भूतधात्रि तव कुत्र स पुत्रः

पोरबन्दर-पयो-निधि-वेला-
वालुका-विहित-शैशव-केलिः ।
शान्ति-नौ-चतुर-नाविक एको
भूत-धात्रि तव कुत्र स पुत्रः ॥१॥

व्याख्या (द्रष्टुं नोद्यम्)

हे भारतधरित्रि, पोरबन्दरनाम्नि गुर्जरदेशस्थे नगरे वर्तमानस्य सागरस्य तीरे यः स्वबाल्यलीलां प्रकटयति स्म, स शान्तिरूपाया नौकायाश्चतुर एकमात्रश्च नौकाचालको गान्धिमहात्मा त्वदीयः पुत्र इदानीं कुत्र वर्तते? नाविका हि सागरस्य तीरे स्वबाल्यं यापयन्ति, अतः शान्तिनौकानाविकेन गान्धिनाऽपि सागरतीरस्थे पोरबन्दरनगरे स्वबाल्यं यापितमित्यत्र न किमपि चित्रम् ।

राजकोट-पुरि वीक्ष्य पुरो यस्
+++(आभरण-निर्माणे)+++ ताडनादि कनकस्य किशोरः ।
आददे नियतम् अन्तर् अ-हिंसां
भूत-धात्रि तव कुत्र स पुत्रः ॥२॥

व्याख्या (द्रष्टुं नोद्यम्)

गान्धिमहाभागः राजकोटनगरे विद्याभ्यासम् अकरोत् । राजकोटपुरं तु स्वर्णाभरण-निर्माण-केन्द्रतया प्रसिद्धम् । प्रायस्तत्र स्वर्णेनानुभूतां निघर्षणच्छेदनताप-ताडनादिरूपां हिंसां दृष्ट्वैव किशोरः सन्नेव स निजे मनसि अहिंसाव्रतं प्रथमतया स्वीचकारेत्यत्र उत्प्रेक्ष्यते । हे भारतधरित्रि, एतादृशस्तव पुत्र इदानीं कुत्रास्ति?

यस्य नीतिम् अतियाति न पन्था
याति यस्य पटताम् अपि कन्था+++(=कौपीनम्)+++ ।
नित्य-सत्य-वचनैक-तनुत्रो
भूत-धात्रि तव कुत्र स पुत्रः ॥३॥

व्याख्या (द्रष्टुं नोद्यम्)

हे भारतधरित्रि, यस्य मार्गो नीतिं कदापि नोल्लङ्घते,
यस्य कौपीनमेव वस्त्रं भवति, यः शाश्वतेन सत्यव्रतेन कञ्चुकितो वर्तते, तादृशस्तव पुत्रो गान्धी इदानीं कुत्रास्ति? अत्र पन्था, कन्था इत्यत्र प्रासनिवेशनादुन्मीलति शाब्दिकी शोभा ।

स्वीकृताधिकरण+++(→न्यायालय)+++-स्थितिम् आदौ
धिक्-कृताधिक-रण-स्थितिम् अन्ते ।
जानते यम् अखिला अपि लोका
भूत-धात्रि तव कुत्र स पुत्रः ॥४॥

व्याख्या (द्रष्टुं नोद्यम्)

हे भारतधरित्रि, यः प्रथमे वयसि अधिकरण-स्थितिम् अर्थान् न्यायालये वृत्तिं स्वीकृतवान्, अन्तिमे वयसि च अधिक-रण-स्थितिमर्थाद्बहलां युद्धपरिस्थितिं धिक्कृतवान्, यमेतादृशविचित्रचरितञ्च लोको जानाति, तादृशस्तव पुत्रो गान्धी इदानीं कुत्रास्ति? अत्र सभङ्गश्लेषमूलो विरोधाभासोऽलङ्कारः ।

भारतीय-परतन्त्र-दशाया
दूर-दूरम् अपसारण-हेतोः ।
वेत्र-दण्डम् इव दण्डम् अधाद् यो
भूत-धात्रि तव कुत्र स पुत्रः ॥५॥

व्याख्या (द्रष्टुं नोद्यम्)

हे भारतधरित्रि, यः प्रायशो भारतीयैरनुभूतं पारतन्त्र्यं दूरमपसारयितुं हस्ते दण्डमधारयत्तादृशस्तव पुत्रो गान्धी इदानीं कुत्रास्ति? लोकेऽपि यो यं नेच्छति स तं वेत्रदण्डेन अपसारयति । अत्र दण्डो वेत्रदण्डत्वेनोत्प्रेक्ष्यते ।

सिन्धु-सीम्नि लवणोत्कर-सम्पद्
येन तुल्यम् अधने स्मित-शोभा ।
पाण्डरा व्यरचि दिक्षु च कीर्तिर्
भूत-धात्रि तव कुत्र स पुत्रः ॥६॥

व्याख्या (द्रष्टुं नोद्यम्)

हे भारतधरित्रि, यः सागरस्य तटे सितवर्णं लवणराशिं, निर्धने जने सितवर्णं स्मितविलासं दिशासु च सितवर्णं यश एककालमेव निर्मितवान् स तव पुत्रो गान्धी इदानीं कुत्रास्ति?

राम-नाम-रुचिरामृत-पानाद्
व्यक्त-मुक्तिर् इव मृत्यु-भयाद् यः ।
पर्यपोषयद् उपोषण-दीक्षां
भूत-धात्रि तव कुत्र स पुत्रः ॥७॥

व्याख्या (द्रष्टुं नोद्यम्)

हे भारतधरित्रि, यो रामनामरूपं सरसममृतं पीत्वा मृत्युभयं त्यक्तवान् अत एव बहूनुपवासान् व्यरचयत्, तादृशस्तव पुत्रो गान्धी कुत्रास्ति? अमृतपानाद्धि मरणभये नष्टे सत्युपवासादितीव्रताचरणमपि सुकरं भवति ।

हा विचेतुम् इव साभ्रमती +++(नदी)+++ यं
प्राप्त-रात्रि-दिवसा भ्रमतीयम् ।
भावयन्त्य् अनिमिषान्+++(→मीनान् इति श्लेषः)+++ अवलोकान्
भूत-धात्रि तव कुत्र स पुत्रः ॥८॥

व्याख्या (द्रष्टुं नोद्यम्)

हे भारतधरित्रि, यमन्वेष्टमुत्सुकेव साभ्रमती (साबरमती इति भाषायाम्) नदी अनिमिषान् निमेषरहितान्, मीनान् इति श्लेषः, अवलोकान् ईक्षणानि भावयन्ती कुर्वाणा, मीनानेव ईक्षणानि कुर्वाणा पक्षे ईक्षणानि निमेषरहितानि कुर्वाणा, दिवानिशं भ्रमति, तादृशस्तव पुत्रो गान्धी कुत्रास्ति? अन्विष्यमाणो हि जन: जागरूकैरत एव निमेषरहितलोचनैरन्यैरन्विष्यते । अत्र ‘वसाभ्रमतीयम्’ इत्यस्य वर्णसमूहस्य पौनरुक्त्याद्यमकालङ्कारः ।

ध्वान्त-भाजनम् अजायत कारा
वैपरीत्य-कलनाद् इव राका+++(=पूर्णिमा)+++ ।
यस्य बन्धन-जुषो जन-भूत्यै
भूत-धात्रि तव कुत्र स पुत्रः ॥९॥

व्याख्या (द्रष्टुं नोद्यम्)

हे भारतधरित्रि, यः स्वदेशीयजनस्य कल्याणाय बन्धनमपि सहते स्म अत एव हेतोर्यस्यान्धकारभरितापि कारा विपरीता भूत्वा राका, अर्थात् पूर्णिमा रात्रिरभवत्तादृशस्तव पुत्रो गान्धी कुत्रास्ति? कारा इत्यसौ शब्दो विपरीततया पठितो राका इति भवति ।

माधवेन+++(=वसन्तेन[श्लेषः])+++ हत-जाति+++(→पुष्पेण|जनजात्या)+++-महिम्ना
+++(जाति-पुष्पं वसन्ते न विकसति इति कवि-समयः।)+++
येन देव-कुल-कानन-वीथ्याम् ।
पञ्चम+++(=निरवसितशूद्र[श्लेषः])+++-ध्वनिर् अनायि विकासं
भूत-धात्रि तव कुत्र स पुत्रः ॥१०॥ +++(5)+++

व्याख्या (द्रष्टुं नोद्यम्)

हे भारतधरित्रि, दूरी-कृत-चातुर्-वर्ण्य-व्यवस्था-पारम्येण पक्षे अपगत-जाति-पुष्प-गौरवेण (जाति-पुष्पं वसन्ते न विकसति इति कवि-समयः) अत एव श्लेष-बलाद् वसन्त-सदृशेन येन देव-मन्दिर-रूपासु कानन-स्थलीषु पञ्चमानां दलित-वर्गीयाणां जनानां ध्वनिः पक्षे कोकिलानां पञ्चमाभिधो रवो (वसन्ते कोकिलानां पञ्चमध्वनिः श्रूयत इत्यपि कविसमयः) विकासं नीतस्तादृशस्तव पुत्रो गान्धी कुत्रास्ति? गान्धिमहोदयस्य परिश्रमादेव हरिजनानां देवमन्दिरप्रवेशः समजनीत्ययं भारतस्वातन्त्र्येतिहासप्रसिद्धो विषयः ।

वीत-हेतिर् अमलीमस-वर्त्मा
सर्व-भूत-परिवार-हितैषी ।
म्लेच्छ-कानन-विचित्र-दवाग्निर्
भूत-धात्रि तव कुत्र स पुत्रः ॥११॥

व्याख्या (द्रष्टुं नोद्यम्)

हे भारतधरित्रि, य आङ्ग्लसाम्राज्यरूपस्य वनस्य विनाशकृद्दावाग्निरासीत्तादृशस्तव पुत्रो गान्धी कुत्रास्ति? कीदृशो दावाग्निर्विचित्रः । कस्मात्? यतः स वीतहेतिर्ज्वालारहितः (दावाग्निस्तु ज्वालसहितो भवति) परत्र शस्त्रास्त्ररहितः (अहिंसापारम्यात्), अमलीमसवर्त्मा शुद्धपथः (दावाग्निस्तु धूममलिनपथः कृष्णवर्त्मेत्युच्यते), सर्वेषां भूतानां प्राणिनां हितैषी (दावाग्निस्तु सर्वप्राणिहिंसकः) आसीत् ।

पर्यवर्तयत चक्रम् अवक्रो
भाग्य-चक्रम् अपि यो जनतायाः ।
स्याद् यथा चिर-सुखादि-समृद्धिर्
भूत-धात्रि तव कुत्र स पुत्रः ॥१२॥

व्याख्या (द्रष्टुं नोद्यम्)

हे भारतधरित्रि, सरलस्वभावो यः केवलं चक्रं (चरखाभिधानं खादिवस्त्रोत्पादकं चक्ररूपं यन्त्रम्) एव न किन्तु स्वदेशीयानां भाग्यचक्रमपि परिवर्तयते स्म तादृशस्तव पुत्रो गान्धी कुत्रास्ति? पुनः किमर्थं चक्रभाग्यचक्रयोः परिवर्तनम्? यतः सुखादिसमृद्धिर्भवेत्, सौख्यादिसमृद्धये पक्षे शोभनखादिवस्त्रसमृद्धये च इति सभङ्गश्लेषः ।

चक्र-बन्धुर् अतिरोहित-रोचिः
स्पष्ट-धौत-+++(सिम-वर्ति)+++हरिद्-अम्बर-भागः ।
यश् चरिष्णुर् इव भारत-केतुर्
भूत-धात्रि तव कुत्र स पुत्रः ॥१३॥+++(5)+++

व्याख्या (द्रष्टुं नोद्यम्)

हे भारतधरित्रि, यो जङ्गमो भारतध्वज इव वर्तते तादृशस्तव पुत्रो गान्धी कुत्रास्ति? किमर्थं जङ्गमो भारतध्वज इति उत्प्रेक्ष्यते?
यतः भारतध्वज इव सोऽपि चक्रबन्धुः ध्वजश्चक्राङ्कितो गान्धी तु खादिवस्त्रोत्पादकचक्रयन्त्रसहितः ।
एवमेव भारतध्वजः अति-रोहितरोचिषा अत्यन्तं रक्तवर्णेन, स्पष्टधौतेन स्पष्टतया शुभ्रेण, हरिता, हरिद्वर्णेन च अम्बरभागेन, वस्त्रभागेन युक्तो वर्तते, भङ्ग्यन्तरेण कथयामश्चेद्भारतध्वजो रक्तश्वेतहरिद्वर्णमयवस्त्रभागरचितश्चक्रलाञ्छितश्च । गान्धिमाहाभागोऽपि अ-तिरोहितरोचिषा अतिरस्कृतया निजकान्त्या स्पष्टं धौतहरिदम्बरभागः प्रकटं स्वच्छीकृतदिगाकाशभागः, निजप्रभाशुद्धीकृतभुवन इति यावत् । अत्र पद्ये श्लेषबलाद्गान्धिभारतध्वजयोः साम्यं साधितम् ।

+++(गोमूत्रिकाख्यश्चित्रबन्धः)+++
जजाप यो रघु-सुत-नाम भावुकस्
तुषार-जिल्-ललित-यशा अनारतम् ।
अजा-पयो लघु सुतराम् असेवत
स्तुवे रणोल्लसित-नृ-शातनाय तम् ॥१४॥

व्याख्या (द्रष्टुं नोद्यम्)

यः भावुकः अर्थाद्भक्तः सन् रामस्य नाम अजपत्, यो नित्यं हिमाधिक-धवल-कीर्तिरस्ति,
यश्च लाघव-गुण-समन्वितं अजा-दुग्धम् अधिकं सेवितवान्,
तं गान्धि-महोदयं युद्ध-पिपासु-जन-कृशी-भावाय स्तौमि । अत्र गोमूत्रिकाख्यश्चित्रबन्धो विद्यते ।