शङ्कर-पञ्चदशी

श्रीशङ्करपञ्चदशी

गुरुस् त्वं शिवस् त्वं परश् चापरस् त्वं
भवस् त्वं भव-च्छेदने तत्-परस्-त्वम्।
जगद्-देशिकस् त्वं जगत्-पारगस् त्वं
स्तुतिं केन भावेन तेऽहं करिष्ये?॥१ +++(4)+++

जगत्-सत्य-वद् भासते यावद् एतत्
त्वम् एवासि नाथो हि तावन् मदीयः।
मयि स्वप्नवत् कल्पितं चेत् समस्तं
त्वम् एवासि योऽहं किम् अन्यं स्तवानि?॥२ +++(5)+++

अगम्योऽसि वाचेति विज्ञाय सर्वे
तथापि स्तुवन्ति प्रियैः शब्द-पुष्पैः।
अजन्मासि, जन्मोत्सवे ते तदा मे
भवेन्-मौन-वाक्योपहारः प्रसादः॥३

तव ज्योतिषा सर्वम् आलोक्यते यत्
स्वयंज्योतिर् एवासि नालोकितस् त्वम्।
अदृष्टं दृशोर् दर्शनस्यैकहेतुं
महः शाङ्करं ते हृदिस्थं स्तवीमि॥४

बहूनि प्रसिद्धानि नामानि लोके
तवैकस्य सर्वाभिधाऽगोचरस्त्वम्।
स्तवे केन वाग्-देवतानुग्रहेण
तदैकं पदं ग्रन्थितुं पारयामि॥५

महासागरस्यास्ति गर्भे प्रभूतो
मणीनां चयो ऽदृष्ट-पूर्वो विलीनः।
तटे क्रीडयित्वोदकैर् अस्मि धन्यः
प्रवेष्टुं यते नो यतेऽहं विभीतः॥६

किम् उच्चैः पदव्या कवीनां सभायां
क्षमः स्तुत्यम् एकं न चेत् स्तोतुम् अस्मि।
अधो मे गतिः स्याद् वृथा सर्वकालं
मुखाद् वैखरी स्यन्दते निर्झरीव॥७

मनः केकिवन् मे निदाघाकुलं यन्-
नभः सस्पृहाभ्यां स्व-दृग्भ्याम् अभीक्ष्य।
तवानन्द-वृष्टिं समासाद्य दिष्ट्या
नरीनृत्यतां हा कथं स्तब्ध-वेगम्?॥८

श्रुतीनां परं तत्त्वम् आख्यातुम् अत्रा-
भवत् तेऽवतारोऽपरोक्षं युगेऽस्मिन्।
नमो ब्रह्मणे मौन-दीक्षा-गुरो ते
नमश् चित्-स्वरूपाय वेद-स्मिताय॥९

स्व-वाक्-सम्पदा रिक्तम् एतन् निधानं
त्रि-तापाग्नि-दग्धं विदग्धं मनो मे।
नकारोऽस्ति सत्ता पुनर् वाङ्मयी ते
कवेर् दुर्वहः स्तोतु-कामस्य भारः॥१०

स्वयं माययाऽरोपितं यत् प्रपञ्चं
निजे शुद्ध-सत्त्वे निराकृत्य सर्वम्।
तनोषि प्रबोध-क्षणे स्वात्मनेदं
यशस् ते समुद्भ्रान्त-लोकोपकारिन्॥११

अविज्ञाय नैजां रुजं तेऽविलम्बं
भवन्ति स्वतो रुग्णवर्गा अरोगाः।
निजात्मानुभूत्यौषधस्य प्रभावाद्
भिषक्त्वं चिकित्सा-विधिस् ते ऽद्वितीयः॥१२

दुरित-चर्वित–नियति-खर्वित–विभव-गर्वित–चञ्चलं
प्रणय-पण्डित–विरति-दण्डित–विकल-खण्डित-सम्बलम्।
महिष-केतन-मुषित–चेतन-गत-निकेतन-निष्कुलं
समवलम्बय तव पद-द्वय-पतितम् ईश रुजाकुलम्॥१३

विषयार्णव-जल-सम्प्लव-परिमज्जन-समये
मदनोद्धत-पवनाहत-झष-सङ्कुल-निलये।
भव मे भव विपद्-आतुर-जन-तारण-तरणिर्
विधुशेखर शिव-शङ्कर हर मे हर दुरितम्॥१४

वनिता-सुत-सुहृद्-आदिक-परिवर्जित-भुवने
व्यसनाङ्गन-घन-निर्जन-भव-कानन-गमने।
भव मे भव पथ-देशिक इह चापर-सृतिभिर्
विधुशेखर शिव-शङ्कर हर मे हर दुरितम्॥१५

English

Your pen has made a cake walk through the metre bhujangaprayaata, a layaanvita measure that often baffles the poet with its monotonous khanda-gati. Your composition has happily spared this and has emerged with variety and melody in its phrasing. - R Ganesh