- कर्ता - राजारामजशङ्करः
प्रत्यभिजिज्ञासामः
स्वातन्त्र्यं पूर्णता-लक्ष्म ।
क्षण-विहित-क्षण-विधृत-
क्षण-संहृत-विष्टप-श्रेणि ॥
शब्दार्थाव् अनपेक्ष्य
ग्रहीतुम् अखिलं पुरोवर्ति ।
क्षममाणस्य शिशोस्
तज् जयति स्वातन्त्र्यम् अव्याजम् ॥
ताव् एव यात-यामौ
शब्दार्थौ गृह्णतः सुकवेः ।
+++(प्रतिभादिजन्यं)+++ स्वातन्त्र्यम् अन्यथा-कृत-
विधि-निर्मिति नश् चमत्कुर्यात् ॥
बालो वा स्थविरो वा
चोरो वा राज-पुरुषो वा ।
भवतो नट-लोकस्य
स्वातन्त्र्याय स्पृहां बिभृमः ॥
एकान्त-कथा-रस-भर-
लङ्घित-लोक-त्रयी-सीम्नोः ।
यूनोर् नव-प्रणययोर्
अवतु स्वातन्त्र्यम् असम-शरः ॥
गृह-कर्म-व्यापृतयोर्
गुरुजन-मध्येऽपि दम्पत्योः ।
नेत्राञ्चल-संवाद-
स्वातन्त्र्यम् अयन्त्रितं प्रसरेत् ॥
भ्रू-विभ्रम-लव-लीला-
साधित-सकलार्थ-सार्थस्य ।
स्वातन्त्र्यम् उन्नयामः
कथञ्चिद् इव सार्व-भौमस्य ॥
यत् किम् अपि लब्धम्
अश्नन् निद्राणो यत्र कुत्रापि ।
स्वातन्त्र्येण प्रतिकलम्
अकिञ्चनो लोभयत्य् अस्मान् ॥
स्वस्यान्तरङ्ग-भित्तौ
चित्रयतो भोगम् अन्यान्यम् ।
दुष्यति न दरिद्रस्य
स्वातन्त्र्यं भावनाविषयम् ॥
म्रियमाणेषु समन्ताल्
लोकेषु दिनेदिने शतशः ।
जीवित-मात्रस्यापि
स्वातन्त्र्यम् अतुच्छम् इति विद्मः ॥
केनापि कृपालुतया
पञ्जरतो मोचितस्य चिरात् ।
कीरस्य वियति विपुले
स्वातन्त्र्यम् अहारितं+++(→??)+++ भूयात् ॥
अज्ञात-परशु-पात-
व्यसनम् अरण्येषु वृक्षाणम् ।
मुकुलित-कुसुमित-फलितैः
स्वातन्त्र्यं रोहतु क्रमशः ॥
स्तम्भे निधाय शाखा
यदृच्छया मल्लिका चूतम् ।
अधिरोहन्ती वहति
स्वातन्त्र्यम् उदूढ-हठम् उच्चैः ॥
आब्रह्म-कीटम् अन्तर्
भावान् दधतो ऽप्य् असङ्ख्यतया ।
व्योम्नोऽवकाश-दाने
स्वातन्त्र्यम् अविघ्नितं प्रणुमः ॥
नव-नन्दनोपवनम् इव
पितृ-वनम् अप्य् अर्चतो भ्रमणैः ।
स्वातन्त्र्यम् अनाविष्कृत-
विकल्पम् अनिलस्य विमृशामः ॥
मेध्यामेध्ये जरयन्न्
अत्यक्त्वा पावकत्व-यशः ।
स्वातन्त्र्यम् आ-शुशुक्षणिर्+++(→अग्निः)+++
आधत्ते यन् नमस्तस्मै ॥
सूक्ष्मतमाद् अपि रन्ध्रान्
निर्गच्छत्य् अञ्जसैव बहिः ।
प्रथयित्व् एव यद् अम्बु
स्वातन्त्र्यं भावयामस् तत् ॥
स्थूला-स्थूलाद्य्-आकृति-
विशेष-विन्यास-रचनायाम् ।
प्रभवन्त्या मेदिन्याः
स्तुमहे स्वातन्त्र्य-महिमानम् ॥
एकी-कुर्वद् रात्राव्
आदिनम् उच्चावचाल्ँ लोकान् ।
लिप्सामहे सुषुप्ति-
स्वातन्त्र्यम् अनिद्रितानन्दम् ॥
धर्मार्थ-काम-मोक्षेष्व्
अन्यतमं साध्यतां नीत्वा ।
जीव-दशां वर्तयतः
स्वातन्त्र्यं फलतु पुरुषस्य ॥
हरम् अथवा हरिम् अथवा
जिनम् अथवा शाक्य-मुनिम् अथवा ।
शरणयतो लोकस्य
श्रद्धा-स्वातन्त्र्यम् अवतु भवात् ॥
देशान्तरेषु बहुशो
विहरामस् तेषु तेषु वयम् ।
अकुतोभयम् ऋच्छामो
भारत एव स्वतन्त्रत्वम् ॥
शम्भोर् विभक्त-वपुषो
ऽप्य् उमाग्नि-सरिद्-इन्दु-सर्पाद्यैः ।
न विभक्तम् ईषद् अपि यत्
तत् स्वातन्त्र्यं परं वन्दे॥