्रीकशयनं पुरुषञ्च ददृशुः।स च उत्थितः पुरुषः तस्मिन् शयनतले तांस्त्रियमुपभुज्य सुखं सुष्वाप। सा तु स्त्री उत्थाय तंपान्थंतरोरधःस्थितम् उत्थाप्य स्वाभिलाषमपूरयत्। रतान्तेच कौ युवामिति तेन पान्थेन पृष्टा साब्रवीत्, एष मे पतिर्नागःअहमस्य भार्य्यानागकन्या,मा भूत् ते भयं, मयापान्थानां नवाधिका नवतिर्भुक्त्वा, त्वयेदानीं शतं पूरितम्। एवं वदन्तीं तां तञ्च पान्थंदैवात् प्रबुद्धः स नागः दृष्ट्वामुखात् ज्वालां मुक्त्वाभस्मीचकार। याःदेहान्तःस्थापिताअपि रक्षितुं न शक्याः, तासां गृहे का वार्त्ता? ताधिक् धिक् इति ते नागे गते ब्रुवन्तः शशिप्रमुखा नीत्वा तां रात्रिं निर्वृताःवनमेव गताः। वनाश्रयिणश्चसततसंयताः कृच्छ्रं तपः समाचर्य्य निरुपमपरानन्दभूमौ समाधौ मनः समाधाय प्राप्तसिद्धयः क्षपिततमसस्त्रयोऽपि

क्रमेण मुक्तिमलभन्त। तदेवं मोहप्रभावो रामो न स्त्रीषु कस्य दुःखाय? तास्वेवविवेकभृतां विरागस्तु मोक्षायालमिति गोमुखात् सचिवात् विनोदिनींकथामाकर्ण्यपुनर्वत्सराजसुतो निशि विश्रामकरीं निद्रामवाप।

_______

अथ पञ्चषष्टितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172200032036.jpg"/>

अथान्येद्युः प्राग्वत् निशायां नरवाहनदत्तंविनोदयन् गोमुखः पुनः कथामारेभे। कस्मिंश्चिनगरे बोधिसत्त्वांशसम्भवः कस्यापि आढ्यस्य वणिजस्तनयः सञ्जातः। जातमात्र एव तस्मिन् तन्माता ममार।तत्पिता च जायान्तरंगृहीतवान्। शिशुश्च क्रमशो वर्द्धमानःशैशवमतिचक्राम,परिणिनाय च कामपि कान्तां पितुरनुरोधात्।एवम् गच्छति काले कदाचित् अन्यजायाप्रसक्तेन तत्प्रेरितेन पित्रा परित्यक्तः स सभार्य्यो वनवासाय गृहात् निरगात्। क्रमेण व्रजंश्चपाथेयहीनः चण्डांशुतप्तान्तरमहारण्यं प्राप्तः तत्र सप्ताहं क्षुधा तृषा च क्लान्तां कान्तां स्वमांसास्त्रैरजीवयत्। सा च तानि आहरत्। अथाष्टमे अहनि सरिद्वीचिमालावाचालं छायातरुभिराकीर्णं समास्तृतशाद्वलं शैलकाननं प्राप।तत्र तां भार्य्यांमूलफलाम्बुभिः संजीवयन् स्वयं स्नातुं कल्लोलशालिनीं गिरिनदीमवातरत्, अपश्यच्चतत्र

छिन्नहस्तपादं जलौघेन नीयमानं चाणकाङ्क्षिणं पुरुषमेकम्। दृष्ट्वैवस महासत्त्वः बहुभिरुपवासैःक्लान्तोऽपिकृपालुः तां नदीं विगाह्य त पुरुषमुज्जहार, पप्रच्छ च,भ्रातः! केनेदं ते कृतम् इति कारुणिकेन पृष्टः स स्थलमारोपितः पुमान् समभ्यधात्, महाभाग! निकृत्तहस्तपादोऽह शत्रुभिर्जले निक्षिप्तो दित्सुभिः क्लेशमरणं, त्वयापुनः कृच्छ्रादेतस्मात् मोचितः। एवमुक्तवतस्तस्य स भयात् व्रणपट्टिकां दत्त्वा आहारमकारयत्। ततश्चस्वयं भार्य्ययासह मूलफलाहारः तऽत्र कानने तपश्चरन् तस्थौ।

अथैकदा तस्मित् फलमूलार्थंगते मदनातुरा तद्भार्य्यातेन रुण्डेन पुंसा पतिरक्षितेन रेमे। ततश्च सादुश्चारिणी तेन सम्मन्त्रातत्र भर्त्तृबधैषिणीयुक्त्या अपरेणमृषा मायां कृत्वा पतिमब्रवीत्,पश्य, या अस्यां दुस्तराया निम्नगायां महौषधिर्दृश्यते,यदि त्वयैषा आनीयते तदाह जीवामि। तथाहि स्वप्ने कापि देवता मह्यं इहस्थामेतां वक्ति स्म। स च ऋजुमतिस्तां तथेति प्रतिपद्यमानः यावत् महानयां तस्यां निपपात। पतितश्च महौघया तथा सुदूरं नीतःस्वेनैव सुकृतेन रक्षितः कस्यापि नगरस्य आसन्नवर्त्तिनि तटे अर्पितः।ततः सस्थलमारुह्यस्त्रीचेष्टितं चिन्तयन् जलावगाहेन नितरांक्लान्तस्तरुतलेविशश्राम। तस्मिंश्चकाले तत्र नगरे राजाममार। मृते राजनि तत्र देशे ईदृशी स्थितिः, यत्मङ्गलगजःपौरैः भ्राम्यमाणः करेण यं स्वेपृष्ठे आरोपयति स राज्ये अभिषिच्यते। स गजः अस्य धैर्य्येणतुष्टः

विधातेव अन्तिकमागात्, आरोपयच्च समुत्क्षिप्य तं वणिक्सुतं स्वपृष्ठे। ततश्च बोधिसत्त्वांशसम्भवः सराज्येप्रकृतिभिः यथाविधि अभ्यषिच्यत। स खलु राज्यं प्राप्य सततं क्षमादयादिभिः परमरंस्त, न तु पापाभिरफलवृत्तिभिर्योषिद्भिः। सा च तद्भार्य्यानिःशङ्का पतिंनदीहृतं मन्वाना जारं पृष्ठे कृत्वा इतस्ततो बभ्राम। क्रमेण च अयं मे भर्त्ता शत्रुभिः कृत्तहस्तपादः, अहंपतिव्रता, भिक्षित्वा एवं जीवयामि, तन्मे भिक्षां प्रयछत इत्येवं भिक्षमाणा ग्रामे ग्रामे नगरे नगरे भ्रमन्तीराज्यस्थस्य स्वभर्त्तुर्नगरं प्राप। तत्र च तथैव भिक्षमाणा पौरैश्चपतिव्रतेत्युच्यमाना क्रमेण तस्य राज्ञः श्रुतिपथमाययौ। स च राजा तां पृष्ठारूढरुण्डां पतिव्रतांसमीपमानाययत्। त्वं सा पतिव्रतेति ध्यानात् परिज्ञायतेन पृष्टा सा पापा देव! साहं पतिव्रता इति भर्त्तारं राजश्रिया तेजसा च परिवृतमपरिज्ञाय प्रत्यवादीत्। ततः स बोधिसत्त्वांशी नृपतिः हसन् तां जगाद, दृष्ट तेपातिव्रत्यं फलेन मया, या त्वं स्वरक्तमांसं दत्त्वापिस्वीकर्त्तुं न शकिता। सा त्वं मानुषराक्षसी स्वेन हस्तेन तदा भर्त्तुःमांसस्ताहरा, साम्प्रतं विकलेन रण्डेनापि स्वीकृत्य वाहनीकृता। कश्चित् ते भर्त्ता त्वया निष्पापोनद्यां क्षिप्तः?तेनैव कर्मणा रुण्डमेतं वहसिविभर्षि च। इत्येवं सर्वं वृत्तान्तम् उद्घाटितवन्तं तं पतिं परिज्ञाय सा तदा मूर्च्छितैव लिखितेवमृतेव चाभवत्। किमेतत् ब्रवीतु देव इति स राजासकौ-

तुकैरमात्यैः पृष्टः यथावृत्तान्तंतेभ्यः सर्वमवर्णयत्। ततस्ते भर्त्तृद्रुहां बुद्ध्वाकृत्वा च छिन्नकर्णनासां देशात्तत्मात् सरुण्डां निरवासयत्। तदा च विविश्छिन्नकर्णनासयायुक्तंरुण्डंबोधिसत्त्वांशञ्च नृपश्रिया युक्तंकृत्वा सदृशयोगमदर्शयन्। तदेवं दुरवधार्य्येव मतिर्योषितां कोऽपिताः सुरक्षितुं न शक्नोति।तथा अत्यक्तशीलानां ससत्वानां जितात्मनां तुष्ट्यैव स्वयमायान्ति सम्पदः। इतिकथामाख्याय मन्त्री गोमुखः पुनरपि युवराजाय अपरांकथामवर्णयत्।

आसीत् अपरः कोऽपि बोधिसत्त्वांशः। स केवलं वने क्वापि कृतोटजः करुणार्द्रहृदयः तपश्चरन् तत्रस्थान् जन्तन् पिशाचांश्चसमुद्धरन् विचचार। एकदासौ परोपकारार्थम् अटवीं भ्रमन् महान्तमेकंकूपं दृष्ट्वा यावत्तत्र दृशं ददाति, तावत् तदन्तःस्था कापि नारी तंदृष्ट्वैव उच्चैरभाषत महासत्त्व! अहं स्त्री, सिंहः स्वर्णशिखः खगः भुजङ्गश्चैक इति चत्वारोऽत्र कूपे रजन्यां पतिताः,तत् कृपया महतः क्लेशादस्मात् अस्मान् कृपया समुद्धर। तदाकर्ण्य सतां स्त्रियं जगाद, यूयं त्रयो यदि तमसाअत्रान्तर्निपतिताः, तदा खगोऽत्र कथं पतितः? ततःसा नारी खगोऽयं व्याधजालेन संयतः पतित इति तं महासत्त्वं प्रत्यवादीत्। ततः स तपःप्रभावात् तान् समुद्धर्त्तुमिच्छन्नपि उद्धर्त्तुं,नाशकत्, तस्य तपःसिद्धिस्तु अहीयत। अथ पापा इयं स्त्री, ध्रुवमेतस्याः सम्भाषणात् मेतपःसिद्धिर्नष्टा, ततत्रतावदन्यां युक्तिं करोमीति,

सञ्चिन्त्य स तृणवेष्टितया रज्ज्वा तान् सर्वान् स्तुवतःकूपात्समुज्जहार,पप्रच्छ च सविस्मयं सिंहपक्षिभुजङ्गमान्स्वं स्वंवृत्तान्तम्। ततः सिंहोऽब्रवीत् व्यक्तया वाचा, वयं जातिस्मराः, अन्योन्याबाधकाश्चक्रमेणास्माकंवृत्तान्तान् शृणु।

अस्ति तावत् तुषाराद्रौ वैदूर्य्यशृङ्गस्थं नगरवरम्।तत्रपद्मवेशो नाम विद्याधरपतिः प्रतिवसति स्म। तस्यवज्रवेगाख्यः पुत्रोऽजनि। स वज्रवेगः तस्मिन् वेद्याधरेलोके वसन् शौर्य्यमदात् अहङ्कारो येन केनचित् साकंविरोधमकार्षीत्। पितुर्निषेधेऽपि यदासौ तद्वचः नामन्यत तदास्य पिता तं मर्त्त्यलोके पतेति शशाप। ततोऽसौनष्टप्रदः भ्रष्टविद्यः शापहतः रुदन् पितरं शापान्तमयाचत। ततः स तत्पिता क्षणं ध्यात्वा तमब्रवीत्,त्वं भुविविप्रसुतो भूत्वा तत्रापि एव मदगर्वकरणात् पित्राभिशप्तःसिंहो भूत्वा कूपे पतिष्यति,कश्चिच्च महासत्त्वः तस्मात् त्वामुद्धरिष्यति,तस्य च प्रत्युपकारं कृत्वा मुक्तिमाप्स्यसि शापादस्मादिति। अथ स वज्रवेगः मानवे हरिवोषनामकस्य विप्रस्य देवघोषनामा सुतः सञ्जज्ञे। तत्रापि सशौर्य्यदर्पितः बहुभिः वैरमकरोत्। पिता च तस्य तथा कुर्वन्तं तं न्यवारयत् यदासौतद्वचः न अमन्यत तदास्यपिता क्रुधा तमशपत्, यतस्त्वं शौर्य्याभिमानी, दुर्बुद्धे! तस्मात् साम्प्रतमेव सिंहो भवेति। एवं स विद्याधरः सिंहःसन् अत्र कानने स्थितः। तमेव मां सिंहंविद्धि, अहं दैवात्काननेऽत्र निशि भ्रमन् अत्र कूपे पतितः, त्वया च महा-

मत्त्वेन समुद्धृतः तदिदानीं यामि, यावत् ते कापिविपदापतति तावत् मां स्मरेः, अहं ते उपकारं कृत्वा शापतो मुक्तिमाप्स्यामीति अभिधाय सिंहे गते स स्वर्णशिखः पक्षी स्वमुदन्तमाख्यातुमुपचक्रमे।

अस्ति हिमवति वज्रदंष्ट्राभिधः विद्याधरराजः।तस्यदेव्यां क्रमशः पञ्च कन्याः अजायन्त। ततः स तपसा हरमाराध्य एकं सुतमवाप। स च रजतदंष्ट्रो नाम पितुःजीवितादपि प्रियतरः। स शिशुरपि पित्रा नितरां वात्सल्येन विद्यां लम्भितः बन्धूनां नेत्रानन्देन सह वृद्धिमवाप। एकदासौ ज्येष्ठां भगिनीं सोमप्रभां गौर्य्याःपुरे पिञ्जरिकं वादयन्तीमवेक्ष्य देहि मे पिञ्जरिकम् अहमदी वादयामिइति सनिर्बन्धं पुनःपुनस्ताम् अयाचत। यदा तु सा तत्तस्मै न ददाति, तदासौ स्वयं तदादाय पक्षीव नभ उदपतत्। अथ सा कुपिता स्वसा तमशपत्, यत् मे पिञ्जरिकंहृत्वा हठादुड्डीनीऽसि तत् त्वं स्वर्णचूड़ःपक्षी भविष्यसीति।तदाकर्ण्य पादपतितेन तेन सा शापान्तंयाचिता। सा स्वसा तमब्रवीत् रे मूढ़! यदा पक्षी भूत्वाअन्धकूपे पतिष्यसि, कश्चिच्चमहापुरुषः त्वामुद्धरिष्यतिकरुणया, तदा तस्य प्रत्युपकारं कृत्वा त्वं मुक्तिमवाप्स्यसीति। इत्युक्तः स भ्राता रजतदंष्ट्रः स्वर्णचूड़ः पक्षी संवृत्तः। स एव स्वर्णचूड़ पक्षी अहं निशि अस्मिन् कूपे प्रभ्रंशितः समुद्धृतश्च कृपयाऽत्रभवता, तदिदानींगच्छामि, सति कार्य्येमां स्मरेः, तव प्रत्युपक्रियाकरणात्मे मुक्तिरिति अभिधाय सोऽपि पक्षीप्रतस्थे। ततः स

भुजङ्गः तेन महासत्त्वेन पृष्टः स्ववृत्तान्तमाख्यत्।

पुराहं कश्यपाश्रमे कश्चित् मुनिकुमारोऽभवम्। तत्रचासीत् मे कोऽपि मुनिसुतो वयस्यः। एकदाहं तत्र वयस्येतटस्थिते सरःस्नातुमवातरम्, अद्राक्षञ्च तदा त्रिफणमेकं सर्पमागच्छन्तम्। मया तु तं वयस्यं नर्स्मणा तेन सर्पेण भीषयितुं तटान्ते मन्त्रबलात् तत्सम्मुखं स सर्पः संनिरुद्धः। क्षणाच्चस मद्वयस्यः स्नात्वा तटं प्राप्तो महाहिंतमतर्कितं विलोक्य त्रस्तो मोहमुपागमत्। अथ चिरेणश्वासितः स मत्सखा ध्यानात् तत् मत्कृतमवेत्य कोपात् मामशपत्, गच्छ त्वम् ईदृश एव त्रिफणःसर्पो भवइति। अथ मया अनुनीतेन तेन शापान्तो मे कृतः, यदा त्वं कूपे पतिष्यति उद्धरिष्यति च त्वां कश्चित् महात्मा, तदा त्वं तस्य प्रत्युपकृतिं कृत्वा मोक्षमाप्स्यसीति। तदिदानींत्वयाहमुद्धृतोऽस्मि कूपात्, यामि साम्प्रतं, काले स्मर्त्तव्योऽहं, तवोपकारमकृत्वा न मे मोक्ष इति प्रोच्य स भुजगो यथास्थान प्रस्थितः। अथ सा स्त्री स्वं वृत्तमवर्णयत्। अहं कस्यचित् क्षत्रियसुतस्य राजोपजीविनः शूरस्य त्यागशीलस्य यूनश्चारुरूपस्य मानिजः पत्नी तथापि पापया मया अन्यपुरुषासङ्गः कृतः, तद् विदित्वा स मे भर्त्ता मन्निग्रहायमतिमकरोत्। अहञ्च सखीमुखात् तद्विदित्वा तदेव पलायिता रात्रौ वनमिदं प्रविष्टा एव कूपेऽस्मिन् पतिता त्वयाचसमुद्धृता, तदिदानीं गत्वा कुत्रचित् कथञ्चित् जीवामि। तन्मे दिनं भूयात् यत्र तेऽह प्रत्युपक्रियां कुर्य्यात्। इत्युक्त्वासा कुलटा गोवर्द्धनाख्यस्य नृपतेर्नगरं प्रतस्थे। तत्र सा

समागत्य राजमहादेव्या दास्यमुपेत्य तत्परिजनैः सहसङ्गतिमुत्पाद्य च तस्थौ। तस्यापि बोधिसत्त्वस्य तस्याः कुलटायाः सम्भाषणात् वने नष्टसिद्धेः मूलफलादिकं नाविरासीत्। ततः स क्षुधापदा क्लान्तः प्राक् त सिंहमस्मरत्। अथ स्मृतागतः स सिंहःमृगामिषैः किञ्चित् कालं तंप्रकृतिस्थं विधाय प्राब्रवीत्, महात्मन्! क्षीणशापोऽहमिदानीं स्वपद व्रजामि इत्युक्त्वासैंहींतनुं मुक्त्वासहसाविद्याधरो भूत्वा तमामन्त्र्यनिजं पदमगात्। ततः सबोधिसत्त्वः पुनर्वृत्तिग्लानः खगं तं सस्मार। सोऽपि स्मृतएव तस्यान्तिकमागात्। आगत्य तेनावेदितार्त्तिः क्षणात् गत्वारत्नाभरणसम्पूर्णामेकां करण्डिकामानीय तस्मै ददौ, उवाच च एतेनार्थेन तव चिरन्तनी वृत्तिः स्यात्, मम च शापान्तः सवृत्तः, तदिदानीं साधयाम्यहम् इत्युक्त्वा सोऽपि विद्याधरकुमारो भूत्वा नभसा स्वंलोकं गत्वानिजात् पितुः राज्यमवाप। सोऽपि बोधिसत्त्वः तानि रत्नानि विक्रेतुं परिभ्रमन् तत् नगर प्राप,यत्र सा स्त्रीकूपोद्धृता अतिष्ठत्। तत्र कस्याश्चित् वृद्धायाब्राह्मण्यागृहे विजने तानि आभरणानि निधाय स यावदापणम्एति, तावत् तां कूपसमुद्धृतां योषितमद्राक्षीत्। सापि तं पश्यति स्म। ततश्चान्योन्यसम्भाषणादिके कृते सा स्त्री यथाक्रमम् आत्मनः राजमहिषीपार्श्वस्थितिं तस्मै न्यवेदयत्। सोऽपि स्वोदन्तं पृष्टस्तया सरलमतिः तस्मात् खगात् रत्नालङ्करणप्राप्तिवृत्तान्तं तस्यै शशंस, दर्शयामासच वृद्धावेश्मनि तां नीत्वा तत्सर्वम्। सा च गत्वा सत्वरं

स्वस्वामिन्यैराज्ञ्यैतत् जगाद। तस्या एव राज्ञ्यागेहान्तः प्रविष्टेन स्वर्णचूलेन पक्षिणा छलेन पश्यन्त्याः तस्याः सर्वाभरणभाण्डकं हृतम्। तच्चेदानीं स्वपुरप्राप्तंतस्याः स्त्रियःप्रमुखात् निशम्य राज्ञीतं राजानं व्यजिज्ञपत्। राज्ञाचतया कुयोषिता दर्शितं तं बोधिसत्त्वंसाभरणभाण्ड भृत्यैर्बद्ध्वातस्मात् वृद्धागृहात् स्वभवनमानाययत्। ततश्च तद्वृतान्तं परिपृच्छ्यसत्यं मत्वा च तद्वचः, तस्य आभरणादिकंगृहीत्वा तं बन्धनागारे स्थापयामास। स च बोधिसत्त्वः बन्धनक्लिष्टः त भुजङ्गमं सस्मार। सोऽपि स्मरणादेव तमुपतस्थे। दृष्ट्वा च तं विदितवृत्तान्तः सर्पोऽसौ त साधुमभाषत, अहं गत्वा आ शिरसः तं महीपतिं वेष्टयामि, न चतावदह तं मुञ्चामि यावत् त्वयागत्य रक्षाम्यहं सर्पात् भूपतिमिति न वाच्योऽस्मि, त्वयि आगते तेन त्वद्वचसा तं नृपमहं मोक्ष्यामि। मया मुक्तश्च स राजा तुभ्यमर्द्धराज्यं प्रदास्यति इत्युक्त्वास सर्पः सहसागत्यैव फलत्रयमस्य शिरसिकृत्वा राजानं तं वेष्टितवात्! अथहा हा! दष्टो! राजा भुजगेनेति जने समाक्रन्दति स बोधिसत्त्वोऽब्रवीत्, अहंतावत् भुजङ्गादस्मात् राजानं रक्षामि। इति तद्वाक्यं श्रुत्वा अनुजीविभिर्विज्ञप्तः स राजा तं बद्धंबोधिसत्त्वंआनाय्यसर्पाक्रान्तःसमब्रवीत्, यदि मां सर्पादस्मात् त्वं मोचयिष्यसि तदाहं तुभ्यं राज्यार्द्धंदास्यामीति। मन्त्रिणश्चतथेतितमन्वमोदन्त। ततोऽसौ वाढ़मित्युक्त्वा त भुजगमब्रवीत्,मुञ्चैनं राजानमाशु इति। ततः स राजा तेनाहिना मुक्तः तस्मैराज्यार्द्धंददौ। सोऽपि बोधिसत्त्वः तत्क्षणात् राजा

भवत्। सर्पोऽपि क्षीणशापः सद्यो मुनिकुमारो भूत्वासदसि आख्यातस्ववृत्तान्तो निजमाश्रममागत्। एवं शुभात्मनां शुभं निश्चितमेवायाति, पूज्वातिक्रमश्चमहतामेवं शापक्लेशाय भवति,अविश्वासास्पदं स्त्रीणामाशयं प्राणदानोपकारोऽपि न स्पृशति किमन्यत्तासामुच्यते? इति कथामाख्याय स गोमुखः पुनर्वत्सराजसुतायाब्रवीत, देव! पुनर्मुग्धकथां शृणु।

आसीत् क्वचिद्विहारे कश्चित् मूढमतिः श्रमणः। सकदाचित् रथ्यायां भ्रमन् शुना जमुनि अदश्यत। ततश्च स स्वमावासं विहारमागम्य व्यचिन्तयत्,किं ते जानुनि वृत्तमिति प्रत्येकं मां प्रेक्षते,एवमहं कियच्चिरं कियतः प्रत्याययिष्यामि, तदेतमुपायं करोमि, युगपत् सर्वान्बोधयितुमित्यालोच्य विहारोपरि समारुह्य ग्रन्थिमुषलंगृहीत्वा अवादयत्। अथ सर्वे भिक्षवः अकारणमकालेकिं ग्रन्थिं वादयसीति सर्वे आश्चर्य्यबुद्ध्यासम्मिलिताःपप्रच्छुः। सोऽब्रवीत्, शुना मे जानु भक्षितं, तदेकैकस्यपृच्छतवो युष्माकं ब्रूयादिति सर्वे यूयं सङ्घटिताः। तत्सर्वे समं मे जानुं पश्यत इति श्वदष्टं जानु दर्शयन्नब्रवीत्। ते च सर्वे अन्योऽन्यंहसन्तः प्रोचुः कियन्मात्रे अनेन कियान् संरम्भः कृत इति। तदेवं मूर्खः श्रमण आख्यातः, साम्प्रतं मूर्खमृक्कःश्रूयताम्।

आसीत् कस्मिंश्चिज्जनपदे कोऽपि कदर्य्यःमहाधनःमूर्खमृक्कः। स च सभार्य्यःसदा सक्तून् लवणवर्जितान्भुङ्क्ते स्म। कदाचित् स अन्यान्नस्यस्वादं न बुबुधे।

एकदासौ भार्य्यामब्रवीत् क्षीरिणीं, प्रति मे श्रद्ध्वावर्त्तते, त्वं तामद्यमदर्थं पच। सा च तद्भार्य्या तथेति तस्य मुदे क्षीरिणींपपाच।स च सतर्कः गुप्ते अभ्यन्तरे शयने कश्चित् प्राधुणिको दृष्ट्वा मा गच्छेत्इति तस्थौ, प्रोवाच च, त्वामिहोपविश्य रुदती तिष्ठ, यदिकश्चित् सुहृदागत्य महार्त्तांपृच्छेत् तदा स त्वया एवंवाच्यः, यथा मे भर्त्ता मृत इति। ततस्तस्मिन् गते आवाभ्यां सुखेन क्षीरिणीं भोक्तव्या। इत्युक्त्वायावत्रोदितुं प्रवृत्ता,तावदस्य सुहृत् प्रविश्य किमेतदितितामपृच्छत्। तथा भर्त्तायं मे मृतः पश्य इत्युक्तः स व्यचिन्तयत्, क्वेयं सुखिता क्षीरिणों पचन्ती दृष्टा? क्व चाधुनैव अस्याः पतिविना रुजं विपन्नः? नूनं मां प्राघुणिकं दृष्ट्वा आभ्यां मृषा एतत् कल्पितं तन्मया नैव गन्तव्यमित्यालोच्य उपविश्य च स धूर्त्तःहा मित्र! हा मित्रेतिक्रोशन् तत्रावतस्थे। ततश्चान्ये बान्धवाः समाक्रन्द श्रुत्वाप्रविश्य दृष्ट्वा च तं मृतवत् स्थितं श्मशानं नेतुमुद्यताअभूवन्। ततश्चसा तस्य भार्य्या उत्तिष्ठ स्वामिन्। यावदेतैर्नीत्वा त्वं न दह्यसेइति पार्श्वस्थिता कर्णमूले तमवदत्। मैवं, शठोऽयं मे क्षीरिणींभोक्तुमिच्छति, नाहमुत्तिष्ठामि, एतस्मिन्नागते यद्यहं न मृतः, तदायं क्षीरिणीं भुक्त्वापूर्वमेवागमिष्यत्, मादृशां प्रणेभ्योऽपि अर्थसिद्धिर्गरीयसीति तां भार्व्यामनुच्चैः प्रत्यब्रवीत्।ततस्तेन मित्रेण स्वजनैश्चस नीत्वा श्मशानं दह्यमानोऽपि निश्चेष्टःवचनं न ददौ। एवं स मूढ़ोविजहौप्राणान्, न तु

क्षीरिणीम्। तथान्यैस्तस्य क्लेशार्जितं हेलया बुभुजे।श्रुतोऽयं कदर्य्यो जड़ः, साम्प्रतंश्रूयन्ताममी मार्जारभौतकाः।

आसीत् पुरोज्जयिन्यां कोऽपि मुग्ध उपाध्यायः। तस्यनिशि मूषकाणामुपद्रवात् निद्रा नाभवत्।स च खिन्नः कस्मैचित् सुहृदे तदसुखवार्त्तामाख्यत्। स सुहृद् तमुपाध्यायमब्रवीत्, मार्जारं गृहे स्थापय,स तान् मूषकान्खादिष्यतीति। उपाध्यायोऽभ्यभाषत, मित्र! मार्जारः कीदृक्,क्व चास्ते,न मयासौ दृष्टपूर्वः। इत्युपाध्यायेनोक्तःसुहृत् पुनरब्रवीत्,यस्य काचरे लोचने, वर्णःकपिलधूमरः, पृष्ठे च रोमशंचर्म, यश्च रथ्यासु सदा, चरति स मार्जरः,त्वमेभिरभिज्ञानैस्तमन्विष्य आशु आनय मित्र।मार्जारम्।इत्युपदिश्यस सुहृत् स्वं वासमगात्। ततः सजड़ःउपाध्याय निजान् शिष्यान् जगाद, मार्जारानयनाय। ते च एकं रथ्यामुखात् निर्गत काचरनेत्रयुगल धूसरपिङ्गलंपृष्ठोपरि रोमशं सत्त्वमवलोक्य असौ मार्जारः अस्माभिर्यथाश्रुतः प्राप्त इति अवष्टभ्य गुरोरन्तिकं निन्युः। उपाध्यायोऽपि मित्रोक्तैर्मार्जारलक्षणैर्युक्तं तं दृष्ट्वा रात्रौ तत्र मठान्तरे स्थापयामास। सोऽपि गृहानीतो जड़ मार्जारोऽहमस्मीति आत्मानममन्यत। प्रातश्चस सुहृद आगतः वटुंतथास्थितं व्यलोकयत्,अपृच्छच्च, कोऽयमिहानीतइति? उपाध्यायः सशिष्यः प्रत्यवादीत्, कथं त्वत्त एवश्रुतलक्षणोऽयं मार्जारोऽस्माभिरेव इहानीत इति। ततःस हसन्नवादीत्, क्वमूढोमानुषः क्व चातिदुष्टो मार्जार-

श्चतुष्पात् पुच्छवान् इति। तदाकर्ण्यं ते वटुं मुक्त्वामूढ़ा अब्रुवन्, तर्हि पुनस्तादृशं मार्जारमन्विष्यआनयामः।एवमुक्तवतस्तान् सर्वे तत्र हसन्ति स्म। अज्ञातं हि न कस्योपहासाय? मार्जारभौतः कथितः, श्रूयन्तामधुनाअपरे।

आसीत् बहूनां मुग्धानां मध्ये कश्चित् क्वचित् मठे। स कदाचित् केनचित् पठ्यमानात् धर्मशास्त्रात् तड़ागकर्त्तुःसुमहत् फलमश्रोषीत्। ततः स धनाढ्यःतस्मात्मठात् नातिदूरे महान्तंवारिपूरित तड़ागमेकं कारयामास। एकदा स मुग्धवरः तड़ागान्तं गतः केनापिउत्पाटितानि अस्य पुलिनानि व्यलोकयत्। अपरेद्युश्चतथैव स अन्यतस्तस्य तड़ागस्य तटमुत्खातं दृष्ट्वा सोद्वेगमचिन्तयत्, अद्यप्रभृति प्रातरारभ्य इहैव वासरंस्थास्यामि द्रक्ष्यामि च कः करोत्येतदिति पर्य्यालोच्य समठं ययौ। अन्येद्युर्यावदेत्य स तत्रास्ते तावत् दिवोऽवतीर्य्यशृङ्गाभ्यां तटं खनन्तं वृषभमद्राक्षीत्। तञ्च दिव्यंवृषभं दृष्ट्वा किं दिवं यामि अनेन सहेति विविच्यउपेत्यच तत्पुच्छं हस्ताभ्यामग्रहीत्। ततः पुच्छाग्रलग्नं तं भौतमुत्क्षिप्य वेगात् स भगवान् वृषः क्षणेन कैलासंस्वं धामनिनाय। तत्र स भौतो जड़ःदिव्यानि भक्ष्याणि मोदकानि अवाप्य भुञ्जानः कतिचित् दिनानि सुखंन्यवसत्। ततश्च स भौतमूर्खतमः गतागतानि कुर्वन्तंतं महावृषंदृष्ट्वा दैवमोहितः वृषस्यास्य पुच्छलग्नः पुनः स्वंमठं गत्वा तत्र बान्धवान् पश्यामि तेभ्यश्च अद्भुत-

मिदं कथयित्वा पुनरेष्यामीत्यालोच्य तस्य गच्छतो वृषस्यपुच्छमालम्ब्यभूतलमगात्। ततः प्राप्तमठःस भौतः अन्यैस्तत्रस्थैराश्लिष्य क्व गतोऽसीति पृष्टः तं वृत्तान्तं सर्वंतेभ्यः शशंस। ततः सर्वे ते तं प्रार्थयन्ते स्म भ्रातः!प्रसीद, अस्मान् तत्र नीत्वा तानि मोदकानि भोजय इतितदाकर्ण्य स तथेत्युक्त्वायुक्तिमुक्त्वाच अपरेऽहनि तान् तड़ागोपान्तमनयत्, स च वृषस्तत्राययौ। तेषां मुख्यश्च स पाणिद्वयेन तस्य लाङ्गूलं जग्राह। कश्चित् तस्यमुख्यजनस्य चरणौ ततोपरस्तस्य धृतचरणस्य चरणौअग्रहीत्। इत्यन्योऽन्यविलग्नैस्तैर्भौतेर्यावत् शृङ्खला रचिता, तावत् स वृषः जवात् नभ उत्पपात। तस्मिंश्च लाङ्गूलालम्बिभौते वृषभे गते मुख्यभौतं तम् अपरो भौतः पर्य्यपृच्छत् भद्र। परिमाणन्तावदाख्याहि, दिवि यथेष्टसुलभानि यानि मोदकानि भक्षितानि त्वया,तानि किम्प्रमाणानि? ततो दैवमोहात् स तं वृषपुच्छं विमुच्य पद्मकोषाकारौ करौ संश्लिष्टौ कृत्वा यावत् इयत्प्रमाणानीतिवक्ति, तावत् सः अन्ये च सर्वे स्वात् निपत्य पञ्चत्वमापुः।वृषश्चकैलासं प्रायात्। एतदवलोक्य सर्वे हसन्ति स्म।निर्विमर्षा प्रश्नोत्तरक्रिया दोषायैव।श्रुता द्युगामिनोभौताः, अपरोऽपि श्रूयताम्।

कश्चित् भीतःग्रामान्तरं व्रजन् मार्गं विसस्मार।ततश्च पन्थानं परिपृच्छत् स जनैः नदीतटस्थस्य तरोरुपरि वर्त्मना गच्छ इत्युच्यते स्म। ततः स तस्य तरोः पृष्ठं गत्वाआरूढ़ः स मुग्धधीः एतत् पृष्ठेन मे पन्था

जनैरुपदिष्ट इति आलोच्य तस्य पृष्ठेन यावत् गच्छतितावत् तस्य भरातिशयात् पर्य्यन्तवर्त्तिनी शाखा ननाम, सपतन् तामुपालम्ब्ययावत् तस्थौ तावत् तेन पथा आरोहेणोपरिस्थेन नद्यां पीतजलः करी प्रययौ। तमारोहमवलोक्य तरुशाखाग्रलम्बी स भौतःदीनयावाचा महात्मन्! मां गृहाणेतिअभाषत। स हस्त्यारोहःतं भौतं तरोरवतारयितुं उज्झिताङ्कुशः द्वाम्यांपाणिभ्यां यावत् पादयोर्गृह्णाति, तावत् स बारणः त हत्यारोहं त्यक्ता निरगात्। स च हस्तिपकः निराश्रयःतस्य ग्रामभौतस्य वृक्षाग्रलम्बिनः पादौ गृहीत्वा ललम्बे।ततः स भौतः तं हस्त्या रोहं त्वरितमभ्यधात्, यदि जानासि तदा त्वया यत्किञ्चित् गीयतां येन तत् श्रुत्वा जना इतः समागत्य नी अवतारयेयुः। अन्यथा पतितावावां नदीयमधस्तात् नयेत्। एवमुक्तः स गजपालः तथामञ्जु, जयौ यथा स एव भीतः अत्र परितोषमगात्। तथास्वामवस्थां विस्मृत्य साधुवादं दत्त्वा त्यक्तपादपशाखःद्वाभ्यांहस्ताभ्यां छोटिकां दातुं प्रावर्त्तत, व्यपद्यत च तत्क्षणात् हस्त्यारोहसहितः पतन् नद्याम्। मौर्खः सङ्गी हि कस्य शर्मणे? इति कथामाख्याय स गोमुखः वत्से श्वरसुताय हिरण्याक्षकथामिमामाचख्यौ।

अस्ति हिमवतःकुक्षीकश्मीर इति पृथ्वीशिरोमणिःविद्याधर्मैकनिलयो महान् जनपदः। तत्रासीत् हिरण्युरं नाम नगरम्। तस्मिंश्च कनकाक्षइति राजा बभूव। तस्य भूपतेः रत्नपभाख्यायां महिष्यां शङ्करा

ग्रहेण हिरण्याक्ष इति पुत्रो जज्ञे। स कदाचित् राजसुतःपथि गुलिकया क्रीड़न कयाचित् गुलिकया तेन मार्गेणआयातां तापमोमेक्रामताड़यत्। सा तापसी जितक्रोधाविहस्य तं राजपुत्रंहिरण्याक्षमब्रवीत् राजपुत्र। स्वयौवनमात्रेण ते ईदृक् दर्पः, यदि तां मृगाङ्गलेखामाप्नोषि तदा कीदृशो भवेत्। तदाकर्ण्य तां तापसींप्रसाद्य स राजसुतः पर्य्यपृच्छत्, भगवति। कैषा मृगाङ्गलेखा? त्वया कथ्यतामिति। ततस्तं सा प्रत्यवादीत्,अस्ति शशितेजा इति विश्रुतः महायशा विद्याधरपतिर्हिमाचले। तस्यैव मृगाङ्गलेखानाम्नी कन्यकास्ति।सा रूपेण खेचराणां निशासु उन्निद्रकौमुदी।सैव तेअनुरूपाभार्य्या,त्वञ्च तस्याः सदृशःपतिः। एवमुक्तस्तापस्या सः हिराण्याक्षःपुनरब्रवीत्,भगवति। कथं सामया प्राप्या,तदपि कथयित्वा अनुगृह्यताम्।तन्निशम्यसा योगेश्वरो हिरण्याक्षप्रत्यभाषत,वत्स! गत्वाहमितःतत्रत्वत्कथाप्रसङ्गात् तदाशयम् उपलप्स्ये,ततश्चागत्यअहमेव तत्र त्वां नेष्यामिlइह यः अमरेशाख्यःदेवोऽस्ति तत्केतने त्वया प्रातरागन्तव्यम्, अहं तमर्च्चयितुंनित्यमागच्छामि। इत्युक्त्वासा तापसी सपदि स्वां सिद्धिमाश्रित्य तस्या मृगाङ्कलेखायाः समीपं प्रायात्।तत्र च तस्यै हिरण्यक्षस्य गुणान् तथा शशत, यथा सादिव्यकन्या श्रुत्वेव तामुवाच भगवति। यद्यहं तादृशंभर्त्तारं न लप्स्येतदा निष्फलेन जीवितेन किं मे कार्य्यमित्युक्त्वासञ्जातमदनावेशातत्कथाभिरेव दिवसं नीत्वा

सा मृगाङ्कलेखा तयैव तापस्या सह निशामुवास।तावच्चस हिरण्याक्षोऽपि तच्चिन्तयैव नीतदिवसः सुप्तःकथञ्चित् स्वप्ने गौर्य्यानिशाक्षये अभिदधे,वत्स ! त्वंविद्याधरः मुनिशापेन मर्त्यतां नीतः अस्याश्चतापस्याःकरसंसर्गात् ततः शापात् मोक्ष्यसे, ततश्च तां मृगाङ्कलेखामाशुपरिणेष्यसि,नात्र चिन्ता कार्य्या,सा हि ते पूर्वभर्य्या,इत्याख्याय सा देवी तिरोदधे।साऽहि च प्रबुध्य प्रातरुत्थाय स्नानादिकं मङ्गलं चकार। ततः सः अमरेशस्य देवस्य निकेतनं गत्वा तं प्रणम्य तापस्या आदेशेन तस्थौ।

अत्रान्तरे च कथमप्याप्तनिद्रां मृगाङ्कलेखां गौरी तथैव स्वप्ने समादिशत, वत्से !साम्प्रतं तापस्याः करस्पर्शेन क्षीणशापं पुनर्विद्याधरत्वमाप्तंहिरण्याक्षं पतिमाप्स्यसि,अलमुद्वेगेन,इत्युक्त्वान्तर्दधे। सा च मृगाङ्कलेखा प्रातः प्रबुध्य तस्यै तापस्यै तं स्वप्नवृत्तान्तंसर्वमशंसत्। सासिद्धयोगिनी श्रुत्वेव तत् भूलोकमागत्य अमरेशस्य क्षेत्रेस्थितं हिरण्याक्षंतमभ्यभाषत, एहि पुत्र! विद्याधरलोकम् इति उक्त्वाकरेण त प्रणमन्तं समादाय नभःसमुत्पपात। ततश्च स हिरण्याक्षः,स हिरण्याक्षः, विद्याधरेश्वरोभूत्वा पापक्षयात् स्वां जातिं स्मृत्वा तां तापसीमवादीत्, भगवति! हिमाद्रौ वस्त्रकूटाख्येपुरे मां विद्याधराणमधिपतिम् अमृततेजसं नाम विद्याधरं जानीहि।सोऽहं पुरा मुनेः कस्यापि उल्लङ्घनात् शापं प्राप्य मर्त्त्ययोनिं तत्करस्पर्शान्तमध्यगच्छम्। शप्तस्य च मे तदा भार्य्या

दुःखात् तनुमजहात्। सैषा मृगाङ्कलेखा मे पूर्वप्रियाअद्य जाता, इदानीञ्च त्वत्साहाय्येन गत्वा तां प्राप्स्यामि,त्वत्करस्पर्शेन च सोऽद्य मे शापो विगतः, इति ब्रुवन् तयासाकं गगनेन सः अमृततेजास्तं हिमाद्रिंजगाम,ददर्शच तत्र उद्यानस्थितां मृगाङ्कलेखाम्।सापि तया तापस्यायथोदितं तथायातमपश्यत्।चित्रं प्रथमं तौ श्रुतिपथेनअन्योऽन्यमानसं प्रविष्टौ, ततोऽनिर्गत्यापि दृष्टिमार्गेणपुनः प्राविशताम्। विवाहसिद्धये त्वयैव त्वत्पित्रे इदमावेद्यतामिति सा मृगाङ्कलेखा तथा प्रौढ़या तापस्याजगाद। ततः सा लज्जावनतमुखो निजं पितरं गत्वासखीमुखेन तत् सर्वं तत्क्षणं ज्ञापयामास। सोऽपिस्वप्ने गौर्य्यादिष्टः तं खेचरेश्वरमानीय स्वभवनं सम्मान्यच तस्मै अमृततजसे मृगाङ्कलेखां यथाविधि ददौ। स चकृतोद्वाहः वज्रकूटाख्यं स्वं नगरं प्रायात्। तत्र चामृततेजाः पुनः सभार्य्यकं राज्यं प्राप्य सिद्धतापस्या तयाआनीतं तं मर्त्यपितरं कनकाक्षंभोगैरभ्यर्च्य पुनर्भूतलं प्राप्य च तथा मृगाङ्कलेखया सुचिरं स्वां समृद्धिं बुभुजे।तदेवं जगति यस्य जन्तोर्यत् पूर्वकृतं तदवश्यमेव भवितव्यम्। एवं गोमुखमुखादाकर्ण्य कथां शक्तियशसि समुत्सुकोऽपि युवराजः कथमपि मनसो धेर्य्यमधात्, अभजतशयनम्, अगमच्चनिद्राम्।

अथ षट्षष्टितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172201389836.jpg"/>

अथान्येद्युःपुनर्निशिस गोमुखः नरवाहनदत्तायविनोदयन् कथामेतामवर्णयत्। पुरा कश्चित् धनेश्वराख्येशैवे क्षेत्रे बहुशिष्यपरिवृतः कोऽपि महर्षिः प्रतिवसतिस्म। स कदाचित् शिष्यानब्रवीत्, वत्साः। यदि युष्मासुकेनचित् किञ्चिदपूर्वमीक्षित श्रुतं वा तन्निवेद्यतामिति।तेष्वेकः शिष्यस्तमभ्यधात्, गुरो! मया यदपूर्वं श्रुतंतन्निशम्यताम्।

अस्ति काश्मीरेषु विजयाख्यंशाम्भवं महाक्षेत्रम्।तत्र कश्चित् विद्याभिमानी प्रव्राजकः प्रतिवसति स्म।स सर्वत्र जयी भूयासमित्याशंसन् शम्भुं प्रणम्यवादाय समन्तात् प्रतस्थे, पथि क्रमेण वनानि नदीगिरींश्चातिक्रामन् कामपि अरण्यानीं प्राप्य परिश्रान्तः तरोस्तले विशश्राम। एतस्मिन्नन्तरे तत्र कश्चित् धार्मिकः समाययौ। तमागतं दृष्ट्वा तेन प्रव्राजकेन वृत्तान्तं परिपृष्टः स धार्मिकः तमवादीत्, ब्रह्मन्! अहं विद्याक्षेत्रात्पाटलिपुत्रादागतः साम्प्रतं कश्मीरेषु तत्रत्यान् पण्डितान्वादेन जेतुं व्रजामि। तच्छ्रुत्वा स परिव्राड़चिन्तयत्,यदीहत्रयमेको मया न जीयते तदाहं पाटलिपुत्रे गत्वातत्रत्यानन्यान् बहून् कथं जयेयम्? इत्यालोच्य स प्रव्राट्

तं धार्मिकमाक्षिप्य आह स्म,धार्मिक! कथमिदं तेविपरीतं चेष्टितं, त्वंदृश्यसे धार्मिको मुमुक्षुः, वादव्यसनेन ते किम्? वादाभिमानेन संसारबन्धात् मोक्तुमिच्छसि? अग्निना उष्माणंशमयसि? हिमेन च शीतंनिवारयसि? पाषाणेन च महोदधिं तितरिषसि? वातेन च ज्वलन्तमनलं निर्वापयितुं काङ्क्षसि? क्षमा नाम ब्राह्मं शीलं, मुमुक्षूणां शम एव शीलं, कलहन्तु राक्षसं शीलमित्याहुर्मनीषिणः। तस्मात् मुमुक्षुणा निरस्तद्वन्द्वदुःखेनसंसारक्लेशभीरुणा शान्तेन दान्तेन च भवितव्यं, शमकुठारेण इमं भवतरुंछिन्धि, इमं हेतुवादाभिमानसलिलैर्मा सिञ्च। इत्युक्तस्तेनासौ धार्मिकः परितुष्टस्तं प्रणम्य त्वं मे गुरुरिति वदन् यथागतमगमत्।

ततश्चासौ प्रव्राट् तत्रैव तरुतले स्थितः तरोरभ्यन्तरात्भार्य्यया सह क्रीड़तः कस्यचित् यक्षस्य आलापमशृणोत्।स प्रव्राट् यावत् तयोर्वचसि कर्णं ददाति तावत् स यक्षःपुष्पदाम्ना तां भार्य्यांनर्मणा अताड़यत्। सापि शठा तावतैव आत्मानं मृतकल्पं कृत्वा मृषा तस्थौ। तत्परिजनश्च तदवलोक्य महान्तमाक्रन्दमकरोत्। चिरादागतसंज्ञा च सा दृशौ अमीलयत्। ततः स पतिर्यक्षः किं त्वया दृष्टं दृशीमुकुलयन्त्या इति तामप्राक्षीत्।अथसा मिथ्यैवाब्रवीत् त्वयाहं यदा मालया ताड़िता, तदाहमेकमागतं कृष्णं पाशहस्तं ज्वलन्नेत्रं प्रांशुशिरोरुहंभयङ्करं पुरुषमैक्षम्। तेन च दुष्टेनाहं यमसदनं नीता, त्याजिता च तत्रत्यैरधिकारिभिस्तं निवार्य्य। इमं तया

यक्षिण्या कथितोऽसौ यक्षः हसन् तामवादीत्, अहो।विनेन्द्रजालं स्त्रीणां चेष्टितंनैव विद्यते,क्वकुसुमाघातात्मृत्युः, क्व वा यन्त्रालयात् प्रत्यावृत्तिः? मूढ़े! पाटलिपुत्रस्त्रीणां वृत्तान्तस्त्वया अनुक्रियते। तस्मिन् नगरे यः सिंहाक्षो नाम राजास्ति, एकदा तद्भार्य्या मन्त्रिपुरोहितभिषजां बधूभिः सह शुक्लपक्षे त्रयोदश्यां सरस्वतींद्रष्टुमगात्। तत्र मार्गवशात् मिलितैरन्धकुब्जपङ्गुभिर्व्याधितैस्ताः सर्वाः राजमहिषीप्रमुखा अङ्गना अयाच्यन्त,भो! रोगातुराणामस्माकम् औषधं प्रयच्छत, येन वयंरोगात् मुच्यामहे, आर्त्तानां नः अनुकम्पां कुरुध्वम्, अयं हि जीवलोकःसमुद्रलहरीलोलः विद्युदिव चञ्चलः, अस्मिंश्चयात्राद्युत्सवः क्षणभङ्गुरः। तदसारेऽत्र संसारेदीनेषु दया, दरिद्रेषु च दानं सारम्। गुणवान् क्व नजीवति।आढ्यस्य सुखितस्य च दानेन किम्? शीतालोः शशाङ्केन किम्? हिमागमे च घनेन किम्? तदेतान्नः महापदः समुद्धरत। इत्थमुक्तास्ताः, अन्योऽन्यं समब्रुवन्सुष्ठ उपपन्नश्चामी व्याधिता जल्पन्ति, तदेषां चिकित्सितंसर्वस्वेनापि कर्त्तव्यम्। एवं ताः समालोच्य ता योषितः देवीमवलोक्य तान् व्याधितान् स्वं स्वं भवनं निन्युः।कारयामासुश्चस्वेन स्वेन भर्त्रातेषां यथोपयुक्तैरौषधैश्चिकित्साम्। यावच्च ते चिकित्स्यन्ते स्म तावत् तास्तदन्तिकात् नोत्तस्थुश्च। इत्थं तेषां सहवासात् उद्भूतमन्मथास्ताः तैस्तथा सङ्गं ययुः, यथा संसारं तन्मयमेव ददृशुः।क्व रागिणस्ते कृपणाः, क्व च तादृशा महान्तो

नृपप्रभृतयो भर्त्तारः, इति तासां मन्मथान्धंमनः न व्यमृषत्। ततश्च क्रमेण तासां पतयः ता असम्भाव्यरोगिसम्भोगसम्भवैर्नखदन्तक्षत्तैः युक्ताः पश्यन्ति स्म। अथते भूपालमन्त्रिसेनापतिप्रभृतयः परस्परं ससन्देहास्तदाचख्युः। राजाब्रवीत्, यूयं साम्प्रतं तिष्ठत, अहमद्य स्वांमहिषींयुक्त्या पृच्छामि। इत्युक्त्वा स नृपतिस्तान् विसृज्यगृहं प्रविश्य च स्नेहं भयञ्चप्रदर्शयन् भार्य्यामपृच्छत्, प्रिये! केनायं ते अधरो दष्टः? केन वा स्तनौ क्षतौ? सत्यमाख्यासि चेत् श्रेयस्ते भविता, नान्यथा। इत्युक्ता तेनराज्ञीसा देवी कृतकमभ्यधात्, देव! अवाच्यमपिअधन्याहं यदाश्चर्य्यंप्रब्रवीमि तदाकर्णय।

नाथ! चित्रभित्तेरितः रजन्यां कश्चित् चक्रगदाधरःपुमान् निर्गत्य मामुपभुङ्क्ते, प्रातश्चात्रैव लीयते। यदङ्गं मे सूर्य्यचन्द्राभ्यामपि न दृष्टं कदाचित्, तदिदम् एतावदवस्थं क्रियते तेन त्वयि स्थितेऽपि। एतत् तस्याः सदुःखाया इव वक्षःसमाकर्ण्य नृपो मूढ़ःवैष्णवीं मायामाशङ्क्यतथैव प्रतीयाय, शशंस च तेभ्यः स्वमन्त्रिप्रभृतिभ्यःतं वृत्तान्तम्। तेऽपि जड़ास्तथा अच्युतोपभुक्तां स्वां स्वांभार्य्यांमत्वा श्रद्दधानास्तूष्णीमभवन्। इत्येवम् असाध्यसाधनक्षमा एकवचनाश्चतस्रः कुस्त्रियः जड़मतीन् वञ्चयन्तिस्म, नाहं तादृशोमूर्खः। इति तां भार्य्यांब्रुवन् यक्षस्तांविलक्षीचकार। एतत् सर्वं स तरुतलस्थितः प्रब्राट्श्रुत्वा कृताञ्जलिः तं यक्षंव्यजिज्ञपत्, भगवन्! तवाश्चमाश्रमप्राप्तोऽहं शरणं त्वां प्रपन्नः। यदहं त्वद्वचः श्रुत-

वान् तं मे अपराधं क्षमस्व इति। अथ स यक्षस्तं सत्यवादिनं प्रति तुतोष उवाच च अहं सर्वस्थानगवातो नामयक्षः तुष्टोऽस्मि ते, गृहाण वरंमत्त इति। प्रब्राडब्रवीत,भगवन्। अस्यां स्वभार्य्यायां त्वया मन्युर्न कार्य्य इत्येष मे वरोऽस्तु इति। ततः पुनर्यक्षोऽवादीत्, वत्स! तुष्टोऽस्मि ते नितरां, तदेष ते वरो मया दत्तः, अपरो ब्रियतामिति।ततः परिव्राजकः प्राह स्म, भगवन्! अद्य प्रभृति युवांदम्पती पुत्रं मां जानीतम् इत्यपरो मे वरः। एतत् श्रुत्वास यक्षः सभार्य्यःतत्क्षणं प्रत्यक्षीभूय तमब्रवीत्, वाढ़ त्वमावयोः पुत्रः, आवयोः प्रसादात् च तव क्वचिदपि विपत्न भविता, विवादे कलहोदयुक्ते विजयी च भविष्यसि।इत्युक्त्वाअन्तर्हित यक्षं स प्रणम्य ताञ्च रात्रिमतिवाह्य तत्पाटलिपुत्रं नगरम् आययौ,आगत्य च द्वास्थमुखेनमिहाक्षनृपतेः सकाशे कश्मीरादागतमात्मान न्यवेदयत।ततश्चानुज्ञातप्रवेशः स नृपतिना सभां प्रविश्य तत्रस्थितान्पण्डितान् वादाय आचिक्षेप। जित्वा च तान् सर्वान्वादेन, राजाग्रे तेषामीदृशमाक्षेपमकार्षीत्, भवन्तः शृण्वन्तुमे पूर्वपक्षम्। चित्रभित्तिं भित्त्वां कश्चित्चक्रगदाधरःपुरुषःमां दष्टाधरौष्ठीं नखक्षतस्तनाञ्च कृत्वा रात्रौ उपभुङ्क्ते, प्रातश्च तत्रैव लीयते। इत्येष मे प्रश्नः, किमत्र तात्पर्य्यमुच्यताम्। एतदाकर्ण्य सर्व एव बुधाः प्रतिवचो नददुः परमार्थमजानन्तः, केवलमधोमुखा एव तस्थुः। ततोराजासौ सिंहाक्षः स्वयमेव तमभ्यधात्, ब्रह्मन्। यदेतदुक्तं भवता, तत् स्वयमेव व्याख्याहि। एतदाकर्ण्यस प्रवाट्

तस्मै राज्ञेस्वैरमशंसत् तत्, यत्तेनयक्षमुखात् तदुभार्य्यायाःचरित श्रुतम्। तत् कदाचन पापाभिः स्त्रीभिः सङ्गं नकुर्य्यात्। स तु राजा बुद्ध्वातदा तस्य तत्त्व सन्तुष्य च तस्मैपरिव्राजकाय निजं राज्यं दातुमियेष। स तु प्रव्राट् स्वदेशैकरतः यदा तत् ग्रहीतुंनैच्छत् तदा राजा त रत्नसञ्चयेन सम्मानयामास। ततश्च स प्रवाट् गृहीतरत्नचयः सत्वरं स्वान् देशान् कश्मीरान् प्रत्याजगाम। तत्र च यक्षप्रसादेन दैन्यरहितः सुखितश्च तस्थौ। इति स शिष्यस्तंमहामुनिमाख्याय पुनरभाषत, अह तस्मात् प्रव्राजकादेतत्सर्वमश्रौषमिति। ततः स मुनिरन्येन शिष्येण सहितः चिरंसुविम्मितोऽभवत्। इत्याख्याय गोमुखो मन्त्री पुनर्वत्सेश्वरसुत नरवाहनदत्तमब्रवीत्, देव! एवं हि स्त्रीणां वेधसश्चविचित्राणि चरितानि कोऽवगन्तुमीष्टे? साम्प्रतमियम् एकादशमारिका कापि नारी श्रूयताम्।

कश्चित् पुमान् मालवे ग्रामवासी आसीत्। तस्य द्वित्रिपुत्रकनीयसी एका दुहिता उदपद्यत। तस्यां जातायामेव तस्य भार्य्या ममार। ततोऽन्यैः कतिपयैर्दिवसैस्तस्यैकश्च पुत्रः व्यपद्यत। ततश्च तस्य भ्राता वृषशृङ्गेणाहतोममार। इत्थंस गृही तां कन्यां त्रयोऽनया जातमात्त्रया मारिता इति त्रिमारिकां नामाकरोत्। कालेन तांयौवनस्थां तद्ग्रामवासी कश्चित् धनिकुमारः भार्य्यार्थे तत्पितरमयाचत। पिता च तां तस्मै यथाविधि प्रादात्। तत्र सा तेन भर्त्त्रासह कमपि कालम् अरंस्त। अचिराच्चतस्याः स भर्त्ता पञ्चतामगात्। ततः अल्पीयसैव

कालेन सा चपला कमपि यतिमग्रहीत्। सोऽपि नचिरादेव तत्संसर्गात् व्यपद्यत। ततः सा यौवनोन्मत्तातृतीयं पतिमकार्षीत्। सोऽपि तस्याः पतिघ्न्याःपतिरल्पेनैव कालेन मृतः। इत्थंक्रमेण तस्यादश पतयोविपेदिरे। ततो लोकैर्हसद्भिः सा दशमारिकेति हूयतेस्म। केचन तां डाकिनीं भर्त्तृभक्षकामाह्वयन्ति स्म।अथ सा पित्रा ह्रीतेन अन्यभर्त्तृवरणात् न्ववार्य्यत। साजनैवर्ज्यमाना केवलं पितुर्गृहे एव तस्थौ।कदाचित्कोऽपि रम्याकृतिः पान्थस्तत्रागतः। एकरात्रनिवासार्थञ्चतत्पित्रा सः अनुमतः। सा दशमारिणी तं दृष्ट्वा तद्गतमनाः समभवत्। स च पान्थस्तां तरुणीं दृष्ट्वा तत्राभिलाषुकः संवृत्तः। ततः सा कामार्त्ता पितरमभ्यधात्,तात! इममेकं पान्थंपतिमहं वृणोमि, एष चेत् विपत्स्यते ततो निवर्त्त्यास्मात् व्यापारात् व्रतं ग्रहीष्ये। एवंसा शृण्वति पान्थेतां ब्रुवतीं पितावदत्, मा तावत् पुत्रि!महतीलज्जा मम जाता, दश ते पतयो मृताः। तदेतस्मिन्नपि विपन्नेसर्वे हसिष्यन्ति जड़मतयः। तदाकर्ण्य सपथिकस्त्रपां त्यक्त्वानिजगाद, नाहं म्रिये, ममापिदश भार्य्याः क्रमात् मृताः। सत्यं शपामि धूर्जटेः पादस्पर्शेन। इति तेन पान्थेन कथिते कस्तत्र नाचित्रीयत?ततः सर्वैर्ग्राम्यैर्मिलितैरनुमतया तया दशमारिकया सपान्थःपतिर्जगृहे। यावत् तेन सह सा कमपि कालंतिष्ठति तावत् सोऽपि शीतज्वराक्रान्तः क्षयमगात्।ततः साः एकादशमारिका ग्रावणामपि हासमजनयत्।

उद्विग्ना च गङ्गातटमेत्य प्रव्रज्यां सा शिश्रिये। इति सगोमुखः वत्सराजसुतमाख्याय भूयः कथामन्यामब्रवीत्,शृणु देव। इमां दान्तजीविनः कथाम्।

अभवत् क्वचिद ग्रामे कश्चिद् दरिद्रः पुमान्। तस्यएक एव बलीवर्द्दोधनमासीत्। स कदाचित् संस्तरेपतितो धनकान्यया निराहारस्तपश्चचार। अथ तपसा पीता देवी स्वप्नेतमादिदेश, उत्तिष्ठ वत्स! एको बलीवर्द्दस्तेगृहे धनमस्ति तमेव विक्रीय त्वं सदा सुखं जीविष्यसीति।ततः प्रातः स प्रवृत्यसमुत्थाय पारणं किञ्चित् य कृत्वा गृहमाययौ। आगत्यापि स अस्मिन् विक्रीते निरवोऽहं नैव कदाचन वर्त्तेय इति विविध तमुक्षाणंविक्रेतुंनैव शशाक।अथ कश्चित् सुहृत् श्रुतदेवीस्वप्नवृत्तान्तःतमुपवासकृशमव्रवीत्, मूढ़!एक एव ते दान्तोऽसि त विक्रीय सर्वदा जीविष्यसीति देव्योक्तंतत्त्वया न कृतं, तदेनंविक्रीय कुटुम्बकं परिपालय।ततस्तेअन्यः बलीवर्द्दःभविता, ततश्चान्य इति तेनमित्रेण हितैषिणाकथितः स ग्रामीणस्तथैवरात।इत्थमेकैकमुक्षाणंविक्रीय स सततं सुखेन जीवति स्म। इत्थंसर्वस्य विधिस्तत्त्वानुसारतः फलेत्, तत् सुसत्त्वेन भवितव्यं, सत्त्वहीनं हि नैव श्रियो वृणते। देव! श्रुणु साम्प्रतम्आलोकमन्त्रिणः कस्यचित् धूर्तस्य अन्यांकथाम्।

आसीत् कोऽपि नृपतिर्दक्षिणापथे नगरे।तस्यराष्ट्र कोऽपि परवञ्चनजीवी धूर्त्तः प्रतिवसति स्म। सः

चैकदा महेच्छत्वात् असन्तुष्टौव्यचिन्तयत्, ईदृशेन धूर्त्तत्वेन किं मे,केवलमाहारादिकमनेम सम्पद्यते, तद्यथा महतीश्रीः प्राप्येत तथा कथं न क्रियते?इत्यालोच्य स उदारं बणिग्वेशं कृत्वा महीपतेर्द्वारं गत्वा प्रहीहारमुपासर्पत् तन्मुखेन च विज्ञाप्य राज्ञानुमतःप्रविश्याभ्यन्तरं प्राभृतं दत्वा, अस्ति कापि विज्ञप्तिरेकान्ते,इति राजानं व्यजिज्ञपत्। राज्ञा च प्राभृतेन वेशेन चावर्जितेन तथेति स मनुज्ञातः स एकान्तंगत्वा तं नृपं न्यवेदयत्,प्रभो! दिने दिने सभां हित्वा मया सह एकान्तेक्षणमेकं कथालापं करोतु देवः। अहं प्रतिदिनं दीनारशतपञ्चकम् उपायनं देवाय दास्यामि न च किञ्चनअर्थये। तदाकर्ण्य राजाचिन्तयत्, को दोषः, किं वायंमे गृहीत्वा यास्यति, यदि दीनारान् एतान् प्रत्यहंदास्यति, तदा महता अनेन वणिजा भवितव्यं, कात्र मम त्रपा इति समालोच्य तथैष प्रतिपेदे। सोऽपि धूर्त्तस्तस्मै राज्ञे तान् यथोदितान् दीनारान् प्रत्यहंददातिस्म। लोकाश्च तं महामन्त्रिपदे अधिष्ठितममन्यत।

कदाचित् स धूर्त्तःमुहुर्नियोगिनः कस्यापि मुखंसाकूतं पश्यन् राज्ञा समं कथां चक्रे। अथ वहिर्निगतःसः तेन अधिकारिणा समेत्य मुखालोकनकारणं पृष्टःतं मृषा स्वैरमभाषत, अनेन मे देशोलुण्ठितः, अतस्त्वयिनृपः कुपितः, तेन चाहं तव मुखं व्यलोकयम्, अहन्तु तंतस्य कोपं शमयिष्यामि। इति तेनालीकमन्त्रिणा कथितःस गृहमगात्, आगत्य च गृहात् सत्त्वरं तस्मै धूर्त्ताय

स्वर्णसहस्रमदात्। अन्येद्युश्चस धूर्त्तः राज्ञा समं कथांकामपि कृत्वा वहिर्निर्गतः समीपमागतं तम् अधिकृतमब्रवीत्, युक्तियुक्तैर्वाक्यैर्मया राजा ते प्रसन्नीकृतः,त्वमिदानीं धीरो भव, अहं ते सर्वच्छिद्रेषु रक्षकः। इतियुक्त्या स्वीकृत्य तं गृहं व्यसर्जयत्। इत्थं स अधिकारीतैस्तैरुपचारैस्तं धूर्त्तमुपाचरत्। एवं स धूर्त्तः सुबुद्धिः क्रमेण सर्वेभ्यो नियोगिभ्यः सामन्तेभ्यः राजपुत्रेभ्यः अन्येभ्यश्च सेवकेभ्यः सुयुक्तिभिर्बह्वीभिस्तथाअर्थानाजहारयथा अचिरेणास्य पञ्चकोटिः सुवर्णानां धनमभवत्।

अथैकदा स धूर्त्तमन्त्री रहसि राजानमब्रवीत् देव! नित्यं ते दीनारशतपञ्चकं दत्त्वापि त्वत्प्रसादात् मयापञ्च काञ्चनकोटयः प्राप्ताः। तत् प्रसीद, गृहाणैतत् स्वंस्वर्णं, अहमत्रकः? इत्युक्त्वास्वकृतं कपटं तस्मै राज्ञे न्यवेदयत्। राजापि सन्तुष्टः कृच्छ्रात् तस्य धनादर्द्धंजग्राहस्थापयामास च तं महामन्त्रिपदे। सोऽपि धूर्त्तः श्रियं प्राप्यजनान् भोगैरमानयत्। एवं प्राज्ञो महतोऽपि अर्थान्नातिपापतः प्राप्नुवन्ति, प्राप्ते च फले कूपखानकवत् दोषंजहाति च। इत्युक्त्वागोमुखः पुनर्वत्सराजसुतमब्रवीत्,देव! इदानीमपरां कथां निशामय।

आसीत् पुरातिदुर्मदः अरातिकरीन्द्रकुलकेशरी बुद्धिप्रभो नाम नृपतिः। तस्य रत्नाकराख्यं नगरम्। कदाचित्रत्नरेखाख्यां राजमहिष्यां तस्य कन्यैका हेमप्रभा नाम सर्वलोकसुन्दरी उदपद्यत। सा तु विद्याधरी शापादवतीर्णा मर्त्यलोकम्। तां नभोविहारसंस्कारमदात् दोलया

क्रीडन्तीं माता न्यवारयत्, पर सा तद्वचनं न शुश्राव। ततस्तस्याः पिता कुपितस्तस्यैचपेट ददौ। अथ सा अवमानिता राजपुत्री वरार्थिनी विहाग्व्यपदेशेन वहिरुपवनमगात। तत्र सा पानमत्तेषु भृत्येषु इतस्ततः सञ्चरन्तीवृक्षगहनं प्रविश्य तेषां दृष्टिपथात् ययौ। गत्वा च एकाकिनी दूरं वन विरचितोटजा फलमूलाशिनो हराराधनतत्परा तपश्चचार। तत्पितापि स राजा क्वापि गतांविदित्वा समन्तात् अन्वियेष न च प्राप, प्राप च महत्दुःखम्। अचिराच्चस दुःखं विनोदयन् मृगयायैवनमगमत्। तत्र च मृगमन्विच्छन् भ्रमंश्च सहसा सुन्दरं वनान्तरमाससाद, यत्र सा हेमप्रभा तपस्यन्तीव्यतिष्ठत। राजातत्रोटजं दृष्ट्वातदन्तरमभ्येत्य अशङ्कितस्तां तपस्यन्तींनिजां सुतामद्राक्षीत्। सापि दृष्ट्वा तस्यपादयोरपतत्।पिता तामालिङ्ग्यसाश्रुरङ्केन्यवेशयत्। तौ चान्योऽन्यंदृष्ट्वातथा रुरुदतः, यथा तत्रत्या मृगा अपि उदश्रवोऽभवन्। ततः क्रमेण समाश्वास्य राजा तां सुतामवदत, मातः! त्यक्त्वा राजश्रियं त्वया किमिदं कृतम्?तदेहि जननोपार्श्वं, वनवासमिमं त्यज। इतिवादिनं पितर सा हेमप्रभावदत्,तात! दैवेनात्र नियुक्तास्मि, कात्र मम शक्तिः? नाहमधुना भोक्तुंगृह गमिष्यामि, नापि तपःसुखं त्यक्ष्यामि।इत्येवं सा यदा तस्मात् निश्चयात् न चचाल, तदा राजातत्रैव वने तस्याः स्नेहात् मन्दिरमकारयत्। ततश्चराजधानीं गत्वा प्रत्यहं तस्या अतिथिमपूजार्थं पक्वान्नानिधनानि च प्रेषयामास। सा तु हेमप्रभा तत्र धनैरन्नैश्चा-

तिथीन् पूजयन्ती स्वयं मूलफलाशना एव तथैवासीत्।

एकदा कापि कौमारब्रह्मचारिणी प्रव्राजिकाभ्राम्यन्ती तस्या राजपुत्र्यास्तमाश्रममाययौ। सा हेमप्रभया तथा ब्रह्मचारिण्या अभ्यर्थिता प्रव्रज्याकारणश्च पृष्टा बालब्रह्मचारिणी समभ्यधात्, अहं पितुश्चरणौसंवाहयन्ती निद्राकुला सीदत्करयुगा आसम्। किं निद्रासीति पादेन पित्राहताहं तन्मन्युना गृहात् निर्गत्यप्रव्रजितास्मि। इति वादिनीं तां प्रब्राजिकां हेमप्रभा समानशीलसम्प्रीतां वनवाससखीमकरोत्।

एकदा सा तां सखीं प्रव्राजिकां प्रातस्वोचत्, सखि! अद्य स्वप्नेऽहमद्राक्षमात्मानं विपुलां नदीमुत्तीर्णम्।ततः श्वेतं गजं तदनु पर्वतमारूढ़ास्मि, तत्र चाश्रमे भगवान् भवानीपतिर्मया दृष्टः, तदग्रतश्च संप्राप्य गायन्तीवीणामवादयम्। ततश्च दिव्याकारमुपागतं पुरुषमेकमपश्यम्। तं दृष्ट्वा च तेनैव साकमहं नभ उत्पतितास्मि। एतावद् दृष्ट्वा प्रबुद्धास्मि, यामिनी च व्ययासीत्। एतदाकर्ण्यैव सा सखी तां हेमप्रभामवादीत्, कल्याणि! कापि त्वं दिव्या ध्रुवं शापावतीर्णा, स्वप्नश्चायं ते प्रत्यासन्नंशापान्तं वदति। एतत् श्रुत्वा सा राजपुत्री सखीवचः समभ्यनन्दत्। ततो जगद्दीपे भूयिष्ठमुदिते सहस्रभानौ कोऽपिराजसुतः सहसा तुरगारूढ़स्तत्रागात्। स तां तापसीवेशांहेमप्रभां दृष्ट्वा सञ्जातप्रीतिर्बाहनं मुक्त्वासमुपेत्य ववन्दे।सापि तम् आतिथ्येनाभ्यर्च्य समुपजातप्रणया पप्रच्छ, महात्मन्! को भवान् इति। सोऽपि राजपुत्रः प्रत्यभाषत।

अस्ति प्रतापसेन इति प्रख्यातनामा महाभागः पुण्यकीर्त्तिः कोऽपि महीपतिः।स तपस्तप्यमानः पुत्रार्थंहरमाराधयामास। तेन च देवेन प्रसन्नेन प्रादुर्भूय स समादिश्यत राजन्! विद्याधरावतारस्ते पुत्रो जनिता।स च शापक्षये निजं लोकं प्रतिपत्स्यते। द्वितोयस्तुते सुतः वंशराज्ययोः प्रतिष्ठाता भविष्यति। एवमुक्तः स शम्भुना प्रातः समुत्थाय पारणं चकार। कालेन तस्यलक्ष्मीसेननामा पुत्रः उदपादि। ततश्च शूरसेनो नामद्वितीयः पुत्रः समजायत। सुन्दरि! तंमां लक्ष्मीसेनंविद्धि, इह वाताखेरवाकृत्य मृगयानिर्गतमानीतम्।इत्युक्त्वास्वोदन्तंपरिपृच्छन्तं तं हेमप्रभा सद्यो जातिंस्मृत्वा सहर्षा जगाद, नाथ! त्वयि मया विद्याभिः सहजातिः संस्मृता। अनया सख्या सह शापच्युता विद्याधरी जातास्मि, त्वञ्च साम्प्रतं शापच्युतो विद्याधरः ससचिवः संवृत्तः। त्वं मे भर्त्ता, स च सचिवः अस्या मत्संख्याः, साम्प्रतं ससखीकाया मम स शापः क्षीणः। अधुना वैद्याधरे लोके सर्वेषामस्माकंसमागमः। इत्युक्त्वासा सख्या सह दिव्यरूपतां प्राप्य नभ उत्पत्य चहेमप्रभा स्वंलोकमगमत्। लक्ष्मोसेनश्च यावत् विस्मितस्तत्र स्थितः तावत् तस्य स सचिवः तस्य मार्गं चिन्वन्समाययौ। स चराजपुत्रस्तस्मै तं वृत्तान्तं यावत्शरांश तावत् स राजा बुद्धिप्रभः स्वसुतोत्सुकस्तत्रागात्। स च सुतामदृष्ट्वैव लक्ष्मीसेनं दृष्ट्वैव वृत्तान्तंपप्रच्छ। सोऽपि राजपुत्रः यथावृत्तं तस्मै सर्वमशंसत्। तदाकर्ण्य

बुद्धिप्रभेसमुद्विग्नेलक्ष्मीसेनः सामात्यः शापक्षयात्जातिं स्मृत्वा तं बुद्धिप्रभमामन्त्र्यनिजं पुरं विसृज्य चनभसा स्वं लोकमगमत्, प्रापञ्च तां हेमप्रभां भार्य्याम्।तत्सचिवश्चस्वां भार्य्यामाससाद। अथैतं वृत्तान्तं पित्रे प्रतापसेनाय गत्वा ससचिवः सर्वं न्यवेदयत्। ततस्तेन दत्तं क्रमप्राप्तंराज्यम् अनुजाय शूरसेनाय दत्त्वापितरमामन्त्र्यनिजं पुरं वैद्याधरं ययौ। तत्र तेन सख्याअन्वितः तया भार्य्यया युतः चिरेण विद्याधरैश्वर्य्यं बुभुजे। इत्थंगोमुखेन सचिवेन निगदितां कथां शृण्वन् कुमारोनरवाहनदत्तः आसन्नं शक्तियशोविवाहं प्रति समुत्सुकःक्षणमिव तां क्षणदां निनाय। एवं कतिचिद् दिनानिविनोद्य स राजपुत्रः प्राप्ते विवाहदिवसे पितुरन्तिकस्थःसहसा नभसोऽवतीर्णंतपनकान्ति वैद्याधरबलं ददर्श।तन्मध्ये च स्वांदुहितरं तां दित्सितां समादाय प्रीत्याप्राप्तं विद्याधरेन्द्रंस्फटिकयशसंपित्रा वत्सखरेण प्रथममर्घ्यादिना विहितातिथ्यं श्वशुरं प्रत्युद्गम्य हर्षात् पूजयामास। सोऽपि खेचराधिराजः स्वप्रभावात् क्षणेनकल्पिताशेषदिव्यवैभवविधिः यथार्हमावेद्य सरत्नां तांकन्यां शक्तियशसंपूर्वोद्दिष्टां तस्मै वत्सेशसुताय यथाविधि प्रादात्। स च राजपुत्रस्तां भार्य्यामवाप्य पद्मइवार्कद्युतिं नितरां व्यरुचत्। अथ स्फटिकयशसि सानुचरे प्रयाते कौशाम्ब्यांनगर्य्यांस वत्सराजसुतः सततंशक्तियशसो वदनाम्बुजसक्तनयनषट्पद एव तस्थौ।

________

अथ एकादशो लम्बकः।

<MISSING_FIG href="../books_images/U-IMG-172205241137.jpg"/>

अथ सप्तषष्टितमस्तरङ्ग।

<MISSING_FIG href="../books_images/U-IMG-172205236938.jpg"/>

इत्थंस वत्सराजसुतः शक्तियशसम् अन्याश्चप्रथमोद्दिष्टाः रत्नप्रभाद्याः तथा मदनमञ्चुकां मुख्यां देवीं प्राप्य सुहृदवृतः परमं सुखमनुभवन्नतिष्ठत्। अथैकदाकौशाम्ब्यांउद्यानवर्त्तिनं तं देशान्तरागतौ द्वौराजपुत्रौअकस्मादभ्युपेयतुः। आगत्य प्रणतयोस्तयोः कृतातिय्ययोरेकःतमब्रवीत्, देव! वैशाखाख्ये पुरे आवां राज्ञः सुतौ द्विमातृकौ। अहं नाम्ना रुचिरदेवः, द्वितीय एष पोत्रकः। ममजवना हस्तिन्येकास्ति,अस्य द्वौतुरगौ। एतदर्थञ्चावयोर्मिथो विवादः सञ्जातः,अहं हस्तिनीं जवाधिकां ब्रवीमि,अयन्तु तुरगौ। यदि अहं जीयेय तदा मे इयमेव हस्तिनीपणः, अयं यदि जीयेत तदास्य तुरगौ पणः। तेषाञ्च जवान्तरं त्वया विना न कोऽपि ज्ञातुं शक्तः, तत्, प्रभो! अस्मद्गृहमेत्य तेषां परीक्षा श्रीमता कार्य्या, प्रसीद, अर्थिसर्वार्थसाधने कल्पपादपोऽसि, आवाञ्च दूरात् एतदर्थमागत्य त्वदन्तिके अर्थिनौ समुपस्थितौ।एवं तेन रुचिरदेवेनाभ्यर्थितःवत्सेश्वरात्मजः अश्वेषु हस्तिषु च अनुरागात् अनुरोधाच्च तथेति प्रत्यपद्यत। ततश्च ताभ्यामानीतवाताश्वरथमारूढ़ः ताभ्यां भ्रातृभ्यांसह वैशाखं पुरं प्रययौ। पुरं प्रविशन्तञ्च

तमवलोक्य पौरयोषितः कोऽयमागतः? किमसौ अप्राप्तरतिः कामः? उत द्वितीयः निष्कलङ्कः दिवाचरः शशी? आहोस्वित् धात्रापुरुषाकारः कोऽपि कामस्य तरुणीहृदयाकाण्डसमूलोन्मूलनक्षमः शरः निर्मितः? इत्थमुन्मदना वितर्कयाम्बभूवुः। प्रविशंश्चयुवराजः तत् पुरं शृङ्गारैकमयं मूर्खैःकृतप्रतिष्ठस्य कामदेवस्य मन्दिरंददर्श।तस्मिंश्चप्रविश्य कामदेवञ्च प्रणम्य क्षणं विश्रम्यच तद्देवागाराभ्यन्तरवर्त्ति रुचिरदेवस्य मन्दिरं तेन पुरष्कृतः प्रीत्या समाविवेश। ददर्श च तत्राद्भुताकृतिं तद्भगिनीम्। तां पश्यंश्च स प्रवासं वा स्वजनेन विरहं वा नगणयामास। सापि दृष्ट्वैव तं नीलाक्षमालयेव प्रफुल्लयां प्रेमदृष्ट्या स्वयम्बरस्रजेव समग्रहीत्। ततः स जयेन्द्रसेनाख्यां तां यथा दध्यौ तथा निद्रा त न जहार।

अथान्येद्युःवाहविद्यारहस्यवित् राजपुत्रः नरवाहनदत्तः पोत्रकेण आनीतं जवे वातसमं तत् अश्वरत्नयुगलंतथा रुचिरदेवेनानीतां तां करेणुकामारुह्य क्रमेण परीक्षाञ्चक्रे। जितञ्चजवेन रुचिरदेवस्य करेणुकया तत् अश्वयुगलम्। ततो यावत् स वत्सेश्वरसुतोऽभ्यन्तरं प्रविशतितावत् तस्य पितुरन्तिकात् दूतः समाययौ। स दूतस्तं पादयोः प्रणम्य इदमब्रवीत् युवराज! इह प्रयातं त्वांपरिवारमुखादाकर्ण्य तव पिता नृपतिः मां त्वत्सकाशंप्राहिणोत् आदिशञ्चकथं मामनावेद्य उद्यानात् द्वयत् दूरं प्रयातोऽसि, महती अष्टतिरस्माकं सञ्जाता तत् शीघ्रमायाहि। इति दूतवचः श्रुण्वन् प्रियावाप्तिञ्च चिन्त-

यन् स दोलाचलचित्तवृत्तिरभवत्। अत्रान्तरे च कश्चित्सार्थवाहः अतिसम्प्रीतः दूरादेव समेत्य नमन् तं युवराजंनुनाव। जय वीर! जय अपुष्पकोदण्ड! काम! जय प्रभो! भाविविद्याधरेन्द्र! बालस्त्वं किं मनोहारी नदृष्टः? वर्द्धमानश्च किं शत्रुदमनो न दृष्टः? हे देव! अच्युतगुणं त्वां अचिरादेव देवताः पश्यन्ति एव। क्रमेणत्वं द्यामाक्रान्तासि बलिनश्च निर्जेतासि इत्येवं स्तुवन्युवराजेन सत्कृतः पृष्टश्च स्ववृत्तान्तंस महावणिक्प्रत्यवादीत्।

अस्ति लम्पेति प्रसिद्धा पृथिव्या मौलिमालिका महानगरी। तस्यां कुसुमसारो नाम आढ्यो बणिगध्युवासयुवराज! तस्याहं धर्मरतेः शङ्कराराधनात् चन्द्रसाराख्यःपुत्रोऽभवम्। एकदाहं मित्रैःसमं देवयात्रामवेक्षितुंगतः, तत्र अपरानाढ्यन् अर्थिभ्यः बहूनि धनानि ददतोऽद्राक्षम्। तदवलोक्य मम धनार्जने श्रद्धा, अतिमहतीसमजायत। बह्व्यपि पित्रुपार्जितया श्रिया न सन्तोषमलभे। तेन चाहं द्वीपान्तरमगमम्। तत्रासंख्यधनसञ्चयं मां बुद्धाराजा तत्रत्योऽर्थलाभेन बद्धाकारायांन्यक्षिपत्। तस्मिन् गृहे दुष्कृतिभिः क्षुधातृषया वर्जितैःप्रेतैरिव निरये अहं यावत् स्थितः, तावत् अस्मत् कुलाभिज्ञस्तन्नस्तनिवासी कश्चित् महावणिक् महीधरो नामराजानं तं मदर्थं व्यजिन्नवत् देव। लम्पानिवासिनः कस्यचित् वणिक्पतेरयमात्मजः, निर्द्दोषस्यास्य बन्धनादि अयशस्करं देवस्येत्यावेदितः स राजा मां बन्धनात् उन्मुच्य

अन्तिकमानाय्य च सादरं सममानयत्। प्रसादेन तस्य च मित्रस्य आश्रयेण तत्राहं महतो व्यवहारान्कुर्वन् परं सुखमवापम्।

कदाचिदहं मधूद्यानयात्रायां तत्र दृष्टवान् शिखराख्यस्य वणिजः सुन्दरोमेकां कन्यकाम्। तया चकन्दर्पदर्पाब्धिलर्य्येवाहृतः अहं तत् पितुः सकाशंगत्वा तामयाचिषम्। स च तत्पिता क्षमं विचिन्त्य मामभाषत एषा साक्षात् दातुं न युज्यते, अस्त्यत्र कारणम्।तदेता सिंहलद्वीपे अस्यामातामहान्तिकं प्राहिणोमि।त्वं तत्र गत्वा तस्मादर्शितामेतामुपयच्छख इत्युक्ता मां
समान्य से शिखरः स्वमालयम् आगन्तुं व्यसृजत्।

अथान्येद्युः स तां कन्यां सपरिच्छदां यानपावमारोप्यअब्धिमार्गेण सिंहलान् प्रति प्राहिणोत्। अथ यावदहं तत्र गन्तुमिच्छामि, तावत् कुलिमपातोपमा वार्त्ता इयमभूत्। शिखरस्य सुता येन प्रवहणेन याता, तदब्धौभग्नंनचैकोऽपि तत्रस्थः समुत्तीर्णवानिति। अहं तद्वार्त्तावात्ययाभग्नधैर्य्यःप्रवहणाकुलः सद्यो निरालम्बे शोकसागरे न्यपतम्। अथ कथञ्चित् वृद्धैःआश्वास्यमानः आशाभिश्चित्तमधारयम्। अथ राजप्रियोऽपि तैस्तैरर्थैरुपचितोऽपि निश्चयं ज्ञातु अम्बुधौ पोतमारुह्य गन्तुं प्रारब्धवानस्मि। अयगच्छतो मे धाराशरावलीर्मुञ्चन् अकस्मात् घोरो महाशब्दोवारिदतस्करः समुत्तस्थौ। तद्वायुना विरुद्धेन वलीयसादैवेनेव मम तत्वहनम् उत्क्षिप्य मुहुर्भग्नम्। इत्थंविधिवशात् परिजने धने च अम्बुधौ निमग्नेकेवलं पतितेन मया

एकं महत् काष्ठंप्राप्तम्। सपदि तेन प्रसारितेन दैवबाहुनेव शनैर्वातवशात् अहमब्धेः कूलं सम्प्राप्तवानस्मि। तत्रारुह्यदुःखार्त्ती दैवं निन्दन् तत्रोपान्तस्थितं किञ्चित् स्वर्णःनिकटग्रामे विक्रीय प्रशनादिकं विधाय च क्रीतवस्त्रयुगलस्तं ग्रामं त्यजन् दिशमजानन्नपि भ्रमंश्च अकस्मात् सिकताशिवलिङ्गभूतां महीं दृष्टवानस्मि। तस्याञ्च विचरन्मुनिकन्यायामेकतः कन्यामेकां लिङ्गार्चनव्यग्रां वनवेशेऽपिशोभिनोमद्राक्षम्। अहो प्रियायाःसुसदृशीकापि एषा? अथवा सैव भवेत्? कुतो वत्तैतत् नेदृशानि भागधेयानिमम। इत्येवं चिन्तयन्त मां सैवेयमिति दक्षिण लोचन साह्लादं मुहुः स्फुरत् वदति स्म। अहमपृच्छम्, सुन्दरि। प्रासादवासार्हे। त्वमत्रारण्ये का? वद इति सा तु किञ्चनमाह स्म। अहन्तु मुनिशापभयेन लतागुल्मान्तरस्थितस्तामेव कन्यामनिमिषेण प्रवितृप्तेन चक्षुवा व्यलोकयन् स्थितः। अथ कृतार्चना मुहुः सस्नेहं मां परिवृत्त्य पश्यन्तीकिञ्चनविमृषन्तीव ततः शनैः प्रायात्। तस्याञ्च दृक्पथातिक्रान्तायां तमोऽन्धाः दिशः पश्यतो मेनिशाचक्राह्वसदृशीकापि अवस्था समभवत्। ततश्च क्षणात् अशङ्गितायातांतेजसा अर्कप्रभासदृशीम् आबाल्यब्रह्मचारिणींयमुनाख्यांतपःकृशां दिव्यचक्षुषं साक्षात् धृतिमिव कल्याणदर्शनांमतङ्गस्य मुनेः कन्यामपश्यम्। सा सहसा मामवदत्, वत्स। शिखरो नाम यो वणिक् द्वीपान्तरे श्रूयते, स रूपवत्यांकन्यायां जातायां जिनरक्षितनाम्नाकेनचित् ज्ञानिनाभिक्षुणा सुहृदा अयाचि त्वया स्वयमेषा कन्यका अन्य

मतृका न कस्मैचिद्देया, स्वयं दाने ते दोषः स्यात्। इति भिक्षुणा तेनाभिहितः स तन्मातामह हस्तेन त्वदर्थितां दातुमैच्छत्। अतः सा तेन पित्रा मातामहान्तिके सिंहलद्वीपे विसृष्टा, देवाच्च यानभङ्गेनाम्बुधौ न्यमज्जत्। आयुर्बलेन च दैवेनेव महोर्मिणा वेलातटे समुत्क्षिप्य सा वणिक्सुता क्षिप्ता। तावञ्च मत्पिता मतङ्गसुनिः सशिष्यः अम्बुधीस्नातुमागतस्तां मृतकल्यां कन्यामद्राक्षीत्। आनयच्चदयया तांसमाश्वास्य ममाश्रमम्। अर्पयामास च मयि तां यमुने! तवेय पाल्येति। वेलातटादियं प्राप्तति स महामुनिर्नाम्ना तां मुनिजनप्रियां वेलां चकार। तस्याश्चस्नेहनब्रह्मचर्यनिरस्तसंसाराया मे चित्तमिदानीं बाधते। चन्द्रसार! आपाणिग्रहणां नवयौवनशोभिनीमिमां दर्शं दर्शं मे इदंमनः दूयते। सा च ते पूर्वजन्म भार्य्यति इहागतञ्च त्वां प्रणिधानेन बुद्ध्वातवान्तिकमहमायाता। तदागच्छ गृहाण तस्याः पाणिं सदादेशेनेति। अनुभूतः क्लेशः युवयोरद्यसाफल्यं व्रजतु इति गिरा ममभिनन्द्य अनभ्रवृष्ट्येव, सा मां मतङ्गस्याश्रमं निनाय। नीत्वा च तथाविज्ञप्तो मुनिर्मतङ्गः तां मनोराज्यसमृद्धिमिव रूपिणीं तां वेलां माह्यमदात्। ततस्तया वेलया समं तत्राहं कियन्तंकाल सुखेनाध्यवात्सम्।

एकदाह तथा सह सरसि जलकेलिं कुर्वन् स्नानप्रवृर्त्तंमुनिं मतङ्गमपश्यन् क्षिप्तेन जलेन असिञ्चम्। तेन कुपितःस मुनिः सभार्य्येमयि शापमदात्। पापी! युवयोर्दम्पत्योरचिरेण वियोगो भवितेति। ततस्तया दीनगिरा

पादपतितया अनुनीतः स मुनिःकृपयाध्यात्वा आवयोःशापान्तं व्यधात्। यः करेण्वावेगेन अश्वरत्नयुगं जेष्यति,त भाविविद्याधरचक्रवर्त्तिनं वत्सेखरात्मजं यदा द्रक्ष्यसितदा अस्य शापस्य प्रशमात् अनया भार्य्यया पुनः सङ्गमेष्यसि। इत्युक्का स मुनिः स्नानादिकं कृत्वा हरिदर्शनायव्योम्ना श्वेतद्वीपमगात्। यमुनापि धूर्जटिसकाशात् विद्याधरेण, पश्चात् तत् सकाशात् स्वयं प्राप्तंच्युतपादपं सद्भिःरत्ननिचयेरन्वितम् आवाभ्यां दत्त्वा तत्रैव पित्रा सहप्रायात्।

अथ अहं प्राप्तदयितःवनवासात् निर्विण वियोगभयात् स्वं देशं प्रति सोत्सुकः समभवम्। ततश्चागन्तुं प्रवृत्तोऽहम् अम्बुधेस्तटं प्राप्य पुनः कस्यचित् वलिजःप्रवहणे तां भार्य्यामारोपयम्। अहञ्च यावत् आरोढुमिच्छामि तावत् प्रबलः समीरणः मुनिशापसुहृदिव तं प्रवहणं दूरमनयत्। तथाभूते च तस्मिन् क्षणे पोतेन हृतभार्य्यस्य मम मोहःलब्वच्छिद्र इव विकलात्मनो मम चेतनांजहार। ततश्च तत्रागतः कश्चित् तापसः मूर्च्छितं मांबोच्य कृपया समाखास्य स्वमाश्रममनयत् प्राबोधवच्च यथावृत्तं पृष्ट्वा मुनिशापप्रभावञ्च विदित्वा शापावधिकथनेन माम्। ततश्चाहं कदाचित् लब्धवहमेनाम्बुधिं तीर्णःप्रियामितस्ततोऽन्विष्यन् कमपि बणिग्वरं सहायं प्रापम्। ततश्च शापक्षयाशया दत्त हस्तालम्बः तान् तान् दुर्गमान्देशान् अतिक्रामन् वहूंश्चदिवसान् नयन् क्रमात् वैशाखपुरमिदमासाद्य अशृणवं त्वां वत्सेश्वरवंशमुक्तामणिमिहा-

गतम्। अथ दूरात् त्वयि हस्तिन्याविजिताश्वयुगे दृष्टे सशापभारो मया उज्झितः।क्षणे चास्मिन् सम्मुखोपस्थितांतां प्रियां वेलां वणिग्भिः साधुभिस्तेन पोतेन इहानीतामपश्यम्।ततस्तया यमुनादत्तसद्रत्नहस्तया प्रियया त्वत्प्रसादात् तीर्णशापमहार्णवः सम्मिलितः।अतस्तां प्रणन्तम् आगतोऽहमस्मि देव! इदानीं निर्वृतोऽहं स्वदेशंप्रियया सह व्रजामि इत्यभिधाय तस्मिन् बणिजि गतवतिचरितार्थे चन्द्रसारे,स रुचिर देवः दृष्टमाहामाहृष्टः तस्मिन्वत्सेश्वरसुते समधिकनम्रोऽभवत्।प्रादाच्चतां भगिनींजयेन्द्रसेनां सुसदृशीं सानुरागाय तस्मै करेणतुरगयुगलसमेताम्।स च राजसुतः तां बधूं सकरेणुकाश्वयुगां समादाय रुचिर देवमामन्त्र्यच स्वां कौशाम्बी नगरींसमाययौ।तस्याञ्चागत्य समानन्दितपितृकः तथा ननबध्वाअन्याभिश्चमदनमञ्चुकाद्याभिः समेतः सुखमुवास।

अथ द्वादशो लम्बकः।

<MISSING_FIG href="../books_images/U-IMG-172205537938.jpg"/>
अथ अष्टषष्टितमस्तरङ्गः

<MISSING_FIG href="../books_images/U-IMG-172205541435.jpg"/>

इत्यंस वत्सेश्वरसुतस्तां भार्य्यामवाप्य कौशाम्ब्यां परमं सुखमनुभवन्नतिष्ठत्।बहुभार्य्योऽपि स तां देवाः

मदनमञ्चुकां रुक्मिणीमिव माधवः सर्वाभ्योऽधिकाममन्यत।एकदा स स्वप्ने कयापि दिव्यकन्ययानभसागत्य आत्मानं ह्रियमाणमद्राक्षीत्। प्रबुद्धश्च सच्छायपादपे महाशैलस्य कस्यचित् सानो गारुड़ रत्नशिलातले स्थितमात्मानं ताञ्च कन्यां स्वपार्श्वस्थांनिशि द्योतितकाननां कामस्य विश्वमोहनमहौषधिमिवईक्षाञ्चक्रे।अनयाहमिहानीत इति मत्वा अलीकसूतिकांकृत्वा प्रलपन् एवमब्रवीत् प्रिये। मदनमञ्चके।क्व त्वम्आगच्छ मामालिङ्गस्व। तदाकर्ण्य सा सद्य एव तस्यादयिताया रूपं कृत्वा तं निर्व्रोड़यन्त्रणं भृशमालिलिङ्ग। ततः स नरवाहनदत्तः नेत्रे प्रोन्मील्य तांस्वप्रियाकृतिदृष्ट्वा अहो विज्ञानमित्युक्त्वा सस्मित कण्ठे जग्राह।अथसा त्रपां हित्वा स्वं रूपं प्रकाश्य गान्धर्वविधानेन आत्मानंतस्मै युवराजाय समर्पयत्। स च तया सह तत्र तां रात्रिं नीत्वाप्रातः तां दयितां युक्त्या कुलजिज्ञासया अभ्यधात्प्रिये। शृणु एकां कथामपूर्वांत्वां ब्रवीमि।

आसीत् कोऽपि मुनिः ब्रह्मसिद्धिर्नाम क्वचित् तपोवने। तस्य योगसिद्धस्य महर्षेराश्रमसमीपे कापि जरती गुहानिलया शृगाली आस्ते।कदाचित् दुर्दिने निगहारां भक्ष्यार्थं निर्गतां तां कश्चित् वनद्विपः करेणुविश्लेषोम्मादः हन्तुमागात्। तदवलाक्य स मुनिः कृपालुस्तांशृगालीम् उभयोरनुग्रहाय वरेण करेणमकार्षीत्। ततःस हस्ती तांकरेषु दृष्ट्वा शान्तविक्रियः तस्यामन्वन्यत। सापि मृत्योरमुच्यत। ततः स गजस्तया सार्द्धंरममाणः

कदाचित् तत् कृते पद्ममानेतुं शरत्पङ्काकुलं सरः प्राविशत्।न्यमज्जच्चतत्र पङ्कान्तः, न च चेष्टितुं शशाक। कुलिशाच्छित्रपक्षः शैल इव तस्थौ।सा च शृगालीकरेणुका तथा अवशं तं दृष्ट्वा अन्यं वारणं समाश्रित्य क्वाप्यगात्। अत्रान्तरे तस्य सा पूर्वविश्लिष्टा निजा करेणुस्तमन्विष्यन्ती विधिवशात् तं प्रदेशमायौ। सा भद्रजातिः दृष्ट्वैवपङ्कपतितं स्वं भर्त्तारम् अनुसर्त्तुं तत् सरोऽविशत्। तस्मिंश्च क्षणे तेन पथासौ ब्रह्मसिद्धिरागतःसशिष्यः तदालोक्य करुणार्द्रचित्तः समभवत्। उदधीधरच्च तौवसानागौमहापङ्कात् वरोद्भूतबलैः शिष्यैः।ततस्तस्मिन् मुनौ सशिष्ये प्रयाते तौगजदम्पती वियोगादुर्त्तीणो यत्राकामं विजहृतुः। प्रिये!तिर्य्यञ्चोऽपिआपदि पतिं वृजिनादुद्धरन्ति भद्रजातयः। हीनजातीयानान्तु मनः कदाचिदपि सदाशयं न स्पृशति स्नेहं नाश्रयति दयाञ्च नावलम्बते इति। सा दिव्यकन्या वत्सेश्वरसुताटेतां कथां निशम्य प्रत्यवादीत् नाथः। एवमेवैतत्, नात्र संशयः, मया च एवं वादिनस्तवाभिप्रायोविदितः।तदिदानीं मत्तोऽपि कथामेकां शृणु।

अभूत् पुराकान्यकुब्जेशूरदत्तो नाम कश्चित् द्विजोत्तमः। स च महीपतेः बाहुशक्तिनाम्नः मान्यः शतग्रामपतिश्च। तस्य वसुमती नाम पतिप्राणा भार्य्यासीत्।तस्यां स द्विजः कामदत्तंनाम पुत्रं जनयामास। सखलु वामदत्तः अचिरात् सर्वासु विद्यासु सुशिक्षितः पितुरतिप्रियः शशिप्रभां नाम भार्य्यामविन्दत। कालेन

पितरि सभार्य्येस्वर्गं गते स वामदत्तस्तया भार्य्यया सहगार्हस्थ्यधर्मे प्रावर्त्तत। सा तु भार्य्या अजानतस्तस्यदैवात् कुतश्चित् शाकिनीसिद्धिमवाप्य स्वेच्छाविहारिणीअभवत्।

एकदा राजाज्ञया तत् कटके स्थितं तं गृहादागत्य तस्य पितृव्यः रहसि प्राब्रवीत् पुत्र। नष्टमस्मत्कुलम् अद्यमया तव भार्य्या त्वदीयेन महिषपालेन सङ्गता दृष्टा इतिएतदाकर्ण्य पितृव्यात् कटके तं निवेश्य च स वामदत्तःखड्गपाणिः स्वमावासमाययौ। तत्र पुष्पोद्यानं प्रविश्य सयावत् गुप्तमतिष्ठत्। तावत् नक्तं स महिषपालस्तत्रागात्। क्षणे च तस्मिन् जारसमुत्सुका सा वामदत्तपत्नी विविधाहारहस्ता तं महिषपालमुपागात्। ततो भुक्तवता तेन साकं सा शयनं ययौ। तद्दृष्ट्वा स वामदत्तःखड्गमादाय तावभ्यधावत् पापौ। क्व गच्छथ इति। तदवलोक्य सा तद् गृहिणी उत्थाय धिक् जाल्म! इत्युक्त्वातस्य मुखे धूलिं न्यक्षिपत् तदेव स मानुषो वामदत्तःमहिषः समपद्यत। स्मृतिस्तु तस्य वामदत्तस्य तद्भावेऽपिन व्यलुप्यत। ततः शठा तंलगुड़ैःमहिषमध्ये निक्षिप्यतेन महिषपालेन ताड़यामास। अथ सा क्रूरा तं तिर्य्यक्तयाविवशीकृतं कस्मैचित् महिषार्थिने वणिजे विक्रीणीते स्म। ततश्च तेनारोपितभारः स महिषभारपीडितःकमपि गङ्गासमीपवर्त्तिनं ग्रामं नीतः। विश्वस्तस्य गृहेकस्य दुर्वृत्ताभार्य्या कक्ष्यान्तरप्रविष्टा भुजगीव शर्मणे? इति चिन्तयन्तं तं तत्रउद्वाष्पंसुदुःखितं भारक्लेशेन

अस्थिचर्मशेषं कापि योगिनी अपश्यत्। सा ज्ञानतः सर्वं तद्वृत्तान्तंबुद्धाकृपया मन्त्रजलेन तंमाहिष्यादमोचयत्।सैव प्राप्तमानुष्यकाय तस्मै निजं गृहं नीत्वा कान्तिमतीं नाम स्वांकन्यामदात्। एभिः सर्षपैराहत्व दुर्वृत्तां भार्य्यां वड़वां कुरु इत्युक्ता तस्मै मन्त्रपठितान्सर्षपान् प्रददौ च। ततः स तामभिनवां कान्तां समादाय सर्षपपाणिः स्वंगृहं वामदत्तः समागात्आगत्य च तं महिषपालं हत्वा सर्षपैस्तां भार्य्यां दुष्टचारिणीं वड़वां कृत्वा शालाबद्धांव्यधत्त। प्रत्यहञ्चतस्यै लगुड़सप्तकं दत्त्वा भोजनं चक्रे प्रतिजज्ञे च वैरशुद्धये।एवं कान्तिमत्या सह भार्य्यया स्थितस्य तस्यगृहे अकस्मात् कोऽपि अतिथिः समाययौ।तस्मिंश्च भोक्तुंप्रवृत्ते स वामदत्तः कुभार्य्यायै लगुड़ाहतिं देयां स्मृत्वा द्रुतंतस्यै सप्तलगुड़ाहतीर्दत्वा च जातनिर्वृतिःप्रविश्याभ्यन्तरं बुभुजे। ततोऽतिथिः स दृष्ट्वैतत् सञ्जातकौतूहलस्तंवृत्तान्तमपृच्छत्। भवान् आहारं त्यक्त्वा ससम्भ्रमं क्वयात इति। ततः स वामदेवस्तस्मै अतिश्चयेस्वं वृत्तान्तं यथायथमाख्यत्। अथ सोऽपि अतिथिस्तमभ्यधात्। किमेतेन दुर्ग्रहेण यया ते पशुत्वंहृतं,तामेव स्वश्वश्रूमाराध्य कञ्चित् प्रकर्षमाहर इति तेनातिथिनाभिहितःवामदत्तस्तथेति तं श्रद्धाय प्रातश्चसत्कृत्यविससर्ज।

अथ कदाचित् गृहागतां तां योगिनींश्वश्रूम् अनुग्रहार्थी स वामदत्तः कृतप्रणामः यत्नेन अभ्यर्थया-

मास। सा च योगिनी तस्मैसभार्य्याय यथाविधिकालसङ्कषिणींविद्यां दीक्षापूर्णमादिशत्। ततः सश्रीपर्वं गत्वा तां विद्यामसाधयत्। सा च विद्या सिद्धा सती तस्मै उत्तमं खड्गंददौ। प्राप्तखङ्गश्चस तथाभार्य्ययाकान्तिमत्या समेतःविद्याधरोत्तमो भूत्वा मलयाचलस्य रजतकूटाख्येशृङ्गे सिद्धिप्रभावात् पुरवरं निर्मायअध्यवसत्। तत्र तस्य वसतः कालेन कापि कन्यकातस्यां कन्तिमत्यां ललितलोचना नाम समुत्पन्ना।तस्याञ्चजातमात्रायां एषा भाविविद्याधरचक्रवर्त्तिनः भार्य्या भवित्रीति दैवी वागाविरासीत्।आर्य्यपुत्र! तो मां विद्धि,अहं स्वविद्यया विदितार्था त्वय्यनुरागिणी अस्मिन्मलयाचले त्वामानीतवत्यस्मि।इत्याख्यातकुलांतांविद्याधरींस नरवाहनदत्तः प्रीतमना बहु सम्मानितवान्। अध्यवात्सीच्चतथा तत्र कियन्तिदिनानि।वत्सराजश्च रत्नप्रभादिविद्याविभवात् तं वृत्तान्तं पुत्रस्यविदित्वा निरुद्वेगचित्तस्तस्थौ।

__________

अथ ऊनसप्तततिमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172205747739.jpg"/>

ततः स नरवाहनदत्तस्तां ललितलोचनां कान्तां नवीनामधिगम्य तस्मिन् मलयशैले मधुप्रवृत्तिसुभगे तया सह तेषु तेषु पुष्पितद्रुमशोभिषु वनेषु विजहार।एकदा

तस्मिन् वने क्रीड़ाकुसुमसञ्चयक्रमेण तस्यां प्रियायां दृष्टिपथातिक्रान्तायां स युवराजस्तामन्विष्यन् एकं महदच्छनलं सरः तीरतरुच्युतैः पुष्पेःसतारमाकाशमिव व्यलोकयत्। पुष्पाणि चयन्तो सा मे प्रिया यावन्नायाति तावदस्मिन् सरसि स्नात्वा सरस्तटे तिष्ठामीति सञ्चिन्त्य कृतस्नानदेवार्च्चनः सचन्दनतरुच्छायमेकं शिलातलमध्यास्त! ततः स राजहंसानां तत्सदृशींगतिं दृष्ट्वा,पिकानां चूतयष्टिषु तत्सदृशमालापं श्रुत्वा,हरिणीनां तन्नेत्राभेनयने विलोक्य च उत्तस्थौ। क्षणे च तस्मिन्दूरस्थां मदनमञ्जुकां स्मृत्वा समुद्गतकामाग्निसन्तापश्चमुमूर्च्छ।

अत्रान्तरे तत्र कश्चित् मुनिवरःस्नातुमभ्याययौ। सतु पिशङ्गजटो नाम तापसस्तं तदवस्थं निरीक्ष्यप्रियास्पर्शतुल्यैश्चन्दनवारिभिरसिञ्चत्। ततः प्रबुद्धं प्रणत तंमुनिर्दिव्यदृष्टिरुवाच, पुत्र! प्राप्तोऽसि अभिलषितं साम्प्रतधैर्य्यमवलम्बस्व। धैर्य्येण सर्वमवाप्यते, इदानींसदाश्रममेत्य मृगाङ्कदत्तीयां नवां कथामाकर्णय। इत्युक्त्वासमुनिः स्नात्वा तं स्वमाश्रममनैषीत्। तत्र तमातिथ्येनसत्कृत्य स्वयञ्च भुक्तफलमूलः कथां वक्तुमुपचक्रमे।

अस्ति अयोध्या नाम नगरी त्रिभुवनविश्रुता। तस्यांपुरा मदनदत्तो नाम भूपाल आसीत्। तस्य नित्यानुरागिणौ वह्नेःस्वाहेवसुरतप्रभा नाम भार्य्याभवत्तस्यां मृगाङ्कदत्तो नाम सुत उदपद्यत। यः कोदण्ड x कोटिप्रामगुणानतःसमवर्त्तत। तस्य राजसूनो

सचिवा आसन्। तेषामेकःप्रचण्डशक्तिः, द्वितीयःस्थूलबाहुः, तृतीयःविक्रमकेशरी, चतुर्थी दृढमुष्टिः, पञ्चमो मेघबलः, षष्ठो भीमपराक्रमः, सप्तमो विमलबुद्धिः, अष्टमो व्याघ्रसेनः, नवमो गुणाकरः, दशमो विचित्रकथी नाम। सर्वे एव ते सत्कुलसम्भवाः युवानः शूराः प्राज्ञाः प्रभुहितैषिणश्च। स राजसुतः तैः सह सुखं विहरन् पितृगृहे,सदृशीं भार्य्यां नापाव।एकदा रहसि भीमपराक्रमो नाम मन्त्री तमाह स्म, देव! श्रूयतां मे रात्रिवृत्तान्तः।अहं प्रासादसुप्तः शङ्कितं निशि वज्राग्रनखरं धावन्तं सिंहमद्राक्षम्। ततश्च मयि छुरिकापाणौ समुत्थिते स सिंहः पलायितुं प्रावर्त्तत, अहञ्च जवात् तमन्वपतम्। स च नदीपारं गत्वा रसनां प्रसार्य्य यावदतिष्ठत्, तावदहं तस्य दीर्घां तां रसनां छुरिकया तथा अच्छिन्नम्। अययावत् सेतुपृष्ठेनाहं नदीमुत्तरामि, तावत् स सिंहः सुमहान् विकृतः पुमान् समवर्त्तत । ततः को भवानिति सपृष्टो मया स पुरुषः प्रत्यवोचत, भद्र! अहं वेतालः, तव अनेन सत्त्वेन तोषितोऽस्मि। तदाकर्ण्य अहं तमपृच्छं, यद्येवं तत्त्वया कथ्यतां कुत्रास्माकं प्रभोर्मृगाङ्कदत्तस्य भार्य्यासदृशी अस्तीति। एतद्मद्वचनं श्रुत्वा स वेतालोऽब्रवीत्।

अस्ति उज्जयिन्यां कर्म्मसेन इति नरपतिः। तस्यैका कन्यका लावण्येन अप्सरसो न्यक्कृतवती प्रजापतेः सौन्दर्यस्य विधानभूमिरिव शशाङ्कवती नाम अस्य भार्य्याता। इत्युक्त्वास वेतालोऽन्तर्दधे। अहञ्च गृहमा-

गच्छम्। एतत् निशावृत्तमद्य सञ्जातमिति। मृगाङ्कदत्तस्तदाकर्ण्य तान् सर्वान् सचिवानाहूय श्रावयामास,जगाद च सर्वे भवन्तः शृण्वन्तु मया च स्वप्ने यत् दृष्टम्। सर्वे वयं काञ्चित् महाटवीं प्रविष्टाः स्मः। तत्र चाध्वश्रमतृषिताः कृच्छ्रेण तोयं प्राप्यापि सायुधैः पञ्चभिः पुम्भिस्ततउत्थाय वयं रुद्धाआस्म। ततश्च तान् हत्वा पुनर्यावत् पिपासवः तज्जलं पातुमिच्छामः, तावत्तत्र तान्पुंसस्तच्च जलं नापश्याम।ततः कष्टां दशामापन्नाः चन्द्रोज्ज्वलमशङ्कितं वृषारूढ़मायातं महेश्वरमैक्षामहे। स देवः अस्मासु प्रणतेषु दक्षिणादक्ष्णःअश्रुकणं भूमावपातयत्, स च कणः पतन्नेव समुद्रः समपद्यत। तस्माच्च प्राप्तां शुभां मुक्तावलीं मया गले बद्ध्वारक्तानुलिप्तेन नृकपालेन सः पयोधिः पीतः। एवं पश्यन् क्षणादेव प्रबुद्धोऽस्मि, विभावरी च व्यरंसीत्। एवं मृगाङ्गदत्ते अद्भुते स्वप्ने निवेदिते विमलबुद्धिर्नाम मन्त्री अन्येषु शृण्वत्सु तमभाषत, देव! त्वं धन्यः, यस्य देवो भव इत्थं कृतानुग्रहः। स्वप्ने मुक्तावलीं लब्ध्वा यदम्बुधिः पीतो भवता, तत् शशाङ्कवतीं प्राप्य ध्रुवं पृथिवीं भोक्तासि।इत्येवं विमलबुद्धिनाभिहितेमृगाङ्कदत्तस्तान् सर्वान् सचिवान् पुनरब्रवीत्, यदि च मम स्वप्नफलं भीमपराक्रमस्य चस्वप्नफलमवश्यंभावि, तथापि बलदुर्गाभिमानिनः कर्मसेनस्य राज्ञः सुता शशाङ्कवती प्रज्ञाबलात् मया प्राप्या। प्रज्ञाबलमेव सर्वेषु कार्येषु मुख्यं साधनम्। तथाचकथामेकां शृणुत, कथयामि वः।

आसीत् पुरा मगधेषु भद्रबाहुर्नाम महीपतिः। तस्यमन्त्रगुप्तो नाम बुद्धिमतां वरः मन्त्री आस्ते। एकदा सराजा तं मन्त्रिणं स्वैरमभ्यधात्, वाराणसीपतेर्धर्मगोपस्यअनङ्गलीला नाम जगत्त्रयसुन्दरी कन्यास्ति। अर्थितोऽपिस राजा तां द्वेषात् मह्यं न प्रयच्छति। भद्रदन्तस्य दन्तिनः प्रभावात् स तु दुर्जयः। तया तु तत्सुतयाविना नाहं जीवितुमुत्सहे। तदत्र नास्ति कश्चिदुपायः,यद्यस्ति, सखे! त्वयोच्यताम्। इति तेनोक्तः स मन्त्रीतं राजानं प्रत्यभाषत,देवकिं विक्रमादेव सिद्धिः, नबुद्धितः? तदलं चिन्तया, अहं स्वबुद्ध्याते मनोरथं साधयामि। इति नृपमुक्त्वाअन्येद्युः स पञ्चसप्तभिरनुचरैरन्वितः महाव्रतिकवेशःवाराणसीं प्रतस्थे। तत्र तेअनुगाः शिष्यवेशःसिद्धोऽयमिति सर्वतः प्रख्यापयामासुः।

एकदा स सानुगः निशि कार्य्ययुक्त्युपलब्धये भ्राम्यन् अतिदूरात् गृहविनिर्गतां शङ्कया त्वरितगामिनीं त्रिचतुरैः सायुधैःपुरुषैः क्वापि नीयमानां हस्तिपालस्यगृहिणींददर्श। ध्रुवमियं स्वेच्छाचारिणीयाति,तत्पश्यामि क्व गच्छतीति सञ्चिन्त्य स सानुगस्तामनुससार। अथ गत्वा सा यत्र प्रविष्टा, तन्निवासस्थानं दूरतो दृष्ट्वासदैव पुनः प्रत्याजगाम। प्रातश्च स सिद्ध इति ख्यातःमन्त्रीभ्रमतोऽनुगान् हस्तिपालस्य अन्तिकं हृतार्थां तस्यतां प्रियां विद्वान्युक्त्या प्राहिणोत्। ते चानुगा तं हस्तिपालं प्रियाहरणदुःखेन तदा जग्धविषं दृष्ट्वा कृपया

स्वविद्ययेव निर्विषञ्चक्रुः, अनिन्युश्चएहि अस्मद्गुरोःसकाशं, स हि ज्ञानी सर्वं वेत्ति इत्युक्त्वातस्य मन्त्रिणःसकाशम्। स च हस्तिपको दृष्ट्वेव तंप्रणम्य पादयोःपतित्वा भार्य्याप्रवृत्तिमपृच्छत्। सोऽपि मन्त्री मृषाध्यात्वा साभिज्ञानं तं शशंस। ततः स हस्तिपालः तंमन्त्रिणंप्रणम्य नगररक्षिभिः सह गत्वा तत् स्थानं प्राप्य पर्य्यवेष्टयत्, अबधीच्चतान् पापान् दारापहारिणःपुरुषान्, प्राप च साभरणां सधनां तां निजां भार्य्याम्।अथ द्वितीयेऽह्निप्रातरेत्य तं नत्वा स्तुत्वा च व्याजसुप्तम्आहाराय न्यमन्त्रयत्, ज्ञात्वा च तं गृहप्रवेशे अनिच्छंदत्तभोजित्ववादिनं, प्रदोषे हस्तिशालायाम् आहारं व्यवस्थापयत्। सोऽपि मन्त्री मन्त्रबलात् सर्पं वंशनाडिनिवेशितं गुप्तं गृहीत्वा गत्वा च सानुगः तत्र बुभुजे।ततश्चहस्तिपाले अन्येषु च सुप्तेषु स मन्त्री तत्र अलक्षितंस्थित्वा सुप्तस्य भद्रदन्तस्य हस्तिनः कर्णे भुजगं निवेश्यतत्र तां रात्रिं नीत्वा च स्वान् देशान् मगधान् ययौ। अथ तस्मिन् मन्त्रिवरे हस्ती भद्रदत्तः एवं मया व्यापादितइत्यभिहितवति स राजा भद्रबाहुसानन्दंननदे,विसमर्ज च दूत वाराणसीपतये धर्मगोपाय अनङ्गलीलांतत्कन्यां याचितुम्। सोऽपि तेन गजेन विहीनोऽतिदुर्बलः तस्मै कन्यामदात्। कालवेदिनो राजानः वैतर्सो वृत्तिमाश्रयन्ति। तदेवं तस्य मन्त्रिणः मन्त्रगुप्तस्य प्रज्ञया स भद्रबाहुर्नृपः अनङ्गलीलां प्राप। तस्मात् मयापि बुद्धिबलेन सा कन्या प्राप्येतिवादिनं मृगाङ्कदत्तं स सचिवो

विचित्रकथः समम्यधात्, देव! सर्वं ते स्वप्नदृष्टशङ्करप्रसादात्, सेत्स्यति, तदत्र मया वर्ण्यमानां कथामेकां शृणु।

आसीत् पुरा तक्षशिलाख्यायां नगर्य्यां भद्राक्षो नाममहीपतिः। स पुत्रकामः प्रत्यहं श्वेतपद्मगतेन साम्बुनाखङ्गेलक्ष्मीं पूजयामास। एकदा अच्चेयतस्तस्य मौनिनःराज्ञः गणयतो देवात् एकं पद्म न्यूनमभृत्। स गजातदैव स्वयं हृत्पद्मंविपाट्य तस्यै देव्यै प्रादात्। ततः सादेवी तुष्टा तस्मै सार्वभौमपुत्रप्रदं वर दत्त्वा तञ्च नृपमक्षतशरीरं कृत्वा तत्क्षणं तिरोऽभूत्। अथ तस्य महादेव्यांपुत्रोऽजायत। तञ्च पिता हृत्पुष्करप्रदानेन जातोऽयमितिपुष्कराक्षमेव नाम्ना कृतवान्। क्रमेण च योवनप्राप्तं गुणान्वितं तं तनयं राज्येऽभिषिच्य स राजा भद्राक्षोवनमशिश्रियत्। पुष्कराक्षोऽपि राज्यं प्राप्य प्रतिदिनंशङ्करमाराधयन् स्थितः। एकदा स देवमभ्यर्च्यतस्मात्सुसदृशीं भार्य्यामयाचत, अशृणोच्च तदा, सर्वं ते सम्पत्स्यते पुत्र। अभिलषितमिति गगनादुच्चरन्तीं वाचम्। ततः प्रहृष्टः स तद्वचसि जातास्थः कियन्त काल तस्थौ। एकदासौ मृगयार्थंकाननमगात्, तत्र कञ्चित् करभंसम्भोगसंसक्तभुजगाशने प्रवृत्तं दृष्ट्वा सशोकःसमपातेयत्। स विद्घमात्रः पतन् करभः तां कारभीं तनुं सुक्ताविद्याधरः सन् प्रीतस्तं पुष्कराक्षमब्रवीत्, अमोघोदेवप्रसादः किं न साधयेत्? भवान् मे कृतोपकारः, यदहं XXतदाकर्णय।

अस्ति रङ्कुमालीति विश्रुतः विद्याधरराजः। तं कदाचित् रूपलुब्धा तरुणी ताराबली नाम विद्याधरबालादृष्ट्वैव अनुरागिणी स्वयं वव्रे। तस्याश्च पिता स्वेच्छयाकृतविवाहौ तौ कोपात् कियन्तं काल शापेन व्ययोजयत्। ततस्तौ दम्पती ताराबलीरङ्कुमालिनौ प्रसरत्प्रौती तासु तासु प्रमोदभूमिषु स्वेच्छया विजह्रतुः। कदाचित् तेन शापेन मिथोदृष्टिपथात् च्युतौतौ अन्योऽन्यं वियुक्तौक्वापि वनान्तरे यातौ।ततस्ताराबली त पतिमन्विष्यन्तो क्रमेण पश्चिमाम्बुधेः पारे सिद्धषिसेवित वनमगात्। तत्र सा ण्कमुत्फुल्लं जम्बुमहातरुं प्रीत्येव मधुरैर्भ्रमरोवेगश्वासयन्तमद्राक्षीत्। सा चभृङ्गीरूपं विधाय विश्रान्त्यैतत्र एकस्मिन् कुसुमे मधुपायिनी उपाविशत्। क्षणाच्च तत्रेव प्राप्तं पतिं चिरादवलोक्य हर्षच्युतेनवीर्य्येण सिक्तं तत् कुसुमं तथाशुभं तत् मृगोवपुस्त्यक्त्वाशशिमेव ज्योत्स्ना तेन पत्या रङ्कुमालिना सङ्गताभूत्। ततस्तेन भर्त्तासमं तस्यां स्वं निकेतन गतायां तद्वीर्य्यसिक्तात् तस्मात्जम्बुपुष्पात् फलमेकमभूत्।तस्य च फलस्यान्तः कालयोगन कन्यकेकासमजायत। न हि दिव्यानां वीर्य्यंविफलतां व्रजति।

कदाचित् फलमूलार्थी विजितासुर्नाम सुनिः तत्रागात्। अपतच्चतत्क्षणमेव तस्मात् तरोः तत् जम्वुफलम्। तस्माच्चपतितभग्नात् निर्गत्य सा दिव्या कन्या समुपेत्यमुनेस्तस्य चरणौ सविनयमवन्दत। स दिव्यदृष्टिःतां दृष्ट्वा बुद्ध्वाच सुविस्मयः स्वाश्रम निनाय, चकार च नाम्ना

विनयवतीम्। ततोऽहं रूपगर्वेण मदनेन च मोहितः। समुपेत्य तामनिच्छन्तीं कन्यां बलात् हर्त्तुंप्रावर्त्तिषि। ततः क्रन्दन्त्या तया श्रावितः स मुनिः क्रुद्धः समुपागम्यशापं मयि प्रादात्। यस्मात् त्वं रूपगर्वेण एवमकार्य्यं कर्त्तुमुद्यतः, तस्मात्त्वं सर्वाङ्गनिन्दितः करभो भव। पुष्कराक्षात् वनप्राप्तात् बधे शापादस्मात् विमोक्ष्यसे। स एवास्या विनयवत्या भर्त्ता भविष्यतीति मुनिना शप्तोऽहं भुवि करभो जातः, अद्य च मे स शापः क्षयमगात्। तत्त्वं साम्प्रतं पश्चिमाम्बुधेःपारस्थं सुरभिमारुतं नामतद्वनं गत्वा तां दिव्यां श्रियो रूपदर्पहरां कन्यां विनयवतीमाप्नुहि। इति पुष्कराक्षमुक्त्वा स विद्याधरो दिवमयासीत्। पुष्कराक्षोऽपि स्वां पुरीं गत्वा मन्त्रिषु राज्यं निवेश्यनक्तमश्वमेकमारुह्य प्रायात्, क्रमेण गच्छन् पश्चिमपयोधेः तटंप्राप्य कथमिममम्भोधिं तरेयमिति व्यचिन्तयत्। ततःस तत्र एकं शून्यं चण्डिकागृहं दृष्ट्वा प्रविश्य कृतस्नानविधिस्तां देवीं प्रणनाम।अथ केनापि तत्र निहितां वीणामादाय सादरः स्वगीतकैस्तां देवीम् उपवीण्यति स्म। सा च देवो, उपवीणिततुष्टा तत्र निशि सुप्तं तं निजेन भूतग्रामेणअब्धिपारमनापयत्। ततः स राजाप्रातःप्रबुद्धःआत्मानं वनान्तः स्थितमपश्यत् न तस्मिन् चण्डिकागृहे। तेन च विस्मितस्तत्र भ्रमन् एकमात्रनमैक्षिष्ट। तत्र च प्रविश्य शिष्यैर्वृतमेकं मुनिं तपस्यन्तमद्राक्षीत्। ततश्च उपेत्यस राजा तं पादयोः पतित्वा ववन्दे। सोऽपिमुनिः विहितातिष्यंतं दिव्येन चक्षुषा विदित्वाअवादीत्,

पुष्कराक्ष। यदर्थं त्वमिहागतः, सा अस्मिन्नेवक्षणे विनयवती इध्माद्याहरणाय गता, सत्वरमेष्यति, तदत्र क्षणंतिष्ठ। राजन्! सा ते पूर्वभार्य्या, तामद्य उपयच्छस्व।इति तेन मुनिनाभिहिते स राजा पुष्कराक्षो व्यचिन्तयत्दिष्ट्यास एवासौ मुनिर्विजितासुः, तदेव चेदं वनं, तत्ध्रुवं देव्या चण्डिकायैवाहम् अम्बुधिं तारित इति चित्रं कथमेषा मम पूर्वभार्य्या इति तेन पृष्टः स मुनिरवादीत्, यदितेकौतुकं श्रूयताम्।

पुरासीत्ताम्रलिप्त्यांनगर्य्यां धर्मसेनो नाम वणिक्।तस्य विद्युल्लेखा नाम भार्य्याभवत्। दैवात् स वणिक्चौरैःप्रविश्य मुषितः शस्त्रेराहतश्च। ततोऽसौ मुमूर्षुःभार्य्यया सह अग्निं प्रवेष्टुं गृहात् निरगात्।गच्छन्तौच तौ दम्पतीअकस्मात् आकाशेन आगतं रुचिराकृतिहंसमिथुन॑मपश्यताम्। तद्दर्शनोद्भूतचित्तौ तौ ज्वलनं प्रविश्यमृतौ राजहंसदम्पती अभूताम्। कदाचित् तौ वर्षासु रात्रौ खर्जूरपादपे कृतनीड़ौ स्थितौ वात्या तं तरुमुन्मूल्यव्ययोजयत। अथ प्रातः शान्ते समीरणे स हंसस्तां हंसीं चिन्वन् सरःसु दिगन्तेषु च न कथञ्चिदवाप्तवान्। ततः सतत्कालसेव्यंहंसानां मानसं सरः स्मरार्त्तः पथि अन्ययाहंस्या जनिताशः प्रतस्थे। तत्र तां मार्गहंसींलुब्धकेनहतां दृष्ट्वा स भयशोकार्त्तः सहसा ततः प्राद्रवत्। स च लुब्धकः तां मृतां हंसींवीक्ष्य आदाय च स्वावासं प्रस्थितः।ततः स हंसः तां स्वां हंसीमपश्यन् उन्मनाः एकस्मिन् सरस्तटे हंसयूथेन मिलितः। क्षणे च तस्मिन् कोऽपि धीवरः

जालं क्षिप्त्वातान् सर्वान् हंसान् निवध्य आहारार्थं उपाविशत्।

अत्रान्तरे सा हंसी पतिं चिन्वती आगत्य तं जालबद्धं दृष्ट्वा आर्त्ता दिशो व्यलोकयत्। ततः स्नातुंप्रवृत्तेन केनचित् पुंसा तस्मिन् सरस्तटे वस्त्रोपरिन्यस्तां रत्नकण्ठिकामपश्यत्। ताञ्च दृष्ट्वैव सा अपश्यतस्तस्य तां हृत्वा तस्मै धीवराय दर्शयन्तीव्योम्ना शनैर्गच्छति स्म। सोऽपिं धीवरः चञ्च्वा गृहीतरत्नकण्ठीं तां गृहीतलगुड़ः तत् पक्षिजालंविहाय अन्वधावत्। सा च हंसी शैलाग्रं गत्वा दूरे तांकण्ठिकां न्यधात्। स च दाशः तल्लोभात् तत्रारोढुं प्रचक्रमे। तदवलोक्य सा हंसी पत्युः बद्धस्य समीपस्थे वृक्षेसंसुप्तमेकं कपिं चञ्च्वाअभ्यताड़यत्। स च कपिस्ताड़ितस्तत्त्र जाले पतित्वा तदपाटयत्। तेन सर्वे हंसा निर्मुक्तास्ततो द्रुतं जग्मुः। अथ तौ हंसदम्पती उक्तस्ववृत्तान्तौ परस्परं मिलितौ हृष्टौ यथाकामं विजह्रतुः। यस्यकण्ठिका हृता सोऽपि पुमान् दाशं तं पक्षिलोभतः प्राप्तकण्ठिकं लब्ध्वाभीतिं प्रदर्शयन् तस्य हस्तात् कण्ठिकामादाय छुरिकया तस्य दक्षिणं पाणिमच्छिनत्। तौ च हंसदम्पती कदाचित् एकमम्बुजम् आतपत्रं कृत्वा मध्याह्नकाले सरसः समुत्थाय व्योम्नि विचेरतुः। विहरन्तौ च तौ क्षणात्कस्याश्चित् नद्यास्तीरमापतुः। तत्र कोऽपि मुनिःशिवमर्चयन् अध्युवास। तत्र केनापि व्याधेन सह यान्तौ तौहंसदम्पती एकेन शरेण निहतौ युगपत् भुवि निपततुः। तच्चाम्बुजमातपत्रंतयोः, तस्य शिवलिङ्गमर्च्चयतो

मुनेःशिवलिङ्गस्य मूर्द्धनिन्यपतत्। ततः स व्याधः तौ हंसौ दृष्ट्वा हंसं स्वीकृत्य तां हंसीं तस्मै मुनये ददौ। सोऽपिमुनिः शिवमभ्यर्च्य ययौ। तस्य लिङ्गस्य मूर्ध्नि स्रस्तस्यतस्याम्बुजस्य प्रसादात् स हंसः त्वं पुष्कराक्षः राजकुलेसंजातः, सा च हंसीयं विनयवती विद्याधरान्वयसम्भूता,विशेषतश्चास्या मांसैर्हरोऽभ्यर्चितः। इत्थं सा तव पूर्वभार्य्येति मुनिनोक्तः स पुष्कराक्षस्तं मुनिं पुनरब्रवीत्,भगवन्! तस्याग्निप्रवेशस्य फलं पक्षियोनौ जन्म कथमावयोरभूत्?। इत्युक्तवन्तं राजानं स मुनिः पुनरवादीत्,जन्तुर्यत् भावयन् स्त्रियते तद्रूपमेव प्राप्नोति। तदत्र कथामेकां शृणु।

आसीत् पुरा उज्जयिन्यां नैष्ठिकब्रह्मचारिणी लावण्यमञ्जरी नाम कापि ब्राह्मणकुमारी। सा कदाचित् कमलोदवनामानं युवानं ब्राह्मणं दृष्ट्वा सहसाहृतान्तःकरणास्मराग्निना अदह्यत। परं स्वंनियमममुञ्चन्तीं तद्भोगमेवचिन्तयन्ती गन्धवतीतीरे जीवितं तत्याज। तया च भावनया सा एकलव्यायां नगर्य्यारूपवतीति प्रसिद्धा वेश्याभवत्, व्रतप्रभावात्तु जातिं स्मृतवती। एकदा सा प्रसङ्गात् चौड़कर्णाय जापकाय द्विजाय रहसि स्वपूर्वजन्मवृत्तान्तमवर्णयत्। ततश्चतस्य जापकस्य अनुशासनेन शुद्धसङ्कल्पासती अन्ते वयसि सा वेश्यापि सद्गतिमवाप। राजन्! तदेवयो यच्चित्तः पञ्चतामेति स तन्मयत्वमश्रुते। स मुनिः तंराजानमेवमुक्त्वास्नानाय विससर्ज। मुनिश्च स्वयं मध्याह्नसवनादिकं निरवर्त्तयत्। स च राजा पुष्कराक्षःवननदी-

तटं गतस्तां तत्र पुष्पाणि चिम्वतींस्ववपुषा भासमानांविवस्वतः प्रभामिव विनयवतीं ददर्श। अदृष्टपूर्वा केयं कौतुकात् गहनं वनं प्रविष्टा इति यावत् सं समुत्सुकश्चिन्तयति तावत् विश्रम्भसखींसा विनयवती अवदत्, सखि! यो विद्याधरः पुरा मां हर्त्तुमैच्छत्, स शापमुक्तोऽद्य आगत्य मम भर्त्तृप्राप्तिमिव न्यवेदयत्। तदाकर्ण्यसखी मुनिकन्या तां प्रत्यवादीत्, सखि! अस्त्येतत् अद्यप्रगे मुनिना विजितासुना मयि शृण्वत्यां मुञ्जकेशो नामनिजः शिष्यः इदमुक्तः, गच्छ ताराबलीरङ्गमालिनौ द्रुतमिहानय, अद्य तयोर्दु हितुर्विनयवत्याः राज्ञा पुष्कराक्षेणविवाहो भविनेति मुनिनाभिहितो मञ्जुकेशस्तथेतिप्रयातः। तत् सखि! शीघ्रमिदानीम् आश्रमपदं व्रजावः। एवमुक्ता विनयवती तथा सह आश्रममगात्। पुष्कराक्षश्च दूरादलक्षितस्तत् सर्वं श्रुत्वा कामाग्निना ज्वलन् विजितासोराश्रमपदं पुनर्जगाम। तत्र तारावलीरङ्कुमालिनौ समागतौ त मुनिमानर्च्चतुः। तापसाश्च प्रणतौ तौ परिवव्रुः। ततो महर्षिणा स्वतेजोभिर्वेद्यां राजितायां स रङ्कुमाली राज्ञेपुष्कराय तां विनयवतीं दिव्यंनभश्वरं रथञ्च सम्प्रददौ। महामुनिश्च विजितासुः चतुःसमुद्रां महीमेतयासह शाधि इति वरमस्मै पुष्कराय राज्ञेप्रादात्। अथ सराजा तदनुज्ञया तां विनयवतीमादाय दिव्यं खेचरं तं रथमधिरुह्य पयोनिधिं विलङ्घ्य च निजां नगरीमागात्। तत्रचागत्य तस्य दिव्यरथस्य प्रभावात् सर्वां महीं विजित्य अवाप्तसाम्राज्यःविनयवत्या सह भोगान् विविधान् चिरं

बुभुजे। इत्थं सुदुष्करमपि देवतानुग्रहात् बुद्धिबलेन सिध्यति। तस्मात् स्वप्नदृष्टगिरिजाप्रसादात् तवापि अभीष्टमचिरात्सेत्स्यति। एतां विचित्रकथां निशम्य सोत्सुकः स मृगाङ्कदत्तः शशाङ्कवत्या अधिगमं प्रति निश्चितां बुद्धिमाधायअवतस्थे।

__________

अथ सप्ततितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172207708638.jpg"/>

इत्थमसौ मृगाङ्कदत्तः कर्मसेननृपनन्दिनीं शशाङ्कवर्ती प्राप्तुकामो वेतालकथिताम् उज्जयिनीं गन्तुं स्वमन्त्रिभिर्महाव्रतिकवेशेन स्वनगर्य्या विनिर्गमं मन्त्रयामास। सराजपुत्रःभीमपराक्रमं सचिवं रहसि खट्टाङ्गकपालादिसमाहरणाय आदिदेश। तेन च तत् सर्वमाहृतं चारात्मृगाङ्कदत्तस्य पितुर्मुख्यो मन्त्री अबुध्यत। तस्मिंश्चक्षणे मृगाङ्गदत्तः हर्म्यपृष्ठतः सञ्चरन् अकस्मात् ताम्बूलनिष्ठोधनरस तत्याज। स च रसः दैवात् अधोमार्गेण गच्छतस्तस्यपितृमन्त्रिणःअदृष्टस्य मूर्द्धनि न्यपतत्। स च मृगाङ्कदत्तेनमुक्तं तं निष्ठीवनरसं बुद्धा कृतस्नानःपरिभवदुःखं हृदिन्यधात्।

अन्येद्युः वृद्धस्य महीपतेः अमरदत्तस्य दैवात् विसूचिका उदपद्यत। स मन्त्री तञ्चावसरं लब्ध्वाविजनेतथा रोगार्त्तंनृपम् अभयं याचमानः प्राब्रवीत् प्रभो!

भीमपराक्रमगृहे मृगाङ्कदत्तेन तव अभिचारः कर्त्तुंप्रारब्धः, तेन पीड़ितोऽसि, मया चारमुखात् ज्ञातं तच्च प्रत्यक्षं दृश्यते। तत् त्वं देहात् व्याधिमिव तमात्मजंदेशात् निःसारय। तदाकर्ण्य राजा सहसा समुद्भ्रान्तः। तदवेक्षणाय निजं सेनापतिं भीमपराक्रमसदने प्राहिणोत्। स च सेनापतिस्ततः केशकपालादि लब्ध्वा आनीय तत्क्षणं तस्मै राज्ञे अदर्शयत्। तच्च दृष्ट्वा राजा अतिक्रुद्धः,राज्यलुब्धो मे द्रोही पुत्रः अद्यैव देशादस्मात् स्वमन्त्रिसहितो निर्वास्यतामिति तं सेनापति समादिदेश। स च सेनापतिःगत्वा राजादेशं निवेद्य तं मृगाङ्कदत्तंसामात्य नगरात् निरवासयत्। सोऽपि राजपुत्रः उपेक्षितमय्यत्तिः हर्षेणार्च्चितविनायकः मनसा पितरौ प्रणम्य ततः अयोध्याया विनिर्गम्य तान् सहयायिनः प्रचण्डशक्तिप्रमुखान् दशामात्यानब्रवीत्, शक्तिरक्षितो नाम किराताधिपः मे सब्रह्मचारी विद्यासु बालसुहृच्च। प्राक् युद्धे वन्दीकृतेन तत्त्पित्रा आत्ममुक्तये पिता मे शरण गतः। तातश्च मे तं तत्सपत्नेभ्यः मोचयित्वा स्वंपदमधिरोपितवान्। ततश्च तत् पितरि मृते सोऽपि तातेन मे तदेव पितृराज्यमधिरोपितः। तत्तस्य मे सुहृदः सकाशमद्य वय गच्छामः। ततः क्रमेण तां शशाङ्कवतीमुद्दिश्य उज्जयिनीं गमिष्यामः। इत्युक्तवान् स राजतनयस्तथेति वादिभिस्तैर्मन्त्रिभिः स क्रमेण गच्छन् सायमेकां महाटवीं प्राप। अपादपसलिलायां तस्यां स राजपुत्रः कृच्छ्रात् एकं तटोपान्तस्थितशुष्कपादप सर प्राप्तवान्। तस्मिन्

साध्यं विधिमुपास्य जलानि च पीत्वा श्रान्तः अमात्यैःसह तस्य शुष्कतरोरधः सुष्वाप।

अथ रजन्यां चन्द्रोदयालङ्कृतायां सः प्रबुद्धः तं शुष्कवृक्षं क्रमात् दलैः पुष्यैः फलैश्चापूरितं ददर्श, दर्शयामास चसचिवान् प्रबोध्य अस्य पक्वानि फलानि तत्क्षण पतन्ति अवलोक्य अदद्भुतम्।ततस्तैः प्रबुद्धैर्विस्मयान्वितैःक्षुधितैः सह तानि सुखादुरसानि फलानि बुभुजे। अथ तेषु भुक्तवत्सु तिष्ठत्सु स शुष्कवृतः सहसा विप्रकुमारः समजायत। अथ विस्मितेन राजपुत्रेण मृगाङ्कदत्तेनपृष्टः सः कुमारः प्राब्रवीत्, राजनन्दन! दामधिर्नामअयोध्यायां कोऽपि द्विजोऽभवत्। तस्याहं श्रुतधिर्नाम पुत्रः। पिता मम दुर्भिक्षे प्राप्ते मृतजानिर्मामादायभ्रमन् इमांभूमिमवाप। स मत्पिता इह केनापिदत्तानि पञ्च फलानि प्राप्य क्षुत्पीड़ितस्त्रीणि मह्यमदात्, द्वे च आत्मने अस्थापयत्। ततस्तस्मिन् स्नातुं सरोवरमिदमवतीर्णे अहं तानि सर्वाणि फलानि भुक्त्वानिःशेषाणि कृत्वा व्याजेन निद्रामभजे। अथ स स्नात्वागतः बुद्धाछलतः काष्ठवत् स्थितं मां शशाप, इह सरस्तटेशुष्कवृक्षो भव, चन्द्रवत्याञ्च रात्रौ ते पुष्पफलानि भविष्यन्ति। यदा ते फलानि अतिथिर्भोक्ष्यते, तदा त्वंशापादस्मात् मोक्ष्यसे इति पित्राभिशप्तोऽहं तत्क्षणादेव शुष्कतरुरभवम्। अद्य भवद्भिर्भुक्तेषु मदीयेषु फलेषु सुचिरात् शापनिर्मुक्तोऽस्मि। इति कथितस्ववृत्तान्तंश्रुतधिंपृच्छन्तं राजपुत्रोऽपि मृगाङ्कदत्तः स्वं वृत्तान्तमवर्णयत्!

ततः स श्रुतधिर्नीतिःअबान्धवस्तमेव मृगाङ्कदत्तं बन्धुं मत्वा अन्वगमत्। ततस्तत्र तां निशां नीत्वा सर्वे प्रातःतस्मात् प्रतस्थिरे।गच्छन्तश्च ते करिमण्डिताख्य वनं प्राप्य बहुक्लेशातुराकृतीन् पञ्च पुरुषान् ददृशुः। पुरुषाः समुपेत्य तं राजपुत्रं सप्रश्रयम् अब्रुवन्, महाभाग! वयं काशीपुर्य्यांविप्राः धेनूरुपजीव्य अतिष्ठाम।

अथ कदाचित् दुर्भिक्षे अवग्रहदग्धतृणात् देशात्इतरं बहुतृणं देशं ताभिर्धेनुभिरागताः स्म। ततश्चास्माभिरिहैव xपीवारि रसायनं प्राप्तम्। ततश्च तद् वारि पिबतामस्माकं क्षीरपायिनां पञ्चवर्षशतानि अस्मिन् विजनेवने समतीतानि। देव! तेन वय मीदृशाः, यूयञ्चास्माकमद्य अतिथयः दैवात् प्राप्ताः, तदागच्छत अस्माकमाश्रमम। इति तैरर्थितो राजसूनुरनुगैः सह तदाश्रमंगत्वा क्षीरादिकं तत्र भुक्ता तद्दिनमनयत्। ततः प्रातः प्रस्थितस्तानि तानि कौतुकावहानि पश्यन् क्रमात्किरातविषय प्राप, प्राहिणोच्च त श्रुतधिं किरातराजायस्वागमवेिदनाय। सोऽपि किरातपतिः शक्तिरक्षितस्तमागतं मृगाङ्कदत्तंबुद्ध्वानिर्गत्य दृष्ट्वा प्रणम्य च सामात्यं पुरं स्वंप्रावेशयत्। तत्र स मृगाङ्कन्तः तेन किरातराजेनसम्मानितः तस्मै कथितस्ववृत्तान्तः कांश्चित् दिवसानतिष्ठत्। अथ स्वकार्य्येप्राप्तकाले शक्तिरक्षितं साहाय्यार्थमनुरुध्य तं तथेति प्रतिज्ञातमामन्त्र्यापुण्ये दिवसे उज्जयिनीं प्रति सामात्यः प्रतस्थे। गच्छंश्च शशाङ्कवतीलालसःशून्यामेकामटवीमासाद्य तत्र तरुतलस्थितम् अजिन-

जटाभृतमेकं तापसं ददर्श, पप्रच्छ च तं भगवन्! कथंमेकाकी निराश्रमपदे अस्मिन् अरण्ये तिष्ठसीति। तापसोऽब्रवीत्, महाभाग। अहं महागुरोः शुद्धकीर्त्तिनामकस्यशिष्यः नानामन्त्रसिद्धिं जानामि। सोऽहं कदाचित् शुभलक्षणमेकं क्षत्रकुमारमासादयम्। स कुमारःमदन्तिकमुपविष्टः पृष्टश्च मे नानाविधानि सिद्धौषधरसक्षेत्राणि कथयित्वा इदमब्रवीत्।

अस्ति अस्मिन् उत्तरे दिग्भागे महान् शिंगपातरुः विन्ध्याटव्याम्। तस्य अधस्तलं महत् नागेन्द्रभवनम्। तत्रपारावतो नाम बली नागवरः प्रतिवसति। तस्य च देववरप्रसादात् अनुत्तमः खड्ग एकोऽस्ति। तं वैदूर्य्यकान्तिं नाम खड्गंयः प्राप्नोति स सिद्धाधिपतिर्भूत्वा जगतिअपराजितो विचरति। स चासिः वीरैःसहायैर्विना नप्राप्यते इति कथयित्वा तस्मिन् क्षत्रकुमारे प्रस्थिते अहम्अनन्यमनाः तं खड्गंप्रेभ्सुः पृथिवीं भ्राम्यन्नपि सहायानप्राप्य खिद्यमान इह मर्तुमागत इति। जृगाङ्कदत्तस्तस्यतापसस्य एवं वचनं निशम्य अहं सामात्यस्ते सहाय इतितमभाषत। स च तापसस्तदचनमभिनन्द्य सानुगेन तेनतत्क्षणं तस्य नागस्य भवनं प्रति प्रायात्। तत्र च गत्वा अभिज्ञानेन प्राप्तैर्मन्त्रैर्बद्धासुदिक्षु तान् मृगाङ्कदत्तादीन्स्थापयित्वा अभिमन्त्रितैः सर्षपेः प्रकटीकृत्य क्षिप्तैःसर्वतः संरक्ष्य तस्मिन् नागभवनोपरि शिंशपातले होमं कर्तुं प्रचक्रमे। मन्त्रशक्त्या च विघ्नान् उत्पातानन्यांश्च निराचकार। ततःसहसा तस्मात् शिंशपातरोः कापि दिव्या स्त्रीरक्षा-

भरणानां शिञ्जितैः मोहमन्त्रंपठन्तीव विनिर्ययौ, चकारचोपेत्य तं कटाक्षक्षतमानसम्। ततश्चसा अधीरा हृतधैर्य्यं तं समालिङ्ग्यघनस्तनी विस्मृतमन्त्रस्य तस्य हस्तात् होमभाण्डमपातयत्। लब्धावकाशश्च तस्मिन् क्षणे स पारावताख्यो नागराजस्तस्मात् भवनात् कल्पान्तघनाघन इवोदतिष्ठत्। तं नयनज्वालावोरगर्जितदारुणं दृष्ट्वा सनापसः सहसा स्फुटितहृदयःसमवर्त्तत सा च दिव्यायोषित् अन्तर्दधे। तस्मिंश्च तापसे तथाभूते तस्यार्थे समागतान् मृगाङ्कदत्तादीन् स नागः शशाप, यतो युष्माभिरेतत् साहाय्यं कर्तुं निष्कारणमागतं तस्मात् यूयं कञ्चित्कालं परस्परं विप्रयुक्ता भविष्यथ इत्युक्ता नागे अन्तर्हिते ते राजपुत्रप्रभृतयस्तत्क्षणं ध्वान्तरुद्वदृशः ध्वस्तशब्दश्रवणशक्तयः परस्परं विप्रयुक्ताः शापप्रभावात् क्रोशन्तः चिन्तयन्तश्च यथायथं जग्मुः। मृगाङ्कदत्तस्तस्मिन् रात्रिविभ्रमे गते इतस्ततोऽटव्यां भ्राम्यन् सचिवैर्विना नितरां क्लेशमापद्यत।

इत्थं द्वित्रेषु मासेषु गतेषु स श्रुतधिरकस्मात् तस्यमृगाङ्कदत्तस्य पदवीं चिन्वन् सहसा तत्समीपमवाप। सश्रुतधिः साशुस्तं कृतादरं स्वमन्त्रिवार्त्तांपृच्छन्तं मृगाङ्कदत्तं समाश्वास्य इदमभ्यधात्, प्रभो! न मधा ते दृष्टाः,परन्तु जाने ते उज्जयिनीं प्रति यास्यन्तीति। इत्युक्तवताः तेन समन्वितः मृगाङ्कदत्तः शनकैरुज्जयिनीं प्रति प्रायात्। गच्छंश्च अल्यैरेव दिवसैर्मार्गेण अतर्कितागतं, विमलबुद्धिंनाम निजं मन्त्रिणं प्राप्य सहर्षमन्येषां वृत्तान्तमपृच्छत्।

स चावदत्, देव! न जानेऽहं तेषु कः कुत्र नागशापात्गतः, परं तान् शीघ्रमाप्स्यसीति मया ज्ञातं शृणु तत्।अहं तदा नागशापेन दूराकृष्टः परिभ्रमन् क्लान्तः अटव्याःपूर्वस्यां दिशि केनापि साधुना महर्षेर्ब्रह्मदण्डिनः आश्रमंनीतोऽस्मि। तत्र तेन मुनिना दत्तैःफलजलैर्हृतक्लमः पर्य्यटन् आश्रमादनतिदूरे बृहतीमेकां गुहामद्राक्षम्। गुहाञ्चप्रविश्य कौतुकात् तस्याम् उत्तमं मन्दिरं दृष्ट्वा जालगवाक्षैस्तदभ्यन्तरमवलोकयितुंप्रावर्त्तिषि।अपश्यञ्च तत्र कापि योषित् सभृङ्गकं चक्रं भ्रामयन्ती तिष्ठति, ततस्ते भृङ्गातत्रस्थौवृषमेकं गर्दभञ्च समाश्रिताः। ताभ्याञ्च वृषगर्दभाभ्यां मुक्तौ क्षीरासृकफेनौपीत्वा ते भृङ्गाः सिता असिताश्च भूत्वा जालकारका जाताःस्वविष्ठाभिः। ततस्तैद्विविधैर्विविधाः सुपुष्यैर्विषपुष्येश्चसंयुता जालपायाः कृताः। ते च जालकारकास्तेषु पुष्येषु यथासुखं स्थिताः,अथ ते श्वेतकृष्णोभयमुखेन अहिना एत्य दष्टाः, पुनस्तथैवतानेव पाशान् छित्त्वा यथायथं स्थिताः। अथ विषज्वलया तत्पुष्पजालस्थेषु आरटत्सु अन्येऽपि अजालस्थाःक्रन्दितुं प्रवृत्ताः। तेन तेषां रोदनशब्देन भग्नसमाधिः तत्रस्थः कोऽपि कृपालुस्तापसः तान् जालादमोचयत्। ततो निर्दग्धपाशास्ते कस्यापि द्रुमस्य विवरं प्रविष्टाः सूर्य्यतेजसि विलीना अभवन्। तावञ्च सा स्त्री सचक्रवृषगर्दभा क्वापिगता। तदवलोक्य विस्मितो यावत्तवपर्यटामि तावत् कामपि हृयाम् इहागच्छ वीक्षस्वइति आह्वयन्तीमिव भृङ्गनादितैरम्बुजैः, पुष्करिणीमपश्यम्।

तस्यास्तीरे उपविष्टश्च महत् वनं वीक्षे, तस्मिंश्च वनान्तरेएको लुब्धकस्तिष्ठति, तेन दशबाहुरेकः सिंहपोतो विवर्द्ध्यअनायत्त इति क्रोधात् तस्माद्वन्वदपवाहितः। सोऽपि सिंहः वनान्तरे सिंह्याःशब्दं श्रुत्वा तत्र गच्छन् महावातेन अवकीर्णभुजः कृतः। ततो लम्बोदरेण केनचित् पुंसा कृपयेत्य पुनरारोपितदशबाहुःस तस्या एव सिंह्याः कृतेपुनस्तद्वनमेव यातः। तत्र तां कृच्छ्रेण प्राप्य तया सहितःपुनर्निजं वनं प्रायात्। तञ्च सभार्य्यमागत दृष्ट्वा तस्मै कुलमन्दिरं वनं समर्प्य लुब्धकः स अन्यत् वनं गतः। एतदालोक्य अहम् आश्रमपदं गत्वा तदुभयं महाश्चर्य्यंतस्मै महर्षयेकथयम् सोऽब्रवीत्, सौम्य। या त्वया तत्र स्त्रीदृष्टा,सा माया, तया च भ्रामितं यच्चक्रं तत् संसारचक्रं, ये चभृङ्गास्ते तत्र जन्तवः।यौ च वृषगर्दभी दृष्टी तो धर्माधर्मौ विद्धि। ताभ्याञ्च यत् वान्तं दुग्धमसृक् च ते उभे सुकृतदुष्कृते। ये च जालपाशानिर्मितास्ते सुतादयः। सुपुष्पाणि विषदुष्णाणि च यानि तानि सुखदुःखानि। कालेन यथास्वं तेषु तेषु ते संसक्ताः। पुत्र! इत्यं शुभाशुभाभ्यांहताः प्राणिनःतया स्त्रीरूपया मायया जानायोनिषुक्षिप्ताः। ते च तुल्यासु पतिताःश्वेताःअतुल्यासु कृष्णाः इत्थंद्विविधाः पुत्रादिजालपाशेषु सुखदुःखानुबन्धिषुसंसक्ता जायन्ते। ततः निजैर्जालैः कृष्टा बद्धाश्चदुःखविषार्द्दिताः परमुद्विग्नाः क्रन्दितुं प्रवृत्ताः शरण्यं परमेश्वरं आह्वयन्ति। ततः प्रबुध्य तेन तापसरूपिणा देवेन ज्ञानाग्निज्वालया सर्वे दग्धयाशाःकृताः। ततश्च वे विद्रुमदण्ड-

रूपमादित्यमण्डलं प्रविश्य परमं धाम ययुः। सा च मायाचक्राकारेण संसारेण वृषखराकारधर्माधर्मसहिता क्वापि प्रनष्टा। एवं स्वकर्मभिः शक्ताः कृष्णाश्च जन्तवः संसारेभ्रमन्ति। ईश्वराराधनाश्च मुच्यन्ते संसारसङ्कटात्। तवमोहशान्तये ईश्वरेण इति प्रदर्शितम्। यच्च भवता वापीजले दृष्टं तदपि श्रूयताम्, एतत् सर्वं मृगाङ्कदत्तस्य भाव्यर्थप्रदर्शनं प्रतिविम्बमिव भगवता तव दर्शितम्। स हिमृगाङ्कदत्तः बालमृगेन्द्रपीतसदृशः, भुजाश्चास्य दशमन्त्रिणः। वर्द्धितोऽपि वनतुल्यात् देशात् लुब्धकरूपेण पित्रा कोपात् प्रशासितः। स च अवन्तिदेशादुद्भूतां शशाङ्कवर्ती सिहोमिव श्रुत्वा प्रचलितः। क्रमेण च गच्छतो नागशापरूपेण वातेन भ्रष्टा मन्त्रिण एवास्य भुजा दश। ततो विनायकेन लम्बोदररूपिणा समेत्य सम्पादितास्ते दश मन्त्रिणः। ततश्चपुनः प्रकृतिस्थोऽभवत्। ततो गत्वा बहून् क्लेशान् प्राप्य तां शशाङ्कवर्तीसिंहीमादाय अत्रागतः।ततः स्वनिकटं प्राप्तं मृगाङ्कदत्तं सिंहं सभार्य्यंदृष्ट्वा तस्मैस्वं राज्यरूपवनं समर्प्य स पिता लुब्धकः तपोवन प्रस्थितइति सम्पन्नषत् भाति, एतच्चविभुना ते प्रदर्शितम्। तत्स वः प्रभुः युष्मान् मन्त्रिणो भार्य्याञ्च तां शशाङ्कवतीमचिरादाप्स्यति। इत्यह तेन मुनिना बोधितस्तदाश्रमात् निर्गतः बहुना क्लेशेन भवदन्तिकं प्राप्तः। तस्मात् अविलम्बम् अभिमतै प्रचण्डशक्तिप्रमुखान् मन्त्रिणश्च प्राप्स्यसि।प्रस्थानकाले या त्वया पूजा कृता, नियतं विश्वेश्वरस्तयाप्रसन्नोऽभवत्। इति सचिवात् विमलबुद्धेःश्रोत्रसुखं निशम्य

मृगाङ्कदत्तः पुनर्विचार्य्य तेन सह अपरेषां मन्त्रिणामवाप्तये स्वकार्य्यसिद्धये च अवन्तीं प्रति प्रतस्थे।

_________

अथ एकसप्ततितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172207339034.jpg"/>

अथ मृगाङ्कदत्तः शशाङ्कवर्तीप्रेप्सुः श्रुतधिविमलबुद्धिभ्यां सह उज्जयिनीं गच्छन् अन्तरा वीचिवेल्लद्भुजलतां विलसत्फेनपाण्डुरां दिष्ट्या असौ अमात्यैर्मिलितइति हर्षादिव नृत्यन्तीं हसन्तीञ्च नर्मदां नदौमाससाद। तस्यां स्नानावतीर्णे तस्मिन् कश्चित् मायावटुर्नाम शवरभूपतिस्तत्र समाययौ। तत्र स्नात सहसोत्थाय त्रयो जलमानुषा भीतं भीतिनश्यत्परिच्छदं तं युगपद् जगृहः।तदवलोक्य मृगाङ्कदत्तः सहसाकृष्टासिः तान् जलमानुषान् अन्तः प्रविश्य हत्वा तं शवरपतिममोचयत्। स च भिल्लपतिस्तेषां जलजन्तूनांहस्तात् मुक्तः जलोत्थितः तं राजपुत्रंपादयोः पतित्वा पप्रच्छ, महाभाग! विधात्रामत्प्राणत्राणाय कस्त्वमिहानीत इति तदाकर्ण्य श्रुतधिस्तस्मै भिल्लराजाय तदुवृत्तान्तमशेषं वर्णयामास। तच्छ्रुत्वा शवरराजः तं प्रणम्य पुनरब्रवीत्, तर्हि तवात्राभिलषिते अहं यथादिष्टं साहायकं विधास्यामि,तन्मे प्रसादं कुरुष्व, प्रभो! मदीयं गृहमेत्य मां कृतार्थय, इत्युक्ता भवरेन्द्रो मृगाङ्कदत्तं तं स्वां पल्लींनिनाय, उप-

चचार च तं यथार्हैः स्वविभूतिभिः। ततस्तस्यमायावटोर्भिल्लराजस्थानुरोधेन राजपुत्रस्तत्रैव कियन्तंकालं तस्थौ।

एकदा तस्मिन् तथास्थिते स शवरेश्वरः निजप्रतीहारेण चण्डकेतुनामकेन समं द्यूतमारेभे। तावच्च नभसिमेघेषु गर्जत्सु स मायावटुः गृहमयूरान् नर्त्तितुमारब्धान्द्रष्टुमुत्तस्थौ।ततः स द्यूतरसिकः प्रतीहारस्तमब्रवीत्,राजन्! किमेभिरशिक्षतताण्डवैर्दृष्टैः। मम गृहे स मयूरोऽस्ति योऽन्यत्र भूतले नास्ति, प्रातस्तं दर्शयिष्यामियदि ते कौतुकमिति तदाकर्ण्य स मे त्वया सर्वथा दर्शनीय इति तं प्रतीहारमुक्ता दैनिकं कृत्यं व्यधात्।मृगाङ्कदत्तश्च सानुगस्तत्र स्थितस्तत् सर्वं समाकर्ण्य तथैवसमुत्सुकः स्नानाहारादिकं विदधे। ततो रजन्यामुपेतायां जृम्भिते च तिमिरे स राजपुत्रः कस्तूरिकानुलिप्ताङ्गःनीलाम्बरश्च।एककः विचरणार्थं सुप्तानुगात् वासगृहांत्खङ्गपाणिर्निरगात्। भ्रमश्चतत्र मार्गगतेन केनापि पुंसाध्वान्तवशाददृष्टेन अंसेन असे अभ्यहन्यत। ततः सः राजपुत्रः परिभवेण सज्जातकोपस्तं पुमांसं युद्धाय आजुहाव। स चाहूतः पुमान् तत्कालोचितमभ्यधात् भद्र! अविचार्यैव किं ताम्यसि, विचारयसि चेत् अत्र निशापतिर्वाच्यः, येनेय निशा न प्रकाशिता, अथवा धाता येनास्यनिशापतेः पूर्णोऽधिकारः न व्यवस्थापितः। येन ईदृशे तमसि वैराणि जायन्ते। तदाकर्ण्य सत्यमित्युक्त्त्वानागरिकस्य तस्य वचसि तुष्टो मृगाङ्कदत्तः कोऽसीति तं पुरुषंपप्रच्छ। सोऽपि पुमान् चौरोऽहमिति मृषा तमवदत्।

तर्हि हस्तमानय, त्वंमे स ब्रह्मचारी असीति तेन सख्यं कृत्वा जिज्ञासुः तेनैव सह व्रजन् राजसुतः तिमिराच्छन्नया अलक्षितं गृहमेकमवाप। प्रविश्य च बुबुधे तदेव मायाबटोर्भिल्लराजस्य निकेतनं, स च पुरुषखण्डकेतुःप्रतीहारः,न तस्कर इति। प्रतीहारस्तु मन्दालोकेन कोणगं वेशच्छन्नं तं मृगाङ्कदत्तं प्रच्छत्रकामुको न परिजज्ञे। ततः सःअनुरक्तया राजयोषिता मञ्जुमतीसमाख्यया प्राप्त एवउत्थाय कण्ठे जगृहे, पपृच्छेच पर्य्यङ्केउपवेश्य, सुभग! अद्य त्वया कोऽयं पुमान् इहानीतः? प्रतीहारस्तामब्रवीत्प्रिये! सुहृत् ममायं, विश्वस्ता भव इति। सातु सोद्वेगा तमवदत, नाथ! कुतो मे मन्दभाग्यायाविश्वासः, यदसौ मम भर्त्ता शवरराजः सुखं प्राप्तादपिमृत्युमुखात् मृगाङ्कदत्तेन रक्षित इति। तदाकर्ण्य सप्रतोहारस्तामवादीत्, अलमुद्वेगेन, प्रिये!अचिरादहं तं भिल्लपति मृगाङ्कदत्तञ्च हनिष्यामि। इत्युक्तवन्तं त सा प्रत्यवादीत्, किमेवं विकथ्यसे? यदासौ नृपो नर्मदाम्भसिग्राहैराक्रान्तः, तदासौ मृगाङ्कदत्त एक एव तद्रक्षणायउद्यत आसीत्। त्वया तत्र किं न हतः प्रत्युत भयात् पलायितोऽसि, तत् तूष्णीं भव, येन कश्विदपि नेदं ते वचः शृणोतु। शूरात् तस्मात् मृगाङ्कदत्तात् त्वमेव अशिवमाप्स्यतीति मन्ये। एवमुक्तवतीं तां स जारस्तांन चक्षमे। पापे। त्वं मृगाङ्कदत्तेसाम्प्रतं बद्धभावा, समयि, तदस्य मदविक्षेपस्य फलमाप्नुहि इत्युक्ता तांइन्तुं सामिधेनुकः समुत्तस्थौ। ततो रहस्यवेदिन्या

तत्रत्वयाएकया चेष्ट्या धावित्वा करेण तस्त्र छुरिका यावदवष्टश्वा, तावत् सा मज्जुमतीतस्मान्निर्गत्य अन्यतःपलाय्य प्राणनरक्षीत्। प्रतीहारश्चतस्याश्चेट्यानिकृत्ताङ्गुलितः करात् तां छुरिकामाक्षिप्य तेन मृगाङ्कदत्तेनविस्मिताकुलेन सह यथागतं स्वगृहं प्रायात्। ततोमृगाङ्कदत्तः गच्छाम्यहं, भवान् गृहं प्राप्त इति अलक्षितएव तं प्राब्रवीत्। सोऽपि प्रतीहारः, त्वमिहैव निद्रांभज, भृशं परिश्रान्तोऽसीति तं राजपुत्रमप्यधात्। ततस्तथेति तेन तच्चेष्टालोकनैषिणाभिहिते असौ प्रतीहारस्तवएकं भृत्यमाहूयजगाद, स मयूरः यत्र स्थितः तत्र वासगृहे इमं पुरुषं विश्रामाय नय, प्रयच्छवास्मै शयनीयमिति। स च भृत्यस्तथेति तं मृगाङ्कदत्तंसस्मिन् सदीपके गृहे नीत्वा शय्याञ्च प्रदर्श्य शृङ्खलया वहिर्द्वारं रुद्धा चयथास्थानं गतः। मृगाङ्कदत्तस्तत्र पञ्रजरस्थितंमयूरं दृष्ट्वा सोऽयं मयूरः, यस्य कथा प्रतीहारेण अद्यद्यूतकाले कश्चितेति समालोच्य कौतुकात् तस्य मयूरस्यपञ्जरम् उद्घाटयामास। स तु मयूरः पञ्जरात्रिर्गत्यनिपुणं वीक्ष्यच मृगाङ्कदत्तस्य पादयोर्मुहुर्निपपात,लुलोठ च । लुठतथ तस्य कण्ठबद्धस्त्रकं दृष्ट्वा तेन तंपीड़ितं मत्वा अमोचयत्। स च मुक्तकण्ठसूत्र एव तस्यपश्यतः भीमपराक्रमो नाम मन्त्री समपद्यत। ततो मृगाङ्कदत्तस्तमुत्सुकमानतं समाश्लिष्य सखे! कथय किमेतदितिविस्मितस्तद्वार्त्तांपप्रच्छ। स च भीमपराक्रमः संहृष्टस्तदातमवोचत् देव! शृणु मे वृत्तान्तमामूलात् कथयामि।

अहं तावत् शापेन भवदन्तिकात् प्रभ्रष्टः अटवीं भ्रमन् एकं शाल्मलिपादपं प्राप। तत्र मिखातरूपां गणेशप्रतिमां दृष्ट्वा प्रणम्य परिश्रान्तस्तन्भूले उपाविशम्। समालोचयञ्चधिक् मां पापकृतं यदहमविचार्य्य स्वामिने तत् रात्रिवेतालवृत्तान्तमावेदितं, तदिहैव आत्मानमपराधिनं त्यजामीति तत्रैव देवसमोपे अनशन एवातिष्ठम्। कतिपयेचाहनि गते तेन पथा समागतः कश्चित् वृद्धपान्यस्तस्यैवतरोरधच्छायायां समुपाविशत्। स च साधुर्मांम्लानमुखं दृष्ट्वापृच्छत्, पुत्र! किमिह निर्जने एवं क्लेशमनुभवन् तिष्ठसीति। ततो मया स्ववृत्तान्ते यथावदावेदिते स वृद्धपथिकः प्रीतात्मा धीरवत् मामभाषत, वीर! कथमात्मानं स्त्रीव हसि, स्त्रियोऽपि आपदि धैर्य्यंनोज्झन्ति,तदत्र कथामेकां शृणु।

आसीत् कोशलायां नगर्य्यांविमलाकारो नामनृपतिः। तस्य कमलाकरो नाम पुत्रोऽभूत्।स हि ओजारूपौदार्यगुणैः स्कन्दकन्दर्पकल्पद्रुमजिगीषुणेव धात्रा विनिर्मितः सर्वेषां श्लाघ्यतामगात्। एकदा वन्दिगणस्तुत्यस्य तस्य कुमारस्य पुरः कोऽपि परिचितो वन्दो एकां गायां पपाठ। हंसावली पद्मासादनार्थं सोत्सुकविविधमुखरद्विजावलीपरिगीतं कमलाकरमप्राप्य क्वरतिंलभताम्? एवं मुहुः पठन् तेन पृष्टो मनोरथसिद्धिर्नाम वन्दीतं कुमारं कमलाकरमब्रवीत्, देव! अहं भुवं पर्य्यटन् मेवमालिनो नाम राज्ञः नगरींविदिशां श्रियःनीलोद्यानुभुवमिव गतोऽस्मि। तत्र च दर्दुरिकाख्यस्य

सङ्गीताचार्य्यस्य वेश्मनि कियन्तं दिवसमासम्।एकदास मां प्रसङ्गेनेदमब्रवीत्, इह हंसावली नाम राजदुहिता राज्ञः पुरतः नवीनं शिक्षितं स्वनृत्यं प्रातर्दर्शयिष्यति। तदाकर्ण्य कौतुकात् युक्त्या अपरेऽहनि तेन समं राजकुलं गत्वा रङ्गमण्डपं प्राविशम्, अपश्यञ्च तत्र सुमध्यमांतां पितुरग्रतो नृत्यन्तीम आलोलपुष्पाभरणां मणिप्रङ्गितपल्लवां स्मरतरोर्वल्लीभिव यौवनानिलघूर्णितां गजबालाम्। ततश्चाचिन्तयम् अस्या मृगाक्ष्याः सुसदृशः पतिःकोऽपि नास्ति भृतले कुमारात् कमलाकराट्टते। तादृशेन चेदियं न युज्यते, ततः कामस्य किं कृतेः पुष्पकार्मकारोपणग्रहैः। तदत्र उपायं कमपि करिष्यामीत्यनचिन्त्य नृत्यप्रेक्षणादनन्तरं राजकुलद्वारमगाम्। उदलम्बयञ्च तत्र चोरिकां यथा यदि कश्चित् मया सदृशश्चित्रकृदस्ति, स चित्रे लिखतु इति। अथ राजा केनापितथा प्रपेतुमशक्यं बुद्धामामाहूव स्वसुतावासे चित्रकर्मणि न्ययुङ्क्त। ततस्तस्या हंसावल्या वासगृहे स्थित्वा मयाभित्तौ सभृत्यः देवः कमलाकरस्त्वमभिलिखितः। स्पष्टं बोधयामि चेत् तदा सा मां त्वद्भृत्य वेत्ति, तदेतांराजसुतां युक्त्या बोधयामि इति संचिन्त्य एकं विश्वस्तं सुहृद कृतप्रतिज्ञं रम्यमुन्मत्तरूपमकारयम्। स उन्मत्तोभ्रमन् दूरात् राजपुत्र्यानृत्यमालोक्य क्रीड़नक इति तथाराजपुत्र्यानिजान्तिकमानायि।ततः क्रीड़ावशात् समया हंसावल्या वासगृहं प्रवेशितः मञ्चित्रंपश्यन् देवस्यसुतिमकरोत्। दिष्ट्याअद्यअब्जशङ्खाङ्कितपाणिर्लक्ष्मी-

निवासः सोऽयं हरिरिव अनन्तगुणः कमलाकरो दृष्टः। इत्यादिकं नृत्यतस्तस्य मुखात् सा राजपुत्री निशम्य मामपृच्छत्, किमयमुन्मत्तः प्राह, कश्चत्वयाभिलिखित इति। इत्येवं तामनुबन्धेन पृच्छन्ती महमब्रुवं, सुन्दरि! नूनमनेन दृष्टपूर्वोऽसौ योऽयं राजपुत्रो मयात्राभिलिखितो रूपगौरवात्। इत्युक्त्वामयापि तस्यै त्वं गुणैर्नानाम्नानिवेदितः। ततस्तस्याः सहसा समुद्भूतप्रेमरसाकुले हृदि अभिनवः स्मरतरुरुदपद्यत। अथागतेन तस्याः पित्रा राज्ञा स विलोक्य उन्मत्तः, अहञ्च क्रोधात् तस्मात् गृहात् निष्कासितः। ततः प्रभृति सा राजबाला उन्मना दिने दिने क्षीयमाणा कृष्णपक्षे शशिकलेव लावण्यशेषतामगात्। सा इदानीं व्याजात् पापघ्नंहरेरायतनम् आश्रित्य पितुरनुज्ञया युक्त्या विजनसेविनी भवच्चित्ता विनिद्रा चन्द्रातपमपि सोढुमशक्ता निशावासरयोरजानन्ती तस्थौ। एकदा तत्र कार्य्यवशात् प्रविष्टं मां विलोक्य सा समाहूय वस्त्राभरणैः सगौरवमपूजयत्। निर्गतश्चाहंतद्दत्तवसनाञ्चले त्वत्कृते गाथां लिखितामपश्यं शृणु देव! तां पुनः। हंसावली पद्मासादनार्थं समुत्सुकविविधमुखरद्विजावलिगीतं कमलाकरमप्राप्य क्व रतिं लभताम्? ततश्चाहं तस्याः सुनिश्चयमवेत्य देवं बोधयितुम् एतां गाथांपुरत एवापठम्। इदञ्चतद्वस्त्रं यत्रैषा गाथा तथा लिखिता। इति वन्दिनो वचनं श्रुत्वा ताञ्चगाथां प्रविलोक्य श्रोत्रेण च नेत्रेण च हृदयं प्रविष्टामिव तां ध्यायन् स राजपुत्रो जहर्ष। यावच्च तत्प्राप्तये उपायं समुत्सुक-

श्चिन्तयति, तावत् तस्य पिता नृपतिस्तमाहूय अभाषत,पुत्र! अलसा राजानो मन्त्ररुद्धाइव उरगाः, न कथमपिउदयं लभन्ते। त्वया चाद्यापि सुखासक्तेन जिगीषा नदृष्टा, तन्मयि तिष्ठति आलस्यंहित्वा उद्युक्तो भव, विजयस्व च त्वमग्रतो गत्वा रिपुमङ्गराजम्। स कमलाकरःहृष्टः प्रियां हंसावलीं प्रति यियासुः तत् पितृवचःतथेतिप्रत्यपद्यत। ततः पित्रा समादिष्टः प्राज्ञैःसचिवैः सहस राजपुत्रः महीं द्विषां हृदयानि चाकम्पयन् प्रथममङ्गदेशं प्रययौ। तत्र च गत्वा तस्याङ्गाधिपस्य चमूमवस्कन्द्य भग्नेन तेन सह अयुध्यत। तेजस्वीस राजसुतःअब्धेर्जलमिव रविस्तस्य विद्विषो बलं पपौ, जग्राह च तंजीवग्राहं जवेन। प्रजिघाय च संयम्य पितुरन्तिकं तंरिपुम्। ततश्च प्रतीहारस्य धुर्य्यस्य हस्ते आनुयात्रिकान्निक्षिप्य तात!अहमन्यान् रिपून् जेतुमितोऽधुनागच्छामीति तन्मुखेन पितुः सन्दिदेश। ततः क्रमेण अन्यान् रिपून् जयन् बलैरुपचितो विदिशांपुरीमुपाजगाम। तस्याश्चान्तिके स्थितश्च मेघमालिने तदधिपतयेतां हंसावलीं तदात्मजां याचितुं दूतं व्यसृजत्। सोऽपि मेघमालीतमदृष्टं कन्यार्थमागतं राजसुतं बुद्ध्वाप्रीत्यातत्पार्श्वंस्वयमाययौ, अब्रवीच्च कृतादरः कृतातिथ्यंतं राजसुतम्। वत्स! दूतसाध्ये अर्थेकिं त्वया परिश्रमः कृतः? ममाभीष्टमेतत्, अत्र च कारणं निशम्यताम्,एतां हंसावलीं बाल्ये नारायणार्च्चनरतां शिरोषसुकुमाराङ्गीं दृष्ट्वा अहमचिन्तयम्, ईदृगुणायां तस्याःको वरो

भवितेति। ततश्चसदृशं वरमपश्यतो मे तच्चिन्तया विनिद्रस्यमहान् ज्वरः समुपादि। एवं विनिद्रं सततं चिन्तयन्तं रात्रौ ईषत् सुप्तं मामेकदा हरिः स्वप्ने समादिशत्,पुत्र! यस्याः कृते तव एष ज्वरो जातः, सैवहंसावली पाणिना त्वांस्पृशतु, ततस्ते ज्वरः शाम्यति। यञ्चैषा मत्पूजापावनेनपाणिनास्पृशेत् तस्य असाध्योऽपि ज्वरः निःसंशयं प्रणश्येत्। अस्याश्च वैवाहिकी चिन्ता त्वया न कार्य्या। यतःराजपुत्रःकमलाकरोऽस्याः पतिर्भविता, कञ्चित् कालमेतस्याः मनाक् क्लेशः सम्भविष्यति। इति भगवतादिष्टःप्रातः प्रबुद्धः हंसावल्याःकरस्पर्शात् विगतज्वरोऽस्मि। एवमुक्त्वास राजा यथागतं ययौ। एतदाकर्ण्य तेन राजपुत्रेकमलाकरेण हंसावलीकमलाकरयोरेष संयोगो देवनिरूपित इति निरधारि। ततो मेघमालिनि हंसावली मया कमलाकराय देयेति निश्चित्य लग्नं निरूप्य च स्थिते साहंसावली रहस्यज्ञां कनकमञ्चरीं नाम सखीं रहसिआह स्म, कमकमञ्जरि! त्वया गत्वा असौ राजपुत्रः दृश्यतांस एव, येन चित्रलिखितेन मे मनो हृतम्। कदाचित् तातः अन्यस्मै सबलाय आगताय तन्नामधेयाय मां दद्यात्।इत्युक्त्वास्वैरं प्रेषिता सा कनकमञ्चरी साक्षसूत्राजिनजटंतापसोवेशं विधाय राजपुत्रस्य कटकं गत्वा परिजनैरावेदिता प्रविश्यैव तदन्तिकं,तं कामस्य जगज्जैत्रमोहनास्त्राधिदैवतमिव विलोक्य तत्क्षणं तदायत्तचित्ताभूत्। उत्कण्ठिता चाचिन्तयत्यद्यनेन मे सङ्गमो न स्यात् तदाजन्म मे धिक्, तदयुक्तमत्र करिष्यामि यद्भवतु तद्भवतु इति।

अथ उपसृत्य कृताशीस्तस्मै मणिमेकमुपानयत्,उवाच चउपविष्टम् आत्तरत्नकृतादरम्।यया अयम् असकृत् दृष्टगुणोमणिश्रेष्ठः, अनेन धारितेन शत्रोरुत्तमं शस्त्रं स्तभ्यते।गुणारागाच्च एषः तुभ्यं समर्पितः। हे राजपुत्र! एष मणिर्यथा तव उपयुज्यते तथा न मम। एवमुक्तवती सा तेनराजपुत्रेण अतिथ्याय अन्वरुध्यत। सा तु एकभिक्षाव्रतव्यपदेशेन अनुरुद्धाऽपि तत्क्षणमपययौ। ततः सह तापसीवेशं विमुच्य मुखमुद्विग्नमिव कृत्वा हंसावलीमुपागात्, अब्रवीच्चतथा पृष्टा वृत्तान्तमनृतवचसः। भर्तृदारिके! अवाच्यमपि राजरहस्यं तव भक्तितो ब्रवीमि, इतो मांतापसीवेशं विधाय तत्कटकमध्ये गतां दृष्ट्वा एकः स्वैरंमां शनैरभ्यधात्, भगवति। भूततन्तविधिक्रमम् अभिजानासि? तदाकर्ण्य तं प्रतीहारमिव दृष्ट्वाहमब्रुवं सम्यक्जानामि, अकिञ्चिदेतत् वस्तु इति। ततस्तेन तत्क्षणम् अहं राजपुत्रस्य कमलाकारस्यान्तिकं प्रवेशितः। स च मयाराजपुजः अरण्यभूताविष्ट इवपार्श्वस्थैरानद्धौषधिर्दृष्टः।अहम् अलोकरक्षाविधिमास्थाय तत्क्षणात् प्रातरेत्य दोषमिममपनेष्यामीति वादिनी ततो निरगाम्। एवं दृष्ट्वादुःखिता तवाख्यातुमागतास्मि,अतः परं ते यथारुचितथा विधीयतामिति। एतदाकर्ण्य दारुणं वज्रपातसदृशं वचः, सरला हंसावली तत्क्षणं मोहिता कियन्तं कालं तस्थौ, उवाच च प्राप्तचेतना तां सखि! अहो धिक्? गुणवत्यां स्वसृष्टावपि धातुर्मत्सर? इन्दोःकलङ्कः तस्य चदोषः येन निर्मितः। स एव मे भर्त्ता वृतः, न शक्यमत्रा

न्यथा कर्त्तुं तस्मान्मे मरणं वा वनगमनं श्रेयः, तत् किं कार्य्यंवद इति मुग्धया तथा उक्ता सा सखी पुनरवादीत्,राजपुत्रि। अस्त्यत्रैकोऽभ्युपायः यदेकां सखीं त्वद्वेशां तत्रतादृशव्याकुले जने निधाय क्वापि आवां निर्गत्य यास्यावइति। तदाकर्ण्यराजपुत्री अब्रवीत्, तर्हि त्वमेव आप्तासखी, मदीयं वेशं कृत्वा तेन राजसुतेन आत्मानं विवाहयइति। सापि पापा एवमभिहिता तथा राजदुहित्रा कनकमञ्जरी तां सरलामवादीत्, एवं करिष्ये, त्वमाश्वस्ता भव,यदस्तु तदस्तु, अहन्तु तत्कालं यथा वक्ष्ये,तथैव त्वंकुर्वीथाः। एवं कार्य्यसंविदं कृत्वा सा कुचेटी तां हंसावलोविमनसं कृत्वा तयेव सह तानि अहानि अतिष्ठत्।

अथ शुभे लग्ने प्राप्त वरे च सायमुपागतै गजाश्वपादातसहिते कमलाकरे सर्वस्मिंश्च जने उत्सवव्यग्रे युक्त्या अन्यचेटिका वासगृहात् निवार्य्य कमपि गुप्तदेशं हंसावलींप्रवेश्य आत्मानञ्च तद्वेशेनालङ्कृत्य तां राजनन्दिनीम्अशोककरीवेशां विधाय च सा कुसखीकनकमञ्जरीनिशागमे तां हंसावलीमुवाच, सखि! पश्चिमेन द्वारेणनिर्गत्य अस्मात् पुरात् वहिःक्रोशमात्रे अतिपुराणः सुशिराः यः शाल्मलितरुरस्ति तस्याभ्यन्तरे गत्वा मदागमनंप्रतीक्षस्व। कार्य्ये चानुष्ठितं अह निश्चित त्वदन्तिकंयास्यामि। इत्युक्ता तथा व्याजसख्या सा हंसावली तत्सखीवेशा तस्यामेव निशि अन्तःपुरात् निरगात्। प्रापञ्चतेन जनाकीर्णेन पुरद्वारेण अलक्षिता निर्गम्य तस्यैव शाल्मलिद्रुमस्य मूलम्। अथ सा तद्गर्भमन्धकारगहनं

दृष्ट्वा नाविशत् परं बिभ्यती तत्समीपस्थं वटतरुमारुरोह,प्रतिष्ठच्चतत्पल्लवच्छन्ना कुसख्यास्तस्यामार्गमवेक्षमणा।न च तां तस्याः कुसख्याः कुप्रवृत्तिं सरलाशया बुबुधे।

एतस्मिन्नन्तरे राजकुले सुलग्नेउपस्थिते राज्ञा आनाय्य हंसावलीवेशां कनकमञ्जरींविवाहवेदिकामारोपितां केनाप्यलक्षितां निशि कमलाकरः पर्य्यणैषीत्। ततश्च कृतोद्वाहः तां व्याजहंसावलीं गृहीत्वा अशोककर्य्यासहितां सद्य एव शुभनक्षत्रवशात्तेनैव पुरद्वारमार्गेण स्वकटकं प्रति प्रययौ। गच्छंश्चतस्यैव शाल्मलितरोर्मूलं प्राप, यस्य समीपे विप्रलब्धा सा हसावली वटतरुमाश्रित्य स्थिता। तत्र प्राप्तञ्च तं कमलाकरं सा कूटहंसावली हस्तिपृष्ठगामिनी त्रस्तेव अलिम्पत्। ततः सम्भ्रमात् तेन राजपुत्रेण पृष्टा सा कैतवात् साश्रुमुखी प्राब्रवीत्,आर्यपुत्र! अद्य अहं स्वप्ने ज्ञातवती, यदत्र अस्मात्शाल्मलितरोर्निर्गत्य कापि राक्षसी सहसा मां भक्षयितुमग्रहीत्। ततश्च केनापि ब्राह्मणेन कृपालुना प्रधाव्य अहं मोचितास्मि। तेन चाश्वास्य अहमुक्ता, पुत्रि! अमुं तरुं दाहयेः, एतस्माच्च यदि कापि स्त्रीनिर्गच्छत्सापि तत्र हुताशने क्षेप्तव्या, एवं कृते शिवं स्यादित्युक्त्वा तस्मिन् तिरोहिते अहं प्रबुद्धास्मि, इमञ्च तर दृष्ट्वा अद्य तत् स्मृतं तेनाहमस्मि भीतेत्यभिहितस्तया कमलाकरः स्वान् भृत्यान् तयोस्तरुस्त्रियोर्दाहार्थमादिदेश। ते च त शाल्मलिमदहन्। सा तु कूटहंसावली हंसावली अनिर्गच्छन्ती एवदग्धति मत्वा महान्तं हर्षमवाप। स च कमलाकरः सत्य-

मेव हंसावली मया लब्धेति मत्वा सहर्षं कटकं ययौ। ततश्च प्रातरतित्वरया स्वां पुरींकोसलां गत्वा पित्रा कृतकार्य्यतया तुष्टेन राज्ये अभ्यषिच्यत।

अथ पितरि वनं याते स कमलाकरः तां व्याजहंसावलीं बिभ्रत् मेदिनीं शशास। सापि हंसावली तस्यां रात्रौ तत्र वटे स्थिता श्रुत्वा दृष्ट्वा च सर्वं वृत्तान्तंवञ्चितास्मीतिबुबुधे। चिन्तयामास च अहो मग्नाहमन्धकूपे तया कुसख्या मे पतिश्छद्मना हृतः। हा मां दग्धुमपि प्रयतिष्ट निर्वृतिलाभाय। दुर्जने जने विश्वासः कस्य नाश्रेयसे? तदस्य मदर्थं दग्धस्यशाल्मलेरङ्गारार्चिषि अभव्यमात्मानं क्षिपामि इत्यालोच्यवटादवरुह्य प्राणत्यागोन्मुखी अपिविधियोगात् सञ्जातबुद्धिरित्थंव्यमृशत्, कथमहं वृथा आत्मानं त्यजामि, जीविता अविलम्बितमेव तस्याः कुसख्याः प्रतिक्रियां कर्त्तुं पारयामि, तातन्तु तदा स्वप्नेज्वराक्रान्तं यत्करस्पर्शात्तेरोगशान्तिर्भवितेति समादिश्यदेवेनोक्तमिदं यथा हंसावली कमलाकरं पतिमाप्स्यति,परमस्याःसम्प्रति मनाक् क्लेशोभविष्यतीति। तद् गत्वाक्वापि तिष्ठामीत्यवधार्य्यसा निर्जनामरण्यानीं प्रति प्रातिष्ठत। दूरं गतायाःक्लान्तायाः स्वलगतेस्तस्याः कृपयेवसा निशा मार्गप्रकटनाय व्यपगमत्। तद्दर्शनेन च सञ्जातकृपावेशेव द्यौरवश्यायवाष्पवारीणि अमुञ्चत्। तदश्रुमार्जनार्थमिव रविः प्रसारितकरः समुदगात्। ततः सा प्रच्छन्नवेशा निरस्तजनदर्शना उत्पथैः यान्ती कुशकण्टकविक्षताङ्गी शनकैश्चिरात् एकमरण्यमाससाद। तत्र चागत्य समुद्विम्बा

व्यचिन्तयत् यद्यपि पुष्यरेणपिशङ्गोऽयं मलयानिलः मांदहति, तरुभ्यश्च इमे कुसुमोत्करा निपतन्तः नदत्सुअलिषु कामशरसङ्घा इव मां निघ्नन्ति, तथापि एभिः कुसुमैः रमापतिमाराधयन्ती इहेव स्वदुष्कृतं क्षपयितुंतिष्ठामि। इति सञ्चिन्त्य सा राजपुत्री तत्र कृतस्नाना देवमर्चयन्तीफलमूलाशना तस्थौ।

अत्रान्तर कोसलायां दैवयोगात् चातुर्थकः महान् ज्वरः कमलाकरमग्रहीत्। तदवलोक्य सा पापा कनकमारी भीता व्यचिन्तयत्, एकं तावत् भय मे अत्रान्तःपुरेअशोककर्य्याःसख्याः। पूर्वमस्मात्प्रभोः सकाशे हंसावलीपिता ज्वरनाशनं तत्करस्पर्शमाचचक्षे, यदि स तत् स्मरेत् वा इयं मे सखी स्मारयेत् तदा सर्वोऽयं मन्त्रः भेदं गमिष्यति, मम च सर्वनाशी भविता, तदहं कयापि योगिन्या पूर्वंदत्तं ज्वरघ्नं मन्त्रं साधयामि, नाशयामि च युक्त्या इमामशोककरीम् एव राज्ञी ज्वरं नाशिते तस्याञ्च अशोककर्य्यां नाशितायां मे उभे भये शाम्येताम् अन्यथा न शिवं पश्यामीति आलोच्य तस्यै अशोककर्यैअविरुद्धंस्वमनोषितंशशंस। ततः सा तथा अशोककर्य्यैसमं युक्त्या निशिपरिच्छदं कृत्वा वहिर्द्वारेण निर्गत्य नगराद् वहिः क्वचित् शिवालये शून्यैकलिङ्गे खड्गपाणिः समेत्य तेन खड्गेन एकछागं हत्वा तदीयेन हृत्पद्मेन तस्यां निशि शिवलिङ्गतदानर्च। ततः तदक्षिभ्यां धूपं दत्त्वा तदीय शिरः बलिमदात्। ततश्च तदग्रवेद्यां रक्तचन्दनलिप्तायां गोराचनयासाष्टदल कमलं लिलेख। विदधे च तत् कर्णिकायां पिष्टेन

रचितं त्रिपादं त्रिमुखं भस्ममुष्टिप्रहरणं ज्वरम्। अथपत्त्रेषु अष्टसु ज्वरस्य सर्वान् परिवारान् यथाविधि विलिख्यमन्त्रेण ज्वरमावाहयामास। ततः सा तस्य पूर्ववत् अर्ध्यादिकं विधाय मानुषाङ्गैरस्योपहारिकं कर्तुं तामशोककरीमब्रवीत्, सखि! साम्प्रतं देवस्य सर्वाङ्गं भूतले न्यस्तं तत्प्रणम भगवन्तं, श्रेयस्ते भूयादिति। ततः सा दुराशयातथेति प्रणताया अशोकमञ्जर्य्याउपरि खड्गप्रहारमदात्।सा भृशं प्रहृता त्रायध्वमिति मुहुः यावत् रोदिति तावत्नगररक्षिणस्तामभ्यधावन्, चक्रश्चतामाकृष्टखड्गांभीमांकनकमज्जरींदृष्ट्वा राक्षसीबुद्ध्यामृतकल्पाम्।ते अशोककरीमुखात् सर्वमामूलात् वृत्तान्तमाकर्ण्य तांपापां राजकुलं निन्युः। तत्र तैर्विज्ञप्तः राजा कमलाकरःसम्भ्रान्तः तां भार्य्यांताञ्च अशोककरींस्वसमीपमानाययत्। तयोश्चानीतयोः कनकमञ्जरी तीव्रया प्रहारव्यथया भीत्या च सद्य एव समुत्क्रान्तजीवितासीत्।ततो राजा तां व्रणितां तत् सखीमशोककरीं किमिदं निर्भया ब्रूहीति अतिदुर्मनाः पर्य्यपृच्छत्। सा च तस्मैसर्वमामूलात् वृत्तान्तमवर्णयत्। श्रुत्वा च सर्वं वृत्तान्तंराज्ञो कमलाकरः अधिगततत्त्वार्थः तत्कालमतिदुःखितः अत्मानं शुशोच। अहो कूटहंसावल्या अनयाहं विप्रलब्धोऽस्मि मूढ़ेन मया स्वहस्तेन प्रिया मे हंसावली दग्धा, अनया पापया स्वदुष्कृतफलं लब्धं, कथं रूपमात्रेणाहं शिशुरिव समोह्य काचेन कुवेधसा हृतरत्नेन मुषितः? ज्वरशान्तये च मया तदादेशः विष्णुना दत्तः न स्मृतः।

एवं विलपन् स कमलाकरः पुनर्व्यमृषत् हंसावली पत्तिं मां प्राप्स्यति, मनाक् च तस्याः क्लेशो भवितेति मेघमाली विष्णोरादेशं कथयामास। तत् पित्राच मे एतत सर्वंसर्वसमक्षं कथितं तश्च कदापि नैव मृषा भविष्यति तत् मा हंसावली क्वापिस्थिता अवश्यं जीवति, स्त्रीचित्तस्येव देवस्य विचित्रां गतिं को वेत्ति? तस्मात् मनोरथसिद्धिर्नाम स वन्दो मे गतिरित्यालोच्य तं वन्दिनमानाययत्। अब्रवीच्च भद्र! भवान् यथा मम हितकरः, तथा नान्यो दृश्यते, ये धूर्त्तैर्वञ्चिताः तेषां क्वमनोरथसिद्धिः? तदाकर्ण्य सोऽब्रवीत् देव! एषा अशोकरी एव मन्त्रभेदभयासहा ममोत्तरं न च हंसावलोकृते त्वया विषादः कार्य्यः, हरिणैवास्या आदिष्टं किञ्चित् कालं दुःखम्। स एव भगवान् नित्याराधनतुष्टस्तां सततं रक्षति, धर्मो हिं नैव कदाचित् वैफल्यमियात्। देव! अहं तावत् तस्या उपलब्धयेयास्यामि। एवं ते वन्दिनाभिहितः क्षितिपः समभ्यधात् अहमात्मना त्वया सह तामन्वष्टः यास्यामि,अन्यथा मे चेतःक्षणमपि न स्थिरतामापद्यते। एवमुक्त्वा अन्येद्युःप्रज्ञाढ्यस्य मन्त्रिणो हस्ते राज्यं निक्षिप्य वार्य्यमाणोऽपि तेन नगर्य्याःप्रययौ। निर्गत्य च तेन मनोस्थसिद्धिना सह वनानि क्षेत्राणि आश्रमांश्च विचिन्वन् बभ्राम।

क्रमेण च पर्य्यटन् यत्र सा हंसावली स्थिता तदेव वनमाससाद ददर्श च कस्यचिदशोकपादपस्य मूले तपस्यन्ताम् अ्ल्पामिव शशिकलां क्षामां पाण्डुमनोरमां

हंसावलीम्। उवाच च तं वन्दिनं भद्र! केयं निःशब्दनिश्चला देवता किं स्यात्? अमानुष्यमस्या रूपं दृश्यते,तदाकर्ण्य दृष्ट्वा च स वन्दीसहर्षमब्रवीत् देव! दिष्ट्यावर्द्धसे, प्राप्ता हंसावली इति एतदाकर्ण्य हंसावली तौ प्रेक्ष्यतं वन्दिनं प्रत्यभिज्ञाय नवीभूतदुःखा चक्रन्द। हा हा! हा हतास्मि! आर्य्यपुत्र कमलाकर! हा मनोरथसिद्धे! हा विपरीतविधे! इत्येवं विलपन्ती सा तत्क्षणं मुमोह। स च कमलाकरः तां तथाभूतां दृष्ट्वा श्रुत्वा च दुःखार्त्तः सद्यो भूमौ पपात। ततस्तेन मनोरथसिद्धिना आश्वासितौ तौ हंसावलीकमलाकरो निश्चितं परस्परं विज्ञाय सुनिर्वृत्तौ वियोगार्णवोत्तीर्णौकामपि मुदमवापतुः। ऊचतुश्चान्योऽन्यं स्वं स्वं वृत्तान्तम्। ततः सकमलाकरस्तां हंसावलीं गृहीत्वा तेन वन्दिना सहितःस्वां पुरीं कोशलां ययौ। आगत्य च तत् पितरं मेघमालिनं सबन्धुमानीय निवेदितवृत्तान्तः यथाविधि तस्याः हंसावल्या पाणिमग्रहीत् अरंस्त च तया साध्व्या साकं सिद्धमनोरथश्चमनोरथसिद्धिना सहितः पृथिवीमशासत्।इत्थमापदि अत्यक्तधैर्य्यःसर्वमापद्यते। तस्मात् वत्स!तनुमात्याक्षीः, जीवन् तं पतिं प्राप्स्यसि देव! स वृद्धपथिकः मामित्यमाख्याय मरणान्निवार्य्य यथाकामंप्रययौ। इत्युक्त्वा तत्र चण्डकेतुगृहेस भीमपराक्रमः पुनर्मृगाङ्कदत्तमवादीत्। अथ त्वदाप्तये लब्बोपदेशस्तस्याअटव्याःजिगमिषितामुज्जयिनीं प्रत्येव यात्रामकरवम्। ततोभवन्तमप्राप्य श्रान्तः कस्याश्चित् स्त्रिया गृहे भोजन-

मूल्यं दत्त्वा वासाय प्राविशम्। तत्र तया दत्तमशनं भुक्त्वाश्रमात् सुप्तः। अथ प्रबुव्य कौतुकात् निभृतं स्थितः तस्याःव्यापारं यावत् पश्यामि तावत् सा गृहान्तरे यवमुष्टिं गृहीत्वा मन्त्रेण समन्तात्अवपत्। तैश्च यवैस्तत् क्षणात्जातैः फलितैः पक्वैःलूनैःभ्रष्टैःपिष्टैश्चतया सक्तवो विहिताः, तांश्च सक्तून् कांस्यपात्रे निधाय अद्भिरुक्षितान्कृत्वा सा स्नानाय द्रुत निरगात्। ततोऽहं तां शाकिनींमत्वा स्वैरमुत्थाय सत्वरम् अन्यत्र सक्तुभाण्डे तान् आर्द्रान् सक्तून् न्यधाम्। ततो मयि भूयस्तथैव शयनमाश्रिते सा योषित् प्रविश्य मामुत्थाप्य तान् सक्तून् मे भोजनाय पात्र्याः प्रादात् अभुनक् च स्व यं तस्मात् भाण्डतः सक्तून् गृहीत्वा अल्पशः। ततः सा तान् सिद्धसक्तून् अविदित्वाभुक्तैस्तेः सहसा छागी समपद्यत। ततो मया सा नीत्वा शौनिकस्य विक्रीता। ततः शौनिकभार्य्या मामुपेत्य क्रुधा अवोचत् दुरात्मन् मत्सखी त्वया विप्रलब्धा, तदवश्यं त्वया अस्य फलं प्राप्तव्यम्। इत्थं तया तर्जितोऽहं तस्मात् वहिर्गत्वा श्रान्तः कस्यचित् न्यग्रोधपादपस्य मूले शयितोऽस्मि। तथा स्थितस्य मे तत्र तथा शौनिकभार्य्यया समेत्य गले सूत्रकं बद्धम्। अथ तस्यां पापायां गतायाम् अहं प्रबुद्धस्तत् क्षणं मयूरः स्थितस्मृतिः समभवम्। ततः कतिचिद दिनानि समुद्विग्नः समन्तात् भ्रमन् एकदा एकदा शाकुनिकेन केनचित् धृतो गृहं नीतश्च। स चानीय मामस्मै चण्डकेतवे ददाति स्म। भिल्लराजोऽपि तं मां प्रतीहारमुख्याय अस्मै प्राभृतीचकार। प्रतो-

हारोऽपि मां तदेव स्वभार्य्यायैसमर्पयत्। तयाहं मण्डपेक्रीड़नार्थं रक्षितः,अद्य तु दैवात् त्वयात्रागतेन कण्ठसूत्रके मोचित एव तां मानुषीं तनुं प्राप्तोऽस्मि देव! तदितोऽधुना यथा कामं गच्छावः असौ हि प्रतीहारोप्रायशो रात्रिचर्य्यासखीन् रहस्यभेदभयात् निहन्ति,तञ्चानीतोऽनेन, रात्रिचर्य्याचास्य त्वया दृष्टा, तदधुनाप्रभो! इदं योगिनोनिर्मितं कण्ठसूत्रं बद्ध्वागवाक्षेणामूना बहिर्गच्छतु भवान्, ततोऽहं प्रसारितभुजस्तवकण्ठात् उन्मुच्य उच्छ्रितं तत् सूत्रं कण्ठे बद्ध्वानिर्गमिष्यामि। अथ त्वया मे कण्ठात् तस्मिन् सूत्रे मुक्ते उभोप्रकृतिस्थौभविष्यावः। बहिरर्गलबद्वतया द्वारेणावयोनिर्गमो नास्ति। एवमुक्तवति तस्मिन् प्राज्ञे भीमपराक्रमेमृगाङ्कदत्तस्तथेति तस्मात् निरगात्। ततश्चोभौ मृगाङ्कदत्तभीमपराक्रमौ स्थितान्य सचिवद्वयं स्वनिलयमगाताम्।तत्र सर्वे ते तत्तद्वृत्तान्तवर्णनैः प्रहृष्टास्तां निशां निन्युः। प्रातश्च मृगाङ्कदत्तस्तस्य मायावटोर्भिल्लराजस्यान्तिकमाजगाम। मायावटुश्चरात्रिसौख्यवृत्तान्तंपृष्ट्वा तं राजपुत्रं विनोदयन् अश्वैःक्रीडामः एहीतिअभाषत। ततस्तं स प्रतीहारः तं भिल्लमागतं दृष्ट्वा मृगाङ्कदत्तस्य सखा स श्रुतधिरब्रवीत् किं विस्मृतं भवद्भिःअद्य प्रतीहारमयूरस्य नर्त्तनं भावि, उत्तंहि तेन तदिति। श्रुत्वैतद् शवरेश्वरः स्मृत्वा कौतुकात् तं प्रतीहारं मयूरानयनायप्राहिणोत्। कथं मया प्रमादात् विस्मृतं स चौरो मया न हतः, स खलु रात्रिरहस्यसाक्षीमयूरवेश्मनि

निक्षिप्तः। तद्यामि शीघ्रमुभयं करोमीति चिन्तयन्सत्वरं गृहमगात्। तत्र प्रविश्य च यावत् शिखिवेश्मवीक्षते, तावत् तत्र तं चौरं तञ्च मयूरं न ददर्श।भीतिविषणो नृपं गत्वाब्रवीत् प्रभो! निशि स मयूरश्चौरेण मे हृत इति। स च महाचौरः प्रसिद्ध एव येन ते मयूरोऽहारि इति तत्र स्मितमुखेन श्रुतविनोक्तम्। तदाकर्ण्य अन्योऽन्यमुखदर्शिनो मृगाङ्कादीन् दृष्ट्वा मायावटुस्तान् निर्बन्धात् किमेतदिति परिपृष्टवान्। ततः प्रतीहारेण तेन यथा रात्रौ सङ्गमः, यथा च स रात्रौ राजपत्न्या गृहं गत्वा प्रच्छन्नकामुकः शस्त्रकलिमकरोत्, यथातस्य गृहप्राप्तिर्यया च भीमपराक्रमः मोचितो मयूरभावात्, यथा च तस्मात् गृहात् निर्गमः इत्येतत् सर्वंप्रतीहारसम्बद्धंवृत्तं मृगाङ्कदत्तः शवरेन्द्राय यथावत्शशंस। तदाकर्ण्य स मायावटुः तत्क्षणं तां चेटिकां क्षुरिकापरिक्षतकरां कृत्वा भीमपराक्रमञ्च तया कण्ठसूत्रिकया भूयो मयूरं कृत्वा तस्मात् मयूरभावात् मोचयित्वा च शुद्धान्तविध्वंसिनं तं प्रतीहारं सपदि न्यदधीत्।तान्तु अविनीतां राज्ञींमृगाङ्कदत्तेन बन्धनात् मोदितांमञ्जुमतीं निरवारयत्। अथ मृगाङ्कदत्तस्तत् पूजितःतस्यामेव शवरपल्ल्यांदिनानि कतिचित् शशाङ्कवत्याअधिगमाय कृतोद्योगः समस्तरुहृदानमनापेक्षीपर्य्यनेषीत्।

अथ द्विसप्ततितमस्तरङ्ग।

<MISSING_FIG href="../books_images/U-IMG-172215932938.jpg"/>

इत्थं विमलबुद्ध्यदिवृतस्तत्र यावत् मृगाङ्कदत्तस्तस्यभिल्लपतेः सद्मनि तिष्ठति तावत् तत् सन्निधावेत्य कश्चित्सेनापतिस्तंशवराधीशं ससंरम्भो व्यजिज्ञपत् प्रभो। तवादेशात् भगवत्या उपहारार्थं विचिन्वन् कश्चित् पुरुषः अस्माभिः प्राप्तः। तेन चास्मद् वीराणां शतपञ्चकनाशितं परं बहुभिरस्माभिर्विवशीकृतः अत्रानीतः।तदाकर्ण्य स पुलिन्दराजस्तं सेनापतिमभाषत भद्र! आशु सः अत्र प्रवेश्यतां दर्श्यताञ्च। ततश्च यावत् प्रवेशितः स सर्वैः शस्त्रक्षताङ्गः रुचिराक्तकलेवरो दृश्यते तावत्मृगाङ्कदत्तस्तं मन्त्रिणं स्वं गुणाकरं प्रत्यभिज्ञाय सत्वरंधावित्वा सहर्षंवाष्पपूर्णनयनः कण्ठे समग्रहीत्। स च भिलेन्द्रस्तं तस्य सखिभ्यः तं गुणाकरं बुद्ध्वाविनम्रःस्वप्रभोर्मृगाङ्कदत्तस्य पादपतितं समाश्वासयत्।गृहं प्रवेश्य स्वापयित्वा व्रणपट्टिकां बद्ध्वाच भिषगुपदिष्टैःपानभोजनैरुपाचरत्।ततो मृगाङ्कदत्तस्तंसमाश्वस्तं स्वमन्त्रिणं सखे ! कथय ते वृत्तान्तमिति पप्रच्छ। अथसर्वेषु शृण्वत्सु स गुणाकरः प्राब्रवीत् देव !श्रूयतां। वृत्तान्तं कथयामि, तदा नागशापेनाहं भवच्चरणारविन्द-

वियोजितः दुरन्तामटवीं भ्रमन् न किञ्चिदविदम्।चिराच्च प्राप्तबुद्धिर्दुःखितोऽहमविन्तम् अहो दुर्ललितस्यविधातुर्विचेष्टितम्। यः हम्यतले नियतमन्यस्तस्थितिः,स अस्यां सन्तप्तसिकतायामटव्यां कथं खिद्येत। कथ वा ते वयस्या विचरेयुरिति विमृशन् दैवात् विन्ध्याटवीं पर्य्यटन् बिन्ध्यवासिनीं प्राप्तवानस्मि। तया देव्या अहर्निशमुपहृतानेकजीवं कृतान्तसदनमिवसदन प्राविक्षम्।तत्रतां देवीं प्रणम्यकण्ठान्तर्गतनिस्त्रिंशपाणिमात्मोपहारिणं पुरुषमेकमपश्यम्। तदवलोक्य मे त्वद्वियोगिनः दुःखार्त्तस्य तथैवात्मोपहारेण देवींतोषयितुं मतिरभवत्। ततश्च धावित्वा यावत् तत् खड्गमग्रहीषं तावत् कापि सकृपा तापसीदूरादभ्येत्य मां निवारयन्ती पृष्टावृत्तान्ता मां निजगाद, वत्स! मा साहसं कार्षीःमृतानामपि सङ्गमः पुनर्दृश्यते, किं पुनर्जीवतां, तदत्रैकां कथां शृणु।

अस्ति अहिच्छत्रेति विख्याता नगरी। पुरा तस्यामुदयतुङ्गी नाम भूपतिरासीत्। तस्य कमलमतिर्नाममहान् प्रतीहारोऽवर्त्तत। तस्य विनीतमतिर्नाम असदृशः सुतोऽभूत्। समाहृत गुणेनापि सच्छिद्रेण मृगालेन कुटिलेन चापेन च तस्य तुल्यता नासीत्।कदाचित् सुधाधौतप्रासादोपरिस्थिते मञ्चके स्थितः स विनीतमतिः निशामुखे उद्यन्तंशीतांशुमैक्षत। क्रमेण तन्मयूखनिकरैर्जगत् विराजितं दृष्ट्वा स विनीतमतितोल्लासो व्यचिन्तयत् अहो! चन्द्रिकया मार्गाःसुधयेव अवभासिताः दृश्यन्त तदमीषु अहमेको गत्वा किं न विहरामि। इत्यालोक्ष्यैवस धनु

र्वाणपाणिर्निर्गत्य पर्य्यटन् क्रोशमात्रं गत्वा अकस्मात्रोदनध्वनिमशृणोत्। रोदनशब्दानुसारेण च गत्वा कियद्दूरे एकां दिव्यरूपां तरुमूलमाश्रित्य रुदतीं व्यलोकयत्।हृष्ट्वैव का त्वं कुत आयाता, कथं वा रोदिषि शुभे!किमर्थं त्वया मुखेन्दुरश्रुमलिनीक्रियते,इत्युक्तातेन सावोचत् अहं नागपतेः सुता विजयवतो नाम, मम पिता गुणमालो नाम रणात् भ्रष्टः वासुकिना अधिराजेन, पाप! त्वं यस्मात् जितः, तस्मात् दासतां यास्यसीति। तच्छापात् कालजिह्वेन वैरिणायक्षेणजित्वा आत्मनःपुष्पभारहारी दासः कृतः। तस्य पितुर्दुःखेनाहं तपसा गौरीमतीषयम्। सा च भगवती प्रत्यक्षीभूय मामब्रवीत् शृणु वसे! अस्ति मानसत्य सरसोऽन्तरे महत् सहस्रदल स्फाटिकंदिव्यमम्बुजम्। यदर्ककरस्पर्शात् प्रकीर्णकान्ति सततं शेषस्य सहस्रफणारत्नपिञ्जरमिव शिरो विराजते।

एकदा वैश्रवणोऽत्र मानसे स्नात्वातस्मिन्नम्बुजे सज्जातश्रद्धःहरस्य आराधनम् आरब्धवान्। तस्मिंश्च काले तदनुगा यक्षास्तत्र सरसि चक्रहंतादिरूपेर्विजह्नुः। तत्र युष्मद्रिपोस्तस्य कालजिह्वस्य ज्येष्ठःविद्युज्जिह्वइति यक्षः प्रिवया सह क्रीड़न्चक्राह्वरूपेण कुवेरस्य कराग्रस्यं अर्घ्यपात्रमपातयत्। ततः स धनपतिः क्रुद्धः शापेन तं सभार्य्य चक्राह्वमेव चकार वियुयोज च रात्रौप्रियया। ततश्चतदनुजः कालजिह्वः तत्प्रेयसीरूपं कृत्वा तं ज्येष्ठं विनोदयन् तत्रैवदासी कृतेन त्वत् पित्रा गन्धमालिना सह आस्ते, तत् पुत्रि! तत्र त्वया प्रतीहारसुतः अहिछत्रानिवासी

महावीरो विनीतमतिः साहसी प्रेष्यताम्। इममश्वं खड्गञ्च मया दत्तंगृहाण, आभ्यां तं यक्षं विजित्य स प्रवीरस्ते जनकं मोचयिष्यति, यश्च एतस्य खङ्गोत्तमस्यस्वामी भविता स निखिलान् शत्रून् जित्वा महीतलेराजा भविष्यति। एवमुक्ता अश्वंखड्गञ्च मह्यं दत्त्वा देवीसा तिरोदधे। अथाहं त्वत्प्रेरणार्थं क्रमेणाद्य देवीप्रसादात्निशि निर्गतं तां वीक्ष्य इहागता। आनीतवत्यस्मि च युक्त्या रुदितं संश्राव्य। हे सुभग! एतत् मे इष्टं संसाधय इति तया अभ्यर्थितः स विनीतमतिः तस्यास्तथेतिप्रत्यपद्यत। सा च नागकन्या तत्क्षणं गत्वा तं जवनमश्वंतञ्चखड्गरत्नमानीय तस्मे विनीतमतये समर्पितवती। सोऽपि गृहीत खड्गस्तमश्वमारुह्य तया सह प्रस्थितः क्षणादेव मानसं प्राप। दृष्ट्वा च तत्र तं यक्षं तञ्च सेवकं गन्धमालिनं तस्य मुक्तये तान् क्षुद्रान् यक्षानुचरान् असिप्रहारेण व्यद्रावयत्। तद्दृष्ट्वास क्रालजिह्वः तस्मात् सरसः मुक्तचक्राङ्गनाशरीरः कालमेघ इवोन्नदन् उत्तस्थौ।

अथ प्रवृत्ते सम्प्रहारे व्योम्नि उत्प्लुत कालजिह्वं सविनोतमतिरुत्प्लुत्य साश्वः केशेषु अग्रहीत्। यावच्च तस्यशिरः खड्गेन छेत्तुमिच्छति सावत् स यक्षः कृपणं जल्पन् तं शरणमयासीत्। अदाच्च नीतिज्ञस्तस्मै स्वमङ्गुरीयकम्। मुमोच च प्रह्वःदास्यात् त गन्धमालिनम्। स च गन्धःमाली मुदितस्तदा तस्मै तां विजयवतींकन्यां दत्त्वा गृहमगात्। ततश्च प्रातः स विनीतमतिः खड्गमङ्गुरीयकमश्वंकन्याञ्चादाय गृहमाययौ। तत्र विदितवृत्तान्त-

तोषिणा पित्रा राजा व अभिनन्दितः तां नागकन्यांपरिणीतवान्।

अथ कदाचित् पिता कमलमतिः तैश्चतुर्भिः रत्नैः स्वैर्गुणैश्च भूषितं तं रहसि समभ्यधात्, पुत्र! इह उदयतुङ्गस्य भूपतेर्या कन्यास्ति उदयवती नाम सर्वविद्यासु शिक्षिता, अनेन राज्ञा तस्याः पणः कृतः, विप्रो वा क्षत्रियो वा यो वादेन एतां पराजयेत, तस्मै इमां दद्यामिति। अनया च वादेन अखिला वादिनः पराजिताः इयञ्च जगदाश्चर्य्यरूपेण रूपेण अमराङ्गना अपि विजयते। त्वञ्चएकवीरः क्षत्रियोवादी कथं तुष्णीं स्थितोऽसि? इमां वादेन विजयस्व परिणयस्वच। इत्युक्तः तेन पित्रा स विनीतमतिः प्रत्यवादीत्तात! पेशलाभिः स्त्रीभिः कथं मादृशां वादः? तथापि त्वदादेशं करीष्यामीत्युदीरिते तेन, तत्पिता सहर्षस्तत्क्षणं राजसन्निधिमगमत्। अवदच्चदेव! प्रातरद्यविनीतमतिना राजपुत्रा समं वादः करिष्यते। अथ राज्ञि तथेतिप्रतिपन्नार्थे स कमलमतिर्गृहमेत्य तस्मै विनीतमतये तथाशंसत्।ततः प्रातस्तेन राजहंसेन स्वयमधिष्ठितां विद्वत्सभाञ्जिनींस भास्वान् विनीतमतिर्लोकलोचनषट्पदैरभिमुखैर्गुणिवृन्दैराश्रितैर्विलोक्यमानः भासयामास। क्षणान्तरे च सा उदयवती राजपुत्री प्रकृष्टा कामस्य धनुर्लतेव तत्राययौ। यदि इन्दुलेखा अम्बरे निर्दोषा निर्मला चस्यात् तदा मरकतासने निषस्मायास्तस्याः साम्बंभजेत्।अथ सा श्लक्ष्णया वाचा पूर्वपक्षानकरोत्। विनीतमतिश्च क्षणेन तान् अवद्यार्थसिद्धान्तान् कृत्वा तां सुमुखीं कन्यां

निरुत्तरीचकार। ततः सभ्यैःस्तुते तस्मिन् विनीतमतौ सा राजनन्दिनी आत्मनः पराजयेऽपि सद्भर्त्तलाभात् पराजयं वह्नमन्यत। स चापि उदयतुङ्गो नृपतिः प्रहृष्टः तस्मै विनीतमतये वादपणनिर्जितां दुहितरं प्रददौ ततः सविनीतमतिः राजदत्तरत्नपूर्णः ताभ्यां नागराजकन्याभ्यांसह सुखेनावतस्थौ।

एकदा द्यूतकरैरन्यैर्जितः स व्याकुलाशयः केनचिद् ब्राह्मणेनेत्य निर्बन्धात् भोजनमयाच्यत। ततः क्रुद्धः सःभृत्यस्य कर्णे कथयित्वा तेन भृत्येन वस्त्राच्छादितं सिकतापात्रमस्मै प्रादापयत्। स च विप्रः तद् गृहीत्वा गुरुत्वात् सहिरण्यं मत्वा प्रहृष्टःएकान्तं गत्वा तदुदपाटयत्। ततो बालुकापूर्णं तत् दृष्ट्वैवधरणोतले निक्षिप्य विप्रलब्धोऽस्मीति विषणःस्वगृहमगात्। विनोतमतिरपि अविविच्यएतत् विमुच्य स्वगृहेषु प्रियासखः यथाकामं द्यूतमसेवत।

अथ गच्छति काले जरसा विश्लिष्टसन्धिबन्धः सराजा उदयतुङ्गः राज्यभारमुद्वोढुदुमक्षमोऽभवत्। ततः सजामातरं विनीतमतिं राज्ये अभिषिच्य अपुत्रः देहत्यागायगङ्गां ययौ। स च विनीतमतिः प्राप्तराज्यः नचिरादेवतेनाश्वखङ्गप्रभावेण दश दिशो जिगाय। तस्य च ईतिघ्नस्य अङ्गुरीयकस्व प्रभावात् तस्य राज्यं रघुपतेरिव नीरोगदुर्भिक्षमभूत्।

एकदा कश्चिद् भिक्षुर्देशान्तरात् तमभ्याययौ। आगत्य च कृतातिथ्यस्तं गुणिप्रियं राजानं वादार्थं प्रार्थयामासजगौ च पणम्। राजेन्द्र! त्वया जितेन सुगतस्य शासनं

ग्राह्यं मया तु जितेन चौवरं संत्यज्य विप्राः सेव्या इतिएतदाकर्ण्यं स राजा विनीतमतिस्तथेति प्रतिज्ञाय तेन सह वादमकरोत्। इत्थंसप्तसु दिनेषु वादेनातिक्रान्तेसुअष्टमेऽहनि स भिक्षुस्तं महीपतिं वादेन जिगाय येनउदयवती राजकुमारी वादिमुण्डमुङ्गरिका जिता। ततस्तेन भिक्षुणा सौगतेन उपदिष्टं सत्त्वोपकारपुण्याढ्यं शासनं जातश्रद्धोजग्राह।चकार च जिनपूजापरश्चभिक्षूणांब्राह्मणादीनां सर्वेषां विहारसत्रवसतीं। ययाचे च शान्तमतिस्तं भिक्षुंबोधिसत्त्वचर्य्यामाज्ञां सर्वोपकारिणीम्।भिक्षुरब्रवीत्,राजन्! विगतकल्मषैर्बोधिसत्त्वचरितैर्व्यवहर्त्तव्यं नेतरैः, तान्येवास्मादृशां लक्ष्याणि, नास्ति तेषु किमपि किल्विषं, किन्तु त्वं सुयुक्त्या अन्विष्य शममवलम्बस्व। इत्युक्त्वास भिक्षुः तस्मै स्वप्नं प्रमाणमुपादिशत्सोऽपि नृपः रात्रौ स्वप्नं दृष्ट्वा प्रातस्तं भिक्षुमभ्यधात्,आचार्य्य! अद्याहं परलोकं गतः, तत्र क्षुधार्त्तं मां दण्डिनःपुरुषा अब्रुवन्,राजन्! एताभूयसीरर्जिताः स्वप्नवालुका भुङ्क्ष्वयास्त्वया प्राक्क्षुधिताय अर्थिने ब्राह्मणाय दत्ताः। दश स्वर्णकोटीर्दत्त्वाअस्मात् पापात् विमोक्ष्यसे। इति दण्ड पाणिनारुषा उक्तं निशम्य एव प्रबुद्धः प्रातराचार्य्याय तं स्वप्नवृत्तमाख्याय दश स्वर्णकाटोरर्थिभ्यः प्रादात्।पुनश्च स्वप्नमनुभूय उत्थाय आचार्य्याय भिक्षवे अवर्णयत् अद्यापि परचक्षुधितस्य मे तैः पुम्भिःबालुकाभोजनं दत्तम्। कथमहं दत्तेऽपि दाने इमाः सिकता भोक्ष्यामीति मयोक्ते ते मां वदन्ति स्मतत्ते दानं निष्फलं, यतस्तत्रैकं ब्राह्मणस्य सुवर्णमासीत्।

एतत् श्रुत्वा प्रबुद्धोऽहमिति स स्वप्नमुदीर्य्य राजा पुनरर्थिभ्यः दश स्वर्णकोठीः प्रायच्छत् पुनरपि रात्रौ स्वप्नं दृष्ट्वा च प्रबुध्य पुनरवर्णयत्। अद्यापि तैः मे सिकताशनं प्रदत्तं पृष्टैश्चमया तैरुक्तम्, राजन्! तदपि ते दानंविफलं जातं यतः दस्युभिरटव्यां तव देशे मुषित्त्वा ग्रहीतास ब्राह्मणो निहतः, न च त्वया तस्य रक्षार्थं यत्नःकृतः,तत्त्वया अद्य द्विगुणं देयमिति श्रुत्वा प्रबुद्धोऽहमिति स तस्मै भिक्षवे कथयित्वा पुनरपि तद्द्विगुणं दानं ददौ। ततस्तं भिक्षुं जगाद आचार्य्य। कथमीदृशो बहुच्छिद्रो धर्मो मादृशेरनुपात्यः स्यात्।भिक्षुरब्रवीत्,देव! एतावताधर्मरक्षणविधौ अनुत्साहिनीमतिर्न कार्य्या। धीरान् उत्साहसम्पन्नाम् धर्मादविचालिनो जनान् देवता अभिरक्षन्तिपुष्णन्ति च एषां वाञ्छितम्।राजन्!त्वया भगवतोबाधिमत्त्वस्यं वाराहं न श्रुतं तदिदानीं श्रूयताम्।

पुरासीत् विन्ध्याद्रेर्गुहायां कश्चित् बुद्धांशसम्भवो वराहः सुहृदा मर्कटेन समम्। स सर्वसत्त्वहितकृत्तेन सख्या युतः सदा अतिथीन् पूजयन् स्वोचितैर्नियमैः कालमनयत्।एकदा तत्र पञ्च वासरान् दुर्दिनमभवत्। तत्र अविच्छिन्नजलधारया प्राणिनां यावत् दुःखमभूत् तन्नकेनापिवर्णयितुं शक्यते। पञ्चमेऽहनि निशि कपिना बन्धुनासहितस्य सुप्तस्य वराहस्य गुहाद्वारि कैश्चित् भार्य्यासुतयुतैः सिंहः समाययौ। स सिंहस्तत्र दुर्दिने तां सिहीमवादीत्, प्रिये! अद्य प्राणिनो यदि न प्राप्नोमि तदाक्षुधा मरिष्यामि। तदाकर्ण्य सिंही अवोचत् नाथ!

सर्वत्र एव वयं क्षुधा न जीवामः, तदेकां मां भुक्त्वा युवांजीवतम्। त्वं हि मे प्रभुःअयञ्च पुत्रःप्राणभूतः आवयोः सर्वस्वं मदीयेन कायेन युवयोर्गतिरस्तु। एव तयोर्जम्पपत्योरन्योन्यसन्तापं दैवात् प्रबुद्धः स महाशयो वराहःशुश्राव। अचिन्तयच्चसंहृष्टः, दिष्ट्याक्वेय निशा, क्वचदुर्दिन क्व वा ईदृशातिधिलाभ अहो मे भाग्यंकिमनेनक्षण विनाशिना कुदेहेन अहं अतिथीन् तर्पयामि इत्यालोच्य स वराहः निर्गत्य स्निग्धया गिरा तं सिंहं जगाद,भद्र! मा विषादस्त्वया कार्य्यःससुतस्य सदारस्य ते अहंभक्ष्यः प्राप्तः, तन्मांभुङ्क्ष्व। इति शूकरेणोक्तः केशरीहृष्टस्तां भार्य्यामवादीत्, प्रिये! पूर्वजय शिशुः भुङ्क्ताम्।ततोऽह भोक्ष्ये, अनन्तर त्व भोक्ष्यसे। तया तथेत्युक्ते पूर्वं सिंहशावकेन भक्षिते ततः सिहस्तस्य क्रोडस्य मांसानिभोक्तुमुपचक्रमे। भुञ्जानञ्च तं स महासत्त्वः शूकर प्रोवाच, भद्र! शीघ्रं मे रक्तं पिब, यावत् भूमौ न लीयते पश्चात्मांसैश्च तृप्यस्व, शेषं ते प्रिया अश्रातु। इति वदन् स सिंहेनक्रमात् भुक्त्वाअस्थिशेषतां नोतोऽपि शूकरः प्राणैः तस्याश्चर्य्यधैर्य्यमवेक्षितुमिव स्थितेः न व्ययुज्यत। तावच्च सासिंही क्षुधार्त्ता तत्र व्यपद्यत। स च सिंहः ससुतः क्वाप्यगात् रजनी च क्षयमयासीत्।

अत्रान्तरे प्रबुद्धः स सखा मर्कटःतं वराहं तथाभूतंदृष्ट्वा ससम्भ्रममप्राक्षीत् सखे! केन ते इयमवस्था कृता,ब्रूहि यदि ते शक्तिरस्ति। तदाकर्ण्य धीरः स शूकरः अतिकृच्छेणतदु यथा वृत्तमभ्यधात्। ततो रुदन् स

कपिस्तं पादयोः प्रणिपत्याब्रवीत् सखे! त्वं देवांशः,येनात्मा तिर्य्यक्त्वात् मोचितः, किञ्चिदभिलषितं मे ब्रूहितदहं ते संसाधयामि। इति तेन कपिनोक्तः स वराहःप्रत्यब्रवीत् वयस्य! यो मे अभिलाषः, स विधिनापिदुःसाध्यः येन पश्यतो मे इयं तपस्विनी सिंही मृता, इयंपुनःपूर्वाङ्गं सम्प्राप्य प्राप्तजीविता भुक्त्वातृप्यतु इति मेचेतो वाञ्छति। इति वादिनं तं क्रोड धर्मः स्वयं प्रत्यक्षीभूय पाणिना परामृश्य दिव्यदेहं मुनीन्द्रं व्यधात्।उवाच भद्र!मयैव इयं सिंहादिरूपिणी माया कृता,त्वया तु अखण्डसत्त्वेन परार्थ प्राणदायिना मामपि विजित्य धर्मस्य परा काष्ठा दर्शिता इति तदाकर्ण्यस मुनीन्द्रः पुरः स्थितं धर्ममालोक्य अब्रवीत् देव! अस्मिन्सख्यो मर्कटे असन्त्यक्ततिर्य्यक्त्वे इयं प्राप्तापि मुनीन्द्रतान मां प्रीणाति। एतदाकर्ण्य धर्मस्तमपि मर्कटं मुनिमकार्षीत् महद्भिः सह सङ्गतिः ध्रुवं महते फलाय। अथस धर्मस्तिरोऽभूत् सा च सिंही मृतान्तर्दधे। तदेवं राजन्! सत्त्वबलात् अत्यक्तधर्मोत्साहैर्देवता–कृतसाहाय्यैर्र्जनैर्वाच्छितिसिद्धयो न सुदुर्लभाः। इति भिक्षुवचनमाकर्ण्य स विनीतमतिर्दानशूरः पुनः रात्रौ स्वप्नसमागममकरोत्। दृष्ट्वा च स्वप्नं प्रातः प्रबुध्य तस्मै आचार्य्यायभिक्षवेशशंस गुरो!अद्य स्वप्ने दिव्यः कोऽपि मुनिर्मामवदत् पुत्र! इदानीं निष्पापोऽसि,चर इदानींबोधिसत्त्वचर्य्याम्। तद्वाक्यं श्रुत्वैवाहं प्रबुद्धः अद्य निर्वृतोऽस्मि। एवं स विनीतमतिर्गुरवेभिक्षवे निवेद्य शुभेऽ-

ऽहनि गुरोरनुज्ञया तां महाचर्य्यामग्रहीत् अतिष्ठच्चअहर्निशम् अर्थिभ्यः कामं वर्षन्।

अथैकदा कश्चिद् ब्राह्मणोऽर्थी तमभ्येत्य अब्रवीत् देव!अह द्विजातिः, पाटलिपुत्रनिवासी। तत्र नगरे केनचित्ब्रह्मरक्षसा अग्निशालामाहत्य मे पुत्रः आक्रान्तः, नास्तितत्र मे कश्चिदुपायः, तस्मादर्थिकल्पतरुं त्वां याचितुमागतोऽस्मि। देहि मे अरिष्टशान्तये तव हस्तस्थं सर्वदोषघ्नम् अङ्गुरीयकम्। इति तेन विप्रेणार्थितः स महो पतिःकालजिह्वादधिगतं तदङ्कलीयम् अविषण्णस्तस्मैविप्राय प्रादात्। तदङ्गुलीयकमादाय तस्मिन् द्विजे प्रयाते तस्य भूपतेः बोधिसत्त्वव्रतयशो दिगन्तेषु विशुश्रुवे।

अथ कदाचित् उत्तरापथादागतः कोऽपि इन्द्रकलसो नाम राजपुत्रः तस्य विनीतमतेः नृपस्य गृहे अतिथिरगात्। स कृतविनयस्तेन राज्ञाज्ञातान्ववायः पृष्टकामस्तं नृपमभाषत प्रभो! त्वंतावत् साम्प्रतं भुवि अर्थिचिन्तामणिः ख्यायसे, तव प्राणानामपि अर्थी न पराङ्मुखी भवति। अहं भ्रात्रा कनककलसेन पैतृकात् राज्यात् निर्वासितः साम्प्रतमर्थिभावेन त्वामुपस्थितः,हे वीर! ते यत् अश्वखड्गरत्नद्वयं वर्त्तते तन्मै देहि येनतं दायादं जित्वा राज्यमवाप्नुयाम्। तदाकर्ण्य सविनीतमतिर्नृपतिः राज्यरक्षाचिन्तामणी अपि तौअश्वखड्गीतस्मै राजसुताय प्रादात्। न च तस्य तौ ददतःकापि चित्तविक्रिया लक्षिता मन्त्रिषु अधोमुखेषु निश्वा-

सान् मुञ्चत्स्वपि। स च राजसुतः अव खन्नञ्च प्राप्यं राजानं प्रणम्य गत्वा च तत्प्रभावेण भ्रातरं निर्जित्यराज्यमवाप।

अथ तद् भ्राता कनककलसोऽपि राज्यच्युतः तस्य विनीतमतेः नृपस्य नगरीम् आससाद।आरंभे च तत्रागत्य दुःखादग्निप्रवेशं कर्तुम्। तद् विदित्वा स नृपःस्वान् अमात्यानब्रवीत् एष साधुर्ममापराधात् दशामिमां प्राप्तः, तदहं स्वराज्यप्रदानेनास्मै अनृणो भवितुमिच्छामि,परमार्थानुपयोगिना अमुना राज्येन मे किम्? एष एव अनपत्यस्य मम पुत्रःराज्यभृदस्तु। इत्युक्त्वाकनककलसमाहूय सचिवेषु अनिच्छत्स्वपि तस्मै स्वं राज्यमदात्।दत्तराज्यश्च स भूपतिस्तत्क्षणं भार्य्याभ्यां सहितःनिर्विकल्पेन चेतसा नगर्य्यानिरगात्। हा हा धिक्! जगदाप्यायी सम्पूर्णमण्डलोऽमृतांशुः प्रकाण्डपातिना मेघेनागत्यअन्तरितः। एष सर्वदेहिनां सर्वाशापूरणे प्रवृत्तः प्रजाकल्पद्रुमो नृपः विधिना क्वापि नीतः? इत्येवं विलपन्तः पीरा विह्वलास्तदा वाष्पाम्बुसिक्तवसुधास्तमनुजग्मुः। सच राजा विनीतमतिः कथञ्चित् तान् निवर्त्य सभार्य्यः पदाव्रजन् अरण्यं प्रापत्। क्रमेण च अर्ककरसन्तप्तसिकतांनिर्जलद्रुमां मरुभूमिं विधिना स्पष्टं धैर्य्यमवेक्षितमिवनीतः स राजा तदेकदेशे तृष्णार्त्तदूराध्वश्रमेण चविक्लवः निषसः क्षणं निद्रया जह्ने। यावच्चप्रबुध्यबीक्षते स्मतावत् स स्वसत्त्वोत्कर्षनिष्पत्रंमहदद्भुतमुद्यानमद्राक्षीत् तत्र प्रफुल्लाम्बुजशीतलस्वच्छतोया वापी,

नीलमाद्वलसंछन्नःप्रदेशः, फलभरलताश्च प्रच्छायास्तरवःसन्ति। अस्य राज्ञःदानप्रभावेण विदिवादागतं नन्दनमिव स राजा क्षणं व्यतर्कयत्। किमयं स्वप्नः भ्रमो वा, उत देवानुग्रहो मे इति तद्वीक्ष्यवीक्ष्ययावदसौचित्रीयते स्म तावत् खेचरेण केनचिचित् सिद्धेनोदीरितांवाचमशृणोत् राजन्। एष ते सत्त्वमाहात्म्यविलासः, कोऽत्रविस्मयः? तदस्मिन् सदा पुष्पफले कानने स्वेच्छया वस।इति सिद्धवचनमाकर्ण्य निर्वृतस्तत्रकानने पत्नीभ्यांसह तपश्चरन् विनीतमतिरध्युवास। एकदा शिलातलगतः स आरात् ददर्श उदबन्धनेन कमपि पुरुषमात्मबधोद्यतम्। ततः स राजा द्रुतं गत्वा प्रियैर्वाक्यैरनुनीय निवार्य्य च तं मरणे कारणं पर्य्यपृच्छत्। तत स पुरुषोऽब्रवीत् शृणु वच्मि आमूलात्।

अहं नागशूरस्य सुतः सोमशूरो नाम। सोऽहं जातकशास्त्रवेदिभिश्चौर इति निर्द्दिष्टः। पिता तु ममतद्भयेन प्रयत्नेन मां धर्मशास्त्रमध्यापितवान्। तदधीत्यापि मम चौर्य्येप्रवृत्तिरासीत्। कस्य प्राक्तनं कर्मकेनान्यथा कर्त्तुं शक्यते? एकदाहं चौरो मध्याह्ने रक्षिभिर्गृहीतः शूलाधिरोपणाय वध्यभुवं नीतः। तस्मिंश्च क्षणे भग्नालानो राजहस्ती मत्तः जन्तून् व्यापादयन्सदेव स्थानमगमत्। तदालोक्य ते घातका मां परित्यज्यभयात् क्वापि गताः। अहञ्च तस्मिन् तुमुले पलाय्यनतो निरगाम्। अश्रौषञ्च बधाय नीयमानं मां श्रुत्वा पिता मे सह मात्रा प्राणान् विजहाविति। अथाहं पितरौ

शोचन् भ्राम्यन् देहत्यागाय इदं विजनंमहत् काननं प्राप्तः। इह च प्रविष्टमात्रं माम् अकस्मात् दत्तदर्शनाकापि दिव्या योषित् कृताश्वासा मामभ्यभाषत,पुत्र! त्वंविनीतमतेः राजर्षेराश्रमं प्राप्तः, गतं ते पापं ज्ञानञ्चलप्स्यसे इत्युक्त्वासा तिरोऽभूत्। अहञ्च भ्राम्यन् तं राजर्षिमनासाद्य देहं त्यक्तुमिच्छन् त्वया समासादितः। इत्युक्तवन्तं तं सोमशूरं निजाश्रमं नीत्वा स राजर्षिरात्मानमावेद्य अतिथिमपूजयत्।अथ कृताहारं विनीतं तं कथाप्रसङ्गःं श्रावयन् अज्ञानान्निवारयितुं धर्मशासनमब्रवीत्,वत्स!अज्ञानं हातव्यंतद्धि विपर्य्यस्तधियाम्।लोकद्वयेऽपि अशुभाय,तदत्र कथामेकां मया वर्ण्यमानां शृणु।

पुरासीत् पाञ्चालेषु देवभूतिर्नाम द्विजः। तस्य वेदविदः भोगदत्ताख्या सती भार्य्याभवत्। तस्मिंश्चभर्त्तरि स्नातुं गते सा शाकचयनार्थं शाकवाटिकां प्रविष्टा शाकं खादन्तंरजकखरमेकमद्राक्षीत् अधावीच्च गृहीतलगुड़ातं खरं प्रति। सोऽपि खरः पलायमानः श्वभ्रे पतितोभग्नखुरो भवत्,तदवलोक्य तत्स्वामी रजकः क्रोधादागत्य लगुड़ैःपादप्रहारैश्चतां ब्राह्मणीमताडयत् तेनसा गर्भिणी सती विप्रपत्नी अकाण्डविभ्रष्टगर्भाभवत्।स च रजकः खरमादाय स्वं गृहमगमत्।

अथ स्नातागतो विप्रः तां पत्नीं तथागतां दृष्ट्वा पृष्ट्वा चवृत्तान्तंरोषात् गत्वा पुराध्यक्षं व्यजिज्ञपत्। स चाध्यक्षःमूर्खः बलासुरनामानं तं रजकमानीय तयो-

र्द्वयोर्वादं श्रुत्वा इदमवदधार खुरभङ्गात् अद्य खरस्यअयं द्विजः तावत् खरभारं वहतु यावत् खरः प्रकृतिमापद्यते। रजकोऽपि एतस्य ब्राह्मणस्य भार्य्यायां तद्भर्गपातनात् अन्यं गर्भं प्रजनयतु।एष तावदनयोर्दण्ड इतितेनोक्त स द्विजः सन्तापभक्षितविषः सभार्य्यःप्राणान्विजहौ। तदाकर्ण्यतत्रस्थेन राज्ञा निहतः स ब्रह्महा पुराध्यक्षःचिरं तिर्य्यक्त्वं गतः।इत्थमज्ञानतमश्छन्ना अपुरस्कृतसच्छास्त्रदीपाः स्वदोषात् उन्मार्गगामिनःध्रुवंभ्रश्यन्ति। एवमुक्त्वास राजर्षिः पुनरुपदेशार्थिनं सोमशूरं विनीतं विनेतुमभ्यधात्, वत्स! तदिदानीं दानपरमिकां ते वच्मि शृणु।

पूर्वं कुरुक्षेत्रे मलयप्रभो नाम भूपतिरभूत्। तस्य इन्द्रप्रभो नाम सुतः। स कदाचित् दुर्भिक्षे प्रजाभ्योऽर्थान्ददौ मन्त्रिभिर्वारितोऽपि अगादीत् च तातं तात!दुर्मन्त्रिणां गिरा कथं प्रजा उपेक्षसे? त्वं हि तासांकल्पद्रुमः, ताञ्च ते कामधेनवः, इति निर्बन्धेन जल्पन्तं पुत्रम् मन्त्रिवशो नृपः खेदार्त्तः प्रत्यवादीत्,वत्स ! किं मे धनमक्षयमस्ति,तेन विना चेदहं प्रजाकल्पपादपोभवामि, तदा त्वमेव कथं तासां कल्पवृक्षतां न धत्से? एतत् पितृवचः श्रुत्वा स नृपात्मजः प्रतिजज्ञे मया तपसा मर्त्तव्यं वा कल्पवचत्वं साध्यम् इति निश्चित्य स महासत्त्वः तपसे तपोवनं प्रायात्। तस्मिंश्च तपस्यति तद् दुर्भिक्षं न्यवर्त्तत। ततः स तीव्रतपस्तुष्टहेश्वरवरप्रभावात् स्वस्मिन्नेव नगरे कल्पपादपो जज्ञे। स च कल्पतरुः प्रसारिताभिः

शाखाभिः पक्षिणां शब्दैश्चदूरस्थानर्थिनः आकर्षन्निव आह्वयन्निव स्थितः अर्थिभ्यः प्रत्यहं कामान् दुष्प्रापानपि ददौ। चकार ताः प्रजा निराकाङ्क्षाःस्वर्गस्था इव। कालेनगच्छता महेन्द्रः समुपेत्य तं लोभयन्नुवाच, भद्र! पूर्णस्ते परोपकारः साम्प्रतस्वर्गाय आगम्यतामिति ततः कल्पद्रुमीभूतः स राजपुत्रस्तमभ्यधात्, देवराज! यत्र अन्यतरवोऽपि फलैः पुष्पैरङ्गैश्च सततं पारार्थ्यमेव कुर्वन्ति स्वार्थनिस्पृहाः, तत्र कल्पतरुर्भूत्वा स्वदुःखाय इयतो जनस्य आशाच्छेदं कृत्वा कथं दिवं व्रजामि। इति तस्य उदारां गां निशम्य शक्रः पुनरब्रवीत् तर्हि ते सर्वापि प्रजा स्वर्गमागच्छतु इति। ततः स राजतनयः कल्पद्रुमोऽपि तमवदत्,भगवन्! तुष्टोऽसि चेत् प्रजा इमाः स्वर्गं नयतु भवान्,तेन कृतार्थोऽस्मि।अहं परोपकारसिद्ध्यर्थमेव महत् तपस्तप्स्ये। इति वादिनं तं सुगतांशं स्तुत्वा प्रजास्ताः समादाय तुष्टः सुरेशः स्वर्गमगात्। सोऽपि राजसूनुः तरुतां त्यक्त्वास्वरूपमास्थाय च इन्द्रप्रभः वनस्थो बोधिसत्त्वतां प्राप। एवं हि दानसक्तानां सिद्धिर्मया उदीरिता। तदिदानींशीलपारमितां शृणु।

पुरा बिन्ध्याद्रौ कश्चित् शुकराजः सुगतांशसम्भवःहेमप्रभो नाम वशी प्राक्तनाभ्यस्तशीलवान् स्थितः।तस्य जातिस्मरस्य धर्मोपदेशिनःरागीमूर्खः चारुमतिर्नामशुकः प्रतीहार आसीत्। कदाचित् स पाशिना व्याधेननिहतां भार्य्यां शुकींशोचन् तद्विरहातुरः करुणामवस्थांययौ। ततः स शुकराजः युक्त्या शोकान्निवारयन् उवाच,

भद्र! तव सा भार्य्याशाकुनिकपाशात् न मृता पलाय्य गतैव जीवतीति मया दृष्टम्। दर्शयामि त्वां एहिइत्युक्त्वास शकराजो हेमप्रभस्तं चारुमतिं व्योममार्गेणएकं जलाशयं निनाय। तत्र तस्यैव प्रतिबिम्बंजलान्तरेपतितं संदर्श्य तमब्रवीत् सा ते भार्य्या पश्य इहैव तिष्ठति।तदाकर्ण्य स मूढधीरात्मप्रतिबिम्बंवीक्ष्यच हृष्टः प्रविश्यच तं जलाशयं तामालिलिङ्ग चुचुम्ब च। प्रियास्पर्शमनाप्नुवन् तद्वचश्च अशृखन् कयं प्रिया मे स्पर्शालापो न करोति इति चिन्तयन् क्वापि गत्वा तस्मादामलकम् आनीय चाट्वर्थंदवितातुष्टये सवेप्रतिबिम्बेन्यधात्। ततश्च तत् तोयमग्नं ततोऽपि उत्थितं दृष्ट्वा कथं प्रियया प्रतिक्षिप्तमितिराजानं तं हेमप्रभमभ्यधात् राजन्। सा मम भार्य्या मह्यं स्पर्शमालापञ्च न ददाति किञ्च मया प्रदत्तमामलकं प्रतिक्षिप्तमनया? एतदाकर्ण्य स राजा तं शनैः कृच्छ्रादिवाब्रवीत् भद्र! न युक्तमेतत् मम वक्तं तथापिते स्नेहात् ब्रवीमि। सा खलु इदानीमन्यानुरक्ताभवत्कथं त्वयि प्रीतिं दर्शयेत्। साक्षाञ्च त्वां दर्शयामि तत्रैव जलाशये। इत्युक्त्वा तं तत्र जलाशयेषु नीत्वा तेन प्रतीहारे संश्लिष्य तस्मै उभे श्लिष्टे प्रतिबिम्बे प्रदर्शयत्। स च मूर्खः तां भार्य्यामन्यसङ्गतां दृष्ट्वा सन्निवृत्य विरक्तस्तं राजान व्यजिज्ञपत् देव! मूढ़ेन मया त्वदुपदेशा यन्न श्रुताः तस्यैष पाकः तदधुना कर्त्तव्यमादिशतु देव इति।अथ राजा हेमप्रभः उपदेशावसरं लब्ध्वा तं प्रतीहारमभाषत भद्र! वरं हालाहलं पीतम् अथवा अहिर्गले बद्धः,

न पुनः स्त्रीषु विश्वासः मणिमन्त्रादीनामपि असाध्यः।एता हि साधून्कलङ्कयन्ति परिभवन्ति च। तदेतासु धीरसत्त्वैःसुधीभिर्न प्रसक्तव्यम्। वीतरागपदाप्तये केवल शीलमभ्यस्तव्यम्। इति तेनानुशिष्टः स चारुमतिः स्त्रियः परिहृत्य ऊर्द्ध्वरेताः क्रमात् बुद्धक्रमः समभवत्।इत्थंशीलाढ्याअन्यानपि तारयन्ति, तन्मयोक्तम् अधुनाक्षमापारमिकामाकर्णय।

आसीत् केदाराद्रौशुभनयो नाम महामुनिः। स चसदा मन्दाकिनीतीये तपश्चरन् दान्तः कृशतनुरस्थात्।एकदा निशि तत्र भुवि निखातं काञ्चनमन्वेष्टुं कतिचित् चौराः समाययुः न च तैः कुतोऽपि तत् प्राप्तम्।ततस्ते अत्र विजने अनेन मुनिना तत् हृतं मत्वा तस्यमठिकां प्रविश्य तमब्रुवन् अरे दम्भमुने! मुञ्च अस्माकंनीतं त्वया काञ्चनं भूनिखातम्। अहो चौराणमपिनस्त्वंचौरः संवृत्तः। इति तैः पापैराक्षिप्तः स मुनिः न मया नीत दृष्टञ्च किञ्चिदपीत्यभाषत। ततो यदा समुनिस्तैःपापैर्लगुडैस्ताड़ितोऽपि सत्यवाक् सदेव वक्तिस्मतदा ते क्रूरास्तस्कराः चौरोऽयमिति निश्चित्य तस्य हस्तौ पादौ च चिच्छिदुः उत्पाटयामासुश्च नयने। तथापि अनन्यवचनं निर्विकारं तमवेक्ष्यते दस्यवः अन्यहृतं स्वर्णं मत्वा यथागतं जग्मुः।

अथ प्रातः शेखरज्योतिर्नाम राजा शिष्यस्तं मुनिंतथाभूतं दृष्ट्वा गुरुशोकार्त्तस्तं पृष्ट्वा अवेत्य च वृत्तान्तं तान् चौरानन्विष्यतत्रैवानावयामास। ततः तं नृपं तेषां

बधप्रवृत्तं स मुनिरब्रवीत्। राजन्! यदि एतान् निहंसितदाहमात्मनं निहन्मि,शस्त्रेण इदं मे कृतंतदेतेषांकोऽत्रापराधः?एते च तस्य शस्त्रस्य प्रेरकाःनहि,एतेषां क्रोधा अपि न, स्वर्णनाशश्च तेषां क्रोधानां न प्रेरकः, तस्य च स्वर्णनाशस्य मत्पूर्वदुष्कृतमेव प्रेरक तस्यापि च दुष्कृतस्य स्वमेव अज्ञानं प्रेरकं तस्मात् तदेव मे अपकारि तस्मात् तदेव अज्ञानं ते बध्यम् किञ्च यदिअपकारतः अमी बध्याः, तदा उपकारतः कथं न रक्ष्याः, एते यदि मे इदं न कुर्य्युःतदा मोक्षफलां क्षमां कस्यकुर्य्याम् तस्मादेतैर्मे महतीउपकृतिरेव कृता। इत्यादिभिर्बहुभिर्वचनैः स क्षान्तिपरो मुनिस्तं नृपं संबोध्य तान् चौरान् बधदण्डात् अमोचयत्। तस्माच्च तपसः प्रभावात् तस्य शरीरंक्षणेन अव्रणं प्राग्वत् स्वस्थमभूत् सिद्धिश्च महती। इत्थं क्षमिणस्तरन्ति। तदिदानीं धैर्य्यपारमिकां निशामय।

आसीत् पूर्वं मालाधरो नाम ब्राह्मणपुत्रः। स एकदाव्योमगामिनमेकं सिद्धकुमारमपश्यत्। ततस्तत् स्पर्द्धया तृणमयान् पक्षान् पार्श्वयोराबध्य उत्प्लुत्यउत्प्लुत्यगगनगमनाभ्यासमशिक्षत। इत्थंप्रत्यहं तथा विफलं प्रयासंकुर्वन् स कदाचित् व्योमचारिणा कुमारेण दृष्टः। धैर्य्ययुक्तं दुष्प्रापेऽपि अर्थे कृतोद्यम परिश्राम्यन्तं तं बालं दृष्ट्वा सकुमारः अनुकम्प्योऽयं मे इति सञ्चिन्त्य तुष्टः गगनं नीत्वा आत्मनः अनुचरं चकार। इत्थं धैर्य्येण देवता अपि तुष्यन्ति। तदित्थंधैर्य्यपारमिका ते प्रोक्ता, इदानीं ध्यानपारमिकामाकर्णय।

आसीत् पुरा कर्णाटेषु विजयमाली नाम कश्चित् वणिक्। तस्य महार्द्धःमलयमाली नाम पुत्रः। स एकदापित्रा सह राजकुलमगात्। आगत्य च तत्र स युवा मलयमाली तस्य इन्दुकेशरिणो नृपस्य सुतामद्राक्षीत्। सा चइन्दुयशा नाम मोहिनी मारबल्लीव दृष्ट्वैव तस्य वणिक्सुतस्य हृदयं विवेश। ततः स गृहमागत्य निशि विनिद्रः पाण्डुकान्तिःदिवा च सङ्कुचितः सततं तामेव ध्यायन् आहारादिपराङ्मुखः तस्थौ। स्वजमैः पृष्टोऽपि मूक इव न किञ्चिद् वदति स्म।

अथैकदा एकान्तस्थंतथाभूतं विरहातुरकान्तिंतं निरीक्ष्य मन्थरको नाम बालसुहृत् राजचित्रकरः समभ्यधात्, सखे! किं त्वं भित्तिसंसक्त आलिखित इव रूपैकसारस्तिष्ठसि? नाश्नासि न पिबसि न शृणोषि न च पश्यसि। इत्येवं निर्बन्धतः पृच्छन्तं तं सुहृदं स वणिक्सुतः स्वमभिप्रायं शशंस। सखे ! नैषा ते राजपुत्रीं प्रतिस्पृहा युक्ता, इति ब्रुवन् स सुहृद् यदा त प्रतिबेद्धं नाशकत् तदा तस्मै ताम् उत्कण्ठाविमोदिनीम् आलिख्य कालातिपाताय चित्रपटं ददौ। स च वणिगात्मजःमलयमाली चित्रपटस्थितां तां प्राप्य पश्मन् अनुनयन् स्पृशम् भूषयंश्चकथञ्चित् सुस्थोऽभवत्, सा एवेयम् इन्दुयशा राजपुत्री इत्येवं भावयन् क्रमात् तन्मयतां प्राप, चकार च तया धृत्या तामालपन्तीं चुम्बनादिकं कुर्वतीं भावयन् चित्रगतयापि तया सर्वाः क्रियाः। तत्तः स स्वभावनासिद्धकान्तासम्भोगसुस्थितः चित्रपटस्थं सर्वं संसारममन्यत।

एकदा चन्द्रोदये स चित्रपटमादाय निर्गत्य तयाकान्तया विहर्तुमुद्यानमगात्। तत्र एकस्य तरोर्मूले तं चित्रपटं निवेश्य प्रियाकृते पुष्पाण्याहर्तुं विप्रकृष्टं ययौ। तस्मिंश्च क्षणे विनयज्योतिर्नाम मुनिरम्बरतलात् दृष्ट्वा तं कृपया मोहादुद्धरिष्यन् अवततार। स मुनिस्तत्रचित्रपटस्य एकदेशे सजीवं कृष्णसर्पमालिख्य अलक्षितस्तस्थौ। तावच्चमलयमाली पुष्पाण्याहृत्य तत्रागत्य तं कृष्णसर्पं पटे दृष्ट्वा व्यचिन्तयत्, सर्पोऽयं कुतोऽधुना आयातः, किं विधिनात्र रूपनिधानभूतामिमां सुन्दरीं रक्षितुं प्रेषितः? इति सचिन्त्य तां प्रियां पुष्पैरलङ्कृत्य पटस्थां भावनोपनीतां यावदालिङ्ग्यएतत् पृच्छति तावदसौकृष्णसर्पः मुनेर्मायाप्रभावात् तां ददंश। ततः स तेन कृष्णसर्पेण दष्टां विगतचेतनां तां दृष्ट्वा स विस्तृतपटोहाहा इत्युक्त्वैव मोहितः पपात। क्षणाच्च संज्ञां सम्प्राप्यविलपन् मरणोन्मुखः उत्थाय वृक्षाग्रमारुह्य तस्मात् आत्मानं भूमौ अक्षिपत्। तञ्च पतन्तमेव स मुनिः पाणिभ्यामग्रहीत्, जगाद च तं समाश्वासयन्, मूढ़! न वेत्सि त्वं सा राजबाला राजमन्दिरे स्थिता, एषा चित्रस्था निर्जीवा, तत् कामालिङ्गसि का च ते महाहिना अवस्था कृता? रागिणस्ते स्वसङ्कल्पभावनया जनित एष भ्रम एव, तादृशेन ध्यानेन तत्त्वं किं जिज्ञाससे? येन ईदृशानां दुःखानां पात्रतां न पुनराप्नोषि। इति तेन मुनिना निराकृतभ्रमः सवणिक्पुत्रः प्रबुद्धः तं मुनिं प्रणिपत्य जगाद, भगवन्! त्वत्प्रसादादिदानीम् अहमेतामापदं तीर्णः यथाहं

संसारं तरेयं तथा प्रसादं मे करोतु भवानिति। इत्थं मलयमालिना वणिक्सुतेनार्थितोऽसौ मुनिस्तस्मै स्वविज्ञानमुपदिश्य तिरोदधे। ततो मलयमाली वनं गत्वा तपोबलात् सहेतुकस्य हेयोपादेयस्य तत्त्वज्ञः आर्हतं भावमवाप। ततोगृहमागत्य कृपालुर्ज्ञानोपदेशेन इन्दुकेशरिणं तं नृपं सपौरं मुक्तिभागिनं कृतवान्। इत्थमसत्यमपि ध्यानबलसम्पन्नानांसत्यतामेति। तदिदानीं ध्यानपारमिकता त्वया श्रुता, साम्प्रतं प्रज्ञापारमिकतां शृणु।

प्राक् सिंहविक्रम इति तस्करःसिंहलद्वीपेऽभवत्। स खलु सर्वतो हृतैः परस्वैराजन्मपूरिततनुः वृद्धः सन्कालेन विरम्य एवमचिन्तयत, परत्र मेकोऽभ्युपायः, तत्रक शरणमाश्रयामि। यदि शम्भुं वा शौरिं शरणं व्रजामि,तदपि न सम्भाव्यते, कस्तयोरहं यर्यार्देवा मुनयस्तथान्येच सेवकाः। तस्मात् यः सर्वेषां जन्तृनां सुकृतदुष्कृते लिखति तमैव चित्रगुप्तम् अहमाश्रयामि, स हि स्वयुक्तितः मां रक्षिष्यति, कायस्थो हि एकः ब्रह्मरुद्रयोर्व्यापारं करोति, यतः क्षणात् लिखनकौशलेन विश्वंकरस्थितंकर्त्तुं शक्नोति। इति संचिन्त्य स चौरः तस्य वै भक्तिं करोति स्म। तमेवार्चयित्वा तत्प्रीत्यै नित्यं ब्राह्मणानभोजयत्। एवमाचरतस्तस्य चित्तमीक्षितुम् एकदा चित्रगुप्तः अतिथिर्भूत्वा गृहमायात्। स च चौरस्तमभ्यर्च्य भोजयित्वा दक्षिणाञ्च दत्त्वा उवाच,भद्र! चित्रगुप्तः प्रीणातुते इति उच्यताम्। ततः स चित्रगुप्तः ब्राह्मणरूपधरस्तमवोचत्, भो! हरिहरादीन् त्यक्त्वात्वं चित्रगुप्ते कथमी-

दृशींभक्तिं करोषि? इत्युक्त्वापुनरब्रवीत् यदि त्वं स्वां भार्य्यांमह्यमर्पयसि, तदाहं तत् वदामि। एतदाकर्ण्य संहृष्टः स सिंहविक्रमस्तमवादीत्, ब्रह्मन्! अभीष्टदेवताप्रीतये मया ते भार्य्यादत्तैव। तदाकर्ण्य चित्रगुप्तः सम्प्रीतः आत्मानं प्रदर्श्य तमब्रवीत्, अहमेव चित्रगुप्तः तेप्रीतोऽस्मि,किन्ते प्रियं करवाणि? ततः स सिंहविक्रमः सहर्षं तमभ्यधात्, भगवन्! यथा मे मृत्युर्न भवेत् त्वं तथा कुरु। चित्रगुप्तोऽब्रवीत् भद्र! मृत्युःवारवितुमशक्यः, तथापिकामपि त्वदर्थं युक्तिं करिष्ये, तत् श्रूयताम्। यतः प्रभृति श्वेतेन मुनिना निर्दग्धः कालः पुनः कुपितेन ईश्वरेण कार्य्यवशात् निर्मितः, ततः प्रभृति यत्रैष श्वेतो वसति तत्र स कालः तेन प्रभुणा यन्त्रितः पुरुषान् अन्यांश्च जन्तून् न बाधते।स च श्वेतो मुनिः अधुना पूर्वाम्बुधेः पारे तरङ्गिणींनाम नदीमुत्तीर्य्यतपोवने स्थितः। तत्र मृत्योरनाक्रम्ये त्वां नीत्वा अहं स्थापयामि, त्वया पुनस्तरङ्गिण्याः पारं कदाचन नागन्तव्यम्। यदि प्रमादागतं त्वांमृत्युर्बाधिष्यते, तदा परलोकागतस्य ते उपायं करिष्यामीति उक्त्वाचित्रगुप्तः तं प्रहृष्टं सिंहविक्रमं श्वेताश्रमंनीत्वा तिरोदधे।

अथ कालेन तत्रस्थं सिंहविक्रमं नेतुं कालस्तरङ्गिण्यास्तस्था अपरं पारमाययौ। तत्र स्थितः स कालः यदा अन्यमुपायं तदानयने न पश्यति स्म, तदा मायया दिव्यां स्त्रियं निर्माय तस्मै प्राहिणोत्। सा विलासिनी तमभ्येत्य युक्त्या स्वल्पैरिवाहोभिर्वशीचकार।

अथ गच्छति काले सा सुन्दरी केनापि व्यपदेशेन तां तरङ्गिणीं तरीतुमवततार। तस्मिंश्चतीरस्थे सिंहविक्रम वीक्ष्यमाणे सा नदीमध्ये परिस्खलनमकरोत्, अरोदीच्चओधेनक्रियमाणेवतारस्वरं हा नाथ! म्रियमाणां मां किं वीक्षसे, न च रक्षसि? त्वंशृगालविक्रमः, न खलु सिंहविक्रमः। तदाकर्ण्यैव स सिंहविक्रमः नद्यां तस्यामवातरत्। सा चनारी वेगेन नीयमानेति तांत्रातुमागच्छन्तं तं सिंहविक्रमंक्षणात्नदीपारमनयत्। तत्र प्राप्तमेव तं कालःपाशक्षिप्तगलं सद्य एवाग्रहीत्। विषयग्रस्तचेतसामपायो हि शिरस्थित एव। ततः तं यमसदनं नीत प्रमादिनंदृष्ट्वा प्राक्प्रसन्नश्चित्रगुतो जनान्तिकमब्रवीत्, यदा त्वंपूर्वं नरकं भोक्ष्यसे वा स्वर्गमिति पृष्टः स्याः तदा स्वर्गवासं प्राक् प्रार्थयिष्ये स।स्वर्गे वसंश्चतद्दार्ढ्यसिद्धयेपुण्यं करिष्यसि, पापापनोदनाय च कृच्छ्रं तपः। इति चित्रगुणेन स्वैरमुक्तः स सिंहविक्रमः विलक्षस्तथेति प्रतिपेदे।

अत्रान्तरे धर्मराजस्तं चित्रगुप्तमभाषत, कच्चिदस्यचौरस्य कोऽपि पुण्यांशोऽस्ति न वा? चित्रगुतोऽब्रवीत्। अस्ति, असौहि अतिथिप्रियः इष्टदेवताप्रीतये दारानपि अर्थिने प्रादात्, प्रभो! तस्मादस्य दिव्यं दिवसं यावत् स्वर्गगतिरस्ति। ततः स सिंहविक्रमः धर्मराजस्य आज्ञया उपस्थितं विमानमारुह्य अग्रतः प्रार्थितं स्वर्गवेश्मंभोक्तुं चित्रगुप्तवचः स्मरन् त्रिदिवंप्रायात्। तत्रागत्यच मन्दाकिनीस्रानजपव्रतपरायणःभोगनिष्पृह-

स्तस्थौ। एवं क्रमेण तीव्रतपोबलात् स्वर्गवासं प्राप्य तत्र शङ्करमाराध्य निर्दग्धकल्मषः ज्ञानमवाप। ततो नारकादूतास्तस्य सुखमीक्षितुमपि न शेकुः। इत्थं चौरोऽपि सत्प्रज्ञावलात् सिद्धिमवाप।इत्येषा प्रज्ञापारमिका प्रोक्ता, वत्स! बुधाः नौतुल्यामीदृशीं बुद्धोक्तदानादिषट्कपारमिकामारुह्य भवाम्बुधिं तरन्ति। एवं तस्मिन् वनेसोमशूरमनुशासतस्तस्य बोधिसत्त्वपदस्यस्य विनीतमतेर्नृपस्य वचनं निशम्यैव भास्करः सन्ध्यारागात्तकाषायःअस्ताचलदरीमाससाद। ततः सन्ध्यां यथावदुपस्थाय स विनीतमतिः सोमशूरश्च तत्र तां निशां निनाय।

अन्येद्युश्च स राजा विनीतमतिः तस्मैः सोमशूराय पुनश्चबौद्धधर्मरहस्यमुपादिशत्। ततः स सोमशूरस्तं गुरुमुपासीनो वने तस्मिन् समाधिनिष्ठःवृक्षमूले कृतनिकेतस्तस्थौ। क्रमेण च तौ गुरुशिष्यो उभावपि लब्धयोगमहासिद्धी परां बोधिसत्त्वतामवापतुः।

अत्रान्तरेस कनककलसो नृपः तेन इन्दुकलसेन भ्रात्रामत्सरादेत्य तयोः खड्गाश्वयोः प्रभावात् तस्मादहिच्छषाद विनोतमतिदत्तात् राज्यात् निर्वासितः द्वित्रस्वसचिवैरन्वितः भ्राम्यन् तत् विनीतमतेस्तपोवन प्रापत्। तत्रेत्य यावत् स दुर्वारक्षुधारतृष्णन्वितः फलानि मूलानिअम्बूनि च अभिवाञ्छति तावत् इन्द्रेण तं वञ्चयितुमिच्छतातत् काननं दग्धसारीकृतम्। विनीतमतिरकस्मात् तं मरुभूतमाश्रममवेश्यअतिथिसेवाविलोपात् उद्भ्रान्तः इतस्ततः परिवभ्राम, ददर्श च तं भ्राम्यन्तं कनककलसं

क्षुधा कण्ठगतप्राणमतिथिं सानुगमागतम्। तादृशं तमुपेत्य पृष्टवृत्तान्तःआतिथ्यप्रज्ञया तं जगाद, राजन्! अस्मिन् मरुभूमौ अरण्ये क्षुधितानामेतं जीवितोपायं युष्माकं वदामि इतोऽर्द्धक्रोशमात्रके एकस्मिन् खाते पतित्वा मृतः एकः मृगस्तिष्ठति, अद्य तन्मांसैः प्राणान् रक्षत। ततस्तथेति आर्त्तेषु तेषु तत्र गन्तुमुद्यतेषु स विनीतमतिर्बोधिसत्त्वः पूर्वं त्वरितं तत्र गत्वा तत् खातं प्राप्य योगेन मृगरूपं कृत्वा तत्र आत्मानं निक्षिप्य तेषामतिथीनां सेवार्थं प्राणान् विजहौ। ततस्ते कनककलमाद्याः शनैस्तत्र गत्वा खात तत्र विपन्नं पतितं मृगञ्च ददृशुः। ततस्ते तमुद्धृत्य तृणादिभिर्ज्वलन प्रज्वाल्य तस्य मांसानि भृष्ट्वा च निःशेषाण्यभक्षयन्।

अत्रान्तरे तस्य विनीतमतमतेर्द्वे भार्य्येविक्लवेनागसुताराजसुतेतं यति पतिमपश्यन्त्यो तस्मैसोमशूरायसमाधिबन्धात् निवृत्तये ऊचतुः। सोऽपि प्रणिधानेन विज्ञातगुरुचेष्टितः ताभ्यां गुरुपत्नीभ्यां दुःखप्रदमपि तत् यथावत् कथयामास, ययौ च तत्क्षणं ताभ्यामेव सह तत् खातान्तिकम्। तत्र गत्वा ते राजपत्न्यीमृगाकतिं शृङ्गास्थिमात्रशेषं तं पति दृष्ट्वा अन्वशोचतां तानि च शृङ्गास्थीनि समादाय स्वाश्रमाच्च दारुसञ्चयमानीय अग्निं ज्वलन्तं प्राविक्षताञ्च। ततस्तत्र स्थितः सोऽपि कनकलसः तं वृत्तान्तं ज्ञात्वा सुदुःखितः सानुचरः अग्निं प्राविशत्।एवं गते सोमशूरोऽपि गुरुशोकासहः प्राणत्यागार्थं दर्भसंस्तरमध्यास्त।

एतस्मिन्नन्तरे देवराजः साक्षादागत्य तमभ्यभाषत,ब्रह्मन्! मैवं कृथाः, मयैक तव गुरुः परीक्षितः। स हिअस्थिचर्मावशेषोऽपि सह भार्य्याभ्यामतिथिभिश्चअमृतवर्षेण जीवयित्वा समुत्थापितः। इति इन्द्रवाक्यमाकर्ण्य तंप्रणम्य मुदा समुत्थितःगत्वा यावत् वीक्षते स्म तावत्स गुरुर्विनीतमतिर्भार्य्यातिथिभिश्चसमं समुत्तस्थौ। ततः स सोमशूरः तं सपत्नीकं परलोकागतां गुरुं मूर्ध्नावाक्पुष्पैश्च ववन्दे, पपौ च चक्षुषा।

अथ भक्तिप्रह्वेषु कनककलसादिषु तेषु ब्रह्मविष्णुमुखादेवाः सर्वे तत्राययुः। ते च सत्त्वतुष्टास्तस्मै विनीतमतयेदिव्यानुभावात् पारार्थभृतान् वरान् दत्त्वा तिरोऽभवन्। सोऽपि विनीतमतिरुक्तवृत्तान्तैस्तैः सोमशूगदिभिः सह दिव्यमन्यत् तपोवनमाययौ। इत्थं भस्मीभूता अपि पुनर्मिलन्ति, किं पुनर्जीवन्तःस्वच्छन्दगतयो नराः, तदल देहोत्सर्गेण, वत्स! वीरोऽसि, व्रज, मृगाङ्कदत्तेन तव समागमो भविष्यतीति वृद्धतापस्या मुखात् कथामिमां श्रुत्वा जातास्थः खड्गमादाय तां नत्वा ततः प्रस्थितवानस्मि। ततश्च क्रमेण अटवों प्राप्तः एभिर्दैवादहं चण्डिकाकृतेउपहारमन्विच्छद्भिः श्वरेर्लब्धः। बद्धश्वैतेः व्रणाङ्कितः अस्य शवराधिपतेर्मायावटीः पार्श्वमानीतः द्वित्रमन्त्रियुतस्य भवतश्चरणारविन्दमद्राक्षम्। साम्प्रतं त्वत्प्रसादात् मेस्वगृहे इवात्र परा निर्वृतिर्जाता। इति तस्य गुणाकरस्य वृत्तान्तं निशम्य शवरपतेगृहस्थितः स मृगाङ्कदत्तःपरं परितोषमभजत, दृष्ट्वा चतस्य सम्प्रहारवणितं

अङ्गम् उचितपध्यदेहचर्य्यांविधाय अहनि गलति अपरैर्वयस्यैः सह उत्थाय आह्निकं क्व त्यं व्यधात्। तञ्चगुणाकरम्उल्लासयन् शशाङ्कवत्याप्तये उज्जयिनीं यियासुरपि शेषान्सखीन् सम्प्राप्तुं तत्रैवशवरेन्द्रगृहे कतिपयान्यहानि तस्थौ।

_________

अथ त्रिसप्ततितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172218195038.jpg"/>

अथ रूढ़व्रणे स्वस्थे जाते तस्मिन् गुणाकरे शुभेऽहनितं सुहृदं शवराधिपं कार्य्याय कृतसंविदम् अदूरमन्वागतंसख्या दुर्गपिशाचेन मातङ्गपतिना समन्वितमापृच्छाशशाङ्कवतीलाभार्थम् उज्जयिनीं प्रति प्रतस्थे मृगाङ्कदत्तःसानुगः गच्छंश्चअन्धान् सखीन् चिन्वन् सामात्यः पथि विन्ध्याटवीमामाद्य श्रान्तः शर्वर्य्यांकस्मिंश्चित् तरोस्तलेसुष्वाप, ददर्श च सहसा प्रबुद्धः तस्यामेवाटव्यात्मपरमेकं मानुषं प्रसुप्तम्। यावत् स मुखं विवृणोति तावत् स्वमन्त्रिणं त विचित्रकथं प्रत्यभिज्ञाय मृगाङ्कदत्तः तमुत्थापयामास। सोऽपि प्रबुध्य दृष्ट्वैव तप्रभु मृगाङ्कदत्तं सानन्दं पादयोः जग्राह। ततस्तेन राजपुत्रेण अकाण्डदर्शनोतुत्फुल्लचक्षुषा आलिङ्गितः तैश्चसर्वैस्तमन्विभिरभ्यनन्द्यत। अथ यथोक्तस्वस्व वृत्तान्तैस्तैः सर्वैः क्रमात्परिपृष्टोऽसौ विचित्रकथः स्वं वृत्तान्तंवक्तुं प्रचक्रमे।

तदा नागशापात् युष्माभिरितस्ततः प्रभ्रष्टेषु अह-

मेकाकी मोहात् सुचिरं तत्र अभ्रमम्। गत्वा च बहुदूरं नष्टसंज्ञः परेद्युरकस्मात् अटव्याः प्रान्तस्थितं दिव्यं महत् पुरमेकं प्राप्तवान्। तत्र दिव्यः कश्चित् पुमान् दिव्यनारीभ्यामन्वितः मां दृष्ट्वा समाखास्य अन्तःपुरं प्रवेश्य च यत्नेन दिव्यं भोजनं प्रादात्। अहञ्च तत् भुक्ता विश्रान्तस्तंपुरुषं व्यजिज्ञपं, को भवान् कथं वा मुमूर्षुं मामेवंमुक्तवानसि मया हि स्वंप्रभुं विना अवश्यमेव प्राणामोक्तव्याः इत्युक्ता मया वृत्तान्तः सर्वस्तस्मै निवेदितः। ततश्च स महात्मा प्रीतः मामवादीत्, अहं यक्षः, एते च मम भार्य्ये, त्व हि मेऽय अतिथिः प्राप्तः। ययाशक्ति अतिथिपूजा गृहमेधिनां धर्मो हि, तस्मात्त्वं मयार्चितः। त्व कथं प्राणान् मुमुक्षसि? नागशापेनायं वियोगो युष्माकं किञ्चित् कालम् क्षोणशापानां युष्माकं अवश्यं समागमोभावौ, भद्र! अस्मिन् संसारे को हि निदुःखो जायते? यक्षेणापि मया यद् दुःख भुक्तं तत् कथयामि शृणु।

अस्ति वसुधादेव्या मौलिमण्डलमालिका त्रिगर्त्ता नाम सुमनोगुणगुम्फिता नगरी। तस्यां पवित्रधर इतिकोऽपि द्विजयुवकः प्रतिवसति स्म। स खलु धनदरिद्रःपरं परिजनैः कुलैश्चादरिद्रः। स खलु समृद्धिशालिनांमध्ये वसन् एकदा मानी व्यचिन्तयत्, एतेषां धनिनां मध्ये अहं वृत्तस्थोऽपि न बिभामि मनस्वी अहं सेवां वा प्रतिग्रह कर्त्तुं शक्नोमि, तद् गत्वा क्वचिदेकान्ते यक्षिणीं साधयामि। ततः स पवित्रधरो द्विजः भार्य्याभावेन यक्षिणीं साधयन् सिद्धयासौदामन्यभिधानया तया समन्वितस्तस्थौ।

एकदा सुतोत्पत्तिंविना दुःखितचेतसं तं पतिंदृष्ट्वा भार्य्या यक्षिणी समब्रवीत्, आर्य्यपुत्र! मात्र चिन्तांकृथाः, आवयोः सूनुरुत्पत्स्यते। इमञ्च वृत्तान्तं शृणुकथयामि ते। अस्ति दक्षिणस्यां दिशि प्रावृषो जन्मभूमिरिव पिहितार्का घनश्यामा तमालवनवीथिः। तस्यांपृथूदरो नाम यक्षःप्रतिवसति। तस्य अहमेवैका सौदामनीनाम सुता। कदाचित् स्नेहाक्रान्तेन पित्रा अहंकुलाद्रिषु नीता तेषु दिव्योपवनभूमिषु सदा अक्रीड़म्।

एकदा कपिशभ्रुवा नाम संख्या सह क्रीड़न्ती कैलासे अट्टहासनामकं यक्षपुत्रमेकमद्राक्षम्। सोऽपि सखीमध्यगतां मां दृष्टवान्। आवाञ्च तत्क्षणं अन्योन्यरूपाकष्टत्रिलोचनौ जातौ। तद् दृष्ट्वा सदृसंयोगमवेत्य सद्यएव अट्टहासपित्रा तातमाहय मे तेन सहविवाहोनिर्णीतः। ततः स्थिते लग्नदिवसे तातो मां गृहमनयत्। अट्टहासोऽपि मुदितः पितुरालयमगात्।

अथान्येद्युः सा मम सखीकपिशभ्रूःविषमेव मत्समीपमागात् पृष्टा च सनिर्बन्धंकृच्छ्रादभाषत,सखि! अनाख्येयमपीदं ते अप्रियं कथयामि।अद्य गच्छन्त्यामया स तव वरः अट्टहासःचित्रस्थलाभिधे हिमवत्सानुनि उद्याने त्वदुत्सुकः दृष्टः। तञ्च विनोदयन्तः सखायःक्रीड़या यक्षाधिपं तस्य च भ्रातरं दीप्तशिखं राजपुत्रं नलकूवरम् अकल्पयन्। स्वयं ते तस्य साचिव्यमाश्रयन्। एवं वयस्यैः कृतविनोदं तव प्रियं व्योम्नायदृच्छया गच्छन्धनाधिपतो नलकूवरःअद्राक्षीत्, अशपच्चसंक्रुद्धः तं

समाहूय। त्वं भृत्यो भूत्वा यत्नतः प्रभुमनुकर्तुमिच्छसि?दुर्मते। मर्त्त्योभव ऊर्द्धमिच्छन् अधो व्रज। इत्युक्तःस वित्रस्थः तं व्यजिज्ञपत्, देव। औत्सुक्यं नुदता मूर्खेणमया एतत् कृतं नाधिकाराभिमानेन तस्मात् प्रभो! मां क्षमस्व। इत्यार्त्तं तद्वचः श्रुत्वा प्रणिधानात् तथैव तत्विदित्वा तस्य शापान्तंव्यधात्। यस्यां त्वमुत्सुकः, त्वं मानुषो भूत्वा तस्यां यक्षिण्याम् अनुजं दीप्तशिखमेव आत्मज जनयित्वा शापाद विमुक्तः पुनः तथा पत्न्यासहस्वपदं प्राप्स्यसि। भ्राता च ते सुतो भूत्वा भुवि राज्यकृत्वा शापात् मोक्ष्यते इत्युक्त्वासौ तिरोऽभवत्। इति सख्यामुखात् श्रुत्वा तदा दुःखात् कामपि दशामगमम्। अथात्मानमनुशोच्य गत्वा पित्रोर्निवेद्य च पुनः समागमकाङ्क्षया कथमपि त कालमनैषम्। सः अट्टहासस्त्वमुत्पन्नः, सा चाह सौदामिनी उभौ मिलितौ। अतिरागदेव आवयोः सुतो जनिता। एवं तया ज्ञानवत्याभिहितः सौदामन्या स प्रहर्षवान् पुत्रोत्पत्तौ सविश्वासस्वस्थौ।

कालेन तस्य तस्यां यक्षिण्यां पुत्र उदपद्यत। स च पवित्रधरः तस्य पुत्रस्य मुख दृष्ट्वा सपदि दिव्याकृतिः अट्टहास समवर्त्तत। अब्रवीच्चतां यक्षिणीं प्रिये। अद्य मम स शापो गतः, स एषाट्टहासोऽहमभव, साम्प्रत निजांगतिं गच्छावः। इति वादिनं त सा यक्षिण्यवदत्, नाथ!शिशुरयं ते भ्राता आवयोः सुतोऽभूत्। अस्य उपायश्चिन्त्यतामिति। तदाकर्ण्य सोऽट्टहासो ध्यानेन वीक्ष्य

तांजगाद, प्रिये! अस्यांपुरि देवदर्शनी नाम ब्राह्मणोऽस्ति। पञ्चाग्नेस्तस्य सभार्य्यस्य क्षुधया ज्वलतःपुत्रधनरहितस्य अन्यौद्वौजठराग्नी अभूताम्। एकदा धनपुत्रार्थिनं तपसि स्थितम् अग्निमाराधयन्त तं भगवानग्निः स्वप्ने समादिशत् ब्रह्मन्! औरसस्ते पुत्रो नास्ति कृत्रिमः पुत्राभविता, तत् प्रभावाच्च ते दारिद्र्यंप्रनङ्क्ष्यति। इत्यग्नेरादेशात्स विप्रः तं पुत्रं प्रतीक्षमाणो व्यतिष्ठत। तस्मै अयं शिशुर्देयः, इति तां प्रियामुक्त्वासः अट्टहासः रात्रौ प्रसुप्तस्य तस्य द्विजस्य सदने तं शिशुं स्वर्णकुम्भोपरि वर्त्तमानं गलावद्धदिव्यरत्नहारं स्थापयित्वासभार्य्यः स्वं धाम प्रययौ। सोऽपि देवदर्शनः सभार्य्यः प्रबुध्य प्रस्फुरद्रत्नतारकं तं बालचन्द्रं दृष्ट्वा गृहागतविसिस्मिये जगाम च कृतार्थताम्। ततश्च तं हेमकुम्भं विलोक्य तमाग्नेयं स्वप्रादेशं स्मरन् नमर्त्त। जग्राह चउत्सङ्गे तं विधिसमर्पितं पुत्र धनञ्च। विदधे च प्रातर्महोत्सवं स्वजनैः।

अथैकादशेऽहनि स द्विजः तस्यपुत्रस्य स्वोचितं श्रीदर्शन इति नामाकरोत्। ततः सः विप्रः तत्पुत्रप्रभावेण महाधनो भूत्वा नानाविधान् यज्ञादीन् कुर्वन्भोगांश्च भुञ्जानः कालमनैषीत्। ततस्तीर्थयात्राप्रसङ्गेन निर्गतःप्रयागे पञ्चत्वमवाप। तदाकर्ण्य तस्य पत्नी अपिअग्निं प्रविवेश। ततः स श्रीदर्शनः पितरौ शोचन्तयोः शास्त्रविहिताः क्रियाः यथाविधि व्यधत्त। क्रमेण चस शोक तनूक्वत्य दैवात् प्राज्ञेऽपि अनभिभावकतया

द्यूतक्रीडायां प्रसक्तोऽभवत्। क्रमाच्चतेन दुर्व्यसनेनक्षीणसम्पदस्तस्य भोजने क्लेशोऽजायत।

एकदा द्यूतशालायां त्र्यहं निराहारस्थितं मलिनवसनं लज्जया निर्गन्तुमशक्नुवन्तम् अन्यैर्दन्तमभुञ्जानंसुदुःखितं कश्चित् सखा कितवः मुखरको नाम तं श्रीदर्शनमब्रवीत् सखे! किं मुह्यसि? इदं द्यूतव्यसनपातकम् ईदृगेव। अश्रीकटाक्षपाता अक्षाः किं तव न विदिताः? अत्रासक्तानां बाहू उपाधानं शय्या पांशवः, चत्वरं गृहं विध्वस्तता भार्य्यविधिना निर्मिताः। तत्कथं विद्वानपि न भुङ्क्षे, कथं वा आत्मानमुपेक्षसे? जीवन् हि धीरः किं नाम अभीप्सित पदं नासादयेत्?तदत्र चित्रां भूनन्दनकथां शृणु।

अस्तीह भूमण्डले काश्मीर इति सुकृतिनां कृतेद्वितीयः स्वर्ग इव सर्वसुखभोगास्पद देशः। अहमत्राधिका न त्वमित्यन्योऽन्यमर्षयेव लक्ष्मीसरस्वत्यौ यं सततसमाश्रिते। धर्मद्रुहः कलेरत्रप्रवेशो माभूदितीव स्वदेहपरिवेशेन य हिमाद्रिः सततं रक्षति देवतीर्थमयम् त्वमितो दूरं गच्छ इतीव तरङ्गहस्तैः कल्मषंनिराकुर्वत्यावितस्तया यः परिविश्यते। यस्मिंश्चसितसुधया धोतासुङ्गाः प्रासादाःआसन्नहिमवत् पादाबलिभ्रमं जनयन्ति।तस्यां भूनन्दनो नाम वर्णाश्रमाणां गुरुः प्रजानां नयनचन्द्रःविद्यागमेषु नितरां निष्णातो नृपतिरासीत्। यस्य विक्रमः नखराजिनियुक्तेषु कामिनीनां कुचकलसेषु विद्विषांमण्डलेषु विरराज।यस्य च नीतिज्ञस्यापि प्रजाः शश्वत्।

अनीतयः कृष्णैकासक्तचित्तस्यापि कृष्णरतमानसाः अभूवन्।

कदाचित् स राजा द्वादश्यां विधिवत् अच्युतं देवमर्चयित्वा सुप्तः स्वप्ने उपयातां कामपि दैत्यकन्यामपश्यत्।तया संयोगमवाप्यापि प्रबुद्धो न तां ददर्श, परमङ्गेसम्भोगचिह्नंदृष्ट्वा विसिस्मिये। तर्कयामास च नायं स्वप्नः,व्यक्त एवायं सम्भोगः, नूनं कयाचित् दिव्यनार्य्याअहं विप्रलब्धः। इत्यालोच्य तदेकायत्तचित्तः तथा विरहातुरश्च वभूव यथा क्रमेण सर्वाण्यपि राजकार्य्यणि विजहौ। ततःस तस्याः प्राप्तुपायमपश्यन्नचिन्तयत् हरेः प्रसादादेव तया मे स सङ्गमोऽभूत्। तत् तमेव एकान्तमनास्तत् प्राप्तयेआराधयामि, साम्प्रत तद्विरहेण नीरसं राज्यं विमुञ्चामि।इति सञ्चिन्त्य सचिवान् सम्बोध्य अनुजाय सुनन्दनायराज्यं ददौ। अथ संत्यक्तराज्यः स भूनन्दनः हरिमन्दिरंगत्वा तत्र तपः कुर्वन् अन्धरसनिष्पृहस्तस्थौ। इत्थं व्यतीतद्वादशाब्दे तस्मिन् तपस्यति तेन पथा कोऽपि मनस्वी ज्ञानिप्रवरः पिङ्गलाग्रजटः चीरवासाः शिष्यगणान्वितः तत्तीर्थशिखरादवतीर्ण ईश्वर इव तत्रागात्। स तं राजानं तथा तपस्यन्तंदृष्ट्वैव जातप्रीतिरुपेत्य पृष्ट्वा च वृत्तान्तं क्षणमिव ध्यात्वाब्रवीत् राजन्! सा दैत्यकन्या तव प्रियापातालवासिनी त्वमाश्वसिहि, अहं त्वां तदन्तिकं नयामि, अहं हि दाक्षिणात्यस्य यजुः संज्ञस्य यज्वनः पुत्रो भूरिवसुर्नाम योगिनां गुरुरस्मि। सोऽहं पित्रा पातालशास्त्रतः संक्रामितज्ञानः हाटकेशानमन्त्रतन्त्रविधिं शिक्षित्वा श्रीप-

र्वतेगत्वा त्र्यम्बकाराधनं तपः अकार्षम्। तेन तुष्टश्च स हरःस्वयं मामादिशत्, वत्स! गच्छ दैत्याङ्गनाभिः समन्वितोरसातले भोगान् भुङ्क्ष्य, ततश्चमामुपैष्यसि, तदुपायञ्चशृणुकथयामि। अत्र भूतले भूयांसि पातालविवराणि सन्ति,एकन्तु कश्मीरे मयदानवकृतं महत् विवरं प्रस्फुटमस्ति। येनप्रविश्य गुप्तासु दानवोद्यानभूमिषु वाणसुता उषा कान्तम्अनिरुद्धंव्यनोदयत्। प्रद्युम्नश्च तदा पुत्रं रक्षितुं गिरिशृङ्गेण यदेकतः एकं द्वारं प्रकल्पयामास निवेशयामास च यस्य रक्षाहेतोः दुर्गाणि तदपि प्रकटं शारिकाकूटमभिधीयते, गच्छ तेन विलेन अनुचरैः सह पातालं ममप्रसादात् तत्र ते अभिलषितं सेत्स्यति। इत्युक्त्वादेवे अन्तर्हिते तत्प्रसादात् समुत्पन्नसर्वविज्ञानः कश्मीरानागतोऽस्मि, राजन्। त्वमस्माभिः सह तत् शारिकापीठमेहि त्वां मनोरथप्रियालाभाय पातालं प्रवेशयामि।एवमुक्ते तेन मुनिना समं स भूनन्दनो नृपः तत् शारिकाक्षेत्रं ययौ। तत्र गत्वा प्रथमं वितस्तायां खात्वा विनायकमर्चयित्वा दिग्बन्धादिपूर्वकं शारिकादेवीं संपूज्ययथाविधि सर्वपक्षेपात् महानुग्रहशालिना तेन महातपस्विनाविवरे प्रकटीकृते प्रविश्य तेन सशिष्येण समं सराजा पञ्चाहानि दिवानिशं गच्छन् पातालमवाप। षष्ठेऽहनि सर्वेऽपि पातालवाहिनीं गङ्गामुत्तीर्य्य रजतमय्यां भूमौ दिव्यमेकं काननमैक्षन्त। तन्मध्ये च सुमहाभोगं रत्नसोपानसुन्दरं सौवर्णभित्ति माणिक्यस्तम्भसम्भारभास्वरंचन्द्रकान्तशिलाबद्धं समुन्नतंमहत् शैवमन्दिरं सहर्षं

ददृशुः। ततः स तपस्वींतान् शिष्यान् तञ्च भूपतिं भूनन्दनं सञ्जातास्थः प्रोवाच यस्त्रिभुवने हाटकेश्वरो गौयते अयं स देवः, युष्माभिः पूज्यताम्। ततः सर्वे ते कृतगङ्गास्नानाःपातालसम्भवैः पुष्पैः शभुं पूजयामासुः। ततश्च क्षणं विश्रान्ता गत्वा पतत्पक्वफलं दिव्यमेकं जम्बूद्रुमं प्रापुः। तं प्रेक्ष्यस तपस्वी तानवोचत् एतस्य फलानि नः न भक्ष्याणि, एतानि भुक्तानि विघ्नं कुर्वते। तच्छ्रुत्वापि एकः शिष्यः क्षुधा तत्फलं चखाद।खादित्वा च सद्य एवनिश्चेष्टः स्थावरः समजायत। ततस्तद्दर्शनेन त्रासात् परित्यक्तफलम्पहैरन्यैः शिष्यैः राज्ञा भूनन्दनेन च समन्वितः सतपस्वीक्रोशमात्रमतिक्रम्य उच्छ्रितं हेमप्राकारं सद्रत्नस्वचितद्वारं गृहमैक्षत। तस्य च द्वारस्य उभयोः पार्श्वयोः लौहमयाङ्गौ प्रवेशावाधिनौशृङ्गप्रहारिणौ मेषौ दृष्ट्वा सपदि समुपेत्य मूर्द्ध्वनि न्यस्तमन्त्रेण दण्डेन वज्राहताविवक्वापि विद्रावयामास। ततश्च ते शिष्या राजा मुनिश्च सर्वे तेन द्वारेण प्रविश्य दिव्यान् हेमरत्नमयान् गृहान्तेषाञ्च प्रतिद्वारं दन्तदष्टाधरोत्कटान् गृहीतलौहभूषलान् द्वाररक्षिणश्च ददृशुः। ततः सर्वे तत्रैकस्य तरीस्तले उपाविशन्। स च तपस्वीदुष्टघ्नींयोगधारणामवध्नात्। तत्प्रभावेण च ते दुष्टा द्वाररक्षिणः सर्वेऽपि सर्वद्वारेभ्यः भयात् पलाय्य प्रदर्शनं जग्मुः। ततश्च क्षणेन दिव्याभरणवाससः दैत्यकन्यापरिवारवारनार्य्यः तेभ्यः द्वारेभ्यः विनिर्ययुः। ताश्चसर्वाः पृथक् पृथक् अभ्येत्य तान् सर्वान् स्वस्वस्वामिनीनिकेतं प्रावेशयन् स तु तपस्वी

तान् अन्तः प्रविष्टैर्युष्माभिः स्वस्वप्रियावचः नोल्लङ्घनीयमिति व्यादिभ्यताभिः नारीभिः समं वरमन्दिरं प्रविश्यएकाम् उत्तमां दैत्यकन्यां वान्छितान् भोगांव प्राप।अन्ये च एकैकशः अन्याभिस्ताभिरन्यवेश्मसु प्रवेशिता दैत्यसुतासम्भोगमवापुः। सोऽपि राजा भूनन्दनः एकया विनीतया मणिमयं परिवारवरनारीणांप्रतिबिम्बैः समन्ततः सजीवरत्नविन्यासमिव विमानविजिगीषया दिवः पृष्ठमिवारूढ़ गृहमेकं नीतः तत्रदिव्यसङ्गीतशालिनीं प्राक् स्वप्नदृष्टां तां कान्तामसुरकन्यामद्राक्षीत् यया अर्कादिवर्जितं पातालं कान्त्या प्रकाशितंतां कन्यां पश्यन् अनिर्वचनीयरूपां नृपः हर्षाश्रुणा चक्षुषोरन्यावलोकनमलं धौतवानिव। सापि तं राजेन्दुं वीक्ष्य वाला कुमुदिनीव कमपि प्रमोदमवाप। स्वप्रसन्दर्शनेनमया खेदितोऽसीति ब्रुवाणा सादरं तम् आसने समुपावेशयत्। ततश्च सा विश्रान्तं स्नातं वस्त्रादिना अलङ्कृतम् आपानाय उद्यानं निनाय।तत्र सा वापीतटे तेन साकमुपाविश्य सुरापूर्णपात्रंतस्मैनृपाय प्रादात्। स तुराजा तत् जुगुप्सितं न जग्राह। एतन्मपानानुरोधवचनम् अकुर्वतस्ते न क्षेमं भवेत् इति निबन्धेन ब्रुवाणांतां स राजाब्रवीत् प्रिये! अपेयं निश्चितमहं न पास्यामियदस्तु मै तदस्तु। तदाकर्णसा तस्य मूर्ध्नि पात्रं क्षिप्ता अन्यतो ययौ। स च राजा विषादमापन्नःतस्याश्चेटिकाभिस्तस्या एव वाप्या जले धृत्वा निचिक्षिपे। क्षिप्तश्चतस्मिन् तपोवने प्राप्तमात्मानमपश्यत्। व्यचि-

न्तयच्चसविषादविस्मयं अहो क्व तत् दैत्यकन्योप्रवनं क्वेदञ्च तपोवनं, किमिदमाश्चर्य्यं किमसो माया, उतमतिभ्रमो मे।आहोस्वित् अन्यत् किमपि? ध्रुवमेतत्तस्या वचनोल्लङ्घनफलं तपस्विवाक्यं श्रुत्वा मया विवेचितम्। मत्परीक्षार्थमेव सा तथा कृतवती, न च तत्रिन्दितं येन मूर्ध्नि च्युतेन अतिसौरभं दिव्यं प्रकटीकृतम्।तत् सर्वथा अभाग्यानां महानपि कृतः क्लेशः न फलाय,विधिरेव तेषु वामो वर्त्तते इत्येवं चिन्तयन् स भूनन्दनोनृपः असुरसुतापानसिक्ताङ्गगन्धलुब्धैभृङ्गैरवेष्ट्यत।हा कष्टं क्लेशो मम दृष्टफललाभाय न,प्रत्युत अनिष्टफलायवेतालोत्थापनमिव जातः इति भृङ्गैर्दश्यमानाङ्गो विमृशन्सञ्जातवैराग्यःदेहत्यागाय मतिमकरोत्।

तस्मिंश्चक्षणे तेन पथा गच्छन् कोऽपि मुनिकुमारस्तंतथाविधं क्षितिपतिं दृष्ट्वा समुपेत्य करुणार्द्रधीर्मरणव्यवसायात् निवार्य्य पृष्ट्वा च वृत्तान्तम् इदमभाषत राजन्!यावदयं देहः, तावत् दुःखक्षयः कुतः? तस्मात् निरुद्वेगैर्बुधैः पुरुषार्थः संसाध्यः। यावच्च अच्युतेशानविरिञ्चिषुएकतामतिर्न स्यात् तावत् भेदोपासनजाः सिद्धयो भङ्गुरा एव तद् अभेदधिया ब्रह्मविष्णुमहेश्वरान् ध्यायन्धैर्य्येण द्वादश अन्यानि वर्षाणि इह तपः कुरु, ततस्त्वं शाखतीं सिद्धिं प्राप्स्यसि। इदञ्च मम समन्तं कृष्णमृगाजिनं गृहाण, येन कृतावगुण्ठनो भ्रमरैर्न बाध्यसे।इत्युक्त्वास मुनिरजिनं समन्त्रं दत्त्वा तस्मै स्वं निलयंप्रायात्। सोऽपि राजा तथेति गृहीतधैर्य्यःतत्रैव

तीर्थे अवसत्। ततः द्वादशाब्दंतपसा समाराधितदेवंतं राजानं सा कुमुदिनी नाम दैत्यकन्या स्वयमुपातिष्ठत्। ततः स तया सह पातालं गत्वा चिरं भोगान्भुञ्जानः परं सिद्धिमवाप। इत्थमनुद्वेगेन ये धैर्य्यावलम्बिनो भव्याः, ते दूरं भ्रष्टा अपि पुनः सिद्धिं लभन्ते।तस्मात् त्वंसुदर्शन।आहारं विना कथमात्मानमुद्वेगादुपेक्षसे? इति द्यूतशालान्तःसभिकेन सख्या मुखरकेणउक्तः सः सुदर्शनः रात्री निराहारस्तं जगाद यथात्थ त्वंंकुलीनः सन् अस्यां पुरि लज्जया बहिनिर्गन्तुं न शक्नोसि,तदस्यामेव रात्रौ यदि मेविदेशगमनं न निषेधयसि, तदाहंआहारं करोमीति। तदाकर्ण्य स मुखरकस्तथेत्युक्त्वा भोजनमानीय तस्मै प्रादात्। सोऽपि वुभुजे। भुक्त्वाचतेनैव स्निग्धेन मित्रेण सह श्रीदर्शनः देशान्तरं प्रतिप्रायात्। मार्गे गच्छन्तञ्च तं दैवात् तौ जननीजनकौ निशि यदृच्छयागतो यक्षौअपश्यताम्। दृष्ट्वा च तौसौदामन्यट्टहासौ यो देवदर्शनस्यात्मजो जातमात्र एवन्यधीयत स एवायमिति प्रत्यभिज्ञाय ज्ञात्वा च धन व्यसनकर्शितंविदेशप्रस्थितं स्नेहाददृश्याविदमूचतुः, वत्स!श्रीदर्शन! तव मात्रा देवदर्शनभार्य्यया स्वनिवासभूमौ आभरणानि अन्तः स्थापितानि, तानि गत्वा गृहीत्वा अवश्यं त्वया मालवोगन्तव्यः। तत्र समूर्जिश्रीःश्रीसेन इति भूपतिरस्ति। स च कुमारत्वे यत भृशं द्यूतविपदा क्लिष्टः, तस्मात् तेन कितवानां स्फीतो महासखः कृतः, तत्र कितवा वसन्तः अभीष्टभोजनं लभन्ते

तत्तत्र गच्छ, तत्र तव अभीष्टं भवितेति अन्तरीक्षात् अशरोरिणी वाचं श्रुत्वा श्रीदर्शनो गृहं गत्वा तेन मित्रेण सह स्वनिवासभूमेरभ्यन्तरात् तानि आभरणानि आदत्त।ततः स प्रहृष्टः तेन मित्रेण सह देवानुग्रहं मन्यमानः मालवं प्रतस्थे दूरमध्वानं गत्वा सायं बहुशस्याढ्यंग्राममेकमाससाद। अथ श्रान्तः स तेन सुहृदा तस्य ग्रामस्यनातिदूरे विमलतोयस्य कस्यचित् सरसस्तीरे उपाविशत्।तस्मिंश्च तत्र धौतपादे पीतसलिले स्थिते रतिरिव रूपिणीकापि कन्या तोयार्थमाययौ। सा तं श्रीदर्शन प्रेमनिर्भरया दृशावलोक्य उपेत्य दर्शनप्रीतं सवयस्यमुवाच महाभागौ। कुत आगतौ इह विपत्तये अज्ञानात् ज्वलति अग्नौ पतङ्गवत् पतितो? एतदाकर्ण्य सम्भ्रान्तः स मुखरकःकन्यामप्राक्षीत् सुन्दरि? का भवती कथं वा इदमुच्यते?। ततः साब्रवीत् शृणुतं युवां, संक्षेपेण वच्मि।

अस्त्यत्र सुघोषो नाम सुमहान् सुविश्रुतः कश्चिदग्रहारः। तत्र पद्मगर्भो नाम वेदवित् ब्राह्मणः समजायत। तस्य सत्कुलजा शिकला नाम भार्य्याभूत्। तस्यां तस्य द्वेअपत्ये अजायेताम्। मुखरको नाम सुतः, पद्मिष्ठानाम सुताहम्। स मे भ्राता मुखरको द्यूतासक्तः बालएव निर्गत्य गृहात् कमपि देशं गतः। तेन शोकेन च मममातरि पञ्चत्वमितायां मत्पिता उभयशोकार्त्तः गृहस्थितिं त्यक्त्वाएकाकी मां गृहीत्वा तं सुतं गवेषयितुमितस्ततो भ्राम्यन् विधिवशादिमं ग्रामं प्राप। इह चग्रामे महान् चौरचमूपतिर्वसुभूमिरिति ख्यातः नाम-

मात्रती ब्राह्मणः प्रतिवसति। तेन इहोपस्थितस्य मेपितुः प्राणाः सुवर्णादीनि च द्रव्याणि तानि। अहन्तुगृहं नीता वन्दीकृता सुभृति नाम्ने पुत्राय दातुं परिकल्पिता। स चास्य पुत्रः मोषणार्थं ससार्थः क्वापि गतःस्थितः। मत्पुण्यैरद्यापि नायाति, विधिरचैवाधुनाप्रमाणम्। तदेष चौरो वां दृष्ट्वा अवश्यमत्याहितं कुर्य्यात्तद्यथा अस्मात् विमुचेथास्तथोपायं कर्त्तुमर्हथः। एवंवादिनींतां जातप्रत्यभिज्ञः स मुखरकः कन्यां कण्ठे समालिङ्ग्यरुदन्नभ्यधात्, हा पद्मिष्ठे! स एवाहं ते भ्रातामुखरकः बन्धुद्रोही, भगिनि! मन्दभाग्योऽहं हतोऽस्मि।तदाकर्ण्य सापि पद्मिष्ठा हृष्टा भ्रातरि अग्रजे दृष्टे अखिलैः पूर्वदुःखैः कृपयेव समाहृता कियन्तं कालं पितरोशोचन्ती तस्थौ। ततः श्रीदर्शनःतौ भ्रातरौ तथादुःखितौसमाश्वास्य कालोचितमभाषत, नायं शोकस्य अवसरःसाम्प्रतमात्मा एवं रक्ष्यःअर्थं त्यक्त्वापि, ततश्चास्य चौरस्यप्रतिक्रिया कार्य्या। एवं श्रीदर्शनोक्तमाकर्ण्य धैर्य्येण दुःख संहृत्य ते त्रयः परस्परं कार्य्यनिर्णयमकार्षुः। श्रीदर्शनः पीड़ाव्याजेन कृशीभूय तस्य तड़ागस्य तोरे मलिनकान्तिःनिपत्य स्थितः। मुखरकश्च तस्य पादौ गृहीत्वा रुदन्नतिष्ठत्। पद्मष्ठा च द्रुतं तस्य चौरपतेः पार्श्वमगात् अब्रवीच्च गत्वा तड़ागान्तेकोऽपि मन्दः आगत्य पान्थःस्थितः, तस्य च द्वितीयस्तत्रपरिचारको वर्त्तते। तदाकर्ण्यैव स चौरस्तान् भृत्यान् निस्सृष्टवान्। अथ ते गत्वातथारूपौ तौ दृष्ट्वा तयोर्मुखरकं पप्रच्छु, भद्र! अस्य

कस्त्वं किमर्थं वा रोदिषि? एतदाकर्ण्यकृतार्त्तिर्मुखरकस्तान् चौरान् प्रत्यवादीत् अयं मे अग्रजो ब्राह्मणस्तीर्थयात्रया प्रवासतः रोगाक्रान्तः शनैर्भ्राम्यन् अद्य मया सहइहागतः आगत एवायं निश्चेष्टीभूतो मामुक्तवान्, वत्म!उत्तिष्ठ। शीघ्रं मे दर्भसंस्तरं कुर, अस्माच्च ग्रामात् कञ्चित्गुणवन्तंब्राह्मणमानय, तस्मै अहं सर्वस्वं दास्यामि,नाद्य निशि अहं जीवामि। इत्युक्तोऽह मनेन दूह विदेशेरवौ अस्तमिते कर्त्तव्यमूढ़ःदुःखार्त्ती रोदनमेव मशिश्रियम्। तयूयं कृपया अस्य जीवतः कञ्चिद् ब्राह्मणमानयत। अयं जीवन्नेव स्वहस्तेन यदावयोरस्ति तत्सर्वं तस्मै दास्यति। एष च निश्चितमेव अस्यां रात्रौ प्राणान् हास्यति, अहञ्च एतद्वियोगं सोढुमशक्नुवन् श्वः पावकं प्रवेक्ष्यामि। तदस्मदर्थं यूयं कपालवो भूत्वा साम्प्रतिकं कुरुध्वंदैवेनैव यूयम् अकारणबान्धवाः अस्मदनुग्रहाय प्रेषिता इति मन्ये इति।

तदाकर्ण्य सञ्जातकृपास्ते चौरास्तथैव प्रतिपद्य गत्वास्वामिनं वसुभूमिमब्रुवन्, प्रभो! आगच्छ तस्मात् प्रयच्छतः पथिकात् सर्वस्वं गृहाण प्रतिग्रहेण, यत् निपात्यग्राह्यम्। इत्युक्तो वसुभूतिरवादीत् कोऽयं क्रमः, अनिपात्य धनादानमस्माकं परोह्यनयः। अनिपातितः हृतस्वोनिश्चितम् अमङ्गलं कुर्वीत। इत्युक्तवन्तं तं पापं भृत्याःप्रत्यूचुः देव! नात्र ते शङ्का, क्व हरणं क्व चमुमूर्षोःप्रतिग्रहः? यदि जीविष्यतः तदा प्रातरपि तौ हनिष्यामः अन्यथा तु ब्रह्महत्यापापेन किं फलम्? श्रुत्वैतत् वसुभूति-

स्तथेति प्रतिग्रहार्थं तं श्रीदर्शनं प्रतिपेदे। श्रीदर्शनोऽपि अवच्छाद्य अस्मै किञ्चित् किञ्चित् तदाभरणं सस्ताक्षरया गिरा श्वसन् ददौ। स च चौरपतिःकतार्थः सानुगः गृहान् प्रत्यागात्। अथ सर्वेषु चौरेषु सुप्तेषु रात्रौ सा पद्मिष्ठा तस्य श्रीदर्शनस्य मुखरकस्य च भ्रातुः पार्श्वमाययौ।ततस्त्रयोऽपि ते मन्त्रयित्वा तस्यामेव रात्रौ चौरविहीनेन पथा मालवं प्रति प्रस्थिताः कियन्तमध्वानं क्रामपि ण्टकबहुलां भ्राम्यत्कृष्णसारमुखेचणां तारचोरचीत्कारवतीं शुष्यत्तनुलतांकउन्नदतव्याघ्रसिंहादिखापदेभ्योविभ्यतीमिव महाटवीमासेदुः। तस्याञ्च गच्छतां तेषांसर्वं दिनं क्लेशं दृष्ट्वा कपयेव रविरस्तमगात्। ततस्तेश्रान्ताः क्षुधार्त्ता वृक्षमूलमुपाश्रिताःदूरतःअग्नेरिवज्वालां ददृशः। अथ श्रीदर्शनः अत्रायं ग्रामः स्यात्,यावत् गत्वा आलोकयामि इत्युक्त्वातां ज्वालामनुसरन्यावत्ययौ तावत् तत्र रत्नमयं गृहं निरीक्षाञ्चक्रे। ततः स तस्यैव ज्वालामिव महतींप्रभां विवेद। तत्र स वीरः दिव्यरूपां कामपि स्थितां यक्षिणों बहुभिविपरीताङ्ध्रिभिराकेकरविलोचनैर्यक्षेरावृतां दृष्ट्वा तैश्चाहृतं विविधमन्नंपानञ्च तां यक्षिणीमतिथिलभ्यमयाचत। सा च संत्त्वतुष्टातस्मैयथार्थितमन्नपानमदापयत्। स च तद् गृहीत्वायक्षिण्यादिष्टस्य यक्षस्य स्कन्धमधिरुह्य तस्य पद्मिष्ठयासह स्थितस्य वयस्यस्यान्तिकमाययौ। आगत्य च तं यक्षं विसृज्य ताभ्यां सह तत् दिव्यमन्नंसुशीतलनिर्मलं तोयञ्च यथाकाममुपयुयोज। ततः स मुखरकः तं सत्त्वप्रभावाढ्यं

देवांशमवेत्य तुष्टः आमानं तत्संख्यात् धन्यं मत्वा समभ्यधात्, सुखे! त्वं तावत् कोऽपि देवांशः पद्मिष्ठा चेयं मद् भगिनी लोकसुन्दरी, तदद्य मया तुभ्यमेषा दत्ता।ततः श्रोदर्शनः तं सुहृदं वितातं मत्वा तद्वचनमभिनन्दन् प्रत्यभाषत, सखे! मया इदं त्वद्वाक्यं पूर्वकाङ्क्षितमभिनन्दितं परं स्थानं प्राप्य एनां यथाविधि परिणेष्यामि।इत्थूचिवान् स तौ च भगिनीभ्रातरौ हृष्टाः तां निशामनयन्। ततश्च प्रातस्ते तस्य श्रीसेनस्य भूपतेः नगरंमालवं क्रमेण गत्वा समासेदुः। अध्वश्रान्ताश्चते सहसानगरमप्रविश्य विश्रामार्थं कस्याश्चित् वृद्धायाः ब्राह्मण्या गृहमुपतस्थुः। तत्र तैः प्रसङ्गोक्तनिजवृत्तान्तनामभिर्दृष्टा पुष्टाच सा ब्राह्मणी उद्विम्नेव तानब्रवीत् अहं यशस्वतीनाम राजसेवैकजीविनः सत्यव्रताख्यस्य विप्रस्य गृहिणी।कालेन भर्त्तरि मृते पुत्राया मे अमुनैव राज्ञा कृपालुनातज्जीवनचतुर्भागा वृत्तिर्दत्ता। अद्य स एव विश्वाप्यायिकरोऽपि राजशशीवैद्यासाध्येन यक्ष्मणा गृहीतः। मन्त्राश्च औषधानि च क्रमेणावसन्नानि। एकस्तु भिषजां मन्त्रवादिनां प्रतिज्ञातवान् राज्ञःसकाशे यदि कश्चित् तादृशो वीरो मे सहायो भवेत् तदा वेतालसाधनेन इमामस्यराज्ञःरुजां ध्रुवं निहन्याम्। ततश्चाहतेष्वपि पटहेषु यदा तादृशो न लब्धः, तदा राजा सचिवानिदमादिशत् मयाकितवानां कृते योऽयं महामठः स्थापितः, अत्र यदिकोऽपि आगन्तुको वीरो आयाति स भवद्भिरन्वेष्टव्यः।कितवा हि दारबन्धुननत्यक्त्वानिरपेक्षाःनिर्भया योगिन

इव वृक्षमूलादिशायिन इति। तथा दिष्टाश्च ते सचिवास्तन्मग्नधियः तथोक्तं वीरमागन्तुकं विचिन्वन्ति। तत् त्वं श्रीदर्शन! यदि कितवः, कर्मणि च तस्मिन् क्षमः, तदाहमेव त्वां तं मठमधुनैव नयामि, एवं कृते त्वं राजतो मत्तश्च सत्कारं प्राप्स्यसि, मम प्राणान्तकृतो दुःखस्य शान्तिश्च भविता। इति वादिनीं तां वृद्धां श्रीदर्शनोऽब्रवीत्वाढ़ंशक्तोऽहं तत् कर्म कर्त्तुं नय मां तं मठम्। एतदाकर्ण्यसा वृद्धापद्मिष्ठया मुखरकेण च समन्वितं तं मठंनीत्वातदधिकृतानभ्यधात् ब्राह्मणोऽयं द्यूतकरः राजार्थं मन्त्रवादिनस्तस्य साहायके शक्तः देशान्तरागत इति।तदाकर्ण्य स मठाधिपः पृष्ट्वा तं तथेति वादिनं श्रीदर्शनंसत्कृत्य सपदि नृपान्तिकमनयत्। तत्र चागत्य तेनावेदिते स श्रीदर्शनः पाण्डुकृशं पार्वणं शशाङ्कमिव तं राजानमद्राक्षीत्। राजापि प्रणतम् उपविष्टं तं भव्याकृतिं दृष्ट्वा आकारतुष्टः जाताश्वासः समभ्यधात् भद्र!त्वद्यत्नात् मे रोगःशीघ्रं निश्चितं शान्तिमेष्यति, तवदर्शनेनैव ध्वस्तपीड़ा मे तनुरेतत् वक्ति, तदत्र मे साहाय्यं कुरुष्व इति श्रीसेनेनोक्तः स श्रीदर्शनः प्रत्यवादीत्, देव!लध्वीमात्रेयमिति।

अथ राजा तं मन्त्रवादिनमानाय्य अवादीत् अयंवीरस्ते सहायः, तदेतेन सहायेन तत् कार्य्यं कुरुष्व इति।तदाकर्ण्य स मन्त्रवादी तं श्रीदर्शनमभाषत, भद्र! यदिवेतालाह्वानसाहाय्ये समर्थोऽसि तत्त्वमस्यां कृष्णचतुर्दश्यां निशागमे अमुष्मिन् श्मशाने सिद्धये मदन्तिक-

मागच्छ। इत्युक्त्वा स तपस्वीमन्त्रसाधकः प्रययौ।श्रीदर्शनोऽपि तं भूपतिमामन्त्र्यतमेव मठमगात्। तत्रतया पद्मिष्ठयामुखरकेण च सह भुक्ता एकाकी कृपाणपाणिःनिशायां तत् श्मशानमयासीत्। अद्राक्षीच्च तत्र मध्यभागस्थितं प्रेतवस्त्रकृतोष्णीषं तं मन्त्रसाधकम्। श्रीदर्शनश्च तमुपेत्य आत्मानं निवेद्य च पप्रच्छ, साधक!ब्रूहि किन्ते साध्ययामि तान्त्रिकोऽब्रवीत् गच्छ इतः अर्द्धक्रोशमात्रे पथि पश्चिमायां दिशि चिताग्नितापनिर्दग्धपल्लवःकश्चिदस्ति शिंशपातरुः। तस्य मूले शवः स्थितः, तमक्षतमिहानय। ततस्तथेति प्रतिज्ञाय स श्रीदर्शनःद्रुतंतत्र गतः अन्येन केनापि नीयमानं तं शवं दृष्ट्वा धावित्वातस्य अमुञ्चतः स्कन्धात् चकर्ष। सोऽपि पुरुषः मुञ्च,दाह्यंमे मित्रं क्व नयसि इति ब्रुवन् तं श्रीदर्शनमवोचत् नाहमिदं मोक्ष्यामि मित्रं को भवान्? इत्येवमुभयोः स्कन्धतः कर्षतोः स शवः वेतालानुप्रविष्टः भैरवं रवममुञ्चत। तेन रवेण त्रस्तो द्वितीयः स पुरुषः सहसा स्फुटितहृदयो व्यपद्यत। श्रीदर्शनश्च तं शवं गृहीत्वा प्रस्थितः।तावच्च स द्वितीयो मृतोऽपि वेतालाधिष्ठितः सहसा समुत्थाय अवरुन्धन् तं श्रीदर्शनमवोचत् तिष्ठर, स्कन्धार्पितं मम मित्रं हृत्वा मत्सकाशात् क्व याहीति। ततः स श्रीदर्शनः तं भूताविष्टं मत्वा प्रत्यभाषत तव एतस्यमित्रत्वे किं प्रमाणं, एष मवैव मित्रम्। तदाकर्ण्य सोऽवादीत् अयमेव मे प्रमाणम्। श्रीदर्शनश्चावादीत् तर्हिअयमेव वदतु। ततः स्कन्धवर्ती स शवाधिष्ठितो वेतालः

समब्रवीत् अहमेवं ब्रुवे, यो मह्यमाहारं प्रयच्छति क्षुधिताय, स एव मे मित्रं स एव च मां यथेच्छं नयतु। तदाकर्ण्य स द्वितीयः शवारूढ़ो वेतालः प्राब्रवीत् मम आहारोनास्ति, अस्य चेदस्ति तदायमेव ते आहारं ददातु।तदाकर्ण्य अहं ते आहारं ददामि इति वदन् श्रीदर्शनः यावत् निजांशस्थवेतालाहारसिद्धये तमेव द्वितीयं शवं खड्गेन हन्ति, तावत् हन्यमानः स द्वितीयो वेतालः सशवोऽन्तर्दधे। अथ स वेतालः स्कन्धाधिरूढ़स्तं श्रीदर्शनमभ्यधात्, इदानीं त्वया मे भोजनं दीयतामिति। ततःश्रीदर्शनःयदान्यत् भोजनं न लेभे, तदासिना स्वगात्रमुत्कृत्य तस्मै ददौ। तेन च तुष्टः स वेतालस्तदावदत्प्रीतोऽस्मि तवानेन साहसेन, त्वमिदानीमक्षत एव मांनय, कार्य्यं ते सेत्स्यति, स तु साधकः स्वल्पसत्त्वो विनङ्क्ष्यति। इत्युक्तस्तेन भूतेन स श्रीदर्शनःस्वस्थशरीरस्तंशवं नीत्वा तस्मै साधकाय समर्पयत्। स च साधकस्तं श्रीदर्शनमभिनन्द्यरक्तमाल्यानुलेपनैः नरास्थिचूर्णलिखितेकोणन्यस्तास्रकुम्भके महातैलज्वलद्दोपे प्रशस्त मण्डलेत वेतालं सज्जितं निधाय तद्वक्षसि उपविष्टः तस्य मुखकुहरे नरास्थिभिः स्रुक्स्रुवौ निधाय होमं कर्त्तुं प्रचक्रमे।क्षणेन च तस्य वेतालस्य मुखात् तथा ज्वाला उदभूत्,यथा स साधकः सहसा ततः उत्थाय अपासरत्। स च वेतालः सत्त्वच्युतं स्रस्तस्रुवं तं परिधाव्य व्याप्तवदनःसाङ्गोपाङ्गं निगीर्णवान्। तदवलोक्य खड्गमाकृष्य श्रीदर्शनःयावत् तमभिधावति तावत् वेतालस्तमभाषत श्रीद-

र्सन! ते अनेन धैर्य्येण सन्तुष्टोऽस्मि तदिमान् मन्मुखसम्भवान् सर्षपान् गृहाण, एभिः शिरोनिवद्धैःपाणिस्थैश्च एष भूपतिः सद्य एव निवृत्तयक्ष्मरोगः शान्तिमेष्यति,त्वञ्चाचिरेण सर्वस्याः पृथिव्या अधिपतिर्भविष्यसीतितद्वचनं श्रुत्वा स श्रीदर्शनस्तमवोचत् देवयोने। साधकेन एतेन विना कथमहं यामि, अनेन स्वार्थलोभात् स निहतइति अवश्यमेव राजा वक्ष्यतीति। तथाभिहितः श्रीदर्शनेन स वेतालस्तमब्रवीत् वदामि ते प्रत्ययं येन तव शुद्धिर्भविता, अस्यैव शवस्य मदधिष्ठितस्य अभ्यन्तरं पाटयित्वा अमुं निगीर्णमन्तस्थं दर्शयिष्यसि इत्युक्त्वा सर्षपान्अर्पयित्वा स वेतालः स्वस्थानमगात्। स च शवस्तदैव भुवि अपतत्। सोऽपि श्रीदर्शनस्तान् गृहीत्वापद्मिष्ठयामुखरकेण च सह तां निशामनयत्।

अथ प्रातः राजान्तिकं गत्वा रात्रिवृत्तान्तं निवेद्यतन्मन्त्रिभ्यः नीत्वा शवोदरे तं साधकं निगीर्णं दर्शयित्वापुनरेत्य च तस्य राज्ञः पाणौ शिरसि च तान् सर्षपान्वबन्ध। स च राजा सद्य एव निःशेषव्याधिस्भवत्। अथ तुष्टः स राजा श्रीसेनः निरपत्यः प्राणदायिनं तंश्रीदर्शनं पुत्रत्वेन पर्य्यग्रहीत्। प्रभ्यषिञ्चच्च तदैव तं वीरंयौवराज्ये। उप्तं हि सुकतबीजं सुक्षेत्रेषु महाफलंजनयति। ततः श्रीदर्शन स्तां पद्मिष्ठां लक्ष्मीमिव सेवार्थंपूर्वमागतां विधिवदुपयेमे। पालयामास च लक्ष्मीं तया सह भोगान् भुञ्जानो मुखरकद्वितीयः।

एकदा उपेन्द्रशक्तिर्नाम महावणिक् जलधेस्तीरा-

दागत्य रत्नविनायकमानीय तस्मै युवराजाय ददौ।स च युवराजस्तमनर्घ्यमालोक्य तत्र नगर्य्यांप्रतिष्ठाम्यनित्यशस्तत् सेवार्थं ग्रामसहस्रं न्यवस्थापितवान्।

अथ सेवया नितरां परितुष्टो गणेश्वरः स्वगणानेवमादिशत् अयं तावत् श्रीदर्शनः पृथिव्याः सम्राट्भविष्यति मत्प्रसादात्, तदपराम्भोधौ हंसद्वीपमितिश्रुतं द्वीपं यदस्ति, तत्रानङ्गोदयो नाम राजा प्रतिवसति,तस्यात्मजा अनङ्गमञ्जरी नाम मद्भक्ता, सा कन्या मामर्च्चयित्वा सदा याचते भगवन्! सर्वपृथ्वीश्वरं पतिं मे ददातु,तस्मात् श्रीदर्शनेन पत्या तां संयोजयामि, तथा सतिउभयोरेवानयोर्भक्तिफलं दत्तं भवेत्। तस्मात् श्रीदर्शनं सत्र नीत्वा युस्माभिरचिरात् मन्नियोगः साध्यतांतदेव हि भवितव्यम्। किञ्च वणिजोऽस्य मत्प्रतिमाप्रापकस्य उपेन्द्रशक्तेःक्वापि उपक्रिया विधातव्या इतिएवं गणेशेनादिष्टा गणास्तदैव सुप्तं श्रीदर्शनं स्वसिद्धिबलेन हंसद्वीपमनयन् संन्यवेशयश्चतत्र वासके सुप्ताया अनङ्गमञ्जर्य्याःशयने।प्रबुद्धश्चसहसा श्रीदर्शनः तत्रदुग्धफेननिभायां शय्यायां शयानां शशभृतो मूर्त्तिमिवाभिरामामनङ्गमञ्जरीमद्राक्षीत्। सापि तस्य करस्पर्शात्इन्दोरिव कुमुदिनी व्यालोलनेत्रभ्रमरा तत्क्षणात् प्रबोधमवाप। दृष्ट्वा च क्षणं दध्यौकोऽयं दिव्यपुरुषः दुष्प्रवेशेऽत्रमदावासे प्रविष्टः? नूनमसौ कोऽपि देवो भवेत् इति।ततश्चोत्थाय सम्भ्रमाकुला पप्रच्छ कस्त्वं? कस्मात् कथं वा इहप्रविष्टोऽसि उच्यतामिति ततः श्रीदर्शनेन स्व-

वृत्तान्ते अभिहिते सावोचत् अहमनङ्गमञ्जरी नामअनङ्गोदयस्य हंसद्वीपपतेः कन्येति। ततस्तौ अन्योऽन्यदर्शनेन समुत्सुकौ भूषणविनिमयं कृत्वा यदा गान्धर्वविवाहार्थमुद्यतौ,तदा ते गणास्तौमोहयित्वा निद्रावशं निन्युः। ततश्चजातनिद्रंतं श्रीदर्शनं स्वंगृहं प्रापयामासुः। तत्रासौ सहसा प्रबुद्धः निजे गृहे स्थितमात्मानंदृष्ट्वा विस्मितो व्यचिन्तयत् अहो किमेतत् क्वाहं क्व नु साद्वीपेश्वरसुता, क्ववा तद्वातगृहं दिव्यं, नचायं स्वप्नः,तदीयानि आभरणानि तया स्वयं परिधापितानि मेअङ्गेषु एतानि तिष्ठन्ति तदेषः नूनं कोऽपि विधेर्विलासः।इत्येवं चिन्तयन् स सुप्तप्रबुद्धया पद्मिष्ठ्याधैर्य्यमापादितःकथञ्चित्तस्थौ।

अथ प्रातस्तंवृत्तान्तंविदित्वा राजा श्रीसेनः पुत्रार्थम् अनङ्गमञ्जरीकन्या कस्य द्वीपपतेरस्तीति पटहैर्घोषयन्समन्तात् किङ्करानचोदयत्। श्रीदर्शनस्तु तामनङ्गमञ्जरीं विना नितरां स्मरज्वराक्रान्तः सर्वभोगनिरुत्सुक एवासीत्। तदलङ्कृतीःपश्यन् न आहारेषु तन्मुखपङ्कजंस्मृत्वा शयने अन्यस्मिंश्चकुत्रापि रतिं नालभत।

अत्रान्तरे सा हंसद्वीपपतेः कन्या अनङ्गमञ्जरी प्रातः सूर्य्यशब्देन बुबुधे। उत्थाय च सा तं रात्रिवृत्तान्तं स्मृत्वादृष्ट्वा चात्मानम् अलङ्कृतं, श्रीदर्शनालङ्कारैः समुत्सुकाचिन्तामापेदे, अहो स्वप्नभ्रान्तिहराणि एतानि अलङ्करणानि, किमेतत् कथं जीवामि इत्यादि चिन्तयन्तींपुरुषाभरणेर्युतां तां पिता अनङ्गोदयः सहसा गृहं प्रविश्य

वाससा आच्छादिताङ्गींलज्जावनतवदनां व्यलोकयत् अपृच्छच्च उत्सङ्गमानीयातिवत्सलः। पुत्रि! कथमयं पुंवेशः,किञ्च ते तृषाईदृशी, वद, मयि अविश्वासं मा कथाः,त्वयि प्राणा बद्धाः, इत्यादिभिर्वचनैः सा मन्दीकृतत्रपा पितरं सर्वं त वृत्तान्तं शशंस। ततः स राजा तदमानुषगोचरमिन्द्रजालमिव विदित्वा कर्त्तव्यसंशयमगमत्। गत्वा च तत् सर्वं कमपि महाव्रतधरं सिद्धयोगिनं ब्रह्मसोमंनाम तपस्विनं पप्रच्छ। स तापसः प्रणिधानेन सर्वंविदिला तं नृपमभ्यधात् राजन्। मालवात् गणैः श्रीदर्शनो नाम राजसुतस्त्वत्कन्यागारमानीतः गणपतिस्त्वत्पुत्र्यास्तस्य च उभयोः प्रीतः। तस्य च टेवस्य प्रसादात् स श्रीदर्शनः सार्वभौमत्वमाप्स्यति।तस्मात् तवदुहितुः स वाञ्छनीयो भर्त्ता इत्युक्तो ज्ञानिनातेन स राजा सविजयमवादीत् भगवन्। क्व मालत्रः, क्वच हंसद्वीपं महांश्च दुर्गमः पन्था, कालान्तराक्षममिदंयथा शीघ्रंसेत्स्यति तथा भगवता प्रसादःकार्य्यः, त्वमेव मे गतिर्नान्योऽस्ति कश्चिदुपाय इति राज्ञा विज्ञप्तः सतापसो भक्तवत्सलस्तयेति प्रतिज्ञाय कार्य्यसिद्धये सद्यएवान्तर्दधे। क्षणेन च मालवं प्राप्य प्रविश्य च श्रीदर्शनविनिर्मितेगणेशमन्दिरे गणेश्वरमभिवन्द्य उपविवेश।ततश्च स भगवन्। नक्षत्रमालामण्डितमूर्द्ध्ने सुमेरुशिखराभाय कल्याणमयमूर्त्तये तुभ्यम् नमः इत्यादिभिर्यावत् गणेशं स्तौति स्म तावत् तत्प्रतिमानेतुर्वणिक्पते रुपेन्द्रशक्तेः पुत्रो महेन्द्रशक्तिर्नाम उद्यामोन्मादविह्वलः भ्राम्यन्

दैवात् तत्र प्राविशत्। अभ्यधावच्चतमेव तापसं ग्रहीतुम्।स च तापसः न्यस्तमन्त्रेण पाणिना तं तत्राताड़यत्।तेन च ताड़ित एव स वणिक्सुतः शान्तोन्मादस्तदैवस्वच्छन्दशरीरः समभवत्। ततश्च जातलज्जोऽसौ तत्क्षणात्ततो निर्गत्य दिगम्बरो हस्ताच्छादितकौपीनः स्वगृहं ययौ। तञ्च वृत्तान्तं लोकमुखात् श्रुत्वा स उपेन्द्रशक्तिरानन्दनिर्भरःसमुपेत्य तं पुत्रं निज गृहमनयत्। आनीयच स्नापयित्वा वस्त्राद्यलङ्कृतं कृत्वा तेन सह तं तापसंब्रह्मसोममुपाययौ। उपनिनाय च तस्मै पुत्रारोग्यविधायिने बहूनि धनानि स तु तापसस्तानि सर्वाणिप्रत्यग्रहीत्।

अत्रान्तरे श्रीसेननृपति तं वृत्तान्तं श्रुत्वा पुत्रेणश्रीदर्शनेन समन्वितः त तपस्विनमुपागात्। उपगम्य चभक्त्या स्वयं प्रणिपत्य स्तुत्वा च व्यजिज्ञपत् सम्पन्ना तावदस्य वणिजः पुत्रस्वास्थ्यविधानेन महतोउपक्रिया,युष्मदागमनात् तन्ममापि कस्मिंश्चित् कार्य्येकामपि उपकृतिं कर्तुमर्हति भगवान् यथास्य मत्पुत्रस्य श्रीदर्शनस्य कुशलं भवेदिति। इति संप्रार्थितोऽसौ राज्ञा तपखी हसन् प्राब्रवीत्, राजन्। किमस्य चौरस्य ग्रहमुपकृतिं करोमि,योऽयं राजपुत्र्याअनङ्गमञ्जर्य्या हृदयं आभरणानि च मुषित्वा रात्रौहंसद्वीपादिहागतः।हंसद्वीपादिहागतः। तथापि मया त्वद्वचःकार्य्यमित्यभिधाय प्रकोष्ठतः श्रीदर्शनं तमादायस तापसोऽन्तर्दधे। प्रापय्य च हंसद्वीपं राज्ञः अनङ्गोदयस्य राजधानीं तत्सुताभरणान्वितं तं प्रावेशयत्।

सोऽपि राजा तत्प्रसादात् प्राप्तं श्रीदर्शनं दृष्ट्वा हृष्टः तंतापसमभ्यर्च्यपादनम्रः तां सुतां पुण्याहे तस्मै श्रीदर्शनाय रत्नौघमालिनीं वसुधामिव प्रादात्। प्रापयच्चतस्य तपस्विनः प्रभावात् तथा कन्यया समेतं तं जामातरं पुनर्मालवम्। तत्रागत्य च श्रीदर्शनः पित्राभिनन्दितःकान्ताभ्यां द्वाभ्यां सेव्यमानः सम्प्रहृष्टः सुखमध्युवास।

कालेन तस्मिन् राज्ञि श्रीसेने लोकान्तरं गते श्रीदर्शनस्तदाज्यं प्राप्य समग्रां पृथिवीं जित्वा समासादितसाम्राज्यःद्वयोरेव तयोर्भार्य्ययोर्द्वौसुतावजीजनत्।गच्छति च काले राजा श्रीदर्शनः पत्नीभ्यां सहितोऽभ्यन्तरे तिष्ठन् वहिः कस्यचिद् विप्रस्य क्रन्दित शुश्राव।प्रविश्य च तं क्रन्दनकारणं पप्रच्छ। ततः स विप्रः दर्शितोद्वेगस्तं नृपमवादीत्, राजन् ! यो मे दीप्तशिखोऽग्निःस ज्योतिर्धूमलेखः स्थितः स सहसा कालमेघेन समुत्थितेनाद्य बिध्वसित इत्युक्त्वानष्टसंज्ञः स ब्राह्मणः भूमौपपात। किमेतदिति विस्मितो राजा यावत् पृच्छति स्म तावत् अनाशङ्कितं रुदत्यौ राजमहिष्यौ तस्य सहसा पतितौ पञ्चत्वमापतुः। तदशनिपातोपमं दृष्ट्वा स महीपतिःसहसा हा हा किमिदमुपनतमिति विलपन्नार्त्ता भुवि अपतत्। पतितञ्च तमादाय पार्श्वचरा अन्यतः निन्युः।मुखरकश्च देव्यौ नीत्वा अग्निसंस्कारमकरोत्। अथ राजा लब्धसंज्ञः ते भार्य्येसुचिरं शोचन् स्नेहात् तयोःयथाविधिं और्द्धदेहिकं निरवर्त्तयत्। ततो वाष्पदुर्दिनान्धकारं वत्सरं कथञ्चित् नीत्वा द्वाभ्यां पुत्राभ्यां राज्यं द्विधा विभव्य

ददौ। ततो नगरात् निर्गत्य अनुगामिनीः प्रकृतीःनिवर्त्त्यजातवैराग्यः तपसे वनमाश्रित्य फलमूलाशनस्तत्र तस्थौ।

कदाचित् भ्रमन्तं तं न्यग्रोधतरोरधः प्राप्तं दिव्यरूपेफलमूलकरेद्वेस्त्रियौ ऊचतुः राजन्! आगच्छ गृहाण एतानि फलमूलानीति। तदाकर्ण्य सोऽब्रवीत् भद्रे!के युवामिति ततस्ते दिव्यनार्य्यौ तमूचतुः एहि तावदस्मद्गृहं प्रविशात्र ततो यथायथमावां वक्ष्याव इति तन्निशम्यस श्रीदर्शनस्ताभ्यां नारीभ्यां सह प्रविश्य दिव्यं हेममयंपुरं विश्रान्तश्चतत्र दिव्यानि फलानि बुभुजे। ततस्ताभ्यांस जगदे, राजन्! शृणु आवयोर्वचनम्।

आसीत् पुरा प्रतिष्ठाने कमलगर्भो नाम द्विजः। तस्य द्वेभार्य्येएका पथ्यानाम, अपरा बला नाम। कालेनतेसर्वे भार्य्यातयः जराक्रान्ताः परस्परानुरागिणःकालमनयन्। तस्मिंश्च काले तैः भार्य्यापतित्वमस्माकं जन्मनि जन्मनि भूयादिति वरःअनलादयाच्चत। ततः स कमलगर्भः यक्षयोनौ प्रदीप्ताक्षस्य यक्षस्य पुत्रःदीप्तशिखो नाम अजायत। तस्य ज्येष्ठो भ्राता अट्टहासः। तस्य कमलगर्भस्य द्वे अपि भार्य्येपथ्याबले यक्षपतेर्धूमकेतुनाम्नः सुतेज्योतिर्लेखाधूमलेखाख्ये अजायेताम्। ततः कालेन यौवनं प्राप्तेते भगिन्यौ तपसे अरण्यं गत्वाहरमतोषयताम्। स च देवः सन्तुष्टः प्रत्यक्षीभूय ते समादिशत् भद्रे !युवाभ्यां पूर्वजन्मनि सममेव अग्निं प्रविश्य येन सह भार्य्या पतित्व जन्मनि जन्मनि वृत्तंसयक्षः अट्टहासस्य भ्राता दीपशिखः स्वाभिशापेन पुन-

र्मर्त्त्यत्वमागतः श्रीदर्शनो नाम द्विजकुले समुत्पन्नः, तद्युवामपि गच्छतं मर्त्त्यलोकं, ततश्च शापनिवृत्तौ यूयं पुनर्यक्षपदवीमाप्स्यथ इति गौरीपतेरादेशात् उभे ते यक्षकन्यके पद्मिष्ठानङ्गमञ्जर्व्यौश्रीदर्शनं पतिमलभेताम् कालेन ते राजमहिष्यौ अट्टहासेन एत्य युक्त्वा ब्राह्मणरूपिणाश्लिष्टवाक्यैः जातिनामानि उदीर्य्य स्मारिते एव तां तांतनुं त्यक्त्वायक्षिणीत्वमुपागते। ते चावां त्वं विद्धि,भवांश्च स दीप्तशिखः। इति ताभ्या मुक्त एव स श्रीदर्शनः सपदि जातिं स्मृत्वा दीप्तशिखो नाम यक्षःसमभूत्। प्रापच्चताभ्यां भार्य्याभ्यां यथाविधि संयोगम्। हे विचित्रकथ!तदिमं मां यक्षंते च उभे ज्योतिर्लेखाधूमलेखे ममभार्य्येविद्धि। तदित्थंमादृशमपि देववंशभवानां ईदृशं सुखं दुःखञ्च जायते का कथा मनुष्याणाम्। वत्स! युष्माकमचिरात् समागमो भविष्यति भर्त्ता मृगाङ्कदत्तेन,मा अत्रविषादं कृथाः। अहञ्च इह तवातिथ्यहेतोस्तिष्ठामि अधुनाहं स्वं धाम कैलासं यास्यामि इत्युक्त्वास यक्षः तत्क्षणात् गगनमुदपतत्। मयापि भ्रमता अद्य भवत् पादमूलमासादितं इत्येष मे युष्मद्विश्लेषवृत्तान्तो, देव! इत्येवंनिजसचिवात् विचित्रकथाद्यथार्थनाम्नःसकाशात्विचित्रां कथां निशम्य मृगाङ्कदत्तः अपरैः सचिवैः सहपरां मुदमभजत। अत्र चाटव्यां निशां नीत्वा नागशापविश्लेषितान् मिलितशेषान् सखीन् विचिन्वन् शशाङ्कवतीसमुत्सुकः सह वयस्यैः उज्जयिनीमभिप्रतस्थे।

________

अथ चतुःसप्ततितमस्तारङ्ग।

<MISSING_FIG href="../books_images/U-IMG-172221850437.jpg"/>

ततः स मृगाङ्कदत्तः तैः सचिवैः शतधिया च सह तस्यांबिन्ध्याटव्यां विचरन् सफलस्निग्धच्छायतरुमनोहरम् अच्छाच्छस्वादुशीतलजल काननं प्राप्य कृतस्नानःभुक्त्वाचविविधानि फलानि तदेकदेशे लताच्छन्नेसंलापमिवाशृणोत्। ततश्चकिञ्चिदुपगम्य यावत् तस्मिन् लतान्तरेदृष्टिं ददाति तावत् महान्तमेकं वारणेन्द्रं पथिवान्तमचक्षुष पुरुषं कराहृतैस्तोयैः फलेः कर्णानिलैश्च ममाश्वासयन्तं कच्चित् किञ्चित् समाश्वस्ता भवानिति साधुमानुषवत् प्रीत्या व्यक्तया गिरा वदन्तं ददर्श। तं तथाविधिं दृष्ट्वासौ राजपुत्रः सविस्मयः सखीन् प्राह स्म पश्यत, क्व अयं वन्द्योगजः, क्व वा मानुषोचिताचारः, अवश्यं कोऽपि अयं कुतोऽपि हेतोरिह एवमवस्थितः, अयञ्चपुमान् प्रचण्डशक्तेर्मम सचिवस्य सुसदृशः, किन्तु अन्ध एषः,तत् क्षिप्रं पश्याम इति उक्त्वाअलक्षितः शृण्वन् तयोरालापं तस्थौ। तावच्च स द्विपेन्द्रस्तमन्धं समाश्वास्य पप्रच्छ, भद्र! कस्त्वम्? कुत आयातः? कथं वा अन्वत्वं ते?कथ्यतामिति। सोऽपि अन्धो गजराज तं प्रत्यवादीत्।

अस्ति अयोध्यायाम् अमरदन्तो नाम पृथ्वीपतिः। तस्यमृगाङ्कदत्तो नाम गुणाकरस्तनयः। तस्याहं प्रचण्डशक्ति-

र्नामभृत्यः। स राजपुत्रः केनापि कारणेन अस्माभिःदशभिः सचिवैः पित्रा नृपतिना नगरात् निर्वासितः,वयञ्च सर्वे शशाङ्कबतीलाभार्थम् उज्जयिनीं प्रस्थिताः पथिनागशापेन परस्परं विश्लेषिताः।अहन्तु तेन शापेनपरिभ्रमन् यथालब्धफलपर्णादिभोजितया अन्धत्वमापन्नः।ततश्च श्वभ्रादिपतनैरनशनैश्चक्लेशितस्य मम मृत्युरिष्टतमोऽपि समधिकं क्लेशं प्रापयिष्यता विधिना न दत्तः। अद्य तु दैवात् त्वत्प्रसादात्मे क्षुद्व्याधिरपगतः,तन्मन्ये त्वं कोऽपि देवांश इति तेनोक्त जातनिश्चयः तत्क्षणात्मृगाङ्कदत्तः समं हर्षशोकावनुभवन् तान् सखीनभाषत, सुहृदः! प्रचण्डशक्तिरेवायं परमस्मान् दृष्ट्वाअसौ वारणःनश्येत् तदसौ विशेषेण द्रष्टव्य इति समालोच्य सानुगः स राजसुतः तयोरालापं शृण्वन् अलक्षितएव तत्रैवातिष्ठत्। ततश्च प्रचण्डशक्तिस्तं वारणेन्द्रमब्रवीत्, महात्मन्! स्वं वृत्तान्तमाख्याय मामाप्यायस्व, को भवान्? कथं वा ते गजता? क्वच ते समदस्यापि निर्मदत्त्वम्? तदाकये स गजपतिः निश्वस्य तमभाषत,साधो! शृणु मे वृत्तान्तमामूलात् कथयामि।

आसीत् पुरा एकलव्यायां नगर्य्यांश्रुतधरो नाम नृपतिः।तस्य द्वयोर्भार्य्ययोर्द्वौसुतावभूताम्। तयोर्ज्येष्ठः शीलधरोनाम कनीयान् सत्यधरः। अथ पितरि दिवं गते स कनीयान् ज्येष्ठं शीलधरं राज्यात् निरवासयत्। ततश्चस शीलवरः वनं गत्वा तेनामर्षेण शङ्करं तपसाराध्य तस्मात्तुष्टात् वरं ययाचे, देव! अहं गन्धर्वो भूयास येन खचरो

भवत्तमन्यधरम् अवहेलया निहन्याम्। तदाकर्ण्यभगवान् हरः समादिशत्, वत्स! एतत्ते भावि, किन्तुअद्य स ते शत्रुः स्वय मृतः पुनश्चासौ राढ़ायां पुर्य्याम् उग्रभटाख्यस्य नृपतेः पुत्रः समरभटी नाम जनिष्यते। त्वञ्चभीमभटो नाम तस्य द्वैमातुरोऽग्रजः भ्राता जनिष्यसे,ततस्त्वं तं हत्वा राज्यं करिष्यमि यतस्त्वया सामर्षेणतपस्तप्तं ततो मुनिशापात् ततः पदाद् भ्रष्टः अरण्यहस्तीभविष्यसि, जातिस्मरश्च व्यक्तया वाचा यमाश्वासयिष्यसि तस्यापि अतिथेस्तदा महानुपकारो भवितेति आदिश्यतस्मिन् तिरोभूते स शीलधरो भ्रमन् गङ्गायां तनुमत्यजत्।

अत्रान्तरे तस्य राढ़ायां नगर्य्यांसहश्या मनोरमाख्यया देव्या समं सुखं निवसतः उग्रभटस्य नृपतेः पार्श्वं देशान्तरात् लासको नाम नर्त्तकः समागात्। स च रात्रेतस्मै राज्ञे नाट्यप्रयोग यत्र हरिणा स्त्रीरूपिणा दैत्येभ्योऽमृतं हृतं तददर्शयत्। तत्र स राजा अमृतिकाभूमौ नृत्यन्तीं नर्त्तकस्य तनयां लास्यवतीं नाम ददर्श। ययौ च तस्यां विक्षोभितदानवं रूपं दृष्ट्वा कामवशम्। ततश्च नृत्यान्ते तत्पित्रे बहूनि धनानि दत्त्वा च तां कन्यामन्तःपुरं प्रावेशयत्। ततस्तया नर्त्तक्या विहितोद्वाहया लास्यवत्या सह निरन्तरमन्तःपुर एवं तन्मुखासक्तलोचन एवातिष्ठत् एकदा स यजुः स्वामिनामनं पुरोहितमब्रवीत् ब्रह्मन्! पुत्रो मे नास्ति, तत्त्वं पुत्रार्थं मेपुत्रेष्टिं कुरु। ततस्तथेति प्रतिपद्य स पुरोहितः बहुभिः

सदस्यैः सह तस्य भूपतेर्विधिवत् पुत्रेष्टिं व्यदधात्। प्राशयश्च मन्त्रपूतं चरुंमनोरमां देवीम्। ततश्च राजा शेषं चरोरंशं तस्यै लास्यवत्यै प्रादात्। ततस्तयोरुभयोरुदरयोः तौ शौलधरसत्यधरौ पूर्वोक्तौ तनयौबभूवतुः।

अथ प्राप्ते प्रसूतिकाले देवी मनोरमा कल्याण लक्षणं पुत्रमेकं भौमभयं नाम प्रासीष्ट। यस्मिंश्च जातमाने एव ख्यातयथा नृपो भवितेति अन्तरीक्षात् वागुदचरत्। ततोऽन्येद्युः सा लास्यवती सुतमेकं प्रसुसुवे। पिता तं समरभटं नामाकरोत्। ततस्तौ कृतसंस्कारौ शिशू यथाक्रमंदिने दिने अवर्द्धेताम्। ज्येष्ठस्तु भीममटस्तं कनिष्ठंगुणेरजयत्। तत् सङ्घर्षेण च तयोः क्रमेण वैरमवर्द्धत।

एकदासौ समरभटःबाहुयुद्धकेलौ समत्सरः पाणिना कण्ठे भीमभटं भृशमताडयत्। ततो भीमभटः क्रोधात् भुजाभ्यां तं परिवेष्ट्य समरभटं उत्क्षिप्य भूमौ न्यपातयत्। स तु गाढ़मभिहतः सर्वद्वारैरसृक् वमन् समुत्थाप्य स्वसेवकैः मातुरन्तिकं नीतोऽभूत्। सा च माता लास्यवती तं तथाविधं दृष्ट्वा बुद्ध्वाच वृत्तान्तं स्नेहकातरा तस्य मूर्द्धनि मूर्द्धानमासज्य यावत् भृशं प्रारोदीत् तावत् राज्ञा प्रविष्टेनकिमेतदिति आकुलचेतसा पृष्टा सा तमब्रवीत्, नाथ!इयं भीमभटेनास्य मे सुतस्य अवस्था कृता सदा चैनमभिभवति, न चाहं तत् तव वच्मि, देव! न जाने इदंदृष्ट्वा तवैव कथं शिवं स्यात्? तत् तादृशपुत्र इदानीं भवान् यथोचितं विचारयतु। इत्थं तथा प्रिययाभिहितः स नृपः क्रुद्धः भीमभटंस् स्वसन्निकर्षात् हृतवृत्तिं कृत्वा

निरवासयत् राजपुत्रशतंसपरिच्छदञ्च समरभटस्य रक्षायैनियुज्य तस्य भाण्डागारं सर्वं स्वाधीनमकरोच्च। ततो मनोरमा तं भीमभटमाहूय प्राह स्म, वत्स! नर्त्तकीरागिणा तव पित्रा त्वं निराकृतः, तत्त्वंपाटलिपुत्रकेमातामहावासं गच्छ। स व मातामहः निरपत्यः स्वं राज्यंते दास्यति। इह स्थितञ्च त्वां अयं समरभटो रिपुर्बलवान् हन्यादेव। इति मातृवचः श्रुत्वा भीमभटोऽब्रवीत्, मातः। चत्रियः सन् स्वं देशं क्लीव इव न त्यक्ष्यामि,त्वं धीरा भव, कः शक्तो वीरो मां प्रबाधितुम्? इत्युक्तवन्तंतं माताब्रवीत्, वत्स! तर्हि भूयसः सहायान् रक्षार्थंमदीयैर्धनैः संगृहाण। ततो भीमभटोऽवादीत् मातः!एतन्न शोभते, एवं कृते सत्यमेव तातस्य वैरसाधनं कृतंस्यात् तस्मात् त्वदाशिषैव मे कल्याणं भविता, त्वमिदानींनिर्वृता भव। इति तां मातरमाश्वास्य स भीमभटःतन्मान्नगरात् निरगात्। तावच्च तत् पौरास्तद्विदित्वाअचिन्तयन् राज्ञाभीमभटस्य अनौचित्यं कृतंनैवैषसमरभटःराज्यं कर्त्तुं प्रगल्भते, तटेष नः भीमभटस्यपूर्वसेवायाः अवसरः इति निश्चित्य ते पौराः सुगुप्त धनैस्तथा अपूरयन् यथा स भृत्यैः समं तैर्धनैः सुखमध्युवास। सतु कनिष्ठस्तस्य भीमभटस्य बधमेव निरूपयन् पितुःपरिष्दकृतं कमपि सेवकं यावदाश्रयत् तावत् शङ्खदत्तो नाम कश्चित् शूरो युवा धनी द्वयोरेव भ्रात्रोर्वयस्योविप्रस्तंसमरभटंसमेत्य प्राब्रवीत् राजपुत्र। भ्रात्रा तेवैरं न युक्तम् एषः न धर्मः, न च त्वया स ज्यायान् व्यथितुं

शक्यः स्यात् केवलं ते अकीर्त्तिरेव भवेत् इति ब्रुवन्स तेन समरभटेन अधिक्षिप्य निरभर्त्स्यत। मुर्खस्य हितोपदेशः केवलं कोपाय, न शान्तये। ततस्तत् कोपात्वीरः स शङ्खदत्तः जिगीषया भीमभटेन केवलं सख्यं व्यधात्।

अत्रान्तरे देशान्तरागतः कोऽपि मणिदत्ती नाम वणिक् एकमुत्तममश्वमानीतवान्। शङ्खदत्तेन च तं सुलक्षणं अश्वंदृष्ट्वा भीमभटं तत्क्रयाय अनुरुरोध।सोऽपि भीमभटस्तत्क्षणात् तस्माद् वणिग्वरात् तं बहुभिर्धनैरकोणात्। तद्विदित्वा समरभटो द्विगुणेन मूल्येन तं वणिजं अश्वंमार्गति स्म। परं यदासौ वणिक् भीमभटाय दातुं स्थिरीकृतं तं तस्मै समरभटाय न अददात्तदासौ समरभटः समत्सरः वलात् तं नेतुं प्रावर्त्तत।तेन च उभयोरेव तयोः राजपुत्रयोः समुपासिषु भृत्येषुप्रधावितेषु महांस्तत्रतुमुलः संप्रहारः प्रावर्त्तत। तत्रभीमभटेन प्रचण्डदोर्द्दण्डशालिना निहतानुगः स समरभटः भयात् बलं त्यक्त्वाअभज्यत। भज्यमानञ्च तं धावित्वाकेशेष्वाकृष्य यावत् शङ्खदत्तस्तं पृष्ठतस्ताड़यति तावत्, भीमभटःपश्चादुपेत्य तं न्यवारयत् अब्रवीच्च आस्तां तावदयं दुरात्मा अस्मिन् निहते तातस्य मे दुःखं भवेदिति।ततः शङ्खदत्तेन त्यक्तः ब्रणैः रक्तं त्यजन् त्रस्तःपलायमानःसमरभटः पितुरन्तिकमगात्। ततः स्वीकृताश्वंवीरंभीमभटंकश्चिद् ब्राह्मणः समुपेत्य विजनं नीत्वाब्रवीत्, वत्स! माता ते मनोरमा देवी, पुरोहितो यजुः स्वामी

पितृमन्त्री ते सुमतिश्च त्वामिदानीं ब्रुवते, वत्स! विदितस्त्वया राजा त्वयि यादृशः स्नेहवान् विशेषतश्चास्मिन् व्यतिकरे शंत्रुतामेव गतः। तत् यदि आत्मानं धर्मं यशश्चरक्षितुमिच्छसि यदि आयतिं जानासि, यदि चास्मान् हितान्मन्यसे, तदा यावदर्कोऽस्तंगतः तावदलक्षितः इत निर्गत्यसिद्ध्यै मातामहावासमाश्रय इति सन्दिश्य सद्रत्नकाञ्चनपूर्णं भाण्डमिदं मम हस्तेन प्रेषितं गृह्यतामिति।स च भीमभटस्तस्मात् द्विजादेतत् श्रुत्वा सुधीस्तं ब्राह्मणमभिनन्द्य अभ्यर्च्य च तत् भाण्डं प्रत्यग्रहीत् अथानुरूपं प्रतिसन्देशं दत्त्वा तं द्विजं विसृज्य च कृपाणपाणिस्तमुत्तमंतुरगमारुह्य गृहीतहेमरत्नभाण्डेन द्वितीयाखगामिनाशङ्खदत्तेन सुहृदा सहितः प्रतस्थे। कियन्तमध्वानमतीत्यनिशीथे स नृपात्मजः पथि महदेकमरण्यंप्रापत्। तत्रानवरतं गच्छतः तस्य सवयस्यस्य अश्वखुरशब्दैः बोधितंपोतकैः सह सिंहमिथुनम् उत्थाय उद्गर्ज्जत् नखैः तौ अश्वौउदरयोरपाटयत्। स च वीरो राजपुत्रः सवयस्यःतान् सिंहान् खड्गप्रहारविध्वस्ताङ्गान् झटिति गतजीवितानकार्षीत्। ततः समित्रस्तो तुरगौ यावत् आरोढुमीक्षते,तावत् तौ विस्रस्तांसौ सहसा भूमावपतताम् तद् दृष्ट्वाविषणंशङ्खदत्तं स राजपुत्रः प्रावोचत् सखे! विरुद्धात् स्वजनात् वयं यत्नेन पलायिताः, ब्रूहि, यत्नशतेनापि विधेः क्व पलायामहे येन इहापि नः वाहौनिहतौ यत्कृते च देशत्यागोऽपि स्वीकृतः सोऽपि अयं हयः मृतः, तदस्माभिः कथमस्यां निशिपद्भ्यांगन्तव्य-

मित्युक्तः स सुहृत्शङ्खदत्तस्तमब्रवीत् सखे! विधुरोविधिर्नैव तं जयति यस्यास्ति पौरुषं प्रत्युत स एव निसर्गतः तस्य पुरुषस्य धैर्य्येण जीयते, वायुरद्रेरिव वीरस्य अकम्पितस्य विधिः किं कुर्य्यात्, तदेहि आवां धैर्य्याश्वमारुह्य व्रजाव इति वादिना शङ्खदत्तेन सह स भीमभटस्तस्मात्, प्रायात्। इत्थं क्लान्तस्य शनकैः कान्तारेषुव्रजतः शरपाटितपादस्य ससुहृदस्तस्य सर्वरी व्ययासीत्।

अथोदिते भगवति जगदालोके तमोमुषि मानौ सरोजेषु मधुरकणितालिषु दिष्ट्यासिंहादिसंकीर्णेयमटवीतीर्णेति जल्पन् अन्योऽन्यमुखमवलोक्य क्रमेण गच्छन् तपस्विभिः समाकीर्णं जह्नुकन्याया पुलिनं प्राप। विशश्रामः च तत्र तज्जलं पीत्वा विगततृष्णः क्षणम्।विदधे च शङ्खदत्तोपनीतैः क्रीतैर्भृष्टैर्हरिणमांसैर्देहवृत्तिम्,ततस्तां जाह्नवीं पूर्णामुत्तरीतुमशक्यां उच्छ्रितैस्तरङ्गहस्तैरसकृत् वारयन्तीमिव दृष्ट्वा तस्याः कूलेन किञ्चिद् गत्वाकञ्चिद्ब्राह्मणपुत्रं उटजाङ्गने स्वाध्यायमभ्यस्यन्तमद्राक्षीत्। अप्राक्षीच्चतमुपेत्य कस्त्वं किमिह निर्जनेएकाकी करोषीति। सोऽब्रवीत् अहं वाराणसीवासिनःश्रीकण्ठाभिधस्य द्विजस्य पुत्रो नीलकण्ठो नाम सोऽहंपित्रा कृतसंस्कारपद्धतिःनिज एव गृहे कुलविद्यामधीयानो यावत् तिष्ठामि तावत् मे सर्व एव बान्धवाःविनष्टा, तेनानाथोऽर्थहीनश्च बालतया किमपि कर्त्तुमक्षमः निजेच्छाया अमिद्वेर्दुःखितः निर्विसश्च इहागत्य

तीव्रं तपः समाश्रयम्। ततः स्वप्ने गङ्गादेवी फलानिमे दत्त्वा समादिशत् वत्स। एतानि खादन् इह तिष्ठयावत् त्वं सिद्धिमाप्स्यसि, एतदाकर्ण्यप्रबुध्यैव निशाक्षये गत्वा स्नातः गङ्गायां स्रोतसागतानि फलानिप्रापम्। आनीय च तानि अमृतस्वादूनि उटजे भक्षितवानस्मि। इत्थमन्वहं प्राप्नोमि, भक्षयंश्चतानि इहनिर्वृतस्तिष्ठामि इति। एतदाकर्ण्य भीमभटः शङ्खदत्तमवादीत् सखे। अस्मै गार्हस्थपय्याप्तं द्विगुणं देहि। तदाकर्ण्य तेन श्रद्धितवचाः स राजसुतः मात्रा निस्सृष्टंतद् द्रव्यं तस्मै द्विजन्मने प्रादात्। आकर्णितां परस्यार्त्तिं ये तत्क्षणं न छिन्दन्ति तेषां सत्त्ववतां महत्वं किं? इत्थंत विप्रं कृतार्थीकृत्य ततो गत्वा यावत् स राजपुत्रःगङ्गाया उत्तरणोपाय नापश्यत् तदा मूर्ध्नि निवद्धासिविभूषणः शङ्खदत्तयुतो दार्भ्यां तरीतुमवातरत्। क्रमेणतरन् मध्यभागे वारिप्रवाहवेगेन दूरीकृतवयस्यःकथञ्चित्वीचिभिर्ह्रियमाणः पारमवाप। उत्तीर्णस्य तं मित्रमपश्यतः अनुतटमन्विष्यतश्च तस्य रविरस्तमगात्। ततोनिराशो हा मित्र इति दुःखेनाक्रन्दन् निशागमे गङ्गायामात्मानं क्षेप्तुमुद्यतोऽभूत्। जाह्नवि! जीवितं मे सखायंदेहि, त्वयैवासौ अपहृतः, नोचेत् तेन शून्यमिमं देहमपिमम अधुना त्वं गृहाण इत्युक्त्वायावत् अत्मानं क्षेप्तुमिच्छति तावत् तस्याम्बुनो मध्यात् साक्षात् गङ्गा आविरासीत् तुष्टा चाब्रवीत् पुत्र! मा साहसं कार्षीः, स ते सखा जीवन् स्थितः, अचिराच्च ते तेन समागमो भविता,

एताञ्च विद्यां परितुष्टारं तुभ्यं ददामि त्वं एतां प्रतिलोमानुलोमाभ्यां गृहाण, अनुलोमामिमां पठन् परस्यअदृष्टः स्यात् प्रतिलोमान्तु पठन् इष्टरूपप्रकाशनं कुर्य्यात्। वत्स! एतत् प्रभावा विद्येयम् इत्युक्त्वाविद्यां दत्त्वा साजाह्नवी तिरोऽभूत्। सोऽपि राजसुतः सुहृदो लाभं प्रतिजातास्थः मरणव्यवसायादुपारमत्। कथञ्चित् पद्म इवमित्रप्राप्त्युन्मुखोनिशां क्षपयित्वा प्रातः तं मित्रं चिन्वन् ततः प्रस्थितवान्। अथ क्रमेण शङ्खदत्तमन्विष्यन् परिभ्रमन् कदाचित् एकाकी लाटविषयाख्यंदेशं प्राप। यत्र असङ्कीर्णवर्णोऽपि चित्रम् उज्ज्वलस्थितिः, यश्च कलानांनिलयोऽपि नदोषाकरशब्दभाक्। तत्र प्रविशन् इतस्ततोभ्रान्त्वा द्युतकाराणामेकां शालामवाप। तत्र च प्रविश्यतान् कितवानक्षटेविनो दृष्ट्वा तैः साभरणोऽयमस्माकंभक्ष्य इति गृहीतबुद्धिभिः सह द्युतमारभत ततस्तेन अक्षैस्तषामन्यान् वञ्चयित्वा यद्वनमाहृतं तैः तत् सर्वंधनं जितम्। ततो हारितार्थान् स्वगृहं गन्तुमुद्यतान् द्वारार्पितभुजः स भीमभटो रुद्ध्वाब्रवीत् क्व गच्छथ रे,गृह्णीथधनं मे, भवद्भिः सदृशानि मित्राणि दृष्टानि कुतः प्राप्नोमि इति तस्मिन् वदति तेषु क्रिया अप्रतिभेषुअक्षक्षपणको नाम कश्चित् कितवोऽब्रवीत् सखे! एषातावत् द्यूतपरिभाषा, यत् हारितं न दीयते, तथापिएष सुहृद् भूत्वा यदि सत्यं प्रयच्छति, तदा स्वेच्छयानिजमर्थं वयं किं न गृह्णीमः, तदाकर्ण्य ते सर्वेऽब्रुवन्सख्यञ्चेत् तादृशमेषःअस्माभिः कुरुते, तदा एतदुपपद्यते,

एवमुक्त्तवतस्तान् वीरान् मत्वा भीमभटस्तैः सख्यंव्यधात् प्राद्राच्चतेभ्यस्तद्धनम्। ततश्चतैरभ्यर्थितः सानुगैरुद्यानं गत्वा तदुपनीतैर्भोजनपानाद्यैर्व्यहरत्। ततोऽक्षक्षपणाद्यैस्तैः कितवैः निजनामवंशवृत्तान्तं परिपृष्टः तान्अभाषत। अथाक्षक्षपणकस्तं स्वोदन्तं न्यवेदयत्।

आसीत् हस्तिनापुरे शिवदत्तो नाम ब्राह्मणः। अहं तस्य महाधनसमृद्धस्य वसुदत्तो नाम सुतः। मया वाल्ये वेदविद्या शस्त्रविद्या च शिक्षिताः। विवाहश्च शैशवमतिक्रान्तस्य मे पित्रासदृशात् कुलात् विहितः। मातातु मम महारौद्रा दुराराध्या अतिकोपना। तया चात्यर्थमुद्वेजितः पिता मम गृहं त्यक्त्वाअलक्षितः क्वापिगतः।तद्दृष्ट्वाहं सभयः मातुश्चित्तग्रहविधौयत्नात् भार्य्यां नियुक्तवान् सापि भीता तथैवाकरोत्। अम्बातु तस्यानातुष्यत् केवलं कलहे रता तस्या अवज्ञानं कैतवं तुष्णीमवस्थानञ्च मन्यमाना दुराशया तामपि मे भार्य्याभृशमुत्पीडयामास। को हि वह्नेःस्त्रां दाहात्मिकां शक्तिं त्याजयितुं शक्नोति? ततस्तस्यास्तादृशैश्चेष्टितैः सा मद्भार्य्यापि नितरां खिन्नागृहात् निर्गत्य न जाने क्वापि गता। अथाहमुद्विग्नमनाः गृहं त्यक्तुमुद्यतोऽपि वशात्बन्धुभिः पापैर्मिलित्वा पुनर्विवाहं कारितः। सापिभार्य्या तया मात्रा परं सन्तापिता उद्वध्य पाशेनात्मानं व्यापादयत्। ततोऽहं नितरां खिन्नःविदेशं गन्तुमुद्यच्छन्निवारयद्भ्यो बन्धुभ्योमातृदुष्कृतं वर्णयन् यदा तान्तथा तस्या अत्याचारान् न प्रत्यायितवान् तदा युक्त्या

दारुपुत्रिकां कारयित्वा मृषा परिणीतां पुनरानीयअर्पितार्गले अन्तर्वृहेस्थापितवानस्मि। कृता च तस्याः कर्मकरी तत्सदृशी। माता तु मे मां प्रोवाच पुत्र! नगन्तव्यं त्वया च, न च तयात्रागन्तव्यमिति मया तु तथेतिप्रतिपद्य वहिर्गृह एव स्थितम्। ततो दिनेषु गच्छत्सुयदा सा तां कपटस्नुषां न कथञ्चिदपि प्राप, तदासन्तप्तमनाः स्वयं मूर्द्धानमाहत्य। स्वयमेकदा रक्तागृहाङ्गणे तारस्वरेणाक्रन्दति स्म। तञ्चाक्रन्दं श्रुत्वा प्रविष्टेन मया तैः बान्धवैः सार्द्धंकिमेतदिति पृष्ठा मातासासूयमभ्यधात्, वत्साः! स्नुषया मम विना हेतुं ईदृशी अवस्था कृता, तदिदानीं मम मरणेनैव निष्कृतिः नान्यथाइति श्रुत्वा ते बान्धवा मया सह यत्र दारुपुत्रिका रक्षितातत्रागच्छन्। यावच्च द्वारमपास्य अर्गलमुहद्घाट्यच तत्र तेविशन्ति, तावत्तत्र काष्ठमयीमेव नारीमपश्यन् नान्याम्।ततस्ते विम्बितमात्मानंविदित्वा हसन्तः विलक्षिताःसञ्जातप्रत्ययाः स्वं स्वं स्थानमगमन्। अहञ्च तं देशंत्यक्त्वा भ्राम्यन् इमं प्रदेशमवाप्य दैवात् इह द्यूतशालायामविशम्। अपश्यंपञ्चैतान् जनान् दीव्यतः। दृष्ट्वा च तत् ममापि देवितुं प्रवृत्तिरासीत्। ततश्च कतिपयैस्तैःसह देवितुमारंभ। एकदा विजितो जेतुर्दासः स्यादितिपणं कृत्वा ते मया सह द्यूतमकुर्वन्। मया च द्यूतेन सर्वे विजिता दासीकृताः। अहन्तु एषां गुणैर्वद्धःस्वयं दासतांगतः। ततश्च समं वसन्तः वयंसमधना जाताः। तदिदानीं त्वमस्माकं प्रभुः, प्रागेव एतथा बुद्ध्याअस्माभि गुणा-

नुरामिभिस्तव धनं गृहीतम्। इत्थम् अक्षज्ञपणकेन स्वीदन्ते निवेदिते सर्वे ते कितवाः स्व स्वमुदस्तमवर्णयन्।

ततः स भीमभष्ठःतान् प्रवीरान् कितवान् सखीन्मत्वा विविधाश्च कथाः कथयित्वा विहारेण च दिवसं नीत्यापौरन्दरोदिशम् उद्भासमान शीतांशु तिलका-लङ्कृतां दृष्ट्वा च तस्मादुद्यानात् तेरक्षक्षपणकाद्येः षड्भिः सहचरैः सह द्यूतशालामागत्य तस्थौ। इत्थंविहरतस्तस्य प्रावृट् घनगर्जितैः सुहृदाप्तिंशंसतीव समाययौ। क्रमेण सर्वा दिशो मैघैश्छन्नापथिकानां हृदयानिव्यदारयन्। समन्तात् सर्वे जलाशया जलप्रवाहैः प्रपूरिताः कृषकाणामानन्दमवर्द्धयन्। एतस्मिंश्च काले महताओघवारिणा क्षिप्तः कश्चिन्महामत्स्यः नदीतटे व्यासक्तोऽभूत्। दृष्ट्वा च तं तत्रत्या जना विविधायुधैस्तं तिमिंहत्वा तस्योदरं पाटयामासुः। पाटिताच्च तस्मात् जीवन्युवा कश्चित् द्विजः सहसा निरगात्। तञ्च दृष्ट्वा सर्वे तेतत्रस्थाः साश्चर्य्याःकोलाहलमकुर्वन्। तदाकय तैर्मित्रैः सह तच्चगतो भीमभटः तं शङ्खदत्तं मित्रं मत्स्याद्विनिर्गतमपश्यत्। समाश्लिष्यच्चधावित्वा धाराश्रूणि मुञ्चन् मीनोदरदरौवासज विस्त्रं क्षालयितुमिव। सोऽपिविपदुत्तीर्णः तं राजपुत्रं सुहृदं चिरादवाप्य परिरभ्य उत्सवादुत्सवमवाप।अथ तेन भीमभटेन कौतुकात् पृष्टः सशङ्खदत्तः स्ववृत्तान्तंसंक्षेपेणावर्णयत् सखे! अहं गङ्गोर्मिवेगेन त्वद्दृष्टिगोचरादपहृतः सहसातिमहता मत्स्येन निजीर्णोऽस्मि, प्रविष्टश्च तदुदरं महावेश्म चिरं हस्तस्थितया

क्षुरिकयाउत्कृतं तदुदरमांसं क्षुधया भक्षयन्नतिष्ठम्। अद्य च धात्रा सोऽयमिहानीय कथञ्चित् क्षिप्तः हतश्चएभिर्जनैः। आकृष्टश्चास्योदरादहमुत्थितः। अधुना मयात्वमर्कश्चदृष्टः, दिशश्चमे प्रकाशं गताः। एष मे वृत्तान्तः,नाहमतः परं वेद्मि। इति शङ्खदत्ते नोक्तःस भीमभटः अन्ये चसर्वे तत्रस्थाः सविस्मया अब्रुवन्, अहो! क्व गङ्गायां मत्स्येन निगरणं क्वअब्धौ तस्य गतिः, क च तद्वर्त्मना तेन विपाशायामस्यां निवेशनं, क्व तद्बधः, क्वचजीवतोऽस्य तस्माद् विनिर्गमः, अहो। विधेर्गतिरचिन्त्यैवइत्यादि वदद्भिस्तैरक्षक्षपणकादिभिः सह स भीमभटस्तं शङ्खदत्तंस्वं निवासमनयत्। आनीय च तं कृतस्नानंवस्त्रालङ्कारादिभिः पुनर्जातमिव उपाचरत्। ततः स्वस्थेन तेन मित्रेण सह तस्मिन् राजपुत्रेभीमभटे स्थिते तत्र एकदा नागराजस्य वासुकेर्यात्रोत्सवः समागात्। तद्दर्शनार्थञ्च असौ राजपुत्रः सुहृद्वृतः तस्य नागराजस्यमिलन्महाजन निकेतनं प्रायात्। तत्र च तन्मूर्त्तिं प्रासादेभोगिगणाकारैर्माल्यदामभिर्भृते पातालोदरसन्निभे स्थितांप्रणम्य तस्य दक्षिणस्यां दिशि गत्वा महान्तं फणरत्नप्रभापुञ्जैरिव रक्ताम्बुजैश्चितं विषाग्निधूमपटलैरिवनीलोत्पलैर्वृतं वातपतत्पुष्पैः पादपैस्तीररूढ़ैर्वेष्टितं ह्रदं दृष्ट्वा विस्मितो यावत् चिन्तयति तावत् स्नानार्थमागतां राज्ञोलाटेश्वरस्य चन्द्रादित्यस्य कन्यकां कुवलयावतीगर्भजां हसावलींनामाद्राक्षीत्। यस्या दिव्यानुकारिभिरन्यैरङ्गैर्मत्त्यभावो निद्भुतः, परं चपलेन सनि-

मेषेण नयनेनैव मर्त्त्यभावो निवेदितः। सा पुष्पपेलववपुः कोटिप्राप्तस्फुरदगुणमुष्टिग्राह्येन मध्येन मान्मथीधनुर्लतेव तिर्य्यग्वलितैरपाङ्गदर्शनैर्भीमभयं हृदि निर्भिद्य अमोदयत्। सोऽपि जगत्सौन्दर्य्यतस्करः तस्या हृदयंप्रविश्य व धैर्य्यमहरत्। ततः सा गुप्तविसृष्टहृदयज्ञ-चेटी-मुखेन समित्रस्य तस्य भीमभटस्य नाम धामादिकमन्विष्यति स्म। गच्छति स्म च स्नाता विवर्त्तितमुखी तद्गतयैव दृशा, परिजनानुरोधात् कथञ्चित् स्वमन्दिरम्। सोऽपि भीमभटः सखिभिः सह स्नात्वा तस्याःप्रेमपाशेन बन्धनात् स्खलद्गतिः स्वं निलयं प्रत्यागात्।

एतस्मिंश्चान्तरे सा राजवाला ईप्सितं सन्देशं दत्त्वातस्मैदूतीं व्यसृजत्। सा च दूती अभ्युपेत्य तमवादीत्सुभग। हंसावली राजनन्दिनीत्वामनु स्मरौधेन ह्रियमाणात्वां नाथते। द्रुतं इमामनुद्धृत्य न ते तटस्थतायुक्ता, इति दूतोमुखात् दयितावचनामृतं निशम्य लब्धजीवित इव हृष्टस्तामवादीत् भद्रे!अहम् ओघस्थः, न तटस्थः प्रिया मे भावं न किं वेति? तत्तद्वचः काम करिष्यामि, अद्य अन्तःपुरमेत्य तां सम्भावयामि,विद्याच्छन्नंमां न हि कोऽपि तत्रस्थो द्रक्ष्यति इत्युक्त्वासा चेटी तुष्टा गत्वा च तत् सर्वं राजकन्यायै शशंस। सापि तत्सङ्गमोत्सुका तस्थौ। स च राजसुतः प्रथमेप्रदोषे दिव्याभरणमण्डितः गङ्गावितीर्णविद्यामानुलोल्येन पठन् अट्टश्या भूत्वा तदन्तःपुरमगात्। प्रविश्य चतत्र प्राक्विविक्तीकृततया रतिप्रीतिकरे कालागुरुसुम-

न्धिनिपुष्पपकरसुशोभिते तां महादिव्यसौरभांकान्तां वीक्ष्य पुनस्तां विद्यां प्रातिलोम्बोन पाठात् सुदृश्यतां गतःराजपुत्र्याः प्रीतिकरोऽभवत्। सा राजपुत्रो दृष्ट्वैव तंभीमभटं सर्वावयवानवद्यं सानन्दपुलकोत्कम्पसाध्यसारणत्स्वाभरणा तत्क्षणमनृत्यदिव। तदानीं कन्यकाभावेन लज्जावनतानना तत्प्रवृत्तिकृत् हृदयमित्र कर्त्तव्यंपृच्छन्ती समुत्सुका अभवच्च।अथ भीमभटःमुग्धे! अधुनाप्रकाशितस्थापि हृदयस्य किं क्रिया, अलमावेगेन भयेनवा, सुमुखि! आगच्छ सिञ्च माममृतनिभैर्वचोभिः कामानलसन्तप्तम् इत्यादिभिः प्रणयवचनैस्तामपगतलज्जां विधायगान्धर्वविधिना हंसावलीं भार्य्यामकरोत् नीत्वा तया समंसुखेन शर्वरींपुनर्नक्तमेष्यामीति तामामन्त्र्यकृच्छ्रेण स्वमास्पदमगात्।

अथ प्रातः राजान्तःपुरचारिणः तां हंसावली सम्भोगलक्षणैर्युक्तां ललितालकान्ताम् आर्द्रदत्तनखक्षतां साक्षात् स्मरशरप्रहारवणाङ्कितामिव ददृशुः। शशंसुश्चतत्क्षणं राजान्तिकं गत्वा तत् सर्वम्। राजापि गुप्तं नक्तञ्चरानवेक्षितुं तत्र तानादिशत्। सोऽपि भीमभटः मित्रैः सह तत्तच्चेष्टया दिनं नीत्वा प्रदोषे तथैव प्रियान्तःपुरमागमत्। ते च रक्षकाः त्वंविद्याप्रभावादलचितप्रविष्टंदृष्ट्वा सिद्धंसम्भाव्य ततो निर्गत्य राज्ञेन्यवेदयन्।राजापि तानेवमवादीत् यश्चात्रसुगुप्तमदृश्यः प्रविशतिनासौ मानुषः, तत्तमिहैवानयतं यावत् तं पश्यामियूयञ्चतं मद्वचनेव अपरुषं ब्रूत, त्वया प्रकटंसत्ततया

किं न प्रार्थ्यते? रहस्यं किं कृतं? त्वादृक् गुणवान् वरः क्वप्राप्यते? इत्युक्ता राज्ञाप्रेषितास्ते चराः द्वारस्थास्तथैव तद्वाक्यंभीमभटाय प्राब्रुवन्। सोऽपि विदितोऽस्मीति बुद्धाअभ्यन्तरस्थितः सुधीरः तान् प्रसह्य प्रत्यभाषतंभद्राः। मद्वाक्यात् गत्वा राजानं ब्रूत, प्रातरहं आस्थानमण्डपं गत्वा तत्त्वमावेदयिष्यामीति। तदाकर्ण्य तैर्गत्वानिवेदितो राजा तृष्णीमभूत्। प्रातश्चभीमभटस्तथेवसखीन् प्रति प्रायात्। ततश्च तैः सप्तभिर्वीरैर्मित्रैः कृतोद्दामवेशैः साकं तस्य भूपतेरास्थानगृहमागात्। तत्र ओजीधैर्य्यसौन्दर्यदर्शिना तेन चन्द्रादित्येन राज्ञासत्कृते निजोचितासनासीने तस्मिन् भीमभटे स द्विजः शङ्खदत्तस्तं राजानमभाषत राजन्! अयं उग्रभटस्य राढ़ापतेःराज्ञः सुतो प्रतर्कणीयमाहात्मादुरतिक्रमविक्रमी भीमभटो नाम युष्मत् सुताहेतोरिहागतः। तदाकर्ण्य रात्रिवृत्तान्तं स्मृत्वा तं योग्य वरमवेक्ष्यकृतकृत्योऽस्मि इत्युक्त्वायथाविधि तां हसाबलों विभवसमन्वितां तस्मै प्रादात्। ततो भीमभटः भूरिहत्यश्वादिसमृद्धिमान् हंसाबल्या च लक्ष्म्याच सह तत्र सुनिर्वृतआसीत्। गच्छति चकाले चन्द्रादित्यो वृद्धःनिरपत्यः तस्मै समग्रं लाटराज्यं समर्प्य वनमाश्रयत्। भीमभटोऽपि तद्राज्यं प्राप्य सम्पन्नेस्तैः सप्तभिः शङ्खदत्तादिभिः सखिभिः सह सुखेनशशास।

अथ गतेषु कियत्सु दिनेषु से कदाचित् प्रयागमेत्यचारमुखात् पितरम् उग्रभटं मृतम्, मुमूषेता च तेन

राढ़ाराज्ये पुत्रं कनीयसं नर्त्तकीसुतं समरभटमभिषिक्तमशृणोत्। ततः पितरमनुशोच्य तस्यौर्द्धदेहिकं कृत्वा च तस्मै समरभटाय मूर्ख ! तातसिंहासनोनर्त्तकीपुत्रस्य ते काधिकारिता? सत्यपि लाटराज्ये तदधिकारिताममैव। तस्मात् त्वया तत्रनाधिरोढ़व्यं इति लेखमर्पयित्वा दूतं प्राहिणोत्। स च दूतो द्रुतं गत्वा तस्मै लेखं प्रदत्तवान्। सोऽपि तादृशंभीमभटनामाङ्कितं तंलेखं वाचयित्वा क्रुद्धःप्रत्यभाषत अयोग्य इति यः पित्रादेशान्निर्वासितः, तस्य दुर्विनीतस्य एषा मिथ्याभिमानिताकिं युक्ता? स्वगुहागृहसंस्थितः शृगालोऽपि सिंहायते, परं सिंहं दृष्ट्वैव स शृगाल एव जायते। इत्युद्गगर्ज्ज्यलेखेन च तथैव सन्दिश्य तस्मै भीमभटाय प्रतिदूतं व्यसर्जयत्। सोऽपिप्रतिदूतः सत्वरं गत्वा लाटेश्वराय तस्मै भीमभटाय तं प्रतिलेखं समर्पयत्। स च भीमटस्तं लेखं वाचयित्वा मुक्ताट्टहासः तं प्रतिदूतमभ्यवात्। गच्छ दूत! मद्वाक्यात् तं नर्त्तकसुतं ब्रूहि, अश्वग्रहे त्वं शङ्खदत्तात् पिता बालप्रिय इतिमया रक्षितः, नाधुना क्षमिथे, निश्चितं त्वां वत्सलस्य पितुरन्तिकं प्रेषयिष्यामि, मज्जो भव कतिपयैरेव दिनैःप्राप्तं मां जानीहि। इति तं दूतमुक्त्वाविसृज्य च भीमभटः यात्रामादिशत्।

अथ तस्मिन् राजेन्दौउद्थोज्वले गजाद्रिमारूढ़े क्षुम्यदुदन्वञच्चलद्वीचिर्निभम् असङ्ख्यं बलं समापूर्य्यत। प्रस्थितेय सबलैः सामन्तराजपुत्रैःसमाच्छादितदिगन्तरा सकम्पा इव भयात् विदलनत्रस्तेव च मेदिनी विरौति

स्म। इत्थं राजा भीमभटः तेषां सैनिकरजसां समुच्छ्रयैः मुषितार्कप्रभं नभः कुर्वन् राढ़ाराज्याऽन्तिकं प्रापत्। तावच्चसोऽपि समरभटो नृपोऽक्षमी सेनया सन्नह्ययोद्धुं निरगात्। ततस्तौ सैन्यजलधी पूर्वपश्चिमी मिलतः स्म। महांश्च शूराणामाहवप्रलयः प्रावर्त्तत। तत्र सशब्दखड्गसम्पातजन्मा अनलःकुप्यत्कृतान्तदन्ताग्रदलनोत्थइवनभः प्रावृणोत्। तस्मिंश्च तीक्ष्णाग्रायतपक्ष्मला वीराबलोकिदिव्याङ्गमालोचनापातविलासा नाराचा वहन्तिस्म। ततः सा संग्रामरङ्गभूमिःरेणुविताना सैन्यनिर्घोषिणौ मृत्यत्कबन्धा व्यरुचत्। क्षणेन च स धनुर्धरोभीमभटः शङ्खदत्तेन अक्षक्षपणकेन तैश्च चण्डभुजङ्गाद्यैर्बाहुयुद्धविशारदैर्महाबलैः शूरेदुर्मदैर्द्विरदैरिवसप्तभिःसुहृद्भिः परसैन्यमभाङ्क्षित्। अथ भग्ने सैन्ये रथस्थः समरभटः क्रुद्धः प्रधाव्ययोद्धुमाययौ। स च वारणस्थो भीमभटः अभिपत्यं तस्य समरभटस्य धनुश्छित्त्वा बाणेश्वतुरोऽपिहयानबधीत्। अथ समरभटी विरथो धावित्वा तोमरेणभीमभटस्य तंवारणेन्द्रं कुम्भे जघान। स च गजस्तोमरहतः सहसा भुव्यपतत्। ततस्तौ उभौ भग्नयानौपादचारिणौ बभूवतुः। ततश्च गृहीतखड्गौतौ पदातीअमर्षणौ द्वन्द्वयुद्धेनअयुद्ध्येताम्।अथ भीमभटःविद्याबलेनआत्मानमदृश्यं कृत्वा तदुबधे शक्तोऽपि धर्मापेक्षी तथातं शत्रुं नाबधीत् परं प्रसह्य युध्यमानः खड्गेन तस्य नर्त्तकीतनयस्य मूर्द्धानमच्छिनत्।

ततश्च हते तस्मिन् ससैन्ये समरभटे, सिद्धचारणैर्गगनात्

साधुवादे प्रदत्ते च संग्रामे च समाप्तिं गते स भीमभटः वन्दिभिःस्तूयमानस्तां राढापुरीं तैः सखिभिः सह प्राविशत्। अनन्दयच्च कौशल्यामिव रघुपतिश्चिरप्रवासादागतः हतारिस्तत्र समुत्सुकां मातर मनोरमाम्। ततश्चपौरैरभिनन्द्यमानः अलङ्कृते पितुरासने गुणप्रियैस्तत्सचिवैःपूज्यमानः समुपाविशत्। ततः सर्वाः विततोत्सवाः प्रकृतीःसम्मान्य शुभेऽह्नि शड्गदत्ताय तत् लाटराज्यं प्रददौ। तञ्च लाटविषयं तद्देशजबलैरन्वितं प्रेष्य तेभ्यः क्षपणकादिभ्योबहून् ग्रामान् धनानि च प्रादात्।

अथ सर्वान् यथायथं सम्मानितान् विस्सृज्य तया लाटेन्द्रसुतया हंसावल्या सह वसन् पैतृकं पदमशासत्। क्रमेण च सर्वां पृथिवींजित्वा राजकन्यकाः समाहृत्यमन्त्रिषु न्यस्तभारः केवलं ताभिः सह सम्भोगैकरतःअन्तःपुरेषु व्यहरत्।

अथैकदा कश्चिन्मुनिस्तं तथा व्यसनिनं द्रष्टुं यदृच्छयापूर्वशर्वसमादेशपाककाल इवागमत्। मुनौ द्वारप्राप्ते तस्मिन् द्वास्थेरावेदितोऽपि स राजा भीमभटः रागमदैश्वर्य्यदर्पान्धो न किलाशृणोत्। ततः क्रुद्धो मुनिस्तस्मैराज्ञेइमं शापमदात्, रे मदान्ध ! त्वमचिरात् राज्यात् भ्रष्टः हस्ती भव, तच्छ्रुत्वा स भयात् भ्रष्टमदो निर्गत्य राजाचरणनिपतितः दीनेर्वचोभिस्तं मुनिं प्रासादयत्। स तुमुनिस्तथा प्रसाद्यमानः शान्तकोपः प्रत्यवादीत्, राजन्। त्वं तावत् हस्ती भूत्वा स्थास्यसि यावत् प्रचण्डशक्तिं नामनागशापावसादितं मृगाङ्कदत्तसचिवं चक्षुर्वैकल्यमागतम्

अतिथीभूतं समाखास्य तस्मै स्ववृत्तान्तमाख्यास्यसि,ततः एतस्मात् शापात् मोक्षमाप्स्यसि, तदा च गिरिशादिष्टंगन्धर्वत्वमाप्स्यसि च अतिथिश्चासौ तत्क्षणात् चक्षुष्मान्सम्पत्स्यते। तन्मां गजीभूतं भीमभटंविद्धि। त्वाञ्चप्रचण्डशक्ति जाने, तदेष मे शापान्तकालः इत्युक्त्वा सभीमभटोगजाकारं विहाय तत्क्षणात् दिव्यविभवो गन्धर्वः समपद्यत। प्रचण्डशक्तिश्चोत्पन्नलोचनालोकनोत्सवः समजायत।

इत्थं तयोः सर्वं वृत्तान्तं श्रुत्वा दृष्ट्वा च सविस्मयं वल्लिजालान्तः स्थितो मृगाङ्कदत्तः अन्यैः सचिवैः सह कालज्ञःप्रधाव्य रभसात् द्रुतं तं प्रचण्डशक्तिं कण्ठे जग्राह। सोऽपि प्रचण्डशक्तिः अकाण्डसुधावर्षसिक्ताङ्ग इव तं वीक्ष्य महता पादयोरपतत्। ततः स भीमभटो गन्धर्वस्तौ चिरविश्लिष्टसमाश्लिष्टौ भृशदुःखितौ रुदन्तौ पर्य्यमान्त्वयत्। मृगाङ्कदत्तः तं गन्धर्वं प्रणम्याब्रवीत् प्रभो!यदस्माभिरयं सखा मया लब्धः, अमुना च पुनश्चक्षुष्मत्वं यदवाप्तं त्वन्माहात्म्यस्यैवायं प्रसादः, तत्ते नमोऽस्तु। एतदाकर्ण्यसोऽपि गन्धर्वस्तं राजपुत्रमवादीत्, राजपुत्र! अचिरात् मर्षान् सखीम् तां शशाङ्कवतीं महीतलसाम्राज्यञ्च अवाप्स्यसि। तदधैर्य्यंमा कुरु, कल्याणिन्!अहं तावत् साधयामि यदा च त्वं मां स्मरिष्यसि तदाहं ते सन्निधास्ये।इति त राजपुत्रमुक्त्वा विगतशपः प्राप्तकल्याणतोषःसगन्धर्वः तेन मृगाङ्कदत्तेन सख्यं विधाय दिव्यभूषभूषिताङ्गः सहसा खमुदपतत्। सोऽपि मृगाङ्कदत्तः प्रचण्ड-

शक्तिंमित्रं तमासाद्य तैर्मन्त्रिभिः सह आनन्दनिर्भरःतंदिवसमनयत्।

________

पञ्चसप्ततितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172223407740.jpg"/>

ततो मृगाङ्कदत्तः तां रात्रिं नीत्वा प्रभाते प्रचण्डशक्तिप्रमुखेस्तैः सचिवैः सह शशाङ्कवतीमुद्दिश्य तस्मात्काननात् उज्जयिनीमभिप्रतस्थे। गच्छता च तेनाध्वनि अतिविकृतेन केनापि नभस्तले उद्यमानो विक्रमकेशरीनाम स्वमन्त्री अदृश्यत। यावच्चतेन सः अन्यमन्त्रिभ्यो दर्श्यते स्म तावत् स ससम्भ्रमं गगनात् तत्समीपमवततार। अवतीर्य्य च तस्य पुंसः स्कन्धात् तं मृगाङ्कदत्तमुपेत्य साश्रुलोचनः पादयोरग्रहीत्। तेन च राजपुत्रेण हर्षायुक्तिन्नेन अन्यैश्च मन्त्रिभिराश्लिष्टः स तं पुमांसं स्मृतोऽभ्यागमिष्यसीत्युक्त्वाविससर्ज। ततो मृगाङ्कदत्तेन कौतुकादुपविश्य पृष्टः स विक्रमकेशरी स्वोदन्तमाचचक्षे। तदाहं नागशापात् भवच्चरणात् परिभ्रष्टः समन्तात् परिभ्रमन्बहूनि अहानि युष्मान् चिन्वन् गच्छामि उज्जयिनीं यतस्तैरपि तत्र गन्तव्यमिति निश्चित्य ब्राह्मणःकामपि नगरीमवापम्। तत्र च ब्रह्मस्थलाभिधम् एकं ग्रामं प्राप्य तदन्तर्वापीतटे वृक्षमूलमुपाविशम्। तत्र कश्चिद् सर्पदष्टः समुपेत्याब्रवीत्, पुत्र! इतउत्तिष्ठ, मा मदीयां गतिमाप्नुहि।

इहास्ति महान् सर्पः तेनाहं दष्टो ज्वालायार्द्दितः अस्यां महावाप्यांदेहमुज्झितुं उद्यतोऽस्मि। इत्युक्तवन्तंतं कृपया देहत्यागात् निवार्य्य तत्र विषविद्यया तं विप्रं निर्विषमकरवम्। ततः स विप्रः प्राप्तजीवनःमां प्रति सातिशयं प्रीतिमान् आदरात् मदीयां वार्त्तां कृत्स्नांपृष्ट्वा विदितवृत्तान्तःसमभ्यधात्, पुत्र! त्वया मे प्राणाः प्रदत्ताः, तन्मत्तः इमं वेतालसाधनमन्त्रंपितुः सकाशात्मया प्राप्तं त्वं गृहाण। त्वादृशां सत्त्वशालिनामयमुपयुक्तः सिद्धिकृत्। मादृशाः क्लीवा अनेन किं नाम कुर्वते? इत्युक्तस्तेमाह तं द्विजोत्तममवादिषम्, ब्रह्मन्। मृगाङ्कवियुतोऽहं वेतालैः किं करोमि। तदाकर्ण्य स विप्रो हसन् पुनर्मामभ्यधात्, वत्स! किं जानासि? वेतालात् सर्वं सेत्स्यति, वेतालस्य प्रसादात् विद्याधरैश्वर्य्यमपि प्राप्यते, पुरा त्रिविक्रमसेमेन भूभुजा किं न प्राप्तं, तदत्र तदीयां कथां कथयामि श्रूयताम्।

अस्ति गोदावरीतटे प्रतिष्ठानाख्यो जनपदः। तत्रविक्रमसेनस्य भूपतेः पुत्रः शक्रपराक्रमः त्रिविक्रमसेनोनाम विख्यातकीर्त्तिरभूत्नृपतिः। तस्य सभासीनस्यनृपस्य सेवार्थं प्रत्यहं क्षान्तिशीलो नाम भिक्षुः एकैकंफलमुपानयत्। सोऽपि तदादाय आसन्नचरस्य कोशाधिकारिणो हस्ते प्रतिदिनं न्यक्षिपत्। इत्थंद्वादशसु वर्षेषु गतेषु एकदा सभागतोऽसौभिक्षुः राज्ञेयथायथंफलं दत्त्वा सभागृहात्निरगात्। राजा तु तस्मिन्नहनिदैवात् प्रविष्टाय रक्षिणां हस्तच्युताय क्रीड़ामर्कटपोताय

तत् फलं प्रादात्। स मर्कटः यावत् तत् फलमश्नाति तावत्तस्मात् फलात् विदलितात् अनर्घम् उत्तमं रत्नं निरगात्। तद् दृष्ट्वा राजा तदादाय तं भाण्डागारिकं पप्रच्छ भिक्षुणा उपनीतानि यानि फलानि मया तव हस्ते दत्तानि, तानि त्वया सदा क्व स्थापितानि? तदाकर्ण्यकोशाध्यक्षःसभयस्तंव्यजिज्ञपत्, देव! मया तानि अखण्डानि च गवाक्षतः क्षिप्तानि, यदि आदिशति देवः, तदा तानिसाम्प्रतं गवेषये इत्युचिवान् स राज्ञानुमतो गत्वा क्षणादेव प्रत्यावृत्य पुनः व्यज्ञापयत्, देव! तानि कोशे शीर्णानिफलानि तेषु च रश्मिज्वालाकुलान् रत्नराशीन् पश्यामि,तदाकर्ण्य सन्तुष्टः तान् मणीन् कोशरक्षिणे दत्त्वा अन्येद्युरागतं तं भिक्षुं पर्य्यपृच्छन्, भिक्षो! कथमेवं धनव्यायेन नित्यं मां सेवसे? यावत् कारणं न वक्ष्यसि, तावत् तेफलं न ग्रहीष्ये, इत्युक्तवन्तं तं नृपं स भिक्षुः विजनं नीत्वाब्रवीत्, वीर! किमपि साधन साचिव्यसापेक्षमस्ति, तत्र वीरेन्द्रेण त्वया क्रियमाणं साहाय्यमर्थये। इति श्रुत्वाराजा तथेति तस्य साहाय्याय प्रत्यपद्यत। ततः स श्रमणस्तुष्टः पुनस्तं नृपमवादीत्, प्रभो!अस्याम् आगामिन्यांकृष्णचतुर्दश्यां निशागमे इतो महाश्मशानं गत्वा वटतरोरधः स्थितस्य मे सकाशं त्वया गन्तव्यमिति। ततस्ते नराज्ञावाढमेवं करिष्यामीति तेनाभिहिते स क्षान्तिशोलोभिक्षुः प्रहृष्टः स्वं निलयं ययौ।

अथागतायां कृष्णचतुर्दश्यां स महासत्त्वोनरपतिः भिक्षोस्तां प्रार्थनां प्रतिपन्नां स्मरन् प्रदोषे नीलवसमेन

समलङ्कृतशिराः खड्गपाणिरलक्षितः, तत् महाश्मशानमगात्। गत्वा इतस्ततोऽन्विष्यन् वटतरोरधः स्थितंतं मन्त्रन्यास कुर्वाणंभिक्षुं दृष्ट्वा समुपेत्य च जगाद, भिक्षो! एवोऽस्मि आगतः, किन्ते करवाणि वद। तदाकर्ण्यस भिक्षुर्नृपं दृष्ट्वा दृष्टः प्रोवाच राजन्! यदि प्रसादस्तेकर्त्तव्यः, तदा इतो दक्षिणामुखं गत्वा एकाकी विदूरेयं शिंशपातरुंद्रक्ष्यसि तस्मिन् प्रलम्बितो मृतः कोऽपितिष्ठति, तमिहानीय मे साहाय्यं कुरु। तदाकर्ण्यसवीरो नृपतिस्तथेत्युक्त्वासत्यमङ्गरः दक्षिणादिशमालम्ब्यतत्र प्रययौ। कथञ्चिच्च तेन श्मशानमार्गेण गच्छन् विदूरे तं शिंशपातरुं प्राप्य तदुपरि लम्बमानं शवमेकमद्राक्षीत्। दृष्ट्वा त तरुमारुह्य छिन्नरज्जुं तं भूमौ अपातयत्। पातितश्चसः अकस्मात् जीवित इव भृशं चक्रन्द।ततोऽसौराजा अवरुह्यकृपया तद्योदिताकाङ्क्षी यावत्तस्यअङ्गानि परामृषत् तावत्सशवः अट्टहासमकरोत्। ततस राजा तं वेतालाधिष्ठित मत्वा कथं हससि, एहिः गच्छाव इति निर्भय यावत् ब्रवीति, तावत् तं वेतालंन भूमौसमवैक्षत। ऐक्षत च तस्येव तरारुपरि यथापूर्वंलम्बमानं तता भूयोऽपि तरुमारुह्य स राजा यत्नतः तं शवमवारोहयत् वीराणां चित्तं वज्रादपि अखण्डितम्अकम्प्यम्। ततः तं वेतालाधिष्ठितं शवं स्कन्धमारोप्यमौनेन गन्तुमुपचक्रमे। यान्तश्चशवाधिष्ठितो वेतालस्तं राजानमब्रवीत् राजन्। अध्वविनोदाय कथामाख्यामि शृणु।

अस्ति वाराणसी नाम शङ्करवसतिः पुरी। या कैलाशस्य स्थलीवपुण्यजनसेविता। हारयष्टिरिव यस्याः स्वर्गतरङ्गिणी विभाति। तस्यां प्रतापानलनिर्दग्ध विपक्षकुलकाननः प्रतापमुकुटो नाम नृपतिः प्रतिवसति स्म। तस्य च वज्रमुकुटो नाम तनयः स्मरस्य च जनस्य च रूपशौर्य्ययोर्दर्पदलन आसीत्। तस्य राजपुत्रस्य सखा महामतिः मन्त्रिपुत्रः कश्चिदास्त।कदाचित् स नृपात्मजः तेन सख्या सह क्रीडन् मृगयाप्रसङ्गेन अतिदूरमध्वानं जगाम। स तत्र सिंहानां मस्तकानां सटालानिशौर्य्यश्रीचामराणीव शनैश्छिन्दन् महावनमेकमाससाद। तत्र सरोवरमेकं दृष्ट्वा श्रान्तः स तेन सुहृदा मन्त्रिपुत्रेण तज्जलं पीत्वा प्रक्षालितकरचरणः कस्यापि तीरतरोर्मूले समुपाविशत्।

अत्रान्तरे क्वापि स्नानार्थमागता दिव्याकृतिः सपरिच्छदा पूरयन्तीव लावण्यनिर्भरेण सरोवरं दृष्टिपातैः सृजन्तीव तत्रोत्पलवनानि, प्रत्यादिशन्तीव मुखेन जितेन्दुना अम्बुजानि कन्यका तेन ददृशे। दृष्ट्वैव सा तस्यराजपुत्रस्य मनो जहार तत्क्षणम्। सोऽपि राजसूनुस्तस्था विलोचने अहार्षीत्। सा तु कन्या तद्दर्शनेनसञ्जातविकारा लज्जया किमपि वक्तुमशक्नुवाना हृद्गतमाकूतं सङ्केतेन बोधयन्ती एकमुत्पलं कर्णे गृहीत्वा दन्तरचनां विधाय पद्मं शिरसि कृत्वा हृदये करमदात्। राजपुत्रस्तु तस्यास्तां संज्ञां न विवेद, मन्त्रिपुत्र एव केवलंबुद्धिमान् सर्वं बुबुधे। क्षणेन च सा कन्या अनुगेर्नीय-

माना प्रययौ। गत्वा च स्वंगृहं पर्य्यङ्कनिषण्णातस्थौ। चित्तन्तु तस्यास्तस्मिन् नृपात्मजे एवं स्थितम्। सोऽपिराजसुतः कृच्छेणस्वनगरींगत्वा तया विना नितरांव्यथितो दिने दिने कृशतामवाप। सख्याच मन्त्रिपुत्रेणं तेन रहसि तामद्रुष्प्रापां शंसता पृष्टस्तक्तधैर्य्यःप्रोवाचसखे! यस्या नाम न, ग्रामो न, अन्वयश्चनावबुध्यते, साकथं प्राप्यते तन्मृषा मां किमाश्वासयसि? इति राजपुत्रेणोक्तो मन्त्रिपुत्रस्तमभ्यधात्, देव! किं न दृष्टं त्वया,यत् यत् तया संज्ञया सूचितम्। यत्तया कर्णे उत्पलं व्यस्तं तेन एतत् सूचितं कर्णोत्पलस्य राज्ञः राष्ट्रेअहं निवसामीति। कृता च या दन्तरचना, तया एतत् सूचितं यथाहं तत्र दन्तघाटकस्य कन्येति। शिरसि पद्मं धृत्वा एतत्सङ्केतितं यथाहं नाम्ना पद्मावतीति। हृदयार्पित हस्तया च तया त्वयि मे प्राणाः स्थिता इति सङ्केतितम्। अस्तिच कलिङ्गदेशे कर्णोत्पलो नाम नृपः। तस्य चित्तप्रसादकः महासमृद्धिमान् दन्तघाटकः संग्रामवर्द्धनो नाम प्रतिवसति। तस्य कन्यारत्नमियं पद्मावती नाम प्राणाधिकप्रियम्। एतत् लोकमुखात् मया विदितम्। तस्मात्मया तस्या देशादिसङ्गिनी संज्ञा ज्ञाता। इति तेनमन्त्रिपुत्रणोक्तो राजपुत्रस्तस्मै सुधिये तुतोष जहर्षः च लब्धोपायः।

अथस तेन मन्त्रिपुत्रेण सम्मन्त्र्यप्रियार्थी पुनर्मृगयाव्याजेन तत् सरोऽगमत्। अर्द्धमार्गे च वाताश्ववेगात्सैनिकान् पार्श्वचरानतीत्य तेनैव मन्त्रिपुत्रेण युतः

कलिङ्गाभिमुखं ययौ। प्राप्य तन्नगरं कर्णोत्पलनृपतेः, अन्विष्य च दन्तघाटकस्य भवनं दृष्ट्वा च तददूरे वासार्थंकस्याश्चित् वृद्धाया योषितो ग्रहं तौराजपुत्रमन्त्रिपुत्रौ प्राविशेताम्।तत्र च बाहौ यवसमलिलैः पूरयित्वागुप्तमवस्थाप्य मन्त्रिपुत्रः तां वृद्धामपृच्छत् वृद्धा! कच्चित् अस्मिन् नगरे कमपि दन्तघाटकनामानं वेत्सि? तदाकर्ण्य सा जरती सादरं तमभाषत वत्स! सुष्ठु वेद्मि,तस्याहं धात्री अस्मि, तेनैवाहं पद्मावत्याः स्वदुहितुः पार्श्वेस्थापिता,किन्तु अहं तत्राधुना अपहृताम्बरा न गच्छामि,जातु कुपुत्रः कितवो मे वस्त्रं दृष्ट्वैव सद्यः हरेदिति।एवमुक्तवतींतां हृष्टः मन्त्रिपुत्रः स्वोत्तरीयादिदानेनसन्तोष्य पुनरब्रवीत् मातस्तम् आवाभ्याम् यद् यद्कथ्यतेतत्तत् सुगुप्तंकुरुष्व। तां दन्तघाटसुतां पद्मावतीं गत्वा वद यस्त्वया सरसीतटे राजपुत्रो दृष्टः, सोऽत्रआगतः, तेनार्थिताहं त्वदन्तिकं प्रणयादायाता। तदाकर्ण्य सा वृद्धा दानवशीकृता तदैव पद्मावतीपार्श्वं गत्वा अवसरंप्राप्य तां जगाद वत्से! तौराजसुतमन्त्रिसुतौत्वत्प्राप्तये अत्र समागतौ, साम्प्रतं करणीयमादिश। इत्यभिहिता सा तां निर्भर्त्स्यपाणिभ्यां द्वाभ्यां कर्पूरलिप्ताभ्यां द्वयोः कपोलयोराहत। ततः सा परिभवार्त्ता रुदती गृहमागम्य तावभाषत पुत्रौ! पश्यतं मुखे मेतया एता अङ्गुलिमुद्रा दत्ताः, एवं तयोक्ते नैराश्यविषण्णं तं राजसुतं स महाबुद्धिर्मन्त्रिसुतः जनान्तिकमवादीत्सखे! मा विषादं गमः मन्त्रंरक्षन्त्वा तया निर्भर्त्स्य

यत् कर्पूरशुभ्रा अस्यामुखेः दश स्वाङ्गलयोनिहिताः एतैरेतत् सूचितं यथा अस्मिन् शुक्ले पक्षेचन्द्रवतीरिमा दश रात्रीःसङ्गमानर्हाःप्रतीक्षस्वइति। इत्येवं राजपुत्रं समाश्वास्य स मन्त्रिसुतः गुप्तं हस्तस्थं काञ्चनं किञ्चिद् आपणे विक्रीय तथा वृद्धया महार्हंभोजनं साधयामास। ततस्तौ द्वौसह तया वृद्धया बुभुजाते। इत्थं दशाहानिनीत्वा पुनर्जिज्ञासार्थं स मन्त्रिपुत्रस्तां वृद्धांपद्मावतीपार्श्वंप्रेषितवान्। सापि मिष्टान्नपानादिलुब्धातदनुरोधात्तस्या वासगृहं गत्वा प्रतिनिवृत्त्य चतौ जगाद वत्सो! इतो गत्वाहं तत्पार्श्वे कियन्तं काल तृष्णींस्थितातया तु युष्मत् कथापराधं स्वयमुद्गिरन्त्या पुनःसालक्तकाभिस्तिसृभिः कराङ्गुलिभिः उरसि हता तदन्तिकात्अपमानिता पुनरायाता। तदाकर्ण्य स मन्त्रिपुत्रः तंराजपुत्रंस्वैरमब्रवीत् सखे। मान्यथाशङ्कां कार्षीः, अस्याहृदये तया यदलक्तकाक्तम् अङ्गुलिमुद्रात्रयं विन्यस्तं कौशलेन तेनं रजस्वला स्तिस्रो निशाःस्थिताः इतिसूचितम्। एवं राजतुतमाश्वास्य स मन्त्रितः द्व्यहेगतेपुनरपि तां वृद्धांपद्मावतीसकाशं प्राहिणोत्। सातस्मिन् दिने गता तथा समादृत्य भोजिता। पानादिभिश्चदिनं सर्वं विनोदिता। यावत् सा सायं गृहमागन्तुमिच्छति तावत् तत्र बहिः भयङ्करः कोलाहलः समुदभूत्। हा हा अयं मत्तहस्तोस्वावासात् भ्रष्टः जनान् भय्नन् प्रधावतीति जना आक्रन्दन्तः पलायमानाः शश्रुविरे। ततः सा पद्मावती तां वृद्धामभाषत अम्ब! सान्मतं

हस्तिरुद्धेपथि त्वया न गन्तव्यं तत्त्वां पीठिकांसमारोप्य आलम्बनरज्जुभिर्बद्धाः अनेन वृहता गवाक्षेणअत्र गृहोद्याने प्रक्षिपामि, ततो वृक्षमारुह्य विलङ्घ्य चप्राकारम् अन्येन वृक्षेण स्वगृहं व्रज इति। एवमुक्त्वासा चेटिभिस्तां वृद्धांरज्जुपीठिकया गवाक्षात् उद्यानेप्रक्षेपयामास। सा च गृहं गत्वा तत् सर्वं ताभ्यां राजपुत्रमन्त्रिपुत्राभ्यां शशंस। तदा स मन्त्रिपुत्रस्तं राजपुत्रमभाषत सखे! सिद्धंते अभिलषितं युक्त्या तथा मार्गोदर्शितः, तदद्यैव प्रदोषे त्वम् एतेनैव पथा तत् प्रियामन्दिरं गच्छ। इत्युक्तस्तेनैव मन्त्रिपुत्रेण युतः स राजपुत्रः तेनैव पथा वृद्धया दर्शितेन तदुद्यानं ययौ। ददर्श च तत्र तां लम्बमानां सपीठिकां मार्गोन्मुखाभिश्चेटीभिरुपरिष्टादधिष्ठितां रज्जुम्। स च तां दृष्ट्वैव यावदारोहति स्म तावत् ताभिः सखीभिः तया रज्ज्वागवाक्षेणाकृष्टः प्रियान्तिकं प्राविशत्। तस्मिंश्चप्रविष्टे मन्त्रिपुत्रस्तमेववृद्धावासं प्रायात्। राजपुत्रस्तुतां पद्मावतींपूर्णेन्दुवदनां प्रसरत्कान्तिचन्द्रिकां कृष्णपक्षात् गुप्तं स्थितां राकाविभावरीमिव अद्रा्क्षीत्। सापि तं दृष्ट्वा तत्कालोचितैःकण्ठग्रहादिभिस्तै स्तैःप्रौढ़ाचारै रमयामास। ततस्तत्रगान्धर्वविधिना समूढ़यातया सह कान्तया गुप्तं विहरन् कतिचित् दिनानिस्थित्वा कदाचित् तां प्रियामवदत् प्रिये! मम सखामन्त्रिपुत्रः मयैव सहायातः अत्र वृद्धागृहेएकाकी तिष्ठति, तद् गत्वा तं सम्भाव्य पुनरेष्यामि इति तदाकर्ण्यसा धूर्त्ता

पद्मावती तं प्रियमाहस्मनाथ! त्वामहं पृच्छामि, मत्कृतास्तास्ताः संज्ञास्त्वया ज्ञाताः? उत ते तेन मन्त्रिपुत्रेण? तथाभिदधतांतां राजपुत्रोऽब्रवीत् प्रिये ! नज्ञातं मया तत् सर्वं तेनैव मे मित्रेण दिव्यज्ञानवतासर्वं विदित्वा मे समाख्यातम्। एतदाकर्ण्य सा भामिनीविचिन्त्य तं प्रत्यभाषत नाथ! तर्हि अयुक्तंकृतं त्वयाचिरात् तद्वार्त्तांकथयता, यस्तेसखा, स मे भ्राता,तस्य प्रथममेव मया ताम्बूलादिसमाचारेण सम्माननाकर्त्तव्यासीत्। इत्युक्तवत्या तयानुमतः राजपुत्रस्तेनैवयथा तस्यां निशि सख्युरन्तिकमागात्। अकथयच्चतत्सर्वं प्रियया कथितम्। मन्त्रिपुत्रस्तु तदयुक्तमिति न तत्सादरमभ्यमन्यत। इत्थं परस्परमालपतोस्तयोः सा विभावरौपर्य्यगदत्।

अथ तयोः सान्ध्ये विधौ निर्वृते पक्वान्नताम्बूलहस्ता पद्मावतीसखीतत्रागात्। सा समागत्य तंमन्त्रिपुत्रंकुशलं पृष्ट्वा दत्तोपचारा युक्तितः राजपुत्त्रस्य भोजनं निषेद्धुं सा तव प्रिया भोजनादौ तदागमं प्रतीक्षमाणाआस्तेइति आवेद्य क्षणात् ततःप्रायात्।ततः स मन्त्रिपुत्रस्तं राजपुत्रमभाषत देव! कौतुकमेकं पश्य त्वां दर्शयामि। इत्युक्त्वा स तस्मादेकं पक्वान्नमादाय सारमेयाय तत्र स्थिताय प्रादात्। स भुक्त्वैव तत्क्षणात् व्यपद्यत। तदवलोक्य किमिदं चित्रमिति तं मन्त्रिपुत्रं राजपुत्रः पर्य्यपृच्छत्। स चैनं प्रत्यभाषत देव !स संज्ञाप्रकटनेन मां धूर्त्तंविदित्वा हन्तुकामया त्वदमुराक्तया तथा अस्मिन् सति

राजपुत्री मदेकायत्तचित्तो न भवेत् एतद्दशश्च मां विहाय स्वां नगरीं व्रजेदिति विचारयन्त्या मम भक्षणार्थं विषान्नं प्रहितम्। तस्मात् त्वमेतस्यां मन्य मुञ्च। अहं कामप्यत्र युक्तिं पर्य्यालोचयामि। इत्युक्तवन्तं मन्त्रिसुतं स राजपुत्रः सत्यंत्वं बुद्धिशरीर इति यावत् स्तौति तावत् सहसा दुःखाकुलजनैरुदीरितो हा धिक् राज्ञो बालः सुतो विपन्न इति रवः श्रूयते स्म। तदाकर्णनेन हृष्टःसमन्त्रिपुत्रस्त नृपात्मज जगाद, देव! अद्य पद्मावतीये निशि व्रज, तत्र गत्वा तां तथा पायवेः, यावत् पानमदेन सा निःसंज्ञा नष्टचेष्टा गतजीवितेव स्यात्। ततस्तस्याः सनिद्रायाः कटितटे शूलेन अग्नितप्तेन अङ्गं दत्त्वा आभरणानि गृहीत्वा गवाक्षेण तेनैव प्रकारेण आगच्छेः, ततःपरं यथा भद्रं भवेत् तथा करिष्यामीत्युक्ता कारयित्वा च विशूल तस्मै राजसूनवे प्रादात्। सोऽपि राजपुत्रस्तत् कुटिलकर्कशं कालायसदृढं कान्तावयस्ययोश्चित्तमिव हस्ते गृहीत्वा पूर्ववत् रात्रौ पद्मावतीगृहमेत्य शुचेः स्वमन्त्रिणो वाक्यं प्रभूणामविचार्य्यमिति मत्वा तत्र मद्यपाननिश्चेष्टां तां जघने शूलेनाङ्कितां हृतालङ्करणाञ्च कृत्वा सख्युरन्तिकमागात्। अशंसच्च आभरणानि दर्शयित्वा तत् सर्वम्। ततः स मन्त्रिपुत्रः स्वं समीहितं सिद्धं मत्वा प्रातः श्मशानं गत्वा स्वयं तापसरूपभृदभवत् अकरोच्च राजपुत्रं शिष्यरूपिणम्। अब्रवीच्च त्वं इतोऽलङ्करणात् इमां मुक्तावलीं नीत्वा विक्रेतुम् आपणं व्रज, यदि त्वां पुररक्षिणी गृह्णीयुः तदा इत्थः ब्रूयाः, यदियं

मे गुरुणा विक्रमार्थं दत्तेति, इति सन्दिष्टः स राजसुतः आपणं गत्वा तथैव मुक्तावलींविक्रेतुमतिष्ठत् अगृह्यत च तथाभूतः पुररक्षिभिः। ते च दन्तघाटसुताया अलङ्करणमोषान्वेषणार्थिनः तं राजसुत तत्क्षणं नगराध्यक्षान्तिकं निन्युः। स च नगराध्यक्षस्तं तापसाकारं दृष्ट्वा सान्त्वेन पप्रच्छ, भगवन्! कुत इयं मुक्तावली आसादिता, दन्तघाटकन्याया इदमाभरणं हृतम्। तदाकर्ण्य राजपुत्रस्तानवादीत् भद्राः। गुरुणा ममैषा विक्रेतुं दत्ता, तद्युष्माभिरेत्य स पृच्छ्यतामिति। ततस्तं समुपेत्य नगराधिपः पप्रच्छ, भगवन्। इयं मुक्ताबली कुतस्तव शिष्यगता? एतदाकर्ण्य स धूर्तोमन्त्रिसुतः त रहसि अवादीत्, भद्र!अहं तपस्वी सदा अस्मिन् इतस्ततो भ्राम्यामि, सोऽहं देवात् अत्र श्मसाने स्थितो निशि समस्तं योगिनीचक्रंसमागतमपश्यम्। तासु चैकया योगिन्या राजपुत्र एकः उद्घाटितहृदम्भोजो भैरवाय निवेदितः। पानमत्ता च सा जपतीमे मोक्षमालिकां हर्त्तुंमहामाया विविधविकारपूर्णमुखी यावत् प्रावर्त्तत तावत् अतिदर्पिता सा क्रुद्धेन मया जघनस्थले त्रिशूलेन मन्त्रप्रज्वलितास्रिणा अङ्किता, हृता च तस्या इयं मुक्तावलो कण्ठात्। तदेषा तापसानर्हा विक्रयार्थं प्रेषिता। तदाकर्ण्य स नगराध्यक्षो गत्वा राजान तत् सर्वं व्यजिज्ञपत्। भूपोऽपि आकर्ण्य तत् दृष्ट्वा च तां मुक्तावलीं प्रेक्षणप्रहिताया वृद्धाया आप्तवनिताया मुखात् दृश्यशूलाङ्कां जघने तां पद्मावतीं श्रुत्वा सत्यमेव ग्रस्तः सुतो सेऽनयाडाकिन्या इति समुत्-

पद्मनिश्चयः स्वयं तस्य मन्त्रिपुत्रस्य तापसवेशिनीऽन्तिकं गत्वा तस्याः पद्मावत्या निग्रहं पृष्ट्वाच तस्य वचसा पितृभ्यां शोच्यमानायाः तस्याः पुरान्निर्वासनं दण्डं व्यधात्। सापि निर्वासिता अटवीस्थानग्नापि तत् सर्वं मन्त्रिपुत्रकृतं सम्भाव्य तनु न जहौ। दिनान्ते तौराजपुत्रमन्त्रिपुत्रौ तापसवेशं त्यक्त्वाअश्वारूढ़ौ शोचन्तीं तां प्रापतुः। निन्यतुश्च अश्वमारोप्य स्वराष्ट्रम्। तत्र चागत्य स राजपुत्रस्तया साकं सुनिर्वृतस्तस्थौ। दन्तघाटस्तु अरण्येक्रव्याङ्निर्भक्षितां सुतां मत्वा शोकेन पञ्चत्वमगात्। भार्य्या च तस्य तमनुजगाम। इति कथामाख्याय वेतालस्तं नृपमपृच्छत्, राजन्! एतयोर्दम्पत्योर्बधात्राजपुत्रस्य मन्त्रिपुत्रस्य वा पद्मावत्याः पातक भवेत्, त्व हि बुद्धिमतां वरो दृश्यसे, तदत्रमे संशयं छिन्धि, यदि जानन्नपि मे तत्त्वं न वदिष्यसि, तदा ते मूर्द्धानिश्चित शतधा स्फुटिष्यति (यदि च सदुत्तर दास्यसि तदाहं पुनस्तव स्कन्धात् तमेव शिशपातरुमाश्रयिष्ये इति।) इत्युक्तवन्तंवेतालः राजा त्रिविक्रमसेनस्तः प्रत्यवादीत्, योगेश्वर! किन्ते अज्ञातम्? तथापि वच्मि, एतेषां त्वयाक्तानां त्रयाणामपि नैव। पातकं केवलं कर्णोत्प्रलस्य राज्ञ एव तत् पातकं भवति। वेतालः प्राहस्मराज्ञः को दोषः, ते त्रयः तत्कारकाः. हंसैः शालिषु जग्धेषु काकाःकिमपराध्यन्ति। ततो राजाब्रवीत् ते त्रयोऽपि न् दृष्यन्ति मन्त्रिसुतस्य प्रभुकार्य्यमेव हित, तदत्र सोऽपातकी, पद्मावतीराजपुत्रौ हि कामशराग्निनानिर्दग्धौ अबिसारज्ञौतस्मात् स्वार्थसम्पा-

दनाददोषौ, राजातु नीतिशास्त्रेषु सुशिक्षितोऽपि चतुरैः प्रजासु तत्त्वमनन्विष्वन् धूर्तचरितानि च जानन् अविचारं कृतवानिति, स एवात्र पातकीति निशम्य स वेतासः तस्य राज्ञः दार्ढ्यं परीक्षितुं मायाबलात् तत्क्षणं तमेव शिंशपातरुमशिश्रियत्। राजापि निःशङ्कः पुनरमुमानेतुं तत्रागात्।

————

अथ षट्सप्ततितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722355476Screenshot2024-07-30213327.png"/>

अथ स राजा विक्रमसेनः पुनस्तं वेतालमानेतुं तं शिंशपातरुमूलमगमत्! यावत्तत्र प्राप्तः समन्तात् वीक्षते स्म तावत् सं वेतालं भूमौ कूजन्तं पतितं ददर्श। ततश्च तस्मिन् नृपे तं मृतदेहस्थं वेतालं स्कन्धमारोप्य जवात् तूष्णीमानेतुं प्रवृत्ते स्कन्धस्थितः स वेतालस्तमब्रवीत्, राजन्! महति अनुचिते क्लेशे पतितोऽसि, तम्मात् तत्र विनोदाय पुनः कथामेकां कथयामि श्रूयताम्। अस्ति कालिन्दीतटे ब्रह्मस्थलाभिधः कश्चिद्ग्रहारः। तत्र अग्निस्वामीति समभवत् कश्चित् वेदपारगो विप्रः। तस्य अतिरूपवती मन्दारवती नाम कन्यका अजनि। यां नवानघेलावण्यां निर्माय विधिर्नियतं निजं स्वर्ग नारीपूर्वनिर्माणकौशलं जुगुप्सते। तस्यां शैशवातिक्रान्तायां कान्यकुब्जात् समसर्वगुणोपेतास्तयो, ब्राह्मणदारकाः

समाययुः। तेषामेकैकःआत्मार्थं तत्पितरं तामयाच न तत् पिता प्राणव्ययेऽपि तामन्यस्मै दातुमनिच्छन् तन्मध्यादेकस्मै दातुं मतिमकरोत्। सा तु कन्या अन्ययोर्वाधात् भीता कियन्तं कालं न पाणिमग्राहयत्। ते च त्रयोऽपि तस्या मुखेन्दुनिक्षिप्तदृष्टयः चकोरव्रतमालम्ब्यदिवानिशं तत्रैव तस्थुः।

अथाकस्मात् समुत्पन्ने न ज्वरदाहेन आर्त्ता सा मन्दारवतौपञ्चतामवाप। ततस्ते विप्रकुमारास्तां परासुंदृष्ट्वा शोकार्त्ताः कृतप्रसाधनां श्मशानं नीत्वा अग्निसादकुर्वन्। ततश्च तेषामेकः तत्र मठ निर्माय तद्भस्मशय्यायां भैक्ष्येण जीवन्नतिष्ठत्। द्वितीयोऽस्थीनि तस्याउपादाय भागीरथ्यां निक्षेप्तुंजगाम। तृतीयस्तु तापसो भूत्वा देशान्तराणि भ्रमितुमगात्। स तु भ्राम्यन् तापसः वज्रालोकाभिधंग्रामं प्राप्य कस्यापि विप्रस्य गृहे अतिथिरभूत्। तेन च गृहपतिना पूजितो यावत् तत्र भोक्तुंप्रावर्त्तत, तावत्तस्य एकः शिशुः रोदितुं प्रवृत्तोऽभवत्। स च शिशुः सान्त्वयमानोऽपि यदा न व्यरंसीत् तदास्य गृहिणी तं बाहावादाय ज्वलत्यग्नौक्रुधा प्राक्षिपत्। क्षिप्त एव स कोमलाङ्गस्तत्क्षणात् भस्मसादभूत्। तदवलोक्य स तापसः सञ्जातरोमाञ्चः प्राब्रवीत्, हा धिक्! कष्टं प्रविष्टोऽहं ब्रह्मराक्षसवेश्मनि तस्मात् मूर्त्तं किल्विषमिदमत्र नाधुना भवयामि। एवं वादिनं तमतिथि स गृहस्थः प्रत्यवादीत्, ब्रह्मन्!पश्यामिपठितसिद्धस्य मृतसञ्जीवनींशक्तिम्। इत्युक्त्वापुस्तकमुद्घाट्य तां विद्यां

वहिस्कृत्य अनुवाच्य च तस्मिन् भस्मनि जलमक्षिपत्। क्षिप्तमात्रे च जले स पुत्रस्तथैव जीवन्नुदतिष्ठत्। ततः स तापसः सुनिर्वृतस्तत्र सहर्षं वुभुजे। गृहस्थोऽपि स नागदन्तके पुस्तकमवस्थाप्य भुक्त्वैव तेन तापसेन सह रात्रौ शयनमभजत। अथ सुप्ते गृहपतौ स तापसः स्वैरमुत्थाय शङ्कितः स्वप्रियाया मन्दारवत्या जीवनार्थं तां पुस्तिकामग्रहीत्। गृहीत्वैव तस्मान्निर्गत्य रात्रिन्दिवं व्रजन् शनैस्तत् श्मशानमासदत्। अद्राक्षोच्च सहसा तं द्वितीयम् उपस्थितं यो हि गङ्गाम्यसि तदस्थि क्षेप्तुमगात्। प्राप्य च तत्रस्थं तस्या भस्मनि शायिनं तृतीयं निबद्धमठम्। अथ स तापसः प्रोवाच मठिका त्यज्यतां भ्रातः, प्रियां तामहमुत्थापयामीति। ततस्ताभ्यां निर्बन्धतःपरिपृष्टः पुस्तिकामुद्घाट्य मन्त्रमनुवाच्य मन्त्रपूतानि जलानि तस्मिन् भस्मनि प्राक्षिपत्। क्षिप्तमात्रेषु जलेषु सामन्दारवती जीवन्ती सहसा समुत्तस्थौ। तदा सा कन्या वह्निं प्रणम्य निष्क्रान्तं पूर्वाधिकद्युति काञ्चनेनेव निर्मितं वपुर्वभार। तादृशीं तां पुनर्जीवितां निशम्य त्रयोऽपि ते स्मरातुराः तत् प्राप्त्यर्थमन्योऽन्य कलह चक्रुः। एकेनोक्तम् इयं मन्मन्त्रबलात् जीविता ममैव भार्य्या। अपरोऽब्रवीत् मदीयेन तीर्थभ्रमणपुस्येन इयं जीविता, तदेषा ममैव भार्य्या। तृतीयेनाभिहितं मया भस्मानि रक्षितानि, तत एवेयं जीविता, तस्मात् ममैवेयं प्रणयिनीति। हे महीपते! तेषां विवादनिर्णये त्वमेव शक्तः, तत् ब्रूहि कन्यासौ कस्य एतेषां भार्य्या भवितुमर्हति? यदि जानन् मृषा वदि-

ष्यसि तदा ते मूर्द्धाविदलिष्यति। इति वेतालादाकर्ण्य स राजा एवमभ्यधात् यःक्लेशेनमन्त्रमानीय एनमजीवयत् स खलु पितृकार्य्यकरणात् न पतिः। यश्च तस्या अस्थीनि गङ्गायां क्षेप्तुंयतः स पुत्रकार्य्यकरणात् न पतिः। यस्तु तद्भस्मशय्यां समाश्लिष्य तपश्चचाचार श्मशान एव, स एवास्याः प्रणयिकार्य्यकरणात् पतिर्भवितुमर्हतीति। इत्थंनृपात् त्रिविक्रमसेनादाकर्ण्य स वेतालस्तस्य स्कन्धादतर्कितः स्वपदं प्रायात्। राजा च भिक्षुकार्य्यार्थं पुनस्तं प्राप्तं मनो वबन्ध। प्राणात्ययेऽपि महासत्त्वाः प्रतिपन्नमर्थम् असाधयित्वा न निवर्त्तन्ते।

————

अथ सप्तसप्ततितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722490939Screenshot2024-08-01111154.png"/>

अथ राजा पुनरपि तं वेतालमानेतुं तं शिंशपातरुमभ्यगच्छत्। प्राप्य च तत्रस्थं मृतदेहगतं तं स्कन्धे गृहीत्वेव तूष्णीं गन्तुं प्रावर्त्तत। अथ प्रयान्तं तं स वेतालः पुनरवोचत्, राजन्! निशि गमागमं कुर्वन् नितरां खिद्यसे, अतस्त्वां विनोदयन् पुनः कथां वर्णयामि शृणु।

अस्ति पाटलिपुत्रं नाम भूमण्डलख्यातं नगरम्। पुरासीत् तत्र नृपतिः विक्रमकेशरी नाम। यं गुणानामिव रत्नानामाश्रयं विधिर्व्यधात्। तस्य विदग्धचूडामणिर्नाम

दिव्यविज्ञानवान् सर्वशास्त्रवित् शापावतीर्णएकःशुकः आसीत्। तस्य नृपस्य आत्मजः शशी नाम शुकोपदेशेन मगधदेशनृपतिकन्यां चन्द्रप्रभां नाम उपयेमे। तस्या अपि राजपुत्राः तथाभूता ज्ञानविज्ञानशालिनी सोमिका नाम शारिकाभूत्। अथ तौ शारिकाशकौएकपञ्जरस्थौ राजवेश्मनि आस्ताम्।

एकदा साभिलाषः स शुकस्तां शारिकामब्रवीत्, सुभगे! एकशय्यासनाहारविहारेषु मां भजेति। शारिकाब्रवीत् नाहं पुरुषसंसर्गं कर्त्तुमिच्छामि, यतः पुरुषा दुष्टाः कृतघ्नाश्च इति। ततः शुकेन न पुमांसो दुष्टाः, स्त्रिय एव दुष्टा नृशंसहृदयाश्चेति कथिते तयोर्विवादः समजनि। ततस्तौ पक्षिणौ क्रीतदासत्व-क्रीतदासीत्वपण कृत्वा परस्परं विवादनिष्पत्तये राजपुत्रमुपेयतुः। स राजपुत्रः पितुरास्थानगतः विवादपदं श्रुत्वा कथ पुरुषाः कृतघ्नाः, ब्रूहि तत्त्वमिति शारिकामपृच्छत्। ततः सा शृणोतु राजपुत्र इति समाख्याय स्वपक्षसमर्थनाय पुंदोषाख्यायिनीं कथां कथयितुमुपचक्रमे।

अस्ति कामन्दकी नाम विख्याता नगरी। तस्याम् अर्थदत्तो नाम महाधनो बणिक् प्रतिवसति स्म। कालेन तस्य धनदत्तो नाम तनयः समुदपद्यत। अथ पितरि स्वर्गते स युवा द्यूतादिसङ्गेन भृशमुच्छृङ्खलोऽभवत्। धूर्त्ताश्च मिलिताः, तं सर्वथा प्राभ्रंशयन्। दुर्जनसङ्गतिरेव व्यसनवृक्षस्य मूलम्। अचिरेण च व्यसनासक्ततया क्षीणसर्वस्वः दारिद्र्येण च लज्जितः स्वदेशं त्यक्त्वाभ्रमितुं

देशान्तराणि समाश्रयत्। गच्छंश्च चन्दनपुरं नाम नगरमाससाद। विवेश च भोजनार्थी कस्यापि वणिजः सदनम्। स च बणिक् कुमारं दृष्ट्वा पृष्ट्वा च कुलं ज्ञात्वा च कुलीनं सत्कृत्य च दैवयोगात् प्राप्तममन्यत अददाच्च तस्मै सधनां रत्नवतीं नाम सुताम्। ततः स धनदत्तः कृतविवाहस्तस्मिन्नेव श्वशुरवेश्मनि तस्थौ।

गच्छत्सु च दिनेषु सुखेन विस्मृतदुर्गतिः पुनर्व्यसनोत्सुकः स्वदेशं गन्तुकामोऽभवत्। ततः स शठः कथमपि श्वशुरं तं तन्मात्रापत्यम् अनुनीय तामलङ्कृतां भार्य्यां रत्नवतीमेकया वृद्धया स्त्रिया सहितां गृहीत्वा स्वदेशाय प्रतस्थे। क्रमेण अटवींप्राप्य दूरात् तस्करभयमुक्त्वातस्या भार्य्यायाः सर्वाणि अलङ्करणानि स्वीचकार। युवराजः, द्यूतवेशादिव्यसनिनां कृतघ्नानां हृदयं निस्त्रिंशकर्कशम्। स च पापात्मा अर्थार्थं तां गुणवतीमपि भार्य्यां हन्तुं तयावृद्धया युतां क्वापि श्वभ्रेन्यक्षिपत्। क्षिप्तैव तस्मिन् प्रस्थिते दुरात्मनि सा वृद्धा तस्मिन्नेव व्यपद्यत। सा तु रत्नवती कथञ्चित् तत्र तृणगुल्मादिकमालम्बय करुण क्रोशन्ती सशेषत्वादायुषः समुत्थिता विक्षताङ्गोपदे पदे मार्गं पृष्ट्वा यथागतेनैव पथा कृच्छ्रात् पितुः सदनमागमत्। कथमकस्मात् त्वमीदृशी प्रत्यावृत्तेतिसमम्भ्रमं मात्रा पित्रा च पृष्टा सा साध्वी एवमभाषत मुषिताः स्म पथि तस्करैः, नीतश्च बलात् स मे पतिः। वृद्धासा श्वभ्रे निपत्य मृता, अहं पुनर्देवात् प्राणिमि। केनचित् कृपालुना पथिकेनाहमुद्धृता श्वभ्रात्। एवमुक्तवतो मात्रा

पित्राच शोचता समाश्वासिता सा भर्त्तृप्राणा रञ्जवती तस्थौ।

अथ कालेनासौ धनदत्तः द्यूतेन क्षपितसर्वधनः पुनरचिन्तयत् गच्छामि, पुनः श्वशुरगृहात् धनमानयामि, तत्र गत्वा तं श्वशुरं गृहे स्थिता कुशलिनी तव दुहितेति वक्ष्यामि। इति स मनसि सङ्कल्प्य श्वशुरसदनं पुनरवाप। आगतञ्च तं दूरात् सा पतिप्राणा भार्य्या अद्राक्षीत्। दृष्ट्वैव धावित्वा च सा तस्य पापस्य पादयोर्निपत्य तत् सर्वं पितृभ्यां मृषा निवेदितं व्यजिज्ञपत् दुष्टेऽपि पत्यौ साध्वीनां मानसं नान्यथावृत्ति भवति। ततः स दुरात्मा निर्भयः श्वाशुरं गृहं प्रविश्य तं पादयोः प्रणनाम। स च तं जामातरं दृष्ट्वा अभ्यनन्दत अकरोच्च दिष्ट्यायं मे जामाता जीवन् चौरैर्मुक्त इति बन्धूभिः सह महोत्सवम्। ततः स धनदत्तः सुखेन श्वाशुरीं समृद्धिं भुञ्जानः तथा रत्नवत्या पत्न्यासह रेमे।

एकदा स पापीयान् रात्रौ यच्चकार तत् अवाच्यमपि कथाभङ्गभयात् कथ्यते। शृणु, राजपुत्र! असौ पापमतिः विश्वस्तसुप्तां तां रत्नवतीं निशि हत्वा तदाभरणसञ्चयं अपहृत्य अलक्षितः स्वदेशं प्रायात्। ईदृशाः पुरुषाः पापाः कृतघ्ना इति शारिकया कथिते राजपुत्रः हसन् त्वमिदानीं वदेति शुक्रमभाषत। ततः स शुकः प्राब्रवीत्, देव! स्त्रियः विषममाहसादुश्चरिता पापास्तयाचात्र कथामेकां वर्णयामि शृणोतु कुमारः।

अस्ति हर्षवती नाम नगरी। तत्राभूत् धर्मदत्तो नाम

बहुकोटीश्वरो बणिजामग्रणीः। तस्य वसुदत्ता नाम्नी रूपेण असामान्या प्राणेभ्योऽपि प्रियतमा कन्याभवत्। सा तु तेन समानधनयौवनकुलशालिने नेत्रचकोरामृतरश्मये समुद्रदत्ताख्याय बणिक्पुत्राय ताम्रलिप्तानिवासिने प्रदत्ता। कदाचित् सा स्वदेशस्थे पत्यौ, पितृगृहे स्थिता दूरात् कमपि पुरुषं युवानं कान्तविग्रहं ददर्श। दृष्ट्वैव सा चपला स्मरमोहिता गुप्तं सखीमुखेनानीत प्रच्छन्नकामुकं तं भेजे। इत्थं प्रतिरात्रं सा तदेकासक्तमानसा तेन सह रममाणा सुखं वुभुजे।

अथैकदा स तस्याः पतिः स्वदेशात् आगतः श्वशुरयोः परां प्रीतिमवर्द्धयत्। दिने च उत्मयेनातिक्रान्ते सा वसुदत्ता मात्रा कृतभूषणा निशि वासगृहं प्रेषिता शय्यास्थायिनं पति भेजे। तेन च रतिं प्रार्थिता सा अन्यमानसा अलोकसुप्तिकामकरोत्। क्रमेण सोऽपि पतिः पानमत्तःअध्वश्रान्तश्च निद्रया जहे। ततः सर्वस्मिन् भुक्त पीतजने क्रमेण सुप्ते कश्चित् चौरः सन्धिं भित्त्वा तस्मिन् वासगृहे प्राविशत्। सा च बणिक्नन्दिनी तत्कालं तमपश्यन्ती समुत्थाय स्वजारकृतसङ्केता निभृतं निरमात्। तदालोक्य स चौरःविघ्निताभिलाषो व्यचिन्तयत् वेषामाभरणानामर्थे अहं प्रविष्टः,तैरेवाभरणैर्वृता एषा निशोथे निर्गता, तत् क्व गच्छतीति द्रष्टव्यमिति पर्य्यालोच्च निर्गत्य च स चौरः तां बणिक् सुतामनुययौ। सापि पुष्यादिसम्भारहस्तया तया सख्या संयुता गत्वा वाञ्चमुद्यानं नातिदूरगं प्रविवेश। ददर्श च तत्र सङ्केतस्थान-

मागतं नगररक्षिभिश्चोरबुद्ध्यापाशं कण्ठे दत्त्वा निहत्य वृक्षे लम्बामानं तं प्रच्छत्रकामुकम्। सा तु तदवलोक्य विह्वला, हा! हतास्मीति वादिनी कृपणं विलपन्ती भूमौ पपात रुरोद च। अथ तं निजकामुकं वृक्षादवतार्य्यउपवेश्य च गतासुम् अङ्गरागैरलङ्कारैः पुष्पैश्चालञ्चकार। यावच्च सा तस्य मुखमुन्नमय्य कामार्त्ता परिचुम्बति, तावत् स निर्जीवः कामुकःवेतालानुप्रविष्टः सन् दन्तैस्तस्या नासिकां चिच्छेद। तेन सा विह्वला तस्मात् प्रदेशात् मव्यथा अपसृतापि अहो किं स्वित् जीवत्यसाविति पुनरेत्य यावत् पश्यति स्म तावत् तं वीतवेतालं निश्चेष्टं पतित मृतं निश्चित्य सा भीता परिभूता च रुदती शनैः गृह प्रत्याजगाम। स चालक्षितः प्रच्छन्नस्थितश्चौरः सर्वमेतत् व्यलोकयदचिन्तयच्च अहो किमिदं पापया अनया कृतम्? हा स्त्रीणामाशयः कथमीदृक् भीषणः? तदिदानीमपि एषाकिं नु कुर्य्यादिति विचिन्त्य कौतुकात् स चौरःभूयोऽपि दूरात् तामनुससार। सा च पापिनी गृहं प्रविश्यैव उच्चकैः प्ररुदती एवमब्रवीत् परित्रायध्वं मां एतेन दुष्टेन भर्त्तृरूपेण शत्रुणा मम निरपराधाया नामिका छिन्ना इति। तत् रोदनमाकर्ण्य सहसा तत्परिजनाः सर्वे ससम्भ्रममुदतिष्ठन्। पतिश्च प्रबुबुधे। अथ तत्पिता समेत्य तां छिन्ननासिकां दृष्ट्वा क्रुडस्तं जामातरं बन्धयामास। स चइतिकर्त्तव्यविमूढस्तदानीं बध्यमानोऽपि मूकवदतिष्ठत् न किमपि प्राब्रवीत्। अथ क्रमेणसर्वेषु विबुद्धेषु शृण्वत्सु

तस्मिंश्च चौरे सर्ववृत्तान्तज्ञेतस्मादप्रसृते, गतायां शनैः, शर्वर्य्यांस बणिक्सुतः तेन श्वशुरेण राजान्तिकं नीतः। सा च क्विन्ननासा वसुदत्ता तत्रागता, राजा च सर्वं वृत्तान्तं श्रुत्वा अयं स्वदारद्रोहीति निर्णीय तस्य बणिक्सुनोर्बधं समादिशत्। ततस्तस्मिन् निरपराधे न किमपि विजानति बणिक्सुते सडिण्डिमं बध्यभूमिं नीयमाने स चौरःसमुपगम्य राजपुरुषानभाषत अकारणमयं कथं वध्यभूमौ नीयते?यथावृत्तमहं सर्वं वेद्मि, मां राजान्तिकं नयत सर्वमहं वदिष्यामि। इत्युक्तवन्त तं ते सर्वे राजपुरुषा राजान्तिकमनयन्। स च चौरः आमूलात् सर्वं रात्रिवृत्तान्तं राज्ञे न्यवेदयत् अब्रवीच्च देव! न चेत् महचसि तव प्रत्ययः, तत् सा नासा तस्य शवस्य मुखे अद्यैव निरीक्ष्यताम्। तत् श्रुत्वा वीक्षितुं भृत्यान् प्रेष्य तेषाञ्च मुखात् सत्यमवेत्य च स राजा तं बणिक्पुत्रं बधदण्डात् विमुच्य तां दुष्टां वसुदत्तां कर्णावपि देशात् निरवासयत्। तञ्च तत्पितरं बणिजं सर्वस्वमदण्डयत्। तुष्टञ्चतं चौरं पुराध्यक्षमकरोच्च। राजपुत्र! इत्थंनिसर्गविषमाः शठा योषित इति यदन्नेव शुकः चित्ररथो नाम गन्धर्वराजो भूत्वा इन्द्रशापक्षयात् दिव्यरूपमास्थाय दिवमगात्। सा च शारिका सपदि सुराङ्गना तिलोत्तमा भूत्वा तथैव क्षीणमापा दिवमुदपतत्। तयोस्तु तस्यां सभायां विवादो न निर्णीतः। इत्याख्याय स बेतालस्तं नृपमपृच्छत्। राजन्! वदतु भवान् पापाः पुरुषाः उत योषितः? जानतस्ते अकथयतः शिरो

खण्डशः पतिष्यतीति। एतत् स्कन्धवर्त्तिनो वेतालस्य वचनमाकर्ण्य स भूपतिस्तं योगीश्वरं वेतालमवादीत् वेताल! कोऽपि च तादृक् पुरुषः क्वचित् कदाचित् दुराचारः। स्त्रियस्तु प्रायशः पापा दृश्यन्ते श्रूयन्तेव च। इत्युक्तवतो नृपस्य स्कन्धात् प्राग्वत् स वेतालः क्वापि प्रनष्टोऽभूत्। राजा च पुनस्तदानयने यत्नमकरोत्।

————

अष्ठसप्ततितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722529476Screenshot2024-08-01215402.png"/>

ततः स त्रिविक्रमसेनो नृपतिः पुनस्तस्य शिंशपातरोमूलं गत्वा निशि त मुक्ताट्टहासं शवाधिष्ठितं वेतालं प्राप्य निष्कम्पः तथैव स्कन्धमारोप्य तस्य भिक्षोः सकाशमुदचलत्। तच्च चलन्तम् अंसस्थः स वेतालः पुनरब्रवीत् राजन्! दुराचारस्य अस्य भिक्षोः कृते कोऽयं ते प्रयासः? निष्फले अमुष्मिन् प्रयत्ने तव विवेको न दृश्यते? यद् भवतु, त्वद् भक्त्या तवाध्वश्रमविनोदिनीमपरामेकां कथां कथयामि श्रूयताम्।

अस्ति शोभावती नाम यथार्थनाम्नीकापि नगरी।मस्यामभूत् शूद्रको नाम प्रभूतपराक्रमो महाप्रतापो नृपतिः। यस्य जयिनः प्रतापानलोऽनवरतं वन्दीकृतारिवनिताधृतैश्चामरमारुतैः ज्वलति स्म। येन च अलुप्तधर्मचरणा स्फीता वसुन्धरा रामादीनपि भूपतीन् विस-

स्मार। कदाचित् तं महीपालं प्रियशूरं सेवितुंमालवात् कश्चित् वीरवरो नाम द्विजः समागात्। तस्य धर्मवती नाम भार्य्या, सत्यवरो नाम सुतः, वीरवती नाम्नोकन्या चासीत्। सेवापरिच्छदस्तस्य त्रयमेव कट्यांकृपाणिका, करे तस्वारि, अपरे च करे चर्म, एतावन्मात्रपरिच्छदपरीवारः स प्रत्यहं तं राजानं दीनारशतपञ्चकं वेतनं प्रार्थयास। राजा च तम् आकारसूचितोदारपौरुषं मत्वा तस्मै यथेप्सितां वृत्तिं ददाति स्म। स्थापयति स्म च कौतुकात् प्रच्छन्नचारान् तत् पृष्ठतः, किमेभिः प्रभूतैर्वेतनैरेष किं करोतीत्यन्वेष्टुम्। स च वीरवरः प्रातः राजदर्शनं कृत्वा मध्याह्ने धृतायुधः तस्य सिंहद्वारे स्थित्वा च स्ववृत्तिलभ्यानां दीनाराणां शतं गार्हस्थ्यनिर्वाहाय भार्य्याया हस्ते भोजनार्थं प्रादात्। अपरेण च शतेन वस्त्रम् अङ्गरागं ताम्बूलादीनि च क्रीणाति स्म। अपरञ्च शतं स्नात्वा विष्णोः शिवस्य च पूजार्थं विनियुयोज। अन्यच्च शतद्वयं विप्रेभ्यः कृपणेभ्यश्चदरिद्रेभ्यः प्रादात्। एवं विभज्य प्रत्यहं तानि पञ्चशतानि स व्ययीचकार। ततश्च अग्निकार्य्यादिकं विधाय भुक्त्वाच निशि एकाकी तदेव सिंहद्वारं धृतकृपाणचर्मा प्रत्यह तस्थौ। एतत् सर्वं चारमुखात् श्रुत्वा राजा शूद्रकः भृशं तुतोष, निवारयामास च तान् चारान् पुनस्तस्य मार्गणे। मेने च विशेषपूजार्हं तं पुरुषातिशयम्।

अथ गच्छत्सु दिनेषु एकदा धारावर्षिणि दिवानिशं जलदपटले गगनमावृण्वतिजनरहिते च समन्तात् राज-

मार्गे एकाकी स वीरवरस्तस्मिन् सिंहद्वारे एवातिष्ठत्। स च राजा दिनपतावस्तं गते तादृशेभीषणे तमसि विजृम्भिते सधारावर्षे तस्य वीरवरस्य भावं जिज्ञासुः निशि प्रासादाग्रमारुह्य जगाद कोऽत्रसिंहद्वारि स्थित इति, तदाकर्ण्य अहमेव स्थित इति वीरवरः प्रत्यवादीत्। अहो महासत्त्वोऽयं वीरवरः मद्भक्तःतदेष मया अवश्यमेव महत् पदं प्रापणीयः। इति संचिन्त्य राजा प्रासादादवतीर्य्यअन्तःपुरं प्रविश्य शयनमगात्। अन्येद्युश्चतथैव मेघेषु धारासारान् वर्षत्सु निशायां भुवने कालतमसि विजृम्भिते राजा पुनश्च तद्भावं जिज्ञासुः प्रासादमधिरुह्य सिंहद्वारमभि कोऽत्रस्थितइति व्याजहार। वीरवरेण च अहं स्थितो देव इति प्रोक्ते स राजा भृशं विसिस्मिये। शुश्राव च तावदतिदूरे सहसा रुदतीं कामपि स्त्रियं वामस्वरेण। व्यचिन्तयच केयं विषादविकलेव सप्रलापकरुणं विरौति, राष्ट्रे च मम पराभवः नास्ति, न दरिद्रः नापि कश्चित् दुःखितः, तदेषा का इति। आदिदेश च करुणार्द्रचेताः त वीरवरमधःस्थित, भो वीरवर! शृणु, एषा दूरे कापि रोदिति, किमर्थमसौ रोदिति, काचेयं त्वया गत्वा एतत् निरूप्यतामिति। तदाकर्ण्य स वीरवरस्तथेत्युक्त्वानिबद्धासिधेनुः करतलधृतकरवालश्च गन्तुं प्रावर्त्तत। नागणयत तत् स्थूलधारा–शिलावर्षि ज्वलद्विद्युद्विलोचन नवमेधान्धकारम्। तश्चतादृश्यां निशायां प्रस्थितमेकाकिनं दृष्ट्वा करुणाकौतुकाविष्टो राजा प्रासादादवतीर्य गृहीतासि रेकाको अनुपलक्षितः तमनुजगाम।

च वीरवरः रुदितमनुसरन्नगर्य्या बहिः सरोवरमेकं प्राय, ददर्श च तत्र हा शूर! हा कृपालो! हा वदान्य! त्वया शून्या कथमह वत्स्यामीत्येवं रुदतों वारिमध्यवर्त्तिनींकामपि स्त्रियम्। स च वीरवरः का त्वं कथं वा रोदिषि, इति विस्मितः सचकितमपृच्छत्। साअभ्यधात् भो वीरवर! मां पृथिवीं जानीहि अस्याश्च मम इदानीं धार्मिकः शूद्रको नाम राजा भर्त्ता इतश्चतृतीये दिने तस्य राज्ञो मृत्युर्भविष्यति, तादृशमन्यंपति कथमवाप्नुयामिति शोकेन विधुराहं शोचामि इति एतदाकर्ण्य स वौरवरस्तत्रइव तामब्रवीत्, देवि! अस्ति कश्चिदस्य प्रतीकारः? येनास्य जगत्प्रभो रक्षा स्यात्? इति तस्य वचनमाकर्ण्य सा वसुमती प्रत्यभाषत, वत्स! एक एवास्त्युपायः कर्त्तुञ्च शक्तो भवानिति। वीरवरोऽवदत्, देवि। तद्वद द्रुतं यावत् शीघ्रं तत् साधयामि। अन्यथा कोऽर्थः प्राणेरस्माकम्। तदाकर्ण्य धरित्री प्राब्रवीत्, वत्स! त्वदन्यः कोऽन्यो मम प्रवरःस्वामिभक्तः तदस्य उपायं शृणु, अस्य राजकुलान्तिके राज्ञानेन प्रतिष्ठापिता देवीचण्डिकास्ति, तस्यै चेत् सत्त्वरं पुत्रमुपहारीकरोषि, तदा एष राजा न म्रियेत, अन्यत् शतं समा जीवेत्। अद्यैव चेत् भवता एतत् क्रियते तदैव शिवं नान्यथेति पृथिव्या तथाभिहितः स वीरो वीरवरस्तदा यामि, देवि। करोमि अधुनैव एतत् इति प्रत्यवादीत्। वसुन्धरा च भद्रं तेऽस्तु इत्यभिधाय तिरोदधे। गुप्तमनुसृतः स राजा तत् सर्वं शुश्राव। ततश्च गूढ़े तस्मिन्

राजनि तद्भावं जिज्ञासमानेगच्छति स वीरवर स्त्वरितं गृहमगात्। आगत्य च तत्र पत्नींधर्मवतींविबोध्य तत् सर्वं वसुन्धरा प्रोक्तमर्थं प्राब्रवीत्। सापि तदाकर्ण्य तंस्वामिन माहस्मप्रभो! शिवं भाव्यंचेत् तदा शिशुमेनं प्राबोध्य भवानेव ब्रवीतु। ततः स वीरवर स्तं सुतं बालं सुप्तं प्राबोध्य वृत्तान्तमाख्याय समवोचत्, पुत्र! त्वयि चण्डिकादेव्या उपहारीकृते राजासौ जोवति, नोचेत् तृतीयेऽह्नि विपत्स्यते, तदाकर्ण्यबालोऽपि यथार्थंनाम दर्शयन् अकातरचित्तः सत्वरं पितरमवदत् तात! यदि राजा मम प्राणैर्जीवेत् तदाहं कृतार्थः, भुक्तस्य च तदन्नस्य परा निष्कृतिः प्रदत्ता स्यात् तत् किं विलम्ब्यते, शीघ्रं मां नीत्वा भगवत्या उपहारीकुरुष्व, मज्जीवनेन राज्ञोऽमङ्गलमान्तिर्भवतु। इति तेनोक्तो वीरवरःसहर्षं साधु सत्यं त्वं मत्पुत्र इति तमभ्यनन्दयत्। तस्य भार्य्या धर्मवती कन्या वीरवती च तस्यां रात्रौ ताभ्यां वीरवरसत्यवराभ्यां सह चण्डिकागृहे ययतुः। राजापि छन्नवेशःतान् पृष्ठतोऽलक्षितः समनुससार। तत्रदेव्याः पुरःपित्रास्कन्धादवतारितः स सत्यवरः देवीं प्रणम्य धैर्य्यराशिः कृताञ्जलिन्यवेदयत् देवि! मम शिरस उपहारेण राजासौ अन्यत् शतं वत्सरान् जीवन् अकण्टकं राज्यं करोतु इत्येवं प्रार्थयतस्तस्य सूनोः सत्यवरस्य शिरश्छित्त्वा वीरवरः चण्डिकायै मत्पुत्रोपहारेण राजा जीवत्विति वदन् प्रददौ। तत्क्षणं अन्तरीक्षात् वागुदचरत् कस्त्वदन्यः स्वामिभक्तः भो वीरवर! येन त्वया एकमात्र-

पुत्रेण तथाविधसत्पुत्रप्राणव्ययिना अस्य भूपतेः जीवनं राज्यञ्च दत्तमिति। तच्च सर्वं तस्मिन् नृपे पश्यति शृण्वति च तस्य वीरवरस्य कन्या वीरवतीतस्य भ्रातुर्निहतस्य मूर्द्धानमाश्लिष्य शोकान्धा स्फुटितहृदया तत्क्षणात् व्यपद्यत। ततो भार्य्या धर्मवती वीरवर मब्रवीत् नाथ! राज्ञस्तावत् श्रेयः कृतम्। इदानीमहं वदामि दृष्टा त्वया कन्यापि मे शोकात् मृता, तदिदानीं नष्टापत्याया मे जीवितेन किम्? प्रागेव मूढ़या मया राज्ञः श्रयार्थं स्वशिरः उपहर्त्तव्यमासीत्, तदधुना अनुज्ञां देहि अह शीघ्रम् अनलं प्रविशामि। इति आग्रहेण वदन्तींतां वीरवरोऽवदत् एवं कुरुष्व, अपत्यदुःखैकमये जोवितव्ये का प्रीतिः? यच्च त्वयोक्तंकि दत्तो मयात्मा इति तदत्र व्यथां मा कुरु, यदि अन्य साध्यमेतत् राज्ञः श्रेयो भवेत् तदाहमपि किं आत्मानं न दद्याम्। तत् प्रतीक्षष्व तावत् अमीभिर्दारुभिस्तेचितां सञ्चयामि, इत्युक्त्वा चितायां तेन प्रस्तुतायां ज्वलन्त्यां धर्मवती पत्युः पादयोः पतित्वा तां चण्डीं देवीं प्रणम्य व्यजिज्ञपत् देवि। जन्मान्तरेऽपि अयमेव मे पतिर्भूयात्, अस्य च प्रभोः शूद्रकस्य मदीयेनात्मजेन शिवमिति समुदीर्य्य तस्मिन्नेव ज्वालामालिनि अनले देहं न्यक्षिपत्। ततश्च स वीरवरश्चिन्तयामास निष्पन्नंमे राजकार्य्यं दिव्यवाण्या विज्ञातं भुक्तस्य च राजान्नस्य साम्प्रत मनृणोऽस्मि, तदिदानीमेकस्य मम केयं जीवनतृषा, भरणीयं सर्वं कुटुम्बकं व्ययीकृत्य एकमात्मानं जीवयन् तादृशो न शोभते। तत्

किं आत्मोपहारेण अम्बिकां न प्रीणयामि, इत्यालोच्य स वीरवरस्तां देवीं प्रथमं स्तुत्या उपतस्थे, जय महिषासुरमर्द्दिनि! तारिणि!दानवदारिणि त्रिशूलधारिणि विबुधोत्सवकारिणि भुवनत्रयधारिणि! जय मातृवरे जगद तचरणे शरण्ये निःश्रेयसकारिणि भक्तजनानां, कालि। कपालिनि। कङ्गालिनि शिवे! नमोऽस्तु ते, प्रसीदेदानीं शूद्रकस्य नृपतेरनेन मदीयेन मस्तकोपहारेण, इति स्तुत्वा स वीरवरः सद्यः तरवारेण स्वं शिरश्चिच्छेद। तदालोक्य स छन्नस्थितः शूद्रकोनृपः व्याकुलः सदुःखः साश्चर्य्यश्च व्यचिन्तयत् अहो। न मया ईदृशमन्यत्र दृष्टं वा श्रुतम्, साधुनानेन सपरिवारेण मदर्थे दुष्करं कृतम्। विचित्रेऽस्मिन् संसारे कोऽन्यः अनेन समो धीरः, प्रभोरर्थे यः पुत्रादीन् स्वश्चजीवितं प्रादात् एतस्य उपकारस्य सदृशमुपकारं यदि अहं न कुर्य्याम् तदा मे प्रभुत्वेन किं जीवितेन वा पशोरिव किं? सत्त्वभ्रंशात् सर्वमेव मे अयशो भविष्यतीति संचिन्त्य स राजा कोशात् करवालमाकृष्य समुपेत्य तां देवीं व्यजिज्ञपत् देवि! सततमनुप्रपन्नस्य मम अधुना अनेन शरोरोपहारेण सुप्रीता सती अनुग्रहं कुरु। अयं नानागुणयुतो वीरवरः सपरिवारो मदर्थं त्यक्तकलेवरःसाम्प्रतं जीवतु इति उदीर्य्य असिना यावत् स्वं शिरश्छेतुं प्रावर्त्तत, तावत् गगनाद् भारती उदभूत, वत्स। मा साहसं कृथाः अनेन ते सत्त्वेन परितुष्टास्मि, प्रत्युज्जीवतु अयं सापत्यदारो द्विजो वीरवरः। इत्युक्त्वातस्यामन्तरिक्षवाचि विरतायामेव स वीरवरः पुत्रेण दुहित्रा पत्न्याच सह अक्षतशरीरो

जीवन्नुत्तस्थौ। तदवलोक्य राजा पुनश्छन्नविग्रहः हर्षाश्रुपूरया दृष्ट्या तान् पश्यन् न तृप्तिमाययौ। सोऽपि वीरवरः सुप्तोत्थित इव तं पुत्रं पत्रींदुहितरश्च पश्यन् विभ्रान्तमानसः समभवत् अपृच्छच्च पृथङ्नामग्रहं तान्, कथं भस्मीकृता यूयं जीवन्तः पुनरुत्थिताः?। किमयं मे विभ्रमः? आहोस्वित् स्वप्नोमाया वा? उत देव्या अनुग्रहः?। एवं वदन् स दारापत्यैः देव्यानुग्रहेणैव वयं जीवाम इति निजगदे। ततः स वीरवरस्तथेति मत्वा तां देवीं प्रणम्य पुत्रदारानादाय कृतार्थो गृहं ययौ। तत्र च तं पुत्रं ताश्चभार्य्यां दुहितरश्चप्रवेश्य तस्यामेव रात्रौ राज्ञः सिंहद्वारमागमत्। राजा च शूद्रक एतत् सर्वं दृष्ट्वा अलक्षित एव गत्वा स्वं प्रासादमारुरोह पप्रच्छ च कोऽत्र सिंहद्वारे स्थित इति। वीरवरः प्रत्यवादीत्, प्रभो! अहं वीरवरस्तिष्ठामि। देवादेशाच्च तां रुदतीं स्त्रियं प्रति गतश्चाहम्। सा कापि राक्षसी मम वचसा दृष्ट्वैव क्वापि प्रनष्टेति। एतत्तस्य वचः श्रुत्वा राजा नितरां विस्मितो दृष्टोदन्तो व्यचिन्तयत् अहो! समुद्रगम्भीरधीरचित्ता मनस्विनः, ये अनन्यसामान्यं कर्म कृत्वापि मोदगिरन्ति। इत्यालोच्य प्रासादादवरुह्य स राजा अन्तःपुरं गत्वा रात्रिशेष मत्यवारयत्।

अथ प्रातरास्थानसमये दर्शनार्थमुपगते वीरवरे स्थिते हृष्टो राजा सर्वेभ्यो मन्त्रिभ्यः अन्येभ्यश्च तस्य तं रात्रिवृत्तान्तमवर्णयत्। सर्वे सविस्मया मोहिताश्चवीरवरगुणश्रवणेन तत्क्षणमभवन् प्राशंसंश्चसाधु साधु इति।

ततोराजा वीरवरश्च अन्योन्यं तुल्यविभवौ सुख मासताम्। इति कथामाख्याय वेतालस्तं विक्रमसेनं नृपमपृच्छत्, राजन्! एतेषु सर्वेषु कोऽधिकस्ते मतः? यदि जानन्नवक्ष्यसि, तदा पूर्व एव स शापः सेत्स्यति। एतदाकर्ण्य स राजा तं वेतालमभाषत, देवयोने! एतेषु सर्वेषु राजा शूद्रक एवं समधिकः प्रवीर इति। वेतालोऽब्रवीत्, नृपते! कथं वीरवरो न, यस्य तुल्यः पृथिव्यां सेवको न विद्यते, तत्पत्नीं वा कथं समधिकेति न प्रशस्यते? या सूनोः पशूपहारतां प्रत्यक्षं दृष्ट्वापि न धैर्य्यात् प्रच्युतासीत्। स वा पुत्रः सत्यधरः कथं नाभ्यधिकः? यस्य बालस्यापि सतस्तादृशः सत्त्वोत्कर्षः। तत् कथमेकं शूद्रकं नृपं त्वं प्रवरं भाषसे? इत्युक्तवन्तंवेतालं स नृपः पुनरवादीत् कुलपुत्रो वीरवरस्तादृक् न, तस्य प्राणैः सुतैः दारैश्च स्वामिसंरक्षणं कार्य्यम्। तस्य च पत्नी कुलजा साध्वी पतिप्राणा भर्त्तृमनुसरन्तो धर्ममेव पालितवती। सत्यधरोऽपि तयोर्जातस्तादृशएव,यादृशास्तन्तवः तादृश एव पटो जायते। येषां भृत्यानां प्राणैः नृपेण आत्मा रक्ष्यते, तेषामर्थं प्राणां स्त्यजन् शूद्रक एव सर्वेषु विशिष्यते, इति वचः समाकर्ण्य स वेतालः नृपतेरंसादलक्षितः सहसा निजावासं ययौ। राजापि तन्मायया अनुच्चलितोऽपि तस्यामेव निशिपुनस्तमानेतुं मतिमकरोत्।

————

अथ ऊनशीतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722836703Screenshot2024-08-03120006.png"/>

ततश्च स राजा विक्रमसेनः पुनःशिंशपातरोरन्तिकमभ्येत्य तथैव लम्बमानं नरशरीरगं त वेताल मवतार्य्य तस्य बहुना वैकृतेनापि निर्भीकः सत्वरमागन्तु प्रववृते। आगच्छन्तं तूष्णीं पथि पूर्ववत् स वेतालःप्रावदत्, राजन्! अभिनिविष्टोऽसि, दृष्टिप्रियोऽसि च तत्तव चित्तविनोदाय कथामपरां कथयामि शृणु।

अस्त्युज्जयिनी नाम भुवनविश्रुता नगरी। तस्यां पुण्यसेनो राजा अभूत् तस्य प्रियोऽनुजीवी अमात्यो हरि स्वामीति सद्गुणालङ्कृतो विप्रः प्रतिवसति स्म। गृहपतेरनुरूपायां भार्य्यायां सुसदृशः देवस्वामी नाम पुत्रोऽजायत। एका च असामान्यरूपलावण्यविश्रुता सोमप्रभा नाम अन्वर्थनाम्नीकन्या उदपद्यत। सा एकदा शैशवातिक्रान्ता रूपोत्कर्षाभिमानवतीमातुर्मुखेन पितरं भ्रातरञ्च जगाद शूराय ज्ञानिने विज्ञानिने वा अह देया, अन्यस्मै, दत्ताहं न जीवामीति। तदाकर्ण्य पिता तस्याःतादृशं वरं चिन्वन् यावत् चिन्तामलमापेदे, तावत्स पुण्यसेनेन राज्ञादाक्षिणात्यस्य कस्यचित् नृपस्य अन्तिकं सन्धिविग्रहाय दौत्ये प्रहितः। तत्र च कृतकार्य्यं तं कश्चित् ब्राह्मणयुवा श्रुततद्दुहितरूपसम्पद् अभ्येत्य तां सुतामयाचत। स च तमब्रवीत् मत्सुता विज्ञानिनो

ज्ञानिनो वा शूरात् अन्यं पतिं नेच्छति, तेषां मध्यात् भवान् कः, कथय इति। स ब्राह्मणोऽवदत् अहं विज्ञानं जानामि। तर्हि तद् दर्शय इति तेनोक्तः स विज्ञानं स्वयुक्त्या खेचरं रथं कल्पयामास। दर्शयामास च तत्र मायायन्त्ररथे तं हरिस्वामिनमा रोप्य नीत्वा च स्वर्गादीन् लोकान्। आनिनाय च तुष्ट तं दाक्षिणात्यस्य नृपतेः कटकं यत्र स स्वकार्य्यार्थमायात इति। ततः स हरिस्वामी तस्मै तां सुतां प्रतिशुश्राव सप्तमेऽहनि च वैवाहिकलग्नं निश्चिकाय। तस्मिंश्च काले उन्नयिन्यां अन्येन द्विजकुमारेण तत् पुत्त्रो देवस्वामी तत् स्वसारमयाच्यत। तेनापि ज्ञानिविज्ञानिशूरेभ्यो नान्यं पतिं मे स्वसा कामयते इति विज्ञापितः स आत्मानं शूरमभ्यधात् ततो दर्शितस्त्रास्त्रविद्याय तस्मै शूराय स देवस्वामी निजानुजां दातु प्रतिपेदे। कृतनिश्चयश्च मातुःपरोक्षं गणकवचनात् सप्तमेऽह्नि विवाहं निर्णिनाय च। एतस्मिन्नन्तरे हरिस्वामिभार्य्या च केनाप्यपरेण द्विजयूना सुतां याचिता प्राब्रवीत्, वत्स! ज्ञानी विज्ञानी शूरो वा मम कन्यां वोढुमर्हति नान्य इति तत् त्वमेतेषु कः, उच्यतामिति। सोऽब्रवीत् अहं ज्ञानीति ततः सा भूतं भविष्यञ्च पृष्ट्वा ज्ञानिनं निश्चित्य तस्मै सुतां दातुं तद्भिन्ने सप्तमेऽङ्किप्रत्यशृणोत्।

अन्येद्युश्च हरिस्वामी समागत्य यथाकृतं सर्वं पत्न्यै पुत्राय च समाचख्यौ। स च सा च स्वंस्वं क्वतं तत् सर्वं पृथक् पृथक् तस्मे, अवोचत्। इत्थंसहरिस्वामी त्रयाणां

वराणां निमन्त्रणात् नितरां व्याकुलः समपद्यत। अथ सप्तमे दिने आगते ते त्रय एव वराः हरिस्वामिनो गृहमाययुः। चित्र महो! तत्कालं सा सोमप्रभा क्वापि मता। तदाकर्ण्य ज्ञानौ अवदत् राक्षसेनापहृत्य धूम्रशिखाख्येन विन्ध्याटव्यां निजां वसतिं नीता। इति ज्ञानिनाभिहितो हरिस्वामी भीतः तं विज्ञानिनम् उपायं पप्रच्छ स च पूर्ववत् सर्वास्त्रसंयुतं रथं कृत्वा तं हरिस्वामिनं तौ च ज्ञानिशूरौ तत्क्षणं विन्ध्याटवीं प्रापयामास। तत्र ज्ञानिना समाख्यातां तस्य राक्षसस्य वसतिं प्राप्य स शूरः हरिवामिना सह तं राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतं बोधयामास। तदा तयोर्मानुषराक्षसयोश्चित्रास्त्रियोधिनोःरामरावणयोरिव स्वार्थंमहद् युद्धमवर्त्तत। क्षणेन च स शूरः संग्रामदुर्द्धरस्यापि तस्य रक्षसः शिरः अर्द्धचन्द्रेण वाणिनाच्छिनत्। अथ रक्षसि हते तत् स्थानात् प्राप्तां तां सोमप्रभामादाय विज्ञानि रथेन ते सर्वे ततः उज्जयिनीं प्रत्यागमन्।

अथ हरिस्वामिगृहप्राप्तानां तेषां त्रयाणां लग्ने संप्राप्ते महान् विवादः प्रादुरभूत्। ज्ञानी अवदत् यद्यहम् इमां ज्ञानवलेन न जानीयां तदा कथमियं गूढ़स्था प्राप्येत, अतः मह्यमेवैषा देयेति। विज्ञानी अवोचत् यद्यहं व्योमरथं न कुर्य्यां तदा देवानामिवतत्र गतागतं कथं तत्क्षणं स्यात्, कथं वा तेन रथिना रथयुद्धं स्यात्, तस्मान्मह्यमेवेयं दातव्येति। शूरोऽब्रवीत् यद्यहं तं राक्षसं रणे न हन्यां तदा युवाभ्यां यत्ने कृतेऽपि क एनामानयेत्। तन्मह्यमेव

कन्येयं दातव्येति तेषु विवदमानेषु हरिस्वामी क्षणमुग्धभ्रान्तमानसस्तूष्णीमासीत्। इति कथामाख्याय वेतालःराजानं पप्रच्छ राजन्! एतेषु कस्मै सा देयेति भवान् वदतु, यदि जानन् न वदिष्यति, तदा ते मूर्द्धा शतधा स्फुटिष्यति इति वेतालवचः समाकर्ण्य राजा मौनं विहाय प्रत्यभाषत शूराय सा प्रदातव्या, येन देहपणोद्यमात् बाहुवलेन तं राक्षसं जित्वा कन्या समुपार्जिता, ज्ञानि विज्ञानिनौ तु विधात्रा अस्य सहायौ नियोजितौ। पश्य गणकतक्षाणो किं परोपकरणाय न? इति मनुजपतेर्वाचं निशम्य स वेतालः सपदि तस्य स्कन्धात् निजं निलयमगमत्। राजापि तमानेतुं पुनः कृतोद्यमस्तमेव शिंशपातरुमभिजगाम।

————

अथ अशीतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722839053Screenshot2024-08-04123406.png"/>

ततः स राजा प्राग्वत् शिंशपान्तिकमुपेत्य वेतालञ्चादाय मौनोतथैव तं भिक्षुमुद्दिश्य प्रतस्थे। तावच्च स वेतालं स्तं भूपमवादीत्, राजन्। त्वं सुधीः सत्त्ववांश्च तेनासि मे प्रियः, तस्मात् त्वां विनोदयितुं पुनःकथामाख्यामि प्रश्नञ्च, शृणु।

आसीत् पुरा यशःकेतुर्नाम नृपः पृथिव्याम्। तस्य शोभावती नाम राजधानी। तस्यामुत्तमं गौरीमन्दिर-

मभवत्। तस्य च दक्षिणतः गौरीतीर्थं नाम सरः। प्रतिवर्षम् आषाढ़शुक्लचतुर्दश्यां तस्ययात्रायां नानादिग्भयो महाजनगणःस्नातुमायाति स्म। एकदा स्नानार्थं धबलो नाम कश्चित् रजकः ब्रह्मस्थलात् ग्रामात् तत्राजगाम। स युवा तत्र स्नातुमागतां शुद्धपटनाम्नः कस्यचित् सुतां मदनसुन्दरींनाम ददर्श। तया तु इन्दोर्लावण्यहारिण्याहृतमानसः तत्र तस्या नामकुलमन्विष्य कामार्तीगृहमगात्। तत्र चागत्य अनवस्थः तथा विना निराहारश्च तिष्ठन् मात्रा पृष्टो मनोगतं तस्यै समाख्याय तथा तस्थौ। सापि गत्वा विमलनाम्ने स्वभर्त्त्रे तन्न्यवेदयत्। स चाभ्येत्य तथावस्थं त दृष्ट्वा समभ्यधात् पुत्र! किं विषोदसि, एतत्ते अभीप्सितिं न दुष्प्रापं स हि शुद्धपुटो मया याचितः अवश्यमेव सुतां तुभ्यं दास्यति। वयं कुलेन अर्थेन कर्मणा च तस्मादन्यूनाः, अहं तं वेद्मि, स च मां वेत्ति, तदिदं न दुष्करम्। इति पुत्रमाश्वास्य भोजनादिकं कारयित्वा च तेन सह अन्येद्यु रसौ विमलः शुद्धपटस्य गृहमगात्। अयाचत च तस्य धवलस्य पुत्रस्यार्थे तत् कन्याम्। स च सादरं तस्मै तां दातुं प्रतिशुश्राव।

अथ लग्नं सम्प्राप्य स शुद्धपटस्तस्मै धवलाय तुल्यां सुन्दरीं सुतां प्रादात्। स च कृतोद्वाहः दर्शनरक्तया तया भार्य्ययासाकं कृतार्थः पितुर्गृहमागात्। कदाचित् सुखस्थितस्य तस्य शुश्वरात्मजः मदनसुन्दर्य्याःसहोदरः समागात्। स चागत्य सर्वैःपृष्टकुशलोदन्तः स्वस्रा च समाश्लिष्य अभिनन्दितः विश्रान्तः प्रावदत् अहं मदन-

सुन्दर्य्याजामातुश्च निमन्त्रणार्थं तावेन प्रेषितोऽस्मि, अस्माकं गृहे पूजोत्सर्वावर्त्तते इति। ततस्ते सर्वे सम्बन्धिनः तस्य तद्वाक्यंश्रद्धाय यथोचितैः पानभोजनैः तं तदहः समुपाचरन्।

अथ प्रातः स धवलः तेन श्वशुरनन्दनेन मदनसुन्दर्य्या च सहितः श्वाशुरं गृह प्रति प्रस्थितः। ताञ्च शोभावतीं नमरींप्राप्य महद् गौर्य्यानिकेतनं ददर्श। निजगाद च तां मदनसुन्दरीं तद्भ्रातरञ्चअत्रैतां देवतां पश्याम इति। प्रथममह तावत् व्रजामि, युवामत्रैव तिष्ठतम् इति उक्त्वाधवलः तां देवीं द्रष्टुं समुपागात्। मन्दिरं प्रविश्य च तां प्रणम्यअष्टादशदोर्दण्डखण्डितोच्चण्ड-दानवांपादपद्मतलाक्षिप्तमहिषासुरमर्दिनीं विभाव्य सहसा विधिनोत्पादितमतिरचिन्तयत् विविधैर्जीवोपहारैर्जनइमां देवीमर्च्चयति, अहञ्च सिद्धये आत्मोपहारेण कि नैनां प्रीणयामि? इत्यालोच्यैव निर्जनात् गर्भगृहात् खड्गमानीय स्वयमेव निज शिरश्छित्वा भुव्यपातयत्। क्षणान्तरे कथमसौ चिरयतीति तमन्वेष्टुं स श्वाशुर्य्योऽपि तत्र देवीभवने प्राविक्षत्। प्रविष्टाश्च तं छित्रशिरसं भगिनीपति दृष्ट्वा शोकव्यामोहितः तथैव तेनासिना श्वंशिरश्चिच्छेद। अथ यावत् सो नायाति तावत् सा मदनसुन्दरी समुद्भ्रान्तमानसा तत् देवीभवन माययौ। प्रविश्य च पतिं भ्रातरञ्च तथाविध दृष्ट्वा हा। किमेवं हतास्मीति विलपन्ती भुवि न्यपतत्। क्षणेन चोत्थाय तौअकाण्डहतौ शोचन्ती किं मे अनेन जीवितेनेति पर्य्यालोच्य देहत्यागो-

न्मुखी तां देवीं व्यजिज्ञपत् देवि! सौभाग्यवारित्रविधानैकाधिदेवते! माररिपुशरीरार्द्वहरे! अशेषललनाजनशरण्ये! दुःखहारिणि!एकपदे कथं मे भर्त्ता भ्राता च त्वया निहतः? न युक्तमेतत्ते, अहं हि त्वयि नित्यभक्ता, तदाश्रिताया मे शरणं भवतीएवं करुणं वचः शृणोतु। एतां दौर्भाग्योपहतां तनुं त्यजामि अत्रैव, देवि! यत्र कुत्रापि जनिष्ये, परं तत्र तत्रैव जन्मनि एतौमे भर्तृभ्रातरौ भूयास्तामिति संप्रार्थ्य स्तुत्वा नत्वा च तां देवीं तत्रस्थे अशोकपादपे पाशं विरचयामास। तत्र यावत् पाशे कण्ठमर्पयति तावत् तत्र गगनादशरोरिणी वागुदवरत् पुत्रि। मा साहसं क्वथाः, वालाया अपि ते अनेन सत्त्वोत्कर्षेण प्रीतास्मि पाशमेतं त्यज। संश्लेषय च स्वं स्वं शिरः भर्त्तृभ्रातृकबन्धयोः, एतो जीवितौ द्वावपि मत्प्रसादादुत्तिष्ठतामिति। एतदाकर्ण्येव पाशं त्यक्त्वासा हर्षादुपेत्य अतिरभसाद्विभाव्य भ्रान्ता मदनसुन्दरी भर्त्तृशिरो भ्रातृदेहेन भ्रातृशिरश्चभर्त्तृदेहेनायोजयत्। ततश्च अक्षताङ्गौतौजीवन्तौ सुप्तोत्थिताविव उदतिष्ठताम्। अथ ते अन्योऽन्योदित स्व स्व वृत्तान्ततोषिणः देवीं प्रणम्य यथेष्टं प्रययुः। यान्तां च सा मदनसुन्दरी तयोः स्वकृतं शिरोविनिमयं दृष्ट्वा उद्विग्ना किं कर्त्तव्यविमूढ़ा चासीत्। इमामाख्याय कथां वेतालःपप्रच्छ राजन् ब्रूहि! कः सङ्कीर्णयोरनयोरस्या भर्त्ता भवितुमर्हति! जानं श्चेत् न ब्रवीषि तदा पूर्वोक्त एव शापःस्यात् इति समाकर्ण्यराजा तं वेतालमवादीत् यस्मिन् कलेवरे तत् पतिशिरः संस्थंस एवास्याः पतिर्भवेत्

प्रधानं सर्वेषु अङ्गेषु शिरः तद्गता प्रत्यभिज्ञा च इत्युक्तवतो नृपतेःस्कन्धात् स वेतालस्तथैवातर्कितः सहसा प्रययौ। राजा च भूयस्तमानेतुं समुद्यतस्ततैव जगाम।

————

अथ एकाशीतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722623511Screenshot2024-08-01215402.png"/>

ततः स राजा पुनः शिंशपान्तिकमेत्व तथैव वेतालं स्कन्धमारोप्य प्रतस्थे। प्रस्थितञ्च तं वेतालः पथि समभाषत, राजन्! पुनस्ते श्रान्तिविनोदिनींकथामेकां कथयामि शृणु।

अस्ति पूर्वाम्बुधितटे ताम्रलिप्तीति पुरी। तस्याञ्च चण्डसिंहो नाम राजाभूत्। यः परस्त्रीषु पराङ्मुखः परं संग्रामभूमिषु न। शत्रुसङ्घानां हन्ता, परद्रव्यसम्पदान्तु न। एकदा तस्य भूपतेः द्वारि दाक्षिणात्यः सत्त्वशैलोनाम जनप्रियः कश्चित् राजपुत्रः समभ्यगात्। तत्रागत्य स आत्मानमावेद्य नृपात् नैव काममवाप। ततश्चस यावत् यदि मे राजान्वये जन्म, तदीदृशं निर्धनत्वं किम्? निर्धनत्वे च धात्रा कि मे महेच्छता विहिता? अयं हि राजा सेवमानमेवं क्लिष्टपरिच्छदं चिरं क्षुधा अवसीदन्तं मां नाद्यापि पश्यति, इति ध्यायति तावत् स नृपः आखेटकार्यं निरगात्। अग्रे च तस्मिन् कार्पटिके राजपुत्रे लगुड़वाहिनि धावति राजा प्रभूताश्वपादातयुतः पायात्।

तत्र च मृगान् समन्विष्यन् आरात् महान्तं शूकरमनुधावन् अतिदूरं वनान्तरं प्रापत्। तत्रपर्णतृणच्छन्नमार्गतया शूकरं तमपश्यन् श्रान्तः स राजा तस्मिन् वनान्तरे दिङ्नाहमगमत्। एक एव स कार्पटिको राजपुत्रः प्राणानपेक्षो पदातिः क्षुत्तृषापरीतः वाताश्वपृष्ठगं तं राजानमनुससार। स राजा तं तथानुयान्त्र दृष्ट्वा सस्नेहमवदत् भद्र! कश्चित् यथागतं मार्गं वेत्सि? तदाकर्ण्यस बद्धाञ्जलिः कार्पटिकोऽभ्यधात् देव! वेद्मि परं इह क्षेणं विश्राम्यतु देवः, एष खलु दिवो वध्वा मेखलामध्यमणिः स्फुरद्रश्मिजालोऽञ्जिनीनायकोऽतितरां देदीप्यते। एतदाकर्ण्य स राजा सनिर्बन्धं तमभाषत तर्हि क्वापीह भवता पानीयं दृश्यताम्। स च कार्पटिकस्तथेत्युक्त्वातुङ्गं तरुमारुह्य समन्तात् पश्यन् नदीमेकां दृष्ट्वा अवरुह्य तं नृपं तत्र निनाय।नीत्वा च तदीयंवाहं विपर्य्याणोकृतं कृत्वा अम्बूनि शष्पाणि च दत्त्वा विगतश्रममकरोत्। ततश्च स कृतस्नानाय राज्ञे वसनाञ्चलात् प्रोन्मुच्य आमलकानि फलानि प्रक्षाल्य तस्मे हृद्यानि उपानयत्। एतानि कुतः प्राप्तानि? इति पृच्छन्तं भूपतिं स कृताञ्जलिर्व्यजिज्ञपत्, देव! एतद्वृत्तिरहं नित्यं व्यतीतदशवत्सरः देवमाराधयन् अनैकान्तमुनिव्रतं चरामि। इति श्रुत्वा राजा सत्त्वशील।त्वं सत्यनामा, किमुच्यते इति अभिधायं कृपाक्रान्तः लज्जितश्चाचिन्तयत् धिक् नृपान्, ये भृत्येषु क्लिष्टमक्लिष्टंन जानन्ति। धिक् तत्परिवारान् ये प्रभुं तत्तत् न ज्ञापयन्ति, इति सचिन्त्य स राजा द्वे

आमलके कार्पटिकहस्तात् कथञ्चिदनुबन्धतः प्रतिजग्राह। विशश्राम च ते भुक्त्वाअम्बु च निपीय क्षणं तेन जग्धामलकपोतजलेन कार्यटिकेन सह। ततः तेन कार्पटिकेन सज्जीकृतं वाहमारुह्य तस्मिन्नग्रेसरे गच्छति मार्गदर्शिनि राजाज्ञया हयस्य पश्चाद्भागासनस्थिते स राजा पथि सम्प्राप्तसैनिकः स्वां पुरीं प्रायात्। तत्रागत्य तस्य कार्पटिकस्य भक्तिं प्रख्याप्य वसुभिः कार्पटिकं पूरयित्वापि निष्कृतिं नामन्यत। ततः स कृतार्थः चण्डसिंहस्य भूपतेः पार्श्वचरः त्यक्तकार्पटिकाचारः सत्त्वशीलस्तस्थौ।

एकदा राजा तं सत्त्वशीलं सिंहलेश्वरसुतामात्मार्थं याचितुं सिंहलद्वीपं प्रैषयत्। ततश्च स गच्छन् अभीष्टदेवतामर्च्चयित्वा राजादिष्टैः द्विजैः सह प्रवहणमारुरोह। तस्मिंश्च प्रवहणे मध्यभागमशङ्कितं गते सहसा तस्मात् जलधेः अभ्रंलिहाग्रः सुमहान् जाम्बूनदविनिर्मितः विचित्रवर्णविचलद्वैजयन्तीविभूषितः गजः विस्मयं जनयन् उत्तस्थौ। तस्मिंश्च काले समुन्नद्धघनावली सहसा भृशं वर्षितुमारेभे, तीव्रो मारुतश्च ववौ। स द्विपःवर्षवातैर्बलादाकृष्य आधोरणैरिव तस्मिन् प्रवहणध्वजस्तम्भे आसज्यत। तावच्चतस्मिन् वोचिविप्लुते वारिधौस ध्वजस्तेन वहनेन समं मज्जितुं प्रावर्त्तत। ततस्ते द्विजा तत्रस्थाश्चण्डसेनं स्वभूपतिमुद्दिश्य भयार्त्ताः अब्रह्मण्यमुदघोषयन्। तदाकर्ण्य स सत्त्वशीलः स्वामिभक्त्यतिशयात् असहिष्णुः निस्त्रिंशहस्तः बद्धोत्तरीयकः अनुध्वजमात्मानं निरपेक्षःवारणाशङ्घीउदधेः प्रतिविधित्सया

प्रक्षिपत्। अथ तस्मिन् मग्ने वातोमिभिर्दूराक्षिप्तंतत् प्रवहणमभज्यत। तत्स्याश्च सर्वे यादसां मुखे निपेतुः। स च सत्वशीलोऽम्बुधौ मग्नो यावत् निरीक्षतेस्म तावत्तत्र दिव्यं पुरं ददर्श न वारिधिम्। तत्र मणिमयस्तम्भभास्वरे हेममन्दिरे सद्भिः रत्नैर्वद्धसोपानवापीके उद्यानशालिनि नानामणिशिलाभित्तिरत्नचित्रोच्छ्रितध्वजं मेरुप्रोन्नतं कात्यायनीमन्दिरं प्रविश्य तां तत्रस्थां देवीं प्रणम्य स्तुत्वा अभ्यर्च्य च तदग्रतः किमेतदिन्द्रजालमिति सविस्मयमुपाविशत्। तावच्च सहसा कापि दिव्या इन्दीवराक्षीचन्द्रवदना कुसुमस्मिता मृणालमृदुकलेवरा स्त्रीसहस्रपरिवारा सहसा कवाटमुद्घाट्य देवीगर्भगृहं सत्त्वशीलस्य च हृदयं समं विवेश। सा च तत्र देवीमभ्यर्च्य तस्मात् गर्भगृहात् निरगात् न पुनः सत्वशीलस्य हृदयात्। प्राविशच्चतत्रैव प्रभामण्डलकान्तरे। सत्त्वशीलोऽपि तामनुजगाम। ददर्श च अन्यत् उत्तमं सर्वासां भोगसम्पदां सङ्केतोद्यानमिव भवनम्। तत्रान्तर्मणिपर्य्यङ्कनिषण्णां तां विलोक्य समुपेत्य तत्पार्श्वे समुपाविशत्। आसीच्च तन्मुखासक्तलोचनो लिखित इव। इत्थं सोत्कम्पपुलकैरङ्गैर्वदनालोकनोत्सुकं तं स्मराविष्टं दृष्ट्वा कापि तदीया चेटी तदीङ्गितज्ञा तमब्रवीत् भद्र! अतिथिस्त्वमिह प्राप्तः, तदस्मात् स्वामिन्या कृतम् आतिथ्यंभजस्व, उत्तिष्ठ, स्नाहि भुङ्क्ष्व, तदाकर्ण्य स आशां कथञ्चित् तदुक्तितःसम्प्राप्य तया दर्शितामेकां उद्यानवापीमगात्। उदतिष्ठच्च तस्यां निमग्नस्तत्क्षणं

ताम्रलिप्त्यांचण्डसिंहस्य नृपतेर्वापीमध्यात्। तत्राकस्मात् प्राप्तमात्मानं वीक्ष्य सोऽचिन्तयत् अहो! किमेतत् क्व तदुद्यान दिव्यं क्व च तत्र अमृतसारमयं तस्या दर्शनं, क्व चानन्तरमेव तद्विश्लेषमहाविषमिदम्। स्वप्नोऽयं न, विनिद्रोऽहं न्यूनं तया चेष्ट्या अहं विप्रलब्धः विमूढोऽस्मि। इति चिन्तयन् तां कन्यां विना सोन्माद इव तस्मिन्नुद्याने भ्रमन् कामार्त्ती विललाप। तदवस्थञ्च पिशङ्गैःपुष्परेणुभिर्वातोद्धूतैर्वियोगानलैरिव परीताङ्गंतं दृष्ट्वा उद्यानपालः चण्डमिहं महीपतिं गत्वा व्यजिज्ञपत्। स च तदाकर्ण्य उद्भ्रान्तः स्वयमेत्य तं ददर्श पप्रच्छ च सान्त्वयन् किमिदं ब्रूहि सखे! त्वं क्व प्रस्थितः, क्व च प्राप्तः क्वआस्थाः, क्व च पतित इति तदाकर्ण्य स तस्मै सर्वं वृत्तान्तमशमत्। राजा व्यचिन्तयत् हन्त वीरोऽयं मत्पुरयैःकामेनैष विडम्बितः तदिदानीमस्यानृण्यंलब्धुमयमवसरो मया प्राप्तः। इति चिन्तयित्वा स राजा तं जगाद सखे। सुधा शोकग्रीक मुञ्च, अहं त्वां तेनैव मार्गेण नीत्वा तामसुरकन्यकां प्रापयामि इति उक्त्वास्नानादिना तं समाश्वासयत्।

अथान्येद्युः मन्त्रिविन्यस्त राज्यभारः तेन समं प्रवहणारूढः तद्दर्शितेन अम्बुधि मार्गेण गच्छन् तन्मध्यभागे प्राग्वत् समुत्थितं सपताकं ध्वजंददर्श! तदवलोक्य सत्त्वशीलोराजानमभ्यधात् देव! सोऽयं दिव्यप्रभावो महाध्वजः समुत्थितः,मयि अत्रमग्ने देवेनानुध्वजंमज्जनीयम् इत्युक्त्वाअस्य निमज्जतो ध्वजस्य,

निकटं प्राप्य स सत्त्वशीलः पूर्वमात्मानं तत्र न्यक्षिपत्। ततो राजापि तमनु आत्मानं निचिक्षेप। अन्तर्मग्नो च तौतत्र तत् दिव्यं पुरमवापतुः। तच्च दृष्ट्वा राजा सविस्मयो देवीं तां पार्वतीं प्रणम्य सत्त्वशीलेन सममुपाविशत्। तावच्च तत्रसा कन्या सखीजनसमन्विता रूपिणौ प्रमेव ततः प्रभामण्डलकात् निरगात्। इयं सा सुमुखीति सत्त्वशीले वदति स राजा तस्यामस्यान्नुरागी युक्त इत्यमन्यत। सापि तं राजानं दिव्यशरीरलक्षणंं वीक्ष्या चिन्तयत् कोऽयमपूर्वः पुरुषातिशयः, विवेश च अम्बिकापूजार्थं तन्मन्दिरम्। सोऽपि नृपः तं सत्त्वशीलमादाय अवज्ञां प्रदर्शयन् उद्यानमाजगाम। क्षय्येन च सा कन्यका कृतदेवीपूजा तस्या देव्याः सत्पतिलाभं याचित्वा तद्गृहाभ्यन्तरात् निर्गत्य सखीमेकां प्राब्रवीत् सखि। क्वामौ वीक्ष्यतां यो मया इह दृष्टः, स महात्मा क्व तिष्ठति? युष्माभिर्विचित्य आतिथ्यमेत्य ग्टह्यतां प्रसादो मे त्वया क्रियतामित्येवं अभ्यर्थनीयः स हि पूज्यः कोऽपि उत्तमः पुमान्। एवं तयोक्ता सखी तं विचित्य उद्यानवर्त्तिनं स्वस्वामिनीनिदेशं प्रह्वा व्यजिज्ञपत्। तदाकर्ण्य वीरो नृपः सावज्ञंतामुवाच भद्रे! वचसैव कृतमातिथ्यं नान्यत् किमपि उपयुज्यते। एतदाकर्ण्य तया सख्या गत्वा साअसुरनन्दिनी श्राविता तदा उदारं तमसामान्यंकमपि अभ्यमन्यत। ततस्तेन मानुषायोग्येऽपि आतिथ्ये निस्पृहेण तेन राज्ञा धैर्य्यपाशेनाकृष्यमाणा पत्यर्थपार्वतीसेवा परिपाकसमन्विता दैत्यकन्यका स्वय-

मुपेत्य उद्यानं प्राविशत्। प्रविश्य च राजानं तमभ्येत्य प्रश्रयान्विता आतिथ्यग्रहणार्थं प्रार्थयामास। ततः स नृपस्तं सत्त्वशीलमुद्दिश्य तामुवाच भद्रे! अनेन कथितां देवीमिह द्रष्टुमहमागतः, दृष्टा च सा गौरीपरमाद्भुतकेतन ध्वजपथं प्राप्य, तदनु त्वञ्च। तदाकर्ण्य सा कन्यका प्रत्यभाषत राजन्! तर्हि कौतुकात् त्रिजगदद्भुतं पुरं वीक्षितुमागम्यताम्। एवं वादिनीं तां स नृपो विहस्यावदत् तदपि अनेन मे कथितं यत्र सा स्नानवापी अस्तीति। कन्यकावादीत् देव! मैवमादिश, नाहं विडम्बनशीला पूज्ये विडम्बना का? विशेषतस्त्वहं युष्माकं सत्त्वोत्कर्षण किङ्करीकृतामि। तन्मम प्रार्थनाभङ्गं मा कुरुष्व, एतदाकर्ण्य स राजा सत्त्वशीलेन सहितः तथेत्युक्ता तया सह प्रभामण्डलोपान्तं ययौ। अथ अपावृतकवाटे। तस्मिन् प्रविष्टः अपरं दिव्य नित्यं सर्वर्त्तुकुसुमफलशोभितं रत्नकाञ्चनैर्निर्मितमपर मेरुपृष्ठमिव पुरं ददर्श। तत्र सा महार्हे रत्नासने राजानमुपवेश्य यथोचितं अर्घ्यादिकमानाय्य राजसुताब्रवीत् महाभाग। अहमस्मि असुरेन्द्रस्य महात्मनःकालनेमेःसुता। चक्रिणा स मम पिता स्वर्गं प्रापितः। इदञ्च मे पैतृकं पुरद्वय विश्वकर्मणा कृत, सर्वकामदे अत्र न जरा न च मृत्युः बाधते। इदानीञ्च त्वं मे पिता सपुराया इति समर्पितात्मसर्वस्वां तामवादीत् स राजा। यदि एतत् तर्हि त्वं मम सुता अस्मै सत्त्वशीलाय सुहृदे वीराय बान्धवाय च मया दत्ता, एवं देवीप्रसादेन मूर्त्तेनैव नृपेण

सा उक्ता गुणज्ञा विनता तं राजानं तथेति अन्वमन्यत। ततस्तस्याः पाणिग्रहं कृत्वा कृतार्थे तस्मिन् सत्त्वशीले राजा असुरैश्वर्यंसर्वं दत्त्वा तं सत्वग्रीलमुवाच सखे! भुक्तयोरामल्कयोरेकमद्य मया तव संशोधितम् असंशोधितात् द्वितीयात् तेऽहं ऋणी तिष्ठामीति प्रणतं तमुक्त्वा तां दैत्यपुत्रीमब्रवीत् भद्रे! मार्गो मम दर्श्यतां येन स्वां पुरीं प्राप्नुयामिति ततः सा अपराजितं नाम खड्गम् एकञ्च जन्मजग मृत्य हरं फल दैत्यनन्दिनी तस्मै भूपाय प्रादात्। अथ सराजा ताभ्यां खड्गफलाभ्यामन्वितः तयोक्तायां तस्यामेव वाप्यां मग्नः स्वदेशतः समुत्थाय सर्वकार्य्यसिद्धिमानभूत्। स च सत्त्वशीलः दैत्यस्त्रीपुरराज्यं सुखेन शशास। इति कथामाख्याय वेताली राजानमप्राक्षीत् राजन्! कोऽनयोर्द्वयोरञ्चिपतने सत्त्वाधिक इति। तदाकर्ण्य राजा शापाद् भीतः सदुत्तरमेव प्रत्यभाषत एतयोः सत्त्वशील एव अधिकः सत्त्ववान् मे प्रतिभाति, स हि पूर्वम् अविज्ञाततत्त्वः निराश एवाम्बुधो पतितः। राजा तु तत्त्वं विज्ञाय अम्भोधिमाविशत् इति समाकर्ण्य राज्ञो निरस्तमौनस्य वचन गवेतालः स्कन्धात् पूर्ववत् अलक्षितः तमेव शिंशपातरुमगमत्। राजापि पूर्ववत् तमानेतु पुनरुद्योगमकरोत्। नहि प्रारब्धे असमाप्ते धीराः शिथिलो भवन्ति।

————

द्वादशीतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722667293Screenshot2024-08-03120006.png"/>

ततश्च स राजा भूयः भिंशपामूल गत्वा तं वेतालं तथैव प्राप्य स्कन्धे कृत्वा भिक्षुमुद्दिश्य प्रातिष्ठत। प्रयान्तञ्च तं स स्कन्धवर्त्ती वेतालः सम्बोध्य प्राब्रवीत् राजन्! श्रमविनोदाय पुनरिमां कथामाकर्णय।

अस्त्यङ्गदेशे महान् वृक्कघटाभिधः जनपदः। तत्र विष्णुस्वामीति महान् यज्वा महाधनी द्विजः प्रतिवसति। तस्य स्वानुरूपायां पत्न्यां क्रमात् त्रयः पुत्रा जज्ञिरे। कदाचित् ते तरुणाः भोगवेदग्धाशालिनः कूर्महेतोः पित्रा प्रारब्धयज्ञेन प्रेषिताः भ्रातरः अम्बुधिंययुः तत्र कूर्ममेकं प्राप्य ज्यायान् कनिष्ठावाह स्म युवयोरेकः कूर्ममिमं पितुः क्रत्वर्थं गृह्णातु अहमेनं विस्रं पिच्छिलञ्च ग्रहीतुं न शक्नोमि इत्युक्तवन्तं तं ज्येष्ठं कनिष्ठावूचतुः आर्य्य! तवात्र चेत् विचिकित्सा, तदावयोः कथं न स्यात्। तदाकर्ण्य स ज्येष्ठोऽवादीत् युवां कच्छपं गृहीतम् अन्यथा युवाभ्यां कृते पितुर्यज्ञलोपः स्यात्, ततो युवयोस्तस्य च पितुः ध्रुवं नरकपातः स्यात्। इति तेनोक्तावनुजौविहस्य तमवोचताम् आर्य्य! आवयोरेव समानं धर्मं वेत्सि नात्मनः?ततो ज्यष्ठोऽवादीत् किं युवां मम भोजनचण्डतां न जानीथः? अहं हि भोजनेषु चण्डः, कथमिमं जुगुप्सितं स्पृशामि? एतत्तस्य

वचः श्रुत्वा मध्यमोऽब्रवीत् अहं हि अधिकश्चण्डः नारीषु विचक्षणः तत् कथमिमं स्प्रष्टुमर्हामि। एवं मध्यमेनोक्ते ज्येष्ठः कनीयसमवादीत् त्वं तावत् आवयोः कनीयान् कूर्मं गृहाण। ततः स कनीयान्भ्रूकुटिं विधाय ताववोचत् मूर्खौ! अहं हि विशेषेण तूलिकाचण्डः। इत्थं ते कलहासक्तास्त्रयो भ्रातरः निर्णयाय अभिमानिनः तं कूर्मं विहाय प्रसेनजिदाख्यस्य भूपतेर्नगरं विटङ्कपुरं ययुः। तत्र गत्वा प्रतीहारमुखेनावेद्य तेन च प्रवेशितास्तं नृपं तं वृत्तान्तं विज्ञापयामासुः। राजा च सर्वं श्रुत्वाब्रवीत् तिष्ठत यूयमत्र परीक्षिष्ये वः क्रमात् इति। ततस्ते तथेत्युक्त्वासर्वे नत्रावतस्थिरे। ततः स नृपः स्वाहारकाले तानानीय तेभ्यः अग्र्याणि आसनानि राजार्हाणि च षड्रसानि स्वाटूनि आन्नादीनि दापयामास। ततः सर्वेषु भुञ्जानेषु तेषामेको विप्रः भोजनचण्डो जुगुप्साकलिताननो न बुभुजे। कथं न भोजनं स्वादु सुगन्ध्यपि न भुङ्क्ते इति राजा स्वयं पृष्टः स शनैर्जगाद, राजन्! अस्मिन् भक्ते शवधूमदुरामोदो वासते, तेनाहमिदं भोक्तुं स्वादु अपि नेच्छामि। इत्युक्ते तेन सर्वेऽपि नृपाज्ञया तदाघ्रायकलमशाल्यवमिदं सुगन्धि चेति शशंसुः। स तु भाजनचतुरः पिहितनासिकस्तत्र बुभुजे। ततः स राजा सञ्चिन्त्य क्रमात् यावदन्विष्यति तावन्नियोजितजनमुखात् तदन्नंग्रामश्मशाननिकटक्षेत्रसम्भवशालिजंबुबुधे। ततोऽतिविस्मितस्तुष्टश्च राजा तमभाषत ब्रह्मन्! सत्यं त्वं भोजनचण्डः तदन्यत् भुज्यतामिति।

ततो राजा छताहारान् तान् वासगृहेषु विसृज्य स्वामेकां गणिकोत्तमाम् आनयामास। प्राहिणोच्च निशि तां सर्वाङ्गसुन्दरीं कृतमण्डनां तस्मै द्वितीयस्मै नारीचण्डाय भ्रात्रे। सा च राजभृत्येनान्विता तस्य द्वितीयस्य वासगृहं प्रागात्। तस्याञ्च प्रभासितवेश्मनि प्रविष्टायां समुत्पन्नमोहःवामपाणिना संरुद्वनासायोऽसौ नारीचतुरो राजभृत्यानब्रवीत् निष्काश्यतामेषा, नो चेत् म्रियेऽहम्, अस्याश्छागलगन्धो निर्याति। इत्युक्त्वाराजपुरुषाः समुद्विग्नाःसविस्मयाश्च तां ततो राजान्तिकं नीत्वा तं वृत्तान्तं तस्मै न्यवेदयन्। राजा तं नारीचण्डमानीय तदाब्रवीत् ब्रह्मन्! येय चन्दनकर्पूरकालागुरुभिः कृतदेहविलेपना दिक्षु प्रसरञ्चारुसौरभा वर्त्तते, तस्या वारविलासिन्याश्छागलगन्धः कुतः? इत्युक्तोऽपि स नारीचण्डः यदा न प्रतिपेदे तदा राजा विचारकुतुकोऽभवत् अबुध्यत च तां तस्या एव मुखेन शैशवे मातृवियोगात् अजाक्षीरविवर्द्धिताम्। ततो राजा अतिविस्मितस्तस्य नारीचण्डस्य चण्डतां बहु प्रशंसन् तस्मै तृतीयाय तूलिकावद्वाय आशु शय्यामदापयत्। स च तूलिकाचतुरः पर्य्यङ्गोपरि सप्तसङ्ख्यातूलिकायां शय्यायां धौतश्लक्ष्णपटप्रच्छदवाससि सुष्वाप। रात्रेर्यामार्द्धएव गते स सहसा पाणिना अवष्टब्धपार्श्वः क्रन्दन् व्यथाकुलः तस्मात् शयनादुत्तस्थौ। तत्रस्थैश्चराजपुरुषैः तस्य पार्श्वे गाढ़लग्नस्य केशस्य कुटिलारुणामुद्रे चअदृश्यत। तैश्च तत्क्षण गत्वा निवेदितो राजा तानुवाच तुलिकानांतलेषु किञ्चित् स्यात् न वा वीक्ष्यताम्। ततस्ते गत्वा यावदीक्षन्ते एकैकं

तूलिकातलं तावत् सर्वतले स्थितमेकं बालं प्रापुः, दर्शयामासुश्च तं नीत्वा तत्क्षणं राज्ञे, स च राजा तं तूलिकाचण्डमानीय तस्याङ्गंतद्रूपमङ्कितं दृष्ट्वा परं विस्मयमवाप। सप्तभ्यस्तलिकाभ्यः अस्य तनो कथमयं बालो मग्न इति चित्रीयमाणस्तां रात्रिमनेषीच्च। प्रातश्चोत्थाय राजा अद्भुतवैदग्ध्यसौकुमार्य्याअमी इति परितुष्टः तेभ्यस्त्रिभ्योऽपि चण्डेभ्यो हेमलक्षत्रयं ददौ। ततस्ते सुखिता विस्मृतकच्छपाः पितुर्यज्ञविघ्नेन उपार्जितपातकास्तत्र तस्थुः। इति अद्भुतां कथामाख्याय स्कन्धनिषण्णःस वेतालः तं राजानमपृच्छत् राजन्! पूर्वोक्तं शापं विचिन्त्य त्वं एषां त्रयाणां कोऽधिकश्चण्डः इति ब्रूहि। तदाकर्ण्य स धीमान् नृपति स्तवेतालं प्रत्यभाषत अहमेतं अकेतवं तूलिकाचण्डमधिकं मन्ये यस्याङ्गे बालप्रतिबिम्बं प्रत्यक्षमुद्गतं दृष्टम्। इतराभ्यान्तु कदाचित् तत्पूर्वमवगतं सम्भवेत्। इत्युक्तवतो नरपतेः स्कन्धात् स वेतालः प्राग्वत् प्रययो। राजापि तमानेतुं पुनः शिंशपातरुमूले तमन्वगात्।

————

त्रयशीतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722709598Screenshot2024-08-03120006.png"/>

ततः स राजा पुनः शिंशपान्तिकं गत्वा तं वेतालं स्कन्धेनादाय प्रस्थितस्तेन वेतालेन प्राग्वदभ्यधायि राजन्! कथमस्मिन् श्मशानेनिशिते एतादृक् प्रयासः भूतसङ्कुल

रात्रिभीषणं चिताधूमैरिव ध्वान्तैर्निरुद्धंपितृकाननं किं नेक्षसे? तस्य भिक्षोरनुरोधतः कथमीदृशाप्रयासेन आत्मानं खेदयसि? तदिमं मे प्रश्नंमार्गविनोदकं शृणु।

अवन्तीषु युगादौ देवनिर्मिता शैवी तनुरिव उद्दामभोगभूतिविभूषिता पद्मावती, भोगवतीहिरण्यवतीति च कृतादिषु त्रिषु युगेषु पुरी क्रमशः आसीत्, कलौ च उज्जयिनोति पुरीअस्ति। तस्यामासीत् वीरदेवो नाम नृपतिः। तस्य पद्मरतिर्नाम्नोमहादेवी आसीत्।

एकदा राजा तयासाकं मन्दाकिनीतटे पुत्रकाम्यया तपसाहरमाराधयामास, चिरञ्च तपश्चरन् कदाचित् परितुष्टमङ्करोदिताम् आकाशवाणीं शुश्राव राजम्। उत्पत्स्वतेते पुत्रः शूरः कुलोद्वहः। कन्या चैका लावण्येन जिताप्सराः। एतां नाभमों वाणींश्रुत्वा स भूपतिरभीष्टसिद्धिप्रहृष्टः महिष्वा समं स्वनगरीमाययौ। तस्य प्रथमं पद्मरत्यां देव्यां शूरदेवोनाम पुत्रः, तदनु च अनङ्गरतिर्नाम अनङ्गमोहिनी कन्या समजायत। क्रमेण च तस्यां वृद्धिं गतायां स राजा सदृशंवरं प्रेप्सुः पृथिवीमण्डलस्थान् सर्वान् नृपतीन् पटलिखितानानाययत्। यदा तेषु एकोऽपि तस्याः सदृशो न प्रत्यभासत, तदा स राजा वात्सल्यात् तां सुतामभाषत वत्से! अहं तावत् ते सदृशं वरं न पश्यामि, तत् सर्वान् नृपान् समानाय्य स्वयंवरं कुरुष्व। एतत् पितृवचनमाकर्ण्य सा राजपुत्री जगाद तात! स्वयंवरमतिह्वेपणं तदहं नेच्छामि, यो हि युवा सुरूपः केवलं पूर्णां विज्ञानं वेत्ति, तस्मै

त्वया अहं देया, न्यूनाधिकेन मे नास्ति प्रयोजनम्। इति दुहितुर्वचः समाकर्ण्य यावत् स भूपतिस्तादृशं वरम् अन्विष्यति, तावत् तत् लोकमुखात् विदित्वा चत्वारो वीरा विज्ञानिनो भव्याः पुरुषा दक्षिणापथात् तं राजानमाययुः। ते च राज्ञासत्कृताः एकैकशः स्वं स्वंविज्ञानं राजसमक्षंशशसुः। तेषामेको जगाद अहं तावत् शूद्रः नाम्म्रा पञ्चफुट्टिकः। एकोऽहमन्वहं पञ्च अग्र्याणिवसनयुग्मानि करोमि, तेषामेकं देवाय प्रयच्छामि, एकं द्विजाय, एकमात्मनः कृते परिगृह्णामि, एकञ्च भार्य्यायै (या मे भवति) ददामि। पञ्चमञ्च विक्रीय आहारादिकं विदधामि। तदेवं विज्ञानिने मह्यम् अनङ्गरतिस्ते दुहिता दीयतामिति। द्वितीयोऽब्रवीत् अहं तावत् वैश्यः, भाषाज्ञो नाम, सर्वेषां मृगपक्षिणां रुतं वेद्मि, तदेषा राजपुत्री मह्यं दीयतामिति। ततस्तृतीयोऽभाषत अहं खड़्गधरो नाम भुजवीर्य्यशाली क्षत्रियः, खड्गविद्याविज्ञाने अस्यां क्षितौ मे प्रतिमल्लो नास्ति। हे राजन्! तटेषा तनया ते मह्यं दीयतामिति। अतश्चतुर्थोऽब्रवीत् राजन्! अहं तावत् जीवदत्तो नाम विप्रः, मम चैतादृशं विज्ञानमस्ति यन्मृतानपि जन्तून् आनीय आशु जीवतो दर्शयामि, तद्वीरचर्य्यासिद्धं मां एषा ते तनया पतिं प्रपद्यतामिति। एवं ब्रुवतः तान् दिव्यवेशाकृतीन् पश्यन् राजा वीरदेवः सुतया दालारूढ़ इवाभवत्। इति कथामाख्याय वेतालः राजानमप्राक्षीत् राजन्! पूर्वोक्तं शापं स्मृत्वा ब्रूहि एतेषां कस्मै कन्येषा देयेति। एतदाकर्ण्य राजा तं

वेतालं प्रत्यवादीत् भवान् केवलं कालक्षेपाय मां मोक्षं त्याजयति अन्यथा कोऽयं गहन प्रश्नस्तदुच्यतां शूद्राय कुविन्दाय कथं क्षत्रिया दीयते वैश्याय च, यच्च तद्गतं मृगादिभाषाविज्ञानं तत् कस्मिन् कार्ये उपयुज्यते? विप्रेणापि तेन स्वकर्मप्रच्युतेन ऐन्द्रजालिकेन पतितेन वीरमानिना किम्? तस्मात् क्षत्रियायैव खड्गधराय विद्याशौर्य्यशालिने सा देयेति। एतत्तस्य वचो निशम्य स वेतालःयोगबलात् स्कन्धदेशात् सहसा अलक्षितः क्वापि जगाम। राजापि तथैव तमनुययौ। सोत्साहधने हिवीरहृदये न जातु खेदोऽन्तरं लभते।

————

अथ चतुरशीतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722755208Screenshot2024-08-04123406.png"/>

ततश्च स राजा पुनः शिंशपामूलं गत्वा तं वेतालं तथैव स्कन्धमारोप्य सत्वरं कृतमौनः समुच्चचाल। प्रयान्तञ्च तं स्कन्धवर्त्ती स वेतालस्तमपृच्छत् राजन्! श्रान्तोऽसि, तदिमां श्रान्तिहारिणीं कथां शृणु।

आसीत् वीरबाहुर्नाम सकलभूपालशिरः समभ्यर्च्चितशासनः पाकशासन इवापरो नृपतिः। तस्यानङ्गपुरं नाम नगरवरमभवत्। तत्रार्थदत्तो नाम महाधनः सार्थवाहः प्रतिवसति स्म। तस्य धनदत्तो नाम ज्येष्ठः पुत्रः कनीयसौ च कन्या मदनसेना नाम समजायत।

एकदा धर्मदत्तो नाम कस्यचित् बणिक्पतेस्तनयः तां लावण्यरसनिर्झरां कुचकुम्भाग्रबलित्रितयरञ्जितां यौवनद्विरदस्येव लीलामज्जनवापिकां वीक्ष्य सद्यः स्मरवाणीधपातापहृतचेतनः समपद्यत। अहो।मारेण धाराधिरूढ़ेन अमुना रूपेण द्योतिता भल्ली मे हृदयं भेत्तुमिव निर्मिता। इत्येवं प्रासादाग्रमारूढां तां दृष्ट्वा चिन्तयतः चक्राह्वस्येव तस्य वासरोऽतिचक्राम। ततः सा मदनसेना चित्तञ्च तस्य धर्मदत्तस्य तद्दर्शनदुःखाग्निसन्तप्तं ज्वलत् गृहान्तरं विवेश। भास्वांश्च तद्दर्शनजनितरागोऽपराम्बुधौ निपपात। ताञ्च सुमुखीं नक्तम् अभ्यन्तरागतां दृष्ट्वा तन्मुखाञ्जविनिर्जितश्चन्द्रः शनैरुदगात्। धर्मदत्तश्च तावत् गृहं गत्वा तामनुचिन्तयन् शयने चन्द्रपादाहतो लुठन् निपत्य तस्थौ। यत्नेन सखिभिर्बन्धुभिश्च पृच्छ्यमानो न किञ्चित् कथयामास। निशि च कृच्छ्रात् प्राप्तनिद्रः तथैव तां पश्यन् अनुनयंश्चसमुत्सुकः किमिव नाकरोत्। प्रातश्च प्रबुद्धोगत्वा रहसि सखींप्रतीक्षमाणाम् उद्यानवर्त्तिनीं ददर्श। उपेत्य च परिष्वङ्गलालसः प्रेमपेशलैर्वचोभिश्चरणानतः उपच्छन्दयामास। साब्रवीत् अहं कन्या, साम्प्रतं ते परदाराश्च, यतोऽहं पित्रा समुद्रदत्ताय बणिजे वाचा दत्ता, कतिपयैरेव दिनैर्विवाहो मे भविता, तत् तूष्णीं गच्छ मा कश्चित् पश्येत् ततो दोषो भवेत्। इत्युक्तस्तया त्यक्तश्च स धर्मदत्तस्तां जगाद सुन्दरि! यदस्तु, त्वां विना नाहं जीवेयम्। तदाकर्ण्यसा बणिक्सुता बलात्कारभयाकुला तमुवाच तर्हि विवाहो मे तावत्

सम्पद्यतां पिता मे चिरकाङ्क्षितं कन्यादानफलं लभतां, ततोऽह त्वां निश्चितं प्रणयेन समुपेष्यामि। तदाकर्ण्य सोऽब्रवीत् अन्यपूर्वामम प्रिया नेष्टा, परभुङ्क्ते कमले विमलेऽपि किं रतिर्जायते? इति तेनाभिहिता सावादीत् तर्हि कृतोद्वाहेव पूर्वं त्वामुपयास्यामि, ततः पतिमिति एवमुक्तवतीं तां बणिक्पुत्रींप्रत्ययार्थं शपथेन सत्येन स धर्मदत्तः सम्बबन्ध। ततस्तेनोज्झिता सा समुद्दिग्ना स्वांमन्दिरं विवेश।

अथ प्राप्ते लग्नदिवसे निवृत्तोद्वाहमङ्गला सा गत्वा पतिगृहं नीत्वा च उत्सवेन वासरं निशि पत्या समं शयनीयगृहमध्यास्त। तत्र शय्यानिषणापि असम्मुखो समुद्रदत्तस्य तस्य पत्युः परिष्वङ्गंन प्रत्यपद्यत। तेनानुनीयमानापि सा यदा उदशु बभूव तदा स नाहमस्या अभिमतोऽस्मीति हृदाकरोत्। अवादीच्च सुन्दरि! यदि तेऽह नाभिमतः तत्ते योऽभिमतः तं सेवितुं गच्छ। तदाकर्ण्यसा नतमुखी शनैरवादीत् नाथ! त्वंमे प्राणाधिकः प्रेयान्, किन्तु मे विज्ञप्तिमेकां शृणु, सहर्षं मे अभयं प्रयच्छ, शपथञ्च कुरुष्व, आर्य्यपुत्र! अवक्तव्यमपि ते वदामि। एवमुक्तवती सा तथेति कृच्छ्रात् प्रतिपद्यमानं त सविषाद सन्वज्जसभयञ्चावादीत् नाथ! एकदा प्रकाकिनीं गृहीद्यामेमांदृष्ट्वा धर्मदत्तो नाम मम भ्रातुः सखा युवा स्मरातुरः मामरुणत्। मया परीवाद पितुः कन्यादानफलञ्च रक्षन्त्याहठप्रवृत्तस्य तस्य वाक्संयमः पूर्वं विवाहिता त्वामुपेष्यामि ततः पतिमिति।

तत् प्रभो! मे सत्यं प्रतिपालय अनुमन्यस्व मां तदन्तिकगमनाय, तन्निकटं गत्वा क्षणेनागमिष्यामि, न हि आबाल्यसेवितं सत्यमतिक्रमितुं शक्नोमि, इति तस्या वचोवज्रपातेन सहसा हतः समुद्रदत्तः सत्येन बद्धः क्षणमचिन्तयत् अहो! धिक् इयमन्यरक्ता, एतया ध्रुवमेव गन्तव्यम्। तत् कथं सत्यं हन्मि, यातु इयं कोऽस्याः परिग्रहः? इत्यालोच्य तां यथेष्टगमनाय अनुमेने। सापि सहसा समुत्थाय तस्माद् वेश्मनो निरगात्। अथ सा यान्तीमदनसेना निशि मार्गे एकाकिनी केनापि चौरेण प्रधाव्य वसनाञ्चलात् रुरुधे। ऊचे च बिभ्यती सा, का त्वं सुभ्रु! क्वयासीति? सावादीत् मुञ्च मां किं तवानेन प्रसङ्गेन, कार्य्यमस्ति मे। ततश्चौरोऽब्रवीत् सुन्दरि! चौरात् मत्तः कथं त्वं मुच्यसे? तदाकर्ण्य सावदत् गृहाण मे आभरणानि, ततश्चौरोऽभ्यधात् शोभने! किमेभिरुपलैः, चन्द्रकान्ताननां जगदाभरणभूतां भवतीं नैवाहं त्यजामि, इति तेनोक्ता विवशा सा वणिक्नन्दिनौ निजवृत्तान्तमाख्याय तमेवं प्रार्थयामास भद्र! क्षणं अपेक्षस्वयावत् सत्यमनुपालयामि, इहस्थस्यैव ते पार्श्वं सत्वरमेष्यामि, नाहमिमां गिरमुल्लङ्घयिष्यामि। एतदाकर्ण्य चौरस्तां सत्यसन्धां मत्वा मुमोच, तस्थौ च तत्र तदागमं प्रतीक्षमाणः। सापि तस्य धर्मदत्तस्य बणिजोऽन्तिकमाजगाम। स च धर्मदत्तस्तामभीष्टां प्राप्तां दृष्ट्वा यथावृत्तं पृष्ट्वा विचिन्त्य च क्षणमब्रवीत् सुन्दरि! सत्येन ते तुष्टोऽस्मि, त्वया परस्त्रिया मे नास्ति प्रयोजनम्, यावत्त्वां कश्चिन्नेक्षते तावत् यथागतं गम्यतामिति तेन

त्यक्ता सा तथेति तस्मात् तद्गेहात् प्रत्यागमत्। अथ पथि चौरस्य प्रतिपालयतो निकटं प्राप्य ब्रूहि कस्ते वृत्तान्तस्तत्र गताया इति पृच्छते तस्मै सा तेन बणिजा यथोक्तं तत्सर्वमाख्यातवती। ततः चौरस्तामवादीत् यद्येवं तत् मयापि सत्यतुष्टेन विमुक्तासि, साम्प्रतं साभरणा गृहं व्रज इति। एवं तेनापि सन्त्यक्ता रक्षिता अनृणा अलुप्तशीलमुदिता पत्युरन्तिकमाययौ। तत्र गुप्तं प्रविष्टा प्रहृष्टेवागता पृष्टा तस्मै पत्ये तत् सर्वं यथावदवर्णयत्। सोऽपि अम्लानमुखकान्तिस्तामसम्भोगलक्षणां अनष्टचारित्रां सत्यपालनगतां अदुष्टमनसं सम्भाव्य अभिनन्द्य च तया सह स समुद्रदत्तः यथासुखं तस्थौ। इति कथामुक्त्वा स वेतालस्तं भूपं पृच्छति स्म राजन्। पूर्वोक्तं शापमनुस्मृत्य ब्रूहि एषां चौरबणिजां मध्यात् कस्त्यागीति। तदाकर्ण्य स राजा मोन विहाय तं वेतालमाहस्मएषां चौरस्त्यागी न पुनरुभौ तौ बणिजौ, यो हि पतिस्तां अत्याज्यां विधाह्यापि अजहात् स कुलजः सन् अन्यासक्तां भार्य्यां जानन् कथं वहति? योऽपि अपरः स भयात् अथवा कालेन जीर्णासक्तिवेगात् तमत्याक्षीत्। चौरस्तु गूढ़चारी निरपेक्षःपापी, प्राप्तं साभरणं स्त्रीरत्नं यदमुञ्चत् तेन स एव त्यागीति। एतदाकर्ण्यैव स वेतालःपूर्ववत् स्वंखं पदमगात्, राजापि पुनस्तमानेतुं सयत्नोऽभवत्।

अथ पञ्चाशीतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722763933Screenshot2024-08-04150027.png"/>

ततः स राजा शिंशपासकाशं गत्वा तं वेतालं पुनस्तन्धमधिरोप्य तं भिक्षुं प्रति आगन्तुमारेभे। गच्छन्तञ्च तं स्कन्धस्थितः स वेतालः प्राब्रवीत् राजन्! विचित्रामेकां श्रमापहां कथां ते निवेदयामि शृणु।

पूर्वमासीत् उज्जयिन्यां धर्मध्वजोनाम नृपतिः। तिस्रः राजकन्यास्तस्यातिवल्लभा भार्य्या आसन्। तासामेका इन्दुलेखा, द्वितीया तारावली, तृतीया मृगाङ्गवती। ताभिः राज्ञीभिः सह विहरन् राजा जिताशेषरिपुः सुखमासाञ्चक्रे।

एकदा तत्र वसन्तोत्सवे समुपस्थिते ताभिः प्रियाभिः सह स राजा क्रीडितुं उद्यानमगात्। तत्र अलिमालामौर्वीकाः पुष्पानता लप्ताः अनङ्गस्य सज्जिताश्चापयष्टीरिव पश्यन् तत्त्रत्यतरुपरिवर्त्तमानानां कोकिलानां गिरं सम्भोगैकरसस्य मनोजस्य आज्ञामिव शृण्वन् वासवोपमः स राजा अन्तःपुरिकाभिः साकं कन्दर्पजीवितस्यापि जीवितमधुसिषेवे। तत्र तस्य राज्ञः इन्दुलेखाया देव्याः केलिकचग्रहात् कर्णाग्रात् उत्भङ्गे उत्पलं पपात। तदभिघातेन च क्षते जाते अभिजाता सा महादेवी हा! हा! इत्युक्त्वामुमूर्च्छ। तदवलोक्य विह्वलेन राज्ञा परिजनेन च शीताम्बुमारुतैः समाश्वासिता सा कथञ्चित् संज्ञामवाप।

अथ राजा तां राजधानीं नीत्वा भिषजां शतेर्विविधौषधेःप्रियामुपाचरत्। ततः स राजा रात्रौ तां सुस्थितां दृष्ट्वा द्वितीयया तारावल्या सह चन्द्रप्रासादमारुराह। तत्र तस्य राज्ञः क्रीडसुप्तायां तस्यां गवाक्षमार्गेण हिमकरत्विषः तदङ्गेषु पेतुः। ततः क्षणात् प्रबुद्धा सा दग्धास्मीतिवादिनी सहसा शयनादुत्तस्थौ। अथ स राजा प्रबुद्धः किमेतदिति सम्भ्रान्तः समुत्थाय तस्या अङ्गेषु विष्फोटान् निर्गतानपश्यत्। किमेतदिति पृच्छन्तं तं तारावली राज्ञीप्राहस्म नाम। अङ्गपतितैरिन्दोः किरणैरेतत् मे कृतम्। इत्युक्तवत्याः रुदत्यास्तस्यास्तामार्त्तिं दृष्ट्वा राजा विह्वलः परिजनमाह्वयत्, अकारयच्च तेन परिजनेन सजलैर्नलिनीदलैः शय्याम्, अदापयच्च अङ्गेषु आर्द्रश्रीखण्डविलेपनानि। तावच्चास्य तृतीया महिषी मृगाङ्कवती तत्पार्श्वमागन्तुमना निजमन्दिरात् निरगमत। निर्गच्छन्ती च सा क्वापि गृहे निःशब्दायां तस्यां रजन्यां विदूरे सुव्यक्तंधान्यावघातज मुषलध्वनिं शुश्राव। श्रत्वैव वा सा हा! मृतास्मीति वदन्ती करौधुन्वती च व्यथिता मार्गे एव उपाविशत्। ततः प्रतिनिवृत्यैव परिजनेन स्वमेवान्तःपुरं नीता सा बाला रुदती शयनं भेजे। तत्परिजनश्च किमेतदिति चिन्वन् साश्रुःआनीलभ्रमरौ पद्माविव किणाङ्कितौ तस्य हस्तौ ददर्श। उवाच च गत्वा तं वृत्तान्तं राज्ञे।सोऽपि राजा सम्भ्रान्तः समागत्य किमेतदिति तां प्रियां पप्रच्छ। सापि हस्तौ प्रदर्श्य व्यथिता प्रोवाच नाथ! मुषलध्वनौ श्रुतमात्र एव मे

एतौ किणौ जाताविति। ततः स राजा दाहशमनमौषधं चन्दनविलेपनादिकं तस्य हस्तयोरदापयत्। एकस्या उत्पलेनापि पतता क्षतमाहितं, द्वितीयस्याःशशिकरैरपि अङ्गं दग्धम्। तृतियस्याश्चास्याः श्रुतेन मुषलशब्देन हस्तयोरीदृशाः किणाजाताः। अहो। युगपत् एतासां मे प्रेयसीनां गुणोऽपि अभिजातत्वं दोषायैव जातः। इति चिन्तयतः अन्तःपुरेषु भ्रमतस्तस्य नृपतेः सा त्रियामा शतयामेव कृच्छ्रात् विरराम। प्रातश्च स राजा शल्यहर्त्तृभिर्भिषग्भिः सह तथा विधानमकरोत् यथा अचिरात् स्वस्थान्तःपुरनिर्वृतोऽभवत्। इत्थमेतां कथामाख्याय वेतालःपप्रच्छ राजन्!एतासां का सुकुमारतरा? यस्याः मुषले अस्पृष्टेऽपि शब्देनैव किणाउद्गताः उत्पलेन्दुकरेःस्पर्शे जाते ययोर्व्रणविस्फोटा वृत्ताः, ते उभे तस्याः समे न। इति राज्ञो वचनमाकर्ण्य स वेतालः यथास्थानमगात्, राजा च दृढ़निश्चयः पुनस्तमानेतुं सत्वरो बभूव।

————

अथ षड़शीतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722629046Screenshot2024-07-30213327.png"/>

अथ राजा तथैव तस्य शिंशपातरोरन्तिकं गत्वा तं वेतालं स्कन्धमारोप्य पुनर्गन्तुं प्रावर्त्तत। वेतालश्च भूयस्तमवादीत् राजन्! इत्थमनुद्विग्नः त्वं भृशं मे

प्रियोऽसि, तदेतां हृद्यामाख्यायिकां ते श्रमविनोदाय कथयामि, शृणु।

आसीदङ्गदेशे यशःकेतुरिति युवा स्वाङ्गगुप्त्यर्थम् अदग्धस्तनुमाश्रितोऽपर इव स्मरो नरपतिः। बाहुवीर्य्येण पराजितवैरिकुलस्य तस्य शक्रस्येव बृहस्पतिः दीर्घदर्शी नाम मन्त्रो अभूत्। कदाचित् स राजा वयोरूपमदात् निहतकण्टकं राज्यं तस्मिन् मन्त्रिणि विन्यस्य शनैः सुखासक्तः समजायत। केवलं निरन्तरं प्रमदास्पदे अन्तःपुरे तस्थौ, शुश्राव च तासां सानुरागगीतं न हितैषिणां वचनम्। रज्यति स्म स सततं जालवातायनेषु न पुनर्बहुच्छिद्रेषु राजकार्य्येषु कदाचिदपि। दीर्घदर्शी तु तं राज्यचिन्ताभारं समुद्वहन् दिवानिशमतन्द्रितस्तस्थौ।

अथ पीरेषु नृपं व्यसने प्रक्षिप्य महामन्त्री दीर्घदर्शी साम्प्रतं राज्ञः श्रियं स्वयं भुङ्क्ते इति जनवादे समुत्थिते स मन्त्री स्वगेहिनीं मेधाविनीं प्राब्रवीत् प्रिये। राजनि सुखासक्ते तद्भारं वहतोऽपि मे राज्य भक्षितमनेनेति महदयशी मे समुत्पन्न जनेषु। लोकवादो हि महतामपि दोषमावहति, रामोऽपि जनापवादेन जानकीं त्याजितो न किम्? तन्मया किं कर्त्तव्यमधुनेति मन्त्रिणाभिहितेभार्य्या मेधाविनो धीरा अन्वर्थनाम्नी तं पतिमभाषत नाथ।तीर्थयात्रापदेशेन युक्त्या महीपतिमापृच्छस्व, कियन्तं काल विदेशं गन्तुं मे वृद्धस्येदानीं युक्तं तदनुमन्यतामिति। एवं हि निष्पृहस्य ते स जनवादो निवर्त्स्यते। त्वयि चास्थिते राजा स्वयं राजधु-

रानुद्वक्ष्यति। ततश्च शनैरस्य व्यसनित्वञ्च शान्तिमेष्यति। आगतस्य च पुनस्ते सा एव मन्त्रिता अनिन्द्या भविता इति भार्य्ययानुशिष्टो महामन्त्री तथेति कथाप्रसङ्गेन तं नृपं यशःकेतुं व्यज्ञपयत् राजन्! अनुजानीहि मां कांश्चिदपि दिवसानहं तीर्थयात्रार्थमितो व्रजामि, धर्मो हि मे परमो मतः। तदाकर्ण्य स राजाब्रवीत् मन्त्रिन्! मा मैवं तीर्थैर्विना अपरो दानादिः किं न धर्मः? स्वगृहेष्वपि तेन स्वर्गमाधनं किं न स्यात्? अथ मन्त्री तमवोचत् देव! दानादो अर्थशुद्ध्यादिकं मृग्यते, तीर्थानि तु नित्यशुद्धानि, यावच्च योवनं तावदेव धीमता गम्यानि, नोचेत् अविश्वास्ये अस्मित् शरीरे कुतस्तैःसह सङ्गमः? इति तस्मिन् मन्त्रिणि वदति राज्ञि च तत् निषेधति प्रविश्य प्रतीहारी तं राजानं व्यजिज्ञपत् देव! भगवानंशुमान् व्योमसरोमध्यमवगाहते, तदुत्तिष्ठ, स्नानवेला तेऽतिवर्त्तते। एतदाकर्ण्य राजा सहसा स्नातुमुट्तिष्ठत्। यात्रोन्मुखः स मन्त्री च तं प्रणम्य गृहमगात्। तत्र तां भार्य्यामनुगन्तुमनसं निवार्य्य स्वभृत्यैरपि अतर्कितःस्वयुक्त्या यात्रामकरोत्। क्रमेण च एकाकी तान् तान् देशान् तीर्थानि च भ्रमन् ओड्रविषयं प्रापत्। तवाञ्चेरदूरे एक पत्तनं प्राप्य तत्र चेकं शैवं मन्दिरं प्रविश्य तत्प्राङ्गने उपाविशत्। तत्र तं अर्ककरसन्तप्तंदूराध्वजमणधूमरं निधिदत्तो नाम देवार्च्चनागतः कश्चिद् बणिक् ददर्श। स तं तथाविधं दृष्ट्वासयज्ञसूत्रं सुलक्षणं द्विजश्रेष्ठ सम्भाव्य आतिथ्यार्थं स्वंगृहमनयत्।

अपूजयच्च स्नानभोजनाद्यैः। अप्राक्षीच्च विश्रान्तंकस्त्वं कुत आयातः, क्वयासीति। सोऽब्रवीत् अहं दीर्घदर्शी नाम विप्रः, अङ्गदेशादिह आयातस्तीर्थयात्रार्थीति। ततः स महाबणिक्निधिदत्तस्तमब्रवीत् अहं बणिज्यया सुवर्णद्वीपं गन्तुमुद्यतः, त्वं तावदस्मद्गृहे तिष्ठ, यावदहं आगमिष्यामि, तीर्थयात्रापरिश्रान्तोऽसि, अत्र कश्चित् कालं विश्रम्य ततो यास्यसीति। तदाकर्ण्य स दीर्घदर्शी प्रत्यवादीत् ममेह स्थित्या अलं, त्वयेव सह तत्राहमपि गन्तुमिच्छामि। ततस्तेन साधुना एवमस्तु इति कथिते स मन्त्री चिरादपास्तशयनो निशां तामनैषीत्।

अथान्येद्युस्तेन बणिजा सार्द्धंवारिधिं गत्वा तद्भाण्डपूर्णं प्रबहणं समारुरोह। तेन प्रबहणेन गच्छन् अद्भुतभीषणम् अम्भोधिं विलोकयन् क्रमेण तत् स्वर्णद्वीपमुपाययौ। तत्र च द्वीपे तेन क्रयविक्रयौ कुर्वता बणिजा निधिदत्तेन सह कश्चित् कालमुवास। ततश्चतेन सह प्रत्यागच्छन् प्रबहणेन, तस्मात् सागरात् सहसा समुत्थितम् प्रबालैः शाखासुभगेःजाम्बूनदोज्ज्वलैः काण्डैः मणिमयैः फलैः कान्तेश्चकुसुमैः सुशोभितं कल्पवृक्षमद्राक्षीत्। तस्य च स्कन्धे सद्रत्नपर्य्यङ्कोपरिस्थिताम् अत्यद्भुताकारां कमनीयां कामपि कन्यकामैक्षत। अहो! किमेतदिति स मन्त्री यावत् ध्यायति स्म तावत् सा कन्या वीणापाणिःगातुमुपचक्रमे। येन यत् कर्मवीजमप्तं स निश्चितं तत् फलं भुङ्क्ते पूर्वकृतं हि कर्म विधिनापि अन्यथा कर्त्तुं न शक्यते, इति सङ्गीतार्थं प्रकटय्य क्षणादेव सा

दिव्यकन्या कल्पद्रुमपर्य्यङ्कसहिता तत्रैव ममज्ज। किमप्येतदपूर्वमद्य मयेह दृष्टं क्व अब्धिः, क्व च दृष्टनष्टोऽयं दिव्याङ्गनासहितस्तरुः। यदि च अब्धेरीदृश एव शखदाकार, तदा लक्ष्मौन्दुपारिजाताद्याः अस्मात् न किमुद्वताः इति सञ्चिन्तयन्तं दीर्घदर्शिनं विलोक्य विस्मयाविष्टं कर्णधारादयोऽब्रुवन् भद्र! एव मेषा वरकन्यका सदैव इह दृश्यते, निमज्जति च क्षणेन तव तु अस्या नवं दर्शन इति तैरुक्तः स मन्त्री सविस्मयस्तेन निधिदन्तेन समं पीतात् सागरतीरमाससाद। तत्रोत्तारितभाण्डेन तेन बणिजा हृष्टभृत्येन सह स मन्त्रीतद्गृहं गत्वा बद्धन् दिवसान् तत्र सुखेन स्थित्वा तं निधिदत्त मुवाच सार्थवाह। भवद्गेहेहे अहं चिरं सुखेन विश्रान्तः, इदानीं स्वदेशं गन्तुमिच्छामि, ते भद्रमस्तु इत्युक्त्वातमनिच्छन्तमपि बणिक्पतिं आमन्त्रा स दीर्घदर्शी सत्त्वमात्रसहाय स्ततः प्रतस्थे। क्रमेण नाना देशानतिक्रमन् निजम् अङ्गविषयं प्रायात्। तत्र यशःकेतुना राज्ञा तदन्वेषणाय नियुक्ताश्चारा वहिर्नगरमागतं तं ददृशुः। ततस्तेर्विज्ञप्ताोराजा तद्विश्लेषसुदुःखितः स्वयं नगरात् निर्गत्य तमभ्यगात्। ततश्चोपत्य परिष्वज्य अभिनन्द्य च अध्वश्रमक्षामधूसरं तं अभ्यन्तरमनयत्। अब्रवीच्चतं विश्रान्तं मन्त्रिन्! अस्मान् त्यक्त्वा त्वया किमर्थं यावच्छरीरं निःस्नेह परुषामिमां दशां मानसं नीतं अथवा भगवतो भवितव्यस्य गतिं विचित्रां का विज्ञातुमर्हति। येन अकस्मात् ते तीर्घादिभ्रमणेमतिरेषाभवत्। तद्ब्रूहीदानींके त्वया

देशा भ्रान्ताः, किञ्च नवं वस्तु दृष्टमिति। ततः स क्रमाद् वर्णयन् सुवर्णद्वीपान्तमध्वानम्, अब्धौ समुत्थितां गायन्तीं त्रिजगत्सारभूतां कल्पतरुस्थितां तां दिव्यकन्यकां तस्मै यथावदकथयत् राजा तु तत् श्रुत्वैव तथा स्मरवशोऽभवत् यथा तथा विना राज्यजीविते निष्फले अमन्यत। अवदच्च तं मन्त्रिणं एकान्ते नीत्वा मन्त्रिन्। मयावश्यमेव सा द्रष्टव्या, नोचेत् मे जीवितं नास्तीत्यवधारय। भवितव्यतां प्रणम्य त्वदुक्तेन पथा गच्छामि, अहं ते न निवारणीयः नानुगम्यश्च, गुप्तमेकाकी गच्छामि, राज्यन्तु मे त्वया रक्ष्यइदञ्च महतीनान्यथा कार्य्यं मया असुभिःशापितोऽसि इत्युक्त्वातत् प्रतिवादं निरस्य तं मन्त्रिणं विससर्ज्ज। तदा स दीर्घदर्शी अनल्पोत्सवेऽपि विमना इव आसीत् स्वामिनि असाध्यव्यसनासक्तेसम्मन्त्रिणां कृतः सुखम्?

अथान्येद्यु स राजा तस्मिन् मन्त्रिणां वरे न्यस्तराज्यभारःनिशि तापसरूपधरः यशःकेतुः स्वात्नगरात् प्रतस्थे। गच्छंश्च स पथि कुशं नाम मुनिमपश्यत् सोऽपि त प्रणतं तापसकल्पं समादिशत् वत्स।लक्ष्मीदत्तेन बणिजा साकं पोतेन वारिधौ गत्वा अभीष्टां कन्यां प्राप्स्यसि, निराकुलो व्रज इति तदुवचनं श्रुत्वा हृष्टः प्रणम्य च तं राजा गच्छन्देशान् नदीरद्रींश्चातिक्रम्य तमम्बुधिमाससाद।तस्य च तीरे मुनिप्रोक्तेन तेन लक्ष्मौदत्तेन स्वर्णद्वीपं यियासुना बणिजा सहसा अस्य सङ्गतिरजायत। तेन च चक्राङ्गपादमुद्रादिदर्शनात् प्रह्वेन सह स नृपः प्रवहणमारुह्य अम्बुधौ प्रतस्थे।

सम्प्राप्ते मध्यमब्धेस्तस्मिन् प्रवहणे, सहसा कल्पविटपिस्कन्धाधिरूढ़ा सा कन्यका उदगात्। यावत् राजा चकोरश्चन्द्रिकामिव तां पश्यति तावत् सा तथैव वल्लकीवाद्यसङ्गतं गायति स्म। यत् कर्म्मवीजंयेन प्रागुप्तं तत् फलं तेन निश्चितं भोक्तव्यं पूर्व्वकृतं हि विधिरपि नान्यथा कर्त्तुं प्रभवति। तस्माद् यत्र यथावत् यस्य यत् दैवयोगेन भवितव्यंतत्र तेन भवितव्येनासौ जन्तुर्विवशो नीयते इति सूचितभाव्यर्थां गीतिकां गायन्तीं तां पश्यन् राजा तत्क्षणं स्मरशराहतःनिस्पन्द एवातिष्ठत्। हे रत्नाकर! तुभ्यं नमोऽस्तु, येन त्वया इमां प्रच्छ्राद्य श्रिया हरिर्विप्रलब्धः, तत् त्वां शरणं प्रपन्नोऽस्मि त्वं मे इष्टसिद्धिं विधत्स्व। यावदित्थं स राजा समुद्र स्तौति स्म तावत् सा कन्यका सपादपा तत्र न्यमज्जत्। तदवलोक्यैव स राजा तामनु आत्मानं सिन्धौ प्राक्षिपत्। तद्वीक्ष्य स सज्जनः लक्ष्मीदत्तः तं विनष्टं मत्वा दुःखात् देहं त्यक्तुंसमुद्यतोऽभवत्। मा तावत् साहसं कार्षीः, मग्नस्यास्य अम्बुधौ भयं नास्ति एष राजा यशःकेतुर्नाम तापसरूपभृत। अस्या एव कन्याया अर्थे समायातः, इयं हि अस्य पूर्वभार्य्या, एतां प्राप्य पुनरसौ अङ्गराज्यं गमिष्यति इति गगनादुद्गतया वाचा समाश्वासितोऽसौ सार्थवाहः यथाकाममिष्टं देशं स्वार्थसिद्धये जगाम। राजा यशःकेतुश्च अम्बुधौ मग्नः अकस्मात् दिव्यमेकं नगरमद्राक्षीत्। सविस्मयश्च तत् नगरं भास्वन्मणिमयस्तम्भैः काञ्चनोज्ज्वलभित्तिभिः मुक्ताजालगवाक्षकैः प्रासादैः विराजमानं नानारत्नशिलावद्धसोपान-

वापिकैःकामदैःकल्पवक्षाढ्यै रुद्यानैरुपशोभितं दृष्ट्वा समृद्धेऽपि तत्र पुरे निर्जने गृहं गृहं प्रविश्य यदा तां प्रियां क्वापि न दृष्टवान् तदा विचिन्वन् उत्तुङ्गमेकं मणिमन्दिरमारुह्य तदुहारमुद्घाट्यतत्र प्रविवेश। प्रविश्य च तत्र सद्रत्नपर्य्यङ्कस्थितां वस्त्राच्छादितसर्वाङ्गां शयानाम् एककामैक्षिष्ट। किं स्यात् सैवेयं इति सोत्कण्ठं यावत् तन्मुखमुद्घाटयति तावत् तामेव ईप्सितां कन्यकामद्राक्षीत्। तद्दर्शनेन चास्य तदा कापि अवस्था ग्रीष्मर्त्तुमरुपान्यस्य सरिद्दर्शनेनेवाभवत्। सापि उन्मीलितलोचना तं कल्याणाकृतिलक्षणं काम्यं प्राप्तं वीक्ष्य सम्भ्रमात् शयनमजहात्। ततश्च कृतातिथ्या आनतमुखी फुल्लेक्षणोत्पलन्यासैः पादयोः पूजयन्ती शनैरभ्यधात् महाभाग। को भवान्? कथमिदमगम्यं रसातलं प्रविष्टोऽसि? राजलक्षणाङ्किततमोस्ते तापसव्रतं किमिदं? महाभाग! यदि ते मयि प्रसादस्तदा एतदाख्याहि। एवं तस्या वचः श्रुत्वा स राजा तां प्रत्युवाच सुन्दरि। अहमङ्गराजः यशःकेतुर्नाम, आप्ताज्जनादिहाम्बुधोदृश्यां त्वामश्रौषं ततस्त्वदर्थम् इमं वेशं कृत्वा राज्यं विमुच्य आगत्य च अनुमार्गेण इह प्रविष्टोऽस्मि, तन्मेकासि त्वं कथय इति तेनोक्ता सा मलज्जा सानुरागा च तमभ्यधात् महाभाग। मृगाङ्कसेन इति श्रीमानस्ति विद्याधराधिपः। मां मृगाङ्कवतीं नाम तस्यात्मजां विद्धि। स पिता मामस्मिन् नगरे एकाकिनीं विमुच्य केन हेतुना सपौरजनः क्वापि गत इत्यहं न जाने। तेनाहं शून्यवसते रस्मात् वारिधौउन्मज्य कल्प-

द्रुमारुढ़ा भवितव्यतां गायामि, एवमुक्तवती सा तस्य मुनेर्वचः स्मरता तेन राज्ञा पेशलैः सुवचोभिः तथा अरज्यत यथा अनुरागविवशा तत्क्षणं तस्य वीरस्य भार्य्यात्वंअङ्गीकृत्य समयमेकमभ्यधात् आर्य्यपुत्र। प्रतिमासं शुक्लकृष्णचतुर्दश्यां अष्टभ्याश्चअनायत्ता चतुरो दिवसान् यत्र क्वापि दिनेषु गच्छन्तो अहं त्वया न निवार्य्या नापि द्रष्टव्या, अत्र हि कारणं विद्यते इति। ततस्तथेति प्रतिपद्य स राजा गान्धर्वेण विधिना तां परिणीय तत्र तया सह दिव्यं भोगसुखं बुभुजे।

एकदा सा मृगाङ्कवती दिव्यसम्भोगसुखावस्थित तं भूपं प्राह स्म। नाथ। त्वमिहैव प्रतीक्षस्व, कार्य्यार्थं क्वापि अहं यामि, अद्य सा कृष्णचतुर्दशीमम सम्प्राप्ता, आर्य्यपुत्र। इहस्थश्च अमुं स्फाटिकं गृह मान्मगमः। मा अत्र वाप्यां निपतितो भव, तर्हि भूलोकं त्वं तत्क्षणं गमिष्यसि।इत्युक्त्वातमामन्त्र्यतस्मात् पुरात् सा वहिरगात्। राजापि गृहीतखड्गस्तां जिज्ञासुरन्वगमत्। अद्राक्षीच्च तमः श्यामव्यात्तवक्ताविलं साकारमिव पातालमागच्छन्तं कमपि राक्षसम्। स च राक्षसः निपत्यैव घोरं रवं कुर्वन् तां मृगाङ्कवतों वक्त्रे निक्षिप्य निगीर्णवान्। तदवलोक्यैव स राजा अतिकोपेन सहसा ज्वलन् निर्मोकमुक्तभुजगश्यामलेन महासिना क्रोधाकृष्टेन धावित्वा रक्षसस्तस्य सन्दष्टोष्ठपुटं शिरश्विच्छेद। ततो मोहनिशान् विनष्टगतिके कान्तावियोगार्त्तेनृपे अकस्मात् मेघामलिनस्य तस्य रक्षसः अङ्गं भित्वा उद्योतितदिक्चक्रा

विमला चन्द्रमूर्त्तिरिव सा मृगाङ्कवती जीवन्तीअक्षताङ्गी विनिर्ययौ। तां तथा सङ्घटोत्तीर्णांकान्तां दृष्ट्वा राजा एहि एहि इति वदन् प्रधाव्यैव आलिलिङ्ग। प्रिये! किमेतत् स्वप्नोऽयमुत मायेति तेन पृष्टा सा संस्मृत्य विद्याधरी प्रत्यभाषत आर्यपुत्र! शृणु नायं स्वप्नः नापि माया, अयं हि विद्याधरेन्द्रात् स्वपितुर्मम शापोऽभूत्। स मे पिता बहुपुत्रोऽपि इह वसन् वात्सल्यात् मया विना आहारं नाकरोत्। अहञ्च सर्वदा इह निर्जने शर्वपूजासक्ता चतुर्दश्याञ्च द्वयोरेव पक्षयोरागच्छम्।

एकदा चतुर्दश्यामिहागत्य चिरं गौरीं समर्चयन्त्या मे दैवात् समस्तं दिनमवसितम्। तस्मिन् दिने स मम पिता मत् प्रतीक्षःक्षुधितोऽपि मां प्रति कुपितः किञ्चिदपि नाभुङ्क्त नापि अपिवत्। ततो रात्र्यामुपेतायां सापराधां मामधोमुखीं भवितव्यतावलात् अस्नेहः शपति स्म। यथा त्वं मामवज्ञाय क्षुधार्त्तंसर्वं दिनं विस्तृतवत्यसि तस्मात् मासि मासि अष्टम्योश्चतुर्दश्योश्च हरार्च्चनरसात् पुरात् वहिर्यान्तीं त्वां कृतान्तसंत्रासो नाम राक्षसो निगरिष्यति। ततश्चास्य हृदयं भित्त्वा भित्त्वा निरेष्यसि, शापं ताश्च निगरणव्यथां न स्मरिष्यसि। एकाकिनी च अत्र स्थास्यसि इति शापं ददत् स मयानुनीतः ध्यात्वा शापान्तमकरोत्। यदाङ्गपतिः यशःकेतुस्तव भर्त्ता भूत्वा राक्षसेन निगीर्णांत्वां दृष्ट्वा तं राक्षसं निहनिष्यति तदा त्वं तस्य हृदयान्निर्गता शापात् मोक्ष्यसे, संस्मरिष्यसि च शापादि सर्वा निजा विद्याः। इति शापान्तमुक्त्वाइह

मामेकाकिनींमुक्त्वासपरिच्छेदो निषधाद्रिं गतः। अहं तदादेशेन शापमोहादिहवसम्। स शापश्चास्य मे क्षीणः, जाता च सर्वत्र स्मृतिः। तदद्य तातपार्श्वगमनाय निषधाद्रिं व्रजामि, शापान्ते स्वगतिं प्राप्त्यामीत्येष मे नियमः। त्वमिहास्व व्रज वा स्वराष्ट्रं अत्र ते स्वातन्त्र्यम्। एवं तयोक्तो नृपतिर्दुःखितस्तामभ्यर्थयामास सुन्दरि! सप्ताहानि त्वया न गन्तव्यं सुमुखि! प्रसीद, इह उद्याने त्वया सह क्रीड़न् औत्सुक्यं विनोदयामि ततस्त्वंपितुः स्थानं गमिष्यसि, अहञ्च स्वस्थानं यास्यामि। ततः स तथेति प्रतिपन्नया तयाकान्तया तस्मिन्नुद्याने सजलोत्पलनेत्रासु मा स्म याहि अस्मान् विहाय इति हंम सारमनिचयैः रुवन्तीष्विव उत्क्षिप्तवीचिहस्तासु वापीषु षडहं रेमे। ततः सप्तमेऽहनि स राजा युक्त्या यत्र भूलोकप्रापिणी द्वारवापिकास्ति तत्र गृहे तां कान्तामनयत्। तत्र चागत्य तां कण्ठे गृहीत्वा तस्यां वाप्यां निपत्य सहसा तया स्वपुरोद्याने वापीमध्यादुत्तस्थौ। तत्र कान्तासमेतं प्राप्तं तं भूपं दृष्ट्वा उद्यानपालकाःप्रहृष्टा गत्वा मन्त्रिणं दीर्घदर्शिनं जगदुः। सोऽपि आगत्य पादयोः पतित्वा तमानीतेप्सिताङ्गनं सपौरोऽभ्यन्तरं प्रावेशयत्। अहो! कथ सैषा दिव्याङ्गना अनेन राज्ञा प्राप्ता, या व्योम्नि विद्युदिव क्षणदृश्या मया दृष्टा। धात्रा ललाटाक्षरपङ्क्तिषु यस्य यल्लिखित तत्तस्य असम्भाव्यमपि अवश्यं उपतिष्ठते। इति तस्मिन् मन्त्रिमुख्ये अन्यस्मिंश्च जने ध्यायति सा मृगाङ्कवतीतं भूपतिं स्वदेशागतं दृष्ट्वा

पूर्णसप्ताहा वैद्याधरींगतिं गन्तुमियेष। परं तदा उत्पतनी विद्या स्मृतौ नाविरासीत्। ततः सा मुषितेव परं विषादमगमत्। कथमेवं विषणासि? प्रिये! वद इति राज्ञाभिहिता सा विद्याधरी तमब्रवीत् अहं शापमुक्तापि यदियच्चिरं त्वत्स्नेहपाशसंयमिता स्थिता, तेन मम विद्या दिव्या गतिश्चनष्टा, तदाकर्ण्यराजा ममेयं विद्याधरी सिद्धेति प्रहृष्टःमहान्तमुत्मवं चकार। तदवलोक्य स दीर्घदर्शी मन्त्री निशि गृहं गत्वा शयनीयं प्राप्यं च सहसा हृत्स्फोटेन व्यपद्यत। ततो राजा स्वयं धृतराज्यभारः तया मृगाङ्गवत्या सह चिरं स्वर्गसुखमनुभवन् तस्थो। इति कथामाख्याय स वेतालः पर्य्यपृच्छत् राजन्। स्वामिनस्तथाभ्युदये सम्पन्ने तस्य महामन्त्रिणः हृदयं यत् स्फुटितं तस्य कोहेतुः किं दिव्याङ्गना मया नाप्ता इति शुचा वा राज्यार्थिनः पुनः राजागमनजेन दुःखेन?। यदि जानन्नपि एतत् मह्यं न वक्ष्यसि, तदा ते धर्मो विनङ्क्ष्यति, यास्यति च ते शिरः शतधा खण्डितम्। इत्याकर्ण्य राजा तं वेताल मवादीत् योगीश्वर! नैतत् द्वयमपि शुभचरिते मन्त्रिवरे सम्भवति, किन्तु येन भूभुजा स्त्रीमालानुरागात् राज्यमुपेक्षितं अधुना तु दिव्यस्त्रीरक्तस्य तस्य अत्र का वार्त्ता? तन्मे कष्टे कृतेऽपि प्रत्युत दोष एव समधिको जातः इति विभावयतस्तस्य मन्त्रिणो हृदयं स्फुटितमिति मन्ये इत्यभिहितो वेतालः स मायो तत्क्षणात् निजमेव निलयं जगाम। राजापि तमवाप्तुं पुनरुद्यतः तमेव शिंशपातरुमाससाद।

अथ सप्ताशीतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722666633Screenshot2024-08-03120006.png"/>

अथ राजा पुनः शिंशपामूलं गत्वा तं वेतालं स्कन्धमारोप्य पूर्ववत् प्रातिष्ठत।गच्छन्तश्चतं पुनर्वेतालः प्राब्रवीत् राजन्! शृणु संक्षिप्तामेकां कथाम्।

अस्ति वाराणसी नाम पुरी तत्र देवखामीति राजमान्यो द्विजः कश्चित् प्रतिवसति स्म। तस्य महाधनस्य हरिस्वामीति सुतोऽभवत्। तस्य लावण्यवती नाम उत्तमा पत्नी आसीत्। यां तिलोत्तमादिसुराङ्गनानिर्माणेन शिक्षितकौशलो विधिरनर्घरूपलावण्यैर्विनिर्ममे। कदाचित् स हरिस्वामी तयाकान्तया चन्द्रांशुशीतले हर्म्ये रतिश्रान्तो निद्रां ययौ। तस्मिंश्च काले कामचारी मदनवेगो नाम विद्याधरकुमारः तेन पथा नभसि सञ्चरन् तत्र समायात् अपश्यच्चतां लावण्यवतीं पत्युः पार्श्वे सुप्ताम्।स तु दृष्ट्वैवतां सुप्तामेव गृहीत्वा नभोमार्गेण प्रायात्। क्षणेन च प्रबुद्धो हरिस्वामी तां प्राणेश्वरीमपश्यन् ससम्भ्रमं शयनादुदतिष्ठत्। अहो! सा मम कान्ता क्व गता, कुपिता किं मयि, अहोस्वित् प्रच्छन्ना मच्चित्तंजिज्ञासुः क्वापि स्थिता परिहसति? इत्येवं बहुवितर्कयन् व्याकुलः समन्तात् हर्म्यप्रासादबलभोषु अन्विष्यन् निशि अभ्रमत्। पर आगृहोद्यानात्

सर्वत्र चिन्वन् कुतोऽपि तां न प्राप। ततः सशोकाग्निसन्तप्तः स गद्गदं विललाप हा! चन्द्रमुखि! हा! ज्योत्स्नासिताङ्गि। हा प्रिये लावण्यवति! रात्र्यातुल्यगुणद्वेषात् अनया किं न सोढ़ासि? त्वया कान्त्या जितोयोऽयं चन्द्रः चन्दनशीतलैः करैः मा मसुखयत् सोऽयं त्वया विना लब्धान्तर इव तैरेव ज्वलद्भिरङ्गारैरिव विषदिग्धै राशुगैरिव मां तुदति। इत्येवं विलपतस्तस्य हरिस्वामिनः सा निशा कृच्छ्रेण व्यरंसोत् न तु विरहव्यथा।

अथ प्रातः भास्वान् करैःविश्वस्य सन्तमसं विभेद परं तस्य हरिस्वामिनो मोहान्धममं न भेत्तुं चक्षमे। तीर्थनिशैश्चक्राह्वैरिव वितीर्णस्तस्य करुणाक्रन्दितध्वनिः शतगुणत्वं भेजे। स स्वजनैः सान्त्वमानोऽपि वियोगानलदोपितः तां प्रेयसीं विना धृतिं न लेभे। इहानया स्थितं इह स्नातं इह प्रसाधनं कृत इह च विहृतमिति तत इतः रुरोद।बन्धवः सुहृदश्च तमेवं प्राबोधयन् न तावत् सा मृता, कथं वा त्वया आत्मा हन्यते?तदवश्यं तामवाप्तासि, धेर्य्यमवलम्बस्व, तां गवेषय च, धीरस्य उद्योगिनाऽप्राप्यमिह नास्तीति। इत्येवं बाधितः स हरिस्वामी कृच्छ्रेण कैश्चित् दिनेः धृतिं वबन्ध।अचिन्तयच्च सर्वस्वं ब्राह्मणसात् कृत्वा तीर्थानि तावत् भ्रमामि, पापसञ्चयञ्च क्षपयामि, पापक्षये जाते जातु तां प्रियां भ्राम्यन्नवाप्नुयाम्। इत्यालोच्य स समुत्थाय स्नानादिक मकरोत्। अन्येद्युश्चसत्रे विविधान्नपानानि कृत्वा अवारितं द्विजन्मनामभ्यवहारमकारयत् धनानि च तेभ्यः सर्वाणि

प्रादात्। ब्रह्मस्यमात्रवित्तश्च स्वदेशान्निर्गत्य प्रियां प्राप्तुं तीर्थानि भ्रमितुमगात्। भ्राम्यतश्च तस्य भीमो ग्रीष्मर्त्तुकेशरी प्रचण्डादित्यवदनो दीप्ततद्रश्मिकेशरः समाजगाम। समीरणश्च प्रियाविरहसन्तप्तानां पान्थानां निश्वासमारुतैर्न्यस्तोष्माइव अत्युष्णो वहति स्म। जलाशयाश्च शुष्यद्विपाण्डुपङ्काः धर्मलुप्ताम्बुसम्पदः स्फुटितहृदया इव दृश्यन्ते स्म। पादपाश्चपाक्षिणां चीत्कारमुखरा स्वापस्नानदलाधराः मधुश्रीविरहिण इव ममदृश्यन्त।

तस्मिंश्च काले अर्कतापेन कान्तावियोगेन क्षुधया तृषया अध्वश्रमेण चातीव क्रान्तो हरिस्वामी भोजनार्थी भ्रमन् कश्चिदग्राममाससाद। तत्र च पद्मनाभनाम्नः विप्रस्य गृहे बहून् विप्रान् भुञ्जानान् दृष्ट्वाद्वारशास्वांसमालम्बा निःशब्दनिश्चलस्तस्थौ। तथा स्थितं तमालोक्य तस्य याज्ञिकस्य विप्रस्य गृहिणी साध्वी सञ्जातदया व्यचिन्तयत् अहो! क्षुत् नाम गुर्वोकस्य लाघवं न कुर्य्यात्? यदेष कोऽपि अन्नार्थो द्वारि अधोमुखस्तिष्ठति। दृश्यते चासौ दूरादभ्यागत द्रव स्नातः क्षीणीन्द्रियः। तदेषः अन्नदान पात्रमित्यवधार्य्य सा साध्वी परमान्नभृतं मघृतशर्करं पात्रमुत्क्षिप्य पाणिभ्यामानीय प्रश्रयवतीतस्मै ददौ। जगाद एनं भुङ्क्ष्वइह क्वचित् वापीतटे गत्वा। सोऽपि तथेति तदन्नपात्रं गृहीत्वा नातिदूरतो गत्वा क्वापि वापीतटे वटतरोरधः स्थापितवान्। ततः स तत्र वाप्यां पाणिपाद प्रक्षाल्य आचम्य च यावत्भक्षयितुं सहर्षः परमान्नमुपैति तावत् कश्चित् श्येनः कुतश्चित् चष्ट्वा

पादद्वयेन च एकं कृष्णसर्पं गृहीत्वा तस्मिन् तरावुपाविशत्। तेन पक्षिणा आक्रम्य उह्यमानस्य उत्क्रान्तजीवितस्य तस्य सर्पस्य आस्यात् विषलाला विनिर्ययौ। सा अधःस्थिते तस्मिन्नन्नपात्रे तदापतत्। हरिस्वामी तु तददृष्ट्वा क्षुधार्त्तः आगत्यैव तत् सर्वं भुक्तवान्। अथ तस्य भुक्तवत एव तीव्रा विषज्वाला प्रादुरभवत्। अहो विधी विपर्य्यस्ते किमिव न विपर्य्यति? तत् सतीरधृतशर्करम् अन्नंमे विषीभूतमिति जल्पन् हरिस्वामीपरिस्खलन् तां मन्त्रिणस्तस्य विप्रस्य गेहिनीं गत्वा प्राब्रवीत् ब्राह्मणि! त्वद्दत्तात् अन्नात् मे विषं जात तत् क्षिप्र कश्चित् विषमन्त्रिणम् आनय, नोचेत् तव ब्रह्महत्या भविता। इत्याकर्ण्यसा साध्वी किमेतदिति विह्वला यावत् विषमन्त्रिणमानायितुं चेष्टते स्म तावत् स हरिस्वामी परावृत्तनेत्रः प्राणेर्व्ययुज्यत। ततः सा निर्द्दोषापि आतिथेयी अपि सत्रिणा तेन विप्रेण मिथ्यातिथिबधजनितकोपेन भार्य्या निष्कासिता शुभादपि कर्मणः समुत्पन्नमृषापवादा जातावमाना च तपसे तीर्थमशिश्रियत्। इति कथामाख्याय वेतालः पृच्छति स्म राजम्! एषां सर्पश्येनान्नदातृणां मध्ये कस्य विप्रबधोऽभूत्? अस्य वादो धर्मराजसकाशेऽपि अभवत् परं न कोऽपि निर्णयःसमजनि। तत् राजेन्द्र! त्वमेव ब्रूहि, कस्य ब्रह्महत्या जाता? मिथ्या ब्रुवतो जानतस्ते स एव शापः स्मर्त्तव्य इति। तदाकर्ण्य राजा समुज्झितमौनस्तंवेतालमब्रवीत् कस्य तत् पातकं? सर्पस्य तावगवशस्य शत्रुणा भक्ष्यमाणस्य कोऽत्रापराधः?

श्येनेनापि क्षुधितात्मना न किमपि दृष्टं तत्तस्यापि नात्रापराधः। अकस्मात् प्राप्तमतिथिं भक्ष्येण भोजयतोर्दम्पत्योरपि द्वयोर्वान्यतरस्य वा कथं दोषः? यतस्तौ धर्मैकप्रवृत्तौनेममपराधमर्हतः। अहं तावत् तस्यैवैषा ब्रह्महत्या इति मन्ये योऽविचार्य्यैव एषामन्यतरस्य तां ब्रूयादिति। इति वादिनो नृपस्य स्कन्धात् स वेतालस्तत्क्षणादलक्षितः तमेव शिंशपातरुमवललम्बे। राजापि तथैव तमानेतुं समुद्योगी तमन्वधावत्।

————

अथ अष्टाशीतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722784885Screenshot2024-08-04150027.png"/>

अस्ति अयोध्या नाम नगरी। या रक्षःकुलकृतान्तस्य रामस्य राजधानी आसीत् तस्यां वीरकेतुर्नाम राजा महाबाहुः वसन् प्राकारो नगरीमिव इमां क्षोणींररक्ष। तस्मिन् महीपतौ शासति महीम् अस्यां पुर्य्यां रत्नदत्तो नाम कश्चित् महाबणिक् प्रतिवसति स्म। यन्तीति समाख्यायां पत्न्यां रत्नवतीनाम देवाराधनलब्धा सुता समजायत। सा पितृवेश्मनि रूपलावण्यविनयैः सहजैर्गुणैः सह दिने दिने वृद्धिमवाप। ताश्च यौवनशालिनीं वीक्ष्यकेवलं महान्तो बणिजोन, राजानोऽपि तत् पितरं ययाचिरे। सा तु मनस्विनी पुरुषद्वेषिणी वासवमपि भर्त्तारं न कामयते स्म। विवाहकायामपि

श्रुत्वा प्राणान् त्यक्तुं यतते स्म। तेन तस्य पिता वाlत्सल्यदुःखितस्तूष्णीं तस्थौ। स च प्रवादस्तस्यामयोध्यायां सर्वत्र पप्रथे।

अत्रान्तरे चौरैर्मुष्यमाणाः समस्ताः पौराः सम्भूय तं नृपं वीरकेतुं व्यजिज्ञपन् प्रभो! प्रतिरात्रंचौरैरिह वयं मुष्यामहे, ते तु नास्माभिर्लक्ष्यन्ते। तदिदानीं देवः प्रमाणमिति पोरैर्विज्ञप्तो राजा तां पुरीमभितःतस्कराणामनुसन्धानाय छत्रान् रात्रिरक्षकान् आदिशत्। ते च यदा समन्विष्य न तान् चौरानवापुः, तदा राजा स्वयं निशि एकाकीगृहीतशस्त्रोभ्रमन् एकतःएकं प्राकारपृष्ठेन यान्तं निःशब्दपदसञ्चारविचित्रगतिकौशलं सशङ्कलोलनयनं मुहुः पृष्ठतः पश्यन्तं कमपि पुरुषमपश्यत्। अयं स चौरो मे पुरींमुष्णाति एकचरः। इति मत्वा स नृपस्तस्यान्तिकमुपययौ। ततः स चौरस्तं नृपं दृष्ट्वा काऽसीति पप्रच्छ। राजापि चौरोऽहमिति तं चोरं प्रत्यवादीत्। तदाकर्ण्य स चौरःसानन्दं तमभ्यधात्। तर्हि दिष्ट्यात्वं मे सुहृत्, तत् एहि मम गृहं मित्राचारं तावत् करोमि इति। तदाकर्ण्य स राजा तथेत्युक्त्वातेनैव चौरेण सह वनान्तः प्राकारवेष्टितम् अशेषभोगशोभाढ्यंभास्वद्रत्नविराजितं नवीनं बलिराजानधिष्ठितं पातालमिव तद्गृहं ययौ। तत्र प्रविष्टे तस्मिन् कृतासनपरिग्रहे राजनि स तस्करः गृहाभ्यन्तरं प्रविवेश। क्षणे च तस्मिन् कापि दासी समेत्य तं नृपमवादीत् महाभाग! कथं त्वमिह मृत्युमुखे प्रविष्टः? एकचौ-

रोऽसौ निर्गत्य त्वयि पापमाचरिष्यति। ध्रुवमयं विश्वासघाती, तदितस्त्वरितं व्रज। इत्युक्तस्तया स राजा द्रुतं निर्गत्य राजधानीञ्च गत्वा निशि सैन्यानि असज्जयत्। ससैन्यश्चागत्य तस्य दास्याः तत् भूगृहं तैर्वलैररुणत्। अथ गृहं रुद्धंदृष्ट्वा स चौरःवृत्तं प्रति भेदमवगत्य मरणे निश्चितमतिः शूरो युद्धाय निर्ययौ। निर्गतश्च रणे अमानुषं विक्रमं कुर्वन् करिणां करान्, वाजिनां जङ्घान् भटानाञ्च शिरांसि एक एव खड्गचर्मभृत् चिच्छेद। ततस्तं क्षपितानीकं नृपः स्वयमभ्यधावत्। स राजा खड्गविद्याभिज्ञःकरयुक्तिमवलम्ब्यतस्य हस्तात् निस्त्रिंशं क्षुरिकाञ्च जहार। ततोऽशस्त्रंतं मुक्तशस्त्रो नृपो बाहुयुद्धेन चौरं धरण्यां जीवग्राहमग्रहीत्। प्रातश्च नीयमानं शूलारोपणाय बध्यभूमिं तं सडिण्डिमं चौरं सा बणिक्कन्या हर्म्यपृष्ठतःरत्नवती ददर्श। तश्च व्रणितं धूलिलिप्ताङ्गमपि दृष्ट्वा सा काममोहिता तत्क्षणं पितरमुपेत्य प्रोवाच तात! योऽयं बध्यभूमिं नीयते चौरः, अयमेव मया भर्त्ता वृतः, तदेनं नृपात् रक्ष, नीचेदहं एतमनुम्रिये। तदाकर्ण्य पिता तामवादीत् पुत्रि! किमिदं भाषसे? चौरोऽयं पौराणां सर्वस्वहृत् राजपुरुषैः बधार्थं नीयते कथमेनमहं नृपतेर्मोक्षयामि, कीदृशीच ते प्रवृत्तिरियमिति निर्भत्स्यमानापि यदा सा निर्बन्धं न तत्याज तदासौ बणिक् दुहितृवत्सलः राजानं समुपेत्य सर्वस्वेनापि तं चौरं बधमोक्षमयाचत। राजा तु हेमकोटिशतैः प्रलोभ्यमानोऽपि तं स्वशरीरपणा-

नीतं सर्वापहारिणं चौरं न तत्याज। ततः पितरि विमुखे प्रत्यावृत्ते सा बणिक्सुता बन्धुभिर्वार्य्यमाणापि अनुमर्त्तुंकृतस्नाना शिविकामारुह्य तस्य दस्योर्बध्यभूमिमगात्। पितरौ बान्धवाश्च रुदन्तस्तामन्वगच्छन्। तस्मिंश्च समये बधकैः स चौरः शूलमधिरोपितः गलत्प्राणस्तथागतां स्वजनान्वितां दृष्ट्वा कथयतो जनात् वृत्तान्तं शृण्वन् क्षणमश्रूणि मुक्त्वाहसन् प्राणान् जहौ। ततः शूलादवतारितं चौरकलेवरमादाय सा साध्वी बणिक्सुता चितामारुरोह। तस्मिंश्च क्षणे श्मशाने कृतनिवासःभगवान् भैरभः अदृश्यःअन्तरीक्षात् वाचमिमामुवाच पतिव्रते! अस्मिन् स्वयवरपतौ तव अनया भक्त्या तुष्टोऽस्मि, तत् मत्तो वरं प्रार्थयस्व। तन्निशम्य सा वरदं देवं प्रणम्य वर वव्रे। भगवन्! अपुत्रस्य मे पितुः पुत्रशतं भूयात् येनानन्यसुतोऽयं मां विना प्राणान् जह्यात् इति वादिनींतां साध्वीं देवः पुनरन्तरीक्षात् अब्रवीत् साध्वि! पितुस्ते पुत्रशत भवतु, अन्यञ्च वरं वृणीष्व, त्वादृशी दृढ़सत्त्वा एतावन्मात्रं नार्हति। तदाकर्ण्य सा अवादीत् देव। यदि मयि प्रसन्नोऽसि, तदैष मे भर्त्ता जीवतु धार्मिकश्च सदा भवतु इति। एवमस्तु अक्षतशरीरस्तव पतिः उत्तिष्ठतु, धार्मिकश्च भवतु राजा वीरकेतुश्चास्य तुष्यतु इति उक्तवति अदृश्यमूर्त्तौशर्वे नभसि स्थिते सहसा स चौरो जीवनक्षतशरीरः समुत्तस्थौ। ततो विस्मितहृष्टो रत्नदत्तो बणिक् तां रत्नवतीं चौरं जामातरञ्चादाय प्रहृष्टैर्बान्धवैः सार्द्धंनिजमन्दिरं प्रविश्य लब्धपुत्रवरः स्वानन्दो-

चितमुत्सवमकरोत्। ज्ञातवृत्तान्ततुष्टश्चराजा तदैव तं चौरमेकवीरमानाय्य सेनापतिं व्यधात्। स च चौर्य्यात् निवृत्य तां बणिक्सुतां परिणीय धर्मरतः तया साकं सुखेन कालं निनाय। इति कथामाख्याय वेतालो दत्तपूर्वशापभयं तं भूपं पप्रच्छ राजेन्द्र! ब्रूहि सपितृकां समुपागतां तां बणिक्सुतां दृष्ट्वा चौरेण शूलपृष्ठवर्त्तिना रुदितं हसितञ्च किम्? राजा प्रत्यवदत् चौरेण अस्य अकारणबन्धोः बणिजः नानृण्यंलब्धमिति दुःखात् रुदितम्। किमियं कन्या नृपानपि विहाय चौरे मयि अनुरक्ता, अहो स्त्रीचित्तमतिविचित्रमिति सविस्मयेन हसितञ्च। इति वादिनस्तस्य महीपतेरंसात् स वेतालस्ततक्षणमलक्षितः स्वं निलयं प्रत्यपद्यत। राजापि अविलुप्तधैर्य्यस्तमनुसरन् तं शिंशपातरुमाजगाम।

————

अथ एकोननवतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722634196Screenshot2024-07-30213327.png"/>

ततो नृपः पुनस्तथैव गत्वा शिंशपामूलं, तं वेतालं प्राग्वत् स्कन्धमारोप्य गन्तव्याभिमुखं गन्तुमारेभे। वेतालोऽपि यान्तं तं नृपं कथामेतामाचचक्षे।

आसीत् नेपालराज्ये शिवपुरं नाम नगरम्। तत्र पुरा यशःकेतुर्नाम नृपः यथार्थनामा प्रतिवसति स्म। स मन्त्रिणि प्रज्ञासागरनामके राज्यभारं निवेश्य चन्द्रप्र-

भानाम्न्यामहादेव्या समं भोगानसेवत। कालेन गच्छता तस्य तस्यां देव्यां शशिप्रभा नाम जगन्नेत्रशशिप्रभा कन्या समुदपद्यत। क्रमेण सा यौवनस्था कदाचित् मधुमासे सपरिच्छदा उद्याने यात्रोत्सवं द्रष्टुमगमत्। अत्रान्तरे कश्चित् आढ्यपुत्रो मनःस्वामीनाम द्विजयुवायात्रादर्शनार्थमागतः तां कुसुमावचयोद्यताम् उत्क्षिप्तबाहुलतिकां लक्षितैकपयोधरां दृष्ट्वा मदनमोहितः तथा हृष्टया सद्योहृतस्य मनसः स्वामी नैवाभवत्। किमियं मनोभुवो रतिः वसन्तसम्भृतानि पुष्पाणि स्वयम् उच्चिनुते? किं वा स्वयं वनदेवता माधवमर्च्चयितुमागता इति चिन्तयन्तं तं सा नृपनन्दिनी समपश्यत्। सा च दृष्टमात्रे साङ्गे नव इव स्मरे तस्मिन् समुत्सुका पुष्पाणि च साङ्गानि च नास्मरत्। इत्येवं यावत् तौ अन्योऽन्यानुरक्तौ चित्रलिखिताविवास्तां तावत् सहसा हाहेति रवः समुदभूत्। किमेतदिति समुत्क्षिप्तकन्धरं पश्यतोस्तयोः उपलब्धान्यमदगन्धोत्थया रुषा भग्नानालो मत्तो द्विपः निर्गत्य मार्गद्रुमान् रुजन् पातिताधोरणो लम्बमानाङ्गुशस्तवागात्। ततश्च परिजने संत्रस्तविद्रुते स मनःस्वामी युवा ससम्भ्रमं प्रधान्यतां राजपुत्रीम् अङ्गैःकिञ्चित् कृताश्लेषां भयप्रेमत्रपाकुलां दोर्भ्यामादाय गजगोचरात् सुदूरमनयत्। अथ कथमपि प्राप्तपरिजना तं युवानं पश्यन्ती माराग्निपुटपाकपच्यमाना सत्वरं राजभवनमगात्। स तु युवा उद्यानात् तस्मात् स्वान्तःपुरप्रविष्टां तां दृष्ट्वा समुत्सुकी व्यचिन्तयत् एतां विना नाहं क्षणमपि स्थातुं जीवितुं

वा समुत्सहे। तन्मम श्रीमूलदेवी नामात्र सिद्धोधूर्तो गुरुर्गतिः इति सञ्चिन्त्य कथमपि अवसिते तस्मिन् दिने प्रातस्तस्य गुरोर्मूलदेवस्यान्तिकमगात्। अपश्यच्च तं मित्रेण शशिना नित्यसङ्गतम्। ततश्च समुपेत्य तस्मै प्रणम्य तत् स्वमनीषितं न्यवेदयत्। सोऽपि विहस्य तस्य तत् साधयितुंप्रत्यपद्यत। ततः स धूर्त्तपतिः मुखे योगगुलिकां निक्षिप्य आत्मानं वृद्धब्राह्मणरूपमकरोत्। द्वितीयां गुलिकां, तस्य मनःस्वामिनो मुखे निक्षिप्य तं सुकान्तकन्यकारूपं व्यधाच्च। अथ स धूर्त्तराजः तद्रूपं तं समादाय तं राजानमुपेत्य सभायां एक एवास्ति मे पुत्रः तत्कृते दूरात् इयं कन्यायाचित्वा आनीता परं स मे पुत्रः क्वापि गतः। तमन्वेष्टुमहं यामि,तदेषा कन्या त्वया रक्ष्यताम्। यावदहं सुतम् अन्वेषामि, त्वं हि विश्वस्य रक्षिता इति तच्छ्रुत्वा शापभयेन स भूपतिस्तथेति प्रतिपद्य सुतां शशिप्रभामानाययामास जगाद च तां पुत्रि! कन्यामिमां स्वमन्दिरे रक्ष, स्वपार्श्वमेवास्याः शय्यां प्रकल्पय। इति पित्रादिष्टया तया स कन्यारूपःद्विजयुवा मनःस्वामी निजमन्तःपुरं नीतः।

अथ तस्मिन् मूलदेले यथारुचि प्रयाते कन्यारूपःस मनःस्वामी प्रियान्तिके अहर्निशं तिष्ठन् कतिपयैः दिवसैः सखीमिव प्रीतिविस्रम्भशालिनीं विदित्वा एकदा विरहक्षामांशमनीयलुठत्तनुं तां राजसुतां रात्रौ आसन्नशयनस्थितः पप्रच्छ सखि। किं त्वं दिने दिने पाण्डुर-

कान्तिः क्षीयमाणा कान्तिवियुक्ते न दुःखिता तिष्ठसि? ब्रूहि। स्निग्धमुग्धे सखीजने मयि कोऽविश्वासः? न चेत् मम वदिष्यसि तदाहं न भोक्ष्ये। तदाकर्ण्य सा विनिश्वस्य शनैरब्रवीत् सखि! किं मे त्वयि अविश्वासः श्रृणु कथयामि।

एकदाहं यात्रां द्रष्टं, मधूद्यानं गताभूवम्। अपश्यञ्च तत्र कञ्चित् सुभगं हिममुक्तेन्दुसश्रीकं दर्शनोद्दीपितस्मरं मधुमासमिवा-लङ्कृतकाननं ब्राह्मणपुत्रम्। यावदिमे समुत्सुके तम्मुखेन्दुद्युतिसुधापायिनी लोचने मे चकोरायितुं प्रवृत्ते, तावत् मदस्रावी निरर्गलः अकालकालमेघनिभः महागजो गर्जन् अकस्मात् तत्रागात्। तत्सम्भ्रमाच्च परिजने भयविद्रुते भयविह्वला अहं तेन विप्रपुत्रेण दोर्भ्यामुत्क्षिप्य दूरतो नीता तदा श्रीखण्डलिप्तेव सुधासिक्तवे न जाने तदा कामपि तदङ्गस्पर्शेन दशामन्वभवम्। क्षणेन च परिजनेन मिलितेन अवशाहमिहानीता स्वर्गादिव भुवस्तले निक्षिप्तास्मि। तदा प्रभृति तैस्तैः सङ्कल्पैः कल्पितसङ्गमं तं प्राणदं प्रियं पार्श्वस्थमिव सदा पश्यामि, सुप्तापि तमेव आश्लिष्यामि, किं बहुना तमेव सततं चिन्तयन्ती कालं हरामीति। तदेष मां प्राणेश्वरविरहानलः दिवानिशं दहति। दिवानिशं दहति। इति तस्या वाक्सुधया पूरितश्रवणविवरः स मनःस्वामी सानन्दः आत्मानं कृतार्थं मन्यमानः आत्मप्रकाशनावसरोऽयमिति विविच्य मुखात् गुलिकां निष्कास्य स्वं रूपं प्रकटीचक्रे। जगाद सुन्दरि! स एवाहं यस्त्वया उद्याने दर्शनक्रीत-

श्चिरदासतां नीतः। त्वद्विरहातुरोऽहमिदं कन्यारूपं गृहीत्वा त्वत्सकाशमागतोऽस्मि। तदिदानींकामसन्तप्तं मां प्रसाददृष्ट्या निर्वापय इति। एवं वदन्तं तं प्राणेश्वरं प्राप्तं विलोक्य सा राजसुता क्षिप्रं स्नेहाश्चर्य्यत्रपाकुला सहसा किंकर्त्तव्यविमूढ़ा समपद्यत। ततश्च गान्धर्वविवाहेन कृतमङ्गलौ तौ प्रेम्णा परमेण तत्र निभृतं तस्थतुः। ततः स मनः स्वामी तत्र द्विरूपभृत् तस्थौ। दिवा सगुलिकः कन्यारूपः, रात्रौ निष्कासितगुलिकः पुमान्।

अथ गच्छत्सु दिनेषु यशःकेतोनृपस्य श्यालको मृगाङ्गदत्तः मृगाङ्कदत्तां नाम निजां सुतां द्विजातये महामन्त्रिणःप्रज्ञासागरस्य सूनवे महाडम्बरपुरःसरं प्रददौ। तस्मिन् मातुलपुत्र्याविवाहे सा राजपुत्रौ शशिप्रभा निमन्त्रिता मातुलगृहं प्रायात्। तया सह सोऽपि कन्यारूपी मनस्वीसमायात्। तत्र तं कान्तं कन्यकारूपं मनःस्वामिनं दृष्ट्वा स मन्त्रिसुतः स्मरव्याधवाणैर्नितरां इतोऽभवत्। ततस्तया कपटकन्यया मुषितचित्तः स मन्त्रिसुतः स्वबधसहितोऽपि शून्यमात्मानं मन्यमानः स्वगृहं जगाम। आगत्य च गृहं तन्मुखलावण्यध्यानासक्तो मोहमगात्। किमेतदिति सम्भ्रान्ते परिजने उत्सवोज्झिते स प्रज्ञासागरः पिता द्रुतं तत्रोपागमत्। तेन च पित्रा आश्वास्यमानः स मोहात् प्रबुध्य प्रलपन्निव सोन्मादं मनोगतमुज्जगार। तच्च पराधीनं मत्वा तत्पितरि नितरां व्याकुले विदितवृत्तान्तो राजा ततैवाययौ। स राजा तं

तथाविधं दृष्ट्वा सप्तमीं मदनावस्थां गतोऽयमिति मन्यमानो जगाद कथं ब्राह्मणनिक्षेपः कन्यास्मैदीयते तया च विना नियतमसौ पश्चिमां दशांयास्यति । अस्मिंश्च विनष्टे अस्य पिता महामन्त्री अपि विनश्यति। अस्य च नाशे मे राज्यनाशः तदत्र का गतिः? इत्युक्ताः सर्वास्ताः प्रकृतितयः प्राब्रुवन् राजन्! प्रजानां धर्मरक्षण राज्ञां परमोधर्मः, तस्य मूलं मन्त्रं विदुः स च मन्त्रिष्ववस्थितः। मन्त्रिनाशे मूलनाशात् कथं धर्मरक्षा? अस्य च सपुत्रस्य मन्त्रिणो द्विजस्य बधात् पापञ्च स्यात् तस्मादासन्नोऽय धर्मविप्लवः भवता अवश्यं परिहर्त्तव्यः। सा विप्रन्यस्तकुमारिका मन्त्रिपुत्राय दातव्या, अथ कालान्तरे विप्रः आगमिष्यति, तदा तस्य प्रतिविधानं भविता इति एवं प्रकृतिभिरुक्तो नृपतिस्तथेति तां कूटकन्यां मन्त्रिपुत्राय दातुं प्रत्यपद्यत। अथ लग्नं निश्चित्य राजसुतागृहात् आनीतः कन्यारूपः स मनःस्वामी तं महीपतिं जगाद राजन्! अन्येन अन्यार्थमानीतां मां यदि अन्यस्मै ददासि, कामं तदस्तु, त्व हि राजा धर्माधर्मौतवोचित्तौ। अहन्तु ईदृशेन समयेन विवाहमिच्छामि, तावदहं बलात् पत्या एकशय्यां न नेतव्या यावदसौ षण्मासान् तीर्थानि परिभ्राम्य न समायतः। नोचेत् दन्तेः कृत्तजह्वां मामवधारय। इति तेन समये उक्ते राज्ञा सम्बोधितः स मन्त्रिपुत्रः प्राप्तनिर्वृतिस्तथेति प्रतिपद्य आशु त परिणीय एकस्मिन् वासके वेविरक्षिते तां मृगाङ्कदत्तां ताञ्च कूटवधूंस्थापयित्वा तीर्थयात्रायै प्रतस्थे। स च मनःस्वामी

स्त्रीरूपस्तया मृगाङ्कदत्तया सह एकगृहे समानशयनामनस्तस्थौ। तथास्थितं तं कदाचित् सा मृगाङ्गदत्ता निशि वहिःसुप्तपरिजने शय्यागृहे रहसि प्राब्रवीत् सखि! कामपि कथामाख्याहि मेनिद्रा नास्ति। तदाकर्ण्य स स्त्रीरूपो युवा अस्यै कथामेकामकथयत् सखि! पूर्वमासीत् इला नाम राजा सूर्य्यवशभवः। गौरीशापेन स्त्रीत्वं प्राप्तस्य तस्य विश्वैकमोहनं रूपमासीत्, तदवलोक्य देवोद्यानगतश्चन्द्रतनयोबुधस्तां चकमे। तयोश्च सङ्गात् पुरूरवाः समजायत। इति कथां संक्षेपेणोक्त्वा स धूर्त्तः पुनरुवाच सखि! इत्थं देवतादेशात् मन्त्रौषधिबलाच्च कदाचित् पुरुषः स्त्री कदाचन स्त्री च पुमान् स्यात्। तदेवं महातामपि कामजाः संयोगा जायन्ते। श्रुत्वैतत् सा मुग्धा तरुणौमृगाङ्गदत्ता सहवासविस्रम्भात् प्राह सखि! श्रुत्वा ते इमां कथां मे अङ्गं सिमिसिमायते, हृदयञ्चेदं सौदतीव, तदेत् किं ब्रूहि। तदाकर्ण्य अङ्गनारूपः स युवा तां प्रत्यवादीत् सखि! एतानि ते अपूर्वाणि कामचिह्नानि, मया एतानि अनुभूतानि, अहं तव न निगु। इति तेनोक्ता सा पुनवादीत् सखि। त्वं मे प्राणसमा, तदहं त्वां किं न वच्मि, अपि केनापि उपायेन इह पुंसः प्रवेशः स्यात्? एवमुक्तवतीं तां स धूर्त्तपतेः शिष्यो युवा विप्रः प्राह यद्येवं तत्ते वदामि, सखि! अस्ति मे वैष्णवः प्रसादः, येनाहं स्वेच्छया निशि पुरुषः स्यां तदेषः अद्य त्वत्कृते पुमान् भवामि। इत्युक्त्वास मनः स्वामी मुखात् गुलिकामवतार्य्य परमसुन्दरस्वरूपं तस्यै अदर्शयत्। ततस्तयो स्तत्कालो-

चितरसः कोऽपि रतोत्सवः प्रावर्त्तत। ततश्चस तथा मन्त्रिसुतभार्य्यया साकं दिवा नारी रात्रौ पुमान् भूत्वा कश्चित् कालमनयत्।

अथ त मन्त्रिसुतमासन्नागमनकालं बुद्ध्वातां तद्भार्य्यामादाय निशि स्वैर पलाय्य क्वापि प्रायात्। ततश्च तं वृत्तान्तं विदित्वा स मूलदेवःपुनः बृहद्विजाकृतिः शशिना मित्रेण सम्भूय तं यशःकेतुमुपेत्य सविनयमब्रवीत् देव।आनीतोऽयं मया पुत्रः, तदेहि मे तां स्नुषामिति। ततः स नृपः सम्मन्त्राशापभीतः समभ्यधात् ब्रह्मन्। न जाने सा ते स्रुषा क्व गता? तत् क्षमस्व, अस्माच्चापराधात् स्वसुतां तव सुताय ददामि। इत्युक्त्वातं धूर्त्तराजं क्रोधनिष्ठुरं विब्रुवाणं जरद्विप्ररूप कथञ्चिदनुनीय तत्सख्ये कृततत्पुत्रव्यपदेशाय शशिने तां तनयां शशिप्रभां यथाविधि प्रादात्। ततः स मूलदेवः तथाभूतौ बधूवरौ नीत्वा स्वं निलयं प्रायात्। ततस्तस्मिन् मनःस्वामिनि उपस्थिते तस्य मूलदेवस्य अग्रतः तस्य शशिनश्च महान् विवादः समजायत। मनःस्वामी अब्रवीत् एषा शशिप्रभा मह्यं दीयतां, कन्ये वासौ मया गुरोरनुग्रहात् प्राक् परिणीता इति। शशी प्रोवाच मूर्ख! कोऽस्यास्त्वं ममैवैषा भार्य्या। अग्निसाक्षिकमेषा पित्रा मह्यंदत्ता। इत्थंमायाबलप्राप्तराजपुत्रीनिमित्त विवदमानयोस्तयाः कोऽपि निर्णयःनासीत्। तद्राजन्त्व मम ब्रूहि, कस्येयं भार्य्या उपपद्यते? एतं मे सशय छिन्धि समयश्च त्वया मम स्मर्यतामिति। इति वेतालवचः श्रुत्वा राजा तं प्रत्यभाषत मन्येऽह शशिन

एवासौ न्याय्या भार्य्या, यस्मै तपित्त्रा सर्वजनसमक्षं अग्निसाक्षिकञ्च धर्म्येण वर्त्मना दत्ता। मनःस्वामी तां चौर्य्येण गान्धर्वधर्मतो भेजे। चौरस्य परस्वेषु स्वत्वं नैव कदाचित् न्याय्यमिति। एतत् राज्ञो वचनं निशम्य स वेतालः पुनस्तथैव स्वं निलयं प्राप। राजापि दृढ़प्रयत्नः पुनस्तत्र गत्वा तं स्कन्धमधिरोप्य गन्तु प्रववृते।

————

अथ नवतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722773723Screenshot2024-08-04123406.png"/>

अथ राजा तं वेतालं नीत्वागच्छति स्म वेतालश्च तमब्रवीत् राजन्! शृणु पूर्वामेकां कथाम्।

अस्ति हिमवान् नाम सर्वरत्नभूमिर्नगेन्द्रः। यो हि गौरीगङ्गयोः हरभार्य्ययोस्तुल्यप्रभवः। यश्च कुलभूभृताम् अयषौः सूर्य्येणाप्यदृष्टपृष्ठदेशः अभिमानोन्नतः सर्वत्र गीयते। तस्य सानोरुपरि काञ्चनपुरं नाम पुरं रविणा न्यासीकृतं रश्मिवृन्दमिव विभाति। तत्र जीमूतकेतुरिति श्रीमान् विद्याधरपतिः पुरन्दर इव मेरौसमध्युवास। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमूतकेतुः तं देवस्वरूपं कल्पतरुमाराध्य तत्प्रसादात् जाति..सरं बोधिसत्त्वांशसम्भवं दानवीरं महासत्त्वं सर्व-

भूतानुकम्पिनं गुरुशुश्रूषणपरं जीमूतवाहनं नाम पुत्रं प्राप।

कांलेन सम्प्राप्तयौवनं तं स राजा सद्भिस्तद्गुणैः सचिवैश्च प्रेरितः यौवराज्ये अभिषिक्तवान्। कदाचित् यौवराज्यस्थितः स जीमूतवाहनः हितैषिभिः पितृमन्त्रिभिरुपेत्य जगदे युवराज! योग्यं कल्पतरुः सर्वकामदः सर्वभूतानामधृष्यश्च तवोद्याने तिष्ठति, अयं तव सदा पूज्यः। अस्मिन् अनुकूले स्थिते शक्रोऽपि नास्मान् बाधितुं शक्नुयात् किमुतापरः? एतदाकर्ण्य स जीमूतवाहनोऽन्तरचिन्तयत् अहो! वत ईदृशममरपादपं प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं किमपि नासादितं केवलं कैश्चिदपि कृपणैस्तैः कश्चिदपि अर्थमर्थितः, तेन चात्मा च महात्मा चैषः उभौ लाघवं नीतौ। तदहमस्मात् मनोरथमभीष्टं साधयामि, इत्यालोच्च स महात्मा पितुरन्तिकमाजगाम। आगत्य च विहिताशेषशुश्रूषया परितोषितं सुखमासीनं पितरमेकान्ते व्यजिज्ञपत् तात! त्वमेव जानासि यदेतस्मिन् संसारसागरे आशरीरमिदं सर्वं धनं वीचिविभ्रमचञ्चलं विशेषेण अचिरस्थायिनी प्रकाशपलायिनी सन्ध्याविद्युदिव चला लक्ष्मीः न कुत्रापि कदापि स्थिरा।एकःपरोपकार एवास्मिन् संसारे अनश्वरः युगान्तशतसाक्षिणी धर्मयशसी प्रसूते। तात! तत क्षणिकेषु एषु भवेषु अस्माभिरीदृशः कल्पतरुः किमर्थं रक्ष्यते यैश्च पूर्वैरयं मम ममेति आग्रहेण रक्षितः, तैरिदानीं कुत्र गतम्? तेषां कस्यायम् अस्य वा ते के? तस्मात्

परोपकारैकफलसिद्धये त्वदाज्ञया इमं कामदं कन्यपादपम् आराधयामि।

अथ पित्रा तथेति अभ्यनुज्ञातः स जीमूतवाहनः कल्पतरुं गत्वा उवाच देव। त्वया अस्मत् पूर्वेषामभीष्टाः कामाः पूरिताः, तस्ममैकमनन्यंकामं परिपूरय। यथा पृथ्वीमदरिद्रां पश्यामि तथा करोतु देवः। भद्रमस्तु ते, व्रज, लोकाय अर्थिने त्वंमया दत्तोऽसि। इति वादिनि कृताञ्जलौजीमूतवाहने त्यक्तस्त्वया एषोऽह यातोऽस्मि इति वाक् तस्मात्तरोरुदभूत्। क्षणेन च स कल्पतरुर्दिवः समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्। ततस्तस्यतया सर्वजीवानुकम्पया त्रैलोक्ये यशः पप्रथे।

अथ तदुगोत्रजाः सर्वे मात्सर्य्यात् असहिष्णवः कल्पपादपरहितं तं जीमूतवाहनं सपितृकं सुजयं मत्वा सम्भूय च तस्य राज्यापहरणाय योद्धुंसमनह्यन्त। तदवलोक्य जीमूतवाहनः पितरमवादीत् तात। धृता युधेन त्वया योद्धुं, कस्य शक्तिरस्ति? किन्तु अस्य पापस्य विनाशिनः शरीरस्य कृते बन्धून् हत्वा कोऽकृपणो राज्यमाकाङ्क्षति? तत् कि नो राज्येन, अन्यत्र क्वचिद् गत्वा वयं धर्ममेव आचरिष्यामः। येन लोकयोरुभयोः सद्गतिः स्यात्। कृपणाएते दायादा राज्यलोलुपा मोदन्ताम्। इति वादिनं तं जीमूतकेतुरब्रवीत् पुत्र। अह त्वदर्थं सज्यमिच्छामि, त्वच्चेत् कृपया तत् जहासि, तदा वृद्धस्य मे तेन किम्? इत्थंकृताभ्यनुज्ञेन पित्रा मात्रा च सम-

न्वितः स जीमूतवाहनः राज्यं विहाय मलयाचलमगात्। तत्र स रचिताश्रमः पितरौ शुश्रूषमाणस्तस्थौ।

एकदा स इतस्ततो भ्रमन् विश्वावसुनाम्नः सिद्धराजस्य तत्र निवासिनः पुत्रं मित्रावसुं नाम दृष्ट्वा सम्भाव्य च मित्रमकरोत्। ततश्चैकदा स जीमूतवाहनः उपवने स्थितं देव्या गौर्य्या आयतनं दृष्ट्वा प्रविवेश। ददर्श च तत्र उपवीणयन्तीं सखीजनपरिवृतां शैलबालाराधनार्थं स्थितां लोचनलावण्यदर्शनेन लज्जितेरिव निश्चलैमृगैराकर्ण्यमानसङ्गीतवीणारवां अञ्जनेन कृष्णां कर्णमूलं विमद्वतीं पाण्डवचमूमिव तारकां विभ्रतींपरस्परोपमर्देन मुखेन्दोरिव दर्शनमतृप्तमभिवाञ्छन्तौ उन्मुखौस्तनौ दधतीं धातुः सृष्टवतो मुष्टिग्रहेणेव निपीड़िते वलौमग्नाङ्गुलीमुदे मध्ये, क्षाममनोरमां कामपि कन्यकाम्। तथा च दृष्टया तन्व्यास जीमूतवाहनः सद्यो दृष्टिमार्गप्रविष्टया मुषितचित्तोऽभूत्। सापि तं भूषितोद्यानं उत्कण्ठाविकारप्रदं कामाङ्गदाहवेराग्यात् वनमाश्रितं मधुमिव दृष्ट्वा अनुरागविवशा तथा विहस्ततां भेजे यथा सखीनां व्याकुलतामधात्। ततः स जीमूतवाहनस्तस्याः सखीमपृच्छत् भद्रे। तव संख्याःकिं धन्यं नाम, को वा वंशोऽनया अलङ्कृतः? तदाकर्ण्य सखीप्राब्रवीत् महाभाग! इयं हि नाम्ना मलयवती मित्रावसोः स्वसा सिद्धराजस्य दुहिता। एवमुक्त्वासा सखी सहृदया तं जीमूतवाहनं, सहागतं मुनिपुत्रंअस्य नामान्वयौपृष्ट्वा तां मलयवतीं स्मितमिताचरमवादीत् सखि! विद्याधरेन्द्रस्यास्य किमातिथ्यं न

करोषि? जगत्पूज्य एषः अतिथिः प्राप्त इति तयोक्ते सासिद्धराजसुता तूष्णींलज्जावनतानना अभूत्। ततः सखी लज्जावतीयं मत्तोऽर्च्चागृह्यतामिति वादिनौ तस्मै मार्ध्यां मालामुपानयत्। स च जीमूतवाहनः प्रेमनिर्भरःतां मालामादाय तस्या मलयवत्याः कण्ठे समर्पयत्। सापि तिर्य्यक्प्रसृतया स्निग्धया दृशा नीलोत्पलमयीमिव मालां तस्मै प्रत्यर्पयत्। इत्येवमन्योन्यकृताशब्दस्वयंवरयो स्तयो रेका सिहराजसुतां कापि बेटी समागत्य जगाद राजपुत्रि! जननी त्वां स्मरति, शीघ्रमागच्छ, तदाकर्ण्य सा कामेषु कीलितामिव सोत्कां दृष्टिं प्रियमुखात् कथञ्चित् आकृष्य कृच्छ्रेण गृहमगात्। जीमूतवाहनोऽपि तद्गतात्मा स्वमाश्रममयासीत्। अथ सा प्राणेशविरहातुरा स्वांजननीं दृष्ट्वा शयनीयं गत्वा आशु तत्र पपात।

अथ सा अन्तर्गतकामाग्निधूमेनेव आविलनेत्रा सन्तापक्वथिताङ्गी अश्रूणि प्रमुञ्चन्ती सखीभिश्चन्दनैर्लिप्ता पद्मिनीदलैश्च वीजिता शयने सख्या अङ्गेभूतले च न शर्म लेभे। ततश्च वासरे रक्तया सन्ध्यया सह क्वापि गते, चन्द्रे च हसन्त्याः प्राच्या मुखं समाक्रम्य चुम्बति सा स्मरणापूर्य्यमाणापि जीवितस्पृहाशून्या दूतीसम्प्रेषणादिकं लज्जया कर्त्तुं नाशकत्। निनाय च कृच्छ्रेण निशाम्। जीमूतवाहनोऽपि तद्वियोगार्त्तः शयनस्थोऽपि कामस्य हस्ते पतितः, नूतनोद्भिन्नरागोऽपि प्रोन्मिषत्पाण्डुरकान्तिः लज्जामूकोऽपि कामजां पीड़ां वदन् निशामनैषीत्। प्रातश्चो-

त्याय नितान्तमुत्सुकः तदेव गौर्य्यामन्दिरमगात्। तत्र तेन सख्या मुनिपुत्रेण पृष्ठतः आगत्य यावदसौ समाश्वास्यते तावत् मदनानलविह्वला सा मलयवतीविरहासहा एकाकिनी गृहान्निर्गत्य गुप्तं प्राणत्यागाय तत्र निर्जने समाधात् सा पादपान्तरितं कान्तमलक्षयन्ती उदश्रुलोचना देवीं गौरींव्यजिज्ञपत् देवि। तव प्रसादात् अस्मिन् जन्मनि यदि मे जीमूतवाहनः पतिः न लब्धः, तदा अन्यस्मिन्नपि जन्मनि यथा स एव मे पतिर्भूयात् तथा प्रसादः क्रियतामित्युक्त्वासा स्वोत्तरीयेण तत्क्षणम् अशोकतरुशाखायां तस्या एव देव्या अग्रतः हा नाथ! जीमूतवाहन। विश्वविख्यातकरुणेनापि त्वया कथमस्मि न परित्राता इत्युक्त्वायावत् गले पाशं नियच्छति तावत् दिवि उदीरिता भारती अन्तरीक्षात् समुच्चचार। पुत्रि! मा साहसं कार्षीः भाविविद्याधरचक्रवर्त्ती जीमूतवाहनस्ते पतिर्भविष्यति। इति देवीं वाचमाकर्ण्य सवयस्यः जीमूतवाहनः हृष्टां तां प्रियामुपाजगाम । एष ते देव्या वर प्रदत्तः सत्यमेव इति तम्मित्रे मनिपुत्रे तां बालां जल्पति जीमूतवाहनस्तत्तत् पेशलं ब्रुवन् स्वहस्तेनैव तस्याः कण्ठात् पाशममोचयत् । ततोऽकस्मात् तत्र पुष्पाणि चिन्वती कापि सखी तं व्यापारमवलोकयन्तौ हृष्टा समेत्य तां सव्रीड़या दृशा भुवं लिखन्तीं जगाद सखि! दिष्ट्यावर्द्धसेअभीष्टसिद्धितः, अद्यैव महाराजो विश्वावसुस्ते पिता मम सन्निधौ कुमारेण मित्रावसुना विज्ञप्तः तात! जगन्मान्यः कल्पतरुप्रदः योऽयं विद्याधरेन्द्रतनयो जीमूत-

वाहन इहागतः, सः अतिथित्वेन नः पूज्यः तादृशश्वान्यो वरः न दृश्यते, तस्मादाप्तौ मलयवत्या कन्यारत्नेन पूज्यताम्। तथेति राज्ञा श्रद्धितेभ्राता ते मित्रावसुः अस्य महाभागस्य आश्रममद्यैव गतः। मन्ये सद्य एव ते विवाहो भविता तत् स्वं मन्दिरमागच्छ, एष च महाभागः स्वमाश्रमं यातु। इति तया सख्याभिहिता सा शनैः प्रहृष्टा समत्सुका च प्रायात्। जीमूवाहनोऽपि शीघ्रमाश्रममाजगाम। आगत्य च मित्रावसोर्यथाभीष्टं कार्य्यं श्रुत्वा अभिनन्द्य च स्वां जातिं पूर्ववृत्तान्तञ्च तस्मै समाचचक्षे। ततो मित्रावसुः प्रीतः परितुष्टयोस्तत्पित्रोगवेद्य गत्वा स्वगृहं पितरौ तद्वार्त्तावर्णनेन समनन्दयत्। अनयच्च तस्मिन्नेव दिने स्वंगृहं जीमूतवाहनम्। ततश्च यथायथं महोत्सवं विधाय तत्रैव शुभे दिवसे तस्य विद्याधरेन्द्रस्य मलयवत्याश्च विवाहविधिं निरवर्त्तयत्। ततो जीमूतवाहन सिद्धमनोरयः तया नवोढ़या मलयवत्या सह तत्रैव कियन्तं कालं तस्थौ।

एकदा कौतुकाक्षिप्तचित्तः स मित्रावसुना सह मलयाद्रि भ्राम्यन् समुद्रवेलामाससाद। तत्रास्थि सङ्घातान् पतितान् दृष्ट्वा स तं मित्रावसुं केषामेते अस्थिमद्धाःप्राणिनामिति पप्रच्छ। ततः श्यालको मित्रावसुः तं कारुणिक सब्रवीत् सखे! शृणु अत्र वृत्तान्तं संक्षेपेण तं कथयामि।

पुरा नागमाता कद्रुः तार्क्ष्यमातरं सपत्नीं विनतां सकपटपणनिर्जितां दासतामनैषीत्। तेनैव वैरेण

तार्क्ष्यस्तां मातरं दास्यान्मोचयित्वापि वलात् नागान् कद्रुर्पुत्रान् सदा पातालं प्रविश्य भक्षयितुं जघान, कांश्चित् जघान, कांश्चित् ममर्द च। इत्थं क्रमेण सर्वनागेषु व्यापन्नेषु सर्वक्षयमाशङ्ख्यनागराट् वासुकिः प्रार्थनापूर्वं तार्क्ष्येण समयं व्यधात्। खगेन्द्र! एकमेकं नागं ते आहारार्थं प्रत्यहंप्रेषयामि अत्र दक्षिणोदधेः पुलिने, त्वया तु पुनः कदाचन पातालं न प्रवेष्टव्यं सर्वेषु नागेषु एकपदे निहतेषु तव कः स्वार्थः इति नागराजेनोक्ते स गरुड़ः स्वार्थदर्शीतथेति प्रत्यपद्यत। तदा प्रभृति दिने दिने असौ गरुत्मान् वासुकिप्रेषित मेकैकं नागंअस्मिन् अम्बुधेःपुलिने भुङ्क्ते, एते च तेषां भक्ष्यमाणानां नागानामस्थिसञ्चयाः कालक्रमात् गिरिशृङ्गनिभाःसमपद्यन्त। इति मित्रावसोर्मुखादुपश्रुत्य सान्तर्दुःखःस जीमूतवाहनः निजगाद सखे। शोच्यः स राजा वासुकिः यः स्वहस्तेन स्वाः प्रजा विद्विषे उपहारीकरोति, स क्लीवः धृताननसहस्रोऽपि एकेन आननेनापि मामग्रतः भुङ्क्ष्व गरुत्मन्! इति भाषितुं नाशकत्। कथं वा निसत्त्वः स्वकुलक्षये तार्क्ष्यमभ्यर्थयामास। कथं वा तार्क्ष्यः कश्यपसुतो वीरः कृष्णवाहनः ईदृशं पापं कुरुते, अहो। मोहस्य प्रागल्भ्यम्? इति उक्त्वास महासत्त्वः असारेण देहेन अद्य एकस्यापि नागस्य जीवितरक्षणं कुर्य्यामिति मनसि सङ्कल्प्य स्थिते तस्मिम् जीमूतवाहने मित्रावसोः पितुराज्ञया कश्चित् प्रतीहारः तयोराह्वानार्थ माजगाम। स तु जीमूतवाहनः व्रज त्वमग्रतः, अहं पश्चाद् यास्यामीति तं मित्रा-

वसुं विसृज्यस्वयं तत्रास्थात्। तस्मिंश्चगते जीमूतवाहनः तत्र वाञ्छितार्थोन्मुखो भ्रमन् दूरात् करुणं रुदितमशृणोत्। गत्वा च कियद्दूरं उत्तुङ्गशिलातलसमीपगं एकं दुःखितं युवानं सुन्दराकृतिं राजभटेनेव पुंसा आनीय तत्क्षणं त्यक्तं रुदतीं वृद्धांमातरं सानुनयं निवर्त्तयन्तं पुरुषमद्राक्षीत्। अथ कोऽयमिति जिज्ञासुः स यावदत्र करुणार्द्र चेताश्छत्रःशृण्वन् जीमूतवाहनस्तिष्ठति स्म तावत् सा वृद्धादुःखभारातिपीडिता स्त्री युवानं तं अनुशोचितुं प्रावर्त्तत हा शङ्खचूड़! हा दुःखशतलालित। हा गुणिन्! हा कुलैकतन्तो! पुत्र। क्वाहं त्वां पुनर्द्रक्ष्यामि, वत्स! त्वन्मुखचन्द्रे गते स तव पिता शोकान्धकारपतितः वृद्धः कथं जीविष्यति, अर्ककरस्पर्शादपि यत्तव अङ्गं दूयेत, कथं तत् तार्क्ष्यभक्षणजां रुजां सोढुं शक्ष्यति। विस्तीर्णनागलोकेऽपि विधात्रा नागाधिपेन च अभव्याया मे एकसुतस्त्वं विचित्य किं लब्धः? इति विलपन्तीं तां स युवा तनयः प्राब्रवीत् मातः! दुःखार्त्तमपि मां किं भृशंदुःखयसि? गृहानेव निवर्त्तस्व, एष ते पश्चिमः प्रणामः। अगमनवेला चेयं गरुत्मतः। तदाकर्ण्य हा हतास्मि को मे पुत्रमिह पास्यतीति सा वृद्धादिक्षु प्रक्षितार्त्तलोचना भृशं चक्रन्द।

एतत् सर्वमाकर्ण्य बोधिसत्वांशसम्भवः स जीमूतवाहनः दृष्ट्वा श्रुत्वा च सर्वंगाढ़करुणो व्यचिन्तयत् हन्त! अयं शङ्खचूड़ो नाम नागःवासुकिना आहाराय तार्क्ष्याय

प्रहितः, इयञ्चास्य जननी स्नेहेनान्वागता, एकसुता चेयं दुःखिनी नितान्तमार्त्ता विलपति। तदेनमेव मार्त्तं एकान्तनाशिना देहेन यदि न रक्षामि साम्प्रतं तन्मे निष्फलं जन्म धिक्। इत्यालोच्य मुदा समुपगम्य जीमूतवाहनः वृद्धां तामुवाच मागमातः! अहं ते पुत्रं रक्षामि, मा रुद! इति श्रुत्वा सा वृद्धागरुड़शङ्किनौ सन्त्रस्ता, तार्क्ष्य! मां भुङ्क्ष्व मां भुङ्क्ष्व, इति जगाद। शङ्खचूडः प्राब्रवीत् मातः! नैषःतार्क्ष्यःमा त्रासं कार्षीः क्वायचन्द्र इवान्तरिन्द्रियमाह्लादयति क्वचासौ तार्क्ष्यःभयमुत्पादयति। इति मङ्गचूड़ेनोक्ते जीमूतवाहनोऽब्रवीत् अम्ब! अह विद्याधरः ते सुतं रक्षितुमायातः स्वमेतत् शरीरं वस्त्रच्छन्नंगरुत्मते क्षुधिताय दास्यामि त्वमेत सुतं नीत्वागृहं व्रज। तदाकर्ण्यवृद्धाअवदत् मा मैवं त्वं मम अधिकःपुत्रः, यस्य ईदृशेषु अस्मासु ईदृशी क्वपालुता। एतदाकर्ण्य स जीमूतवाहनः पुनरब्रवीत् मातः। न त्वमस्य मे मनोरथस्यभङ्गंकर्त्तुमर्हसि। आग्रहेण एवं ब्रुवन्तं तं शङ्खचूड़ोऽवादीत् महासत्त्व! त्वया सत्यं कुपालुता दर्शिता, नाहन्तु त्वच्छरीरेण स्व शरीरं रक्षितुमिच्छामि। रत्नव्ययेन कोहि पाषाण रक्षति? मादृशैः स्वमात्रानुकम्पिभिर्विश्वमापूर्णं, येषां जगदनुकम्पां तादृशा भवादृशा अतिविरलाः। हे साधो। अहं कलङ्कःशशिबिम्बमिव शङ्खपालकुलं शुचि कलङ्कयितुं न च शक्ष्यामि। इति त प्रतिषिध्यैव शङ्खचूडःमातरं पुनर्जगाद अम्ब! अस्मात् कान्तारात् निवर्त्तस्व, अत्रैतत् नामानामसृक्भिरुक्षितं

कृतान्तलीलापर्य्यन्तरौद्रं बध्यशिलातलं किं न पश्यसि? अहमिदानीं अब्धितट गत्वा गोकर्णाख्यमीश्वर नत्वा द्रुतमागच्छामि, यावत् तार्क्ष्योनागच्छति। इत्युक्ता मातरम् आपृच्छ्य च स शङ्खचूड़ो गोकर्णप्रणामार्थमगात्। अस्मिंश्चेत् समये तार्क्ष्यआगच्छेत् तदा मे मनोरथःसिद्धःस्यात् सिद्धःस्यात् इति जीमूतवाहनो यावत् मनस्यकरोत् तावत् आसन्नपक्षीन्द्रस्य पक्षपवनान्दोलितान् निवारणपरानिव तरून् वीक्ष्य गरुड़ागमनवेलेयमिति मत्वा जीमूतवाहनः परार्थप्राणदित्सया तां बध्यशिला मारुरोह। आरूढमेव त महासत्वं गरुडः सहसा निपत्य तस्मात् शिलातलात् चञ्च्वा जहार। जवाच्च स्रुतशोणितधारं उत्खातशिरोरत्नंत नीत्वा मलयाद्रेः शृङ्गे भक्षयितुमारेभे। एवमेव प्रतिजन्म मे परार्थो देहः स्यात्, परोपकृतिरहितौस्वर्गमोक्षौ माभूतामिति तार्क्ष्येण भक्ष्यमाणस्य तस्यानुध्यायतः विद्याधरेन्द्रस्योपरि नभस्तलात् पुष्पवृष्टिः पपात। अत्रान्तरे स रक्तधाराक्तशिरोमणिः तत्पत्न्यामलयवत्याः पुरोऽपतत्। तत् चूड़ारत्नं दृष्ट्वा सुविह्वला श्वशुरयो रन्तिकस्यासास्रं ताभ्यामदर्शयत्। तौ च दम्पतीसुनोस्तं चूड़ामणिं विलोक्य सहसा किमेतदिति सम्भ्रान्तौ बभूवतुः।ततः स्वविद्यानुभावात् यथावृत्तमवेत्य राजा जीमूतकेतुःराज्ञी च बध्वा मलयवत्या सह द्रुत तत्र यावत् गन्तुं प्रावर्त्तेतां तावत् स शङ्खचूड़स्तं गोकर्णशिवं प्रणम्य तत्राययौ। ददर्श च तत्शिलालातलं रुधिराद्रम्। दृष्ट्वैवहा इतोऽस्मि महा-

आपः, ध्रुवं तेन महात्मना कृपालुना मत्कृते गरुत्मने आत्मादत्तः, तदन्वेषामि स महात्मा शत्रुणा क्व नीतः, तञ्चेत् जीवन्तमाप्नुयां तदा अयशःपङ्केन मज्जेयम्। इति उदश्रुर्वदन् स निरन्तरं सान्द्रां पतितां रक्तधारामनुसरन् ययौ।

अत्रान्तरे तं जीमूतवाहनं भक्षयन् गरुड़स्तंहृष्टं विलोक्य व्यचिन्तयत् अहो। अपूर्वः कोऽपि अयं महासत्त्वः, मया भक्ष्यमाणोऽपि प्रहृष्यति, न तु प्राणैर्वियुज्यते विभर्त्ति च लुप्तशेषेऽपि गात्रे रोमाञ्चकञ्चुकम्। किञ्चास्य उपकारिणीव दृष्टिर्मयि प्रसीदति। तदेषः न नागः, कोऽप्येष महापुरुषः, तदेनं पृच्छामि, न पुनर्भक्षयामि। इति विमृषन्तं तं तार्क्ष्यंजीमूतवाहनः प्राह पक्षिराज। किं निवृत्तोऽसि, अद्यापि मे देहे मांसशोणितं वर्त्तते, न च ते तृप्तिं पश्यामि तत् पुनर्भुङ्क्ष्व। एतदतिविचित्रमाकर्ण्य स पक्षिराट् तं पप्रच्छ महात्मन्! नैव त्वं नागः, तद् ब्रूहि को भवानिति। नाग एवास्मि, कोऽयं ते प्रश्नः प्रकृतमनुसर, कोहि बालिशः प्रस्तुतार्थविरुद्ध माचरेत्? इत्थं जीमूतवाहने तार्क्ष्यं प्रेरयति समुपेत्य स शङ्खचूडःदूरात् तमुवाच विनतानन्दन! मा महापापं साहसञ्च कृथाः, कोऽयं ते भ्रमः? नह्येष नागः, नागोऽहमस्मि? इत्युक्त्वाद्रुतमेत्य तयोर्मध्ये विभ्रान्तं तार्क्ष्यं पुनः शङ्चूड़ोऽब्रवीत् गरुत्मन्! कस्ते, भ्रमः मे फणं द्वेच जिह्वेन पश्यसि? किञ्चास्य सौम्यामाञ्झतिंन पश्यसि? इत्थंशङ्खचूड़े वदति सा भार्य्यामल-

युवतीं पितरौ च सर्वेऽत्र सत्वरमाययुः। तञ्च विलुप्ताङ्गं पुत्रं दृष्ट्वास्य पितरौ हा पुत्र! हा जीमूतवाहन! हा कारुणिक! हा वत्स!हा परार्थप्रत्तजीवित! इति विलपन्तौ भृशं रुरुदतुः। हा वैनतेय! त्वया कथमिदमविमृष्य समाचरितम्। इति श्रुत्वा तार्क्ष्यो भृशमनुतप्तो व्यचिन्तयत् हा! कथं बोधिसत्त्वांशसम्भवो मया मोहात् भक्षितः? सोऽयं जीमूतवाहनः परार्थप्राणदाता, यस्य कृत्स्नेऽत्र जगति कीर्त्तिघोषणा भ्रमति। तदस्मिन् मृतेपापस्य मे अग्निप्रवेशनं युक्तम्। अधर्मविषवृक्षस्य स्वादु फलं किं पच्यते? इत्येवं चिन्ताकुले तार्क्ष्येस जीमूतवाहनः बन्धून् समागतान् दृष्ट्वा निपत्य व्रणव्यथया पञ्चत्वमवाप। ततस्तत्र शोकदीनयोस्तत्पित्रोर्हाहेति विलपतोः शङ्खचूड़े च आत्मानं निन्दति सा मलयवतीअश्रुगङ्गदं नभो दृष्ट्वा पूर्वप्रसन्नां तां वरदां देवीमम्बिकामिति उपालभत, मातः विद्याधरचक्रवर्त्ती ते पतिर्भविता इत्यहं त्वयादिष्टा, तन्मम भाग्येन त्वं मिथ्यावादिनी जातासि इत्युक्तवत्यां तस्यां सा गौरीप्रत्यक्षीभूय, पुत्रि! न मे वचो मृषा इत्युक्त्त्वाकमण्डलोरमृतेन त जीमूतवाहन सिषेच। तेन च सः अक्षतसर्वाङ्गः पूर्वाधिकतरद्युतिर्जीववन् सद्यः समुत्तस्थौ। अथ सा देवी सर्वेषु प्रणमत्सु उत्थितं प्रणत त जीमूतवाहन प्राब्रवीत् पुत्र। तुष्टासि ते अनेन देहदानेन, तदेवाहं निजेन पाणिना विद्याधरचक्रवर्त्ति पदे त्वामभिषिञ्चामि, एवं वदन्ती देवी कलमाम्बुभिः तं जीमूतवाहन मभ्यषिञ्चत् तेन च पूजिता

तत्क्षणात् तिरोदधे। अस्मिंश्चसमये नभसः दिव्याः कुसुमवृष्टयः पेतुः, नेदुश्चसहर्षं दिवि देवदुन्दुभयः।

अथ गरुत्मान् विनतस्तं जीमूतवाहनमुवाच चक्रवर्त्तिन्। अहं पुरुषातिशये त्वयि अतिप्रीतोऽस्मि, येन अपूर्वोदारमतिना त्वया त्रिजगत् कौतुकावहं ब्रह्माण्डभित्तिलिखितम् इदं चित्रं कृतम्। तन्मामाज्ञापय, मत्तश्चाभिमतं वरं वृणीष्व। इति वादिनं गरुडंसमहासत्त्वः प्रावदत् गरुत्मन्। सानुतापेन त्वया पुनर्नागा न भक्ष्याः, ये चास्थिशेषाः पूर्वं त्वया भक्षितास्ते जीवन्तु इति। एवमस्तु न भोक्ष्येऽहमतः परं नागान् ये च प्राग्भुक्तास्ते च जीवन्तु इति तेन वरे दत्ते ये नागा अस्थिशेषाः पूर्वभक्षितास्ते च सर्वे सद्यः समुत्तस्थुः। ततः सर्वेषु सुरनागमुनिमणेषु सानन्देषु मिलितेषु स मलयाचलः लोकत्रयभूम्याख्यां लेभे। तस्मिंश्चकाले गौर्य्याः प्रसादात् सर्वे विद्याधरेश्वराः तमद्भुतं जीमूतवाहनोदन्तं विविदुः। ततश्च ते सर्वे समेत्य चरणावनताः तं मुदितबन्धुसुहृत्समेतं गौरीस्वकरकृतमहाभिषेकं हिमाद्रिं निन्युः। तत्र गत्वा स जीमूतवाहनः पित्रा मात्रा भार्य्यया मलयवत्या मित्रावसुना लोकोत्तरचरितेन शङ्खचूड़ेन च समं बहुरत्नशोभितां विद्याधरचक्रवर्त्तितां भुञ्जानः सुखमध्युवास। इति महतींविचित्रां कथामाख्याय बेतालः पर्य्यपृच्छत् राजन्! ब्रूहि शङ्खचूड़-जीमूतवाहनयोः कोऽधिकः सत्त्वेन? यदि जानन्नपि न वदसि, तदा पूर्वमेव दत्तः शापःसम्भविता इति। राजा अब्रवीत् बहुजन्मसिद्धमेतत्

जीमूतवाहनस्य न चित्रंश्राघ्यस्त्वत्र शङ्खचूडं, यो मरणादुत्तीर्णोऽपि अन्यं प्राप्य सुदूरं गताय शत्रवे तार्क्ष्याय पश्चात् धावन् स्वं देहमुपानयत्। एतत्तस्य नृपस्य वचनं निशम्य वेतालःशिंशपान्तिकमगात् राजापि तमानेतुं पुनः प्रययौ।

————

अथ एकनवतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722614683Screenshot2024-08-02213415.png"/>

अथ राजा पुनःशिंशपामूलमुपेत्य वेतालञ्च तं तथैव स्कन्धमारोप्य चलितुमुपचक्रमे। वेतालश्च तं पुनरब्रवीत् राजन्! श्रमविनोदाय पुनरहमेकामाख्यायिकां कथयामि शृणु।

पुरा गङ्गाकूले कनकपुरं नाम पुरमेकमासीत् यस्मिन् धर्मस्य एकोऽपि पादःकलिना न विहतः। यशोधराख्यो यथार्थनामा महीपतिः। यो हि धीरो वेलाद्रिरिव क्षितिं विप्लवात् ररक्ष। यश्चजगदाह्लादकश्चण्डप्रतापोऽखण्डमण्डलश्च विधिना चन्द्रार्कावेकीकृत्येव विनिर्मितः। जनता यं पापभीरुंयशोलुब्धं परस्त्रीषु षण्ढंशौर्य्योदार्य्यमयं विदन्ति। तस्य राज्ञः पुरे कश्चित् महाबणिक् प्रतिवसति स्म। तस्य उन्मादिनी नाम कन्याभवत्। यस्तामद्राक्षीत् स मदनबाणहतः उन्मादवानेचाभूत्। तस्यां यौवनस्थायां स बणिक् नीतिविज्ञः तं यशोधरं राजानमुपेत्य व्यजि-

ज्ञपत् प्रभो! त्रैलोक्यरत्नभूता मे कन्यैका प्रदेयास्ति, तां देवस्य अनावेद्य अन्यस्मै न दातुमुत्सहे। अस्मिंश्चभूमण्डले देव एव सर्वरत्नानां प्रभुः, तत् तां स्वीकृत्य मामनुगृह्णातु देवः, इति तस्य वचनमाकर्ण्य स राजा निजान् ब्राह्मणान् तस्या लक्षणानि परीक्षितुं व्यसृजत्। ते ब्राह्मणा गत्वा तां त्रिलोकसुन्दरीं दृष्ट्वा सद्यः क्षोभमगमन् व्यचिन्तयंश्च यदि राजा इमां परिणयेत् तदा राज्यमवसीदेत्, एतस्यामासक्तचित्तः स कदापि न हि राज्यमवेक्षिष्यते। तस्मादेषा सुलक्षणेति राज्ञेनास्माभिः कथनीयेति। इत्येवं मनसि सङ्कल्प्यते राजान्तिकमाजग्मुः ऊचुश्च देव! सा कुलक्षणेति तेन च स राजा तां बणिक्सुतां न स्वीचकार। ततस्तदाज्ञया स बणिक् तां कन्यां बलधराख्याय सेनापतये प्रददौ। अथ सा भर्त्तृगृहे तेन भर्त्त्रासुखेनास्थात्।

अथ गच्छति काले हेमन्तहस्तिनं प्रफुल्लकुन्दलतादन्तं मथिताम्बुजिनीवनं हत्वा लसत्पुष्पमञ्जरीकेसरावलिः चूताङ्कुग्नखः कानने क्रीड़न् मधुकेशरी समाजगाम। तस्मिंश्च काले वसन्तोत्सवं द्रष्टुं स राजा यशोधरः गजारूढ़ः निर्जगाम। तद्रूपेण सम्भाव्यविप्लवाः कुलयोषितः अपसारयितुं तदा उद्घुष्य दत्तं डिण्डिमं श्रुत्वा सा उन्मादिनी परित्यागावमानिता स्वगृहहर्म्यतः तस्मै राज्ञेआत्मानमदर्शयत्। स च राजा सन्धुक्षितस्य मधुना मलयानिलैःकामाग्नेः ज्वालामिवोद्गतां तां दृष्ट्वा चुक्षुभे। तस्याश्च रूपं मनोभुवो जैनमस्त्रमिव हृदये गाढं प्रविष्टंनिर्वर्णयन् क्षणात् मोहमगात्।

अथ स भृत्यैराश्वासितो राजधानीं प्रविश्य पृष्टेभ्यस्तेभ्यस्तां प्रागुपनतोज्झिताम् उन्मादिनीं बुबुधे। ततः स राजा तान् कुलक्षणेयमिति वादिनो विप्रान् देशान्निर्वास्य अनुदिनं तामेव समुत्सुको दध्यौ। अहो! जगन्निष्कलङ्के तस्या मुखे सति निर्लज्जो जडात्मा अयं शशी नित्यमुदेति। कठोरौ हेमकलसौ गजकुम्भौ च कर्कशौ अस्याः पीनयोस्तुङ्गयोः पयोधरयोः सादृश्यं न लभेयाताम्। काञ्चीनक्षत्रमालया विराजितम् अस्या जघनस्थलं कन्दर्पमातङ्गमस्तकनिभं कं न विलोभयेत् इत्येवं तामन्तश्चिन्तयन् राजा कामाग्निपुटपाकेन पच्यमानः दिवानिशं क्षीयते स्म। ह्रिया निगूहमानश्च पृच्छद्भ्यः आप्तेभ्यः तत् पीड़ाकारणं पप्रच्छ। अल सन्तापेन, स्वाधीनां तां कि न भजसे? इति तैरभिहितः स धार्मिकः नरपतिः नैव तदनुमेने। ततो बलधरो नाम सेनापतिः तद् विदित्वा उपेत्य च चरणानतः प्रभुमभ्यर्थयामास। देव। दासस्त्रीसा तव दास्येव, न पराङ्गना। अहञ्च स्वयं प्रयच्छामि, तदेनां मे भार्य्यां गृहाण, अथवाहं तां इह देवकुले त्यजामि, तर्हि तस्याग्रहणे न दोष, इति सेनापतिना निर्बन्धेन अभ्यर्थ्यमानोऽपि सान्तःकोपं तमुवाच अहं राजा भूत्वा कथमीदृशमधर्मं कुर्य्याम्। मयि धर्ममतिक्रामति कः स्ववर्त्मनि तिष्ठेत्? भक्तोऽपि त्वं कथं मां पापे परलोकमहादुःखहेतौ क्षणसुखावहे नियोजयसि? यदि त्वं धर्मपत्नीं विहास्यसि तदा त्वां न क्षमिष्ये। तादृशः को हि तादृशंधर्मविप्लवं सहेत?

तद्वरं मृत्युरिति उक्त्वा स राजा तं निषिषेध।उत्तमसत्वा हि प्राणानपि त्यजन्तिन सत्पथम्। तथैवार्थयमानान् सर्वानपि पौरजानपदान् मिलितानपि स राजा सुदृढ़निश्चयो निराचकार। ततः क्रमेण तेनैव स्मरज्वरभवोत्मणा अभीक्ष्णंप्रक्षीणदेहः स राजा यशोधरः यशःशेषतां प्रययौ। सेनापतिश्च प्रभोस्तथा विलयमसहिष्णुः अग्निं विकेश अनिर्वचनीयं हि भक्तचेष्टितम्। इति कथामाख्याय स्कन्धस्थितो वेतालः तं पप्रच्छ राजन्! एतयोः सेनापति महीभृतोः कोऽधिको मतः? त्वया पूर्वदत्तशापमनुस्मृत्य वक्तव्यम्। राजा अवदत् अहं राजानमधिकं मन्ये तदाकर्ण्य वेतालः साक्षेपमब्रवीत्,राजन्। सेनापतिः कथं नाभ्यधिकः? यः स्वामिने तथाविधांस्वभार्य्यां सुचिरेण ज्ञाततद्भोगसुखास्वादोऽपि समुपानयत्, प्रभौ च पञ्चत्वमागते तद्भक्त्या आत्मानमग्निसादकरोच्च, राजा तु अनास्वादित-तद्भोगस्तस्य भार्य्यां जहौ। वेतालेनेवमुक्तः स राजा विहस्य पुनरब्रवीत् यद्यप्येतत् तदपि नातिचित्रं तत् कुलपुत्रो हि सेनापतिः, स भक्त्या यत्तथाकरोत्। प्राणेरपि भृत्यानां स्वामिरक्षणं व्रतम्। राजानस्तु मदाध्माता गजा इव निरङ्कुशा विषयोन्मुखा धर्ममर्य्यादा- शृङ्खलां छिन्दन्ति। तेषां हि उद्रिक्त चित्तानां अभिषेकाम्बुभिः समं विवेको विगलति। चलञ्चामरमारुतै रुद्धूय तेषां वृद्धोपदिष्टशास्त्रार्थरजांसि उत्क्षिप्यन्त इव। आतपत्रेण च सत्यं सूर्य्यालोक इव निवर्त्त्यते।विभूतिवात्यया चोपहता दृष्टिः मार्गं नेक्षते। जगद्विजयिनी-

ऽपि ते ते नहुषादयो राजानः मारमोहितचेतसः तां तां विपदं प्राप्तवन्तः। एष राजा पृथिव्यामेकच्छत्रोऽपि बत्तया उन्मादिन्या चपलया लक्ष्म्याइव विमोहितोऽपि प्राणानपि तत्याज न पुनः अमार्गे पदं निदधे, तेनासौ वीरः मे अधिको मतः इत्याकर्ण्य नृपतेर्वाक्यं स वेतालः स्कन्धवर्त्ती पुनः स्वमेर्वं पदं मायया प्रायात्। राजापि अचलचित्तस्तं तथैवानुससार। आरब्धे सुदुष्करेऽपि महतां मध्ये विरामः कुत एव इति।

————

अथ द्विनवतितमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722574553Screenshot2024-07-30213327.png"/>

ततः स राजा क्रव्याद्भिः परिवृते ज्वालाविलोलरसनैः भूतैरिव चिताग्निभिः समन्तादतिरौद्रे तस्मिन् पितृवने तस्यां क्षपायां तं शिंशपातरुमुपेत्य तत्र वेतालविकृतान् सदृशाकृतीन् तस्मिन् तरौ लम्बमानान् सुबहून् प्रेतकायान् अशङ्कितमद्राक्षीत्। अहो! किमेतत् किंवा अयं मायो वेतालो मे काल क्षिपति, येन इह भूयसां एषां कं ग्राह्यं न वेद्मि, यदि असिद्धार्थस्य मे रात्रिरियं गच्छति, ततोऽहं वह्निं प्रवेक्ष्यामि, न तु हास्यतां सहिष्येइति चिन्तयतस्तस्य राज्ञो निश्चयं ज्ञात्वा सत्त्वतुष्टः स वेतालः तां मायां संजहार। ततोऽसौ एकमेव

नरकलेवरे स्थितं वेतालं दृष्ट्वा तथैवावतार्य्य अंसेन गृहीत्वा पुनः प्रतस्थे। प्रस्थितञ्च तं स वेतालः प्राब्रवीत् राजन्! न विरज्यसि चेत् तदिमां कथां कथयामि शृणु।

अस्ति गौर्य्यातपसा परितुष्टवृतेन शम्भुना असामान्यगुणोत्कर्षलुब्धेनेव स्वयं निर्मिता भोगवत्यमरावत्योस्तृतीया उज्जयिनी नाम पुरी। यस्यामुदारसुकृतिनः नानाभोगेन उपबृंहिताः स्वर्ममपि न कामयन्ते। यस्यां वरयोषितां कुचेषु कार्कश्यं लोचनेषु चापलं भूषु भङ्गिः। यस्याश्चनिशासु तमः, कविवक्रोक्तिषु वक्रत्वं दन्तिषु मदो, मुक्ताचन्दनशशाङ्केषु जाढ्यमासीत्। तस्याश्चचन्द्रप्रभो नाम राजा अभवत्। देवस्वामीति विश्रुतो बहुधनसम्पन्नः बहुयज्ञःबहुश्रुतश्च कश्चिद्विप्रः तस्य अमात्य आसीत्। तस्य तनयश्चन्द्रस्वामी नाम कदाचित् कामपि विक्षिप्तैः कृष्णसाराभैर्नेत्रैरिवाक्षैर्निरन्तरं अत्र कं आश्लिष्याम इति विपद्भिरिव वीक्षितां कोऽसौ अस्ति, यस्य अलकापतेरपि श्रियं न हरामि इति द्युतकृतां कलहस्वनैरुच्चैर्वदन्तीमिव द्यूतकारमहागोष्ठींद्यूतेन क्रीडितुं ययौ। तां प्रविश्य स क्रमात् तैः कितवैरक्षेर्दीव्यन् वस्त्रादिकं हारयित्त्वापि अन्यत् धनमहारयत्। यदातु तद्धनं तैर्याच्यमानं नादात् तदा सभिकेन सोऽवष्टभ्यलगुड़ैरताड्यत। लगुड़ाहतसर्वाङ्गः स विप्रसुतः पाषाणमिव निश्चलं आत्मानं मृतमिव कृत्वा तस्थौ। तथैव च द्वित्रान् दिवसान् तस्मिन् तत्र अवस्थिते क्रूरः स सभिकः तान् कितवानभाषत अनेन पाषाणकं श्रितं,

तदेनं क्वचित्, अन्धकूपे नीत्वा क्षिपत, अहं युष्माकं एतद्देयं धनं दास्यामि। इति तेनोक्ताः कितवास्तं चन्द्रस्वामिनं उत्क्षिप्यकूपगवेषिणः दूरं अरण्यं मिन्युः। तत्रागत्य कश्चित् वृद्धःकितवस्तानन्यान् एव मब्रवीत् अयं तावत् प्रायशोसृतः तत् किमनेनाधुना कूपै क्षिप्तेन, तदिहैव एनमुज्झित्वा गत्वा कूपे उज्झितं वक्षामः। इति तस्य वचस्ते सर्वे तथेति प्रतिपद्य तथैव तं त्यक्त्वा गताः।

अथ गतेषु तेषु कितवेषु स चन्द्रस्वामी समुत्थितः तत्र शून्यमेकं शिवमन्दिरं विवेश। तत्र किञ्चित् समाश्वस्य सुदुःखितश्विन्तयामास हा कष्टं? विश्वस्तोऽह धूर्तेः कितवैः मायया मुषितः, तदीदृशः नग्नः पांशुधूषराङ्गः क्व यामि, पिता बन्धुः सुहृदापि दृष्ट्वा किं मां वदेत्। तदिहैव साम्प्रतं स्थितोऽस्मि, नक्तञ्च क्षुत्प्रशान्तये निर्गत्य कथमपि भोजनं प्रति यतिष्ये इत्यालोचयतस्तस्य क्लान्तस्य दिगम्बरस्य मन्दोकतातपो रविस्त्यक्ताम्बरो अस्ताचलमगात्। तावच्च भूतिलिप्ताङ्गः महाव्रती शूलधरो हर इवापरः कश्वित्तापसः तत्राजगाम। स चन्द्रस्वामिनं दृष्ट्वा कोडसीति पृष्ट्वा तस्मात् वृत्तान्तं श्रुत्वा च प्रणतं तमवादीत् भद्र! त्वं ममाश्रमं प्राप्तः क्षुत्कान्तोऽतिथिः, तदुत्तिष्ठ कृतस्नानो मम भिक्षाभागमाहर।इति तेनोक्तश्वन्द्रस्वामी तमब्रवीत् भगवन् ! विप्रोऽहं कथं तव भिक्षाभागं भोक्ष्ये? तदाकर्ण्य स सिद्धस्तापसः निजां मठिकां प्रविश्य अतिथिवात्सल्येन इष्टसम्पादिनींविद्यां सस्मार। स्मृतोपस्थिता तांकिं करोमीति वादिनींअमुष्य अतिथे-

रातिथ्यं कुरुष्वेति शशास। तथा तथेत्युक्ते सहसा तत्र सोपवनं अङ्गनाजनसहितं सौवर्णं पुरमुत्पन्नं स चन्द्रस्वामी ददर्श। विस्मितं तञ्चाभ्येत्य तस्मात् पुरात् विलासिन्यः तं भद्र ! उत्तिष्ठ, एहि त्राहि भुङ्क्ष भज नः स्वामिनीं इति उक्ता अभ्यन्तरं नीत्वा स्वापयित्वा अनुलिप्य परिधाप्य च अन्यत् वासमन्दिरं निन्युः। तत्र च प्रविश्य स युवा एकां सर्वाङ्गसुन्दरीं धात्रा कोतुकादिव निर्मितां कामपि वरारोहां ददर्श।तया च समुत्थाय अर्धासनोपवेशितः दिव्यमाहरं विविधानि फलानि भुक्का गृहीतताम्बूलः पर्य्यङ्कशय्यायां तत्सम्भोगसुखेन निशामनयत्। प्रातः प्रबुद्धश्च तत्र तमेव शिवालयं ददर्श न तां दिव्याङ्गनां नापि पुरं तत् तथाविधपरिच्छदयुतम्। ततः स समुद्विग्नो निर्गत्य मठिकायां स्मिताननं पृष्टरात्रिवृत्तान्त तं तापसं व्यजिज्ञपत् भगवन् ! त्वत्प्रसादात् रजन्यामह सुखसुषितः, किन्तु तया दिव्याङ्गनया विना मे प्राणा यास्यन्तौति तदाकर्ण्य स तापमो हसन्रब्रवीत् इहैव तिष्ठ, पुनर्नश तथेव ते सुख भविष्यति। इति तेन व्रतिना अभिहिते स चन्द्रस्वामी तस्य तापसस्य प्रसादात् प्रतिक्षपं तान् तान् भोगान् अभुत।शनैश्व तस्य त त विद्याप्रभावं विदित्वा विधिचोदितः स चन्द्रस्वामी तं तापसं प्रसाद्य एकदा ययाचे भगवन् ! यदि सत्यं शरणागते मयि ते कृपा जाता, तदेतां विद्यां मे देहि यस्या अयमीदृशः प्रभावः। इति निर्बंन्धात् प्रार्थयमानं तं स तापसः प्रत्यवादीत् भद्र। एषा विद्या तव

असाध्या, असौ अन्तर्जले साध्यये। तत्र चैषा जनतः साधकस्य विमोहाय तथा मायाजालं सृजति, यथा स सिद्धिं न लभेत। स हि जापकस्तन पुनर्जातं बालकमात्मानम् ईक्षते, ततो युवानं कृतदारं जातात्मजम् ततः प्रपश्यति। न च सुहृदयं मे शत्रुरयं मम इति मिथ्या प्रपश्यति। इदं जन्म, नापि विद्यासाधने प्रवृत्ति स्मरति यस्तु चतुर्विंशतिवर्षं तथा जपन् जन्म स्व’ स्मृत्वा तत्तत् माया विजृम्भितं विदित्वा तदवशे वह्निप्रवेशं कुरुने स एष परमार्थतो जलोत्तीर्णः सिद्धविद्यां पश्यति। एषा च सुशिष्यस्यै व सिप्रति अस्थानार्पणात् गुरोरपि विनश्यति। मत्सिदेव ते फले सिडे किं ते अमुनावहेल।मम सिडिहानौ एषा तदैव विनङ्कयति। एवं तपोखिनोक्तऽपि स चन्द्रस्वामी शच्यामि सर्व मा तावदत्र भगवन्। चिन्ताभूः, इति तं तापसमब्रवीत्। ततः स तापसः तस्मै तां विद्यां दातु प्रतिपेदे। श्राश्रितानुरोधेन किं हि न कुर्वन्ति साधवः। ततो नदीतीरं गत्वा स तापसस्तमब्रवीत्वत्स ! विद्यां जपन् यदा तां मायां द्रक्ष्यसि तदा मम विद्यया बोधितो मायाग्निमेव प्रविशेः जपतो नदीतटे स्थास्यामि तावत्।अहं हि तवैव इत्युक्ता शुचि स्तमामध्यापयामास। चान्तं शुचिं चन्द्रस्वामिनं तां विद्या ततस्तस्मिन् गुरौ तीरस्थिते स चन्द्रस्वामी तं मूर्खा प्रणम्य सरभसं तां नदीमवततार। श्रवतीर्णश्च तस्यामन्तर्जले तां विद्यां जपन् सहसैव तमायया विमोहितो मिथ्या सर्व जमवतान्त’ विस्मृत्य अन्यस्यां पुरि कस्यापि विप्रस्य पुत्र-

त्वेनोत्पन्नः शनकैर्वृद्धिं गतः कृतोपनयनोऽधीतविद्यः कृतदारश्च दुःखसुखसम्भिन्नः क्रमात् सञ्जातापत्यः समभवत्। ततश्चात्र पुत्रदारखेहासक्तस्तत्तदाचरन् बदरतिः पितृभ्यां बान्धवैश्व सह कियन्तं कालं तस्यौ। इत्थंमिथ्याजमान्तरक्लेशमनुभवतस्तस्य कालप्रबोधिनीं विद्यां कारुणिको गुरुरसौ प्रायुक्त। स चन्द्रस्वामी जन्मान्तरगतः तद्दियाप्रयोगेण सद्यः प्रबोधितः आत्मानं तञ्च गुरुं स्मृत्वा तच्चमायाजालमवेत्य विद्यासाध्यफलमाप्तम् अग्निप्रवेशाय उद्यतस्तै निषेधद्भिर्वदाप्तगुरु बन्धुभिः पय्यैवारि। तैय बहुधा वार्यमाणोऽपि दिव्यसुखलोलुपः स सबान्धवः सज्जित चित नदीतीरमगात्। तत्रागत्य च वृद्धो पितरो भाय्यी बालापत्यानि च रुदन्ति दृष्ट्वा मोहात् पुनरचिन्तयत् कष्ट अनल विशतो मे सर्वे इमे खजना म्रियन्ते न च गुरोस्तद्वचन सत्यं वा मृषा जानामि, तत् किं अग्नि प्रविशामि, उत गृहम्? अथवा गुरोस्तदचः कथं मिथ्या नादृशप्रभावशालिनः ? तदग्निमेव प्रविशामि काममिति पोलोय म चन्द्रस्वामी अग्निमेव प्राविशत्। प्रविश्य च अनुभृतहिमस्पर्शो विस्मितः वह शान्तभयः तस्मात् नदीतोयात् उत्थाय तटमवाप। तत्रोत्थाय स्थितं तं गुरु दृष्ट्वा पादयोर्निपत्य पृच्छन्त तं अग्नि शैत्यान्त सर्व वृत्तान्तमवर्णयत्। ततः स गुरुस्तमुवाच वत्स ! मन्ये त्वया कश्चिदत्र अपचारः कृतः, अन्यथा अग्निः कथं ते शीतोजातः ? एतस्या विद्यायाः साधने एतद्दि अदृष्टम्। तदाकर्ण्यस चन्द्र वामी प्रावदत् भगवन्। नात्र कश्चिन्मया-

पचारः कृतः स्मर्य्यते। ततः स तद्गुरुः जिज्ञासुस्तां विद्यां सस्मार।न च सा तस्य वा तच्छिष्यस्य आविरभृत्। अथ तौ नष्टविद्यौ विषसौ ततो जग्मतुः। इति कथामाख्याय वेतालस्तं भूपं पप्रच्छ राजन् ! संशयमेतंमे किन्धि केन हेतुना विहितेऽपि यथोद्दिष्टे कर्मणि विद्या् तयोर्नटा? एतदाकर्ण्य स राजा तं वेतालं प्रत्यबोचत् योगेश्वर ! जाने, भवान् मे कालं एवं चिपति, तदपि ते ब्रवीमि। दुकरेणापि कर्मणैव पुरुषस्य न सिडिर्लभ्या, शुद्धेनैव कर्मणा। तत्रास्य मन्दस्य विप्रयूनवित्त प्रबोधितमपि यत् विकल्पते स्म तेनास्य विद्या सिद्धिं न गता, अस्थानदानाच्च गुरोर्विनष्टा इति तस्य अस्थानदानाच्च नृपस्य वाचं निशम्य स वेतालः पुनः स्वं निलयं प्रत्यप्रद्यत। राजापि अशिथिलयनः तमन्वेष्ट धावति।

————————————————————

अथ विनवतितमस्तरङ्गः।

————————————————————

अथ राजा पुनः शिंशपातलं गत्वा वेतालं स्कन्धेनारोष्य तथैव प्रातिष्ठत, बेतालोऽपि त गच्छन्तं न्यगादीत् राजन्। अपरां हृद्यां कथां ते आख्यामि श्रूयताम्।

अस्ति वक्रोलकं नाम सुरपुरोपमं पुरम् तस्मिन् सूर्यप्रभो नाम इन्द्रसमः भूपतिरासीत्। यः मौकर्यौद्यतया मूर्त्त्याप्रत्तानन्दो हरिरिव वसुन्धरामिमां समु-

हृवचिरं भुजे बभार। अस्य च प्रभोः धूमासङ्गेषु अश्रुपातः शृङ्गारे मारसंलापः हास्थेषु हेमदण्डाः राष्ट्रेषु आसन्। इत्थ सर्वसम्पदाधारस्य तस्येका अनिर्वृतिरामोत् यदन्तःपुरिका स्थिताखपि पुत्री नोदपद्यत। अवान्तरे ताम्रलिप्यां पुरि धनपालो नाम धनवतामग्रणीमहाबणिक प्रतिवसति स्म। तस्य धनवतो नाम एका कन्या विद्याधरीव शापात् सुरलाकाद्दिच्युता समजनि। तस्यां यौवनस्थायां स बणिक् पञ्चतामवाप। तद्दन सर्वं राजसाहाय्यात् तत् गोत्रजेराक्रान्तम्। ततो हिरण्यवतीनाम तस्य बणिजो गेहिनी अप्रकटस्थितानि रत्नाभरणानि गृहोत्वा तया दुहित्वा धनवत्या साक दायादभयात् पलाय्य गुप्त निशि गृहात् निर्ययो। सा बहिरन्तश्व ध्वान्तेनाश्वकारिता सुताहस्तावलम्बिनी कृच्छ्रात् पुरात् बहिः प्रायात्। तत्र सन्तमसे यान्तो विधियोगात् अलचित शूनाग्रारापित स्थितं चोरम् असेन श्रताडयत्। स चोरः मम जोवस्त्व सावनया अधिक नोड़ित, हा ! क्षणेचारमेतन्म केन दत्तमित्यभाषत। ततः सा बणिगबधूकोऽस्रोति भयात् पप्रच्छ। ताञ्च चौरः प्रत्युवाच श्रहं चौर इति सूचितः। अद्यापि शूले स्थितस्यापि पापस्य मे अप्रवः नोत्क्रामन्ति। तदायें ब्रूहि मे का त्वं क्क चप्रयाप्तीति। तदाकर्य सा बणिक्पत्नी सर्वं खोदन्त तमाह स्म। तावच भगवान् श्खेतमातुः प्राचोमुखमुदभातयत्। ततो दिक्षु प्रकायासु स चोरां बणिक्सुतां धनवर्ती दृष्ट्वा तां तन्मातरमुवाच आय्य ! शृणु मे

एकां प्रार्थनां काञ्चनसहस्रं ते दास्यामि, त्वमिमां ते सुतां मह्यं देहि। किमेतया दत्तया ते इति सस्मित वदन्त्या तया अभिहिते स चौरः पुनरब्रवीत् नास्ति मे गतायुषः पुत्रः, न चापुत्री लोकानश्रुते तदेषा मदाज्ञया कुतश्चित् पुत्र’ जनयेत् स मे क्षेत्रजः पुत्रो भविता। इत्यहमेतां प्रार्थये, तम मातः। सफलयाभीप्सितम्। तदाकर्ण्य सा बणिग्योषित् लोभात् तथेति प्रतिपद्य कुतोऽपि सलिलमानीय चोरस्य तस्य पाणौ सुतेयं मे तुभ्यं दत्तेोति अपातयत्।

अथ स तद्दुहितरि यथोक्तामाज्ञां दत्त्वा तां बणिकयोषितमवादीत् गच्छ मातः! अमुष्य वटस्य अधः खनित्वा तत् मे रक्षितं स्वर्णसहस्रं गृहाण। गतासोश्व मे देहं युक्त्या दाहयित्वा अस्थीनि तीर्थे निक्षिप्य च ससुता वक्रोलकं पुरं व्रज तत्र सूर्यप्रभे राजनि सौराज्यसुखिते जने निरुपद्रवनिश्चिन्ता यथेच्छं स्थास्यसि। इत्युक्त्ता तृषितः तयोपाहृतं जलं पीत्वा शूल व्यथया समुत्कान्तजीवितः समभवत्। ततः सा वणिक्पत्नो गत्वा तस्मात् वटवृक्षतनात् स्वर्णं गृहीत्वा सस्ता सुगुप्त भर्तुः सुहृदी गृहमगात्। तत्र स्थित्वा च युक्त्या तचौरकलेवर दाहयित्वा तदस्थीनि च तीर्थेषु क्षेपयामास।

अथान्येद्युर्गृहीतगुप्तार्या ससुता निर्गत्य प्रयान्ती क्रमेण वक्रोलकं पुरमाससाद।तत्र वसुदत्तनाम्नो बणिजः सकाशात् गृहमेकं क्रीत्वा तया धनवत्या सुतया सह तस्मिन् वास। तस्मिश्वावसरे विष्णुस्वामीति कश्चि-

दुपाध्यायस्तव वसति स्म। तस्य मनस्वामी नाम अतिरूपवान् कश्विद् विप्रः शिष्योऽभवत्। स विद्याभिजनसम्पत्रोऽपि यौवनमत्तः तत्रत्यां हंसावलों नाम विज्ञासिनौं चकमे। सा च सौवर्णदीनारशतपञ्चकं भाटिम् अन्वहमग्रहीत्। तावन्ति च धनानि अप्राप्य असौ विप्रयुवा नितरां चामवपुविन्ताकुलोऽभवत्। एकदा सा बणिक्सुता हर्म्यस्था तादृशं नामकलेवरमपि अभिरामं तं युवानं दृष्ट्वा तद्रूपेणाकष्टचित्ता भर्त्तुचौरस्य आदेशं स्मरन्ती मातरमुवाच अम्ब! विप्रसुतस्यास्य रूपयौवने विश्वम्य नयनामृतवर्षिणी पश्य, एतदाकर्ण्य सा तस्मिन् बडभावां तामवेत्य सा बणिक् पत्नी व्यचिन्तयत् दुहित्रा मे भर्त्तुराज्ञया कश्चित् सुतार्थं वरणीयः तम्मादेष एव किं नाभ्यष्यते ? इत्यालोच्य कामपि चेटीं तमानेतुं व्यसृजत्। सा च चेटीं विजने गत्वा तस्मै तत्मन्देयं शयं। स चहिजबव्यसनी तदाकर्ण्य तामभाषत यदि हंमावली हेतोः दीनारशतपञ्चकं महा दीयते, तदा एकां यामिनीं गच्छामि। इति तेनोक्तया चेष्ट्या आगत्य तयेवोक्ता बकिम्ली तस्या हस्तेन तस्मै तदनं प्राहिणोत्। तदादाय मनः स्वामी तत्य दुहितुरावासयो। आगत्य च रा चकोर इव ज्योत्स्न तां ददर्श तनन्द च। तथा मसम्भोगलीलया तां रात्रिं नीत्वा प्रातःसुगुप्त निर्गत्य यथागतमगात्। सापि बणिक्सुता तस्मात् सगर्भाभूत्।

अथ कालेन मा सुलक्षणं पुत्रमसूत। तां सुतोत्पत्यपरितुष्टां समाटकां निशि हरः स्वप्ने प्रदर्शितवपुरादिदेश

क्रेमसहस्रेण युक्तम् इमं शिशुं राज्ञः सूर्यत्रमस्य द्वारि नोखा मञ्चस्थं कृत्वा त्यज। एवं ते क्षेतं भवितेति समाविष्टा हरेण सा बणिक् सुता तन्माता च प्रबुध्य अन्योन्यखूचतुः तयजतुश्च भगवत्प्रत्ययात् तं राजद्दारं नीत्वा वालकम्। तावच्च तमपि सूर्य्यप्रभं पुत्रचिन्तासमुत्सुकां नृपं स्वप्ने भगवान् दृषध्वजस्तथैव समादिशत् राजन् ! उत्तिष्ठ सिंहद्वारि सकाञ्चनो वालकः तिष्ठति कनाषि स्थापितोऽतिसुलक्षणः मञ्च स्थितः। तं द्रुतं गृहाण। इति शम्भुनादिष्टः स राजा प्रातः प्रबुध्य तबेव दास्ये प्रविस्य विज्ञप्तः स्वयं निर्ययौ दृष्ट्वा सिंहद्वारे सहेमवयं मञ्चस्य शिशु रेखाच्छत्र ध्वजाङ्ग पाणिपादं शुभाकृतिं शम्भुना दत्तोऽयं समुचितः पुत्र इति सानन्दं ब्रुवन् स्वयं बाहुभ्यां गृहीत्वा अन्तःपुरं विवेश। महोत्मवं कृत्वा च दादरीइहनि पुत्रं नाम्ना चन्द्रप्रभवात्। इत्थं स राजपुत्रश्चन्द्र प्रभः क्रमेण वपुषेव गुणोवेनापि आश्रितानन्ददायिना सर्वान् समनुरज्जयन् शनैर्युवा सन् गोव्यौदाव्यश्रुतादिभि बावर्जितप्रकृतिमण्डलः पृथिवीभारवहन क्षमः समजायत।

अथ सूर्यप्रभः पिता तादृशं तं दृष्ट्वा राज्ये अभिषि येव वृद्धो वाराणसीं ययौ। ततश्च तस्मिन् नयशालिनि नये पृथ्वीं शासति स राजा तत्र वाराणस्यां तीव्रतपसा तनुमजहात्। ततः स धार्मिको नरपतिः चन्द्रप्रभः पितृनिधनं श्रुत्वा अनुशोच्च कृतक्रियः सर्वान् सचिवान् अभ्यवात् तातस्य केनापि नाहमनृणां भवितुं चमः, तथापि स्वहस्तेन अस्य एकां निकृतिं ददामि, गङ्गायामस्य अस्थौनि

नीत्वा क्षिपामि, गयाञ्च गत्वा सर्वपितृभ्यः पिण्डं ददामि। एतत्प्रसङ्गेन च मे तीर्थयात्रा भविष्यति। इत्युक्तवन्तं राजानं मन्त्रिणी व्यजिज्ञपन् देव! न तावदिदं ते कत्तुं युक्तं राज्यं हि बहुच्छिद पितृपक्रिया च ते पुरोहितेनापि सम्पद्यते। स्वधर्मपालनात् तीर्थयात्रा न ते साधीयसी, बहुपायं क्वपान्यत्वं नित्यगुप्तः पार्थिवश्चक्व?इति मन्त्रिणां वचः समाकर्ण्य चन्द्रप्रभोऽब्रवीत् अलं विकल्पेन, पित्रर्थे अवश्यमेव मया गन्तव्यम्। तीर्थानि च मया गन्तव्यानि यावत् अहं शक्नोमि पश्चात् क्षविनश्वरें शबीरे को वस्ति कि भावि यावदह नागच्छामि तावत् युष्माभिः राज्य रयमिति इत्थ रातों निश्वयं श्रुत्वा मन्त्रिस्त मामन्। ततः स भूपतिः सर्व प्रयाणसञ्चारं सज्ज चक्रे। अथ शुभेऽहनि म राजा स्नातो हताग्निः ब्राह्मणानवयि वा मज्जितं रथमास्थाव प्रयतः शान्तवेगः सामन्तान् राजपुत्रान् पीरजानपदानपि आमीमाग्लानुयायिनः मन्निवर्त्त्य’ सम्भाष्य च ब्राह्मणैर्ब्राहनारूढ़ेंः पुराहितेन च मन्ह प्रतस्थे। गच्छंश्व पथि विचित्र देशभाषादिविलीकनविनोदितः क्रमात् बहन् देशान् क्रामन् जाह्नवीं प्राप। ददर्श च तां जलकल्लोल पङक्तिभिः जीवानां निदिवागेह सोपानपतिं सृजतोमिव हिमवत्प्रभवां गोरों प्रतीर्थया शम्भोः क्रोडया कृतकेशग्रहां देवर्षिगणवन्दिताम्। ततथ राजा रथादवरुह्य यथाविधि कृतस्नानविधिः पितुःसूर्य्यप्रभस्य अस्थीनि गङ्गाम्भसि निचिक्षेप। तत्र च यथाविधि दानानि दत्त्वा कृतश्राडो रथमारुह्य प्रस्थितः क्रमेण

प्रयागं तीर्थमवाप। तत्र चोपोष्य कृतस्नानो श्राद्धदानादिकञ्च यथाविधि कृत्वा वाराणसीं जगाम। तस्याञ्च त्रीणिदिनानि उपोष्य वृषभध्वजमर्चयित्वा गयां प्रति प्रययौ। क्रमेण नानाविधानि वनानि गिरीन् नदीखातिक्रम्य गयाशिरः प्राप। तत्र विधिवत् भूरिदक्षिणं याडं विधाय गयाकूपे पिण्ड ददतोऽस्य पिण्डमादातु “यो मानुषपाण्यः समुत्तस्थुः। तदवलोक्य स राजा विभ्रान्तः किमेतदिति विमूढमतिः कस्मिन् पाणो पिण्डं क्षिपामीति निजान् ब्राह्मणानुवाच देव। अयं तावदेकचौरस्य पाणिनिश्चितं यस्मिन् लोहमयः शङ्कु श्यते। द्वितीयश्व करोऽयं ब्राह्मणस्य यतो धृतपवित्रो दृश्यते, तृतीयवायं पाणिर्महाराजस्य साङ्गुलीयः सुलक्षणो विभाव्यते। तन्त्र विद्मो वयं कायं पिण्डी निक्षेप्यः, किमिदं भवेदिति। इति विजैरुक्तो राजा निश्वयं कर्त्तुं नाशकत्। इति विचित्रां कथामाख्याय वेतालः स्कन्धस्थित एव पप्रच्छ राजन् ! कस्मिन् हस्ते स पिण्डो देय इति संशयं विन्धि, स्मतां त्वया प्राक्तनः समय इति। राजात्रवीत् वेताल। यनोऽसौ राजा चन्द्रप्रभः क्षेत्रजः चौरस्यैव पुत्रः, नान्ययोः, तस्मात् चौरहस्ते एव स पिण्डो टेयः। विप्रस्य जनकस्थापि स पुत्रो न भवितुमहति तेन हि धनेन एकां रजनीम् आत्मा विक्रीतः। राज्ञः सूर्यप्रभस्यापि संकारदानवर्जनादिभिः असौ पुत्रो भवेत्। यदि तत्कृते मञ्चस्यस्यास्य स्वर्णसञ्चयो न प्राप्येत। राजा सूर्यप्रभो न्यस्तधनेनास्य वर्धनादिकमकरोत्। तस्माता

यस्य हस्ते समर्पिता, यस्याज्ञया राज्ञस्तस्य चन्द्रप्रभस्य जननं यस्य च तत् निखिलं धनं तन्मात्रा समासादितं तेनैव विप्रसुतात् वीजं क्रौतं नस्यैव चौरस्य स क्षेत्रजः पुत्रः तस्मात् तस्यैव हस्ते पिण्डो देव इति मे मतिः। इत्याकर्ण्य स वेतालः पुनरलक्षितः नृपस्कन्धात् तमेव शिंशपातरुमाश्रवत्। राजापि तथैव निश्चलप्रतिज्ञस्तमन्वसरत्।

————————————————————

अथ चतुर्नवतितमस्तरङ्गः।

————————————————————

ततः स राजा शिंशपान्तिकं गत्वा पुनस्तं वेतालं स्कन्धमारोप्य मौनी तथैव चचाल। वेतालोऽपि स्कन्धवर्त्ती तं मौनिनमवलोक्य प्रोवाच राजन् ! कस्तोऽयं निर्बन्धः, गृहं गच्छ, रात्रिसुखं सेवस्व, कुभिक्षोस्तस्यान्तिकं मां नेतुं न ते युक्तं ग्रहातिशयश्चेत् तव, तदा पुनरिमां कथामाख्यामि शृणु।

अस्ति चित्रकूटं नाम नगरम्। तत्राप्तीत् प्रणयिचक्षुषाममृतासारवर्षी राजशिरोमणिचन्द्रालोको नाम। विद्वांसः यं शौर्य्यकरिणः आलानं दानस्योत्पत्तिनिकेतनं रूपस्य च विलासभवनं वदन्ति स्म। सर्वसम्पत्पूर्ण स्यापि तस्य सदृशीं भार्य्यामप्राप्तवतस्तस्य हृदि महानुद्वेगः समभवत्।

एकदासौ राजा उद्देगविनोदाय अश्वीयसैनिकपरिवृतो मृगयार्थं महाटवीं जगाम। तत्र निरन्तरैः शरेः वराहवृन्दानि श्यामलानि तमांसीव रविः करेः भिन्दन् समरदुर्मदान् सिंहान् शरशय्यासु शाययन् शरभांश्च पर्वतोपमान् कुलिशकर्कशप्रासपातैः पातयन् विचचार। इत्थं मृगानन्विष्यन् तीव्रपाणिप्रहारेण वाजिनं भृशं ताडयामास। स च वाजी कगाघातेन पाष्णि घातेन च गाढ़ ताड़ितो विषमं समञ्चागण्यन् क्षणात् वाताधिकजवेन तं भूपं वनान्तरं नयन् दश योजनानि अतिक्रमयामास। इत्थं वाहे चलिते राजा दिङमोहमुपेत्य भ्रमन् श्रान्तः आरात् एकं विपुलं सरो ददर्श। तक गत्वा च तुरगं विपर्य्याणं कृत्वा स्नातपीतं तरुच्छायासु कतिपयान् यवसान् तस्मै दत्त्वा च स्वय कृतस्नानः सलिल पिवन् विगतश्रमो रम्येषु तत्तत्प्रदेशेषु दृष्टि निक्षिपन् एकस्मिन् अशोक्तरारधस्तात् कामपि श्रमुक्तपुष्पाभरणां वल्कलांशुकशोभिनीं वज्रमुग्धजटाजूटस कि शेषमनोरमां सखीद्वितीयां आश्चर्य्यरूपां मुनिकन्यां ददर्श। चिन्तयामास च काममराहतः, केयं ? किं स्वित् सावित्री सरसीषु स्नातुमागता? आहोस्वित् स्वामिविभ्रष्टा गोरी पुन स्तपः कर्त्तुं प्रवृत्ता? किवा दिवातनों कान्तिं प्रेमुं इन्दोः श्रियं धृतव्रतां? तदेनामुपसृत्य वार्त्तामुपल से इत्यालोच्य शनैस्तस्याः समीपमाययौ। सापि तमायान्तं दृष्ट्वा तद्रूपेण समाकृष्टचित्ता प्रारश्वपुष्पस्त्रक्सन्नहस्ता व्यचिन्तयत्कोऽयमीदृक् अस्मिन्नरण्ये, विद्याधरः कोऽपि वा

च्चरितार्थेमनाद्यहशौ, इत्थंवितर्क्य तपया तिर्यक् पश्यन्ती उत्थाय सोरुस्तम्भापि गन्तुं प्रावर्त्तत। अथ राजा तामुपेत्याब्रवीत् सुन्दरि! प्रथमदृष्टस्य दर्शनमात्रार्थिनः दूरागतस्य जनस्य स्वागतादिकमास्तां कोऽयमाश्रमिधर्मः यदेतस्मात् पलाय्यते। इति तेन राज्ञाभिहिते विचक्षणा तदीया सखी तत्र राजानमुपवेश्य अतिथिसत्क्रियामकरोत्। अथ राजा तां सविनयमप्राक्षीत् भद्रे अनया तव संख्या कः पुण्यवान् वंशः अलंक्रियते? कानि वास्याः कर्णरसायनानि नामाक्षराणि? कथं वा अनया कुसुमसुकुमारमिदं वपुः ईदृशे वयसि तापस्या वृत्त्या विजने कदर्थोक्रियते ? एतत् राजवचनमाकर्ण्ये सखी तं प्रत्यभाषत महाभाग। एष महर्षेः कखस्य कन्यका मेनक सन्भवा आश्रम एव वर्हिता इन्दीवरप्रभा नाम। अस्मिन् सरसि पितुरनुज्ञया स्त्रातुमागता। इतो नातिदूरे अस्याः पितुराश्रमः। इत्यभिहितो राजा सम्प्रहृष्ट तुरङ्गमनारुह्य तां कन्यां याचितुं महर्षेः कण्वस्यमाश्रममगात् प्राविशच्च विनीतवेशस्तमाश्रमंबहिःस्थापितवाहः। प्रविश्य च राजा जटावल्कलधरैः पापैरिव तापसैः परिवृतं तेजसा चन्द्रमिव आह्लादिनं त ऋषि कखमद्राक्षीत्। दृष्ट्वेवोपेत्य तं पादयोर्ववन्द। मोऽपि ज्ञानी मुनिः कृतातिथ्यं विश्रान्तं तमभाषत चन्द्रालोक। शृणु यदहं वच्मि ते हितम्। संसारेऽस्मिन् प्राणिनां मृत्युभयं यादृक् तदहं जानामि। सत् निरर्थकं कथमिमान् सृगादीन् हंसि? भीतरक्षार्थमेव।

धात्रा क्षत्रस्य शस्त्रसृष्टं तत् धर्मेण प्रजा रक्ष, कण्टकान् समुन्मूलय। हस्त्यश्वादिभिः साधनैः चलां लक्ष्मीं साधयितुं यतस्व, राज्यसुखं भुङ्क्ष्व दानं देहि दिक्षु यशांसि विकिर, कृतान्तकौड़ितं मृगयाव्यसनं परित्यज यत्र हन्तुर्हन्यमानस्य च तुल्यप्रमादितास्ति तेन वनर्थेन अनेन व्यापारेण किम्? पाण्डोतृपस्य वृत्तत्वया किं न श्रुतम्। एतदाकर्ण्य मुनिवचनं कार्य्यज्ञो नृपः ममभिनन्द्य प्रत्यभाषत भगवन्। अनुशिष्टोऽस्मि, महान् अनुग्रहो मे कृतः अनेन अनुशासनेन। अद्य प्रभृति मृगयानिवृत्तोऽभवं प्राणिनो निर्भयाः सन्तु। तदाकर्ण्य मुनिरब्रवीत् तुष्टोऽस्मि तवामुना प्राणिष्वभयदानेन, तदौसित वरं वृणीष्व इति। तत स कालज्ञो नृपतिरब्रवीत् भगवन्! प्रसन्रोऽसि चेत्, सुतामिन्दीवरप्रभां मह्यं देहि इत्यर्थितः स मुनि स्तस्मै नातागतां तामसरः सम्भव कन्यां प्रददौ। ततः कृतविवाहः मङ्गलालङ्कृत तां मुनिपत्नीकृतप्रसाधनाम् उद्वाष्पैस्तापसैरानिजाश्रमात् कतानुयात्रां तामिन्दीवरप्रभां भार्य्यामादाय वाजिनमारुह्य राजधानीं प्रतस्थे।

एतस्मिन्नन्तरे दूराध्वगममक्लान्तत नृपं वीक्ष्य भगगान् सहस्ररश्मिः खिन्न इव अस्ताचल शिरसि समुपावि अस्ताचलशिरसि शत्। ददृशे च रात्राभिमारिका मृगनेवा क्रमादुद्रिक्तमन्मथा ध्वान्तनीलपट प्रावृता। तस्मिंश्चावसरे राजा जलाशयतीरवर्त्तिनं शाखापल्लव संकुन्न शाद्वलश्यामलस्थलम् अश्वत्थपादपं दृष्ट्वा इह रात्रिं वसामि इति मनसि

अकरोत्। ततस्तुरगांदवतीर्य्यतस्मै वाजिने तृणोदकं दत्त्वा वाप्या स्तस्याः सलिलानि पीत्वा प्रियया सह विशश्राम। तत्कालञ्च शशलाञ्छनः सरागः तिमिरांशुक्रवारी समाक्रम्य प्राच्यमुखं चुचुम्बे चन्द्रकिरणे : समाश्लिष्य प्रसाधिता वीतमानावकाशाः शेषाश्च दिशो विरेजुः। अत्रान्तरे लतागुल्म विवर प्रसृतैरैन्दवैः रत्नदीपाभैः करैस्तरुमूले अवभासिते स राजा तामिन्दीवरप्रभां नवसङ्गमरसोल्लासामाश्लिष्य सुरतोत्सवं सिषेवे। विस्रंसयामास च तस्यास्त्रपामिव नीवीम्। खण्डयामास च दशनैस्तस्या मुग्धभावमिवाधरम्। रचयामास च यौवननिक्षिकुम्भयोः तस्याः कुचयोः सद्रत्न नवनक्षत्रमाला इक नखुतानि। चुचुम्ब च मुहुः सर्वतो लावण्यामृतनिस्यन्दमिव पिवन मुखं कपोलो नयने च। इत्थं तया सह निधुवनक्रीड़या तत्र तां निशां क्षणमिवानयत्।

अथ प्रातः समुत्थाय कृतसान्ध्यविधिः स्वसैन्यानुसन्धानाय तथा कान्तया सह प्रयातुमुत्सुकोऽभवत्। रजन्यां तावच्च विलुप्तकमलिनीशीभं भियेव अस्ताचलकुहरप्रलीन ध्वस्ततेजसं निशापतिं हन्तुकाम इव क्रोधादातातररोचिषि प्रसारित करेरुत्क्षिप्त चन्द्रमण्डले विवस्वति अकस्मात् विद्युत्पिशङ्गजटः कज्जलश्यामलः कालमेघ इव कथित् अन्तमालाकृतोत्तंसः केशयज्ञोपवीतौ ब्रह्मराक्षसः नरशिरोमांसं खादन् कपालेन शोणितं पिवंश समाजगाम। सः अहहासं विमुच्य कुधा अग्नि’ वमन्त्रिव दंष्ट्राकरालो राजानं तं निर्भत्सन्नब्रवीत् पाप ! ज्वाला-

सुखं नाम मां ब्रह्मराक्षसं विद्धि। एष चाश्वत्थो मे निवासः देवैरपि न लङ्घ्यते। सोऽयं त्वया स्त्रिया सह समाक्रम्य परिभुक्तः, तदविनयमिदानीं भुङ्क्ष्व, दुराचारः एषोऽहं कामोपहतचेतसः ते हृदयमुत्पाट्य भोक्ष्ये शोणितञ्च पास्यामि। तदाकर्ण्य तच्च घोरं राक्षसमबध्यमवेच्य दृष्ट्वा च कान्तां भयविह्वलां, भयात् राजा सविनयमवादीत् अजानता मया ते अपराध तत् चमख, तवाश्रमेऽहमतिथिस्त्वां मरणं गतः। दास्यामि च ते ईप्सितं पुरुषं पशुम्। येन ते तृप्तिर्भविता, तत् प्रसीद क्रोधं परिहर इति राज्ञीवचनमाकर्ण्य स ब्रह्मराक्षसः शान्तकोपः अस्तु को दोष इति विविच्य प्रत्यभाषत राजन् ! यः सप्तवर्षीयः महासत्त्वः विवेकवान् ब्राह्मणपुत्रः खेच्छया त्वदर्थमात्मानं दद्यात्, यञ्च हन्यमानं तन्माता हस्तयोः तत्पिता च पादयोः सुदृढ़ महीतले सन्निवेश्य अवभाति, सप्तदिनाभ्यन्तरे तादृशं पुरुषं स्वयं खङ्गप्रहारेण मामुपहारीकरोषि चेत् तदा ते इमं न्यक्कारं श्रमिष्ये, अन्यथा त्वां सपरिच्छदं सद्यो नाशयिष्यामि। श्रुत्वैतत स राजा भयात् तथेति प्रतिपेदे। सोऽपि ब्रह्मराक्षसः तत्क्षणात् तिरोबभूवे।

अथ राजा चन्द्रालोक स्तया इन्दीवरप्रभया सह हयारूढ़ः सुदुर्मना इतस्ततः सैन्यानि चिन्वन् प्रायात्।अहो ! अहं मृगयया मदनेन च विमोहितः अकाण्डे पाण्डुरिव विनाशं गतः अस्य रक्षसः तादृशः उपहारः कुतो लभ्यते? तदिदानींनिजमेव नगरं यामि, पश्यामि किं

भावि। इति ध्यायन् सः समन्तात् अन्विष्यन् स्वसैन्यंस्वनगरं चित्रकूटञ्च प्राप। तत्र अनुरूपभार्य्यालाभेन परितुष्टाभिः प्रकृतिभिः महोत्सवे विहितेऽपि अन्तर्गतविषादस्य तस्य दुःखदुःखेनैव दिनशेषो व्यपगमत्। द्वितीयेऽहनि स रहसि मन्त्रिभ्यः तं सर्वं वृत्तान्तमाचचक्षे।तेषाचैकः सुमतिर्मन्त्री प्रत्यब्रवीत् देव! विषादस्ते माभूत् अहमन्विष्यन् तादृशमुपाहारमानेयामि, विचित्रा हि मेदिनी। एवं राजानमाश्वास्य स मन्त्री सौवर्णों शिशुप्रतिमामकरोत्। यः सप्तवर्ष देशीयः विप्रपुत्रः सत्त्ववान् आत्मानं मातापित्रोरनुज्ञया ब्रह्मरक्षसः उपहाराय प्रयच्छति, यश्च हन्यमानस्ताभ्यां मातापितृभ्यां हस्तपादे प्रगृह्यते, राजा तस्मै तत्त्पत्रोरुपकारार्थं ग्रामशतसहितां रत्नयुक्तामिमां सौवर्णी प्रतिमां तस्मै दास्यति। इति तां शिशुप्रतिकृतिं भ्रामयन् स मन्त्री अजस्र पटहोद्घोषणमकारयत्।

एतदाकर्ण्य एकस्मिन्नग्रहारे कश्चित् द्विजशिशः सप्तवर्षदेशीयोऽपि प्रतिधीरः अद्भुताकृतिः बाल्येऽपि सदा परहिते रतः प्रजानां पुण्यपरिपाक इव मूर्त्तिमान् उद्घोषकान् प्रोवाच भद्राः ! युष्मदर्थे अहमात्मानं ददामि, तिष्ठत, पितरौ बोधयित्वा द्रुतमागच्छामि। इति तानभिधाय तैश्वानुमतः स बालः गृहं गत्वा रचिताञ्जलिः पितरावब्रवीत् अम्ब! तात ! अहं सर्वसत्त्वार्थं एतं विनश्वरं देहं ददामि, तन्मामनुजानीतं इमाञ्च राजदत्तां हेमरत्नमयींग्रामशतान्वितां आत्मप्रतिकृतिं गृहीत्वा वावितरामि

एवं सति मम युष्मदानृष्यं परार्थश्चसिध्यति। युवाञ्च चिरमदरिद्रौ बहून् पुत्रानवासप्रथः। इति वादिनं तं सहसा तौ पितरौ अवोचतां पुत्र! किमेतद् भाषसे? वातेन किं क्षुभितोऽसि? किं वा ग्रहग्गृहीतोऽसि, अन्यथा कथमेवं प्रलपसि। को हि अर्थ शिशुं घातयेत्। कश्च शिशुः देहं दद्यात्। एतत् पित्रोर्वचः श्रुत्वा स बालः पुनरुवाच नाहं बुद्धिमोहात् ब्रवीमि शृणुतं मे अर्थवत् वचमम्। अवाच्याशुचिपूर्ण्य जुगुप्सितं दुःखक्षेत्रंशरीरमिदम् अचिरात् विनाशि, तदेतेन अत्यसारेण यदि किञ्चित् सुक्कतमुपायते, तदेव अस्मिन् संसारे सारमिति बुधैरुच्यते। सर्वभूतोपकारादन्यत् किमस्ति सुकृतम् ? तत्रापि पित्रोभक्तिश्चेत् माध्यते तदा देहादन्यत् किमिव अधिकं सम्पत् स्यते? इत्येवं धीरवचनैः सुदृढ़निश्चयः स शिशुः शोचन्तौ पितरौ स्वमनीषितमङ्गीकारयामास। गत्वा च राजभृत्येभ्यः तां हिरण्मयीं शतग्रामशासनसहितां आनीय ताभ्यां पितृभ्यां प्रददौ।

अथ तान् राजभृत्यानग्रतः कृत्वा स बालकः पितृभ्यामन्वितः चित्रकूटं नगरं प्रति प्रायात्। तत्र प्राप्त अखण्डिततेजसं तं बालकं रक्षारत्नमिव दृष्ट्वा नृपतिः भृशं ननन्द तञ्च रचितमाल्य विलेपनं गजपृष्ठमारोप्य सपिटकं तत् ब्रह्मरक्षसः सदनं निनाय। तत्र तस्याश्वत्थस्य पार्श्वतः मण्डलमालिख्य पुरोहितेन कृतपूजेन वज्ञौ हुते स ब्रह्मराक्षसः मुक्ताट्टहासः स्वाध्यायं पठन् घूर्णन् रक्तासवक्षीवः मुहुः खसन् जृम्भमाणःमेत्रैर्ज्वलन् दिशः देहच्छायया अन्ध-

कारिताः कुर्वन् ज्वालामुखी महारौद्रदर्शनः प्रादुरभूत्। ततो राजा तं दृष्ट्वा विनीतः प्राब्रवीत् भगवन्! अयं तव अभिमतो नरोपहारः समानीतः अद्य स सप्तमो दिवसस्ते प्रतिज्ञायाः। तत् प्रसीद गृहाण इममुपहारं यथाविधि। इति राज्ञार्थितः स ब्रह्मराक्षसः जिह्वया सृक्कणी लिहन् तमुपहारभूतं विप्रसुतमवलोकयामास। क्षणे च तस्मिन्स बालो महासत्त्वो हृष्य व्यचिन्तयत् अनेन स्वदेहदानेन यन्मया सुकृतं अर्जितं तेन मे स्वर्गो वा निरुपक्रियो मोक्षो माभूत् जन्मनि जन्मनि मे परार्थो देहो भूयात्। इति तस्मिन् चिन्तयत्येव क्षणात् पुष्पदृष्टिमुचां देवानां विमानैः नभस्तलमापूर्य्यत। अथ तस्य ब्रह्मरक्षसः पुरतः स्थापितं तं बालं माता करयोः पिता चरणयोरग्रहीत्। ततो यावत् खड्गमाकृष्य राजा तं जिघांसति तावत् स शिशु स्तथा जहास यथा सब्रह्मराक्षसास्तें सर्वे स्वं स्वं कर्म त्यक्का तन्मुखप्रेक्षिणः कृताञ्जलयः मह्वाश्वाभवन्। इति विचित्रां कथामाख्याय स वेतालस्तं पुनरब्रवीत् राजन्! तेन बालकेन तादृशे तस्मिन् प्राणान्तसमये यत् हसितं तस्य को हेतुः? महदत्र कौतुकं मम यदि न वच्यसि जानन्नपि तदा ते मूर्खा दशधा विदलियति। एतदाकर्ण्य स राजा तं प्रत्यभाषत शृणु तस्य शिशोहसे अभिप्रायम्। यो हिदुर्वलो जन्तुः भये प्रत्युपस्थिते प्राणार्थं मातरं पितरं तदभावे राजानं त्राणार्थं विधात्रा निर्मितं एषाञ्चालाभेदेवता माक्रन्दति, तस्य एकोऽपि एतेषु आश्रयो भवेत् अस्य तु सर्वमेव अन्यथा

जातम्। पितृभ्यां हस्तपादं रुद्धं तयोरर्थतृष्णया। राजा च आत्मानं त्रातुं स्वयं हन्तुमुद्यतः। ब्रह्मरक्षः दैवतमपि तस्य भक्षणार्थमुपस्थितम्। अध्रुवस्य अन्तविरसस्य आधिव्याधियुक्तस्य देहस्यार्थे विमूढ़ानामीदृक् विड़म्बनं यत्र ब्रह्मविष्णुरुद्रादयोऽपि अवश्यं विनाशिनः तत्रैषां ईदृशानां शरीरस्य वासना कापि? एतत् मोहवैचित्रमेषां दृष्ट्वा वाञ्छितं सिद्धञ्च मत्वा आवहर्षोदयात् स द्विजशिशुजहास। इति राजवचनमाक एवं स वेतालः तम्य स्कन्धात् भूयोऽपि स्वकं निलयमाससाद। राजापि दृढ़ सङ्कल्पस्तमनुययौ। अम्भोनिधीनामिव सतां हृदयमक्षोभ्यं हि।

—————————————————

अथ पञ्चनवतितमस्तरङ्गः।

—————————————————

अथ राजा पुनः शिंशपामूलं गत्वा तं वेतालं स्कन्धनादाय सत्वरं प्रतस्थे। तच्च प्रस्थितं दृष्ट्वा स्कन्धवर्त्ती म वेतालः प्राब्रवीत् राजन् ! उहाढ़कन्दर्पामिकां कथां शृणु कथयामि।

अस्ति अमरावतीव परा सुकृतिनां दिवश्चुतानां कृते धात्रा विहिता विशाला नाम पुरी। तस्यामासीत् सच्चक्रनन्दनः श्रीमान् आक्रान्तबलिराजकः पद्मनाभ इति

विश्रुतो नृपतिः। तस्मिंश्च राजनि तस्यां नगयां महा बणिक् अर्थदत्तो नाम धनैर्विजितधनपतिः प्रतिवसतिस्म। तस्य अनङ्गमञ्जरीति एका सुता उदपद्यत। यया सुरसुन्दरौप्रतिकृतिर्धाना दर्शिता। तेन बणिजा ताम्रलितिनिवासिने मणिवर्म नाम्ने बणिजे सुता सा प्रदत्ता। एकापत्यतया चातिवत्सलः स बणिक् तां भर्त्तृयुक्तां कन्यामनङ्गमञ्जरीं न तत्याज। स तु मणिवर्मा रोगिणः कटुतिक्तमौषधमिव तस्या अनङ्गमञ्जर्य्याः द्वेष्यो बभूव। भर्त्तस्तु तस्य सा सुन्दरी जीवितादपि कृपणस्य सुचिरसञ्चिता समृद्धिरिव प्रियतराभूत्।

एकदासौ मणिवर्मा उत्कण्ठया पित्रोरन्तिकगमनाय ताम्रलिप्ति प्रातिष्ठत। ततो दिनेषु गच्छत्सु तीक्ष्ण सूय्यांशसायकैः प्रोषितानां निरुद्धमार्गः निदाघकालः समुपस्थितः। वसन्तविरहात् ककुभां मुखनिश्खामा द्रव मल्लिकापाटलामोदमेदुरा मरुतो वान्ति स्म। पवनोद्धृता रेणुराजयः तप्तया भुवा घनागमायेव गगनं प्रहिता दूत्य इव समुत्पेतुः। दिवसा अपि कठोरातपतापिता आकाङ्क्षितरुच्छायाः पथिका इव चिरेण यान्ति स्म। निशा च चन्द्रांशुपाण्डुरच्छायाः गाढ़ा श्लेष सुखप्रदं हेमन्तं विना अतिदुर्बलतां ययुः। एतस्मिन् समये चन्दनानुलिप्ताङ्गी परिहिततनुवसना स्वग्टहवातायनस्थिता अनङ्गमञ्जरो कमपि आप्नेन सुहृदा सहितं भव्यं युवानं रतिप्राप्तये सञ्चरन्तं नवोत्पन्न स्मरमिव कमलाकरनामानं राजपुरोहितं ददर्श। सोऽपि कमलाकर इन्दोरिव

मूर्त्तिमुपरिस्थितां तां कान्तां दृष्ट्वा सानन्दः कुमुदाकरतामभजत। तदा तयोर्यूनोरन्यान्यावलोकनं स्मरस्य गुरोरनुज्ञया अचूर्ण मनःसंबलनमभूत्। इत्थंतां दृष्ट्वैव म कमलाकरः सद्यो मदनाविष्टः सुहृदा तेन कथञ्चित् स्वं भवनमनीयत। सा चानङ्गमञ्जरीतथैव मन्मथ मोहिता सख्या मुखात् तन्त्रामधामनौ श्रुत्वा तयैव सह शनैः वासकं विवेश।तत्र त कान्त सञ्चिन्तयन्ती कामज्वरातुरा शयनीये केवल लुठन्ती किमपि नापश्यत् नाप्यशृणोत्।

इत्यं गतेषु द्वित्रेषु दिनेषु सत्रपा सभया विरहेण कृशपाण्डुरा दुष्यापप्रियसम्भोगनिरास्था नक्तमेकदा गवाक्षप्रेरितकरेणेन्दुना प्रकृष्टेव सुप्ते परिजने निर्गत्य मरणनिश्चया स्वगृहोद्यानवापीं तरुतलवर्त्तिनीमगात्। तत्र पित्रा कृतप्रतिष्ठां कुलदेवतां चण्डीं समुपेत्य प्रणम्य स्तुत्वा व व्यजिज्ञपत् देवि ! अस्मिन् जन्मनि चेत् न मया कमलाकरः पतिः प्राप्तः, तदा अन्यस्मिन् जन्मनि स मम पतिर्भूयादिति प्रार्थं तस्या देव्याः पुरतः अशोकपादपे खोत्तरीयेण पाशं विरचयामास। तावच्च तस्याः सा आप्ता सखी प्रबुध्य वास के तामदृष्ट्वा चिन्वती दैवात् तदुद्यानमगात्। तत्र चागत्य तां गले पाशं योजयन्तीं दृष्ट्वा मा मा इत्युक्ताप्रधाब्यैव तस्याप्त पाशमच्छिनत्। सापि तां हृतपायां निजां सखीं प्राप्तां दृष्ट्वा अतिदुःखिता भूमौ पपात। ततश्च सख्या तथा समास्वासिता पृष्टा च दुःखहेतुं समुत्थाय तामकथयत् सखि मालति ! दुर्लभ तस्मिन् प्रियसङ्गमे

पित्रादिपुरतन्त्राया मे मरणात् परं सुखं नास्ति। इति ब्रुवाणा भृशमनङ्गशराग्निज्वलिता नैराश्यनिश्चयवती मोहं जगाम। हा कष्टं स्मरस्य शासनं तथा दुर्लङ्घ्यं यथा इयमेतां दशां नीता इति विलपन्ती सा मालती सखी तां शोताखुपवनादिभिः शनैराश्वासयामास। चकार चाख्याः तापोपशान्तये नलिनीदलेः शय्याम्।ददौ हृदये तुहिनशीतलं हारम्। ततः सा अनङ्गमञ्जरी लब्धसंज्ञा शनैः तां सखीं उदवाष्पां प्रोवाच सखि! हारादिभिः नायं मे अन्तर्दाहः प्रशाम्यति। यदि मां जीवितामिच्छसि तदा सुयुक्त्या तेन कान्तेन मां योजय। एवं वादिनों तां स्नेहार्द्रा मालती प्राब्रवीत् सखि प्रायेणाद्य निशा गता, तत्प्रातरेव इह तं ते प्रियतमं सङ्गतेन आनेव्यामि। तस्मादालम्बा धृति मधुना स्वं निवेशनं गच्छ्र। इत्युक्तवत्यै सख्यै सानङ्गमज्जरी तुष्टा कण्ठादा कृथ हारं पारितोषिकं दत्ताती। गच्छात्र इदानीं स्वगृहं ततः प्रातः कार्यसिद्धये गन्तव्यं त्वया इति तां सखीमुपदिश्य सा स्वमावाम प्राविशत्।

अथ प्रातः सा मालतिका केनाप्यनुपलचिता तस्य कमलाकरस्य भवनं चिन्वती गत्वा तत्रोद्यानतरुमूले चन्दनार्द्र पद्मिनीदल शय्यायां स्थितं एकेन रहस्यविदा सुहृदा कदलीदलवीजनै राखास्यमानं कामाग्निना दंदह्यमान तं कमलाकरमद्राचीत्। सा तु मम सख्या विना एतस्य ईदृशी कामावस्था स्यात् नवेति वेदितुं प्रच्छन्ना विनिश्चयं तस्थौ। तावत् सुहृत् स कमलाकरमवादीत्

मित्र।क्षणमत्र मनोरमे उद्याने दत्तदृष्टि रन्तःकरण विनोदय, मा भृशं व्याकुलतां गमः। तदाकर्ण्य म सुहृदं तं जगाद मम अनङ्गमज्ञ्जया मनो हृतं तदिदं मदौये शरीर एव नास्ति कुतो विनोदयामि। स्मरेणाहं शून्यहृदयो वाणतूणीकृतोऽस्मि, तत् यथा तां मनश्चौरों प्राप्नोमि तथोपायं विधत्स्व। इति तेनोक्ते सा मालती निःशङ्का सस्प्रहृष्टा समुपेत्य आत्मानं प्रदर्श्य तमुवाच सुभग। अनङ्गमञ्जया तवान्तिकं प्राहितास्मि निसृष्टाहं ते सन्देशं ब्रवीमि। क एष शिष्टधर्म, यत् हठात् हृदयं प्रविश्य मुग्धया मनः मुषित्वा गम्यते। चित्रमिदं नथापि वामथा तथा अधुना मनोहराय तुभ्यं देहोऽपि प्राणैः सह दातुमिष्यते।सा हि सन्तप्तान् दिवानिशं हृदि ज्वलितस्य कामाम्गेधूमानित्र निश्वासान् विमुञ्चति मुहुश्वास्याः साज्ञ्जना वाष्प विन्दवः वदनाम्भोजसौरभलुब्धा मधुकराः इव सम्पतन्ति। तद् यदोच्छसि तत् उभयोः शिवं वच्मि। इति मालत्या तथोक्तः कमलाकरः प्रोवाच भद्रे! तवेयं वाक् विधुरावस्थां वहभावाञ्च मे प्रियां वदन्ती भयं करोति आश्वासयति च। तदेका त्वमेवात्र गतिः तत् यथोपायं कुरुष्व। इति तेनोके मालतिका प्रत्यवोचत् अद्य तामनङ्गमञ्जरौं गुप्त नक्तं स्वभवनोद्यानं प्रापयिव्यामि त्वं तत्र वाह्यतः तिष्ठः। ततस्त्वां सुयुक्त्या तंत्र प्रवेशयिष्यामि इत्थं युवयोः समागमो भविता। इति कययित्वा तं विप्रपुत्र मानन्ध मालती कृतार्था गला तामनङ्गमय्जरीं अभ्यनन्दयत्।

अथाह्ला सह दिनपतौ सन्ध्यानुरागिणि क्वापि गते, वामवाशया स्वानने इन्दुतिलकेन प्रसाधिने पद्माकर त्यक्त्वा श्ररिदान मां पाप्नेतिहर्षात् उत्फुल्लवदने विषदेकुमुदाकरे इसति स कामो कमलाकर पमाविताङ्गः समुत्सुकः खैरं कान्तायास्तत्या गृहोद्यानवारि समुपागमत्। मालतीच ताजनङ्गमज्जरींकृच्छ्रात् गमितवाप्तरां युक्त्या तद् गृहोद्यानमानिनाय। आनीय तां चूतशाखिनां तलेषु समुपवेश्य निर्गत्य तत्र त कमलाकर प्रावेशयत्। स च प्रविश्य पान्य इव पत्त्रौघघनपादपमध्यवर्त्तिनीं छायामिव तामनङ्गमञ्जरीमद्रा चौत्। यावश्च स तामुपैति तावत् सा दृष्ट्वैव प्रधाव्य कामावेशहृतब्रीड़ा कण्ठे तं सहसाग्रहीत्। क यासि लब्धाऽसि मया मनस्तस्वर। इ बालपन्ती स्त्क्षण सा श्रतिहर्षभर स्तब्धनिश्वासा पञ्चतामगात् पपात महीपृष्ठे वातरुग्ना लतेव विचित्र वत कामस्य विषमः क्रमः। तदशनिपातोय’ दृष्ट्वा स कमलाकर. मद्यः हा! हा! किमेतदित्युक्ता मूर्च्छितो निपपात। क्षणेन च लब्धसंज्ञस्तां प्रियामङ्कमारीष्य आलिङ्गन् परिचुम्बन् बहु विलपंश्च तथा दुःखातिभारण प्रसह्य न्यपीव्यत यथा तस्यापि तदा हृदयमस्फुटत्। श्रथ तौ तथा क्षीणौ दृष्ट्वा रजनी क्रिया भिया च चीवाभवत्।

अथ प्रातरुद्यानपालेभ्यस्तंवृत्तान्तं ज्ञात्वा तयोर्बन्धजनःवपाचयै दुःखमोहाकुलः तत्रागात् कर्त्तव्यमूढश्च चिरमवाङ्मुखः समभवञ्च। हा ! कष्ट कुयोषितः कुलखलीकार हेतवः। तस्मिंश्चावसरे तस्याः पतिः मणिवर्मा, अन-

तमञ्जर्य्या सोत्कण्ठः ताम्बलिप्तितः पितृगृहात् समाययौ। स श्वाशुर गृहं प्राप्य तं व्यापारमवेक्ष्य च वाष्पाभ्वलोचनो ध्यायन् तदेवोद्यानमागत्य भार्य्यां तामन्यसहि. तामपि गतासु दृष्ट्वा शोकाग्निज्वलिताङ्गः सद्यः प्राणान्जहौ। ततः सर्वस्मिन् जने कोलाहलाकुले क्रन्दति ज्ञातवृत्तान्ताः सर्वे परास्तत्र समाययुः। अथानङ्गमञ्जर्य्याः पित्रा पूर्व प्रतिष्ठापिता सन्निहिता देवी चण्डी निजैः गणेः सकृपैः विज्ञप्ताभूत् मातः। त्वदाकार प्रतिष्ठापयितायमर्थ दत्तः सदैव ते भक्तो बणिक् तदस्य अस्मिन् दुःखे दयां वितरतु भगवतीति। एतद् गणेभ्यः श्रुत्वा शरण्या सा शङ्करी शान्तानङ्गास्त्रयोऽपि एते जीवन्तु इति समादिशत्। अथ सर्वेऽपि सुप्तप्रबुद्धा इव क्षणात् तत्प्रसादात् जीवन्तागतमन्मयाः समुत्तस्थुः। ततो दृष्ट्वा तद् व्यापार सानन्द तत्रत्वे सर्वस्मिन् जने कमलाकरः लज्जावनतमुखः स्वगृह प्रायात्। अर्थदत्तोऽपि तां हीतां सुतामनङ्गमञ्जरीं भर्तृसहितामादाय सोत्सवं गृह प्रविवेश। इति कथां कथयित्वा तस्यां रात्री पथि स वेतालः त क्षौणीपतिमगदत् राजन्! कस्यैतेषु अनुरागमरणे मोहातिरेक ? जानश्च न चेत् वदसि, तदा स पूर्वी एव शापः स्मरणीयः। तदाकर्ण्य राजा तं प्रत्युवाच योगेश्वर! एतेषु मणिवर्मा एवातिमूढ़ो, योहि भार्य्यामन्य पुरुषासक्तमृतां दृष्ट्वैव कोपकाले प्रत्युत रक्तः शुचा प्राणानमुञ्चत्। इति निगदितवतस्तस्य नृपतेः स्कन्धात् स वेतालः सहसा स्वं निलयं प्रतस्थे। राजापि भूयस्तथैव कृतप्रयत्न स्तमन्वधावत्।

अथ षष्णवतितमस्तरङ्गः।

—————————————————

अथ राजा तमेव शिवपातरुं गत्वा तञ्च वेतालमादाय स्कन्धमारोप्य च गन्तव्य भूमिमभिप्रतस्थे। तञ्च प्रस्थित पथि पुनः वेतालः प्राक्रमत वक्तुं राजन्। साधु सुसत्त्वस्त्व तदपूर्वामिमामपरां कथां कथयामि श्रूयताम्।

अस्ति कुसुमपुर नाम नगरम्। तत्रासीत् धरणीवराही नाम भूपतिः। तस्य ब्राह्मणभूयिष्ठे राज्ये ब्रह्मस्थलाभिषोऽग्रहारोऽभवत्। तत्र विष्णुस्वामी नाम कोऽपि द्विजः प्रतिवसति स्म। तस्य हविर्भुज इव स्वा नाम भार्याभूत्। तस्यां तस्य चत्वारः सुता जज्ञिरे। तं च कालक्रमें ए पितरि स्वर्गते ज्ञातिभिर्हत सर्वस्व मिश्री मन्वयाञ्चक्रुः इहास्माक गति र्नास्ति तदन्यत्र व व्रजाम इति मन्त्रयित्वा यज्ञस्थनाभिधेग्रामे मातामहावास बहुभिर्दिनेरगमन्। तत्र मातामहाभावात् मातृनैः सुमत्कृताः स्वाध्याय तत्परास्तस्थुः। कालक्रमेण ते अकिचनाभोजनाच्छादनादिषु तेषां मातुलानामवज्ञाभाजनतां जग्मुः। ततः स्वजनजेनावमानेन हतात्मनां तेष ज्येष्ठः रहसि तानब्रवीत् भ्रातरः! किं क्रियते, सर्वं विधिकृतमवधारयत। पुरुषस्येह कस्यचित् क्वचित् किमपि कर्त्त न शक्यम्। अहं हि उद्देगेन भ्राम्यन् कानन प्राप्तः अघ विपन्नस्थितं खस्ताङ्ग पुरुषं भुवि अद्राक्ष मचिन्तयञ्च तां

गतिं स्पृहयन्। अयं हि धन्यः यः दुःखभारं विमुच्य स्थितः। इति संचिन्त्य तत्काल मरणनिश्चयं कृत्वा वृक्षाग्रलम्बिना पाशेन आत्मानमुदलम्बयम्। यात्र में विसंज्ञस्य मे असवो न निर्यान्ति तावत् त्रुटितपाशोऽहं महीतले पतितोऽस्मि \। लब्धसंज्ञश्च केनापि कृपालुना पुंमा तत्क्षणमागतेन पटमारुतैराश्वास्यमानमपश्यम् ततः स मामब्रवीत् सखे ! कथय विद्वानपि कं प्रति एवं खिद्यसे ? सुकृती सुखमाप्नोति, दुष्कृती दुष्कृतादेव दुःखमाप्नोति नान्यतः। दुःखात् यदि तवेदृशःसमुहयोगः,तत् सुकृतं समाचर। आत्मघातेन कथं नारकं दुःखमभिवाञ्छमि। इत्युक्ता मां समाश्वास्य स पुमान् क्वापि गतः। अहञ्च तादृशं मरणोद्यमं त्यक्ता इहागतः। तदेवं विधौ अनिच्छति मरणमपि न लभ्यते। इदानीं तपसा तीर्थे तनुं दाहयामि येन पुनरहं निर्धनतादुःखभागी न स्याम्। इत्युक्तवन्तं त ज्येष्ठ कनिष्ठाः प्रात्रुवन्। आये! अथैविना कथं प्राज्ञोऽपि दुःखेन बाध्यते ? किं न जायते? यदर्थानां शरदवचला गतिः। आहृत्य रत्यमाणापि यत्नेन, अन्तविरसा असन्मैत्री च वेश्या च श्रीश्चकस्य कदा स्थिरा? तदुद्योगिना मनस्विना स गुण; कोऽपि उपार्जनीयः, येन हठात् बह्वाअर्थहरिणः सुखमानौयते। इति भ्रातृभिरुक्ता ज्येष्ठः चणात् धैर्यमवलम्बा उवाच को गुणस्तादृक् अर्जनीयो भवेदिति। ततः सर्वे ते विचिन्त्य परस्परं वदन्ति स्म पृथ्वीं विचित्य किमपि विज्ञान वयं शिवामहे। एवं निश्चित्य सर्वे

समागमे सङ्केतस्थानमुक्ता एकैकशः ते चत्वारो भ्रातरश्चतस्रो दिशः प्रययुः।

अथगच्छति काले सर्वे सङ्केतनिकेतने मिलिताः केन कि शिक्षितमिति अन्योन्यमपृच्छन्। अथैषामेकोऽब्रवीत् मया ईदृक् विज्ञानं शिक्षितं येन अस्थिशकलं प्राप्य यस्य कस्यचिदपि प्राणिनः तस्मिन् तदुचितानि मांसानि उत्पादयामि। एतदाकर्ण्य तेषु द्वितीयोऽवदत् अहं तथा विज्ञानमशिति यथा सज्जातमांसे अस्थिशकले तत्प्राणिसम्भवं लोमानि त्वचश्च जनयितुं पारयामि। तृतीयोऽवदत् मया ईदृशं विज्ञानमधिगतं येन जातत्वङ्मांसलीमनि प्राण्यवयवान् चक्षुरादीन् स्रष्टुं जाने। चतुर्थोऽबादीत् अहं उत्पन्नावयवं तं प्राणैर्युक्तं कर्त्तुं शक्नोमि। एवं ते परस्परमुक्ता विज्ञान परीक्षणाय चत्वारोऽपि अस्थिखण्डमानेत मटवीं ययुः। विधिवशाच्च ते तत्र सिंहस्य अस्थिखण्डं प्रापुः। जगृहुश्च अविज्ञात विशेषास्तदेव। एकस्तत्ममुचितै मांसैस्तदस्थिखण्डम योजयत्। द्वितीय स्तस्य त्वचो लोमानिच् उदपादयत्। तृतीयोऽपि समग्रैरिन्द्रियैस्तदपूरयत्। चतुर्थस्तु यदा तस्य सिंहीभूतस्य जीवितमदाद् तदा उद्भूतसटाभारोऽतिभयङ्करः दंष्ट्राकरालत्रदनः खरनखाडुशः सिंहः समुत्तस्थौ। सच स्वीत्पादकान् तान् चतुरोऽपि स्वमुत्थाय अवधीत् प्राविक्षञ्चसद्योऽरण्यम्। एवं ते विजपुत्राः सिंहनिर्म्माणदोषात् सर्व एव विनाशं गताः। दुष्टं जन्तुमुत्थाप्य कस्य वा सुखं भवेत्। इत्थं प्रतिकूले विधौ यत्नेनोपार्जितो

गुणः न सम्पत्तये, प्रत्युत विपत्तये एव भवति। मूले दैवे अविकृते प्रज्ञानवारिणा सिक्तः पौरुषपादपः नवालवालः प्रायः फलति। इति कयां समाख्याय निशि गच्छन्तं तं भूपतिमपृच्छत् राजन्। पूर्वकृतं शाप स्मृत्वा वद क एषां सिंहनिर्माणे विशेषेण अपराध्यति? इति श्रुत्वा राजासौ मौनी व्यत्तिन्तयत् अथ पुनर्गन्तुमिच्छति, यातु, पुनरहमेनमानेष्यामि, इति निश्चित्य समवादीत् यस्तेषां मध्ये सिंहस्य प्राणदाता स एव पापकृत्। प्राणि विशेषमबुद्धा युक्तिबलात् यैममत्वग्लोमावयवनिर्माणा कृतं तेषामज्ञानात् नैव दोषोऽस्ति। येन तु सिंहाकारं दृष्ट्वापि विद्याप्रकाश कामेन प्राणास्तस्य दत्ताः तेनेव ता ब्रह्महत्याः कृताः इति राज्ञो वचन निशम्य स वेतालः स्वमेव धाम प्रायात्। राजापि पुनस्तमनुसरन् शिशपान्तिकमगात्।

—————————————————

अथ सप्तनवतितमस्तरङ्गः।

—————————————————

ततः स राजा शिंशपातरुमुपेत्य मौनी दर्शितानेकवैक्कृतं तं वेतालं स्कन्धे नीत्वा प्रातिष्ठत। वेतालोऽपि स्कन्धे स्थित स्तमब्रवीत् राजेन्द्र ! कार्येऽप्येतस्मिन् ते दुर्वारो ग्रहः, तत्ते श्रमविनोदाय कथामिमां कथयामि शृणु।

आसीत् कलिङ्गदेशे शोभावती नाम पुरी। स्वय

दिवीव सुकृतिनः प्रतिवसन्ति स्म। प्रद्युम्न द्रव ऐश्वर्य्यवीर्य्यातिशयेन विश्रुतः प्रद्युम्नो नाम नृपतिः सम्मूर्जितशास नस्तां शसास। यस्मिंश्च राजनि चापेषु गुणांपकर्षः, मुरजेषु कराहतिः, युगेषु कलिः प्रज्ञासु च तीक्ष्णता अश्रूयत। तस्या श्च पुरः क्वचित् प्रदेशे यज्ञस्थलाभिधानो बहुद्विजः कश्चिदग्रहारः नृपेण प्रतिष्ठापितः। तत्र कश्चित् वेद्यारगो महाधनो अग्निहोत्री पूजितातिथिदेवः यज्ञसोमो नाम ब्राह्मणः समवात्सीत्। तस्य वार्द्धके अनुरूपायां भार्य्यायां एक एव सुतः समुदपद्यत। स च बालः पितुः प्रयत्नात् दिने दिने वर्द्धमानः शुभलत्रण्युतः देवसोम इति पित्रा कृतनामधेयः पित्रो रतिस्नेहपात्रतामगात्। अथ प्राप्ते षोड़शे वर्षे स बालकः विद्याविनयादिभिरावर्जित समस्वजनः सहसा ज्वरेणाक्रान्तः पञ्चतामवाप \। ततः परासुं तं दृष्ट्वा समाश्लिष्य च हाहेति रुदन् यज्ञसोमः भार्य्याया सहितः स्नेहात् दाहाय न जहौ। ब्रह्मन्! गन्धर्वनगरस्येव संसारस्य गतिं परावरज्ञोऽपि किं न वेत्त्म? ये हि राजानः अमरम्मन्या अस्मिन् भूलोके व्यलसन् तेऽपि एकैकशः श्मशानेषु रूदत्प्रेतनुयायिपूर्णेषु चिताधिरूढ़ाः क्रव्यात् कृशानुना दग्धाः, शिवाभिश्व कालेन कवलीकताः कैश्विदपि न रोद्धुं शक्तिाः का कथा अन्येषां हे विद्वन! तदेतं प्रेतमाश्लिष्य किं करोषि वद इत्येवं वृद्धाबन्धवः मिलितास्तं प्राबोधयन्। ततः कथञ्चित् तेन मुक्तं तं सुतंशिविकामारोप्य ते बान्धवाः कोलाहलसमाकुला श्मशानं निन्युः।

अत्रान्तरे तत्रश्मशाने कोऽपि तापसः पांशुपतव्रती मठिकायां कृतनिवासः वयसा तपसा चातिभूयसा कृशां तनुं विभ्राणः भङ्गभोत्येव शिराभिः परिवेष्टितः विद्युत्पिशङ्गजटः द्वितीयो महेश्वर इव प्रतिवसति स्म। तस्मिंश्व काले स तापसः त जनकोलाहलं श्रुत्वा दृप्तोपालम्भहितं भिक्षाफलधरमन्तिकवर्त्तिनं शिष्यं जगाद वत्स! कथमयं जनकोलाहलः श्रूयते, गत्वा वहिर्विज्ञाय सत्वरमागच्छ, कुतोऽयमतपूर्वः सुमुलो रवः। इति तेन गुरुणोक्तः सशिष्यस्तं प्रत्युवाच नाहं यामित्वं स्वयमेव याहि मे भिक्षासमयोऽतिक्रामति। तदाकर्ण्य स गुरुरब्रवीत् धिक् मुर्ख! उदरम्भरे! अह्नः अप्रहारे याते का तव भिक्षावेला? श्रुत्वैव क्रुद्धः स कुशिष्यस्तं तापसं प्रत्यवदत् धिक् जराजीर्ण! नाहं ते शिष्यः, त्वञ्च मे न गुरुः, अहमन्यत्र यास्यामि त्वं स्वयं इदं पात्र वह। इत्युक्त्वा स क्रुद्धः अग्रे दण्डकुनिकां त्यक्त्वा समुत्थाय प्रायात्। ततः स तापसः विहसन् तस्मात् मठात् निर्गत्य तत्रागात् यत्र दाहार्थं स मृतो दिजार्भकः समानीतः। तं जनतया शोच्यमानाग्रयौवनं दृष्ट्वा जरार्हितः स योगी तद्देहं प्रवेष्टुं मतिमकरोत्। ततः एकान्ते गत्वा मुक्तकण्ठं प्ररुद्य च यथोचितैरङ्गहारैर्ननन्त। ततः चणेन स तपस्वी पुनः यौवनमुखमनुभूषुः योगात् स्वां जीर्णांतनुं विहाय तत् विजपुत्रकलेवरं प्राविशत्। क्षणे च तस्मिन् स द्विजयुवा रचितायां चितायां सहसा लब्धजीवः समुत्तस्थौ। तदवलोक्य बन्धुवर्गस्य सर्वस्य दिष्ट्यायं बालको जीवति जीव-

तोति सहर्षनिनादः समुदचरत्। अथ विप्रपुत्रशरीरान्तःस्थःस योगेश्वरः तान् बन्धूनब्रवीत् लोकान्तरगतस्य मम शर्वेण जीवितं दत्वा महापाशुपतव्रतं त्वया धार्य्यमिति समादिष्ट अधुनैव मया एकान्ते गत्वा तद्वतं ग्राह्यं नोचेत् मे जीवितं नास्ति, तद्यूयं गृहं यात, अहमपि यामि इति सर्वान् तान् तत्त्रस्थान् संबोध्य दृढ़निश्चयः हर्षशोकाकुलान् तान् स्वगृहं प्रेषयामास। स्वयञ्च गत्वा तत् पूर्व कलेवरं श्वभ्रे क्षिप्त्वागृहीतव्रतो युवीभूय अन्यतो ययौ।इति कथां समाख्याय वेतालः निशि पथि यान्त तं त्रिविक्रमसेनं नृपं पुनरब्रवीत् राजन्! ब्रूहि स योगीन्द्रः परदे हे प्रविशन् कथं वा पूर्व प्रारुदत् किमर्थं वा अनृत्यत् अत्र मे महत् कौतुकं वर्त्तते। इति वेतालात् श्रुत्वा शापशङ्की राजा मौनं विमुच्य तमवादीत् शृणु वेताल! सिद्धिकारकं बाल्ये पितृभ्यां लालितं, अद्य इदं त्यजामीति दुःखितःदुस्त्यजदैहिकस्नेहात् प्रथमं रुरोद। नवं देहं प्रविश्य अधिकं व्रत साधयिष्यामि इति यौवनलाभहर्षात् ननर्त्त च। एतत्तस्य राज्ञः वचनं निशम्य स वेतालःपुनःसहसा तं शिंशपापादपमगमत्। राजापि अविचलितोत्साहः पुनस्तमन्वसरत्।

————

अथ अष्टनवतितमस्तरङ्गः।

—————————

ततः स राजा तां तिमिरश्यामां चिताग्निज्वलिनेक्षणां घोरां रजनिराक्षसीमगणयन् वीरः तस्मिन् भीषणे श्मशाने तां शिंशपां गत्वा तं वेतालं स्कन्धमारोप्य पूर्ववत् प्रातिष्ठत। वेतालोऽपि गच्छन्तं तं नरदेवमुवाच भो राजन्! अहं गतागतैर्भृशमुद्विग्नः, न पुनस्त्वं तदेकं मे महाप्रश्रं कथयतः समाकर्णय।

आसीत् पुरा दक्षिणापथे धर्मो नाम मण्डलेश्वरः साधूनां धुरन्धरः बहुगीत्रजः नरपतिः। तस्य चन्द्रावती नाम मालवदेशभवा भार्य्यासीत्। तस्यां कन्येका प्रसूता। तस्याञ्च कन्यायां प्रदेयायां स धर्मनरपतिः राष्ट्रभेदिभिर्दायादे मिलितैरुन्मूलितः पलाय्य सुट्टशा ‘भार्यया तया च दुहित्रा सह रात्रौ संगृहीतरत्नसञ्चयः स्वराष्ट्रात् निरगात्। मालवे स्वशरं गृहं प्रति स्वैरं गच्छन् स तथा पत्न्या सुतया च सह विन्ध्याटवीमाससाद। तस्यां कथञ्चित् श्रान्तया भार्यया सुतया च परिखिन्नः निशामनयत्। आथ प्रातः भगवान् विभावसुः कंरान् प्रसारयन् मागा चौराटवीमेतामिति तं राजानं वारयत्रिव पूर्वा दिशमारुरोह। ततो राजा पदातिः वसन्त्या सुतया जायया च सह कुमकण्टकैः क्षताङ्घ्रिः भिल्लानां परेषां प्राणसर्वस्वहारिभिः पुम्भिरावृतां धार्मिक-

जनरहितां कृतान्तनगरीमिव दुर्गां पल्लीमगच्छत्। तत्रागच्छन्तं वसनाभरणान्वितं तं दूरात् दृष्ट्वैव बहवो दस्यवः सायुधा मुषितुं प्राधावन्। राजा तानागच्छतो विलोक्य भार्य्यासुते जगाद म्लेच्छा इमे मा युवां स्पृशन्तु एतद् गहनं वनं विशतं इति राज्ञाभिहिता राज्ञी तथा लावण्यवत्या तनयया सह भयात् वनमध्यं विवेग। वीरः स राजातु अभिमुखायातान् शरवर्षणस्तान् शवरान् स्वङ्गचर्मधरःबहून् न्यबधीत्। ततः पल्लीपतिनाज्ञप्ताः। सर्वे दस्यवः निपत्य प्रहारक्षत सर्वाङ्ग तमेककं नृपं निजघ्नुः। ततः गृहीताभरणे दस्युसैन्य प्रयाते सा राज्ञी वनगुल्मान्तरस्थिता भर्त्तारं निहतं दृष्ट्वा सुतया सह विह्वला पलायमाना अन्यत् दूरं गहनमरण्यं विवेग। तत्र मध्याह्नभानुतापितेषु अध्वगेषु शाखिनां छायासु निषमेषु एकदेशे कस्यचित् पद्मसरसस्तीरे अशोकतरुतले सा राजमहिषौ चन्द्रावती सुतया लावण्यवत्या नितरां श्रान्तया भयशोकव्याकुलया सह समुपाविशत्। तावदभ्ययनिवासी कोऽपि महामनुष्यः चण्ड सिंहो नाम सपुत्रः अखारूढ़ः मृगयार्थं तद्वनमभ्यागात्। स सिंहपराक्रमं नाम पुत्र तयोः राजभार्थ्यासुतयोः पदपडती दृष्ट्वा प्रोवाच पुत्र एते सुरेखे सुभगे पदपडतो अनुसृत्य यदि स्त्रियौ अनुवः तदा तयोरेकां यथारुचि स्वीकुरुष्व इत्युक्तवन्तं तं पुत्रः सिंहपराक्रमः प्रोवाच तात ! यस्या सूक्ष्मौ पादौ रेखयानया दृश्येते सा भार्य्या ममैव प्रतिभाति। बृहती या पदपद्धती दृश्यते एषा ज्येष्ठवयास्तव योग्या इति सूनो-

र्वचनमाकर्ण्य से चण्डसिंहस्तं जगाद पुत्र! कैषा कथा तव जननो तव प्रत्यक्षमेव दिवं गता। तादृशे सुकलत्र गते अन्यवासना मे कैव। तदाकर्ण्य सोऽपि तं पितरमुवाच तात! मेवं अभार्यं हि गृहपतेः गृहं शून्यम्। अन्यच, मूलदेवोक्ता कथा त्वया किं न श्रुता? यत्र घनस्तनजघना मार्गावलोकिनी कान्ता नास्ते, कः अजड़ः तत् अनिगड़े गृहसंज्ञकं दुर्गं प्रविशति? तत् तात ! मम जीवितेन शापितोऽसि यदि मदभीष्टाया द्वितीयां भाखी तां न स्वीकरिष्यसि। एतत् पुत्रवचः श्रुत्वा स चण्ड सिंहः तथेति प्रतिपद्य ससुतः त पदपद्धतिमनुसरन् शनैः ययौ। प्राप्य तत् सरः स्थानं तां श्यामां चन्द्रावतीं राज्ञों रूपलावण्यविभासिनीं ददर्श। उपाययौ च सकौतुकः सह पुत्रेण ताम्। सापि तं दृष्ट्वा चौरशङ्गिनी वित्रस्ता समुतस्थौ अलं त्रासेन नौ, एतौ चौरौ न, सौम्याकृती सुवेशाङ्गी कोचित् आखेटकते नूनमिहाद्य प्राप्तौ इति सुतया बुद्धिमत्याभिहिता राज्ञी यावत् दोलायते तावदश्वावतोर्णश्चण्ड सिंहः पुरोवर्त्तीि तामुवाच सुन्दरि! अलं सम्भ्रमेण, आवां इह मृगयार्थमागतो, तद्विश्वस्य निराश बदतं के युवां ? हरनेत्रानलज्वालादग्ध मन्मथदुः स्थिते रतिप्रीती इव अरण्यमेवमुपागते? कथं वा इह अमाभुषे वने प्रविष्टेस्थः इदं हि युवयोर्वपुः रत्नप्रासादवासार्ह? किमिति वराङ्गनविचरणयोग्यौ चरणौ कण्टकिनीमिमां भुवमवतारितौ? चित्रमिदं एषा युवयोरानने पतन्ती बातोद्धृता धूलि रावयोर्मुखं हतच्छायं कुरुते। भवत्यो-

रङ्गेऽस्मिन् चण्डांशोमचण्डः किरणः पतन् अस्मान् दहति। तदात्मवृत्तान्तं ब्रूतं आवयो हृदयं भवत्यौ एतामवस्थां गते दृष्ट्वा भृग दूयते। अस्मिन् स्वापदावतेऽरण्ये वा स्थितिं द्रष्टुं न शक्नुवः। इति चण्ड सिंहेनोक्ता राज्ञीनिःश्वस्य लज्जायोकाकुला शनैः स्ववृत्तान्तमवर्णयत्। ततश्चण्ड सिंहः निःस्वामिकां तां मत्वा समाखास्य च मधुरेर्वाक्येरनुरज्ञ्जयन् ससुतां स्वीचकार। सपुत्रों तां पुत्रः सः अखयारारोप्य वित्तपपुरोसमृद्धां निजां पुरों निनाय। सापि जन्मान्तरगतेव श्रवशा अनाथा कृच्छ्रपतिता अङ्गीचकार किं करोतु तपखिनी। ततस्तां रात्रीं सूक्ष्मपादत्वात् चण्ड सिंहस्तः सिंहपराक्रमः राज चन्द्रावतींभार्य्यांव्यधात्। तत्सुताञ्च लावण्यवतीं राजकन्यां पदवीवृहखात् चण्डसिंहो भायाञ्चकार। पूर्वप्रतिज्ञातं हि सत्यं कोऽतिवर्त्तते? एवं पादविपव्यामात् तयोः पितापुत्रयोः ते दुहितामातरौ भार्ये तदाश्वश्रूतुपे जाते कालेन च तयोः ताभ्यां पतिभ्यां हयोरेव पुत्रा दुहितरश्च क्रमात् जग्मिरे। इति कथा माख्यायभ वेतालः तं नृपं पप्रच्छ राजन्! अनयोर्मातादुहित्रोस्ताभ्यां पितृभ्यां पितापुत्राभ्यां ये जन्तवो जाताः ते अन्योन्य के किं सम्बन्धाश्च भवन्ति ? यदि जानव ब्रवीषि, तदा पूर्वोक्त एव स शापः स्मरणीयः। इति वेतालवचः समाकर्ण्य बहु विमृषन् राजा किमपि वक्तुमशक्नुवन् तृष्णीक एव प्रययौ। ततः स वेताल तं प्रश्नोत्तरदाने श्रममर्थं दृष्ट्वा हृदि हसन् समचिन्तयत् अयं राजा अस्मिन्

महाप्रश्नेउत्तरं दातुं न हि शक्नोति, तेन तूणों व्रजयेत्र, न चायं मां वञ्चयितुं शक्तः शापस्य प्रभावात्। तत्प्रीतोऽस्मि अस्य महासत्त्वस्य सत्त्वातिरेकेण तदद्य तं दुरात्मानं वञ्चयित्वा उपागतां तत्सिद्धिं भाषिकल्याणे अस्मिन् राजनि निवेशयामि इत्यालोच्य स वेतालस्तं नृपमवदत् राजन्! कृष्णनिशाघोरेऽखिन् श्म माने गतागतैः क्लिटस्त्वं सुखीव दृश्य से, कोऽपि ते विकल्पो न विद्यते, तदाश्रय धैय्र्येण च ते तुष्टोऽस्मि, त्वमिमं शवं नीत्वा इदानीं व्रज, अहमतो निर्गच्छामि, इदञ्च तव हितं यत् वदामि तत्कुरुष्व। यदर्थे भवता एतत् नृकलेवरं नीयते, कुभिक्षुः सः अद्य अस्मिन् मामाहय अर्त्तयिष्यति। त्वाञ्च उपहारीचिकीर्षुः भूमौ साष्टाङ्ग प्रणामं कुरु इति वच्यति। महाराज! स दुरात्मा तावत् त्वया एवं वक्तव्यः नाहं तथा प्रणामं जानामि, प्राक् त्वं दर्शय ततोऽहं तथा करिष्यामीति। ततो जिपत्य भूमौ यावत् स त्वां प्रणामं दर्शविथति तावत्त्वमसिना तस्य शिरश्छिन्द्याः। ततो विद्याधरैश्वय्ये सिडिर्या तस्य वांच्छिता, तां त्वमेव प्राप्सासि।अन्यथा तु स भिक्षुस्त्वामुपहारौलत्य स्वेष्टसिद्धि करियति। एतदर्थं तब एतावान् विलम्बः कृतो मया, तत्त सिद्धिरस्तु गच्छेदानींइति उक्का स वेतालः तस्य स्कन्धात् निर्गत्य प्रययौ!

अथ स नरपति वैतालवचसा तं चान्तिशीलं भिक्षुं तथा स्वाहिताय समुद्यन्त विविश्य तत् नृकलेवरं गृहीत्वा प्रहृष्टः तत्बटतरुतलं प्रतस्थे।

अथ नवनवतितमस्तरङ्गः।

—————————

ततः स राजा त्रिविक्रमसेनः शवं स्कन्धे वहुन् क्षान्तिशीलस्य श्रमणस्य पार्श्व प्रापं ददर्श च तं मार्गावलोकिंनमेकं कृष्णपक्षरात्रयां श्मशानतरुमध्यगम्। स राजा अलिप्तस्थले गौरेण अस्थिचूर्णेन निर्मिते विन्यस्तः पूर्णशोणितकुम्भे महातैलकृतप्रदीपे कृतानलहोमे सम्भृतोचित सम्भारे कृतेष्टदैवतपूजने मण्डले समुपविष्टं तमुपागात्। भिक्षुश्च तमानीतमृतक नृपं समुत्थाय प्रोवाच राजन्। त्वया अन्यदुष्करो महान् अनुग्रहो मे विहितः, त्वादृशाः क्व, क्वच इयं चेष्टा, क च वा ईदृशौ देशकालौ च। सत्यमेव त्वां कुलभूभुजां मुख्यमाहुः एवमात्मानपेक्षेण येन परार्थः साध्यते। एतदेव महतां महत्त्वमुच्यते प्रतिपन्नादचलनं प्राणानामत्ययेऽपि इति ब्रुवन् स भिक्षुः सिद्धार्थमानौ तस्य स्कन्धात् तं शवमवतारयामास। ततस्तं नापयित्वा बहमालय विधाय तस्य मण्डलस्य अन्तः स्थापयामास। ततः भस्मालेपितगात्रः केशयज्ञोपवीती प्राकृत प्रेतवसनः भूत्वा क्षणं ध्याननिभृतः स्थितः। अथ ध्यानबलात् तस्मिन् नृकलेवरे प्रविष्ट तं वेतालं स भिक्षुः क्रमेण पूजयामास। प्रथमं तस्मै कपालेन पातेण अयं ततः सुनिर्मलैर्नवदन्तैः पुष्पं सुगन्धिविलेपनं मानुषनेत्र धूपं मांसानि च नैवेद्यानि दत्त्वा पूजनं यथाविधि समाप्य पार्श्वगं राजानं प्रोवाच राजन् ! इहास्य मन्त्राधि-

राजस्य कृताविर्भावस्य अष्टाभिरङ्गैः निपत्य भूतले प्रणामं कुरु। येनाभीष्टसिद्धिं तेऽयम् वरप्रदो दास्यति। श्रुत्वैतत् स्मृत वेतालवचनः स राजा तं भिक्षुमब्रवीत् भगवन् ! नाहं तादृशं प्रणामं वेद्मि तत् पूर्वं भवान् प्रदर्शयतु। ततस्तथाहं करिष्ये इति। ततः स भिक्षुः यावत् तथा प्रणामं दर्शयितुं भुवि पतितः, तावत् स राजा खज्रप्रहारेणास्य शिरः अच्छिनत्। आकर्षचास्य हृत्पद्मं पाटितम्। ततः तशिरः तच्च हृत्पद्म वेतालाय प्रददौ। ततः समन्तात् भूतगणैः हृष्टः साधुवादे प्रदत्ते स वेतालः परितुष्टस्तस्मात् नृकलेवरात् तं नृपमब्रवीत् राजन्! भिक्षोरस्य यत् विद्याधरेन्द्रत्वममितमासीत् तत्तावत् भूमिसाम्राज्यभोगान्ते ते भविष्यति। इत्युक्तवन्तं तं वेतालं स राजा प्रत्यवादीत् योगीन्द्र ! त्वञ्चेत् प्रसन्नः, तदा को नाम अभीष्टो वरः न सिडेात् तथापि श्रमोघवचनं त्वां इदमभ्यर्थये एतास्ते नानाख्यानमनोरमाः प्रश्नकथाः चतुर्विंशतिः पञ्चविशतिसमाप्तिगाः भूतले ख्याताः पूजनीयाश्च भवन्तु। इति तेन राज्ञार्थितो वेतालः प्रत्यभाषत राजन्। एवमस्तु विशेषञ्च वच्मि शृणु यावतुर्विंशतिः पूर्वाः या च एषा कामदायिनी, यः अस्याः कथांशमात्रमपि सादरः कथयिष्यति वा श्रोष्यति स सद्यो मुक्तपापो भविष्यति। यत्रैषा कथा कीर्यते तव यक्षराक्षसडाकिनीवेताल कुष्माण्डराक्षसादयो न प्रभविष्यन्ति। इत्युक्वा स वेताल स्तस्मात् वृकलेवरात् निर्गत्य यथारुचि योगमायया व धाम प्रायात्।

ततस्तत्र सर्वैर्देवगणैः सह महेश्वरः परितः तत्राविरभूत् प्रणतञ्च तं नृपमादिवत् साधु वत्स। यत् त्वयायं विद्याधरमहाचक्र चक्रवर्त्तिताहठकामुकः कूटतापसः निहतः। त्वं मयादौ स्वांशतः विक्रमादित्यः सृष्टः म्लेच्छरूपावतीर्णानामसुराणां शान्तये, इदानीञ्च उद्यामदुर्वृत्तानां दमनाय त्रिविक्रमसेनो नाम नरपतिः सृष्टः अतः सद्दीपपातालां महीं वशे स्थापयित्वा विद्याधराणामधिराजो भविष्यसि। तत्र च चिर दिव्यान् भोगान् भुक्ता स्वेच्छया च तान् त्यक्वा अन्ते ममैव सायुज्य मवाससि। एतञ्च अपराजितं नाम खड मत्तो गृहाण अस्येव प्रसादात् यद् यदुक्तं तत् तत् सर्वं ते मेत्स्यति। इत्युक्का त खड्गरत्न तस्मै दत्त्वा वाक्पुष्पैश्च तेनार्चितः शम्भुः देवैः सह तिरोदधे।

अथ सर्वं कार्य्यं समाप्त’ निशाञ्च प्रभातां दृष्ट्वा राजा खपुरं प्रतिष्ठानं प्रविवेश। तत्र प्रकृतिभिर्विहितोत्सवाभिरभ्यर्चितः स्नानदानगिरिशार्जन गीतवाद्यादिभिः तत् सर्वं दिनमनयत्। ततः स्वल्पैरेव दिवसैः भगवतः शङ्करस्य प्रसादात् सद्दीपां सपातालां सवीं महीं निष्कण्टकां वशीकृत्य वुभुजे। अथ महतीं विद्याधरसमृद्धिं सम्प्राप्य चिरं तत् सुखानि संभुज्य भगवत्सायुज्यमन्त ययौ।

इति अभिधाय स विक्रमकेशरी पथि शापविप्रयोगात् चिरमिलितः मृगाङ्गदत्त राजपुत्र’ पुनरुवाच देव ! स वदो विप्रः एवं वेतालपञ्चविंशतिकां समाख्याय भूखो मामुवाच पुत्र ! स विक्रमसेनो नृपः वेतालानुग्रहात्

किमिव इष्टंनासाधयत् तस्मात् त्वमिह मत्तः सकाशात् मन्त्रवरं गृहीत्वा विमुक्तविषादः वेतालमुख्यं प्रसादय येन सहायेन मृगाङ्गदत्तेन समागममचिरात् प्राप्तासि। उत्साहवतां किञ्चिदपि अप्राप्यं न। वत्स!भग्नोत्साहः मावसादं गमः। तदहं ते वचमि त्वं मे बन्धुः सर्पदंशाति हन्ता। इति वादिनस्तस्मात् विप्रात् सक्रियं मन्त्रमादाय तञ्चामन्त्रा उज्जयिनीं गतोऽभवम्। तत्र श्मशाने रजन्यां मृतकमाहृत्य स्रपनादिकं कृत्वा मन्त्रेण तेन तस्मिन् वेतालमाहूय यथावदचितवानस्मि। तस्मै भोज्य महामांसं तृप्तये मया प्रदत्तम्। सोऽपि तद् आशु नग्ध्वा तृप्तोऽस्मि नैव, अन्यदुपानय मानुषमांसमिति मामभ्यधात् यदा कालं नाक्षमत, तदाहं निजानि मांसानि उत्क्वत्य उत्कृत्य तत् प्रीतये प्रादाम्। तेन स योगेश्वरः मयि भृगमतुष्यत्। अथ स मामब्रवीत् भद्र। तब हन सत्त्वेनामुना साम्प्रतं तुष्टोऽस्मि, वौर! तस्मात् पूर्ववत् अक्षताङ्गो भव, वरञ्च वृणीष्व अभीप्सितम्। इति वादिनं तदैवाहं प्रत्यवोचं योगीन्द्र। तत्र मां नय, यत्र मे प्रभुर्मृगाङ्गदत्तस्तिष्ठति, अन्यः साम्प्रतं मे अभिमतो वरो न वर्त्तते। एतत् स वेतालो निशम्य मामभ्यधात् तर्हि मम पृष्ठमारोह तावत् यावदहं त्वां त्वत्पभुसकाशं नयामि। इत्युक्तवतः तस्य स्कन्धमहं तत्क्षणादारोहम्। ततोऽसौ प्रेततनु’ प्रविष्टः मामुद्दहन् नभसा इहानीय पश्यतो युष्मान् विलोक्य अम्बरात् मामवतार्थं भवत् पादमूलं प्रापयामास। मात्र प्रभुणा समागतं दृष्ट्वा स समाप्तकृत्यः

स्वधाम प्रायात्। इत्येष मे नागशापात् भवद्वियुक्तस्य महान् वृत्तान्तः।

इत्थं निजसचिवात् विक्रमकेशरिणः श्रुतवियोगवृत्तान्तः मृगाङ्गदत्तः कान्तालाभप्रत्याशया उज्जयिनीमगच्छत्। इत्थं नागशापभ्रष्टः कतिपयैः सचिवैः क्रमेण मिलितः स राजपुत्रः सम्भावितसकल मनोरथसिद्धिर्भ्रशं मुमुदे।

———————————————

अथ शततमस्तरङ्गः।

————————————

अथ कथावसाने पथिमध्यात् सुमत्थितः विक्रमकेशरिगुणाकरविमलबुद्धिविचित्रकथभीमपराक्रमप्रचण्डशक्ति श्रुतधिभिः परिवृतः प्रहर्षपुलकिताङ्गः प्राप्तशेषान् अमात्यांश्विन्वन् शशाङ्कवत्याः सम्प्राप्तये उज्जयिनीं जिगमिषुः समुचचाल। क्रमेण निदाघशुष्कतोयाम् अपादपां प्रचण्डमार्त्तण्ड सन्ता पतप्तबालुका मटवीं प्राप। तस्यां व्रजन् तान् सचिवानब्रवीत् पश्यत एषा अटवी कीदृक् दुर्गमा भयावहा च तदेषास्माभिस्वरया लङ्घनीया, इत्यू चिवान् स राजपुत्रस्तैः क्षुत्तृषार्दितैः सचिवैः साकं द्रुतं तामटव व्यलङ्घयत्। अपश्यच्च पुरतः स्वच्छशीतजलैरर्कतापगलितस्य शीतांशोर्द्रवैरिव भृतं महत् दिगन्तव्यापिविस्तारम्

आत्मनः प्रतिविम्बं द्रष्टुं त्रैलोक्यलक्ष्म्याविहितं मणिदर्पणमिवधात्तराष्ट्रकृतक्षोभं विचित्रार्जुनविभ्रमम् उपकण्ठमिलितनीलकण्ठपौतविषोत्तमम् अच्युताश्रितलक्ष्मीकं मन्यकालाब्धिसन्निभं सूर्य्यरश्मिभिरप्राप्तगम्भीरशिशिरान्तरं अनन्तपद्मनिलयं पातालमिव भूतलगतं सरः। स राजपुत्रः ससचिवः तस्य सरसः पश्विमे तटे वातान्दोलित विस्तारिशाखाभुजकदम्बः मूर्घलग्नावसरितं नृत्यन्तं शङ्करमिव, अत्युच्छ्रितेन व्योमपृष्ठावगाहिना शिरसा कौतुकात् नन्दनोद्यानशोभामिव द्रष्टुमुद्यतं दिव्यरसैः शाखावलम्बिभिः फलैः शोभमानं महान्तं दिव्यपादपं व्यलोकयत्। यावदसौ मृगाङ्गदत्तः तं तरु निर्वर्णयति, तावत् तन्मन्त्रिणः तुत्तृषार्हिताः तस्य फलानि दृष्ट्वा भोक्तुं तत्रारुरुहुः। अशङ्कितमारूढाश्च मानुषास्ते षड़पि फलत्वं प्राप्ताः। ततो मृगाङ्गदत्तः तानपश्यन् सुविह्वलः एकैकं नामग्राहमाजुहाव। यदा ते प्रतिवचनं न ददुः, नाप्यदृश्यन्त क्वचित्, तदा हा ! हा! हतोऽस्मीति विधुरं नदन् सराजपुत्रः चितौ मूर्च्छितो न्यपतत्। केवलं द्रुमानारूढ़ : पास् तविद्दिज स्तमाश्वास्य तत्क्षणमुवाच देव ! कृतप्रज्ञोऽसि त्यक्तधैर्य्यैः किं विषीदसि ? यो हि व्यसने न मुह्यते, स एव कल्याणमश्रुते। नागशापविमुक्तान् एतान् किं पुनर्न प्राप्तवानसि ? तथैव पुनरपि एतान् मन्त्रिणोलप्सा से। अचिराच्च ते शशाङ्कवत्याः संयोगो भविष्यति। एवं श्रुतधिनोक्तः स राजपुत्रः किञ्चित् समाश्वस्तः प्रत्यवादीत् सखे ! कुत एवं हि धात्रा अस्माकं नाशाय एतत्

सूत्रितम्? अन्यथा क्वनिशि वेतालः?क्व चासौ भीमपपराक्रमः? क्व शशाङ्गवती ज्ञानं? क्व तत् संवादप्रसङ्गतः तां प्राप्तुं अयोध्याया अस्माकं निर्गमः? क्व च विन्ध्याटव्यां नागशापात् परस्परं वियोगः, क्व च ततः क्रमेण कतिपयैः सह पुनर्मिलन? क्व च पुनस्तैः सहसा वियोगः। ते खलु अत्र वृक्षे भूतैस्ता इति मन्ये, तैश्व विना शशाङ्गवती मम का? किञ्च जीवितम्? तदलं विकल्पेन इति उक्ता स राजपुत्रः तत्र सरसि आत्मानमुज्झितु श्रुतौ वारयत्यपि समुत्तस्थौ। तावश्चात्र अशरीरिणी वागन्तरीक्षादुच्चचार पुत्र! मा साहसं कार्षीः सर्वं ते स्वन्तं भवितेति अस्मिन् पादपे देवो गणपतिः स्वयं वसति, स खलु अद्य वत्सचिरेतैः समं विरोधितः। ते अशुद्धा अस्नाता अक्षालित करचरणाः क्षुधार्त्ताः फललुब्धाः तन्निवासेऽस्मिन् समारूढ़ा \। स्पृष्टेषु च फलेषु तच्चित्तस्तद्गतिं गच्छन्तु इति विघ्नेशशापतः सद्य फलतां गताः। अन्येऽपि चत्वारस्त्वत् सचिवाः अमुना पथा गता एवमेवास्मिन्नारूढाः फलतामगमन्। तत् तपोभिर्गण नायकं समाराधय, अस्य प्रसादात् तव, सर्वेष्टसिद्धिर्भविष्यति। इति सुधाधारयेव आकाशः गिरा अभिहितः स मृगाङ्गदत्तः सज्जातप्रत्ययः देहत्यागात् न्यवर्त्तत। सरसि च स्नानं कृत्वा तस्मिन् तरौ गणाधिपमर्चयित्वा त्यक्ताहारः कृताञ्जलिस्तमस्तौत्। जय गणेश! विघ्नराज! भवनन्दन! भवनाशन! भवानौलालित! जय करौन्द्रवदन! सुरासुरसंस्तुत! प्रसीद किङ्करी, जय भक्तजनवाञ्छितपूरण! विश्ववन्दितचरण! पाहि मां सङ्कटप-

तित मुहर कृपया वितर सुहृदभिक्षमित्यादिभिः संस्तुत विघ्नपतिर्निराहारः कुशास्तरे तत्र तरुतले तां रात्रिं निनाय। इत्थ स राजसुतः श्रुतधिना परिचर्य्यमाणः एकदशाहानि विघ्नेशमाराधितवान्।

अथ द्वादशेऽहनि निशि स्वप्ने तं गणेश्वरः प्रत्यादिशत् वत्स ! तुष्टाऽस्मि ते अनया भृत्यवत्सलतया, प्रासासि मन्त्रिणः, तैश्च समं गत्वा तां शशाङ्गवतीञ्च लप्सासे। ततः स्वनगरौं प्रत्यावृत्य पृथ्वीराज्य करिष्यसि, इत्यंगणपतिमादिष्टः प्रबुद्धः प्रातः त स्वप्नवृत्तान्तं श्रुतधये अभ्यधात्। ततस्तेनाभिनन्दितः स्नात्वा गणेशमर्चयित्वा तद्वासवृक्षं यावत् प्रदक्षिणं करोति स्म तावत् ते दशापि मन्त्रिण स्तस्मात् तरोः फलत्वमुक्ता अवतीर्य तस्य पादयोर्निपेतुः। ततस्ते सर्वे मन्त्रिणः तं प्रभुंप्राप्य भृशं मुमुदिरे। राजपुत्रश्च तान् प्रत्येकं समधिकप्रणयं परिषखजे सम्बभाषे च तेऽपि तं वामं कृततपस प्रभु श्रुतधिनिगदित यथार्थं वौक्ष्य उद्दाप्पाः आत्मान नाथवन्तममन्यन्त प्राशंस च। अथ स ममाङ्गदत्तस्तैः सचिवैः सह सरसि कृतस्नानः पूजितदेवश्च सुखपारणां कृत्वा सहर्षः स्वकार्य्य सिद्धौ लब्धधृतिरभवत्।

इति शततमस्तरङ्गः।

——————

अथ एकाधिकशततमस्तरङ्गः।

———————————

ततः स तत्र सरस्तीरे कृतेन पारणेन सुस्थितः तैःसचिवैः सह समुपाविश्वत्। अष्टच्छञ्च तान् तद्दिवस प्राप्तान् चतुरो मन्त्रिणः वियोगकालवृत्तान्तम्। ततस्तेषां मध्यात् व्याघ्रसेनः समभ्यधात् देव ! श्रूयतां महार्त्तावर्णयामि।

तदा पारावताक्षस्य तस्य नागस्य शापात् अहं भवद्भ्यो दूरविभ्रष्टः प्रनष्टचेतनः समभवम्। ततोऽटवींस्वात्वा रात्रौ लब्धसंश्व चिरात् तमसावृतं पन्यानं नापश्यम्। कृष्णाञ्च तस्यां निशायामतिक्रान्तायां उदिते च भगवति सहनुभानी, अहमचिन्तयं हा धिक् ! क्वनुयातः स नः प्रभुः अस्माभिर्वियुक्तञ्च एकाकी किं विधास्यति कथं तावत् तमवासनामि कुत्र वान्विष्यामि का गतिः। वरमुज्जयिनीं यामि तत्र कदाचित् स प्राप्येत। शशाङ्कवतीप्रत्याशया तस्य तत्र गतिः स्थिरा इत्याशया शनैरहमुज्जयिनौं प्रति वलितोऽस्मि। अथ कथञ्चित् तामटवीं महाभीषणां गाहमानः एकं प्रफुल्लोत्पलेक्षणंहंसादीनां मधुरै रारावैः सम्भाष माध्यमिक प्रयुक्तवोचिहस्ताग्रं प्रसन्नविपुलाशर्यसर्व्वार्त्तिहरं सत्पुरुषमिव सरः प्राप्तवान्। तत्व स्नात्वा भुक्ता विसानि पीत्वा च शीतस्वच्छ सलिलं यावत् तिष्ठामि तावत् त्रीन् एतान् दृढमुष्टिस्थलबाडमेघबलान् कमेण समायातान् अपश्यम्। ततश्चास्माभिः समेत्य हर्षात् मिथो वार्त्तापृच्छत। ततश्च सर्व्वेऽपि वयं भववृत्तान्तमजानन्तः पापशङ्किनः प्रभुविरहेणातुराः देहत्यागाय मतिमका। एतस्मिन्नन्तरे तब सरसि स्नातुं दीर्घतपसः सुतो महातपा नाम जटीकृतनिञज्जालः पुनः खाण्डवं

दिवक्षुरग्निरिव ब्राह्मीं तनुमाश्रितः तेजसा प्रज्वलन् कृष्णाजिनसंवीताङ्गः एकेन करेण कमण्डलु मपरेणाक्षमालिकामुद्दहन् सहागतैः मृगैः शृङ्गप्रोत्खात मृत्तिकैः कतिपयैः सवयोभिर्मुनिपुत्त्रैः समन्वितः कश्चित् मुनिकुमारः समाययौ। स महात्मा हद्दैषाम्मान् सरसि पतनोद्यतान् अवारयत् अकारण बन्धवः सन्तोष्टि करुणार्द्र हृदयाःभवन्ति। अवदच्च युष्माभिः किमिदं कापुरुषोचितं पापं कर्तुम् अध्यवसितम्? दुःखान्धा हि कातराः विषश्वभ्रेपतन्ति, धीरास्तु दृष्टसन्मार्गा विवेकमयबुद्धयः न पतन्ति गतै, प्राप्यञ्चावश्यमधिगच्छन्ति। यूयं हि भव्याकृतयः ध्रुवं कल्याणं प्राशाय। तदृबत किं नु वो दुःखं? मानसं मे युष्मान् दृष्ट्वा दूयतएव। एवमुक्तवते तस्मै मुनिपुत्त्राय सर्व्वं आमलतः स्ववृत्तान्तमहं कथितवानस्मि। ततस्तेन श्रुतास्मद्वृत्तान्तेन आयतिदर्शिना वयं सम्बोध्य देहत्यागात् निवारिताः। अथ स मुनिकुमारः स्नात्वा चातिथ्यं विधित्सु नातिदूरवर्त्ति पितुराश्रम मस्माननैषीत्। तत्र उच्चयास्वोर्द्ध भुजैर्वेदिकासु स्थिते रर्कमरीचिपायिभिः पादपैः प्रारब्धतपसीव एकदेशे अस्मान् उपवेश्य अयं दत्त्वा स मुनिसृतः एकैकमाश्रमतम् गत्वा भिचामयाचत। चणाञ्च तेभ्यः स्वतश्च्युप्रतैः फलैरस्य भिक्षाभाजन मपूयत। ततः स तद् गृहीत्वा अस्माकमन्तिकमागमत्। अदाच्च नः तानि दिव्यस्वादूनि प्रचुराणि फलानि। वयं तानि भुक्कातेनेव परितृप्ता जाताः स्म।

अथ क्षोणेऽहनि अब्धौ च पतिते भास्वति ततृपातोच्छ्व-

लितैरम्भः शीकरैरिव ज्योतिर्भिरम्बरे आपूरिते शशिनिच तद्वैराग्यादिव प्राच्यां संवीतचन्द्रिकाधीतवल्कले उदयाचलशैलष्टङ्गतपोवनमाश्रिते एकस्थानाश्रितानां समापिताशेषकर्मणां तत्राश्रमेषु दर्शनाय गता वयं प्रणिपत्य उपविष्टाः तैः कृतातिथ्यैमे निभिः प्रियंवदैः कुतोययमिति पृष्टाः। ततोऽनेन मुनिकुमारेण स एवास्मद् वृत्तान्तस्तेभ्यो निवेदितः। अथात्र कखोनाम महामुनिस्त्रिकालज्ञः प्रोवाच किमेवं वीरा यूयं क्लैष्यं गताः आपदि अभग्नधैर्व्यता सम्पदि अनभिमानिता उत्साहापरित्यागश्च सत्पुरुषव्रतम्। महान्तोहि महान्ति सङ्कटानि कृच्छ्रात् धैर्येण समुत्तीयं महतोऽर्थान समासाद्य महात्मामुपयान्ति। तदत्र सुन्दरसेनस्य कथा श्रूयताम् इत्युक्त्वास मुनिः सर्व्वेषु महर्षिषु अस्मासु च शृण्वत्सु कथामेतामवर्णयत्।

अस्ति अलङ्कृत कौबेरीदिङ्मुखो निषधाख्यो देशः। तत्रासीत् पुरा अलका नाम अलकेव सम्मृद्धिशालिनी पुरो। यत्र सदैव सर्व्वार्थसृङ्घिसुखिते जने केवलं रत्नदीपानामनिवृतिरासीत्। तस्यामभूत् महासेनो नामयथार्थ नामा महासेन इवाङ्गुतात्युग्रप्रतापामुष्टशात्रवो नरपतिः। तस्य रात्रः गुणपालितो नाम शौर्य्यालयः महीभारवहन क्षमः शेषश्वापरः महामन्त्री आस्त। तस्मिन् विन्यस्तराज्यभरस्य च पितद्दिषः अस्य भूभृतः शशिप्रभाख्यायां देव्यां सदृशः सुतः सुन्दरसेन इति विश्रुतः समभवत्। स शिशुरपि गुणैरशिशुः शौर्व्वसौन्दर्य्यवान्

सर्व्वाः प्रणतीरन्वरञ्जयत्। तस्य राजसुतस्य तुल्यवयोगुणाः पूराः पाशैशवात् सह संवर्द्धिताः पञ्च मन्त्रिणः समभवन्। तेषां प्रथमश्चन्द्रप्रभः द्वितीयो श्रीममुजः तृतीयो व्याघ्रपराक्रमः, चतुर्थी विक्रमशक्तिः पञ्चमो दृढ़बुद्धिः। ते सर्वेऽपि महासत्त्वाः बलबुद्धिसमन्विताः कुलीनाः प्रभभक्ता स्तथा पशुपक्षिणां रुताभिक्षाः। तैः समं तत्र राजपुत्रः सुन्दरसेनः अनुरूप भावी विना पितृगृहे ससुवास। अथ राजपुत्रः अनश्वाणामाकमणं शौर्व्वं निजभुजार्जितं धनं अनुरूपाच भार्य्यां एतत्रयं पुरुषस्य पूज्यते, अन्यथा तु एतेन त्रयेणापि किमिति चिन्तयन् तै वीरैः सचिवैः सैन्यैव सह मृगयार्थं मनसीविनिर्ययौ। निर्गच्छन्तञ्च तं दूर देशान्तरादागता कात्यायनी नाम कापि प्रजाजिका तं ददर्श। चिन्तयामास च तद्रपममानुषं दृष्ट्वा अहो रोहिणीरहितः किमयं शशी, किंवा रतिविरहितः काम इति तत तं परिजनः राजपुत्रं विदित्वा धातु सामग्रावैचित्र प्रशंसती विसिमि। उवाच च तारदीर्घेण स्वरेण तं राजपुत्रं कुमार! विजयस्वेति। सोऽपि तां प्रणम्य तद्वचनमनाक चतत्क्षणं स्वसचिवारब्ध कथा–व्यग्रेण चेतसा प्रययौ। अथ सा तापसी कुद्दा उचः श्रावयन्तो तमवादीत् अहो राजपुत्र! कस्मात् ममाशिषं न योषि? अहं कस्य राजपुत्रस्य रातो वा न पूज्या, यदि ते एवमेव यौवनादिभिर्दर्पः तर्हि यदि त्वं हंसडीपेश्वरसतां जगहिलासभूतां मन्दारवती कन्यां भार्य्यामवाप्स्यसि, ततो

महेन्द्रादेरपि वचनं भुवं न श्रोष्यसि। कैब कथा मानुषाणाम्। एवमुक्तवतीं तामाहूय सकौतुकः प्रहः स सुन्दर सेनः सुन्दरसेन तां तापसी चमयामास प्रजिघाय च भृत्यानां हस्तैस्तदू विश्रामाय तां प्रष्टुकामः स्वमन्त्रिणो विक्रमशक्ते हम्। ततो गत्वा स्वगयां कृत्वा प्रत्यागत्य कृतानिकः स राजपुत्रः तां भुक्ताहारां तापसोमानाय्य पप्रच्छ भगवति! उच्यतां कैषा त्वयाद्य कीर्त्तिता मन्दारवती नाम कन्यका, परं हि मे कौतूहलम्। तदाकर्ण्य सा तापसी तमुवाच। वत्स! तीर्थादि हेतोः सद्दोपां यहीं पर्यटामि। एकदा भ्रमन्ती यदृच्छया हंसदीपमहं प्राप्ता तत्र मन्दार देवस्य रानः पुत्त्री देवपुत्रोपभोगार्हा अपुण्यकर्मभिरदृश्या मया दृष्टा सा मन्दारवतीति संज्ञां श्रीरिव नन्दने दधती हारिणी दर्शनोद्दीपितस्मरा धात्रा सुधामयी इन्दुकलेव सृष्टा यैः सा न दृष्टा तेषां जन्म नेत्र च अफले तस्याः सदृशी भूतले कापि रमणी न विद्यते। केवल मेकोभवान् रूपसम्पदा तां हरतीति मन्ये। इति तस्या स्तापस्या मुग्नात् निशम्य स राजसुतः प्रत्यवादीत् भगवति! तस्या स्तादृशं रूपं कथं पश्येयमिति तापसी प्राब्रवीत् वत्स : तत्काले मया कौतुकाविष्टया तस्या रूपं चित्रपटे लिखितं कृत्वा वस्तुनिकया धार्य्यतेयदि कौतुकं तत्ते दर्शयामि इत्यक्का वस्तुनिकातो निःसार्य चित्रस्यां तामदर्शयत्। सोऽपि सुन्दरसेनस्तां चित्रगतामपि विचित्ररूपां आनन्दनिष्यन्दनां विलोकयन् रोमाञ्च कण्टकचितैरङ्ग : पुष्पवाणस्य निरन्तरै र्वाणैः कोलित दूव

तत्क्षणं समवर्त्तत। शनैश्च किञ्चन अशृण्वन् अपश्यन् अवदंश्च तन्मयता मापन्नः चित्रलिखित इवाभवत्। तदवलोक्य मन्त्रिणस्तां तपस्विनीमब्रुवन् आर्थो! त्व देवं सुन्दरसेनमिमं अस्मिन् पटे लिख वयं सहशालेख्य विज्ञानं तव वीक्षामहे। तदाकर्ण्य सा तत्क्षणात् पटे तं कुमारमभिलिलेख। तदवलोक्य सर्व्वे ते समवदन् भगवत्या मनागपि आलेख्यविज्ञानविसंवादो नास्ति, अयं कुमार एवेति चित्रेऽस्मिन् मति जायते। तदत्र मन्दारवत्या रूपं न विसंवदेत् इत्यक्तवत्सु सचिवेषु ग्टहीतचित्रपटद्वयः स राजसुतः सुन्दरमेन स्तां तापसो मपूजयत्। ताञ्च विसृज्य तत् कान्ताचित्रपटं ग्टन् अभ्यन्तरं विवेश। किमिदमस्याः मुखं उत अस्याः कान्त्या क्षापितकलङ्कः शची आहोस्वित् अस्याः कुचावेतौ स्मरस्य राज्याभिषेककाञ्चनकलसौ किमेतास्त्रित्रल्यः रूपजलधेः लहः नितम्बः किमयं रते विलासशयनतलं वा ? इत्येवं चित्रगतां तां कान्तां प्रत्यङ्ग विभावयन् स शयनोयत से निपत्य तस्थौ। हूत्यं प्रत्यहं चाहारादिपराङ्मुखः खल्यै रेवा होभिः स्मरज्वरव्यथाभिभूतः समभवत्॥ तद्विदित्वा आगत्य पितरौ शशिप्रभामहासेनौ तस्य सखीन् खैरं तदस्वास्थाकारण मष्टच्छताम्। तदाकर्ण्य ते तत् सर्व्वं यथावद ब्रवन्। ततः स महासेनस्तं पुत्रमवादीत् पुत्त्र! किं गृह्यते। स्थाने खल ते अयमभिषङ्गः सा मन्दारवती कन्यारत्नं ते योग्यैव तस्याश्च पिता मन्दारदेवो मे परमं मित्र तहृतसाध्ये अस्मिन्नर्थे का नाम कदर्थना। एवं तमुक्ता

सम्भन्त्रा तां कन्यामभ्यर्थायितुं मन्दारदेवस्यान्तिकं हंसहोपे दूतं सुरतदेवं नाम व्यसर्जयत्। सुन्दरसेन च तापस्या लिखितं तत् चित्रपटद्वयं तस्य हस्ते रूपोत्कर्षप्रकाशनाय प्रादात्। स च दूतः सत्वरं अम्बुधितटे महेन्द्रादित्यस्य नरपतेः शशाङ्गपुरं नाम पुरं प्राप्य ततः प्रवहणमारुह्य कतिपये दिनैः हंसोपमगात्। तत्रोत्याय मन्दारदेवस्य सिंहद्दारं प्राप्य हास्यैरावेद्य च प्राप्तानुमतिः प्रविश्य राजसकाशमवाप। राज्ञा च यथायथं कृतसत्कारः स दूतः कुशलप्रश्नपुरः सरं तस्मै नृपाय यथावृत्तं समाख्यत् राजन्! महासेनेन राजा ते सन्दिष्टं मुन्दर सेनाय मत्पुत्राय निस्तां देहि। पटे लिखिता तापस्या सा तक कन्या मन्दारवती स्त्रीरत्नमिति दर्शिता अस्माभि पटे तथैव लेखितं सुन्दरसेनस्य रूपं प्रहितं वीक्ष्यताम्। एष हि रूपे असदृशां भार्यास्वानुरूपां विना उद्दोढुं नेच्छति केवलमेका तव सुता चस्यानुरूपिणी इति सन्दिश्य मे हस्ते अयं पटः सपर्पितः दृश्यतां तदिदानों माधवीलता मधुना युज्यताम्।

एतद्दूतवचः समाकर्ण्य राजा हर्षेण सुतां मन्दारवतींतस्याश्च मातरं राज्ञींआनायत्। ततस्ताभ्यां सह चित्रपटमुद्घाट्य दृष्ट्वाच स राजा तुल्यो मम दुहितुः पृथ्व्यां नास्तीति एतन्मदमजहात्। जगाद च यदि अमुना राजपुत्रेण कन्या मे युज्यते तदस्याः रूपनिर्माणं सफलं भवेत्, अनेन च विहीना मे तनया न राजते। का हि पद्मिनी विना हंस कञ्च हंस; पद्मिनों विना। इति राजाभिहिते राज्ञ्याञ्च

तद्ववचसि अतीव विश्वसत्यां सा मन्दारवती सद्यो मदनविह्नला समजायत। अतिष्ठञ्च तस्मिन् चित्रपटे न्यस्तनिश्चलोत्फल्ललोचना अधिष्ठितेव सप्तेव विनिद्रेव लिखितेव च। ततो मन्दार देव स्तां सुतां तथाविधां दृष्ट्वा दानमङ्गीकृत्य तं दूतमपूजयत्। अन्यद्य च तं विसृज्य तेनैव सह स्वकं दूतं कुमारदत्त नाम विप्रं महासेननृपं प्रति प्राहिणोत्। जगाद च तावुभावपि, युवां गत्वा तमलकेश्वरं महासेन नृपं द्रुतमहचसा बुद्धि सौहार्हेन मया तावत् कन्या दातव्या, तदादिभ्यतां पुत्र स्तव दूहायाति किं? उत कन्या मया महीयते?

इति राज्ञोक्तसन्देशौ गृहीत्वा दूतौ अब्धिमार्गेण प्रवहण मारुह्य प्रययतुः। क्रमेण च शशाङ्कपुरमासाद्य स्थलपथेन तां समृद्धा मलकामिव अलकां पुरीमुपेत्य राजसकाशं प्राप्य च यथोचितं कृतादरं महासेनं राजानमपश्यताम्। अबोचताश्च सादरं तं प्रतिसन्देशम्। स च राजा तदाकर्ण्य तौ दूतौ अपूजयत्। ततः प्रसिदूतम् कन्याया जन्मनक्षत्रं दृष्ट्वा गणकान् विवाहलग्नमष्टच्छत्। ते च मासत्त्रयात् परं कार्त्तिके मासि शुक्लपञ्चम्यां तयोर्बंधवरयोः शुभं लग्नं बदन्ति। ततः सः अलकापतिः तस्मिन् लग्ने विवाह तदा च पुत्रस्य प्रेषणं तस्यै मन्दारदेवाय सन्दिदेश। प्रतिषाय च पुनस्तं चन्द्रस्वामिनामानं खदूत तश्च कुमारदेषं प्रतिदूतं सलेख्यम्। तौ च दूतौ लेख्यं गृहीत्वा तथैव सीपमुपगम्य तत्रत्याय राज्ञे मन्दारदेवाय तत् सर्वं यथावदशंसतां ददतश्च लेख्यम्। सोऽपि राजातथेति

प्रतिपद्य तं चन्द्रस्वामिनं यथोचितं पुरस्कृत्य राज्ञो महासेनस्य चन्तिकं व्यसृजत्।

अथ प्रत्यागते तस्मिन् चन्द्रस्वामिनि अलकां उक्तकार्ब विनिश्चये गते सर्वे उभपचीयाः लग्नप्रतीक्षायां व्यतिष्ठन्त। तावच्च सा मन्दारवती प्राक् चित्रपटदर्शनात् जातानुरागा हंसोपेतं चिरभाविनं विवाहलग्न तावत् कालक्षेपास हा प्रेयसि प्रतिसमुत्का मदनाग्निमा गाढ़ मदस्यत। चन्दमैरपि लेपन मङ्गेषु चङ्गारवर्ष पद्मिनीत्रशव्यामपि सन्तप्तसिकतास्तरं सुधांशोरपि रश्मीन् दावानलशिखाः सा समन्यत। ततः सा मौनावलम्बिनी विरहज्वरातुरा त्यक्ताहारा भृशमाकुला विश्वस्तसंख्या पृष्टा ऋच्छात् एवमवादीत् सखि ! दूरे मम विवाहलग्न न चाहं तमलकाधिपतेः सुतं विना चणमपि प्रतीक्षितुं शक्नोमि देशञ्च कालञ्च दूरवर्तिनौहा कष्ट विधातुविचित्रा गतिः तदत्रान्तरे को वेत्ति किं कस्य भविता, तम्मे मर्त्तव्यमेवेति सा वदन्ती विरह सद्यो विषमां दशामगमत्। तस्याः सखीमुखात् तद् विदित्वा तथाविधाश्च तां दृष्ट्वा सभार्थो महीपतिमन्दार-देवः मन्त्रिभिः सह मन्त्रयामास स महासेनो नृपति में मित्रं एषा च मन्दारवती कालं प्रतीनितुमक्षमा, तदत्र
त्वषां त्यक्ता यथावस्तु तत्रैव इयं प्रेष्यतांतत्र गता च कान्तान्तिकस्था धैर्येण कालक्षेपं महिष्यतं, इत्यालोच्य सां मन्दारवतीं समायास्य सधनां सपरिच्छदां शुभऽहनि हंसोपात् समुद्रवर्मना विवाहार्थं जनमोलमङ्गलां

प्रवणमारोप्य विनीतमतिनामानं स्वमन्त्रिणं सह दत्त्वा अलकां प्रति व्यसर्जयत्। ततो यावत् कतिचित् दिनानि सा मन्दारवती अम्बुधौ प्रवहणेन याति तावदकस्मात् घोरेण महता सह गर्जन् जलदः समुत्तस्थौ। क्षणेन च बलीयसा विधिनेव दूरमाकृष्य वातेन तस्याः प्रवहणं हन्यमानमभज्यत। तस्मिंश्च भग्ने सा सपरिजना विनीतमतिना सह सधना अम्बुधौ न्यमज्जत्। सा तु राजसुता अब्विना अविभिर्जीवन्ती एव उत्क्षिप्यं नीत्वा निकटे वेलावने निचिप्ता। क्व अब्धौ पातः क्वतरणङ्गेण वेलावने प्रापणां सर्व्वमेव भवितव्यता साध्यम्। ततः सा तादृशो विजने वने वस्तवितला एकाकिनमा मानं दृष्टा दुःखान्धा भूमौ न्यपतत्। काहं प्रस्थितास्मि? क प्राप्ता ? क चासो मम सपरिच्छदः? क वा विनीतमतिः? अकस्मात् किमिदं मम वृतं मन्दभाग्या केदानों गच्छामि? हा हतास्मि किं करोमि, हा इतविधे ! कथमहमब्धेः समुन्तारिता ! हा तात! हा अम्ब! हा धार्य्यपुत्र अलकापतिपुत्र! त्वामप्राप्य विपद्येऽहं पश्य मां को मामिदानींपरित्रायते इत्यादि बहु विलपन्ती सा मन्दारवती छिन्नहारमुक्ताफलोपमै रश्शुभिः भृशं प्ररुदोद तावञ्च दैवयोगात् तत्र मतङ्गाख्यो महामुनिः आश्रमपदात् जलनिधेर्जलेषु स्नातुमाजगाम। स मुनिरदूरात् कौमारब्रह्मचारिण्या यमनाख्यया दुहित्रा सहागच्छन् तस्या रुदितध्वनिमहगोत्। अपश्यत् च तामुपेत्य तनयासहित राजसुतां यूयम्भ्रष्टामिव मृगीं इतस्ततः प्रक्षिप्तार्त्तलोचनाम्।

अपृच्छत् च स्निग्धया गिरा का त्वं शुभे! कुत आागतासि? काञ्च रोदिषि? इति। ततः सा तं सकृपं दृष्ट्वा शनै राश्वस्य तं प्रणम्य च तस्मै सत्रपं स्वरत्तान्तमाचचक्षे। अथ स मुनिः प्रणिधाय तामब्रवीत् राजपुत्रि! मा विषीद धैय्यमाप्नुहि, शिरीष पेशलाङ्गीं त्वां क्त शातिथयो नितरां बाधते, विपदः कि पैलव मपैलव मपेक्षन्ते, भक्ती अचिरादेव अभीतिं पतिमाप्रति, तदागच्छ मे चाश्रमं दूतो नाति दूरं तत्रानया मत्स्तया सह स्वगृहे यथा आस्वइति तां समाश्वास्य कृतस्नानो महामुनिः सुतया सहितां मन्दारवतींस्वमाश्रममानिनाय। तत्र सा संयता भर्क्तृसङ्गमार्थिनी तस्य मुनेः परिचर्य्याविनोदेन तत्सुतया महिता तस्थौ।

अत्रान्तरे चालकापतिसुतः दिनानि गणयन् विवाहलग्नोन्मुखः सुन्दरसेनः चिरमुत्कण्ठाकशः चन्द्रप्रभादिभिमित्रै राखास्यमानः कथमपि कालमनयत्। क्रमाच्च लग्नदिवसे प्रत्यासन्ने राजा महासेनः हंसीमं प्रति तस्य यात्रासमुद्योग मादिदेश। ततः शुभे ऽहनि कृतप्रस्थानमङ्गलः स नृपात्मजः सुन्दरसेनः क्ष्मां स्वसैन्यैः कम्पयन् प्रतस्थे। क्रमेण च गच्छन् सचिवैरन्वितः अम्भोधेस्तीरा भरगाभूतं शशाङ्कपुरं नाम पुरमाससाद। तत्र प्रश्रयावनतेन राजा महेन्द्रादित्येन प्रत्युद्गतः सहानुगः गजेन्द्रारूढः राजमन्दिरमाससाद।तत्र तेन महेन्द्रादित्येन राज्ञा ससचिवेन समुपचरितः तं दिवसं विशश्राम। अपि वारिनिधिमुत्तीर्य्य तां प्रियां प्राप्नुयाम्? उत नवोढ़ा सुलभ-

प्रेमलज्जासाध्वसथालिमी मामेत्व आश्विष्यति? आहोस्वित् लज्जाविधुराक्षरं शनैर्मधुर जपन्तींतां कान्तां शृणुवां? इत्यादिभिर्मनोरथेै स्तांनिशां नीत्वा प्रातय तत्रैव नगरे स्वसैनिकं स्थापयित्वा महेन्द्रादित्येनानुगम्यमानः वारिधेः कूलं ययौ। तत्र तेन राज्ञा सह महत् प्रवहणमेकं परिच्छदपूर्णं स राजपुत्रःस्वसचिवैर्वृतः समारुरोह। हितीयस्मिन् प्रवहणे अपरान् परिजनान् समारोप्य दक्षिण पश्चिमां दिशं प्रति गन्तुंनाविकानादिशत्।

अथ द्वित्रेष्वहःसु गतेषु अम्बुधौ गच्छतोर्द्वयोः प्रवहणयोः अकस्मात् महान् उत्पातमादतः समुत्तस्थौ। अहो वायुरपूर्योऽयमिति च वशादिव जलधेस्तटेषु वनराजयः व्याघुर्णन्ते इति तेषु तर्कयत्स ते उभे प्रवहणे अम्बुधौ क्षेमतुः। ततः सुन्दरसेनस्तत् दृष्ट्वा धैर्य्यादिव आसनात् चलितस्तं महेन्द्रादित्यं नृपतिं प्रतिं व्याजहार राजन्! मम मन्दभाग्यस्य अपुण्यैः भवतामकाण्डे प्रलयोऽयमुपस्थितः। तन्त्र शक्नोमि द्रष्टुं आत्मानमम्बुधौ क्षिपामि, इत्युक्त्वा स्वोत्तरीयेण परिकरं बद्ध्वा स राजपुत्रस्तस्मिन् जलधौ आत्मानमपातयत्। तदवलोक्य पञ्च तद्वयस्याच्चन्द्रप्रभादयः तेन महेन्द्रादित्येन सह तलेवात्मान मक्षिपन्। ते च बाहुभ्यां तेच बाहुभ्यां तरन्तीनदन्तश्च गतसम्भ्रमाः सर्वेऽपि वीचिवेगादितस्ततो जग्मुः। अथ क्षणेन शान्ते पवने निःशब्दस्तिमितोऽम्बुधिः सहसा प्रशान्त क्रोधस्य सज्जनस्य सादृश्यं वभार। तावच्च बातेन कुतोऽपि नीतां यानपालिकां स सुन्दरसेनः दृढहिना

मन्त्रिणा सहितः प्राप। आरुरोह च तेनैकेन मन्त्रिणा ताम्। ततो दिशमजानन् अखिलं पयोमयमिव पश्यन् भ्रष्टपौरुषः दैवमेव शरणं मन्यमानः मन्दानुकूलेन दैवेनेव नभस्वता प्रेष्यमाणया तया नावा त्रिभिर्दिनै स्तीरं प्रापितोऽभूत्। तत स्तीरविलग्नायां तस्यां यानपात्रिकायां समद्वितीयः स्थलं जीविताशाश्ञ्च सममवाप.। तत्रस्थश्च समाश्वास्य दृढ़बुद्धिमभाषत सखे! अम्बुधेरुत्तीर्णोऽपि, पातालादपि अधोगतोऽस्मि यत स्तं विक्रमशक्ति व्याघ्रपराक्रमं चन्द्रप्रभं भीमभुजं तथा अकारणबान्धवं महेन्द्रादित्यं नृपं अन्यांश्च सर्व्वान् विनाभ्य जीवितेन मे किं फलम्? इति दुःखेन विलपन्तं शोकव्याकुलमानसं तं मन्त्री दृढबुद्धिरवादीत् देव ! धैर्य्यमवाप्नुहि, जानेऽहं अस्माकं कल्याणमस्ति। यथा आवां तथा तेऽपि जलधिं जातु तरेयः। केन विज्ञातुंशक्यते ? दुर्ज्ञेया हि विधे गतिः.। इत्यादिभि र्यावत् तं दृढबुद्धिः प्रबोधयति तावत्तत्र हौ तापसी स्नानार्थमाजग्मतुः। तौ तं विषम’ राजपुत्तमुपेत्य वृत्तान्तं परिपृच्छ्यच सदयमूचतुः सुमते! देवा अपि सुखदुःखप्रदायिनः वलिनः पर्व्वकृतस्य कर्मणः अन्यथाभावं कर्त्तुं न क्षमाः.। तस्मात् दुःखं हातुमिच्छन् सुधोः सुलतमाचरेत्.। सा हि तस्य प्रतिक्रिया, तनोः शातनेन न शोकेनापि न, तत्त्व’ विषादं जहीहि धैर्येण शरीरं रक्ष। शरीरे सति कोनाम पुरषार्थो न सिध्येत्। कल्याणलक्षणेन तव अवश्यमेव शुभं भावीति सूच्यते। इत्युक्ता तौ सुनीतं समाश्वास्य सहितीयं स्वाश्रमं निन्यतुः। तत्र

स नृपात्मजः कांश्चित् दिवसान् मुनीनामन्नमश्नन् दृढ़बुद्धिना सहचरेण सह तस्थौ।

अत्रान्तरे तस्य मन्त्री भीमभुजः विक्रमशक्तिश्च दौ दोर्भ्यामब्धि’ ती टथक् तटमापतुः। आवामिव जातु सोऽपि राजपुत्रः समुत्तरेत् इत्याशया चिन्वन्तौ दुःखमोहितौ महाटवीं विविशतुः। अपरौ तत्सचिवौ चन्द्रप्रभ व्याघ्रपराक्रमी राजा महेन्द्रादित्यश्च तथैव वारिधिं समुत्तीर्य्यं भृशदुःखिताः तं राजपुत्रं सन्दरसेन मन्विव्यापि अप्राप्तवन्तः अलब्धभग्नवहना स्तत् शशाङ्कपुरं पुरमवापुः। ततः स्तौ मन्त्रिणौ तानि च प्राक संस्थितानि वलानि ज्ञातवृत्तान्तानि तामलकां पुरीं विषादलुप्तप्रतिपत्ति प्रययुः।

अथ तेषु प्राप्तेषु अनुशोचत्सु सा पुरी सर्व्वाएव प्ररुरोह। राजा महासेनश्च देव्या सह तं पुत्त्रवृत्तान्तं निशम्य यावत् प्राणत्यागाय समुयच्छति, तावत् सर्खे संचिवा स्तै स्वै दर्शितोपपत्तिभि स्तं सदेवीकं न्यवारयन्। ततश्च राजा यावदहं स्वाती नाधिगमिष्यामि तावदिहैव वत्स्यामीति सङ्कल्पा पुरादुवहिः सदेवोकः पुत्त्रं चिन्वन् सानुगो वास मकल्पयत्।

तावच्च मन्दारदेवोऽपि हंसद्वीपे जामातुर्दुहितुश्च अतितान्त विदित्वा म्युत्वा च मलकाप्राप्त नामासचिवद्दयं महासेननृपञ्च चाथया धृतप्रागं तपसि स्थितं निशम्य च भृशमनुतताप।मताशोकाच्च मरणोद्यतोऽपि बन्धुभिर्वारितो मन्त्रिभित्र तेष न्यस्तराज्यभरः महा-

सेनान्तिकं देव्या कन्दर्पसेनया सार्द्धं समागात्। चागत्य च मन्दारवतीथोकेन दग्धशरीरः महासेनेन समेत्य समदुःखः तेनैव समं अन्वशोचत् संयतेन्द्रियश्च तत्रावात्सीत्। हंसोपेश्वरोऽपि मिताशी दर्भसंस्तरः सह देव्या महासेनान्तिक एव एवं चिरमतिष्ठत्।

इत्यं दुर्दैवेन सर्व्वेषु तेषु तेषु इतस्ततः प्रक्षिप्तेषु कदाचित् इतस्ततो भ्रमन् सन्दरसेनः मतङ्गाश्रममासमाद। तत्र चागत्य दृढ़बद्धिसखः श्रान्तः सहसा पुष्पावचयव्यग्राः कन्यका ददर्श। तन्मध्ये च एकां त्रैलोक्यसुन्दरौं कान्त्या ज्योत्स्येव तदखिलं वनं भासयन्तौं बिलोकितैः दिशः प्रफुल्लनीलोत्पलाः कुर्व्वतीं चरणन्यासैरवनौ नलिनोवनानि तम्बन्तीं कन्यकां दृष्ट्वा केयं सहखनयनप्रेक्षणीया किं अमराः अथवा पुष्पलग्नाग्रकरपल्लवा वनश्रीः किमियं मन्ये बहुदिव्याङ्गनासृष्टिलब्ध नै पुण्येन वेधसा एतस्या इदमह्नतं वपु निर्मितम्। अहो! तस्याच चित्रदृष्टाकृतेरेषा अनुसरति, सैव किं भवेत्, कथं वैतत् क सा हंसदोपवासिनो, कोदं गहनम् वनं। तन्न ज्ञायते केयं कुतः कुत्र वा एषा भामिनी दूत्य वं बण्ड व्यतर्कयत्।

अथ दृढ़बुद्धिस्तां तथाविधां दृष्ट्वा तं राजसुतमब्रवीत् देव! नेयं वनवर्द्धिता, तथा सति मेदृशं रूपं वा सौकुमार्य्यं न स्यात्, तदेषा कापि दिव्या वा राजकन्या, नैवेयम्टषिकन्या, तदत्र क्षणं तिष्ठावः श्रातुमिमाम्। इत्यभिहिते हदबुद्धिना तावुभौ तत्र पादपान्तरितौ तस्यतुः। तावञ्च समुचितपुष्पाताः कन्यकास्तया वर-

कन्यया सार्द्धं स्नात् सरितं भवातरन्। तत्र तांसु जलकोड़ाप्रवृत्तास विधियोगात् सा वरकन्यका ग्राहेणागत्य जगृहे। तदालोक्यैव सर्व्वास्ताः कन्याः भयविह्नलाः कन्दन्त्यः बुवन्तिस्म वनदेवताः ! त्वरध्वं त्वरध्वं एषा मन्दारवती स्वान्ती अस्माकं मध्यात् अशङ्किता ग्राहेणागत्य तरसा नीयते व्हा ! विपद्यते च। एतदाकर्खेव किं सैव मे प्रिया पूर्ति स सुन्दरसेनः प्रधाव्य द्रुतं कुरिकया तं ग्राहमवधीत् आश्वासयञ्च मृत्योरिव मुखात् तस्मात् ग्राहात् च्युतां तामुत्क्षिप्य रोधसि मन्दारवतीम्। सापि भयादुत्तीय तं सुभगं दृष्ट्वा व्यचिन्तयत् कोऽयं महात्मा मम प्राणदानार्थ मिहागतः, चित्रमिदं सुसहयं रूपमिदं चित्रदृष्टस्य तस्य ष्मलकेश्वर सुतस्य मे प्राणेशस्य। अपिनाम स एवायं स्यात्? अथवा धिक् मे दुश्चिन्तितं ईशः स विदेशस्थः कथं स्यात्, शान्तं माभूदेवं कदाचन, तदस्य अन्यपुरुषस्यान्तिके नाधुना मे स्थातुं युक्त व्रजामि तावत् अभै अस्मै च महात्मने स्वस्ति अस्तु। इति सञ्चिन्त्य सा मन्दारवती ताः सखोः प्राह सख्यः! एनं महाभागं प्रणम्य गच्छामः एत इति। तदाकर्ण्य स राजपुत्रः नामरूपदर्शनाभ्यां प्रायेण जातनियोऽपि तत्त्रावस्थानमसम्भवं मत्वा संशयानः एकां तत्सखीमष्टच्छत् शुभे! केयं कस्यात्मजा कोदृशी च वः सखी? कौतुकमत्र मे सुमहत् इति पृष्टवन्तं तं सा मुनिकन्या समभ्यधात् महाभाग! रातो मन्दार देवस्य हंस द्वीपपते रियमात्मजा मन्दारवती नाम। इयं कुमारी राजसूनवे सुन्दरसेनाय दातुं अलकां पुरीं

नौयमाना भग्नप्रवहणा अम्भोनिधौ निमग्ना वीचिभिस्तटे चानीय इह क्षिप्ता। ततो मतङ्गेन मुनिना स्नातुं गतेन समुद्रतीरं द्वयं प्राप्य द्याश्रममानीतेति। एवमुक्ते तया हर्षविषादाकुलितं तं सुन्दरसेनं सखा हढ़बुद्धि स्वाच राजपुत्र! दिष्ट्या अद्य देवीलाभेन बर्द्धसे, सैव एषा हि दैवेन समानदुःखस्य तवान्तिकं प्रापिता, अहो! विचित्र’ विधेर्विलसितमिति उक्का टच्छन्तीस्ताः सखीर्मुनिकन्यकाः राजपुत्त्रवृत्तान्तमवर्णयत्। श्रुत्वा च ताः तां मन्दारवतोमभ्यनन्दयन्। ततः सा हा आर्यपुत्र ! इत्युदी तस्य राजसुतस्य सुन्दरसेनस्य पादयोः पपात सोऽपि तामाश्लिष्य भृशं रुरोद। तौ च रुदन्तौ दृष्ट्वा दयार्द्राणि काठानि तृणान्यपि तत्रत्यानि रुरुदुः का कथा अन्येषाम्।

अथ गत्वा ताभिर्मुनिकन्याभिद्रुतं अवितो मुनिर्मतङ्गः स्वसुतया यमुनया सहितस्तत्रागात्। स चागत्य तं सुन्दरसेनं चरणानतं समाखास्य मन्दारवत्या सहितं स्वाश्रमं निनाय। चकार च तमातिथ्येन सुसत्कृतं सद्वितीयं सुविश्रान्तम्। अन्येद्यञ्च स महामुनिः तं राजपुत्रमाहम पुत्र ! मयाधुना कार्य्यतः श्वेतद्वीपे गम्यते, तत्त्वं मन्दारवतों ग्टहीत्वा अलकां पुरीं गच्छ। तत्रैतां राजसुतां परिणीय अनुपालयेः, सुतेति प्रतिपन्नेयं अद्य तुभ्यं समर्पिता मया, निश्चिन्त अहमद्य यथाकामं चरिष्यामि त्वमनया सार्क सुचिरं सखेन राज्यं पालयिष्यसि, तांश्च सर्व्वान् सचिवान् अचिरेणैव प्राश्यसि। इत्युक्त्वा सवधूकं तं सुन्दर सेनमामन्त्रा नभसा सदुहिकः श्वेतद्वीपं प्रति प्रतस्थे।

ततः सुन्दरसेनः तथा मन्दारवत्या कान्तया सचिवेन च दृढ़बुद्धिना सह तस्मादाश्रमात् उच्चचाल। क्रमेण च जलवितीरमासाद्य सन्निहितं केनापि यूनाधिष्ठितं लघु प्रवहणमेकं ददर्श ययाचे च तस्मिन् आश्रयं अध्वसौकर्यलुब्धः दृढ़बुद्धिमुखेन। सोऽपि युवा वणिक्सुतः तां मन्दारबतौं पश्यन् सारमोहितस्तथेति प्रतिपद्य तीराभिमुखं तत् प्रवहणमचोदयत्। ततः सुन्दरसेन अग्रतस्तां प्रियां तत्रारोप्य तस्थितः स्वयमारोढुं यावदिच्छति, तावत् स परस्त्रीलम्पटः कुवणिकपुत्रः शठः कर्णाधाराय संज्ञां दत्वा द्रतं प्रवहणमचालयत्। तच्च वहनं कन्दद्राजसुतं क्षणेन पश्यतः सुन्दरसेनस्य दृष्टिपथमतिकान्तमभूत्। तदवलोक्यम राजसुतः हा ! धिक् चौरैः प्रमुषितोऽसीति समाक्रन्दन् भूमौ पपात विललाप च। अथ तेन दृढ़बुद्धिना स राजसुतः समाश्वास्य निजगाद देव ! उत्तिष्ठ, वैक्लव्यं मुञ्च, नायं वीरोचितः क्रमः एहि चौरं तमन्वष्ट अनेन स्थलवर्त्मना गच्छावः। चापदि कष्टदशायाञ्च बुधैरुत्साहो न त्याज्यते। इति तेन दृढ़बुद्धिनाकश्चित् प्रवोषितः कुमारः तस्मादब्बितीरादुत्थाय प्रतस्ये। गच्छन् क्रमेण हा प्रिये ! मन्दारवति ! इति विलपन् सारनिशं विरहांम्मिमा सन्तप्यमानः निराहारः केवलं हृढ़बुद्धिसहायः सोन्माददूव महारण्यमेकं विवेश। तदा तस्य सख्यु ईंटबुजेर्हितं वचः न गणयामास। तत्र तत्र प्रियार्थी अभ्य धावत् किं मे प्रिया अत्र लताकुब्जे पुष्पाणि चिनुते? उतात सरसि स्नातुमवतीर्णा? कथं नु तस्याः पद्मपत्वा-

यास्याःबदनं नेक्ष्यते? क्वासौगता मामनावेद्य, किंवा कुपिता सा कुत्रापि प्रच्छन्नयरीरा ममानुरागं पश्यति, हा प्रिये! दृश्यसे इव नापि दृश्यसे ? एवं प्रतिपदं मुह्यन् राजसुतः ययार्कण तथा इन्दुना तप्यमानः तुल्यनक्तन्दिनश्चिरं बभ्राम।

अथ कथञ्चित् दृढ़वन्हिना तस्मात् बनादपवाहितः स राजपुत्त्रः मार्गभ्रष्टः पुनर्महतींउग्रवह्निसिंहादिवापदभीषणां सेनानीमिव दुर्हर्षांदस्युसेनानिषेवितां अटवीं प्राप। ततस्तां सुलभापदां निराश्रयां दुर्दशामिव सम्प्राप्य हृढ़बुद्धिमात्र सहायः समन्तात् यावत् अवलोकयति तावत् विन्ध्यकेतोः पुलिन्दराजस्य आज्ञाकरान् भगवत्याश्चण्डि काया उपहारायें नरपशून् चिन्वतो बहून् पुलिन्दान् उदायुधान् आपततः सन्ददर्श। विदेशो, विरहक्लेशः, नीचात् परिभवः, अनाहारः, अध्वसन्तापश्च इति पञ्चाग्निपरीतस्थापि राजपुत्त्रस्य धैर्य्यमवेक्षितुं विधिः षष्ठं दस्युसम्पात मसृजत्। स राजसुतः तान् हरणार्थं प्रधावितान् वाणवर्षिणो दस्यून् वहून् छ रिकया अवधीत्। तद्दिदित्वा राजा विन्ध्यकेतुना पुलिन्दपतिना अन्यत् सैन्यंप्रेष्यत। सोऽपि युद्धो राजतनयः तान् वहून् चौरान् पुन र्जघान। अथासौ सवयस्यः बहुना युद्धव्यापारेण अध्व श्रमेण अनशनेन विरहेण च नितरां कान्तः बहुभिः शरै गृहीत्वा रामः पुलिन्दाधिपतेः सकाशं नीत्वा तदाचया कारायां निश्चिक्षिपे। तत्र कीटोत्कराकोर्णे नालकपरिपूरिते गर्त्तलम्बिभि र्निर्मोकेः सूचिताहिसञ्चारे

अन्तः क्षिप्तस्थितानेकभीतापन्नजनाष्टते निरय इव स्थितः दृढ़वुद्दिमात्रसहचरः, आदौ वह्वानीतस्थितौ तौ तीर्थवारिधी भीमभुजविक्रमशक्ती अपश्यत्। तौ तत्र प्रभु तदवस्यमानीतं दृष्ट्वा रुदन्तौ परिज्ञाय तस्य पादयोः पेततुः। सोऽपि तौ प्रत्यभिज्ञाय रुदन् बास्पाकुलकण्ठः स्वरत्तान्त मब्रवीत्। ततः अन्योन्यदर्शनेन शतगुणीभूतदुःखास्ते आश्वासयङ्गिरपरै बन्धन स्थैरूचिरे। भद्रा ! तं दुःखेन, नहि पूर्व्वकभ अतिवर्त्तितुं देवैरपि शक्य किं न पश्यथ सर्वेषामेव नः आगामिन्यां चरा देश्या मृत्यु मुपस्थितम्। अनेन पुलिन्दराजेन देव्या उपहारार्थे वय नरपशव एते समाहूतोः, तत् किं शोकेन? जन्तुषु कोड़तो विधेश्विना गतिः। स एव जन्तनां भद्रमभद्रं वा दद्यात्। इति धनस्यैरुक्ते सर्व्वे विषादमापन्ना अतिष्ठन्।

अथ प्राप्तायां चतुर्दयां, उपहारार्थ मानीयन्तां सर्व्वे बन्धनस्था इति राजाज्ञया पुलिन्दैः राजभृत्यै स्तत् दीपज्याला चलज्जिहं धण्टानादान् कुर्व्वत् घोरं स्मृत्योर्मुखमिव देवीग्ट हमनोयन्त। तत्र सुन्दरमेन स्तां देवों दृष्ट्वा भक्तिप्रथम मनसा प्रणम्य स्तुवन् व्यजिम्मपत् भगवति ! दैत्य विनाशिनि ! शमित सुरसन्तापे! प्रणताभयदायिनि मातः! प्रसन्नेन अमृतस्त्रुता लोचनेन दुःखदावाग्निदग्ध मां निर्वापय देवि! तुभ्यं नमाऽस्तु। इति व्याहरति तस्मिन् राजसुते तत्र पुलिन्दराट् विन्ध्यकेतुः तां देवों अतिमभ्यगात्। तं भिल्लराजं दृड्ड व स सुन्दरसेनः लपानतः तान् वयस्थान भ्यधात् अहो! स एष पुलिन्दाधिपतिः। विन्धा-

केतुः, यस्तातस्य प्रसादात् सेवया इमां महाटवीं भुङ्क्त। तद् यदस्तु, नेह किश्चन वक्तव्यमस्माभिः वत्युरपि मानिनः श्रेयान् नतु आत्मप्रकाशनम्। इति यावत् सखिभिः सह स तृपात्मजः आमन्त्रयति तावत् स विन्धाकेतुः खान् भृत्यानभ्यभाषत एत, प्रदर्शयत तं प्रवीरं महापशु येन ग्टह्यमाणेन हता मे सुबहवो योधा इति। तच्छ्रुत्वैव तैः अशुष्कादिग्धो व्रणिताङ्गः स सुन्दर सेनः तदन्तिकमनीयत। स पुलिन्देन्द्रः तं दृष्ट्वैव मनागिव परिवाय परिशङ्कितः कत्वं कुत आगत’, बहीति परिपप्रच्छ। सुन्दरसेमोऽपि तं भिल्लेन्द्रं योऽहं यत आगतः, तत् श्रुत्वा अलं कुरु प्रस्तुतं, किमनेन तेन इति प्रत्यवादीत्। ततस्तं आलापात् सम्यक् प्रत्यभिनाय ससम्भ्रमः त्रस्तः हाहेति अल्पन् विन्धयकेतुः अवनौ सद्यः पपात। हा महाराज महासेन। पथ्य पापेन मया अद्य युत्प्रसादानां कीथमुचितं कर्त्तुं मार. यत्ते प्राणसमः पुत्त्र इमामवस्थां नीतः देवोऽयं सुन्दरसेनः कुतोऽपि कथमिहागतः। इत्य राजपुत्रमाशिष्य विन्धप्रकेतुस्तथा व्यतपत् यथा सबै तत्त्रत्या उदस्यवः समभवन्। ततः सर्व्वे ते एतदेवात्र ते सौभाग्यं यत् पूर्व्यमेव प्रत्यभिज्ञातवानसि पश्चाद्विहिते किं विधास्यसि, तदत्र को विषादः प्रहर्षकाले इति उक्ता तं विन्ध्यकेतु समाश्वासयन्। ततश्च स राजा पादप तितः प्रीतः तं सुन्दरसेनं अन्यांच तद्वयस्थादीन् बन्धनात् मोचयित्वा सम्मान्य समभ्यर्च्य च स्वां पलीं सबन्धुकं नीला तथा पर्व्यचरत् यथा अविलम्बेन ते अस्वप्रहारवणादि-

शमनेन पूर्ववत् प्रकृतिस्थाः सुखमतिष्ठन्। अथ स्वस्थेषु तेषु राजा विन्धकेतुरवादीत् राजपुत्र! कथमिहागतं भवता महत् कौतूहलमत्र तत् कथ्यतामिति। ततस्तेन सुन्दरसेनेन मूलतः स्वरत्तान्ते वर्णिते चित्रीयमाणचेताः शबरेन्द्रस्तमुत्राच्च क्वमन्दारवती हेतोर्यात्रा, कचाम्बुधौ पातः, क मतङ्गाश्रमप्राप्तिः क्व तथा तत्र सङ्गमः, क्व च अविश्वासमा वणिजा तस्याः पुनरपहरां क चाटबीप्रवेशः, कचास्माभिः पशुवदुपहारार्थं बन्धनं, क्व च प्रत्यभिनया मृत्योरास्यादिव निर्गमः, तत् विचित्रविधये तस्मै विधये नमः, तत्त्वया कान्तां प्रति नैव चिन्ता काबी, यतो विधियेथेदमकरोत् तथा तदपि अचिरात् करिष्यति, इतिवादिनमेव तं पुलिन्दरेन्द्र सहसागतः तत् सेनापतिः प्रीतः प्रविश्य व्यजिज्ञपत् देव ! भूरिधनं अतिरूपवत् स्त्रीरत्नञ्चादाय सानुगः कोऽपि वणिक् एतामटवीं प्रविष्टः, स च मया सवलेन बद्दा अवष्टभ्य सधनस्त्रीकः इहानीतो वहिस्तिष्ठति। तदाकर्ण्य सुन्दरसेनः विन्धाकेतुश्च स वणिक् सा मन्दारवती किं स्यात्? इति दध्यतुः। प्रवेश्यतामिहैव असौ सा च स्त्री इत्युक्तवतोस्तयोः स सेनापतिः तं वणिजं ताञ्च स्त्रियं प्रावेशयत्। ततो दृष्ट्वैव तावुभौ दृढ़बुद्धिरभाषत सैवेयमस्माकं देवौ मन्दारवती स चायं दुम्बति, हा देवि ! निदाषदग्ध व लता कथमिमामवस्थां गतासि, इति तस्मिन् दृढ़बुद्धौ कन्दति स सुन्दरसेनः प्रधाव्य प्रियां तां कण्ठे सरभसं समग्रहीत्। ततस्तौ प्रियो अश्रुधाराजलेन विरहमालिन्यं क्षालयन्ताविव चिरं रुरुदतः।

अथ विन्धकेतुस्तौ समाश्वास्य तं वणिजं उवाच कथं त्वया विश्वस्तस्य दारा हृताः?ततः स वणिक् भयगद्गदया गिरा प्रोवाच वृथा मया दूदं कृतं पापेन, निजेन तु अधर्षणीयेन महमा इयं मनखिनौ रक्षिता, इयं वहिज्वालेव मया स्प्रष्टुं न शकिता। निजं देशश्च नीला बहुशः प्रसाधिता पापस्य मे इयं परिणेतु मभिप्रेतासीत्। इत्युक्तवन्तं त पुलिन्दराजेनादिष्टषधं सदयो राजपुत्रः तं वणिजं वधादमोचयत् यः प्राणाधिकं तस्य धनरत्नमहरत्। एवं सुन्दरसेनेन प्राणवधात् रचिते कृपणे तस्मिन् वणिजि गते स विन्धप्रकेतुः सुन्दरसेनेन सह तां मन्दारवतीं नीत्वा स्वदेवी मन्दिरं जगाम। तत्र सतां देवीं वस्त्रानुलेपनादिना समभ्यर्च्च मन्दारवतीं वस्त्रालङ्कारादिना सम्मान्य सुन्दरसेनं वरासने समुपवेश्य मुक्ताम्मृगमदादिभिः प्राभृतैरचैयामास। चकार च तयो दम्पत्योः सङ्गमप्रीतो महोत्सवम्।

अथान्यदेद्युः सुन्दरसेनस्तं पुलिन्दराजमभ्यधात् राजन् यथेट मुपकृतोऽस्मि त्वया, तदधुना खनगरौं गच्छामः, तत् ताताय आशु स्ववृत्तान्तमदागमनशसनाय कश्चित् लेखहारः प्रेष्यताम्। इति तेन राजपुत्रेगोक्तः शवरेश्वरः तथैव दत्तसन्द शं लेखहार व्यसर्जयत्। स लेख हारको यावत् तामलकां पुरीं प्रविशति तावत् तत्र स महासेनो नृपः देव्या सह पुत्रवार्त्तायाः कथमपि अप्राप्ता किमिदानों जीवितेनेति मोहितः शङ्करमन्दिराग्रे अनुग्रोचङ्गिः पौरैरुदश्रुभिः परिवृतो हि प्रवेष्टुमुद्यतोऽभूत्

तदाकर्ण्य स शवरो धावन् लेखं प्रदर्शयन् महासेनं नृपं सत्वरमुपाजगाम॥ प्रोवाच देव! दिथ्या वर्द्ध से, पुत्रस्तव सुन्दरसेनः निस्तीर्णाम्बुधः मन्दारवत्या कान्तया मिलितः अमत्प्रभोधातोरन्तिके तिष्ठति, तेनैव साकमागन्तु प्रवृत्तः मां लेखहारकमग्रतः प्राहिणोत्। इत्यक्का वलिलिप्ताङ्गः धनुष्पाणिर्लताभिर्वमूर्द्धजः श्यामः स शवरः गमः पादान्तिके लेखं निदधे।

ततोहृष्टैः सर्व्वननैः कलरवे कृते. लेखे वाचिते च महाद्धते वृत्तान्ते ज्ञाते स राजा कृतोत्सवः परित्यक्तशोकः तं लेखहारं पुरस्कृत्य सर्व्वेः सह राजधानों प्राविशत्। ततोऽन्येद्युः तस्य आगमिष्यतः सूनोरग्रतः हंसदीपेश्वरसहितः प्रायात्। चतुरङ्गबलञ्च मेदिनों प्रकम्पयत् तस्यानुपदं धावति स्म। सुन्दर सेनोऽपि विक्रमशक्तिः भीमभजदृढ़बुद्धिभिः सखिभिः विन्ध्यकेतुना तत्सहचरैर्भिल्लरन्देच समन्वितः प्रियां मन्दारवती मादाय वातरंहसा हयेनागच्छन् कतिपयैरेव दिनेरलकां पुरीमभितः पथि तिष्ठन्तं सम्मुखागतं सपरिच्छदबान्धवं पितरं ददर्श। ततस्तुरंगादवरुह्य सानन्दं वाष्पवर्षिभिर्जनैर्वोचितः समुपेत्य सवयस्यः पितुः पादयोरपतत्। सोऽपि राकाचन्द्रमिवोदधिः पुत्तमालोक्य हर्षोल्लासतरङ्गितः आत्मन्येव न मातिस्म। ततो मन्दारवतीं पादप्रगातां स्नुषां दृट्रैव चात्मानं कुस्तञ्च कृतिनं मेने ननन्द च। ततस्तान् दृढ़बुद्धिप्रभृतीन् त्रीन् प्रणतान् पुत्त्रमन्त्रिणः तञ्च विन्ध्यकेतु सानुगं भृशमभ्यनन्दयत्।

अथ सुन्दरमेनःपित्रा निर्दिष्टं तं मन्दारदेवं श्वशुरं दृष्ट्वा मुमुदे प्रणनाम च। ततस्तौ पूर्वागतौ चन्द्रप्रभव्याघ्र पराक्रमौ मन्त्रिणौ चरणानतौ दृष्ट्वा पूर्णान् मनोरथानमन्यत। क्षणे च तस्मिन् श्रुतवृत्तान्त हर्षितः स महेन्द्रादित्यो नृपः प्रीत्या शशाङ्कपुरात् तस्मात् समाजगाम। अथ स सुन्दरसेनः तैः समग्रैः स्वजनैः समं नलकूबर दूव रम्भां मन्दारवती मुद्दहन् वाहनारूढ़ः अलकां पुरीं सबसम्टद्धिपूर्ण भूयिष्ठपुण्य जनामयासीत्। तस्यां वातायनसंश्रिताभिः पौराङ्गनाभिनैत्रोत्पलैराकीयमाणः प्रियया समेतः पिटराजधानीं प्रविश्य आनन्द वाष्पाकुललोचनाया मातुश्चरणावभिवाद्य महोत्सवेन तं दिवस मनैषीत्।

अथान्येद्युः गणकैर्निर्द्धारिते शुभे लग्ने स राजसृनुः मन्दारदेवेनार्पितं चिरकाङ्क्षितं तस्या मन्दारवत्याः पाणिमग्रहीत्। मन्दारदेवश्च अनन्यपुत्त्रः तस्मै महान्ति रत्नानि यौतकानि दत्त्वा खदेहोत्तरकालं निजं राजाच नामात्रे दातु व्यवस्थापितवान्। पिता महासेनश्च इच्छा विभवानुरूपं महोत्सवं विधाय बन्धनागारेभ्यः बद्धान् अमोचयत् ददौ दीनदरिद्रानाथेभ्यः ब्राह्मणेभ्यश्च यथाभिलषितं धनम्। अथ जामातरं मन्दारवतीसमेतं पूर्णकामं दृष्ट्वा तद्विवाहजं प्रमोद मनुभूय च सम्बन्धिना महासेनेन समचितः मन्दारवृपतिः स्वं मण्डलमयासीत्। स च शशाङ्कपुरपतिः स च महाटवीपतिविन्ध्यकेतुः स्वंस्वं नगरं प्रायात्। अथ गच्छत्सु दिनेषु महासेनो नृपतिः सद्गुणथालिनं प्रजाप्रियं पुत्रं प्रेच्य स्वे राज्ये अभिषिच्य

च वनं समाश्रयत्। सोऽपि सुन्दरसेनः राज्यं सम्प्रेक्ष्य स्वबाहुवलेन सर्वान् नृपान् निर्जित्य मन्दारवत्याः प्रेमनिर्भरः सर्वांपृथिवींतैः पञ्चभिर्मन्त्रिभिः शशास।

इति कथां समाख्याय व्याघ्रसेननामा मन्त्री भूयः कुमारं मृगाङ्गदत्तं निजगाद स कण्वोमुनिः स्वाश्रमान्तः कथामेतामुक्ता दयालु रम्मानाखासयन् पुनरवोचत् पुत्रकाः ! इत्थं ये धीरचेतसः सुविषमाणि दुस्तराणि कृच्छ्राणि सहन्ते ते अन्यदुर्लभानि अभीप्सितानि समानवन्ति। तस्मादिमां विक्लवतां जहीत गच्छत, युष्माकमधिपविश्व सम्मृगाङ्गदत्तः सम्प्राप्त-सव्वाभीष्टः अल्पीय सैव कालेन शशाङ्गवत्या सह पृथिवींभोक्ष्यते। इत्थं तेन महर्षिणा सान्त्वितावयं धृतिमालम्बा तत्र तां निशां नीत्वा प्रातस्तस्मादाश्रमात् प्रचलिताः क्रमेणाध्वखिन्नाः काननमेतदवाप्ताः। इह चातितृषा क्षुधा च सन्तप्ताः फललाभाय एतं गणपतितरुमारुह्य फलत्वमाप्तास्तव तपसा अद्य मोचिताः स्म। इत्थं नागयापेन त्वद्वियोगातुराणामस्माकं चतुर्णां वृत्तान्तः तदद्य सोऽस्माकं शापःक्षीणःसाम्प्रतं सत्वरं कार्य्यसि अत्माभिः सह प्रयाहि। एतत् निजसचिवात् व्याघ्रसेनात् श्रुत्वा शशाङ्कवत्या लाभे लब्धधृतिः तां निशां क्षणमिवानयत्।

अथ द्वाधिकशततमस्तरङ्गः।

————————

ततः प्रभाते समुत्थाय तस्मात् सरसस्तटात् मृगाङ्कदत्तः सर्वैः सचिवैः स्तधिना च युक्तः पुरीमुज्जयिनींप्रति प्रतस्थे। क्रमेण तास्ता अनेकशतजदातमालश्यामलाभोगा घननिशादूव वनभवः अन्याय शुद्धाः पुष्पवतोरपि कूर सत्त्वाश्रिताः शान्तै निभिरध्युषिता गिरिकन्दराः शान्तैर्मुनिभिरध्युषिता समतीत्य। उज्जयिनीसन्निकर्षमवाप। तत्र च गन्धवत नदीं प्राप्य कृतवानः सानुगः तीर्त्वा च महाकालाख्यं श्मशानं प्राप ददर्श च तत् बहुभिरतिविरपतितैरस्थि कपालशकले राकी करालं वीरसेवितं बहुभूतगणैरधिष्ठितं आकीमिव कृतान्तस्य डाकिनीबहुलं महाभैरवमासन्नचिताधूमैः समाच्छन्नम्। क्रमेण च तदुत्ती तां युगपुरातनों कमसेनेन नृपेण गुप्तां विविधायुधवरैः रक्षिभिरधिष्ठितप्रतोलीकां प्रवीर कुलजाशेषराजपुत्त्राभिरचितैर्गिरिशिखराकारैः प्राकारैः परिवेष्टितां अविज्ञाते दुष्प्रवेशां हस्त्यश्वरथसङ्कलां उज्जयिनी मद्राक्षीत्। अथ मृगाङ्कदत्तः तादृशीं सर्व्वतोऽपि अतिदुर्गमां तां विलोक्य हताशः स्वान् सचिवानब्रवीत् हा! कष्टं क्लेशशतैरपि मन्दभाग्यस्य मे नास्त्यत्र कथमपि प्रवेश, धिया प्राप्तौ तु का गतिः। तदाकर्ण्य तेऽप्यवोचन् देव। एषा पुरी अस्माकमपि तव बलसाध्या न प्रतिभाति। अत्र कोऽप्युपायो

विश्वेतव्यः, सचावश्यं सेत्स्यति दैवतो बहुशः समादिष्टं कथं विस्मृतवानसि? इति तै मन्त्रिभिः प्रबोधितः स कुमारः पुरात् बहिरेव कांश्चित् दिवसानतिष्ठत्।

एकदा तन्मन्त्री विक्रमकेशरी वासभवनात् तस्याः शशाङ्कवत्या आनयनार्थं प्राक्सिङ्घ वेतालमस्मरत्। स्मृतमात्रश्च स कृष्ण च्छविः प्रांशुः उष्ट्रग्रीवः गजाननः महिघाङ्घ्रिः पेचकाक्षः स्वरकः वेतालः समेत्य तत्र प्रवेष्टुमशक्तः प्रतिजगाम। शम्भोर्वरात् तादृशा भूतयोनयस्तां पुरौनाक्रमितुं शक्नुवन्ति हि। अथ नीतिज्ञः स दिजः श्रुतधिः तममात्यैर्ह तं पुरप्रवेशोन्मखं कुमारमब्रवीत् देव ! जानन्नपि नीतितत्त्व’ किं मुह्यसि ? स्वस्य परस्यच अन्तरमपश्यतो न विक्रमः श्रेयसे, अस्यास नगर्खा एकैकस्मिन् चतुर्ष्वपि द्वारेषु कुञ्जराणां हे सह वाजिनां पञ्च सहस्वाणि रथानां विंशतिः पदातीनाञ्च लक्षं वीराधिष्ठितं सन्नद्धं रक्षार्थमास्ते। तत् कतिपयानां नः पतङ्गानामित्र अत्र प्रवेशनं न न्याय्यं केवलं अर्थसिद्धः प्रतिकूलम्। मन्ये नापि सामान्येन सैन्येन इयं पुरी क्षेप्तुं शक्या अतिबलेन च यद्विरोधः तद्धि हस्तिपादात युद्धम्। तस्मात् तेन मायावटुना तथा तेन किरातराजेन वाल सब्रह्मचारिणा शक्तिरक्षिताख्येन विक्रमशक्तिना समेत्य स्वबलसैन्य पूरित दिङ्मुखः सहायसम्पन्नश्च एतत् समीहितं संसाधय \। सच किरातराजः ते दूतागमन संविदं प्रतीक्षमाण एव स्थित इत्येतत् कथं युवराजेन विस्मृतम् मायावटुश्च मातङ्गराजादेशात् ध्रुवमागतः सुसज्जित स्तैनैवसहास्ते तथा हि

तस्य संवत् कृता। तत्तस्य मातङ्गपतेः निवासभूमिं विन्ध्यदक्षिणपार्श्वस्थितं करभग्रीवाख्यौं नगरं गच्छामः। तत्र च राजा शक्तिरहितः आह्वातव्यः। ततस्तैः सर्वैः समय ते समुद्योगः सिद्धये भवतीति।

एतत् श्रुतर्वाक्यमर्थवत् प्राज्ञसम्मतं श्रुत्वा सामात्यो मृगाङ्कदत्तः तथेति श्रद्दधेप्रतिपेदे च। ततश्च विश्वस्य प्रदर्शिताशं भगवन्तं भास्करं प्रणम्य विन्ध्य पार्श्व रक्षिगां मतङ्गनाथं शक्तिरक्षितं प्रति प्रचचाल। ते च व्याघ्रसेनभीमपराक्रम गुणाकर मेघवल विमलवद्धि विचित्र कथस्थलबाड विक्रम केशरि प्रचण्डशक्तयः सचिवाः सह श्रुतधिना दृढ़बुद्धिना च त मनुजग्मः। क्रमेण च अतिविस्तीर्णा निजाश्वेष्टा इव तास्ता अटवीः स्वाभिप्रायानिव गहनोचवनोद्देशांश्च अतिकामन् सरस्तौरतरुमूलेषु कृतनिशावसथः क्रमेण स्वचित्तमिवोन्नतं विन्ध्यं प्राप्य ग्ररुरोह। ततस्तस्य प्राग्दक्षिणं पार्श्वमवरुह्य दूरात् दण्डिनां दण्डैर जिनैश्च चिता भिल्लपल्लीविलोकयन् कुत्र तस्य मातङ्गपतेरास्पदं कुतोज्ञास्याम इति यावत् स राजसुतो ध्यायति तावत् सम्मुखागतं एकं मुनिकुमार सहसा ददर्श पप्रच्छ च, कृतप्रणतिः। भगवन् ! अपि जानासि कुत्र इह मातङ्गपतेः स्थानं? तदाकर्ण्य स तापसः प्रत्यवदत् इतः कोशमात्र के पञ्चवटौति प्रख्यातः प्रदेशोऽस्ति, तस्य च नातिदूरे महर्षेरगस्त्यस्य त्रिदिवात् लीलया पातितोत् सिक्नडषेन्द्रस्य आश्रमः। यत्र पितुराज्ञया सीतालक्ष्मण समेतोरघुपतेः सुचिरं तं मुनिमसेवत। यस्मिंश्च स कबन्धः रक्षो-

विनाशपिशुनौ चन्द्रार्काविव रामलक्ष्मणौ नास्कन्दितं प्रववृते न च शशाक। यत्र च रामः योजनाबाहोर्भुज मगस्त्यप्रार्थनायातनष्डषाजगरोपममच्छिनत्। अद्यापि यत्र मेघागमे जलधरध्वनिं श्रुत्वा अम्बररोधिनः रामकोदण्डवस्य स्मरन्तः जानकीवर्द्धिता जरन्मृगाः सर्व्वा दियःशून्या वीक्ष्य उद्वाष्पलोचनाः शष्पकवलानि न ग्टहन्ति। यत्र च वैदेहीविरहदो हेमम्मृगः हतशेषानिव हरिणान् त्रातु मायया राघवं जहार। तस्याश्रमस्य नातिदूरवर्त्तिनि विन्ध्यसानौ करभग्रीव नामा कुटिलदुर्गमः प्रदेशोऽस्ति, तत्र भूपालानिर्ज्जितोबली दुर्गपिशाचश्चण्ड विक्रमः स मातङ्गपतिः प्रतिवसति। यः धनुर्धराणां लक्षस्याधिवलः येषामेकैकं पञ्चशतं योधा अनुधावन्ति तादृशैदस्युभिः स सार्थान् मुष्णाति हिनस्ति च द्विषः। एताञ्च महाटवीं भुङ्क्ते न कमपि नृपं गणयति च। एतत् तस्मान्म नेरुपश्रुत्य तञ्चामन्त्रा सानुगः स म्मृगाङ्गदत्त स्तेनैव मार्गेण त्वरितं य प्रातश्च तस्य मातङ्गराजस्य निवास करभग्रीवं भिल्लपल्लीपूर्ण प्राप्य दूरतः समन्ततः शवरौघान् वर्हिबर्डेभदन्त व्याघ्रच मृगामिषभोजिनः पश्यन् सचिवानब्रवीत् पश्यत तिर्य्यञ्च इवामी अरण्यवृत्तयः जीवन्ति, चित्रं तदपि अमी दुर्गपिशाचं प्रभुंब्रुवते। इत्येवं वदन् यावत् स कर भग्रीवकोट्टमागं विचिनुते तावत् शवरभूभृतः तत्र पूर्व्वमागतस्य मायावटोश्वाराः पूर्वदृष्टं तं ददृशुः। दृष्ट्व ते तस्मै मायावटवे सद्यो न्यवेदयन्। सतु श्रुत्वा ससैन्यस्तं प्रत्युदियाय। समीपमागत्य च दृष्ट्वा प्रधाव्य मुक्तवाज्डः तस्य राजसूनोः

पादयो रपतत्। ततोऽसौ पुलिन्दराट् पृष्टकुशलः कृतकण्ठग्रहं सामात्यं तं वाहनमारोप्य स्वं कटकमनयत्। प्राहिणोच्च तदागमनशंसिनं प्रतीहारं तस्मैपुलिन्दराजाय। सोऽपि मतङ्गराट दुर्गपिशाचः नाम्नो यथार्थतां विभ्वत् शिलाकूटकठोराङ्गः तमाल मलिनच्छविः पुलिन्दाश्रितपादः विन्ध्याचलदूव द्वितीयः प्रकृत्यैव त्रिशाखया स्वकुष्या भीषणमुखः विन्ध्यवासिन्या त्रिम्यूलेनेव चिह्नितः तरुणः चपिताशेषवयाअपि असुदर्शनः कृष्णोऽपि, अनन्यसेवी मृत्पादोपजीवी अपि, नवात्रइव मायूरपिच्छशकधनुर्धर : हिरण्याक्ष इव उद्दामवगचक्षतविग्रहः घटोत्कच दूव उद्रिक्तभीमरूपपरः कलिकाल इव धर्मनिर तोच्छृङ्गलप्रजः स्वदेशात् तं द्रुतमाजगाम। तस्य च आपूरितभूभागः अर्जु’ नभुजासङ्गात् मुक्तो नामंद इव प्रवाहः शिलाकपालः किमञ्जनाचलात् लुठितः किमुत अकालकल्पान्त मेषः पतित इति शङ्कां जनयन् अमितच्छाया मलिकृतदिङ्मुखः वनराशिरदृश्यत। स खलु दुर्गपिशाचः उपेत्य चितौ दूरात् न्यस्तशिराः तं मृगाङ्कदत्तं प्रणनाम।उवाच च अद्य देवी विन्ध्यवासिनी मे प्रसन्ना यत् माहशां ग्टहान् अद्य भवान् प्राप्तः यद्य धन्योऽस्मि कृतार्थोऽस्मि च इति वदन् मातङ्गराजः तस्य राजपुत्त्रस्य उपायनं मुक्ताकस्तरिकादि प्रददौ। सोऽपि राजपुत्त्रः प्रीत्या तं यथायथमभ्यनन्दत्। ततस्तत्रैव ते सर्व्वे सेनानिवेशं चक्रुः। सा महाटवी आलानवद्धैर्द्विरदे र्मन्दुरास्थितै र्वाजिभिः कृतस्यन्दैश्च पादातैः स्थगिता अभवत्।

ततस्तत्र काननोद्याने कृतस्नानमण्डनं विहिताहारं सुखासीनं सचिवान्वितं तं मृगाङ्कदां मायावटी म्हण्वति स दुर्गपिशाचः कथान्तरेषु प्रतिपेशलं प्रावब्रीत् देव! अयं मायावटुः पुलिन्दराट् बहुकाल, मिहागतः मया सार्क भवन्निदेशं प्रतीक्षते। हे राजपुत्र! तद्युष्माभि रियच्चिरं कुत्र स्थितं किञ्च कार्य्यं कृतं, तदस्मान् कथनेन पाप्यायितान् कर्त्तुमर्हसि। एतच्छ्रुत्वा राजपुत्त्रोऽभाषत मतङ्गपते! तदा मायावटोरस्य ग्टहात् विमल बुद्धि प्रचण्डशक्ती प्राप्तौ ततो मार्गक्रमेण एष विचित्रकयः विक्रमकेशरीच प्राप्तः अनन्तरं वन सरस्तीरे गणेशपादपं प्राप्य फलार्थं तमधिरुच्य एते तस्य शापात् फलतां प्राप्ताः ततः कथञ्चित् तं देवं गणनाथं तपसा समाराध्य मोक्षिता मया एते दृढमुष्टिव्याघ्रसेनमेववल स्थलवाहवश्वत्वारः। ततः सर्वैरेतैः प्राप्तः सचिवैः सह उज्जयिनी मगाम्। तस्यां गुप्तद्वारायां अम्माकं प्रवेश एव नास्ति, कुतः शशाङ्गवत्याः समागमः। सैन्यहीनस्य च मे दूतप्रेषणादिकञ्च न सम्भवति। तत् सर्व्वे रस्माभिः सम्भत्वा युष्माकमन्तिक मायातम् इदानों यूयं हि नः कार्य्यसिद्धौ प्रमाणमिति।

इत्यं मृगाङ्कदत्तेन खटत्तान्ते समुदीरिते तौ मायाबट-दुर्गपिशाचौ तमवोक्षतां देव! धैर्य्यमवलम्बस्व कियत् कार्य्यमिदं? अस्माभिः प्रथममेवासा प्राणास्वदर्थमुपकल्पिताः, तं कर्म्म सेनं नृपं वा अत्रानयामः प्रसह्यच हरामस्तां शशाङ्कवतींकन्यकाम्। इत्थं ताभ्यामुदीरिते मृगाङ्कदन्तः प्रीतिबद्धमानमभाषत किं न सम्भाव्यते

युष्मासु, इयमेव वो धीरसत्त्वता प्रतिपन्न सुहृद्वाक्य निर्वाहं बक्ति, यूयं विन्ध्याद्रेर्दान्धं व्याघ्रभ्यः शौर्य्यं वनकमलिनौभ्यश्च मित्ररागितामादाय विधात्रा निर्मिता इव। तदत्र विचार्य यथाकार्य्यं कुरुध्वमिति वादिनि तस्मिन् म्टगाङ्गदत्ते तद्दिनं तत्र विशश्राम।ततस्ते सर्वे तस्मिन् स्कन्धावारे तत्तत् कर्माधिकृत कल्पितेषु निवासेषु यथोचितं तां निशां विशश्रमुः।

अथ प्रातरुत्थाय म्टगाङ्कतः किरातराजं सुहृदं शक्तिरक्षित मानेतुं गुणाकरं सचिवं प्राहिणोत्। तेन च खल्पैरेव दिनगत्वा कथितवृत्तान्तः स किरातपतिः तेन गुणाकरेण सह महासैन्ययुतः समाययौ। दश पदातिलक्षाणि, वाजिनां हे लक्षे, महावोराधिरूढ़ानां मत्तदन्तिनामयुतं रथानाञ्च अष्टाशीतिसहस्राणि तं किरातराजं ध्वजच्छतं संच्छादित नभःस्थलमन्वयुः। म्मृगाङ्गदत्तः सानुगः तमागतं नृपं मुदा प्रत्युद्गम्य अभिपूज्य च तत् कटकं प्रावेशयत्। अत्रान्तरे च मातङ्गराजस्य तस्य मायावटोश्च मे मित्रबान्धवा दूतेर विगतवृत्तान्ता, ते च सर्व्वे समुपागमन्। इत्य’ लसन्नादसम्मिलद्वाहिनीशतः स वलसागरः मृगङ्ग दत्त मनः समाह्लादयन् ववृधे। स दुर्गपिशाचः समागतान् तान् नृपतीन् मुक्ताभिर्मृगमदैः वस्त्रैः मांसभारैः फलै रामवैश्च सममानयत्। शवरेश्वरो मायावटुः सर्वेभ्यस्तेभ्यः यथो चितं स्नानानुलेपनानि आहारान् पानानि शय्याच प्रादात्। म्टगाङ्गदत्तः सर्व्वेस्तैर्यथोचितस्थानेषु समुपविष्टेषु राजभिः समं एकत्र नभजे। इत्थं विश्रान्तेषु कृतभोजनेषु

सर्वेषु दन्तिहन्तासनस्थितः यथाहं राजलोकैः कृतसत्क्रियः सब्वान् तान् मातङ्गराजादीन् सुहृदो विजने प्राब्रवीत् कथमिदानीं कालहरणां क्रियते, एभिः सर्वैः शीघ्रमुज्जयिनीं प्रति गम्यतामिति।

तदनन्तरं तधिद्दिजः तं राजपुत्त्रमभाषत देव! अत्र यथानीति विदाम्प्रतं श्टणु कथयामि। विजिगीषुणा प्राक् कार्य्याकार्य्य विभागः बोद्धव्यः, असाध्यं यत् तदुपायेन साध्यं, उपायाश्च सामदान भेददण्डा इति स्मृताः, तेषां पूर्वः पूब्र्बोवरः, परः परोनिकृष्टः। तस्मात् देव ! प्रथमं ते सामप्रयोग एव युज्यते। निर्लोभ तस्मिन् कम्मंसेने राज्ञि दाने न सिद्धिः नापि भेदः प्रयोज्यः, न हि अस्य कुड्डा लुब्धा अवमानिताश्च सन्ति। दण्डश्च दुर्गदेशस्ये अतिमहाबले तस्मिन् अन्यैः नृपैर जितपूर्खे प्रयुक्तः संशयावहः। वलिनामपि युद्धेषु जयश्री रविश्वास्या, न च कन्यार्थिना तदुबान्धवक्षयं कर्त्तुं युज्यते। तत्तस्य राज्ञः सान्नैव दूतस्तावत् विसृज्यताम्। तदसिद्धौत अगत्योपनतो दण्डः प्रयोक्तव्यः।

इति तस्य श्रुतधेवर्क्षःसमाकर्ण्य सर्व्वे तयेति श्रद्दधुः प्रशशंसुश्च तस्य सर्व्वमन्त्र कमजताम्। ततो मृगाङ्कदत्तः तैः सबैः सुहृद्भिः सम्मन्त्र्य गुणान्वितं किरात राजानुचरं सुविग्रहं नाम द्विजोत्तमं दूतं लेखञ्च मन्दे गहारिणं तस्मै कर्म्मसेनाय नृपतये प्रेषयामास। स दूतः सत्वरं उज्जयिनौं गत्वा प्रतीहारनिवेदितः वल्लभाश्वद्विपाको कक्ष्यान्तरमनोरमं राजभवनं प्रविश्य सिंहासनगतं मन्त्रिभिः परिकृतं कम्प्रेसेनं नृपं ददर्श। प्रणम्य च आसनासीनः क्रमेण

पृष्टकुशल स्तेन राजाभिनन्दितच तस्मै लेखं समर्पयत्। आदाय च तं लेखं तन्मन्त्री प्रज्ञाकोशी नाम मुद्रामपनीय राजनि शृण्वति अवाचयत्।

स्वस्ति श्रीकरभग्रीवकोट्टम्लाटवीतटात् महाराजाधिराजस्य अयोध्यापुरीपतेः श्रीमतोऽमरदत्तस्य पुत्रः श्रीमान् महीमण्डलालङ्कारः मृगाङ्कदत्तः समाजतमहोपनतराजवृन्दः उज्जयिन्यां महाराज कर्मसेनं प्रति सादरं निजवंशवयोऽनुरूपं सन्दिशति कन्या तव कास्ति सा अवश्यमन्यस्मै देया, तत् सा मह्यं प्रदीयतां दैवतैः सा मे सुसदृशौ भार्येति दिष्टा एवमावयोः बन्धुभावः स्यात् नश्येच पूर्ववैरिता, नोचेदत्र वस्तुनि निजभजावेव प्रार्थयिष्ये इति।

इति लेखे वाचिते प्रज्ञाकोशेन मन्त्रिणा राजा कर्मसेनः सकोपः सारवान् निजगाद ते सदास्माकं विक्षाः अनात्मज्ञेन च तेन एतत्तथैव असमन्जसं सन्दिष्टं पश्यत पूर्वं आत्मनाम अभिलिखितं पश्चादवजया वयमभिलिखिताः, पर्य्यन्ते च दर्पामातेन बाडवौर्य्य मुदीरितम्। तदत्र स न प्रतिसन्दरेशयोग्यः का कथा कन्यायाः, गच्छ भद्र! भवत्वामी यदिच्छति तत्करोतु इति तेन राज्ञोक्तः स हिजः स विग्रहोदर्पद्रव तं नृपमभाषत राजन् ! तं राजपुत्त्रमदृष्ट्वा समन्युरास्फालयसि तत् सज्जीभव आगते तस्मिन् खपरान्तरं वेत्स्यसि इति तेन दूतेनोदिते सा सभा क्षोभमियाय। राजा गच्छ, अबध्योऽसि किं कुर्मा इति तं दूतं सकोपमवादीत्। अन्येच

राजपुरुषा दमनदष्टोष्ठपुटाः क्रोधेन करैः स्वान् करान् बदुनन्तः किं नाधुनैव त्वां न निहन्म इत्यब्रुवन्। अयं बटुकाचार्यः यातु एनं प्रति किं कुष्यते यद्दयं करिष्यामः तदस्य स्वामी द्रक्ष्यति। अपरे तत्रत्याः कोधारुणैर्मखैभङ्ग कुर्व्वन्तः निःशब्दा एव तस्थुः।

इत्थं क्षुब्धायां संसदि स दूत स्ततो निर्गत्य सत्वरं म्मृगाङ्गदत्तपार्श्व प्रायात्। अशंसञ्च तत् कर्मसेनोक्त सर्व्वं तस्मै राजपुत्त्राय सानुगाय। सोऽपि सद्य एव सैन्यानां यात्रामादिदेश।ततः प्रभोरादेश प्रलयपवनापातविधुतो वलाभ्मोधिर्नयतुरगमातङ्ग मकरः धावन् तूर्यनादैविरित भुवनः उज्जयिनीं प्रति उदचलत्।

———————————————————

अथ त्रयधिकशततमस्तरङ्गः।

ततः स म्मृगाङ्कदत्तः सुहृङ्गिः सह सन्नद्धसैनिकः विन्ध्यमुल्लङ्घ्य सत्वरमुज्जयिन्याः सीमान्त मासदत्। तद्विदित्वा राजा कर्मसेनोऽपि सबलवाहनः युद्धाय सन्नहो नगर्खा निरगात्। निकटीभूय च अन्योन्यदर्शिन्योस्तयो रुभयोः सेनयोर्महान् संग्रामः समवर्त्तत। स सम्प्रहारः नृसिंहनाद वित्रस्तभग्नग्रीवासुराकुलः हिरण्यकशिपोर्नि वास इवाभवत्। शस्येष शलभा इव, सन्तता विनिकृन्तन्तः घनागगन-गामिनः शराः वलेषु समन्ततः पेतुः। खतेराहतेम्यः इभकुम्भेभ्यः समुत्पतन् मुक्ताफलनिकरः संरम्भत्रुटितो हारदूव समरश्रियः शुशुभे। तत् रणक्षेत्रं तीक्ष्णाग्रिदशनं ग्रस्ताव नरकुञ्जरं कृतान्तस्य वदनभित्र

विरजे।बाहशालिनां भल्ललूनानि शिरांसि दत्तोर्द्धकम्पानि दिवि दिव्याङ्गनामुखानि चुम्बितुमिव उत्पतुः। सुबहो कबन्धश्च सुबह शो रणाजिरे तस्मिन् ननृतुः। इत्थं पञ्च दिवसान् वहच्छोणितनिम्नगः करङ्गकूटसङ्कुलः शूरान्तकरो रणः समवर्त्तत। पञ्चमे दिवसे सायं स श्रुतधिविप्रः स्वमन्त्रिभिः सुहृद्भिश्व समेतं राजपुत्रं मृगाङ्कदत्त अभ्येत्य निजगाद देव। युष्मास समरव्यग्रेषु मया इतो भिक्षुकरूपिणा गला निराकुलद्दाग मुज्जयिनीं प्रविश्य देवविद्याप्रभावादल चितेन यदन्विष्टं तत् कथयामि शृणोत देवः। यदेव राजा कर्मसेनो युद्धाय निर्गतः, तदैव मातुरनुज्ञया सा गमाङ्गवती गृहात् निर्गत्य तत्पूरीवर्चि गोर्खायतनमाश्रिता। ਦੇਸ਼ 1 समरे पितुः श्रयोर्थिनी तां देवीमाराधयितुमागता सा रहसि आप्तामेकां सखीमब्रवीत् सखि। मत्कृते तातस्य अयं संग्रामः समुपस्थितः आक्रान्तश्चेष मे पिता तस्मै राजसुताय मां समर्पयेत् पर स राजपुत्रः मे अनुरूपी नवेति न जाने। काममह मृत्युमिच्छेयं न तु विरूपं पतिम्। मन्येऽहं रूपातिशयसम्पन्न दरिद्राऽपि पतिवरं न तु विरूपः पृथि वीचक्रवर्ती अपि। तदसों को गिति त्वं सैन्यमध्यात् विलोक्य आगच्छ। प्रज्ञानेन च नाम्ना च त्वं चतुरिकासि। इत्थं तयोक्ता सा चतुरिका सखी युक्त्या अस्माकं कटकमेत्य त्वां विलोक्य प्रत्यागम्य च तां राजपुत्रीमुवाचमखि। किमन्यत्, मन्ये वासुकेरपि तादृशी जिह्वा नास्ति या तस्य राजसुतस्य तत् रूपं गदितुं शक्नोति,

अहं पुनरेतत् ब्रवीमि यथा त्वया समा नान्यास्ति नारी, तथा ततसमोऽपि पुरुषो नान्योऽस्ति भूतले। अथवा अत्यल्प मयोक्तं धिक्, जगत्त्रये तादृशः पुमान् न सिंहो नापि गन्धर्वः नचापि विद्याधरः कश्चित्। इत्थं सख्यावचसा तस्याः शशाङ्कवत्यास्त्वयि मानस न्यस्त कामेन च समं पञ्चभिः शरैः कोलितञ्च।ततः प्रभृति सा तव श्रेयस्कामा तपसा त्वद्विरहेण च कृशा भवन्ती स्थिता। तदद्य गुप्त निशि गत्वा तस्मात् गौर्य्याश्रमात् विजनात् ता राजपुत्रीं आनयत एते च त्वदर्थे त्यक्तजीविता नृपा अस्य मायावटीगृहान् यान्तु पश्चात् प्रयोजने सज्जातं पुनरेते समेष्यन्ति, साम्प्रत युद्धमिद निवर्त्ततां माभूत् सैन्यसंक्षयः पुनः। युष्माकं राजस्तस्य च कर्मसेनस्य देहे कुशलमस्तु। यच्च प्राणपणेन युद्धं एषाहि अगतिकगतिः। एवमुक्तः एवमुक्तः श्रुतविना स मृगाङ्गदत्तः निशि अश्वानारुह्य सचिवैः सह सुप्तस्त्रीबालशेषां तामुज्जयिनीं मत्तः स्वल्पैः रक्षिभिरसं वृतद्वारां विवेश।ततः श्रुतधिना ज्ञापितेरभिज्ञानैः सुलक्षित ख्यातं पुष्पकरण्डाख्यमहोद्यानान्तरवस्थितं तत्कालालङ्कतप्राचीमुखेन शशिना करैःसमुद्भासितं गोय्ययतन प्रययौ।

तावच्च परिचयादिना श्रान्तसुप्ते सखोजने सा शशा वती एकाकिनौ तत्र वीतनिद्रा व्यचिन्तयत् मदर्थमिमे उभयोः सैन्ययोराजानः राजपुत्राश्च दिने दिने वीरा हन्यन्ते। स च राजसुतः अद्य स्वप्ने देव्या श्रम्बिकया मे पूर्वभर्त्ता इति समादिष्टः, हृदयञ्च मम सिद्धलक्षण कामेन

आच्छिद्य नीत्वा तस्मैसमर्पितम्। तातस्तु मन्दपुण्यः तस्मे मां पूर्ववैरात् दर्पाच्च नैव दास्यति, अद्य लेखादिदं मया श्रुतं तदत्र वासे विधौ मे स्वप्नलब्धोऽपि देवादेशो विफल एव, नाव प्रियप्राप्तौ कामपि गतिं पश्यामि। तद्यावत् तस्य राजसुतस्य तातस्य वा रणे किमपि अहितं न शृणोमि तावत् हताशम् आत्मानं किं न त्यजामि इत्यालोच्य गौयाः पुरो गत्वा सुदुःखिता अशोकपादपे स्वोत्तरौयेण पाशं व्यरचयत्।

तावच्च मृगाङ्गदत्तोऽपि सवयस्यः तदुद्यानं प्रविश्य तस्या गौया मन्दिराग्रतः तरुथाग्यायामश्व नियम्य आरात तिष्ठन् सचिवेन विमलबुद्धिना तां राजपुत्रीं विलोक्य स्वैर निजगाद देव ! पश्यात्र काप्येषा वराङ्गी पाशेनात्मानं हन्तुमुद्यता तत् का पुनरियं भवेत्? तदाकर्ण्य तां विलोक्यैव राजसूनुरुवाच अहो। केयं रतिः किंखित्? वा रूपेण साकाग निर्वृतिः? अहोखित् इन्दोः कान्तिरियं विग्रहवती ? कि वा कापि देवाङ्गना? नैवेयं मानुषी। कथमस्याः पाशोद्यमः?तत्तावत् क्षणमिह पादपान्तरिता स्तिष्ठामः, यावत् कथमपि यदि केयमिति व्यक्तिः स्यात् इत्युक्वा सवयस्यः स राजसुतः प्रच्छनदेहो यावत्तिष्ठति। तावत् सा शशाङ्कवती समुद्दिग्ना देवीं व्यजिज्ञपत् देवि! यदि अस्मिन् जन्मनि स राजपुत्रो मृगाङ्गदत्तः मे पतिर्न निष्पन्नः, तदा जन्मान्तरेऽपि स एव मे भर्त्ता भूयात् हे आपनार्त्ति हरे! प्रसीद इति विज्ञाप्य सा राजपुत्री तां देवीं प्रणम्य च वाष्पपूर्णनयना कण्ठे पाशमयोजयत्।

क्षणे च तस्मिन् प्रबुध्यैव तददर्शनविह्वला स्तत्मख्यः तां चिन्वत्यः सहसा तदन्तिकमुपाययुः। हा हा सखि। किमिदमारब्धंसाहसंत्वया इत्युक्तैव तस्याः कण्ठात् पाशममोचयन्। अथ भीतविषणा सा बाला यावत्तत्रावतिष्ठते, तावत् गौर्य्या गर्भगृहान्तरात् भारती उदभूत पुत्रि सा विषादं कार्षीः, नेव तद्वचो मृषा भवितुमर्हति यत् स्वप्ने तव समादिष्टम्। सोऽयं मृगाङ्गदत्तस्तव पूर्व भर्त्ता तवान्तिके प्राप्त एव, व्रज, अमुना मह अखिलां भुवं भुङ्क्ष्व श्रुत्वेतां वाणों सा शशाङ्गवती यावत् ससाध्वसा इतस्ततो विलोकयति, तावत् मृगाङ्गदत्तस्य मन्त्री विक्रमकेशरी उपागम्य अग्रपाणिना दर्शयन् तां वक्ति स्म देवि ! सत्यं भवान्या तं समादिष्ट, अयं हि स राजपुत्रः तव प्रेमावडचेताः पति रिहागतः। तदाकर्ण्य सा तिव्यक् न्यस्तदृष्टिस्त कान्तं सहचरमध्यगतं ग्रहैः परिवत चन्द्रमममिवावतीगं नभस्तलात्, अन्येषां रूपीपमान हगोरमृतस्यन्दनमद्राक्षीत्। ततः सा पतदनङ्गशराचितैरिव कष्ट कि तेरङ्गर्यावत् स्तम्भनिश्रला व्यतिष्ठत, तावत् स मृगाङ्गदत्तः समुपेत्य तस्याः क्रियमत्याजयत् अवदच्च प्रेममधुस्रुता गिरा, सुन्दरि! अहं त्वया गुणैर्बडा निजं देशं राज्य’ बन्धूंश्च त्याजयित्वा दासीकृत्य इहानीतः, हे तन्वङ्गि ! अद्य मया अरण्य वामस्य वसुधाशयन म्य फलाहारस्य तीव्रार्कतापस सेवनस्य तपः क्लेशस्य च ईप्सितं फलमवाप्त’ यदेषा नेत्रपीयूषदृष्टि स्तव तनुर्हष्टा, हरिणाक्षि ! यदि मयि स्नेहामुरोधस्ते स्यात् तदास्मत्-

पुरी सीमन्तिनीनां नयनोत्सवं विधेहि। संग्रामः शाम्यतु, उभयोश्च सैन्ययोः श्रेयो भवतु। कृतार्थं जायताञ्च मम जन्म सह गुरूणामाशिषा। एवमुक्ता मृगाङ्गदत्तेन सा शशाङ्गवती तदा वसुधाविन्यस्तनयना शनैरवदत् आय्र्यपुत्र ! अयं तावत् तव गुणक्रीतः स्वाधीन एव जनः, यदत्र कुशलमवैषि, तद्विधेहि इति तस्या वाक्सुधया निर्वापितः स कृती मृगाङ्गदत्तः तां देवीं स्तुत्वा प्रणम्य च तां राजपुत्रीं तुरङ्गममारोप्य दशभिरश्वारूढ़ेंः पृष्ठानुधाविभिर्वयस्यैः शस्त्रपाणिभिर्वीरैः सार्द्धं तस्मात् गौर्यालयात् तस्यामेव रात्रौ निर्जगाम। ते च एकादश दृष्ट्वापि कुडादुरासदा कुद्रा इव नगररक्षिभिः रोडुं न शेकिरे। ततश्च तस्या उज्जयिन्या विनिर्गत्य तस्य मयावटीगृहं जग्मुः। इत्थं तेषु प्रयातेषु क्रमात् राजसुता हृतेति कर्णपरम्परया श्रुत्वा राजमहिषी कर्मसेनाय महीभृते तदाख्यातुं कटकं प्रति नगराध्यक्षं प्राहिणोत्।अत्रान्तरे तस्यामेव रात्रौ चाराध्यक्षः कर्मसेनाय राज्ञे तद् व्यजिज्ञपत्। देव ! अद्य प्रदोष एवं गुप्त मृगाङ्गदत्तः सामात्यः खसैन्यात् निर्गत्य उज्जयिनीं प्रति तां शशाङ्गवतीं गौय्यायतनवर्त्तिनों ह गत इति मया सम्यक् ज्ञातं तदत्र देवः प्रमाणमिति। तदाकर्ण्य स राजा रहसि सेनापतिमाहय तदवर्णयत्। स च वराश्वमारुह्य पञ्चभिः सैनिकैः सह प्रच्छन्नंद्रुतमुज्जयिनीं आजगाम। पथि आगच्छंश्च म मिलितात् नगराध्यक्ष राजसुतां तैर्वीरैर्हृतामशृणोत्। ततश्च स नगराध्यक्षः समागत्य राजानं कर्मसेनं तत्तान्तमकक्ष-

यत्। स च राजा तद्विदित्वा तदशक्यंविचिन्त्य च अवस्कन्दनिवृन्तस्तूष्णीं तां निशामनयत्।

मृगाङ्गदत्त सैनिकेषु च मायावटुप्रमुखा नृपाः श्रुतधेगिरा प्रबुद्धा एव तां रात्रिं निन्युः। प्रातश्चान्विष्टवृत्तान्तः कर्मसेनो नृपः मृगाङ्गदत्त कटकं प्रति राजदूतं विसृष्टवान्। स च दूतः समागत्य कटकस्थितान् मायावटुप्रभृतीन् मृपान् व्यजिज्ञपत् अहं राजदूतः, राजा कर्मसेनः प्राह, मृगाङ्गदत्तः ञ्छलेन मम कन्यां शशाङ्कवतींहृतवान्, तदस्तु कोऽपरोऽस्यास्तादृशः पतिरिति। तदाकर्ण्य ते श्रुत धिसहिता राजानस्तथा श्रद्दधुरूचुश्च तं दूतं प्रभुर्वः साम्प्रतं खपुरीं प्रयातु, यावद्दयं तं राजसुतं अनयामः,। तदाकर्ण्य दूतेन गत्वा तद्दृत्तान्ते निवेदिते स कर्मसेनः सबल स्तथेति उज्जयिनीमगात्। तदवलोक्य ते मायावटुपुरःसराः राजानः श्रुतधिं पुरस्कृत्य मृगाङ्गदत्त प्रति प्रतस्थिरे। स श्च मृगाङ्गदत्तः सामात्यः तां शशाङ्गवतींगृहीत्वा मायावटोस्तत्काञ्चनपुरं प्राप। तत्र गत्वा तदन्तः पूरिकाभिः पोरेश्व यथार्ह कृतसत्क्रियः वयस्यैः सह तथा शशङ्गवत्या घ सिकाः विशश्राम।

अन्ये च तधिसहितास्ते नृपाः किरातपति शवराधिपति मायावटु दुर्गपिशाचप्रभृतयः समागत्य शशाङ्खबतीसमेतं तं मृगाङ्गदत्तं दृष्ट्वा अभ्यनन्दन् अकुर्वंख महोत्सवम्। ततस्ते कृतयथार्हमानाय तस्मै तत्सर्वं कर्मसेनीय सन्देशं स्वग्टहे च तस्य प्रवेशमवर्णयत्।अथ मृगाङ्कदत्तः चलनगरस त्रिभं तत् कटकं निवेश्य सर्वैः सह

मन्त्राय समुपाविशत्। विवाहाय मया उज्जयिन्यां पुनगन्तव्यं न वा इति तान् नृपतीन् सचिवांश्च पप्रच्छ। ते च नृपाः सचिवांश्च गृहेषु कृतवैरस्य ते गमने कुतः कुशलं ? तत्र किमपि कार्यं नास्त्येव, तदात्मजा शशाङ्कवती प्राप्तैव। इत्यैकमत्येन सर्वे ते प्राब्रुवन्। तदा मृगाङ्गदत्तस्तं श्रुतधिं द्विजमप्राक्षीत् ब्रह्मन् ! उदासीन इव किं तृष्णों स्थितोऽसि? किमेभिर्यदुक्तं तत्त्वापि अभिमतं? न वा इति। तदाकर्ण्य तधिरब्रवीत् देव ! यदि शृणोषि तद्ददामि शृणोतु देवः। कर्मसेनस्य गृहे गन्तव्यमिति मे मतिः, अशक्तेन तेन तवैतत् सन्दिष्ट हि नो चेत् कथं सुतापहारेऽपि स बली युद्धं त्यक्त्वा गृहं व्रजेत् सवलस्य च गृहं प्राप्तस्य ते स किं कुर्यात्। गतस्य च तव तन। समं प्रौतिरेव भवेत् स च दुहितुः स्नेहेन ते अग्रणीः सहाय एव भविता। अविधिना विवाहं स नेच्छति इत्यतः सन्दिष्ट तेन इति मया मन्यते, तदत्र त्वया गन्तु युक्तमिति श्रुतविनाभहिते सर्वे ते तद्वचः साधु साधु इति ब्रुवन्तः श्रद्दधुः। ततो मृगाङ्गदत्तः प्राहस्म सर्वमस्तु एतत् परं तातमम्बां विना मम विवाहोऽयं न रोचते, तत्तयो स्वातयोराह्नानाय कोऽपि गच्छतु, साम्प्रतं तस्य राज्ञः कर्मसेनस्याभिप्रायं विदित्वा यथायथं करिष्याम इति वदन् स मृगाङ्कदत्तः सम्मन्त्रा पित्रोः पार्श्व स्वमन्त्रिणं भीमपराक्रमं प्राहिणोत्। तावच्च तस्या मयोध्यायां पुरि तत्पिता नृपतिरमरदत्तः कालेन लोकतः मृगाङ्गदत्तस्य देशात् निर्गमनं कथं कृतमिति तत्त्वतो विदित्वा विनीत-

मतिना मन्त्रिणा राजपुत्रस्य तादृक पैशुन माचरितमिति समुद्घोष्य तं कुमन्त्रिणं सान्वयं निहत्य च पुत्रनिर्वासनोदग्रदुःखेन विषमामवस्थामगात्। निर्गत्य च पुराद वहिः स राजा देव्या सह नन्दिग्रामगतस्तत्र हरेरायतने तपचरन् तस्थौ। इत्थंस्थिते तस्मिन् स भीमपराक्रमश्चारावेदितागमः वाताश्ववेगात् द्रुतमयोध्यां प्राप। स तां पुरीं गतराजसुतामुद्विग्नां रासप्रवासवैधुकष्ट पुनविग गता मपश्यत्। तत्र राजपुत्रस्य वार्त्ता पृच्छद्भिः पौरर्वृतः तन्मुखात् राजवृत्तान्तं श्रुत्वा नन्दिग्राममगमत्। अद्राक्षीच्च तत्र अभीष्टसुतो दन्तुश्रवण समुत्सुकं महिषीयुतं तपचाम तनुं तं नृपम्। उपेत्य च पादपतितः कृतकण्ठग्रहं पृष्टोदन्त साश्रु तं स भीमपराक्रमः प्रावोचत् देव ! मृगाङ्गदत्तेन ते सूनुना स्ववीर्य्यतः कर्मसेनस्य नृपस्य सुता शशाङ्कवती प्राप्ता, तद्विवाहश्च तस्य पितृभक्तस्य विना तातेन देव्या चाम्बया सर्वथा शोभनं न प्रतिभासते। ततस्तेनाहं विसृष्टो विज्ञापनाय धरणिन्यस्तशिरसा तव सूनुना भवत् पादमूलं, युष्मांश्च प्रतीक्षमाणः स काञ्चन पुरे शवराधिपते मयावटोर्नृपस्य गृहे स्थितः। इदानीं वृत्तान्तञ्च शृग्णु इत्युक्का देशनिर्गमादारभ्य कर्मसेनीययुद्धपर्यन्तं सर्वं यथावदवर्णयत्। तदाकर्ण्य पुत्रवृत्तान स राजा जातविस्मयः तदैव हर्षात् यात्रा मादिशत्। ततः स राजा पुत्रसमुत्सुकः देव्या सह गजारूढ़ : राजभिः रन्यः सचिवैश्व सार्द्धं चतुरङ्गवलपरितः प्रायात्। प्रापच्च अल्पैरेव दिवसैः शवराधिपदेशस्थं तस्य तत् कटकम्।

तद्विदित्वा च चिरोत्सुकः स राजसुती मृगाङ्गदत्तः अग्रेसरे राजभिः सचिवैश्च सह स्ववासात् निरगात्। दृष्ट्वैव दूरात् स तुरगात् गजारूढस्य पितुः पादयोरवतोर्य्य शरीरेण भुजान्तरं मनोरथेन हृदयं वाष्पैश्च दृशी अपूरयत्। मातापि सुचिरात् पुत्रंपश्यन्ती मुहराश्लिष्य भूयो बियोगभीतव न मोक्तुमशकत्। ते चापि मृगाङ्गदत्तसुहृदो नृपास्तदाख्यातास्तदा सदेवौकं तं प्रभुममरदत्त प्राणमन्। ततः स राजा मा देवी तान् पुत्रसुहृदो नृपतीन् पुत्त्रनिर्विशेषेख स्नेहन कृताशीर्वादी भृशं ननन्दतुः। अथ मायावटीः राजधानीं प्रविश्य तत्र तां पादावनतां स्नुषां शशाङ्कवतीं विलोक्य च गृहीतप्राभृतः तया देव्या खुषया च मह निर्गत्य स्वे कटके वसतिं व्यधात्। तत्र च पुत्रेण सर्वेः राजिभिश्च सह भुक्त्वा गीतवादित्रनृत्यैः सुखैः सर्व दिनमनयत्। अमन्यच्च तेन कृतिना भाविना चक्रवर्त्तिना पुत्रेण मृगाङ्गदत्तेन आत्मानं कृतिनम्।

एतस्मिन्नन्तरे सुमेधसा कमसेनेन राज्ञा सम्मन्त्रा मृगाङ्गदत्तस्यान्तिकं दूतो व्यस्सृज्यत। सन्दिष्टञ्च तम्भ खेन यथा भवान् उज्जयिनीं तावत् इह नैवागमिष्यति, तदत्रैव अहं सुषेणं नाम सुतं प्रेषयामि स एव तुभ्यं निजां भगिनों शशाङ्गवतीं विधिवत् प्रदास्यति, हे सौम्य ! तस्मादविधिना सा नैव त्वया विवाह्या, यदि अस्मत् स्नेहोऽनुरुध्यते इति इत्थ दूतेन सन्देशे आवेदिते लेखे च वाचिते स राजा अमरदत्त एव तस्य राज्ञः कमैसेनस्य दूताय प्रत्यभाषत भद्र। युम्मत्प्रभवे यथा रोचते तत्कर्त्तुमनु-

रुध्यस्व यदा तत्कन्या गाङ्गवती मम स्नुषा जाता तदा तं प्रति अस्माकं बन्धुने हः सुतरां स वृत्त इति प्रतिसन्देयमुक्का पुत्र नृपतींश्च मायावटुपभृतीन् प्रब्रवीत् साम्प्रतं वयमयोध्यां यामः, तत्रैव विवाहःशोभते, तत्रैव सुत्रेणस्य यथावत् सत्कारो भविष्यति। राजा मायावटुरिह सुषेण प्रतौक्षतां ततस्तेनागतेन सह पषादयोध्यां व्रजिष्यति, वयं पुनर्विवाह सम्भार हेतोरयतः गच्छामः। इति नृपवचः सर्वे ते अन्वमोदन्त।

अथान्येद्युः स महीपतिः देव्या समं सेन्यैश्चसमन्वितः मृगाङ्कदत्तश्च तैस्तैः राजभिः सचिवैश्च युतः शशाङ्गवत्या सह मायावढं सुषेण गमनार्थं तत्र रक्षित्वा अयोध्याभिमुखं प्रचचाल। इत्थंक्रमेण गच्छन्तौ तौ पितापुत्रौ पथि शक्तिरक्षितस्य किरातराजस्य गृहमवापतुः। तत्र तेन सस्त्रीकेण महारत्न हेमवसनादिभिः कृतोदारपूजौ सपरिग्रहौ दिनमेक विश्रय कृताहारौ सानुगौ बलमग्रतः प्रस्थाप्य शनेः स्वनगरी मयोध्यामगच्छताम्। तत्रागत्य स राजा पुत्रेण सराजकेन ससचिवेन ससैन्येन सह हर्म्यवातायनारूढ़ पौराङ्गनामुखैः कान्तिपल्लवितैः फुलविलोलकमलामिव सम्पतद्भिः राजहंसतां पताकाभिस्तरङ्गितां प्रवातसरसीमिव पुरों प्रविवेश। प्रविशंव द्विजैः क्रिय माणाशीः वन्दिभिः स्तूयमानश्चारणेश्व गौर्यमानः समागतैः पौरैश्वाभिनन्द्यमानः राजभवनमगात्। तत्र कर्म्मसेनस्य तनयां शशाङ्गवतीं विलोक्य विस्मितो जनः कथयति स्म यदि महोदधिर्हिमवांश्व इमां पश्येत् तदा लक्ष्मी गौरी-

पितृत्वेन न कदाचित् स्पर्द्धते। क्रमेण राजभवनं महोत्सवपूर्णतया सर्वेषामानन्दकाननमभूत्। इत्थं तं दिवसं महोत्सवेन नीत्वा राजा परेद्यवि गणकैः सूनोः शुभोदाहलग्ने निर्णीते विवाहसम्भारानाहर्तुं भृत्यानादिदेश। क्रमेण सा पुरी नानादिग्भ्यः समाहृतैः रत्नसञ्चयैस्तथा अपूरि, यथा सा कुवेरनगरीमधश्चकार।

अथ कश्चित् भृत्यः मायावटुसकाशादेत्य प्रहृष्टः द्वास्थेन प्रवेशितः तं नृपतिं सभासीनं व्यजिज्ञपत् देव! त्रागतोऽसौ राजसुतः सुषेणः, नृपतिश्च नः मायावटुरयो ध्यायाः सीमान्ते। श्रुत्वैव राजा मृगाङ्गदत्तश्व सुहृतप्रीत्या ससैन्य सामन्तः तौ प्रत्युद्ययौ। दृष्ट्वैव दूरात् वाहादवतीर्य्यं तौ राजसुतौ मिथः कृतकण्ठग्रही पृष्टकुशलौ मिलतः स्म विविशतुश्च प्रेम्णा एकरथारूढ़ौ पौरयोषितां नयनोत्सव वितरन्तींतां नगरीम्। ततश्च सुषेणः राजानं दृष्ट्वा अभिवाद्य च तेन सभृशं सम्मानितः शशाङ्कवत्याः स्वसुर्वासगृह मयासीत् तत्र तथा समुत्थाय बाष्पायमानया कृताश्लेषः समुपविश्य सव्रीड़ां तामवादीत् तातस्त्वामाह पुत्रि! त्वया नायुक्त किञ्चिदपि कृतम्, अद्य मया स्वप्ने विज्ञातं यत् भगवत्या गौथ्या तव मृगाङ्गदत्तः पतिः समादिष्टः, स्त्रीणाञ्च भर्तृमार्गानुसरणं परमं व्रतमिति। एवमुक्ता सा बाला अधोमुखी स्वं हृदयं सिङ्घ ते समीहितमिति पश्यन्तीव त्रपां जहौ। अथ सुषेणस्तां राजाग्रतो नीत्वा तस्मै शशाङ्गवत्यै तस्याः द्विसहस्रमभारौ रत्नाभरणभारमेक पञ्च सुभ्रतान् करभान् हिरण्मयं

भाण्डञ्चैकं स्वधनं प्रादात्। उवाच च यदेतत् दत्तमस्यै, एतदस्याः स्वधनं, पितृप्रेषितानि तु विवाहवेद्याम् अस्यै दास्यामीति। ततः सर्वे ते मायावटुप्रभृतयो गजानः ससौनिकास्तत्र मृगाङ्गदत्तेन राजपुत्रेण सहिताः सुनिवृताः सोत्सवं दिनमनयन्।

अथ प्राप्त लग्नदिवसे राजनि मुदिते स्वयं विवाहसम्भारव्यग्रे मृगाङ्गदत्त स्नानादिकं माङ्गलिकमाचारमकरोत्। ताञ्च शशाङ्कवतींकान्त्यैव कृतमण्डनां नार्य्यः केवलमाचार इति प्रसाधयामासुः। ततस्तौ बधूवगै कौतुकागारात् हुतागनवतीं वेदीमध्यासाताम्।तत्र म राजसुतः सुषेणप्रदत्तंतस्याः शशाङ्गवत्याः पाणि धृताबशोभारुचिरं लक्ष्मणा इव विष्णुः समग्रहीत्। अशोभत च किमपि अभिप्रदक्षिणीकरणे तापात् धूमाच्च कलुषितं अकोपेऽपि तत् शशाङ्गवतीमुखम्। वह्नो विकीर्णाय लाजाज्ञ्जयः प्रयत्न साफल्यदृष्टस्य मनभुवो हासा इव व्यराजन्त। तस्मिं लाजविमर्गे प्रथमे राजसुतः सुत्रेणः अखानां पञ्च महस्रागि, वारणानां शतं हे स्वर्णभारशते विशतिञ्च सद्रत्नवसनमुक्ताभरण भारैः समन्विताः करणुका, दासीनां विंशतिञ्च तस्मै भगिन्यै योतकानि प्रादात्। ततोऽन्येषु लाजमोक्षेषु क्रमात द्विगुणं द्विगुणं पूर्वोक्तधनसञ्चयं स सोदरः प्रददौ। अथ उल्लसत्सु उत्सवतुय्यनिखनेषु निष्पन्न विवाहमङ्गलः स राजसुतः मृगाङ्कदत्तः तया नवोदया शशाङ्गवत्या समं निजं मन्दिरं विवेश। ततोऽस्य पिता नृपतिः यथार्हदत्ते हस्त्यश्व रत्ना-

भरणान्नपानैः आराजचक्रं शुकशारिकान्तं सर्वाः खाः प्रकृतोःसमन्वरज्जयत् तदास्य राजस्तथा दानप्रकर्षः समजनि यथा सर्वजनस्तंमहीकल्पतरु ममन्यत। ततः स राजा मृगाङ्कदत्तश्च राजभिः सुषेणेन च साकं पानगोष्ठयां पीत्वा भुक्त्वा च दिवममनैषीत्। अथ सेवितनृत्यवर्च्चरीकेषु मुभुक्तपीतेषु जनेषु गृहं गतेषु परिपीतधरारसी गताध्वारवि रस्ताचलकन्दरं विवेश। तच नवरागोज्ज्वलयामन्ध्यया समेत कापि प्रयातमवलोक्य विगलत्खगमेखलाकला ईर्षया कुपितेव वासरश्रीग्नदधाव।क्रमे च विलोलतारकेण मुखेन प्रवन्नीभूतमनोभवा विलसत्तिमिरा मितांशुका रजन्यभिसारिका ददृशे। ततश्च नवसिन्दूरसमुज्ज्वलः उदयाचलवारणाङ्गशः कुप्यदायताचीकुटिलापाङ्गसरोरुहः शशाङ्कः समुदियाय। रतिवल्लीनवपल्लवेन तेन शशिना कृत के लिकर्णपूर हसदावनं तमसोऽपगमे धृतप्रमादा ऐन्द्री हरित् बभार। तावच्च सोऽपि मृगाङ्गदत्तः कृतसान्ध्यविधिः तया शमाङ्गवत्या सह महाहै गय्य रजनीवामग्टहं तस्याः कान्तायाः प्रविलुप्ततमसा मुखचन्द्रममा अवभासितचित्रभित्तिना अन्तः पुनरुक्तीकृतमणिप्रदीपं प्रविवेश। तत्र च शयनीयगतः स राजसुतः परिव्रत्य स्थिताया स्तस्याः प्रियायाः परिरम्भणेन चुम्बनेन अधरखण्डनेन च लज्जां जहार।अनुबभूव च चिरकाङ्क्षितं तत्मङ्गमरसम्। अथ तयोः परिभोगसोमयैव चपिता त्रियामा अनीयत। गता निशा, देव! सम्प्रति मुच्यतां विलायशय्या, अमोहि सरलक्तमच्छिद-

सूर्यालककम्पदायिनो निशान्तवायवः वान्ति।सहसा चन्द्रमनुयान्त्या निशायाः हारच्युतानि मौक्तिकानीव दूर्वावनाग्रेषु पिण्डितानि शिशिरजलानि स्फुरति। कुमार ! इन्द्रोःप्रभां लब्ध्वा विकसितेषु कैरवाणां कोशेषु ये निषीतमधवः सुचिरं सुखिताः स्थिताः, साम्प्रतं तेषु सङ्कोचमुपागतेषु विगलच्छ्रीकेषु कैरवेषु ते भृङ्गाः मलिनाःअन्यतो यान्ति कस्य स्थिरा हि समृद्धिः? इत्येवं मृदुमधुरैर्वन्दिवचोभिः रुषसि शशाङ्गवती विमुक्तकण्ठः अपगतसुरतान्तखेदनिद्रः स मृगाङ्गदत्तः सपदि शयनं विजहौ। उत्थाय च स प्रातःकृत्यं समाप्य पिता नियोजित कृत्य मशेषं पर्यवेक्ष्य पुनस्तथैव वनितासखः उत्सवेन तानि बहूनि दिनानि निनाय।

अथ राजामरदत्तः तस्य सुषेणस्य कृताभिषेकस्य शिरसि पट्टे वबन्ध। ददौ च कृतादरं तदुचितमेकं विषयं हस्त्यश्ख हिरण्यभाग्वस्त्राणि शतसंख्याश्च वराङ्गनाः। ततः स नृपतिः शवरराजं मायावढं किरातशक्तिरनितं सबान्धवं सदारं मातङ्गचमूपतिं दुर्गपिशाचं पुत्रस्य मृगावदत्तस्य सचिवंश्रुतधिञ्च सन्मान्य एकैकैर्विषयैर्गोभिर्वाजिभिर्हेमवस्त्र सम्भारैश्च प्रदत्तैः समपूजयत्।ततः तान् किरातराजादीन् सुषेणयुतान् स्वदेशेषु विस्सृज्य सुतशौर्यनिर्जित राज्यं सुखेन शशास। मृगाङ्गदत्तश्च वैरिणोविजित्य तया शशाङ्गवत्या मनोरमप्रियया सह तैश्च निजैः सचिवेर्भीमपराक्रमादिभिः श्रुतधिना च समेत सुखेनावतस्थे।

अथ गतेषु कालेषु तस्य राज्ञः अमरदत्तस्याङ्गभूता जरा भुक्ताः श्रियः, परिणत वयः, तदेष न गार्हस्थ्यकाल इति वक्तमिव श्रवणमूलमुपाजगाम। ततः सम्भोगेषु विरक्त मानसो महीपति. स्वान् मन्त्रिणः प्राब्रवीत् मन्त्रिणः! निशम्यतां सम्प्रति यम्मम मनसि विधिसितमस्ति तहो वर्णयामि। गतमस्माकं वयः, साम्प्रतं कृतान्तदूतेन पलितेन कचग्रहः कृतः, जरागमे हि मादृशां जीर्णरस कुभीगतृष्णाव्यसनं विडम्बनमेव। विवृद्धिभाजा वयसा समं यत् लोभकामग्रहो विवर्द्धते तत् निःसंशयं सत्पुरुषैविगर्हितं कापुरुषव्रतं वदन्ति। तन्मे सुतो अवन्तिनरेन्द्र निर्जयात् महीतले लब्धयशा अनुरक्त प्रकृतिअनुरक्तप्रकृतिगुणाधिकः सुमहायवान् अयं मृगाङ्गदत्तः। तदस्मे निजमूर्जितं राज्य समर्प्य तीर्थेषु तपश्चरितुं यतिष्ये, इति क्षितीशस्य सुनिश्चितं वचो निशम्य धीरास्तस्य मन्त्रिणः पौराश्च सर्वे तथेति प्रतिपेदिरे। ततः स राजा गण कै निरूपिते शुभे समये स्वहितैर्द्वि जाग्रैः तस्य पुत्रस्य मृगाङ्गदत्तस्य राज्याभिषेकोत्सवं व्यधत्त। तदा नृपस्य भवनं इतस्ततो व्यग्रनिदेशधावज्जनाकुलं नृत्यहरचारणाङ्गणं मुदा जुघूर्णेव। सभार्य्यस्य मृगाङ्गदत्तस्य मूर्ध्नि भूरि तीर्थोदकं पपात, पित्रोस्तु सानन्दयोः तस्य च नेत्रयुगात् जलप्रवाहा निपेतुः। ततस्तेन सिंहपराक्रमेण नवेन राज्ञा अधिष्ठिते सिंहासने पितामरदत्तः सप्तदिनानि सज्जीकृतराजमार्ग यथार्ह सम्मानित राजलोकं महोत्सवं तवान। ततोऽष्टमे दिने सदारः स नृपः पुत्रः मृगाङ्क-

दत्त पौरञ्च सवाष्णं निवर्त्य नगर्या निर्गत्य मन्त्रिभिरनुगामिभिः सह वाराणसीं जगाम। तस्यां स राजा महिष्या सह गङ्गाम्बुपरिप्लुताङ्गः त्रिसन्ध्यं त्रिपुरान्तकस्य सपय्यां विदधत् फलमूलवत्तिस्तपस्यन् तस्थौ। मृगाङ्गदत्तश्व भाखानिवाम्बरतलं विपुलं निर्मलं राज्यमवाप्य क्रमेण प्रतापवान् करसन्निपातैः क्षितिभृतः समाक्रम्य प्रतपितु प्रावर्त्तत। मायावटुप्रभृतिभिः श्वशुरेण कर्मसेनेन नृपेण श्रुतधिना सचिवैश्व सहायैः सद्दोपां चतुर्दिगन्ता महीं विजित्य एकातपत्रामकरोत्। तस्मिन् राजनि वसुन्धरा निशम्यमानदुर्भिचदस्यु परचक्रभयादिदुःखा नित्यप्रहृष्टसुखिता नव रामराज्यसुखमवाप। इत्यं नृपतिमृगाङ्गदत्तः तैः सचिवैः सह अयोध्यामध्यास्य नानादिगन्तागतनृपैर चिंतचरणकमलः तया शशाङ्गवत्या समं अकण्टकसुखान् भोगान् चिरं बुभुजे।

इति मलयवनान्ते कथामाख्याय स मुनिः पिशङ्गजटः तं विरहिणं नरवाहनदत्तं पुनर्जगाद राजपुत्र! इत्य सोढ़क्लेशो मृगाङ्गदत्तः यथा शशाङ्गवतीं पुरा प्राप, तथा त्वमपि तां मदनमञ्जुकां प्राप्तासि।इति तस्मा मुनेर्वचनमाकर्ण्य नरवाहनदत्तः मदनमञ्चुकाप्राप्तौ धृतिमधात्। अथ तद्गतचित्तः तं मुनिवरमा मन्त्रा पूर्व हारितां तां ललितलोचनां तत्र मलयगिरौ चिन्वन् व्यचरत्।

अत्रत्रयोदशो लम्बकः।
<MISSING_FIG href=”../books_images/U-IMG-1722266813Screenshot2024-07-29205629.png"/>
अथ चतुरधिकशततमस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1722266839Screenshot2024-07-29205638.png"/>

ततोऽसौ वत्सराजसुतो नरवाहनदत्तः मदनमञ्चुकां विना विरहसन्तप्तः तेषु तेषु मलयाचलपादेषु तदुपान्तवनेषु च मधुमनोहरेषु भ्रमन् क्वचिदपि धृतिं न लेभे। तत्र च चूतमञ्जरी मृदुरपि आपतद्भिः शिलीमुखैः स्मरचापलतेव अस्य हृदयं विभेद। कोकिलकूजितं मधुरमपि कटु सारनिःसारणावाक्यमिव सुदुःसहमस्य हृदयं दुनोति स्म। शीतोऽपि मलयानिलः पुष्परेणुपिशङ्गः मदनाम्निरिव आपतन् अङ्गेषु तं ददाह। ततोऽलिकुलझङ्कारमुखरेस्तेः कामनैःनिष्कास्यमान इव स राजसुतः शनकैस्तं प्रदेशं विजहौ। गच्छंश्च कथञ्चित् देवतासख एव, गङ्गागामिपथाभ्यर्णवनान्तेषु सरोवरमेकमवाप ददर्श च तत्र तरुमूलोपविष्टोशुभाकृती द्वौब्राह्मणपुत्रौ स्वैरमालपन्तौ। तौ च तं नववाहनदत्तं दृष्ट्वा समुत्थाय मन्मथं मन्यमानौ प्रणम्य अवोचतां भगवन् कुसुमायुध।नमस्तुभ्यं ब्रूहि देव। कथमेकाकी व्यक्तकौसुमकार्मुकः इतो भ्रमसि? मा सहचरी तव रतिः क्व? तदाकर्ण्य सवत्मेश्वरसुतस्ताववोचत् नाहं कामः मनुष्योऽहं, मत्यन्तु मे गतिर्नष्टा इत्युक्त्वास्व वृत्तान्तमाख्याय स राजपुत्रः तौ विप्रौ पृष्टवान् कौयुवां युवयोश्च कीदृशौ कथात्र वर्त्तते? ततस्तयोरेकोविप्रयुवा विनतस्तमवादीत् भवादृशां राजसुतां

नामग्रे कथं रहस्यमुच्यते तथापि ते आज्ञानुरोधात् कथयामि निशम्यताम्।

अस्ति कलिङ्गविषये शोभावती नाम पुरी। सा अद्यापि कलिना न प्रविष्टा, नापि पापकर्मभिः स्पृष्टा, परराष्ट्रेण च न दृष्टा। तस्यां यशस्करो नाम विद्वान् आढ्यः महाक्रतुः ब्राह्मणः प्रतिवसति स्म। तस्य मेखला नाम भार्य्यासीत्। तयोरेक एवाहं मध्यमे वयसि सुतः समभवम्। क्रमेण चाहं ताभ्यां वर्द्धितश्चोपनीतश्चास्मि। ततः पठति अध्ययनं बाले मयि तत्र अतिदुरस्तं अवृष्टिकृतंदुर्भिक्षमुदपद्यत। तेन तातोऽम्बया साकं मामादाय सधनपरिच्छदः विलासां नाम नगरींगतः। तत्र लक्ष्मीसरस्वत्योर्मुक्तवैरयोर्वसतौ स मम पिता केनचित् मित्रेण बणिजा दत्तवासः स्थितिमकरोत्। अहञ्च गुरुवेश्मसु विद्याधिगमं कुर्वन् सवयसां सब्रह्मचारिणां मध्ये अवसम्। तेषु चैकः गुणी महासमृद्धिमतः क्षत्रियस्य कुमारीविजयसेनो नाम मम मित्रमभूत्। एकदा तस्य मे मित्रस्य स्वसा कुमारी मदिरावती नाम अस्मदुपाध्यायगृहं तेन मित्रेण सहागमत्। मन्ये तस्या विधात्रा तस्या वदनलावण्यशेषेण हिमदीधितेर्जननेत्रामृतं बिम्बं विनिर्मितम्। सम्भावयामि च तद्वपुः जगत्सम्मोहनं षष्ठमस्त्रं विलोक्य पञ्चसु अन्येषु शरेषु स्मरः मन्दादरोवर्त्तते इति। तां तस्मात् सुहृदः श्रुतनामान्वयां दृष्ट्वा अहं सपदि स्मराज्ञावशस्तन्मयमानसः समभूवम्। सापि मां स्निग्धमुग्धेन चक्षुषा तिर्य्यक् पश्यन्ती पुलकेनाङ्कुरितं प्रेम

ब्रुवाणा क्रीड़ाव्यपदेशात् चिरं स्थित्वा चलितापाङ्गा प्रीतिदूत्यौ दृशौ मयि क्षिपन्ती कथञ्चित् स्वगृहमगात्। अहञ्च तद्विरहार्त्तोगृहं गत्वा निपत्य च शयनतले मत्स्य इव केवलमुद्वर्त्तन विवर्त्तने अकार्षम्। प्रजापतेर्लावण्यामृतसर्वस्वनिधानं तस्यास्तदाननं भूयोऽपि पश्येयं, धन्यः सः सखीजनः, यः सुखेन निर्यन्त्रणं स्मरायतनभूतं तन्मुखं पश्यति तयाचालपति। इत्यादि चिन्तयन् कृच्छ्रात् अहोरात्रं व्यतीत्य द्वितीयेऽहनि तदुपाध्यायसदनं गतोऽस्मि। तत्र स मे सुहृद् विजयसेनः सप्रहर्षः सादरं मामब्रवीत् सखे! मम माता स्वसुर्मेमदिरावत्या मुखात् मन्मित्रं त्वामीदृशं श्रुत्वा सस्नेहात् द्रष्टुमिच्छति। तत् मया साकं अस्मद्गृहमेहि यदि ते मयि स्नेहोऽस्ति, त्वत्पादपद्मरजसा तन्मेगृहं विभूषितमस्तु। एतत् तद्वचनं मरुभूमौ अध्वगस्य महदतर्कितं वर्षमिव सद्यः मम निर्वापण मभूत्। अहञ्च तथेति तेन सह तद्गृहं गत्वा तन्मातरं दृष्ट्वा तया च सत्कृतस्तत्र प्रियादर्शनेन निर्वृत आसम्। अथ विजयसेने पित्राहूतेमदन्तिकात् गते मदिरावत्या धात्री मामेत्य प्रणम्यावदत् ब्रह्मन्।अस्माकं भर्त्तृदारिकया मदिरावत्या स्वोद्याने विवृद्धिं नीता या मालतीलता, तस्यानूतनः पुष्पभरोद्गमः मधुसङ्गमसानन्दविलासहसितोज्ज्वलः वर्त्तते, तस्याः कुसुमेषु शिलीमुखाः विषयाः पतिताः, अद्य भर्त्तृदारिकया स्वयं मुकुलानि उच्चितानि। तैः मौक्तिकैरिव तयाएषा एकावलो विधाय ते प्रहिता, नवं हि वस्तु नवीनायैव दीयते इत्युक्त्वातयाचतुरया मह्यंमाला

सपञ्चफलकर्पूरैर्नागवल्लीदलैर्युता, प्रदत्ता। अहं प्रियया स्वहस्तरचितां तां कण्ठे कृत्वा ताम्बूलञ्च मुखे दत्त्वा तां प्रियासखीमवोचम्। भद्रे! किमधिकं ब्रवीमि, ममायं कामः यत् तव वयस्यायाः कृते यदि जीवितमिदं त्यजेयं तदपि जन्म सफलं सा हि तव भर्त्तृदारिका मे प्राणेषु प्रभुः। इति तामुक्त्वाविसृज्य च अहमुपाध्याय गृहं तत्क्षणमायातेन मित्रेण विजयसेनेन सह अगाम्।

अन्येद्युश्च स विजयसेनः मदिरावत्या सहितः मत्पित्रोरानन्दवर्द्धनाय अस्मद्गृहमागात्। इत्थं मदिरावत्या मम च पुनःपुनर्दर्शनात् अनुवासरं गूढ़े एवानुरागी वृद्धिमगमत्। एकदा मदिरावत्या माता मां रहसि प्राब्रवीत् यतःप्रभृति भवान् दृष्टः ततः आरभ्य सा मम मदिरावती नाहारमभिनन्दति, प्रसाधनं न तनोति, न सङ्गीतेषु रतिं लभते, शुकादिभिश्चन क्रीड़ति। कदलीपत्रपवनेः श्रीखण्डार्द्र-विलेपनैः तुषारशिशिरैश्चन्द्रपादैरपि तापमनुभवति। बहुलेन्दुकलेव क्षामीभवति।केवलं युष्मत्कथयाश्रूयमाण्यानिर्वृतिं लभते। एतत् तस्याः सर्वक्रियावित् सखी, या छायेव क्षणमपि तत्पार्श्वं न मुञ्चति, तस्या मुखात् श्रुत्वा मया स्वयं रहसि समानीय पृष्टा मा मदिरावतो त्वद्गतं मनः मह्यं कथितवती। तदिदानीं यथा तस्या मनोरथःफलेत् तथा सुभग। कुर्वीथाः यदि तां जीवितामिच्छसि। अहन्तु तस्यास्तादृश्यावाक्सुधया नितरां परितृप्तोऽभ्यधां मातः। युष्मादायत्तमेवैतत् अयं जनस्तव स्वाधीन इति।

एतदाकर्ण्य सा प्रहृष्टा यथागतमगात्। अहञ्च तत्प्रत्ययात् सञ्जातास्थः सुनिर्वृतो गृहमगाम्। अथान्येद्युः उज्जयिन्याः समागतो महान् क्षत्रियकुमारः कश्चित्तां मदिरावतींतत्पितरमयाचत। तत्पिता च तस्मै सुतां दातुं प्रत्यपद्यत। अहं तत्परिजनात् तत् श्रोत्रदारुणं श्रुत्वा सर्गादिव भ्रष्टः कुलिशेनेवाहतःभूतेनेवाविष्टः सद्यो मोहमगमम्। क्षणाच्च संज्ञां प्राप्य समाश्वस्य च अचिन्तयं अधुना वैक्लव्येन किं? तावत् पर्य्यन्तमविक्लवः पश्यामि, यावत् कार्य्यशेषो न स्यात्। इत्थमालोच्य यावत् प्रियासखीभिरागत्य तस्या आश्वसवचोभिर्धार्य्यमाणः कांश्चित् दिवसान् न यामि, तावत् लग्नो निर्णीतः, मदिरावती च अभ्यङ्गमङ्गलं प्रापिता। तस्याश्च विततोत्सवोविवाहदिवसःप्राप्तः ततः स्वेच्छासञ्चाररुद्धायां तस्यां निराणोऽहं कष्टं जीवितवैशसं तद्विरहात्मरणं सुखं मन्यमानः नगरीवाह्यंगत्वा वटतरुमारुह्य पाशं व्यरचयम्। तेन पाशेन नष्टसंज्ञं मां कोऽपि सहसा दृष्ट्वा पाशं छित्वा तस्मात् तरोर्मांअवातारयत्। अहञ्च पतितःक्षणेन संज्ञां लब्ध्वातस्य महापुरुषस्य उत्सङ्गे निषणमात्मानमद्राक्षं व्यचिन्तयञ्च नूनमनेन त्रातोऽहमिति मत्वा तमब्रुवं महासत्त्व! त्वया तावत् दयालुता दर्शिता, परं विरहार्त्तस्य मे मृत्युरिष्टा न जीवितं, येषां चन्द्रः अग्निः, हारःविषमः, गीतानि श्रोत्रसूचयः, उद्यानं बन्धनं, पुष्पमाला दिग्धा शरावली, चन्दनाद्यनुलेपनम् अङ्गारवर्षं किं बहुना सर्वं संसारे विपर्य्यस्तं तेषां वियोगिनां मादृशांजी-

विते को रसः? इत्युक्त्वातस्मै कच्छ्रबन्धवे सर्वंस्ववृत्तान्तमवर्णयम्। ततः स साधुर्मामब्रवीत् भद्र! प्राज्ञोऽपि किं विमुह्यसि? यस्य कृते सर्वं, तेन त्यक्तेन जीवनेन किं फलम् आत्मीयमेकं वृत्तान्तंशृणु ते कथयामि।

अस्ति निषधो नाम देशःहिमालयान्तिकचरः। यः कलिविद्रावितस्य धर्मस्य एकः समाश्रयः सत्यस्य जन्मक्षेत्रं कृतयुगस्य च गृहम्। यत्र लोकस्य श्रुते अतृप्तिः न तु अर्यसञ्चये स्वदारेषु सन्तोषः न परापकारेषु। तत्र शीलश्रुतो नाम कश्चित् ब्राह्मणः प्रतिवसति स्म तस्याहमात्मजः। सोऽहंदेशान्तरालोकनकौतुकात् गृहान्निरगाम्। सखे! देशान् भ्रमन् उपाध्यायांश्च पश्यन् क्रमात् शङ्खपुरं नाम नातिदूरमिदं पुरं प्रापम्। यत्र शङ्खपालस्य नागराजस्य पावनं शङ्खह्रद इति ख्यातं महत् सरः स्वच्छतोयमस्ति। तत्र पुरे उपाध्यायवेश्मनि वसन्रहमेकदा स्नानयात्रोत्सवे तत्सरो द्रष्टुमगच्छम्। गत्वा च नानादेशागतैर्जनैरसङ्ख्यैःपूरिततटं सुरासुरैः समन्ततः क्षोभ्यमाणमिवाम्भोनिधिं वीचिहस्तैःश्लयधम्मिल्लविस्त्रस्त-कुसुमस्रजां वधूनां परामृष्ट जवनस्तनमण्डलम् आश्लेषापहृतेन अङ्गरागेण पिञ्जरीकृतं कामुकमिव तं महाह्रद मद्राक्षम्। तस्य दक्षिणतः किञ्चित् गत्वा सधूममिव तापिञ्छैःसाङ्गारमिव किंशुकैः, सज्वालमिव रक्ताशोकतरुभिः, हरनेत्रानलप्लुष्टं देहमिव रतिपतेः, तरुषण्डंव्यलोकयम्। तत्र अतिमुक्तलतामण्डपद्वारि कुसुमानि चिन्वतींकामपि नीलकटाक्षविक्षेपतर्ज्जितश्रवणोत्पलां उत्क्षिप्तबाहुलतिकां लक्षितैकपयो-

धरां पृष्ठतः परिलम्बितं कवरीभारं वदनेन्दुभयेन शरणागत तिमिरमिव वहन्तीं कन्यकामपश्यं नूनं सा वेधसा रम्भादिसम्भारसिद्धहस्तेन निर्मिता, केवल अक्ष्णोर्निमेषेण मानुषीति सा दृष्टेव जगत्त्रयविमोहिनी मारस्य धनुर्यष्टीव मृगेक्षणा मे हृदयं प्रविष्टा। पर सा मामवलोक्यैवसद्यः स्मरवशाभवत्। ततः सा प्रेमविहस्ता पुष्पावचयक्रीड़ां विमुच्य गलन्त्या हारलतायामध्यवर्त्तिनः पद्मरागस्य प्रभाभिः हृदयाद् वहिरुद्भिन्नमनुरागमिव दर्शयन्तो अपाङ्गविश्रान्ततारकान्तेन चक्षुषा मां मुहुरीक्षितुं तनुं पराहृत्य यावदतिष्ठत् तावत्तत्र पलायमानानां जनानां महान्हाहारवः समुदभूत्। विस्मयविह्वलश्चापश्यं एको वन्येभगन्धान्धो दलितशृङ्खलः दुरारोहकर्णान्तलुलिताङ्कुशः मत्तमातङ्गः धावन् समुपगच्छति। तं दृष्ट्वैवाहं प्रधाव्य वित्रस्तां विद्रुतानुगां तां प्रिया मुत्सङ्गमारोप्य जनमध्यमनैषम्। तत्रागतपरिजना सा यावत् समाश्वसिति, तावत् जनरवाकृष्टः स वारणस्तत्रैवागात्। तद्भयाच्च विद्वत्सु जनेषु सा अनुगैः सह क्वापि तिरोहिता न ज्ञाता, अहन्तु गजभये प्रशान्ते तां सुमध्यमां चिन्वन् यदा अविज्ञात नामान्वयनिकेतनांनावापं तदा शून्यचित्तो विभ्रष्टविद्योविद्याधर इव भ्रमन्नुपाध्यायगृहं कथञ्चिदवाप्तवान्। तत्राहं तत्प्रेमभङ्गेन तस्याः सोत्कम्पं तदाश्लेषसुखं स्मरन्मूर्च्छित इव प्रसुप्त इवाभवम्। क्रमाच्च स्त्रीसुलभात् आर्द्रभावादिव दर्शनाशया चिन्तया अहमुत्सङ्गे निपातितः सर्वं दिनमचेतितमेव व्यनैषम्। ततः क्रमेण अस्ता-

चलशिखरमारोहति सवितरि पद्मिनीनायके सह सन्ध्यया, पञ्चशरैकसुहृत् सुखिनां नयनोत्सवःप्राचीमुखविशेषकः शशीसमुदगच्छत्। तस्य सुधामयैरपि ज्वलद्भिरिव करनिकरैर्नितरां दह्यमानस्य मे जीवितं सद्य एव व्यमील्यत।

अथ ज्योत्स्नानलक्षिप्तशरीरं मृत्युकाङ्क्षिणं मां विधुरं वीक्ष्य कश्चित् सहाध्यायी प्राब्रवीत् भ्रातः।किमेवमद्य दुःस्थितस्त्व? व्याधिस्तत्र कोऽपि न लक्ष्यते, यदि ते अर्थकामकृतोऽयमाधिस्तदहं ते वच्मि शृणु। अतिवेगेन परं वञ्चयित्वा ये अर्था वा परेषाम् अपहृत्य ये अर्थावाञ्छान्ते नैव ते स्थिराः यतस्ते पापमूलाः, अतः शीघ्र विनश्यन्ति। तेषाञ्चार्जनादिभिर्महान् क्लेशः संजायते। अमुत्र च आचन्द्र-तारक महत् नरकं सम्भवेत्। कामोऽपि अप्राप्य नष्टश्चेत् प्राणान्तविडम्बना, यः केवलमधर्मस्य अग्रदूत, निरयाग्नेश्चप्रिय मुखम्। न्याय्यौ तु अर्थकामौउत्माहवान्धीरः पुमान् पूर्वसुकृतैरवाप्नोति न तु क्लीवो भवादृशः। तत् सखे। धैर्य्यमालम्ब्यअभीष्टसिद्धये यतस्व। इति तेन सख्याभिहितस्तस्मै किञ्चिदपि नोत्तरमदां केवल आशयं निगूह्यधैर्य्यमाश्रित्य क्रमेण निशां नीत्वा च गृहमागमम्। ततस्तत्रापि स्थातुमशक्तेन इतस्ततोभ्रमता इह प्राप्तेन मया पाशार्पितगलस्त्वं दृष्टः, पाशोत्तीर्णाच्च त्वत्तस्त्वद्दुःखं श्रुतं स्वञ्च वर्णितं तत् सखे! अविज्ञात नामादेरपि तस्याः कृते पौरुषागोचरेऽपि अहं आहितोद्योगः, त्वन्तु मदिरावत्या गोचरे स्थिताया अपि प्राप्तौ पुरुषकारादिकं मुक्त्वाकथं क्लीवयसे त्वया किं रुक्मिण्याः पूर्ववृत्तान्तो न श्रुतः सा

चेदिपतये शिशुपालाय दत्तापि हरिणा किं न हृता? इति तस्मिन् मे मित्रेनिगदति सा मदिरावती सानुगा आतोद्यमङ्गलैः सह तत एवमातृदेवकुले कामदेवमर्च्चयितुमगात्। अत्र विवाहे कन्यकाः काममर्च्चयन्तीतिस्थितिः। एतदर्थमेव तस्मिन् वटे मया पाशो योजितः यदि इहागता सा तदर्थमेव मां मृतं पश्यत्विति। इति मयाभिहिते स धीरो द्विजः मामवदत् सखे! तर्हि अत्रैव देवकुले अन्तः प्रविश्यैव मात्रूणां पृष्ठतश्छन्नौसाम्प्रतमास्वहे, एहि, पश्यावः कश्चिदुपायोऽत्रआवयोरस्ति नवेति। एवमुक्तवता तेन सख्या साकं तस्मिन्नेव देवकुले तथैव च्छन्नं यावत् तिष्ठावः तावत् सा मङ्गलतौर्य्यत्रिकसमेता तत्र देवकुले मदिरावती शनैः प्राविशत्। प्रविश्य च एकाकिन्येव कञ्चित् मनोगतं वरं याचिष्ये कामदेवात् भगवतः, तत् यूयं सर्वे वहिस्तिष्ठत इति सर्वान् अनुचरान् ससखीजनान् बहिष्कृत्य एकैव कामदेवं तमर्च्चयित्वा व्यजिज्ञपत् देव। मनोभवेनापि त्वया कथं मे मनोगतः प्रियो न ज्ञातः, किमिति बाला विप्रलब्धा हतास्मि, रतिपते! नास्मिन् जन्मनि चेत् ममाभीष्टं पूरयितुं शक्नोषि, तदा जन्मान्तरेऽपि मयि तथा कृपां कुर्य्याः यथा स एव सुभगो विप्रकुमारो मे भर्त्ता स्यादिति उक्त्वासा बाला पश्यतोः शृण्वतोश्चावयोः स्वेन उत्तरीयेण शङ्कौपाशं कृत्वा कण्ठे न्यवेशयत्। ततश्च तेन सख्या, उपेत्य आत्मानं दर्शय अस्याः पाशञ्च गलात् हर इति आदिष्टः अहं तदैव तामुपासर्पं मा प्रिये! साहसं कार्षीः, पश्य ते

प्राणपणार्जितः सहजस्नेहो दासोऽग्रतः स्थितोऽस्मि। इति हर्षगद्गदया गिरा व्याहरन् सुतनोस्तस्याः कण्ठात् त्वरितं पाशमपाहरम्। ततो मां वीक्ष्य सा सहसा सानन्दनाध्वसा यावत् क्षणं तिष्ठति, तावत् स सुहृत् मामब्रवीत्। दिनक्षयाप्रकाशेऽस्मिन् काले अहं निर्गत्य मदिरावत्या वेशेन अस्याः परिजनैः सह यामि, त्वं इमाम् आवयोरुत्तरीयाभ्यां संवीतां आदाय द्वितीयद्वारवर्त्मनां निर्गत्य व्रज। अस्यामेव रात्रौ अलक्षितः देशान्तरं याहि। मा कृथा मम चिन्तां दैवं शिवं विधास्यति। इत्युक्त्वाउपात्तमदिरावतीवेशःस मे सुहृत् निर्गत्य तैः परिजनैः सह नक्तं प्रायात्। अहञ्च अनर्व्यरत्नस्त्रजा मदिरावत्या सह अन्येन द्वारेण निर्गत्य तस्यामेव रात्रौ योजनपरिमितमध्वानं यातोऽस्मि। प्रातश्चनिर्वर्त्तिताहारः क्रमात् गच्छन् दिनैः कतिपयैः बलपुरं नाम नगरं प्राप्तः। तत्र केनचित् मित्रोभूतेन द्विजकुमारेण दत्ते गृहे मया सत्वरं सा मदिरावतो परिणीता, ततोऽत्र वसतः सिद्धमनोरथस्य मे किं स्यात् मे मित्रस्य वृत्तमिति चिन्ता प्रबलाभवत्। हे वत्सेश्वरनन्दन! तं मे प्राणप्रदं कृच्छ्रैकमित्रं पार्श्वस्थमेनं विद्धि। एषः अकारणबन्धुरद्य मया इह उत्तरायणे गङ्गास्नानार्थमागतेन दृष्टः प्राप्तश्च। चिरादेनं सवैलक्ष्यमाश्लिष्य उपाविश्य च यावत् वृत्तान्तं पृच्छामि तावत् त्वमिहागत इति तेन एकेन विप्रेण यथावृत्तंवर्णिते नरवाहनदत्तस्तनपरं द्विजमपृच्छत् ब्रह्मन्! कौतुकं मे ब्रूहि, त्वं तस्मात् सङ्कटात् कथं मुक्तः? मित्रार्थागणितप्राणा भवादृशा दुर्लभा हि, एतत्तस्य वत्सराजसुतस्य वचः समाकर्ण्य

द्वितीयोऽपि विप्रः स्वं वृत्तान्तं वर्णयितुमुपचक्रमे।

तदा तत्र मां मदिरावतीवेशेन विनिर्गतं देवगृहात्, तदनुगास्तामेव मदिरावतीं मन्यमानाः शिविकामारोप्य तैर्नृत्यवाद्यसमाकुलैः सोमदत्तस्य विभवान्वितं क्वचित्सहस्तालङ्कारशोभाढ्यंक्वचित् निष्पन्नपक्वान्नंक्वचित्सज्जितवेदिकं क्वचित् प्रगीतदासीकुलं क्वचित् चारणैः सङ्कुलं क्वचिच्चलग्नवेलाप्रतीक्षैर्द्विजैरध्यासितं भवनं नीतोऽस्मि। तत्र एकस्मिन् गृहे पानक्षीवैः परिजनैः कृतावगुण्ठनोऽहं नक्तं बधूबुद्ध्याप्रवेशितः। तत्रोपविष्टञ्चमां विवाहोत्सवसानन्दनानाचेष्टासमाकुलाः महिलाःपर्य्यवारयन्। क्षणाच्च द्वारोपकण्ठे मेखलानूपुररवः समश्रावि। प्राविशच्चसहसा कापि ससखीजना नागीव विस्फुरद्रत्नालङ्कृतशिराः धवलकञ्चुका, अब्धिवीचीव लावण्यपूर्णा मुक्तावलीयुता, उद्यानदेवतेव साक्षात् सत्पुष्पमालिनी सुपर्वबाहुलतिका विराजत्करपल्लवा कन्या। सा चागत्य यावत् मम पार्श्वे सखीधिया उपविशति तावत् पश्यामि सैव मे चित्तचौरी समागता। या शङ्खह्रदे स्नानार्थमागता मया दृष्टा गजात् त्राता लोकसमाजमध्ये नष्टा क्वाप्यगात्। किमेतत् काकतालीयं? किं स्वप्नः, उत सत्यमेव वा इति हर्षभरेणोदभ्रान्तस्तदाहमचिन्तयम्।

अस्मिन्नेव क्षणे मदिरावत्याः सख्यस्तामब्रुवन् आर्य्यदुहितः। किमेवमुन्मना इव लक्ष्यसे? एतदाकर्ण्य सा कन्या आशयं निगृह्य अब्रवीत् जानीय मदिरावती यादृशीमे सखी, एषा परिणीता श्वाशुरं गृहं यास्यति, एतया वियुक्ताहं कथं स्थास्यामीति दुःखितास्मि। तत्

यूयमधुना बहिर्निर्यात, यावदहं क्षणं विस्रम्भसंलापान्कुर्वती अनया मदिरावत्या सह सुखं तिष्ठामि इति ताः सर्वानिष्काश्य द्वारे स्वयमर्गलां दत्त्वा उपसृत्य सखीबुद्ध्या सा मामभाषत मदिरावति! अस्मात् मम दुःखात् त्वद्दुःखं ततोऽधिकं वर्त्तते, यत् प्राणप्रिये! अन्यस्मिन् सति पित्राअन्यस्मै दीयसे। यथाहं तव विस्रम्भभाजनं तथा त्वमपि मे। सखि!अहं यात्रायामेकदा शङ्खह्रदं सरः स्नातुमगां भावित्वद्विरहातुरं हृदयं विनोदयितुम्। तत्रोद्याने दिवं मुक्त्वाअवतीर्णः शशीव, सौन्दर्य्यदन्तिनः आलानकाञ्चनस्तम्भ इव लसत्श्म-श्रुमधुपश्रेणिभिः समाश्रितमुखाम्बुजः कोऽपि कान्तो द्विजयुवा मया दृष्टः। वनेषु केवलं मुनिकन्यकास्तपोभिः क्लिश्यन्ति याभिरसौ युवा न दृष्टः, किं तासां तपसः फलं? इति सञ्चिन्तयन्त्या मे कामेन हृदयं शरैस्तथा विद्धं यथा मे लज्जा भयञ्च गलितम्। ततस्तं पश्यन्तं यावत् तिर्य्यग्वलितेक्षणा पश्यामि तावत्आलानमुक्तो मत्तेभस्तत्राशङ्कितमागात्, तेन च नश्यत्परिजनां भीतां मां दृष्ट्वा स युवा धावित्वा अङ्कमारोप्य दूरे लोकानां मध्यं निनाय। सखि!तदङ्गस्पर्शामृतानन्दनिमीलिताहं तदा को हस्ती, किं भयं, क्वाहं क्व वा स्थितास्मि इति किमपि नाज्ञासिषम्। ततः परिजनो मे यावत्तत्र प्राप्तः, तावत् स मत्तहस्ती पुनर्मेमूर्त्तिमान् विरह इव तत्रागात्। परिजनैश्च मम भयाकुलैस्तत्क्षणमहं गृहंनीता, सच मे प्रियः तस्मिन् जनसंक्षोभे क्वापि गतः तदहं न जाने। तदा प्रभृति अविज्ञातनामान्वयं करं प्राप्तं तं निधिं केनापि हृतं स्मरन्ती स्वप्ने तद्दर्शनेच्छया सर्वदुःख

हारिणींनिद्रां वाञ्छन्तीचक्रवाकीभिः समं रात्रिषु क्रन्दासि, तदेवं निरुपायेऽस्मिन् दुःखे त्वद्दर्शनं मे विनोदनं यत् तदपि सखि!अधुना दूरीभवति। तदेवं गते मे मरणमेव उपस्थितं तत् क्षणमात्रंत्वन्मुखावलोकनसुखं अनुभवामि इति मे श्रोत्रपीयूषवर्षणं वचन-मुक्त्वासाञ्जनैरश्रुविन्दुभिर्वक्त्वेन्दुं कलङ्कयन्ती अवगुण्ठनमुत्क्षिप्य यावत् मम मुखं निरीक्षते तावत् सा मां प्रत्यभिज्ञाय सहसा सहर्षाश्चर्य्यसाध्वसाभूत्। ततो मयोक्तं मुग्धे। किं सम्भ्रमः, सोऽहमेव ते, विधिः सुमुखो घटयति हि अचिन्त्यानप्यर्थान्। मयापि त्वदर्थं सुदुःसहं दुःखमनुभूतम्। तत्ते विस्तरात् वक्ष्यामि नायं कथाक्रमकालः, निर्गमोपाय एव साम्प्रतं चिन्त्यताम्। इति मयोक्ता सा बाला प्राप्तकालमभाषतनाय। अनेन पश्चाद्द्वारेण शनैरितो निर्गच्छावः, एतद्वहिश्च पितुर्मे क्षत्रियस्य गृहोद्यानं, तन्मार्गेणैव निर्गस्य यत्र कुत्रचित् व्रजावः। इत्युक्तवत्या गुप्ताभरणया तयासहैव तदुक्तेन मार्गेण ततो गृहात् द्रुतं निर्गतोऽस्मि। रात्रौ च दूरमध्वानं तया सह द्रुतं भयात् गत्वा प्रभाते प्रियायुक्तो महाटवीं प्राप्तवानस्मि। गच्छतोश्च तस्यामटव्यां निर्मानुषायां शनकैः स्वं वृत्तान्तं कथयतोःमध्याह्नः समवर्त्तत। तीग्मांशुर्दुष्टभूपाल इव करैः निराश्रयाध्वमजनां निराक्रन्दां तां भूमिमतापयत्। तस्मिंश्च काले परिश्रान्तां तृषान्तां तां प्रेयसीं शनेः तरुच्छायायां शायितवान्। ततो यावत् पटमारुतैस्तां समाश्वासयामि तावत् अकस्मात् कश्चित् व्रणविद्रुतः वन्यमहिषस्तत्रागात्। तस्य च पश्चात् प्रधावन् हयारूढ़ आकृत्या महासत्त्व इति सूचितः कश्चित् धनुर्धरः समायात्। स

वीरःवज्रपातेन वज्रीवगिरिं अपरेण भक्तप्रहारेण तं महामहिषं न्यपातयत्। अस्मांश्च दृष्ट्वा उपागम्य प्रीत्येव मां पप्रच्छ साधो! कस्त्वं, का चैषा ते, कुतआयातौ, क्व च चलितौ युवामिति। अथ उपवीतमुद्घाट्य मया सत्यानृते प्रोक्ते महासत्व! अहं विप्रः, इयञ्च मे भार्य्या, कार्य्यवशात् देशान्तरागतौ आवां मार्गभ्रंशात् चौरहतात्सार्थात् विभ्रष्टौ। एवं मयोक्ते ब्राह्मण्यांसानुक्रोशः स मामभ्यधात् अहं वनचरध्वंसी मृगयार्थमिहागतः, युवाञ्च अध्यक्लान्तौ मम अतिथी सम्प्राप्तौ। तदागच्छतं विश्रामार्थं नातिदूरं ममालयम्। इत्यु-क्त्वाश्रान्तां मत्प्रियां स्वतुरङ्गमारोष्य स्वयं पादचारी भवन् आवां स्वंनिवासंनीतवान्। तत्र स बान्धववत् भोजनाद्यैरुपाचरत् कुदेशेऽपि क्वचित्केचित् महाशयाः सन्ति। ततस्तामटवीमुत्तीर्य्यतद्वितीर्णेनानुयात्रिकेण, प्राप्य चैकमग्रहारं मया सा वधूः परिणीता। ततो बहून् देशान् परिभ्रमन् त्वया समं सार्थं दृष्ट्वा अद्य भार्य्यासहायः स्नानं कर्तुमिहागतः। इहैव स मम स्वयंवरसुहृत् प्राप्तः देवश्चदृष्ट इत्येष मे वृत्तान्तः निवेदितः। इत्युक्त्वाविरतं निर्व्याजसत्त्वोचितप्राप्ताभीष्टफलं तं द्विजं स वत्सेश्वरसुतो यावत् प्रशंसतितरां तावत्ते गोमुखप्रभृतयः स्वसचिवाः समन्तात् तं युवराजं चिन्वन्तः तत्रागत्य उपलेभिरे। स च राजपुत्रो नरवाहनदत्तश्चरणानतान् हर्षवाष्प-धौतमुखान् तान् सर्वान् सचिवान् यथोचितं सम्मान्य अभिननन्द्र। अथ स युवराजस्तौ विप्रयुवानौ सदर्थनीतिविदौ समादाय मन्त्रिभिः सहितः स्वपुरीमभिययौ॥

अथ पञ्चाख्यो नाम चतुर्दशलम्बकः।

शताधिक पञ्चम स्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1722344548Screenshot2024-07-30183201.png"/>

ततो वत्सेश्वरतनयो नरवाहनदत्तः तास्तास्त्रिलोकसुन्दरीस्तथा मदनमञ्चुकाञ्च लभमानः कौशस्व्यांगोमुखादिभिः स्वसचिवैः परि-वृतः पितृसमृद्धिं भुञ्जानः सर्व्वकामपूर्णः समुवास। अभीष्टनारीसम्भोगामृतरसेन नृत्यगीतादिभिः कलाभिश्च तस्य दिनानि व्यतीयुः।

एकदा सः अवरोधेषु तां नवीनामग्रयां कान्तां मदनमङ्चुकां तत्परिजनञ्चापश्यन्रजनीविरहेण क्षीणकान्तिरिन्दुरिव नितरांविव-र्णता मगमत् समतप्यत च किं नु मे चित्तं जिज्ञासमाना प्रिया मे क्वापिछन्ना स्यात्? अथवा अन्यस्याअवलेपात् कुतोऽपि क्वापि गता भवेत्? अहो केनवा अपहृता? इति। अथ राजा वत्सेश्वरः विदितवृत्तान्तः पिता मातरः सचिवा भृत्याश्च सर्वे विह्वलतां ययुः। हारै-श्चन्द्रांशुभिः कदलीमृणालनलिनीदलैश्च तस्य सन्तापो ववृधे नतूपशशाम। सा च कलिङ्गसेना तया सुतया मदनमञ्चकया विहीना सायं विभ्रष्टविद्या विद्याधरीवविद्यासम्मूढतांययौ।

अथात्र एका वृद्धा अन्तःपुररक्षिका सर्वेषु आकर्ण्यत्सुनरवाहनदत्तमब्रवीत्युवराज! हर्म्याग्रेस्थितां ते मदनमञ्चुकांदृष्ट्वा नभसः समवतीर्य्य कश्चिद्विद्याधरयुवा कलिङ्ग-

सेनान्तिके स्वनाम मानसवेग इति समुदीर्य्यदेहि मे सुतामिति ययाचे। तया तु स तत्क्षणं निषिद्धोविफलप्रयत्नः यथागतमेव गत्वा इदानीं गुप्तमागत्य तां मायया जहारेति मे मतिः। यदि च दिव्याः परदारग्रहं न कदाचित् कुर्वते तथापि रागान्धः कोहि अमार्गं वा मार्ग गणयति? एतदाकर्ण्य युवराजस्य मनःवीचिषु अम्बुजमिव दोलायमानमभूत्।

अथ रुमण्वान् प्रोवाच कुतःपुरीयं विश्यते? गगनं विना इह प्रवेशनिर्गमौ न विद्यते। भगवतो महेश्वरस्य प्रसादाच्च अस्या नानि-ष्टमस्ति तदिहैव क्वचित् प्रणयकोपेन स्थिता तदत्र कथामेतामाख्यामि श्रूयताम्। पुरा अङ्गिरा महर्षिः विवाहार्थमष्टावक्रस्य तनयां सावित्रीं नाम ययाचे अष्टावक्रस्तु तामन्यस्मै दातुं सङ्कल्पितां गुणिनेऽपि अङ्गिरसे सुतां न ददौ। ततः सोऽङ्गिरास्तद्भ्रातृतनयामश्रुतां नाम परिणीय तया सह सुखेनावात्सीत्। अथ सा भार्य्या अश्रुता सावित्रीं भर्त्तुःपूर्ववाञ्छितां ज्ञात्वा तपस्यन्तं चिरं मौनिनं तं मुनिं पुनः पुनः तां सावित्रीं मुनिसुतां प्रति सप्रणयं बुद्ध्वापरिचुकोप। कुपिता च सा दुर्भगोऽयं देह इति मन्यमाना देहं त्यक्तुं वनं गता। भर्त्तुः शुभमनुध्याय कण्ठे पाशं समर्पयत्।

अथ भक्तानुकम्पिनी देवी साक्षसूत्र-कमण्डलुः प्रत्यक्षीभूय मा पुत्रि! साहसं कार्षीः तव पत्या अहं ध्याता नाङ्गना, इत्युक्त्वातां समाश्वास्य तिरोदधे। अथाङ्गिरसा भर्त्त्राअन्विष्यता सा वनान्तात् प्राप्ता, तस्मात् स्त्रीणांप्रणय-

खण्डनमिह अतीव दुःसहम्। तदेषा स्वल्पेनापि अपराधेन कुपिता क्वापिस्थिता अन्वेष्या इति एवं रुमण्वतोक्तेराजा वत्सेश्वरोऽब्रवीत् एवमेतत् किञ्चिदपि अप्रियं सम्भाव्यते यतः नरवाहनदत्तस्य कामांशस्यावतीर्णस्य देवनिर्म्मिताभार्य्यारतिर्मदनमञ्चुकैषा। असौ हि अनया सह दिव्यं कल्पं विद्याधरैश्वर्यं करिष्यतीति दिव्या वागासीत् नैव तन्मृषा शङ्कितव्यम्। तदेषा विशेषेणान्वेषणीयेति राज्ञोक्ते स नरवाहनदत्तः तदवस्थ एव निर्जगाम। यथा यथा तां चिन्वन् स तेषु तेषु प्रदेशेषु नाध्यगच्छत् तथा तथा स उन्माद इवाभ्रमत्। तस्मिन् नगरे सर्व एव जनास्तद्दुःखदर्शनोद्वेगादिव सम्मोलितलोचना निरुत्सवा आसन्। वनेषु पृच्छन्तं तं चलत्पल्लवपाणयः पादपा न साअस्माभिर्दृष्टेति प्रत्यूचुरिव। वनेषु च समुत्पतन्तः सारसा विचिन्वते तस्मै न प्रियास्माभिरालोकितेति शशंसुरिव। ते च मरुभूति-गोमुख-हरिशिख-वसन्तकाः सचिवा समन्ततः तं भ्रमन्तमनुवभ्रमुः।

अत्रान्तरे वेगवती नाम कापि विद्याधरी दृष्टमदनमञ्चुकारूपा तदीयं रूपमास्थाय उपवनान्तरे आगत्य एकाकिनी, स्वैरमशोक-तरोरधस्तस्थौ। विचिन्वानश्च मरुभूतिः सद्यो विशल्यामिव सशल्यचेतसः तां सहसा ददर्श। जगाद च हृष्टः नरवाहनदत्तमभ्येत्य, युवराज! समाश्वसिहिदिष्ट्या वर्द्धसेदृष्टा ते प्रिया मया उद्यान एवात्र स्थिता इत्येवमुक्तवता तेन साकम् स नरवाहनदत्तः तत्क्षणमेव सम्प्रहृष्टः तत्र प्रययौ। तृषितो वारिधारामिवा-

तिविरहार्त्तः स तां मदनमञ्चुकामपश्यत्। दृष्ट्वैव च तृषाकूलस्तां यावदालिङ्गितुमिच्छति, तावत् सा परिणिनीषुर्धूर्त्ता तमेवं जगाद मा तावत् त्वं साम्प्रतं मां स्प्राक्षीः, मम वचस्तावदाकर्णय। मया प्राक् विवाहात्त्वत्प्राप्तैवयक्षाविवाहे सति अहं वः स्वहस्तेन वलीन्दास्यामीति उपयाचिताः। तस्मिंश्च विवाहकाले मया ते प्राणेशप्राप्त्याविस्मृताः। तस्माच्चकोपात् तैर्यक्षैरहमितः अपहृता उक्ता च गच्छ भूयो विवाहेन तं पतिं प्राप्य अस्मभ्यञ्च वलीन् दत्त्वा पतिं सेवस्व, तान्यथा ते शिवं भविता इत्युक्त्वा तैरिहाहमानीता साम्प्रतं मुक्तास्मि, तन्मां परिणय ततोऽहं तेभ्यः यक्षेभ्यः अभिमतां पूजां दत्त्वा त्वदभिलाषपूरणीभविष्यामीति तदाकर्ण्येवस नरवाहनदत्तः सपदि शान्तिसोमं पुरोहितमाहूय सम्भारांश्च समाहृत्य ताम् मायामदनमञ्चुकां विद्याधरीं वेगवतीं समुपयेमे। राजा वत्सेश्वरः महानन्दमहोत्सवं कारयन् सर्वान् पौरान्कलिङ्गसेनाञ्चसमनन्दयत्। सा मायामदनमञ्चुका यक्षेभ्यो मद्यपिशिताशिभ्यः स्वहस्तेन वलीनदात्। नरवाहनदत्तोऽपि तया सह वासकस्थःसोत्सवं पानादिक सेवमानः सुखेनास्थात्।

एकदा सा रहसि प्रियमब्रवीत् नाथ! अहं सुप्ता त्वया सहसा हारमुद्घाट्य सम्प्रति न वीक्षणीयेति। तदाकर्ण्य स राजपुत्रः किमेत-दिति कोतुकी एकदा सुप्तायास्तस्याद्वारमुद्घाट्य मुखमैक्षत। ततो यावत् सा अन्यैव कापि न सा मदनमञ्चुकेति निश्चिता तावत्मानि प्रबुवधे।

अथ स राजपुत्रस्तांका त्वं सत्यमाचक्ष्वेतिपप्रच्छ। सापि उपविष्टं तं पतिमवलोक्य निजेरूपे स्थितैव सञ्जातप्रतिभेदा वक्तुंप्रचक्रमे नाथ। शृणु साम्प्रतं यथावस्तु ब्रवीमि।

अस्ति आषाढ़पुरं नाम विद्याधरपुरे गिरिः। तत्र वेगवतीनाम्नाराज्ञः पुत्रः विद्याधराधीयः मानसवेगोनाम भुजवलोर्ज्जितशासनः संव-र्त्तते। तस्य कनीयसी भगिनी अस्माहंवेगवतीनाम। स च मे भ्राता मेविद्यां दातुं नैच्छदिति द्वेषेणाहं ततोऽपयाता तपोवनगतात् पितुः सकाशात् तद्वरतः सर्व्वाधिकरणां विद्यां समधिगतवती अस्मि। साहं तां ते मदनमञ्चुकां तस्मिन्नाषाढ़ाद्रिपुरे उद्याने रक्षिभिर्वृ-तामपश्यम्। दुरात्मना रावणेन रामस्य जानकीव तेन मद्भ्रात्रासा तत्र दयिता अपहृता। सा च साध्वी अनिच्छन्ती तेनाक्रन्तुं न शक्यते। स्त्रीणाम्वलात्कारे तस्य मृत्युदः शापोऽस्ति हि। ततस्तेन कुभ्रात्रा तस्याः प्रबोधने नियुक्ताहं तस्याः त्वत्प्रलापमय्याः सकाशमगमम्। तत्प्रसङ्गाच्च कामाज्ञातुल्ये त्वन्नामनि उदीरितंतयामम मनः सहसा त्वदेकाग्रजातम्। तत्क्षणञ्च स ते पतिः स्यात् यन्नाम्नि श्रुत एव त्वं स्मरवश्या भवे इति देव्याः स्वप्नादेशोमया स्मृतः। संस्मृत्य तं स्वप्नादेश तां मदनमञ्चुकां धृतिं ग्राहयित्वा मया समागत्य तदस्मास्थाय च पाणिं ग्राहितोऽसि। तदेहि साम्प्रतं यत्र ते मदनमञ्चुकारित तत्रेव त्वामहं कृपया प्राणेश! नयामि। त्वत्प्रियेति तस्याः सपत्न्याअहं किङ्करीति उक्तासविद्यावलात् निशि तं नरवाद्धनदतं गृहीत्वा

नभ उदपतत्। शनैश्चयावत् सा व्योम्नि प्रायात् तावत्प्रातः तत्र नगरे सर्व्वैःपरिजनैःसह राजा वत्सेश्वरःससचिवः कुमारसचिवपरिवृतः भृशं चुक्षुभे। वासवदत्तादयश्चमातरः वज्राहताः शोकात् नितरामाकुलाः समभवन्। ततः सहसा अन्तरीक्षात् प्रभामण्डलैर्जगदुद्भासयन् द्वितीय इव भास्करी मुनिर्नारद समवतरत्। स च देवर्षिः राजानमुपेत्य प्रोचाव राजन्! मा विषादं कार्षीः शीघ्रं ते पुत्रः इह समुपैष्यति स हि विद्याधर्य्या नीतः तव धृत्यर्थं शूलिनास्मि प्रेषितः। इत्युक्त्वास मुनिः दत्तार्घ्याय तस्मैनृपाय वेगवत्याश्चरितं यथावदवर्णयत्। ततः स मुनिस्तं नृपं समाश्वास्य साधयामीत्युक्त्वातिरोदधे।

अत्रान्तरे सा वेगवतीव्योम्ना तं नरवाहनदत्तं तं आषाढ़पुराख्यंगिरिमनैषीत्। मानसवेगस्तद्विदित्वा तौ संहन्तुमधावत। ततस्तेन भ्रात्रा समं तस्या वेगवत्या विद्यावलोद्धतं युद्धमभूत् स्त्रीणां हि पतिः प्राणाः, न बान्धवाः। अथ सा विद्यावलात् विकटं भैरवं रूपमास्थाय तं मानसवेगं संमोह्य अग्निपर्व्वते निदधे। तञ्च नरवाहनदत्तं गन्धर्व्वपुवर्त्तिनि क्वचित् विजने कूपे रक्षितुं निचिक्षेप।तत्र स्थितञ्च तं स्वैरमुवाच आर्य्यपुत्र! तिष्ठात्र हितत्वात्, तवात्र स्थितस्य शिवं भविता, मा विषादं हृदिकृथाः, अत्र स्थितस्य ते सर्व्वविद्याधरपति ता भाविनौ अहन्तु अद्य तं भ्रातरं प्रसादयितुं यामि यतो मे विद्याःज्येष्ठस्य व्यतिक्रमकरणेन दुर्बलाः संवृत्ताः, अचिरात् त्वामुपेष्या-मीत्युक्त्वासा विद्याधरी वेगवती क्वापि गताभवत्।

अथ शताधिक षष्ठस्तरङ्गः।

** **ततो वीणादत्त इति ख्यातनामा कोऽपि गन्धर्व्वस्तत्र कूपे स्थितं तं नरवाहनदत्त मैक्षिष्ट। परार्थफलजन्मानो मार्गद्रुमा महान्त स्वापच्छिदो जना यदि नात्रस्युस्तदा जीर्णारण्यमिदं जगत् भवेत् यदसौ दृष्ट्वैव तं स्वजन इव अन्वयनामनीपृष्ट्वा हस्तेऽवलम्बा तस्मात् कूपादुदहरत्अब्रवीच्च मानुषोऽसि न त्वं देवः, तत्कथं गन्धर्वनगरं मानुषागम्यमेतत् त्वया प्राप्तम्? वद। नरवाहनदत्तोऽपि विद्याधर्य्या अहं विद्याबलादिहानीतोऽस्मि नात्मवलादिति तंयथायथं प्रत्यब्रवीत्। ततः स गुणी तं सुलक्षणं दृष्ट्वा स्वगृहमनयत्। उपाचरच्च स्वैरुपचारैः।

अन्येद्युश्चस नरवाहनदत्तः तत् पुरं वीणाहस्ताखिलप्रजं दृष्ट्वा तं वीणादत्तं पर्य्यपृच्छत् भद्र! सर्व्वेऽपि आवाल वृद्धा जनाः किं वीणापाण्यः दृश्यन्ते?

वीणादत्तोऽब्रवीत् अस्त्यत्र गन्धर्व्वराजः सागरदत्त इति। तस्य गन्धर्व्वदत्ता नाम्नी सुता अस्ति। यया अप्सरसः रूपेण विनिर्जिताः। यस्याश्च वपुः धात्रा सुधाचन्द्रचन्दनादिभिः समाहृतैः सर्व्वसुन्दरनिर्माणवर्णकैश्चनिर्म्मितमिव। सा च सततं शौरिणादत्तं स्वगोतकं वीणायां गायन्ती परमां गन्धर्व्वकाष्ठां गता। योहि वीणां वादयन् त्रिभिर्ग्रामैः सम्यक् वैष्णवस्तुतिमङ्गलं गायति स गान्धर्व्वकोविदो मे पतिः स्यादित्यस्या राजपुत्रा निश्चयः स्थितः। तेनात्र सर्व्वे वीणाःशिक्षन्ते विदुश्च। एतदाकर्ण्येव

स मानन्दस्तं वीणादत्तमब्रवीत्। अहं सर्व्वाभिः कलाभिःस्वयंवरवृतः पतिः सर्व्वगान्धर्व्वंत्रैलोक्यवर्त्ति जानामि। इत्युक्तवन्तं तं स सुजनो वीणादत्तः सागरदत्तस्य तस्य राज्ञः सकाशमनयत्। अवदच्च राजन्। अयं वत्सराजसुतो नरवाहनदत्तः। विद्याधरोहस्तात् विभ्रष्टस्तत्र नगरं प्राप्तः अयञ्च गन्धर्व्वाचार्य्यःकेशवस्तुतिगीतकं वेत्ति, तद् गन्धर्व्वदत्ताया मनोरथपूरणाय कालोऽयमिति तदाकर्ण्यस राजा प्रत्यवादीत् सत्यमेतत् मया श्रुतम् गन्धर्व्वाणां मुखात् पूर्व्वंश्रुतम् तस्मादिहायं साम्प्रतम्मान्यः देवांशश्चाय नान्यथाभ्रमितव्यम् कथमन्यथा देवभूमौ विद्याधरीसङ्गात् अस्य इहागमः? आनीयतां सा मे गन्धर्व्वदत्ता, पश्यामस्तावदद्भुतमिति राज्ञोदिते महत्तराः किङ्करास्तामानेतुं सत्वरं धावन्तिस्म। साच तत्क्षणात्कुमुमाभरणोज्ज्वला यौवन वायुना प्रनृत्यन्ती आर्त्तवी लतेव समागात्। क्षणञ्च पितुः पार्श्वे ससुपविष्टा सा तदनुमता वीणायां गीतकं गायति स्म। सतु नरवाहनदत्तः तस्याः श्रुतिषु स्वरान् युञ्जन्त्याः सरस्वत्याः श्रियाश्च समे गीते रूपेच विस्मितोऽभवत् अवदच्चराजपुत्रि! तवेयं वीणा न सुस्वरा मे प्रतिभाति, मन्ये तन्त्र्यांकेशः स्थित इति। अथ यावत् तत्र बालं वीक्ष्यस वहिरकरोत्तावत् सर्व्वे तत्र स्थिता गन्धर्व्वा विस्मयं जग्मुः। अथ सा राजसुता राजपुत्र। गृहाणेमां, अमृतेन नः कर्णौ सिञ्च इति वदन्ती तस्मेवीणांददौ। सोऽपि तां वीणां वादयन्तथा विष्णोः स्तुतिगीतकमगायत् यथा सर्व्वेगन्धर्व्वास्तत्र

चित्रन्यस्ता इवाभवन्। ततोऽसौ गन्धर्व्वदत्ता स्वयं प्रणयार्द्रया प्रफुल्लनीलाञ्जमालयेव दृष्ट्या तं वब्रे। तदवलोक्य स राजा सागरदत्तः कन्यायास्तां प्रतिज्ञां स्मरन् सद्य एव तस्मै तां सुतां ददौ। तयोर्वधूवरयोर्विवाहे या दिव्या समृद्धिरजायत सा किमावेद्यते येन सा नोपमीयते। ततस्तत्र स राजपुत्रः नवोढ्यातया सह दिव्यान् भोगान्भुञ्जानः कञ्चित् कालमतिष्ठत्।

एकदा स नगरश्रियं दिदृक्षुर्विनिर्गतः तान् तान्प्रदेशानालोक्य नगरोद्यानं विवेश। तत्र व्योम्ना अवरोहन्तीं दुहित्रा समं दिव्याङ्गनां कामपि अनभ्रेऽपि सवृष्टिमिवविद्युतमैक्षत। अन्तिकागताञ्च तां सोऽयं वत्सराजसुतः तव भावौपति इति दुहितरं जल्पन्तीं स वत्सराजसुतो नरवाहनदत्तः कासि कुत आगतासि किमर्थं वा इति परिपप्रच्छ। साचाब्रवीत् राजपुत्र! देवसिंहाख्यस्य विद्याधरपतेरहं भार्य्याधनवती नाम, इयञ्च मम सुता चण्डसिंहस्य भगिनी अजिनावती नाम। अस्यास्त्वमेव भर्त्ताभवितेति गगनादुद्गता भारती। वेगवत्या अत्र निक्षिप्तंभाविविद्याधरचक्रवर्त्तिनं त्वां स्वविद्याबलात्विदित्वा एतदीप्सितं वक्तुमागतास्मि। विद्याधरगम्येऽत्र देशे तवासितुं न युक्तंते हि विद्वेषेण अप्राप्तपदमेकाकिनं त्वां जातु हन्युः। तदेहि तदगम्यां भुवं त्वां साम्प्रतं नयामि परिक्षीणःशशी किमर्कमण्डलेकालं क्षिपति? ततः सम्प्राप्ते अवसरे सुतां मे परिणेष्यसि इत्युक्त्वैवसा ससुता तं राजपुत्रमादाय समुत्पपात। प्राप्य च

अवन्तीं पुरीं तत्रोपवने तं निक्षिप्य ससुता तिरोदधे। अत्रान्तरे राजा प्रसेनजित् दूरात् मृगयार्थी तत्रागतःतं राजसुतं सुलक्षणं परमसुन्दराकृति मपश्यत्। स तु सकौतुकमभ्येत्य नामान्वयौ पृष्ट्वा विदितवृत्तान्तःसम्प्रहृष्टःसप्रश्रयं तं स्वमन्दिरं निनाय। यत्र यत्र कल्याणभाक्जनो याति तत्र तत्रैव प्रियं जनमङ्गनेव सम्पत् रमयत्येव। यत् तत्र स्थिताय तस्मै नरवाहनदत्ताय स राजा प्रसेनजित्निजां सुतां भगीरथयशोऽभिधां ददौ। स च तया समं तत्र महार्हविभवसुखं भुञ्जन्नतिष्ठत्।

एकदा लोकलोचनानन्दवर्षिणि रजनीबधूमुखमण्डले निरभ्र-निर्म्मल-व्योमदर्पणप्रतिबिम्बिते भगीरथयशसो वदन इवामृतमनोरमे चन्द्रमसि समभ्युदिते कौमुदीसुधया धौते च हर्म्म्याग्रे सराजसुतस्तयाप्रियया सह तदिच्छयापानमसेवत। तच्च प्रियामुखप्रतिमाभरणं मधु तस्य रसनाया इवलोचनयोरपि भृगमानन्दजनयत्। परं प्रियामुखसमं कान्तं तत् न मेने यदत्र तादृशा भूविभ्रमाः कुतः?।

इत्थंपानलीलां सेवित्वा अभ्यन्तर गतस्तया सह शयनीयं मेजे। तस्यां प्रियायां तत्र सप्तायां स नरवाहनदत्तः सहसा विनिद्रः स्मृत्वा अब्रवीत् कथं भगीरथयशसः प्रणयेन ता मे पूर्वभार्य्या विस्मृता इव, का गतिरत्र, दैवमेवात्र प्रभवति। सचिवाश्च मे दूरे, तेषाञ्च मरुभूतिरेव विक्रमैकरसः, हरिशिखस्तु नीतिमात्रेतिष्ठति। तैश्चात्र न मे कत्यं केवलमेको गोमुखश्चतुरः सर्वासु अवस्थासु मे

मित्रम् परन्तु विदूरस्थो मां दुनोति। इत्थमुल्लपन् स सहसा हा! दुःखमिति नार्य्येवोदीरित वचः शुश्राव। श्रुत्वैव दीप्तदीपेऽत्रयावदीक्षते तावत् गवाक्षान्तर्दिव्यं नार्य्यामुखमद्राक्षीत् व्यचिन्तयच्च कौतुकात् समले व्योम्निमया चन्द्रो दृष्टः। इदन्तु अव्योम्नि धात्रा प्रदर्शितं किमिदं पुरा किल भगवता वेधसा युक्त्यासर्वविघ्नकृत् आतापिर्नामदैत्यःआश्चर्य्यमत्रगत्वा पश्येति उक्त्वानन्दनं वनं प्रैष्यत तत्र तेन अद्भुताकारो नार्य्याः कस्याश्चित् चरणः केवलो दृष्टः ततश्च तस्या अन्याङ्गदिदृक्षाव्यसनेनासौ विपन्नः। मन्ये विधात्रा ममापि विपत्तये इदं मुखमात्रं सृष्ट्वाप्रेषितं स्यात्। इत्येवं यावत् स आकलयति तावत् तस्मात् गवाक्षात् कापि दिव्याङ्गना करपल्लवं प्रदर्श्यइत एहीति अङ्गुल्या सङ्केतमकरोत्। ततः स सुप्तदयितात् तस्मात् गृहात् स्वैरं निर्गत्य तस्या दिव्ययोषितः सकाशं सम्प्राप्तः। सा च अन्यासक्तं पतिं प्रशंसन्ती मदनमञ्चुके! हा! हतास्मीति तत्र तं राजसुतं दृष्ट्वा तामुद्दिश्याब्रवीत्। स तु तदाकर्ण्यतां प्रियांस्मृत्वा प्रज्वल-द्विरहानलः तां मानिनींपृच्छतिस्म भद्रे!

का त्वम्? कुतस्त्वया सा मे प्रिया मदनमञ्चुका दृष्टा? किमर्थं वा मामुपेतासि? कथ्यतां सर्वमिति। ततः सा तं विदूरं नीत्वा निशि शृणु सर्वमिति उक्त्वा वक्तुमुपचक्रमे।

अस्ति पुष्करावतौ नाम नगरी। तत्र अग्निपिङ्गलगान्धारोनाम विद्याधरेश्वरः प्रतिवसति। तस्य कन्यकां मां विद्धि। अहन्तु भगवतो वैश्वानरात् पित्रा समाराधितात् सुप्रसन्नात्सञ्जातास्मीति पिता मम प्रभावती समाख्यामकरोत्।

साहमेकदा वेगवतींनाम सखींद्रष्टुं आषाढ़पुरगगच्छंन च तां तत्र प्रापम्। तन्मातुश्च मुखात् तां कुत्रचित् तपस्यन्तीं तथा मदनमञ्चकां त्वत्प्रियां तत्र स्थितां श्रुत्वा तामहं द्रष्टुमगाम्। अपश्यञ्च तामनाहारकृशां पाण्डुरधूसरां वद्धैकवेणीं रुदतीं त्वद्गुणैकपक्षपातिनीं विद्याधरकन्यकाभिरुदश्रुभिस्त्वद्दर्शनश्रवणप्रोद्यदुःखशताकुलैर्वृतां ततस्तयोक्तत्वत्स्वरूपाहं भवदानयने कृतसङ्कल्पा तामाश्वास्य तत्त्कृपया त्वदगुणाकृष्टहृदया विद्याप्रभावाद् त्वामिह स्थितं सम्प्रति बुद्ध्वा तदर्थसिद्धये तवाभ्यासमागतास्मि। त्वाञ्चात्र प्रिय दृष्ट्वा विस्मिता मया हा। दुःखमिति उक्त्वातां तव भार्य्यां स्मारितवत्यस्मि। इत्युक्तः स राजपुत्रः समुत्कणिठत्तस्तां जगाद भद्रे! नय मां तत्र, यत्न सा मे प्रिया, नियुङ्क्ष्वेच यथेच्छसि। तदाकर्ण्य सा प्रभावती तमादाय निशिगन्तुंप्रावर्त्तत। यान्ती च क्वापि ज्वलन्तं अग्निं प्रदक्षिण कृत्वा नरवाहनदत्तस्य तस्य करमादाय युक्त्या तत्रैव गगने उदाहविधिं व्यधात्। दिव्यानां हि सर्वाः क्रियाः सङ्कल्पमात्रप्रधानाः। ततः सा सिद्धकामा तस्मान्नभस्तलात्प्रियं नरवाहनदत्तं पृथिवींवेदिकामिव, नदीर्भूजङ्गीरिव पर्वतान् वल्मीकानिव तानि तान्यन्यानि च कौतुकानि पदे पदे दर्शयन्ती क्रमेण प्रययौ।

अथाकारणमनश्रान्त तृणार्त्तंजलार्थिनं तं नरवाहनदत्तं सा प्रभावती व्योममार्गदवतार्य्यकमपि वनान्तं निनाय। तच्चचन्द्रांशुधवल-सलिलस्य कस्यचित्सरसः समीपमेत्य पीताम्भसः शान्तटषस्य विश्रान्तस्य तस्य तस्मिन्

रमणीये प्रदेशे कान्ता—सम्भोगतृष्णया समुत्पन्नम्। ततः सहसा सम्भोक्तुमर्थिता सा प्रभावती सानुकोशाकृताश्वासाच मदनमञ्चुकां ध्यात्त्वा नरवाहनदत्तं तं न्यवारयत् परार्थप्रतिपन्नाहि महान्तः स्वार्थं नेक्षन्ते। जगादचैनं आर्य्यपुत्र! मा त्वमन्यथा मंस्थाः अत्र मे अभिप्रायोऽस्ति कश्चित्तदत्र कथामेकां शृणु।

पुरा पाटलिपुत्रे कापि गतभर्त्तृका बालैकपुत्रा तरुणी निर्धना रूपवती नारी आसीत्। सा च स्वपरितोषाय परपुरुषसङ्गमं विदधाना गृहात् प्रतिरात्रमितस्ततो गच्छतिस्म। पुत्र! त्वदर्थं मोदकमानेष्यामि प्रातरिति वालं सुतं समाश्वस्य प्रलोभ्य च सा अयाशीत् आनयच्च प्रतिदिनं मोदकम्। स च बालस्तया मोदकाशयागृहे तृष्णीमासीत्। एकदा तयाविस्मृत्य स मोदको नानीतःतञ्च बालकं मोदकं याचमानं सा अब्रवीत् पुत्र! अहं स्वकामुकं वेद्मि, न मोदकम्। तदाकर्ण्य नानया अन्यानुक्तयामोदको मे आनीत इति निरागस्य तस्य नृशंशाहृदयमस्फुटत्। तदहं नाथ! पूर्व्वंत्वां स्वीकरोमि चेत् तदा मयैव कृताश्वामा त्वत्सङ्गममहोत्सवाकाङ्क्षिणीसा मदनमञ्चुका विदितवृत्तान्ता मत्तएव निराशाकुसुमकोमलं हृदयं स्फोटयेत् तदेतेन नृशंस्यभयेन तामनाश्वास्य प्राणाधिकप्रियमपि त्वां नाभिलषामि। इति तयोक्तः प्रभावत्या सानन्दविस्मयःराजपुत्रस्तत्क्षणमचिन्तयत् अहो! नवं नवमाश्चर्यंविदधाति विधिः। येनाचिन्त्योदारचरिता प्रभावती सृष्टा इति ध्यायन् स प्रेम्ण तां स्तुत्वा प्राब्रवीत् सुन्दरि!

तर्हि त्वरितं तत्र मां नय यत्र सा मदनमञ्चुका तिष्ठति। तदाकर्ण्य सा प्रभावतीतमादाय नभसा क्षणेन तं आषाढ़पुरं गिरिं निनाय।सङ्गमयामास च तत्र क्षीणतनुं तां मदनमञ्चुकां नदीमिवदृष्टिपूरेण तेन राजसुतेन। सोऽपि राजपुत्रः वियोगान्ते क्षीणां पाण्डुराङ्गीं तां कान्तां पार्व्वणीमिन्दुकलामिवापश्यत्। तदा तयोः प्राणलाभाय अन्योन्यसमागमः शर्व्वरीचन्द्रमसोरिवजगदानन्दी बभूव। विरहानलसन्तप्तो तौ दम्पती अन्योन्यमाश्लिष्टौ स्वेदच्छलात्द्रवीभूतकायाविवाभूताम्। ततस्तौ प्रभावती-विद्याबलेन निशि कल्पितान् भोगान् स्वरं बभुजति। तद्विद्याबलेन चात्र कश्चन तां मदनमञ्चुकां विना तं नरवाहनदत्तं न ददर्श। अथ प्रातर्वेणीं मुञ्चन्तं तं मदनमञ्चुका प्राब्रवीत् नाथ! मानसवेगे हते मम आर्य्यसुतेन वेणीमोक्तव्या, वा मृताया मे पक्षिभिर्वेणीमोक्तव्या अथवा वह्निना दग्धव्या इति मया पुरा प्रतिज्ञातम्। अस्मिंस्तु जीवति सद्यस्त्वया मुक्तेति मे मनः दूयते। एष वेगवत्या अग्निपर्व्वते क्षिप्तोऽपि न मृतः। त्वञ्चात्र प्रभावत्या विद्याबलाददृश्यः न केनापि विदितः अन्यथा त्वत्समीपे स्थितां मां शत्रोरस्यानुयायिनो दृष्ट्वा न सहेरन्। एवं तया साध्व्याभिहितः स कालानुरोधेन तां सास्त्वयन् प्रत्यभाषत प्रिये! सम्पत्स्यतेऽयं ते कामः अचिरात्तमरिं हनिष्यामि, प्रतीक्ष-स्वमनाक्विद्याः साम्प्रतमधिगच्छामि। इति तां प्रियां समाश्वास्य नरवाहनदत्तः तस्मिन्नेव वैद्याधरे पुरे तस्थौ।

अथ प्रभावती विद्याप्रभावेण स्वयमन्तर्हिता सतीतस्य अतर्क्यंस्वं रूपं व्यधत्त। स च राजपुत्रस्तेन रूपेण तत्रालक्षितस्तया समं ययासुखमतिष्ठत् अशङ्कितप्रकाशोऽपि तद्विद्यासिद्धिं भुञ्जानः। वेगवत्या वयस्येयं मदनमञ्चुकां परिचरति तत्प्रीत्या इति तत्रत्यान् ब्रवीति स्म च। सर्व्व एव मानसवेगानुचराः प्रभावतीहि एषेति तद्रूपच्छन्नविग्रहं तं राजपुत्रं मन्वानाः निःशङ्काः प्रभवे तस्मै संवादं प्रेरयन्।

अथैकदा मदनमञ्चुका तस्मै नरवाहनदत्ताय प्रसङ्गतः स्वं वृत्तान्तमगादोत् नाथ! तदा मानसवेगः स्वमायया मामिहानीय क्रूरकर्म-भिरनुचरैः प्रलोभयितुमयतिष्ट। तावच्चभगवान् भैरवःउद्धृतासिर्लोलजिह्वः स्वयं प्रत्यक्षीभूय हुङ्कारेणाभ्यधात्इह विद्याधरेन्द्राणां भाविनश्चक्रवर्त्तिनः नरवाहनदत्तस्य भार्य्याअस्मासु स्थितेषु त्वया कथं परिभुयतेइति एवं भगवतोक्ने अयं दुरात्मा मानसवेगो मुखेन रुधिरं वमन् धरणीतले पपात। ततस्तस्मिन् देवे तिरोहिते अमीक्षणात् समाश्वस्तःस्वं मन्दिरं गतोऽपि मयि क्रौर्य्येणैवावर्त्तत। अथ भीतां वियोगार्त्तांप्राणत्यागोन्मुखीं मामिह अन्तःपुरचेटिकाः समागत्य सान्त्वयन्त्यः समब्रुवन्पुरा कामपि रूपवतींमुनिकन्यां दृष्ट्वा असौ मानसवेगः सहसा तां हरन् रे पाप! अनिच्छन्तीं परनारीं वलाद्धरतस्ते मूर्द्धाशतधा विदलिष्यतीति तद्वचोभिर्नितरामतप्यत। तस्मादेषः बलात् परनारीं त्वां नैवाभिगच्छेत् तद्विषादेनालम्। देवादेशाच्च ते भूयो भर्त्रासङ्गमोभविता इति एवं ताभिश्चेटीभिरुक्ते सा मानसवेगस्य स्वसा

वेगवतौमां प्रबोधयितुमागमत्। सा तु मद्दर्शनेेनसञ्जातानुकम्पा मां त्वदानयनेन समाश्वास्य यथा त्वां प्राप्ता तथा ते विदितम्। अथ ज्योत्स्नासितैर्वसनैश्चान्तीमूर्त्तिरिव निर्मूला साध्वी दुरात्मनः अस्य मानसवेगस्य माता पृथिवी सौम्येन दर्शनेन सुधयेव मां सिञ्चन्ती समुपेत्य सस्नेहमिदमब्रवीत् वत्से! आहारं त्यक्त्वाशुभोदर्कमात्मानं कथमुपेक्षसे? शत्रोरन्नं कथं भोक्ष्ये इति मा बुद्धिं कृथाः, अस्मिन्राज्ये मे दुहितुर्वेगवत्याः पितृकल्पितो भोगोऽस्ति, सा च ते भर्त्रा परिणीता तव सखी, तस्याश्चधनं तद्भर्त्तृसम्बन्धात् तव च स्वधनमेव, तदेत्य भुङ्क्ष्व, विद्याबलात् सर्व्वं ज्ञात्वा ते सत्यं वदामि। एवमुक्त्वातयासशपथं सुतासम्बन्धबद्धया अवस्थोचितमाहारं तदा भोजितास्मि। ततस्त्वया सहागत्य वेगवत्या एष निर्जितः भ्राता त्वञ्च रक्षितः नातः परमहं किञ्चिदपि वेद्मि। अथ वेगवतीसिद्धिं तच्च दैववचः स्मरन्तीअहं त्वत्प्राप्त्याशावलम्बितान्प्राणान् नामुञ्चम्। ततो महानुभावायाः प्रभावत्याः प्रभावात् त्वं शत्रुसङ्कटेऽपि अस्मिन् मयाधुना त्वं प्राप्तः। अत्र तावदियं मे चिन्ता यदि प्रभावती विलुप्ता भवेत् तव च तद्रूपं नश्येत् ततोऽस्माकं किंनु भवेदिति वादिनीं तां त्रस्तां मदनमञ्चुकां वीरो नरवाहनदत्तः समाश्वास्य स्वस्थामकरेत्। अथैकदा प्रभावत्यां पितृभवनं प्रयातायां तदसान्निध्यात् नष्टतद्रूपं तं नरवाहनदत्तंप्रभातसमये, पुरुषरूपं दृष्ट्वा सर्व्वैःपरिजनः पारदारिक एषः कुत आगतोऽत्र प्रविष्ट इति भयाकुलः वारयन्तीमपि

भीतांमदनमञ्चुकामपास्य राजकुलं गत्वा समभ्यधात्। ततोऽसौराजा मानमवेगोऽस्त्रबलैरन्वितःतं नरवाहनदत्तं धायिवा समन्तात् पर्य्यवेष्टत। अथसा माता अस्य पृथिवी देवीसत्वरमेत्य राजानमब्रवीत् पुत्र! एष मे दुहितुर्वेगवत्याः पतिः पुत्रो मे नैवते हन्तव्यः नचामौ पाददारिणः, एवखलुवत्सराजसुतः नरवाहनदत्तः निजां भार्य्यां मदनमञ्चुकामभिगच्छति। विद्याबलेन सर्वमहं जाने कोपान्धस्त्वं किं प्रेक्षते? अयं शशिकलतिलको मेजामाता तव पूज्यः। एवं तयोक्ते मात्रा सगातमवेगस्तर्हिशत्रुरयं मेइति जातामर्षस्तं जगाद। ततोऽसौ माता जामातृस्नेहविद्वला तं पुनरब्रवीत् पुत्र। अस्मिन्वैद्याधरे लोके नाधर्म्यःकर्तुं त्वया शक्यते इह विद्याधराणां धर्म्मनमा विद्यते। तत्र यद्यस्यदोषो निर्णीयते तदास्य यत् शोभने तत्क्रियतां अन्यथाचेत् विद्याधरा विकुर्व्वोरन्तदा देवा न सहिष्यन्ते इति तस्या मातुर्वचनं गोरवात् प्रतिपद्य स मानसवेगस्तां सभां गच्छन्तं नरवाहनदत्तंवबन्ध।स च वीरो नरवाहनदत्तस्तं बन्धमसहिष्णुस्तोरणात् स्तम्भमुत्पाट्य बहून् तद्भृत्यानबधोत्। तेषाञ्च हतानां मध्यादेकस्य खड्गमाकृष्य तेन अन्यानपि दिव्यपराक्रमान् तान् जपान्। ततो मानसवेगस्तं दिव्ययामायया भार्य्यासमेतं वबन्ध निनाय च तां सभाम्। तत्र सुधार्म्मायांसुरा इवभेरीमहाशब्दसमाहृता बहवो विद्याधराः समन्ततोमिलन्तिस्म। तत्र चागत्य राजा विद्याधरेश्वरो वायुपथोनाम रत्नसिंहासनोपरि समुपाविशत्। अथ स

मानसवेगः चामरैर्वीज्यमानस्य तस्य अग्रतस्तिष्ठन् पापः प्राब्रवीत् प्रभो! मर्त्त्योऽयमस्मदन्तःपुरदूषकः स्वसुश्च मे हठपरिणेता शत्रुरेव तदयं यथाधर्म्ममनुशास्य इति। तदाकर्ण्य तेन सभापतिना प्रत्युत्तरं प्रति पृष्टः स वीरो नरवाहनदत्तः विस्रब्धमब्रवीत् सा सभा यत्र सभ्याः सन्ति ते सभ्याः ये धर्म्ममाहुः। स धर्म्मः, यत्र सत्यं स्यात्, तत् सत्यं यत्र न छलम्। बद्धोऽहं मायया अत्रैव भूमौ स्थितः, अयं पुन रासनस्थश्च मुक्तश्च अत्र नौ को विवादः समः?।एतद्वायुपथः श्रुत्वा तं मानसवेगं भूमौ उपावेशयत् तञ्च नरवाहनदत्तं मानसवेगात् मुक्तमकारयत्। ततः सर्वेषु शृण्वत्सु स नरवाहनदत्तः वायुपथाग्रतः प्रतिवचः समभ्यधात्हृतानीतामनेन मे भार्य्यांमदनमञ्चुकां निजां प्राप्तोऽस्मि चेत् कस्य शुद्धान्तो मया दूषितः? मम रूपेण विप्रलोभ्य यदि अस्य भगिन्या अहं पतिर्वृतः तत्र का मे अपराधिता? सकामोऽस्मि चेत् कस्य कुत्र कामो न जायते? एतदाकर्ण्य वायुपथो विमृष्याब्रवीत् अयं तावत् महात्मा धर्म्ममाह मानसवेग! त्वमस्मिन् अधर्म्मं मा कृथा इति तेनोक्तोऽपि मोहान्धो अधर्म्मान्न न्यवर्त्तत। अथ तस्मिन्वायुपथे प्रस्थितुमुद्यते मानसवेगेन सह तत्र धर्म्मानुरोधिनो नरवाहनदत्तस्य सन्नद्धसैनिकः सुमहान् संक्षोभः समभवत्। राजपुत्रोनरवाहनदत्तः तदाब्रवीत् धर्म्मसनोपविष्टा धीरा न्यायैकदर्शिनः न कदाचित् दुर्बलं वलिनं परं आत्मीयञ्च न जानन्ति विचारो यथा निर्णीतस्तथा आस्तां साम्प्रतं मायांविहायमया सह स्पष्टं युध्यस्व यावदेकप्रहारेण त्वां हन्मि

पश्य मे पौरुषम्। इत्थम् अन्योऽन्यं जातकलहेषु विद्याधरेषु दिव्यकन्यकासु च पश्यत्सु सहसैव सभान्तरस्थात् स्तम्भोत्तमा-त्विभिन्नमध्यात् भगवान् भैरवो देवः विनिर्ययो। व्याप्ताम्बरः अञ्जननिभः विद्युल्लता तरलदीप्त-विलोचनार्च्चिःदण्डप्रभा विततपङ्क्तिपतद्वलाको गर्ज्जन् महाप्रलयमेव इव प्रचण्डः स देवरे शठ! भाविनो विद्याधरचक्रवर्त्तिनोऽस्य नरवाहनदत्तस्य पराभवो नास्ति इति उच्चैराघोषयन्तं मानसवेगमधोमुखं तिरश्चकार हर्षयामास च वायुपथम्। अथ मगवान् तं नरवाहनदत्तंरक्षणाय भुजाभ्या-मादाय शुभमृष्यमूकं पर्व्वतं प्रापय्य स्थापयामास तिरोदधे च। अथ सभायां विद्याधराणां सम्भ्रमः प्रशशाम। वायुपथोऽपि यथागतं स्वैरनुचरैः स्वालयं जगाम। मानसवेगश्च तां मदनमञ्चुकां पुरतः कृत्वा समुद्विग्नः हर्ष विषादाकुलितः आषाढ़पुरं प्रतस्थे।

—————

अथ शताधिक सप्तमस्तरङ्गः।

मन्ये विधिः पुरुषस्य सुखदुःखयोर्धीरत्वंमुहुः परीक्षते यदेककं पदे पदे तं नरवाहनदत्तंविदेशेषु प्रक्षिप्य तैस्तैदारैश्चयोजयित्वा पुनः पुनः व्ययोजयत्।

अथ तस्मिन् ऋष्यमूकाद्रौ स्थितमेकचरं तं नरवाहनदत्तं सा प्रिया प्रभावतीसमागत्य अब्रवीत् नाथ! मदसन्निधिदोषेणअवसरं लब्ध्वामानसवेगेन दुरात्मना

गृहीतोऽभवःअहञ्च तस्य पापाभिप्रायं विदित्वा विद्याबलेन तदानीं देवाविर्भावाडम्बरं विधाय इह त्वामानीतवत्यस्मि नास्मिन् गिरो बलवतामपि विद्याधाराणां विद्याप्रपञ्चः क्रमते सिद्धं हि क्षेत्रमिदं विद्याप्रभावोऽत्र न सिध्यति तन्मेदुःखमतीवयत् कथं त्वमत्र वन्याहारेण वत्स्यसि, इत्युक्तवत्या तथा कान्तया सार्द्धंकान्ताकाङ्क्षी स नरवाहनदत्तस्तत्र तांमदनमञ्चुकां ध्यायन् तस्थो। वुभुजे च तत्रत्यानि फलानि मूलानि सह पम्पा सलिलैः। इत्थं वृक्षमूलेषु गुहासु च विचरन् तद्देशवनवासिनो रामस्य वृत्तमनुययौ। सा च प्रभावती तस्मिन् रामाश्रमान् दृष्ट्वा तस्मै रामायणवत्तान्तं विनोदनार्थमवर्णयत्।

इह ससौमित्रिः रामःसीतया सह तरुमूलेकृतकुटीरः तापसैः सह न्यवसत्। सा च सीता अनसूयावदत्तेन अङ्गरागेण आमोदित कानना वल्कलधारिणीमुनिपत्नीनां मध्येसुखमतिष्ठत्। अत्र गुहायां बालिना दुन्दुभिर्नाम दैत्यः निहतः यत्तयोर्वानरपुङ्गवयोर्वालि-सुग्रीवयोर्वैरकारणमभूत्। सुग्गीवोहि भ्रमन् दैत्येन दुन्दुभिना हतं वालिनं भ्रातरं मत्वा मां पुनराक्रमेदितिभयात् गुहाया द्वारं पाषाणैःपिधाय प्रस्थितः। ततव बालो तं देत्यंनिहत्य द्वारं रुध्दंदृष्ट्वा पादप्रहारेण भित्त्वा गृहमागत्य सुग्रीवं राज्यकामोऽत्र मामबध्नादिति निरवासयत्। स तु सुग्रीवः पलाय्य अस्मिन् ऋष्यमूके हनुमत्प्रभृतिभिः स्वानुचरैः सार्द्धं वासमकल्पयत्।

अथैकदा रावणोनाम राक्षसपतिः हेमहरिणव्याजेन

वञ्चित चेतसो रामस्य जानकींजहार। ततः स रघुपतिं सीता प्रवत्तिलाभाय बालिनिधनार्थिना सुग्रीवेण सममत्रागत्य सख्यमकरोत्। विश्वासयामास चात्मानं समधिकवलं वालिवधसमयेएकेन पत्रिणा सप्ततालान् भित्त्वा। ततश्च तेन सह सुग्रीवेण किष्किन्ध्यां गत्वा हेलयाएकेन मुक्तेन इषुणा तं बालिनं हत्वा सुग्रीवं तत्पदे न्यवेशयत्। अथ सीतान्वेषणार्थं सुग्रीवानुचरेषु हनुमत्प्रमुखेषु चतुर्द्दिशं प्रयातेषु तेन रामेण इह वर्षासु महामेधैर्विराविभिः पतद्धाराश्रुतीयैः समदुःखैर्विरासितम्। ततश्च सम्पातिवचनात्हनुमान् तीर्णजलधिः लङ्कामेत्य सीताप्रवृत्तिंविज्ञाय राम सकाशं प्रत्याजगाम। अथ ज्ञातसीताप्रवृत्तिर्दाशरथिस्तैः कपिवलैः परिवृतोऽब्धिं सेतुना बद्धालङ्कायां गत्वा तञ्च लङ्केश्वरं रावणं सवंशं निहत्य सीतामुद्धधार। आर्य्यपुत्र! इत्थंत्वमपि कल्याण मासासि आपत्सु धीरान् पुरुषान्स्वयं सम्पदः समायान्ति। इत्येवं कथयन्त्या तयाप्रभावत्या सह नरवाहनदत्तः क्रीड़न् इतस्ततो विचरतिस्म।

एकदा पम्पायाः शोभां विलोकयन्तं तं उभे विद्याधर्य्यौधनवत्यजिनावत्यौ दिवः समवतीर्य्यउपजग्मतुः याभ्यां स राजपुत्रः गन्धर्व्व-पुरात् श्रावत्यां पुरा प्रापितः। यत्र भगीरथयशानाम कन्या तेन पर्य्यणीयत। अथ प्रभावत्या अजिनावत्यां सख्यतो मिलितायां सा धनवती तं नरवाहनदत्तमेवमब्रवीत् एषा अभिनवती प्राक् तुभ्यं मया वाचा दत्ता तस्मादिदानीं एनां परिणय आसन्नतरोहि ते समभ्युदयः। एतत् तस्या वाक्यं सा प्रभावती सखीस्नेहाकुला

नरवाहनदत्तश्चतथेति अभ्यनन्दताम्। ततो धनवततामजिनावतींसुतां तस्मै वत्सेश्वरसुताय यथाविधिप्रादात्। इत्थं सा स्वविद्याप्रभावेण कल्पितसम्भारं सुतोद्वाहमङ्गलं निव्वर्त्त्यतं नरवाहनदत्तं प्राब्रवीत् पुत्र! न त्वया यत्र कुत्रापि चिरं स्थातुं युक्तं मायिनो हि विद्याधराः नचेह कार्य्यमस्ति ते तद्गच्छ भार्य्यायुक्तः साम्प्रतं कौशाम्बीमेव, अहञ्च चण्डसिंहेन पुत्रेण सह तत्रैवेष्यामि सहि स्वकैर्विद्याधरेैस्ते अभ्युदयाययतते। एवमुक्त्वासा धनवती सितवसन प्रभया सज्योत्स्नामिव दिवापि दिवं कुर्व्वाणा समुदययौ। प्रभावत्यजितावत्यौ च तं पतिं नरवाहनदत्तं नभसा कौशाम्बीमेव निन्यतुः। स च तस्यां नगर्य्यां व्योम्ना उद्यानमवतारितः स्वैः परिजनैरदर्शि। आगतोऽयं राजपुत्रः दिष्ट्या वर्द्धामहे वयं इत्येव तत्र महान् कलकलः परिजनानां सर्व्वतः समदभूत्।

अथाकाण्डसुधासमं वचनमाकर्ण्य राजा वत्सेश्वरः सोत्सवः प्रियया वासवदत्तया पद्मावत्या च वधूभिश्च सार्द्धं समुपागमत्। यौगन्धरायण—प्रमुखाश्च राजमन्त्रिणः कलिङ्गेसेन—गोमुखादयश्च कुमारसचिवाः सर्वे ग्रीष्मेपथिकास्तड़ागमिव तं यथायथमुपाजग्मुः दृष्ट्वा च तं रुक्मिणीसत्यभामाभ्यामिव ताभ्यां पत्नीभ्यां समेतं कृष्णमिव तं राजपुत्रम् आनन्दबाष्पपरीतनेत्राःसहसाभवन्। वत्सराजश्च देव्यौ च वासवदत्तापद्मावत्यौ चिरात् प्राप्तं पुत्रमालिङ्ग्य अङ्गेषु कण्टकितेषु प्रीतमिव तं मोक्तुं न शेकुः। ततः आहततूर्य्येमहोत्सवे वर्त्तमाने सा नरवाहनदत्तस्य भार्य्या वेगवतः सुता मानस-

वेगस्य भगिनी वेगवती नभसावत्तीर्य्य सिद्धविद्याप्रभावात्विदितवृत्तान्ता समागता शशुरस्य श्वश्रूणाञ्च पदेषु पतित्वा तं पतिं चरणयोः प्रणम्य प्राब्रवीत् नाथ! त्वत्कृते दुर्वलीभूता विद्याः पुनस्तपोवने साधयित्वा कल्याणिनस्तव पार्श्वमागतास्मि एवमुक्तवत्यां तस्यां पत्या तैश्चान्यैःप्रभावत्या अजिनावत्याचाभिनन्दितायां सा धनवतीममाययौ। तदनु च विद्याधराधिपा आच्छादिताम्बरतलैर्मेघैरिववलेर्वृताः समाजग्मुः। तस्याश्च धनवत्याः सुतो महाभुजश्चण्डसिंहः अमितगतिर्नाम तदीयो महाबलः सुहृद्, स च प्रभावत्याः पिता महाबलः पिङ्गलगान्धारः स च पूर्वप्रतिपन्नसभापतिर्वायुपथः स च शूरो राजा रत्नप्रभायाः पिता तत्पुत्रश्च बलसमन्वितो वज्रप्रभः गन्धर्वराजश्च गन्धर्वदत्तया स्वसुतया समेतःस च सागरदत्तः सचित्राङ्गदः क्रमेणाजगाम। इत्थमागताश्च ते राज्ञा वत्सनृपेण यथायथ मर्च्चिताः सपुत्रेण आसनेषु समुपाविशन्।

अथ राजा पिङ्गलगान्धारो जामातरं सदसि स्थितं नरवाहनदत्तमब्रवीत् वत्स! त्वमस्माकं सर्वेषां चक्रवर्त्तीदेवनिर्म्मितः सर्व च वयमतिस्मेहात् त्वामभ्युपगताःइयं धनवती देवी ते श्वश्रूर्नियतव्रता दिव्यज्ञानसम्पन्ना साक्षसूत्रा कृष्णाजिनवासा सावित्री सिद्धविद्या विद्याधरगणैः सदा वन्दिता साक्षात् भगवतीव त्वां रक्षितुं कृतप्रयत्ना वर्त्तते। तत्ते कार्यसिद्धिरस्ति परमिदानीं यदहं ते ब्रवीमि तत् शृणु। इह विद्याधराणां द्वौवैभवौ हिमाचलेस्तः उत्तरो दक्षिणश्च तच्छृङ्गभूमिगतौ उत्तरस्तुकैलाशात् परतः

दक्षिणस्तु अर्याक्। तत्र उत्तराविपत्यार्थमिदानीमेषोऽमितगतिः दुश्चरं तपं कृत्वा शङ्करं पर्य्यतोषयत्। तेन च भगवता नरवाहन-दत्तश्चक्रवर्त्ती ते समीहितं करिष्यतीति आदिष्टोऽयं त्वामभ्युपागतः। तत्र मन्दरदेवोनाम महान्सुदुर्मति नृपतिरस्ति। स खलु बलवानपि प्राप्तविद्यस्य ते नासाध्यो भविष्यति। यस्तु दक्षिणतः गोड़मण्ड इति राजाध्यास्ते स हि विद्याप्रभावेण दुष्टात्मा अतिदुर्जयः स च शत्रोस्ते मानसवेगस्य परमः सुहृत्। यावत् त्वं विद्याया पारदर्शी न भवति तावत् तत्र ते कार्य्यंन सेत्स्यति। तदिदानीं त्वं स्वोत्कर्षसाधनं महत् विद्यावलं संसाधय। इत्थं पिङ्गलगान्धारेणोक्ते धनवतीप्रोवाच पुत्र! राजा पिङ्गल-गान्धारो यथा वदति तत्तथैव, तस्मात् सिद्धक्षेत्रं गत्वा विद्यासिद्ध्यर्थमीश्वरं प्रसादय, तत्प्रसादं विना हि कुतः प्रकर्षः? अमी मिलिता राजानस्त्वामत्र रक्षन्ति। ततपिङ्गलोऽवादीत्एवमेतत् अहं सर्वेषामेव पुरः अग्रयायी भवामिएष तावत्विजयः क्रियतामिति।

अथ तथैवेति निश्चित्य प्रस्थानमङ्गलं विधाय पित्रोरुद्बाष्पयोर्गुरुणाञ्च पादौ प्रणम्य तैश्चकृताशीर्भार्य्याभिः सचिवैश्च सह अभितगते-र्विद्याधर राजस्य प्रज्ञया कल्पितां शिविकोत्तमामारुह्य राजपुत्रः कल्पान्त पवनोद्धूत सागरसलिलनिभैर्वलैर्नभः स्थगयन्दिगन्तेषु सेनाकोलाहल प्रतिध्वानैः खेचराणां चक्रवर्ती आगत इति संवादयन्निव प्रतस्थे। क्षणेन च तैःगन्धर्व्वपति विद्याधरराजैर्धनवत्या च स सिद्धक्षेत्रपर्वतमनीयत। तत्र सिद्धैरादिष्टव्रतः प्रातः

स्नायीफलमूलभुक् भूमिशायीशङ्करमाराधयं स्तपश्चचार। ते च खेचराणां राजानः दिवानिशमतन्द्रिताः सर्वतः रक्षांकुर्व्वाणा स्तं परिचार्य्यतस्थुः। ताश्चविद्याधरकुमार्य्यः तपस्यन्तं तं समुत्सुका नेत्रप्रमाभिः संवीत कृष्णाजिनमिव विदधिरे। अपराः पञ्च विद्याधरकन्यकाः तं दृष्ट्वा मदनानलसन्तप्ता मिथः समयं चक्रुः। अयं पञ्चभिरस्माभिः सखीभिर्युगपत् पतिर्वरणीयः विवाहश्च तथा भेदतो न कार्य्यः। यदि कापि अस्माकं पृथक् अनेन विवाह कुर्य्यात् तदा अन्याभिस्तां सखीद्रुहमुद्दिश्य अग्निप्रवेश्य इति एवं तासु दिव्यासुकन्यकासुतं विभाव्य क्षुभ्यन्तीषु तत्र तपोवने सहसा महोत्पाताः प्रादुरासन्महारौद्रोवानुर्भद्रान् द्रुमानुन्मूलयन् शूरा रणे एवं पतिष्यन्तीति वदन्तिका ववो।अत्ररणे किं स्यादिति भयादिव भूमिरकम्पत। पर्वतान्भीतानामवकाशदानार्थमिव व्यदीर्य्यन्त। विद्याधराः। प्रभु यत्नतो रक्षत रक्षत इत्यब्रवीदिव घोरशब्दं मदत्र भस्तलम्। स तु नरवाहनदत्तः तस्मिन्नुत्पातसम्भ्रमेऽपि भगवन्त त्रिलोचनं ध्यायन्निष्कम्प एवासीत्। ते च वीरा गन्धर्व्वराजविद्याधरेश्वरा अनिष्टाशङ्किनः कृतसन्नाहास्तं रक्षन्तः समवतस्थिरे। वनान्ताश्च व्याधूतासिलता अहितागमशंसिन उत्पातान् भर्त्सयन्त इव सिंहनादान्

ततो X XXXXXअस्मात्व्योम्नि कल्पान्ताम्बुदमेदुरं विद्याधरवलंXXXXXXमुञ्चददृश्यत। तदा सा धनवती विद्या-

वलेन प्रोवाच वीराः! पश्यत सोऽयं गौरमुण्डःमानसवेगेन सह युयुत्सुरभ्यागत इति। ततोऽसौ गौरमुण्डःमानसवेगेन सह तान् उदायुधान् सगन्धर्व्वान् विद्याधरेन्द्रानभ्यधावत क्वायं मानुषः, क्ववयं द्युचराः, तदेतत्पक्षपातिनां दर्पमद्य अपनयामीति वादिनं तं राजा चित्राङ्गदः, गन्धर्व्वाणामधीश्वरो राजा सागरदत्तश्च क्रोधात् प्रत्यभियुयोज।अन्ये च महारथाः सेनासमुदयान्विताः सिंहा इव गर्ज्जन्तस्तं पापं मानसवेगमभ्यधावन्। सैन्यरेणुभिर्धनैरिवाकीर्णंशस्त्रज्वालाभिर्विद्युद्भिरिव समुद्भासितं पतद्भिः रक्तोधैरम्बुभिरिव समन्तात् व्याप्तं तत् युद्धं दुर्दिनमिवाभवत्। ते च वीराश्चित्राङ्गदादयः शोणितासवपूर्णं शत्रुशिरोवलिभिराकीर्णं भूतमहायोगमिव अकुर्व्वन्। क्रमेणकबन्धैर्ग्राहैरिव व्याप्ता आयुधैः पन्नगैरिवाकीर्णाः मेदोभिर्हिण्डीरराशिभिरिवाचिताः शोणितापगाः वहन्ति स्म। इत्थं हतसैन्यः क्षतविक्षताङ्गः गौरमुण्डः पर्व्वाराधितप्रसन्नां गोरिविद्यां सस्मार। स्मृता च सा तत्क्षणादाविर्भूय त्रिनेत्रा त्रिशूलधारिणीतान् प्रवरान् नरवाहनदत्तीयान् वीरान् अमोहयत्। ततोऽसौ गौरमुण्डः पुनर्लब्धवलःसिंह इव नदन् प्रधाव्य बाहुयुद्धाय नरवाहनदत्तमभ्यपतत्। ततश्च मायीस तां विद्यां स्मरन् बाहुयुद्धं कुर्व्वन्तं तं नरवाहनदत्तं बाह्वोरादाय खमुद्ययौ। धनवती विद्याप्रभावरक्षितन्तु तं हन्तुं न शशाक। परं अग्निपर्व्वते तं निचिक्षेप। सोऽपि मानसवेगस्तत् सचिवान्गोमुखादीन् गृहीत्वा गगनमुत्पत्य अनास्थया दिक्षु प्राक्षि-

पत्। तत्क्षणाञ्च धनवतीप्रयुक्तया विद्यया मूर्त्तिमया उत्क्षिप्तास्ते रक्षित्वा महीतले स्थाप्यन्ते स्म।ततः सा विद्या तान् एकैक-शःसिद्धकार्य्यंकुशलिनं प्रभुं शीघ्रमासाद्य इति समाश्वास्य तिरोदधे। ततो विजितमस्माभिरिति मन्यमानो गोरमुण्डः सह मानसवेगेन स्वान्गृहानगमत्ते च चित्राङ्गदादयः नरवाहनदत्तः सिद्धकार्य्यःसत्वरमेष्यति, न तस्यानिष्टमस्तीति धनवत्याभिहिता गतमोहाः स्वान् स्वान् आवासान् यथागतं जग्मुः। सा च धनवती सपत्नीभिः सहितां स्वसुतामजिनावतीं गृहीत्वा स्वंगृहं ययौ। मानसवेगश्चविजयप्रहृष्टो गत्वा तांमदनमञ्चुकां प्रोवाच सुन्दरि! स ते भर्त्ता हतः, तत् साम्प्रतं मां भजेति सापि तत्पुरस्था हसन्तौ तं स एव वो हन्ता, न तस्य कश्चित् हन्ता, यतोऽसौ देवनिर्म्मित इति प्रत्युवाच। तदा कोऽपि दिव्यः पुमान् द्विषा वह्निपर्व्वते क्षिप्तं तं नरवाहनदत्तमापत्याग्रहीत् अनैषीच्च रक्षित्वा शीतं मन्दाकिनीतटम्। तेन च राजसुतेन को भवानिति पृष्टः स पुरुषस्तं जगाद देव! अहं अमृतप्रभनामा विद्याधरः। साम्प्रतं भवतो रक्षार्थं भगवता शम्भुना प्रेषितः। अयञ्च ते अग्रतः स्थितः तन्निवासः कैलासाद्रिः। अत्रावाप्य श्रियं त्वं निर्विघ्नं श्रेयोऽवासासि, तदेहि अत्र, त्वां नयामीति उक्त्वातत्र तत्क्षणात् तं प्रापय्य आमन्त्र्यच प्रययौ। स च नरवाहनदत्तस्तं कैलासं सम्प्राप्य तपसा तदग्रस्थं विनायकं तोषयामास। आराधित प्रसन्नेन च तेन दत्ताभ्यनुज्ञः गिरिशस्याश्रमं प्रविश्य नियमक्षामो हारि स्थितं नन्दिनं ददर्श। च स

नन्दी कृतप्रणामप्रदक्षिणं तं दृष्ट्वा सदयः प्राब्रवीत् वत्स! प्रायः सिद्धोऽसि, अधुना ते विघ्नाः प्रशान्ताः तदिहस्थ एव भगवन्तमाराधयन् आप्रसादात् तपश्चर। सिद्धयोहि दुरितघ्नीं तपःशुद्धिमपेक्षन्ते। इति तेन नन्दिनोपदिष्टः देवं शम्भुं देवीञ्च पार्श्वतींध्यायन् अनिलाशनः सुघोरं तपश्चचार।

अथ तपसा तुष्टः स भगवान् शिवस्तया गिरिजया सह प्रत्यक्षीभूय प्रह्वंतमेवमादिशत् वत्स! साम्प्रतं सर्व्वेषां विद्याधराणां चक्रवर्त्ती भव। सर्व्वातिशायिन्यश्च सर्व्वा विद्यास्ते प्रादुर्भवन्तु। मत्प्रभावाच्च त्वं शत्रूणामजेयो भविष्यसि अच्छेद्योऽमेद्यश्च सन् अखिलान् रिपून् हनिष्यसि, त्वयि च दृष्टे त्वद्विद्विषां विद्याः का अपि न स्फुरिष्यन्ति। गोरीविद्यापि त्वदधीना भविता इति यथेप्सितान् वरान्हरःब्रह्मनिर्म्मितञ्च चक्रवर्त्ति महापद्मविमानं तस्मै प्रादात्। ततस्तस्मिन्नेव क्षणे तस्य सर्व्वाः सविग्रहा विद्याः किमादिशसि? यद्वयं कुर्म्मइत्याज्ञासाधनोद्यताप्रादुरासन्। इत्येवंनरवाहनदत्तः सिद्धकामः प्रणम्य भगवन्तौ जगतः पितरौ ताभ्यामनुज्ञातः तत् दिव्यंपद्मविमानमधिरुह्य सिद्धचारणतीतयशाः प्रथममेव तस्य अमितगतेश्चक्रपुराख्यं विद्याभिरावेदितमार्ग पुरं प्रायात्। सोऽपि अमितगतिस्तमारूढ़विमानं नभसा प्राप्तं दूरात् दृष्ट्वा कृतप्रणतिः सहर्षं स्वगृहं प्रविशयत्। विदिततपःसिद्धिश्चमुदा तस्मै नरवाहनदत्ताय सुलोचनां नाम स्वसुतां प्रथममुपायनं प्रादात्। सोऽपि नरवाहनदत्तः विद्याधरलक्ष्म्या इव

तयाप्राप्तया परमप्रीतः तत्र महासम्भार समुदयं महोत्सवंकुर्व्वन् सुखमवतस्थे।

<MISSING_FIG href="../books_images/U-IMG-1722699256Screenshot2024-08-03210357.png"/>

अथ शताधिकाष्टमस्तरङ्गः।

अथान्येद्युस्तत्र चक्रपुरे आस्थानवर्त्तिनं तं नूतनं चक्रवर्त्तिनं नरवाहनदत्तं कश्चिद् वेत्रहस्तः पुमान् नभस्तलादवतीर्य्यउपगम्य प्रणम्य च व्यजिज्ञपत् देव। मां चक्रवर्त्ति प्रतीहारं क्रमागतं पौररुचिदेवनामानं स्वमेवार्थमुपागतं विद्धि। तदाकर्ण्य स चक्रवर्ती अमित-गतेर्मुखमैक्षत। तेन च सत्यमयं प्रतीहार एव इति विज्ञप्तः स तं तथेति प्रतिपद्य अभ्यनन्दत।

अथ प्रभावात् विदितवृत्तान्ताः सर्व्वे चण्डसिंह-पिङ्गल-गान्धर-वायसख-सागरदत्त-चित्राङ्गदादयः गन्धर्व्वविद्याधरेश्वराः ताश्चसर्व्वा राजपत्न्यःधनवत्या वेगवत्या चसह सैन्यवृन्दैःसंरुद्धनभसः समापेतुः। चक्रवर्त्तिनश्चापरे परतेजोऽसहिष्णुत्वं सूचयन्त इव समुपेत्य तस्य पादयोर्निपेतुः। सोऽपि स्वागतेन तान् यथार्हं सम्मानयामास। प्रणनाम च गौरवेण धनवन्याश्चरणौ। सापि प्रीता तं जामातरमाशी-र्भिरभ्यनन्दयत्। तेन च प्रभुणा कथितसिद्धिवृत्तान्ताः सर्व्वे चण्डसिंहादयः सुतरां प्रमोदमगमन्। अथ पार्श्वस्थिताः सर्व्वाः पत्नी-र्वीक्ष्यस चक्रवर्ती तां धनवतीं क्व ते मे सचिवा इति पप्रच्छ। सा प्रत्यब्रवीत् वत्स! ते मानसवेगेन नभसः क्षिप्ताः मया पुनर्विद्यया पृथक् संरक्ष्य

स्थापिताः। ततः स चक्रवर्ती रूपिणीं विद्यामादिश्य तानानाययत्। आगतांश्च तान् पृष्टकुशलान् पादपतितान् अभ्यधात् कथमेते दिवसाः कुत्र युष्माभिरतिवाहिताः एकैकशः सर्व्वैःकथ्यतामिति। ततः प्रथममेव स गोमुखः स्ववृत्तान्तमाचचक्षे देव! तदा द्विषता क्षिप्तं मां कापि देवी हस्तयोरधात्। ततः समाश्वास्य दूरेऽरण्ये संस्थाप्य मां तिरोदधे। ततोऽहं दुःखितः प्राणान् त्यक्तुंयावदुद्यतोऽभवं तावत् कोपि तापसः समुपेत्य गोमुख! मा मैवं सिद्धार्थं प्रभुमचिरात् द्रक्ष्यसि इति सान्त्वयित्वा न्यवारयत्मया च कस्त्वं कथम् एतत् वेत्सीति पृष्टः स एहि मे आश्रमं वक्ष्याम्यहं तत्रैवेति मां प्रत्यब्रवीत्। ततोऽहं मदीयेन नामज्ञानेनैव सूचितज्ञानसम्पदा तेन सह शान्तं तदाश्रम-मगच्छम्। तत्रच मां कृतातिथिसत्कारं स स्वां कथामवर्णयत्।

पुरा कुण्डिनाख्यायां पुरि नागस्वामी नाम द्विजोऽहमासम्। सोऽहं पितरि स्वर्गतेपाटलिपुत्रं गत्वा विद्यार्थी तत्रस्थं जयदत्तं नामा-पाध्यायमुपाचरम्। यदाहं शिक्ष्यमाणोऽपिजाड्यात् एकमप्यक्षरं बोद्धुंनाशकं तदा तत्रस्थाः सर्व्वे छात्रा मामुपाहसन्। ततोऽह-मवमानेन वैराग्यमास्थितः विन्ध्यवासिनीं द्रष्टुं प्रस्थितः पथि वक्रोलाख्यं पुरं प्रापम्। ततस्तत्र भिक्षार्थं प्रविष्टाय मह्यं कापि गृहिणौ एकस्मात् गृहात् भिक्षया सह रक्तकमलमेकं ददौ। तद्गृहीत्वा अपरं गृहं तथैव भिक्षार्थं प्राप्तं मां वीक्ष्य तत्रत्यागृहिणीप्राब्रवीत् हा धिक्! भवान् योगिन्या

समाक्रान्तः। पश्य अनया रक्ताम्बुजव्याजेन हस्ते ते नृहस्तः प्रदत्तः। तदाकर्ण्य यावदहं पश्यामि तावत् स पाणिरेव सत्यं नाम्बुजं दृष्टम्। ततश्च तत्क्षणं तं परित्यज्य अस्याः पादयोः पतित्वा अब्रुवं मातः! कुरु कृपां यथाहं जीवामीति तदाकर्ण्यसा मामवादीत् ब्रह्मन्! इतो योजनं गच्छ ततोऽस्ति करभके ग्रामे देवरक्षित इति कश्चिद् द्विजः। तस्यास्ति कपिला साक्षात् सुरभिरिवोत्तमा गोः। सा हि अद्य शरणं प्राप्तं त्वां निशायां रक्षिष्यति। एवं तयोक्तः सभयोऽहं सत्वरं व्रजन् तस्मिन् दिनक्षये तं करणकं ग्राममासाद्य तस्य द्विजस्य गृहं प्रविष्टः तां तत्र कपिलां दृष्ट्वा प्रणम्य च देवि! त्वामहं शरणमापन्नःरक्ष मामिति व्यजिज्ञपम्।

एतस्मिन्नन्तरे सापि योगिनी अन्याभिः सह नक्तं मन्मांसरुधिरार्थिनी मां तर्ज्जयन्तीतत्रागात्। तदालोक्य सा कपिला मां खुरान्त-र्निवेश्य सर्व्वांनिशां ता योगिनीः योधयन्ती अरक्षत्। अथ प्रातस्तासु गतासु-सा कपिला व्यक्तया गिरामामवोचत् पुत्र! नाहमद्य त्वां रक्षितुं शक्ष्यामि तद्गच्छ शीघ्रमितः पञ्च योजनानि अरण्यस्थं शिवमन्दिरम्। तत्रास्ति भूतिशिवोनाम ज्ञानी महापाशुपतः। स त्वामेकां रात्रिं शरणागतं रक्षिष्यतीति। तदाकर्ण्यं तामहं प्रणम्य ततः प्रातिष्ठे। क्रमागतं प्राणार्थी व्रजन् तं भूतिशिवं सायं प्राप्य शरणमध्य-गच्छम्। तत्रापि ता योगिन्यः नक्तं तथैवागच्छन्। ततः स भूतिशिवःमामन्तर्गृहं प्रवेश्य स्वयं त्रिशूलपाणिर्द्वारि तिष्ठन् ता

योगिनीर्निरभर्त्सयत्। ततश्च ताः पराजित्य प्रातर्मां भोजयित्वा स महात्मा मामवादीत् ब्रह्मन्! नाहमद्य तां रक्षितुं शक्ष्यामि तदितो योजनदशकेषु सन्ध्यावामाख्ये ग्रामे वसुमतिं नाम द्विजं गच्छ। तत्र तृतीयां रात्रिमद्य समुत्तीर्य्यमोक्ष्यसे इत्युक्तस्तेन तं प्रणम्य ततः प्रस्थितवानस्मि गच्छतश्चाध्वदैर्घ्यात् अन्तरा एव रविरस्तमगात्। ताश्च योगिन्यः पृष्ठतः समागत्य नक्तंमामगृह्णन्। यावच्च ता मां गृहीत्वाहृष्टा विहायसा गच्छन्ति, तावत्तासांपुरः अपरा योगिन्यः सहसा समापतन्। उदभूच्च पक्षयोरुभयोस्तुमुलं युद्धं नभसि। तेन च तासां हस्तात् अहमतिनिर्ज्जने देशे भ्रष्टः समुत्थाय तत्र एकं अपावृतेन द्वारेण प्रविशेति वददिव मां महामन्दिरमपश्यम्। तत्राहं प्रविश्य सभयं कामपि अद्भुताकारां नारीशतसेवितां प्रभया प्रदोषज्वलितामिव प्रकाशमानां मदनुकम्पया धात्रा सृष्टां रक्षामहौ-षधिमिव नारीमद्राक्षम्। ततश्च क्षणं विश्रम्य समाश्वस्य च मया पृष्टा सा मामभाषत भद्र! अहं यक्षिणी सुचित्रा नाम शापादिहैवं स्थिता, मानुषेण च मे सङ्गः शापशान्तये प्रदिष्टः, तन्मामशङ्कितं भजस्व मा भैवीरित्युक्त्वाक्षिप्रंदासीरादिश्य स्नानानुलेपनवसनान्नपानादिभिः मां हृष्टं पर्य्यचरत्। क्व तत् डाकिनीभ्यो भयं क्वच तत् तादृशं सुखं अचिन्त्योहि दैवेनापि सुखदुःखयोरागमः। ततस्तया यक्षिण्या सह तानि अहानि दिव्यं सुखमनुभवन्नतिष्ठम्।

एकदा सा स्वैरंमामब्रवीत् ब्रह्मन्! क्षीणोऽयं मे स

शापः तदितोऽद्य व्रजामि, मत्प्रसादाच्च ते दिव्यं विज्ञानं सम्भविष्यति। तपस्वीसिद्धभोगो निर्म्ममश्च भविष्यसि, इहस्थश्च मध्यमं पुरं द्रक्ष्यसीति उक्त्वासा सद्य एव तिरोऽभूत्। ततोऽहं कौतुकेन तत् मध्यमं पुरमारूढ़स्तत्र तुरङ्गममपश्यम्। तेनाहमश्वेनान्तिक प्राप्तः खुरेणाहत एव क्षणात् आत्मानम् अस्मिन् शिवालये स्थितमद्राक्षम्। ततः प्रभृति तत्र स्थितोऽहं क्रमेण सिद्धिमवापम्। तदेवं मानुषस्यापि मे त्रिकालज्ञानमस्ति, इत्थं क्लेशबहुलाःसतामपिसिद्धयः, तदिहैव तिष्ठ, शीघ्रमेवाभीष्टसिद्धिं शम्भुर्विधास्यति। एवं तेन ज्ञानिनाभिहितः तदाश्रमे इयन्ति दिनानि त्वत्पादपद्मप्राप्त्याययास्थितोऽभवं प्रभो! अद्यतु शिवेन स्वप्नादिष्टभवत्सिद्धिःयाव-न्मुदमनुभवामि तावत्कयापि दिव्यया स्त्रियाहमिहानीतः। इत्येष मे वृत्तान्त इति तस्मिन्समाख्याय विरते मरुभूतिस्तं चक्रवर्त्तिनमवादीत् देव! तदा मानसवेगेन क्षिप्त मां कापि देवता दोर्भ्यामादाय दूरे अटव्यां संस्थाप्य तिरोऽभवत्। ततोऽहं दुःखसन्तप्तः मरणोपायमेव चिन्तयन् भ्राम्यन् नदीपरिक्षिप्तमाश्रममेकमपश्यम्। तत्र च प्रविश्य शिलातलोपविष्टं जटाभिःपरीतं कमपि तापसं दृष्ट्वा प्रणम्य चअतिष्ठम्। ततस्तेन कस्त्वं कुत इमाममानुषांभूमिं प्राप्त इति पृष्टः सर्व्वं तस्मै समवर्णयम्। ततः स बुद्ध्वामामवोचत् साम्प्रतं मा आत्मानं बधीः, प्रभोर्वार्त्तां विदित्वा यथा कार्य्यंतथा करिष्यसि एवं तद्वचनात् भवरद्व…..जिज्ञासया तत्र स्थिते मयि काश्चित् दिव्या योति

स्नातुं तां नदीमागमन्।अथ स तापसो मामवादीत् भद्र! गच्छ अस्या एकस्या स्नान्त्या वस्त्रमाहर, ततः प्रभोर्वार्त्तां ज्ञास्यसि। तदाकर्ण्य तथा कुर्वाणं मां सा वधूरन्वगात्। हृतवसना आर्द्रवस्त्रा सा नरवाहनदत्तस्य वार्त्तामाख्याय वाससो गृहाणेति तापसेनोदिता अब्रवीत् साम्प्रतमसौ नरवाहनदत्तः हरमाराधयन्कैलासे तपस्यति अल्पैरेव दिवसैर्विद्याधरसम्राट् भविष्यति च एवमुक्तवती सा दिव्या योषित् शापवशात् तस्य तापसस्य भार्य्या समपद्यत। ततः स तापसस्तयाविद्याधर्य्यासमं तत्रातिष्ठत्। अहञ्च तस्या वचसा प्रतीत स्वत्समागमे जातास्थस्तत्रैवासम्।

अथदिनैश्च कतिपयैः सा खेचरी सगर्भासतो तं गर्भं प्रसूयच तं तापस मब्रवीत् भगवन्! त्वत् सङ्गात् मे शापः शान्तः, भूयश्चेत् तव मत्सङ्गाभिलाषः, तदा एतं गर्भं तण्डुलैः समं पक्त्वाभुङ्क्ष्वततो मां प्रासासि। इत्युक्त्वातस्यां प्रथातायां स तापसः तद्गर्भं सतण्डुलं पक्त्वाभुक्ताच खमुत्पत्य जगाम। अहंतु तदुक्तोऽपि आदौ तत्राभक्षयं ततः सिद्धिमवेत्य तस्य पाकपात्रात् भक्तसिक्यद्वयं प्राप्य अभक्षयम्। ततश्च यत्राहमष्ठीवं तत्र तत्काञ्चनमभूत् अथ तया सिद्ध्या अदेन्यः परिभ्रमन् एकव्यु नाम पुरमेकदाप्रापम्। तत्र वेश्यागारे स्थितस्य उदारव्ययशीलस्य मे तत्र या कुट्टनी छलात् जिज्ञासूर्वमनं प्रादात्। तेन च वमतो मेभास्वत् पद्मरागनिमे उभे प्राग्भुक्त भक्तसिक्थे ते मुखात् निरगच्छताम्। निर्गते च ते तथा कुट्टन्या गृहीत्वा

भक्षिते। अथ सा मे हेमसिद्धिर्नष्टा कुट्टन्याहृता। मन्ये स चन्द्रचूड़ः शिवः स च सकौस्तुभो हरिः कुट्टन्या गोचरे अद्यापि न पतितः, येन ताभ्यामद्यापि तादृशं भूषणरत्नं परिगृह्यते। किञ्चएष ईदृगेव बहुच्छलः बह्वाश्चर्य्यः संसारः यः समुद्र इव कदापि केनापि परिच्छेत्तुं न शक्यते इत्यहं विमृषन् निर्विघ्नः त्वत्प्राप्तये तपसा देवीमाराधयितुं चण्डिकागृहमगच्छम्। ततस्त्रिरात्रोपोषितं मां देवी स्वप्ने समादिशत् वत्स! स ते स्वामी साम्प्रतं सिद्धकामः, गच्छेदानीमिति एतदाकर्ण्य यावत् प्रबुद्धोऽस्मि तावत् कयापि देव्या त्वत्पादमूलमानीतः। इत्येष मे वृत्तान्तः इत्युक्तवचनं कुट्टन्या विडम्बितं मरुभूतिं स नरवाहनदत्तः पार्श्वचरैः सार्द्धं जहास।

ततो हरिशिखोऽवादीत् देव! तदा रिपुणाक्षिप्तंमां कापि देवी रक्षित्वा उज्जयिन्यां न्यधात्। तत्राहं भृशदुःखितः देहं त्यक्तुमिच्छन् निशागमे श्मशानं गत्वा तत्र पतितैः काष्ठैश्चितामरचयम्। ततस्तां प्रज्ज्वाल्य तत्राग्निं पूजयन्तं मामुपेत्य तालजङ्घो नाम भूतपतिरभ्य-धात्किमर्थमग्निं प्रविशसि? स ते प्रभुः जीवन् तिष्ठति। पूर्णकामेन तेन त्वं सङ्गमास्थासि। इत्थं स क्रूरोऽपि मां मरणात् न्यवारयत्। ग्रावाणोऽपि अभिमुखे विधौ आर्द्रतां भजन्ते। ततोऽहं देवाग्रे गत्वा तपस्यन् कियन्तं कालं स्थितः ततश्च प्रभो! कयापि देवतया अद्य ते पार्श्वमानीतोऽस्मि। इत्थं हरिशिखेन तथान्यैश्च क्रमात् अभिहिते असौ चक्रवर्ती नरवाहनदत्तः अमितगतेर्वचसा त्वमर्हतीं

विद्याधरार्च्चितां धनवतीमनुरुच्यतेभ्योऽपि स्वसचिवेभ्यः सर्व्वा विद्या अदापयत्। ताः सर्व्वेषु तेषु सविधेषु विद्याधरीभूतेषु अधुना शत्रून् जयेति धनवत्यादिष्टः स चक्रवर्त्ती शुभेऽहनि सैन्यानां गोविन्द–कुटं नाम गौरमुण्डपुरं प्रति प्रयाणमादिशत्।

अथ तत् विद्याधरवलं छन्नार्कं वैरिभिरिष्टकरं शनैः प्रचचाल। नरवाहनदत्तोऽपि स्वयं कर्णिकामारुह्य ताश्च सर्व्वा भार्य्याः विमानस्य केसरेषु आरोप्य सुहृदश्चण्डसिंहादीन्पुरःसरान्विधाय विजयाय नभसा प्रतस्थे। गच्छंंश्च अर्द्धपथप्राप्तेधनवतीगृहे सानुगस्तस्थौ। तत्र मातङ्गपुराख्ये धनवती–नगरे तयासस्नेहमभ्यर्चितः द्वौविद्याधरेशौगोरमुण्डमानसवेगो प्रति युद्धाह्वानाय दूतमेकं व्यसर्जयत्।

अथान्येद्युस्तत्र मातङ्गपुरे पत्नीः सर्व्वा निधाय द्युचरैः राजभिर्युतः गोविन्दकूटं प्रति प्रायात्। तत्र युद्धायायातौतो गौरमुण्डमान-सवेगो ते चण्डसिंहादयः प्रथमं प्रत्यगृह्णन्प्रवृत्ते च समरे पतत्सु वनेषु स गोविन्दकूटाद्रिः स्रवद्रुधिरनिर्झरःरक्तलिप्तलता-जिह्वःसमन्तात् व्यशोभत। वेतालास्तालजङ्घाश्चसमन्ततो मांसासृग्लालप्ताः परिभ्रमन्तिस्म। कबन्धाश्च समुत्पतन्तो नर्त्तनैर्भूतानां महोत्सवंव्यतन्वन्।

अथ स नरवाहनदत्तः रणे तं मानसवेगं सम्मुखागतं दृष्ट्वा क्रुधासमभ्यपतत्। अभिपत्य च तत्क्षणं तं केशेश्वाक्वष्य खड्गेन शित……. चिच्छेद।तद्दॄष्ट्वा कोपेन प्रधावितं

गौरमुण्डं तद्दर्शनैव नष्टविद्याबलं तथैव केशेषु गृहीत्वा भुवि निक्षिप्य पुनरङ्घ्रियुगे गृह्णन् नभसि भ्रामयित्वा शिलायामचूर्णयत्। इत्थं तयोर्गौरमुण्डमानसवेगयोः तत्भीमं बलं दृष्टप्रभुनाशं भयेन पलायाञ्चक्रे। तदा च तस्य चक्रवर्त्तिनः शिरसि पुष्पवृष्टिः पपात। गगनस्थिता देवाश्चसर्वे साधु साध्विति प्राब्रुवन्। अथ विद्याधरचक्रवर्ती नरवाहनदत्तः सर्वैसहचरैःराजभिः सचिवैश्चसह गौरमुण्डराजधानींविवेश। तदैषगौरमुण्डानुयायिनः सर्वे विद्याधराः प्रणतास्तस्य शासनं प्रतिपेदिरे।

ततोऽसौ श्वश्रूर्धनवतीनिहतारातिं तं सम्राजमुत्सवेषु चलत्सु व्यजिज्ञपत् देव! अस्ति गौरमुण्डस्य त्रैलोक्यसुन्दरीसुता, तां सुकन्यका-मिदानीम् उपयच्छस्व। इत्युक्तः; स चक्रवर्ती तत्क्षणंतामानाय्यैव उपयेमे अनुबभूव च तया सह तदहःपरमं सुखम्। प्रातश्चसः वेगवती-प्रभावत्यौविसृज्य मानसवेगस्य पुरात् तां मदममञ्चुकामानाययत्। सा तु मदनमञ्चुका समानीता हर्षाश्रुविकस्वरमुखो उदयस्थ निहतारातितमसं वीरं तं पतिं विरहदोषान्ते विलोक्य अवश्यावज्रलोत्कुञ्जकमला नलिनीव परांमुदं प्रपेदे। सोऽपि सम्राट् तस्यै तदा सर्वा विद्याःप्रदायप्राप्तविद्याधरत्वया तया सह तत्रसुतरां रेमे। तत्र गौरमुण्डपुरोधाने स्थितः स सर्वाभिर्भार्य्याभिः सह पानादिमहोत्सवं विदधत् तानि तानि अहानि निनाय।

अथसनूतनः सम्राट्प्रभावतीं विसृज्य भगीरथयशां

समानयत् अददाच्च तस्यै विद्याः। एकदा आस्थानवर्तिनं तं समुपेत्य द्वौविद्याधरौ व्यजिज्ञपतां देव! आवामुत्तरवेद्यर्द्धमितो गतौ धनवतीगिरा मन्दरदेवस्य चेष्टितं ज्ञातुम्। तत्रास्थानगतः स विद्याधरेश्वरः आवाभ्याम् प्रच्छन्नदेहाभ्यां युष्मान् प्रति ब्रुवन् दृष्टः। श्रुतञ्च तस्य वचनं येन गौरमुण्डादयो निहता नरवाहनदत्तेन प्राप्तविद्याधरपदेन, सोऽस्माभिर्नोपेक्ष्यः रिपुः सः अवश्यमेव हन्तव्य इति तदेतदाकर्ण्य वक्तुंभवदन्तिकमागतौ स्वः। इति चारमुखात् वचः श्रुत्वा स नरवाहनदत्तः सुभृशं चुकोप। सा च सभा पद्मिनी वानिलाहता कोपाकुला अत्यर्थं चुक्षोभ।चित्राङ्गदस्य बाहू द्वौविधुतप्रसृतौ बलयनिस्वनैर्योद्धमादेशमिव अमार्गताम्। अमितगतेश्च वक्षस्युत्फलन्हारः क्रुधा उतिष्ठ वीर! उत्तिष्ठ इतीव मुहुरब्रवीत्। पिशङ्गगान्धारः करेण भूमिं सशब्दंताडयन् वैरिणां चूर्णनोपक्रममिव व्यधत्त। वायुपथस्य मुखे भ्रूकुटिःकामेनारोपिता चापलतेव विद्विषाम् अन्ताय पदमादधे। चण्डसिंहः संक्रुद्धः पाणिना पाणिं प्रमर्द्दयन् एवं शत्रून् विनिर्मथामीति अभ्यधादिव सागरदन्तस्य बाहुःआस्फालनजन्मना शब्देन व्योम्नि मूर्च्छन् तं रिपुमाह्वयतेव। नरवाहनदत्तस्तु सकोपोऽपि अनाकुल आसीत् महतामक्षोभ्यतैव महत्व लक्षणम्। अथ स खेचरचक्रवर्तीतं शत्रुं जेतुंयात्रायैनिश्चयं कृत्वा तथैव सभार्य्यःसचिवैरन्वितः विमानमारुरोह। ते च सर्वे गन्धर्वविद्याधरपतयः सबलाः प्ररिवत्यैनं चन्द्रमिव ग्रहाः प्रचेलुः। धनवती च तेषां पुरतः

प्रायासीत्। क्रमेण हिमाचलं प्राप्तः स सम्राट् सितपद्मोच्छितच्छत्रम् उल्लसद्धं सचामरं सम्राड्योग्यमुपायनमादायउपस्थितमिव अभिमुखोर्द्ध्वस्थैर्वीचिहस्तेरदूरात् असकृत्साम्राज्यसंसिद्धिस्नानाह्वानमिव कुर्वत् महदेकं सरो ददर्श। देव! सरस्यस्मिन् स्नातव्यं भवतेति वायुपथेनोक्तः स स्नानार्थं तत्रावातरत्। नात्र अचक्रवर्त्तिनः स्नानं सिध्यति, ततश्च ते चक्रवर्त्तित्वं सिद्धमिति दिव्या वाक्तदोदचरत्। तदाकर्ण्य स चक्रवर्ती सम्प्रहृष्टः तज्जलान्तरेषु अन्तपुरिकाभिः सार्द्धं जलाधिपतिरम्बुधाविव चिक्रीड़। ननन्द च पश्यन् धौताञ्जनदृशः श्लथधमिल्लबन्धनाः अङ्गलग्नार्द्रवाससः प्रियाः। तासाञ्च महिलानां वदनाम्भोजलावण्यनिर्जितानीव पङ्कजानि जलोर्मिषु निमज्जन्ति स्म। अथ कृतस्नानः स तस्यैव सरसस्तटे सपरिच्छदः नर्म्मकथालापकोविदैरनुचरैर्विनोद्यमानस्तदहरवात्सीत्। प्रातश्चसमुत्थाय विमानारूढ़ःसबलःप्रस्थितः पथि वायुपथस्य पुरं प्राप्य तदनुरोधेन तत्रैकं वासरमुवास। तत्र तेन दृष्टचरा वायुपथस्वसा वायुवेगयशा नाम कन्या उद्यानवर्त्तिनी अभ्यवाञ्छ्यत। सा तु हेमबालुकनदीतीरोद्यानविहारिणीसम्पूर्णसौम्यवदना सौम्यालापमनोहरा सितहासा गुरुश्रोणी कन्या तमागतं वोक्ष्य तदनुरक्तहृदयापि अन्तर्दधे। अथ सम्राट् नरवाहनदत्तः किञ्चिद्विलक्षः तां हेत्वन्तरपराङ्मुखीं मत्वा निजावासमाययौ। तत्र गोमुखवैदग्ध्यवशेन मरुभूतिना सह स्थितेन राज्ञो वृत्तं तदुपलभ्य दिव्याश्चित्राः परिहासाश्चक्रिरे। मरुभूते-

रवैदग्ध्यात् सत्रपो गोमुखः तं सलज्जं राजानं वीक्ष्य समाश्वास्य च वायुवेगपथायाश्चित्तं जिज्ञासुस्तस्य वायुवेगस्य पुरमगात्। ततो वायुपथःअकस्मात् पुरं द्रष्टुमिवागतं तं दृष्ट्वा प्रीत्या कृतातिथ्य एकान्ते नीत्वा जगाद सखे! वायुवेगयशानाम कन्या मम भगिनी अस्ति। सा किल सिद्धैःचक्रवर्त्ति महिषी भाविनीति समादिष्टा, अतस्ताम्इह चक्रवर्त्तिने प्राभृतं दित्सामि, तत्त्वं मे अभीप्सितं संसाधय। एतदर्थमेवाहं तवान्तिकमागत इति स गोमुखो मन्त्री तं वायुपथमब्रवीत् यद्यपि प्रभुरयं नः जिगीषार्थं प्रवृत्तः, तथापि त्वमेतत् विज्ञापय, अहमपि सिद्धौयते,इति तमुक्त्वाआमन्त्रा च प्रभुसमीपं गत्वा तस्मै सिद्धं कार्य्यंविनाभ्यर्थनां न्यवेदयत्।

अथान्येद्युरागत्य वायुपथे तमर्थं स्वयं विज्ञापयति धीमान् स गोमुखस्तं राजानमब्रवीत् देव! वायुपथस्य त्वयाभ्यर्थनभङ्गो न कार्य्यः, भक्तोऽयं यत् ब्रवीति तत्त्वया अवश्यं कार्य्यमिति। ततः स सम्राट् तथेति प्रतिपेदे। वायुपथोऽपि तस्मै स्वां कनीयसीं भगिनोमानीय अनिच्छन्तीमपि प्रादात्। सा तु विवाह्यमानावोचत् अहमनिच्छन्ती भ्रात्रा बलात् दत्ता इति, तदत्र लोकपाला! मे नाधर्म्मः, एतत् ब्रुवत्यां तस्यां सर्वास्ता वायुपथाङ्गना; तथा कोलाहलं चक्रुर्यथा तद्वचः न तत्रत्याः केऽपि शुश्रवुः। ततो राज्ञस्त्रपाकरं तद्वाक्यं श्रुत्वा तदाशय-लब्धये स गोमुखो युक्तिमन्वेष्टुमितस्ततोऽभ्रमत्। भ्रमंश्च एकान्ते विद्याधरकुमारिकाश्चतस्रः युगपत् अग्निप्रवेशं कर्त्तुमुद्यताःसम-

पश्यत्। तेन च कारणं पृष्टास्ताः सुमध्यमाः तस्मै वायुवेगयशाकृतं समयोल्लङ्घनं कारणमाचख्युः। ततः स गोमुखो गत्वा सर्वसन्निधौ नरवाहनदत्ताय यथा वस्तु न्यवेदयत्। तद्बुद्धाराज्ञिविस्मिते वायुवेगयशा जगाद आर्य्यपुत्र! उत्तिष्ठ, सत्वरं गच्छामः वयं ताः कुमारिका रक्षितुं, ततोऽस्य कारणं वक्ष्यामीति। एवमुक्तः स चक्रवर्ती तत्र सर्वैः समं ययौ ददर्श च ताः कुमारीःपुरः प्रज्वलितानलाः ततश्चैता विधार्य्यवायुवेगयशा राजानमब्रवीत् एषा कालिका नाम कालकूटपतेः सुता, द्वितीयेयं विद्युत्पुञ्जा नाम विद्युत् पुञ्जस्य विद्याधरराजस्य तनयो, एषा च तृतीया मन्दरस्य सुता मानङ्करो नाम, चतुर्थीयञ्च महादंष्ट्रस्य सुता पद्मप्रभा नाम, अहञ्च पञ्चमी एता वयं त्वां दृष्टैव सिद्धक्षेत्रेतपस्यन्तं मारमोहिताः मिथःसमयमकार्ष्म। यथा पञ्चभिरेवास्माभिरयं प्रियः पतिर्युगपत्वरणीयः, अस्माकमेकया भित्रया नास्मैआत्मार्पणीयः, यदि काचित् पृथक् एनं परिणयेत् तदा सखोद्रुहं तामुद्दिश्य अपराभिर्वह्निप्रवेशः कार्य्य इति। एतत्समयभीताहं पृथक् परिणयं नैच्छं न चाधुनापि आर्य्यपुत्र। तुभ्यमात्मा समर्प्यते, लोकपाला एवात्र साक्षिणः यदि स्वेच्छया एषः समयो मयोल्लङ्घित इति तदार्य्यपुत्र! ता एता मे सखी रुपयच्छस्व। सख्यः! युष्माभिरेतत् भावनीयं नान्यथा। एवं तयोक्तेताः सर्वाः कुमार्य्यो मरणोत्तीर्णा मिथः समाश्लिष्य परां मुदमाययुः। राजापि विदितवृत्तान्तोऽन्तर्जहर्ष। तत्पितरश्च विदितवृत्तान्तास्तत्क्षणं तत्राययुः

प्रादुश्च नरवाहनदत्ताय ताः सुता यथार्हम्। प्रतिपेदिरे च तत्क्षणं जामातुः शासनम्। इत्थं ताः पञ्च महाविद्याधरात्मजाः प्रतिपद्य नरवाहनदत्तः परमं माहात्म्यंप्राप। तस्थौ च तत्र ताभिर्जायाभिः कतिपयान्यहानि।

ततः सेनापतिर्हरिशिखस्तमुवाच देव! शास्त्रज्ञोऽपि कथं नीतिमुल्लङ्घ्य वर्त्तसे? अयं तावत् विग्रहावसरः न तु कामभोगावसरः, क्वायं मन्दरदेवं जेतुं यात्रासमुद्यमः, क्वचेयन्ति दिनानि पथि अन्तःपुरिकाभिस्ते विहारः, एवं हरिशिखेनोक्ते महाराजा नरवाहनदत्तः सस्मितं तमुवाच सखे! युक्तमुक्तंपरं नात्र भोगाय मे प्रयत्नः, एष मे भार्य्याव्यतिकरो हि मित्रलब्धिप्रदः। एष चारिमध्ये मुख्योपाय इत्यभिनन्दितो मया, तदद्य एतानि सैन्यानि मे अरिजयाय चलन्तु इत्युक्तवचनं तं श्वशुरोमन्दरोऽब्रवीत् देव! असौ हरदुर्गमभूमिगो मन्दरदेवः असिद्धचक्रवर्त्यङ्ग सर्वरत्नस्य ते दुर्जयः। असौ हि देवमायो महावीरः रक्षितद्वारया अग्रवर्त्तिन्या नृशीर्षाख्यया गुहया नियतं रक्ष्यते, सा तु गुहा सिद्धरत्नेन चक्रवर्त्तिना आक्रम्या, नान्यैरिति तत् चक्रवर्त्तिरत्नंचन्दनतरुरस्यां भुवि अस्ति, तत्तम्अभीष्टसिद्धये संसाधय, चक्रवर्त्तिनं विना कोऽपि तस्य पादपस्यान्तिकं गन्तुं न शक्नोति। इत्थं मन्दरात् श्वशुरात्श्रुत्वा स चक्रवर्ती रात्रौ निराहारो यतव्रतः तं चन्दनद्रुमं प्रति प्रागात्। गच्छंश्च स वीरो बहुभिर्विघ्नैः सुदारुणैर्विभ्राम्यमाणोऽपि न तत्रास प्राप च तन्महातरोर्मूलम्।

ततस्तं महारत्ननिवद्धोत्तुङ्गवेदिकं दृष्ट्वा अभ्येत्य सोपानैरारुह्य च तं चन्दनद्रुमं ववन्दे।

अस्मिन्नवसरे अशरीरिणी वाक् तमभ्यनन्दयत् चक्रवर्त्तिन्! अयमहं चन्दनद्रुमस्ते सिद्धः, स्मृतश्च समये त्वत्सन्निधिं यास्यामि, साम्प्र-तमितो व्रज गोविन्दकूटम्अन्यानि च ते रत्नानि सेत्स्यन्ति। ततस्त्वं हेलयैव तं मन्दरदेवं विजेष्यसे इति। ततः स महाविद्या-धरपतिर्नरवाहनदत्तः सिद्धिमान् तथेति तं पादपं प्रणम्य प्रहृष्टो गमनवर्त्मना स्वं कटकमाययौ।

अथ तां निशां नीत्वा प्रातरास्थाने सर्वसन्निधौ तं नैशं चन्दनपादपसाधनवृत्तान्तमाचख्यौ तदाकर्ण्य सर्वाः प्रेयस्यः कुमारसचिवा आप्ता विद्याधराः वायुपथादयः सानुचराः चित्राङ्गदादयश्च ते गन्धर्वाः तन्महासिद्धिलाभात्प्रहर्षाकुलाः तस्य चक्रवर्त्तिनः सत्त्वोत्साह-धृतिप्रभावमहतीं धीरतामस्तुवन्। अथ राजा तेरनुचरैः सह सम्मन्त्र्यतं मन्दरदेवं विजेतुं दिव्यविमानहारी गोविन्दकूटगिरिं प्रति प्रायात्।

_________

अथ महाभिषेकोनाम पञ्चदशोलम्बकः।
<MISSING_FIG href="../books_images/U-IMG-1722841867Screenshot2024-08-05123941.png"/>
अथ शताधिकनवमस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-1722841867Screenshot2024-08-05123941.png"/>

अथामृतप्रभो नाम विद्याधरः तत्र गोविन्दकूटे आस्थानवर्त्तिनं तं चक्रवर्त्तिनं नरवाहनदत्तं नभसा समा-

जगाम। येनैष चक्रवर्तीपूर्वं शत्रुक्षिप्तोऽग्निपर्वतात् संरक्षितः। स चागत्य आवेदितात्मा प्रणतश्च चक्रवर्त्तिना तेन कृतातिथ्यस्तं सम्राजमब्रवीत् देव! अस्थि दक्षिणस्यां दिशि मलयो नाम महागिरिः। तत्र कस्मिंश्चिदाश्रमे वामदेवो नाम मुनिरधिवसति। स खलु त्वामेकाकिनं कस्यापि कार्य्यस्य हेतोराह्वयति, प्रेषितश्च तेनाहं तदर्थं त्वत्समीपमद्य। त्वं हि मे पूर्वार्जितः प्रभुः, तेन चास्मि आगतः। तदेहि शीघ्रं सिद्धये तस्य गुरोरन्तिकं गच्छावः। एवमुक्तवता तेन विद्याधरेण सार्द्धं स नरवाहनदत्तः तत्रैव सर्वास्ताः कान्ताः सेनाश्च स्थापयित्वा नभसा समुत्पत्य त्वरितं मलयगिरिमासाद्य च तमृषिमभ्यगच्छत् अपश्यच्च तं जरसा पाण्डुरं प्रांशविग्रहं निर्मांसनेत्र-कुहरस्फ़ुरत्तारकं विद्याधरेन्द्ररत्नानां निधिम्। उपेत्य च तं चरणयोर्बन्दमानं राजानं स मुनिः कृतातिथ्यः समभ्यधात् वत्स! पुरा दग्धोऽपि कामस्त्वंरत्यनुनयतुष्टेन शम्भुना सर्वविद्याधराणां चक्रवर्ती विनिर्मितः। तदाश्रमे ममास्मिन् गुहान्तरे सन्ति रत्नानि भूयांसि तानि मत्प्रदिष्टानि त्वं साधय, सिद्धरत्नेन त्वया स हि मन्दरदेवो जेय इति गिरिशादेशेन त्वं मयाहूतः इति। इति तेन मुनिनाभिहिते स सम्राट् तदुपदिष्टविधिः प्रहृष्टस्तां गुहां प्राविशत्। प्रविश्य च स वीरस्तान् तान् विघ्नान् विजित्य अभिधावन्तं मत्तंसस्वनगर्जितं गजेन्द्रं ददर्श। स च सम्राट्मुखे तस्य मुष्टिप्रहारं दन्तयोश्च पादौ दत्त्वा लीलया तं मत्तगजमारुरोह। तदा साधु सिद्धं ते चक्रवर्त्तिनो महा-

गजरत्नम् इति वाणीगुहामध्यादशरीरा प्रादुरभूत्। ततः सः अहीन्द्रनिभं खड़्गंदृष्ट्वा निपत्य च चक्रवर्त्तित्वलक्ष्म्या केशपाशमिव तमग्रहीत्। अरिन्दम! माधु ते खङ्गरत्नं जैत्रं सिद्धमिति पुनर्वाक् गुहान्तरादुदचरत्। ततः स कामिनीरत्नं चन्द्रिकारत्नं विध्वंसिनींनाम विद्यारत्नञ्च समसाधयत् इत्थञ्च कार्य्यकालोपयुक्तानि रत्नानि माहात्माप्रदानि सप्त साधयित्वा तस्या गुहाया निर्गतः तस्मै वामदेवाय मुनये सिद्धं सर्वं शशंम। ततः स मुनिस्तं चक्रवर्त्तिनं प्रीत्याब्रवीत्पुत्र! महाचकवर्सिरत्नयुतःसिद्धोऽसि तत्साम्प्रतं व्रज, जय तं मन्दरदेवं कैलासपर्वतोत्तरपार्श्ववासिनम्। भुङ्क्ष्व च तदुभयपार्श्वयोः समूर्जितां साम्राज्यलक्ष्मीम्। इति तेन मुनिनोक्तः सिद्धकार्य्यःतं मुनिं प्रणम्य तेनामृतप्रभेण सह नभसा समुत्पतन् क्षणेन गोविन्दकूटस्थं स्वं महाप्रभावया श्वाश्राधनवत्याभिरक्षितं शिविरमासदत्। तत्र मार्गो-न्मुखैर्निजैर्विद्याधराधिपैः भार्य्याभिः सचिवैश्च प्रहृष्टैरभिनन्दितः समुपविश्य पृच्छद्भ्यस्तेभ्यः आवामदेवदर्शनात्रत्नसिद्धिवृत्तान्तं सर्वमशंसत्। ततस्तत्र सानन्ददिव्यतूर्य्यः नृत्यद्विद्याधरीसार्थःपानमत्तजनः सुमहान् उत्सवः समुदभूत्।

अथान्वेद्यः रिपुस्थानस्थिता सौम्यग्रहेण आक्रान्तकण्ठकास्थान सौम्येन स्वसमर्द्धिना सर्वसम्पद्युक्तेन लग्नेन कृतमङ्गलः तत् शम्भु-दत्तंब्रह्मनिर्मितं विमानं समारुह्य ससैन्यः सपरिवारः नभसारिजयाय प्रतस्थे। ते च भुक्त-

पीता गन्धर्वविद्याधराधिपतयः प्रवीराः सेनापतेर्हरिशिखस्य आदेशानुवर्त्तिनः तं परिवार्य्यप्रतस्थिरे। सुमेधसा मात्रा धनवत्या युतश्चण्डसिंहः पिङ्गलगान्धारः वायुपथः विद्युत्पुञ्जःअमितगतिः कालकूटपतिः मदनः महादंष्ट्रः अमृतप्रभः सागरदन्तः चित्राङ्गदः एते महाबलाः प्रवीराः सानुचराः गौरमुण्डजयलब्धाश्च तदाश्रिता वीराः सर्वे जिगीषु तं सम्म्राजमन्ववर्त्तन्त। इत्थंतत्सेनाभिर्गगने समाच्छन्ने भास्करः तत्तेजसा विजितप्रभ इव लज्जया निमिमील। अथ देवर्षि सेवितं मानसं सरः समुल्लङ्घ्य दिव्ययोषितां लालोद्यानं गण्डशैलञ्च अतीत्य स चक्रवर्ती स्फटिकापाण्डुरत्विषः निजयशोराशेरिव कैलाशभूभृतः मूलं संप्राप। तत्र मन्दाकिनीतीरनिषणंतं विद्याधरा-धिपतिर्धीमान् मन्दरः मधुरं वचः प्रोवाच देव! इहैव देवनदीतटे अद्य स्थीयतां न युक्तमिमं कैलासमुल्लङ्घ्य अग्रतो गन्तुम्। हरनिवासस्यास्य लङ्घनात् सहसा विद्या भ्रश्यति। त्रिशीर्षगुहया अस्य उत्तरं पार्श्वंगन्तव्यम् अत्र च देवमायो नाम राजास्ति स चातिदृप्तः, तमजित्वा कथं वा गम्यते? इति मन्दरेण एवमुक्ते धनवत्या चानुमोदिते नरवाहनदत्तस्तत्रैव तं वासरमनैषीत् व्यसर्ज-यच्चसाम्नातं देवमायं प्रति दूतम्। स च साम्नैवास्य शासनं न प्रत्यपद्यत।

ततोऽपरेद्युः स चक्रवर्ती सन्नद्धैस्तैस्तै राजभिः सह तं देवमायं प्रति प्रचचाल। देवमायोऽपि तद्विदित्वा ससैन्यो वराह वज्रमुष्ट्या-दिभिर्बहुभिः राजभिः परिवृतो

योद्धुमागमत्। ततस्तत्र कैलासे तयोः सेनयोर्महान् संग्रामः प्रावर्त्तत। सुरगणा विमानैरम्बरं छादयामासुः। छिन्नैर्बहुभिः शिरोभिः करकावर्षैरिव भीषणः सवीरगर्जितः सुघोरो धनागम इव रणः प्रववृते। देवमायस्य सेनान्यम् अग्रयोधिनं वराहं चण्डसिंहो यत् जघान तदद्भुतं न चित्रमिदं यत् देवमायःस्वयं नरवाहनदत्तेन प्रहारैः रणे मूर्च्छितो बध्दःशत्रुहस्तमाययौ तस्मिंश्च बद्धे तत् सैन्यंवज्रमुष्टि महाबाहु तीक्ष्णदंष्ट्रादिभिर्महारथैः सह अभज्यत। ततः सुरैर्विमानस्थैःसाधु साधु इत्युदीरिते सर्वेऽपि जयिनं तं चक्रवर्त्तिनम् अभिन-नन्दुः। अथ तं संयतानीतं देवमायं महाराजो नरवाहनदत्तः समाश्वास्य प्रसादेनानुजग्राह मुमोच च। सोऽपि निर्जितः वज्रमुष्ट्यादिभिः सार्द्धं प्रणतस्तस्य चक्रवर्त्तिनः शासनं प्रत्यपद्यत। ततो निवृत्ते संग्रामे प्रातरास्थानगतः पार्श्वस्थः तेन चक्रवर्त्तिना पृष्टः तन्त्रि-शीर्षगुहावृत्तान्तं देवमायो यथातत्त्वमकथयत् देव! पुरा कैलासस्य विद्याधराश्रिते द्वेपार्श्वे दक्षिणोत्तरे भिन्नसाम्राज्ये अभूताम्। देवेन शम्भुना तुष्टेन पुरा ऋषभो नाम एतयोः द्वयोरेव पार्श्वयोश्चक्रवर्त्ती प्रदिष्टः। स कदाचित्उत्तरं पार्श्वं गन्तुं कैलासं लङ्घयन् अधस्थित हरक्रोधात्भ्रष्टविद्यो दिवोऽपतत्। ततः स पुनरतिकठोरेण तपसा समाराधितं परं प्राग्वदादिष्टसाम्राज्यं व्यजिज्ञपत् देव! कैलासोल्लङ्घनं न तावदस्ति तत् केन पथा गत्वा उभयोचक्रवर्ती भवामीति। तदाकर्ण्य अस्य उत्त-

रपार्श्वे गमनाय पिणाकीकैलासं भित्त्वा एकं महाविवरं चकार। अथ विद्धःस कैलासःउद्विग्नः तं हरं व्यज्ञापयत् भगवन्! मानुषागम्यमेतत् मे पार्श्वमुत्तरं परमनया गुहया तेषामपीदानीं गम्यं कृतम्। तदत्र तथा मर्य्यदां कुरु, येन सा मर्यादा न केनापि भव्यते एवं कैलासेन विज्ञप्तो हरः गुहायामस्यां दिग्दन्ति दृग्विषाहीन्द्र गुह्यकान् रक्षकान् तथा अस्य दक्षिणेद्वारि महामायं विद्याधरेश्वरम् उत्तरे च कालरात्रिम् अपराजितां चण्डिकां स्थापयामास। इत्थं स शङ्करः कृतगुहारक्षः महारत्नानि समुत्पाद्य तत्र व्यवस्थामकरोत् यःतेषु रत्नेषु सिद्धः, तेनैव चक्रवर्त्तिना इयं द्विपार्श्वीगम्या, नान्यस्य कस्यचिदपीति समादिष्टवति त्र्यम्बके स ऋषभः सामाज्यं कुर्वन् परमेण सुखेन कालमनैषीत्। न हि ऐश्वर्य्यमत्तेषु चिरं तिष्ठन्ति श्रियः। स हि ऐश्वर्य्यदर्पात् कदाचित् देवैः सह युयुधे निजघ्ने च देवेन्द्रेण। प्रभो! इत्येषा अस्यास्त्रिशीर्षाख्याया गुहायाः प्रवृत्तिः, भवन्तंविना एषा अन्यैरगम्या। तस्याश्च गुहाया द्वाररक्षिणो महामायस्य कुले जातो देवमायो नाम विद्याधरः सर्वेषु विद्याधरेषु मृधे रिपुदुर्जयः। यश्च तं जेष्यति स चक्रवर्ती भविष्यति, तेन चास्य स्वामिना भवितव्यं स एव प्रभुरमुना परिचरणीय इति मज्जन्मदिने दिव्या सरस्वतीव्याजहार। सोऽहं भवता जितः, भवांश्च सिद्धरत्नः प्रभाववान् कैलासस्य उभयपार्श्व चक्रवर्ती अभवत्। तदेतां विशीर्षगुहां तीर्त्त्वारिपून् विजयस्वइति

देवमायेनोक्तश्चक्रवर्ती जगाद राजन्! अद्य गुहाद्वारे गत्वा वसामः। ततः कृतसंविधयः प्रातर्गुहां प्रवेक्ष्यामः। इत्युक्त्वास सर्वैःराजभिः सचिवैश्चसह गत्वा गुहाद्वारंसमावसत्। अपश्यच्च तां गम्भीरां निरालोकोदराम् अलर्केन्दुकल्पान्ततमसां जन्मभूमिमिव गुहाम्। ततश्चद्वितीयेऽह्निएतां संपूज्य विमानस्थः चिन्तितोपनतरत्रः सपरिच्छदः प्रविवेश। तत्र चन्द्रिकारत्नैस्तमांसि, चन्दनेन अहिट्टष्विधान् हस्तिरत्नेन दिग्गगजान्, खड्गरत्नेन गुह्यकान् तथान्येश्चरत्नैरत्यान् विघ्नान् निरस्य सह सेनया तां गुहामुत्तीर्य्य उक्त द्वारेण विनिर्ययौ ददर्श च कैलासस्य उत्तरं पार्श्वमपुनर्जन्मजीवलोकान्तरोपमम्। तदा च साधु चकवर्त्तिन्! रत्नप्रभावमाहात्म्यात् गुहेयं त्वया तीर्णेति दिवो वाणीसमुदचरत्। अथ धनवती देवमायश्च तमूचतुः, देव! सन्निहितात्र द्वारे सदा कालरात्रिः, एषा पुरा विष्णुना अमृतमन्थने उत्पादिता अमृतं जिहीर्षूणां दानवानां दारणाय। सैषा शर्वेण गुहामेतां रक्षितुमादिष्टा यथा नान्यश्चक्रवर्त्तिनं विना इमां न तरेदिति। त्वन्तु चक्रवर्ती सिद्धरत्नश्च, तदेतां तीर्णोऽसि, तत्त्वया एषा विजयसिद्धये पूज्या, इत्थं धनवत्यादेवमायेन च कथ्यमानस्य तस्य नरवाहनदत्तस्य स वासरोऽक्षीयत। कैलासोत्तरसानवश्च आसन्नसंग्रामरुधिरोक्षणं सूचयन्त इव सन्ध्यारुणा अभवन्।तमांसिच लब्धबलानि गुहागृहपराभवजं नवं वैरं स्मरन्त इव तस्य राज्ञः कटकमावृण्वन्।

भूतवेतालडाकिनीनां घोरारावाःअनर्च्चादुर्मनसः कालरात्रेःक्रोधाङ्कुरा इव बभ्रमुः। क्षणेन च सर्वं सैन्यं निःसंज्ञंसुप्तमिवाखिलमभूत्, केवलमेकः स नरवाहनदत्तो न मुमोह। ततोऽनर्च्चनकुद्ध-कालरात्रिविजृम्भितं तत्मत्वा स चक्रवर्ती वचनकुसुमैस्तामर्चयत् भगवति! त्वं जीविनाम् आशिरश्चक्रसञ्चारचतुरा प्रणवाकृतिः, प्राणशक्तिः, त्वामहं नमामि। महिषासुरघातेनाश्वासितत्रिभुवने! दुर्गारूपिणि! नमोऽस्तु ते। निशुम्भशुम्भमथने! परित्राहि किङ्करं प्रणमामि त्वां विश्वजननीं भवसुन्दरि! कृपां कुरु कृपामयि! भक्तवत्सले! विपन्ने दासजने। इत्येवं बहुभिः स्तवैः स्तुतापि यदा सा न तुतोष, तदासौ चक्रवर्त्तीमूर्ध्ना उपहारेण तामर्च्चयितुमियेष। पुत्र! मा साहसं कार्षीः, एषाहं ते सिद्धा तवैतत् कटकं प्रकृतिस्थं वर्त्तते, जयमाप्नुहि इति तं गृहीतखङ्गं चक्रवर्त्तिनं सा देवी तत्क्षणंजगाद। तस्य च तत् कटकं सुप्तप्रबुद्धमिव सहसाभवत्। ते च सर्वे राजानः सचिवाश्व सानुगास्तस्य तं प्रभावं दृष्ट्वा प्रशशंसुः। अथ स वीरः कृताहारपानादिविधिः तां त्रियामां शतयामामिवायतामनैषीत्। अथ प्रभाते तां कालरात्रिं यथाविधि प्रपूज्य विद्याधरनिरुद्धाग्रमार्गं धूमशिखंप्रति प्रययौ। तेन धूमशिखेन समं तस्य चक्रवर्त्तिनीयथा संग्रामोऽभूत् मन्दरदेवेन सह तादृशी न। तत्र खङ्गमयं व्योम, वीरमूर्द्ध्वमयीमही, जहि जहीति तीक्ष्णशूरवाक्यमयञ्च वचः समभूत्। तत्र स चक्रवर्ती धूमशिखंबद्ध्वानीतं दृष्ट्वा सम्मान्य च स्वं शासनं ग्राहया-

मास। निवेशयामास च तदहस्तत्सैन्यंतदीये पुरे। इत्थमग्निदग्धेन्धन इव धूमशिखोत्पाते प्रशान्ते द्वितीयेऽह्नि चारमुखात् योद्धुम-भ्यागतमग्रतः स्थितं मन्दरदेवं विदित्वा तैर्विद्याधरैः सह तं प्रति विजयाय प्रतस्थे। किञ्चिद् गत्वा अग्रतः बहुराजगणान्वितं रचितव्यूहं महासैन्यं मन्ददेवरस्य ददर्श। ततः स नरवाहनदत्तः प्रतिव्यूहं रचयन् तत्सैन्यमभ्यधावत्। अथ तयोरुभयोः सैन्ययोः प्रलयोद्वेल क्षुधिताम्बुधिनिभोघोरः संग्रामः प्रावर्त्तत। एकतश्चण्डसिंहाद्या महारथा अन्यतः काञ्चनदंष्ट्राद्याः शूराः समयुध्यन्त। त्रिभुवनमाकम्पते स्म कुलाचलाः क्षोभमापुः, शूराणां शोणितोधैःशोणैकपार्श्वःकैलासः समभवत्। अन्वगाच्च गिरिशं भूतैश्वितान्यपार्श्वः। खङ्गानां प्रभाभिरुदितानेकप्रतिबिम्बप्रभाकरः सत्यं वीराणां प्रलयकालो महारणः प्रादुरासीत्। दृष्टदेवासुराहवा नारदाद्या अपि महर्षयः तत् महाविस्मयकरं युद्धं दिदृक्षवः समागमन्। इत्थं घोरे तस्मिन् रणे चण्डसिंहोऽभिधावन् काञ्चनदंष्ट्रेण भीमया गदया मूर्द्धनि जघ्ने। तदा तं सुतं गदाघातपतितं दृष्ट्वा सा धनवतीविद्याबलेन उभे सैन्ये निश्चेतने व्यधात्। एकतश्च चक्रवर्त्ती नरवाहनदत्तः, अन्यतः मन्दरदेवः द्वावेव तौ सचेतनावास्ताम्। तदा क्रुद्धांधनवतीं जगत्संहरणक्षमां दृष्ट्वा अम्बरगता अपि देवा भयात्प्रदुद्रुवुः। अथ मन्दरदेव-स्तमेकाकिनं चक्रवर्त्तिनं दृष्ट्वाखङ्गपाणिरभ्यधावत। नरवाहनदत्तोऽपि विमानादवतीर्य्यसमुद्धृतखङ्गरत्नःजवेन तं प्रतिजग्राह। ततो मन्दर-

देवःस्वमायया जयमिच्छन् समदोद्दाममातङ्गरूपं चकार। तद्दृष्ट्वानरवाहनदत्तःविद्यातिशयशाली सुमहत् सिंहरूपमकरोत्। ततः स चक्रवर्ती भग्नेभवपुषा मन्दरदेवेन स्वं वपुः प्रतिपद्यमानेन मुक्तसिंहाकृतिः स्वं वपुः प्रतिपद्यमानः सुमहत् युद्धं व्यधत्त। तौ च नानाविचित्रकरणौ अङ्गहारक्रियायुतौ मण्डलाग्रकरौ नाट्यप्रवृत्ताविव विरेजतुः। अथ नरवाहनदत्तः साक्षात् जयमिव मन्दरदेवस्य करात् खड्गमहरत्। ततो हृतखङ्गस्य क्षुरिकामाकर्षतोऽपि तस्य स चक्रवर्ती पुनस्तां सहसा जहार। ततो हृतास्त्रंतं बाहुभ्यां युध्यमानं गुलकयोराहत्य मन्दरदेवं भूमावपातयत्। प्रारभत च केशेष्वाकृस्यतस्य शिरश्छेत्तं वक्षसि न्यस्तचरणः। तावच्च मन्दरदेवीति तस्य कुमारी स्वसा समभ्युपेत्य निवारयन्ती एवमभ्यधात् नाथ! तपोवनस्थस्त्वं दृष्ट्वा मया भर्त्ता प्राक् सङ्कल्पितः। तदार्य्यपुत्र! मावधीर्मे भ्रातरम्। एवं तया सुदृशाभिहितः स वीरो जितलज्जितं तं विमुच्य जगाद विद्याधर! मया त्वं मुक्तोऽसि, माभूत् तेऽत्र लज्जा, चपलौ किं शूराणां रणे जयपराजयौ न? इत्येवमुक्तः स मन्दरदेवस्तं महाराजमब्रवीत् इदानीं त्वया पराभूतस्य मे किं जीवितेन, तदहं तपसे वनस्थस्य पितुरन्तिकं यामि, त्वमेव उभयवेद्यर्द्धचक्रवर्त्ती भगवता शङ्करेण निर्मितः पित्राचायं मे पराभवो भावीति पूर्वमसूच्यत इत्युक्त्वास मानी पितुरन्तिकं तपोवनमगात्। तदा गगनस्थाः सुराः साधु महाचक्रवर्त्तिन्! जिता रिपवस्त्वया साम्राज्यं प्राप्तमधुनेति प्राब्रुवन्। अथ गतेमन्दरदेवे सा-

धनवतीनिजं सुतम् उभे सेने स्वशक्त्या लब्धचेतने अकार्षीत्। अथ सुतप्रबुद्धा इव सर्वे समुत्थाय वैरिणं जितं बुद्ध्वासचिवा राजानश्च तं विजयिनं नरवाहनदत्तम् अभिननन्दुः। मन्दरदेवीयाः काञ्चनदंष्ट्रा शोककरकाक्षकाल जिह्वाद्या राजानस्तस्य सम्राजः शासनं तदा अगृह्णन्।ततश्चण्डसिंहः काञ्चनदंष्ट्रा लोकेन संस्मृत तद्गदाप्रहारः दृढमुष्टिविधृतम् असिं प्रकम्पयन् चुकोप। तदवलोक्य धनवती पुत्र! इह कुपितेन कृतं, कस्त्वां समरमुखे विजयेत? किन्तु युक्त्यामया उभयबलक्षयसंरक्षणाय क्षणं माया विरचिता आसीत् इति वदन्ती तं सुतं प्रकोपात् पशमय्य सर्वं बलं सराजकमभ्यनन्दयत्। अथ विजितारिवर्गःअक्षतमित्रवर्गश्च स नरवाहनदत्तः कैलासोत्तरपार्श्व-साम्राज्यमधिगत्य परां प्रीतिमभजत। ततोऽरिविजय महोत्सवे प्रहतेषु तारेषु तूर्य्येषु खेचरीषु च प्रवृत्त नृत्यगीतासु सचिवैः राजभिश्च सर्वैः समेतः वैरिणां प्रतापमिव मधु पिबन् दिवसमनैषीत्।

_______

अथ शताधिकदशमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722915101Screenshot2024-08-06090127.png"/>

अथापरेद्युः तस्मात् कैलाससानुतः समुत्थाय स चक्रवर्त्ती सबलः काञ्चनदंष्ट्रस्य राज्ञो वचनात् विमलाख्यं सौवर्णं प्रांशुप्राकार-समुच्छ्रितं सुमेरुमिव कैलाससभाजनार्थमा-

गतं मन्दरदेवीयं पुरं सम्प्राप। विवेश च अतिगम्भीरम्अच्युतश्रीविराजितम् अनन्तरत्ननिचयं निस्तोयं सागरमिव। तत्रास्थानवर्त्तिनं राजभिर्विद्याधरैरन्यैश्चपरिवृतं सम्राजमेत्य कापि अन्तःपुरवृद्धाव्यजिद्मपत् प्रभो! युष्मत्पराजिते मन्दरदेवे वनं गते साम्प्रतं तस्य देव्यः अग्निं विविक्षन्ति तदत्र श्रुत्वा देवः प्रमाणमिति। एवमुक्तः स चक्रवर्ती ता मरणान्निवार्य्यनिवासादिदानेन भगिनीरिव संविभेजे। तेन च सर्वे विद्याधराधीश्वरास्तं दत्तानुरागनिगड़ं साम्राज्यं समपादयन्।

अथ कृतज्ञः स चक्रववर्त्ती तत्र तम् अमितगतिं राजानं पूर्वकल्पितं मन्दरीये राज्ये समभिषिक्तवान्। अर्पितवांश्चतस्मै भक्ताय अव्यभिचारिणे राज्ञेकाञ्चनदंष्ट्रादीन्तदीयान् महीक्षितः। ततस्तत्रकैलासोत्तरदिक् पार्श्वलक्ष्म्या समालिङ्गितः सप्ताहं तत्रत्येषु महर्द्धिषु उद्यानेषु रेमे। ततः उभयवेद्यर्द्धविद्याधरमहीभृतं चक्रवर्त्तित्वमासाद्यापि अधिकेच्छुः स्वमन्त्रिभिर्वारितोऽपि अलङ्घ्यमेरुभूमीःसुराश्रया विजेतुं गमनाय प्रावर्त्तत। अत्यर्थोपचिता तेजस्विनी दोप्तादावानला इव साधनं विना कामं विवशा न हि तिष्ठन्ति। ततस्तं तथा प्रवृत्तंनारदः समुपेत्य एवमवादीत् राजन्! नीतिज्ञस्यापि ते कोऽयमविनयोद्यमः? उत्सेकादसाध्ये प्रवर्त्तमानो हि दर्पेण कैलासो-न्मूलनोद्यतः दशास्य इव परिभूयते। दुर्लङ्घ्योऽयमर्कचन्द्राभ्यामपि मेरुः, तव च भगवता शम्भुना विद्याधरेन्द्रता प्रदिष्टा न सुरेन्द्रता, विद्याधराणां भूमिर्हिमालयस्त्वया
,

विजितः, तद् राजन्! देवभूमौ मेरौ किं ते कार्य्यं दुर्ग्रहं मुञ्च, मन्दरदेवस्य पिता अकम्पनो नाम त्वया शिवमिच्छता वनस्थो द्रष्टव्यः इति अभिधाय स मुनिस्तथेति प्रतिपन्नंतं चक्रवर्त्तिनमामन्त्रायथागतमयासीत्। चक्रवर्ती अपि कार्य्यज्ञः नारदेन निवारितः देवमायात् श्रुतम्ऋषभनाशं स्मरन् वुद्ध्याविमृष्य तं तपोवनस्थं राजर्षितमं मन्दरदेवपितरम् अकम्पनं द्रष्टुमभिजगाम। प्राप चास्य तपोवनं योगनिष्ठैः पद्मासनोपविष्टैर्महर्षिभिर्ब्रह्मलोकमिव वृतम्। ददर्श च तत्र वृद्धंजटावल्कलधारिणं मुनिवरैर्महाद्रुममिवाश्रितम् अकम्पनम्। ववन्दे चोपसृत्य तस्य तपस्विनः पादौ। असौ अपि कृतातिथिसत्कारः तं निजगाद राजन्! त्वया इममाश्रममागच्छता युक्तंकृतम् उल्लङ्घ्यगच्छतस्ते महर्षयः शापं दद्युः। इत्येवं तस्मिन् राजर्षौ वदति तत्र तपोवने गृहीतमुनिव्रतः स मन्दरदेवः स्वस्रा कुमार्य्या मन्दरदेव्या सहितः पितुरन्तिकमागात्। नरवाहनदत्तश्च तं दृष्ट्वा कण्ठे समग्रहीत् जितशान्तेषु अरिषु धीराणां स्नेह एवोचितः। अथ स राजर्षिरकम्पनः तां मन्दरदेवींभ्रात्रासममुपगतां दृष्ट्वा तं सम्राजमब्रवीत्वत्स! इयं मन्दरदेवीति ख्याता मम सुता, दिव्यया वाचा इयमादिष्टा चक्रवर्त्तिमहिषो भाविनीति। तदेतां चक्रवर्त्तिन्! मदर्पिताम् उपयच्छस्व। इति तस्मिन् पितरि उक्तवति सा मन्दर-देवीजगाद तात! सन्ति मे वयस्याश्चतस्रः कन्यकाः। एका कनकवतीनाम काञ्चनदंष्ट्रस्य राज्ञःकन्या, द्वितीया कालवतीनाम कालजिह्वस्य कन्या।

तृतीया दीर्घदंष्ट्रस्य सुता श्रुता नाम। चतुर्थी योत्रगजस्य सुता अम्बरप्रभा नाम। तासां विद्याधरेन्द्रकन्यानामहं पञ्चमी। वयं पञ्चैव भ्रमन्त्यः पूर्वं तपोवने इमं दृष्ट्वा सोत्काः समयपूर्वकम् आर्य्यपुत्रं व्यदध्म। यथा सममस्माभिरसौ वरणीयः, या अस्माकं पृथगमुं भजेत्, तामुद्दिश्य अस्माभिरात्मा मोक्तव्यइति। तत् ताभिः सखीभिर्विना न मम परिणयो युक्तः, कथं हि मादृश्यः सत्योल्लङ्घनसाहसं कुर्य्युः।

इत्थं तया प्रौढ़या कन्ययाभिहिते तत्पिता अकम्पनः तासुचतुरोऽपि कन्यकापितॄन् विद्याधरेन्द्रानानाययत्। अवदच्च तेभ्यः कन्यावृत्तान्तं सर्वम्। तेऽपि तत्क्षणं कृतार्थम्मन्याः स्वाः स्वाः कन्या गृहेभ्यः समानयन्। ततः सम्राट् नरवाहनदत्तः ताः सर्वाः पञ्च कन्याः यथायथं परिणिनायउवास च तत्र ताभिः समं बहूनि दिनानि ऋषीन् त्रिसन्ध्यंप्रणमन् समहोत्सवम्। अथाकम्पनेन राजन्! अधुना महाभिषेकार्थम् ऋषभाद्रिंव्रजेत्युक्ते देवमायोऽपि तमुवाच देव! एवमेव त्वया कार्य्यं यतः प्राक्तना ऋषभादयश्चक्रवर्त्तिनः प्रथममभिषेकं कुर्वन्ति स्म। तदाकर्ण्य समीपवर्त्तिनि श्लाघ्येमदनाद्रौ प्रशंशति अभिषेकं हरिशिखे वागुदचरद्दिवः राजन्! पूर्वे सर्वे हि चक्रवर्त्तिनः ऋषभशैले महाभिषेकं प्राप्तास्तत् त्वमपि सिद्धये तत्र गच्छ इति। एवमुक्तः स दिव्यया वाचा, तानकम्पनादीन् ऋषीन् प्रणम्य शुभेऽहनि ऋषभाद्रिं प्रति प्रतस्थे। तच्च त्रिशीर्षाख्य गुहाया उत्तरं द्वारं प्राप्य अमितगति-

प्रभृतिभिर्वद्याधरेश्वरैः सह तत्र तां कालरात्रिं संपूज्य द्वारेण तेन तां गुहां प्रविश्य च दक्षिणेन विनिर्ययौ। निर्गत्य च सैन्यैःसमं देवमायस्य मन्दिरे तेनानुरुद्धःसपरिच्छदस्तस्मिन् दिने विराश्राम। तत्रस्थश्चस तत्र कैलासे नित्यसन्निहितं हरं विचिन्त्य तं द्रष्टुं गोमुखादिभिः सचिवैः सह जगाम। तदाश्रममासाद्य दृष्ट्वा च तत्र सुरभिं वृषभं प्रणम्य च द्वास्थं नन्दिनमाससाद। अथ तेन प्रदक्षिण प्रतीतेन मुक्तद्वारःप्रविश्य तं वृषभध्वजंदेव्या सह अक्षैः क्रीडन्तमद्राक्षीत् दृष्ट्वैव च दूरात् तस्य वरदस्य वरदायाश्च चरणेषु पपात चकार च त्रिः प्रदक्षिणम्। प्रहृष्टश्च भगवानब्रवीत् वत्स! युक्त कृतं त्वयात्रागतेन, अन्यथा महान्दोषो भवेत् अधुना ते सर्वा विद्याः शत्रुरभङ्गुरा भविष्यन्ति। तदिदानीं सिद्धक्षेत्रमृषभाचलं व्रज। तत्र च शीघ्रं प्राप्तकालं महाभिषेकमवाप्नुहि। इति समादिष्टः स नरवाहनदत्तः तं देवं देवीञ्च पुनः प्रणम्य पुनर्देवमायस्यमन्दिरभगात्। आगतश्च, आर्यपुत्र! त्वमद्य प्रहृष्टो दृष्यसे, इहापि किम् अन्याः पञ्च कन्यकाः मिलिताः? इत्यादि नर्म्मवचसा आप्याययन्तीं मदनमञ्चुकामुक्ततत्त्वार्थोनन्दयन् सुखमवास्थित।

अथान्येद्युः स गन्धर्वविद्याधरबलान्वितः तेजस्विना आत्मना द्विभास्करमिव व्योम कुर्वन् सावरोधः ससचिवश्चविमानवरमारूढ़ः ऋषभपर्वतं प्रययौ। प्राप च तं वाताधूतजटालतैर्विकीर्णपुष्पैस्ताप्सैरिव पादपैर्वृतंगिरिम्। तत्र ते ते विद्याधरेन्द्रास्तस्य प्रभोर्महाभिषेक-

सम्भारान् समाजह्नुः। तस्मिंश्चभिषेके सर्वे भक्तभीतजिताहुता विद्याधराः प्राभृतपाणयः दिग्भ्यः समापतन्। ततस्ते विद्याधराः, अत्र महादेवीपदे का अर्द्धासनोपविष्टा अभिषेक्तव्याइति तं पप्रच्छुः। समं मया देवी मदनमञ्चुकाभिषेक्तव्याइति राज्ञाभिहिते ते खेचराः समं ध्यानं ययुः। अथ गगनादशरीरा सरस्वती समुदचरत्हं हो विद्याधराः! नेयं मदनमञ्चुका मर्त्त्या वेदितव्या, एषा रतिरेव समवतीर्णा अस्य कामदेवावतारस्य युष्माकं प्रभोः। नासौ कलिङ्गसेनाया मदनवेगात् जाता, अयोनिजैषा देवेर्हिमायया तस्यास्तं गर्भं परिवर्त्त्य कलिङ्गसेनायास्तत्क्षणंसमर्पिता यस्तु मदनवेगात् तस्या गर्भो जातः, सः अकसंज्ञक एवास्य मदनवेगस्य पार्श्वेसमर्पितः। तदेषामदनमञ्चुका एवास्य पत्युरर्ध्दासनभाक्, अस्या एव तपस्तुष्टो हरः पुरा एवं वरं प्रादात् इत्युक्त्वा तस्यां वाचि विरतायां ते विद्याधरास्तुतुषुः तुष्टुवुश्च तां देवीं मदनमञ्चुकाम्। ततः शुभेऽहनि शान्तिसोमे पुरोहिते व्यग्रे, खेचरीणांमाङ्गल्यतूर्य्यसङ्गीतेषु प्रारब्धेषु दशदिशो ब्राह्मणानां ब्रह्मघोषेषु उच्चरत्सु स्त्रियः स्वयं वामार्द्धस्थितमदनमञ्चुकं सिंहासनस्थं तं नरवाहनदत्तं नानातीर्थसमुद्भवैः हेमकुम्भसलिलैरभ्यषिञ्चन्। चित्रमिदं तस्य मूर्ध्नि पतितैर्मन्त्रपूतैर्जलैर्मलतो धौतं गूढ़ं द्विषां वैरमलं निरगात्। लक्ष्मीस्तदभिषेका-म्बुसामुद्रबन्धुबुद्ध्यासाक्षात् तेन अम्बुना सह तस्याङ्गमन्वागतेवावृणोत्। ततो नाकनारीणां करेभ्यश्च्युताः स्वयं पतन्तौ पुष्पाणां माला तस्य शिरसि

गङ्गेवहरस्य व्यशोभत। स तदा अरुणेनाङ्गरागेण प्रतापेन चालङ्कृतःउदयस्थः समुद्रसलिलस्नातः सूर्य्य इव बभौ बद्धामन्दारमाल्यः सद्वस्त्राभरणोज्ज्वलःआमुक्तदिव्यमुकुरः श्रियं वासवीमिवाहसत्। पार्श्वस्था कृताभिषेका देवीमदनमञ्चुका च दिव्यैरलङ्कारैरिन्द्रस्य शचीव विवभौ। तत् दिनं नदद्दुन्दुभिमेघं दिवः पतत् कुसुमवर्षं सुराङ्गना विद्युत्पूर्णं चित्रं दुर्दिनमभवत्। ततश्चारणैस्तस्मिन् महोत्सवे यन्त्रसु रजेषु आहतेषु नगोऽपि प्रतिशब्दवतोर्गुहा अवादयदिव। दिव्यासवरसेन क्षीवैश्चलद्भिर्विद्याधरैरावृतः स पर्वतोऽपि पानेन घूर्णमान इव व्यराजत्। इन्द्रोऽपि उक्ताभिषेकस्य श्रियं प्रेक्ष्य स्वाभिषेके भग्नमानो विमानगः समभवत्। इत्थम् अभीष्टचक्रवर्त्ति महा-भिषेकंप्राप्य स नरवाहनदत्तः समुत्सुकः पितुः सस्मार। सद्यश्चसचित्रैर्गोमुखादिभिः सम्मन्त्रासाम्ना राजानं वायुपथमाहय समादिशत् सखे! भृशमुत्कण्ठितस्त्वांस्मरति नरवाहनदत्त इति पितरं गत्वा मदीयवृत्तान्तं ब्रूहि, आनय च तं तातं मातॄश्चमन्त्रिणश्च तांस्तान् मत्सकाशमिति। इति श्रुत्वा स वायुपथः सपदि व्योम्नाप्रययौ प्राप च क्षणात् दृष्टः सभयविस्मयैः पौरैः कौशाम्बीं विद्याधराणां सप्तभिः कोटिभिर्वृतः। ददर्श च तं वत्सराजं मन्त्रिभिर्वृतं देवीभिः सहितं चिन्तान्वितम्। अथ यथार्हंविहितादरः समुपविश्य कुशलं च पृष्ट्वा स विद्याधरपतिः सर्वैः सकौतुकं दृश्यमानः तं नृपमवादीत् देव! तव नरवाहनदत्तः सुगूढ़ देवं शङ्करमाराध्य साक्षात्कृत्य

च तस्मात्सुदुर्जया विद्याः समवाप्य च मानसवेगं गौरमुण्डञ्च दक्षिणी हत्वा उत्तरे वेद्यर्द्धपतिं मन्दरदेवं विजित्य च असाध्यो-भयवेद्यर्द्धविद्याधराधिपतीनां सर्वेषां शासनभूतं महत् चक्रवर्त्ति पदं प्राप्य साम्प्रतं ऋषभे पर्वते महाभिषेकं सम्प्राप्तस्तिष्ठति। स खलु सम्राट् साम्प्रतं सशुद्धकण्ठितः त्वां सदेवीमन्त्रिकं स्मरति। प्रेषितश्चाहं तेन भवतामानयनार्थम्। तत् सत्वरमागम्यताम्। पुण्यवन्तो हि उच्चैःकृतान्वयं सन्तानं पश्यन्ति। इति तस्मात्विद्याधरात् निशम्य स राजा वत्मपतिर्भृशमुत्कण्ठां बभार। चकार च गमने मतिम्। अथ स देवीभ्यां कलिङ्गसेनया च समन्वितः सचिवैः सर्वैः सह शिविकामारुह्य विद्याधरस्य तस्य विद्याप्रभावात् व्योम्ना समुत्पपात प्राप च द्रुतं तं दिव्यमृषभाख्यं महागिरिम्। ददर्श च तत्र दिव्यसिंहासनस्थितम् विद्याधरेन्द्रैःस्तूयमानं बह्वीभिर्भार्याभिः मदनमञ्चुक-मुख्याभिः परिवृतं पूर्वाचलमस्तकस्थितं ग्रहग्रामपरीतं भूरितारावलीवेष्टितं शमाङ्कमिव पुत्रम्। तदानींराजा उदयनः तद्दर्शनसुधा-सारसेकेन प्रोल्लसितान्तरः कामपि चन्द्रोदयारम्भेनिर्वृतिं सागर इव भेजे। स च नरवाहनदत्तश्चिरात् तं पितरमागतं दृष्ट्वा ससम्भ्र-ममुत्थाय सपरिच्छदः समुत्सुका यावदभ्यगात्, तावत् तेनालिङ्गितः अङ्गमधिरोपितश्च भूयोऽपि आनन्दबाष्पाम्बुपूरेण अभ्यषिच्यत। देवी च वासवदत्ता चिरात् तं तनयमाश्लिष्य तदालोकप्रस्तुतस्तन्यैःस्मृतशैशवमभ्यषिञ्चत्। पद्मावती यौगन्धराय-

णाद्याःपैतृका मन्त्रिणः मातुलः गोपालकश्च सतृष्णया दृष्ट्या तस्यामृतमयं वपुः पिबन्ति स्म। कलिङ्गसेना तं जामातरमात्मजाञ्च दृष्ट्वा हर्षजड़ा स्वेषु अङ्गेषु न मातिस्म यौगन्धरायणाद्याश्च मरुभूतिमुखान् सुतान् नरवाहनदत्तप्रसादेन लब्धविद्याधरपदान् दृष्ट्वा भृशम-भ्यनन्दन्।

अथ आमुक्तदिव्याभरणा मदनमञ्चुका अलङ्कारवतीरत्नप्रभा ललितलोचना कर्पूरिका शक्तियशाभगीरथयशारुचिरदेव भगिनी दिव्यरूपा वेगवती गन्धर्वदत्ता प्रभावती चन्द्रलेखा वायुवेगयशाकालिकाद्याश्चतस्रः सुलोचनाः तथा मन्दरदेवीप्रमुखाः पञ्च विद्याधर्य्यः सर्वा एव नरवाहनदत्तस्य महिष्यः तं श्वशुरं वत्सराजं श्वश्रूंवासवदत्तां पद्मावतीञ्चपादेषु प्रणेमुः। ते च हर्षात् यथोचिताभिराशीर्भिस्ता अवर्द्धयन्।

अथ यथार्हासनासीने सान्तःपुरे वत्सराजे नरवाहनदत्तः स्वं सिंहासनमारुरोह। ततो देवी वासवदत्तास्तास्ताः स्नुषाः सादरं पश्य-न्तीकुलनामनीच पृच्छन्ती भृशं मुमुदे। ततस्ते वत्सेश्वरादयः पुत्रस्य तां दिव्यां विभूतिं पश्यन्तः कृतार्थं जन्म मेनिरे।

इत्थं तत्र बन्धूनां समागमोत्सवे प्रवृत्ते प्रतीहारो रुचिरदेवो नान प्रवीरः प्रविश्य व्यज्ञापयत् देव। आपानभूमिः सज्जिता, तत्रागम्य-तामिति तदाकर्ण्य तेसर्व तां शुभां विचित्ररत्नचषकप्रफुल्लविविधाम्बुजां विकीर्णानेककुसुमामुद्याननलिनीमिव आसवापूर्णकल-सधारि-

णीभिः पुरन्ध्रिभिर्व्याप्तां पानभुवमाययुः। पपुश्च तत्रावरोधस्त्रीलज्जानिगड़भेदि स्मरजीवितसर्वस्वं विलाससचिवं मधु। तेषां मधुना उत्फुल्लानि अरुणानि मुखानि बालातपेन सम्पृक्तानि सरसां सरोजानीव विरेजुः। देवीनाम् अधरजितैर्भीतैरिव तत्सङ्गमात्, अल्प-राजच्चषकैः स्वरुचा शोधुनिह्नवश्चक्रे तदा नरवाहनदत्तस्य देव्यो मद्यपायिन्यः अकोपकलिता अपि सभ्रूभङ्गारुणेक्षणा आसन्। ततस्ते क्रमेण विद्याविभवसम्भूतविविधाहारहारिणीं भोजनभूमिमासादयन्। ततो विहिताहारास्ते भास्करे सन्ध्यया सह अस्तगिरौ विश्रान्ते शय्यागृहाणि भेजुः। नरवाहनदत्तस्तु विद्यया बहुधा वपुर्विभज्य सर्वा एव देवीः स्वगृहेषु समासदत्। तासु चइन्दववनां समदां लीलतारकां निशामिव तां मदनमञ्चुकामादाय विशेषेण रेमे। वत्सेश्वरोऽपि सानुगोदिव्यभोगवान् तयैव तन्वा सम्प्राप्तजन्मान्तर इव तां रात्रिमनयत्। अथ प्रातः सर्वे ते प्रबुध्य विद्यासिद्धवरोद्यानमन्दिरेषु तैस्तैर्भोगैः परमं सुखमनुभवन्तस्तस्थुः।

इत्थंविविधविहारैस्तेषां तत्र बहुषु दिवसेषु प्रयातेषु प्रीतिमान् वत्सराजः स्वांपुरीं जिगमिषुःनिखिलखचरराजं प्रह्वं स्वसुतमुपगम्य जगाद पुत्र! एषु दिव्येषु भोगेषु कः सचेतनो न रमते? किन्तु जन्मभूमिस्नेहः मानुषानाकर्षति। तत् वयं स्वां पुरीं व्रजामः त्वं पुनरिमां वैद्याधरीं श्रियां भुंक्ष्व,

पुनश्च अवसरे वयम् आह्वातव्याः, यदेतं कान्तं चक्षुष्पीतामृतरसमयं त्वन्मुखेन्दुम् आलोकयामःयच्च दिव्यां भवतो लक्ष्मीं वीक्ष्य मोदामहे एतद्धि इह जन्मनि फलम्। इत्थं पितुरकृतकं वचो निशम्य सम्राट् नरवाहनदत्तःविद्याधरपतिं देवमायमाहूय बाष्पगद्गद-मादिदेश। सखे। तातो मे अम्बया सचिवैश्चान्वितः स्वां राजधानीं जिगमिषति तदस्याग्रे सम्पूर्णहेममणिभारसहस्रं प्रस्थापय। इति स्वामिनाज्ञप्तः प्रह्वः स देवमायःप्रीतिपूर्वं तमाहस्म प्रभो! आकौशाम्बि, एतत् सिद्धये सानुगः प्रयास्यामीति। अथ स चक्रवर्त्ती वस्त्रा-लङ्कारपूजितस्य तस्य पितुरनुयात्रिकः वायुपथदशितमार्गः सचिवयुतः समभवत्। सोऽपि वत्सराजः सपरिवारः आरूढदिव्यवाहं पुत्रं दूरानुगतं निवर्त्त्य निजां पुरीं प्रययौ। देवी वासवदत्ता तत्कालोद्भूतशतगुणोत्कण्ठंप्रणतं तं पुत्रंनिवर्त्त्यसाश्रुपश्यन्ती कथञ्चित् राजानमन्वगात्। नरवामदत्तोऽपि सचिवादियुतस्तान् गुरूननुव्रज्य बाष्पान्धकारितमुखः तमेव ऋषभगिरिं प्रत्यगात्। तत्र स वाल-सचिवैर्गोमुखादिभिर्विद्याधरेन्द्रैः परिवृतः सान्तःपुरी मदनमञ्चुकया परिचर्य्यमाणः दिव्यान् भोगाननुभवन् सुखमतिष्ठत्।

_________

अथ सुरतमञ्जरीनाम षोड़शो लम्बकः।

<MISSING_FIG href="../books_images/U-IMG-1722933447Screenshot2024-08-05123941.png"/>
अथ शतोत्तरैकादशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722933447Screenshot2024-08-05123941.png"/>

एवं तस्मिन् ऋषभे पर्वते तिष्ठतः सभार्य्यस्य समन्त्रिणः परां विद्याधरश्रियं भुञ्जानस्य तस्य चक्रवर्त्तिनः सुखानि पुष्णान् एकदा मधुराययौ। शशलक्षणश्चारुचन्द्रिका प्रससाद।वसुन्धरा नवीनशाद्वलाश्लिष्टा सस्वेदा अभूत्। मुहुश्चमलयमारुतैरालिङ्ग्यमानाः कम्पमाना वनराजयः कण्टकिताःसरसाश्चासन्। पुष्पचापप्रतीहारः कोकिलः चूतयष्टिंविलोकयन् क्वणन् मानवतीनां मानमिव निराकरोत्। भृङ्गराजयश्च पुष्पवल्लीभ्यः सस्वना मारवीरस्य धनुर्मक्ता नाराचपङ्क्तय इव निष्पतन्ति स्म। एवं तां मधुप्रवृत्तिं वीक्ष्य ते सचिवा गोमुखादयस्तं नरवाहनदत्तं व्यजिज्ञपन् देव! पश्य अन्य एवं मधूतफुल्लकाननालीनिरन्तरः पुष्पमयोऽयमृषभाद्रिर्जातः विलोकयतु देवः, इमा हि लताः अन्योन्यघटितैः पुष्पैस्तालयुतैरिव भृङ्गीणां विरुतैः सगीता इव वातवेपिता वसन्तसज्जितोद्यान-मन्मथास्थानगायिनीःपरागपटमालिनीः। इयञ्च अलिमालाश्लथज्या जगत् जित्वा विश्रान्तस्य कामस्येव धनुर्लता चूतमञ्जरीदृश्यताम्। तदत्र रुचिरोद्याने मन्दाकिनीतटे गत्वा इमं तावत् मधूत्सवमुपभुज्महे। इति तैः सचिवैरभिहितः

स नरवाहनदत्तः सावरोधस्तं मन्दाकिनीतटं प्रययौ। तत्र नाना विहगनादिते एलालवङ्गवकुलाशोकमन्दारमण्डिते उद्याने चिक्रीड़। चन्द्रकान्तशिलातले विपुले समुपविश्य च तां महादेवींमदनमञ्चुकां वामे निवेश्य च अन्याभिश्च विद्याधरीभिर्महिषीभिः विद्याधरै-श्चचण्डसिंहामितगतिप्रमुखैःपरिवृतः आपानं सेवमानःतास्ताश्च प्रमोदकरीः कथाः प्रस्तावयन् तमृतुमधिकृत्य स्वान्सचिवानब्रवीत् पश्यत, मधावस्मिन् सुखस्पर्शी मृदुर्दक्षिणः पवनः, विमला दिशः, पदे पदे पुष्पितानि सुगन्धीनि काननानि, मधुराः कोकिलानामालापाः, पानलीला च सुखावहा, तदत्रकिं प्रेयः सुखं न? वियोगस्तु अत्र सुदुःसहः। किमन्येषां, तिरश्चामपि अत्र वियोगिता कष्टा, पश्यत एतां विरहक्लान्तां कोकिलाम्, एषा हि नष्टं पतिमन्वेष्टुंसुचिरं कूजन्तौतमप्राप्य चूते मृते वालीय निस्वना तिष्ठति। इत्युक्तवन्तं तं राजानं गोमुखोमन्त्री प्राब्रवीत् देव! सत्यंकालेऽस्मिन् विरहः सर्वदेहिनामेव सुदुःसहः। तदत्र श्रावन्तीवृत्तमेकं कथयामि शृणोतु देवः।

अस्ति श्रावन्ती नाम नगरी। तत्रासीत् कश्चित् राजसेवको ग्रामभुक् राजपुत्रः शूरसेनो नाम। मालवदेशीया अनुरूपा सुषेणा नाम्नीतस्य भार्य्याप्राणाधिकप्रिया आसीत्। स कदाचित् राज्ञादिष्टःकटकं गन्तुमुद्यतः अनुरागिण्या तया साध्व्यानिजगदे आर्य्यपुत्र! न मामेकाकिनीं विहाय गन्तुमर्हसि। न ह्यहं क्षणमपि

त्वया विना स्थातुं शक्ष्यामि। एवमुक्तस्तया प्रियया स तामगादीत् तन्वि! राज्ञाहूतः कथं न गच्छामि, न त्वं किं वेत्सि? राजपुत्रोऽहं परायत्तवृत्तिः सेवकोऽस्मीति तदाकर्ण्य साश्रुमुखी सा भार्य्या तं प्रत्यभाषत नाथ! यदि ते अवश्यं गन्तव्यं तदहं कथञ्चित् सहिष्ये, यदि मधौ समुपस्थिते त्वं दिनमपि अनतिक्रामन् उपैष्यसीति। तदाकर्ण्य सोऽब्रवीत् प्रिये! निश्चितं ब्रवीमि, कार्य्यमपि त्यक्त्वा चैत्रस्य प्रथमेऽहनि अवश्यमेष्यामीति। इत्युक्तवान्कथमपि प्रियया अनुमतः स शूरसेनः राज्ञः समीपं कटकमगात्। तस्य भार्या च आशया दिनानि गणयन्ती तदागमावधि मधुप्रारम्भदिवसेत्क्षिणी कथञ्चित्तस्थौ।

अथ गतेषु दिनेषु मधूत्सववासरः समायातः। तत्पथाह्वानमन्त्राभो विलसत्कोकिलध्वनिः कुसुमामोदमाद्यन्मधुकरारवैः समं कामेनारोप्यमाणस्य कार्मुकस्येव निस्वनः शुश्रुवे। सोऽयं मधूत्सवः प्राप्तः, तदद्य ध्रुवं प्रियो मे समुपैष्यति इति तस्मिन् दिने सा शूरसेनप्रिया विचिन्त्य विहितस्नानापुष्पैरभ्यर्चितस्मरा विरचितवेशा तन्मार्गमुदीक्षमाणा तस्थौ। यदा दिनात्ययेऽपि तस्याः पतिर्नाययौ तदा सा निशि नैराश्यविधुरा व्यचिन्तयत्मृत्युकालोऽय मे समायातः, न तु स मे प्रियः समागतः, परसेवैकसक्तानां हि निजे जने कः स्नेहः? इत्येवं चिन्तयन्त्यास्तस्यास्तद्गतचेतसस्तदा स्मरदावाग्निदह्यमाना इवासवः निर्ययः। शूरसेनोऽपि दयितोत्सुकः कथमपि

भूपात् आत्मानं मोचयित्वा तद्दिनं व्यतिक्रामन् करभश्रेष्ठमारुह्य सुदूरमध्वानमुल्लङ्घ्य रात्रेःपश्चिमे यामे आगतः निजं गृहं प्राप। ददर्श च तां कृतमण्डनां गतप्राणाम्उत्फुल्लकुसुमां वातेनोन्मूलितामिव लतां पतितां प्रियाम्। दृष्ट्वैव विह्वलस्य तामङ्केकुर्वतः विरहिणः प्रलापैरेव तत्क्षणात् प्राणा विनिर्ययुः।इत्थं विपन्नौतौ दृष्ट्वा दम्पती, परया कृपया युक्ता वरदा कुलदेवता चण्डी जीवयामास। ततस्तौ प्रत्यागतप्राणौ ततःप्रभृति अन्योन्यं दृष्टामुरागौ अवियुक्तौ अभूताम्। तदेवं देव! वसन्तसमये केषां देहिनां मलयानिलवोजितो विरहानलः न सुदुःसहः? इति गोमुखेनाभिहिते नरवाहनदत्तस्तदेव किल भावयन् अकस्मात् विमना इवाभवत्। महात्मनां विना हेतुं सुस्थितो वा दुस्थितोऽन्तरात्मा हि पुरोभावि शुभं वा अशुभं सूचयति, ततश्च दिवसेऽतिक्रान्ते सम्राट् सन्ध्यामुपास्य वासवेश्मनि विश्रान्तः शयनीयं गत्वा स्वप्नेनिशावसाने स्वंपितरं कृष्णया कयाचित्स्त्रिया आकृष्य दक्षिणापथं नीयमानमपश्यत्। दृष्ट्वैव प्रबुद्धः सः अनिष्टशङ्कया ध्यातोपस्थितां विद्यां वार्त्तामपृच्छत् विद्ये! ब्रूहि मे तातस्य वृत्तान्तं तन्निमित्तस्य दुःस्वप्नस्य दर्शनात् शङ्कितोऽस्मि। इति तेनोक्ता सा विद्या मूर्त्तिमतीतमभाषत देव! शृणु ते पितुर्वत्सराजस्य वृत्तम्। स एकदा कौशाम्बीस्थितः उज्जयिन्या समागतात् दूतात् चण्डमहासेनं ते मातामहं विपन्नम् तञ्चाङ्गारवतीं देवीं कृतानुगमनां शुश्राव।श्रुत्वैव स राजा सह वासवदत्तया

मुमोह पपात च धरण्याम्। अथ कथञ्चित् लब्धसंज्ञः सदेवीकः स्वर्गतौ श्वशुरौ भृगं शुशोच। राजन्! भङ्गुरेऽस्मिन् संसारे न च कस्यापि स्थिरता, स च राजा चण्डसेनोऽशोच्यः यस्य जामाता भवान्, पुत्रश्च विश्रुतो गोपालकः। दौहित्रश्च विद्याधरचक्रवर्ती नरवाहनदत्त इति मन्त्रिभिः प्रबोध्य समुत्थापितः श्वशुराभ्यांजलमदात्। ततः श्यालं शोकार्त्तं पार्श्वस्थितं गोपालकं स्नेहात् सवाष्पकण्ठः समम्बधात् सखे! उत्तिष्ठ उज्जयिनीं गच्छ, पैतृकं राज्यं पालय। दूतमुखात् श्रुतं प्रजास्त्वां प्रतीक्षन्ते इति तदाकर्ण्य स गोपालको रुदन् वत्सराजमवादीत देव! नाहं त्वां भगिनीञ्च त्यक्त्वागन्तुं शक्नोमि, तातशून्याञ्च पुरीं द्रष्टुं न चोत्सहे। तत् पालको मेऽनुजः मदनुज्ञया राजास्तु।एवं वदन् यदा गोपालको राज्यं नैच्छत् तदा सेनापतिं रुमण्वन्तम् उज्जयिनीं पुरीं विसृज्य वत्सेश्वरः कनिष्ठं श्यालं तं पालकं ज्येष्ठेन दत्ताभ्यनुज्ञं तस्यां राज्येऽभ्यषेचयत्। अथ स तव पिता सर्वमस्थिरमालोक्य विषयेषु विरक्तः यौगन्धरायणादीन् सचिवानि-दमब्रवीत् असारेऽस्मिन् भवे भावाःपर्य्यन्तनीरसा दृश्यन्ते, अस्माभिश्च राज्यं कृतं भोगाश्चभुक्ताः, अरयश्चजिताः, सुतश्च मे विद्य-धरैन्द्रत्वं प्राप्तो दृष्टः, इदानीञ्चास्माकं बान्धवैः साकं वयोऽतीतं, पलितञ्चास्मान् मृत्यवे दातुं केशेषु आचकर्ष। बलिभिश्च क्लीवं राज्यमिव शरीरं मे समाक्रान्तम्। तस्मात् कालिञ्जरगिरौ गत्वा अशाश्वतं देहमिमं त्यजन् शाश्वतं पदं साधयामि। इत्युक्तास्तेन

राजा सर्वे सचिव देवी वासवदत्ता च तत् विचार्य्य समचित्तास्तं नृपमब्रुवन् देव! यथाभिरुचितं भवतः, वयमपि भवत्प्रसादात् अनुगच्छन्तः उत्तमां गति गन्तुमिच्छामः। इत्थंस्वमतानुयायिभिस्तैः सचिवैरनुमोदितः स राजा कृतनिश्चयः तं गोपालकं श्वाशर्य्यंतत्रस्थं धुर्य्यमभ्यधात्सखे! नरवाहनदन्तः त्वञ्च मम तुल्यौ मतौ, तदेतां कौशाम्बीं रक्ष, राज्यं तुभ्यं मयार्पितम्। इत्थंवत्सराजेनोक्तः स ते मातुलो गोपालकः प्रत्यवादीत् देव! युष्माकं या गतिः, सैव मे रुचिरा, नाहं युष्मान् त्यक्तमुत्सहे। एतदेवानुबन्धेन जल्पन् स स्वसृवत्सलः गोपालको वत्सराजेन कृतकं कोपं कृत्वा जगदे अद्यैव मम अनायत्तो जातोऽसि? स्वपदात् च्यवमानस्य कस्याज्ञां कोहि मन्यते? इति राज्ञाभिहिते गोपालकोऽधोमुखो रुदन् वनाय कृतबुद्धिः सन्नपि तदानीं न्यवर्त्तत।

ततो राजा गजारूढः देव्या वासवदत्तया पद्मावत्या च सहितः नन्विभिश्च परिवृतः सम्प्रतस्थे। तच्च कौशाम्ब्या निर्गतं क्रन्दस्तः सयोषिद्बालवृद्धाःपौराः समनुजग्मुः। ततश्च राजा वत्सेश्वरः, गोपालको युष्मान् पातीति कथञ्चन तानाश्वास्य निवर्त्य च कालिञ्जरं गिरिं प्रायात्। तञ्चगिरिं सम्प्राप्य समारुह्य च तत्र वृषभध्वजं प्रणम्य सर्वकालप्रियां घोषवतींवीणां हस्ते कृत्वा पार्श्वगामिनीभ्यां देवीभ्यां मन्त्रिभिश्चयौगन्धरायणादिभिरन्वितः प्रपातात्पतितोऽभवत्। पतन्नेव स भूपतिः सानुगः तत्क्षणमागतेन विमानेन द्योतमानः स्वर्गमगात्। एवं विद्यामुखादा-

कर्ण्य हा तात! हा अम्ब! इति अभिधाय स नरवाहनदत्तः सहसा मूर्च्छितो भुवि पपात। अथ लब्धसंज्ञः निजामात्यैःप्रमीतपितृकैः सार्द्धं पितरं मातरं पितृमन्त्रिणश्चान्यशोचत्। देव! एतस्य क्षणभङ्गुरस्य इन्द्रजालोपमस्य संसारस्य तत्त्वज्ञोऽपि कथं विमुह्यसि? अशोच्यान्कृतकृत्यान् पितॄन् कथमनुशोचसि? येषां भवान् विद्याधरेन्द्राणां चक्रवर्ती सुत इति विद्याधरेन्द्रैर्धनवत्या च प्रबोधितः स सम्राट् पितृभ्यां जलं दत्त्वा पुनस्तां विद्यां पप्रच्छ। विद्ये! स मे मातुलो गोपालकः क्वास्त, किं वा करोदिति। ततो विद्यापि भूयस्तं सम्राजमभाषत देव! स तव मातुलो गोपालः वत्सराजे महापथगिरिं प्रयातेतं राजानं भगिनीञ्चानुशोच्य सर्वमध्रुवं मत्वा पुराद्बहिः स्थित्वा उज्जयिन्यास्तंपालकं भ्रातरमानाय्य तस्मै कौशाम्बीराज्यमपि प्रादात्। ततस्तस्मिन्ननुजे राज्यद्वयस्थे स वैराग्येण असितगिरिं तपसे प्रयातः तत्र कश्यपमुनेराश्रमे वल्कलवान् मुनीनां मध्ये तपश्चरन् साम्प्रतं तिष्ठति। इति श्रुत्वा तं मातुलं दिदृक्षुरुन्मनाः सपरिच्छदः स नरवाहनदत्तः विमानेन तममिताचलमगात्। तत्र गगनादवतीर्य्य विद्याधरपतिभिर्वृतः मुनेः कश्यपस्य अनेककृष्णसारभ्रमणैः सप्रेक्षित-मिव, पतत्रिणां क्वणितेन सस्वागताचारमिव, अग्निहोत्राणि जुह्वतां तपस्विनां दिवि आरोहमार्गं प्रदर्शयद्भिरिव धूममण्डलैः समुद्भासमानं बहुभूचरनागेन्द्रं कपिलावृन्दैराश्रितम् अपूर्वमूर्द्धवर्त्ति वितामसं

पातालमिव तदाश्रममपश्यत्। तत्र च तापसेषु जटालं तरुवल्कलवाससं मूर्तं शममिव वह्निमिव दीप्यमानं मातुलमद्राक्षीत्। सोऽपि गोपालको भागिनेयं तमुपागतं दृष्ट्वासमुत्थाय समाश्लिष्य च उदश्रुलोचनमङ्के चकार। अथोभौ तो नवीभूतशोकौबन्धूनशोचताम्। स्वजनालोकवातेरितो दुःखाग्निः कं नोपतापयेत्। अथ तयोर्दुःखदर्शनेन आर्त्तेषु तिर्य्यक्ष्वपि ते मुनयः कश्यपादयः समेत्य तौ समाश्वासयामासुः। एवं तस्मिन्नहनि गते प्रातः स सम्राट्तं गोपालकम् एहि मदैश्वर्य्येत्वं निवसेत्यभ्यर्थयामास। गोपालकोऽपि तमवादीत् वत्स! किं न पर्य्याप्तंतव दर्शनेन, स्नेहस्तवास्ति चेन्मयि, तदिमं समागतं वर्षाकालमिहाश्रमे त्वं मया सह निवस। इति तेन मातुलेनोक्ते स नरवाहनदत्तः तस्मिन्नेव कश्यपाश्रमे तं वर्षाकालं सपरिच्छदस्तस्थौ।

___________

अथ शताधिकद्वादशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722953555Screenshot2024-08-06194147.png"/>

अथैकदा तस्मिन्नसितगिरौनिवसन्तमास्थानगतं तं नरवाहनदत्तं कश्चित् सेनापतिरवादीत् देव! अद्याहं हर्म्यस्थः सेनां रक्षन्नप-श्यंदिव्येन केनापि पुंसा नभसि निशि ह्रियमाणां हा आर्य्यापुत्रेति रुदतींकान्तिसर्वस्वहारिणींकामपि स्त्रियम्। दृष्ट्वैवतमहमन्वधावम् अवदञ्च

सम्मुखपतितं तं पापं रे दुरात्मन्! परदारानपहृत्य क्व वासि? देवस्य नरवाहनदत्तस्य रक्षितुः राज्येयोजनानां षष्टिसहस्रेषु वैद्याधरे पदे तिर्य्यञ्चोऽपि नाधर्मं कुर्वन्ति, किं पुनरन्ये। इत्युक्त्वैव सत्वरं प्रधाव्य सानुगेन मया स पुमान् सनारीकः संयम्य व्योम्नः समवतारितः। अवतार्य्यच यावत् पश्यामि तावत् स पापः युष्मन्महादेव्या मदनमञ्चुकाया भ्राता अको नाम नभश्चरः ज्ञातः, यः कलिङ्गसेनायां देव्यां मदनवेगात् जातः। का इयं? कथमित इमां हरसीत्युक्तः स एवमभ्यधात् इयं मतङ्गदेवस्य विद्याधरपतेः सुता चूतमञ्जर्य्यां तन्महिष्यामुत्पन्ना सुरतमञ्जरी नाम। सेयं प्राक् मात्रा मह्यं वाचा दत्ता किल, साम्प्रतम् अस्याः पित्रा अन्यस्मै मानुषाय प्रतिपादिता, तस्मादसौमे निजा भार्य्या यदि प्राप्य हृता, तन्मे को दोष इत्युक्त्वासौ व्यरमत्। अथ सा सुरतमञ्जरी केनादौ त्वं परिणीता, कथं वामुना प्राप्तासीति पृष्टा प्रावोचत्।

अस्ति उज्जयिन्यां श्रीमान् पालको नाम नृपतिः। तस्य कुमारो नाम सुनामा पुत्रोऽवन्तिवर्द्धनोऽस्ति। तेनाहं परिणीता, अद्य हर्म्यतले सप्ताहं सुप्तस्यार्य्यपुत्रस्य अनेन पापेन हृता। एवमुक्तवतीसा संयतश्च सः अकः द्वावेव इहानीतौसाम्प्रतं प्रभुरेवात्रप्रमाणमिति। इत्थं सेनापतेर्हरिशिखात् श्रुत्वा स चक्रवर्ती संशयमापन्नस्तं गोपालकं शशंस स च गोपालकोऽवादीत्। वत्स! नैतन्मे विदितं, जाने च साम्प्रतं पालकपुत्रेण एषा परिणीता,

तदुज्जयिन्याः स कुमारो भरतरोहकेण मन्त्रिणासममानीयतां ततो निश्चयं ज्ञास्यामः। तदाकर्ण्य मातुलवचः, स चक्रवर्ती धूम्रलेखं विद्याधरं कनीयसो मातुलस्य पालकस्य राज्ञः सकाशं विसृज्य तावुभावानायितवान्। प्राप्तौ कृतपणामौ च तौ स चक्रवर्ती गोपालकेन सहितः स्नेहादराभ्यां सम्मान्य प्रकृतं पप्रच्छ।

ततः स्थिते तस्मिन् अवन्तिवर्द्धनेकुमारे निशाहीनचन्द्राभे, सुरतमञ्जर्य्याञ्च तथा दीनानाथायां स्थितायां अर्कच संयतस्थिते वायु-पथाद्येषु सत्सु कश्यपे च मुनौ शृण्वति अन्येषु च समन्तात् तिष्ठत्सु स मन्त्रीभरतरोहकःप्राब्रवीत् देव! आमूलात् शृणु कथयामि।

एकदा उज्जयिनीवासिभिः पौरैः समेत्य पालक भूपतिर्विज्ञप्तः प्रभो! अस्यां पुरि उदकदानाख्यः उत्सवः यथा भवेत् तथादिश्यतां, यद्यत्र हेतुः सम्यक् न श्रीमता श्रुतः, तत् श्रूयताम्। पुरा ते पिता चण्डमहासेनोनृपतिरुत्तमं खङ्गं उत्तमाञ्च भार्य्यां प्राप्तुं देवीं चण्डिका मतोषयत्। सा प्रसन्ना भगवती तस्मै उत्तम खङ्गदत्त्वा भार्य्यार्थमेवमभ्यधात् वत्स! अङ्गारकाख्यमसुरं हत्वा अचिरात् तस्य सुताभङ्गारवतीं नाम भव्यां भार्य्यामवाप्स्यसि। इति तया देव्यादिष्टः स राजा समुद्विग्नमनास्तस्थौ।

अत्रान्तरे उज्जयिन्यां यो यो नगराधिपोऽभवत् स स केनापि सत्त्वेन रात्रौ रात्रौ आगत्य अभक्ष्यत। ततश्चण्डमहासेनस्तदन्वेष्टुंस्वयं निशि स्वैरं भ्रमन् पारदारिकं

पुरुषमेकं प्राप। स तत्क्षणं तस्य रचितमण्डनं शिरः खङ्गेन चिच्छेद। छिन्नञ्च तत् कण्ठंसद्यः कोऽपि राक्षसः समेत्याग्रहीत्। अयमेव पुराधिपान् अत्ति नूनमिति समुदीर्य्य स राजा तं केशेषु आदाय राक्षसं हन्तुं प्रचक्रमे। तावच्च स राक्षसस्तमवादीत् राजन्! मां मृषा मावधीः, यस्ते पुराधिपान् खादति, सः अन्य एव, कोऽपीति। कोऽसौ, ब्रूहीति राज्ञा पृष्टः स पुनरब्रवीत्राजन्! अस्ति अङ्गारको नाम पातालवासी कश्चिदसुरः। अरिन्दम! स ते पुराधिपान् निशीथे समागत्य अत्ति,सर्वतो राजकन्यावस्त्रं हठेन हरति। कारयति च तेन अङ्गारवत्याः स्वसुतायाः परिच्छदम्। अटव्यां भ्रमन्त्वं तां कन्यां दृष्ट्वा हृत्वा च कृतीभव। इत्युक्तवन्तं तं राक्षसं मुक्त्वास राजा स्वमन्दिरमगात्।

अथैकदा आखेटकार्थी वनमभ्येत्य महाकायं कोपज्वलितलोचनं दिवश्च्युतमञ्जनाद्रेरेकं खण्डमिव सूकरमद्राक्षीत्। न वराहो भवेदीदृक्कोऽपि मायोअन्तिकं मे समायाति इति ध्यायन् स राजा क्रीड़ावाणैस्तमताड्यत्। स वराहः तान् वाणान् अगणयित्वैव तद्रथं व्याधूय सुमहत् भूविवरं कृत्वा प्राविशत्। सोऽपि वीरो नृपतिः तमनु तत्रैव प्रविश्य दिव्यमेकं पुरं ददर्श, सूकरन्तु न ददर्श। तत्र वापीतटोपविष्टः कन्याशतपरिवृतां रूपिणीं रतिमिव कन्यकामपश्यत्। सा तु कन्या समेत्य पृष्ट्वा चागमनकारणं, तं पश्यन्ती साश्रुनयना जातानुरागा जगाद हा कष्टं कुत्र प्रविष्टोऽसि? यस्त्वया वराहो दृष्टः, स कि-

लाङ्गारको नाम बृहत्कायो महाबलोदैत्यः। सम्प्रत्यसौत्यक्तवाराहरूपः श्रान्तः स्वपिति। आहारकाले च प्रबुध्य तवाहितं कुर्य्यात् सुभग! अहमस्य अङ्गारवती नाम सुता, तव चानिष्टमाशङ्क्यप्राणा मे कण्ठगता इव। इत्युक्तः स नृपतिः देव्या दत्तं वरं स्मरन् कार्य्यसिद्धिर्ममास्तीह इति सञ्जातास्थः तां प्रत्युवाच सुन्दरि! यदि ते मयि स्नेहोऽस्ति तन्मे वचः कुरु। त्वं प्रबुद्धस्य पितुरस्य पार्श्वं गत्वा रुदिहि रोदनकारणञ्च पृष्टया त्वया एवं स वाच्यः यदि कश्चित् त्वां हन्यात् तदा मे का गतिरिति। एवं कृते तव मम च ध्रुवं श्रेयो भविता। इति तेन राज्ञाभिहिता मदनमोहिता सा गत्वा प्रबुद्धस्य पितुः पार्श्वे समुपविश्य प्रारुदत्। पृष्टा च कारणं, सा तस्मै तद्वधजं भयमाचख्यौ। ततः स तामवादीत् वत्से! वज्राङ्गं मां को हि हन्तुमर्हति? यच्च मे वामकरे मर्म्मास्ति तद्धनुःरक्षतीति। स राजा प्रच्छन्नस्तस्य तद्वचः शुश्राव। अथ स दैत्यः स्नात्वा हरं पूजयितुं प्रववृते, राजा च तत्क्षणं प्रकटीभूय आरोपितकार्मुकः तं गृहीतमौनं दैत्यंयुद्धाय आजुहाव। सोऽपि दैत्यः वामं करमुत्क्षिप्य अर्च्चायां नियुक्तदक्षिणकरः क्षणंप्रतीक्षस्वेति तस्य संज्ञामकरोत्। तत्क्षणञ्च तेन राज्ञा सिद्धलक्षेण वाणेन समर्म्मणि वामे तस्य करे हतः स दैत्यः सहसा भुवि अपतत्। यो मां तृष्णार्त्तं निहतवान् सःप्रत्यब्दं जलैश्चेत् मां न तर्पयेत् तदा तस्य पञ्चमन्त्रिणो न…यन्ति। इत्युक्त्वैवतस्मिन् पञ्चतां गते नृपस्तां तत्सुतामङ्गारवतीमादायउज्जयिनीमगात।

ततश्चतां यथाविधि परिणीय स तव पिता सदेवीकः प्रतिवर्षमङ्गारकस्य जलदानमकारयत्। सर्वे च उदकदानाख्यंतमुत्सवमिह प्रकुर्वन्ति। प्राप्तश्च स कालः, यत्र ते पिता तत् चकार, तदिदानीं त्वमपि कुरुष्व। एतत् प्रजानां वचः श्रुत्वा स पालको नृपतिः तत्र पुरि तं जलदानोत्सवं प्रावर्त्तयत्। तस्मिंश्च उत्सवे प्रवृत्ते जने च तद्व्यग्रेकोलाहलाकुले, अकस्मात् भग्नानालोगजः सोन्मादः तत्त्र प्राधाधत्। स वारणःअङ्कुशंहित्वा व्याधूताधोरणो भ्रमन् नगरान्तः बहून् जनान् व्यापादयत्। प्रधावितेषु तद्ग्रहणार्यं महामात्रप्रभृतिषु गजाध्यक्षेष्वपि पौरेषु च कोऽपि तं गजं नियन्तुंनाशकत्। क्रमेण भ्रमति तस्मिन्चण्डालवाटकं प्राप्ते तस्मात् कापि चण्डालदारिका निरगात्। मुखेन इन्दुंजयन्ती पादलग्नया कमलश्रिया भुवं भासयन्तीनिद्रेव सर्वलोकस्य नयनयोर्विश्रान्तिदायिनी सा त वारणेन्द्रंसम्मुखागतं करे करेणाहत्य कुटिलैः कटाक्षैरताडयत्। स च हस्ती तस्याः करस्पर्शेन मोहितो विनताननः तत्कटाक्षविद्धःतां पश्यन् पदमपि नाचलत्। ततः सा तस्य दन्तयोरुत्पत्य आरुह्य च स्वोत्तरीयेण कृतायां दोलायां प्राक्रीड़त्। स च द्विपस्तां धर्माक्तां दृष्ट्वा तरुच्छायामगात्। एतत् महच्चित्रमालोक्य पौरा तत्र मिथः प्राब्रुवन् अहो! कापि एषा दिव्या सर्वातिशायिनी कन्या, यया रूपेणेव प्रभावेणापि तिर्य्यञ्चोऽपि मोहिताः।

अत्रान्तरे च कुमारोऽवन्तिवर्द्धनस्तद्विदित्वा कौतुकं द्रष्टुं निर्गतः तां कन्यकामपश्यत्। पश्यतश्च तस्य राज-

सूनोर्धावितश्चित्तहरिणस्तया मदनव्याधवागुरया अवध्यत। सापि तं वीक्ष्यतद्रूपेण हृतचित्ता गजेन्द्रदन्तदोलाया अवरुह्य तदुत्तरीयमग्रहीत् अथ प्रशान्ते तस्मिन्गजसम्भ्रमे सा कन्या तं नृपात्मजं सलज्जं सानुरागञ्च पश्यन्तीस्वगृहानयासीत्। अवन्ति-वर्द्धनोऽपि कुमारः तया हृतेन चित्तेन शून्यः स्वं मन्दिरमगात्। तत्र च तां वराङ्गीं विना सन्तप्यमानः स विस्मृतारब्धजलदानोत्सवः सखीनपृच्छत्। जानीथ यूयं कस्य तनया सा, किन्नामा च? तदाकर्ण्य ते वयस्यास्तं राजपुत्रमब्रुवन् कुमार! अस्तीह चण्डालवाटके उत्पलहस्तीनाम कश्चित् मातङ्गः। तस्येयं तनूजा सुरतमञ्जरी नाम। तस्याश्च मनोरमं वपुः चित्रस्थायास्तरोरिव दर्शनमात्रैकफलं नोपभोगार्हम्। तत्तेभ्यः सखीभ्यः श्रुत्वा कुमारस्तानब्रवीत् मन्ये सा न मातङ्गसुता, कापि।दिव्या ध्रुवम्। न हि चण्डालात् तादृशीरत्नोत्पत्तिः सम्भवति। तदसौ चेत् मम भार्य्या न स्यात् तदा जीवितेन किम्? इति ब्रुवन् स सचिवैरनिवार्य्यनिश्चयः तद्वियोगेनातीवार्त्तः समपद्यत। ततोऽवन्तिनाथः पालकः देवीच तत् पितरौ तस्य तत् विदित्वा रहस्यं भृशमाकुलावभूताम्। कथं मे पुत्रः राजवंशजोऽपि अन्त्यजां कामयते इति देव्याभिहिते स पालकोऽब्रवीत्। तस्यामस्य मत्सुतस्य चेतो यतो धावति तदत्र कारणेन केनापि भवितव्यंसा कापि अन्यैवेति मे मतिः। राज्यदरज्याद्वासतां मनः कार्य्याकार्य्येवक्ति हि। अत्र चैषा कथास्ति, देवि! त्वया न श्रुता चेत् श्रूयताम्।

अस्ति सुप्रतिष्ठितं नाम पुरम्। तत्रासीत् प्रसेनजित्नाम राजा। तस्य कुरङ्गीनामातिरूपवती सुताभवत्। कदाचित् सा उद्यान-विहारिणीउच्छृङ्खलेन हस्तिना धावित्वा सवहना दन्तयोरुपरि उच्चिक्षिपे। अस्याश्च परिवारेभयात् विद्रुते तं गजं तस्य च दन्तस्थितां राजकन्यां दृष्ट्वा कश्चित् चण्डालदारकः गृहीतखड्गःप्राधावत। स प्रवीरः खङ्गप्रहारेण तं गजं लूनकरं कृत्वा हत्वा च तां राजकन्यां मोचयामास। ततोऽसौ कन्या मिलत्परिजना तस्य चण्डालदारकस्य रूपवीर्य्यसम्पदा समाकृष्टहृदया स्वमन्दिरं प्रययौ। तत्रागता सा स मे वारणात् रक्षिता भर्त्ता वा मृत्युरेव वा इति चिन्तयन्तीतद्विरहातुरातिष्ठत्। स च चण्डालयुवा शनैर्निजं गृहं गत्वा तस्या रूपेण हृतचित्तस्तामेवं ध्यायन् भृशं पर्य्यतप्यत। क्वाहमन्त्यजजातिः, क्व च सा राजकन्या, काकस्य राजहंस्याश्च समागमः कीदृशः? एतच्च हासकरं वस्तु, न शक्नोमि वक्तुं कस्यापि, नाप्युपेक्षितुं तदत्र मरणमेव मम शरणं इत्यालोच्य स निशायां पितृकाननं गत्वा स्नातश्चितां कृत्वा अग्निं तत्र प्रज्वाल्य एवं व्यजिज्ञपत् देव वैखानर! विश्वात्मन्! त्वयि आमाहुतिदानेनानेन जन्मान्तरेऽपि सा राजसुता मे भार्य्या भूयादिति। इत्युक्त्वाआत्मानं चितायां क्षेप्तुमुद्यतं भगवान् पावकः प्रकटीभूय सप्रसादं अब्रवीत् वीर! मा साहसं कृथाः, सा एव ते भार्य्या भविष्यति। पुत्र! न हि त्वं चण्डालः, यस्त्वंतत् कथयामि शृणु।

आस्तेऽत्र नगरे कपित्थशम्याख्यो द्विजः। तस्याग्न्यागारेअहं साकारः प्रत्यक्षं वसामि। तत्रैकदा अन्तिकप्राप्तां तत्सुतां कन्यां रूपलोभात् वरेण दूषणं तस्याः समुत्सार्य्य भार्य्यामकरवम्। तस्यां तदैव मम वीर्य्येण त्वं जातः। तया च लज्जया तत्क्षणं रथ्यामुखे त्वं निक्षिप्तोऽसि। ततस्त्वां चण्डालाः प्राप्य अजाक्षीरेण वर्द्धयामासुः। तदेवं त्वं ब्राह्मणकन्याया गर्भे मयोत्पादितःतस्मात् मत्तेजःसम्भवस्य ते अपवित्रता नास्ति, तामेव कुरङ्गीं राजकन्यामवश्यं प्राप्स्यसि इत्युक्त्वाग्निरन्तर्दधे। सोऽपि सानन्दःकृत्रिममातङ्गसुतः विश्वस्तचित्तः स्वं गृहमगात्। ततो राजा प्रसेनजित्नृपतिः स्वप्ने अग्निना समादिष्टः तत्त्वमन्विष्य तस्मै पावकसूनवे तां कन्यामदात्। देवि! एवं सदैव भुवि प्रच्छन्ना दिव्या भवन्ति। तदेषा कापि दिव्यैव, नान्या सुरतमञ्जरी। सा निश्चितं मत्सुनोर्जन्मान्तरप्रियतमा इति मे मतिः। इत्थमस्मासु तिष्ठत्सु राज्ञिच पालके ब्रुवति अहं तत्र कैवर्त्तीयां कथामिमामकथयम्।

आसीत् मलयसिंहो नाम नृपतिः। तस्य मायावती नाम रूपेणाप्रतिमा कन्याभवत्। कदाचित् सा रूपयौवनशालिनी मधूद्याने क्रीड़न्तीकेनचित् कैवर्त्तकुमारेण ददृशे। स च सुप्रहारो नाम कैवर्त्तयुवा तां दृष्ट्वैवस्मरवशोऽभूत् नहि भवितव्यता साध्यासाध्यं विचारयति। स च गृहं गत्वा पाठीनाहरणादिकं विहाय तदेकचित्तः त्यक्ताशनः शय्यायामेव तस्थौ। अनु-

बन्धेन मात्रा रक्षितकाख्यया पृष्टः स्वाभिप्रायं शशंस। सा तु माता तं पुत्रमभ्यधात्।पुत्र! मा विषोद। आहारं तावत् कुरुष्व, निश्चितमिदं ते समीहितं स्वयुक्त्या साधयामीति। इत्युक्त्वा कृताश्वासे जातास्थे भुक्तवति पुत्रे सा मत्स्यान् उत्तमान् आदाय राजसुतागृहमगात्। तत्र दासीभिराख्यातमेवाभिप्राया सा प्रविश्य दाशीरक्षितका तस्यै उत्तमं मत्स्यमेकं प्राभृतं ददौ। इत्थंक्रमेण प्रतिदिनं ददती सा तां नृपात्मजामाराध्य वचनाकाङ्क्षिणीमकरोत्। ब्रूहि यत् वाञ्छसि मत्तः, तदहं दुष्करमपि कुर्य्याम्। इति तया राजकन्ययाभिहिते सा धीवरी याचिताभया रहसि स्थितांतामवादीत् राजदारिके! बिभेमि वक्तुंपरमकथयित्वा स्थातुं न शक्यते। शृणु तावत्, एकदा त्वामुद्यानविहारिणीं दृष्ट्वा मे सुतः नितरां सारवशस्त्राम् अत्यर्थं ताम्यति।मया च आशां प्रदर्श्य स प्राणत्यागात् रक्ष्यते। तद् यदि मयि ते कृपा तदा स्पर्शेन मे सुतं जीवय। एवं तया कैवर्त्तपत्न्याकथिते सा नृपात्मजा सलज्जा सानुरोधा च विमृश्य एवम-ब्रवीत्गूढ़ंनक्तंमन्मन्दिरे तं ते सुतमानय। तदाकर्ण्यैव सा दाशी प्रहृष्टा सुतान्तिकं प्रायात्। नक्ताञ्च सा यथाशक्ति कृतमण्डनं तं सुतं स्वैरं राजसुताया अन्तःपुरमानिनाय। तत्र सा राजपुत्री चिरोत्सुकं तं सुप्रहारं कैवर्त्तसुतं हस्ते गृहीत्वा कृतप्रीतिं शयने न्यवेशयत्। समाश्वासयच्च तं विरहाग्निना सन्तप्तं श्रीखण्डशिशिरस्पर्शेन करमवाहनेन। सोऽपि दाशसुतस्तेन सुधासिक्त इव चिरात् कृतार्थ-

म्मन्यः विश्रान्तो निद्रया सपदि जह्रे। तस्मिंश्चसुप्ते सा नृपसुता युक्त्यारञ्जितकैवर्त्तसुता रक्षितस्वधर्मा च अन्यतो गत्वा सुष्वाप ततस्तस्य तत्करस्पर्शविगमात् प्रतिबोधवतः हस्तोपनतविभ्रष्टां तां वल्लभामपश्यतः निधिकुम्भोमिव दरिद्रस्य विषादिनः दाशमूतीर्निराशस्य सद्यः प्राणविनिर्यान्ति स्म। तद्विदित्वागत्य आत्मानं निन्दन्तीराजकन्या प्रातस्तेन सह चितामारोढुं व्यवसिताभवत्। ततो मलयसिंहोऽस्याः पिता विदितवृत्तान्तः समुपेत्य तां तथाभूतां दृष्ट्वा निवार्य्यच आचम्य इदमब्रवीत् यदि अहं सत्यं देवदेवे त्रिलोचने भक्तःस्वां, तन्मे लोकपालाः! कर्त्तव्यंवदत यथोचितम्। इत्यक्तुवन्तं राजानं दिव्या वागब्रवीत् राजन्! इयं भवत्सुता अस्य दाशसूनोःपूर्वभार्य्या, पुरा नागस्थलाख्ये ग्रामे महीधरसुतः बलधरो नाम गुणवान् ब्राह्मणः कश्चिदासीत्। स खलु पितरि स्वर्गते गोत्रजैर्हृतवित्तः विरक्तःभार्य्यया सार्द्धं द्युनदीतटं जगाम। तत्र निराहारस्थितः कदाचित् क्षुधावसन्नःदाशान् मत्स्यान् भक्षयतो दृष्ट्वा मनसि स्पृहाञ्चक्रे। ततस्तं तत्सङ्कल्पकलङ्कितं पञ्चतां यातं सा भार्य्या शुद्धसङ्कल्पा तपसि स्थिता पतिमन्वगात्। स एषः द्विजः सङ्कल्पदोषात् दाशकुले जातः। सा च सुतपा भार्य्यास्य तव सुता जाता। तदेषा ते अनिन्दिता सुता पूर्वभर्त्तारमेतं गतासुमायुषोऽर्द्धेन जीवयतु। अस्याश्च तपःप्रभावात् तस्य तीर्थस्य समाश्रयणात् पूतोऽयं ते जामाता भूत्वा राजा भविष्यति। इति दिव्यया वाचाभिहितः स राजा सुप्रहाराय आयु-

षोऽर्ध्दंदत्त्वा कन्यया सञ्जीविताय तां सुतां प्रददौ। ततश्च स सुप्रहारस्तद्दत्तैर्भूमिहस्त्यश्वरत्रैर्भूपतिर्भूत्वा कृती भार्य्यांतां तया च आत्मजं समासाद्य सुखमतिष्ठत्। इत्थं प्राक्तनसम्बन्धः प्रायशः शरीरिणां प्रीतये भवति। किञ्चैकवरसम्बन्धे इयं कथा श्रूयताम्।

पूर्वमयोध्यायामासीत् वीरबाहुर्नाम नृपतिः। यः पुत्रनिर्विशेषं सततं प्रजाः पालयामास। कदाचित् तं राजानमेत्य पौरा व्यजिज्ञपन्देव! चौराःप्रतिनिशमिमां नगरीं मुषन्ति। जाग्रद्भिरपि अस्माभिस्ते लक्षयितुं न शक्यन्ते। तदाकर्ण्य राजा निशि अत्र नगर्य्यां स्थानेषु वीरान् स्थापयामास। परं तेऽपि चौरान्नासादितवन्तः। न चासावुपद्रवः शान्तिमगमत्। ततो राजा स्वयं रात्रौ चौरानन्वेष्टुंविनिर्ययौ। एकाकी खड्गपाणिः सञ्चरन् समन्तात् प्राकारोपरि पुरुषमेकमद्राक्षीत्। तञ्च भयात् लघुपदन्यासं काकचञ्चललोचनं मृगारिमिव समन्तात् वलितकन्धरं पश्यन्तं दृष्ट्वासौ नृपतिरचिन्तयत् नूनमसौ तस्करः, अनेनैकचरेणैव मे पुरी मुष्यते। इत्यालोच्च चतुरो नृपस्तमुपागमत्। सोऽपि चौरः सशङ्कस्तमप्राक्षीत् को भवानिति। ततो राजा तमब्रवीत्। अहं साहसिकश्चौरः, त्वं कः? साम्प्रतं ब्रूहि। चौरोऽप्यब्रवीत् अहम् एकचरश्चौरो महाधनः। तदेहि मम गृहं तव धनाकाङ्क्षां पूरयामि, तदाकर्ण्य राजा तथेति प्रतिपद्य तेन दस्युना समं वनान्तः खातनिर्मितं वराङ्गनाभिरधिष्ठितंभूरिभिः रत्नैरुद्भासितं

सदा नवोपभोगं भुजङ्गनगरोपमं तद्वेश्म जगाम। तत्रगत्वा गर्भगृहंप्रविष्टे तस्मिन् तस्करे बाह्यस्थानस्थितम्एकाकिनं तं नृपं कापि दासीसानुकम्पमवादीत् भद्र! क्वप्रविष्टोऽसि, शीघ्रं निर्याहि, विश्वस्तघातकोऽयम्एकचरं त्वां प्रतिभेदभयादधुनेव हन्यात्। तदाकर्ण्य द्रुतं निर्गतो राजा स्वं मन्दिरं गत्वा सेनापतिं समाहूय ससैन्यः पुनराययौ। आगत्य च तद् वेश्म रुद्ध्वाशूरानन्तःप्रवेश्य च हृतार्थसञ्चयं तं चौरमवष्टभ्यानिनाय।

अथ गतायां निशि तेन राज्ञासमादिष्टतिग्रहः स चौरःविपणिमार्गेण वध्यभूमिमनीयत। नीयमानञ्च तं दृष्ट्वा दिष्ट्या अनुरागिणी कापि वणिक्सुता तत्क्षणं स्वं पितरमभाषत तात! योऽयं दत्तडिण्डिमो बध्यभूमिं नीयते असौ चेत् न मे भर्त्ता स्यात् तन्मां मृतामवधारय इति स च बणिक् तां सुतामहार्य्यनिश्चयां दृष्ट्वा गत्वा च नृपतिं बहुभिर्दीनारैरपि तस्य चौरस्य मुक्तिमयाचत। राजापि निर्बन्धेन तं बणिजं प्रति चुकोप न तु तं तस्करं मुमोच। निवेशयामास च तमविलम्बं शूले। ततः सा वामदत्ता नाम्नी बणिक्सुता चौरस्य कलेवरमादाय तत्रानुरागात् अग्निं प्रविवेश। इत्थं परायत्तेषु जन्तुषु प्राग्जन्मसम्बन्धो दृश्यते को जनः भावि वस्तु अतिक्रामेत्, को वा कस्य कं वारयेत्। तस्मात् पुत्रस्य ते कापि पूर्वसम्बन्धवनिर्मिता सुरतमञ्जरी एषा भवितुमर्हति, अन्यथा सुजन्मनः अस्य राजसूनोः कथं मातङ्ग्यामस्यामेतादृक्अभिष्वङ्गः? तस्मात् प्रभो! उत्पलहस्तः स तत्पिता

मातङ्गस्तां सुतां पुत्रार्थे याच्यतां पश्यामः, स किं ब्रवीतीति। एवं मयोक्तः स पालकस्तां कन्यां याचितुम् उत्पलहस्ताय दूतान् प्राहिणोत्। स च मातङ्गस्तैर्दूतैर्याचितस्तानब्रवीत् एतन्मेऽभिमत यो मदुगृहे पुरवासिनां विप्रसहस्राणाम् अष्टादश भोजयति, तस्मै मयासौसुरतमञ्जरी सुता दातव्येति। एतद्वचनं श्रुत्वा ते दूतास्तथेति प्रतिज्ञाय आगत्य राज्ञेपालकाय न्यवेदयन्। एतत् सकारणं मत्वा क्षितिपःउज्जयिन्यां ब्राह्मणान् समाहूय प्रावोचत् यूयमष्टादशसहस्राणि मातङ्गस्य वेश्मनि भुङ्क्षध्वम्, एतन्मेऽभिमतमिति। इति नृपेणोक्ता द्विजा भीताःकर्त्तव्यसंमूढाश्चण्डालान्नं कथं भोक्तव्यमिति मत्वा महाकाले तपश्चेरुः। उत्पलहस्तस्य मातङ्गस्य गृहे यूयमशङ्किता अन्नंभक्षयत, अयं हि विद्याधर, न चण्डालः सपरिवारः, इति शम्भुना स्वप्ने समादिष्टास्ते विप्राः समुत्थाय राज्ञे तदाख्याय पुनरब्रुवम् राजन्! अयमुत्पलहस्तश्चाण्डालवाटादन्यत्र शुद्धमन्नं पचतु, ततस्तद् वयं भुञ्जमहे। तदाकर्ण्य राजा उत्पलहस्तस्य अन्यत् स्थानं निर्दिश्य शुद्धैःकारुभिः तत्रान्नमपाचयत्। अथ स्नाते शुद्धवस्त्रे उत्पलहस्ते पुरःस्थिते तैर्द्विजन्मनामष्टादशसहस्रैरन्नंभुक्तम्। तेषु च विप्रेषु भुक्तवत्सु स उत्पलहस्तः राजानमुपेत्य प्रणम्य समभाषत राजन्! आसीत् गौरमुण्डो नाम विद्याधरेश्वरः। अहञ्च मतङ्गदेवनामा विद्याधरः तस्य समाश्रित आसम्। भूपते! अस्यां सुरतमञ्जर्य्यां मम सुतायामुत्पन्नायां स गौरमुण्डःसुगुप्तं माम-

ब्रवीत् यदयं वत्से श्वरसुतोनरवाहनदत्तः अस्माकं भाविचक्रवर्ती पुरे कथ्यते, स यावत् अस्माकं शत्रुः न चक्रवर्त्तित्वमापद्येत, तावत् त्वंस्वमायया गत्वा तमचिरात् निपातय इति। इत्थंपापेन तेन गौरमुण्डेन प्रेषितस्तदर्थं नभसा गच्छन् पुरः देवं शङ्करमपश्यम्। स ईश्वरः तद्बुद्ध्वाक्रुद्धःसन् हुङ्कारं कृत्वा सद्य एव मामशपत् दुर्मते! यत् त्वं विजने ईदृशं पापम् चिकीर्षसि तदनेनैव देहेन भार्य्यादुहितृसंयुतः उज्जयिन्यां गत्वा चाण्डालत्वमापन्नः तदन्तर्निपत। यदा कश्चित् ते गृहेषु सुतायाअस्याः परिणयार्थी पुरवासि-नामष्टादशसहस्राणि विप्राणां भोजयिष्यति, तदा ते शापान्तो भविता। तस्मै च तच्छुल्कदायिने सुतेयं त्वया देवेति उक्त्वातस्मिन् शम्भावन्तर्हिते अहं तदैव पतितः अन्त्यजेषु मध्ये उत्पलहस्तसंज्ञया वासमकार्षम्। अद्य तु त्वत्पुत्रस्य प्रसादात् स मे शापोऽवसितः। तञ्ज्ञाया तस्मै तव पुत्राय एषा सुरतमञ्जरी दत्ता साम्प्रतं निजं वैद्याधरपदं नरवाहनदत्तस्य चक्रवर्त्तिनः सेवार्थं गच्छामि। इत्युक्त्वैव सुतां समर्प्यकुमाराय अवन्तिवर्द्धनाय, सदारः स मतङ्गदेवः भवञ्चरणान्तिकं प्राप्तः। राजापि पालकः सुविदितवृत्तान्तहृष्टः स्वसुतस्य सुरत मञ्जर्य्या विवाहं यथाविभवं यथोत्साहञ्च समपादयत्। कुमारोऽपि तां विद्याधरीं प्राप्य मनोरथाधिकप्राप्त्या कृतार्थः समभवत्।

एकदासौ राजपुत्रःतया समं हर्म्येसुप्तः निशाक्षये प्रबुद्धस्तां प्रियामकस्मात् नैक्षिष्ट। ततश्चान्विष्य अप्राप्य

च तां तथा क्रन्दन्नतप्यत यथास्य पिता समुपेत्य विदितवृत्तान्तः सुभृशं विह्वलः समभवत्। रक्षितेयं पुरी, नास्यां निशायां कोऽप्यपरः प्रविशेत्, तन्नूनं केनापि पापेन आकाशचारिणासौ हृता इत्येवमस्मासु जल्पत्सु दुःखनिमीलितेषु सहसा युमत्प्रेषितो धूमशिखो नामासौ विद्याधरः दिवः समवातरत्। तेन चायं कुमारोऽवन्तिवर्ध्दनः अहञ्च सैषा सुरतमञ्जरी, या पित्राअवन्तिवर्द्धनाय प्रदत्ता, तदत्र साम्प्रतं देवः प्रमाणमिति।

इत्थं पालकमन्त्रिणि भरतरोहके निगद्य विरते नरवाहनदत्तः सभायां मतङ्गदेवं प्रपच्छ भवता कस्मै ते सुता सुरतमञ्जरी दत्तेति कथ्यताम्। सोऽब्रवीत् मयैषा अवन्तिवर्द्धनाय दत्तेति। अथ तमकमब्रवीत् सम्राट्, कथं त्वमिमां हरसीति। अकोऽब्रवीत् प्रथममेषा मात्रास्याः मह्यं दत्तेति। सति पितरि माता का तद्दाने, कश्च तवाच साक्षी? तदियं परदारास्ते, इति सर्वे सभ्याः प्रोचुः। अथ चक्रवर्ती नरवाहनदत्तः तस्य निरुत्तराकृतस्य अकस्य दुर्विनयनिग्रहं समादिदेश। ततो मुनिभिः कश्यपेन च देव! अस्य एकमेतमपराधं क्षमस्व, अयं हि मदनवेग सुतस्ते श्याल इति समभ्यर्थितः स राजा तं कथञ्चिन्निर्भर्त्स्य मुमोच। प्रजिघाय च तं मातुलपुत्रमवन्तिवर्द्धनं निजपत्न्यासमेतं सचिवयुतं वायुपथहस्तेन स्वपुरीम्।

—————

अथ शताधिकत्रयोदशस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1722531460Screenshot2024-08-01222719.png"/>

इत्थं तत्रासितगिरौसाध्वीं सुरतमञ्जरीम् अकापहृतां तस्मादपभर्त्सितात् श्यालकादाच्छिद्य भर्त्त्रेसमर्प्य मुनिमध्ये अवस्थितं तं कश्यपः समब्रवीत् राजन् ! त्वया समं चक्रवर्ती कामं न भविता, यस्य ते धर्मासनस्थस्य मतिर्न रागादिवशा, तेऽपि धन्याः, ये त्वां सुकृतिनं सदा पश्यन्ति। ईदृशस्य ते साम्राज्ये न किमपिअवद्यम्अस्ति। पुरा, ऋषभाद्याः चक्रवर्त्तिनः आसन् ते च नानादोषैर्ग्रस्ताः श्रियश्च्युतानष्टाश्च। ऋषभः सर्वदमनः तथा बन्धुजीवकः त्रय एते अतिदर्पेण शक्रोत् निधनमापुः। जीमूतवाहनोऽपि चक्रवर्त्तित्वमेत्य विद्याधरेश्वरैः सममागतेन नारदमुनिना चक्रवर्त्तिपदप्राप्तिकारणं परिपृष्टः कल्पवृक्षस्य निजतनोश्च दानमाचख्यौ। तेन सुकृतोदीरणेेन स स्वपदात् सद्य एवाभ्रश्यत्। यश्च विश्वान्तरो नाम चक्रवर्त्ती आसीत् सोऽपि इन्दीवराख्यं तनयं वसन्ततिलकनाम्ना चेदिमहीभृता दारध्वंसकारणात् हतं निशम्य तेन कुपुत्रशोकमोहेन अधैर्य्यः पञ्चतामगात्। राजेन्द्र ! एकएव तारावलोको नाम मानवः सुकृतैर्विद्याधराणां चक्रवर्त्तितामापन्नः अनासादितदोषः सुचिरं साम्राज्यं भुक्त्वाअवसाने जातवैराग्यः स्वयं त्यक्त्वावनमगात्। इत्थं प्रायशः सर्वे विद्याधराः स्वपदप्राप्तिमोहिताः रागादिवशीकृताः समुचिते पथि न तिष्ठन्ति

पतन्ति च। तत्त्वं न्याय्यात् पथः शश्वत् आत्मानःस्खलितं रक्षेः मा ते धर्मव्यतिक्रमोऽस्तु इति कश्यपेनोक्तः स सम्राट्श्रद्धाय तद्वाक्यं, सादरं पप्रच्छ। भगवन् ! कथं मानुषेण तारावलोकेन विद्याधरैश्वर्य्यमिदं प्राप्तं तदहं श्रोतुमिच्छामि। तदाकर्ण्य कश्यपोऽब्रवीत् राजन् ! श्रूयतां कथयामि।

आसीत् शिविषु चन्द्रावलोक इति ख्यातो भूपतिः। तस्य चन्द्रलेखेति प्रिया महिषी अभवत्। तस्य च भूपतेः परसेनाविमर्दनः कुवलयापीड़ इति महीतले ख्यातो महान् वारणः स्थितः। तस्य प्रभावेण स राजा केनापि बलिना शत्रुणान कदापि पराजीयत। तस्यराज्ञः यौवनापगमे च तस्यां चन्द्रलेखायामेकः सुलाक्षणः सुतः समजायत।स च राजा तारावलोक इति कृतनामधेयः क्रमात् दानधैर्य्यविवेकाद्यैः सहनैर्गुणैः सह वृद्विमगात्। अशिक्षत च निःशेषं वाङ्मयम्। केवलमर्थिषु कामप्रदः सन् एकं नशब्दार्थं नाशिक्षत्।

क्रमेण च युवापि वयसा, सर्वचेष्टितैः स्थविर, अत्यर्थं सौम्यदर्शनोऽपि तेजसा सूर्यसन्निभः, अशेषकलापूर्णोऽपिराकाचन्द्र इव, विश्वस्य लोकस्य अनौत्सुक्यदोऽपि कन्दर्प इव, पितृशुश्रूषया जितजीमूतवाहनः समभिव्यक्तमहाचक्रवर्त्तिलक्षणः संववृधे। ततस्तेन महीभृता चन्द्रालोकेन तस्य सूनोः कृते मद्रेश्वरतनया माद्री नाम कन्या समाजह्ने। ततः कृतोद्वाहं तं तद्गुणोत्कर्षसन्तोषितो राजा तदैव यौवराज्ये समभ्यषेचयत् सोऽपि

पित्राभिषिक्तः युवराजः पितुराज्ञया अन्नदिदानसत्राणि अकारयत्। प्रातः शय्यायाः समुत्यायैव सदा कुवलयापीड़मारुह्य तानि सत्राणि अवेक्षमाणः समन्तादभ्रमत्। यो यदर्थयते स्म, स तत् जीवितमपि दातुमपराङ्मुखीऽभवत्। इत्थंक्रमेणास्य युवराजस्य यशः पुरेषु राष्ट्रेषु च सर्वत्र पप्रथे।

अत्रान्तरे तस्य युवराजस्य तस्यां माद्र्यां जायायां यमौ सुतौ अजायेतां स पिता तौ नाम्ना रामलक्ष्मणौ करोति स्म। तावर्भकौपित्रोः स्नेहानन्दाविव तथा पितामहयोश्च प्राणेभ्योऽपि समधिकप्रियौ क्रमेणावर्द्धेताम्। पितरौ तारावलोको माद्री च आरोपितगुणौ कोदण्डाविवानतौ तौ पश्यन्तौ मनसा अनृत्यताम्।

अथ रिपवः तारावलोकस्य यश.समाकर्णनसञ्जातेर्ष्याः विप्रान् कांश्चित् रहसि सादरमब्रुवन् भगवन्तः ! यूयं गत्वा तारावलोकं युवराजं कुवलयापीड़ं गजं याचध्वं, यदि तावत् स तं युष्मभ्यं प्रददाति, तदा तद्विहीनस्य तस्य राज्यं हरिष्यामः, अथ न ददाति, तदास्य दातृत्वयशो विनश्यति। इत्युक्तास्ते ब्राह्मणाः गत्वा तं दानवीरं तारावलोकं कुवलयापीड़मयाचन्त। किं प्रयोजनं गजेन्द्रेण द्विजन्मनाम्? तन्मन्ये एते केनचित्शत्रुणा मम सकाशं प्रतारणार्थं प्रेषिताः। तद् यदस्तु, मयायं द्विपराजो दातव्यः। कथं मे जीवतो अर्थी अप्राप्य कामं यास्यति? इति सञ्चिन्त्य स तारावलोकः निष्कम्पेनैव चेतसा तेभ्यो द्विजेभ्यो द्विपोत्तमं तं प्रददौ।

ततस्तैर्द्विजैर्नीयमानं तं गजवरं दृष्ट्वा पौराः कुद्धाश्चन्द्रालोकस्य राज्ञोऽन्तिकमाययुः। ऊचुश्च राजन्! तव सुतेन अधुना राज्यं त्यक्तंमुनिधर्मश्च गृहीतः सर्वसन्न्यासकारिणा, यदेतेन श्रियो मूलं गन्धमग्नान्यवारणः कुवलयापीड़ो गजराजोऽर्थिभ्यः प्रदत्तः। तदेतं पुत्रं तपसे वनं प्रस्थापय वा गजं प्रत्याहर, नोचेत् वयमन्यं राजानं कुर्महे। इति तैः पौरैः उक्तश्चन्द्रावलोकः प्रतीहारमुखेन तथैव तत् पुत्रं सर्वं श्रावयामास। सोऽपि तारावलोकस्तत् श्रुत्वाब्रवीत् हस्तीतावत् मया दत्तः,परं मे अर्थिने किमपि अदेयं नास्ति। ईदृशेन पौराश्रितेन राज्येन मम किं? किञ्च विद्युद्विलोलया अनुपयोगिन्या लक्ष्म्याच मे किं प्रयोजनं? तन्मम सर्वभोग्यफल श्रियां तरूणां मध्ये वने वासः श्रेयान्, न पुनर्नृपशूनामीदृशाम्। इत्युक्त्वा तुल्यसङ्कल्पधीरया भार्य्ययान्वितः पित्रोः पादावनुध्यायन् अर्थिभ्यः अर्थसञ्चयं दत्त्वा गृहीतवल्कलः तारावलोकः पुत्राभ्यां साकं निजात् पुरात् अनुगच्छतो निवारयतो द्विजान् सान्त्वयन् निरगात्। तं तथा प्रस्थितं दृष्ट्वा पशूनां पक्षिणामपि रुदतामश्रुधाराभिः भूरसिच्यत। पुत्रयोर्वहन मात्रार्थं रथेन पथि व्रजन्स तारावलोकः अन्यैर्द्विजै रथाश्वान् याचितस्तत्क्षणं तेभ्यस्तान् अश्वान् ददौ। चकर्ष चस्वयं रथं सभार्य्यः सुकुमारौ तौ सुतौ वनं नेतुम्। ततश्च पथि परिश्रान्तं निरश्वं रथं कर्षन्तं तं कोऽप्यपरो ब्राह्मणः, समुपेत्य तं रथं ययाचे। सोऽपि निश्चलचित्तः तस्मै तमपि दत्त्वा

सपुत्रदारः पद्भ्यामेव कथञ्चित् तपोवनमाससाद। तत्र माद्र्या स्वभार्य्यया कृतपरिचर्य्यःतरुमूले कृतवसतिपरिच्छदस्तस्थौ।वनान्तास्तं वैराग्यराज्यस्थं वाताहत्या चलद्भिः पुष्पमञ्जरीचारुचामरैः पृथुच्छायैस्तरुच्छत्रैःपत्रशय्याशिलासनैः भृङ्गाङ्गनानां गीतस्वनैः नानाफलरसासवैश्च सिषेविरे।

एकदा तत्पत्न्यां माद्यां तत्कृते फलपुष्पादिकमाहर्तुम् आश्रमाद्बहिर्गतायां कश्चिद्ब्राह्मणः तम्उटजस्थितं तारावलोकं तनयौ रामलक्ष्मणौ ययाचे। वरं शिशू अपि इमौ पुत्रौ नीतौ मारयिष्यन्, न पुनर्भग्नकामोऽयमर्थी कदाचन प्रेषितः, मन्ये शठो विधिर्मे धैर्य्यध्वंसं वीक्षितुकामः। इति सविन्त्य स तस्मैविप्राय तौ सुतौ प्रादात्। नीयमानौ च तौ विप्रेण यदा न ययतुः, तदा स विप्रः लताभिस्तौ वद्धहस्तौ कृत्वा अताड़यत् अनयच्च’ नृशंसः क्रन्दन्तौजननीं मुहु। विवृत्यतं पितरं पश्यन्तौ साश्रुलोचनौ तौ पश्यन्नपि तारावलोकः न चुक्षुभे। चुक्षुभे चास्य धैर्येण चराचरो भूतग्रामः।

अथ सा सतीमाद्री शनैः पुष्यमूलमालादिकमाहृत्य श्रान्ता वनान्तादाययौददर्श च पतिमाश्रमस्थमधोमुखं न पुनः सुतौ। ततोऽनिष्टाशङ्किहृदया विप्रकीर्णस्थितक्रोडामृण्सयाश्वरथक्षिपौ क्वमे तौ पुत्रकाविति सम्भ्रान्ता हा हाताम्मीति वादिनीपतिमपृच्छत्। सोऽप्यवादीत्अनघेे! तो मम तनयौ याचमानाय दरिद्राय द्विजन्मने

मया प्रदत्तो। तदाकर्ण्य परित्यक्तमोहा सा साध्वी तं पतिमवदत् आर्य्यपुत्र ! युक्तं कृतं, कथमर्थी पराङ्मुखो यातु। एवं तयोक्तेतयोर्दम्पत्योस्तुल्यसत्त्वतया भुवनं चकम्पे, चचाल च इन्द्रस्य आसनम्। अथ देवराजः प्रणिधानेन तयोर्माद्रीतारावलोकयोर्दानसत्त्वप्रभावेण कम्पितं जगदैक्षत। ततः स ब्राह्मणो भूत्वा आशयं जिज्ञासुस्तं तारावलोकं तामेकपत्नीं माद्रोमयाचत। सोऽपि निर्विकल्पेन चेतसा तस्मै तां वनान्तसहचारिणीं धर्म्मपत्नीं दातुंहस्तेन उदकं जग्राह। तदवलोक्य द्विजोऽब्रवीत् राजर्षे! ईदृशान् अदेयानपि दत्त्वा किं साधयसीति। सोऽब्रवीत्ब्रह्मन्! न मे किमपि साधनीयमस्ति, एतावती च मे वाञ्छा, यत् प्राणा अपि ब्राह्मणेभ्यः देयाः, न पुनरर्थी पराङ्मुखो भवेदिति तदाकर्ण्य स्वं रूपमवलम्ब्यदेवेन्द्रस्तमवादीत् राजेन्द्र! प्रीतोऽस्मि ते जिज्ञासार्थमागतः, वदामि ते शृणु, नाहं से पत्नीं गृह्णामि। त्वमचिरात् विद्याधराणां चक्रवर्त्ती भविष्यसीत्युक्त्वातिरोदधे।

अत्रान्तरे स वृद्धोदरिद्रो द्विजः दक्षिणार्जितो तारावलोकतनयौ गृहीत्वा मार्गभ्रमात् भ्रमन् दैवात् चन्द्रालोकस्य नृपतेः पुरं प्राप्य आपणे तौराजपुत्रौविक्रेतुं प्रचक्रमे। तत्र तौप्रत्यभिज्ञातौपौरा गत्वैव तस्य भूपतेश्चन्द्रावलोकस्य समावेद्य पुरः सद्विजौ तारावलोकपुत्रौ नित्यः। स राजा तौपौतौदृष्ट्वा साश्रुः पृष्ट्वा च तं द्विजं तदुक्तेन वृत्तान्तेन श्रुतेन हर्षविषादजड़श्चिरमभवत्। ततः स राजा निजपुत्रस्य तं सत्त्वोत्कर्षं विभाव्य त्यक्तराज्यस्पृहः

पौरैरर्थ्यमानोऽपि तौपौत्रो तस्मात् द्विजात् अर्थेन तत्प्रार्थितेन क्रीत्वागृहीत्वा च सपरिच्छदः पुत्रस्य तारावलोकस्याश्रमं प्रायात्। अपश्यच्च तत्र तं बद्धजटंवल्कलधारिणम् आशयागतैर्द्विजैर्महावृक्षमिवभुक्तश्रियं पुत्रम्। यत् स दृष्ट्वैव दूरात् प्रधाव्यचरणयोः पतितं तम् अश्रुवारिणा अभिषिच्य उत्सङ्गमारोपयत् तदेव विद्याधराधिराज्यार्थमभिषेकपुरःसरे तस्य सिहासनारीहे आरम्भतामगात्। अथ राजा तस्य तौ तनयौरामलक्ष्मणौ क्रीतावेताविति ब्रुवन् प्रादात्। यावत् ते तत्रान्योन्यवत्तान्तकथां कुवन्ति, तावत् चतुर्दन्तो गजः लक्ष्मीश्चदिवस्तत्रावातरत्। अन्येषु च विद्याधरपतिषु अवतीर्णेषु लक्ष्मीः पद्महस्ता तं तारावलोकमवादीत् वत्स ! आरोहास्मिन्वारणे, एहि विद्याधरपदास्पदम। दानप्रभावतो जितां तत्साम्राज्यश्रियं भुङ्क्ष। इत्युक्तवत्या लक्ष्म्यासाकं स भार्य्यासुतान्वितः पितुञ्चरणौ प्रणम्य पश्यत्सु आश्रमवासिषु तं दिव्यंगजमारुह्य विद्याधरैर्वृतः नभसा वैद्याधरंपदमगात्। तत्र च चिरं भुक्तसाम्राज्यःविद्याभिः सर्वाभिः सेवितः कालेनोत्पन्नवैराग्यः पुनस्तपोवनमशिश्रयत्। इत्थंमानुषेणापि तारावलोकेन पुरा निर्मलैः सुकृतैः सर्वविद्याधरेन्द्रता प्राप्ता। अन्ये तु तां श्रियमवाप्यापि स्वैः स्खलितैर्विभ्रष्टाः। तत्त्वया स्वतः परतोऽपि वा स्खलितं रक्षणीयम्। इति कश्यपमुनिना समीरितां कथां निशम्य तदुपविष्टस्तथेति प्रतिपेदे सम्राट् नरवाहरदत्तः। ततः स चक्रवर्ती विद्याधराः! शृणुत, योऽत्र

ममाधिकारे प्रजानुधर्म्मव्यतिक्रममाचरेत् स नियतमेव मे वध्यः इति समन्तात् समुदघोषणां भ्रमयाञ्चकार।ततोऽवनतशिरोभिर्गृहीतशासनैर्विद्याधरैः समं सुरतमञ्जरीमोचनात् विलसद्यशोराशिः मातुलसन्निधौ तस्मिन्नसित गिरौ प्रावृषं तस्य मुनेराश्रमे न्यवसत्।

________

अथ पद्मावतीनाम सप्तदशो लम्बकः।

<MISSING_FIG href="../books_images/U-IMG-1723219072Screenshot2024-08-09212640.png"/>

अथ चतुर्दशोत्तरशततमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1723219169Screenshot2024-08-09212640.png"/>

एवं तत्रासितपर्वते कश्यपमुनेराश्रमे मातुलस्यगोपालकस्य तपस्यतोऽनुरोधात् वर्षातिपाताय निवसन्मचिवैरन्वितः सर्वविद्याधरचक्रवर्ती कथाब्रुवन् सपत्नीकैर्मुनिभिरपृच्छ्यत। देव ! यदा मानसवेगेन दुरात्मना पत्नी ते मदनमञ्चुका माययापहृता, तदा विरहनिःसहं त्वां कः कथं व्यनोदयत् इति नः कथ्यताम्। एवं तैर्मुनिभिस्तद्भाय्याभिश्चपृष्टः स नरवाहनदत्तः वक्तुं प्रचक्रमे। हतायामस्यां प्रियायां दुरात्मना मानसवेगेन, मया यदनुभूतं दुःखं, तत् किमधुना कथ्यते। प्रथमतस्तावत् तत्पुरम् उद्यानं सर्वञ्च स्थानं चिन्वन्नहं मत्सचिवाश्च यदा तामिमां नासादितवन्तः, तदा सोन्मादमिव कस्यचित्उद्यानतरोस्तले सपविष्ट मां लब्धावसरः सान्त्वयन्

गोमुखोऽब्रवीत् देव ! मा गा विक्लवताम्, अचिरात् देवींप्राप्स्तुत, देवा हि तया सह ते द्युचरैश्वर्य्यमादिशन्, तदवण्यं तथा भवितव्यं नहि तेषां वचनं मृषा भवितुमहति धीराश्च सोढ़विरहाः प्राप्नुवन्ति अभीष्टसङ्गमम्। पश्य रामो दाशरथिः नैषधो नलः तव पिहामहाश्च विरहं दुर्विषहं विषह्य किं न प्रेयसीः प्राप्नुवन्ति स्म ? स च द्युचारिणां चक्रवर्ती मुक्ताफलकेतुःपद्मावत्या वियुक्त दुःसहं विरहमतीत्य किं पुनस्तां न प्राप ? तद्देव ! शृणु तत्कथां तव कथयामि। इत्युक्त्वागोमुखो मह्यं कथामिमामकथयत्।

अस्ति सुविख्याता पृथिव्यां वाराणसी नाम पुरी। या द्युनदीव सिताशाम्भवी मूर्त्तिः सुरसद्मध्वजपटैर्मारुतानमितोन्नमितैः इहैत, मोक्षं यात इति अनिशं जनान्ब्रुवाणेव शैवगणाकीर्णकैलासाद्रिस्थलीवराजते। तस्यामभूत् ब्रह्मदत्तो नाम राजा। स खलु शिवैकभक्तः ब्रह्मण्यः शूरः दाता कृपापरः दुर्गेष्वपि न चस्खाल, नापि ममज्ज अम्बुधिष्वपि। यस्याज्ञा भुवि भ्रमन्तौ द्वीपान्यपि अतरत्। तस्य चकोरस्येव आह्नाददायिनी सोमप्रभा नाम देवी नेत्रपेया अभवत्। तस्य शिवभूतिर्नाम मन्त्रीद्विजोऽभवत्। स खलु बुद्ध्याबृहस्पतिरिव सर्वविद्यापारदर्शी। कदाचित् स नृपश्चन्द्रप्रासादे शयने स्थितः गगनेनागतं हंसयुगलं दीप्तजाम्बनदमयम् अभ्रगङ्गाजलोत्पन्नमिव हेमाम्बुजद्वयं निशि अद्राक्षीत्। अथ गते तस्मिन् दृष्टिपथातीते स राजा पुनस्तद्दर्शनोत्कण्ठया

पर्य्यतप्यत। अथ राजा अनिद्र एवं कथञ्चित् तच्चिन्तया तां रात्रिं नीत्वा प्रातस्तं मन्त्रिणं यथादृष्टं तत् हंसयुगलं शशंस। यदि तौ हंसौयथेष्टं न पश्यामि तदा किमेतेन मे राज्येन किं वा जीवितेन। इति राज्ञोदिते स मन्त्री शिवभूतिस्तं जगाद राजन् ! अस्त्यत्रउपायस्तं वदामि शृणु विचित्रकर्मयोगेन अस्मिन् संसारे विचित्रो भूतग्रामो जायते अपरिच्छेद्य एव। तत्र दुःखमये एव मोहात् उद्भवत्सुखबुद्धयो जन्तवः निवासाहारयानादिविविधान् रसान् भुञ्जते। तेषाञ्च आहारयानशयनादि पृथग्विधं स्वस्व जात्यनुसारेण प्रोतिप्रदं विधिर्विदधे तदिदानीं देव ! विहगानामुपसेव्यं कमलोत्पलसंछन्नं रक्षिभिः रक्षितमपि निर्वाधंसुदृश्यं महत् सरः कारय। प्रक्षेपय च सदा तत्तटे अल्पम्। तथा कृतं नानादिग्भ्यः जलपक्षिणस्तत्र आयास्यन्ति। तौ च हंसौ न चिरादेव अवश्यम् उपेष्यतः। ततस्तो अजस्त्रं द्रक्ष्यसि मा वैमनस्य भज। इति मन्त्रिणोक्तेस राजा अविलम्बितमेव तदकारयत् यथोक्तलक्षणं महासरः। क्रमेण तत्र हंसचक्रवाकसारससंच्छन्नेतदपि हंसमिथुनं हंसश्रेण्यामुपाविशत्। तदुपेत्य सरोरक्षिभिर्विज्ञप्तः स नृपो ब्रह्मदत्तः सिद्धं मनोरथं गत्वा संहृष्टस्तं सरोऽभ्यगात्। अद्राक्षीच्च तौ हेमहंसौदूरतः। आश्वासयच्च तत्र तौ सक्षीरान् तण्डुलान् निक्षिप्य। ततो राजा विशुद्धकलधौताङ्गौः मणिमुक्तामयेक्षणौ प्रवालचञ्चुचरणौ गारुडरत्नाग्रपक्षतीविस्रम्भोगपगतौतौहंसौ विभावयन्

पुरतः अम्लानपुष्परचनामपश्यत्। अपृच्छच्चरक्षिणः, केनैषा पूजा कृता ततस्ते सरोरक्षिणस्तं नृपमेव व्यजिज्ञपन् देव ! एतौ हिरण्मयौ हंसौ त्रिसन्ध्यमिह स्नातौ नित्यं पूजां कुर्वन्तौ ध्यानेन तिष्ठतः, तत् प्रभो! किमेतत्महदद्भुतं न विद्मः। तदाकर्ण्यं राजा चिन्तयामास क्वहंसौ, क्वेदृशी चर्च्चा, ध्रुवमत्रास्ति किञ्चित् कारणम्। तत्तावत् तपश्चरामि यावदिमौकौ ज्ञास्यामि इति पर्यालोच्य राजा भार्य्यया मन्त्रिणाच समं कृताहारपरित्यागः हरध्यानपरस्तपश्चचार।

अथ तौ दिव्यौ हंसौ द्वादशाहमुपोषितं राजानं स्वप्ने उपेत्य व्यक्तया वाचा प्रोचतुः, राजन् ! उत्तिष्ठ, प्रातः सभार्य्यसचिवस्य ते यथार्हे पारणे कृते विजने सर्वं यथातत्त्वंवक्ष्याव। इत्युक्त्वा तौ हंसौ तिरोभूतौ। राजापि प्रवुध्य समुत्थाय च प्रातः भार्य्यामन्त्रिभ्यां सह पारणञ्चकार। ततश्च कृतपारणं लीलागृहान्तरे समासीनं नृपं सहामात्यकलत्रंतौहंसावुपेयतुः। कौ युवामिति तेन राज्ञा पृष्टौ तौ क्रमात् स्ववृत्तान्तमेवमाचख्यतुः।

अस्त्यत्र जगति विश्रुतो मन्दरोनाम रत्नराजिराजितो महागिरिः यत्र सदा सुरनिवहा विहरन्ति। यस्य मथितक्षीरवारिधेरमृतेन सिक्तेषु सानुषु जरामृत्युहराणि फलपुष्पमूलानि तिष्ठन्ति। कैलासाधिककान्तस्य यस्य शृङ्गाग्रभूमयः नानासद्रत्नराजिता धूर्जटेर्लीलोद्यानानि। तत्र कदाचित् देवः पिणकौ

पार्वत्या कृतक्रीड़स्तामवस्थाप्य केनापि देवकार्य्यानुरोधेन अन्तर्दधे। ततस्तद्विरहेणार्त्ता सा पार्वती तत्क्रीड़ाकाननेषु देवताभिराश्वास्यमाना बभ्राम। एकदा मधुप्रवृत्तौ सोद्वेगा सा गणैर्वृता देवी तरुतले यावत् प्रियचिन्तया समाकुला तिष्ठति तावत् जयासुतां देव्याश्चामरधारिणींकुमारींचन्द्रलेखां साभिलाषमवलोकयन्तीं समानरूपयौवनः सन्निहितो गणोत्तमः मणिपुष्येश्वरो नाम साभिलाषं व्यलोकयत्। तदवलोक्य अन्यौ पिङ्गेश्वर गुहेश्वरौ नाम गणश्रेष्ठौ सस्मितमन्योन्यमुखावलोकिनौ अभूताम्। तौ च तथाभूतौ दृष्ट्वा कस्यैतौ कृते हसत इति सान्तःकोपा देवी यावत्दृष्टिमदात्। तावत् तौ अन्योन्यं प्रति सतृष्णमवलोकयन्तौ तां चन्द्रलेखां तञ्चमणिपुष्पेश्वरं ददर्श। ततो विरहसमुद्विग्ना देवी क्रुद्धा तौ जगाद यदेताभ्यां हंसलीलाभ्यां देवस्य असन्निधौ मत्समक्षं स्मरावलोकनं हसितञ्च कृतं तस्मादेतौ भर्त्त्ययोनौ कामार्त्तौस्त्रीपुंसौ इतः पततम्। तत्र चैतौ अविनीतौ दम्पती भविष्यतः। हंसलीलाविमौ भुवि बहून् क्लेशान् प्राप्स्यतः। पूर्वं दुःखितौ ब्राह्मणौ, तदनु ब्रह्मराक्षौसौ, ततः पिशाचौ, पश्चात् चण्डालौ तस्करौ, ततश्छिन्नपुच्छौश्वानौ, ततो विविधौ खगौ भविष्यतः। आभ्यां स्वस्थचित्ताभ्यां हि एष दुर्विनयः कृतः इत्यादिष्टवतींदेवीं धूर्जटो नाम गणोत्तमः प्राब्रवीत्देवि! अत्ययुक्तमिदं, न खलु एते गणाः स्वल्पादपराधात्इयन्तं शापमर्हन्ति। तदाकर्ण्य सा देवी कोपात् तमपि धूर्जटमभिशशाप अनात्मज्ञ! त्वमपि भर्त्त्ययोनौ पत।

अथ प्रतीहारी जया चन्द्रलेखाया जननी सुतायां दत्तशापांतामम्बिकां पादलग्ना व्यजिज्ञपत् देवि ! प्रसीद अस्वामे दुहितुः एतेषाञ्च सुभृत्यानाम् अज्ञानविहितागसां शापान्तं कुरु। इत्येवं विज्ञप्ता प्रतीहार्य्याजयया सा गिरिनन्दिनीप्राब्रवीत् यदा सर्वे ज्ञानयोगात् क्रमेण ब्रह्मादीनां तपः क्षेत्रं तथा सिद्धोश्वरं दृष्ट्वा मिलिष्यन्ति तदा पुनर्मुक्तशापा मत्पदमेष्यन्ति। इत्युक्त्वासा देवी यावत्विरता, तावत् तत्र ज्ञातहरासन्निधिरन्धको नामासुरः देवीं तां कामयन् आगतः भर्त्सितश्च देव्या गणैर्गतः। तद्विदित्वासौदेवेन शम्भुना निहतः। ततः कृतकार्य्यमन्तिकायातं देवं सा देवीतुष्टा अन्धकागमं न्यवेदयत्। अथ स देवो गिरिजापतिस्तां गिरिजामवादीत् देवि ! स ते मानसः पूर्वपुत्रोऽन्धकः अद्य मया निहतः। अधुना च स त्वगस्थिशेषो भृङ्गो भविता। इत्युक्त्वा स देवः देव्या समं विहरन् तत्रातिष्ठत्। ते च मणिपुष्पेश्वराद्याः पञ्च भुव्यपतन्। राजम् ! तत्र तावत् द्वयोः पिङ्गेश्वरस्य च विचित्रमायतं वृत्तान्तं निशामय।

अस्त्यत्र महीतले यज्ञस्थलाख्यंनगरम्। आसीत्धनवान् गुणवान् यज्ञसोमो नाम ब्राह्मणः। तस्य मध्यमे वयसि द्वौपुत्रौ उदपद्येतां ज्येष्ठस्तयोर्हरिसोमः, कनिष्ठः देवसोमः। तयोश्च समुत्तीर्णशैशवयोरुपनीतयोः सभार्य्यस्य तस्य विप्रस्य आयुषा सनं धनं क्षीणम्। ततस्तौ सृतौपितृभ्यां हीनौआवृत्तिकौदायादैर्हृतशेषधनौमिथोमन्त्रयामासतुः पश्य भिक्षैकवृत्ती साम्प्रतं जातौ स्वः, न चात्रु

भिक्षा प्राप्यते। तत् दूरमपि मातामहगृहं वरं गच्छावः। यदि च नौ तत्र दीनौ स्वयमागतो न कोऽपि श्रद्दध्यात् तथापि यावः, किं कुर्वः, नहि आवयोरन्या गतिः। इति सम्मन्त्र्यक्रमेण भिक्षमाणौ यत्र तयोर्मातामहगृहं तत्र ययतुः। तत्र हठात् मृतं सभार्य्यकं मातामहं श्रुत्वा तौ मन्दभाग्यौ अनन्यगतिकौयज्ञदेव ऋतुदेवनाम्नो र्मातुलयोर्गृहं मलिनवेशौ रजोध्वस्तकायौ विविशतुः। तत्र ताम्यां मातुलाभ्यां सद्विप्राभ्यां क्लृप्ताम्बराशनौअधीयानौयावत् कियन्तं कालं तिष्ठत, तावत् तावपि उपक्षीणधनीभतौ अभृत्यकौ च मातुलौ तौ भागिनेयौ प्रीतिपूर्वमभाषताम्। वत्सौ! दरिद्रीभूतानामस्माकं पशुपालकं रचितुमिदानीं सामर्थ्यं नास्ति तद् युवां पशून् रक्षतम्। इत्युक्तौ मातुलाभ्यां तौ हरिसोप्नदेवसोमौ वाष्पकण्ठौ तथेति तद्वचः प्रत्यपद्ये ताम्। ततस्तौ अटव्यां पशून् नीत्वा सततं ररक्षतुः, परिश्रान्तौ च सायं तानादाय पुनर्गृहमाजग्मतुः। इत्थं पाशुपाल्यं कुर्वतीस्तयोः कदाचित् प्रसुप्तयोः कश्चित् पशुः केनापि अहार्य्यत, कश्चिच्च व्याघ्रेण भक्षितः। ततस्तौ मातुलौ यावत् उद्विग्नौ तौ सुप्तावटव्यामपश्यतां तावत् समन्तात् चिन्वन्तौ तयोरेकां धेनुम् एकञ्च छागं नष्टमद्राष्टाम्। तौ च प्रबुद्धो भागिनेयौ मातुलावागतौ पशूंश्च अल्यानवलोकयन्तौ भयार्त्तौ पलायमानौचिन्वन्तौदूरं वनं विविशतुः। तत्र व्याघ्रखादितं तं निजं छागं दृष्ट्वा शोचन्तौ हतामानौ एवं जगदतुः हा कष्टं ! छागोऽयं नौमातु-

लाभ्यां यज्ञार्थं रक्ष्यते स्म, तदस्मिन् विनष्टे तयोर्दुर्वारः कोपो भविता, तदिदानीमस्य व्याघ्रभुक्तावशिष्टस्य मांसं वह्नौ संस्कृत्य भुक्त्वाच हतक्षुधौ शेषमादाय क्वाप्यावां गच्छावः। इति सञ्चिन्त्य यावत् तौ छागं अनले संस्कुरुतः, तावत् तयोः पश्चात् धावन्तौ मातुलौ समाजग्मतुः। ताभ्यां छागं पचन्तौ तौ यावत् दृष्टो, तावत्तद्दर्शनत्रस्तौ तौ ततः पलाय्य ययतुः। युवाभ्यां यदेतत्राक्षसं कर्म कृतं तस्मात् युवां पिशिताशनौब्रह्मराक्षसौ भविष्यत इति तौक्रुद्धौ मातुलौ तयोः शापं वितेनतुः। तौ च द्विजसुतौ सद्यः ब्रह्मराक्षसौ अभूताम्। ततस्तौ दंष्ट्राविसङ्कटमुखौ दीप्तकेशौ बुभुक्षितौ प्राणिनः प्राप्य खादन्तौ अटव्यां भ्रमतुः। एकदा तौ योगिनं कमपि हन्तुम् अधावताम्। तेन च प्रतिघ्नता तौ शप्तौ पिशाचत्वं गतौ। पिशाचत्वेऽपि तौ ब्राह्मणस्य गां हन्तु तरन्तौ तस्य ब्राह्मणस्य मन्त्रेण भग्नौ तच्छापात् चाण्डालत्वमवापतुः। चाण्डालत्वे च धनुष्पाणीभ्रमन्तौ क्षुन्निपीड़ितौकदाचित् भोजनार्थिनौचौरपल्लीं प्रापतुः। तत्रागतौ दृष्ट्वैवतौ तद्द्वाररक्षकःचौरशङ्कया अवष्टभ्य छिनकर्णनासौचकार। तथाविधौ च तौबद्ध्वाते तस्कराः लगुड़ाहत्या ताड़यन्तः प्रधानचौराणामन्तिकं निन्युः। तत्रप्रधानैस्तस्करैर्दृष्टौ पृष्टौ च भयार्त्तौक्षुत्तृषादुःखावाप्तसंक्लेशं स्ववृत्तान्तमाचख्यतुः। ततस्ते मुख्यास्तकाशःकृपया तौबन्धनात् विमोच्य ऊचुः युवामत्र तिष्ठतं अश्नीतञ्च मा अत्र वाभयं भूत्। अद्य अष्ट-

म्यामिह सेनानी पूजनावसरे युवामस्माकमतिथीप्राप्तौ संविभागमर्हतः। इत्युक्त्वाते देवीमभ्यर्च्य चौरा दैवादुत्पन्नप्रीतयस्तौ स्वाग्रभोजितौ कृत्वा नैवान्तिकात् तत्यजुः। ततः क्रमेण तैः सह चौर्य्यं कुर्वाणौस्वशौर्य्यतस्तेषां महासेनापती संवृत्तौ।

एकदा तौ सेनापती चौरराजाज्ञया शैवक्षेत्रमहदेकं पुरं मुषितुं ससैन्यौनिशि जग्मतुः। दुर्निमित्ते दृष्टेऽपि तौ अनिवृत्य तत्पुरमवाप्य कृत्स्नंसदेवभवनं लुण्ठयामासतुः। ततस्तत्स्वामिभिः शैवैः शरणार्थिभिः क्रन्दद्भिः स्मृतो हरः कुपितस्तान् चौरान् विकलानन्धांश्च चकार। तदकस्मात् विलोक्यैव ते पौराः शार्वमनुग्रहं मत्वा सम्भूय तान् दस्यून् लगुड़ैरश्मभिश्च निजघ्नुः।गणाश्चादृश्यमानाश्चौरान् कांश्चित् शभ्रेषु अवाक्षिपन्, कांश्चिदमृद्यन् कांश्चिञ्च भुवि निहत्य अपातयन्। यावच्च तौ सेनापतौ दृष्ट्वा जनो जिघांसतितावत् तौ चौर विनाकृतौ श्वानो समपद्येताम्। तथाभूतौ च तौ पूर्वजातिं स्मृत्वा अशङ्कं शङ्करस्य सन्निधौ नृत्यन्तौ तमेव शरणमापतुः। तद्दृष्ट्वा सर्वे सविप्रबणिजो जनाः विस्मिता गतचौरभयास्तान् दस्यून्हसन्तः स्वान् गृहान् जग्मुः। ततस्तौ श्वनौ शान्तमोहौ प्रवुद्धौशापशान्तये त्यक्ताहारौ शिवमुद्दिश्य तपः शिश्रियतुः प्रातश्च कृतोत्सवास्ते पौरा ईश्वरं संपूज्य दत्तेऽपि अन्ने तौ श्वानौ ध्याननिष्ठौ पराङ्मुखौ ददृशः। तथैव दृश्यमानौ तौ यावत् बहून् दिवसान् ध्याननिश्चलौ स्थितौ तावत् गणा देवं शम्भुं व्यजिज्ञपन् देव ! इमौ

पिङ्गेश्वरगुडेश्वरौ देव्या शप्तौ बहुकालं बहून् क्लेशान्प्राप्तौ तदेतयोः कृपां कुरु। तदाकर्ण्य भगवानुवाच इदानीमेतौ सारमेयतां परित्यज्य वायसौ भवताम्। ततस्तौ तत्क्षणात् वायसीभूतौ बलिदत्तेन अन्नेन कृतजीवितौ जातिस्मरौ सुष्ठु शिवैकाग्रचेतसावभूताम्। कालेन भक्तितुष्टस्य शम्भोर्निदेशात् तौ भासौ ततः शिखण्डिनौचअभूताम्। ततः पुनः कालेन तौ गणेश्वरौ हंस तामुपागतौ हेमरत्नमयौसंजज्ञाते। तावेव पार्वतीशापप्राप्तक्लेशपरम्परौ हंसतां प्राप्तावावां विद्धि। यच्च जयासुताभिलाषो मनिपुष्पेश्वरो नाम गणाधिपः देव्या शप्तः, स त्वं भुवि ब्रह्मदत्तनृपाख्यया जातः। सा च जयासुता तव भार्य्या सोमप्रभा जाता स च धूर्जटिस्ते शिवभूतिको नाम मन्त्री जातः। तदावाभ्यां सम्प्राप्तज्ञानाभ्यां साम्प्रतमम्बिकाकृतं शापान्तं स्मृत्वा दत्तंवो निशि दर्शनम्। तदायात, तत् त्रिदशशैलम् उमापतेरचलेन्द्रं व्रजामः यत्र देवा विद्युद्ध्वजासुरविनाशार्थं सिद्धीश्वरं किल तपः विदधुः। जिम्युश्च तमसुरं समधिकबलदर्पयुक्तं शर्वप्रसादलब्धेन मुक्ताफलकेतुना। स च मुक्ताफलकेतुः शापकृतं मर्त्त्यभावमुत्तीर्य पुनः शर्वानुग्रहात् पद्मवत्या समासङ्गमवाप। तादृशे तत्र क्षेत्रे हरं दृष्ट्वा नत्वाच स्वांपतिं प्रयास्यामः।एवं रूपो हि देव्या अस्माकं शापान्तो विहितः।

इति ताभ्यां दिव्यहंसाभ्यामुक्तेस ब्रह्मदत्तो नृपः सद्योमुक्ताफलकेतोः कथा श्रवणेजातकौतूहलः समभवत्।

अथ पञ्चदशोत्तरशततमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1723380175Screenshot2024-08-11181225.png"/>

ततः स ब्रह्मदत्तस्तौ दिव्यहंसावब्रीत् कथं मुक्ताफलकेतुर्विद्युदुध्वजं तमसुरं जघान कथञ्च शापमर्त्त्यत्वमुत्तीर्य्य पद्मावतीं पुनः प्राप्तः एतत्तावत् युवांकथयतं ततः प्रकृतमनुसरामः। तदाकर्ण्य तावेतौ गणौ तत्कथामवर्णयताम्।

आसीत् पुरा विद्युत्प्रभो नाम देवदुर्जयो दैत्येन्द्रः। स एकदा जाह्नवीतीरं गत्वा पुत्रकामीब्रह्माणमाराधयन्वर्षशतं दुश्चरं तपश्चचार। ततः स सुरारिस्तपस्तुष्टस्य ब्रह्मणो वरात् विद्युध्वजं नाम देवानामप्यवध्यं तनयं प्राप। स बालोऽपि महावीरः दैत्यराजसुतो बलैः रक्ष्यमाणंसमन्तात् स्वपुरमालोक्य एकदा वयस्यमेकमप्राक्षीत्सखे ! कुतोऽत्र भयम् ?येनेदं पुरं रक्षकैर्नित्यं रक्ष्यते ? ततो वयस्योऽवादीत् अस्ति नस्त्रिदशानामीश्वरः प्रतिपक्षः, तदर्थोऽयं पुररक्षणविधिः इदं पुरं दशलक्षदन्तिनः,चतुर्दशलक्षरथाः त्रिंशल्लक्षाश्वाःसततं पर्य्यायक्रमेण प्रति यामं रक्षन्ति। तेषाञ्च सप्तभिरब्दैः प्रहरवारः समायाति। तदाकर्ण्य स विद्युध्वजः प्रत्यवदत् सखे। धिगीदृशं राज्यं यत् परेषां बाहुभिः रक्ष्यते न स्वबाहुना। तदहं तीव्रं तपः कृत्वा यथा भुजनिर्जितशत्रोर्मे एषा विडम्बना न स्यात्तथा करिष्यामि। इत्युक्त्वैवतं वयस्यं वारयन्तं निषिध्य सः विद्युदुध्वजः पित्रोरनुक्त्वा तपसे वनं प्रययौ। ततश्च

विदितवृत्तान्तौ पितरौ स्नेहात् तमन्वागत्य प्रोचतुः पुत्र ! क्व त्वं बालः, क्वच कष्टं तपः मा तावत् साहसं कृथाः, जितशत्रु नो राज्यमिदानीं, त्रैलोक्येइतोऽधिकं किं वाञ्छसि ? वृथात्मानं दुर्न्वन् कथं नौ तापयसि ? शोषयसि च ? एवं वादिनौ पितरौ विद्युदध्वजः प्रोवाच तातौ! बाल्ये एव दिव्यानि अस्त्राणि उपार्जयिष्यामि, ततो बलात्निःसपत्नं जगत् राज्यं भवेत् एतेन तपसा, किमेतत् न ज्ञायते ? नित्यसन्नद्धैर्बलैः स्वपुरं रक्ष्यतेइदं किं न लज्जाकरं भवताम् ? इत्युक्त्वातौ पितरौ विसृज्य स विद्युद्ध्वजः घोरं तपश्चरन् विरिञ्चिमाराधयामास। स दैत्यः त्रीणि त्रीणि वर्षशतानि फलाहारः अम्बुपायी तथा वायुभक्षश्च क्रमेण तस्थौ। ततो भगवान् वेधा जगत्क्षोभकरं तत्तपः समवलोक्य समुपेत्य तदर्थिने तस्मै ब्राह्मादीनि अस्त्राणि ददौ उवाच च वीर! ब्रह्मास्त्रमेतत् रौद्रं पाशुपतम् अस्मदगोचरमस्त्रंविना अन्येन अस्त्रेण न प्रतिहर्य्यते। तत्त्वया जयैषिणा अकाले एतत् न प्रयोक्तव्यं इत्युक्त्वाब्रह्मान्तदधे, सोऽपि दैत्यवरः स्वं गृहमायात्। ततस्तदागमनप्रीतिपरैः सर्वैरसुरैरभिनन्द्यमानः स पित्रा समं स्वबलैः सह शक्रजिगीषया सुरलोकमगात्। इन्द्रोऽपि तदागमं बुद्धापूर्वमेव कृतसुरलोकरक्षाविधानः सख्या चन्द्रकेतुना विद्याधरेण पद्मशेखरनाम्ना गन्धर्वराजेन च सह युयुत्सुस्तदग्रतः समुपययौ विद्युदध्वजश्च बलैरम्बरमाच्छादयन् तमभीयाय। ब्रह्मविष्णुरुद्रादयो देवास्तमाहवं द्रष्टुमागमन्। ततस्तयोरुभयसैन्धयोः तुमुलः सम्प्रहारः प्रावर्त्तत। पर-

स्परास्त्रसन्धातेन निरुद्धार्कतया अन्धकारितदिङ्मुखः अमर्षावातेन क्षुभिताभिर्वाहिनीभिः सङ्कुलः लुठद्वाजिगजग्राहः समरार्णवः सम्बवृधे। परस्परेण देबैर्यथाबलं द्वन्द्वयुद्धेषु प्रवर्त्तितेषु विद्युत्प्रभः क्रुधा शक्रमभ्यागात्। तेनामरद्विषा अस्त्रप्रत्यस्त्रयुद्धेन नितान्तमभिभूयमानः देवेन्द्रः तस्मै वज्रमवाक्षिपत् स तु दैत्येन्द्रः वज्रताड़ितः सहसा गतजीवितः पपात। अथ विद्युदध्वजः क्रोधात् तं शतक्रतुमभ्यधावत्। अक्षिपच्च तं प्रति ब्रह्मास्त्रम् अप्राणसंशयेऽपि। अन्ये चासुरास्तस्मिन् देवेन्द्रे अस्त्राणि प्राक्षिपन्। अथ स शतक्रतुः ईश्वरादिष्टं पाशुपतं स्मृत्वा अभ्यर्च्यशत्रुषु तदस्त्रं प्राक्षिपत्। तेन कालाग्निकल्पेनास्त्रेण तत् सर्वमासुरं बलं दग्धम्। विद्युद्ध्वजस्तु बालत्वादहतोऽपि मूर्च्छितोऽपतत्। न हि तदस्त्रं बालं वृद्धं पराङ्मुखं निहन्ति। ततो लब्धजया देवा स्वस्थानानि प्रययुः। विद्युध्वजस्तु ध्वस्तः सुचिरात् लब्धचेतनः शोचन् पलायमानान् शेषान्सैनिकानवोचत् वीराः ! जयिनोऽपि वयम् अद्य ब्रह्मास्त्रे प्रक्षिप्तेऽपि जिताः, तद् गत्वा शक्रमासाद्य आहवे जीवितं त्याक्ष्यामि, न तु हते पितरि स्वपुरं गन्तुं शक्ष्यामि। इत्युक्तवन्तं तं वृद्धःपैतृको मन्त्री उवाच वत्स! अकाले त्वया ब्रह्मास्त्रं मुक्तम् अन्यायमसहमानेन पाशुपतेन निराकृकृतम्। तत् लब्धजयं तं शक्रमकाले आक्षेप्तुं नार्हसि, तथा कृते तस्योपचयः स्वस्य च नाशो भवेत्। धीरो हि काले आत्मानं रक्षन् रिपोर्बलं प्राप्य प्रतिक्रियां कृत्वा विश्वश्लाघ्यं यशोऽश्नुते। इति तेन वृद्धमन्त्रिणभिहितो

विद्युद्ध्वजस्तमुवाच तर्हि अस्मद्राज्यरक्षार्थं यूयं यात, अहं पुनर्गत्वा तमेव विश्वेश्वरं शिवं तपसा आराधयिष्यामि। इत्युक्त्वाअनिच्छतोऽपि तान् अनुगान् स विससर्ज। पञ्चभिरेव वयस्यैर्दितिजकुमारैरन्वितः गत्वा कैलासमूलं गङ्गातीरे तपः समाश्रयत्। एकं वर्षसहस्रं शिवं ध्यायन् फलमात्रवृत्तिर्निदाघे पञ्चाग्निमध्ये शीते च वारिणि तस्थौ। द्वितीयं वर्षसहस्रं मूलाशनः, तृतीयं वर्षसहस्रं वारिभोजनःचतुर्थं वर्षसहस्रं वायुभक्षः, पञ्चमञ्च वर्षसहस्रं निराहारश्चघोरं तपश्चचार। अथ तपस्तुष्टागतं ब्रह्माणं स खलु न बहु मेने उवाच च दृष्टस्ते वरप्रभावः, गम्यतामिति। अथ तावन्तं कालं निराहारमेव स्थितं तं साक्षात् शम्भुरागत्याब्रवीत् वीर ! वरं वृणीष्व, प्रीतोऽस्मि ते तपसा साहसेन चेति। दैत्योऽब्रवीत्प्रभो ! अहं त्वत्प्रसादात् रणे शत्रुं बध्यामिति। उत्तिष्ठ न विशेषोऽस्ति जितस्य हतस्य वा तदिन्द्रं रणे जेष्यमि, तत्पदे च निवत्स्यसि। इत्युक्त्वादेवे अन्तर्हिते स दैत्यराजः सिद्धं मनोरथं मत्वा पारणं कृत्वा च स्वपुरं ययौ। तत्र पौरैस्तेन च वृद्धेन मन्त्रिणाभिनन्दितः मिलित्वा च सर्वैरसुरैर्महोत्सवं व्यधत्त। ततश्च सर्वाणि असुरसैनिकानि आहूय विहितरणसज्जःदेवेन्द्राय युद्धाय सज्जोभवेति दूतं प्राहिणोत्। सेनानादनिर्घातदारितं नभश्चचाल। इन्द्रोऽपि तं लब्धवरं समायान्तं दैत्यपतिं विज्ञाय समाकुलः देवगुरुणा सम्मन्त्रासुरसेनान्यमाजुहाव। ततो विद्युद्ध्वजे रणशिरसि समुपस्थिते उभयोः सेनयोः

स्वेषां परेषाषाञ्चाज्ञातविभागो महारणः संववृते। बाहुशालिप्रमुखा दैत्या वायुभिः समयुध्यन्त। पिङ्गाक्षाद्याअसुरा महामायिनःउग्रयोधिभिः कुवेरवलैः, अयःकामादयोऽसुराः सूर्य्यैः, आकम्पनादयः सिद्धैः, केचिदसुराःविद्याधरैः, अपरे गन्धर्वैः समयुध्यन्त। एवं तेषां विंशति दिनानि घोरं युद्धमवर्त्तत। एकविंशतिदिने दैत्यैः सुरा अभज्यन्त। ते च भग्नाः पलाय्य स्वर्गान्तः प्रविविशुः। ततः स्वयं वासव ऐरावतारूढ़ःनिरगात्। पुनश्च देवसैन्यानि तं परिवार्य्य निरगच्छन्। चन्द्रकेतुप्रभृतयश्च खेचरास्तमन्वसरन्। ततश्च पुनः प्रवृत्ते संग्रामे सुरासुरे च हन्यमाने विद्युद्ध्वजः पितृवधामर्षपूरितः शतक्रतुमभ्यधावत्। देवराजः क्रुद्धस्तस्य दैत्येन्द्रस्य प्रतिघ्नतः अस्त्राणि कोदण्डञ्च अस्त्रसंघैःपुनः पुनश्चिच्छेद। ततोऽसुरपतिर्महेश्वरवरोद्धतः गुद्गरमादाय जवात् तं वासवमभ्यद्रवत्। उत्पत्य च ऐरावतस्य दन्तयोर्हत्वा कुम्भग्रमारुह्य यन्तारं विममाथ। प्रजहार च देवेन्द्रं तेन मुद्गरेण। देवराजश्च मुषलेन सत्वरं तं प्रतिजघान। सोऽपि विद्युदध्वजस्तं भूयोऽपि मुद्गरेण जघान। तेन स देवेन्द्रः वायुध्वजस्योपरि मूर्च्छितः पपात। तदवलोक्य वायुर्मनोजवेन रथेन तमिन्द्रंरणादन्यतोऽपाहरत्। विद्युद्ध्वजश्च तमपसार्य्यमाणमपि अन्वसरत्। अथ अकालोऽयं रणस्य, तदेनभिन्द्रं रणादूपसारयत इति सहसा आकाशांत् सरस्वतीउदचरत्। ततो वायुना रथवेगात् शंक्रे अपसारिते विद्युदध्वजोऽपि रथारूढ़ो यावत् तमनुधावति

तावत् ऐरावतः क्रुद्धोनिरङ्कुशः धावित्वैवमथन् सैन्यानि शक्रसकाशमाययौ। ततो रणं मुक्त्वादेवसैन्येइन्द्रमनुसृते सुरगुरुः भीतां शचींब्रह्मभवनं निनाय।

अथविद्युद्ध्वजः जयं प्राप्य नदद्भिः सैन्यैः सहशून्याअमरावतींप्रविवेश। इन्द्रोऽपि लब्धचेतनः साम्प्रतम्असाम्प्रतं रणोद्योग इति मत्वा सर्वैः सुरैःसह ब्रह्मलोकमगात्। पितामहश्चसाम्प्रतमसौ हरवरप्रभावः, तत्मा शोकं कृथाः, भूयः स्वं पदं प्राप्तासि, इति समाश्वास्य देवेन्द्रं, सर्वसुखावहं स्वं समाधिस्थलं नाम ब्रह्मलोकैकदेशस्थं स्थानं तस्मै वसतये प्रददौ। तत्र स देवेन्द्रःशच्या ऐरावणेन च संयुतः समुवास। विद्याधरेश्वराश्च तदादेशात् वायुलोकमगमन्। गन्धर्वपतयश्चअदृश्यं सीमलोक माययुः। अन्ये च त्यक्त्वस्वनिवासा अन्यान्लोकान् गताः।

विद्युध्वजस्तु देवानां राज्यंत्रिपिष्टपं निर्मर्य्यादः अहमेव सुरासुरपतिरिति डिण्डिममाघोष्य बुभुजे।

अत्रान्तरे वायुलोकस्थितो विद्याधरेन्द्रश्चन्द्रकेतुरित्यं व्यचिन्तयत् इह सपदप्रच्युतेन मया कियञ्चिरं स्थातव्यम्। अद्यापि अस्माकं शत्रोर्विद्युदध्वजस्य तपः क्षयोऽस्ति। शृतञ्च मया, स मे सुहृत् पद्मशेखरो गन्धर्वराजः सीमलोकात्तपसे शिवलोकं गतः। देवेन शम्भुना तस्य प्रसादः कृतो नवेति नाद्यामि जाने, तद्विदित्वा आत्मनः कर्त्तव्यं निरपयामीति यायत् ध्यायति, तावत् स गन्धर्वराजः प्राप्तबरः सखा तं विद्याधरेन्द्रमभ्याययौ। स तेन सख्या चन्द्र-

केतुना प्रेम्णा समाशिष्य विहितस्वागतः पृष्टश्व स्वं वृत्तान्तं गन्धर्वपतिराचचख्ये। सखे ! गत्वाहं शिवपुरे भगवन्तं शम्भुं तपसा समाराधयम्। स च मामादिशत् वत्स ! गच्छ, तव उत्तमः पुत्रो भविता, पुनश्च राज्यमेकाञ्च कन्यकां प्राप्स्यसि। तस्यास्ते सुताया वीरो भर्त्ता विद्युदृध्वजस्य अन्तको भविष्यति। इत्यादिष्टोऽहं शम्भुना प्रीत्याते वक्तुमागतः। एवमाकर्ण्य गन्धर्वपतेर्वचः, चन्द्रकेतुरब्रवीत् सखे ! अहमपि एतस्य दुःखस्य शान्तये तं महेश्वरं गत्वा आराधयामि तमनाराध्य नैव ईप्सितसिद्धयः। इति निश्चित्य स चन्द्रकेतुस्तपसे त्रिशूलिनो दिव्यं क्षेत्रं स्वपत्न्या मुक्तावल्या समं जगाम। स च पद्मशेखरः इन्द्राय स्वबलवृत्तान्तमाख्याय रिपुजये उत्पन्नास्थःसोमभवनमगात्। ततः सुरपतिस्तत्र समाधिस्थले वसन् रिपुक्षये सञ्जातप्रत्याशः सुरगुरुमस्मरत्। स्मृतोपस्थितञ्च तं स विनयनम्रः प्राब्रवीत् गुरो ! तपसा तुष्टो हरः पद्मशेखरस्य समादिशत् विद्युद्ध्वजस्य हन्ता ते जामाता भावीति। तदस्ति अस्य दुःखस्य अन्तः किन्तु अहं चिरम्अत्र निवसन् स्वपदभ्रंशेन निर्विणस्तिष्ठामि, तदत्र भगवन् ! शीघ्रकारिणमुपायं चिन्तय इति शक्रवचः समाकर्ण्य देवगुरुरब्रवीत् देवराज ! तस्यासुरस्य दुष्कृतैः प्रायशस्तपसः क्षयः प्राप्तः। तस्मादस्माकं स्वप्रयत्नविधेरवसरोऽयं तदेहि ब्रह्मणः सकाशं, स एवास्मान् उपायं वदिष्यति। इति गुरुणोक्तः शक्रस्तेन सहित ब्रह्मणोऽन्तिकमगात्। अशंसच्च, प्रणम्य तस्मै स्वं मनोगतम्। ततः स्वयम्भुरव-

दत् ममापि किमत्र चिन्ता नास्ति ? किन्तु शर्वकृतं शर्वेणैव व्यपोहितुं शक्यं स च देवः सुचिरेण प्राप्यः, तदेत हरेर्निकटं यामः, स हि तदभिवात्मा सदुपायं वदिष्यति। इति सम्पन्त्र्याते ब्रह्मेन्द्रगुरवः हंसयानमारुह्य श्वेतद्वीपमुपागमम्। यत्रसर्वो जनः शङ्खचक्रगदापद्मधारी चतुर्भजःभूर्त्तौ च चित्ते च भगवन्मयः। तत्र गत्वा ते महारत्नगृहान्तरे स्थितं कमलया सेवितचरणकमलं शेषशय्यागतं देवं हरिं ददृशुः। ततः कृतप्रणामास्ते तेन च यथाहं सत्कृताः तत्र यथोचितमुपाविशन्। व्यजिज्ञपंश्च पृष्टकुशलास्तं भगवन्तं देव ! किमिवास्माकं कुशलं सति विद्युद्ध्वजे। सर्वमेव देवो जानाति यत् तेनासुरीणास्माकं कृतम्। तदर्थश्चास्माकमागमः, तदत्र देवः प्रमाणमिति एवमुक्तवतो देवान् तान् प्रोवाच जनार्दनः। कथं न जानामि, यत्तेन असुरेण मे स्थितिः सनातनी भग्ना, किन्तु स्वयं त्रिपुरारिणा यत्कृतं तत् तेनैवान्यथा कर्त्तुं शक्यते नान्येन तत एवास्य दैत्यस्य पापस्य क्षयो भवेत् अत्र कुरुध्वमुपायं यदि, तदहं वच्मि निशम्यताम्।

  सिद्धीश्वराख्यं माहेश्वरं क्षेत्रमस्ति, तत्र नित्यं सन्निहितो हरः संप्राप्यते, दर्शितज्वालालिङ्गमूर्त्तिः स भगवान् हरः प्रजापतेश्च पूर्वं मे एतत् रहस्यमवदत्। तदेत, तत्र गत्वा तपसा तं देवं प्रार्थयामहे। स एव जगताममुमुपद्रवं शमयिष्यति। इत्यादिष्टवता तेन देवेन विष्णुना सह सर्वे ते तार्क्ष्यंहंसाभ्यां यानाभ्यां तत् सिद्धीश्वरंक्षेत्रं ययुः। यत्र जरा मृत्युश्च न पदमाप्नोति, यस्मिश्च

सौख्यैकनिकेतने मृगाः पक्षिणः द्रुमाश्च हेमरत्नमयाः। तत्र ते हरिविरिञ्चिदेवेन्द्रसुरगुरवः शूलिनः क्षणे क्षणे दर्शितान्योन्यमूर्त्तिभेदं लिङ्गमभ्यर्च्च्य दुश्चरं तपः प्रारेभिरे।

अत्रान्तरे चन्द्रकेतोस्तीव्रेण तपसा तुष्टो हरः तस्य विद्याधरपतेर्वरमदात्। राजन् ! उत्तिष्ठ, ते महावीरः सुतो जनिष्यते। यः समरे युष्मच्छत्रुंविद्युद्ध्वजं निहनिष्यति। स च शापात् मनुष्ये अवतीर्णः देवानां हितं साधयन् गन्धर्वराजस्य पद्मशेखरस्य दुहितुः पद्मावत्याः तपोबलात् पुनस्तथैव भार्य्यया सह स्वपदमायास्यति। दश कल्पञ्च सवविद्याधरैश्वर्य्यंभोक्ष्यते। इति दत्तवरे देवे दृष्टिपथातीते स चन्द्रकेतुः सभार्य्यःतदैव वायुभवनमागात्। तावच्च तत्र सिद्धीश्वरे तीव्रतपसा तुष्टो भगवान् शम्भुस्तान् विष्णुब्रह्मेन्द्रगूरून् चतुरो देवान्प्रहृष्टः प्राब्रवीत् उत्तिष्ठत अलंवः क्लेशेन, युष्मत्पक्षेण विद्याधरेश्वरेण चन्द्रकेतुना अहं तपसा तोषितः, मदंशसम्भवस्तस्य वीरः पुत्रो भविष्यति, यस्तं विद्युदध्वजं रणे निहनिष्यति। ततो देवकार्यार्थं मानुष्ये शापतश्च्युतः पद्मावत्या पद्मशेखराख्यस्य गन्धर्वपतेः सुतया उद्धारं लप्स्यते। तद्गच्छत, मनागेष कालः तस्य शत्रोः प्रादुर्भावे सोढव्य इति तान् अच्युतादीनादिश्य देवोऽन्तर्दधे। ततो हृष्टास्ते सुराः स्वं स्वं धाम यथागतं प्रतिजग्मुः।

अथ विद्याधरेन्द्रस्य चन्द्रकेतोः प्रिया महिषी रत्ना-

वलीसगर्भाभूत् प्रासोष्ट च काले दुरासदेन तेजसा दिशः प्रकाशयन्तं तामसोपद्रवं हन्तुं बालार्कमिवोदितं सुतम्। तस्मिंश्च सुते जातमात्रे दिवः भारती शुश्रुवे चन्द्रकेतो ! अयं ते सुतो विद्युदृध्वजस्य असुरेन्द्रस्य हन्ता नाम्ना च मुक्ताफलकेतुर्भविष्यति। इत्युक्ता सा वाक् चन्द्रकेतुं प्रहर्षयन् विरराम। पुष्पवृष्टिश्च पपात। पद्मशेखरः देवेन्द्रश्च सर्वैः सुरैः सह परस्परं हरप्रसादवृत्तान्तमाचक्षन्तः तत्र समागमन्। आगत्य च ते महोत्सवमनुभूय पुनः स्वस्थानानि प्रत्यागमन्। स च मुक्ताफलकेतुः सर्वैसंस्कारैः संस्कृतः देवानां महानन्देन समं क्रमेण वृद्धिमगमत्।

अथ गच्छति काले पद्मशेखरस्य गन्धर्वपतेः कन्यैका समजनि। तस्याञ्च जातायां अन्तरीक्षात् वागेषा समुदचरत्। गन्धर्वपते ! सुतेयं ते विद्युदृध्वजहिषः विद्याधरपतेर्भार्य्या नाम्ना च पद्मावती भविष्यतीति। अथ सा यथोक्तविधिना कृतसंस्कारा सुधांशोरालोकसंक्रान्तेनं अमृतपूरेणेव, लावण्य प्रसारेण विराजिता कन्या क्रमेण व्यवर्द्धत। सोऽपि वालो मुक्ताफलकेतुर्महामतिः केवलं शिवपरःव्रतोपवासादि तपश्चचार।

एकदा ध्याननिष्ठं द्वादशाहमुपोषितं तं बालं भगवान् शम्भुः प्रत्यक्षीभूय जगाद वत्स ! तव अनया भक्त तुष्टोऽस्मि, मत्प्रसादेन तव सर्वाणि अस्त्राणि सर्वाश्च विद्याःकलाश्च आविर्भविष्यन्ति। एतञ्चअपराजितख्यखङ्ग गृहाण, येन विपक्षैरपराजितः साम्राज्यं करि

सौख्यैकनिकेतने मृगाः पक्षिणः द्रुमाश्च हेमरत्नमयाः। तत्र ते हरिविरिञ्चिदेवेन्द्रसुरगुरवः शूलिनः क्षणे क्षणे दर्शितान्योन्यमूर्त्तीभेदं लिङ्गमभ्यर्च्च्य दुश्चरं तपः प्रारभिरे।

अत्रान्तरे चन्द्रकेतोस्तीव्रेण तपसा तुष्टो हरः तस्य विद्याधरपतेर्वरमदात्। राजन् ! उत्तिष्ठ, ते महावीरः सुतो जनिष्यते। यः समरे युष्मच्छत्रुंविद्युदध्वजं निहनिष्यति। स च शापात् मानुष्ये अवतीर्णः देवानां हितं साधयन् गन्धर्वराजस्य पद्मशेखरस्य दुहितुः पद्मावत्याः तपोबलात् पुनस्तथैव भार्यया सह स्वपदमायास्यति। दश कल्पञ्च सवविद्याधरैश्वर्य्यंभोक्ष्यते। इति दत्तवरे देवे दृष्टिपथातीते स चन्द्रकेतुः सभार्य्यःतदैव वायुभवनमागात्। तावच्च तत्र सिद्धोश्वरे तौत्रतपसा तुष्टो भगवान् शम्भुस्तान् विष्णुब्रह्मेन्द्रगूरून् चतुरो देवान्प्रहृष्टः प्राब्रवीत् उत्तिष्ठत अलंवः क्लेशेन, युष्मत्पक्षेणविद्याधरेश्वरेण चन्द्रकेतुना अहं तपसा तोषितः, मदंशसम्भवस्तस्य वीरः पुत्त्रो भविष्यति, यस्तं विद्युदध्वजं रणे निहनिष्यति। ततो देवकार्य्यार्थं मानुष्ये शापतश्च्युतः पद्मावत्या पद्मशेखराख्यस्य गन्धर्वपतेः सुतया उद्धारंलप्स्यते। तदुगच्छत, मनागेष कालः तस्य शत्रोः प्रादुर्भावे सोढव्य इति तान् अच्युतादीनादिश्य देवोऽन्तर्दधे। ततो हृष्टास्ते सुराः स्वं स्वं धाम यथागतं प्रतिजग्मुः।

अथ विद्याधरेन्द्रस्य चन्द्रकेतोः प्रिया महिषी रत्ना-

वलीसगर्भाभूत् प्रासोष्ट च काले दुरासदेन तेजसा दिशः प्रकाशयन्तं तामसोपद्रवं हन्तु बालार्कमिवोदितं सुतम्। तस्मिंश्च सुते जातमात्रे दिवः भारती शुश्रुवे चन्द्रकेतो ! अयं ते सुतो विद्युदध्वजस्य असुरेन्द्रस्य हन्ता नाम्ना च मुक्ताफलकेतुर्भविष्यति। इत्युक्ता सा वाक् चन्द्रकेतुं। प्रहर्षयन् विरराम। पुष्पवृष्टिश्च पपात। पद्मशेखरः देवेन्द्रश्च सर्वैः सुरैः सह परस्परं इरप्रसादवृत्तान्तमाचक्षन्तः तत्र समागमन्। आगत्य च ते महोत्सवमनुभूय पुनः स्वस्थानानि प्रत्यागमन्। स च मुक्ताफलकेतुः सर्वैः संस्कारैः संस्कृतः देवानां महानन्देन समं क्रमेण वृद्धिमगमत्।

अथ गच्छति काले पद्मशेखरस्य गन्धर्वपतेः कन्यैका समजनि। तस्याञ्च जातायां अन्तरीक्षात् वागेषा समुदचरत्। गन्धर्वपते ! सुतेयं ते विद्युदध्वजद्विषः विद्याधरपतेर्भार्य्या नाम्ना च पद्मावती भविष्यतीति। अथ सा यथोक्तविधिना कृतसंस्कारा सुधांशीरालोकसंक्रान्तेन अमृतपूरेणेव लावण्यप्रसारेण विराजिता कन्या क्रमेण व्यवर्द्धत। सोऽपि वालो मुक्ताफलकेतुर्महामतिः केवलं शिवपरः व्रतोपवासादि तपश्चचार।

एकदा ध्याननिष्ठं द्वादशाहमुपोषितं तं बालं भगवान् शम्भुः प्रत्यक्षीभूय जगाद वत्स ! तव अनया भक्त्या तुष्टोऽस्मि मत्प्रसादेन तव सर्वाणि अस्त्राणि सर्वांश्च विद्याःकलाश्च आविर्भविष्यन्ति। एतञ्चअपराजिताख्यं खङ्कंगृहाण, येन विपक्षैरपराजितः साम्राज्यं करि-

ष्यसि, इत्युक्त्वास विभुस्तस्मै तं खड्गंदत्वा निरोऽभवत्। स च राजपुत्रस्तत्क्षणात् महास्त्रबलविक्रमः समभवत्।

अत्रान्तरे स महासुरी विद्युदध्वजः कदाचित्दिविस्थः मन्दाकिनीसलिले जलक्रीड़ां कुर्वन् तस्या जलं पुष्परेणुभिः कपिशं मदगन्धानुविद्धं बीचिविक्षोभितमद्राक्षीत्। ततोऽसौ भुजबलमदाध्मातः निजान् अनुचरान् जगाद पश्यत, यात, ममाप्युपरि कः अम्भोभिः क्रीड़ति?तदाकर्ण्य उपरि यातास्त असुरा शाक्रेण दन्तिना सार्द्धं वृषभमेकं क्रीड़न्तं ददृशुः। ततस्ते आगत्य तमसुरेन्द्रं देवशत्रयःप्राब्रुवन् देव ! उपरि एष वृषः, ऐरावणेन हस्तिना सह क्रोड़ति अम्भसि। तस्य वृषस्य ऐरावतस्य च माल्यैर्मदैश्च पयः सम्मिश्रितम्। श्रुत्वैतत् सोऽसुरः रुद्रमगणयन् मदात् चुक्रोध, उवाच च दुष्कृतपरिपाकमूढात्मा स्वान् भृत्यान्। यात भो! आनयत वद्धातौ वृषैरावणौ इति ततो गत्वा ते असुरा यावत्तौ जिघृक्षन्ति, तावत् तान् तौ वृषद्विपौ कृद्धौ प्रधाव्य जघ्नतुः। ततो हतशेषा असुरा गत्वा तमसुरराजमूचुः। स च तदाकर्ण्य क्रुद्धः तौ प्रति असुरं महाबलं प्राहिणेत्। अथ तत् सैन्यं पापपाकागतक्षयं मथित्वा वृषो हरान्तिकम् ऐरावतश्च देवराजसविधमगात्। अथेन्द्रोऽपि ऐरावतरक्षिगणात् तस्य दितिजस्य तद्विचेष्टितं निशम्य तमरिं गौरीपतेरपि कृतावमानं सम्प्राप्तरोषसमयममन्यत। ततश्चकमलयोनये तदावेद्य तेनानु

मतः विद्याधरादिभिर्देवसैन्यैश्च सहितस्तं रिपुं हन्तु शचोरचितमङ्गलः ऐरावत’ तमारुह्य प्रतस्थे।

_______

अथ षोड़शोत्तरशततमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1724177713Screenshot2024-08-20234440.png"/>

अथ स देवेन्द्रः त्रिपिष्टपं प्राप्य हरानुग्रह-सीत्साहैर्बलैः पर्य्यवेष्टत। तदवलोक्य विद्युदध्वजः सन्नजसैनिकःपुरान्निर्जगाम। निर्गच्छतश्च तस्य अनिमित्तानि प्रादुरभवम्। ध्वजेषु रथानां विद्युतः पेतुः, गृध्राश्रउपरिभ्रेमः। महान्ति च छत्राणि अभज्यन्त, शिवाश्चाशिवं प्रारुदन्। स चासुरस्तानि अरिष्टानि अगणयन् निरगादेव। ततश्च देवासुराणां महान् रणः प्रावर्त्तत।

स खलु मुक्ताफलकेतुः किमद्यापि नायाति इति वज्जिणा पृष्टश्चन्द्रकेतुस्तं व्यजिज्ञपत् देवेन्द्र ! त्वरया विस्मृत्य आगच्छता मया तस्य नोक्तंपरं स स्वयमेव बुद्धा ध्रुवं सत्वरमागच्छत्येव। एतदाकर्ण्यं स देवेन्द्रश्चतुरं वायुसारथिं तं मुक्ताफलकेतुमानेतु द्रुतं प्राहिणोत्। पिता च चन्द्रकेतुस्तेन समं स्वसैनिकानामाहानाय प्रतीहारं व्यसर्जयत्। स च मुक्ताफलकेतुः दैत्याहवं गवं पितरं बुद्धां सानुगस्तत्रैव गन्तुं स्वयमेव अभ्युद्यतोऽभवत्। ततोऽसौ जयगजारूढो जनन्या कृतमङ्गलः तस्मात् वायुलोकात् तमैश्वरं खङ्गमुद्वहन् उदचलत्। प्रस्थितस्य तस्य

शिरसि नभसः पुष्पवृष्टिरपतत्। देवाश्च दुन्दुभीन् जघ्नुशिवाश्च वायवः वान्ति स्म। ततस्ते देवगणास्तमासाद्य सोत्सवं परिवब्रुः। ततः स तेन महता सैन्येन सह गच्छन् मार्गे मेघवतं नाम पार्वत्या सुमहत् आयतमं ददर्श। ततः स तदनुल्लङ्घयन् भक्त्या नभसोऽवतीर्य्य दिव्यानि पुष्पाणि च आहृत्य देवीं पूजयितुं प्रववृते। ,

अत्रान्तरे सा गन्धर्वपतेः पद्मशेखरस्य सुता पद्मावती प्राप्तयौवना सखीजनानुगता भर्त्तुः संग्रामगतस्य पितुश्च श्रेयस्कामा तपसि स्थिता स्वां मातरमनुज्ञाप्य इन्द्रलीकात् विमानेन तदेव गौर्यायतनमाजगाम।अद्यापि ते कश्चित् वरो न निश्चितः यस्य युधि स्थितस्य त्वंश्रेयोऽर्थिनी, पितुश्च ते श्रेयोनिमित्तं तव माता तपसि स्थिता। त्वमिदानीं कन्या, तत् कस्य कृते तपः चिकीर्षसि ? इति पथि सख्योक्ता सा पद्मावती तामब्रवीत् सखि ! पितैव कन्यकानां सर्वसिद्धिकृत् दैवतम्। वरोऽपि अनन्यसामान्यगुणो मे निश्चितः। शम्भुनाभगवतादिष्टः विद्याधरेन्द्रसुतो मुक्ताफलकेतुः विद्यद्ध्वजं निहत्य मे वरो भविष्यतीति एतत् मया अम्बया पृष्टस्य तातस्य मुखात् श्रुतम्। स च मे वरः संग्रामं यास्यति यातो वा। अतोभगवतीं गौरीं तपसाहं तस्य पत्युस्तातस्य च विजयं काङ्क्षन्ती समाराधयामि। एवं वादिनींतां राजपुत्रीं सा सखीप्राह स्म सखि ! भाविन्यर्थेऽपि तवैषः व्यवसायः, तन्ते अभिलषितं सिद्ध्यतु इति तथा सख्या कृताशीःसा गौर्य्यायतनाभ्यर्णंमहदेकम् उत्फुल्लैः स्वर्णकमलैः

तन्मुखाम्बुरुहोत्सर्पत्कान्तिविच्छुरितैरिव प्रतिच्छन्नं भास्वरं सरःप्राप। तत्रावतीर्य्यसा अम्बिकायाअर्च्चनार्थं कमलानि उच्चित्य यावत् स्नानं विधित्सति, तावदेव असुरमणान् प्रति धावत्सु आमिषलुब्धेषु रक्षासु तेन पथा आगते दंष्ट्राघोरमुखे पिशङ्गमूर्द्धजे धूमश्याममहाकायेलम्बोदरपयोधरे हे राक्षस्यौ आगते। ताभ्यां नक्तञ्चरीभ्यां दृष्ट्वैव सा गन्धर्वराजसुता निपत्य जगृहे निन्येच गगनोन्मुखम्। एतदवलोक्य यावत् तस्याः परिजनःसमाकुलः समुच्चैश्चक्रन्द, तावत् मुक्ताफलकेतुः देवीगृहात्कृतार्च्चनःनिर्गतः तमाक्रन्दं श्रुत्वा तदुद्देशमागमत्। आगत्य च स राक्षसीभ्यां गृहीतां तां लसद्द्युतिं कालमेघावलीमध्यगतां सौदामिनीमिव पद्मावतींदृष्ट्वा प्रधाव्य च ते राक्षस्यौ वलाहते विचेतने भुवि पातयित्वा तां व्यमोचयत्। अपश्यच्चतां लावण्यरसनिर्झरवाहिनीं त्रिवलीलहरीहारिमध्यभागेन शोभिनीं स्वर्गवधूनां संसर्गेण जातकौशलोत्कर्षेणेव विधात्रा समग्रसौन्दर्य्यसारेण विनिर्मितामिव पद्मावतीम्। दृष्ट्वैव तां स कन्दर्पमोहितः धीरोऽपि तत्क्षणं चित्रस्थ इव निश्चलस्तस्थौ। सापि पद्मावती राक्षसीसम्भ्रमे प्रशान्ते क्षणादिव समाश्वस्य तं जगतां ने नोत्सवदायिनं स्त्रीजनोन्मादकारिणम्इन्दुकन्दर्पौएकीकृत्यैव विधिना निर्मितं मुक्ताफलकेतुं ददर्श। ततो लज्जावनतमुखीसखींस्वैरमभाषत सखि! भद्रमस्तु अस्य इतः परपुरुषपार्श्वतः अन्यत्रो व्रजानि, एवं वदन्त्यां तस्यां सा सखी तेन मुक्ताफलकेतुनावालेयं

किमाह इति पर्य्यपृच्छ्यत। साप्यब्रवीत् वीर ! सुकन्येयं प्राणदस्य तव कृताशीर्वादा एहि अन्धपुरुषपार्श्वात् व्रजाम इति मां वक्ति। तदाकर्ण्य मुक्ताफलकेतुः ससदम्भ्रमं तामुवाच भद्रे ! केयं कस्य सुता ? कस्मै शुभकर्मणे एषा प्रदेया ? इति तेन पृष्टा तद्वयस्या तमब्रवीत् सुभग ! इयं पद्मावती नाम कन्या, सखीमे, गन्धर्वाधिपतेः पद्मशेखरस्य सुता। विद्याधरेन्दस्य चन्द्रकेतोस्तनयो मुक्ताफलकेतु रस्याः शम्भुनादिष्टः पतिर्जगत्प्रियः देवसहायो विद्युद्ध्वजस्य अन्तकः। इयं हि तस्य भर्त्तुःपितुश्च संग्रामे जयकाङ्क्षिणी एतत् गौर्य्यायतनं तपसे समागता इति एतदाकर्ण्य मुक्ताफलकेतोरनुचरास्तां राजपुत्रींदिष्ट्यादेवि ! सखास्माकमयं ते भर्त्तेति समनन्दयन्। ततोऽन्योऽन्यपरिज्ञानहर्षपूर्णे निजात्मनि तौ कन्यावरौ युगपत् अन्तर्नमातः स्म। यावञ्च तो अन्योऽन्यं प्रति सप्रेमतिर्य्यगवलोकितं तिष्ठतः, तावत् तूर्य्यनिस्वनः शुश्रुवे। ददृशे च महत् सैन्यंवायुयुक्तश्च रथः, चन्द्रकेतुप्रतीहारश्च। ततस्त्वरितागतौ तौ वायुप्रतीहारीविनयेन वाहनं त्यक्ता उपागम्य तं मुक्ताफलकेतुमवोचतां राजपुत्र ! पिता ते, देवेन्द्रस्व आहवक्षेत्रात् त्वामाह्वयति, तदिमं रथमारुह्य शीघ्रमागम्यतामिति। ततः स पद्मावतीप्रेमनिश्चलोऽपि गुरुकार्य्यानुरोधात् ताभ्यां सह तं रथोत्तममारुरोह। प्रतस्थे च दिव्यमिन्द्रप्रहितं कवचं बघ्नन् वलितग्रीवं मुहुःपद्मावतीं पश्यंश्च। सा च पद्मावती अदृष्टिगोचरम् एकपाणितलाघातेन निहतराक्षसीद्वयं

तं मुक्ताफलकेतुमेव चिन्तयन्ती स्नात्वा पार्वतीपरमेश्वरौ संपूज्य तत्रस्थिता पतिपित्रोः श्रेयोऽर्थिनी तपस्तेपे। सोऽपि मुक्ताफलकेतुस्तामेवानुक्षणं चिन्तयन् विजयाशंसी दैवासुरसैन्धं समासदत्। ते च सर्वे महासुराः तं ससैन्यं। सुसन्नद्धमागतं वीरं दृष्ट्वा तमेव प्रति अभ्यधावन्। स शूरः शरवर्षेण तेषामसुराणां शकश्रीकृतैः शिरोभिः रणोत्सवारम्भे दिग्देवतानां वलिमिव चक्रे। तेन मुक्ताफलकेतुना हन्यमानं बलं वीक्ष्यस विद्युद्ध्वजः क्रोधात् स्वयं तं प्रति अभ्यधावत्। स च दैत्यः आपतन्नेव तेन मुक्ताफलकेतुना ताड़ितः सम्भ्रान्तइवाभवत्। तदा च सर्वतः तदासुरं सैन्य तमभ्यद्रवत्। तदवलोक्य वासवः सिद्धगन्धर्वविद्याधसुरगणान्वितः तत् दैत्यसैन्यमभिदुद्राव। ततः पततां शरप्रासशक्तितोमरपट्टिशानां निहन्यमानानाञ्च सैनिकानां सुमहान् नादः समुदभवत्। गजाश्वकायमकरा दन्तिमौक्तिकवालुकाः भवत्। प्रवीरचण्डपाषाणाःशोणितसरितः समन्तात् प्रावहन्। शोणितासवेन मत्तानां मांसलोलुपानां भूतानां कबन्धैःसह नृत्यतां महानन्दकरः स महारणःप्रावर्त्तत। तस्मिन्नाहवार्णवे जयश्रीर्देवानां दत्यानाञ्च महोर्मिचपला इतस्ततःकेवलं सञ्चचार, नैकत्र स्थितिमवाप। इत्थं चतुर्विंशतिदिनानि तत् तुमुलं युद्धं विमानस्थैः शिवशौरिविरिञ्चिभिः प्रेक्ष्यमाणमासीत्। पञ्चविंशमे दिने प्रायशः क्षीणयोरुभयसैन्ययोः, द्वन्द्वयुद्धेषु प्रवृत्तेषु प्रधानेषु मुक्ताफलकेतोः रथस्थस्य विद्युद्ध्वजस्य च

गजारूढस्य द्वन्द्वयुद्धमवर्त्तत। मुक्ताफलकेतुः तिमिरास्त्र भास्करास्त्रेण,शेशिरास्त्रं नेदाधास्त्रेण, शैलास्त्रकुलिशेन, नागास्त्रं गारुड़ेन निवार्य्यतस्य दैत्यपतेर्यन्तारं वारणञ्च एकैकेन इषुणा न्यपातयत्। स च दैत्यराजः रथारूढस्य तस्य मुक्ताफलकेतोः रथं सारथिं तुरगांच्चशरौधेन हत्वा मायामशिश्रियत्। तया च मायया सर्वंसैन्यानामदृश्यः सर्वतः सुरवाहिनीमभितः विविधानि अस्त्राणि च ववर्ष। मुक्ताफलकेतुना यदभेद्यं शरजालम् अरुध्यत, दैत्यस्तत् अनलष्टष्टिभिर्ददाह। अथ स मुक्ताफलकेतुः सानुगं तमरिं प्रति विश्वक्षयक्षमं ब्रह्मास्त्रमभिमन्त्र्य मुमोच। तेनास्त्रेण निहतः ससैन्यो महासुरो विद्युदध्वजः गतजीवितो नभसः निपपात। शेषा विद्यद्ध्वजसुतादयः वज्रदंष्ट्रादिभिः सह भयात् पलाय्य रसातलं विविशुः। देवाश्च सिंहनादं नदन्तः साधु साधु इति तं मुक्ताफलकेतुमभ्यनन्दन्। पुष्पवृष्टिश्च दिवः पपात। ततस्तस्तिन् हते शत्रौ देवेन्द्रः प्राप्तत्रिदिवराज्यः अमरावतीं प्रविवेश विदधे च त्रिषु लोकेषु महान्तमुत्सवम्। प्रजापतिः स्वयं शचीं पुरस्कृत्य समायात् अवध्नाच्च मुक्ताफलकेतोः शिरसि चूड़ारत्नोत्तमम्। इन्द्रोऽपि राज्यदायिनो विजयशोभिनस्तस्य कण्ठे स्वकं हारं न्यधात्। समुपावेशयञ्च तं निजासनसमासने। समवर्द्धयंश्च देवाः सानन्द समाशिषा। अथ देवराजः तस्मै मुक्ताफलकेतवे विद्यद्ध्वजासुरपुरम् अवसरे दास्यन् प्रतीहारं विसृज्य तत् पुरादिकम् अधिचकार।

ततः स गन्धर्वपतिः पद्मशेखरः तस्मै राजपुत्राय पद्मावतीं सुतां दातुं साकूतंXदातुर्मुखमैक्षिष्ट। स च दाता ज्ञाताशयस्तं गन्धर्वेन्द्रमुवाच राजन् ! अस्ति कश्चित् कार्य्यशेषः, तन्मनाक् प्रतीक्षस्वइति। ततो हाहाहूहू-प्रभृतीनां गीतैः तुम्बुरुनारदवादितैः रम्भादीनामप्सरसां नृत्यैश्च महान् इन्द्रस्य विजयोत्सवोऽभवत्। ततो दृष्टोत्सवे। सप्रहर्षं याति धातरि वृत्रहा लोकपालादीन् सम्मान्य स्वं स्वं धाम व्यसर्जयत्। तञ्च गन्धर्वराजं पद्मशेखरं सपरिच्छदं सन्मान्य गन्धर्वनगरेतौ च मुक्ताफलकेतुंचन्द्रकेतुञ्च पिता-पुत्रौसुसत्कृतौ उत्सवाय स्वं विद्याधरलोकं ग्राहिणोत्। स च मुक्ताफलकेतुः संहृतविश्वकण्टकः जनकेन सह विद्याधरकन्यकाभिरुद्गीयमानयशाः स्वां राजधानीमाजगाम। सा च नगरी तस्मिन् सपितृके जयशालिनि चिरगते राजसुते प्रविष्टे तदानीं ध्वजपटांशुकमालिनी वरेश्च, रत्नैरलङ्कृता विवभौ। स च राजा चन्द्रकेतुः परितोषितबन्धुभृत्यवर्गः जलदो जलमिव वसु प्रवर्षन् सुतविजयोत्सवं व्यतनोत् स च मुक्ताफलकेतुस्तां विद्युद्ध्वजजयकौत्तिमपि लब्ध्वातां पद्मावतीं विना निजेषु भोगेषु सुखं न मेने। केनचिच्च शर्वादेशशंसिना संयतकाख्येन सख्या समाश्वास्यमानः कृच्छ्रेण तान्यहानि निनाय च।

अथ सप्तदशोत्तरशततमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-17243967395299.png"/>

अत्रान्तरे स गन्धर्वराजः स्वनगरींप्रविष्टः कृतमहोत्सवः पौरान् नन्दयन् स्वस्य भर्त्तुश्च जयाशंसया गिरिजालयं गत्वा तपश्चरन्तीं तनयां भार्य्यामुखात् श्रुत्वा पद्मावतीं समानयत्। अथोपगतां तपसा विरहेण च कृशं तां तनयामाशीर्भिरभिनन्दयन् जगाद वत्से ! मदर्थं त्वया महान् तपःक्लेशो विहितः, तत् विद्याधरेन्द्रसुतं विद्युद्ध्वजान्तकं जगच्छरण्यं जयिनं शम्भुना देवेन स्वयं व्यादिष्टं मुक्ताफलकेतुंपतिं शीघ्रमाप्नुहि। इति पित्रोदिता सा यावदवनतमुखी आस्ते तावत् तन्माता कुवलयावली राजानमाह आर्य्यपुत्र ! कथं तादृशः त्रिलोकीभयावहः असुरः तेन राजपुत्रेण संयुगे निहतः?ततः सा पद्मावतीसखीमनोहरिका नाम तत्कृतां राक्षसीद्वयबधवार्त्तामाचचक्षे। ततस्तौ राजदम्यतीतस्य राजपुत्रस्य सुतायाश्च वृत्तमन्योन्यदर्शनं प्रीतिञ्च निशम्य परां मुदमवापतुः। ऊचतुश्च येन अगस्त्येन जलधिरिव असुरचमूचयः निगीर्णः, तस्य के इमे राक्षस्यौ। इत्थं तस्य वीरस्य उत्कर्षवर्णनात्यया पद्मवत्याः स मदनानलः प्रबलः प्रजज्वाल। ततश्च सा तत्क्षणात् पित्रोः सकाशात् निर्गता सोत्सुका शुद्धान्तरत्नप्रासादमारुरोह। तत्र सा रत्नस्तम्भबद्धमौक्ति-

कजालके मणिकुट्टिमेषु विन्यस्तसुखशय्यावरासन समन्विते चिन्तितोपनतनानादिव्यभोगमनोरथे स्थिता प्रेयो विरहवह्निना समधिकमतप्यत। अपश्यच्च ततः प्रासादपृष्ठात् हेमद्रुमलताञ्चितं रत्नवापोशताकीर्णं समृद्धिमत् दिव्यमुद्यानम्। दृष्ट्वा च साचिन्तयत् चित्रमिदम् अस्माकंपुरं मज्जन्मभूमेरैन्दवात् भवनादपि सुन्दरम्। हिमाद्रेर्मौलिषु अपि न चेदं मया दृष्टम्। नन्दनादपि अभ्यधिकमिदमुपवनं, तदत्र गत्वा सच्छायशीतले विजने वरं विरहानलसन्तापं मनाक् शमयामि। इति सञ्चिन्त्य सा बाला शनैरेकाकिनी युक्त्या ततः प्रासादादवरुह्य पुरोद्यानं गन्तुं प्रचक्रमे। पद्भ्यंगन्तुमशक्ता सा स्वविभूतिवशात् उपस्थितैः पक्षिभिर्वाहनीभूय तदुद्यानमनीयत। तत्रान्तः कदलीषण्डगृहे पुष्पास्तरेषु दिव्यगेयादिकं शृण्वती उपाविशत्। न च सा कथमपि तत्र रतिमलभत, नापि तस्याः स्मरज्वरः शशाम। प्रियेण विना कामाग्निः प्रत्यतावर्द्धत। ततः सा समुत्सुका चित्रस्थमपि प्रियं दिदृक्षुः स्वसिद्ध्यावर्णयन्ती चित्रफलकमग्रहीत्। धातापि यत् सदृशं द्वितीयं स्रष्टुं न शक्नोति तं पुनरहं सोत्कण्ठा सन्नपाणिः कथमालिखे ? तथापि आत्मविनोदाय यथा तथा तं लिखामि, इति सञ्चिन्त्य फलके सा यावत् तमालिखति, तावत् तस्याः सखी तां चिण्वती तमुद्देशमागात्। सा मनोहरिका तां राजपुत्रोमेकाकिनीं सचित्रफलकां पृष्ठतो निःशब्दपदसञ्चारेणागत्य स्थिता, पश्यामि तावत् किमयमेकाकिनीह करोतीति सञ्चिन्त्यप्रच्छन्ना तस्थौ।

सा च तावतंतं चित्रलिखितं प्रियम् उदश्रुनयनोत्पला एवमवादीत् नाथ ! येन त्वया दुर्जयानसुरान् हत्वा देवेन्द्रो रक्षितः, स त्वमालापमात्रेण कथमशरणां मां न रक्षसि ? मन्ये, मन्दभाग्यस्य कल्पद्रुमोऽपि अदातृत्वं सुगतोऽपि अदयालुतां सुवर्णमपि अश्मतां भजते। स्मरज्वरानभिज्ञस्त्वं नूनंमद्व्याथां न वेत्सि, दैत्याजितस्य ते तपस्वी स पुष्पेषुःकिं करोतु। किं वा वामं विधिं वच्मि, यः अश्रुणा दृशौ मे पिदधत् तव दर्शनं चित्रेऽपि न दापयति। इति सोपालम्भमुक्त्वासा राजपुत्री छिन्नहारगलत्स्थूलमुक्ताफलनिभैरश्रुविन्दुभिः धरातलमभिषिञ्चन्ती रोदितुं प्रावर्त्तत।

तस्मिंश्च क्षणे सा मनोहरिका तामुपासर्पत्। सा च राजपुत्री तच्चित्रं वसनाञ्चलेमाच्छाद्य तां सखीं जगाद सखि ! इयच्चिरं न दृष्टासि कथं, क्वस्थितासि ? तदाकण्य सा विहसन्ती तामवादीत् सखि ! त्वामेव चिण्वतो चिरं भ्रान्तास्मि तत्त्वया चित्रमिदं किं छाद्यते, दृष्टं मया चित्रं श्रुतञ्च ते करुणम्। एवं तयोक्ता सा पद्मावती अश्रुगद्गदं लज्जावनतमुखी हस्ते गृहीत्वा तामवादीत् सखि ! प्रागेव त्वया सर्वं विदितं तत् किं निगूह्यते। तेन राजपुत्रेणाहं तस्मिन् गौर्य्याश्रमे उद्धृता महाघोरराक्षसीसङ्कटात्, परं दुर्वारविरहज्वाले मदनानले निक्षिप्ता। तन्न जानामि, क्व गच्छामि किं करोमि, कस्मै कथयामि, कमुपायमाश्रये वा दुर्लभे समासक्तचित्तास्मि। इति वादिनीं तां राजपुत्रीं सखी प्राब्रवीत् सखि ! अनुरूपोऽयं ते अभिष्वङ्गो-

मुपश्रुत्य सर्वः परिचारकजनः सखेदं साश्चर्य्यञ्चावदत् राजपुत्रि ! सदैव निरपेक्षेव किमिदं भाषसे ? अत्र जगत्यां तव किमसुलभं विद्यते ? त्वया अभ्यर्थमानः सुगतोऽपि ससम्भ्रमं स्वधर्मं मुञ्चेत्। एक एव स सुकृती, यस्त्वया एवमभ्यर्थ्यते। एतदाकर्ण्य सा राजपुत्री गुणानुरक्त्वा।प्रावोचत् यः सेन्द्राणां देवानां त्राता स एव मे समाश्रयः, येनैकेन अर्केणेव तमः सर्वमासुरं बलं ध्वस्तम्। यश्च मे प्राणदाता स कथं न मे प्रार्थनीयः ? इत्यादि ब्रुवती समुत्सुका सा तयैव कथया प्राप्तेन तेन सखीजनेन समतिष्ठत्।

अत्रान्तरे सा मनोहरिका वयस्या विद्याधरेन्द्रनगरं चन्द्रपुरं मनोहरमद्राक्षीत्। सा अतर्क्यसिद्धिविभवं भास्वन्मणिमयद्रुमम् एकवृक्षोद्गतानेकजातीकुसुमशोभितं दिव्यगीतरसोन्मिश्रशकुन्तरुतसुन्दरं तत् पुरमवलोकयन्ती भृशमनन्दत्। तत्र उद्यानपालकैर्विचित्रैः पक्षिरूपिभिः सुव्यक्तवचनैः प्रियवादिभिः सा पारिजाततरोर्मूले नानारत्नोज्वलासने उपवेश्य समुचितैर्भोगैः पूजिता। सा तु तत्र सां पूजामभिनन्द्य चिन्तयामास अहो ! विद्याधरेन्द्राणां विचित्राःसिद्धिभूतयः? येषामचिन्त्योपनमद्भोगमोदृशमुद्यानं सुराङ्गनाबद्धसङ्गीतं शकुन्तपरिवारकम्। इत्येवं चिन्तयन्ती तानुद्यानपालकान् दृष्ट्वा चिन्वती पारिजातादि तरुषण्डमवाप। तत्रान्तश्चन्दनसिक्तं कुसुमान्तरशायिनं मुक्ताफलकेतु सविकल्पमिवालोक्य गीर्य्याश्रमे दृष्टचरं प्रत्यभिज्ञाय पश्याम्यस्य किमस्वास्थ्य इति प्रच्छन्ना व्यतिष्ठत।

तथा स्थितश्च मुक्ताफलकेतुः कमपि परिचारकं सखायमब्रवीत् सखे ! मन्येऽहं स्मरेण अङ्गारास्तुहिनेषु न्यस्ताः, चन्दनेषु तुषाग्नयः, मरुति दावानलाश्च समन्तात् विरहानलसन्तापं सृजता। तत् किमेवमात्मानं वृथा क्लिश्नासि ? अस्मिन् चन्दनाभ्यधिके मनोरमेऽपि उद्याने सुराङ्गनानां नृत्यगीतादिविनोदैरपि मे मनो दूयते। तां पद्मनेत्रां पद्मावतीं पद्मशेखरस्य गन्धर्वपतेः सुतां विना अयं मे स्मरशस्ज्वरः नैव शाम्येत्। न चैतत् कस्यापि वक्तुम् उत्सहे, धृतिञ्च न लभे। एक एव मे तत्प्राप्तौ उपायोऽस्ति तत्रैव गौर्य्यालयं गच्छामि, यत्र तथा दृष्टया प्रियया कटाक्षेषुभिरुत्स्वाय मे हृदयं हृतम्। तत्राद्रिराजतनयासङ्गतः स एव शम्भुः तपसाराधितः मे तत्समागमे उपायं विधास्यति। इत्युक्त्वायावत् स राजपुत्र उत्थातुमिच्छति, तावत् सा सा मनोहरिका तुष्टा अयमेव समय इति बुद्ध्वा आत्मानमदर्शयत्। वयस्य ! दिष्ट्यावर्द्धसे, तव समीहितं सिद्धम्। पश्य इयं तस्याः प्रियायाः सखो तवान्तिकं प्राप्ता, तत्पार्श्वस्थैव एषा तत्राम्बिकायतने मया दृष्टा, इति सहर्षं स सखा संयतकस्तं राजपुत्रमब्रवीत्। ततः स राजसुतः तां प्रियासखीं दृष्ट्वा स्फूर्जदानन्दविस्मयौत्सुक्य सङ्कुलां कामपि अवस्थामभजत अपृच्छत् नेत्रपीयूषवृष्टिं तामुपगतां समीपे उपवेश्य कान्तायाः शारीरकुशलादिकम्। अथ सा निजगाद प्रभो ! मत्सख्याः कुशलं त्वयि नाथे ध्रुवं भावि, साम्प्रतन्तु सा नितरामकुशलिनी, यदा प्रभृति दृष्टेन त्वया तस्या मनोहृतं तत आरभ्य विमना न किमपि शृणोति

मनसः, युवयोः सङ्गमः परस्परशोभायै एवावश्य विधात्रा घटयिष्यते। मात्र ते अधृतिरस्तु स खलु भवतीं विना कदापि न स्थास्यति, त्वयापि किं स तथाभूतो न लक्षितः स्त्रियः रूपलोलुपा यं पुमांस दृष्ट्वा इच्छन्ति सोऽपि पुमान् ता एव दृष्ट्वा तथा कामयन्ते। शर्वोऽपि किमलीकवादी, येन युवां दम्पती समादिष्टौ। अदूरवर्त्तिन्यभीष्टे को नाम न धृतिं लभेत। तदाश्वसिहि, स एव ते अचिरात् पतिर्भविता। त्वया कश्चिन्न दुर्लभः, त्वन्तु सर्वेषां दुर्लभा। इति तया सख्याभिहिता सा राजपुत्री तां जगाद सखि ! यद्यपि तथैव जानामि, तथापि इदं तदासंक्तं चेतः न क्षणं सहते तेन विना स्थातुं मन्मथश्च न क्षमते, तमेव स्मरन्त्या मे मनः क्षणमपि न निर्वृतिं लभते, सन्तापेन मेऽङ्गानि दह्यन्ते, असवश्च उत्क्रामन्तीव, किं करोमि। इति वादिनीसा कुसुम सुकुमाराङ्गी मोहेन समाक्रान्ता तस्या वयस्याया उत्सङ्गे पपात। अथ सा सखी रुदती अम्बुसेककदलीपल्लववीजनैः क्रमेण तामाश्वासयामास। सा च सखी तस्या यानि मृणालहारवलयानि चन्दनविलेपनानि नलिनीदलशयनानि च विदधे, तान्यपि गात्रसन्तापेन सन्तप्तानि शुष्काणि च समदुःखत्वमिव भेजिरे। ततस्तामतिविक्लवां सखीमवेक्ष्य पद्मावती प्राब्रवीत् सखि ! कथमात्मानम् आयासयसि वृथा नैवं मे व्यथा शाम्यति। येन शाम्यति, तत्त्वं करोषि चेत्, शुभं भवेत्। एवमुक्तवतीभार्त्तांतां सखी प्रत्यभाषत सखि ! ब्रूहि, किन्ते करोमि, केन वा तापः शान्तिं गच्छति ? तवार्थे दुष्करमपि मे नैव,

अकरणीयं विद्धि। तदाकर्ण्यसा राजसुता किञ्चिदिवह्नियावादीत् प्रियसखि ! तं मे कान्तं गत्वा द्रुतमिहानय, अन्यथा मे तापो नोपशाम्येत्, तातश्च नैब कुप्यति। प्रत्युत इहागतायैव अस्मै तातो मां प्रदास्यति। एवं तयोक्ता सा वयस्या तामब्रवीत् यद्येवं त्वं धैर्य्यमवलम्बस्व, कार्य्यमिदं कियत् ? एषाहं त्वत्प्रियानयनाय तत्पितुः खेचरेन्द्रस्य चन्द्रकेतोः चन्द्रपुरं नाम पुरोत्तमं याम्येव त्वं निर्वृता भव, शुचा अलम्। एवमाश्वासिता सा राजसुताभ्यधात् सखि ! तदुत्तिष्ठ ! शिवस्त पन्या भूयात्, सत्वरं व्रज। लोकानां त्रयाणां त्राता स मे प्राणेश्वरो वरस्त्वाया स प्रणयं मद्वचसा एवं वाच्यः, नाथ ! तस्मिन् गिरिनन्दिनीनिकेतने तथा राक्षसीभयात् परित्राय साम्प्रतं स्त्रीघ्नेन मकरकेतुना हन्यमानामिमां कथं न दयसे ? भुवनोद्धरणसहानामेष को धर्म्मः? यदापदि पूर्वत्रातं जनमुपेक्षते। हे कल्याणि ! त्वं तमेवं वदेः, यथा वा स्वयं जानासि इति व्याहृत्य सा पद्मावती तां सखीं व्यसृजत्। सा च स्वसिद्ध्यासमुपनतं पक्षिवाहनमास्थिता तत् विद्याधरपुरं प्रति प्रतस्थे। सा च पद्मावती किञ्चिदाश्वस्तचित्ता चित्रफलकं गृहीत्वा पितृमन्दिरं प्राविशत्। तत्र दासीभिः परिवृता निजवासकं प्रविश्य कृतस्नाना भक्त्या गौरीनाथं प्रपूज्य ब्यजिज्ञपत् भगवन् ! त्रिषु लोकेषु त्वदिच्छां विना कस्यापि वाञ्छितमल्प वा अधिकं न सिद्ध्यति। तन्मे यदि तं विद्याधरचक्रवर्त्तिसुतंपतिं न दास्यसि, तदाहं तवाग्रतः देहं त्यक्ष्यामि। एवं चन्द्रशेखरे विहितविज्ञप्तिं ता-

नापि करोति न च पशति। सा बाला आहारं विमुच्य मृणालहारं दधतीशयनोज्झिता केवलमम्भोजिनीपत्रेषु लुठति। या पूर्वेह्निया वरकथामपि नासहिष्ट, सेदानीं प्रियतमं विना इमावस्थां प्राप्ता। इति तस्याः खान्येवाङ्गानि सन्तापशुष्कश्रीखण्डसितानि परस्परं हसन्तीव। एवञ्च सा त्वां ब्रवीति। इत्युदीर्य्य सा मनोहरिका ते पद्मावती सन्देशगीतके पपाठ।

स तु मुक्ताफलकेतुस्तत्सर्वमाकर्ण्य गतक्लमः तां मनोहरिकां हर्षात् अभिनन्द्य अभ्यभाषत सखि ! अमृतेनेव तव वचसा ममेदं मनः सिक्तं, चैतन्यं स्वसितञ्च धृतिश्चमे जाता, क्लान्तिश्चगता। मन्ये फलितमद्य मे पूर्वसुकृतै, यदहो गन्धर्वराजतनया मयि एवं पक्षपातिनीजाता। किन्त्वहं कथञ्चित् विरहव्यथां सोढुं शक्नुयाम्, सा तु शिरोषसुकुमाराङ्गी कथं सहेत। तस्मादहं तमेव गिरिजालयं गच्छाम्येव। तत्र त्वं ते सखीमानय, येनाद्य नौ सङ्गमः स्यात् कल्याणि ! त्वरितं गत्वा तामाश्वासय च इमञ्च परितुष्टेन स्वयम्भुवा वितीर्णं मे चूड़ामणिं सर्वदुःखनिवारकं तस्यै देहि। शुक्राच्च प्राप्तोऽयं हारः तव पारितोषिको मया दत्तः। इत्युक्त्वास राजपुत्रः तस्यै शिरस्थितं चूड़ामणिं समर्प्यणात्कण्ठाच्च आदाय तस्याः कण्ठे समर्पयत्।

अथ सा मनोहरिका हृष्टा तं प्रणम्य ततो विहगमारुह्य सखीं पद्मावतीं प्रति प्रतस्थे। स च मुक्ताफलकेतुः प्रहर्षेण गतक्लमः सयतकेन रुख्या समं त्वरितं पुरं प्रावि-

शत्। सापि सत्वरं पद्मावतीं प्राप्य तस्यै यथायथं तत्प्रियवृत्तान्तं सर्वमाचख्यौ ददौ च तत्प्रहितं चूड़ामणिम्। आत्मनश्च पारितोषिकं हारं तस्यै अदर्शयत्। ततः पद्मावतीं तां कृतिनीं सखीमाश्लिष्य अपूजयत् व्यस्मरच्च तां स्मरसन्तापरुजम्।

अथ सा आनन्दमिव तं चूड़ामणिंशिखायां बद्ध्वा गौरीकाननागमनाय संविधानमकरोत्। अत्रान्तरे कश्चित् मुनिः नाम्ना दृढव्रतेन शिष्येण सह तत् गौरीवनमागमत्। स चात्र तं शिष्यं दृढ़व्रतमुवाच वत्स ! अस्मिन् दिव्योद्याने क्षणं समाधिं विदधामि त्वया द्वारि स्थित्वा कस्यापि प्रवेशो न दातव्यः। ततश्चाहं समाहितसमाधिः पार्वतीं पूजयिष्यामीत्युक्त्वामुनिरुद्यामद्वारे शिष्यं तं निवेश्य पारिजातस्य अधस्तात् समाधिमसेवत। क्षणान्तरे च समाधेरुत्थितः अन्तरम्बिकां पूजयितुं प्रविवेश। तच्च द्वारवर्त्तिने शिष्याय न जगाद।

एतस्मिन्नन्तरे स मुक्ताफलकेतुः प्रसाधितः दिव्यकरभमारुह्य सह तेन संख्या संयतकेन तत्राययौ। प्राविशच्च तदुद्यानम्। तावच्च मुनिशिष्यस्तं मा मा गुरुर्मे समाधौ वर्त्ततेऽत्र इति प्रवेष्टुं व्यषेधत्। जातु मे प्रिया अभ्यन्तरे आगता स्यात् मुनिरसौ अत्रैकदेशे स्थित इति समालोच्य स सोत्सुकाःराजसुतः अस्य मुनिशिष्यस्य दृक्पथमतीत्यसुहृद्युतः व्योममार्गेण तत्र प्रविवेश। मुनिशिष्यश्चयावत् गुरोः समाधिं निरीक्षितुमागच्छति तावत् गुरुं तत्र न ददर्श, ददर्श च तं सवयस्यंमुक्ताफलकेतुमपथेन प्रविष्टम्।

ततः स मुनिशिष्यस्त राजपुत्रं क्रुधा अशपत् अस्मादविनयात् सवयस्यस्तंमानुष्यं व्रज, यतः समाधिं भाङ्क्तामे गुरुस्त्वया ताड़ितः। इत्यं दत्तशापः स तं गुरुं स्वमेव अनुचचार। स च मुक्ताफलकेतुः सिद्धप्राये मनोरथे शापाशनिनिपातेन परं विषादमगमत्। पद्मावती च तावत् प्रियसङ्गमलालसा विहगमारुह्य तया सख्या मनोहरिकया सह स्वयंवराय तत्रागात्। ताञ्च समागतां दृष्ट्वा भाषान्तरितां सुखदुःखमयींकष्टामवस्थां स राजसुतः सम्प्राप। तत्कालञ्च पद्मावत्या दक्षिण चक्षुः पस्पन्दे, चकम्पे च मानसम्। ततः सा राजसुता प्रियसङ्गमे विघ्नं विलोक्य अत्रसीत् अचिन्तयच्चक्रिमसीपूर्वमागतत्वात् खिन्नः स्यात् इति। ततः स राजपुत्रः तां प्रश्रयागतामवादीत् प्रिये ! भग्नोऽयं सिद्धोऽपि आवयोर्मनोरथो धात्रा। इत्युक्तां कथं भग्न इति ससम्भ्रमंपृच्छन्तीं तां राजसुतां स राजसूनुस्तं शापमवर्णयत्। ततो विविग्नास्ते सर्वे शापदातुर्गुरुं मुनिं देवीगृहस्थं शापान्ताय अनुनेतुमगमन्। ततः स ज्ञानी महामुनिः तानागतान् दृष्ट्वा तं मुक्ताफलकेतुं प्रीतिपूर्वमभाषत वत्स ! मूर्खेण अविवेकिना अनेन शप्तोऽसि, न त्वया मे किञ्चिदपि अहितं कृतम्, अहं स्वतएवततः समाधेरुत्थितः। अयञ्च निमित्तमात्रम्, इदं हि ते भवितव्यम्। मानुष्ये ते अवश्यं कार्य्यमस्ति तच्च देवकार्य्यंतदनुष्ठानाय दैवेनासौ शापदानाय तव ग्रहितः। एताञ्चपद्मावतीं दैवात् स्मरातुरां मर्त्यशरीरं त्यक्त्वाशीघ्रं शापात् विमोक्ष्यसे। अनेनैव देहेन

पुनः प्राणेश्वरीं प्राप्तासि त्वं हि विश्वत्राता, चिरशापं नार्हसि। त्वया प्रयुक्तेन ब्रह्मास्त्रेण दैत्या बालवृद्धादयोऽपि हताः, स एवाधर्मलेशस्तवात्र हेतुः। तदाकर्ण्य सा पद्मावती तमृषिं सविमयमब्रवीत् भगवन् ! आर्य्यपुत्रस्यास्य या गतिः सैव मे भवतु साम्प्रतम्। नाहमेतेन विरहिता क्षणमपि स्थातुं शक्नोमिवइति प्रर्थितवतीं पद्मावतीं स सुनिरभ्यधात् वत्से ! नैव तदस्ति, त्वं तपस्यन्तीइहैव तिष्ठ, येनात्रिरात् मुक्तशापोऽयं त्वां परिणेष्यति। ततश्चानेन मुक्ताफलकेतुना सह दश कल्पान् खेचराणां साम्राज्यं करिष्यसि। एतत् दत्तं चूड़ारत्नं तपस्यां त्वां पास्यति, एतद्धि महाप्रभावं विधातुः कमण्डलोरुत्पन्नम्। इति पद्मावतीमुक्तवन्तंदिव्यदर्शिनं मुनिं स मुक्ताफलकेतुःप्रार्थयामास भगवन् ! मानुष्येऽपि मम भवे अभङ्गुरा भक्तिरस्तु, पद्मावतीं विना अन्यस्यां स्त्रियाञ्च मे मनोमागात्। एवमस्तु इति तेन मुनिनोक्ते सा पद्मावती तस्य अपराधिनं शिष्यं शपतिस्म। यदसौआर्य्यपुत्रस्त्वया मौर्ख्यात् शप्तः, तत्त्वमपि मानुषस्यैव कामरूपःकामचरोवाहनं भविष्यसि। एवं तयाभिशप्तेन विषस्मेन तेन कुशिष्येण सार्द्धंस तपोधनः सहसान्तर्दधे।

ततः पद्मावतीं मुक्ताफलकेतुरभाषत प्रिये ! अहमिदानीं स्वांपुरीं यास्यामि किमत्र स्थितेन मया कार्य्यमिति। तदाकर्ण्य विरहत्रस्ता सा पद्मावतीव्रातरुग्ण लतेव सपुष्पाभरणा भुवि पपात। ततः स कथमपि क्रन्दन्तीं प्रियां समाश्वास्य तेन सुहृदा सह मुहुर्वलितदृक्

तामेव पश्यन् मुक्ताफलकेतुस्ततः प्रययौ। सा च तस्मिन् प्रयाते सुदुःखिता विलपन्तौ आश्वासयन्तीं मनोहरिकां सखीमभ्यधात् सखि ! जानेऽहम् अद्य स्वप्ने मया देवीपार्वती दृष्टा, सा मत्कण्ठे उत्पल्लदाम क्षेप्तुं प्रार्थितापि आस्तां तावत्, परतीदास्यामीत्युक्त्वाविरताभवत्। तदयं तया में प्रियावाप्तिविघ्नः संसूचितः। इति अनुशोचन्तींतां तदा सखीप्राह स्म तर्हि देव्यापि ते आश्वासनाय स्वप्ने एतत् सूचितम्। मुनिना च तथैव देव्यादेशः प्रकटितः। तदिदानीमाश्वसिहि, तेन प्रियेण तव अचिरात् सङ्गमोभावी, इत्यादिभिः सखीवचनैः कथमपि धृतिमास्थिता सापद्मावती सचूड़ामणिका तस्मिन्नेव गीर्य्याश्रमे तस्थौ चकार च तपस्त्रिसन्ध्यमीशं गिरिजासहितं पूज्जयन्ती। तञ्च प्रियचित्रपटं स्वपुरादानीय तत्र च देववुद्धिमास्थाय पश्यन्ती प्रियं कथञ्चित् कालमनयत्। पुत्रि ! निश्चितेऽपि भाविनि अर्थे वितथं मा तपःक्लेशं कृथाः, इति सास्रमुपेत्य निवारयन्तौविदितार्थौपितरौ सा पद्मावतीएवमाह स्म तात ! अम्ब ! भर्त्तरि मे देवनिर्मिते सहसा शापदुःखितस्थिते कथमत्राहसुख वसेयं परमं दैवतं हि पतिः कुलाङ्गनानाम्।अस्मिश्चवृजिने तपसा परिक्षयं गते, शम्भो च तोषमुपगते अचिरात् मे प्रियसङ्गमो भविता, किमिवास्ति तपसामसाध्यम् ? एवं स्थिरनिश्चयया तया पद्मावत्याभिहिते माता तदीया कुवलयावली तत्पितारं पद्मशेखरमाह स्म। नाथ ! तपः क्लेशम् इयं कुरुतां किमधिकं

खिद्यते मृषा, एतच्चास्था भवितव्यं, कारणमत्रास्ति कथयामि शृणु।

पुरा देवप्रभा नाम्नी कापि सिद्धाधिपकुमारी अभिमतभर्त्तृ प्राप्तये शिवपुरे अतिमहत् तपः कुर्वाणातिष्ठत्। तत्रैषा पद्मावती मया सहिता तत्र देवं शम्भुं द्रष्टुं गता, न त्रपसे कथं पतिहेतोस्तपञ्चरन्तीति तामुपेत्य अहसत्। सा च सिद्धकन्या, मूढ़े! शिशुत्वात् हससि, त्वमपि वरार्थं क्लेशदायि तपः कर्त्तासि इति रुषा इमामशपत्। तदवश्यमनया सिद्धकन्यकाशापफलं भोक्तव्यम्। कोऽन्यथा तत्कर्त्तुमीष्टे, तदियं करोतु यत् कुरुते। इति तथा राज्ञया भिहितः स राजा गन्धर्वपतिः पद्मशेखरः तां तनयां चरणावनतां कथञ्चित् आश्वास्य तया महिष्या साकं निजं नगरमगात्। सापि अनुदिनं गगनेन कमलयोनिनिषेवितं स्वप्ने हरेण गदितं तत् सिद्धीश्वरक्षेत्रं गत्वा गिरिशमर्चयन्ती अत्रैव गिरिजाश्रमे नियमपरावतस्थे।

_______

अथ अष्टादशोत्तरशततमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1723776905Screenshot2024-08-16082454.png"/>

एवं पद्मावती यावत् प्रियप्राप्त्यै तपः संश्रिता, तावत्मुक्ताफलकेतुः स्वंनगरमवाप। प्राप्य च स्वंभवनं स विद्याधरतनयः ब्रह्मशापेनासन्नमानुष्यावतारो भयात् शिवं शरणमगात्। तञ्चार्च्चयन् तद्गर्भगृहात् भारतीं शुश्राव

वत्स! मा भैषीः, तव गर्भवासक्लेशो न भविष्यति, मातुव्यऽपि दुःखं न भविता, नापि चिरस्थितिः महाबलपराक्रमो राजसुतो जनिष्यसे। कुतोऽपि तपोधनात् मुनेः कृत्स्नमस्त्रग्राममवाप्स्यसि, मदीयः किङ्करः कश्चिद्गणस्ते अनुगो भविष्यति तत्सहायश्च रिपून् जित्वा देवकार्य्यं करिष्यसि, ततः पुनःपद्मावत्या युतः खेचराणं साम्राज्य करिष्यसि च। एवमाकाशसरस्वतीमाकर्ण्य धृतिमास्थाय च शापफलागमं प्रतीक्षमाणस्तस्थौ।

अत्रान्तरे पूर्वस्यां दिशि आसीत् देवसभं नाम जितदेवसभंश्रियानगरम्। तत्राभवत् मेरुध्वजो नाम सार्वभौनो नरपतिः। यः सुरासुररणागमे देवराजस्य सहाय आसीत्। यस्याभवत् लोभो यशसि, न कदाचित् परस्वे, तैक्ष्ण खड्गे, न दण्डे, भयं पापात्, न शत्रुभ्यः, भ्रुवोः कोपे कौटिल्यंनाशये, पारुष्यं मौर्वीकिणाङ्के भुजे, न पुनर्वदने। यो हि युधि दीनारातिरक्षणं व्यधात् न कोशेषु, धर्मचय्यासु रतिं श्रद्धधे, नाङ्गनासु। तस्य भूपतेः मनसि सततमुभे चिन्ते अभूतां यदेकोऽपि तावत् पुत्रो न अजायत, इत्येका। तत्पूर्वं देवासुरमहाहवात् हतशेषा असुराः पलायिताः पातालं जग्मः। तैश्चततो निर्गत्य दूरात्तीर्थायतनाश्रमान् छलेन विनाश्य पुनरसकृत् पातालमाविशन्ति स्म, न च तान् स नृपः पातालव्योमचारिण प्राप्नोति स्म इति द्वितीया। स राजा तेन हेतुना निःसपत्नेऽपि भूतले मृणं सन्तेपे।

कदाचित् एतच्चिन्ताकुलः स भूपतिः शत्रुप्रहितेन

रथेन देवास्थानीं ययौ। तत्र च चैत्रशुक्लदिनेषु स राजा मेरुध्वजः देवरथेन शक्रस्य सर्वतो रमणीयानि स्थानानि पर्य्यपश्यत्। तादृशेऽपि तत्र दिव्याङ्गनानां नृत्यगीतमनोरमे प्रदेशे शक्रेण सुसत्कृतोऽपि स चिन्ताकुलः सततं निशश्वास। तदवलोक्य ज्ञानहृदयो वासवस्तं जगाद राजन्! ज्ञातं ते मनोदुःखम्। अलं चिन्तया, शिवांशो मुक्ताफलध्वजो नाम ते सुतो जनिता। द्वितीयश्च ते सुतो गणावतारी मलयध्वजो नाम भविष्यति, असौ मुक्ताफलध्वजः तपोधनात् मुनेः सर्वा विद्याः अस्त्राणि च कामरूपं वाहनञ्च प्राप्रस्यति। ततश्च महापाशुपतास्त्रं लब्ध्वादुजयोभविष्यति। पृथ्वीञ्च वशीकरिष्यति पातालञ्च निहतासुरः। त्वमपि व्योमचरो इमौ समहास्त्रौ काञ्चनगिरि-काञ्चनशेखरनामनौ वारनौगृहाण।इत्युक्त्वा अवगणान् दत्त्वा वज्रिणा प्रेषितः स मेरुध्वजः प्रहृष्टः पृथ्व्यांनिजं नगरमायात्।

अथ स राजा पुत्रलालसः शक्रात् श्रुतस्य तस्य तपोधनस्य मुनेराश्रमं दिव्येन वाहनेन प्रययौ। तत्र तमृषिमभिगम्य शक्रादेशञ्च निवेद्य भगवन्! शीघ्रमादिश उपायं येन मे अचिरादिष्टसिद्धिरिति तेनाभिहितः स मुनिस्तस्य इष्टमिद्धये समादिशत् राजन्! सभार्य्यस्य ते शम्भोराराधनं व्रतं कार्य्यमिति। एवमुपदिष्टः स राजा सभार्य्यः शिवनाराधयामास। स च विभुस्तुष्टः स्वप्ने तमेवमादिशत् राजन्! उत्तिष्ठशेवासुरविनाशाय द्वौमद्भक्तौ अपराजितौते पुत्रौअविलम्बितं जनिष्येते। एतदा-

कर्ण्य स राजा प्रबुद्धः प्रातरुत्थाय पारणं कृत्वा पुनः स्वपुरं ययौ।

तत्र कतिपयैरेव दिनैस्तस्य महादेवी सृलक्षणं गर्भं प्रतिपेदे। तस्या गर्भे स मुक्ताफलकेतुः शापवशः तां वैद्याधरीं तनुं विहाय समजनिष्ट। सा च तस्य वैद्याधरी तनुर्निजे एव चन्द्रपुरे पुरे विद्याप्रभावात् अम्लाना एव बान्धवैः सुरक्षिता तस्थो। सापि मेरुध्वजमहिषी सम्प्राप्तगर्भा तस्मिन् देवसभे पुरे तं पतिमनन्दयत्। यथा यथा च सा गर्भभरालसा आसीत् तथा तथैव स राजा सोत्साहः परमानन्दमन्वभवत्।

अथ समये सा पार्वती कुमारमिव उग्रमहसम् अर्कसन्निभंपुत्रमसूत। तस्मिंश्च जातमात्रे समग्रे वसुधातले महोत्सवः प्रादुरासीत्। नभसि च देवानां दुन्दुभौ ताड़िते, स तपोधनो मुनिर्दिव्यदर्शी स्वयं तं मेरुध्वजं नृपं दिष्ट्यावर्ध्दयितुं अगात्। स राजा तेन मुनिना साकं तं पुत्र शक्रोदितेन नाम्नामुक्ताफलध्वजं चकार।

अथ गते तस्मिन् उत्सवान्ते मुनौ संवत्सरान्ते तस्यामेव राज्ञयाम् अस्य राज्ञः द्वितीयः सुतोऽभवत्। राजा च हर्षायातेन तेनैव मुनिना सह तं नाम्ना मलयध्वजमकरोत्। ततः सोऽपि संयनको नाम मुक्ताफलकेतु सतत् शापात्तस्यैव राज्ञः मन्त्रिसुतोऽभूत्। तत्पिता तं नाम्ना महाबुद्धिं व्यधात्।

अथ तौनृपसुतौ तेन मन्त्रिसुतेन सह सिंहशावका-

विव क्रमेण अवर्द्धताम्। ततस्त्रिमात्रेषु वर्षेषु गतेषु स मुनिस्तपोवनादेत्य तयोः राजसुतयोरुपनयनमकरोत्। अथ तेन अन्यानि अष्टौ वर्षाणि विद्यासु सर्वासु कलासु सर्वेषु महास्त्रेषु तौ विनीयेते स्म। अथ स राजा मेरुध्वजः पुत्रौ युवानौसर्वशास्त्रविदौ शस्त्रास्त्रपारगौ सुयोधिनौ दृष्ट्वाआत्मानं कृतिनममन्यत। अथ स्वाश्रमं जिगमिषन्तं मुनिं राजाब्रवीत्भगवन्! इदानीम् अभीष्टा दक्षिणा गृह्यतामिति। एषैव मे अभीष्टा दक्षिणाः, यदसुरान् यज्ञविधातकान् मे सपुत्रस्त्वं हनिष्यसीति वादिनं तं महर्षिं स राजा पुनरब्रवीत् भगवन्! यज्ञार्थमेव त्वया अधुना दक्षिणा गृह्यताम्। आरभस्वच यज्ञं ततो यदा तद्विघ्नाय असुराः समापतिष्यन्ति तदाहं सपुत्रकस्तव तपोवनं गत्वा तान् हनिष्यामि। तपोधन! पूर्वं हि ते दैत्याः स्वबलदर्पेण दोषं कृत्वा निपत्य पातालमगमन्। इदानीन्तु इन्द्रदत्तौमे खेचरौ विद्येते। ताभ्यां सह सपुत्रोऽहं तान् व्योमगानपि आसादयिष्यामि। तदाकर्ण्य स मुनिस्तुष्टस्तं नराधिपमवादीत् राजन! तर्हि त्वं मे यथायोग्यं यज्ञभारं समाहर। ततोऽहं गत्वा दिक्षु श्रुतं सत्रयागं समारप्स्ये। प्रेषयिष्यामि च एकं दृढव्रतं सञ्जातकाम गोहाममहाबलं शिष्यं तव सकाशम्। स च मुक्ताफलध्वजस्यास्य वाहनं भविता। इत्युक्त्वा स मुनिः स्वमाश्रमं प्रायात्। राजा च तस्यानुपदं सर्वान् यज्ञसम्भारान्प्राहिणोत्।

अथ प्रारब्ध तस्मिन् सत्रे समागतेषु च देवषिसमवा-

येषु पातालनिलया दैत्याः बुद्ध्वाक्षोभमापुः। तद्विदित्वा स मुनिः तं दृढ़व्रतं शिष्यं शापकल्पितपक्षीन्द्ररूपं तत् देवसभं पुरं प्रजिघाय। तञ्च प्राप्तं दृष्ट्रा राजा मुनिवचः स्मरन्तौ दिव्यौ गजौ सज्जीचकार। आरुरोह च स्वयं तयोर्मुख्यं काञ्चनगिरिम्। ददौ कनीयसे पुत्राय मलयध्वजाय द्वितीयंकाञ्चनशेखरम्। मुक्ताफलध्वजस्तु दिव्यास्त्रधरः वन्दिभिः स्तूयमानो दृढ़वतं तं खगेन्द्ररूपिणमारुरोह। ततस्ते त्रयो वीराः खेचरवाहनाः द्विजवरैर्दत्ताशिषःसैन्यैः परिवृताः प्रययुः। आगतेभ्यश्च तेभ्यः स्वमाश्रमं स प्रीतमानसी मुनिर्भूयः सर्वशस्त्राणामभेद्यानि कवचानि ददौ। दानवबलञ्च तावत् यज्ञ विहन्तुं समाययो। तवदलोक्य तत् महत् मेरुध्वजबलं नददभ्यधावत्। ततो दैत्यानां मानुषैः सह संग्रामः प्रावर्त्तत। दैत्यास्तु खस्था मानुषास्तु भूतलस्था बभासिरे। ततः स पक्षिवाहनी मुक्ताफलध्वजस्तान् दैत्यान् प्रधाव्य शरवर्षेण चकर्त्त च ममन्थच। तं विहङ्गस्थं तेजसा ज्वलन्तमिव दृष्ट्वा शेषा दैत्या नारायणशङ्गया प्राद्रवन्। गत्वा च भयात्पातालं तत्कालासुरदैत्येन्द्राय त्रैलोक्यमानिने तत् तथैव शशंसुः। स तु दानवपतिः तदद्भुतं बुद्ध्वाचारैरन्विष्य तं मुक्ताफलध्वजं मर्त्त्यमवेत्य च मानुषाभिभवेन सञ्जातक्रोधः सर्वान् पातालवासिनो दितिजान् संवाद्य वार्य्यमाणोऽपि सुमन्त्रिभिर्निर्योद्धुंतमाश्रममागात्।

मुक्ताफलध्वजश्च तत् आयातं पुरः अलङ्घयतेजः पाशुपतम् अतिप्रमाणमुद्वह्निज्वालं त्र्यम्बकं चतुर्मुखं प्रद्माड्क्षिमष्ट-

बाहुंकल्पान्तानलसन्निभं महास्त्रमद्राक्षीत् प्रत्यग्रहीच्च समभ्यर्च्य शङ्करादेशात् तव विजयायोपस्थितं मां विद्धि इति ब्रुवाणम्। अत्रान्तरे गगनस्थैरसुरैरस्त्रष्टष्टिभिस्तदधःस्थितं मरुध्वजबलम् अताद्यत। ततश्चित्रयोधी मुक्ताफलध्वजः तत् पितृसैन्यं रक्षितुं शरजालं प्रादुश्चकार युयुधे च तैरसुरैः सह। ततस्त्रैलोक्यमानीतं पितृभ्रातृयुतं खेचरवाहनं दृष्ट्वा पन्नगास्त्रममुञ्चत्। मलयध्वजस्तदवलोक्य गारुड़ास्त्रैस्तस्मात् निर्गच्छतोऽसंख्यान् घोरानाशौविषानर्दयामास। ततोऽसौ दैत्येन्द्रः यत् यत् अस्त्रं मुमोच, मुक्ताफलध्वजस्तत्तत् लीलया प्रचिच्छेद। अथ क्रुद्धःस देवारिः अन्ये च पुरोवर्त्तिनो दानवा युगपत्तस्मिन् आग्नेयादीनि अस्त्राणि प्राक्षिपन्। तानि चास्ताणि तस्य मुक्ताफलस्य अग्रतः स्थितं पाशुपतं दृष्ट्वा भीतानि विमुखानि रणात् प्रदुद्रुवुः। ततस्ते दैत्यास्वस्ता यावत् पलायितुमिच्छन्ति, तावत् मुक्ताफलध्वजो वीरः तत्कालोचितं बुद्धा तेषामूर्द्धंचतुर्दिक्षु शरजालसुदुर्भेद्यं वज्रपञ्जरसन्निभं वबन्ध। जघान च तत्रान्तर्भ्रमतः तान्शङ्कितानिव दानवान् निशितैः शरैः। छिन्नैश्च तेषां करैः पादैः शरीरैः शिरोभिश्व मेदिनी अपूर्य्यत, वहन्ति स्म च रुधिरौघप्रवाहिन्यो निम्नगाः। ततः सुरैः सपुष्पवर्षे साधुवादे प्रयुक्ते स मुक्ताफलध्वजः तेषां सम्मोहनाय मोहनास्तं मुमोच। तेन च मोहितान् भूमौ पतितान् असुरान् वारुणास्त्रेण पाशबद्धांश्चकार।

अथ स तपोधनो मेरुध्वजनृपमवादीत् राजन् ! इदं

खलु आसुरं सैन्य हतशेषं न बध्यम्। अयं दैत्येन्द्रः सपुत्रपरिवारो महासुरराक्षसगणैः सार्द्धंसंयम्य श्वेतशैलगुहान्तरे स्थाप्य इति एवमुक्तो मेरुध्वजस्तान् दैत्यवीरान्अब्रवीत् मा भैष्ट, यूयं नास्माभिर्बध्याः अधुना सभ्रातृकस्यास्य मुक्ताफलत्वजस्य शासने वर्त्तध्वम्। एवमुक्तास्ते दानवास्तथेति प्रतिपेदिरे। ततः स राजा तं दैत्येन्द्रराजं चैलोक्य मानिनं पुत्रादिसहितं श्वेतशैलमनाययत्। अस्थापयच्च तद्गुहाभ्यन्तरे तं संयत बहुभिर्वलैः प्रधानामात्यैश्व सुरक्षितम्।

ततो निवृत्ते संग्रामे वैमानिकेषु च कृतमन्दारपुष्पवर्षेषु यातेषु जगदुत्सवे च प्रवृत्ते स राजा विजयीमेरुध्वजस्तो पुत्रो प्रोवाच पुत्रो ! इहैवाहं यज्ञरक्षार्थं तिष्ठामि यूयमेतेः सैनिकैः प्राप्तदैत्यविमानैः शेषासुरबलेन च पातालं प्रयात। गत्वा च तत्र पातालवासिनः समाश्वास्य वशीकृत्य च प्रधानेन केनचिदधिष्ठतान्कृत्वा पुनरिहागमिष्यथ। एतदाकर्ण्य तथेति पितुर्वचः समभिनन्द्य दिव्यकामगवाहनः मुक्ताफलध्वजः सभ्रातृकः ससैन्यो रसातलनविशत्। दानवसैन्यानि च प्रणतानि तमनुजग्मुः। प्रविश्य च स्थानेषु स्थानेषु परिपन्थिनो रक्षिणो विनाश्य शेषाणां जनानानभपडिण्डिमम् अदापयत्। अथ विश्वस्तेषु प्रणतेषु सर्वेषु सप्त पातालान् नानारत्नविचित्रान् स्वीचकार बुभुजे च तत्र सामुगोविविधान् भोगान्। रेमे च तत्र सर्वकामदेषु दिव्यासवभृतानेकरत्नसोपानवापिकेषु रम्योद्यानेषु। दानवाङ्गनाश्चतत्राद्भुताकृतौ तौ भ्रातरौ ददृशुः।

तस्मिंश्च काले स्वयम्प्रभो नाम त्रेलोक्यमानिनो महिषी भर्त्तुर्बद्धस्य त्रैलोक्यमानिनोमुक्तये तपस्तप्तुमारेभे। तस्याश्च द्वे सुते त्रेलोक्यप्रभात्रिभुवनप्रभे कुमार्य्यौपितुः श्रेयसे तप आरभाते। तौच राजसुतौ तत्र पाताले सर्वं जनं लब्धप्रशमनाश्वस्तं विविधैः प्रियैः सम्मान्य संग्रामसिंहादीनधिकारिणः स्थापयित्वा तपोवनस्यस्य पितुः पार्श्वमुपेयतुः।

अथ तस्मिन् यज्ञे समाप्तिं गते देवा ऋषयश्च स्वं स्वं धाम गन्तुं प्रारेभिरे। मेरुध्वजश्च तदा परितुष्टं शक्रं व्यजिज्ञपत् देव! यदि मयि तुष्टोऽसि, तदा मदीयं नगरमागम्यताम्। तदाकर्ण्य वासवः तत्प्रोतये तं मुनिमामन्त्रा तेन सपुत्रेण राज्ञासह तत् देवसभं पुरमायात्। गृहागतञ्च तं देवराजं लोकद्वयेश्वरो राजा तथा पर्य्यचरत् यथा स दिव्यं सुखं विस्मरति स्म। ततः प्रीतः स शक्रः तं सपुत्रं महीपतिं दिव्येन स्वेन वाहनेन त्रिपिष्टपं निनाय। तत्र नारदतुम्बुरुप्रभृतिभिः रम्भादिभिश्व कृतसङ्गीतनृत्यमनोहरे स बासवःत मेरुध्वजं मुक्ताफलध्वजं मलयध्वजञ्च विश्रमय्य पारिजातमञ्जरीस्रजः दिव्यञ्च रत्नमुकुटंदत्त्वा सम्मान्य च गृहं प्राहिणोत्। ते च गृहं प्रतिनिवृत्य भूलोके पाताले च गतागतं कुर्वाणा उभयलोकयोः साम्राज्यं चक्रिरे।

एकदा मेरध्वजो मुक्ताफलध्वजमभाषत पुत्र! शत्रवो विजिताः, युवां भ्रातरौ युवानौ, स्वाधीनाञ्च सर्वा राजकन्याः मया गवेषिताः वर्त्तन्ते, तदिदानींदारसंग्रहः

क्रियतामिति। एवमुक्ते पित्रा मुक्ताफलध्वजोऽवादीत्तात! न मे परिणये मनः प्रवर्त्तते, अहं सम्प्रति हरमाराधयितुं तपचरिष्यामि। एष तावत् वत्सो मलयध्वजो विवाहं कुरुताम्। एतदाकर्ण्य स मलयध्वजोऽनुजः प्रत्यवादीत् आर्य्येअपरिग्रहे मम विवाहः किं युज्यते? इत्येवमभिहिते मलयध्वजेन, राजाब्रवीत् मेरुध्वजस्तं ज्येष्ठं तनयं मुक्ताफलध्वजम्। पुत्र! अमुना ते अनुजेन युक्तमेवाभिहितं, त्वन्तु अयुक्तमेव वदसि, साम्प्रत् तव यौवनं, को नाम तपसः कालः, अयं हि ते भोगकालः। तत पुत्र! अकालोचित एष दुर्यहस्त्यज्यताम्। इति तेन राज्ञा कथ्यमानोऽपि स ज्येष्ठः सुतः यदा निश्चयेन उद्दाहं नाङ्गीचकार तदा स नृपतिः कालं प्रतीक्षितु तूष्णीमतिष्ठत्।

अत्रान्तरे त्रैलोक्यमानिनः तपसि स्थिते द्वे कुमार्य्यौ तां मातरं स्वयम्प्रभासूचतुः अम्ब! आवयोः सप्ताष्टवर्षयोः षिता संयतः। राज्यध्वंसश्च संवृत्तः। कस्मादकृतपुण्ययोरष्टमं वर्षमेतत् तपस्यन्तोर्नौ भगवान् हरो न प्रसीदति, तात्तत्राद्यापि बन्धनात् न मुच्यते, तस्मादावयोः शत्रुपरिभवो न स्यात् तावत् निर्लक्षणामिमां तनुम् अनले जुहुवः। इति ताभ्यां दुहितृभ्यामुक्ता स्वयम्प्रभा एवं जगाद पुत्रौ! प्रतीक्ष्यतां तावत् पुनरस्माकमुदयो भविष्यति, अद्यतपसि स्थितां मां स्वप्ने देवः शङ्करः एवमादिशत् वत्से! धृतिं कुरु, पुनस्ते पतिः राज्यंप्राप्स्यति। एतौ राजपुत्रौमुक्ताफलध्वजो मलयध्वजश्च द्वौ तव दुहित्री-

र्भत्तारौभविष्यतः। एतौमानुषाविति मा विज्ञासीः एतयोरेकः विद्याधरेन्द्रसुतः, द्वितीयो मदीयो गणः। इति देवेन शम्भुनादिष्टाहं रजनीक्षये प्रबुद्धा। अनया चाशया मया महान् क्लेशः सोढ़ः। तस्मादिदमर्थं युवयोः पितुर्मे आर्य्यपुत्रस्य आवेदयामि। यतिष्ये च तदिच्छया युवयोरुद्वाहमङ्गलाय। इत्थं सा स्वयम्प्रभा कन्यके हे समाश्वास्य इन्दुमतीं नाम वृद्धामन्तःपुरिकामब्रवीत् भद्रे! गच्छ आर्य्यपुत्रस्यान्तिकं श्वेतशैलगुहायाम्। त्वञ्चपादयोर्नि पत्य मद्वचसा विज्ञापय, महाराज! दारुणेन धात्रा दारुणाहं निन्दितास्मि याहं त्वद्विरहाग्निनाद्यापि न दह्येयम्। पुनस्त्वद्दर्शनाशयैव मया शरीरं न व्यक्तम्। इत्युक्त्वा मदीयं शर्वस्वप्नादेशं निवेदयेः। ततः स कन्याविवाहे यत्स्वाभिमतं प्रकाशयिष्यति, तत्त्वयावश्य मे वाच्यम् अहं तथा विधास्ये। इति सा इन्दुमतीं सन्दिश्य व्यसर्जयत्। सापि पातालात् निर्गत्य तत् सुरक्षितं श्वेतशैलगुहान्तरं प्राप। तत्र रक्षिणोऽभ्यर्थ्य अन्तः प्रविश्य च तं प्रभुं त्रैलोक्यमानिनं संयतं प्रेक्ष्यच साश्रुः पादयोः पतित्वा तत्पृष्टकुशला च शनैस्तं सर्वं स्वयम्प्रभा सन्देशं व्यज्ञपयत्। ततः सोऽब्रवीत् भद्रे! योऽस्माकं राज्यलोभः शम्भुना प्रदर्शितः, स तथैवास्तु, मेरुध्वजस्य पुत्राभ्यां आत्मजादाने तु का कथा? इहैवाहं विपद्येयमपि न तु शत्रुभ्यां मानुषाभ्यां राजकन्यके उपायनं दद्यामिति प्रेषिता सा इन्दुमती मतिनिवृत्य स्वयम्प्रभायै तद्वचोऽभ्यधात् तदाकर्ण्य दैत्यकन्ये त्रैलोक्यप्रभा–त्रिभुवनप्रभे जननीं तां स्वयम्प्ररामू-

चतुः मातः! आवयोरधुना यौवनभयात् अग्निरेव गतिः। तदस्यां चतुर्दश्यां तं प्रदेशं गच्छावः। इत्येवं कृतनिश्वययोस्वयोः सा तम्माता सपरिच्छदामरणायैव निश्चयमकरोत्।

अथ प्राप्तायां चतुर्दश्यां ताः सर्वाः पापरिपुनामके तीर्थं गत्वा तत्रस्थंहाटकेश्वरं शम्भुमभ्यर्च्चचितां रचयामासुः। राजा मेरुध्वजश्च सपुत्रभार्य्यस्तस्यामेव तिथौ तत्र हाटकेश्वरमर्चयितुमागात्। स राजा सानुगः तं पापरिपुतीर्थं ब्रजन् दूरात् तत्तीरे वनान्तरुङ्गतं धूमं ददर्श। कुतोऽयं धूमोहम इति पृच्छतं तं भूपतिं संग्रामसिंहाद्याः पातालाधिकारिणं प्राब्रुवन् देव! त्रैलोक्यमानिनो दैत्येन्द्रस्य भार्य्या स्वयम्प्रभा कुमारीभ्यां दुहितृभ्यां समेता अत्र तपस्यन्ती स्थिता, नूनमद्य ता एव अग्निकार्य्यादिकं किञ्चित् चिकीर्षन्ति। अथवा तपसा खिन्नाअग्निप्रवेशनं कुर्वन्ति। तदाकर्ण्य स राजा पुत्राभ्यां पत्न्याच सह तैश्चाधिकारिभिः प्रदर्शितमार्गः अन्याननुगान् निषिध्य तत्रागमत्। अद्राक्षीच्च प्रच्छन्नस्थितः ते दैत्यकन्यके मात्रा सह सुसमिद्धंचितानलं पूजयन्त्यौ मुखलावण्यपूरनिस्यन्दैः सर्वतो दिक्षु चन्द्रविम्बशवानीव रसातले रचयन्त्यौ, लोलहाराम्बुपूराभ्यां कुचकाञ्चनकुम्भाभ्यां कामस्य त्रिजगज्जयाभिषेकमिव कुर्वन्त्यौ, विपुलं वद्धमेखलं जघनाभोगं नक्षत्रमालाङ्गंस्मरद्विपशिरस्थलमिव विभ्राणे, निर्मितौपत्रगाविव केशपाशौ वहन्त्यौ।

अथ स राजा ते दृष्ट्वा सज्जातविस्मयश्विन्तयामास अहो! विश्वसृजः सृष्टिः लसन्तौ नवेन नवेनाङ्भता। तदेतयोः रूपेण रम्भापि न तुल्यतां भजते, नापि उर्वशी, न च तिलोत्तमा। इति चिन्तयतस्तस्य नृपतेः सा दैत्यकन्यका ज्येष्ठा चैलोक्यप्रभा वह्निमर्च्चयित्वा व्यजिज्ञपत् भगवन् वैखानर! यतः प्रभृति मेअम्बया हरस्य स्वप्नादेशोऽभिहितः, तत आरभ्य तस्मिन्नेव गुणनिधौ राजपुत्र मुक्ताफलध्वजे यतो भर्त्तृबुद्धिर्बद्धा,अतएव स मे अन्यजन्मनि भर्त्ता भूयात्। साम्प्रतम्अस्मिन् जन्मनि संयतेन मानिना तातेन अम्बादित्सितापि नाङ्गीकता दातुमिति। तदाकर्ण्य सापि कनीयसी त्रिभुवनप्रभा तथैव प्रार्थयामास देव हुताशन! यथा मे मलयध्वजो राजसुतः जन्मन्यस्मिन् पतिर्भवेत् तथानुग्रहः क्रियतामिति।

ततो राजा मेरुध्वजस्त प्रिया च हर्षनिर्भरमानसौ परस्परमवोचतां यदि मदीयौ सुतौ इमे भार्य्येप्राप्नुयातां तर्हि एताभ्यां लोकद्वयरत्नमवाप्तं स्यात्। तद्यावत् अस्मिन्ननले आत्मानमेते क्षिपतः, तावत् समातृके एते किं न वारयामः? एवं देव्या सह समालोच्य राजा ता उपेत्यावोचत् मा तावत् साहसं कार्ष्ट, अहं हि वो दुःखं शमयिष्यामि। इत्येवं श्रोत्रपीयूषवर्षाभं भूपतेर्वचः श्रुत्वा तञ्चराजानं दृष्ट्वा ता असुराङ्गनाः प्रणेमुः। राजन्! वयं पूर्व पश्यन्त्योऽपि मायया छत्रास्त्वया न लक्षिताः, अद्य पुनर्लोकद्वयेश्वरेण त्वया दृष्टाः स्मः त्वद्दर्शनेन च अस्माकं दुःखान्तो न चिरादेव भविता। किं पुनस्त्वद्वचसा

अनर्थितेऽपि वरेदत्ते। तत् कृतासनपरिग्रहा अर्घ्यपाद्यादिकं गृहीत, भवन्तोऽहि जगतां पूज्याः, अयञ्च अस्माकमाश्रय इति वादिनीं स्वयम्प्रभां स राजा हसन्नब्रवीत्असुरेन्द्रमहिषि। जामातृभ्यामेताभ्यां पादार्घ्यं दीयतामिति। स्वयम्प्रभावादीत् राजन्! तदा एताभ्यां पादार्ध्यं दास्यामि यदा देवो वृषध्वजो दापयिष्यति, साम्प्रतं युष्माभिरद्य गृह्यतामिति। मेरुध्वजोऽवादीत् सर्वमिदं मया आत्तम्, यूयमिदानीं मरणोद्योगात् निवर्त्तध्वं तिष्ठत च प्रविष्टाः सर्वकामदे स्वपुरे। ततोऽहं यथा वः कुशलं भवेत् तथा विधास्यामि इत्युक्तवन्तं राजानं साब्रवीत्स्वयम्प्रभा, देवस्यादेशात् साम्प्रतं मरणव्यवसायात् निवृत्ताः स्मः, परं कारास्थे प्रभौ कथं नः स्वगृहेषु स्थितिः? तदिहैव तावत् वयं तिष्ठामः यावत् देवः स्वयं दत्तं वरं दुःखमोचनरूपं पालयिष्यति, मोचयिष्यति च ससुतामात्यं मम प्रभुम्। मुक्तश्च त्वदधिकारी सन् राज्यंकरिष्यति, यथा च त्वदिच्छया तुभ्यमेव राज्य प्रत्यर्पयिष्यति तथा प्रतिबद्धं समयं करिष्यति च। वयञ्च पातालवसिभिः सह अत्रान्तरस्थाः साम्प्रतं तेभ्यः पातालवासिभ्यः अस्मदीयानि रत्नानि गृहाण। एवमुक्तवतीं तां स्वयम्प्रभा मेरुध्वजोऽवादीत् अहमेतत् विज्ञास्यामि, युष्माभिश्च स्ववचः स्मर्त्तव्यम्। इत्युक्त्वास नृपः स्नात्वा हाटकेश्वरमपूजयत्। ते च दैत्येश्वरसुते तयोरेवं स्वदृष्टयो राजपुत्रयोस्तदैकाग्रगतचित्तेबभूवतुः।

अथ स राजा मेरुध्वजः सुकृतीनिखिलैः पाताल-

निलयैस्वैलोक्यमानिनो दैत्येन्द्रस्य मुक्तिं प्रणिपत्य याच्यमानः स्वयशःशुभ्रैश्छत्रैराशाः स्थगयन् पुत्राभ्यां पत्न्याच असुरलोकात् निर्गत्य निजं नगरमागात्। तत्रागत्य राजपुत्रो मलयध्वजस्तां यवीयसीं दानवराजपुत्रींध्यायन्अनिद्रोऽपि निमीलिताक्षःस्मरज्वरेणातिसमाकुलः रजनीं निनाय। स च धैर्य्यजलधिरपि युवा मुक्ताफलध्वजः तामसुरपतेः सुतां दृढ़निबद्धभावां मुनीन्द्रमनसामपि स्मरविकारकारिणींज्यायसीं विचिन्त्यापि पुरा मुनेरर्थितवरतया चेतसा न किल चुक्षुभे। मेरुध्वजस्तु तं निषिद्धदारक्रियं सुतं ज्येष्ठं मुक्ताफलकेतुं तञ्च मलयध्वजं स्मरार्त्तचेतसमवेत्य महासुरञ्चतं त्रैलोक्यमानिनं कन्याप्रदानविमुख विचिन्त्य उपायघटनाकुलचित्तवृत्तिरभूत्।

इति अष्टादशोत्तरशततमस्तरङ्गः।

अथ ऊनविंशोत्तरशततमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-1723966160Screenshot2024-08-08165843.png"/>

ततो राजा मेरुध्वजस्तं पुत्र मलयध्वजं तथा कामसन्तप्तं दृष्ट्वा खां देवीमेवमब्रवीत्। देवि! पातालदृष्टे त्रैलोक्यमानिनोदैत्यराजस्य सुते चेत् मत्पुत्रयोर्भार्य्येन स्यातां तन्मया किं कृतं? तयोः कनिष्ठाञ्च विना मे पुत्रो मलयध्वजः लज्जानिगूढ़ेन कामाग्निपुटपाकेन पच्यते। तदर्थञ्च मया त्रैलोक्यमानिनो मोक्षः प्रतिश्रुतोऽपि तत्पत्न्यैनाद्यापि सत्वरं विधोयते। यदि स बन्धनान्मुक्तः असुराभिमानी मानुषाभ्यां मे पुत्राभ्यां दुहितरौ न दद्यात् तदेतत् सान्वेन तस्य अहं ब्रवीमि। इति देव्या सममालोच्य प्रतीहारमादिशत्। श्वेतशैलगुहां गवा त्रैलोक्यमानिनं दैत्येन्द्रं समयस्थितं मद्वचसा प्रीत्या ब्रूहि। दैव्यपते! कर्मयोगादिह यूयं चिरक्लिष्टाः, तदिदानीं मम वशः चिरात् क्लेशं शमं नय। दृष्टानुरागे स्वकन्यके मत्पुत्राभ्यां देहि। इतोमुक्तञ्च विहितप्रत्ययः स्वराज्यं कुरु।इत्यभिहितः प्रतीहारः तत्र शैलगुहान्तरे गत्वा तस्मै दैत्येन्द्राय तत् राजवचनं यथोक्तमाचख्यौ। तेन च दैत्येन्द्रेण मानुषाभ्यां नाहं कन्यां दद्यामिति प्रत्युक्तः स वत्ता तथैवेत्य राजानमवोचत्।

अथोपायं विचिन्वति तस्मिन् मेरुध्वजे कतिपयेषु यातेषु दिनेषु विदितवृत्तान्तया स्वयम्प्रभया पातालात्

प्रेषिता दूती तत्सन्देशहारिणो इन्दुमती राजभवनमागात्। साचागत्य प्रतीहारमुखेनात्मानं निवेद्य कृतादरा महादेवीसकाशं प्रविवेश। प्रणिपत्य च तामब्रवीत्देवि! स्वयम्प्रभा देवी विज्ञापयति किं वस्तत् निजं वचनं विस्मितं? सागराः कुलशैलाश्चप्रलये अन्यथा भवन्ति, भवादृशान्तु वचनं तत्रापि नान्यथा भवेत्। यद्यपि नास्तत्स्वामिना कन्यकार्पणं अङ्गीकृतं नह्येतदमङ्गतम्। यतः वद्धःस कथं दुहितरमुपायनं दद्यात् यदि युष्माभिरौचित्येन उपकाराय स मुच्यते तत् निश्चितमेव सुतादानेन वः प्रत्युपक्रियां कुर्य्यात्। अन्यथा स्वयम्प्रभा सकन्या एव प्राणान् परित्यजेत्। तदेवं वः स्नुषाप्राप्तिः सत्यपालनञ्च न भवेत्। तद् देवि! तथा समयप्रत्ययादिना तथा कुरुष्व, यथास्माकं प्रभुं राजा कार्य्यसिद्धये मुञ्चेत्। तया च स्वयम्प्रभया विसृष्ट मिदं विभूषणं दिव्यैः स्वेचरत्वादिदायिभि स्तैस्तैरनैश्वितं गृहाण। एवमुक्तवतीमिन्दुमतीं राज्ञीजगाद भद्रे! दुःखितायास्तस्याः कथमेतत् मया गृह्यतामिति। त्वया एतस्मिन्नगृहीते अस्माकमधृतिर्भवेत्, गृहीतेतु निजं दुःखं कथमपि श्रान्तं वयं मन्यामहे इति तयेन्दुमत्या यत्नेन बोधिता सा रानी तस्था आश्वासार्थं तत् रत्नाभरणमग्रहीत्। आर्य्ये! इहैव तावत् तिष्ठ, यावत् राजा आगमिष्यति इत्युक्त्वासा राज्ञीतामिन्दुमतीं स्थापयति स्मस्वसन्नधौ। तावच्च राजा तत्रागात् साचेन्दुमती राज्ञीनिवेदिता सादरं तं भूपं प्राणमत्। समर्पयच्चतस्मै सयम्प्रभावितो विषरक्षोजरा रोगहरं चूड़ा-

रत्नम्। अथ प्रौढ़ा इन्दुमती स्वसत्यमनुपालस्यैव एतत्ग्रहीष्यामीति वादिनं तं नृपम् एवं व्यजिज्ञपत् देव! भवता प्रतिपन्नंचेत् सत्यं तत् प्रतिपालितमेव, नात्र सन्देहः। अस्मिंस्तु गृहीते अस्माकं सुतरामाश्वासः स्यात्। एवं तयोक्ते सा राज्ञी साधूक्त मनयेति उक्त्वातत् चूड़ारत्नमादाय तस्य नृपते र्मूद्ध्निबबन्ध। ततः स्वयम्प्रभावाक्यं यथा सेन्दुमती तस्यै शशंस तथा सर्वं नृपतये सा राजो समाचचक्षेततो राजा श्रुततद्वाक्या तामिन्दुमतीमभाषत आर्य्ये! इहैवाद्य प्रतीक्षस्व, प्रातरहं तव यथायथं वक्ष्यामि। इत्युक्ता तां निशां नीत्वा प्रातः मन्त्रिणः समाहूय तामिन्दुमतीं राजा एवमवादीत् आर्य्ये! एभिर्मन्त्रिभिः सार्द्धंगत्वा त्रैलोक्यमानिने आवेद्य पातालात् स्वयम्प्रभाद्याः मुख्याः सर्वाः पातालवासिनीः असुराङ्गनाः समानय त्रैलोक्यमानिना दैत्येन्द्रेण सभृत्यबन्धुना अस्मद्वशे नित्यं स्थातव्यम्। अत्रार्थे स्वयम्प्रभाद्याः मत्सन्निधौ भर्तृचरणौ स्मृत्वा शपथं कुर्वन्तु, भवन्तु च ते पातालवासिनः पूर्ववत् प्रभवः। सर्वे च सराजकाः अपत्यानि स्थापयन्तु। लिखिताश्च सराजका लिखितं कुर्वन्तु पिवन्तु च हाटकेश्वरसर्वाङ्गवारिकोशम्। ततोऽहं कारागृहात् त्रैलोक्यमानिनं मोक्ष्यामीति प्रोच्च स राजा तामिन्दुमतीं सामान्यां विससर्ज। सा इन्दुमती मन्त्रिसहिता त्रैलोक्यमानिनं गत्वा प्रोच्य च तद्वत्तान्तं तेन श्रद्धिता पातालमाविशत्। ततः सा स्वयम्प्रभादीन्कोशवारि च समानीय तेषा ममात्यानामग्रतः सर्वं तत्

राजोक्तमकारयत्। मेरुध्वजश्च विहितप्रत्ययं सपरिच्छदं त्रैलोक्यमानिनं कारागृहात् मुमोच। आनीय च गृहं सम्यक् सम्मान्य च स्वोतासुररत्नसञ्चयस्त सपरिच्छदं स्वराज्येविससर्ज।

त्रैलोक्यमानीच पुनः स्वं रसातलं प्राप्य प्राप्तराज्यः स्वैर्भृत्यैर्बन्धुभिश्च ननन्द। मेरुध्वजश्च पातालप्रभवैरर्थसञ्चयैः मरुत्वानिवाम्बुभिः पृथिवींपूरयामास। अथ त्रैलोक्यमानी निजभार्य्यया सम्मन्त्यमेरुध्वजसुताभ्यां कन्याद्वयं दित्सुः स्ववेश्मनि नृपं मेरुध्वजं सबान्धवं नेतुं स्मृतोपकारः पातालात् स्वयमायात्। आगत्य च कृतातिथ्यं राजानं प्राब्रवीत् राजन्! युष्माभिस्तदा नातिनिर्वृत्या रसातलं, दृष्टम्, इदानीं परिचर्य्यपरैरस्माभिः समेत्य दृश्यताम्। गृह्येताञ्च मदीये सुते सुतयोः कृते। इति तेनासुरराजेनाभिहिते स मेरुध्वजः तत्रैव तां भाय्यां उभौ पुत्रौ च आनाययामास। अब्रवीच्च तेभ्यस्तं दैत्येन्द्रवाक्यं कन्यादानान्तम्। ततो ज्येष्ठो मुक्ताफलध्वजस्तंराजानमब्रवीत् तात! अनाराधितशङ्करोऽहं विवाहं न करिष्यामि, एतन्मया प्रागुक्तं तन्मेऽत्रापराधः क्षन्तव्यः। मयि वनं प्रयाते तु मलयध्वजो विवाहं करोतु तां पातालकन्यां विना नास्य हि निर्वृतिरिति। तदाकर्ण्य स कनीयान्तमवादीत् आर्य्य! त्वयि स्थिते नाहमयशस्य मधर्म्यञ्चेदृशं करोमि। ततो राज्ञिमेरुध्वजे प्रयत्नात् बोधयत्यपि स मुक्ताफलध्वजः यदा स्वां विवाहक्रियां नैच्छत्, तदा त्रैलोक्यमानी तं खिन्नंभूपति मामन्त्रा सानुगः स्वमेव

पातालं यथागतमगात्। आगत्य च स तं वृत्तान्तमावैद्य पुत्रंभार्य्याञ्चभ्यधात् पश्यतं विधिः कीदृशोन्यक्कारैकपरः। मानुषौ प्रार्थितौ अपि मे कन्ये नागृहीतां पूर्वं प्रार्थितेनापि मया ताभ्यां दातुं नाङ्गीकृतम्। तदाकर्ण्यं तौ जगदतुः देव! को जानाति, कथमेतत् विधेश्चेतसि स्थितं, किं शाम्भवं वचोमृषा स्यात् ? इत्यादिवदतां तेषां तत्विदित्वा ते कन्ये त्रैलोक्यप्रभात्रिभुवनप्रभे प्रतिज्ञां चक्रतुः। यदि द्वादगाहं निराहारस्थितयोरावयोर्देवोमहेश्वरो विवाह सम्पत्तिप्रसादं न करिष्यति, तत आवाभ्यां सहैवाग्निप्रवेशनं कार्य्यं, न तु वृत्त्यर्थं वा शरीरं धार्य्यम्। इत्यं प्रतिज्ञाय नियम्य च ते निराहारे जपध्यानपरे एव देवस्य शम्भोः पुरस्तस्थतुः। तद्विदित्वा च दुहितृवत्सलौ तयोः पितरौ असुरेन्द्रदम्पती अपि तथैव निराहारावास्ताम्। ततः सा स्वयम्प्रभा पुनस्तं वृत्तान्तं मेरुध्वज महादेव्येवक्तुम् इन्दुमतीं द्रुतं प्राहिणोत्। तया इन्दुमत्या आगत्य तस्मै महादेव्यै स्वप्वामिगृहमङ्कटं तदाख्यातम्। राज्ञयापि तत् मेरुध्वजाय तथैवनिवेदितम्। ततस्तावपि राजदम्पतीतत्र तदनुरोधात् आहारं तत्यजतुः, तत्पुत्रौ च तौ पितृभक्त्या। इत्थम् उभयोर्लोकयोः राजगृहेषु सङ्कटस्थेषु मुक्ताफलध्वजः अनश्नन्शङ्करं देवं दध्यौ। षट्सु रात्रिषु गतासु राजपुत्रः प्रातः प्रबुध्य महाबुद्धिं पूर्वमिवंसंयतकं प्राब्रवीत् सखे! अद्याहं स्वप्ने विमानतामुपगतं निजं वाहनं तपोवनं मुनिसुतं कामरूपमारुह्य निर्वेदात् मेरुपार्श्वगं गौरीशायतनमितो गतो-

ऽस्मि। तत्र इतस्ततः पश्यन् काञ्चित् तपःकृशांदिव्यकन्यामपश्यम्। तामुद्दिश्य कश्चित् जटाभृत् पुरुषो हसन्मामब्रवीत् त्वमेकस्याः कन्यकायाः पलाय्य इहागतोऽसि, इह चैषा द्वितीया सम्प्राप्ता त्वां पश्यतीति। तदाकर्ण्य वचस्तस्य, अहं तस्याः कन्याया रूपदर्शने अतृप्त एव सहसा निशाक्षये प्रबुद्धोऽस्मि। तस्मात्तत्रैव तां दिव्यकन्यकां प्राप्तुंगच्छामि। न चेत् तां प्राप्तासि तदा हुताशनं प्रवेक्ष्यामि। तां तथोपनतां हित्वा दैत्यकन्यकायां स्वतः प्रदुष्टायां न कथमपि मनो रज्यति मे, कोऽत्र उपायः क्रियतां, मन्ये, तत्र यातस्य मे निश्चितं शुभमस्ति। इति उक्ता तत् मुनिदत्तंस्ववाहनं सस्मार। आरुह्य च तत्स्मृतोपस्थितं कामगं विमानं स मुक्ताफलध्वजः सख्या समं दिव्यं तत् गौरीशायतनं प्रायात्। तच्च प्राप्य यथास्वप्नं तत्र पश्यन् जहर्ष। ततश्च स तत्र सिद्धोदकनाम्नि तीर्थे संख्या सह स्नानादिकं कर्त्तुं प्रचक्रमे।

अत्र च तत्पिता राजा मेरुध्वजः भार्य्यासुतादिभिः सह तं मुक्ताफलध्वजं क्वापि अविज्ञातगतं बुद्धाउपवासकृशं दुःखेन क्षोभेण च नितरां व्याकुलोऽभवत्। पातालवासी देत्येन्द्रः स त्रैलोक्यमानी च भार्य्यापुत्रादिसहितः तथैव उपवासकृशः तं वृत्तान्तं विज्ञाय स्वकन्य के गृहीत्वा नृपान्तिकमायात्। मन्ये चतुर्दश्यामस्यां हरमर्चितुं स क्वापि गतः, तत् प्रतीक्षामहे तावत् दिनमेकम्, यदि स अद्य नागच्छेत्तदा प्रातः स यत्र गतः, तत्रैव गमिष्यामः, ततो यद् विधिर्विधास्यतीति राजा तान् सर्वान् सान्त्वयित्वा अतिष्ठत्।

अत्रान्तरे तस्मिन् गौर्य्याश्रमे स्थिता सा पद्मावती सखीरवोचत् सख्यः! अद्य स्वप्ने दृष्ट कोऽपि जटाधरः पुमान् देवागारात् विनिर्गतः सिद्धीश्वरगतां मामवदत्पुत्रि! दुःखं ते समाप्तम्, आसन्नस्तेभर्तृसङ्गमः। एवमुक्त्वा तस्मिन् ते मम निद्रानिशे अपि गते। तदेत तत्रगच्छाम इत्युक्ता सा पद्मावती तत् मेरुपार्श्वस्थितं गौरीनिकेतनं प्रायात्। तत्र सिद्धोदके स्नान्तं तं मुक्ताफलध्वजं दूरात् दृष्ट्वा सविस्मया स्वाः सखीरेव मभ्यधात्। सख्यः! पश्यत, सदृशोऽयं मम प्रियस्य पुमान् कीदृशः। किमाश्चर्यं स एवैषः स्यात् ? तदाकर्ण्य ताः सख्यस्तं दृष्ट्वा एवमब्रुवन्भर्तृदारिके। न केवलमयं तव प्रेयसः सुसदृशः स च त्वत्कान्तस्य सुहृदपि एष एव प्रतीयते। यतः तस्य संयतकस्य सौसादृश्यं सम्यगश्रुते। देवि। यथा त्वया स्वप्नवृत्तान्तो वर्णितः तथा मन्यामहे नूनमेतौ तौ मानुषतां गतौ। ईश्वरेण शम्भुनैव स्वयुक्तित इहानीतौ। कुतोऽन्यथा अस्यां देवभूमौ मानुषागमनम्। एवं सखीभिरभिहिता सा पद्मावती ईश्वरमभ्यर्च्य तस्मिन् देवान्तिके प्रच्छन्ना तयोश्वेष्टितं जिज्ञासुः स्थिता।

अत्रान्तरे स मुक्ताफलध्वजः सवयस्यः तं देवं शम्भुमर्चितुम् आगतः सर्वतो दत्तदृष्टिस्त महाबुद्धिंसुहृदमब्रवीत् सखे! तदेवायतनं चित्रमेतत् यत्र मयाद्य स्वप्ने वीक्षितं लिङ्गान्तर्गौरीश मूर्त्तिरत्नमिदं, तानेव स्वप्नदृष्टान्दिव्यविहगस्फुरद्रत्नप्रभद्रुमान् प्रदेशानिहाद्य पश्यामि परं तत्कालदृष्टां तां दिव्यकन्यां न पश्यामि।

तस्यान्तु अप्राप्तायाम् अद्य निश्चितं देहं त्यक्ष्यामि। इति तेनोक्ते ताःसख्यस्तां पद्मावतींरहः प्रोचुः शृणु देवि! नूनमसौ स्वप्ने त्वां दृष्ट्वाद्य समागतः। त्वद्दर्शनं विना च प्राणान् त्यक्तुं समीहते। तदत्र निगूढ़स्थिता एव निश्चयं पश्याम इति तासुछन्रस्थितासु स मुक्ताफलध्वजः अन्तःप्रविश्य देवमर्चयित्वा विनिर्ययौ। निर्गत्य च यावत् भक्त्या त्रिः प्रदक्षिणं कुरुते, तावत् स सखा च तस्य स्वां जातिं सस्मार। स्मृतजाती च हर्षात् तौ पूर्ववत्तान्तं यावत्कथयामासतुः तावत् सा पद्मावती दृष्टिगोचरतामवाप। स मुक्ताफलध्वजः तदा तां दृष्ट्वेव हर्षनिर्भरः सुहृदमाह स्म सखे! सा मे प्रिया पद्मावती स्वप्ने दृष्टा, दिष्ट्याप्राप्ता च तदिमां सम्भावयामि तावत्, इत्युक्ता उपेय च साश्रुस्तामवादीत् देवि! माधुना कापि यामीः, सोऽहं ते प्रियो मुक्ताफलफेनरस्मि। दृढ़व्रतस्य शापेन मानुषीं तनुमाश्रितेन मयाद्य जातिः स्मृता, इत्युक्ता तामालिङ्गितुमैषीत्। सापि पद्मावती साश्रुलोचना तं वीक्ष्य भ्रान्तेवातिरोभूत्। सोऽपि मुक्ताफलध्वजस्तां राजसुतांपश्यत् मोहात् भुवि अपतत्। ततः सदुःखं तद्वयस्यः आकाशे जगाददेवि! पद्मावति। यदर्थंत्वया तपःक्लेशोऽनुभूतः,कथं प्राप्त तं प्रियं नाभिपाषसे? अहं स संघतकःतत्र दवितस्यसुहृद्। युष्मदर्थंशत्रस्यमेकथंप्रियं नात्मयसि? इत्युक्त्वातं नृपात्मजं समाजायपोवाच सखे त्वया असुरराजकन्या अनुरागोपनतायत् परित्यक्ता तस्य पापस्य फलमिदमागतम्।तदाकर्ण्य सापद्मावती छन्ना सखी राह सख्यः!

शृणुत असुरकन्यकासु न किलायं प्रवर्त्तते। ततः सख्योऽपि तामूचुः सखि!सर्वमिदं संवदति, किं त्वया न स्मर्य्यते? शापकाले तव प्रियेण तस्मात् तपोधनात् मुनेः प्रार्थितं यथा मानुष्ये पद्मावतीं बिना नान्यस्यां मे मनो मागादिति। सोऽपि तपोधनस्तथैव तस्मै वरमदात्। तत्प्रभावादयं नूनम् अन्यासु स्त्रीषु न रज्यति। एतदाकर्ण्य सा राजपुत्री संशयाकुलाभवत्। सोऽपि मुक्ताफलध्वजः दृष्टनष्टप्रियः तदा चक्रन्द हाप्रिये! पद्मावति! किं त्वया नैतत् प्रेक्ष्यते, विद्याधरत्वे मया त्वदर्थं अत्र शापः प्राप्तः, अद्य च असंशयं मृत्युं प्राप्सयामि च। इत्येवमार्त्तं प्रलपितं तस्याकर्ण्य सा पद्मावतौ सखीः प्राह सख्यः! यदि चसर्वाण्यभिज्ञानानि संवादीनि प्राप्तानि, तथापि देहान्तरपारम्पर्य्येण एतानि श्रुतानि न चैतेभ्यो मे मतिनिर्णयः स्यात्। तन्नातः परमस्य वचः श्रोतुं शक्नोमि, तदेवं गौर्य्यायतनं व्रजामि, पूजाकालश्चायं मेऽतिवर्त्तते। इत्युक्ता सा पद्मावती सखीभिः सह तमम्बिकाश्रमं जगाम। तत्रागत्य तामर्चयित्वा च व्यज्ञपयत् भगवति! सोऽयं सिद्धीश्वरदृष्टश्चेत् सत्यं मे पूर्वप्रियः, तत्तथा कुरु यथा मे शीघ्रं प्रत्ययः स्यात्। इत्युक्वा पद्मावती यावत् समुत्सुका तत्र तिष्ठति तावत् सोऽपि मुक्ताफलध्वजस्तं पूर्वमिवंसंयतकं महाबुद्धिमुवाच। सखे! मन्ये सा तदेव गौर्य्यायतनं याता, तदेहि तत्रैव याव इत्युक्त्वातदेव विमानमारुह्य तमम्बिकाश्रममेव स जगाम। अथ दूरात् नभस्तलात् सं विमानेनावतीर्णं दृष्ट्वा सख्यः तां पद्मावतीमूचुःदेवि!

पश्येदमद्भुतम्। स खलु दिव्येन विमानेन इहैवायातः, मानुषस्यास्य दिव्यः प्रभावोऽयं कुतः? ततः पद्मावतीस्ताः प्राहुस्मसख्यः!तं किं न स्मरथः? यत् स शापप्रदाता दृढ़व्रतो मया शप्तः, यथा मानुषत्वेनावतीर्णस्य अस्यैव कामरूपं वाहनं भविष्यसीति। तत्तेन मुनिशिष्येण वाहनेनैषः निश्चितं विमानरूपं दधता स्वेच्छं सर्वतोभ्रमति। एवं तयोक्ते सख्यस्तामूचुः देवि! यद्येवमवैषि, तदेनं कथं न सम्भावयसि? किमिति समीक्षसे च। एतत् सखींवचः समाकर्ण्य पद्मावती प्राहस्म सख्यः! एवं सम्भाव्यते, परमद्यापि निचयोनैव विद्यते मम। स्वदेहानाश्रितः अन्यदेहस्थः कथमभिगम्यः। प्रच्छन्ना एवास्य चेष्टितं तावत्पश्यामः। इत्युक्वा सा राजपुत्री छन्नवावर्त्तत सखीभिः। तावच्च विमानादवतीर्य्य अम्बिकाश्रम, स मुक्ताफलध्वजः तं वयस्यमुवाच सखे। अमुष्मिन्नुद्यानान्तरे स्वयम्बरागता सा मया राक्षसीवत् पूर्वं सम्भाविता इह चावाप्तशापं मां पश्यन्ती च सा पद्मावती नूनं मुनीन्द्रेण तेन निवर्त्तिता, पश्य सा मे दृष्टिमार्गात् पलायते। एतत्तस्य वचः श्रुत्वा सा पद्मावती सखीरब्रवीत् सख्यः! सत्यमसौ स एव कथमेनं पूर्वदेहमनाश्रितं उपैमि, तदत्र मे सिद्धीश्वर एव गतिः। अथ सा धूर्जटिमभ्यर्च्चप्रार्थयामास देव! पूर्वदेहस्थितेन प्रियेण मम सङ्गमं विधेहि, वा मृत्युं तृतीया गतिर्नास्ति मे इति। तस्थौ सखीभिः सह तत्र देवकुलाङ्गने। तावच्च स मुक्ताफलध्वजस्तत्र गौर्खाश्रमे तामन्विष्य अप्राप्य च समुद्विग्नस्तं वयस्यमवादीत् सखे!

नासादिता सा कन्यका मया, तदिदानींदेहविसर्जनाय अग्नौ यतिष्ये इति तदाकर्ण्य स सखा प्रत्यवादीत् सखे! तव कल्याणमेव भावि, मुनिवचो नैव मृषा, शाम्भवश्च स्वप्नादेशः। इत्येवमाश्वासयता तेन संख्या सह स मुक्ताफलध्वजः विमानमधिरुह्य सिद्दीश्वरमाससाद। तञ्चप्राप्तं दृष्ट्वा पद्मावती अलक्षितैव तस्थौ। उवाच च सखीः, पश्यत इहै बासौ सम्प्राप्त इति। सोऽपि देवसमीपं प्रविश्य तञ्च प्रत्यग्रपूजित मालक्ष्य तं वयस्य मभाषत सखे! पश्य केनापि साम्प्रतमेव विभुरर्च्चितः। नूनं सैव मे प्रियात्र क्वापि प्रच्छन्ना स्थिता, इत्युक्वा सोऽत्र तो चिन्वानो यदा न प्राप, तदा हाप्रिये! पद्मावतीति मुहुर्विलपन् चक्रन्द। स्मरज्वरावेगविवशःसः कोकिलारुते तदालापान् वर्हिवर्हेषु तत्केशपाशान् सरसिजे तन्मुखं प्रीत्या ध्यायन् कृच्छ्रतस्तेन सख्या स राजपुत्रः समाश्वास्य अनुनीय च जगदे सखे! बहुप्रयासक्लान्तेन त्वया किमारब्धं? भूलोकं पातालञ्च जित्वा कामेन दुरात्मना जीयमानमात्मानं कथमुपेक्षसे? त्वयि अन्तिकमनायाते तव पिता मेरुध्वजो नृपतिः, त्रैलोक्यमानी ते श्वशुरोदानवेश्वरः, तदात्मजा त्वदर्थिनी सा त्रैलोक्यप्रभा, सा च ते माता विनयवतो, अनुजश्च स मलयध्वजः सर्वे एते अनिष्टाशङ्किनः सोपवासा असून् जहति। तदेहि गत्वा तान् रक्षाव इति वादिनं तं मित्र स मुक्ताफलध्वजः प्राह सखे! त्वमेव मद्विमानेन गत्वा तान् समाश्वासय इति। ततस्तं स सखावोचत् सखे! कथं ममैतत् सङ्गच्छते, शापेनायं मुनि-

शिष्यस्तवैव वाहनतां गतः। इति वादिनं तं सुहृदं स राजपुत्रः प्रत्यभाषत तर्हि तिष्ठ सखे! पश्यामि तावत्किमिह भवेत्। एतत्तयोरालापं श्रुत्वा पद्मावती सखीसहस्त्र सख्यः! जाने, अभिज्ञान संवादैः स एवायं मे पूर्वप्रियः कथं मानुषदेहस्थः शापेन एवं कदर्थ्यते? ममापि सिद्धकन्योपहासात् एष शापदोषः, इति यावत् सा ब्रवीति, तावत् आलोहितच्छविः वियोगि–वनदावाग्निर्भगवान् मृगलाञ्छन उदगात् अपूरयच्चशनैर्जगत् ज्योत्स्नापूरेण। तत्करामर्शसञ्जातद्विगुणमदनावेशं चक्राह्वमिव क्रन्दन्तं नृपात्मजं मुक्ताफलध्वजं दृष्ट्वा सा पद्मावती प्रच्छन्ना समुद्विग्ना जगाद राजपुत्र! यदि च स एव त्वं मे पूर्वबल्लभः, तथापि अन्यदेहस्थतया मम परपुरुषोऽसि, अहञ्च ते परदाराः, तत् किं मुहुः क्रन्दसि? यदि मुनेर्वचः सत्यं, तदावश्यमुपायो भविता। एतत्तस्या वचनं श्रुत्वा स मुक्ताफलध्वज स्तामपश्यन् हर्षविषादविषमां दशामवहत् अवदञ्च देवि! विस्मृतप्राग्जन्मना मया त्वं दृष्टासि, प्रत्यभिज्ञातु तां स्वामेव तनुं वहति त्वन्तु वैद्याधरदेहे वर्त्तमानं मां विलोक्य अधुना मर्त्यदेहे स्थितं मां कथं विजानीषे? तदवश्यं मया इदं हतशरीरं त्याज्यम्। इत्युक्त्वा स तूष्णीमभवत् सापि तत्प्रिया तथैव प्रच्छन्ना तस्थौ।

ततो भूयिष्ठयातायां निशायां श्रमाच्च पूर्वमित्रे संयतके महाबुद्धौ निद्रां गते तेन देहेन तां पद्मावती मप्राप्यां विदित्वा स मुक्ताफलध्वजः दारूणि आहृत्य अग्निमदीपयत् अवोचच्च लिङ्गमूर्त्तिं शङ्करं प्रणम्य, भगवन्! त्वत्प्रसादेन

प्राकृतीं तांतनुं श्रितः, यथा अचिरेणैव प्रियां पद्मावतीं प्राप्सयामि तथा विधेहीति। एवमुक्त्वास राजसुतस्तस्मिन्ज्वलिते हुताशनेतनुं जुहाव। तावच्च प्रबुद्धः स महाबुद्धिस्तंमुक्ताफलध्वजमपश्यन् विचित्य समन्तात् उदर्च्चिषमग्निमुदैक्षत। अथ त वयस्यं विरहातुरं तस्मिन् हुताशने हुतात्मानं विचिन्त्य शोकात् तत्रैवाग्नौआत्मानमपातयत्। तदालोक्यसापि पद्मावती नितरां दुःखिता सखीरब्रवीत्, अहो। योषितां हृदयं कुलिशादपि कठोधिक्, इदं वेशसंपश्यन्त्या मन असुभिरिदानीमपि नोत्क्रान्तम्? तत् कियचिरमयमधन्य आत्मा मया धार्य्यते? नास्ति मे अद्यापि दुःखान्तः, यदपुण्यैःतस्य मुनेरपि वचोऽन्यथा जातम्। तदत्र परपुरुषसङ्गेन मे मरणं न युक्त, तदिदानीम् अनायासपाशा एव मे गतिः। इत्युक्त्वा सा शम्भोरग्रतः समुपेत्य अशाकवादपे सा राजपुत्री लतयापाशं विधातुं प्रचक्रमे। यावच्च ताः सख्यः आशाप्रदर्शिभिर्वाक्ये तां वारयन्ति तावत् स तपोधनो मुनिः सहसा तत्रागात्। पुत्रि! मा साहस कृथा, न भवेत् मे वचीऽन्यथा, धीरा भव, अधुनैव ते प्रिय प्राप्तं द्रक्ष्यसि। त्वदीयेनैव तपसा तस्याचिरात् शापक्षयः संवृत्तः, तत् स्वतपस्थेव ते कथमीदृशी अनास्था? प्रत्यासन्ने विवाहे च तव केयं विषादिता? अहं प्रणिधानादिदं सर्वमवेत्य इहागतः। इति व्याहरन्तम् आगतं तं मुनि वीक्ष्यप्रणम्य च सा पद्मावतींक्षणं दोलारूढेव समभवत्।

अत्र स मुक्त्वाफलकेतुः मर्त्त्यदेहदाहात् तं पूर्वदेहं वैद्या-

धरमुपेत्य सवयस्यः तत्रागात्। चातकीव नवमेवं कुमुदिनीव राकाशशाङ्गमुदितं तं विद्याधरेन्द्रतनयं गगनागतंवीक्ष्य सा पद्मावती तत्क्षणं हृदि कमपि प्रमोदमव हत्। मुक्त्वाफलकेतुश्चचिरमरुभूमिभ्रमणश्रान्तः पान्थ इव सरितं, तां पद्मावतीं चिरादवेक्ष्यपिवन् भृशं मुमुदे। शापरजनीक्षयाच्च तौचक्रवाकदम्पती इवअवाप्तसङ्गमौ तपनतेजसस्तस्य मुनेः पादपतने न तृप्ततां जग्मुतुः। स च महामुनिः, युवामिह यत् तोर्णशापौमुदितौ समागतौ, स एव मेऽद्य महान् चित्ततोष इति तावभ्यनन्दत्।

अथ गतायां निशि स मेरुध्वजा नृपतिः कनिष्ठपुत्रसहितः इन्द्रदत्तवारणगतस्तत्रैवचिन्वन्नाययौ। स च दैत्याधिपस्तैलोक्यमानी सानुगस्तया दुहिता त्रैलोक्यप्रभयासमं विमानवरस्तत्रागात्। ततः स मुनिः तयोर्नृपतिदैत्यराजयोः तं मुक्ताफलकेतुं प्रदर्श्य यथा स कार्य्यार्थं शापात् मनुष्यतामवाप, ततश्च मुक्ति गतस्तत् सर्वमवर्णयत्। ततस्ते मेरुध्वजाद्यास्तद्विदित्वा अग्नौपतनोन्मुखा मुनिनोपदिष्टं सिद्धोदकस्नानहरार्च्चनादिकं कृत्वा सहसा विशोका बभूवुः। तया तु त्रैलोक्यभप्रया तत्वाशु जातिं संस्मृत्य विद्याधराधिनाथः पतिर्मेऽस्तु इति उक्त्वायाहं तपस्यन्ती पद्मावत्या उपहसिता स्वकामनासिद्ध्यैअनल प्राविशं सैव सिद्धाधिपकन्या देवप्रभाहम् अस्मिन् दितिजकुले जातास्मि, यत्र चानुरक्तास्मि, सोऽप्येष राजपुत्रः पुनर्वैद्याधरीं तनुमाश्रितः। न चानेन देहेन अन्यरूपोऽयमभिगन्तुं युज्यते, तदिमां तनुं तस्यैव विद्याधरेन्द्रस्य प्राप्त्यैपुनर्ज्वलने

आसुरींतनुमिमां जुहोमीति विमृश्य तच्चवृत्तान्तं पित्रोर्निवेद्य तमेव मुक्ताफलव्वजहुताशनमनुप्रविष्टां तां करुणयादाय अर्पितपूर्वदेहां, स्वयं हुताशनःआविरभूत्अब्रवीच्च, मुक्ताफलकेसो! इयं त्वामुद्दिश्य मयि विमुक्ततनुः, तदिमां सिद्धेशसुतां देवप्रभां परिगृहाण। इत्येतदुक्त्वैवअनले देवे तिरोहिते भगवान् पद्मयोनिः सेन्द्रैःसुरैःसह तत्राययौ। गन्धर्वराजश्च पद्मशेखरः, विद्याधरेन्द्रेण चन्द्रकेतुना सह समागात्। अथ स गन्धर्वराट् व्यग्रपरिग्रहः सर्वान् समागतान् यथायथमभिवन्द्य मुक्ताफलकेतवे तां सुतां पद्मावतीं यथाविधि प्रादात्। स च विद्याधरपतिसुतः चिरोत्सुकां तां दयितामवाप्य जन्मतरोः फलमवाप्त मेने, उवाह च तां सिद्धकन्याम्।स च मलवध्वजः तथा दितिजेश्वरकन्यया त्रिभुवनप्रभया यथाविधि प्रदत्तया कान्तया समयुज्यत। ततोऽसौ मेरुध्वजस्तं पुत्रं मलयध्वजंसद्वीपपृथ्वीराज्येअभिषिच्य सदारस्तपसे वनमगात्। स च दितिनाधिपस्तैलोक्यमानी सपरिग्रहः स्वं पदं प्रायात्। अथ देवराजः मुक्ताफलकेत वे तां विद्युदध्वजस्यासुरेन्द्रस्य राजलक्ष्मीं प्रादात्। ततश्चअयं मुक्ताफलकेतुः विद्याधराणामसुराणाञ्च ऐश्वर्य्यं मुक्तां, सुराश्च स्वपदानि यान्तु इति वाक् दिवः समुदचरत्। तामाकर्ण्य च ते सुराः ब्रह्मादयः प्रमुदिताः स्वं स्वं धाम ययुः। तपोधनश्च स मुनिः शापान्मुक्तेन शिष्येण च समं तपोवनमगात्। स च चन्द्रकेतुः भार्य्याद्वयभाजितेन तेन सुतेन मुक्ताफलकेतुना सह वैद्याधरं पदमवाप। ततश्च

सविद्याधरचक्रवर्त्तीचन्द्रकेतुः चिरं साम्राज्य भुक्त्वातस्मिन् सुते मुक्ताफलकेतौ स्वराज्यधुरां निवेश्य विरक्तः देव्या समं मुनितपोवनमशिश्रियत्। स मुक्ताफलकेतुः प्राक् इन्द्रादसुरसाम्राज्यमवाप्य साम्प्रतञ्च पितुः सकाशात् वैद्याधरसाम्राज्यंपद्मावत्यासहितो दश कल्पान् बुभुजे। ततः स क्रमेण भावानवसानविरसान् आलोक्य अन्तेसुनीन्द्रकाननं संश्रित्य तत्र तपःप्रकर्षात् परं ज्योतिधूर्जटेरीशस्य पदमगात्।

इत्थंहंसयुगलात् सरसां कथां निशम्य ज्ञानं दिव्यंदिव्यां गतिश्च अवाप्य भार्य्यया सचिवेन ताभ्याञ्च विहगाभ्यां सह तं सिद्धेश्वरं गत्वा शापतनूस्त्यक्ता च निजां शिवानुचरतामवापुः। इति गोमुखमुखात् कथामाकर्ण्य मदनमञ्जुकाविरही क्षणमात्रंचित्तविनोदमवापम्।इत्थंकथितकथे तस्मिन् चक्रवर्त्तिनि ते मुनयः गोपालकेन सहिताः कश्यपाश्रमवासिनः परं मुदमवापुः, परितुष्टवुश्चतं सम्राजम्।

_______

अथ विषमशीलो नाम अष्टादशो लम्बकः।
<MISSING_FIG href="../books_images/U-IMG-172464711752992.png"/>

अथ विंशोत्तरशततमस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-172464713752993.png"/>

ततस्तस्मिन्नसितगिरौ तत्र कश्यपाश्रमे नरवाहनदत्तस्तान मुनीनेवमभाषत, अन्यच्च देवीविरहे यदाहं सानुरागया वेगवत्या विहायसः न्यस्तः अभिरक्षितुं नीतः देशान्तरं, तदा परदेशगः विरही अहं टेहत्यागेच्छया वनान्ते भ्रमन् महामुनिं कण्वमपश्यम्। स मां पादानतं दृष्ट्वा प्रणिधानात् सर्वमवेत्य च दुःखितं दयालुः स्वाश्रमं नीत्वाभ्यधात्, वीर! सोमवंशीयोऽपि किं नाम मुह्यसि? देवादेशेऽपि ते ध्रुवं भार्य्यासङ्गमे नास्था? असम्भाव्या अपि समागमा नृणां सम्भवन्तीह। तदत्र विक्रमादित्यकथामाख्यामि श्रूयताम्।

अस्ति अवन्तिषु युगादौ विश्वकर्मणा निर्मिता त्रिपुरारेर्वसतिरुज्जयिनी नाम नगरी। सा सतीव परैरधृष्या, पद्मिनीव श्रियाश्रिता, सतां धीरिव धर्माढ्या, पृथ्वीव बहुकौतुका। तस्यां महेन्द्रादित्य इति जगद्विजयी अमरावत्यां महेन्द्र इव विपक्षबलसूदनो राजासीत्। यः शौर्ये नानाशस्त्रायुधः, रूपे कुसुमायुधः, त्यागे मुक्तकरः, करे च बद्धमुष्टिरवर्त्तत। तस्य नृपतेः शचीवेन्द्रस्य,

गौरीव शम्भोः, श्रीरिव विष्णोः, सौम्यदर्शना नाम महिषी अभवत्। सुमतिर्नाम महामन्त्री, वस्त्रायुधो नाम च प्रतीहारः क्रमागतः तस्याभूताम्। स राजा तैः समं राज्यं शासत् शश्वत् हरमाराधयन् पुत्रकाम्यया नानाव्रतधरः समभवत्।

अत्रान्तरे सेन्द्राः सुरा म्लेच्छानामुपद्रवेण दुःस्थिताः गीर्वाणगणसंश्रितकन्दरे अन्यदिग्जयेन सानन्दायाः कौवेर्य्या दिशो हाससुन्दरे कैलासशैले पार्वत्या सह स्थितं पुरारिमभिजग्मु, व्यजिज्ञपंश्च कृतप्रणामाः स्तुवन्तः पृष्टागमनकार्य्यास्तंदेवम्। त्वया देव! विष्णुना च ये असुराः नियताः ते पुनरद्य महीतले म्लेच्छूरूपेण जाताः। ते चेदानीं विप्रान् व्यापादयन्ति, विघ्नन्ति च तेषां यज्ञादिकाः क्रियाः, हरन्ति च मुनीनां कन्याः, किं बहुना, कुर्वन्ति जगतामित्थम् उपद्रवम्। प्रभो। भूलोकादेव शश्वत् देवलोकः आप्याय्यते, ब्राह्मणैरग्नौ हुतं हि हव्यं दिवौकसां तृप्तये, तदिदानीं म्लेच्छाक्रान्ते निर्वषट्कारे भूर्लोके यज्ञादिविच्छेदात् देवलोकोऽवसीदति, तदत्रकञ्चिदुपायं कुरुष्व, कश्चित् प्रवीर पुरुषं भूतले अवतारय, यस्तान् म्लेच्छानुत्सादयिष्यति। इत्येवं देवैर्विज्ञप्तः पुरारिस्तानवादीत् यात यूयं, नाव युष्माभिश्चिन्ता कार्य्या, अचिरेपास्थोपायं निःसंशयं करिष्यामि, इत्युक्त्वातान् देवान् विसृज्य भगवान् भवानीपतिः माल्यवन्तं नाम गणाधिपमाहूय समादिशत्, पुत्र! महापुरि उज्जयिन्यां महेन्द्रादित्यनृपतेः सुतः समुत्पद्यस्व, स राजा ममैवांशः, भार्य्या च तस्य अम्बि-

काया अंशभूता। तयोः पुत्रत्वेन समुत्पन्नःदेवकार्य्यं कुरुष्व। त्रयीविघातकान् अशेषान् म्लेच्छान् व्यापादय।मत्प्रसादात् सप्तद्वीपपतिः राजा भविष्यसि। यक्षा राक्षसा वेतालाश्च ते वशे स्थास्यन्ति। सुचिरं मानुषभोगान् भुक्त्वा च पुनरस्मानुपैष्यसि। इति पुरजितादिष्टो माल्यवान् गणराजः प्राब्रवीत्, भगवन्! आज्ञा भवतः अलङ्कग्रा, भोगास्तु मानुषके के ? यत्र बन्धूनां सुहृदां भृत्यानाञ्च विप्रयोगाः सुदुःसहाः, यत्र च धनार्जनैः जरया रोगादिभिश्व सततं व्यथाः। इति तेन गणेनोक्तो देवः प्रत्यभाषत अनघ। गच्छ त्वम्, एतानि दुःखानि तव तत्र न भविष्यन्ति, मम प्रसादात् सर्वेषु कालेषु सुखित एव स्थास्यसि। इति शम्भुनोक्तः स गणः माल्यवान् तत्क्षणाददृश्योऽभवत्, अजायत च उज्जयिनीपतेः तस्य महेन्द्रादित्यस्य नृपतेर्महिष्या गर्भे।

तस्मिंश्च काले निशाकान्तशेखरः शङ्करः तं महेन्द्रादित्यं नृपतिं स्वप्ने समादिशत्, राजन्! तुष्टोऽस्मि ते, यस्ते पुत्रो जनिष्यते, स विक्रमेण सप्तद्वीपां पृथ्वीमाक्रमिष्यति, यक्षान्, रक्षांसि, पिशाचादींश्च पातालाकाशचारिणः सर्वान् वशीकरिष्यति, म्लेच्छांच सर्वान् निहनिष्यति, तस्मादेवास्य विक्रमादित्य इति, अरिषु च वैषम्यकरणात् विषमशील इति च नाम प्रचरिष्यति। नाम प्रचरिष्यति। इत्युक्ता देवेऽन्तर्हिते स महीपतिः प्रबुद्धः प्रातः स्वसचिवेभ्यः प्रहृष्टः स्वप्नवृत्तान्तमवर्णयत्। तेऽपि सचिवाः प्रमुदितास्तस्मै राज्ञेस्वं स्वं पुत्रप्राप्तिफलं हरादेशं शशंसुः। तावच्च राजोऽन्तः-

पुरचेटिका सत्वरमेत्य देव्यै तं साक्षात् फलं हरादेशं न्यवेदयत्। ततः स राजा सचिवैरभिनन्दितः सत्यं शम्भुना मम सुतो दत्त इति मुहुर्वदन् परांमुदमवाप।

अथ तस्य राज्ञीसगर्भा सम्मूर्जितद्युतिः प्रातरुद्यत्सहस्रकरमण्डला प्राचीव शुशुभे। कुचयोश्च क्रमेण श्यामा चुचुकत्विट् समजायत। ततः सा समये निखिलैः यक्षराक्षसवेतालैः प्रणम्यमाना पुत्रं मनस्विनं सूते स्म।तस्मिंश्च सुते जाते निपतत्पुष्पवृष्टिप्रहासिनी गौर्वाणदुन्दुभिनिनादिनी द्यौरजायत। सा च पुरी तत्कालमुत्सवानन्देन व्याकुला क्षीवेव भूताविष्टेव वातक्षोभावृतेव चाभवत्। राजनि तदा अविरतं वसूनि वर्षति कश्चिदपि दरिद्रो नासीत्। ततः स राजा राजा शम्भुनादिष्ठेन नाम्ना तं विक्रमादित्यं विषमशीलञ्चाकरोत्।

अथ कियतसु दिनेषु गतेषु तस्य राज्ञः महामन्त्रिणः सुमतेमहीपतिर्नाम सुतो जज्ञे। क्षत्तुश्च वज्रायुधस्य पुत्रोभद्रायुधो नाम अजनि। पुरोहितस्य च महीधरस्य श्रीधरी नाम तनयः समुदपद्यत। तैश्चमन्त्र्यादिसुतैत्रिभिः सराजसुतः विक्रमादित्यः तेजोवीय्यैबलेरिव युतो ववृधे। उपनीतस्य तु तस्य विद्यासु गुरवो हेतुमात्रतासुपययुः, तास्तु तस्याप्रयासेन स्वयमेव प्रादुरासन्। विद्वांसो यां यां विद्यां तमपृच्छन् तस्य तस्यामेव तैस्तस्य असमीत्कर्षः समबुध्यत। तञ्च राजसुतं दिव्यास्त्रयोधिनं पश्यन् जनः रामादिधनुर्धरकथादिष्वपि मन्दादरोऽभवत्। पिता महेन्द्रादित्यनृपः आक्रान्तोपनतैर्नृपै र्दत्ता रूपवतीःकन्याः

अपराः श्रिय व तत्कृते आजहार। ततः स राजा तं पुत्रं प्राज्यविक्रमंयौवनस्थं विलोक्य यथाविधि राज्ये जनप्रियमभिषिच्य भार्य्यसचिवसहितः चरमे वयसि वाराणसीं गत्वा शरण्यंशम्भुं शिश्रिये। विक्रमादित्योऽपि तत् पेतृकं राज्यमवाप्य नभो भास्वानिव क्रमात् प्रतपितुमारेभे। तेनारोपितगुणं कोदण्डंनमदालोक्यैव तच्छिक्षयेव नृपतयः उच्छिरसोऽपि अनमन्। विद्यानुभावात् यक्षराक्षसादीनपि उन्मार्गगामिनः साधयन् सम्यक् वसुन्धरामन्वशासत्। महीतले तस्य सेना आदित्यस्य रश्मय इव ककुभः प्रसादयन्तः समन्तात्विचरन्ति स्म। स राजा विक्रमादित्यो महावीरोऽपि परलोकतो भीरुः, शूरोऽपि अचण्डकरः, कुसन्तापी अपि अङ्गनाप्रियः, पितृहीनानां पिता, अबन्धूनां बान्धवः, अनाथानां नाथः प्रजानामभवत्। नूनं तस्य यशः श्वेतद्वीपस्य क्षीरसागस्य कैलासस्य हिमाचलस्य च निर्मातुर्विधातुरुपादानमभवत्।

एकदा सभासीनं तं नृपं प्रतीहारो भद्रायुधः समुपेत्य व्यजिज्ञपत्, देव। दक्षिणदिग्विजयाय प्रहितस्य ससैन्यस्यविक्रमशक्तेः पार्श्वं देवेन अनङ्गदेवो नाम यो दूतः प्रेषितः, स सद्वितीयः समागतो द्वारि तिष्ठति, प्रभो! अस्य च हृष्टं मुखं शुभं वक्ति इति। अथ राज्ञा प्रवेश्यतामसावित्युक्ते स प्रतीहारः सद्वितीयं तम् अनङ्गदेवं सगौरवं तत्र प्रवेश्य स्वाधिकारमगात्। अथ प्रविष्टः स सप्रणामं जयशब्दमुदीर्य्य अग्रतः समुपविष्टो राज्ञा तेनापृष्यत। कच्चित् स सेनानी राजा विक्रमशक्तिः कुशली? कच्चिच्च व्याघ्र-

बलाद्या अपरे भूभुजः कुशलिनः? अन्धेषाञ्च राजपुत्राणांप्रधानानां तस्मिन् बले कुशलम्? गजाश्वरथपादातानाञ्चकच्चित् शिवम्? इति राज्ञा पृष्टः सः अनङ्गदेवः प्रोवाच, देव! विक्रमशक्तेः सर्वस्य सैन्यस्य च शिवम्। अपरान्तेन सहितं दक्षिणापथं देवेन विजितम्। मध्यदेशः सौराष्ट्रः, वङ्गाङ्गा च पूर्वदिक् विजिता। कश्मीरसहिता कौबेरी दिक् करदीकता। तानि तानि द्वीपानि दुर्गाणि च विजितानि। म्लेच्छसंघा निहता, वशे स्थापिताश्च। ते च नृपाः विक्रमशक्तेः कटकेषु प्रविष्टाः। स च विक्रमशक्तिस्तैस्तै राजभिः सममागतः। आस्ते च इतः प्रयाणशतेषु स्थानेषु।एवमाख्यातवन्तं तं दूतं तुष्टो नृपतिर्विक्रमादित्यः वस्त्रैरलङ्कारैर्ग्रामैव अभ्यपूरयत्। पुनश्चतं दूतं पप्रच्छ, अनङ्गदेव! त्वया गर्तन के के देशा विलोकिताः? कुत्रच किं दृष्टं कौतुकं मे तत्तच्छ्रषणेषु, कथ्यताम्। इति तेन भूभृता पृष्टोऽनङ्गदेवः वक्तुं प्राकमत, देव! इतो देवाज्ञया अहं गत्वा क्रमात् विक्रमशक्तेःसैन्यसमुदयं मिलितानन्दनागेन्द्रं सदश्वभतपूरितं समुद्रमिवविस्तीर्ण सपक्षैःक्ष्माभृङ्गिराश्रितं प्राप्तवान्। तत्र चाहमुपागतः तेन विक्रमशक्तिना प्रभुणा प्रहित इति प्रणतेनाभिसत्कृतः यावत् विजयमवलोकयन् तिष्ठामि, तावत् सिंहलेश्वरसकाशात् दूतः कश्चिदुपागमत्, उवाच च तस्मै विक्रमशक्तये, राज्ञोविक्रमादित्यस्य हृदयभूतः अनङ्गदेवस्तेऽन्तिके स्थितः, इति त्वत्पार्श्व प्रहितागतैर्दूतैर्मेकथितम्। तत् त्वरया तं मदन्तिकं प्रहिण, अस्य

सकाशेकल्वाचं किञ्चन राजकार्य्यं वक्ष्यामीति।

अथाहं तेन सिंहालाधिपदूतेन सह बहनेन अब्धिवर्त्मना सिंहलोपमगच्छन्। तत्र च गत्वाहं हेमनिर्मितां विचित्ररत्नप्रासादां निर्वाणनगरीमिव तस्य राजधानीमपश्यम्, अद्राक्षञ्चतत्र वीरसेनं नृपतिं सिंहलाधिपतिं विनीतैःसचिवैर्वृतं शतक्रतुमिव सुरैः। स प्रभुर्मामाहूय आहत्य व कुशलं पृष्ट्वा च भूयसा सत्कारेण विश्रामयामास।

ततोऽन्येद्युः सभासीनो मामेकान्ते आहूय देवभक्तिं दर्शयन् उवाच, अस्ति ममैका दुहिता भूलोकेषु सुन्दरी मदलेखा नाम, तामहं भवतां राज्ञे ददामि, तस्य भवत्प्रभोः सा अनुरूपा भार्य्या, स च तस्याः अनुरूपः पतिः। एतदर्थं त्वमाहूतः, तदेतां वार्त्तांस्वामिने विज्ञापयितुंमदीयेन दूतेन सह गच्छ। अहञ्च तदनुपदं तत्रात्मजां प्रेषयामि। इत्युक्वा तां कन्यां रूपलावण्ययोवनैर्भूषितावयवां स्वान्तिकमानाययामास। तामङ्कमारोप्य मां दर्शयित्वा च जगाद, भद्र! त्वत्स्वामिने दत्ता इयं कन्या परिगृह्यतामिति। अहञ्च तां राजपुत्रींवीक्ष्यतस्या रूपेण विस्मितःप्रेषितेयं स्वाम्यर्थं मयेति मुदितोऽब्रुवम्, अचिन्तयञ्च अहो! विधिराश्वर्य्यस्य विधौ नृत्यति। यत्तिलोत्तमां कृत्वापि तदुत्तमाम् इमां विदधे। ततोऽहं तेन राज्ञा सत्कृतः तस्मात् सिंहलात् बलयसेनेन तदीयेन दूतेनामुना प्रस्थितः। यावदावां वहनमारुह्य अम्बुधौ व्रजावः, तावत् सहसा तस्याब्बेर्मध्ये महत् पुलिनं दृष्ट-

वन्तौ। xxxxxxxद्वेकन्यके अपश्याव। तथोरेका प्रियङ्गुश्यामाङ्गी,अपरा चन्द्रामलद्युतिः।ते च स्वस्ववर्णोचितेन वस्त्रालङ्कारेण अलङ्कृते सद्रत्नकाकाणं करतालिका दत्त्वा पुरतः जाम्बूनदमयमपि सजीवं रत्नचित्रितं क्रीड़ाहरिणपोतकं नर्त्तयन्त्यो दृष्ट्वा आवाभ्यां विस्मिताभ्यामन्यान्यमभण्यत, अ्होकिमेतदाश्वर्य्यंस्वप्नो वा माया वा एषः ? क्व अब्धौ सहसा पुलिनम् ?क्ववा ईदृश्यौ कन्यके ? क्व च एतयोः रत्नचित्राङ्गो हेममयः सजीवो मृगः ? इत्येवं तर्कयतोरेव आवयोरकस्मात् अम्भोनिधिम् उद्वेलयन् वायुः प्रावर्त्तत। तेनास्माकं तद्वहनं वेल्लद्वीचिषु निश्चितमभज्यत। तद्गतासश्चजना मकरैभक्ष्यमाणा ममज्जुः। आवान्तु ताभ्यां कन्याभ्यामेत्य बाहुषु आलम्बैव उत्क्षिप्य च अप्राप्तमकराननौ पुलिनं नीतौ। ततश्च जर्मिभिस्तस्मिन् पुलिने पूरिते विह्नलावावा समाश्वास्य गुहागर्भमिव ताभ्यां प्रवेशितौ। ततो यावत्तत्र दिव्यं नानाविचित्रदुम वनं वीक्षावहे, तावत् नाम्भोधिः, न तटं नापि मृगशावो नापि च कन्यके, चित्रं किमेतत्मायैवैषा नूनम् इति वादिनावावां क्षणंभ्रमन्तौ तत्र महत् एकं स्वच्छं गम्भीरविस्तीर्णं महतामाशयमिव तृष्णासन्तापशमनं मूर्त्तिमत् निर्वाणमिव सरः अपश्यावः। तत्र च स्वातुमायातां साचात् वनश्रियमिव परिजनवृतां काञ्चित् वराङ्गनां दृष्टवन्तौ। अथ सा कर्णीरथात् अवरुह्य विकसितसरोरुहे तस्मिन् सरसि स्नात्वा कियन्तं कालं यावत् ध्यानमास्थिता तावत् तस्मात् सरसः समुद्गम्य

साक्षात् लिङ्गनकृतिः शिवः तस्या अग्रतः समुपागात्। ततः सा स्वविभवोचितैस्तैस्तैर्द्रव्यैर्विविधैर्दिव्यरत्नमयं तं लिङ्गमयं देवं विधिवदभ्यर्च्चवीणामादन्त। अवादयच्च तथा तां सुस्वरं गायन्ती, यथा तच्छ्रवणाकष्टचेतसः खेचरा गगनतलवर्त्तिनः आलिखिता इव निष्पन्दा आसन्। अथ मा उपसंहृतगान्धर्वा शम्भोर्विसर्जनमकरोत्, स च देवस्तत्क्षणं मरसि मग्नवान्। ततः सा हरिणेक्षणा समुत्थाय बहनमारुह्य सपरिजना शनैर्गन्तु प्रवृत्ताभवत्। केयमिति असकृत् सादरं पृच्छतोरपि आवयोस्तत्परिजनः कश्चिदपि नोत्तरमदात्। अहन्तु अस्य सिंहलेश्वरदूतस्य तावक प्रभावं दर्शयिष्यन् तामिदमुच्चैरवादिषम्, सुन्दरि। देवस्य विक्रमादित्यस्य अद्धिस्पर्शेन शापितासि, त्वयात्मानं मह्यमनाख्याय न गन्तव्य मिति। तदाकर्ण्य सा वराङ्गी परिजनं निवार्य्यअवरुह्य च वहनात् मामुपागम्य मधुरया गिराभ्यवात्, भद्र ! कश्चित् श्रीमान् विक्रमादित्यः कुशलवान् ?किं वा पृच्छामि, सर्वमेव मे विदितं, मयैव मायामुद्भाव्य भवानिहानीतः। स हि मे महाभयात् त्राता नृपतिर्मान्यः। तदेहि मद्गृहं तत्र याहं यथा च स राजा मे मान्यः, कार्य्यञ्च तस्य यत् तत् सर्वं ते वक्ष्यामि। इत्युक्ता सविनयं मुक्तकर्णीरथा पद्भ्यामेव पथि व्रजन्ती क्रमेण स्वर्गोपमं नानारत्नविचित्रहेमरचितं द्वारेषु नानाविधैर्विविधरूपधरैः प्रवीरपुरुषैरध्यासितं स्वं पुरमावामनैषीत्। तत्र चवरबूभिरशेवदिव्यभोगसिद्धिभिःरूपशालिनीभिः परि-

वृते भवने स्नानानुलेपनवरभूषणादिभिरावां सम्मान्य विश्रामयामास।

_______

अथ एकविंशत्यधिकशततमस्तरङ्गः।

____________

इत्येवमुक्त्वाआस्थानवर्तिने देवाय विक्रमादित्याय अनङ्गदेवः पुनः कथयामास। ततः सा सखीजनवृता कृतभोजनं मामब्रवीत् अनङ्गदेव! सर्वं ते कथयामि श्रूयताम्। अहं धनदस्य भ्रातुर्माणिभद्रस्य गेहिनी, दुन्दुभिनाम्नः यक्षराजस्य दुहिता मदनमञ्जरी नाम। साहं सरितां तीरेषु सरोवरेषु शैलेषु उपवनेषु च भर्त्रासह सुखं व्यचरम्। एकदाहं प्रियेण समं उज्जयिन्यां मकरन्दाख्यमुद्यानं विहर्तुं गन्ताभूवम्। तत्र दैवात् उषसि एकः भण्डकापालिकाधमः विहाराश्रमसंसुपप्रबुद्धो मां पश्यति स्म। स पापः मां दृष्ट्वा कामपरवराः श्मशानं गत्वा होमकर्मणा मन्त्रेण मां भार्य्यात्वे साधयितुं प्रावर्त्तिष्ट। अहञ्च स्वप्रभावेण तद्विदित्वा भर्त्रेन्यवेदयम्। तेन च ज्यायसे भ्रात्रे धनदाय तदावेदितम्। धनाध्यक्षेण च गत्वा कमलयोनिर्विज्ञप्तः। स चापि भगवान् चतुर्मुखी ध्यात्वा तमब्रवीत् सत्यमयं कपाली ते भ्रातृजायां हर्तुमुद्यतः। अस्य हि यक्षसाधनमन्त्राणां तादृशी शक्तिरस्ति। तया तु मन्त्रेणाकृष्यमाणया विक्रमादित्यः क्रन्दनीयः। स नृपति-

स्तां रक्षिष्यति। एतत् ब्रह्मवचः श्रुत्वा समागत्य मद्भर्त्रेधनदोऽब्रवीत्। मम च भर्त्ता कुमन्त्रचकितात्मने मह्यं तदाह स्म। तावच्चस पापात्मा चक्रसिद्धेन मन्त्रेण मामाकृष्टवान्। अहञ्च तेन मन्त्रेणाकष्टः वित्रस्ता अस्थिकपालाद्येर्भीषणं भूतसेवितं तत् पितृकाननं प्राप, ददर्श च तत्र तं दुष्टकापालिक हुताग्निम् अर्चितोत्तानशवाधिष्ठितम्। स च दर्पमोहितः कापालिकः मां प्राप्तामालोक्य कथञ्चित् दूरस्थां नदीं स्नातुमगात्।अहञ्च तत्क्षणं ब्रह्मवचनं संस्मृत्य अचिन्तयं किमहं राजानं नाक्रन्दामि स राजा जातु इहागच्छेत्। इत्येवं चिन्तयन्ती तमहमुच्चेराक्रन्दितवती। देव विक्रमादित्य! परित्रायत्व मां, जगद्रक्षामणे! पश्य बलात् कुलबधूं सतीं माणिभद्रस्य धनदानुजस्य गृहिणीं दुन्दुभितनयां मदनमज्जरींमाम् अयं कापालिकाधमः त्वद्राज्ये धर्षयितुमुद्यत इति। इत्याक्रन्दिता एव ज्वलन्तमिव तेजसा कृपाणपाणिमायान्तं तं महापुरुषं नृपमहमपश्यम्। आगत्य च स मामवदत्, भद्रे। मा भैषीः, निर्वृता भव। शुभे! अहं त्वां कापालिकादस्मात् रक्षामि। को हि मम राज्ये ईदृशमधर्म्यं कर्त्तुमुत्सहेत। इत्युक्त्वासः अग्निशिखं नाम वेतालमाजुहाव। स चाहूतः ज्वलन्नेत्रः प्रांशरूर्द्धशिरोरुहः समुपेत्यैव तं भूपतिमब्रवीत्, देव! किं करोमि, समादिशतु भवान् इति। राजाब्रवीत्, एष पारदारिकः पापकृत्कापालिकस्त्वया निहत्य भक्ष्यतामिति। ततः सोऽग्निशिखस्तस्मिन् शवार्चामण्डलस्थिते श्मशाने प्रविश्य प्रसारित-

भुजाननः तम् आचान्तमायातं पलायनपरायणं कापालिकं भुजयोर्गृहीत्वा तमसि भ्रामयित्वा च क्षिप्रं क्षितावाच्छिद्य तस्य देहं मनोरथञ्चाचूर्णयत्। ततः कापालिकं हतं दृष्ट्वा आभिषगर्द्धिषु भूतेषु आगच्छत्सु यमशिखो नाम कश्चित् दुर्मदो वेतालः समायात्। उपेत्यैव स तत् कापालिककलेवरमगृहात्। ततः सोऽग्निशिखः पूर्ववेतालस्तमभाषत, अरे श्रीमतो विक्रमादित्यस्य देवस्यादेशात्मयायं कापालिको निहतः, दुराचार। त्वमस्य कः? एतदाकर्ण्य स यमशिखस्तमब्रवीत् भ्रातः। तद् ब्रूहि मे, स राजा किंप्रभाव इति। ततः सोऽग्निशिखोऽब्रवीत् न चेत्तत्प्रभावं वेत्सि, तदहं ते कथयामि शृणु।

इह नगर्य्यंडागिनेयो नाम कश्चित् सुधीरः कितवः प्रतिवसति स्म। स कदाचित् कितवैद्यूतमायया हत सर्वस्वः समधिकस्य पणस्य दाने अक्षमतया तैरबध्यत। निर्धनत्वेन दातुमशक्तः तैलेगुड़ादिभिस्ताड्यमानः ग्रावभूतो मृत इवावतस्थे। ततश्च तैः सर्वैः पापैः सभिकैर्नीत्वा जीवतोऽस्मात् प्रतिक्रियामसम्भाव्य महान्धकूपे निचिक्षिपे। स च कितवा डागिनेयः तस्मिन्नतिगम्भीरे कूपे भ्रष्टः महान्तौ पुरुषावागतौ ददर्श। तौ च तं पतितं भीतं दृष्ट्वा साम्ना अपृच्छतां कस्त्व? कुतश्चकूपे पतितः? उच्यतामिति। अथ स दूतकरः समाश्वस्य स्ववृत्तान्तं निवेद्य च तावपि अपृच्छत् कौ युवां? कुतश्चागताविति। तदाकर्ण्य ताववोचतां, भद्र! आवामस्याः पुरः श्मशानवासिनौब्रह्मराक्षसौ। आवाम् इह पुरि हे कन्यके मुख्य-

मन्त्रिसुतामेकाम् अपरां बणिक्सुतां हृतवन्तौ। कश्चिदपि ते कन्ये आवाभ्यां मोचयितुं न शक्नोति स्म।ततश्च देवो विक्रमादित्यस्तत्पितृबल्लभः यत्र ते कन्ये स्थिते, तत्रागात्। आवाञ्च तं नृपं दृष्ट्वा ते कन्यके मुक्ता पलायितुमिच्छन्तावपि तत्सकाशात् गन्तुं नाशक्नुवः, अपश्याव च सर्वा दिशस्तस्य तेजसा ज्वलन्तीः। ततः स नृपतिः नौ दृष्ट्वा स्वप्रभावतः अबध्नात्, समादिशच्चैवं जातमृत्युभयौ सुदौनावावां वीक्ष्य।पापौ संवत्सरमन्धकूपान्तर्वसतं, मूर्खाभ्यां भवद्भ्यां नैदृशं पुनरपि कार्य्यम्। यदि करिथस्तदाहं तत्क्षणं निग्रहीष्यामि वाम्। इत्यादिश्य तेन विषमशीलेन राज्ञा आवामस्मिन् अन्धकूपे निक्षेपितौ, कृपया न निपातितौ। अष्टभिर्दिवसैरस्यावयोः कूपनिवासस्य अवधिः पूर्य्यते, ततो मुच्यावहे। तदेतानि अहानि यदि नौ किञ्चित् किञ्चित् भक्ष्यंददासि, तदा अमुष्मात् कूपात् त्वामुद्धृत्य वहिः क्षिपावः। यदि चाङ्गीकृत्य उद्धृतोन ददासि भक्ष्यंततस्त्वां निर्गतौ निश्चितं भक्षयिष्यावः। इति ताभ्यां ब्रह्मराक्षसाभ्यामुक्तः स कितवस्तथेति प्रतिपद्य ताम्यां कूपादुदस्यत। स तु कूपादुद्धृतः अन्यथा तदर्थप्राप्तिमपश्यन् महामांसं पणयितुं निशि श्मशान पाविशत्। तत्कालञ्च तत्र तिष्ठता मया गृह्णातु महामांसं कश्चित् विक्रीगोऽहमिति ब्रुवन् स कितवो दृष्टः। ततो मया अहं गृह्णामि, किं मूल्यं मार्गसीत्यभिहिते स्त्री रूपप्रभावी देहि मह्यमिति सोऽब्रवीत्। मया पुनः वीर! किं करिष्यामि ताभ्यामिति कश्चिते स किमिव

सर्वं स्ववृत्तान्तमुक्ता एवमब्रवीत् त्वदीयाभ्यां रूपप्रभावाभ्यां तान् मद्दैरिणः कितवान् समाकृष्य ब्रह्मरक्षोभ्यां ददामि। तदाकर्ण्य धैर्य्यतुष्टेन मया तस्मै द्यूतकृते दिनमप्तकमवधीकृत्य स्वौरूपप्रभावौ दत्तौ। स च कितवः ताभ्यां मदीयरूपप्रभावाभ्यां क्रमात् तानपकारिणः कूपे समाकृष्य ब्रह्मराक्षसभक्ष्यतां नयति स्म। ततः स डागिनेयो द्यूतकरः मया स्वीकृतयोः स्वरूपप्रभावयोः, भयाकुलः मामब्रवीत्, अद्य मया तयोर्भक्ष्यं न दत्तं परमद्य अष्टममहः। तदेतौ ब्रह्मराक्षसौ निर्गत्य मां भक्षयिष्यतः। तदत्र किं मया कार्य्यं वद, त्वं हि मे परमं मित्रमिति वादिनं तमहं संस्तवप्रीत्या अवादिषं भद्र! त्वया ताभ्यां रक्षोभ्यां ते वैरिणः कितवाः खादिताः, अहन्तु तवार्थे तौराक्षसौ भक्षयामि, तम्मित्र! तौ दर्शय इति। ततस्तेन कितवेन तथेति अहं तदन्धकूपनिकटं नीतः। ततोऽहं यावदशङ्कितः अधोमुखस्तं कूपं पश्यामि, तेन पापेन कितवेन अर्द्धचन्द्रं दत्त्वाहं तदन्तरे क्षिप्तः। ततः कूपान्तः पतितस्य भक्ष्यबुद्ध्यागृहीतस्य मम ताभ्यां रक्षोभ्यां बाहुयुद्धमवर्त्तत। यदा तौ मम बाहुबलम् अतिवर्त्तितु न शेकतुः, तदा युद्धं त्यक्ता कस्त्वमिति तौ मामपृच्छताम् ततो मया डागिनेयवृत्तान्तादारभ्य स्वके वृत्तान्ते कथिते तौ मया मैत्रीं विधाय अवोचताम्, अहो! तव आवयोस्तेषाञ्च कितवानां कीदृशी अवस्था तेन दुरात्मना कितवेन विहिता, येषां मनः नमेत्री, न घृणा, नोपकारः स्पृशेत्, तेषु क्वलैकचित्तेषु

कितवेषु कीदृशो विश्वासः? तेषाञ्च साहस नैरपेक्ष्यञ्च निसर्गजम्। तदत्र रिङ्गाकरनलस्य कथा श्रूयताम्।

पूर्वमस्यामुज्जयिन्यां रिङ्गाकरालो नाम विषमोऽन्वर्थनामा द्यूतकरः निवसति स्म।स नित्यं द्यूते पराजयं लभमानः क्रमेण हृतसर्वस्वोऽभूत्। अथ जयिनोऽपरे सभिकास्तंवृत्तिग्लानं दृष्ट्वा प्रत्यहं तद्वृत्त्यर्थं कपर्दकशतं ददुः। स दुर्भाग्यः तेन आपणात् गोधूमचूर्णं क्रीत्वा दिनात्यये क्वापि कर्परे अम्भसामृदित्वा अपूपिकाश्चकार। ततश्च श्मशानं गत्वा निशि चिताग्नौ ताः पक्त्वामहाकालनिकेतनस्य शिवस्य दीपघृताभ्यक्ताः कृत्वा नित्यमभक्षयत् तत्रैव च महाकालदेवागाराङ्गने उपधानीकृतभुजः क्षितौनिशि सुष्वाप।

एकदा रजन्यां तस्मिन् महाकालनिकेतने मातृमण्डल यक्षादिप्रतिमाः स्फुरन्तीः पश्यतस्तस्य मतिरजायत इह अर्थार्थं युक्त्या किमिति उपायं न करोमि, सिद्धञ्चेत् भद्रम्, असिद्धे, तु का क्षतिः? इत्यालोच्य ता देवताः द्यूताय आक्षिपन् अब्रवीत्, एत भोः, युष्माभिः सह इह दीव्यामि। पातयिता यथा सद्यः पणीकृतं ददाति, तथा अपरैरपि सह क्रीड़द्भिर्जितं दीयते। इति तेनोक्तास्ताः मातरस्तूष्णीं तस्थूर्यदा तदासो रिङ्गाकरालः स्वयं पणं कृत्वा चित्रा वराटिकाःअपातयत्। अनिषेधता कितवेन पातनम्अङ्गीकृतं स्यादिति सर्वत्रद्यूतकतां स्थितिः सदा प्रचलति। ततश्च स बहुस्वर्णं क्रमेण जित्वा ता देवता जगाद जितं धनं मह्यं ययाभाषितं प्रयच्छत इति तेन कितवेन

असकृदुक्ताः कितवा यदा किमपि नालपत्, तहासौ क्रुधा प्रोवाच, यदि यूयं तूणों स्थिताः मत्पणितंन प्रयच्छथ, तदा अदत्तहारितार्थस्य मिलाभूतस्य तिष्ठतः कितवस्य यत् क्रियते यमदण्डाग्रतीक्ष्णेन क्रकचेन अङ्गपीड़न, तदहं युष्माकं करिष्यामि न हि कोऽपि अनुरोधोऽस्ति। इत्युक्त्वायावत् स क्रकचमादाय धावति, तावत् ता देवताः यथोक्तपणावित स्वर्णं तस्मै ददुः। ततश्च स प्रातस्तत्स्वर्णं द्यूते हारयित्वा पुनर्नक्तमेत्य तथैव हठद्यूतेन तस्मान्मातृगणात् अर्थमाजहार। इत्थंप्रत्यहं क्रियमाणे एकदा चामुण्डा देवी, ताः खिन्नमानता मातॄर्जगाद मातरः! द्यूते इय शैली अस्ति, यथा यः समाहूत त्रत्य इतो द्यूतात्निर्गताऽहमिति ब्रवीति सः अनाक्षेप्य इति, तस्मात्आह्वायमानं तं तदेवोक्ता निरस्यत इति चामुण्डायोक्तास्ता देव्यश्वेतमि तद् व्यधुः। अथ निशि प्राप्तं देवने कृताह्नान तं कितवम्, इतोद्यूतात् निर्गताः स्म इति सर्वा देवताः प्रत्यवदन्। इत्थंताभिर्निराकृतः स रिङ्गाकरालः तत्प्रभु तं महाकाल विभुमाह्वयते स्म।सोऽपि भगवान्दुरोदरे लब्धावकाशं तं मत्वा निर्गतोऽहं द्यूतादिति प्रत्यब्रवीत्। सखे! अक्षीणभोगात् विषमात् दुष्टमायीर्जितात दुर्जनात् वत देवा अपि अशक्ता बिभ्यति। इत्थं दुरोदरावारमग्नकैतवयुक्तिना तेन रिङ्गाकरालेन खिन्नेन एवमचिन्त्यत अहो द्यूतस्थितिः देवैरपि शिक्षित्वा निराकृतोऽम्मि, तदेतमेव देवेशं शम्भुं शरणं व्रजामि, इति मनसि सङ्कल्पा पादयोः देवस्य परिगृह्यस्तुवन् तं महा-

कालं व्यजिज्ञपत्, देव! देव्या द्यूतजितेषु इन्दुवृषभकुञ्जरचर्मसु जानुन्यस्तकपोलं ते नग्नाङ्गमासितं नौमि। यस्यइच्छामात्रेण सुरास्तास्ता विभूतीर्दधति, यः निरीहः केवलं जटाभस्मकपालपरिग्रहः, स त्वम् अद्य मन्दपुण्ये मयि कथं सलोभः जातः? यदल्पस्य हेतोर्मामेवं वञ्चयितुमोहसे? कल्पवृक्षोऽपि अधन्यानामाशां न पूरयति खलु, भैरव! भृतविश्वोऽपि मां न विभर्षि? नाथ! प्रपन्नस्य कष्टव्यसनाविष्टचेतसो मे व्यतिक्रममपि क्षन्तुमर्हसि। भगवन्! त्वं तावत् त्रवक्षःअहमपि तादृक् तवाङ्गे भस्म, ममापि तत् त्वं कपाले पथि भुङ्क्षे, अहमपि तथा तन्मां दयस्व, आपन्नं मां समुद्धर इत्येवं यावत् स कितवस्तं देवं शम्भुमस्तौत् तावत् स देवः परितुष्य साक्षात्, तमुवाच वत्स ! तुष्टोऽस्मि ते, मा तावदधृतिं कृथाः, अहं ते भोगान्दास्यामि त्वमिहैव मदन्तिके आस्व।इति देवादेशात्स कितवस्तस्मिन्नेव देवागारे तस्थौ,बुभुजे च तत्प्रसा दादुपनतान् भोगान्।

कदाचित् तत्र महाकालतीर्थे रजन्यां स्नातुमागता अप्सरसो दृष्ट्वा स देवस्तं व्यादिदेश आसां स्नातुं प्रवृत्तानां सर्वासां सुरयोषितां तीरन्यस्तानि वासांसि हृत्वा द्रुतमानय। यावदेताः तुभ्यं कलावतीं न दास्यन्ति, तावदासां वस्त्राणि मा मुचः। एवं भैरवेणादिष्टः स कितवः सत्वरं गत्वा तासाममराङ्गनानां स्त्रान्तीनां तानि वसनानि अपाहरत्। मुञ्च मुञ्च अम्बराणि, मा अस्मान्दिगम्बराः कार्षी, इति वादिनीस्ता हरदत्तप्रभावः प्रोवाच,

तरुण्यः,! यदि यूयं कलावतीं नाम कन्यकां प्रयच्छथ, तदाहं युष्माकं वसनानि विमोक्ष्यामि, नान्यथा। तदाकर्ण्य दुराधर्षं वचः, तच्च तादृशं दृष्ट्वा स्मृत्वा च कलावत्याः शक्रशापं, तास्तथैव प्रतिपेदिरे, ददुश्च तां कलावतीं तस्मै दत्तवाससे रिङ्गाकरालाय अलम्बुषासुतांयथाविधानम्।

अथ तासु अप्सरःसु यातासु असौ कितवस्तया कलावत्या सह देवस्य शम्भोरिच्छया निर्मितावासस्तस्थौ। कलावती च दिवा देवेन्द्रमुपस्थातुं त्रिदिवम् अगात्। रात्रौ तु तं पतिमुपाययौ। कदाचित् सा तं कितवं त्वं मे शक्रशापात् बल्लभोऽसि, इति प्रीत्याब्रवीत्। ततस्तेन कथं ते शक्रशाप इति सकौतुकं पृष्टा सा सुराङ्गना कलावती एवमवादीत्, कदाचिन्मया देवोद्याने सुरान् दृष्टिमात्रोपभोगान् निन्दन्त्या मर्त्यभोगाः प्रशंसिताः, तद्विदित्वा देवेन्द्रो मामशपत्, कलावति,! गच्छ मर्त्यलोकं, मर्त्येन केनचित् परिणीता मानुषान् भोगान् तेन सह भुक्त्वाविमोक्ष्यसे। तदेवमावयोः समागमो जातः। श्वश्च चिरात् स्वर्गं गमिष्यामि, तव अधृतिर्माभूत्। तत्र हि रम्भा हरेरग्रतः नवप्रयोगं नर्त्तिष्यति, तस्मिंश्चसमाप्ते मया तव श्रिये स्थातव्यम्। ततः स कितवः प्रेमदुर्ललितस्तामभ्यधात्, प्रिये! अहं तत् नृत्यं द्रक्ष्यामि, मामपि गुप्तं तत्र नय। एतदाकर्ण्य सा कलावती तं पतिमवादीत्, नाथ! कथमेतत् युज्यते? विदित्वा देवराट् जातु कुप्येत्। एवमुक्तोऽपि यदासौ निर्बन्धमकरोत्, तदा कलावती

स्नेहात् तं नेतुंप्रत्यपद्यत। प्रातश्चप्रभावेण तं कर्णोत्पलान्तरे कृत्वा सा तं कितवं सुरगजशोभितद्वारं नन्दनोद्यानमनोहरं महेन्द्रालयमनैषीत्। रिङ्गाकरालस्तदवलोक्य देवमानी तुतोष ददर्श च तत्र देवसदसि सुराङ्गनागौतमधुरं रम्मानृत्योत्सवम्। शुश्राव च नारदादिप्रणीतानि सर्वातोद्यानि। प्रसन्नेहि परमेश्वरे किमप्राप्यमस्ति? ततः प्रेक्षणकस्यान्ते तत्रोत्थाय दिव्यच्छागाकृतिर्भाण्डो नर्त्तितुमारब्धवान्। रिङ्गाकरालस्तदं दृष्ट्वा परिज्ञाय व्यचिन्तयत्, अहो एतंपशुमहमुज्जयिन्यामपश्यम्, इह चाद्य इन्द्रस्य पुरतः ईदृशो भाण्डनर्त्तकः दृश्यते, अतर्क्या हि दिव्यगतिर्विचित्रा। एवं चिन्तयतस्तस्य रिङ्गाकरालस्य सः छागभाण्डः नृत्यान्ते शक्रस्थानात् न्यवर्तत। ततः सा कलावतीं हृष्टा तं कर्णोत्पलसंश्रितं रिङ्गाकरालं स्वस्थानं तथैवानिनाय। ततः स कितवः तं कागाकृतिं नृत्यन्तं भाण्डं दृष्ट्वा हर्षात् देवभाण्डमभाषत, अरे! ममाग्रतो यथा देवराजस्याग्रतो नृत्यसि तथा नृत्य।अन्यथा ते न क्षमिष्ये, तन्मां नृत्यं दर्शय। तदाकर्ण्य विस्मितश्छागः कुतोऽयं मानुषोऽपि एक मां जानातीति चिन्तयन् तूष्णीमासीत्। यदा निर्बन्धेनोयमानोऽपि सः छागो न ननर्त, तदा स रिङ्गाकरालस्तंलगुड़ैर्मूर्द्ध्निअताड़यत्। ततः सः छागलः शक्रान्तिकं तत्सर्वं मनुष्यकृतं शिरस्ताड़नान्तंन्यवेदयत्। ततो देवराजः तदाकर्ण्य प्रणिधानेन बुबुधे कलावती रम्मानृत्यदर्शनाय रिङ्गाकरालं दिवमनैः षीत्, तेनचापराधिना छागनृत्यञ्च दृष्टमिति। ततः स

इन्द्रःकलावतींसमाहूय पुनः शशाप, नृत्यार्थमस्य छागस्य येनईदृशो अवस्था कृता, रागात् तं मानुवमिहानीतवत्यसि, तदिदानींतत् गच्छ, नागपुराख्ये पुरे नरसिंहस्य राज्ञः देवागारस्तम्भेशालभञ्जिका भव। इति शयन् शक्रः कलावत्या मात्रा अलम्बुषया कथमपि अनुनीतः एवं शापान्तमादिशत् यदा बहुभिञ्जैस्तद्देवसदनं भूमेः समं भविष्यति तदास्याः शापक्षय इति सा अलम्बुषा देवराजसकाशात् शापान्तमवेत्य साश्रुस्तस्यै कलावत्यै शशंस। सापि कलावती रिङ्गाकरालाय तदावेद्य स्वाभरणं दत्त्वा चतिरोभूयं नागपुरे देवागारं गत्वा स्तम्भागपुत्रिकां विवेश।

अथ स रिङ्गाकरालस्तद्वियोगेन विषादितः न किञ्चित् ददर्श, न शुश्राव, केवलं भुवि लुलोभ मुमूर्च्छ च। अहो !रहस्यं मत्वापि मूढ़ेन मया न विवेचितम्? अथवा निसर्गचपलानां मादृशां कुतः संयमः? तदिदानीं विषमोवियोगो मया प्राप्तः। इत्येवं लब्धसंज्ञः स कितवो बहुविललाप क्षणाच्चचिन्तयामास नायं मे वैक्लव्यस्य कालः। शापान्तहेतोः किं न यते, इत्यालोच्य विचार्य्य च स परिव्राड़्वेशं विधाय साक्षसूत्राजिनजटो अवधूतो नागपुरमभिप्रतस्थे। तस्माच्च पुराद् वहिः अटव्यां चतसृषु दिक्षुनिशि स्वैरं चतुरः महारत्नपूर्णान् कलशान् कुत्रचित्देवागाराग्रतः निचखान। इत्थं कृत्वा स कितव स्तत्र नद्यास्तीरे कृतोटजस्तस्थौ। क्रमेण च कृतकेनतपसा ध्यानेन जपेन च तिष्ठन् त्रिसवनं स्नानञ्च कुर्वन्ंभैक्ष्यंभुञ्जानः महातापसप्रथामवाप।

अथतत्र क्रमेण राज्ञःश्रुतिपथमायातो राज्ञा तेनाभ्यर्थितोऽपि तदन्तिकं नागात्। राजा तु तं महातापसंमन्यमानः स्वयमेव तत्सकाशमाययौ। कियन्तञ्च कालंविविधाभिः कथाभिस्तत्र स्थित्वा सायंतस्मिन् राज्ञि यियासति अकस्मात् विदूरगः शृगालः शब्दमकरोत्। तदाकर्ण्यतापसछद्म स कितवः प्राहसत् किमेतत्, कथं हमसीति राज्ञापृष्टश्चकिमनेन श्रुतेनेति तमभाषत।अथ तस्मिन् नृपे निर्बन्धेन पृच्छति समायी एवमुवाच राजन् ! नगरस्यास्य पूर्वतोऽटव्यां अतसीतले रत्नाभरणपूर्णः कलशोऽस्ति, तत् गृहाण इति रुतज्ञस्य मे जम्बूकेनोक्तम्।एवमुक्त्वाकौतुकाविष्ट नृपं तत्र नीत्वा स्वात्वाच तां भूमिम्, उद्धृत्य च तं कलशं तस्मै ददौ। ततः स राजा तमवलोक्य विम्मितः सञ्जातप्रत्ययश्च तं ज्ञानिनं सत्यवाचंनिस्पृहं तापसेममन्यत। ततः स्वाश्रम तमानीय मुहुस्तत् पादयोःनत्वाच सामात्यः सायं तद्गुणान् स्मरन्स्वमन्दिरमगत्। इत्थंक्रमेण स धूर्तः शृगालरुतमिषात्नृपं प्रलोभ्य अन्यान् त्रीन्कलसान् अन्याभ्यो दिग्भ्यःअलम्भयत। ततः स राजा मन्त्रिणः पौराश्च सर्वे तस्मिन्तापसे नितान्तभक्तासुविश्वस्ताश्च जग्मिरे। एकदा राज्ञादेवागारदर्शनाय नीयमानः स कुतापसः आपणे काकरुतमश्रौषीत्। तदाकर्ण्य स राजानमब्रवीत् राजन् !काकस्य वक्त्रतः श्रूयते, अत्रैवापणे देवागाराग्रतः भुविनिखात्रःसद्रत्नपूर्णःकलसोऽस्ति, कस्मात् स न परिगृह्यते?। एतत् काकेनोक्तं तदेहि तं गृहाण। इत्युक्ता

तत्र तं नीत्वा तां भूमिं खात्वा च तं रत्नकलसमुद्धृत्यतथैव राज्ञेप्रादात्। ततो राजा अतीव सन्तोषात् स्वयंतं कपटतापसं हस्तेन परिलम्ब्यदेवागारं प्रविवेश। तत्रप्रविश्य स तापसः स्तम्भे प्रियया कलावत्या अनुप्रविष्टांशालभञ्जिकां ददर्श। कलावती च सा शालभञ्जिकारूपधारिणी तं पतिं दृष्ट्वा दुःखिता तत्र रोदितुं प्रावर्त्तत। तदवलोक्य सानुगो राजा सविस्मयविषादः तंज्ञानिनं कूटतापसं भगवन्! किमिति पर्य्यपृच्छत्। ततोविषणः विभ्रान्त इव स धूर्त्तःजगाद राजन्! आगच्छ,प्रवाच्यमपि मया त्वदनुरोधात् वाच्यम्।इति उक्त्वासनृपं राजधानीं नीत्वा उवाच। राजन् ! अस्थानेकुमुहूर्त्ते च त्वया इदं देवागारं कृतं तृतीयेऽह्निते अहितं भविता तस्मात्त्वद्दर्शनात् एषा शालभञ्जिकारोदिति। तत् तव शरीरेण चेत् कृत्यं तदा इदं देवागारमुन्मूल्य द्रुतं स्थानान्तरे सुमुहूर्त्तेदेवागारं कुरुष्व। स्वराष्ट्रस्य शरीरस्य शिवं भवतु, अनिमित्तं शर्मं व्रजतु च।इति तेनोक्तो नृपः भयात् प्रजाः समाज्ञाप्य एकाहेनैवतद्देवगृहं भङ्क्त्वाभूमिसमं व्यधात्। प्रारभत च स्थानान्तरे देवकुलं कर्त्तुम्। अहो! विश्वास्य धूर्त्तेश्छद्मभिरीश्वरा अपि वञ्चयन्ते।

अथ स प्रव्राट् धूर्त्तः कृतकृत्यः ततः पलाय्य रिङ्गाकरालः उज्जयिनीं प्रामात्। कलावती च शापमुक्तामार्गे तं पतिं दृष्ट्वा समाश्वास्य च इन्द्रं द्रष्टुं दिवमगात्।इन्द्रोऽपि तां दृष्ट्वा विस्मितः तन्मुखात् तस्य द्यूतकरस्य

मायां विदित्वा जहास तुतोष च। ततः सिंहासनस्थंशक्रं बृहस्पतिरब्रवीत् दैवराज! कितवाईदृशा एव सदाविचित्ररूपा भवन्ति।

पूर्वं कस्मिश्चित् नगरे कुट्टनीकटको नाम कपटद्यूतकोविदः कितवः कश्चित् निवसति स्म। तं परलोकगतंधर्मराजः किलाब्रवीत् कितव ! तव स्वपातकैः कल्पं नरकवासो व्यवस्थितः, एकन्तु दिनं दानप्रभावात् तं इन्द्रत्वं,सिद्धान्तितञ्च यतः कदाचित् त्वया एकं सुवर्णं ब्रह्मविदेदत्तं, तत्कथय, पूर्वं त्वं नरकं भोक्तुमिच्छसि वा इन्द्रवमिति। तदाकर्ण्यं कितवोऽवादीत् धर्मराज। पूर्वमहमिन्द्रत्व भोक्तुमिच्छामि। ततः स धर्मराजेन दिविप्रहितः कितवः इह एकमिन्द्रमुत्थाप्य देवराज्ये अभ्यषिच्यत।स च कितवः प्राप्तसुरराज्यः सर्वान् देवान् आधिपत्यतः समादिशत् देवाः। यूयं सर्वान् मम सखीन् वेश्याश्चइहानाय्यसर्वतोर्थेषु सप्तद्वीपवर्त्तिषु दिव्येषु च स्नापयत, सर्वांश्च महीपतीमनुप्रविश्य मदर्थं अद्यैव महादानानि प्रयच्छत, विविधानि पुण्यानि समाचरत इति। एवमादिष्टाः सुरास्तथैव सर्वं चक्रुः। इत्थं स तैस्तैःपुण्यैः व्रतैर्महादानैश्च विधूतपापराशिः स्थिरामिन्द्रतामवाप।तद्वयस्या वेश्याश्चतेनानायिताः तत्प्रसादात् अमरत्वमवापुः।

अथद्वितीयेऽह्नि स्वबुद्धिकौशलेन स्थिरप्राप्तदेवराज्यंतं चित्रसुप्तः धर्मराजाय शशंस। तच्च श्रुत्वाधर्मराजअहो ! यत द्यूतकृता, वञ्चिताः स्म इति ब्रुवन्विसिस्मियै!

महेन्द्र। ईदृशाः कितवा इति समाख्याय गुरौ विरतेइन्द्रः तं रिङ्गाकरालं द्रष्टुं कलावत्या द्यामनैषीत्।तत्र तस्यबुद्धिधैर्य्याभ्यां तुष्टः सम्भाव्य च तस्मै कलावतीं दत्त्वातमात्मनः पार्श्वस्थमकरोत्। स च रिङ्गाकरालस्तयाकलावत्या सह दिवमधिष्ठाय सुखमवसत्। तदीदृशी द्यूतकाराणां मायासाहसयोर्विचित्रा गतिः।

तस्मात् सखे अग्निशिख। कितवेन डागिनेयेन माययाभवान् यत् कूपे निक्षिप्तःनैतत् चित्रम्। इति ताभ्यांब्रह्मरक्षोभ्यामभिहितस्तस्मात् कूपात् कथञ्चित् निर्गत्य वाराणसीमगाम्। तत्र च भ्रमन् क्षुधार्त्तः कमपि पथिकं द्विजं दृष्ट्वा धावित्वा च यावत् जिघत्सया गृह्णामि, तावत्स श्रीमन्तं देवं विक्रमादित्यमाक्रन्दति स्म। श्रुत्वैव च तरुदितं स राजा कुतोऽपि निर्गत्य ज्वलनसन्निभः आःपाप ! मा बधीर्विप्रमित्युच्चैराह स्म प्रावर्त्तत च धृत्वा मां शिरश्छेत्तुम्। ततो मां पादपतितं दृष्ट्वा करुणयामुमोच तञ्चद्विजं समाश्वास्य विससर्ज। ततः प्रभृति अहं तदाज्ञाधीन एव विचरामि। किं बहुनोक्तन, एवं प्रभावोऽसी देवोविक्रमादित्यः। तदाज्ञया हतश्चायं भण्डकापालिकोमया, तदेतत् भक्ष्यंमे, किमत्र त्वयात्माक्लिश्यते? एवमुक्तोऽपि स यमशिखः तमाक्षिपन् दर्पात् यदा तत् कापालिककलेवरं पाणिना आकर्षति स्म तदासौ विक्रमादित्यआत्मानं प्रकाश्य तमाक्रुश्य भूमौ पुरुषमालिख्य असिनातत्पाणिं चिच्छेद। तस्मिंश्च पाणौ छिन्ने स यमशिखःतत्कुणपं त्यक्त्वा भयात् पलाय्यप्राणानरक्षीत्। अग्नि-

शिखः तत्प्रसादेन तत्कलेवरं सुखमभक्षयत्। ततोऽहंनिर्भया तस्य राज्ञः प्रभावेण तत् सर्वमपश्यम्। देव !त्वत्प्रभावं एवमाख्याय सा यक्षबधूर्मदनमञ्जरी पुनरवदत्अनङ्गदेव! ततोऽसौ राजा मधुरया वाचा।मामिदमभाषत भद्रे ! साम्प्रतं कापालिकात् मुक्तासि, भर्तृगृहं गच्छइति। अहञ्च तं भूपं प्रणम्य तस्यप्रत्युपकारं चिन्तयन्तीस्वं गृहमायाता। इत्थं तेन महात्मना मम प्राणाःकुलंभर्ता च रक्षिताः। अद्य तु मया ज्ञातं यत् तस्य राज्ञः कृतेसिंहलेश्वरेण त्रैलोक्यसुन्दरी स्वयंवरा तनया प्रेषिता, तंविक्रमशक्तिं भव

#सामन्तं हत्वा तां हर्त्तुसमत्सरैः सम्भूयविपक्षैर्मतिः कृता इति। तस्मात् शीघ्रं गत्वा एतत् विक्रमशक्तेर्विदितं कुरु। येन सः अवहितः तेषां प्रतीकारेतिष्ठति, अहञ्च यत्नं करिष्यामि, यथा स विक्रमादित्यस्तानरीन् हत्वा विजयमाप्स्यति। एतदर्थं मया त्वं निजमायया इहानीतः येन ससामन्तस्य तस्य राज्ञः सर्वमेतत्वदिष्यसि यदि लेशतोऽपि त्वत्प्रभोरुपकारस्य निष्कृतिंकर्त्तुं शक्नुयामिति।

देव ! एवं वदन्त्यां तस्यां ते कन्यके सहसागते, ये पूर्वमावाभ्यां मृगेण क्रीडन्त्यौदृष्टे। तयोश्च निषस्मयोरहं तांयक्षीमपृच्छं देवि ! कन्यके इमे के? सौवर्णोऽयं मृगश्चकः?ततः सा यक्षिणी विहस्य मामभाषत अनङ्गदेव ! यदि तेकौतुकं तदाकर्णय। पुरा किल द्वावसुरौ वीरौ चण्डनिचण्डनामानौ दुर्जयौ प्रजापतेः प्रजासर्गविघाताय अतीव उपद्रवमारभते। ततस्तद्दर्शनजातरोषो विधाता तयो

र्विनाशकम इमे कन्यके जगदुम्मादमरूपशोभिते विनिर्मने। दृष्ट्वैव तौ इमे कन्ये अद्भुते हर्त्तुमुद्येतौ परस्परमीर्ष्यया बाहुयुद्धेन निधनं गतौ ततो ब्रह्मा धनाध्यक्षायत्वया योग्याय कस्मैचित् इमे दातव्ये इति उपदिश्यसमर्पयत्। धनदोऽपि मद्भर्त्ते मम पतिरपि मह्यंतथैवसमर्पयत्। मया च श्रीविक्रमादित्य एव अनयोर्वरश्चिन्तितः, यतोऽसौ देवावतारः उचितश्चानयोरिति। तदेवंकन्यके इमे श्रुते, साम्प्रतं मृगस्य आख्यानं शृणु।

अस्ति शचीपतेर्जयन्तो नाम प्रियस्तनयः। स कदाचित् शिशुर्विमानेन सुराङ्गनाभिः विहरन् भुवि मृगपोतकैः क्रीड़तो राजपुत्रानद्राक्षीत्। ततः स शैशवात्क्रीड़ा-मृगशिशोरर्थे एकाकी पितरं उपेत्य प्रारोदीत्।तत्पिता च शतक्रतुः तदर्थं विश्वकर्मणा हेमरत्नमयसजीवं मृगमकारयत्।ततः स जयन्तस्तेन मृगेणचिक्रीड़ ननन्द च। स च हरिणशिशुर्नाके विहरन् तस्थौ।

अथ कालेन इन्द्रजिता रावणसूनुना दिवं पराजित्यस मृगःअपहृत्य लङ्कां नीतः। कियता च कालेनसीताहरणमन्युना प्रदीप्ताभ्यां वीराभ्यां रामलक्ष्मणाभ्यांतयोः रावणेन्द्रजितोर्हतयोः लङ्कायामभिषिक्तस्य राक्षसेन्द्रन्द्रस्य विभीषणस्य मन्दिरे सोऽयमद्भुतो हेमरत्नमयोमृगोऽष्ठित्। विभीषणश्च कदाचित् भर्तृबाल्लभ्यात् उत्सवेगृहान् नीतायै मह्यं सम्मानयन् मृगममुमुपहारमदात्।सोऽयं दिव्योमृगशिशुरिदानीं मद्गृहे वर्त्तते। मया चत्वत्प्रभोरेवायमुपायनार्थमभिलषितः। इत्येवं यावत् सा

यक्षिणी मेकथां कथयति, तावत् कमलिनीकान्त्री भानुमानस्तमगात्। ततस्तया समादिष्टोऽहं सन्ध्याविधेरनन्तरं तस्या एव धाम्निअनेन सिंहलेश्वरदूतेन सह शयितोऽध्यतिष्ठम्। प्रातश्चप्रबुद्धौ आवां यावत् पश्याव तावत् तांविक्रमशक्तेस्तव सामन्तस्य अनीकिनीं प्राप्तमात्मानं दृष्टवन्तौ। ततः तस्या यक्षिण्यास्त्वत् प्रभावाख्यानं विचिन्त्यविक्रमशक्तेः पार्श्वं सविस्मयौ आगच्छाव।स च मांदृष्ट्रैव कुशलं पृष्ट्वा च यावत् सिंहलेश्वरसन्देशं श्रोतुमिच्छति, तावत् ते यक्षिणीप्रेषितेदिव्यकन्यके मृगपोतश्चसपरिच्छदाः सयक्षबलाः सम्प्राप्ताः। तान् दृष्ट्वा दुष्टभूतादि मायाशङ्की स विक्रमशक्तिः संशयात् किमेतदिति मां पृष्टवान्।ततोऽहं आमूलतः सर्व यक्षिणीवृत्तान्तमवर्णयम्। तच्च यक्षीमुखात् श्रुतं विपक्षीयनृपाणांसम्भूय चेष्टितं सर्वमवोचम्। ततः स ते उभे दिव्यकन्यकेसम्मान्य प्रहृष्टः संग्रामसज्जामकरोत्। देव ! क्षणेन च सैन्यतृर्य्यमहारवोऽश्रावि। अदर्शि च सम्लेच्छं महत् प्रतिराजबलम्। ततश्चास्मात् सैन्यशत्रुसेन्ययोः अन्योन्यदर्शनक्रोधादभिधावितयोस्तुमुलः संग्रामः प्रावर्त्तत। ततो यक्षोनिसृष्टैस्तैर्यक्षबलैरन्यैश्चअस्मदीयबलैस्तदरिसैन्यंव्यहन्यत। सैन्यानां रेणुनिवहैराकीर्णं खङ्गधारानिरन्तरंसशूरगर्जितं घोरं रणदुर्दिनमुदगात्। अस्माकं विजयलक्ष्मीदेन उच्छलद्भिर्निपतद्भिर्द्विषतां शिरोभिः कन्दुकैरिव क्रीड़न्ती व्यशोभत। क्षणेन च ते राजानः हतशेषा भग्नसैनिकास्त्वत्सामन्तस्य विक्रमशक्तेरेव कटकं

शरणंगताः प्रणत्नाअभूवन्। सर्वभूमीपते ! इत्थंत्वयासद्वीपासु सर्वासु दिक्षु विजितासु म्लेच्छेषु च उत्सादितेषुसा यक्षिणी स्वेन भर्त्तासहिता प्रकटीभूय तं विक्रमशक्तिंमाञ्च वदति स्म। मया यदेतत् भवत्प्रभोः सेवामात्रं विहितं तदावेद्य स वीरो मद्वचसा विज्ञाप्यः। त्वया एतेदेवनिर्मिते कन्यके परिपेतव्ये अयञ्च मृगः प्रसादेन लालनीयः। मदीयञ्चैतत् प्राभृतमिति रत्नसञ्चयं दत्त्वा सायक्षिणी स्वेन भर्त्रासह सपरिवारा तिरोऽभूत्। अन्येद्युश्च सा सिंहलेश्वरसुता मदलेखा भूयसा परिवारेण विभवेनच सह आगात्। ततस्तेन विक्रमशक्तिना प्रहर्षात् प्रत्युद्गम्य प्रणतेन सा स्वटकं प्रावेश्यत ततो द्वितीयेऽह्नि तां तेच उभे कन्यके तञ्च हेमरत्नमयं मृगं त्रिजमन्नेचकौतुकं गृहीत्वा सिद्धकार्य्यःस विक्रमशक्तिः देवपाददिदृक्षयाइहागन्तुं राजभिः सह प्रचलितः। स च सामन्तः इहनिकटं प्राप्तो वर्त्तते। देवस्य आवेदनार्थं आवां प्राक्प्रेषितौ।तद् देव ! सिंहलेन्द्रस्य तस्या यक्षिण्याश्चानुरोधात् तान् कन्याहरिणान् नृपांश्चान्यान् देवः प्रत्युदयातु। इति तेनानङ्गदेवेनोक्तः नृपितिर्विक्रमादित्यः तत् यक्षिणीरक्षणं दुःसाहममपि कृतं स्मरन् तत्प्रत्युपक्रियां श्रुत्वा वह्वेतत्इति लज्जामवाप महाशया हि बहु कृत्वापि स्वल्पमेवमन्यन्ते। दृष्टश्चसिंहलाधीशदूतयुक्तं तमनङ्गदेवं हस्त्यश्वरत्नजातैःपुरस्कारैरपूरयत्।

अथ तं दिनं नीत्वा तस्याः सिंहलेश्वरदुहितुस्तयोश्चप्रजापति कन्यकयोः प्रत्युद्गमनाय महीपतिः सैन्यर्गजा-

श्ववाहनैः सह उज्जयिन्याः समुच्चचाल। प्रापं च विक्रमशक्त्यधिष्ठितं तद्वलम्।

_______

अथ द्वाविंशत्यधिकशततमस्तरङ्गः।

ततः स विक्रमादित्यः स्वसेनान्या विक्रमशक्तिनाधिष्ठितं जयसैन्यमवाप्य अग्रागतेन तेन प्रणतेन सराजकेनसहितः सबलस्तत् प्रविवेश। ततः प्रतीहारिणा आस्थानेअयं गौड़ःशक्तिकुमार, अयं कर्णाटो जयध्वजः, अयं लाटोविजयवर्मा, अयं काश्मीरः सुन्दरः, अयं सिन्धुराजोगोपालः, अयं विन्ध्यबलो भिल्लराजः, अयं पारसीकाधिनाथो निर्मूकः, प्रणमति, इति निवेदितान् ससामन्तान्सैनिकान् स सम्राट् सम्मानयामास।ततः स नृपतिः विक्रमशक्ति पुरस्कृतां सिंहलेन्द्रसुतां ते च दिव्यकन्यके तञ्चहेमरत्नमयं मृगं यथार्हमभ्यनन्दयत्। ततश्चान्येद्युः तैः सहसानुगः राजा विक्रमादित्यः पुरीमुज्जयिनीं प्रत्याजगाम।

अथ राजसु ससम्मानं विसृष्टेषु स्वदेशान्, जगदानन्दिनि च वसन्तोदारसमये प्राप्ते, लतासु च पुष्पाभरणैर्मण्डलमिव कुर्वतीषु भृङ्गीषु च सुललितध्वनिषु सङ्गीतंतन्वतीष्विव मरुदाश्लिष्टासु नृत्यन्तीष्विव वनराजिषु,पिकेषु च कलरवेषु मङ्गलानि पठत्स्विव, स विक्रमादित्यःशुभेऽहनि तां सिंहलेश्वरकन्यां ते च दिव्यकन्यके परि-

णिन्ये। सिंहलेश्वरकन्याया ज्येष्ठो भ्राता सहागतः सिंहवर्मा तस्यां विवाहवेद्यां महान्तं रत्नसञ्चयमदात्। सा च यक्षिणी मदनमञ्जरी तत्क्षणमागत्य तयोर्दिव्यकन्ययोरसंख्यान् रत्नराशीन् ददौ। देव ! अहं त्वत्सुकृतस्य आनृण्यं गन्तुंकिं शक्ता? एतच्च शक्तिंदर्शयितुं न मयाकिञ्चित् कृतं तदनयोः कन्यकयोः अस्य च हरिणस्य त्वयाप्रसादः कार्य्य इति उक्त्वातेन राज्ञा पूजिता च तिरोऽभूत्। ततः स राजा ता भार्य्यास्ताञ्च सप्तद्वीपां महीं प्राप्यअकण्टकं राज्य शशास। सुस्वितश्चतदा वसन्ते उद्यानभूमिषु, ग्रीष्मेसरसां जलेषु धारायन्त्रगृहेषु च, वर्षासुउद्यन्मृदङ्गरवहारिषु अन्तः पुरेषु शरदि हृदयानन्ददायिषु शीतांशुधौतेषु कालागुरुमुगन्धिषु हर्म्येषु हेमन्त शिशिरेच वासवेश्मसु हिमनिर्मुक्तषु विहरन् कालमतिवाहयाञ्चकार। तस्येदृशस्य राज्ञः कालेन नगरस्वामि नामाएकश्चित्रकरो विश्वासभूमि रासीत्।

स तु त्रयहेणद्व्यहेन चएकैकां पुत्रिकां अङ्कयित्वाराज्ञेप्राभृतं ददौ। एकदा उत्सववशस्त् लिखितामपिपुत्रिकां विस्मृत्य स चित्रकरः राजसकाश मगत्वायावत् समाकुल आस्ते, तावत् दूरादागतः कोऽपि पान्थोऽकस्मात्त माजगाम। तस्य च करस्थिता मेकां पुस्तिकांदृष्ट्वा स चित्रकरः यावत् कौतुकात् तां समुदघाटयति,तावत् तत्र चित्रस्थितां पुत्रिकामद्भुतरूपां दृष्ट्वैव नीत्वाराज्ञेप्राभृतं ददौ। नृपतिस्तान्तु दृष्ट्वैव साश्चर्य्य मगादीतु भद्र ! जेयं तव निर्मिता, प्रत्युत विश्वकर्मणेयं चित्रिता ।

मानुषो हि कुत एवं रूपं लिखितुं पारयति? तदाकर्ण्यंचित्रकत् यथातत्त्वं राज्ञेन्यवेदयत्। ततः स राजा अनन्यदृष्ट्या तां पुत्रिकामपश्यत्। अपश्यच्च स्वप्ने तद्रूपांकामपि कन्यकां द्वीपान्तरे। यावत् स नृपः तया समुत्सुकया समुसुकः स्वप्ने सङ्गमं भजते, तावत् निशाक्षय यामिकेन स प्रबोधितः समभवत्। ततश्च राजा प्रबुद्धः तत्स्वप्नसमागमसुखभङ्गात् जातक्रोधो यामिकं तं नगर्य्या निरकाशयत्। क्वचासौ पान्थः, पुस्तिका च तस्य क्व? चित्रपुत्रिकावेयं क्व? सजीवायाश्चास्याः स्वप्ने दर्शनं क्व तदेवादेवमाया सा कन्यास्तीति मां ज्ञापयति न चाहंतत् द्वीपंजानामि, तत् कथं नु तां प्राप्नोमि? इत्येवं चिन्तयन् सराजा सर्वत्रारतिमान् केवलं स्मरज्वरेण भृशमनवरतंजज्वाल।अथ स ससन्तापः भद्रायुधेन प्रतीहारेण कारणंपरिपृष्टो रहसि तं जगाद सखे। शृणु वच्मि ते रहस्यं त्वं हि मे रहस्यविद् विश्रम्भभूमिश्च। त्वया सम्यगुपलक्षितं, यासौ चित्रपुत्तलिका तेन चित्रकरण मे दत्ता तामद्भुतरूपां चिन्तयन्रहं सुप्तःस्वप्ने दृष्टवानस्मि, यया वारिधिमुक्षीर्य्य अतिसुन्दरं नगरमेकं प्राप्य प्रविष्टोऽस्मि। तत्रप्रविष्टश्चवह्नीः सायुधाः कन्यकाः मया दृष्टाः। ताश्च मां दृष्ट्वा जहि जहि इति उच्चैःकलरवमकुर्वन्। ततः ससम्भ्रमा कापि तापसी मामेत्य निजं गेहं प्रवेश्य च सदयाप्राब्रवीत् पुत्र ! पुरुषद्वेषिणीयं राजपुत्री मलयवती नामयदृच्छया विहरन्ती इतः प्राप्ता। असौ दृष्टमात्रं हि पुरुषंकन्याभिर्घातयति। तत्तवरक्षार्थं त्वं मया गृहं प्रवे-

शितः। इत्युक्त्वासा तापसी मां सद्यः स्त्रीवेशं व्यधात्।मयापि तास्ताः कन्यका अबध्या इति तत् विसोढ़म्। यावच्च तत्रैव प्रविष्टां तां सकन्यां राजपुत्रीं पश्यामि, तावत् सैव चित्रस्था इयमिति व्यचिन्तयं धन्योऽहं यत् चित्रलिखितामिमां दृष्ट्वा पुनश्च साक्षात् प्राणसमां पश्यामीति।सा च राजपुत्री तावत् तां तापसीं कन्यावेशेन मयासहितां दृष्ट्वा, दृष्टोऽस्माभिः प्रविष्टः कश्चिदत्र पुमानित्यपृच्छत्। सापि तापसो मां प्रदर्श्य कुतः पुमान् ? प्राधुणिका मे स्वसुः सुतेयं स्थिता इति प्रत्यवादीत्। ततः साराजपुत्री स्त्रीरूपमपि मां वीक्ष्य पुरुषद्वेषं विस्मृत्य सद्यः स्मरणरजर्जरिताभवत्। तदानींलब्धच्छिद्रेण कामेनशरैः सर्वेष्वङ्गेषु कीलितेव किमपि चिन्तयन्तो विह्वला कण्टकितसर्वशरीरासीत्। क्षणेन च सा राजकन्यका व्याजहार भद्रे ! यदीयं ते स्वसृसुता, तदा ममापि एषाकिं न प्राधुणिका? तदागच्छतु मद्गृहं अर्च्चितामिमांप्रेषयिष्यामि। इत्युक्त्वा सा मां पाणौ आदाय स्वं मन्दिरमनैषीत्। अहञ्च लब्धावकाशस्तया सह वृद्धतापस्यानुमतस्तत्रागाम्। ततोऽहं तत्र ताभिः कन्यकाभिरन्योन्यविवाहादिविनीदनैःक्रीड़न्त्या तया मह सुखमवात्मम्। सातु मद्गतेक्षणा क्षणात् मां पार्श्वात् न चामुचत्। यत्रनाहं, तत्र सा काश्चन क्रिया नारोचत।

अथ ताः कन्यकास्तां राजपुत्रींबधूं माञ्च वरं विधायविवाहमावयोर्व्यधुः। आवाञ्च कृतोद्वाहौनिशि वामकं प्रविष्टौ। सा तु राजसुता विशङ्कामां तत्र कण्ठे सम-

ग्रहीत्। मया तु तत्कालमात्मानं प्रकाश्य सा भृंशमालिङ्गिता। तदा च सा सिद्धमनोरथा मां दृष्ट्वा लज्जाबनता क्षणं तस्थौ। अथ यावदेतां गतत्रपां सुरतार्थं प्रवर्त्तयामि, तावदहं दुरात्मना यामिकेन प्रबोधितोऽस्मि।तदिदानीं भद्रायुध ! चित्रे स्वप्ने च दृष्टया तया मलयवत्या विना नाहं जीवितुमुत्सहे। इत्युक्तवन्तंराजानं सत्यस्वप्नमवेत्य स भद्रायुधः प्रतीहारः तमाश्वास्य एवमभाषत देव! यदि कृत्स्नंस्मर्य्यतेतदा सम्यक्वृत्तान्तोदेवेन पटे लिख्यताम्। अत्र तावदुपायो मया निरूप्यते।इति भद्रायुधेनोक्ते स राजा सर्वं तद्वृत्तान्तंपटे लिखतिस्म। स च प्रतीहारस्तं चित्रपटमादाय नवं मठं कारयित्वा तत्र भूमो तं चित्रमलम्बयत्। अकारयच्च तत्र मठेदूरदेशागतानामागन्तूनां वन्दिनां षड्समाहार वस्त्रालङ्कारदानञ्च। यश्चित्रस्थमिदं पुरं वेत्ति, स सपदि यदि तदावेदयति तदासौ विशेषेण पुरस्कार्य्य इति मठवर्त्तिनांसर्वेषां घोषणामदञ्च।

इत्थंनिदाघवरे मल्लिकामोदवासिते छायानिषणपान्थजनमनोरमे समतिक्रान्ते अम्भोदश्यामो गुरुगम्भीरगर्जितः केतकोद्दामदशमः प्रावृट्कालमहाद्विपः प्रादुरासीत्। तस्मिंश्च काले तस्य विक्रमादित्यस्य नृपतेर्विरहाग्निःपौरस्त्यपवनेद्वइव वृद्धिमगात्। तत्कालञ्च वाराङ्गनानामेवंवाचः शश्रुविरे हारलते! इमं हारं देहि,आलि ! चन्दनैः सिञ्च, पत्रलेखे ! पद्मिनीपत्रैः शिशिरंशयनं विरचय, कन्दपसेने ! कदलीदलैःसञ्चालय मारु-

तमिति। क्रमेण च विद्युद्विषमो घनागमः शशाम, नपुनस्तस्य राज्ञो विरहज्वालो मदनज्वरः। ततश्च क्रमेणफुल्लाम्बुजमुखी सकाशकुसुमस्मिता शरत् कलहंसरुतैः पथिस्थितानां दूरवर्त्तिनां पान्थानां प्रतिनिवृत्त्यर्थं प्रियाःप्रियसमागमाय घुष्यन्तामिति समादिशन्तीव समागात्।

एतस्याञ्चशरदि एकदा दूरागतः कश्चित् वन्दी सम्बरसिद्धिर्नाम तत्र प्रतीहारकारिते मठे भोजनार्थी एकाकीसमायात्। स च सम्बरसिद्धिस्तत्र मठे कृतभोजनः गृहीतवसनयुगलः भित्तौ तं चित्रपटंव्यलोकयत्।तत्र चित्रस्थं तत्तत् नगरं विभाव्य सविस्मयः स जगाद अहो। केनेदमालिखितं पुरम्? येनेदं लिखितं, दृष्टं तेनैव, नापरेण केनचित् इदं लिखितमिति। तदाकर्ण्य मठाधिकारिण तत् भद्रायुधस्य निवेदितम्। तेन च श्रुत्वा स्वयमभ्येत्य स वन्दी राजान्तिकं नीतः राज्ञा च किं त्वयानगरमिदं दृष्टमिति पृष्टः स सम्बरसिद्धिरवादीत् प्रभो !दृष्टं मया तत् मलयपुरं नाम महापुरं भुवं भ्रमता वारिधिमुत्तीर्य्यद्वीपमध्यगतम्। तत्र च नगरे मलयसिंहोनाम नरपतिरस्ति। तस्य च मलयवतीनाम निरुपमासुता वर्त्तते। सा तु पुरुषद्वेषिणौ कदाचित् स्वप्ने विहारनिर्गतं कमपि महापुरुषमैक्षत। तेन चालोकितमात्रेण तस्या स पुरुषद्वेषदुर्ग्रहःसमय इवतत्क्षणात् मनसो निरगात्। ततः सा स्वप्ने स्वभवनं नीत्वातेन च विवाहं विधाय वासवेश्म प्रविवेश।यावच्चतत्र तेन सुरतोत्सवं सेवते, तावत् सहसा निशाक्षयात्

प्राबुध्यत। ततः सा तं प्रियतमं स्मरन्ती विरहाग्निनाज्वलन्तीकामपि यतिमदृष्ट्वा शयने एव स्रस्ताङ्गी परंन्यपतत्, मूकेव, भूताविष्टेव, वाताभिभूतेव पृच्छतः कस्यापि परिजनस्य नोत्तरं किञ्चिदपि ददौ। ततः पित्रामात्रा च निर्बन्धतः पृष्टा अतिकृच्छ्रतः सखीमुखेन स्ववृत्तान्तं शशंस। ततः सा कृताश्वासाप्रतिज्ञामकरोत्यदि षड्भिर्मासैस्तं नाप्नोमि, तदा अग्निं विशामीति। तदिदानीं पञ्च मासा गताः, साम्प्रतं किमस्या भावि केनज्ञायते? इत्थं वृत्तान्तस्तत्र पुरे मया परिज्ञातः। इत्थंतेन सम्बरसिद्धिना संवादमुक्ते ज्ञातार्थनिश्चयं हृष्टं राजानं भद्रायुधोऽभ्यधात् प्रभो ! सिद्धंकार्य्यं स देशो हिसनृपः प्रभोरधीनः। तत्तत्र गम्यतां यावत् षष्ठो मासोनात्येति। इति तेनाभिहिते स राजा तं सम्बरसिद्धिंभूरिणा धनेनार्च्चयित्वा अग्रेकृत्य च रविरश्मिषु सन्तापंघनेषु पाण्डुतां सरित्तोयेषु च कार्श्यंविन्यस्य निजं, निरातङ्कः तदैव महता सैन्येन वृतः दयितां प्रति समुत्सुकःप्रतस्थे। क्रमेण च गत्वा तीर्णसानरः यावत् तत्पुरंप्राप्नोति, तावत् तत्रागतः कोलाहलाकुलंजनमद्राक्षीत्।एषा मलयवतीषण्मासावधिकायां प्रतिज्ञायां पूर्णायामप्राप्तदयिता अद्य राजसुता वह्निं प्रवेक्ष्यतीति तत्रत्यात् जनात् पृष्टात् अश्रौषीत्। उपागाच्च तं देशं यत्र तयाचिता रचिता। तद्दर्शनादपसृते जने सा राजपुत्री सहसातं नृपमागतं दृष्ट्वा, सोऽयं मे प्राणेश्वरः स्वप्नपरिणेता प्राप्तः,तत् शीघ्रंतातस्याख्याहीति सखीराह स्म। ततश्च ताभि-

र्गत्वा तथोक्तेसोऽस्याः पिता भूपतिः सञ्जातहर्षः गतपरितापश्च सविनयं तं विक्रमादित्यमभ्यगात्। तत् कालञ्च तेन सम्बरसिद्धिना अवसरज्ञेन वन्दिना उत्क्षिप्यभुजौ अपठ्यत जय निजतेजसा प्रदग्धम्लेच्छगण ! जय देवसप्तसागरसीममहोमानिनीनाथ ! जय विजितसकलपार्थिवविततशिरोविधृतातिगुर्वाज्ञ ! जय कृपानिधे !वीर विक्रमादित्य इति।इत्थं तेन स्तुते वन्दिना, सराजा मलयसिंहस्तमागतं विक्रमादित्य बुद्ध्वापादयोरग्रहीत्। विवेश च कृतातिथ्यस्तेन सह स्वमन्दिरम्। अथस राजा शुभेऽहनि तस्मै भूभुजे विक्रमादित्याय तां मृत्युमुक्तां ददौ मेने च आत्मानं कृतार्थम्। विक्रमादित्यश्च यथा स्वप्ने तथा चित्रे तथैव साक्षात् तां प्रियां मलयवतींप्राप्तामालक्ष्य तदद्भुतं शैलसुताकान्तप्रसादकल्पलतायाःफलममन्यत। अथ स विक्रमादित्यः तां बधूं मलयवतींपरां निर्वृतिभिवासाद्य वारिराशिंसमुत्तीर्य्य च सोत्कलिकंसुचिरविरहमिव, तैस्तैः प्राभृतपाणिभिर्भूभृद्भिः प्रणम्यमानः स्वां नगरीमुज्जयिनीं प्रत्याजगाम। तञ्च तस्य प्रभावमालक्ष्य को न विसिम्मिये को न प्रजहर्ष, कश्चवा महोत्सवं न चकार।

_________

अथ त्रयोविंशत्यधिकशततमस्तरङ्गः।
<MISSING_FIG href="../books_images/U-IMG-172269202842.jpg"/>

अथास्य विक्रमादित्यस्य कथान्तरे राज्ञीकलिङ्गसेनासपत्नीरेवमभ्यधात्। राज्ञाऽनेन मलयवत्यर्थे यत्कृतं नतदद्भुतं, सदायं देवः भुवि विषमशील इति प्रथितः।अहं किममुना बलादवस्कन्द्य न परिणीता मद्रूपांपुत्रिकांदृष्ट्वा अनङ्गवश्यतां गतेन?। एतन्निमित्तं कार्पटिकेन याया कथा दिवसे तस्मिन् ममाख्यता तां वः कथयामि निशम्यताम्।

कथमहमविधिना राज्ञा परिणीतास्मीति दुःखितांमामेत्य स हि कार्पटिकः समाश्वास्य एवमब्रवीत् देवि !मा स्म मन्युं कृथाः परेण प्रेम्णा परिणीतासि संरम्भात्तदत्र कथां शृणु। अहं कार्पटिको भूत्वा प्रभोः सेवांकुर्वन् अटव्यांदूरात् एकदा महान्तमेकं दंष्ट्राविसङ्कटमुखंतमालश्यामकान्तिं शशिकलां खादन्तंरूपिणं कृष्णपक्षमिव क्रोड़मपश्यम्। ततः मया सत्यवाचा तथैवेत्य अभिहितः राजासौ समाकृष्टशरासनः सपदि मृगयायां निरगात्। प्राप्य च मृगवनं व्याघ्रान् मृगांश्चघ्नन्तं तमहमावेद्य अमुंवराहं प्रादर्शयम्। स च राजा तमद्भुताकारंशूकरं मत्वा रत्नाकराख्यमुच्चैःश्रवसः सुतमश्वमारुरोह।मध्याह्ने हि भानुर्मुहूर्त्तं व्योम्नितिष्ठति, तत्कालञ्चारणेन

तदश्वाःस्नानपानयोर्मुच्यन्ते हि। एकदा रविरथान्मक्तः उच्चैःश्रवा राज्ञः अश्वां दृष्ट्वा तस्यां तं तुरङ्गमजीजनत्।तस्मिन् वाताश्वेसमारूढोऽसौ भूपतिः तं महान्त वराहंधावन् महतीं भूमिमत्यागात्। सोऽपि शूकरः तस्य दृष्टिपथात् तस्मादपि उच्चैःश्रवः सुतात् अधिकजवः प्रनष्टोऽभूत्।

अथ राजा तमनासाद्य दूरोज्झितपरिच्छदः मामेवमन्वागतं दृष्ट्वा पर्य्यपृच्छत् भद्र ! अपि जानासि वयंकियतीं भूमिमागताः? तदाकर्ण्याहं देवि ! तं राजानं प्रत्यवादिषं प्रभो ! योजनानां शतानि त्रीणि आगताःस्म इति ततो राजाब्रवीत् कथं त्वं पद्भ्यामागत इति। इत्थं विस्मितेन राज्ञा पृष्टोऽहमब्रुवं देव! अस्ति मे पादलेपः, येन एतावन्तमध्वानमतिक्रान्तोऽस्मि। तदत्र वृत्तान्तमाकर्णय पूर्वमहं भार्य्यावियोगार्त्तः तीर्थयात्राप्रसङ्गात् सायं पथि किमपि देवायनं प्राप्य तत्र निशां नेतुंप्रविष्टः अन्तरे स्त्रियमेकामपश्यम्। सा च व्यात्तास्या मांदृष्ट्वा ग्रसन्तीव अभ्यधावत्। ततो मयापि असिधेनुमाकृष्यसभ्रूभङ्गमविभ्यता सा प्रत्यभिधाविता। ततः सा सौम्यवपुर्भत्वा गतवैकृता मामब्रवीत् भद्र ! अहं वन्द्याभिधानायक्षी, तवधैर्य्येण तुष्टास्मि। तदिदानीं ब्रूहि किन्ते प्रियं करवाणि इति। एवं वादिनीं तामहं यक्षिणीमवोचत्यदि परितुष्टासि, तत् कुरुष्व यथा अक्लेशेन मया सर्वाणि तीर्थानि अटामि इति। एवं मयोक्ते सा यक्षिणीमह्यं पादलेपमदात् तीर्थानि भ्रमितुम्। तेन च पादलेपबलेनाद्यत्वमनुधावितः। एतेन च बलेन प्रत्यहमस्या-

मटव्यामेत्य फलानि भुक्त्वाउज्जयिनींपुनर्गत्वा ते सेवांकरोमीति। देवि! इति मया विज्ञप्तो राजा प्रसन्नया। दृष्ट्यामां योग्यमनुयायिनमन्तरमन्यत। भूयश्च मयासौ नृपतिर्विज्ञप्तः देव ! यदि प्रभुणा भुज्यन्ते तदाहं सुखादानि फलानि आनयामि इति। राजा तु नाहं भोक्ष्ये,न मे किञ्चिदुपयुक्तमत्र अवाप्यते, त्वं तावत् किश्चित्भुङ्क्ष, परिश्रान्तोऽसीति मामादिशत्। ततस्तत्र कस्मादपिकार्पटिकात् प्राप्तं किमपि फलं यावदहं भक्षयामि तावदेव सहसा अजगरः सम्भवम्। देवि ! तदा च मांसहसा अजगरीभूतं दृष्ट्वा स विषमशीलो राजा सविषादविस्मयः एकाकी च वेतालं भूतकेतुमस्मरत्। स तुवेतालः स्मृतमात्रागतः प्रणम्य तं राजानमब्रवीत् देव !किमर्थं स्मृतोऽस्मि, आदिशतु तावत् महाराज इति। राजावदत् भद्र ! ममेमं कार्पटिकं सहसा अजगरीभूतंनिजां प्रकृतिं प्रापय इति। वेतालोऽवादीत् देव! नास्तिममेदृशी शक्तिः। शक्तयो हि नियताः, वारि वैद्युताग्निं किं निहन्तिं? ततो राजाब्रवीत् तर्हि पल्लीमिमां यामि,यदि भिल्लेभ्यः कोऽप्युपायः सम्भवेदिति समालोच्यसवेतालो राजा तां पल्लीमगच्छत् तत्र तं साभरणं दृष्ट्वाचौराः शरवर्षाणि किरन्तः समवारयन्। स च भूतकेतुःराजादेशात् तेषां पञ्चशतानि अभक्षयत्। शेषाः पलाय्यगत्वा च सेनापतये तत् प्रावोचन्। स च केशरी नाम सेनापतिः सबलःक्रुधा जज्वाल। ततः कस्यचित् भृत्यस्य प्रत्यभिजानतो मुखात् राजायं विक्रमादित्य इति बुद्धा

स सेनापतिरेत्य तं पादयोर्जग्राह। ततः स राजा निवेदितात्मानं प्रह्नं तंप्रत्यभिनन्द्य कुशलं पृष्ट्वा च एवमभाषत मम कार्पटिकः एकस्मात् कापर्टिकात् वने फलं प्राप्तंभुक्त्वा अजगरतां गतः, तदुद्धाराय युक्तिंकुरु। एतत्राजवचनमाकर्ण्य स सेनापतिरवादीत् देव ! अनुगामिनेमत्पुत्राय अस्मै तं दर्शयत्विति। ततः सवेतालः तत्पुत्रः एत्य मां ओषधीरसनस्येन पूरयन् सद्य एव मानुषंव्यधात्। ततश्च वयं हृष्टा राजान्तिकमुपागच्छाम। राजातु तेनोद्धृतं पादानतं मामबोधयत्। स च सेनापतिः केशरीअस्माभिरन्वितो तंराजानमभ्यर्थ्य निजं गृहमनैषीत्।अपश्याम च वयं तस्य सदनं शवरीवृतं, दन्तिदन्तचितीत्तुङ्गभित्ति, वासांसि शिखिपिच्छामि, हारान् मुक्ताफलमयान्। यत्र स्त्रीणां मण्डनं मातङ्गमदनिस्यन्दः। तत्र सेनापतेरस्य भार्य्या मृगमदामोदवासा मुक्ताद्यलङ्कृता स्वयं राज्ञः परिचर्य्यामकरोत्। अथ स्नातभुक्तो राजा तदातदात्मजान् वृद्धन् सेनापतिञ्च तरुणं दृष्ट्वा पर्य्यपृच्छत्। सेनापते ! मम इदं तावदाश्चर्य्यंत्वयोच्यतां त्वं तावत्तरुणः, त्वत्पुत्रास्तु कथममीवृद्धा इति। तथा पृष्टः सशवरेऽब्रवीत् देव ! महती एषा कथा, यदि कौतुकंतत् श्रूयताम।

पुराहंचन्द्रस्वामीति विप्रः मायापुर्य्यामवसम्। सोऽहं जातु पितुराज्ञयाकाष्ठाहरणाय वगमगाम्। तत्रमे कोऽपि कपिर्द्वारंरुद्ध्वाअन्यं मार्गं प्रदर्शयन् अतिष्ठत्। अहन्तु तस्यकषेराशयं बुद्ध्वातत्प्रदर्शितेन मार्गेणप्रस्थिती-

ऽभूवम्। स च मर्कटःअग्रतो मम प्रयाति स्म। ततश्च स दूरं गत्वा जम्बूवृक्षमारुरोह। अहञ्च तत्पृष्ठे लताजालबद्धे दत्तदृष्टिर्लताजालबद्धाङ्गीं कामपि वानरीमपश्यम्। एतदर्थमनेनाहमानीत इति बुद्ध्वाअहं तं वृक्षमारुह्य परशुना तं बलयपाशं छित्त्वा तां वानरीममोचयम्।

अथ तौ वानरदम्पती वृक्षादवतीर्य्यं वृक्षादवतीर्णस्यमे पादी जगृहतुः। ततः स कपिः तां मे पादलग्मां वानरींस्थापयित्वा कुतश्चित् दिव्यं फलमानीय मह्यमदात्।तदादाय इन्धनादिकं गृहीत्वा चाहं गृहं गत्वा भार्य्यया सह तत् दिव्यं फलमभक्षयम्। तस्मिंश्च भुक्त एव सभार्य्यऽहमजरोऽरोगश्चाभवम्।

ततस्तत्रैवास्मदीये देशे दुर्भिक्षविप्लवः समभवत्। तदाक्रान्तश्चजनो इतस्ततश्चलितः। देव ! अहं दैवादिमंदेशं क्रमात् प्राप्तः। तदात्र काञ्चनदंष्ट्राख्यः शवराधिपआसीत्। तत्राहं शस्त्रमुपादाय तस्य भृत्यसामगमम्। ततःस काञ्चनदंष्ट्रः तेषु तेषु आयोधनेषु माम् अग्रयायिनंदृष्ट्वापरितुष्टः सैनापत्ये अभिषिक्तवान्। सोऽपि मयाअनुपमभक्त्या प्रभुराराधितः। ततः सः प्राप्तकालःमह्यमेव निरपत्यःराज्यमदात्। इहस्थस्य च मे सप्तविंशतिरब्दानां शतानि अतीतानि, तत्फलभक्षणात् न मे जरास्ति।इत्थं स्वोदन्तमाख्याय स केशरीभिल्लराजः सविस्मयं तं राजानं भूयो व्यजिज्ञपत्। देव ! तदा मया वानरात् यत्फलमवाप्तं जरादोषनाशनम् अद्य ततोऽपि समधिकं त्वत्-

पादपद्मदर्शनं फलं प्राप्तम्। तस्माद् देव! मम गृहागमनेयोऽनुग्रहो मयि प्रदर्शितः, तेनैव साहसमाश्रित्य अभ्यर्थयेमम क्षत्रियायां भार्य्यायां समुत्पन्ना कन्यकैकास्ति रूपेणनिरुपमा मदनसुन्दरी नाम, देवादृते तत्कन्यारत्नं नान्यत्रशोभते, तदहं देवाय प्रच्छामि, यथाविधि उद्वह्रस्व, प्रभो ! दासोऽस्मि, सदा ते अनुगतः स्थास्यामीति तेनाभ्यर्थितोराजा तथैवाभ्यमन्यत। परिणिनाय च शुभे लग्ने तांतस्य कन्यकाम्। स च भिल्लराजः शतानि मुक्ताकम्तूप्रभृतीनां भारान् प्राभृतानि तस्मै राज्ञे प्रादात्। ततःस राजा सप्तरात्रं तत्रोषित्वा तया मदनसुन्दर्य्या सहउज्जयिनीं प्रति भिल्लसैन्यैरनुगम्यमानः प्रतस्थे।

अत्रान्तरे मृगयागते राज्ञि अश्वापहृतेउद्विग्नमस्मद्बलं विषणं दृष्ट्वाप्रतीहारो भद्रायुधः समभ्यधात् अलं वोविषादेन, न चिरादेव वः प्रभुरायाति। नास्य दिव्यप्रभावस्य किमपि अन्याहितं भवेत्। किं न स्मरथ? सोऽस्माकं प्रभुः पातालात् रूपाढ्यां नागकन्यां तथा गन्धर्वाधिपकन्यां तारावतीं परिणीय एकाकीसभागत इति एवमुक्का तेन प्रतीहारिण भद्रायुधेन, समाश्वासिता ते सर्वेतस्मिन्नटवीद्वारे राजमार्गावलोकिनस्तिष्ठन्ति स्म। राजापि स्पष्टमार्गेण शवरसैन्यानुगम्यमानः तया मदनसुन्दर्य्या सह तुरगारूढ़ः वेतालेन तया च सार्द्धंपूर्वदृष्टस्य तस्यवराहस्य दिदृक्षया तत् वनमविशत्। प्रविष्टस्य च तस्यराज्ञःपुरतः स वराहः प्रादुरभूत्। राजा च तं दृष्ट्वैव पञ्चभिः शरैरबधीत् हतस्य च तस्य वेतालेन धावित्वा

विद्रारितादुदरात् सहसा एकः सुभगः पुमान् निरगात्।तती राजा विस्मयात् यावत् तं को भवानिति पृच्छति,तावत् जङ्गमोऽद्रिरिव तत्र कश्चित् वनद्विपः समागात्।राजा तु आपतन्तं तमारण्यं कुञ्जरेन्द्रं दृष्ट्वा एकेन शरेणमर्म्माहतपातयत्। तस्यापि निहतस्य तस्मात् वेतालपाटितादुदरात् दिव्यः कश्चित् पुरुषः कापि दिव्यासर्वाङ्गसुन्दरीनारी च निरगात्।

अथ प्रष्टुकामं राजानं स वराहोदरनिर्गतः पुमान्स्वोदन्तं प्राब्रवीत् देव ! शृणु वच्मि वृत्तान्तम्। आवामुभौ देवकुमारौअयं नाम्ना भद्रः अहं शुभः। आवांभ्रमन्ता वेकदा ध्यानस्थितं कण्वंमुनिं दृष्ट्वा गजशूकरयोःरूपं कौतुकेन कुर्वन्तो मोहात् त्रासितवन्तौ। स तुमहर्षिः प्रणिधानेन आवयोश्छलमवेत्य शपतिस्म रे दुराचारौ! अटव्यामीदृशावेव भवतमिति, ततश्चावाभ्यामनुनीतोऽसौ विक्रमादित्यदेवेन हतौ मुक्तिमवाप्स्यथ इति शापान्तमकरोत्। ततश्चावां गजशूकररूपिणौ त्वयाद्यमोचितौ, स्त्रोतु एषा स्वोदन्तं स्वयमेव वक्ष्यति। अस्मिंश्चशूकरदेहे गजदेहे च स्वया स्पृष्टे तव दिव्ये कृपाणचर्म्मणी भविष्यत इति उक्त्वा स दिव्यः पुमान् द्वितीयेन सहतिरोऽभूत्। ते च क्रोड़द्विप कलेवरे राजकरस्पृष्टे सद्यएव खङ्गचर्म्मणौ समुदभूताम्।

ततः सा स्त्री स्ववृत्तान्तंपृष्टा एवमब्रवीत् देव !अहमुज्जयिन्यां धनदत्तनाम्नो बणिक्पतेर्भार्य्या एकदा हर्म्यतलसुप्ताहममेन दन्तिनागत्य निगीर्य्य च इहानीता,

न चास्यान्तः तदा पुमानभूत् भिन्नोदरात्तु मया मह एष पुमान् निर्यात इति।एवमुक्तवतीं तां दीनां योषितराजाब्रवीत् भद्रे ! धोरा भव, त्वां ते भर्तृगृहं प्रापयामिमदवरोधेन समं निर्भया गच्छ। इत्युक्वा वेतालेन तांमदनसुन्दर्य्यैसमर्पयत्।

अथ वेताले प्रत्यागते तत्र कानने अकस्मात् प्रभूतपरिच्छदे द्वेराजकन्ये दृष्टे। ततो राजा मां प्रेष्य ततामहत्तमात् परिजनात् ते कन्ये आनाययामास। कुतः केएते कन्यके इति राज्ञापृष्टास्ते परिजना आभाषन्त।

अस्ति सर्वसम्पदां निकेतनं कटाहाख्यंद्वीपम्। तत्रान्वर्थनामा गुणसागरो नाम नृपतिरध्युवास।तस्यमहादेव्यां गुणवती नाम निर्म्मातुः धातुरेव आश्चर्य्यबुद्धिदायिनी सुताजनिष्ट।सिद्धैश्चतस्याः सप्तद्वीपपतिः पतिर्भवितेति समादिष्टम्। ततस्तत्पिता राजा मन्त्रिभिरमन्त्रयत राजा विक्रमादित्य एवास्या मे दुहितुर्योग्योवरः तत्पाणिग्रहणायैव एनां तत्सकाश अहं प्रेषयामि। इतिसम्मन्त्यजलधौ प्रवहणे सपरिच्छदां सधनां तां समारोप्यसुतां व्यसृजत्। अथ सुवर्णद्वीपसमीपागतं तत् प्रवहणं सराजकन्यं सधनं मत्स्येन केनचित् महता न्यगीय्यत। सच महामत्स्यः समुद्रतरङ्गेण तस्य सुवर्णद्वीपस्य संलग्नरोधसि क्षिप्तः समभवत्। तमालोक्य तत्रत्याजनानाना प्रहरण धावित्वा व्यापाद्य च तं महामत्स्यं तस्योदर मपाटयन्। ततश्च तस्मात् तत् जनपूर्णं महत् प्रवहणं निरगात्। एवंवृत्तान्तमाकर्ण्य तद्वीपभूपतिः।

सविस्मयस्तत्रागात्। स च राजा चन्द्रशेखरो नाम गुणसागरस्य भूपतेः श्यालकः प्रवहणस्थितात् जनात् यथातत्त्वंविदित्वा तां गुणवतीं भागिनेयीं गृहीत्वा समाश्वास्य चराजधानीं प्रवेश्य च आनन्दात् महोत्सवं व्यधत्त।

अथान्येद्युः स भूपतिः स्वसुतां चन्द्रावतीं प्राक् विक्रमादित्याय दातुं सङ्कल्पितां तया गुणवत्या साकं प्रभूतद्रव्यपरिच्छदां शुभे मुहूर्ते प्रवहणमधिरोष्य प्रास्थापयत्।ते इमे कन्ये तीर्णजलधी क्रमात् प्रक्रामन्त्यौ इह प्राप्तेअनयोश्चायं परिवारसमुदायः। इह प्राप्तांश्चास्मान् क्रीड़वारणौ अभ्यधावतां सुमहान्तौ। ततोऽस्माभिरेवमाक्रन्दितंदेवस्य विक्रमादित्यस्य स्वेन धर्म्मेण लोकान् पालयतः स्वयंवरे इमे कन्यके आगते इति तदाकर्ण्य तौ क्रोड़वारणेन्द्रौ सुव्यक्तया गिरा अवोचतां धीरा भवत, भीर्नास्तिवः, इहैव तं राजानमचिरात् द्रक्ष्यथ इत्युक्त्वातौ गजक्रोड़ौ दिव्यौक्वापि अविदितौगतौ इत्युक्ते तैर्महत्तरैः अयं स राजा इति तानह मवादिषम्। ततस्ते पादपतितास्तस्य कृतार्था आसन् समर्पयश्च ते कन्यके प्रहृष्टे गुणवती-चन्द्रावत्यौ। राजापि वेतालं मदनसुन्दर्य्या सार्द्धमिमे अपि गच्छतामिति समादिदेश।

देवि ! ततः स राजा तेन वेतालेन मया च सहितःउत्पथेनेव प्रायात्। गच्छताञ्चास्माकं वने रविरस्तमगात्।तस्मिंश्च काले अस्माभिर्मुरजध्वनिरश्रावि। कुतोऽयं मुरजध्वनिः श्रूयते इति राजनि पृच्छति स वेतालोऽब्रवीत्देव ! अत्र देवकुलं विद्यते। तच्च विश्वकर्म्मणा दिव्यकौतू-

हलं निर्मितम्। प्रभो ! सन्ध्यायामत्र एष मुरजरवः श्रूयतेइत्युक्तवान् स वेतालः स च राजा अहञ्च कौतुकात् तत्रागच्छाम। प्रविशाम च तुरगं द्वारि संयम्य। अपश्यामच तत्र अर्च्चितं तार्क्ष्यरत्नमयं महत् लिङ्गं, तदग्रे च उदग्रदीपकं प्रेक्षणार्थम्। तत्र दिव्यरूपा वराङ्गनाश्चतुर्विधेनगानगान्धर्वयोनिना नादेन सुचिरं नृत्यन्त्यः प्रेक्ष्यन्ते स्म,तत्र प्रविश्य इतोऽपि सुमहदाश्चर्य्यंदृष्टं स्तम्भस्थाश्च पुत्रिकाः स्वतः लयमनुसृत्य नृत्यन्ति स्म चित्रस्थाः पुरुषा गायनावादकाश्च दृष्टाः। तदवलोक्य राजनि विस्मिते स वेतालोऽभ्यधात् देव ! मायेयं विश्वकर्म्मकृता अक्षया, सततंसन्ध्ययोरुभयोरेष व्यापारो भवति। इति तेनोक्ते तत्रान्तर्भ्रमन्तः वयं तत्र एकस्यां दिशि सविशेषां रूपाढ्यांपुत्तलिकामपश्याम।राजा तु तां विलोक्यैव तल्लावण्यविमोहितः शून्य इव अत्मरात्मना क्षणं स्तम्भोत्कीर्ण इवाभवत्। अब्रवीच्च चेदहम् अनेन रूपेण सजीवामङ्गनां नपश्यामि, तन्मे राज्येन जीवितेन च किम्? तदाकर्ण्यस वेतालस्तमवादीत् देव ! नैतत् दुरासदं कलिङ्गसेनानाम कलिङ्गाधिपतेः सुतास्ति। तां दृष्ट्वा रूपकारेण तद्रूपघटनाप्रेप्सुमा कृतेयं शालभञ्जिका। तत् प्रभो ! उज्जयिनीं गत्वा कलिङ्गनृपतिं तां कन्यां प्रार्थयस्व वा विक्रमेणहर। इति वेतालवचनं तदा हृदि ध्यात्वा कथञ्चित्तां रात्रिं नीत्वा तस्मात् प्रदेशात् प्रातरुदचलत्। प्रस्थितञ्च तं राजानम् अशोकवृक्षतलस्थितौ द्वौभव्यौपुरुषौ सहसा समेत्य प्राणमताम्। कौ युवां कुत आगतौ चेति

राज्ञा पृष्टयोस्तयोरेकः जगाद देव ! श्रूयतां कथयामि।

अहं धनदत्तो नाम उज्जयिन्यां बणिक्सुतः सोऽहंकदाचित् भार्य्यया सह हर्म्यतले प्रसुप्तः। प्रातश्च प्रबुध्ययावत् पश्यामि तावत् सा मे भार्य्या तत्र नास्ति, नापिअन्येषु प्रासादोपवनादिषु, न च तस्याश्चित्तमन्यादृक्,ईदृशो मे प्रत्ययः यदि साध्वी स्यां तदा इयं माला कदाचित् न म्लायात् इत्यसौ तथा मे माला दत्ता, अम्लानैवाद्यापि वर्त्तते। तन्न जाने, सा क्वायाता, वा भूतादिनाक्वापि नीता इति सञ्चिन्तयन् चिन्वन् आक्रन्दन् विलपन्रुदन् अहं तद्विरहाग्निज्वलितो निराहारः अतिष्ठम्। अथ बान्धवैराश्वासितः कथञ्चित् कृताहारः नितरां दुःखितःब्राह्मणान् भोजयन् देवागारे एव स्थितिमकरवम्। तत्र कदाचिदयं विप्रः पथि श्रान्तः मामभ्यगात्। मया च यथायथं स्नानाहारादिना विश्रामितः कुतस्त्वमिति भुक्तोत्तरं पृष्टश्च वाराणसीसमीपस्थात् ग्रामादस्मीति प्रत्यवादीत्। ततश्च भृत्याख्यातमद्दुःख एषः मामब्रवीत् मित्र !उद्वेगिना त्वया आत्मा अवसादितः। व्यवसायी हि दुष्प्रापमपि प्राप्नोति। तदुत्तिष्ठ सखे ! तव तां भार्य्यामन्विष्यावः, अहं ते सखास्मि कथं सान्विष्यते? यतो दिङ्मात्रमपि न ज्ञायते, इत्युक्तवन्तं मामेष प्रीत्या भूयोऽब्रवीत्सखे ! मा मैवं केसटः किं प्राक् असम्भाव्यसमागमां रूपवतीं भार्य्यां न प्राप? तथा चात्र तां कथां शृणु।

पुरासीत् पाटलिपुत्रनगरे महाधनसम्पन्नः केसटो नामब्राह्मणसुतः काम इव रूपवान्। स सदृशीं भार्य्यां

प्रेप्सुः पित्रोरविदितः गृहात् निर्गत्य तीर्थानि बभ्राम। क्रमेण च तानि तानि तीर्थानि भ्रान्त्वा नर्मदातीरंप्राप्तः कदाचित् महान्तं जन्ययात्रागतं जनं ददर्श।तन्मध्यादेको वृद्धो द्विजवरः तं केसटं सम्भाष्य सप्रणयं रहसि प्राह स्म वत्स ! त्वत्तः किञ्चिदर्थमथये, तत्तेलीलासाध्यं यदि मम मनोरथः पूर्य्यते, तदा तदहं तेवच्मि। तदाकर्ण्य केसटोऽब्रवीत् आर्य्य ! शक्यंब्रवीषि चेत्, तन्निश्चितं मया ते उपकृतिः कार्य्या। ततो वृद्धो द्विजः प्रोवाच वत्स ! शृणु अस्ति मे सुतः, स च सुरूपाणां भवानिव विरूपाणामग्रणी दन्तुरः चिपिटघ्राणः कृष्णः कोटरलोचनः पृथूदरःवक्रपादः, शूर्पकर्णपटः। तादृशस्यापि तस्य कृते स्नेहात् कृतरूपाभिवर्णनात् ब्राह्मणात् रत्नादत्ताख्यात् कन्यका मया याचिता सा चरूपवती नाम कन्या पित्रा मत्पुत्राय दातुं प्रतिश्रुता।सोऽद्य तयोः पाणिग्रहः। तदर्थञ्च वयमत्रागता एते। परन्तु दृष्टे मत्सुते स सम्बन्धी सुतां नैव दद्यात् तदेषः आरम्भोऽस्माकं वृथा स्यात्, तदत्रोपायं चिन्तयता मयात्वं दैवात् प्राप्तोऽसि तद्भवान् इदं मे वाञ्छितं साधय।त्वमस्माभिः समागत्य तां कन्यां परिणीय च मत्पुत्रायअद्य प्रयच्छ, त्वं हि वध्वा अनुरूपः। तदाकर्ण्य तं तथेत्युक्तवन्तंकेसटमादाय स वृद्धोद्विजः नौभिर्नर्मदांतीर्त्त्वापारं ययौ। विशश्राम चएकं पुरं प्राप्य बहिः।तावदर्कोऽपि आकाशपथिकः अस्तमुपागात्। ततश्चध्वान्ते प्रसर्पति स केसटःअप उपस्पृष्टुंगतो घोरमेक

मुत्थितं राक्षसमद्राक्षीत्। भक्षयामि अद्य त्वां क्व मेयास्यसि केसटइति वादिनं तं राक्षसं स केसटोऽब्रवीत्।भद्र ! मा तावत् मां भक्षयेः, अहं पुनस्त्वामुपेष्यामिब्राह्मणस्य निश्चितं प्रतिज्ञातं कार्य्यं निर्वाह्य। तदाकर्ण्यस राक्षसः शपथं कारयित्वा तं केसटं मुमोच। सोऽपि तज्जन्यवनं प्रप्रायात्।

ततः स वृद्धविप्रस्तं वरमण्डनेनालङ्कृत्य आदाय वरयात्रिकैः समं तत् पुरं प्रापत्। प्रावेशयच्च सज्जितवेदिकंविविधातोद्यनादितं तत् रत्नदत्तगृहं तं केसटम्।केसटश्चस तां रूपवतीं पितृदत्तमहाधनां कन्यां विधिना उपयेमे। स्त्रीजनश्च तत्रत्यः अनुरूपौ बधूवरौ दृष्ट्वा भृशंननन्द। सा च रूपवतीतत्सख्यश्च तं वरं दृष्ट्वा सर्वा एवजातमन्मथा बभूवुः। स तु केसटस्तदा विषादेन विस्मयेन च समाक्रान्तहृदय आसीत्।

अथ रात्रौ शयनीये चिन्तासक्तंपराङ्मुखं तं प्रियंदृष्ट्वा सा रूपवतीव्याजसुप्तिकामकरोत्। ततश्च निशीथेस केसटः तां सुप्तां मत्वा गृहात् निर्गत्य सत्यं पालयितुं राक्षसस्यान्तिकमाययौ। सापि रूपवती उत्थायस्वैरम् अनुपलक्षिता सकौतुका पतिव्रता तं भर्त्तारमन्वियाय।स च राक्षसःप्राप्तं तं केसटं दृष्ट्वा जगादसाधु भोः केसट ! महासत्त्वोऽसि, पुरं पाटलिपुत्रं पिताच त्वया पवित्रीकृतः, तदायाहि तावत् त्वां भक्षयामि। तदाकर्ण्यंसहसा सा रूपवती सहसोपेत्य इदमभ्यधात्मा खाद, खादिते ह्यस्मिन् पत्यौका मम गतिर्भवेदिति।

ततश्च रक्षसा भिक्षा ते गतिरित्यभिहिते सापि तं जगादमहासत्त्व ! को मे अनाथायाः स्त्रिया भिक्षां दास्यतीति।ततश्च राक्षसेन यो न ते भिक्षां याचितो दास्यति तस्यशतधा शिरो विदलिष्यतीति अभिहिते साब्रवीत् तर्हि त्वमेव मे भर्तृभिक्षां देहि इति। ततोऽसौ राक्षसो भिक्षामददत् तत्क्षणं विदलितशिराः पपात। अथ सा पतिव्रता रूपवती तच्चरित्रातिविस्मृतं तं केसटमादायस्वमन्दिरमागात् निशा च व्ययासीत्।

ततः प्रभाते तत् कृताहारं जन्यवनं बध्वा सह प्रस्थायनर्मदातीरमवाप। ततो रूपवतीं बधूं सानुगां नावमारोप्य स वृद्धद्विजः स्वयमन्यां नावं आरुरोह। आरोपयच्चतं केसटं पृथक् नावि आभरणानि स्वीकृत्य कृत्वाच नाविकैः सह संविदम्। ततः स द्विजः बध्वा जन्येनच समं पारं तीर्त्त्वाययौ। स तु केसटः तैर्दासैर्नदीमध्येन दूरं निन्ये तत्र महति प्रवाहे नावं तञ्चकेसटं क्षिप्ताते वृद्धद्विजात् प्राप्तबहुधना बाहुभिर्नम्मदांतीर्त्त्वाययुः। केसटस्तु सनौकोऽपि उत्तरङ्गया नद्या वातवशादम्बुधौ न्यस्तः उर्मिणा तटं नीतोऽभूत्। तत्र चायुषः शेषत्त्वात् स समाश्वास्य व्यचिन्तयत् अहो ! द्विजेनानेन मे प्रत्युपकारः कृतः, अथवा तेनैव दस्युनिर्धर्ममूर्खता किं नाख्याता, यः परपरिणीतया भार्य्ययांपुत्रंयुनक्ति। इति संचिन्तयन् स यावत् विह्वलस्तिष्ठति,तावत् विचलत्खेचरीचक्रा क्षपा समाययौ। स केसटः तस्यांविनिद्रः तूर्य्ये यामे दिवि कलकलं श्रुत्वा पुरः

खात् पतन्तंसुभगमेकं पुरुषमद्राक्षीत्। ततः स केसटस्त्रस्तस्तं चिरादविकृतं विभाव्य को भवानिति पप्रच्छ।स च पुमान् तमब्रवीत् भद्र ! त्वं तावत् अग्रतः, को भवानिति ब्रूहि ततोऽहं वक्ष्यामि। तदाकर्ण्य केसटस्तस्मैस्वंवृत्तान्तं सर्वमवर्णयत्। ततः स पुरुषोऽवादीत् तर्हित्वं मे तुल्यावस्थोऽसि। तदिदानीं स्ववृत्तान्तं ब्रवीमि शृणु।

अस्ति वेणानदीपारे रत्नपूरं नाम पूरं। तत्राहंकन्दर्पनामा धनिपुत्रो गृही द्विजातिः। सोऽहं प्रदोषेतोयार्थी वेणां नदीमवातरम्। तस्याञ्च स्खलित्वा वारिप्रवाहेण हृतो रात्र्यातयैव दूरं नीतोऽभवम्। प्रभाते च आयुर्बलाच्च कथञ्चित् कच्छगतः तटस्थ तरुशाखावलम्बेनरोधसि समुत्तीर्य्यं कस्यचिद‍श्वत्थरोरन्तिके स्थितं शून्यंमहदेकं मातृदेव गृहमपश्यम्। तत्र च प्रविश्य अन्तःस्वतेजसा स्फुरन्तीः मातॄर्दृष्ट्वा शान्तभयोऽहं प्रणम्य स्तुत्वाच व्यजिज्ञपन्ं भगवत्यः ! अद्य मे शरणागतस्य परित्राणंकुरुध्वम्। इति विज्ञाप्य नदीवेगपरिश्रान्तस्य तत्र विश्राम्यतः शनैः स वासरोऽपि अतिचक्राम।

अथ तारास्थिमाला ज्योत्स्नाभूतिसिता शशिशुभ्रकपाला रौद्रीनिशा तापसीसमभ्यगात्। तत्कालञ्चात्र ज्ञातवानस्मि, तस्मात् मातृगणान्तरात् योगिनीग्रामःनिर्गत्य परस्परमभाषत सख्यः ! अद्य चक्रपुरे चक्रमेलकेअस्माभिर्गन्तव्ये, इह श्वापदाकीर्णे अस्य ब्राह्मणस्य रक्षाका? तदेष तत्र स्थाप्यतां यत्रास्य शुभं भवेत्, पुनश्चानेष्यामः यतोऽयमस्मान् शरणं गतः। इत्युक्त्वास्वेन मां

नीत्वा अलङ्कृत्य क्वापि पुरे कस्यापि आढ्यद्विजस्य गृहेनिधाय ता योगिन्यः प्रस्थिताः। तत्र च उद्वाहायसज्जितां कामपि कन्यकामपश्यम्, अशृणवञ्च दिवालग्नोनिर्णीतःजन्यबलञ्च न प्राप्तं तदानीमपीति। ततस्तत्रस्थितं दिव्य वरवेशं मां विलोक्य अयं तावत् वरः प्राप्तइति सर्वे जना अजल्पन्। ततो मां वेदिं नीत्वा अलङ्कृतां सुतामानीय सपुरोहितो गृहपतिर्यथाविधि तांकन्यां मह्यमदात्। स्त्रियश्च तत्रत्याः दिष्ट्याअनुरूपवरप्राप्तिरस्याः सुमनसः जातञ्च सफलं सौन्दर्य्यमित्यन्योऽन्य ब्रुवन्ति स्म।ततः कृते विवाहे तया सुमनसा नाम बध्वा सह महद्भिरुपचारैः सुखितः प्रासादे सुप्तवानस्मि।

अथ ता योगिन्यः रात्रेःपश्चिमे यामे तस्मात् चक्रमेलकादागत्य स्वयुक्त्या मां हृत्वा नभ उदपतन्। नभसाच यान्तीनां तासां मज्जिहीर्षुभिरन्याभिः साकं प्रवृत्तयुद्धानां हस्तादिहाहं प्रभ्रष्टः। न च तत् नगरं वेद्मियत्र सा सुमना मया परिणीता, न च जाने किमिदानीं भविष्यति। इत्येषा विधिना दत्ता या मम दुःखपरम्परा,सा अद्य त्वत् समागमात् सुखायैव सम्पन्ना इति वादिनंतं कन्दर्पं स केसटःप्रत्यवदत् मित्र !मा भैषिः, इदानींयोगिन्यस्ते न प्रभवन्ति, अस्ति तादृशी शक्तिःमे, या नकेनापि प्रतिहन्तुं शक्यते। सहैवायां भ्रमिष्यामः, अवश्यंविधिः श्रेयो विधास्यति। एवमन्योऽन्यं वदन्तयोः सासा निशा व्यतीयाय।

अथ प्रातः प्रयातौ तौ अम्बुधिमुत्तीर्य्य क्रमात् भीमपुरं नगरं प्रापतुः। तत्रासीत् रत्ननदीनाम कापिसरित्। तौ तत्र नदीतीरे कलरवं श्रुत्वा आपूरिततटं समुद्रवेलया क्षिप्तंकायप्रहत्तया मां सार्थिभिर्बद्धंनानाशस्त्रकरैर्जनैः पाठ्यमानं मत्म्यंददृशतुः। तस्य पाट्यमानस्य उदरात् कापि वराङ्गना निरगात्।सा तु साश्चर्य्यैर्जनैर्दृश्यमाना भीता तटं शिश्रिये। ततस्तांवीक्ष्य कन्दर्पोऽसौ हृष्टस्तं केसटमभाषत वयस्य ! सेयं मेसुमना या मया परिणीता। न जाने अस्यामत्स्योदरेकथं वासः, तत्तूष्णीम् इह तिष्ठावः यावद् व्यक्तिर्भवेत्।तथेति केसटेनोक्ते तत्रावस्थितयोस्तयोः सा सुमनास्तद्वत्यैर्जनैःका त्वं किमेतदिति पृष्टा कृच्छ्रेणावादीत् अहं रत्नाकरपुरवासिनो जयदत्तनामकस्य द्विजवरस्य सुतासुमना नाम। साहं भव्येन केनचित् ब्राह्मणपुत्रेण निशि परिणीता। तस्यामेव रात्रौ सुप्ताया मे स पतिःक्वापि गतः। यत्नात् अन्विष्टोऽपि पित्रा नासौ कुतोऽपिसमासादितः। ततोऽहं तद्वियोगाग्निशान्तये नद्यां पतिता निगीर्णाचानेन मत्स्येन संप्राप्ता च विधिवशादिह। इतिवादिनींतां जनमध्यतः निर्गत्य यज्ञस्वामी नाम कश्चिद्विप्रः समाश्लिष्याब्रवीत् एहि एहि पुत्रि ! त्वं मे भगिनीदुहितासि, अहं यज्ञस्वामी नाम तव मातुः सोदरोऽस्मि। तदाकर्ण्य सा मुखमुद्घाट्य सुमनास्तं मातुलमवेक्ष्य प्रत्यभिज्ञाय च सविनयं पादयोः परिजग्राह। क्षणञ्चाश्रूणि त्यक्त्वावादीत् मातुल ! काष्ठानि मे देहि, आर्य्यपुत्रविही-

नाया मे अग्निं विना नान्या गतिः। इति वादिनी साप्रबोध्यमानापि तस्य पादयोः पतित्वा प्ररुरोद। ततश्चतत्रत्येन जनेन मातुलेन च पृच्छ्यमाना सहसा तत्र उपनीतं कन्दर्पं दृष्ट्वा अयं स मे पतिरिति सानन्दबाष्पानिजगाद। ततः सर्वेषु हृष्टेषु स यज्ञस्वामी तां तत्पतिञ्च कन्दर्पंकेसटानुगं स्वावासं निनाय।तत्र तान्वर्णितस्वस्ववृत्तान्तान् महता उपचारेण स यज्ञस्वामीसपरिजनः सम्यक पर्य्यचरत्।

अथ गतेषु कतिपयेषु अहःसु केसटस्तं कन्दर्पं जगादमित्र ! त्वं तावत् अभीष्टभार्य्यलाभेन कृतार्थतां गतः,तदिदानीं सभार्य्यःनिजं पुरं रत्नपुरं गच्छ। अहं पुनरकृतार्थों निजं पुरं न गच्छामि। सखे ! अहम् एवंतीर्थान् भ्राम्यन् अमुं देहं क्षपयिष्यामि। तदाकर्ण्यतत्रस्थितो यज्ञस्वामी केसटमब्रवीत् वत्स ! किमुद्वेगादिदंवदसि? जीवद्भिःसर्वमवाप्यते। तदत्रकुसुमायुधवृत्तान्तंकथयामि श्रूयताम्।

पुरासीत् चण्डपुराख्ये नगरे देवस्वामी नाम द्विजः।तस्यातिरूपवती कमललोचना नाम कन्याभूत्। कुसुमायुधो नाम कश्चित् विप्रकुमारः अस्य शिष्य आस्त। स शिष्यः सा च कन्या परस्परं प्रीत्या आस्ताम्। एकदा सापित्रा अन्यस्मै वराय दातुं निश्चिताभूत्। ततः सा कन्यासखीमुखेन तं कमलाकरमाहस्म तातो मामन्यस्मै दातुंप्रतिपन्नः, भवांस्तु मे अनुरागेण पूर्वं सङ्कल्पितो वरः, तदिदानीं युक्त्या इतो मां हर। ततः स तथेति प्रतिपद्य

तस्या अपसाराय वहिर्निश कृतसंविद्अलक्षितं भृत्यमेकंस्थापयामास। यथा सङ्केतमागता च सा कमललोचनारात्रौ तेन भृत्येन दूरं नीता। अथ प्रातर्नगरमेकं प्राप्यतं भृत्यं प्राबवीत् भद्र ! क्व ते प्रभुः कुसुमायुधः? किं मांतं मद्भर्त्तारंन प्रापयसि? तदाकर्ण्य स शठस्तमिकाकिनीं विदेशस्थांमत्वाब्रवीत् सुन्दरि ! अहं त्वां परिणेष्यामि,किं तेन, सोऽधुना क्व? तदाकर्ण्य सा साध्वी अन्तर्विषणाब्रवीत् भद्र ! तर्हि यथार्हं औद्वाहिकमुपकरणमाहर। तच्छ्रुत्वा स दुर्मतिः प्रहृष्टः नगरोद्याने तां स्थापयित्वासुविश्वस्तः विवाहोपकरणाहरणार्थमापणमगात्। तावच्चसा कन्या पलाय्यवेगसरीयुता कस्यचित् वृद्धस्य मालाकारस्य भवनं प्राविशत्। तत्र च तेन श्रुतवृत्तान्तेन सुसत्कृता सा निःशङ्कमतिष्ठत्। सोऽपि कुभृत्यस्तामप्राप्यविमुखस्तस्मादुद्यानात् न्यवर्त्तत। ततश्च क्रमेण तं प्रभुकुसुमायुधं उपेत्य पृच्छन्तमवादीत् प्रभो ! त्वं तावत् ऋजुः,न वेत्सि स्तीणांकुटिलानां चेष्टितम्। नैव सा गृहान्निरगात्। अहञ्च तत्रत्यैर्जनै दृष्टोऽवष्टब्धश्च, सा च मे वेगसरी हृता, दैवात् कथञ्चिदपसृत्य पलाय्य च अहमिहायातः। तदाकर्ण्य स कुसुमायुधः तृष्णींविमृषन् अधोमुख एवासीत्।

एकदासी पित्रा विवाहार्थं प्रेषितः व्रजन् यत्र साकमललोचना स्थिता तं देशं प्राप। तत्र निकटस्थितेउद्याने आवासितजन्यगणं भ्रमन्तं तं सा कमललोचनाददर्श शशंस च तस्मै मालाकाराय। स च साधुर्माला-

कारः समीपमेत्य कथितवृत्तान्तस्तं कुसुमायुधं स्वगृहमानेयत्। ततस्तत्र तयोश्चिरकाङ्क्षितः परिण्यः सद्य एवसम्भृतसाधनः समपद्यत। अथ स कुसुमायुधः तं कुभृत्यंनिगृह्य निष्काश्य च यद्विवाहार्थमागमत् तां कमललोचनाप्राप्ति हेतुभूतां सुलक्षणां मत्वा द्वितीयामपि कन्यांपरिणीय ताभ्यां बधूभ्यां समेतः सम्प्रहृष्टः स्वं देशमागमत्। इत्येवम् असम्भवोऽपि भव्यानां समागमः सम्भवति।तद् वत्स केसट ! त्वमपि अचिरात् प्रियां प्राप्स्यसि।

इत्यंतेन यज्ञस्वामिनाभिहिते ते सर्वे कन्दर्पादयःतस्य गृहे कान्यपि अहानि तस्थुः। ततस्ते स्वदेशं प्रस्थिताःमहाटवीं प्राप्य वन्यस्य गजस्य संभ्रमात् अन्योन्य विभ्रष्टाआसन्। तेषां स केसट एकाकी गच्छन् सुदुःखितः क्रमात्काशीपुरं गत्वा तं मित्रं कन्दर्पं प्राप। ततस्तेन साकंनिजं पाटलिपुत्रं नगरं ययौ। उवास च तत्र पित्रादिभिर्नन्दितः कञ्चित् कालम्। वर्णयामास च पित्रोःपृच्छतोरूपवतीविवाहादारभ्य कन्दर्पोदन्तं यावत् सर्वं वृत्तान्तम्।

अत्रान्तरे सा सुमना हस्तिभीता प्राणार्थिनी वनंविवेश। तत्र चास्याः प्रविशन्त्या रविरस्तमगात्। ततःसा एकाकिनी हा आर्य्यपुत्र ! हा तात ! हा अम्ब !इत्येवं शोचन्तौ तत्र दावानले ज्वलति तनुं क्षेतुमियेष। तावञ्च तत् योगिनीचक्रं कन्दर्पस्य कृपापरं ता अन्या योगिनोर्विजित्य तत् स्वायतनं प्रापत्। ताश्च तत्र स्थिताःसहसा कन्दर्पं संस्मृत्य स्वविज्ञानात् तस्य भार्य्यां वने विभ्रष्टाम् अवेत्य च मन्त्रयाञ्चक्रुः कन्दर्पः स धीरः पुरुषः,

स तत् वाञ्छितं लभताम्। परं वने भ्रष्टा तद्भार्य्या बाला ध्रुवं तनुं त्यजेत्। तत् तां रत्नपुरं नीत्वा स्थापयामः यत्रसा कन्दर्पस्य पितुर्गेहे सपत्न्यासह स्थास्यति। इति सन्मन्त्र्यगत्वा तद्वनं तां समाश्वास्य सा योगिन्यः तां सुमनसं रत्नपुरं नीत्वा जहुः। ततश्च निशायां गतायांसासुमनास्तस्मिन् पुरे भ्रमन्ती परिधावता जनेनोच्यमानम्इदं शुश्रावएषा कन्दर्पस्य द्विजस्य अनङ्गवतो नाम भार्य्यापत्यौ क्वापि गते कञ्चित्कालं तत्प्राप्तीच्छया स्थिता साध्वीतमद्यापि अप्राप्य निराशा दुःखिताभ्यां श्वशुराभ्यामनुद्रुताअग्निंप्रवेष्टुंगता। एतदाकर्ण्यैव सा सुमनाआशु तत् चितास्थानं गत्वा तामनङ्गवतीमेत्य न्यवारयत्।आर्य्ये ! मा साहसं कार्षीः, स हि ते पतिर्जीवति।अथ आमूलतः कृत्स्नं तद्वृत्तान्त सा शशंस। दर्शयामासच पतिदत्तमङ्गुरीकयम्। ततः सर्वे तद्वचः सत्यं विज्ञायतामभ्यनन्दन्।ततः स कन्दर्पपिता तुष्टः तुष्टां तां वधूमनङ्गवतींताञ्चसुमनसं समादृत्य गृहे न्यवेशयत्।

एतस्मिन्नन्तरे कन्दर्पः सुमनसः प्राप्तये भ्रमितुम्अनिच्छतोऽपि केसटस्य गृहात् तममुक्त्वैव निययौ। केसटोऽपि तस्मिन् प्रियसुहृदि गते रूपवतींविना सुदुःखितः पित्रोरविदितः इतस्ततो भ्रमितुं गृहात् प्रायात्।कन्दर्पतु भ्रमन् दैवात् यत्र केसटः तां रूपवर्ती परिणीतवान् तं देयं प्रापत्। तत्राकस्मात् जनकोलाहलं श्रुत्वाकिमेतदिति तत्र पृच्छन्तं कन्दर्पं कश्चित् पुमानब्रवीत् एषारूपवती भर्त्ता केसटेन विनाकृता मर्त्तमुञ्चता, ते-

नासौ कलकलः, अत्र च तद्वृत्तान्तं शृणु। इत्युक्ताकेसटोद्वाहराक्षसोदन्तकौतुकं रूपवत्याश्रितं विवरणं प्रोच्य सपुमान् पुनरब्रवीत् ततः तं केसटं वञ्चयित्वा वृद्धविप्रः तां रूपवतींपुत्रार्थमादाय गृहं प्रययौ। केसटस्तु तां परिणीयक्व यातो नाद्यापि विदितः सा च रूपवतीतं प्रियं केसटमपश्यन्तीपथि प्राब्रवीत् कथमहमार्य्यपुत्रंन पश्यामि?सर्वे च व्रजन्ति। तदाकर्ण्य स वृद्धोविप्रः पुत्रंदर्शयन् अयं ते आर्य्यपुत्र इत्यभ्यधात्। ततः सा रूपवतौ तत्रस्थान्वृद्धान् क्रुधाब्रवीत् कोऽयं कुपुरुषः? येन ह्यः परिणीतास्मि तं पतिं न चेत् प्राप्स्यासि, निश्चितं प्राणांस्त्यक्ष्यमि। एवं वदन्ती सा त्यक्ताहारपाना राजदण्डभयार्त्तेन तेनवृद्धविप्रणास्याः पितुरेव गृहं प्रापिता। तत्रोक्तद्विजवृत्तान्तां तां शोचन् पिताब्रवीत् पुत्रि ! कोऽसौ? कथं सपरिणेता ज्ञातव्य इति। ततो रूपवतीप्राहस्म तात !पाटलिपुत्रवासिनो हेसटाख्यस्य द्विजस्य सुतः केसटोनाम मत्पतिः। रक्षोमुखात् मया श्रुतमित्यभिधाय सा पित्रोरग्रतः सर्वं तद्वृत्तान्तमाचख्यौ। ततः स तत्पिता तत्र गत्वामृतं पतितं रक्षो दृष्ट्वा सञ्जातप्रत्ययस्तुष्यन् तस्य जामातुः प्राप्त्याशया सुतां समाश्वास्य पाटलिपुत्रं चरान् प्राहिणोत्। ते च गत्वा पाटलिपुत्रं चिरादागत्य प्राब्रुवन्ब्रह्मन् ! दृष्टोऽस्माभिः पाटलिपुत्रवासी भट्ट हेसटः। क्वासौतेपुत्रः केसट इति पृष्टश्चअस्मानाभाष्य एवमवादीत् कुतोऽत्र मेकेसटः सुतः। स आगतोऽपि कन्दर्पनाम्ना मित्रेण सह, पुनःरूपवतीदुःखात् मामनुक्त्वैव क्वापि

गतः। एतत् तस्य वचः श्रुत्वा वयं क्रमेण इहायाताः।इत्युक्त्वातेषु गतेषु रूपवतीपितरमभ्यधात् तात ! नास्तिमे आर्य्यपुत्रः, तदहमग्निं प्रविशामि, भर्त्ता विनाकृता कियच्चिरं हि तिष्ठेयम्। एवं ब्रुवाणा यदा तेन पित्रा निषेद्धुंन पारिता, तदा सा रूपवती अद्य स्वयं मर्त्तुमग्निना निर्गता। तस्याश्च सख्यौ उभे कन्ये तद्वत् मर्त्तुं विनिर्गते।एका भृङ्गवतो नाम अपरा अनुरागवती।रूपवत्याविवाहे ताभ्यां दृष्टः स केसटःरूपवान् युवा तद्रूपहृतचित्ताभ्यां भर्त्तृत्वे पर्य्यकल्पयत। तेनात्र जनानाम् अयंमहान् कलकलः। इत्युक्तस्तेन पुरुषेण स कन्दर्पः तासांचितान्तिकं प्रायात्। दूराच्च कलकलं निवार्य्य द्रुतमुपेत्यच अग्निमर्च्चयन्तीं रूपवतीमेवमभ्यधात् आर्य्ये! अलं तेसाहसेन, स ते पतिः केसटःजीवत्येव। स ते भर्त्तामे मित्रं मां कन्दर्पमवेहि। इत्युक्त्वा तस्य वृद्धविप्रस्यछलेन नौकारोपणात् प्रभृति सर्वं केसटोदन्तं कथयामास। ततः सा रूपवती पतिसंवादप्राप्त्या सञ्जातप्रत्ययासम्प्रहृष्टा ताभ्यां सखीभ्यां सह पितुर्गृहं प्राविशत्। कन्दर्पोऽपि तन्मित्रमिति प्रीत्या तया समुपचरितः सुरक्षितश्च तदनुरोधतस्तत्रैव तस्थौ।

अत्रान्तरे सोऽपि केसटःदैवात् तत् रत्नपुरं नगरंभ्रमन् प्राप। तत्र च परिभ्रमन्तं तं दृष्ट्वा तत्र हर्म्यस्थयाकन्दर्पभार्य्यया सुमनसा हर्षात् श्वशुरादयः ऊचिरे।सोऽयमार्य्यपुत्रसुहृत् केसटः साम्प्रतं सम्प्राप्तः, अस्मात्प्रवृत्तिर्बुध्येत, तत् शीघ्रमयं सम्भाव्यतामिति। ततस्तै-

र्गत्वा युक्त्या यथावत् सम्मान्य समानीतः स केसटःतांसुमनसं हृष्यदुपागतां दृष्ट्वा विश्रान्तश्च क्षणात् पृष्टश्च तस्यै वन्येभ संभ्रवमादारभ्य कन्दर्पगतं सर्वं स्वञ्च वृत्तान्तमब्रवीत्। यावच्च तत्र सत्कृतः स कांश्चित् दिवसान्आस्ते, तावत् लेखहस्तः कश्चित् पुमान् कन्दर्पपार्श्वतः तत्रागात्। यत्र रूपवतीं नाम तत्सुहृत् केसटः परिणीतवान् तत्र कन्दर्पः स्थितः। सा च रूपवतीतत्रैवास्ते। इति स पुमानब्रवीत् लेखार्थश्च स एव। सकेसटः समुद्घाट्यकन्दर्पपित्रेतत् सर्वमवाचयत्। ततःकृतोत्सवः सः अन्येद्युः कन्दर्पानयनाय दूतं प्रियाप्राप्तयेच केसटं तत्र प्राहिणोत्। केसटोऽपि तेन लेखहारेण सहयत्र सा रूपवती पितृगृहे स्थिता तं देशंययौतत्र च गत्वा तोयदश्चातकीमिव तां रूपवतीं चिरात् सोत्सवां हृतसन्तापां सम्भावयामास। कन्दर्पेण च समागत्य परां प्रीतिमुद्वहन् ते अपि द्वेकन्यके रूपवत्या वयस्य पूर्वोक्ते भृङ्गवत्यनुरागवत्यौतया रूपवत्या अनुमतः परिणिनाय। ततस्तास्तिस्रोमहिलाःसमादाय कन्दर्पमापृच्छ्यच केसटः स्वं देशंप्रतस्थे। कन्दर्पोऽपि तेन दूतेन सह तत् रत्नपुरं पुरं गत्वासुमनोऽनङ्गवतीभ्यां बधूभ्यां संजग्मे। ततस्तौ केसटकन्दर्पौ रूपवती सुमनसौ भार्य्येअवाप्य निजं निजं देशं गतौविविधान् भुञ्जानौतस्थतुः। इत्थं विधिवशात् विप्रयुक्ताः पुनरपि प्रियाभिः समागमं प्रयान्ति सत्ववन्तः महान्त्यपिदुःखानि विधूय। तत् शीघ्रमुत्तिष्ठ सखे ! व्रजामः, त्व-

मपि चिन्वन् भार्य्यामाप्स्यसि, को वेद दैवगतिम्?ममैवमृतापि भार्य्यापुनरधिगतजीवा प्राप्ता। इत्येवं कथामाख्याय अनेन सख्या प्रोत्साहितञ्चानुगतश्च भुवं भ्रमन् इमांप्रापम्। अथात्र सशूकरं गजेन्द्रमहमपश्यम्। ततश्चउत्तीर्य्यतेन गर्जन निगीर्णांतामेव अवशां स्वबधूमपश्यम्।चित्रमिदं यत् तं चिन्वता मया चिरदृष्टनष्टं गजेन्द्रमवलोक्य अद्य सुकृतैर्देवपादाः प्राप्ताः। एवं तस्य बणिक्सुताय उक्तवते स राजा विक्रमादित्यः तां गजवधलब्धांतदीयां बधूं समर्पयामास। तौ च विचित्रसमागमेनमुदितौ अन्योन्यकथितवृत्तान्तौश्रीविषमशीलं नृपतिंतुष्टुवतुः।

_________

अथ चतुर्विंशत्यधिकशततमस्तरङ्गः।

<MISSING_FIG href="../books_images/U-IMG-172275012943.jpg"/>

अथ राजा विक्रमादित्यः तस्य बणिक्सुतस्य सुहृदं सहागतम् एवं परिपृष्टवान् भद्र ! यत्त्वया मृतापि भार्य्या जीवन्तीप्राप्ता इति कथितं तदिदानीं नः समाख्याहिविस्तरेण। इत्युक्तस्तेन राज्ञा स बणिक्सुहृत् राजानमभ्यधात् देव ! यदि कौतुकं, तदाकर्ण्यताम्।

अहं ब्रह्मस्थलाख्ये अग्रहारे निवासीद्विजपुत्रश्चन्द्रस्वामी नाम। ममैका सुरूपा भार्य्यास्ति। एकदा मयि कार्य्यार्थं पितुराज्ञया ग्रामं गते भिक्षार्थमागतः क्वचित्

कापालिकस्तां मे भार्य्यामद्राक्षीत्। तेन दृष्टैव सा जातज्वरा सायं व्यपद्यत। ततो मद्बन्धभिर्नीत्वा नक्तं साचितामारोपिता। ततश्चप्रज्वलन्त्यां चितायाम् अहंतस्मात् ग्रामादागतः यथावृत्तं क्रन्दतः स्वजनात् अश्रीषम्। अथ मयि चितोपान्तं गते स कापालिकः करस्थनृत्यत्खट्वाङ्गः स्फुर्जड्डमरुरवः तत्रागात्। ततस्तेन भस्मक्षेपेण शमिते चिताग्नौ तस्मात् चितामध्यात् देवतेव सामदीया प्रिया अक्षताङ्गीउदतिष्ठत्। स च कपालो सिद्ध्याकृष्टामनुधावितां समायाय सपदि प्राद्रवत्। अहञ्चसधनुः शरः तद् युतां तां मदङ्गनामन्वगाम्। स चपापात्मा गङ्गातटे गुहां प्राप्य तत् खट्वाङ्गंभूमौ निधायतत्र स्थिते द्वेकन्यके अब्रवीत् कम्यके! युवामुभे प्राप्ते अपिमायया अन्येयमानीता। इमां विना मे सिद्धिर्नास्तीतिप्रतिज्ञा अधुना सिद्धिमागता। एवमुक्त्वायावत् स दुराशयो मद्भार्य्यां ताभ्यां दर्शयति, तावदहं तस्य खट्वाङ्गंगङ्गायामक्षिपम्। रे दुरात्मन् कापालिकाधम ! मे भार्य्यां जिहीर्षसि? इति भ्रष्टखट्वाङ्गसिद्धिकं तम आक्षिप्यअधावम्। स च खट्वाङ्गमपश्यन् शठः पलायनपरः समभवन्। ततश्च मया धनुषा शरं संयोज्य तेन प्रक्षिप्तेनस पापाशयो निहतः। इत्थं पापसिद्धिसंकल्पेन विड़म्बितशैवागमाः पाषण्डिनः प्रागेव पतिता एव एवं पतन्ति।

अथ तां भार्य्यां ते च द्वेकन्यके समादाय गृहमागतवानस्मि। बन्धवश्च मे आश्वर्य्यंमत्वा महोत्सवं विदधुः।ते च कन्यके स्ववृतान्तं पृष्ठे एवं वदतः स्म। आवयोरेका

वाराणस्यां राजकन्या, अपरा सार्थवाहसुता। अनेनैवकपालिना सिद्धि युक्त्या हृते आनीते, अधुना त्वत्प्रसादात्पापादस्मात् मुक्तिं गते। इति वादिन्यो ते अन्येद्युर्मयावाराणसीं नीत्वा स्वबन्धूनां तं वृत्तान्तमाख्याय समर्पिते।ततश्चागच्छन् पथि भार्य्यावियोगिनम् एनं बणिक्सुतमपश्वम्। मिलित्वा चानेन इह उपागतोऽस्मि। कापालिकगुहालब्धेन अङ्गरागेण रञ्जितात् देहान्मेक्षालितादपिअतिसौरभं निःसरति, दृश्यताम्। इत्थं मृतोत्थिताभार्य्यामया प्राप्ता इति वादिनं तं विप्रं बणिक्सुतसहितंसत्कृत्य राजा प्राहिणोत्। ततो गुणवती चन्द्रवतीमदनसुन्दरीःतिस्रो भार्य्याः समानीय समादाय च बन्धुभिः सर्वैर्मिलित्वा स्वां पुरीमुज्जयिनीं प्रायात्।पर्य्यणैषौश्च ताः कन्याः यथाविधि कृतमहोत्सवम्।

अथ स राजा तां विश्वकर्मगृहे दृष्टां स्तम्भपुत्रिकांस्मरन् प्रतीहारमादिशत् भद्र ! तां कलिङ्गसेनां प्राप्तुंकलिङ्गमेनाय राज्ञेदूतो विसृज्यतां यस्याः प्रतिकृतिः सास्तम्भपुत्रिका मया दृष्टा इति। ततस्तेन प्रतीहारेण अग्रतः समानीतं सुविग्रहं नाम दूतं सन्देशमुक्त्वाकलिङ्गविषयं प्रजिघाय। ततः स दूतो गत्वा कलिङ्गविषयंराजानञ्च यथोचितं दृष्ट्वा एवमवादीत् राजन् ! देवोविक्रमादित्यो नृपस्त्वामादिशति, वेत्थत्वं यत् भुविरत्नमस्मानमुगच्छति, एका ते कन्यास्ति, तामहं रत्नंमन्ये तत्तां मह्यं समर्पय। अस्मत् प्रसादाच्च निजं राज्यमकण्टकं चिरं भुंक्ष्व। एतदाकर्ण्य स राजा कालिङ्गः

क्रुद्धःप्रत्यभाषत कोऽयं मे विक्रमादित्यः?स एवास्मान् आज्ञां ददाति। कन्याञ्चोपायनं मार्गति। एतावान्दर्पः ! शीघ्रमधो गन्तुं यतते। एतदाकर्ण्य स दूतःसमभ्यधात् राजन् ! भृत्योऽपि एवमनात्मनः कथं प्रभोः ओजायसे? मूढ़ ! किं तत् प्रतापाग्नौ शलभायितुमिच्छसि? इत्युक्त्वाततश्चलितः स दूतः उज्जयिनीमेत्यराज्ञेविक्रमादित्याय तत् सर्वं न्यवेदयत्। ततो विषमशीलोऽसौ संक्रुद्धःबलैः सह प्रायात् कलिङ्गाभिमुखः। भूतकेतुर्वेतालश्च तमन्वगमत्। क्रमेण सेनारवप्रतिध्वानैराशासु देहि आशु कन्याम् इति तं कालिङ्गं ब्रुवतीष्विवतं देशमियाय । ततो राजा अयुद्धसन्नद्धंतं दृष्ट्वापि बलैःनिरुन्य मनसि एवमचियन्तयत् एतस्य सुतां विना ममनास्त्येव निर्वृतिः। तत् कथं श्वशुरं हन्मि, कात्रयुक्तिःकरणीयेति समालोच्य स राजा सवेतालः तस्य सिद्ध्याअलक्षितः रात्रौकलिङ्गेशस्य वासकं प्राविशत्। अरे विषमशीलेन विगृह्य स्वपिषि इति तं प्रबोध्य वित्रस्तंसवेतालःहसन्रवादीत्। स च कलिङ्गाधिपतिः उत्थायदर्शितसाहसं रौद्रवेतालसमेतं तं राजानं वीक्ष्य परिज्ञायच, इदानींते वशगोऽस्मि, देव ! किं करोमि, समादिश, इति प्रणतो व्यजिज्ञपत्। राजापि विषमशीलःयदि मयाप्रभुणाते कार्य्यं तदा सुतां ते कलिङ्गसेनां मह्यमर्पय इतिप्रत्यभाषत। कलिङ्गराजश्च तथेति तत्क्षणं प्रत्यपद्यत। राजाच विक्रमादित्यः कृतकार्य्यःवेतालयुतः स्वं शिविरमागात्।

अथान्येद्युः कलिङ्गाधिनाथः राज्ञेविषमशीलाय

यथाविधि विभवपूर्णंसुतां कलिङ्गसेनां शुभे लग्नेसमभ्यर्च्यप्रादात्। इत्थं देवि ! गाढ़ानुरागेण राज्ञाविषमशौलेन देहपणेन त्वं विधिवत् परिणीतासि। इति कार्पटिकस्य वदतो वक्तात् श्रुत्वाहं मन्युमत्यजम्। इत्यं स्तम्भपुत्रिकादर्शनादहं विवाहिता। चित्रावलोकनात् एषामलयवती च परिणीता। एवं सा कलिङ्गसेना विक्रमादिव्यवल्लभा भर्तृप्रभावमाख्याय स्वाः सपत्नीरनन्दयत्। इत्थं स विक्रमादित्यः सर्वाभिस्ताभिर्महिषोभिस्तया मलचयवत्या सहितः साम्राज्यसुखमनुभवन् तस्थौ।

अथैकदा कश्चित् राजपुत्रः कृष्णशक्तिर्नाम गोत्रजैः परिभूतः दक्षिणापथात् राजद्वारमायात्। स सिंहद्वारमागत्य राजपुत्रार्णां पञ्चभिः शतैरन्वितः कार्पटिकं वृतं शिश्रिये। द्वादशाब्दान् मया विक्रमादित्यस्य सेवा कार्य्येति स भूभुजा वार्य्यमाणोऽपि प्रतिजज्ञे। निश्चयेनात्रस्थितस्य तस्य राजपुत्रस्य सानुयायिनः सिंहद्वारे एकादशसमा अगमन्। ततश्च द्वादशे वर्षे प्राप्ते तस्य देशान्तरस्थिता भार्य्या चिरविरहार्त्ता लेखपत्रिकां प्राहिणोत्। प्रच्छन्ने च राज्ञिवीरचर्य्यागते शृण्वति स राजपुत्रःदीपावलोकेन तस्यां लेखपत्रिकायाम् अभिलिखितामार्य्यामेनामवाचयत्।

सन्तप्ताय सतरलास्तव विरहे नाथ ! कठिनहृदयायाः।
निर्यान्त्यविरतमेते निश्वासा मे न तु प्राणाः॥

इति वाचयतस्तस्मात् कार्पटिकात् तामार्य्यांश्रुत्वाराजा स्वंभवनं गत्वा व्यचिन्तयत् वतायं कार्पटिकः

सीदत्कलत्रः चिरं क्लिष्टः असिद्धार्थः पूर्णेऽस्मिन् द्वादशेऽब्देअसूंस्त्यजेत्। तन्मया विलम्बी न कार्य्यःइति आलोच्य स राजा दासींकामपि प्रेष्य तदैव तं कार्पटिकमानाययामास। शासनपत्रमेकं लेखयित्वा च तमेवं समादिशत् भद्र ! ओङ्कारपीठमार्गेण उत्तरां दिशं गच्छ, तत्रामुनाशासनेन मदर्पितंग्रामं भुङक्ष्व, नाम्ना खण्डकटकं तंपृच्छन् गच्छन्नवाप्स्यसि। इत्युक्त्वा स राजा तस्मै शासनमदात्। सोऽपि भृत्येभ्यः अनावेद्य तस्यामेव निशि कार्पटिकः प्रायात्। का जिगीषा ममैकेन ग्रामेण ब्रीड़ादायिना तस्यापि प्रभोराज्ञा कार्य्या इति असन्तोषेणैव क्रमात् ब्रजन् ओङ्कारपीठमार्गेण गत्वा दूरे अरण्ये क्रीड़न्तीर्बह्वीःकन्याः ददर्श पप्रच्छ च ताः, अपि जानीथ यूयं खण्डकटकं क्वभवेदिति। एतदाकर्ण्य तास्तमूचुः न जानीमहेवयम्। सौम्य ! गच्छाग्रतः इतो योजनानां दशके नःपिता तिष्ठति तं पृच्छ, स जातु तं ग्रामं विद्यात्। एवमुक्तस्ताभिः कन्यकाभिः गत्वा योजनानां दशकानि,तासां पितरं भीषणाकृतिं राक्षसमपृच्छत् भद्र ! इह खण्डकटकं क्ववद इति सोऽपि तं धैर्य्यमाधाय अब्रवीत् किंतत्र ते तद्धि पुरं चिरशून्यं तथापि चेत् यासि, तच्छृणु,मार्गोऽयं ते पुरतो द्विधा गतः। तत्र वामेन पथा गच्छन्प्राप्स्यसि खण्डकटकस्य उच्चप्राकारहारिणींप्रतोलीम्। इति रक्षसोक्तः स गत्वा तां प्रतोलींशून्यं भयदं हृद्यंसप्तकक्षावृतं पुरं विवेश। प्रविश्य च यावत् नृपासनमधितिष्ठति तावत् कश्चित् राक्षसः समुपेत्य वेत्रहस्तस्तमभ्यधात्

भो मानुष ! किमत्र त्वं नृपासने समुपविष्टः?तदाकर्ण्यस धीरः कृष्णशक्तिः कार्पटिकः तत् राजशासनं दर्शयन्नब्रवीत् अहमत्र प्रभुः यूयं मे करदाःकुटुम्बिनः। विक्रमादित्येन नृपतिना शासनेन मे राज्यमिदं प्रदत्तम्। तदाकर्ण्य स राक्षसः शासनं दृष्ट्वा तं प्रणम्य च उवाच त्वमिदानीमस्माकं राजा, प्रतीहारस्तेऽहमस्मि, सर्वत्रैव तस्यदेवस्य विक्रमादित्यस्य आज्ञा अखण्डिता। इति समाख्याय स राक्षसः सर्वाः प्रकृतीराजुहाव। मन्त्रिणः सर्वेसमाजग्मुः। तथा राजपरिच्छदश्चसमानीतः तत्क्षणञ्चचतुरङ्गेन बलेन तत् सभाङ्गनमपूरि। ततः सर्वैः प्रणम्यमानो हृष्टः स कार्पटिकः राजोपचारेण सर्वाः स्रानाहारादिकाः क्रिया निर्वर्त्तयामास। ततः स तत्र प्राप्तराज्यः सविस्मयमचिन्तयत् अहो ! कोऽयं महात्मनः विक्रमादित्यभूपतेः प्रभावः? चित्रमपूर्वस्तस्य प्रभोर्गाम्भीर्य्यगरिमा,यत् ग्रामं ददता राज्यमपीदृशं मह्यमर्पितम्। इति चित्रायमाणः स राज्यं कुर्वन् उवास। विक्रमादित्यश्चउज्जयिन्यांतत्सखीन् तान् पुपोष।

अथ गच्छति काले स कार्पटिको नृपतिः सोत्सुकः सेनाकम्पितभूतलः तं राजानं विक्रमादित्यं प्रणन्तुमाजगाम। आगतञ्च पादानतं तं विक्रमादित्यः प्रोवाचराजपुत्र! पत्न्याःनिश्वासान् वारयितुं गच्छ। इत्युक्तस्तेन राज्ञा स कार्पटिकः साङ्भूतः राजानमभ्यनुज्ञाप्य सखिभिः साकं निजं देशमगात्। तत्र च गत्वा गोत्रजानुत्सार्य्यतां भार्य्यां चिरोत्सुकां आनीयसिद्धमनोरथः परां

राजश्रियं भेजे। इत्थं स राजा विक्रमादित्योऽद्भुतचारित्रशक्तिः।

अथैकदा राजा एकमूर्द्धरोमकरं द्विजमैक्षत अपृच्छश्च ब्रह्मन्! कथमीदृक्, कुतो वा समागत इति। द्विजःराज्ञेस्ववृत्तान्तमब्रवीत्।

देव ! पुरासीत् पाटलिपुत्रे अग्निस्वामी नाम विप्रः।तस्य महाग्निहोत्रिणः सुतोऽहमग्निस्वामी नाम।मया चदूरदेशात् कापि विप्रकन्या परिणीता। सा तु ममभार्य्या बालत्वात् तत्पितुरेव गृहे स्थापिता। अथ कालेनयौवनप्राप्तां तामानेतुमहम् अश्वमारुह्य केनचित् भृत्येनसह श्वाशुरं गृहमगाम्। तत्र श्वशुरेण सत्कृतश्च स चेटिकां तां भार्य्यामश्वाधिरूढ़ामादाय गृहाभिमुखं प्रायाम्। अर्द्धमार्गे च सा मे भार्य्या अश्वाया अवरुह्य अम्बुपानापदेशेन नदीकच्छमगात्। यावच्च सा चिरयतितावत् तदवेक्षणे सहस्थितं तं भृत्यं तत्रैवाहं विसृष्टवानस्मि। यावच्च सोऽपि नायाति तावदहमपि तदीयां चेटिक तुरङ्गीरक्षणां नियुज्य स्वयं तत्र गतोऽस्मि। गत्वाच यावत् पश्यामि तावत् तया मद्भार्य्ययास मे मृत्योभक्षयित्वा रक्ताक्तवक्त्रया अस्थिशेषः कृतः। ततोऽहं वित्रस्तः यावत् तुरगींप्रति गच्छामि, तावत् तयापि तदीयया चेट्यासा तुरगी भक्षिता। ततः पलाय्य यातोऽहं प्राणैर्नवियोजितोऽस्मि। देव! तत्रासात् अधुनापि मे उर्द्ध्वरोमकरत्वं न निवर्त्तते। तदत्रदेवो मे गतिरिति वादिनं द्विजंविक्रमादित्यः अभयदानेन गतत्रास मकरोत्। अहो !

धिक् नास्ति विश्वासः साहसकारिणीषु स्त्रीषु, इतिराज्ञिवदति तत्र स्थितः कश्चिदमात्योऽवादीत् देव !दुर्जाता एव स्त्रियस्तादृश्यः मन्ये, देवेन अग्निशर्म्मणोब्राह्मणस्य वृत्तान्तो न श्रुतः, तदाकर्णयतु महाराजः।

इहैवास्ति अग्निशर्म्मानाम द्विजः सोमशर्म्मसुतः। स तु पित्रोः प्राणसमः सर्वविद्यासु शिक्षितः परं मूर्खः।तेन वर्द्धमाननगरे कापि द्विजकन्या परिणीता। सापिशैशवात् धनवता पित्रा न गृहात् परित्यक्ता। तस्याञ्चयौवनस्थायां पितरौ अग्निशर्म्माणमूचतुः पुत्र ! भार्य्यां तेअधुनापि किं नानयसि? श्रुत्वैतत् पितरावनापृच्छ्य सदुराशयः एकाकी तां गृहिणीं प्रति प्रायात्। गृहान्निर्गतस्यतस्य कपिञ्जलो दक्षिणोऽभूत्। दक्षिणाच्च प्रतिकूलशंसिनीशिवा विरौति स्म। सोऽपि मूर्खः जीव जीवेत्युदीर्य्य तदनिमित्तमभ्यनन्दत्। तदाकर्ण्य शकुनदेवता अदृश्या जहास च। अथ श्वाशुरं गृहं सम्प्राप्य प्रविविक्षतस्तस्यकपिञ्जलो वामःशिवा च कथिता वामाभूत्। सोऽपिपुनर्जीव जीवेत्यदीर्य्यतथैव तदभ्यनन्दत्। शकुनाधिष्ठात्रीदेवता चाचिन्तयत् अहो ! मूर्खोऽयं, यदशुभं शुभमित्यभिनन्दति। तत्तु कार्य्यंयेन प्राणौजीव्यते, अतोमयायं प्राणैर्यथा न वियुञ्ज्यात् तथा कार्य्यम्। इति चिन्तयन्त्यांतस्यां शकुनदेव्यां सोऽग्निशर्म्मादत्तप्रहर्षः श्वशुरगृहंप्राविशत्। श्वशुरादिभिश्च किमेकाकीआगतोऽसीतिअभिहितः स गृहे अनुक्त्वा आयातोऽस्मीति सर्वेषामभिदधे। ततः कृतोचितस्नानभोजनस्य तस्य शय्यागृहे

निशायां तस्य भार्य्या प्रसाधिता समीपमायात्। पथि श्रमाच्चसुप्तेतस्मिन् सा तद्भार्य्याबहिर्निर्गत्य शूलविद्धस्यचौरस्य उपपतेरन्तिकमाजगाम। तद्देहमालिङ्गन्ती चसा तदाविष्टेन भूतेन दशनैश्छिन्ननासिका ततो भयात्पलाय्य स्वं गृहमागत्य च सुप्तस्य पत्युरन्तिके विकोशामसिधेनुकां न्यस्य तारस्वरं रुरोद हा हा मृताहमस्मि,अनेन मे भर्त्ता किं कृतं नासाविकर्त्तनं पश्यत इतितदाकर्ण्य तद्बान्धवाः समेत्य तां छिन्ननासां दृष्ट्वा तमग्निशर्माणं लगुड़प्रहारैरताड़यत्।

अथ प्रातः तत्रत्यं नृपमावेद्य तदादेशात् ते बान्धवा निर्दोषभार्य्याद्रोहीति बधकेभ्यस्तं समर्पयन्। ततस्तस्मिन् बध्यभूमिं नीते सा शकुनदेवता तद्भार्य्यायानैशवृत्तान्तदर्शिनी समचिन्तयत् एतेन तु अनिमित्तफलं प्राप्तं, यत्तु अयं जीव जीवेति प्रोक्तवान् तेनाहममुं बधात् रक्षामि। इत्यालोच्य सा निगूढ़देहा अन्तरीक्षात्प्रोवाच बधकाः ! निर्दोष एषः द्विजसुतः न बध्यः। शूलस्थस्य चौरस्य दशनान्तःगत्वा नासिकां छिन्नां पश्यत।इत्युक्त्वा सा तस्यास्तद्भार्य्याया रात्रिवृत्तान्तं सर्वमवर्णयत्। ततस्तत् प्रत्ययात् प्रतीहारमुखेन तैर्विज्ञप्तो नृपतिःगत्वा तां नासिकां चौरदन्तान्तर्गतां वीक्ष्यतमग्निशर्माणंबधात् निर्मोक्ष्यगृहं व्यसृजत्। ताञ्चकुलटां यथोक्तदण्डेनादयत्। देव ! स्त्रियः एवं रूपाः प्रायश इतितेन मन्त्रिणोक्ते राजा विक्रमादित्यस्तत्तथेत्यन्वमोदत। ततो धूर्तोमूलदेवः राजान्तिकस्थितः प्राब्रवीत् देव ! न

साध्वयःकिं कुत्रचित् असाध्वीषु न सन्ति? विषवल्लीषुमध्ये किं चूतलतिका न सन्ति?तदेतदाकर्ण्य तां देवेन,यन्मया अनुभूतम्। पूर्वमहं शशिना सह पाटलिपुत्रमगच्छम्। तत् पुरं नागरिकक्षेत्रं मत्वा वैदग्धदिदृक्षया तत्रबाह्ये सरसि एकां वस्त्रधारिणींस्त्रियं दृष्ट्वा इहपान्थैःक्वा वास्यते? इति पृष्टवान्। इह तीरेषु चक्रवाकैः, वारिणिमत्स्यैः, अञ्जेषु षट्पदैरास्यते, नात्र पान्थावासो मयादृश्यते। तया वृद्धयोषिता वक्रोक्त्या एतत् प्रत्युक्तोऽहंविलक्षः शशिना सार्द्धं नगरं प्राविशम्। तत्रैकस्मिन् गृहद्वारि उष्णपात्रस्थे परमान्ने पुरस्थिते रुदन्तमेकं बालं दृष्ट्वाशशीअवदत् अहो ! अबुद्धिरयं बालः, योऽग्रदत्तं परमान्नं न खादति क्लिश्नाति च वृथात्मानं रुदितैः। तदाकर्ण्य सबालो हसन् नयने प्रमृज्याब्रवीत् मूर्खा यूयं न जानीथरोदने मम गुणान्। एतत् परमान्नंशीतलीभवत् स्वादुभवति श्लेष्मा च क्षयं गच्छति, रुदतो मे एते गुणाः, नाहंमौर्खेण रोदिमि। यूयं ग्राम्याः पुनर्मूर्खाः, नाभिप्रायंमे जानीथ इति तेन बालकेनोक्ते स्वावैदग्धाविलज्जितौ शशी अहञ्च उभौ साश्चर्य्यौततोऽपसृत्य अन्यतो गतौ। गत्वाच कियन्तं दूरम् आम्रतरुस्कन्धगतामाम्रावचायिनींमूलस्थितपरिच्छदां कामपि वरकन्यामपश्याव। शुभे ! कानिचित् आम्रफलानि अस्मभ्यं प्रयच्छ इत्यस्माभिरभ्यर्थितासा एवमभाषत युवाम् आम्रफलानि उष्णानि वा शिशिरापि अश्नोथः?तदाकर्ण्य आश्चर्य्यजिज्ञासुं तां कन्यामवदाम सुन्दरि ! अश्नीथस्तावत् उष्णानि ततोऽन्यानि च।

एतदाकर्ण्य सा पांशुष्वाम्रफलानि अक्षिपत्। अस्माभिश्च मुखानिलैस्तानि नीरजीकृत्य भुक्तानि। ततः सा सपरिजना कन्या हसन्तीप्राब्रवीत् पूर्वमुष्णानि वो दत्तानि आम्रफलानि फुत्कारेण भुक्तानि, इदानीं शीतलानि एतानिअफुत्कार्य्याणि वाससि गृह्णीत। एवमुक्त्वासा अन्यानिफलानि अञ्चलेषु नः प्राक्षिपत्। तान्यादाय वयं ततः स्नानात्विलक्षिता याताः। ततोऽहम् अन्यान् सहचरान्शशिनञ्चाब्रूवम् अवश्यमेषा विरुद्धा कन्यका मया परिणेया,अन्यथा कामे धूर्त्तता? एवमुक्तैस्तैस्तथेति तत् पितुः सदनमन्विष्टम्। वयञ्च वेशान्तरेणालक्ष्याअपरेऽहनि तत् पितृगृहमृगच्छाम। तत्रागत्य वेदान् पठतोऽस्मानभ्येत्य यज्ञस्वामी नाम तत्पिता अपृच्छत् कुतो यूयं, के चेति। वयं मायापुरात् विद्यार्थमिहागता इति अस्माभिरभिहितः सआढ्यो द्विजोत्तमः प्राहस्म तर्हि इहैव मद्गृहे इमां चतुर्मासींवसत कुरुत चानुग्रहं यूयं दूरात् समागताइति। तदाकर्ण्य वयमवोचाम ब्रह्मन् ! कुर्म्मोभवद्वचः,यदि चतुर्मास्यवसाने अर्थितं नः प्रदास्यसि। एवमुक्तोऽस्माभिः स यज्ञस्वामी द्विजोऽभ्यधात् भद्राः ! शक्यं मदर्थंमृग्यध्वं चेत् निश्चितं दास्यामीति इति तेन प्रतिश्रुते वयंतद्गृहे आस्महे।

अथ पूर्णायां चतुर्मास्यां अस्माभिः स द्विजोत्तमःप्रोक्तः ब्रह्मन् ! यामो वयं तत्पूर्वोक्तं देहि यत् वयं प्रार्थयामहे इति किं तदिति पृच्छन्तं तं शशी तां कन्यां प्रदर्श्यावदत् ब्रह्मन् ! कन्येयं भवतः अस्मन्मुख्याय अस्मै भवता

प्रदीयतामिति। ततः स विप्रो वाग्वद्धोयज्ञस्वामीइत्थमचिन्तयत् क्वलितोऽस्मि तावदेभिः, तद्यावत् कोदोषः, गुणवानयम्। इत्यालोच्य स विप्रो यथावत् तां सुतां मह्यमदात्। अहञ्च नक्तं हसन् वासगृहे तां कन्यामवदं सुन्दरि ! कश्चित् तानि आम्राणि उष्णानि शिशिराणि च स्मरसि? तदाकर्ण्य प्रत्यभिज्ञाय सा सस्मितं मामतवादीत् एवमेव ग्राम्या नागरिकैर्जनैः विड़म्ब्यन्ते। ततोऽहमपि तामवोचं नागरिके ! तिष्ठ तावत् सुखम्। ग्राम्योऽहमधुना त्वां विहाय प्रतिज्ञया दूरं यास्यामि। एतदाकर्ण्य सापि प्रतिज्ञामकरोत् निश्चितं मया त्वं त्वत्तो जातेन सूनुना अवष्टभ्य आनेतव्य इति। अन्योऽन्यंप्रतिज्ञाते सापराङ्मुखी शेते स्म। अहञ्च सुप्तायास्तस्या अङ्गुलीस्वाङ्गुरीयकंन्यधाम्। ततोऽहं निर्गत्य तैः सहचरैर्मिलितःतस्या वैदग्ध्यंदिदृक्षुर्निजामेव उज्जयिनीमागाम्। सापिविप्रसुता प्रबुध्य प्रातर्मामपश्यन्ती अङ्गुरीयकञ्च मन्नामाङ्कःपश्यन्तीव्यचिन्तयत् गतोऽयं तावत् मां त्यक्त्वा प्रतिज्ञापालनपरः, मयापि मुक्तानुतापया स्वप्रतिज्ञातमनुपालनीयम्। मूलदेवेति नामाङ्कमङ्गुरीयकं दृश्यते।तत् ध्रुवं यो मूलदेवो धूर्त्तः ख्यातः, सा एवासौ। सचोज्जयिन्यां वसतीति सर्वैः कथ्यते। तत्तत्र युक्त्या गत्वामया समीहितं साधनीयमिति सङ्कल्प्यपितरं स्वैरमेवमब्रवीत् तात ! गतो मे भर्त्ता सहसा मां परित्यज्य,तेन च वियुक्ता कथमिह सुखंतिष्ठामि? तत्तीर्थयात्रायै गच्छामि, एतां तां हतां तनुं क्लिश्नामि। इत्यक्त्वा

अनिच्छन्तमपि तं यत्नेनानुज्ञाप्य पितरं सधनपरिच्छदाततः प्रायात् क्रमेण च गत्वा सा महार्धंगणिकोचितंवेशं कृत्वा लोकैकसुन्दरीसतीगत्वा उज्जयिनीमेवविषेश। परिजनेन कर्त्तव्यसंविदं कृत्वा च सा सुमङ्गलेतिस्वं नाम ख्यापितवती। तथा ख्यापिते च नाम्नि देवदत्ताख्या तत्रत्या गणिकोत्तमा उपेत्य तस्यै राजार्हमेकंपृथक् मन्दिरं प्रादात्। तत्र स्थितां तां स मे मित्रं शशीभृत्यमुखेन ख्यातिहृतः भाटिर्मे गृह्यतामित्यब्रवीत्। यः अस्मद्वचोऽनुतिष्ठत् स कामुकोऽत्र प्रविशेत्, न ममभाट्याकार्य्यंन चान्यैः पशुनिभैर्नरैः। इति तयासुमङ्गलया भृत्यमुखेनोक्तः शशी तथेति उक्त्वाप्रदोषे तम्मन्दिरमगात्। तत्र स प्रथमद्वारं प्राप्य आवेदितात्मा द्वारपालेन कुरु अस्मत्स्वामिन्या वच इति निजगदे। स्नातोऽपीह पुनः स्नाहि, नान्यथा ते प्रवेशोऽस्ति। तदाकर्ण्य सशशी तथेति स्नानमङ्गीचकार। ततस्तस्या दासीभिरभ्येत्य अभ्यङ्गोद्वर्त्त नानन्तरं यावत् विस्रब्धं स्नपितः,तावत् प्रथमः प्रहरो गतः। अथ स्नातः द्वितीयं द्वारंप्राप्तः स शशी तत्रत्येन द्वाररक्षिणा अभिदधे भद्र ! स्नातोऽसि तावत् प्रसाधनविधिं कुरु।तथेत्युक्तवतस्तस्यदास्यः समेत्य यावत् प्रसाधनं कुर्वन्ति स्म तावत् द्वितीयःप्रहरः पर्य्यहीयत। अथ तृतीयं कक्ष्याद्वारंप्राप्तः सरक्षिभिरुक्तः सौम्य ! भुङ्क्ष्वतावत्, ततः प्रविशाभ्यन्तरम्। ततो वाढ़मित्युक्तवन्तं तं सख्यः समेत्य यावत्विविधैराहारैः पानैश्चव्यड़म्बयन् तावत् तृतीयोऽपि

प्रहरोऽत्यगात्। अथ चतुर्थं वासगृहद्वारं प्राप्तः स तत्रत्येन द्वाररक्षिणा एवं निरभर्त्स्यत ग्राम्यकामुक ! निर्याहि माखलीकारमाप्नुहि। पश्चिमे यामे गणिकयानवसङ्गमेकालः किम्? इत्थं तेन तिरस्कृतः स रूपिणा छलेन,शशी विगलितप्रभः यथागतमेवागात्। इत्थमन्येऽपि बहवःकामिनस्तया सुमङ्गलया विडम्बिताः। तदाकर्ण्य अहमेकदा देव ! दूरगतागतं कृत्वा नक्तं सुप्रसाधितः तस्यागृहमगच्छम्। तान् तांश्च द्वाःस्थान् प्रतिद्वारं अर्थदानेनानुरञ्ज्य अविलम्बितस्तस्या गृहद्वारमगाम्। अथ कालप्राप्तः द्वारात् द्वारपालैर्विमुक्तश्च प्रविश्य वेश्यावेशापरिज्ञातां तां स्वप्रियामहमापम्। सा तु पुनः प्रत्यभिज्ञायप्रत्युद्गम्य वेश्येव धूर्त्ता पर्य्यङ्कनिषणंमामुपाचरत्।ततोऽहं तया लोकैकसुन्दर्य्यासाकंनिशां नीत्वा बद्धानुरागो निर्गन्तुंतस्मात् गृहात् नाशकम्। सापि बद्धरतिःपार्श्वात् मे क्षणमपि नापयाति स्म। यावच्च दिनैः सासगर्भा श्यामलाग्रपयोधरा भवत् तावत् सा विदग्धाकूटलेखं कृत्वा ह्यमर्पयत्। प्रभुणा राज्ञामे लेखः प्रहितः वाच्यतामिति। ततोऽहं तं लेखमुद्घाट्य अवाचयं श्रीकामरूपात् श्रीमान् मानसिंहो भूपतिः सुमङ्गलामादिशतिकथमत्र चिरं स्थितासि, देशान्तरकुतूहलं हित्वा शीघ्रमागम्यतामिति मयैवं लेखे वाचिते सा सव्रीड़ेव मामब्रवीत् सुभग ! यामि अहं, मा मन्युंकृथाः, परवतीह्यहम्। एवं छलं कृत्वा सा स्वमेव पाटलिपुत्रं प्रायात्।अहन्तु तां परायत्तेति अनुरक्तोऽपि नान्वगाम्। सा च

पाटलिपुत्रस्था कालेन सुतं सुषुवे। स च शिशुर्वर्द्धमानः सर्वाःकला अशिक्षत। स कदाचित् बालो द्वादशाब्दोऽपि बालचापलात् सवयसं दाशेरकं लतया अताड़यत्।स च ताड़ितो रुदन् रुषाब्रवीत् त्वं मां ताड़यसि, यस्यतव पिता न ज्ञायते? विदेशं भ्रान्ताया मातुस्त्वं जातोहि यतस्ततः। इति तेनाभिहितः स वैलक्ष्यात् गत्वा मातरमप्राक्षीत् अम्ब ! को मे पिता? स च कुत्रास्ते कथ्यतामिति। सा च माता तं द्विजसुतमीक्षमाणमुवाच तवपिता मूलदेबो नाम मां त्यक्त्वाउज्जयिनीं गतः। इत्युक्त्वा आमूलतः सा तस्मै स्ववृत्तान्तमाचख्यौ। ततः स बालस्तामवादीत् अम्ब ! तर्हि तमहं पितरं गत्वा बद्धाआनयन् तेप्रतिज्ञां पूरयामि। इत्येवमुक्त्वा जननीं स बालःतयोक्तमदभिज्ञानस्ततः सद्य एव प्रस्थितः इमामुज्जयिनीं प्राप। आगत्य च दीव्यन्तं मां दृष्ट्वा पृष्ट्वा च अभिज्ञानेन निश्चितंबुद्ध्वाच चिण्टामानेन द्यूतेन स सर्वानेव जयतिस्म।बालत्वेऽपि महाधूर्त्तः सर्वेषां कृतविस्मयः सः अर्थिभ्यः द्यूतजितं सर्वं धनं ददौ। स्वयुक्त्या च रात्रौ कार्य्यार्थमागत्य मद्गृहं सुप्तस्य मे मायया खट्टामहरत्। ततः प्रबुद्धोऽहम् आत्मानं तृणपृष्ठगम् अखट्टं दृष्ट्वा सलज्जाहारुविस्मयोऽभूवम्। अथाहं देव! शनैरापणं गत्वा परिभ्रमन् तं बालं खट्टां विक्रीणानं व्यलोकयम्। उपागम्य च तम् अब्रुवं कियता मूल्येन एषा खट्टा दीयते? बालोमामब्रवीत् धूर्त्तशिरोमणे ! नेयं खट्टा अर्थेन लभ्यते, अपूर्वाद्भुतवर्णनेन तु लभ्यते। तदाकर्ण्याहमवोचं तर्हि शृणु

ते अद्भुतं वच्मि, यदि तत्त्वतः सत्यमिति बुद्धाअनुमन्यसे!यदि त्वसत्यमिति तत् वक्ष्यसि, तदा मेप्रत्ययेन त्वं जारजातः, खट्टाञ्चाहमाप्नुयाम्। अनेन समयेन मे विचित्रमाख्यानं शृणु कथयामि।

पूर्वं कस्यापि भूपतेः राष्ट्रे दुर्भिक्षमभवत्। सवाहनानांनागानां शीकराम्बुमहाभरैः सूकरप्रेयसीपृष्ठे नरः स्वयंकृषिं चक्रे। ततः समुत्पन्नैर्धान्यैः स महीपतिः समृद्धः प्रजानां दुर्भिक्षं शमयामास। एवं मयोक्ते स बाली हसन्नवादीत् नागानां वाहनाः मेघाः सूकरप्रेयसी क्षितिः।याहि सूकररूपस्य विष्णोः प्रियतमोच्यते। तस्यां मेघाम्बुभिर्धान्यमुत्पत्रं तदत्र किमद्भुतम्? इत्युक्त्वास बालोधूर्त्तं मां विस्मितमब्रवीत् इदानीमहमेकां विचित्रां कथाख्यामि, सदप्यदःतत्सत्यमिति तत्त्वतो विज्ञाय प्रत्येषियदि, तदा ते खट्टामिमां दास्यामि, अन्यथा त्वं मे दासःइति। मया तथेत्यक्ते स बालधूर्त्तःप्राब्रवीत्। धूर्त्तपते ! पुरा कोऽपि बालकः इह उदपादि। य उत्पन्न एव भरण उर्वीमकम्पयत्। तदैव वृद्धो भुत्वा लोकान्तरे पदं चक्रे च। इत्युक्तवन्तं तं बाल तदबुद्धाहगब्रुवं वत्स ! अलोकमेतत् नास्त्यत्र कापि सत्यता। ततः स वालोऽवादीत् धूत्ततम ! जातस्यैव वामनाकृतेर्हरेःचरणाक्रान्ता महीकिं नचकम्पे? तदैव च स वृद्धिं गत्वा किं ध्रुवलोके पदं न कृतवान्? तदेवं जितोऽसि, दासीकृतोऽसि च, अत्रापणवर्त्तिनः सर्वे मम पणे साक्षिणः स्थ, तदहं यत्र गच्छामि,तत्र मया सहागच्छ। इत्यक्त्वास धीरो बालः पाणिना

मां भुजे अग्रहीत्। सर्वे च तत्रस्था अस्य तथैव साक्ष्यं ददुः। ततश्च स सानुगः पणवद्धंमामवष्टभ्य मातुरन्तिकंपाटलिपुत्रं नयति स्म। तन्माता च तदानींमां दृष्ट्वा अभाषत आर्य्यपुत्र ! मयापि अद्य स्वप्रतिज्ञा पूरिता। त्वज्जातेनैव सूनुना अवष्टभ्य त्वमानायितः इत्युक्तासा साध्वीसर्वं वृत्तान्तं सर्वेषां सन्निधौ अवर्णयत्। ततः सर्वे बान्धवास्तां स्वप्रज्ञासाधितेप्सितां पुत्रेण मृष्टकौलीनामभ्यनन्दन्।ततश्च ज्ञातार्थोऽहं तया पत्न्यातेन च पुत्रेण साकं चिरं तत्रोषित्वा इमामुज्जयिनीमागाम्। देव ! एवं भर्त्तभक्ताः कुलाङ्गनाश्च सन्ति। सर्वा एव सर्वत्र न दुर्वृत्ता इति मूलदेवोक्तां कथां निशम्य राजा विक्रमादित्यः सह मन्त्रिभिस्तुतोष। इत्येवमाश्चर्य्याणि शृण्वन् कुर्वंश्च सप्तद्वीपांमहींविजित्य चिरं बुभुजे। इत्यं संयोगवियोगैः पूणांतां विषमशीलकथां निशि समाख्याय कण्वमुनिः पुनमदनमञ्जुका विरहिणं मामवदत् नरवाहनदत्त ! इत्थम् अचिन्त्याः सङ्गमा वियोगाश्च जन्तूनां भवन्ति, तत्तवापि नचिरात् प्रियया तया समागमो भविता, धृतिमवलम्बस्व, त्वादृशा न हि विधुरा व्यसनेषु। अविलम्बमेव भार्य्यासचिवसमेतो विद्याधरचक्रवर्त्तिपदं प्राप्सयसि। इत्थं कण्वमुनिवचसा लब्धधृतिःविरहकालं नीत्वा कथञ्चित् क्रमेणसर्वा भार्य्या विद्याः खेचरसाम्राज्यञ्च प्राप्तवान्। एतच्च केवलं वरदस्य देवस्य शम्भोः प्रसादात् मया सर्वमाप्तम्। महामुनय ! आदावेव अहं तदखिलं वर्णितवान् इति नरवाहनदत्तः स्वांकथामाख्याय मुनिजनाभिनन्दितः

लब्धसिद्धिंगोपालकञ्च मातुलमहर्षयत्। तत्र चाश्रमेमुनीनां, जलदागमवासरान् तान् नीत्वा तं मातुलं तांश्च तपोवनस्थान् मुनीनामन्त्र्यसदारसचिवः विमानमारुह्यखेचरसैन्यैः पिहितान्तरीक्षः स्वनिवासमद्रिम् ऋषभकं प्राप्य साम्राज्यभोगसुखया समृद्ध्या सुखमुपभुञ्जानः कल्पजीवी विद्याधराधिपत्यमकरोत्।

इत्येषा कथा पुरा कैलासशिखरे तुषाराद्रिसुताभ्यर्थनातुष्टेन शशिशेखरेणाभिहिता शापतः समुत्पन्नैः क्षितितलेपुष्पदन्तादिभिरतुलां कीर्त्तिं विभ्रद्भिःप्रसिद्धिंगमिता। इत्थं मद्वदनोद्गताम् इमां कथां यः पठति शृणोतिचादरात् स खलु न चिरात् विधूतपापः नियतं विद्याधरतामवाप्य मम लोकमियात्। इति वरं दत्त्वा तांगिरिसुतां कान्तां गिरिशोऽन्वरञ्जयत्।

इति चतुर्विंशत्यधिकशततस्तरङ्गः।
समाप्तोऽयं ग्रन्थः।
___________

इति श्रीसोमदेवभट्टप्रणीतं पद्यात्मकं
ग्रन्थमवलम्ब्य
श्रीजीवानन्द-विद्यासागर-भट्टाचार्य्येण
गद्येन विरचिततः कथासरित्सागरः।
समाप्तः।

]