Saṃskṛtāmṛtam August 21, 2022 Kushagra Aniket 0 Comments 1:30 am
संस्कृतामृतम्
(मध्यमादिसारङ्गरागनिबद्धगीतम्)
विश्वास-प्रस्तुतिः
सरल-संस्कृतं सरस-संस्कृतं
मधुर-संस्कृतं मृदुल-संस्कृतम्।
गहन-संस्कृतं सुगम-संस्कृतं
पठतु संस्कृतं संस्कृतामृतम्॥ (ध्रुवपदम्)
मूलम्
सरलसंस्कृतं सरससंस्कृतं
मधुरसंस्कृतं मृदुलसंस्कृतम्।
गहनसंस्कृतं सुगमसंस्कृतं
पठतु संस्कृतं संस्कृतामृतम्॥ (ध्रुवपदम्)
विश्वास-प्रस्तुतिः
भरत-भू-तले प्रान्त-वादिभिः
कलह-पद्धतिः स्वीकृता कथम्।
स्फुरद्-उपद्रवे राष्ट्र-वर्त्मनि
क्व तमिलं, कुतः संस्कृतं तथा+++(→च)+++॥1
मूलम्
भरतभूतले प्रान्तवादिभिः
कलहपद्धतिः स्वीकृता कथम्।
स्फुरदुपद्रवे राष्ट्रवर्त्मनि
क्व तमिलं कुतः संस्कृतं तथा॥1
विश्वास-प्रस्तुतिः
अरि-कुलाङ्गने वित्त-कामिनि
यवन-तोषणे मञ्जु-भाषिणि।
यदि सुसंस्कृतः क्रोत्स्यति+++(←क्रुधँ)+++ त्वयि
तव गतिस् तदा का भविष्यति॥2
मूलम्
अरिकुलाङ्गने वित्तकामिनि
यवनतोषणे मञ्जुभाषिणि।
यदि सुसंस्कृतः क्रोत्स्यति त्वयि
तव गतिस्तदा का भविष्यति॥2
विश्वास-प्रस्तुतिः
भवतु भाषया, वर्ण-जातिभिर्,
विबुध-मण्डलं नो विभाजितम्।
द्विज-कुलात्मजा वा द्विजेतरा
भजत मानवाः संस्कृतामृतम्॥3
मूलम्
भवतु भाषया वर्णजातिभिर्
विबुधमण्डलं नो विभाजितम्।
द्विजकुलात्मजा वा द्विजेतरा
भजत मानवाः संस्कृतामृतम्॥3
विश्वास-प्रस्तुतिः
वदति कोकिला पञ्चमे स्वरे
कदलिकातरौ वा कदम्बके।
प्रसरति प्रियं सार्व-देशिकं
मधुर-कूजनं संस्कृतामृतम्॥4 +++(५)+++
मूलम्
वदति कोकिला पञ्चमे स्वरे
कदलिकातरौ वा कदम्बके।
प्रसरति प्रियं सार्वदेशिकं
मधुरकूजनं संस्कृतामृतम्॥4
विश्वास-प्रस्तुतिः
सरल-संस्कृतं यो पठेन्नरः
समुपयाति वा, योग्यतां शनैः।
प्रकृत-मेधया यः सु-सज्जितो
द्रुतम् उपैति वा शास्त्र-दक्षताम्॥5
मूलम्
सरलसंस्कृतं यो पठेन्नरः
समुपयाति वा योग्यतां शनैः।
प्रकृतमेधया यः सुसज्जितो
द्रुतमुपैति वा शास्त्रदक्षताम्॥5
विश्वास-प्रस्तुतिः
सकल-वाङ्मयास्वादनाय स
गुरुम् उपेत्य वा शुद्ध-चेतसा।
पठतु संस्कृतं यत्नपूर्वकं
सकल-संशयाद् आशु मुच्यताम्॥6
मूलम्
सकलवाङ्मयास्वादनाय स
गुरुमुपेत्य वा शुद्धचेतसा।
पठतु संस्कृतं यत्नपूर्वकं
सकलसंशयादाशु मुच्यताम्॥6
विश्वास-प्रस्तुतिः
पठितम् एव नो संस्कृतं मया
गुरु-गृहे कदा-चित् सुसन्निधौ।
तद् अपि निर्झरी देव-भारती
प्रवहति स्वके मानसाङ्गणे॥7
मूलम्
पठितमेव नो संस्कृतं मया
गुरुगृहे कदाचित् सुसन्निधौ।
तदपि निर्झरी देवभारती
प्रवहति स्वके मानसाङ्गणे॥7
विश्वास-प्रस्तुतिः
परम् इहाभयो बालकः कविर्
विजयते सदा प्रौढ-संसदि।
पठति सस्वरं काव्यम् उत्सुको
गुण-परीक्षणं बाधते न तम्॥8
मूलम्
परमिहाभयो बालकः कविर्
विजयते सदा प्रौढसंसदि।
पठति सस्वरं काव्यमुत्सुको
गुणपरीक्षणं बाधते न तम्॥8
विश्वास-प्रस्तुतिः
यद् अविलम्बितं सर्व-वाक्-पटो
वद कथं भवेत् संस्कृतोदयः।
सुगम-भाषणं चेन् न संस्कृते
गहन-चिन्तनं कः करिष्यति॥9
मूलम्
यदविलम्बितं सर्ववाक्पटो
वद कथं भवेत्संस्कृतोदयः।
सुगमभाषणं चेन्न संस्कृते
गहनचिन्तनं कः करिष्यति॥9
विश्वास-प्रस्तुतिः
विषम-वीथिका, कण्टकाकुला
चरणयोस् तथा पाश-बन्धनम्।
“अयि पद-द्वयं गच्छ धावक”
भणति यो जनस् तं नमाम्य् अहम्॥10
मूलम्
विषमवीथिका कण्टकाकुला
चरणयोस्तथा पाशबन्धनम्।
“अयि पदद्वयं गच्छ धावक”
भणति यो जनस्तं नमाम्यहम्॥10
विश्वास-प्रस्तुतिः
परिचिता तु या, पुष्प-वल्लरी
फलति चेद् रसो रोचते भृशम्।
तद् अपि को नवां वीक्ष्य मञ्जरीं
मधुकरो रसं नैव पास्यति॥11
मूलम्
परिचिता तु या पुष्पवल्लरी
फलति चेद्रसो रोचते भृशम्।
तदपि को नवां वीक्ष्य मञ्जरीं
मधुकरो रसं नैव पास्यति॥11
विश्वास-प्रस्तुतिः
महिष-पृष्ठतः काव्य-कीर्तनं
कनक-शृङ्गतस् तत्त्व-दर्शनम्।
यदि पुरातनीं रीतिम् इच्छति
पठतु संस्कृतं नान्यथा गतिः॥12
मूलम्
महिषपृष्ठतः काव्यकीर्तनं
कनकशृङ्गतस्तत्त्वदर्शनम्।
यदि पुरातनीं रीतिमिच्छति
पठतु संस्कृतं नान्यथा गतिः॥12
विश्वास-प्रस्तुतिः
कवि-मनोमयं पुष्पम् अर्पितं
चरणयोर् हि ते भारतीश्वरि।
जड-विषौषधं भेषजोत्तमं
जगति केवलं संस्कृतामृतम्॥13
मूलम्
कविमनोमयं पुष्पमर्पितं
चरणयोर्हि ते भारतीश्वरि।
जडविषौषधं भेषजप्रियं
जगति केवलं संस्कृतामृतम्॥13
विश्वास-प्रस्तुतिः
तव कृपा-जलं पाद-किङ्करो
मरु-तृषाकुलो याचते कविः।
अचल-संस्कृतानन्द-पर्वणि
मम करेण किं कर्तुम् ईप्सितम्॥14
मूलम्
तव कृपाजलं पादकिङ्करो
मरुतृषाकुलो याचते कविः।-
अचलसंस्कृतानन्दपर्वणि
मम करेण किं कर्तुमीप्सितम्॥14
इति सम्पूर्णम्।
इदं प्रासङ्गिकं सरलसंस्कृतगीतं श्रीमद्भागवतान्तर्गतं गोपिकागीतमनुसृत्य दुर्लभे कनकमञ्जरी/शुद्धकामदा/विबुधवन्दिता-वृत्ते विरचितम्।