आरक्षण-वैभवम्

आरक्षणवैभवम्

विश्वास-प्रस्तुतिः

अनारक्षित-लोकानाम्
एका या प्रतिपालिका।
कराभ्यां वृत्ति-दात्रीं तां
मेधां देवीम् उपास्महे॥1

मूलम्

अनारक्षितलोकानामेका या प्रतिपालिका।
कराभ्यां वृत्तिदात्रीं तां मेधां देवीमुपास्महे॥1

विश्वास-प्रस्तुतिः

यत्रारक्षण-रक्षिताः प्रतिपदं मेधा-विहीना बलात्
तत्रारक्षण-भक्षिताः प्रतिपदं राज्येन मेधाविनः।
साम्य-व्याज-हृताधिकार-जनता यत्रास्ति तूष्णीं स्थिता
तद्-दुःशासन-पद्धतिं वयम् अहो सोढुं समर्थाः कथम्॥2

मूलम्

यत्रारक्षणरक्षिताः प्रतिपदं मेधाविहीना बलात्
तत्रारक्षणभक्षिताः प्रतिपदं राज्येन मेधाविनः।
साम्यव्याजहृताधिकारजनता यत्रास्ति तूष्णीं स्थिता
तद्दुःशासनपद्धतिं वयमहो सोढुं समर्थाः कथम्॥2

विश्वास-प्रस्तुतिः

आरक्षणं कलौ कश्चिच्
चिन्तामणिर् विधीयते
विगुणा यस्य संसर्गाद्
भवन्ति गुणिनः क्षणे॥3 (५)

मूलम्

आरक्षणं कलौ कश्चिच्चिन्तामणिर् विधीयते
विगुणा यस्य संसर्गाद् भवन्ति गुणिनः क्षणे॥3

विश्वास-प्रस्तुतिः

शक्रासनं न वाञ्छन्ति
ये चारक्षण-जीविनः।
(यतः -) कालेन क्षीयते स्वर्ग
आरक्षणं प्रवर्धते॥4 (५)

मूलम्

शक्रासनं न वाञ्छन्ति ये चारक्षणजीविनः।
कालेन क्षीयते स्वर्ग आरक्षणं प्रवर्धते॥4

विश्वास-प्रस्तुतिः

आरक्षणं भवेत् किञ्चिद्
विचित्रं यन्त्रम् उत्तमम्।
येन काम्यानि सिध्यन्ति
निर्मेधस्य विना श्रमम्॥5

मूलम्

आरक्षणं भवेत्किञ्चिद्विचित्रं यन्त्रमुत्तमम्।
येन काम्यानि सिध्यन्ति निर्मेधस्य विना श्रमम्॥5

विश्वास-प्रस्तुतिः

आरक्षणेन येषां तु
पदस्थाः पितरः पुरा।
सर्वकारे पुनस् तेभ्यो
कथमारक्षितं पदम्॥6

मूलम्

आरक्षणेन येषां तु पदस्थाः पितरः पुरा।
सर्वकारे पुनस्तेभ्यो कथमारक्षितं पदम्॥6

विश्वास-प्रस्तुतिः

अनारक्षित-पीठं यः
प्राप्येच्छेद् उन्नतिं जनः।
आरक्षणं पदोन्नत्यां
वीक्ष्य रोदिति सत्वरम्॥7

मूलम्

अनारक्षितपीठं यः प्राप्येच्छेदुन्नतिं जनः।
आरक्षणं पदोन्नत्यां वीक्ष्य रोदिति सत्वरम्॥7

विश्वास-प्रस्तुतिः

आरक्षणासवं पीत्वा
नेतारश् चाधिकारिणः।
सर्वोच्च-पदम् आरुह्य
मेधां मृद्गान्ति ते पुनः॥8

मूलम्

आरक्षणासवं पीत्वा नेतारश्चाधिकारिणः।
सर्वोच्चपदमारुह्य मेधां मृद्गान्ति ते पुनः॥8

विश्वास-प्रस्तुतिः

आरक्षणाध्वरे हुत्वा
मेधां योग्यतया सह।
क्षेमम् इच्छन्ति राष्ट्रस्य
मूढास् तेभ्यो नमो नमः॥9 (५)

मूलम्

आरक्षणाध्वरे हुत्वा मेधां योग्यतया सह।
क्षेममिच्छन्ति राष्ट्रस्य मूढास्तेभ्यो नमो नमः॥9

विश्वास-प्रस्तुतिः

नारक्षण-समो मन्त्रो
नारक्षणसमं बलम्।
नारक्षणसमं मित्रं
नारक्षणसमं धनम्॥11

मूलम्

नारक्षणसमो मन्त्रो नारक्षणसमं बलम्।
नारक्षणसमं मित्रं नारक्षणसमं धनम्॥11

विश्वास-प्रस्तुतिः

न कश्चिद् रक्षणीयो वा
देशे यत्रावशिष्यते।
तत्रैवारक्षणार्थाय
युध्यन्ते कुटिला जनाः॥12 (४)

मूलम्

न कश्चिद् रक्षणीयो वा देशे यत्रावशिष्यते।
तत्रैवारक्षणार्थाय युध्यन्ते कुटिला जनाः॥12

विश्वास-प्रस्तुतिः

सर्वत्रारक्षिते देशे
मेधा-विद्रोहिभिर् जनैः।
अनारक्षित-कारास् तु
न शोभन्ते कदाचन॥13

मूलम्

सर्वत्रारक्षिते देशे मेधाविद्रोहिभिर्जनैः।
अनारक्षितकारास्तु न शोभन्ते कदाचन॥13

विश्वास-प्रस्तुतिः

आतिथ्यं सर्वकारस्य
गृहीतुं कोऽत्र मन्द-धीः।
आरक्षणं न याचेत
कारा-गेहेष्व् अपि स्वकम्॥14

मूलम्

आतिथ्यं सर्वकारस्य गृहीतुं कोऽत्र मन्दधीः।
आरक्षणं न याचेत कारागेहेष्वपि स्वकम्॥14

विश्वास-प्रस्तुतिः

न्यायाधीश-पदे दत्तं
मन्त्रिणाऽऽरक्षणं यदा।
कारा-गृहे कदा तेन
तद्-व्यवस्था प्रदास्यते॥15

मूलम्

न्यायाधीशपदे दत्तं मन्त्रिणाऽऽरक्षणं यदा।
कारागृहे कदा तेन तद्व्यवस्था प्रदास्यते॥15

विश्वास-प्रस्तुतिः

असाम्ये साम्यम् आरोप्य
निर्मेधे योग्यतां तथा।
तिष्ठत्य् आरक्षणातङ्को
भोगीव जन-वक्षसि॥16

मूलम्

असाम्ये साम्यमारोप्य निर्मेधे योग्यतां तथा।
तिष्ठत्यारक्षणातङ्को भोगीव जनवक्षसि॥16

विश्वास-प्रस्तुतिः

अहं कुलीनो न कुलाभिमानी
नारक्षणेनात्र कदापि धन्यः।
मेधा-बलेनैव मया सभायाम्
आरक्षितं तुच्छ-पदं स्वकीयम्॥17 (४)

मूलम्

अहं कुलीनो न कुलाभिमानी
नारक्षणेनात्र कदापि धन्यः।
मेधाबलेनैव मया सभाया-
मारक्षितं तुच्छपदं स्वकीयम्॥17

विश्वास-प्रस्तुतिः

न शिक्षणे, नैव च वृत्ति-लाभे
स्पर्धासु कुत्रापि पदोन्नतौ वा।
आरक्षणालम्बनम् अस्तु हेतुर्
मेधा-बलेनार्जित-मान-भाजाम्॥18 (←समासश् चिन्त्यः)

मूलम्

न शिक्षणे, नैव च वृत्तिलाभे
स्पर्धासु कुत्रापि पदोन्नतौ वा।
आरक्षणालम्बनमस्तु हेतुर्
मेधाबलेनार्जितमानभाजाम्॥18

विश्वास-प्रस्तुतिः

मेधां न सूते जठरेण माता
मेधा न जात्या जनिता कदाचित्।
अभ्यासमात्रेण परिश्रमेण
पात्रे स्वतो वै समुदेति मेधा॥19
(वि॑तथम् एत॑द् वस्तुतः॑)

मूलम्

मेधां न सूते जठरेण माता
मेधा न जात्या जनिता कदाचित्।
अभ्यासमात्रेण परिश्रमेण
पात्रे स्वतो वै समुदेति मेधा॥19

विश्वास-प्रस्तुतिः

वेदेषु मेधा हि सरस्वतीयं
लोकेषु मेधा करवृत्तिदात्री।
उपास्महे तां जननीं जगत्या
आरक्षणेनास्ति किमत्र कार्यम्॥20

मूलम्

वेदेषु मेधा हि सरस्वतीयं
लोकेषु मेधा करवृत्तिदात्री।
उपास्महे तां जननीं जगत्या
आरक्षणेनास्ति किमत्र कार्यम्॥20