पार्वतीरुक्मिणीयम्

[[पार्वतीरुक्मिणीयम् Source: EB]]

[

** ॥ पार्वतीरुक्मिणीयम् ॥**

** ॥प्रथम स्सर्गः॥**

जगत्त्रयं बिभ्रदुपात्तसत्त्वो वृषेण गच्छन् सुस्वबोधमूर्तिः।
तनौ दधानोऽनुपमश्रियं तां शिवां शिवं वो विदधानु देवः॥ 1 ॥

(1) (यः) देवः जगत्त्रयं लोकत्रयं, बिभ्रत् धरन्, उपात्तः सत्त्वः मृगः येन सः उपात्तसत्त्वः,वृषेण वृषभेण (नन्दीश्वरेण), गच्छन् (वृषवाहनः इत्यर्थः); पुनश्च सुखं बोधश्च सुखबोधौ तावेव मूर्तिः यस्य सः सुखबोधमूर्तिः, अनुपमा श्रीः यस्याः सा अनुपमश्रीः तां अनुपमश्रियं, तथाभूतां शिवां पार्वतीं, तां तनौ शरीरे, दधानः वहज् (शिवः)
(2) (देवः), वः युष्माकं, शिवं मङ्गलं, विदधातु करोतु। (यः) देवः जगत्त्रयं लोकत्रयं, विभ्रत् धरन्, उपात्तसत्त्वः सत्त्वगुणप्रधानः, वृषेण धर्मेण, गच्छन् व्यवहरन्, शुखबोधमूर्तिः हरिः, अनुपमा च सा श्रीः च अनुपमश्रीः (लक्ष्मीः) तां अनुपमश्रियं, शिवां मङ्गलवहां, तनौ शरीरे (वक्षः स्थले) दधानः वहन्, वः युष्माकं, शिवं मङ्गलं विदधातु करोतु॥

जाताब्धितोयात् प्रथिताचलाद्या सम्प्राप नित्येश्वरदेहयोगम्।
श्रियं दधानां श्रितसद्‌गुणौघां नमामि वन्द्यां जगदम्बिकां ताम्॥ 2 ॥

(1) या अब्धितोयात् अब्धेः तोयं अब्धितोयं तस्मात् समुद्रजलात्, जाता उत्पन्ना(लक्ष्मीः), नित्यदेहयोगं नित्येन सत्यस्वरूपेण (विष्णुना) देहयोगं शरीरे (वक्षः स्थले) स्थितिं, सम्प्राप प्राप्तवती, तां तादृशीं श्रितसद्‌गुणौघां सद्‌गुणसमूहसमेतां, श्रियं, दधानां वहन्तीं, वन्द्यां नमस्कारार्हां, जगदम्बिकां जगतः अम्बिकां जगन्मातरं, नमानी वन्दे (नमस्करोमि)।
(2) या प्रथिताचलात् प्रथितश्च अचलश्च प्रथिताचलः तस्मात् प्रख्यातगिरेः (हिमालयात्), जाता सञ्जाता (पार्वती), ईश्वरदेहयोगं ईश्वरेण (अष्टैश्वर्यगुणयुतेन) देहयोगं श्रियं दधानां सर्वमङ्गलां, श्रितसद्‌गुणौघां सद्‌गुणसमूहसमेतां, वन्द्यां नमस्कारयोग्यां, जगदम्बिकां लोकमातरं, नामामि वन्दे (नमस्करोमि)॥
अत्र पूर्वार्धे क्रमालङ्कारः।

द्विजौक्यरूढो विधुसङ्गताङ्गः स्तुतस्सुरेन्द्रैः अमृतस्य दाता।
विनीतविघ्नो विनतार्त्तिहारी विनायकः स्याद्विनयश्रिये वः॥ 3 ॥

(1) द्विजैक्यरूढः द्विः जायते इति द्विजः दन्तः, तस्य ऐक्येन एकदन्तत्वेन रूढः प्रसिद्धः, विधुसङ्गताङ्गः विधुः चन्द्रः तेन सङ्गतं अङ्गं यस्य सः चन्द्रसदृशवर्णः अथवा चन्द्रधरः, सुरेन्द्रैः सुरैः महेन्द्रेण च, स्तुतः कीर्तितः, अमृतस्य मुक्तेः, दाता प्रदाता, विनीविघ्नः विशेषेण नीताः विनीताः दूरीकृताः विघ्नाः येन सः (विघ्नराजः इत्यर्थः), विनतार्त्तिहारी विनतानां विनमितानां भक्तजनानां आर्त्तिहारी, विनायकः गणाधिपः वः युष्माकं, विनयश्रिये, विनय एव श्रीः विनयश्रीः तस्यै, क्यात् भूयात्।
(2) द्विजैक्यरूढः द्विः जायन्ते इति द्विजाः पक्षिणः, तेषां एक्येन नायकत्वेन रूढः प्रसिद्धः गरुडः इत्यर्थः, विधुसङ्गताङ्गः विधुः विष्णुः तेन सङ्गतं अङ्गं शरीरं यस्य सः विष्णुवाहन इति भावः, सुरेन्द्रैः देवैः तदीन्द्रेण च, स्तुतः प्रस्तुतः, अमृतस्य सुधायाः, दाता प्रदाता, विनीतविघ्नः अपगतविघ्नः (अमृताहरणकाले दूरीकृतविघ्नः) विनतार्त्तिहारी विनतायाः (स्वमातुः) आर्त्तिहारकः, विनायकः विः पक्षी वीनां नायकः विनायकः खगेश्वरः, वः युष्माकं, विनयश्रिये, स्यात् भूयात्॥

यशोविशेषं भुवने कवीनामातन्वती सूक्तिसुधानिधानम्।
मनो जनानामनुरञ्जयन्ती विद्योततेऽवद्यनिबन्धविद्या॥ 4 ॥
यशस्विनस्ते सरसप्रयोगा वाल्मीकिमुख्याः प्रथमे कवीन्द्राः।
आद्यापि जीवन्ति हि जीवलोके लब्ध्वा महाकाव्यशरीरसिद्धिम्॥ 5 ॥
कल्पान्तरस्थायियशोधनानां प्राप्तिं धनानामपि चेतरेषाम्।
प्रसादन्ञ्च क्षितिभृत्सुराणां करोति विद्या कवितेव नाऽन्या॥ 6 ॥
न सौकुमार्यादीगुणैरशेषैः तथा न वाऽलङ्गरणैः प्रसिद्धैः।
वधूश्च वाणी च यथा विधत्ते श्लेषेण पुंसां मनसः प्रमोदम्॥ 7 ॥
श्लोकं खलु श्लेषविशिष्टमेकं वक्तुं कवेरस्ति महान् प्रयासः।
कयाट्वयश्लेषनिबन्धेन यः परिश्रमस्तं शिव एव वेत्ति॥ 8 ॥
एकामुपादाय कथां प्रवृत्ता श्रुतेक्षिताः सन्ति शतं प्रबन्धाः।
काव्यं विभिन्नार्थकतैक्यचित्रं प्रायः क्षितौ न श्रुतदृष्टपूर्वम्॥ 9 ॥
कथाद्वयश्लेषकृतौ नवायां विमूढबुद्धेरपि विस्मयः स्यात्।
अनर्घमेतद्भुवि काव्यरत्नं क एष न स्वीकुरुते गुणज्ञः॥ 10 ॥
यतोऽत्र गङ्गायमुनानुरूपे श्लिष्टे महेशाच्युतयोः कथेट्वे।
अतश्चतुर्वर्गफलानि साक्षाद् भवेयुरस्याश्रयिणां, नराणाम्॥ 11 ॥
जयत्यजय्यो जगतीपतीनां पतिः प्रतिष्ठाखिलसद्गुणानाम्।
चुलुक्यवंशप्रभवः प्रभावान् पृथुप्रभावो भुवि सोमदेवः॥ 12 ॥
कलानिधेरीश्वरभूषणस्य प्रसादिनो विष्णुपदाश्रयस्य।
सुधात्मकस्याब्धिभुवो निशेशो यस्यार्थयुक्ता भुवि सोमसंज्ञा॥ 13 ॥
ज्ञात्वा कलौ शत्रुभयं भविष्यद् भुवि त्रयीधर्मसुरद्विजानाम्।
संरक्षणायेव ससर्ज धाता यद्राज्यदुर्गं विगतोपसर्गम्॥ 14 ॥
अधर्मधात्रा कलिनाऽखिलेषु खिलीकृतेषु क्षितिपालकेषु।
निराश्रयाणां नृपसद्गुणानां परं भवत्यास्पदमक्षयं यः॥ 15 ॥
कलास्वभिज्ञः सकलासु वक्ता शृणोति सूक्तानि विपश्चितां यः।
अर्थं विजानाति गुणाम् मिमीते प्रसीदतीष्टं प्रददाति चार्थम्॥ 16 ॥
श्रिया हरिं, भोगितया महेन्द्रं, रूपेण कामं, रुषितेन रुद्रम्।
प्रदानशक्त्या सुरपादपं यो विडम्बयत्यम्बुनिधिञ्च धृत्या॥ 17 ॥
महीभृता तेन महाकवीनां प्रियेण रागात्परिपाल्यमानः।
महीतलव्यापि महत्तदीयं, यशश्शरीरं परिपालयिष्यन्॥ 18 ॥
महाकवीशोन्नतभद्ररूपो(1) वादीन्द्रराजाधिपजामदग्न्यः।
ज्योतिर्गतिज्ञानचतुर्मुखश्च विद्यामहामाधवपण्डितारव्यः॥ 19 ॥
हिमाद्रिकन्यासहितं महेशं लक्ष्मीसमेतं मधुसूदनञ्च।
स्तोतुं तदद्वाहकथैक्यचित्रप्रबन्धलक्ष्यादहमुत्सहिष्ये॥ 20 ॥
बाणः सुबन्धुः कविराजसंज्ञो विद्यामहामाधवपण्डितश्च।
वक्रोक्तिदक्षाः कवयः पृथिव्यां चत्वार एते, न हि पञ्चमोऽस्ति॥ 21 ॥
श्रीमानभूदाहितलोकसीमा समुन्नतः सद्‌गुणरत्नभूमिः।
महीभृदीशो यशसा हिमाद्रिः श्रुतः क्षितौ भीष्मक आत्तसत्वः॥ 22 ॥
संश्रीयमाणो विबुधौः समन्तादलङ्घनीयो भृतबन्धुरागः।
स्थितो गुरुत्वेऽनुपमेय एकः शक्त्या स्म यो भूमिमिमां बिभर्त्ति॥ 23 ॥
अजस्रमुद्भासितरूपयुक्ताः स्फुरच्छिलाभूषणैरिकाद्याः।
अवापुरुच्चैश्शिरसो नतत्वं पदान्तिके यस्य महीभृतोऽन्ये॥ 24 ॥
वीतस्पृहा अप्युपजातहार्दाः चिरं रमन्ते स्म महर्षिमुख्याः।
परे मनुष्याश्च समं वधूभिः विधूतबाधाः कटके यदीये॥ 25 ॥
वृद्धाननाथान् पृथुकानगाधान् देवैकनाथान् कमलावियुक्तान्(2)।
व्यपेतचक्षुःश्रवसो विपक्षान् जलाशयानप्यबिभश्चिरं यः॥ 26 ॥
शिरस्सकाशे धृतपुण्डरीकः समुत्थितोदग्रचमूरुनादः।
शरत्सु सन्दीप्तशरसनो यो लेभे जिगीषुः श्रुयनमात्तड्गः॥ 27 ॥
स्मिताब्जमुख्यः कलहंसवाचः फेनप्रहासा विकचोत्पलाक्ष्यः।
सिषेविरे चामरसम्प्रयुक्ताः पर्यन्तगायं रसराशिवध्वः॥ 28 ॥
श्रियाभिरामः सुगृहीतवक्त्रः श्रितो द्विजेन्द्रैः फलपादपाद्यः।
अवर्धताश्रित्य विहीनबाधो यं पार्थिवौघस्सुमनस्समेतः॥ 29 ॥
देवर्षिपादाम्बुजपांसुपूतमत्युन्नतं यच्छिर उष्णतेजाः।
स्प्रष्टुं शितच्छत्रनिभेन्दुबिम्बसंस्पर्शि देवोऽप्यशकन्नपादैः॥ 30 ॥
स्वर्गे सुरौघौर्महिताष़वदाता सम्पूरिताऽम्भोनिधिमध्यदेशा।
यतः प्रसूता भुवि पुण्यकीर्त्तिः स्वनर्गापगा लोकमिमं पुनाति॥ 31 ॥
शीतं परं यो हृदयं दधानो लोके श्रुतस्तद्गुणसङ्गतेन।
नाम्नेव योऽबूदिह भीष्मकोऽलं देशं पृथु बिभ्रदलङ्घ्यमन्यैः॥ 32 ॥
सभेदसामप्रवणास्सदाना दण्डोज्‌ज्वला निर्जितवैरिपक्षाः।
सिषेविरे सिद्धिभृतो गुणज्ञाः यं मान्त्रिणस्साधितसाधुयोगाः॥ 33 ॥
बृहत्तरोऽभिप्लुतविक्रमस्तैः पराजितारातिमतङ्गजौघैः।
समुन्नतैः केसरिभिस्समेतः दुराक्रमोऽबूद्वसुधाधिपैर्यः॥ 34 ॥
भर्तुर्गजानामविपत्तिसङ्घैः स स्यन्दनौघो भृतभूरिहेन्ना।
रेजे सुसम्पन्नगुणावरोधो यो भूमिभर्ता सरलैस्समेत-॥ 35 ॥
महाहिवध्वो मलयस्य शृङ्गे मन्दानिलान्दोलितचन्दनौघे।
सुमेरुकुञ्जे सुरयोषितश्च पुण्यानि गायन्ति यशांसि यस्य॥ 36 ॥
युक्तान् फलैरोषधिजैस्समृद्धैरपेतबाधान् मणिहेमदीप्तान्।
बभार यः पुष्यजनैस्समेतान् देशान् प्रसक्ताप्सरसो विदर्भान्॥ 37 ॥
सताप्रदानेन सुरेश्वरस्य गुरुत्वभूव त्रिजगद्गुरोर्थः।
महात्मनस्तस्य गुणानशेषान् वक्तुं न शक्नोति चतुर्मुखोऽपि॥ 38 ॥
गौप्ता समाराधितवह्निविप्रैः अग्न्यास्पदे कुण्डिमद्विधौघम्।
स ओषधिप्रस्थमहानिकामं भुवि प्रसिद्धं पुरमध्युवास॥ 39 ॥
प्रियां महीभृत्तनयां पितॄणां यशः क्षितावादधतीं क्रमेण।
युक्तां समेनं(3) वरभूषणादयां नाम्ना सुशीलां विधिनोपयेमे॥ 40 ॥
गुणानशेषान् वरवर्णिनीनां तथा दधन्या सह धर्मपत्न्या।
सुकर्मसिद्धयेव शरीरवत्या चिराय रेमे धरणीभृदीशः॥ 41 ॥
प्रख्यातकीर्ति कटकान्तरेषु सा रुक्मिणं संश्रुतकल्पवृक्षम्।
प्रासोष्ट मैनाकमुदाररूपं गुणैरशेषैः गुरुणा समानम्॥ 42 ॥
तं सानुजं सत्वमनल्पमन्यैः अबाधितं बिभ्रतामिष्टचारम्।
दृष्ट्वा सुतं यौवनलक्ष्म्युपेतं प्रीतावभूतां पितरौ कृतार्थौ॥ 43 ॥
रव्यातो गुणैः प्राप्तमहाम्बुराशिः सदा दधत्पक्षबलं महीयः।
गृहीतवज्रेण रुषा रणेषु बभूवयो गोत्रभिदाव्यजर्यः॥ 44 ॥
अथेश्वरेणातपता विसृष्टा दक्षावमानेन विमुक्तमूर्तिः।
मनोरमा प्रबलानुतापं मनोरमा जन्म परं चकांक्ष॥ 45 ॥
क्षमासमायोगभृतो वियोगमपारयन्ती दयितस्य सोदुम्।
अगण्यपुण्यैकविधेस्ततस्सा महीभृतस्तस्स सुता बभूव॥ 46 ॥
जगत्सवित्रीमपि तस्य पुत्रीं देवीमजामप्युपजायमानाम्।
साकं दिवौकोभिरूपात्तहर्षाः महर्षयस्तष्टुनुरिष्टवाचः॥ 47 ॥
स देववादित्रपयोदनादा विकासयन्ती सुरभीन् दिगन्तान्।
तज्जन्मकाले सुरपुष्पवृष्टिः पपात स्वात् पत्तशिखिप्रहर्षा॥ 48 ॥
गृहीतवीणा-श्रुतिषु प्रवीणा जगुश्च गन्धर्ववरस्तदानीम्
ननर्त चामर्त्यविलासिनीनाम् विलासशाली निवहस्सहर्षम्॥ 49 ॥
पुरी पताकावलिभासुरा सा महीभृतो भूषितसर्वलोका रराज गन्धोदकसिक्तरथ्योत्कीर्णप्रसूना मणितोरणाद्या॥ 50 ॥
ुत्पत्तिकाले जगदेकमातुः दिविप्रथीयान् प्रथमं सुराणाम्।
महोत्सवोऽभूत्तदन्तरञ्च। पुरे तदीये वसतां जनानाम्॥ 51 ॥
प्रीतावभूतां पितरावुभौ तां विलोकनीयामवलोक्य कन्याम्।
कलामिवेन्दोरभिरामकान्तिं प्रकाशयन्तीं प्रभया निशान्तम्॥ 52 ॥
नाम्नाऽकृतोमेशसमानधाम्ना सा रुक्मिणी रत्नततीद्विजेभ्यः।
प्रयच्छता नामगुणस्य वेत्रा पित्रा स्वमिव्राभिवृतेन तेन॥ 53 ॥
महन्या सम्पत्त्या सह पुरवेर तत्र वसतां जनानां देवानामपि रिपुजयाशा दृढतरा।
कुमारी सा पित्रज्ञोरपि च परयाऽऽनन्दधुरया कलेवेन्दोराद्या प्रतिदिवसमावर्धत शुभा॥ 54 ॥
इत्थं काव्ये पार्वतीरुक्मिणीये हृद्ये विद्यामाधवीयेऽत्र सर्गः।
श्रीशब्दादिः सम्पदानन्दमूर्ध्वा सम्पूर्णोऽबूत्‌सोऽयमाद्योऽनवद्यः॥ 55 ॥

*************************************************************************

.

द्वितीयस्सर्गः

अथ सा पृथिवीभृतस्सुता विचरन्ती परितः पुरान्तरम्।
अकरोन्निजविग्रहश्रिया निखिलां लोकमवेक्षणोत्सुकम्॥ 1 ॥
सदृशेन सखीजनेन सा सह बाला विजहार कृत्रिमैः।
बहुभिर्गृहपुत्रंकादिभिः प्रथयन्तीव भवस्थितिं चलाम्॥ 2 ॥
(1) भवनाङ्गणपांसुभिर्वधूं रममाणां रमणीयविग्रहाम्।
निजलोचनपुण्यसम्पदं सशरीरमिव मेनिरे जनाः॥ 3 ॥
क्षिति भृद्युहितुः करस्स्फुरन् विहितोत्थानमपि क्षणे क्षणे।
भुवि कन्दुकमभ्यपातयत् प्रतिकूलः पुरुषं यथा विधिः॥ 4 ॥
अथ मन्मथमेदिनीरुहो हरकोपानलदम्धवर्ष्मणः।
पुनरुन्नमनैककारणं प्रतिपेदे नवयौवनं पधूः॥ 5 ॥
नवरत्नमिवाभितैजनात् शशिलेखेव शिवामुखाश्रयात्।
नवयौवनयोमतो वधूः अभवत्कान्तिविशेषशालिनी॥ 6 ॥
सुतनोः परमं विभूषणं वपुषोऽभूदिह किं न कथ्यते।
यदयं नवयौवनोऽदयः परिचस्कार विभूषणान्यपि॥ 7 ॥
यदि नानिशमम्बुसंश्रयो न च सङ्कोचनिरस्तशोभता।
मकलस्य तदीयपादयोः गुणसाम्यादुपमानता भवेत्॥ 8 ॥
ललितेषु गतेषु चातुरीमियमादत्त सुराजहंसतः।
अथवा हृतवानितस्स तां सदृशीं वा विदधे विधिर्द्वयोः॥ 9 ॥
सुतनोस्तनुवृत्तमुत्तमद्युति जङ्घाद्वयमुज्झितोपमम्।
भुवने निजसर्गपादप प्रथनाय व्यदधाद्विधिर्ध्रुवम्॥ 10 ॥
बृहदूरुयुगं मृगीदृशो मृदुरम्भामभिभूय मद्बभौ।
निखिलाङ्गवरैः पराजिता वरयोषा इति नैतदद्भुतम्॥ 11 ॥
इतरेतरयोगतोऽभवत् द्युतिरस्या रशनानितम्बयोः।
ववृधे परमेव यौवनं न खलु स्त्रीहितकृत् नपुंसकम्॥ 12 ॥
निरदृश्यत सुभ्रुवौ ध्रुवं नतनाभिह्रद इत्यतो जनैः।
यदितः प्रभवन्निवानयेदथ लावण्यरसोऽखिलं वपुः॥ 13 ॥
यदि सत्, स्फुटदृश्यतां व्रजेदसदेतद्यदि नोपलभ्यते।
तदनिर्वचनीयमित्यतः तनु तन्मध्यमर्तकयज्जनः॥ 14 ॥
सुतनोः स्तनभारवाहिना विधृतेवापदि यष्टिरायसी।
उदरेण भृशं क्रशीयसा नवरोमावलिरादधे श्रियम्॥ 15 ॥
कृशतां भुजकण्ठमध्यजां स्तनवृद्धिञ्च जनस्य पश्यतः।
उदभूदिव दैवयौवनप्रकृतिव्यत्ययहेतुसंशयः॥ 16 ॥
पृथुमण्डलता सुवृत्तता कृशताङ्गस्य समन्ततस्सतः।
कठिनत्वयुता च संहतिः स्तनयोरुन्नतिहेतवोऽभवन्॥ 17 ॥
जगतीं जयतीति नाद्भुतं नृपतिः पुरूषबाहुसम्भवः।
भुवनान्यजयत् यदाश्रयन् अबलाया अपि तौ भुजौ स्मरः॥ 18 ॥
उपरिश्रितमाननेन्दुना सुतनोः कण्ञमनङ्गदीपनम्।
समसेवत भद्रलक्षणं शिववन्मौक्तिकजालजाह्वी॥ 19 ॥
द्युतिसंहृतयेऽम्बुजद्विषो व्यधितेवाम्बुजभूस्तदाननम्।
कमलद्युतिविप्लवं न वा बुबुधे श्रोत्रिया हि जात्यभूः॥ 20 ॥
सुतनोरधरस्य रागिणः श्रियमाधत्त विशेधिनोऽप्यलम्।
अमलो दशनांशुसञ्चयो द्विषतामप्युपकारकृच्छुचिः॥ 21 ॥
शशिपङ्कजविद्विषो वधूवदनस्य द्युतिगुप्तये ध्रुवम्।
विधिना कुसुमायुधायुधं निदधेऽस्मिन्नयनोत्पलद्वयम्॥ 22 ॥
स्मृतिभूधनुषो वधूभ्रुवोः समताकीर्तिरिहोदपादि या।
प्रणिरासविलास एव तं कुरुते कोऽनुजगज्जितेहितम्॥ 23 ॥
वदनेन्दुजितेन धीमता हिमधाम्ना कृतदानसन्धिना।
अनुदत्तमिवार्धमण्डलं शुशुभे फालतलं मृगीदृशः॥ 24 ॥
अजयन्न सुराङ्गना गणैः अखिलास्सेति न वाच्यमेव तत्।
अहरत्कबरीभरेण यत्चमरीणामपि वालचारुताम्(2)॥ 25 ॥
कृतसंहरणस्य यत्नतः परिमृग्येव जगत्सु सर्वतः।
गुमरत्नमणस्य वेधसा विदधे तद्वपुरेकभाजनम्॥ 26 ॥
अपदोषलवं न वस्तु किञ्चित् विधिना सृज्यत इत्यमुष्यलोके।
अपवादमपाहरन्निरूढं वपुषा दोषलवोज्झितेन तन्वी॥ 27 ॥
इति खल्वतिदूरदोषमेषा परमामोदतुलं गुणाभियोगम्।
तदभूद्भुवनेषु नोपमेयं वपुरस्याः सदृशं न चोपमानम्॥ 28 ॥
यदस्राक्षीत्तस्यास्तनुमनुपमां तां विधिरयं न शक्तिस्तस्याश्चेत् किमिति न सृजेदेवमितराम्।
अतो मन्ये तस्याः कमितुरखिलं प्राभवमिदं महान्तं मायायास्त्रिभुवनजनस्यास्य महिमा॥ 29 ॥
इति महिततमानां रूपशीलादिकानां अविहितवरयोषिद्‌व्यक्तिमात्राश्रयाणाम्।
सुरनरविदितानां सम्पदस्या गुणानां व्यतनुत भुवनानां भूरिमानन्दमेषाम्॥ 30 ॥
एवं नाम्ना पार्वतीरुक्मिणीये हृद्यो विद्यामाधवीयेऽत्र सर्गः।
श्रीशब्दादिस्सम्पदानन्दमूर्धा सम्पूर्णोऽशुदद्वितीयो द्वितीयः॥ 31 ॥

***************************************************************************

.

तृतीयस्सर्गः

स्वैरञ्चरीब्णुर्भुवनान्तरेष्वधो नृणां भविष्यत्कथयन् शुभाशुभम्।
उद्दीप्तमूर्तिः परया तपःश्रिया महीभृतस्ततपुरमाप नारदः॥ 1 ॥
प्राप्तं पुरः प्रेक्ष्य सहर्षमुत्थितः स्वयं प्रदिष्टे विनिवेश्य विष्टरे।
महर्षिमर्ध्यादिकया सपर्यया महीभृदीशो महिमानपूजयत्॥ 2 ॥
तुङ्गसनस्थस्य मुनेरनुज्ञया क्षितौ निषण्णो विनयानतोऽपि सन्।
सोत्कर्षहर्षद्विगुणीकृतोन्नतिः जगाद वाचं जगतीभृदीश्वरः॥ 3 ॥
मध्ये क्षपाया इव तिग्मदीधितिः शशीव कुह्वामभिपूर्णमण्डलः।
लोकस्य भूयांसि तमांसि संहरन् अतर्कितोपागमनस्त्वमीक्ष्यसे॥ 4 ॥
एतत्त्वया दिक्पतिमोलिवल्लभैः सुदुर्लभैः पादपयोजपांसुभिः।
सम्भावितं मे बुवनं स्थितं क्षितावधः करोति त्रिदशेन्द्रमन्दिरम्॥ 5 ॥
लोके न कश्चित् सुकृती मया समः तपोनिधिं त्वामधिवेश्म मश्यताम्।
पुंसामसंसाधितपुण्यकर्मणां न गन्तुमिच्छन्ति गृहान्मनीषिणः॥ 6 ॥
त्वत्पादसन्दर्शनवन्दनादिना फलेन त्वल्लोचनमस्तकादिभिः।
जातं कृतार्थैस्सफलोद्भवे श्रुती विधेहि सँल्लापशुधारसार्पणात्॥ 7 ॥
एवं ब्रुवाणं विनयानतं स तं महीभृतं प्रीतमना मुनीश्वरः।
प्रोवाच वाचं प्रियसंहितां हितां स्मृतामराधीशगुणां गुणाधिकाम्॥ 8 ॥
स्थाने तवेयं विनयावनम्रता कुले प्रसूतस्य महामहीभृताम्।
पुंसां स्वयं हि प्रभवन्ति सद्गुणाः कुलानुरूपाः कृतपुण्यकर्मणाम्॥ 9 ॥
पातालमुर्वीञ्च दिशश्च सद्यशो वपुर्महिम्ना विशदेन सर्वतः।
व्याप्याधितिष्ठन्नतिवर्तते भवान् कदाचिदाक्रान्तज्रगत्त्रयं हरिम्॥ 10 ॥
प्राप्नोन्नतिस्थेममहिम्निसर्वतः क्षमानिमां बिभ्रतिनिर्भयं त्वयि।
बिभ्रत्यहीन्द्राचलदिग्गजादयः सुखेन पृथ्वीं पृथिवीभृतोऽपरे॥ 11 ॥
लोके पुमान् पुण्यनिधिस्त्वया समो न विद्यते नो भविता न चाभवत्।
जामातरं त्वं लभसे यतः पुरा परं सुराणां शिवमादि पूरुषम्॥ 12 ॥
यस्मात् परं वस्तु न विद्यते परं यतस्त्वणीयोऽस्ति न वा महत्तरम्।
यः स्थाणुरेकः पुरुषस्सनातनः समस्तमापूर्य जगद्वितिष्ठते॥ 13 ॥
एकः पुरा सृष्टवो द्रजसाञ्चतुर्मुखम्।
यः सर्गशक्तिं प्रतिपाद्य तं प्रभुं स सर्वभूतानि जगन्त्यसीसृजत्॥ 14 ॥
अजस्रमाराधयतो दृगम्लुजैः सहस्रसंख्यैः प्रणतस्य यो हेरः।
दत्त्वा महाधाम, दधत्सुदर्शनं जगत्त्रयीपालनशक्तिमादधात्॥ 15 ॥
जघान मध्येऽब्धिमधुञ्च कैटभं द्विषं तमत्यात्ममहत्वमानिनम्।
ब्रह्मणमप्याशु धृतोरुविस्मयं निजेन धाम्ना महता व्यधन्त यः॥ 16 ॥
शक्तिः परिच्छेत्तुमभून्नवेधसोऽप्युपर्यधस्ताच्च जगद्‌गुरोः हरेः।
यस्याप्रमेयं महिमानमद्भुतं गिरां दवीयो मनसाञ्च यत्पदम्॥ 17 ॥
शूलं दिवौको विपदां विबाधकं जितारिचक्रं बिभृते करेम यः।
आस्तां दृशौ यस्य विभोः विभावसू रजन्यधीशश्च परापरात्मनः॥ 18 ॥
वेदं पुरा प्राप्तपरिक्षयं पुनः जगद्धितायानिमिषात्मतां गतः।
लोके प्रतिष्ठापितवानथास्य यः शिरस्यवात्सीदपुनः क्षयाय वा॥ 19 ॥
क्षीराम्बुराशे) श्रियमैन्दवीं कलां अनुप्रसूतां सह कौस्तुभेन यः।
भर्ता त्रयाणां जगतां विभूषणं बिभर्ते कान्तां शिरसां नतां सुरैः॥ 20 ॥
त्राणेच्छया क्रोडगतिस्स्वयं चरन् दधन्महत्वं विषमं पदं पुरा।
प्राप्तां खलूर्वीं क्षुभिताब्धिमध्यतः प्रभुस्सुरणां क्षणमुज्जहार यः॥ 21 ॥
दैत्येश्वरं भग्नमहाजगत्त्रयं पुराञ्चितं दैत्यगणैस्सुदुर्जयम्।
क्रुध्दो हिरण्यादिमयं जघान यः क्षणात् कराग्रेण मृगेशमूर्तिभृत्॥ 22 ॥
दक्षेण धृत्या बलिना महाध्वरं विधीयमानं द्विषताऽब्युपेत्य तम्।
हृत्वा श्रियं यस्सहसाऽसुराधिपान् विजित्य सर्वान् निगृहीतवानमुम्॥ 23 ॥
छिन्दन्(1) समातङ्गतुरङ्गमानुषान् महीभृतो बिभ्रदुरुं परश्वधम्।
लोकान् युगान्ते प्रदहन्निवाजनलो रुषातिभीमः क्षयमानिनाय यः॥ 24 ॥
यो मानितत्वं दधादाश्रितो गिरिं वशीकृतात्मप्रियमाप्तपुष्पकम्।
जेतारमिन्द्रस्य समीपवासिनं व्यधात्त पौलस्त्यमबाधितं परैः॥ 25 ॥
देवद्विषां संहरणाय यः प्रभुः बलेन युक्तस्सहजन्मनाऽभवत्।
धर्मस्य गोप्ता विहितात्ममुक्तये दिशन्नभीष्टं वसुदेवनन्दनः॥ 26 ॥
सर्वत्र विख्यातमहागुणाम्बुधेः स्थिते दुरापे मनुजैर्वनान्तरे।
ध्यायन् मुनीनां सुखवर्धनं तपः करोति लोकत्रितयस्य पालनम्॥ 27 ॥
यां यां तनुं स प्रभुरात्मलीलया गृहीतवान् विश्वहिताय विश्वभृत्।
तत्तत्समानं परिगृह्य विग्रहं प्रियास्य शक्तिः प्रियमेव साऽन्वयात्॥ 28 ॥
केनापि(2) लोकाभ्युदयाय हेतुना प्रियेण सा तेन विना कृता सती।
स्नेहेन कर्तुं पुनराश्रयं विभोरभूदियं भूभृदधीश ते सुता॥ 29 ॥
कृष्णस्य कण्ठे दधतो जगत्पतेरहीनरत्नाभरणं महात्मनः।
एका तपोभिस्सुचिरादुपार्जितैः भविष्यति प्रामसमा वधूरियम्॥ 30 ॥
अतस्त्वमस्मौ प्रभवे दिवौकसां अनन्ययोग्यां प्रदिशस्व कन्यकाम्।
अगण्यपुण्यत्रिजगद्‌गुरोः गुरुः ततो भव त्वं, स्थिरमस्तु ते यशः॥ 31 ॥
इति मुनिगदितां तां वाचमाकर्णयन्ती मुखमवनमयन्ती तातपार्श्वे कुमारी।
सपदि किल विभिन्नं हारमाबद्धमुक्ताफलधृतनवसूत्रं सन्दधानाऽवतस्थे॥ 32 ॥
तदनु सुरमहर्षेस्साधितार्थाय कन्यात्रिभुवनपतियोगां भारतीं तां विशम्य।
क्षितिभृतिधृतहर्षे साधुना तत्प्रदानं जगदभिमतमस्यास्सादरेणानुजज्ञे॥ 33 ॥
कथं भूभृत्कन्यां कुलगुमसुहृद्रागरहितो गवां गोप्ता, मान्यश्च्युतिविषयभोगः परिणयेत्।
स चेदीशो मां हि प्रणयस्तुलभो याचितवधूमिमामस्मै दास्ये न तव कुरुषे निष्फलमिदम्॥ 34 ॥
प्रकटितहतदुष्टचेतसोच्चैरितिं गिरिराजसुतेन साभिमानम्।
सहधरणिभृता गृहीतवाक्यो विदितधृतिः प्रययौ, ततो मुनीन्द्रः॥ 35 ॥
भर्तात्मनस्त्रिभुवनाधिपतिस्स देवो भावीति देवमुनिनाऽभिहितां हितार्थाम्।
आकर्ण्य तां गिरमृताममृतानुरूपां आनन्दसम्पदमधत्त वधूः प्रकामम्॥ 36 ॥
एवं काव्ये पार्वतीरुक्मिणीये हृद्ये विद्यामादावार्थप्रणीते।
श्रीशब्दादिस्संपदानन्दमूर्धा सम्पूर्णोऽभूदेषसर्गस्तृतीयः॥ 37 ॥

***************************************************************************

.

चतुर्थस्सर्गः

भूभृत्सुताया हृदयारविन्दे प्रेम्णा विकासं सहजेन नीते।
करा इवार्कस्य परस्य पुंसः श्रीशालिनस्तस्य गुणाः निषेदुः॥ 1 ॥
चिराय चेतश्शायने कुमार्याः स्वपन्निवास्वप्नवरानुबन्धी।
स्नेहः पुरा सद्वचसे महर्षेः प्रबोधितसतत्क्षणमुज्जिजृम्भे॥ 2 ॥
आस्तेऽखिलं यत्र जगत्स देवो यस्मिन् कुमार्या हृदेय निधीनः।
तद्यत्र च स्नेहरसे निमग्नं स्नेहस्य कस्तस्य वदेन्महत्वम्॥ 3 ॥
वरीयसि स्वर्गसमान्दुरापे दवीयसी प्रेयसि सक्तचित्रा।
मुनेर्वचस्सत्यमवेत्य बाला बभूव चिन्ताकुलितान्तरात्मा॥ 4 ॥
तपांसि कुर्वाणमभङ्गुराणि गुरुं सुराणां गुरुणा नियुक्ता।
प्रतीतचेताः प्रतिवासरं सा समर्चयामास तमर्चनीयम्॥ 5 ॥
कालेऽथ तस्मिन् क्षिपता समायं श्रियं त्रिलोक्याः अपि शम्बरेम।
दैत्येश्वराणां किल तारकेण बबाधिरे नाकनिकालसङ्घाः॥ 6 ॥
ततोऽभिभूता युधि पूर्वदेवैः देवाः पुरस्कृत्य पुरन्दरं ते।
महर्षिभिस्सार्धमहर्षिदीनाः सद्माद्भुवं पद्मभुवोऽभिजग्मुः॥ 7 ॥
ते मूर्तिमत्कालनगाब्धिभूतब्रह्मर्षिविद्यासमुदाय मध्ये।
निविष्टमष्टापदपद्मपीठे पद्मोद्भवं प्रेक्ष्य सुराः प्रणेमुः॥ 8 ॥
वेदप्रसूतिं परदेवमन्त्रैः प्रतुष्टुवुः पङ्कजविष्टरं ते।
सुरास्सुरारातिकृताञ्च बाधां प्रशंसनीयाय शशंसुरस्मै॥ 9 ॥
निशम्य गीर्वाणगणस्य वाणीं जगाद धाता जगदेकबन्धुः।
अभूत् प्रभूष्णोरसुरादमुष्मात् युष्माकमेषा विपदित्यवैमि॥ 10 ॥
धर्मस्थितीनां भवतामधर्म (1)—मित्रादपयातु भीतिः।
स्थिरा न सम्पत्तिरधर्मभाजां स्वधर्मभाजां न खलु प्रणाशः॥ 11 ॥
परा सुभावं भजते पुरोऽसौ(2) मदोद्धतो नातिचिरादरातिः।
अतः प्रतीक्षध्वमपि क्षताशाः कालं सुराः कञ्चिदमुं कथञ्चित्॥ 12 ॥
आराधनीयो जगतां त्रयाणां ईशो मुकुन्दस्स्तुतनामधेयः।
योगेन युक्तो दमयन्नरातीन् महीभृतस्तिष्ठति सोऽद्य भूमौ॥ 13 ॥
भूत्वाऽधुना भूमिभृतस्तनूजा सती प्रसीदद्वदनाम्बुजास्य।
साध्यानमाराधनकर्मदक्षा करोति देवस्य समागमोत्का॥ 14 ॥
समागतायाममुनाथ तस्यां जनिष्यते यो बलावन् कुमारः।
मायाविनं तं स निहत्य दैत्यं विमुक्तबाधआन् कुरुते पुरा वः॥ 15 ॥
तस्मात्तमीशं वशिना स्वशक्त्या तया समायोजयितुं यतध्वम्।
सुराश्चिरादिष्टफलस्य लब्ध्यै बीजाङ्कुरं पङ्कितयेव भूम्या॥ 16 ॥
ब्राह्मीति सा ब्रह्मसमीरित तानानन्दयन्नाकसदस्सशोकान्।
तरुन् परिम्लानरुचस्तपान्ते नवाम्बुधाराम्बुधरोज्झितेव॥ 17 ॥
प्रणम्य धातारमतोऽभ्यनुज्ञां प्रपद्य यज्ञांतोऽब्यनुज्ञां प्रपद्य यज्ञांशभुजस्ततस्ते।
प्रीताः कृतार्था इव दर्शितार्थाः पुराण्यवापुः पुरुहूतमुख्याः॥ 18 ॥
ततस्सुरेन्द्रस्सुरकार्यशक्तं आहूय कन्दर्पममन्ददर्पम्।
ह्ययोजयद्योजयितुं महीभृदधीशपुत्र्या जगतामधीशम्॥ 19 ॥
रत्या समं वासवशासनेन विहाय बृन्दारकसद्मभूभिम्।
जनेन सम्प्राप तपोवनं तत् प्रभोर्मनो मोहयितुं मनोभूः॥ 20 ॥
तस्याः पुरो भूमिभृदात्मजायाः समुद्भविष्यन्नवकीर्तिकामः।
कामोन्नयं मानसमस्य मोहं दग्धो हरेणेक्षणपावकेन॥ 21 ॥
प्रभुं तथा मोहयता स्मरेण शरेण सम्मोहनसंज्ञितेन।
अभिक्षता सा हृदये प्रकामं पितुर्गृहे जातु सुखं न लेभे॥ 22 ॥
तापभिभूताऽथ सखीसमेता सुशीतमाराद्वनमावितेश।
तपोभिरेषा सुलभस्य भर्तुः समागमे बद्धदृढाबिलाषा॥ 23 ॥
रतिं विमुञ्चन्त्यशनाङ्गरागसङ्गीतमाल्याम्बरभूषणेषु।
गृहीतमौनानि गृहीतचेताः तमेव सा चिन्तयति स्म कामम्॥ 24 ॥
नोवाच वाचं न चकार कार्यं किञ्चिन्न शुश्चाव न चै क्षतान्यम्।
सा चेतसा व्याकुलितेन देवं तमेव सस्मार निमीलिताक्षम्॥ 25 ॥
सा तापशान्त्यै बह्वप्सु सस्नौ सुशीतलं भूतलमध्यदेशम्।
न्यधत्तदृष्टिञ्च स देवरूपे चित्रांशुके भाश्वति निर्निमेषाम्॥ 26 ॥
ग्रीष्मेऽनलानां रविपञ्चमानां प्राप्तानरे वासमलब्धतापा।
घनाम्बुसिक्ता विरते निदाघे सरोजले सा शिशिरे न्यवात्सीत्॥ 27 ॥
दिने दिने निर्मलतां भजन्ती रुचिं त्यजन्ती तनुरैन्दवीव।
क्रमेण कृष्णाभिनिवेशितस्सा सम्प्राप मित्राभिमुखीकृशत्वम्॥ 28 ॥
अथ द्विजः कश्चन दीप्यमानं कृतैस्तपोभिः परितुष्टचेताः।
गुणाधिकस्तद्वनमाससाद भूभृत्सुताभावविबोधनोत्कः॥ 29 ॥
स आसनस्वागतवाद्यपूर्वां तया प्रयुक्तां परिगृह्यपूजाम्।
भृशं कृशाङ्गीमसुमात्रशेषां अवेक्ष्य तां वाचमिमामवोचत्॥ 30 ॥
सुखं तमन्तःपुरसन्निवासं त्यक्त्वा विविक्ते विपिने स्थिता त्वम्।
तस्मिन्निमित्तात्क्षितिभृत्तनूजे कृशासि कृष्णान्त इवेन्दुलेखा॥ 31 ॥
पितृगृहे नैव तवावमानः कः स्प्रष्टुमीहेत बलान्नरस्त्वाम्।
न तेऽत्यभीष्टं वपुर्दुर्लभं वा पश्यामि नोद्वेगनिमित्तमेवम्॥ 32 ॥
अथ त्वमन्विच्छसि वाऽनुरूपं प्राणेश्वरं प्राणभृतां प्रवेकम्।
नालोक्यतेऽसौ पुरुषस्त्रिलोक्यां धीरस्त्वयाऽभ्यर्थितदुर्लभो यः॥ 33 ॥
व्यनक्ति तन्वङ्गि तथाऽपि सैषा दशा त्वदीया पुरुषैर्दुरापे।
सुदुर्लबे मानिनि वल्लभे ते गुणैकबन्धाननुरागबन्धम्॥ 34 ॥
श्नेर्वियोगो विषयान्तरेषु सतापजग्लानिशरीरमस्याः।
दृशोश्च निद्राक्षयनिष्प्रभत्वं शंसन्ति कामार्तिमसंशयं ते॥ 35 ॥
यतः परिकलेशमसह्यमेवं प्राप्तासि दीप्तस्मरवह्निदीप्ता।
लीनं मनोमन्दिरकन्दरायां निवेदयैनं यदि वे दनीयः॥ 36 ॥
द्विजेश्वरेणैवमुदीरितं तद्वचो निशम्याऽथ सखी तदीया।
जगाद भूभृत्सुतया तथैककटाक्षवीक्षाविहिताऽभ्यनुज्ञा॥ 37 ॥
उदीरितं साधु वचस्त्वयाऽस्या वाचा विजानतेव।
ननाम लोकत्रितयेऽत्र किञ्चित् भवादृशां बुद्धिमतामबुद्धम्॥ 38 ॥
कदाचिदस्यां सविधे स्थितायां महीभृदीशस्य परो महर्षिः।
अभाषत त्वद्दुहितैकपत्नी त्रैलोक्यनाथस्य भविष्यतीति॥ 39 ॥
इमां समाकर्ण्य गिरं महर्षेः प्राप्ता प्रहर्षातिशयेयमासीत्।
आसक्तचित्ता महिते सुराणां ईशे क्षमायोगिनि तत्र देवे॥ 40 ॥
कन्याभिरन्याभिरिह त्रिलोक्यां सुदुर्लभं वल्लभमेनमेवम्।
लब्ध्वा रमे याति चिरादितीयं व्यधत्त सङ्कल्पमनल्परागा॥ 41 ॥
कदा कृपामुष्य भविष्यतीह लभेय योगं प्रभुणा कथं वा।
दिष्टं किमिष्टाभिमुखं ममेति जाताकुलोत्कण्ठितमानसेयम्॥ 42 ॥
चिरा निरास्थं निशि जागरोऽस्या दृशो सरोजोपमतापवादम्।
क्षिणोति दोषं खलु देहभाजां क्लेशं सुरेशस्मरणप्रणीतः॥ 43 ॥
तस्मिन् महात्मनि निबद्धदृढानुरागबन्धा विनाकृतरतिर्विषयान्तरेषु।
वर्धिष्णुना मनसिजेन विनाध्यमाना प्राप्ता कृशङ्गलतिकेयमिमामवस्थाम्॥ 44॥
इतीयं तच्चित्ता विहितविनया स्वामिनया कृतानां सम्पत्त्या विरहित विपत्त्यात्मतपसाम्।
समायोगात्पत्युः स्पृहयति युरापाय सुचिरात् महानन्दायेत्थं श्चनमभिधायारमदसौ॥ 45 ॥
अस्मिन्नाम्ना पार्वतीरुक्मिनीये हृद्ये विद्यामाधवार्थप्रणीते।
श्रीशब्दादिस्सम्पदानन्दमूर्धा पूर्णस्सर्गोऽत्यद्भुतार्थश्चतुर्थः॥ 46 ॥

****************************************************************************

.

पञ्चमस्सर्गः

वशी निशम्य तस्यास्तां गिरं गुणगरीयसीम्।
अथोवाच तपःश्रीमान् हसन्निव वचो द्विजः॥ 1 ॥
प्रोन्नत्या सदृशोऽद्रीणां भुवि राजा विराजते।
धन्यां कन्यामवाप्यत्वां लक्ष्मीरिव पयोनिधिः॥ 2 ॥
शिरसः पुष्पमालेव पद्मसम्पदिवाम्भसः।
व्योम्नः शशिकलेवत्वं कुलस्यास्य विभूषणम्॥ 3 ॥
कुलेन सदृशं रूपं रूपेण सदृशी मतिः।
मत्या ते सदृशी विद्या विद्यया सदृशीस्थितिः॥ 4 ॥
मतिविद्यास्थितीनां ते रूपस्य च कुलस्य च।
आसीदसदृशे स्थाने कामः कमललोचने॥ 5 ॥
स्थितेषुकल्पवृक्षेषु विषवृक्षमिवापरम्।
अमर्त्यमर्त्यराजेषु कथं कामयसे वरम्(1)॥ 6 ॥
कुलहीनं कुलोद्भूता विर्गुणं गुणशालिनी।
विरूपं रूपशोभाढ्या त्वमर्हसि न तं पतिम्॥ 7 ॥
क्षिपुन् यशः पितॄणां यो वनमध्यवसच्चिरम्।
क्रीडन् मुक्तः सदाचारः पिशाचैः सहगोपकैः॥ 8 ॥
विबुधा अपि बुध्यन्ते सन्ततिं यस्य जन्म वा।
धत्ते विष्णुपदं यस्सुधामा वासः स्वमायया॥ 9 ॥
खगं विमानमारुह्य चरन् प्रवयसं वृषम्।
रुषाकुलमना धर्ममनादृत्य न्यपातयत्॥ 10 ॥
अप्रियं विदधानस्य बहुधा मातुलस्य तम्।
गुरोः स्वयम्भुवोभर्तुरमर्षादच्छिनच्छिरः॥ 11 ॥
अमनोज्ञेन भूतानां मम(2) गौपीगणेन यः।
सह प्रम्णा यथाकाममरंस्त वनभूमिषु॥ 12 ॥
हीनजन्मन्यसंस्कारे क्षीणवृत्ते पराश्रये।
सन्तो न कुर्वते यस्मिन्नादरं(3) कामचारिणी॥ 13 ॥
यः पशूनामधिपतिः धात्रीसंहारकारकः।
क्रतुद्विषोन यस्यास्ति कार्याकार्यव्यवस्थितिः॥ 14 ॥
जनेन साधुनाऽनिनद्यं धत्ते यो बलवत्तमः।
निरस्तसत्वसामर्थ्यं गुणलोकविनाशनम्॥ 15 ॥
न दैवं न गुरुर्यस्य न बनधुर्न सखा चरः।
न धर्माभिरतिर्नार्थो न च वर्णाश्रमस्थितिः॥ 16 ॥
वरे (5)परगुणो यस्मिन् नैको लोको नयद्विषि।
कामो वामोरु! ते तन्वि! तस्मिन् कस्मादजायत॥ 17 ॥
चित्तं न निवर्तते त्वं कस्मादस्मादसद्वरात्।
वचनं शब्दविद्येव निन्दितादपशब्दतः॥ 18 ॥
इति द्विजो विजिज्ञासुस्तस्या स्नेहं महेश्वरे।
स्तुतिगर्भं स्फुटाक्षेपा मुक्त्वा वाचमुपरमत्॥ 19 ॥
मेघशब्दं मयूरीव श्रुत्वा तद्‌द्विजभाषितम्।
चिरं नियमितां वाचमाददे भूभृदात्मजा॥ 20 ॥
अजानन् वा विजानन् वा जिज्ञासुर्वा मनो मम।
अवैदिकमतस्थो वा त्वमधिक्षिपसीश्वरम्॥ 21 ॥
प्रभोरजानतेवास्मिन् अवक्षेपे त्वया कृते।
अन्तःस्तुतेः प्रतीतत्वात् जानतेवोदितं वचः॥ 22 ॥
त्वादृशां खलु नाज्ञानं तमस्तेजस्विनामिव।
अतो मन्ये मनःस्थैर्यपरीक्षा मेत्वया कृता॥ 23 ॥
स सुरुपो विरुपो वा सधनो निर्धनोऽपिता।
कुलजोऽकुलजो वाऽस्तु स्थिरा(6) तत्रैव मे मतिः॥ 24 ॥
आसीदासक्तिरेतस्मिन्नकस्मान्मनसो मम।
न नाम सहजं प्रेम दोषदोषमवेक्षते॥ 25 ॥
किञ्च तस्य गुणास्सन्तो जयन्ति जगदात्मनः।
एषां संख्यां विधाताऽपि विधातुं न प्रभुः प्रभुः॥ 26 ॥
एतानि यस्य भूतानि प्रभूतानि विभूतयः।
जगतामुदयस्थानसंस्थानानि यदिच्छया॥ 27 ॥
यदेकशरणा देवा यदिच्छायत्तवृत्तयः।
आत्मेच्छावृत्तिरत्मैकप्रभुर्विध्वंसते न यः॥ 28 ॥
प्राणिनां येन सृष्टानां सदसत्कुलकल्पना।
जितमृत्योरजस्यास्य कथं विज्ञायते कुलम्॥ 29 ॥
यस्य शासनमन्येषांमाचारो दुरतिक्रमः।
स्वेच्छया क्रीडतो यस्य नास्ति सास्ता परःपुमान्॥ 30 ॥
यत्पादपद्मप्रणतेः फलं लोकेश्वरश्रियः।
स परानन्दसम्पत्तिः सम्पदं कां स कांक्षति॥ 31 ॥
रुपसौभाग्यशीलादिसम्पदो यत्प्रसादजाः।
केन तत्कामरूपस्य तस्य रूपं निरूप्यते॥ 32 ॥
लोकस्य मङ्गलाचारो भूत्यादेफललिप्सया।
यो विधेयमहैश्वर्यो निःस्पृहस्तस्य तेन किम्॥ 33 ॥
च्युतभूषाच्युतावास धनभोगस्य गोगतेः।
यस्यार्चन्ति पदं सर्वे सर्वैश्वर्यभृतस्सुराः॥ 34 ॥
एकोऽप्यनेकरूपो यो गुणवानपि निगुणः।
अकर्ता(7) विकरोतीति वेत्ति याथार्थ्यमस्य कः॥ 35 ॥
ब्रह्मन्! ब्रह्मगुरोस्तस्य गर्हन्नार्हस्युदीरितुम्।
यः पावयति भूतानि वर्णितावर्णितोऽपि वा॥ 36 ॥
सुरा इव हरन्तोऽघं र्शसन्तो महितं हितम्।
साधवस्साधयन्त्यर्थमिष्टं दृष्टाश्शरीरिभिः॥ 37 ॥
अनन्यगतये मह्यं हितमेकमिदं कुरु।
पुरः पत्युरदोषं मे ब्रूहि ज्ञात्वेदृशं मनः॥ 38 ॥
तावदेवं ब्रुवन् स त्वं सत्वरं गन्तुमर्हिसि।
स पापोपरतिश्चैद्यो यावन्मां न हरिष्यति॥ 39 ॥
“पितुः पुराद्विनिष्क्रान्ता विधातुं देवतार्चनम्।
यास्यामीतस्तत्र भवान् विद्वन्नायातु मा चिरम्॥ 40 ॥
इति वध्वा वचः श्रुत्वा तद्भाषितमभाषत।
प्रहर्षमयुतं प्राप्य द्विजो मन्दगभाषता॥ 41 ॥
तद्वचः श्रवणादाशु सकोपस्फुरिताधरम्।
प्रतस्थे भूमिभृत्कन्या परतन्त्रेण चेतसा॥ 42 ॥
अथेष्टदेवतापूजाव्याजेन द्विषतः पुरः।
महीभृतां वरस्यासौ कन्यका तस्य पश्यतः॥ 43 ॥
सखीपरिवृता मन्दं यथौ ललितगामिनी।
ध्यायन्ती जगतां नाथं चेतसाऽनन्यवृत्तिना॥ 44 ॥
अनिष्टतः कृतक्लेशात् प्रदेशादमुतश्शनैः।
प्रयान्ती शुशुभे मूर्तिशेन्दवीव तमोमुखात्॥ 45 ॥
सखीसमेतां कृतदेवतार्चनां शनैर्व्रजन्ती निजपादसंश्रयाम्।
प्रकाशितात्मा प्रमदात्सुरप्रभुः प्रहस्य जग्राह महीभृदात्मजाम्॥ 46 ॥
सा भीतिलज्जोदयकातराक्षी सरागमीशेन बलाद्‌गृहीता।
प्रवेपमाना न शशाक गन्तुं करीन्द्ररुद्धा करिणीव बाला॥ 47 ॥
सम्प्रीतिभाजमपि दर्शितभीतियोगां ख्यातप्रगल्भचरितामपि ल्ज्मानाम्।
स्थित्युत्सुकामपि विभावितया न वाञ्छा सङ्गृह्य तां स निजगाद सहर्षहासम्॥ 48 ॥
अनन्यवृत्त्या ततया महत्या भक्त्या भवत्या स्ववशीकृतस्य।
शुभे! भव त्वं भुवनेश्वरस्य प्रणेश्वराद्य प्रभृति प्रियामे॥ 49 ॥
इति प्रसन्ने वदति प्रियं प्रिये वचः प्रमोदहृदमग्नमानसा।
अमन्यतानन्यसमानमात्मना कृतोद्भवार्थं सुकृतं कृतं महत्॥ 50 ॥
तयेक्षिता तन्निपुणाऽब्रवीत् सखी त्वदन्यतो भूमिभृता प्रदित्सिता।
नेतुं प्रसह्यार्हसि नाथ कन्यकां पित्रा प्रदत्तेयमुदूह्यतां त्वया॥ 51 ॥
वचनमिति निशम्याख्याततद्भावमस्याः तदुचितमिह कार्यं देववर्योऽवधार्य।
प्रणयविवशचेतास्तां कथञ्चित् गृहीतां क्षितिभृतमवजानन्नात्मकान्तां मुमोच॥ 52 ॥
महात्मा सत्प्रेम्णो निजगतिरुधोऽस्यास्सहभुवः तदा कृत्वा भङ्गं, तदनु कलयन् भूभृतममुम्।
कुमार्यादानेच्छं विफलमपशगः कृतमतस्मरन् जित्वा प्रायात् प्रमदबलयुक्तः स्वभवनम्॥ 53 ॥
तत्कर्मधर्मसुहृदो जगदीश्वरस्य दृष्ट्वा विनष्टरिपुभीतिशुचां शुचीनाम्।
आसन्नसिद्धिमवबुध्य मनोरथं स्वमानन्दसम्पदमधत्त गणस्सुराणाम्॥ 54 ॥
इत्थं काव्ये पार्वतीरुक्मिणीये हृद्ये विद्यामाधवीयेऽत्रसर्गः।
श्रीशब्दादिः सम्पदानन्दमूर्धा सम्पूर्णोऽबूदञ्चितः पञ्चमोऽयम्॥ 55 ॥

*****************************************************************************

.

षष्ठस्सर्गः

ततो गृहीत्वा स वधूबलेन व्रजन् नृदेवानभिभूय सर्वान्।
तपः श्रियाभिज्वलतो महर्षीन् सरमार सप्तैक जगन्ति रक्षन्॥ 1 ॥
ते संस्मृतास्संस्मरणीयधाम्ना सुरेन्द्रवन्द्येन सुरेश्वरेण।
यदीक्षणास्तत्क्षणमाविरासन् महर्षयस्तस्य पुरस्सहर्षाः॥ 2 ॥
सुरासुरेशाधिप! शाधि नस्त्वं प्रसीद किन्ते करवाम कार्यम्।
इति ब्रुवाणान् किन्ते करवाम कार्यम्।
इति ब्रुवाणान् विहितप्रणामान् पुमान् पुरस्तादवदत्पुनस्तान्॥ 3॥
श्रिया यशोभिः प्रहिता हिमाद्रिं गिरीशमभ्यर्थ्य सहैव यूयम्।
पुरः प्रविष्टा विधिना प्रियायाः वध्वाः करं ग्राहयताचिरान्माम्॥ 4 ॥
इति प्रदिष्टं भवतैतदिष्टं वयं सुधामन्! विदधाम कार्यम्।
इति प्रतिज्ञाय मुनिप्रवेकाः(1) प्रपेदिरे तस्य पुरं प्रतीताः॥ 5 ॥
ते साधयित्वा तमथो यथीक्तं महर्षयः प्राप्तसुहर्षयोगाः।
विवाहयोग्यं महितं मुहूर्तं प्रशंसनीयाथ शशंसुरस्मै॥ 6 ॥
दिहक्षयाऽऽयान्तमलं मुदेव निनंसयोत्क्षिप्तपदं समुद्रम्।
सा शूयमाणस्तव घोषमुच्चैः ददर्श देवौघमिवाम्बुराशिम्॥ 7 ॥
ततस्स पाणिग्रहणाय वध्वाः व्रजन् सुरर्षिप्तवरैस्समेतः।
दुष्टान् विनेता जगतीभृतस्तान् वीतक्षयः स्वां नगरीं ददर्श॥ 8 ॥
वधूभिरिद्धा विजितात्सरोभिरधिष्ठिता किंपुरुषैः प्रहृष्टैः।
या दुर्निरीक्षा नृभिरल्पपुण्यैरराजत द्यौरिव राजधानी॥ 9 ॥
ख्यातां पृथिव्यां सदृशां पयोधेः वबौघपर्याश्रयणातिदुर्गाम्।
यामप्रसह्यामरयः प्रसह्य न जातु शेकुः मनसा विगन्तुम्॥ 10 ॥
अयत्नसम्पादितरत्नमुष्टाम् यथेष्टमष्टापदवृष्टिधाराम्।
चिरं किरन्तो भवनान्तरेषु यामध्यवात्सुर्निधयो महान्तः॥ 11 ॥
क्षीणो स्ववासाम्बुजविद्विषीदौ हृते महेशेन तदीयशत्रोः।
मनोभवस्याभ्युदयाय मन्ये विनिर्ममे यत्र वधूर्विधाता॥ 12 ॥
यद्योषितां हर्म्यजुषामराजन् गवाभलक्ष्याणि मुखाम्बुजानि।
विनिग्रहाय द्विषतः सुधांशोरावृत्य पन्तानमिव स्थितानि॥ 13 ॥
रतिप्रियानद्भुतरूपशोभान् मनोज्ञसंसाधितजीवनार्थान्।
यूनो जना यत्र कृतानुरागान् कामानमन्यन्त गृहीतदेहान्॥ 14 ॥
निवेशिता हेममयिषु यत्र पात्रेषु नीला मणयो विरेजुः।
स्फुटप्रसूने ष्वसनद्रुमेषु कृतावसङ्गाश्शरदीवभृङ्गाः॥ 15 ॥
हर्म्यावलीनिर्मितरत्नदीषैः क्षपासु दूरं क्षपितान्धकाराः।
यस्यामभूवन्नभिसारिकाणां सुखप्रचाराः प्रियवेश्ममार्गाः॥ 16 ॥
सुरद्चुमस्वीकृतसूनगन्ध ससूरसिस्त्रोर्मिनि वातशीतः।
यत्राङ्गनानां पुरुषाभितोत्थं श्रणं समीरः श्रमयाञ्चकार॥ 17 ॥
प्रयाप्रदीपामवनीय तत्र नार्यो नवोढा धनिनां गृहेषु।
रिरंसमाना निशि रत्नराशीन् प्रदीपदीप्रान् विदधुस्सुवर्णैः॥ 18 ॥
एकस्य यस्यां धनिनस्समुत्थं धनैरनासाद्य धनाधिनाथः।
त्रपाभिभूतः शिखरं हराद्रेरवाप मन्यैः—-(2)॥ 19 ॥
परस्परप्रेमरसार्द्रुचित्ताना रूपैरुपेतान् रतिकामलक्ष्मान्।
जरा चिराद्भोगवियोगमाता न यत्र योषा पुरुषान् बबाधे॥ 20 ॥
विभूषणेद्वे विभवस्य पुंसां त्यागश्च भोगश्च भुवि प्रसिद्धे।
यत्रार्थ्यभावात् धनिनां धनानां परं तयोरेकमभून्नपूर्वम्॥ 21 ॥
सृष्ट्वा पुरं सर्वगुणास्पदं यामात्तैर्गुणैः कैश्चिदितः पुरोऽन्याम्।
व्यधान्न धाताऽथ गुणानमूषु व्यस्तान् समाहृत्य नु निर्ममे याम्॥ 22 ॥
पुरी सभोगीश्वरसंश्रया सा महीयसी सिन्धुजलानुषक्ता।
लोकाभिपूर्णान्यनिजेव मूर्तिः देवस्य दृष्टेर्न चकार तृप्तिम्॥ 23 ॥
व्रजन्ननल्पां पदवीमतीत्य सिन्धुं जयन्तीमतुलप्रथिम्ना।
पुरस्सुरेशस्सुचिरं पुरीं तां उपासदत् सादर्मीक्षमाणः॥ 24 ॥
तमापतन्तं पृथिवीभृदीशः पुस्ततः प्रत्युदियाय दूरम्।
निरस्तचित्तस्थितिरुग्रसेनः स्वबन्धुभिः प्रीतियुतैः समेतः॥ 25 ॥
सर्वैश्च पौरैस्साह बन्धुभिश्च धराधिनाथेन कृतोपचारः।
सतोरणादिप्रतिकर्मरम्यां प्रीतः पुरीं प्राविशदीश्वरस्ताम्॥ 26 ॥
रथ्यान्तरे लोकनिरन्तरे तमायान्तमश्चेत्य गवाक्षमार्गैः।
दिदृक्षमाणाः पुरि तत्रनार्यः प्रसाधनाय क्षणमत्वरन्त॥ 27 ॥
कृत्वेक्षणं साञ्जनमेकमन्यदादर्शके साञ्जनकान्ति दृष्ट्वा।
काचित् प्रायाणत्वरया विमूढा वधूरनक्ति स्म तदेव भूयः॥ 28 ॥
सख्याः कृतालक्तकरंजनेन समानमोष्ठेन निसर्गरक्तम्।
दृष्ट्वाऽपराऽऽदर्शतले स्वमोष्ठमारञ्जितोष्ठो प्रययौ गवाक्षम्॥ 29 ॥
द्रुतं यियासुर्वरदुर्शनाय गते विलम्बं विदधानमुच्चैः।
निजं निनिन्दातिगुरुं ह्यसूया नितम्बिनी कापि नितम्बबिम्बम्॥ 30 ॥
गतैस्सलीलैरभवद्वधूनां यो राजहंसस्य तुलापवादः।
स यत्नवत्या क्षणमागवाक्षात् द्रुतं प्रयान्त्या परयाच निन्ये॥ 31 ॥
यान्ती बभौ काचन केशहस्तादर्धावबद्धद्विगलत्प्रसूना।
गुरुं नितम्बं कुसुमोपहारैराराधयन्तीव गतिप्रसिद्धयै॥ 32 ॥
स्तनाश्रयस्संक्रम(3)भिन्नसूत्रो यान्त्याः पदान्ते निपपात हारः।
कुलद्वयादाशुगतेर्विहन्तुः जातां रूपं हर्तुमिवापरस्याः॥ 33 ॥
अन्या प्रयाणत्वरया विमूढा विभूषणानामपदे विशोभाम्।
विदृक्षमाणेव बबन्ध हारं काञ्चीपदे हारपदेव(4) काञ्ची॥ 34 ॥
इत्थं प्रयाणत्वरया मृगाक्ष्यः कृताकृतालङ्करणाः क्षणात्ताः।
प्रस्मृत्य कृत्यान्यपराणि सर्वाः परं वरालोकपराः बभूवुः॥ 35 ॥
वरस्य रूपामृतमापिबन्त्यो विलोचनैस्त्यक्तनिमेषदोषैः।
उत्तुङ्गहर्म्याग्रगताप्यराजन् व्योमाश्रिता देव्य इवाङ्गनास्ताः॥ 36 ॥
वरावलोकप्रभावाः प्रमोदाः तन्त्रेषु तासां तनुमध्यमानाम्।
तन्त्रेष्वमान्तो ध्रुवमभ्युदीयुः वचोऽपदेशाद्वदनाम्बुजेभ्यः॥ 37 ॥
वरेण देवप्रवरेण योगं अनेन सा लब्धमनेन साध्वी।
स्थानं प्रयत्नं वनितैकरत्नं व्यधत्त भूभृत्तनया महान्तम्॥ 38 ॥
अस्य प्रभोस्सङ्गमनाय सैषा मन्ये वधूरूपविधानयत्नम्।
फलाय धात्राऽपि तपोऽभितप्तं समानयोस्सङ्गतिरेतयोर्या॥ 39 ॥
सैकाश्रयं पुण्यमुतोभयोर्वा यद्वा वधूवंशसमुद्भवानाम्।
उतेक्षणासक्तजनेक्षणानाम् —————(5)॥ 40 ॥
वधूभिरारादभिराध्यमानो विलोचनेन्दीवरमालिकाक्षिः।
शृण्वन् गिरः श्रोत्रसुखास्तदीयाः स्तुतीरिव स्वास्स जगाम मन्दम्॥ 41 ॥
गुणानां सम्पत्त्या परिहृतसमानत्वकथया समायुक्तो वध्वा जनकजननीबन्धुसुहृदाम्।
सुराणां पौराणां पुरवरवधूनाञ्च स वरं वितन्वन्नानन्दं विततमविशत्त्त्पुरवरम्॥ 42 ॥
इत्थं काव्ये पार्वतीरुक्मिणीये ह्यद्ये विद्यामाधवीयेऽत्र सर्गः।
श्रीशब्दादिस्सम्पदानन्दमूर्धा सम्पूर्णोऽभूदेष षष्ठो वरिष्ठः॥ 43 ॥

******************************************************************************

.

सप्तमस्सर्गः

श्रीमानथ प्रमुदितानुपद्वय बन्धून् स्वानत्र लोकमहिमानकदुन्दुभिस्तैः।
सम्पूज्य साधु विधिना क्षितिभृत्सुतायाः पाणिग्रहोत्सवमकारयदायताक्ष्याः॥ 1 ॥
संरम्भसञ्चलितकाञ्चनकर्णपत्रबासावबासिततटिल्लतिकाविलासाः।
बन्धुस्त्रियः परिगताश्शिशुभिः प्रचक्रुः उद्वाहयोग्यमखिलं प्रतिकर्म तस्याः॥ 2 ॥
स्तम्भैरबिज्वलति रत्नमयैश्चतुर्भिः तां मण्डपेऽबिषिचुक्षीश्रितहेमपीठाम्।
ताश्शातकुम्भमयकुम्भसुसम्भृताभिः अब्भिः सगन्धवरकुङ्कुमपङ्किलाभिः॥ 3 ॥
सा कुङ्कुमाम्बुजनितक्षणरागयोगा बाला गृहीतमिव हृद्गमनीयवस्त्रा।
संध्याशुसङ्गसमनन्तरलब्धसान्द्रचन्द्रद्युतिव्यतिकरा रजनीव रेजे॥ 4 ॥
काचिद्बबन्ध शुभगन्धतरुप्रसूनैः पूर्णोदरं विततमाययमायताक्षी।
स्निग्धं घनं कुसुमसायकसायकानां साक्षान्निषङ्गमिवकेशभरं तदीयम्॥ 5 ॥
गौरोचनार्द्रहरिताद्वमनश्शिलाभिक्लृप्तं ललाटभुविपाटलकान्तिसद्यः।
एषा विशेषकमधत्त विजाननेन्दोः इन्दोर्विशेषकमिवाशितलक्ष्मभाजः॥ 6 ॥
भाचारमात्रफलमीक्षणयोर्न तस्या नीलाञ्जनं निहितमाहितकान्तिमत्याम्।
नापेक्षते हि गुणिवस्तुविसर्गकान्तं शोभां शुभामभिनवां प्रतियत्नसाध्याम्॥ 7 ॥
सम्भोगभावफलनिर्वृतिलाभलोभात् प्राग्भाविकान्तकरयोगकरानुषक्तम्।
पूर्वानुरागमिव मङ्गलहस्तसूत्रं कन्या बभार कलितं कृतकुङ्कुमाङ्कम्॥ 8 ॥
मित्रागमप्तवलितेज मुखाम्बुजेन तारापतिं विहितमङ्कमवेक्ष्य भीता।
तस्याः पदाम्बुजनिताजनतानुरागा तारावलीव रुरुचे नखरत्नरजिः॥ 9 ॥
पृथ्वीव लक्ष्य रजताचलतुङ्गशृङ्गा व्योमस्थलीव धृतपूर्णशशाङ्कबिम्बा।
स्रोतस्विनीव पुलिनाश्रितहंसबृन्दा रेजे वधूरभिनवं मुकुरं दधाना॥ 10 ॥
आलीजनोजनितदर्शनलालेसां तां मेने वधूममलदर्पणदीप्तहस्ताम्।
पूर्णेन्दुमण्डलमखण्डरुचा निजेन वक्त्रेण मातुरिव सम्मुखमानयन्तीम्॥ 11 ॥
तस्याः समस्तवरभूषणभूषितायाः प्रोतस्स देवमद्रिरगमत्समीपम्(1)।
रात्रेश्शरद्यमलतारकभूषणायाः पीयूषबानुरिव भासुरपूर्ण बिम्बम्॥ 12 ॥
अद्य प्रभृत्यभिमतं चर चारुनेत्रे देवोत्तगेन सह धर्ममनेन पत्या।
इत्यादरादुपर्युप्रकः पुरोधा(2) विश्वात्मने विधिवदर्पयति स्म कन्याम्॥ 13 ॥
स्विद्यद्वधूकरपरिग्रहणेन सद्यः प्रोद्यन्नरेश्वरकरे पुलकश्चकार।
लोकस्य सिद्धसरसौषधसेकमात्रसञ्जातमन्मथनवाङ्कुरजालशङ्काम्॥ 14 ॥
गृह्णन् वधूकरममन्दधृतिस्समन्दं सप्तात्यगात् भुवनवन्द्यपदं पदानि।
ब्रह्माहितस्तुतिरधो भुवनानि सप्त पृथ्वीतलं दधदिवादिवराहनाथः(3)॥ 15 ॥
आधाय तत्र समिदाज्यसमिद्धमग्निमुद्वाहसाक्षिणमसौ जगदेकसाक्षी।
तस्य प्रदक्षिणपरिक्रमणोपचारं चक्रे यथा सह महेन्द्रकृतोपचारः॥ 16 ॥
सञ्चूर्णितस्य बलवत्प्रिययोगशक्त्या वक्त्रद्विषो हिमरूचेस्सह तारकाभिः।
विक्षेपणं विदधतीव रराज लाजान् सा जुह्वती सितमरीचिसितान् हुताशे॥ 17 ॥
नैसर्गिकेण महता सहतावजस्रं प्रेम्णा शरद्रजनिशीतकराविवाभौ।
सम्प्रापतुः सहजकान्तिमनोज्ञमूर्तिकान्ति प्रहर्षमितरेतरयोगजातम्॥ 18 ॥
नेदुस्स्वयं त्रिदशदुन्दुभयोऽतिमन्दम् शीताः स्म वान्ति मरुतो हरितः प्रसेदः।
इष्टा पपात परितस्सुरपुष्पवृष्टिः आसीत्तदा तनुमतामतनुप्रहर्षः॥ 19 ॥
दिव्यानुलेपनसुरद्रुमसूनमाला चित्रांशुक प्रवररत्नविभूषणानि।
तस्मै चराचरसृजे मिथुनाय देवाः सर्वे सहर्षपनिन्युरुपायनानि॥ 20 ॥
आपीवरस्तननितम्बभरालसद्भिः अप्यस्यलं नटनलाघवशालिनीभिः।
अष्टादशाङ्गकृतकर्मविशेषरम्यमग्रे तयोस्सुरवधूभिरकारि नृत्तम्॥ 21 ॥
व्यक्तोच्छलच्छ्रुतिकृतस्वरभेदहृद्यं वीणास्वनानुतमात्रगुणप्रकर्षम्।
तत्सन्निधौ कृततदीयगुणप्रबन्धं गन्धर्विकिन्नरगणैरुदगायि गेयम्॥ 22 ॥
कुर्विद्भिराशुचरणैः करणानि चित्राण्यगते वरस्य चिरदर्शिततालभेदैः।
आदाय वादनमति द्रुतगैः करैश्च वाद्यं चतुर्विधमवाद्यत वामकौघैः॥ 23 ॥
तत्संविदीक्षणदुरीक्षमशेषसाक्षी साक्षाद्भवन्मिथुनमाद्यमनाद्यनन्तम्।
दैवं परं शुमनासां मनसा विकामं तुष्टेन तुष्टुवुरभीष्टगिरो मुनीन्द्राः॥ 24 ॥
लभ्य..निस्पृहतया परमेश्वरस्य कार्यं प्रियं किमपि कर्तुमशक्नुवन्तः।
इष्टार्थमर्थिषु वितीर्य तदा कृताका कृतार्थाः चिन्तामणिस्सुतरुभिश्च जाताः॥ 25 ॥
सद्विद्ययेन विभतो विनयश्रियेन क्षान्त्या पराक्रम इवार्थ इवेष्टवाचा।
धर्मश्शुचिप्रततयेव विधेयबोधो युक्तस्तथा रुचदरुरुचदेष ताञ्च॥ 26 ॥
तस्याः कलापटुतयास्य विदग्धभावो रूपश्रियामधुरिमाप्रमदानुरागः।
शीलोदयः सुकृतसक्ततया सदृश्या वध्वेव सङ्गतिमावाप्य वरोऽप्यराजत्॥ 27 ॥
तद्दर्शन प्रणमनस्तवनार्चनाभिः तत्रोत्सवेऽभिलषितं लभते स्म लोकम्।
आयुःश्रियं घनमरोगमघौघहानिम् ज्ञानं विमुक्तिमणिमादिफलञ्चयोगम्॥ 28 ॥
ततः क्षितिभृतो गृहान्मुनिजनैः कृताशीस्तवशुभेऽह्नि जगदीश्वरो जगदशेषमानन्दयन्।
प्रविश्य भवनं निजं विखिलसम्पदामास्पदं तया दयितया समं चिरमरंस्त कामाश्रयः॥ 29 ॥
इत्थं काव्ये पार्वतीरुक्मिणीये हृद्ये विद्यामाधवीयेऽत्र सर्गः।
श्रीशब्दादिस्सम्पदानन्दमूर्धा सम्पूर्णोऽभूदुत्त्मस्सप्तमोऽयम्॥ 30 ॥

******************************************************************************

.

अष्टमस्सर्गः

अथ कदाचिदसौ सह कान्तया पृथुमहारजतोज्ज्वलितस्थलम्।
उपवनोपहितश्रियमभ्यगात् गिरिमवेक्षितुमात्मपुराश्रयम्॥ 1 ॥
गिरिवनेषु रिरंसुममुं प्रभुं परिजनैस्सहितं स वधूजनैः।
अवसरेऽत्र निषेवितुमागमत् सुरभयन् सुरभिर्भुवनोदरम्॥ 2 ॥
मदनभूभुजि लोकजिगीषया सुरभिमन्त्रिसखे गमनोन्मुखे।
पिकरुतैरनुशासदिवोत्सवं भुवि चचार पुरो मलयानिलः॥ 3 ॥
पुंस्कोकिलादिपरिवारयुते वसन्ते कान्तारमाविशति सत्वरमेत्य दूरात्।
अभ्याह्वयन्निव सखीविरुतैः पुरस्तात् जग्राह चूतवसतिं भ्रमरोऽभिरामः॥ 4 ॥
आश्रयत्युपवनान्तरं मधौ माधवी सुकुसुमोद्गमा बभौ।
प्रोषिते प्रवयसि प्रियेऽग्रतो रागतः पुलकितेव कामिनी॥ 5 ॥
प्रथममिव पदं वसन्तलक्ष्मीः रणदलिनूपुरमादधादशोके।
अत इव दृढदौहृदस्सुहृद्यैः सभृशमयुज्यत पल्लवैः प्रसूनैः॥ 6 ॥
अभवदमलमुक्तानूपुरं सिन्दुवारं कुरवकमुरुकाञ्ची मालतीहारयष्टिः।
नवतिलकमशोकं कर्णिका कर्णिकारम् सुरभिसुरभिलक्ष्म्याः चारुचूता वतंसाः॥ 7 ॥
अतिलोहितप्रसवसंवृतं वने वनिताः पलाशमवलोक्य दूरतः।
मलयानलं(1) मलयमारुतेरितं भुवनानि दग्धुमुदितं शशङ्किरे॥ 8 ॥
गायद्भिर्मधुरतरं मधुव्रतौघैः वादित्रप्रतिनिधिकूजितैः पिकैश्च।
नृत्यद्भिः पवनधृतैः लतागणैश्च व्यातेने सुरभिमहोत्सवो वनेऽपि॥ 9 ॥
ईरितास्सुरबिवासरोदये शगतोऽन्यभृतवन्दिनां गिरः।
कामिनी हृदयतल्पशायिनं कामराजमचिरादबोधयन्॥ 10 ॥
रथं मलयमारुतं, सुमनसो धनुस्सायकान् पिकान् पटहवादकान् मधुकरवलिं पाहिनीम्।
अमात्य इव मन्मथक्षितिभृतो वसन्तः क्षणात् जगद्विजयसाधनं निखिलमाजहाराद्भुतम्॥ 11 ॥
तापिनां विरहिणां मनोभुवोद्दीपनं कुसुमपल्लवश्रिया।
माननं मधुलिहा मदस्तदा काननं नवमिवाकरोन्मधुः॥ 12 ॥
वनं भ्रमरगीतिभिस्तरुलताप्रसूनैर्नवैः प्रसूनरजसा नभो विमलगन्धवाहैर्दिशः।
मनांसि युवयोषितां स्मररसेन लोकत्रयीं मुदा परमपूरयज्जनकृतोद्भवो माधवः॥ 13 ॥
सुरबिश्रिया कृतचरित्रचये सुरभौ सुशीतपवनावधुते।
विपिने मनोहरतमे प्रमदाः प्रमदेन रन्तुमुपचक्रमिरे॥ 14 ॥
ततो मानिन्यस्ताः प्रबलनिजमानोदयनुदः प्रसूनेषोः शक्तिं दधति कुसुमानि क्षितिरुहाम्।
सुगन्धीन्यादाय न्यदधुरलकेष्वाहितमुदो ध्रियन्ते निर्वैरं शिरसि खलु सर्वैस्सुमनसः॥ 15 ॥
समुषितनिजशोधनान् वनन्ते कथमपि वीक्ष्य रूषेव मार्गयन्तः।
अभिनवतरुपल्लवान् विभङ्गं हरिणदृशां करपल्लवा विनिन्युः॥ 16 ॥
स्वरभसमवाचिन्वन् तन्व्यो बहूनि सह प्रियैः सुतरुकुसुमान्यभ्यामोदं वमन्ति समन्ततः।
हृदयमुदयस्फीतैः बाणैः दृढं प्रहरिष्यतः कुसुमविशिखस्यास्त्राभावं विधातुमिवोद्यताः॥ 17 ॥
योषितोऽभिनवनूपुरकाञ्चीकर्णिकाकटकशेखरहारैः।
कौसुमैः रुरुचिरे निखिलाङ्गेष्वर्पिता इव शरैः सुसुमेषोः॥ 18 ॥
मध्ये नीलपीनगुच्छस्तनीनां लक्ष्मीं स्त्रीणां पल्लवोष्ठो ज्ज्वलानाम्।
दृष्ट्वाऽप्यारात् संशयानानसाम्यात् गत्वा जज्ञे काऽपि कान्तं न कान्ता॥ 19 ॥
रसादादधाने स्वयं कर्णपूरं लतापल्लवं वल्लभे वल्लभायाः।
अमर्षाश्रुणा हन्त तस्यास्सपत्न्याः तदालोकमात्रादभून्नेत्रपूरः॥ 20 ॥
उपधिकृतसपत्नीस्पृष्टकालिङ्गनेन प्रणयविनयभाजा वल्लभेनोपनीतम्।
सुरभिकुसुममन्यामाददे साऽश्रुनेत्री मृदुचरणनखान्तेनालिखन्ती धरित्रीम्॥ 21 ॥
सुरभिवितरता तरुप्रसूनं प्रतिसुतरोरमुनाह्वयोपहूता।
वरतनुरपराध–(2)भीत्या प्रणतमपि प्रियमंघ्रिणा निरास्यत्॥ 22 ॥
कुसुमानि चिरादुपानयन्तं प्रतियोषाश्रयदोषशङ्कयाऽन्या।
प्रियमाकलयन् प्रसूनदाम्ना न हितं वेत्ति हि मत्सरान्धचेताः॥ 23 ॥
लतामथावेष्टितपादपां पुरो निरीक्षमाणा हरिणेक्षणाऽपरा।
अशिक्षतेवास समस्य तिष्ठतः ततो लतावेष्टितकोपगूहनम्॥ 24 ॥
एकेन शाखां विनमय्य शाखिनः करेण पुष्पाणि परेण चिन्वती।
सरागमाविष्कृतबाहुमूलकात् च्युतोत्तरीयप्रकटोन्नतस्तना॥ 25 ॥
वपुस्समुत्थानविमुक्तनीविका गलद्दुकूलस्फुटमेखलास्वना।
परिभ्रमद्भृङ्गभयाकुलेक्षणा ससम्भ्रमप्रच्युतकेशबन्धना॥ 26 ॥
लतागृहे गूढमवक्थितं पतिं नितम्बिनी काचिदजानती किल।
तरुप्रसूनग्रहणापदेशतः पुरोऽस्य भावं व्यवृणोत्क्षणोत्सुका॥ 27 ॥
सुगन्धिसूनग्रहणाय दूरतो द्रुतं गतायां प्रतियोषिति क्षणम्।
स्‌थिता लतासद्मनि पद्मलोचना पुराऽऽलिलिङ्गे दयितेन मानिनी॥ 28 ॥
इति निजरमणैस्समं रमण्यो महति वने वनदेवताऽनुरूपाः।
प्रहितविविधकामभावचेष्टाः कलिततरुप्रसवस्त्रजो विजह्रः॥ 29 ॥
प्रस्वेदोदकबिन्दुमौक्तिकगणैरङ्गान्यलं भूषयन् भाषाः प्रस्खलयन् दृशो मुकुलयन् लीलागतिं मन्दयन्।
इत्थं काव्ये पार्वतीरुक्मिणीये हृद्ये विद्यामाधवीयेऽत्र सर्गः।
श्रीशब्दादिस्सम्पदानन्दमूर्धा स्पष्टार्थोऽबूदष्टमोऽयं समाप्तः॥ 31 ॥

*****************************************************************************

.

नवमस्सर्गः

अथ ताः प्रथितश्रिय श्रमार्ताः पृथुवक्षोरुह कुम्भभारनम्राः।
कथमप्यभिचारि वारिजाक्ष्यः प्रययुः प्राणसमैस्समं प्रयत्नात्॥ 1 ॥
व्रजतां पुरतश्शनैः प्रियाणां चिरमालम्ब्य भुजान् कराम्बुजागतैः।
विमिमान इवाध्वभूमिमारादगमन्मन्दपदं गणो जनानाम्॥ 2 ॥
बृहदंसयुगे विधाय हस्तौ विवशायास्सुतनोरनुव्रजन्त्याः।
स्तनपीठनतः प्रियस्य वक्षः परभागे सुखमन्वभूदपूर्वम्॥ 3 ॥
चलयन् सरसीरुहाणि मन्दं सरसीतुङ्गरङ्गसङ्गशीतः।
जनयन् मुदमङ्गनाजनानां शमयामास समीरणः श्रमार्तिम्॥ 4 ॥
सुदृशो ददृशुः स्मितोत्पलाक्षीं सरसीं तां विकसत्सरोजवक्त्राम्।
कलहंसरवैरिवालपन्तीं पुरतः स्वागतमागता वनान्तात्॥ 5 ॥
सरसे सरसोऽम्भसि प्रपन्ने प्रियरूपे वपुषीव वल्लभस्य।
तृषिता इव दूरतोऽबियाताः चिरमम्भोजदृशां दृशो निपेतुः॥ 6 ॥
सरसश्शिशिरोदकस्य तीरे वनितास्वन्तरधान्निदाघपूरः।
प्रबलस्य विरोधनस्समीपात् वरमल्पस्य विदूरतोऽपयानम्॥ 7 ॥
विदधे सरसी विहङ्गनादैः हिमवातैः कमलैरवेक्षणीयैः।
मधुरेण सुगन्धिना च वाश वनितानामखिलेन्द्रियोपचारम्॥ 8 ॥
अवलोकनदूरतां प्रपन्ने प्रमयिन्यात्तनिमीलनव्रतेव।
परकार्यपराङ्मुखी प्रमोदं प्रथयामास कुमुद्वती सतीनाम्॥ 9 ॥
वदनेन्दुयशोधनं मुषित्वा जलजानां जलदुर्गमाश्रितानाम्।
परिभावविधित्सयेव कान्ताः सह कान्तैरविशन् विशङ्कम्मभः॥ 10 ॥
करसम्पुटसम्भटतैस्सलीलं सलिलैस्स्नेहरसैरिवात्तरूपैः।
प्रमदाः प्रमदानुभावभाजः प्रमुदः प्राणसमान् समभ्यसिञ्चन्॥ 11 ॥
प्रियपाणिसमीरितेन वारा वरवध्वा वदनेऽभिषिच्यमाने।
सपदीक्षणवारिभिस्सपत्न्या समसेचि स्वयमाननारविन्दम्॥ 12 ॥
मृगलोचनयोः क्रमेण रागात् कृतसंसेचनयोः द्वयोः प्रियेण।
रुषमाप समुत्क्षणात् सपत्न्याः प्रथमाऽन्या प्रथमोत्क्षणात्परस्याः॥ 13 ॥
उदकान्यपि कामिनीकराग्रैः धृतमुक्तानि वपुः स्पृशन्ति यूनाम्।
मदनानलदीपनान्यभूवन् अतिचित्रा हि वधूजनस्य शक्तिः॥ 14 ॥
अपि भूषणमङ्गमङ्गनानां द्युतिमुद्वीक्ष्य शशङ्किरे युवानः।
निखिलाङ्गविभूषणानि तासां निजनैसर्गिककान्तिरोधकानि॥ 15 ॥
दिदिवुः त्रिदिवाङ्गनाश्रियस्ताः सलिलौस्तत्र सलीलमिद्धरागाः।
स्मरमिष्टतमैस्समं समन्तादभिषिचन्त्य इवैवमाधिराज्ये॥ 16 ॥
इति वारिणि वारिजाननास्ताः सुचिरं तत्र विहृत्य सन्निवृत्ताः।
प्रतिमन्दिरमिन्दिरानुरूपाः चिरसञ्चारितटिद्रुचः प्रचेलुः॥ 17 ॥
जनितां वनिताजनेन बाधामथ दृष्ट्वाऽम्बुजबन्धुरम्बुजानाम्।
अभवत्प्रभवप्रकोपवह्निप्रभयाभूत इवाति लोहितोऽर्कः॥ 18 ॥
कुपितामिव पूर्वदिक्प्रदेशादपराशां दयितां प्रसादयिष्यन्।
दिनकृच्छनकैरदत्तहस्तं प्रणनाम प्रकटीकृतानुरागः॥ 19 ॥
नवविद्रुमभास्वरेण भास्वान् महताऽनुष्णशिखेन मण्डलेन।
अरुणैः किरणैश्च वासरान्ते क्षणमासीद्भुवनस्य दर्शनीयः॥ 20 ॥
गगनादवनेश्च विद्रुतानां तमसां मार्गरसातलं गतानाम्।
हरणाय गभस्तिमानधस्तात् प्रविविक्षन्निव वारिधौ ममज्ज॥ 21 ॥
अलिभीरूपदैः न्यमीलि पद्मैः दिनलक्ष्म्याऽनुयये, व्यमोहि दिग्भिः।
नभसा न बभेऽखिलैश्च लोकैः पतिते भास्वति विह्वली बभूवै॥ 22 ॥
परलोकगते सुधाम्नि मित्रे वनितासङ्गमनं न नाम युक्तम्।
इति नूनमवेत्य चक्रवाकीं विरहय्य द्रुतमुत्पपात चक्रः॥ 23 ॥
स्थगितप्रभुमर्कमप्रकाशं वरुणाशाङ्गनयाशु सङ्गमय्य।
भवनादथ निर्गता सखीव प्रबभौ रागवताऽम्बरेण सन्ध्या॥ 24 ॥
सहसोपरुरोध धर्मतेजः पतनान्धं जगदन्धकारसङ्घम्।
रिपुभूभृदिवाभिभूतनाथं नगरं रुद्धगतागतं जनानाम्॥ 25 ॥
उपयातमपास्य भानुनाथं निशि सन्ध्याऽनुपरीमथाऽनुनेतुम्।
जगतीमहसद् ध्रुवं प्रतीची मुदयासन्नशशित्विषा दिगैन्द्री॥ 26 ॥
उदयच्छशिभाविभासितार्धा तमसाऽन्यत्र वृता सतारका द्यौः।
अचिरं शुशुभे फलेन पुञ्जा यमुजासंवलितेव देवसिन्धुः॥ 27 ॥
सुदृशामुपमानमाननानां मदनाग्निज्वलनं महेशभूषा।
जलधेरुदितं जनैर्निदध्ये सरसं धाम सहोदरं सुधायाः॥ 28 ॥
धलधौ सुचिरं भयेन लीनः तपने धामभृतिं च्युतेऽथ दिष्ट्या।
धृतरागमिवोत्थितश्चकाशे शनकैर्व्योमपुरं विशञ्शशाङ्कः॥ 29 ॥
स्मरराजसितातपत्रमिन्दुः नयनानन्दनिधिस्सुधांशुकुम्भः।
गगनाभरणं दिगङ्गनानां मुकुरोऽदीवि विशेषको निशायाः॥ 30 ॥
विधुरब्धिमनोभुवोः प्रत्सिद्धिं तिमिरस्त्रीजनमानयोर्विपत्तिम्।
कुमुदौघचकोरयोः प्रमोदं विदधे कोकवियोगिनोश्च सादम्॥ 31 ॥
रजनीं धृतचन्द्रिका विभूषां रजनीशेन निशम्य सम्प्रयुक्ताम्।
विदधे प्रियसङ्गमोत्सुकाभिः प्रियमाङ्गं प्रतिकर्म कामिनीभिः॥ 32 ॥
चरणे मणिनूपुरे, नितम्बे रशनादाम, पयोधरेषु हारः।
अधरे नवयावकानुरागो, नयनेष्वञ्जन, मुत्पलञ्च कर्णे॥ 33 ॥
अलिके तिलकोऽलकेषु पुष्पं, निखिलाङ्गेषु सुगन्धिचन्दनञ्च।
निदधे पतिमोहनाय कामं न तु शोभातिसायार्थमङ्गनाभिः॥ 34 ॥
प्रहिता विहितप्रियाः प्रियाभिः प्रियवेश्मातिजवादुपेत्य दूत्यः।
सतनूनिव मन्मथव्यथाऽऽर्तानसुनाथान् सविधं शनैरनैषुः॥ 35 ॥
प्रथमा प्रमदाजनस्य दूती प्रययौ प्राणसमो जनश्च पश्चात्।
गृहमाययतुः प्रसादि चेतो रतिरादावथ मन्मथश्च भूयान्॥ 36 ॥
———————–(1) तरुणीमीक्षणलब्धभूरिहर्षः।
प्रणयप्रवणाशयामधीरां पतिरालिङ्गदनङ्गमोहितात्मा॥ 37 ॥
अपरा विहितापराधमारात् प्रणमन्तं पतिमाहितोष्ठकम्पा।
उदकम्पयदुज्झितानुकम्पा भिदुरभ्रूयुगभीषणैः कटाक्षैः॥ 38 ॥
भवता क्षर फलं न किञ्चित् प्रणतेनेत्यपरां परं नयन्तीम्।
मुखमेवशिरःस्पृशौ न पादौ निश्चैषीत् पतिरात्मनि प्रसन्नाम्॥ 39 ॥
पतिरेष विपक्षपातिनमैनं शशिमुख्यनाभिमुख्यं———-(2)।
इति शिक्षित दुष्कृतापि सख्या सुमना मानयति स्म कापि कान्तम्॥ 40 ॥
उपगच्छति वल्लभे सलज्जं शयनीयाद् द्रुतमुत्थिता व्रजन्ती।
उपसृत्य बलान्तिरुद्‌ध्य रागादुपगूढा हसताऽमुना नवोढा॥ 41 ॥
रमणानयनोपकारिणस्तां मदमानेतुमिव स्मरस्य बन्धुम्।
मधुरामधयन् विधूतमानाः मदिराक्ष्यो मदिरां मदस्य दात्रीम्॥ 42 ॥
वदनोदरसम्भृतं वधूभिः प्रमदेन प्रमदे यदेव मद्यम्।
मदमन्मथदीपनं पपुस्तद् द्विगुणामोदरसोदयं युवानः॥ 43 ॥
विदधे मदिरामदो वधूनां दृशि रागतिशयं विघूर्मनञ्च।
वचसि स्खलनं मुहुशशरीरे विवशत्वं हृदये च हर्षमोहौ॥ 44 ॥
मिथुनानिरतोद्यतानि दृष्ट्वा त्रपया दूरगतेऽनुयायिलोके।
स्थितमुन्मिषता स्मरेण तत्र क्व नु रत्युत्सुकमानसस्य लज्जा॥ 45 ॥
उपगूह्य मुखं दृढं चुचुम्बे समदैः कामिभिराददेऽधरोष्ठः।
नखरैर्लिखितं रदैर्विदष्टं वनितानां वपुराहतञ्च हस्तैः॥ 46 ॥
बहिस्सुरतवर्धितप्रमदमन्मथानां प्रियैः मनोमथितसीत्कृताभरणशिञ्जितैः रञ्जयन्।
गलद्वसनमेखलातिलकहारराजिस्रजां चिराय सुरतोत्सवः प्रववृते ततो योषिताम्॥ 47 ॥
कान्ताशयान् प्रसभमाहितकस्मरेण श्रान्ता नृतेन चिरमुद्धृतधर्मबिन्दून्।
कान्ताः त्रपाभरमुषा पुरुषायितौ कौ(3) कान्ताः प्रतीतसम्याः रमयाम्बभूवुः॥ 48 ॥
वधूनां स्वजात्यादिभेदानुरूपैः मनोमोहनैर्मोहनैः भूरिभेदैः।
कृतानन्दसम्पत्तिभिस्ते युवानः स्मराधूतनिद्राः निशां तामनैषु-॥ 49 ॥
इह सुमहति काव्ये पार्वतीरुक्मिणीये शुभमवसितिराजत्सम्पदानन्दचिह्नम्।
नवममनवमार्थं सर्गमाधत्त सश्री पदमुखमिति विद्यामाधवः पण्डितेन्द्रः॥ 50 ॥
॥ समाप्तोऽयङ्ग्रन्थः ॥

************************************************************************

]