Presenting a Sanskrit Stotra dedicated to Sri Chitragupta and simultaneously documenting a fragment of the history, legends, and traditions of the Kayastha community:
श्रीचित्रगुप्तभुजङ्गम्-
सदा येन जीवैः कृतं कर्म चित्रं,
भवेद् गोपितं, धर्मराजस्य राज्ये।
व्यवस्थापिता तत्-कृते लेख्य-शाला
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥१ +++(4)+++
स्थिता लेखनी दक्षिणे यस्य हस्ते
मसी-पात्रम् एवास्ति वामे करे च।
कटौ राजते मेखला-बद्ध-खड्गो
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥२
+++(कायदेश is an area in Madhya Pradesh close to Ujjain. It is believed that Sri Chitragupta descended here and performed penance. )+++
पुरा ब्रह्म-चित्ते ऽभवद् यस्य सत्ता
ततो धर्म-लोके ऽभवद् यस्य राज्यम्।
पुनः काय-देशे ऽभवद् यस्य वासो
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥३
नियुक्तो विधात्रा यमस्यालये यः
सतां पापिनां पुण्य-पापाभिलेख्ये।
नृणाम् इन्द्रियातीत-विज्ञान-चक्षुर्
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥४
सदा देवयज्ञे द्विजानां हविर्-भुक्
सदा श्राद्ध-कर्मण्य् उपास्यस् तिलार्घ्यैः।
तथा लौकिके यः प्रकल्पे ऽर्चनीयो
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥५
महा-बाहुम् अम्भो-ज-नेत्रं विशालं
मनो-ज्ञं सुपीताम्बरं कृष्ण-वर्णम्॥
शशाङ्काननं कम्बु-कण्ठं प्रशान्तं
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥६
अकस्माद् यदा केतुना पीडिताः स्युर्
जपेयुस् तदा मानवा यस्य मन्त्रम्।
ग्रहस्य प्रशान्त्यै पुराणोपदिष्टं
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥७
सुता यस्य कायस्थ-वंश्याः प्रसिद्धाः
कला-काव्य-वाणिज्य-मन्त्रित्व-दक्षाः।
कुशाग्रीय-बुद्ध्या ऽन्विताः कर्मनिष्ठा
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥८
प्रजा येन सृष्टा धरण्यां विशिष्टा
विधेर् आज्ञया लौकिकाचार-विज्ञाः।
कुले यस्य सन्तो महान्तोऽपि जाता
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥९
नृपो येन सौदास-नामा स्वभक्तः
पुरा रक्षितः काल-दण्ड-प्रहारात्।
मतं पूज्यते यस्य लोकान्तकेन
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥१०
ततः कार्तिके शुक्लपक्षे द्वितीये
समाराधिता यस्य मूर्तिर् वरेण्या।
जलार्घ्यैः फलैर् गन्ध-पुष्पोपहारैर्
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥११
पुनश् चैत्रमासे तिथौ पूर्णिमायां
जयन्त्यां निजायां सुतैर् भक्त-वृन्दैः।
परो लेखकेशश् च यो वन्दनीयो
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥१२
+++(प्रेरणा - स्कन्दपुराणे रेणुकामाहात्म्ये चन्द्र-सेनीय-कायस्थोत्पत्तिः।)+++
भृगु-स्वामिना क्षत्र-संहारकाले
पुरा चन्द्र-सेनस्य भार्या सगर्भा।
समाशिश्रिये यस्य धर्मं शरण्यं
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥१३
+++(प्रेरणा - विष्णुधर्मोत्तरपुराणे चित्र-गुप्त-वर्णनम्।)+++
उदीच्योचितां वेश-भूषां दधानं
द्वितीयं रविं तेजसा भासमानम्।
यमामात्यमुख्यं स्वमेधासमृद्धं
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥१४
+++(प्रेरणा - “अयोध्या का इतिहास” इति स्व-नाम-ख्यात-पुस्तकम्)+++
अयोध्यापुरी पालिता यस्य पूर्वं
सुवास्तव्य-वंश्यैः सुतैर् धर्म-शीलैः।
नृपैर् गुप्त-कालात् परं विक्रमेण
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥१५
+++(प्रेरणा - “Reminiscences of Swami Vivekananda”)+++
विवेकाम्बुधिर् नित्यम् आनन्द-रूपो
यतीन्द्रो नरेन्द्रो नृणां सिंह-भूतः।
कुले यस्य जज्ञे पुरोगः स यूनां
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥१६
कुले यस्य राजेन्द्रनामा प्रसादो-
ऽभवद् देश-रत्नाख्य-राष्ट्राधिपालः।
सुधीः सौम्य-मूर्तिः सतां शील-धन्यो
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥१७
पुनः शास्त्रिवर्यो हि मन्त्री प्रधानो-
ऽभवत् कर्मठो यस्य वंशे स्वबालः।
दृढः सङ्कटे राष्ट्-रनेता प्रवीरो
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥१८
रणे रक्त-दानेन दासत्व-मुक्तिं
सदा घोषयन् बाहुमुत्थाप्य धीरः।
सुभाषोऽभवद् यस्य वंशे सुयोद्धा
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥१९
+++(चक्रावरोधः - reservation agitations by various communities. Examples are Jat (2016) and Gujjar (2008).)+++
स्वदेशैक्य-यज्ञे विशेषाधिकारा
हुताः स्वेच्छया यस्य वंश्यैर् निमेषात्।
न चक्रावरोधः+++(=“चक्का-जाम” बन्द/हड़ताल)+++ कृतो वा कदाचिद्
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥२०
यदाऽऽरक्षणस्यास् तु चर्चा स्वदेशे
तदा नेतृभिर् दृष्ट-मोहं विहाय।
विरोधे स्थिता वंशजा यस्य सर्वे
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥२१
सदा मेधया विद्यया जीवितेन
न वाऽऽरक्षणाय प्रसार्य स्वहस्तौ।
पदं यस्य पुत्रेण लब्धं कदाचिद्
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥२२
करे यावद् अर्थप्रदा लेखनीयं
मसी-बिन्दुर् आभूषणं चाऽङ्गुलीनाम्।
न भिक्षाटने यस्य पुत्राः प्रवृत्ता
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥२३ +++(4)+++
कुतश् चित्र-वंशस्य गाथा विशाला
कुतः सीमिता मे पुनः शब्द-राशिः।
तथाप्य् अञ्जलिं मस्तके सन्निधाय
भजे तं विचित्रं प्रभुं चित्र-गुप्तम्॥२४
कदा स्खलद्-गिरा स्वपूर्वजस्य कीर्तिम् उज्ज्वलां
प्रगातुम् उद्यतो भवेयम् अद्वितीय-गौरवम्।
प्रगल्भ-संस्कृतेन गुम्फितां स्रजं स्तवात्मिकां
समर्पयेयम् अत्र चित्रगुप्त-पाद-पङ्कजे॥२५