+कल्याणपुरवर्णनम्

वर्तते कापि तच्छाखा
शिवाजीनगराभिधा।
यद्राज-वर्त्म सामान्यस्
तुरुष्काणां पतद्+++(लालाजल)+++-ग्रहः॥ २१ ॥

रथ्यासु तत्र दृश्यन्ते
श्याम-वासो ऽवगुण्ठिताः।
अकीर्तयस् तुरुष्काणां
मूर्तिमत्य इव स्त्रियः॥ २२ ॥

रात्रौ तत्र सुरां पीत्वा
क्रैस्तवं पथि निद्रितम्।
प्रभाते कुक्कुरो बुक्कन्न्
उपास्ते सौख-सुप्तिकः॥ २३ ॥

तत्रास्ति धर्म-राजस्य
क्वाप्य् आयतनम् अल्पकम्।
प्रदक्षिण-पथो यस्य
तुरुष्क-भवनाङ्गणम्॥ २४ ॥