अये ट्रैडवीराः!
विश्वास-प्रस्तुतिः
अये ट्रैडवीरा! यतध्वं यतध्वं
न वैज्ञानिकीम् उन्नतिं वा सहध्वम्।
अधो-गामिनीं वृत्तिम् आस्थाय नूनं
महाकर्दमाक्रान्त-वीथिं भजध्वम्॥१
मूलम्
अये ट्रैडवीरा! यतध्वं यतध्वं
न वैज्ञानिकीमुन्नतिं वा सहध्वम्।
अधोगामिनीं वृत्तिमास्थाय नूनं
महाकर्दमाक्रान्तवीथिं भजध्वम्॥१
विश्वास-प्रस्तुतिः
न वो दूरवाणी न वो वायुयानं
न वो भौतिकी यन्त्र-विद्या कदाचित्।
स्व-वाचैव सर्वं लभध्वे यथेष्टं
महासिद्धि-भाजः प्रणम्या हि यूयम्॥२
मूलम्
न वो दूरवाणी न वो वायुयानं
न वो भौतिकी यन्त्रविद्या कदाचित्।
स्ववाचैव सर्वं लभध्वे यथेष्टं
महासिद्धिभाजः प्रणम्या हि यूयम्॥२
विश्वास-प्रस्तुतिः
नदीनां यतीनाम् ऋषीणां कवीनां
सदा जातिम् अन्विष्य विख्यात मूलम्।
पर-ब्रह्म नामादि-हीनं निरीहं
निराकारम् एकं ततः साधयध्वम्॥३
मूलम्
नदीनां यतीनामृषीणां कवीनां
सदा जातिमन्विष्य विख्यात मूलम्।
परब्रह्म नामादिहीनं निरीहं
निराकारमेकं ततः साधयध्वम्॥३
विश्वास-प्रस्तुतिः
न चारित्र्य-लाभे न कर्तव्य-बोधे
न विद्यार्जने वा रतिर् वो विधेया।
स्वयं जन्मना श्रेष्ठताम् एत्य पूर्वं
न वा कर्मचिन्तां कुरुध्वं कुरुध्वम्॥४
मूलम्
न चारित्र्यलाभे न कर्तव्यबोधे
न विद्यार्जने वा रतिर्वो विधेया।
स्वयं जन्मना श्रेष्ठतामेत्य पूर्वं
न वा कर्मचिन्तां कुरुध्वं कुरुध्वम्॥४
विश्वास-प्रस्तुतिः
तपो वर्धते वो भृशं स्वप्न-काले
बलं दृश्यते वाक्य-मल्लाङ्गणेऽपि।
तृतीयाक्षम् उद्घाट्य सर्वं प्रदह्य
यशो दिव्यम् एतत् तनुध्वं तनुध्वम्॥५
(TW)
मूलम्
तपो वर्धते वो भृशं स्वप्नकाले
बलं दृश्यते वाक्यमल्लाङ्गणेऽपि।
तृतीयाक्षमुद्धाट्य सर्वं प्रदह्य
यशो दिव्यमेतत् तनुध्वं तनुध्वम्॥५
विश्वास-प्रस्तुतिः
नवं यत् समस्तं समादेयम् एतत्
परित्यज्य दूरात् तिरस्कृत्य लोकम्।
अनालोक्य दोषं गुणं वा समन्ताद्
विजीर्णां स्व-कन्थां वहध्वं वहध्वम्॥६
मूलम्
नवं यत्समस्तं समादेयमेतत्
परित्यज्य दूरात् तिरस्कृत्य लोकम्।
अनालोक्य दोषं गुणं वा समन्ताद्
विजीर्णां स्वकन्थां वहध्वं वहध्वम्॥६
विश्वास-प्रस्तुतिः
नवालोक-मुक्ता नव-ज्ञान-मुक्ता
नवाचार-मुक्ता नवोत्थान-मुक्ताः।
सदा तर्क-मुक्ताश् च विज्ञान-मुक्ताः
कथं न स्त यूयं जगज्-जाल-मुक्ताः॥७
मूलम्
नवालोकमुक्ता नवज्ञानमुक्ता
नवाचारमुक्ता नवोत्थानमुक्ताः।
सदा तर्कमुक्ताश्च विज्ञानमुक्ताः
कथं न स्त यूयं जगज्जालमुक्ताः॥७
विश्वास-प्रस्तुतिः
धनुर्-वेद-विद्यां स्वयं कौशिकेन
समासाद्य निद्रा-क्षणेषु प्रगल्भाः।
समुत्थाय नित्यं शराभ्यास-काले
दुरा-धर्ष-कायं रिपुं भेदयध्वम्॥
(YT)
मूलम्
धनुर्वेदविद्यां स्वयं कौशिकेन समासाद्य निद्राक्षणेषु प्रगल्भाः!। समुत्थाय नित्यं शराभ्यासकाले दुराधर्षकायं रिपुं भेदयध्वम्॥
विश्वास-प्रस्तुतिः
नतं युष्मदीये पदाम्भोज-वृन्दे
जगत्-कृत्स्नम् एतन्, नता भोगि-लोकाः।
नता ये न वस् तान् स्व-तन्त्रान् प्रमत्तान्
निजातङ्क-भीतान् विधद्ध्वं विधद्ध्वम्॥८
मूलम्
नतं युष्मदीये पदाम्भोजवृन्दे
जगत्कृत्स्नमेतन्नता भोगिलोकाः।
नता ये न वस्तान् स्वतन्त्रान् प्रमत्तान्
निजातङ्कभीतान् विधद्ध्वं विधद्ध्वम्॥८