पुण्यकोटिकथा

विस्तारः (द्रष्टुं नोद्यम्)

My translation of a few stanzas from the Kannada song ಗೋವಿನ ಹಾಡು (Song of the cow). The Kannada song is based on a story narrated in the PadmapurANa about how a cow risked her life to follow the principles of truth and honesty. I have tried to incorporate द्वितीयाक्षरप्रास in most stanzas as this is in keeping with the original. I have also followed the metrical structure of the kannada song.

धरणि-मण्डल-मध्य-वर्तिनि
सरस-तर-कर्णाट-विषये
स्फुरति कालिङ्गाख्य+++(कालिङ्ग इति)+++ गोपो
हरति यस्य कथा जनम् ॥१॥

तरुण-तर-माकन्द+++(=आम्र)+++-चरणे
मुरलिकां वादयति गोपः
सुरभि-कुलम् आह्वयति मुदितो
विरचितोज्ज्वल-वलयकम् ॥२॥

एहि गङ्गे गौरि तुङ्गे
एहि जननि शुभान्तरङ्गे
एहि भद्रे पुण्यकोटि
त्वम् इति गायति गोपतिः ॥३॥

गोपतेर् आकर्ण्य शब्दं
प्राप धेनुकुलञ् च सकलं
सा पयोभिर् अपूरि दोह-
स्थापिता च नवा घटी ॥४॥

पुण्यकोटि-कथेयम्, अत्र तु,,, सत्यम् एकं दैवतम् ॥

विकट-गिरि-मध्ये बुभुक्षा-
विकल-मतिर् अद्भुत-सुनामा
निकटभुवि कटकस्य वसति
प्रकट-कोपो व्याघ्र-राट् ॥५॥

अटति रोष-वशेन गर्जति
झट् इति निपतति चटुल+++(=चञ्चल)+++-शीले
पटु-रभसि शार्दूल-राजे
रटति चकितो गो-गणः ॥६॥

वत्सक-स्मरणेन सोत्सव-
हृत्-सुरभिर् अथ पुण्य-कोटी
मत्-सुताय पयो ददामीत्य्
उत्सुका पुरतो ययौ ॥७॥

फलितम् इह भोजनम् इति च्छल-
मलिन-हृदयो व्याघ्र-पतिर् अपि ।
अलम् अकृत पथि विघ्नम् अ-विरल-
कलित-स-त्वर-पद-गतिः ॥८॥

पुण्यकोटि-कथेयम्, अत्र तु,,, सत्यम् एकं दैवतम् ॥

व्याघ्र उवाच

उपरि तव निपतामि धेनो
सपदि जठर-विदारणे पटुर्
अपरिमित-परिकुपित-मतिर् इति
लपति नखरायुध-पतिः ॥९॥

धेनुरुवाच -

व्याल विज्ञापनम् इदं शृणु
बाल-वत्सो वसति गोष्ठे
कालम् अल्पं स्थातुम् अर्हसि
लालये स्तन्येन तम् ॥१०॥

व्याघ्र उवाच -

यदि बुभुक्षावसर-लब्धां
सदय इह मुञ्चामि भिक्षां
वद पलायन-पण्डिता किमु
पदम् उपैष्यसि पुनर् इदम् ॥११॥

धेनुरुवाच -

सत्यम् एव मदीय-पितरौ
सत्यम् एव मदीय-बन्धुः
सत्य-वाग्-गलिता न यामि
स्तुत्यतां परमात्मनः ॥१२॥

धेनुर् वत्सं प्रत्युवाच -

“त्वाम् अरे खादामि निहतां”
माम् इति व्याघ्रे भणति सति
एमि पुनर् इति भाषया त्वत्-
प्रेमतोऽस्मि सुतागता ॥१३॥

वत्सो धेनुं प्रत्याह -

स्तनम् अहह पास्यामि कस्या
जननि काम् अवलम्ब्य वर्ते
अनुदिनं शाययतु का तव
तनयम् अयि के मम हिताः ॥१४॥

धेनुर्धेनूः प्रत्युवाच -

मातरो महिता भगिन्यः
कातरो मम हन्त वत्सः
नेतरो ऽयम् अनाथ-शिशुर् इति
जात-करुणं पश्यत ॥१५॥

धेनुर्वत्सं प्रत्युवाच -

जीवसि त्वम् अनाथ-जीवितम्
आविशामि व्याघ्र-मुखम् अयि
नावयो ऋण-शेष इति सा
तावद् अस्वजत स्वजम् ॥१६॥

धेनुर् अपि सुत-विप्रयुक्ता
सा निरस्त-विलम्बना गिरि-
सानु-कन्दरम् एत्य सरभसम्
एनमाह नखायुधम् ॥१७॥

धेनुर्व्याघ्रं प्रत्युवाच -

खण्डम् इदम् इह मांसम् इदम् इह
पिण्डम् अपि हृदयस्य रुधिरोद्-
दण्डम् इह शार्दूल चण्ड-पि-
चण्ड भक्षय तृप्तये ॥१८॥

व्याघ्रो धेनुमुवाच -

त्वम् अयि मम सहजासि भद्रे
किम् इह मे तव मारणाद् इति
स महितार्थम् उदीर्य निपतन्
निमिषति स्म नखायुधः ॥१९॥

पुण्यकोटि-कथेयम्, अत्र तु,,, सत्यम् एकं दैवतम् ॥