भाषावैविध्यपञ्चकम्

भाषावैविध्यपञ्चकम्

विश्वास-प्रस्तुतिः

दाक्षिणात्याः प्रियक्लीवा महादीर्घास्तु मागधाः।
कर्णाटे कर्णटङ्कारः सर्वमौष्ठ्यं तु वङ्गके॥१

English

“The Southerners like words in the neuter gender. The Magadhas use elongated vowels. In Karnataka, the sound of “twang” (of a bow) falls in one’s ears. In Bengal, everything is uttered by compressing one’s lips (औष्ठ्य).”

मूलम्

दाक्षिणात्याः प्रियक्लीवा महादीर्घास्तु मागधाः।
कर्णाटे कर्णटङ्कारः सर्वमौष्ठ्यं तु वङ्गके॥१

विनोदाय विश्वासप्रतिक्रिया -
दाक्षिणात्याः प्रियक्लीबाश् चेद् यथावस्तुभाषकाः।
औदीच्याः कल्पनापूर्णाः सर्वत्र लिङ्गकाङ्क्षिणः॥

विश्वास-प्रस्तुतिः

उच्चैर् घोषः कुरुक्षेत्रे विदेहा मन्दभाषिणः।
पञ्चसिन्धौ महावेगः पर्वते सर्वगीतकम्॥२

English

“In Haryana, people speak loudly while in Mithila, they speak very softly (or slowly). In Punjab, speech is very fast while in the mountains, everything is sing-song!”

मूलम्

उच्चैर् घोषः कुरुक्षेत्रे विदेहा मन्दभाषिणः।
पञ्चसिन्धौ महावेगः पर्वते सर्वगीतकम्॥२

विश्वास-प्रस्तुतिः

मरौ न सहयोर्भेदस् तेषामाशीर् भयङ्करा।
गुर्जरे वाक्यकार्पण्यं तद्बुद्धिर् व्यवसायिनी॥३

English

“In Rajasthan, there is no difference between स/श and ह. Thus, their blessing is to be feared (शतायुः स्यात् –> हतायुः स्यात्) . In Gujarat, there is thrift in speech because their minds are business-like.”

मूलम्

मरौ न सहयोर्भेदस् तेषामाशीर् भयङ्करा।
गुर्जरे वाक्यकार्पण्यं तद्बुद्धिर् व्यवसायिनी॥३

विश्वास-प्रस्तुतिः

मध्यदेशे वचोहास्यं नेपाले शसदिग्भ्रमः।
महाराष्ट्रे ळसर्वस्वं दीर्घमात्रारुचिस्तथा॥४

English

“In Madhya Bharata, there is always laughter in speech. In Nepal, there is confusion between श and स. In Maharashtra, everything has ळ and there is fondness for long मात्रा-s.”

मूलम्

मध्यदेशे वचोहास्यं नेपाले शसदिग्भ्रमः।
महाराष्ट्रे ळसर्वस्वं दीर्घमात्रारुचिस्तथा॥४

विश्वास-प्रस्तुतिः

ऋकारोच्चारणे नूनं कवयोऽप्यत्र मोहिताः।
ज्ञकारोच्चारणे सर्वे प्राकृताः संस्कृता जनाः॥५

English

“On the question of the pronunciation of ऋ, even the poets are deluded. And while pronouncing ज्ञ, all refined men are but Prakritas (today’s ज्ञ pronunciation-styles are derived from the Prakritas).”

मूलम्

ऋकारोच्चारणे नूनं कवयोऽप्यत्र मोहिताः।
ज्ञकारोच्चारणे सर्वे प्राकृताः संस्कृता जनाः॥५

विश्वास-प्रस्तुतिः

कस्य शुद्धास्ति वाणीह कश्च शुद्धिं विधास्यति।
तत्रानिकेतसूक्तिर्यद् बन्धो मे पठ संस्कृतम्॥६

English

Whose speech is completely pure here? And who can determine the criteria for purity. Therefore, the poet Aniket has summarized it well: “My friend! Learn Sanskrit!”

मूलम्

कस्य शुद्धास्ति वाणीह कश्च शुद्धिं विधास्यति।
तत्रानिकेतसूक्तिर्यद् बन्धो मे पठ संस्कृतम्॥६