कवि-सम्बन्धः

“शशिना च निशा”-इतिवत्-

विश्वास-प्रस्तुतिः

गुरुणा वटवो, वटुभिश् च गुरुर्,
गुरुणा वटुभिश् च विभाति कुलम्
कलिभिर् भ्रमरा, भ्रमरैश् च कलिः
कलिभिर् भ्रमरैश् च विभाति वनम्॥१

मूलम्

गुरुणा वटवो वटुभिश् च गुरुर्
गुरुणा वटुभिश् च विभाति कुलम्।
कलिभिर् भ्रमरा भ्रमरैश् च कलिः
कलिभिर् भ्रमरैश् च विभाति वनम्॥१

विश्वास-प्रस्तुतिः

कविना रसिका, रसिकैश् च कविः,
कविना रसिकैश् च विभाति महः+++(=उत्सवः)+++
हरिणा च रमा, रमया च हरिर्,
हरिणा रमया च विभाति जगत्॥२

मूलम्

कविना रसिका रसिकैश् च कविः
कविना रसिकैश् च विभाति महः।
हरिणा च रमा रमया च हरिर्
हरिणा रमया च विभाति जगत्॥२

विश्वास-प्रस्तुतिः

वणिजा द्रविणं, द्रविणेन वणिक्,
वणिजा द्रविणेन च भाति पुरः
मसिना कलमः, कलमेन मसिर्,
मसिना कलमेन च भाति जनः॥३

मूलम्

वणिजा द्रविणं द्रविणेन वणिक्
वणिजा द्रविणेन च भाति पुरः।
मसिना कलमः कलमेन मसिर्
मसिना कलमेन च भाति जनः॥३

विश्वास-प्रस्तुतिः

धनुषा विशिखा, विशिखैश् च धनुर्
धनुषा विशिखैश् च विभाति भटः
भवता यद् अहं च, मयैव भवान्
भवता च मया च विभाति गणः॥४

मूलम्

धनुषा विशिखा विशिखैश् च धनुर्
धनुषा विशिखैश् च विभाति भटः।
भवता यदहं च मयैव भवान्
भवता च मया च विभाति गणः॥४

विश्वास-प्रस्तुतिः

शशिना च शरच्, छरदा च शशी,
शशिना शरदा च विभाति निशा
सुहृदा प्रणयः, प्रणयेन सुहृत्,
सुहृदा प्रणयेन च भाति सखा॥५

मूलम्

शशिना च शरच्छरदा च शशी
शशिना शरदा च विभाति निशा।
सुहृदा प्रणयः प्रणयेन सुहृत्
सुहृदा प्रणयेन च भाति सखा॥५

विश्वास-प्रस्तुतिः

कलया निपुणो, निपुणेन कला,
कलया निपुणेन च भाति सभा
कृपया विदुषां, कृपया सुहृदां
कृपया हि गिरश् च विभामि सदा॥६

मूलम्

कलया निपुणो निपुणेन कला
कलया निपुणेन च भाति सभा।
कृपया विदुषां कृपया सुहृदां
कृपया हि गिरश् च विभामि सदा॥६