काव्यसंग्रहः

[[काव्यसंग्रहः Source: EB]]

[

[TABLE]

सूचीपत्रम् ।

1 पञ्चरत्नम्
2 षड़ रत्नम्
3 सप्तरत्नम्
4 अष्टरत्नम्
5 नवरत्नानि
6 नवरत्नम्
7 गुणरत्नम्
8 नीतिरत्नम्
9 यतिपञ्चकम्
10 साधनपञ्चकम्
11 भ्रमराष्ट्रकम्
12 वानराष्टकम्
13 वानर्य्याष्टकम्
14 पूर्व चातकाष्टकम्
15 उत्तरचातकाष्टकम्
16 शुकाष्टकम्
17 गङ्गाष्टकम्
18 शृङ्गाररसाष्टकम्
19 मणिकर्णिका महिमा
20 मणिकर्णिकाष्टकम्
21 मोहमुद्गरः
22 यटकपरिः
23 नीतिप्रदीपः
24 नीतिसारम्
25 धर्मविवेकः
26 वेदसारशिवस्तवः
27 पद्यसंग्रहः
28 महापद्यम्
29 मुकुन्दमाला
30 व्रजविहारः
31 अपराधभञ्जनस्तोत्रम्
32 शृङ्गारतिलकम्
33 ऋतुसंहारः
34 मेघदूतम्
35 हंसदूतम्
36 पदाङ्कदूतम्
37 उद्भवदूतम्
38 चौरपञ्चाशिका
39 अमरुशतकम्
40 शृङ्गारशतकम्
41 दृष्टान्तशतकम्
42 नीतिशतकम्
43 वैराग्यशतकम्
44 स्रुर्य्यशतकम्
45 चाणक्यशतकम्
46 शान्तिशतकम्
47 बृन्दावनशतकम्
48 आनन्दलहरी
49 श्रीकृष्ण लहरी
50 गङ्गालहरी
51 श्रुतबोधः
52 आर्य्यासप्तशती
53 विदग्धमुखमण्डनम्
54 रतिमञ्जरी
55 नलोदयः
56 जगन्नाथाष्टकम्
57 यमुनाष्टकम्
58 उद्धवसन्देशः
59 रामकृष्णविलोमकाव्यम्
60 काशीस्तोत्रम्
61 आत्मबोधः
62 भक्तचामरस्तोत्रम्
63 रावणकृत शिवस्तवः
64 कृष्णताण्डवस्तोत्रम्
65 राक्षसकाव्यम्
66 सप्तश्लोकी भागवतम्
67 एकश्लोकी भागवतम्
68 एकश्लोकी रामायणम्
69 एकश्लोकी भारतम्
70 विष्णुस्तवः
71 रसमञ्जरी
72 राजप्रशस्तिः
73 बृन्दावनयमकम्
74 विद्यासुन्दरम्
75 गीतगोविन्दम्

काव्यसंग्रहः।

<MISSING_FIG href="../books_images/U-IMG-1728523864काव्यसंग्रह_1-removebg-preview.png"/>

पश्चरत्नम्।

____

नागः,पोतस्तथा वैद्यं, क्षान्तिः, शक्यो, यथाक्रमम् \।
पञ्चरत्नमिदं प्रोक्तं विदुषामपि दुर्लभम्॥

_______

नागो भाति मदेन, कं जलरुहैः, पूर्णेन्दुना शर्व्वरो,
शीलेन प्रमदा, जवेन तुरगो, नित्योत्सवैर्मन्दिरम्।

वाणीव्याकरणेन, हंसमिथुनैर्नद्यः, सभा पण्डितैः,
सत्पुत्रेण कुलं, नृपेण वसुधा, लोकत्रयं विष्णुना॥१॥

पोतो दुस्तर-वारिराशि-तरणे, दीपोऽन्धकारागमे,
निर्वाते व्यजनं, मदान्धकरिणां दर्पोपशान्त्यैशृणिः।

इत्थं तद् भुवि नास्ति, यस्य विधिना नोपायचिन्ता कृता
मन्ये दुर्ज्जनचित्तवृत्तिहरणे धातास्ति भम्नोद्यमः॥२॥

वैद्यं पानरतं, नटं कुपठितं, स्वाध्यायहीनं द्विजं,
युद्धे कापुरुषं, हयं गतरयं, मूर्खं परिव्राजकम्।

राजानञ्च कुमन्त्रिभिः परिवृतं, देशञ्च सोपद्रवं,
भार्य्यां यौवनगर्व्वितां पररतां मुञ्चन्ति शीघ्रंबुधाः॥३॥

क्षान्तिश्चेत्, कवचेन किं? किमरिभिः? क्रोधोऽस्तिचेद्देहिनां,
ज्ञातिश्चेदनलेन किं? यदि सुहृद दिव्यौषधैः किं फलम्।

किं सर्पै? र्यदि दुर्ज्जनः, किमु धनै? र्विद्यानवद्या यदि,
ब्रीड़ा चेत् किमु भूषणेन? कविता यद्यस्ति राज्येन किम्?॥४॥

शक्यो बारयितुं जलेन हुतभुक्, छत्रेण सूर्य्यातपः,
नागेन्द्रो निशिताङ्कुशेन, चपलो दण्डेन गो-गर्द्दभो।

व्याधिर्वैद्यकभेषजैरनुदिनं, मन्त्रप्रभावाद विषं,
सर्व्वस्यौषधमस्ति शास्त्रविहितं, मूर्खस्य नास्त्यौषधम्॥५॥

इति पञ्चरत्नं समाप्तम्।

_______________________

षड़रत्नम्।

शास्त्रे, कोऽर्चां तथा मूर्खो, दानं दुर्मन्त्रियणं, तथा।
लोमोऽप्यस्तीति विज्ञेयं क्रमात् षडरत्नमीरितम्॥

_____________

शास्त्रं सुचिन्तितमथो परिचिन्तनीयम्,
आराधितोऽपि नृपतिः परिशङ्कनीयः।

अङ्के स्थितापि युवतिः परिरक्षणीया,
शास्त्रे नृपे च युवतौ च कुतो वशित्वम्?॥१॥

कीऽर्थान् प्राप्य न गर्व्वितो? विषयिनः कस्यापदो नागताः?
स्त्रीभिः कस्य न खण्डितं भुवि मनः? को नाम राज्ञांप्रियः?

कः कालस्य न गोचरान्तरगतः? कोऽर्थो गतो गौरवं?
को वा दुर्जन-वागुरा-नियतितः क्षेमेण यातः पुमान् १॥२॥

मूर्खो द्विजातिः, स्थविरो गृहस्थः,
कामीदरिद्रो, धनवान् तपस्वी।

बेश्या कुरूपा, नृपतिः कदर्य्यः,
लोके षडेतानि बिडम्बितानि॥२॥

दानं दरिद्रस्य, प्रभो शान्तिः
यूनां तपौ, ज्ञानवताञ्चमौनम्।

इच्छानिवृत्तिश्च सुखासितानां,
दया च भूतेषु दिषं नयन्ति॥४॥

दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः?
सन्तापयन्ति कमपथ्यभुजं न रोगाः?।

कं श्रीनं दर्पयति? कं न निहन्ति मृत्युः?
कं स्त्रीकृता न विषया ननु तापयन्ति?॥५॥

लोभोऽप्यस्ति, परेण किं? पिशुनता यद्यस्ति, किं पातकैः?
सोजन्यं यदि किं गुणैः? सुमहिमा यद्यस्ति किं मण्डनैः?

सत्यं चेत् तपस्रा च किं? शुचि मनो यद्यस्ति तीर्थेन किं?
सद्विद्या यदि किं धनै? रपयशी यद्यस्ति किंमृत्युना?॥५॥

इति षड़रत्नंसमाप्तम्।

सप्तरत्नम्।

____________

वाञ्छा, राजा, तथा च्छेदो, वृशं, वित्तेन किं तथा।
स्वर्गो, धनेन किं ज्ञेयं सप्तरत्नमिदं क्रमात्॥

________

वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता,
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम्।

भक्तिश्चक्रिणि शक्तिरात्मदमने संसर्गमुक्तिः खले,
एते यत्र वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः॥१॥

राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः,
कान्ता सत्यविना हयो गतिविमा भूषा च ज्योतिर्विना।

योद्धा शूरविना तपो ब्रतविना छन्दो विना गीयते,
भ्राता स्नेहविना नरो हरिविना मुञ्चन्ति शीघ्रं बुधाः॥२॥

छेदश्चन्दनचूतचम्पकवने रक्षापि शाखोटके,
हिंसा हंस-मयूरकोकिलकुले काकेषु नित्यादरः।

मातङ्गेन खरक्रयः समतुला कर्पूरकार्पासयोः;
एषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः॥३॥

वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः,
पुष्पं पर्य्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः।

निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मन्त्रिणः,
सर्वः कार्य्यवशादु जनोऽभिरमते कस्यास्ति को वल्लभः?॥४॥

वित्तेन किं? वितरणं यदि नास्ति दीने,
किं सेवया? यदि परोपकृतौ न यत्नः।

किं सङ्गमेन? तनयो यदि नेक्षणीयः,
किं यौवनेन? विरहो यदि वल्लभायाः॥५॥

स्वर्गः किं? यदि वल्लभा निजबधूः किं वा विभूषाविधिः?
लावण्यं यदि किं सुधाकरकरैः? शृङ्गारगर्भा गिरः।

मृत्युः किं यदि दुर्जनेष्ववनतिः? किं धिक् यदि प्रार्थना,
प्राप्तेष्टः करिकेतनो यदि भवेत्? किं कल्पभूमीरुहैः?॥६॥

धनेन किं? यो न ददाति याचके,
बलेन किं? यश्च रिपुं न बाधते।

श्रुतेन किं? यो न च धर्म्ममाचरेत्,
किमात्मना? यो नजितेन्द्रियो भवेत्॥७॥

इति सप्तरत्नं समाप्तम्।

________

अष्टरत्नम्।

________

अर्थो, व्योम, तथा नित्यं, ब्रह्मा, भोगे शशिन्वषि।
शशी, निःस्वश्च, विज्ञेयमष्टरत्नमिदं क्रमात्॥

________

अर्थागमो नित्यमरोगिता च
प्रिया च भार्य्या प्रियवादिनी च।

वश्यश्च पुत्रोऽर्थकरौ च विद्या
षड्जीवलोकेषु सुखानि राजन्!॥१॥

व्योमैकान्तविहारिणोऽपि विहगाः संप्राप्नुवन्त्यापदं,
बध्यन्ते निपुणैरगाधसलिलात् मत्स्याः समुद्रादपि।

दुर्नीते हि विधो कृतः सुचरितं कः स्थानलाभे गुणः?
कालो हि व्यसनप्रसारितकरो गृह्नाति दूरादपि॥२॥

नित्यं छेदस्तृणानां क्षितिनखलिखनं पादयोरल्यपूजा,
दन्तानामल्पशौचं वदनमलिनता रुक्षता मूर्द्धजानाम्।

द्वे सन्ध्येचापि निद्रा विवसन- शयनं ग्रास - हासातिरेकः
स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्ष्मीम्॥३॥

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे,
विष्णुर्य्येन दशावतारगहने न्यस्तो महासङ्कटे।

रुद्रो येन कपालपाणिरटनं भिज्ञाटनं कारितः,
सूर्य्यौ धावति नित्यमेव गगने तस्मै नमः कर्म्मणे॥४॥

भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं,
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयम्,

शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं,
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम्॥५॥

शशिनि खलु कलङ्ककण्टकं पद्मनाले,
युवतिकुचनिपातः पक्वता केशजाले।

जलधिजलमपेयं पण्डिते निर्धनत्वं,
वयसि धनविवेको निर्विवेको विधाता!॥६॥

शशी दिवसधूषरो गलितयौवना कामिनी,
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः।

प्रभुर्धनपरायणः सततदुर्गतः सज्जनो,
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे॥७॥

निःस्वो वष्टि शतं शतीदशशतं लक्षं सहस्राधिपो
लक्षेशःक्षितिपालतां क्षितिपतिश्चक्रेशतां वाञ्छति।

चक्रेशः पुनरिन्द्रतां सुरपतिर्ब्राह्मं पदं वाञ्छति,
ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः॥८॥

इति अष्टरत्नंसमाप्तम्।

_____

नवरत्नानि।

धन्वन्तरि-क्षपणकामरसिंहशङ्कु-
वेतालभट्ट-घटकर्पर-कालिदासाः।

ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचिर्नव विक्रमस्य॥

नवरत्नम्।

मित्रमर्थी तथा नीतिर्धर्म्म-कार्पण्य- मूर्खकाः।
स्त्रीणां विद्वान् तथोतृणातान् नवरत्नमिदं क्रमात्॥

_____________

मित्रं स्वच्छतया रिपुं नयबलै र्लुब्धंधनैरीश्वरं
कार्य्येण द्विजमादरेण युवतीं प्रेम्ना समैर्बान्धवान्।

अत्युग्रं स्तुतिभिर्गुरुंप्रणतिभिः मूर्खं कथाभिः र्बुधं
विद्याभीरसिकं रसेन सकलं शीलेन कुय्याद् वशम्॥१॥

अर्थी लाघवमुच्छ्रितो निपतनं कामातुरो लाञ्छनं,
लुब्धोऽकीत्तिमसङ्गरः परिभवं दुष्टोऽन्यदोषे रतिम्।

निःखो वचनमुन्मना विकलतां शोकाकुलः संशयं
दुर्वागप्रियतां दुरोदरवशः प्राप्नोति कष्टं मुहुः॥२॥

नीतिर्भूमिभुजां नतिर्गुणवतां ह्नीरङ्गमानां धृति-
र्दम्पत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो गिराम्।

लावण्यं वपुषः स्मृतिः सुमनसां शान्तिर्द्विजस्य क्षमा
भक्तस्य द्रविणं गृहाश्रमवतां स्वास्थ्यंसतां मण्डनम्॥३॥

धर्म्मप्रागेव चिन्त्यःसचिवमतिगतिर्भावनीया सदैव,
ज्ञेयं लोकानुवृत्तं वरचरनयनैर्मण्डलं बीक्षणीयम्।

प्रच्छाद्यौरागरोषौ मृदुपरुषगुणौ योजनीयौ च काले,
आत्मा यत्नेन रक्ष्यो रणशिरसि पुनः सोऽपि नापेक्षणीयः॥४॥

कार्पण्येन यशः क्रुधा गुणचयो दम्भेन सत्यं क्षुधा
मर्य्यादा व्यसनैर्धनानि विपदा स्थैर्व्थं प्रमादैर्द्विजः।

पैशुन्येन कुलं मदेन विनयो दुश्चेष्टया पौरुषं
दारिद्र्येण जनादरो ममतया चात्मप्रकाशो हतः॥५॥

मूर्खोऽशान्तस्तपस्वी क्षितिपतिरलसो मत्सरो धर्मशीलो,
दुःस्थो मानी गृहस्थः प्रभुरतिकृपणः शास्त्रविद्धर्म्महीनः।

आज्ञाहीनो नरेन्द्रः शुचिरपि सततं यः परान्नोपभोगी,
वृद्धो रोगीदरिद्रः स च युवतिपतिर्धिग् विडम्बप्रकारम्॥६॥

स्त्रीणां यौवनमर्थिनामनुगमो राज्ञां प्रतापः सतां
सत्यं स्वल्पधनस्य सञ्चितिरसद्वृत्तस्य वाग्डम्बरः।

साचारस्य मनोदमः परिणतेर्विद्या कुलस्यैकता,
सेवाया धनमन्नतेर्गुणचयः शान्तेर्विवेको बलम्॥७॥

विद्वान् संसदि पाक्षिकः परवशी मानी दरिद्रो गृही,
वित्ताढ्यःकृपणः सुखीपरवशो वृद्धो न तीर्थाश्रितः,

राजा दुःसचिवप्रियः कुलभवो मूर्खः पुमान् स्त्रीजितो
वेदान्ती हत-सत्क्रियः किमपरं हास्यास्पदं भूतले॥८॥

उत्खातान् प्रतिरोपयन् कुसुमितांचिन्वन् शिशून् वर्द्धयन्,
प्रोक्तुङ्गान् नमयन् नतान् समुदयन् विश्लेषयन् संहतान्।

तीव्रान् कण्टकिनो बहिर्नियमयन ग्लानान् मुहुः सेचयन्
मालाकार इव प्रयोगनिपुणो राजा चिरं नन्दतु॥९॥

इति नवरत्नंसमाप्तम्।

_________

गुणरत्नम्
___________________

सानन्दं नन्दिहस्ताहत-मुरज-रवाहूत-कौमार बर्हि-
त्रासान्नासाग्ररन्धंविशति फणिपतौ भोग-सङ्कोच-भाजि।'

गण्डोड्डीनालिमाला - मुखरित ककुभस्ताण्डवे शूलपाणे
र्वैनायकग्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः॥१॥

यत्कण्ठे गरलं विराजति सदा मौलौ च मन्दाकिनी,
यस्याङ्गे गिरिजाननं कटितटे शार्दूलचर्म्माम्बरम्।

यन्माया हि रुणद्धिविश्वमखिलं पायात् स वः शङ्करः
जम्बूवत् जलविन्दुवत् जलजवत् जम्बालवत् जालवत्॥२॥

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्,
विद्या भोगकरी यशः- शुभ-करो विद्या गरूणां गुरुः।

विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं,
विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः॥३॥

गुण गुणं वेत्ति न वेत्ति निर्गुणी ;
‘बलीबलं वेत्ति न वेत्ति निर्बलः।

पिको वसन्तस्य गुणं न वायसः;
करीच सिंहस्य बलं न मूषिकः॥४॥

गुणा गुणज्ञेषु गुणा भवन्ति,
ते निर्गुणं प्राप्य भवन्ति दोषाः।

सुस्वादुतोयाः प्रभवन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः॥५॥

गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे
गुणा दोषायन्ते किमिति जगतां विस्मयपदम् !

यथा जीमूतोऽयं लवणजलधेर्वारि मधुरं,
फणीपीत्वा क्षीरं वमति गरलं दुःसहतरम्॥६॥

विद्या विवादाय धनं मदाय,
शक्तिः परेषां परिपीड़नाय।

खलस्य साधोर्विपरीतमेतत्
ज्ञानाय दानाय च रक्षणाय॥७॥

मतिरेव बलात् गरीयसी
तदभावे करिणामियं दशा।

इति घोषयतीव डिण्डिमः
करिणो हस्तिपकाहतः क्वणन्॥८॥

वरं गर्भस्रावो वरमपि च नैवाभिगमनं,
वरं जातप्रेतो वरमपि च कन्याभिजननम्।

वरं बन्ध्या भार्य्या वरमपि च गर्भेषु वसतिः,
न चाविद्वान्ं रूप- द्रविण गुण-युक्तोऽपि तनयः॥९॥

या राका शशि-शोभना गतघना सा यामिनी यामिनी,
या सोन्दर्य्य युणान्विता पति-रता सा कामिनीकामिनी।

या गोविन्द-रस-प्रमोद-मधुरा सा माधुरी माधुरी;
या लोकद्वय साधनीतनुभृतां सा चातुरीचातुरी॥१०॥

ज्ञातिभिर्वण्यते नैव चोरेणापि न नीयते।
दाने नैव क्षयं याति विद्यारत्नं महाधनम्॥११॥

अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत्।
गृहीत इव केशेषु मृत्युना धर्म्ममाचरेत्॥१२॥

गुणेन स्पृहनीयः स्यात् न रूपेण युतो जनः।
सौगन्धावर्ण्यं नादेवं पुष्पं कान्तमपि क्वचित्॥१२॥

इति श्रीमहाकवि भवभूतिविरचितं गुणरत्नकाव्यं समाप्तम्।

नीतिरत्नम्।

_____

चतुर्मुख- मुखाम्भोज-शृङ्गाटक-विहारिणीम्।
नित्य-प्रगल्भ वाचालाम् उपतिष्ठे सरस्वतीम्॥१॥

इतर- तापशतानि यथेच्छया
वितर तानि सहे चतुरानन!।

अरसिकेषु रसस्य निवेदनं
शिरसि मा लिख मा लिख मा लिख॥२॥

संसार - विषवृक्षस्य हे फले अमृतोपमे।
काव्यामृत-रसास्वाद आलापः सज्जनैः सह॥३॥

पण्डितेषु गुणाः सर्वे मूर्खे दोषाश्च केवलाः।
तस्मान् मूर्खसहस्रे भ्यः प्राज्ञ एको विशिष्यते॥४॥

पुरो रेवा- पारे गिरिरतिदुरारोह-शिखरो
धनुष्पाणिः पश्चात् शवरनिकरो धावति पुनः।

सरः सव्येऽसव्ये दव-दहन- दाह-व्यतिकरो
क्वयामः! किं कुर्म्मो! हरिणशिशुरेवं विलपति॥५॥

छेदचन्दन-चूत-चम्पक-वने रक्षा करीरद्रुमे,
हिंसा हंस-मयूर-कोकिलकुले काकेषु लीलारतिः।

मातङ्गेन खरक्रयः, समतुला कर्पूरकार्पासयोः,
एषा यत्र विचारणण गुणिगणे देशाय तस्मै नमः॥६॥

भिनत्ति भीमं करिराजकुम्भं विभर्ति वेगं पवनादतीव।
करोति वासं गिरिगह्वरेषु तथापि सिंहः पशरेव नान्यः॥७॥

काकस्य चञ्चुर्यदि हेमयुक्ता माणिक्ययुक्तौ चरणो च तस्य।
एकैकपक्षे गजराजमुक्ता तथापि काको न च राजहंसः॥८॥

दिव्यं चूतरसं पीत्वा न गर्वंयाति कोकिलः।
पीत्वा कर्दमपानीयं भेको मकमकायते॥९॥

अगाधजलसञ्चारीन गर्वंयाति रोहितः।
अङ्गष्ठोदकमात्रेण सफरी फर्फरायते॥१०॥

भद्रं कृतं कृतं मौनं कोकिलैर्जलदागमे।
दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम्॥११॥

मणिर्लुठति पादेषु काचः शिरसि धार्यते।
यथैवास्ते तथेवास्तां काचः काचो मणिर्मणिः॥१२॥

काकः कृष्णः पिकः कृष्णस्त्वभेदः पिककाकयोः।
वसन्ते समुपायाते काकः काकः पिकः पिकः॥१३॥

वरं वने व्याघ्र-गजेन्द्र-सेवितं
द्रुमालयं पत्रफलाम्बुभोजनम्।

तृणानि शय्या वसनञ्च वल्कलं
म बन्धुमध्ये धनहीनजीवनम्॥१४॥

साध्वी स्त्रीणां दयितविरहे मानिनां मानभङ्गे
सल्लोकानामपि जनरवे निग्रहे पण्डितानाम्।

अन्योद्रेके कुटिलमनसां निर्गुणानां विदेशे
भृत्याभावे भवति मरणं किन्तु सम्भावितानाम्॥१५॥

इति श्रीमहाकविवररुचिविरचितं नीतिरत्नंसम्पूर्णम्।

यतिपञ्चकम्।

________________________

वेदान्तवाक्यैषु सदा रमन्तो,
भिक्षान्नमात्रेण च तुष्टिमन्तः।

विशोकमन्तःकरणै रमन्तः,
कौपीनवन्तः खलु भाग्यवन्तः॥१॥

मूलं तरोः केवलमाश्रयन्तः,
पाणिद्वयं भोक्तुममन्त्रयन्तः।

कत्थामिव श्रीमपि कुत्सयन्तः,
कौपीनवन्तः खलु भाग्यवन्तः॥२॥

देहादिभावं परिवर्त्तयन्तः,
आत्मानमात्मन्यवलौकयन्तः
नान्तं न मध्यं न बहिः स्मरन्तः

कौ

पीनवन्तः खलु भाग्यवन्तः॥३॥

स्वानन्दभावे परितुष्टिमन्तः.
सुशान्त सर्वेन्द्रियतुष्टिमन्तः।
अहर्निशं ब्रह्मसुखे रमन्तः

कौ

पीनवन्तः खलु भाग्यवन्तः॥४॥

पञ्चाक्षरं पावनमुच्चरन्तः
प्रतिं पशूनां हृदि भावयन्तः।

भिक्षाशिनो दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः॥५॥

इतिं श्रीपरमहंसकाचार्य्य- शङ्कर-भगवत्-पूज्यपादकृतं यतिपञ्चकं समाप्तम्।

___________

साधनपश्चकम्

______

वेदो नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयताम्
तेनेशस्य पिधीयतामयचितिः कामे मतिस्त्यज्यताम्।

पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयताम्
आत्मेच्छा व्यवसीयतां निजगृहात् तूर्णं विनिर्गम्यताम्॥१॥

सङ्गः सत्लु विधीयतां भगवतो भक्तिर्दृढ़ा धीयतां
शान्यादिः परिचीयतां दृढ़तरं कर्माशु संत्यज्यताम्।

सद्विद्यो ह्युपसर्प्यतां प्रतिदिनं तत्पादुका सेव्यतां
ब्रह्मकाक्षरमतां श्रुतिथिरो वाक्यं समाकर्णताम्॥२॥

वाक्यार्थश्चविचार्य्यतां श्रुतिशिरः पक्षः समाश्रीवतां
दुस्तर्कात् सुविरम्बतां श्रुतिमतस्तर्कोऽनुसन्धीयताम्।
ब्रह्मैवास्मि विभाव्यताम् अहरहर्गर्वः परित्यज्यताम्॥३॥

क्षुह्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां
स्वाद्वन्नंन तु यत्यतां विधिवशात् क्वप्तेन सन्तुष्यताम्।

यतिपञ्चकम्।
____________

वेदान्तवाक्यैषु सदा रमन्तो,
भिक्षादमात्रेण च तुष्टिमन्तः।

विशोकमन्तः करणे रमन्तः,
कौपीनवन्तः खलु भाग्यवन्तः॥१॥

मूलं तरोः केवलमाश्रयन्तः,
पाणिद्दयं भोक्तुममन्त्रयन्तः।

कत्थामिव श्रीमपि कुत्सयन्तः,
कौपीनवन्तः खलु भाग्यवन्तः॥२॥

देहादिभावं परिवर्त्तयन्तः,
आत्मानमात्मन्यवलौकयन्तः।

नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः॥३॥

स्वानन्दभावे परितुष्टिमन्तः
सुशान्त-सर्वेन्द्रियतुष्टिमन्तः।

अहर्निशं ब्रह्मसुखे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः॥४॥

पञ्चाक्षरं पावनमुच्चरन्तः
प्रतिं पशूनां हृदि भावयन्तः।

भिक्षाशिनो दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः॥५॥

इतिं श्रीपरमहंसकाचार्य्य-शङ्कर-भगवत्-पूज्यपादलतं यतिपञ्चकं समाप्तम्।

_________

साधनपञ्चकम्।

_______

वेदो नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयताम्
तेनेशस्य पिधीयतामपचितिः कामे मतिस्त्यज्यताम्।

पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयताम्
आत्मेच्छा व्यवसीयतां निजगृहात् तूर्णं विनिर्गम्यताम्॥१॥

सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढ़ा धीयतां
शान्यादिः परिचीयतां दृढ़तरं कर्माशु संत्यज्यताम्।

सद्विद्यो ह्युपसर्प्यतां प्रतिदिनं तत्पादुका सेव्यतां
ब्रह्मैकाक्षरमतां श्रुतिशिरो वाक्यं समाकर्णताम्॥२॥

वाक्यार्थश्च विचार्य्यतां श्रुतिशिरः पक्षः समाश्रीयतां
दुस्तर्कात् सुविरम्बतां श्रुतिमतस्तर्कोऽनुसन्धीयताम्।
ब्रह्मैवास्मि विभाव्यताम् अहरहर्गर्वः परित्यज्यताम्॥३॥

क्षुद्ध्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां
स्वाद्वनं न तु यत्यतां विधिवशात् तेन सन्तुष्यताम्।

शीतोष्णादि विसज्ञतां न तु वृथावाक्यंसमुच्चार्य्यतां।
औदासीन्यमभीप्स्यतां जनकृपानैष्ठूर्य्यमुत्सृज्यताम्॥४॥

एकान्ते सुखमास्थतां परतरे चेतः समाधीयतां
पूर्णात्मा सुसमीकष्यतां जगदिदं तद्व्यापितं दृश्यताम्।

प्राक्कर्म्मप्रविलोप्यतां चितिवलान्-नाप्युत्तरे श्लिष्यतां
प्रारब्धं त्विह भुज्यताम् अथ परब्रह्मात्मना स्थीयताम्॥५॥

यः श्लोकपञ्चकमिदं पठते मनुष्यः
सञ्चिन्तयत्यनुदिनं स्थिरतामुपेत्य।

तस्याशु संसृतिदवानलतीब्रघोर-
तापः प्रशान्तिमुपयाति चितिप्रसादात्॥६॥

इति श्रीशङ्कराचार्य्यविरचितं साधनपञ्चकं समाप्तम्।

__________

भ्रमराष्टकम्।

गन्धाढ्यासौ भुवनविदिता केतकी वर्णवर्णा
पद्मम्भ्रान्त्या क्षुधितमधुपः पुष्पमध्ये पपात।

अन्धीभूतः कुसुमरजसा कण्टकैश्छिन्नपक्षः
स्थातुं गन्तुं द्वयमपि सखे ! नैव शक्तो द्विरेफः॥१॥

गन्धाढ्यां नवमल्लिकां मधुकरस्यक्ता गतो यूथिकां
दैवात् ताञ्चविहाय चम्पकवनं पश्चात् सरोजं गतः।

वद्धस्तत्रनिशाकरेण विधिना क्रन्दत्यसौमूढधीः
सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः॥२॥

येऽमी ते मुकुलोद्गमादनुदिनं त्वामाश्रिताः षट् पदा-
स्ते भ्राम्यन्ति फलाद्बहि र्बहिरहो ! दृष्ट्वा न सम्भाषसे।

ये कीटास्तव दृक्पथञ्च न गतास्ते त्वत्फलाभ्यन्तरे
धिक् त्वां चूत ! यतः परापरपरिज्ञानामभिज्ञो भवान्॥३॥

नीतं जन्म नवीन-नीरज- वने पीतं मधु स्वच्छया
मालत्याः कुसुमेषु येन सततं केलीकृता हेलया।

तेनेयं मधुगन्धलूब्धमनसा गुञ्जा लता सेव्यते
हा धिग् दैवकृतं स एव मधुपः कां कां दशां नागतः॥४॥

पलाशकुसुमभ्त्रान्त्याः शुकतुण्डे मधुव्रतः।
पतत्त्येष शुकोऽप्ये नं जम्बूभ्रान्त्या जिघांसति॥५॥

दृष्ट्वा स्फीतोऽभवदलिरसौ लेख्यपद्मं विशालं
चित्रं चित्रं किमिति किमिति व्याहरन् निष्पपात।

नास्मिन् गन्धो न च मधुकणा नास्ति तत् सौकुमार्य्यं
घूर्णन्मूर्द्धा वत नतशिरा ब्रीड़या निर्जगाम॥६॥

अलिरसौ नलिनीवनवल्लवः
कुमुदिनी कुलकेलिकलारसः।

विधिवशेन विदेशमुपागतः
कुटजपुष्परसं बहु मन्यते॥७॥

रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पद्मजालम्।

इत्थं विचिन्तयति कोषगते द्विरेफे
हा हन्त हन्त! नलिनींगज उज्जहार!॥८॥

इति भ्रमराष्टकं समाप्तम्।

___________

वानराष्टकम्।

______

ईर्षी दक्षः क्रतौ रूपं स्तब्धः शुष्केन्धनं जयः।
दुर्मन्त्रिणमिति श्लोकाः कविता वानराष्टके॥

ईर्षीक्षृणीत्वसन्तुष्टः क्नोधनो नित्यशक्तिः।
परभाग्योपजीवी च षड़ते दुःखभागिनः॥१॥

दचः श्रियमधिगच्छति पथ्याशी कल्यंत सुखमरोगी।
उद्युक्तो विद्यां ; तथा धर्मार्थयशांसि विनीतः॥२॥

क्रतौ विवाहव्यसने रिपुक्षये
यशस्करे कर्मणि मित्रसंग्रहे।

प्रियासु नारीषु तथैव बान्धवे-
ऽप्यतिव्ययो नास्ति नराधिपाष्टसु॥३॥

रूपं जरा सर्वसुखानि तृष्णा
खलेषु सेवा पुरुषाभिमानम्।

याच्ञा गुरुत्वं गुणमात्मपूजा
चिन्ता बलं हन्त्यदया च लक्ष्मीं॥४॥

स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।

विद्याफलव्यसनिनः कृपणस्य वृत्तं
राज्यं प्रमत्तसचिवस्य नराधिपस्य॥५॥

शुष्क वने बह्निरुपैति वृद्धिं
बालेषु शोकश्चपलेषु कोपः।

कान्तासु कामोनिपुणेषु चित्तं
धर्मो दयावत्सु महत्सु धैर्य्यं॥६॥

जवो हि सप्तेः परमं विभूषणं,
त्रपाङ्गनायाःकृशता तपखिनः।

द्विजस्य विद्यैव मुनेरवि क्षमा
पराक्रमः शस्त्रबलीपजीविनाम्॥७॥

दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः?
सन्तापयन्ति कमपथ्यभुजं न रीगाः?

कं स्त्री न मोहयति? कं न निहन्ति मृत्युः?
कं स्वीकता न विषयाः परितापयन्ति?॥८॥

इति वानराष्टकं समाप्तम्।

______________________________________

वानर्य्याष्टकम् I

____________________

माधुर्य्यंशास्त्रमारोग्यं दानं मूर्खो द्विजातिकः।’
वैद्यं सुजीर्णं’ वृक्षश्चवानर्य्युक्तमिहाष्टकम्॥

माधुर्य्यं प्रमदाजनेषु ललितं दाक्षिण्यमार्ये जने
शौर्य्यंशत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुषु।

मर्मज्ञेष्वनुवर्त्तनं बहुविधं मानं जने पण्डिते
शाठ्यं पापिजने नरस्य कथिताः पर्यन्तमष्टौ गुणाः॥१॥

शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयं
स्वाराधितोऽपि नृपतिः परिशङ्कनीयः।

अङ्के स्थितापि युवतिःपरिरक्षणीया
शास्त्रे नृपे च युवतौ च कुतो वशित्वम्॥२॥

आरोग्यमानृण्यमविप्रवासः
सम्प्रत्यया वृत्तिरभीतिवासः।

सद्भिर्मनुष्यैः सह संप्रयोगः
षड् जीवलोकेषु सुखानि राजन्!॥३॥

दानं दरिद्रे विभवेऽपि शान्ति-
र्यूनां तपो ज्ञानवताञ्च मौनम्।

ईहानिवृत्तिश्च सुखोचितानां
दया च भूते त्रिदिवं नयन्ति॥४॥

मूर्खो द्विजातिः स्थविरो गृहस्थो,
गृहीदरिद्रो धनवांस्तपस्वे

वेश्या कुरुपा नृपतिः कुधर्मी॥
लोके षड़ेतानि विडम्बितानि॥५॥

वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं द्विजं
युद्धे कापुरुषं हयं गतरयं मूर्खं परिव्राजकम्।

राजानञ्च कुमन्त्रिभिः परिवृतं देशञ्च सोपद्रवं
भार्य्यां यौवनगर्वितां पररतां मुञ्चन्ति शीघ्रं बुधाः॥६॥

सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः।

सुचिन्त्य चोक्तं सुविचार्य्य यत् कृतं
सुदीर्घकालेऽपि न याति विक्रियाम्॥७॥

वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः
पुष्पंपर्य्युषितं त्यजन्ति मधुपा दग्धंवनान्तं मृगाः।

निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मन्त्रिणः
सर्व्वः कार्य्यवशात् जनेऽभिरमते कस्यास्ति को वल्लभः?॥८॥

इति वानर्य्यष्टकं समाप्तम्।

_____________

पूर्व चातकाष्टकम्।

_____________

वातैर्विधूनय बिभीषय भीमनादैः
सञ्चूर्णय त्वमथवा करकाभिघातैः।

त्वद्वारिविन्दुपरिपालितजीवितस्य
नान्यागतिभवति वारिद! चातकस्य॥१॥

चातकस्त्रिचतुरान् पयःकणान्
याचते जलधरं पिपासितः।

सोऽपि पूरयति भूयसाम्भसा
चित्रमत्र महतामुदारता॥२॥

शक्यते येन केनापि जीवनेनैव जीवितुम्
किन्तु कौलव्रतोङ्भङ्गप्रसङ्गः परदुःसहः॥३॥

गर्जसि मेघ! न यच्छसि तोयं
चातकपक्षी व्याकुलितोऽहम्।

दैवादिह यदि दक्षिणवातः
क्व त्वं क्वाहं क च जलपातः॥४॥

वापी स्वल्पलाभयो विषमयो नीचापगाहोह्रदः
क्षुद्रात् क्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः।

गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान्
सम्मानीखलु चातको जलमुचामुच्चैः पयो वान्छति॥५॥

वीजैरङ्कुरितं नदीभिरुदितं वल्मभिरुज्जृम्भितं
वृक्षैः पल्लवितं जनैश्च मुदितं धाराधरे वर्षति।

भ्रातंश्चातक! पातकं किमपि ते सम्यङ् न जानीमहे
यन्तेऽस्मिन् न पतन्ति चञ्चुपुटके द्वित्राः पयोविन्दवः॥६॥

नदेभ्योऽपि ह्रदेभ्योऽपि पिबन्त्यन्ये सदा पयः।
चातकस्य तु जीमूत! भवानेवावलम्बनम्॥७॥

नभसि निरवलम्बे सीदता दीर्घकालं
त्वदभिमुखनिविष्टोत्तानचञ्चूपुटेन।

जलधर जलधारादूरतस्तावदास्तां
ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन॥८॥

इति पूर्वश्चातकाष्टकं समाप्तम्।

उत्तरचातकाष्टकम्।

_____

स्वच्छाः सौम्यजलाशयाः प्रतिदिनं ते सन्तु मा सन्तु वा।
स्वल्प वा बहुधा जतं जलधर! त्वं देहि मा देहि वा॥१॥

कासारेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं
धिक् तत्रापि शिरोनतिः किमपरं हेयं भवेत् मानिनाम्।

इत्यालोच्य विमुच्य चातकयुवा तेषु स्पृहामान्दरा-
दुद्ग्रीस्तव वारिवाह ! कुरुते धाराधरालोकनम्॥२॥

के वा न सन्ति भुवि तामख्सावतंसा
हंसावलीबलयिनो जलसन्निवेशाः।

किं चातकः फलमवेक्ष्य सवच्चपातां
पौरन्दरींमुपगतो नववारिधाराम्॥३॥

रै धाराधर! धीरनीरनिकरैरेषा रसा नीरसा
शेषा पूषज्ञरोत्करैरत्निखरैरापूरि भूरि त्वया।

एकान्तेन भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन्
आश्चर्य्यंपरिपीडितोऽभिरमते यत् चातकस्तृष्णया॥४॥

आमानमम्भोनिधिरेतु शीषं
ब्रह्माण्डमासिञ्चतु वा तरङ्गैः।

नास्ति क्षतिर्नोपचितिः कदापि
पयोदवृत्तेः खलु चातकस्य॥५॥

पयोद हे! वारि ददासि वा न वा
त्वदेकचित्तः पुनरेष चातकः।

वरं महत्या म्रियते पिपासया
तथापि नान्यस्य करोत्युपासनाम्॥६॥

यद्यपि चातकपक्षी क्षपयति जलधरमकालवेलायाम्।
तदपि न कुप्यति जलदो गतिरिह नान्यां यतस्तस्य॥७॥

एक एव खगमणिश्चिरं जीवतु चातकः।
पिपासया वा म्रियते याचते वा पुरन्दरम्॥८॥

इति उत्तर चातकाष्टकं समाप्तम्।

________

शुकाष्टकम्।

________________

भेदाभेदौसपदि गलितौपुण्यपापे विशीर्णे
मायामोहौ क्षयमुपगतौ नष्टसन्देहवृत्तेः।

शब्दातीतं त्रिगुणरहितं प्राप्य तत्त्वावबोधं
निस्तैगुण्ये पथि विचरतः को बिधिः को निषेधः॥१॥

यद्वात्मानं सकलवपुषामेकमन्तर्वहिस्
दृष्ट्वा पूर्णं स्वमिव सततं सर्वभाण्डस्थमेकम्।

नान्यत् कार्यं किमपि च ततः कारणाद् भित्ररूपं
निस्त्रैगुण्ये पथि विचरतः को विधिःको निषेधः॥२॥

हेस्रः कार्य्यंहुतवहगतं हेममेवेति यद्वत्
क्षीरे क्षीरं समरसतया तोयमेवाम्बु मध्ये।

एवं सर्वं समरसतया त्वं पदं तत् पदार्थे
निस्त्रैगुण्ये पथि विचरतः को विधिःको निषेधः॥३॥

यस्मिन् विश्वं सकलभुवनं सामरस्यैकभूतं
ऊर्वो ह्यापोऽनलमनिलखं जीवमेवं क्रमेण।

यत् क्षाराब्धौ समरसतया सैन्धवैकत्वभूतं
निस्त्रैगुण्ये पथि विचरतः को विधिःको निषेधः॥४॥

यद्वन्नद्योदधिसमरसौ सागरत्वं ह्ववाप्तौ
तद्वज्जीवालयपरिगतौसामरस्यैकभूतौ।

भेदातीतं परिलयगतं सच्चिदानन्दरूपं
निस्त्रैगुण्येपथि विचरतः को विधिःको निषेधः॥५॥

दृष्ट्वा वेद्यं परमथ पदं स्वात्मबोधस्वरूपं
बुद्धात्मानं सकलवपुषामेकमन्तर्वहिस्थम्।

भूत्वा नित्वं सदुहिततया खप्रकाशस्त्वरूपं
निस्त्रैगुण्ये पथि विचरतः को विधिःको निषेधः॥६॥

कार्य्याकार्य्येकिमपि सततं नैव कर्त्तृत्वमस्ति
जीवयुक्तस्थितिरवगतो दग्धवस्त्रावभासः।

एवं देहे प्रविलयगते तिष्ठमानोविमुक्तो
निस्त्रैगुण्ये पथि विचरतः को विधिःको निषेधः॥७॥

कस्मात् कोऽहं किमपि च भवान् कोऽयमत्र प्रपञ्चः
स्वं स्वं वेद्यं गगनसदृशं पूर्णतत्त्वप्रकाशम्।

आनन्दाख्यं समरसघने वाह्यमन्तर्विहीन
निस्त्रैगुण्येपथि विचरतः को विधिःकी निषेधः॥८॥

सत्यं सत्यं परमममृतं सर्वकल्याणरूपं
मायारण्ये दहनमलिने शान्तनिर्वाणदीपम्।

तेजोभूतं निगमसदनं व्यासपुत्राष्टकं यः
प्रातःकाले पठति मनसा याति निर्वाणमार्गे॥९॥

इति श्रीपरमहंसशुकदेवविरचितं शुकाष्टकं समाप्तम्।

________

गङ्गाकष्टम्।

_____________________

यदवधि तव नीरं पातकीनैति गङ्गे।
तदवधि मलजालैर्नैव मुक्तः कलौ स्यात्।

तव जलकणिकालं पापिनां पापशुद्ध्यै,
पतितपरमदीमान् त्वं हि पासि प्रपन्नान्॥१॥

तव शिवजललेशं वायुमीतं समेत्य
सपदि निरयजालं शून्यतामेति गङ्गे!।

समलगिरिसमूहाः प्रस्फुटन्ति प्रचण्डाः,
त्वयि सखि विशतां नः पापशङ्गा कुतः स्यात्?॥२॥

तव शिवजलजालं निःसृतं यर्हि गङ्गे!
सकलभुवनजालं पूतपूतं तदाभूत्।

यमभटकलिवार्त्ता देवि! लुप्ता यमोऽपि
व्यधिकृतवरदेहाः पूर्णकामाः सकामाः॥३॥

मधुमधुवनपूगरत्नपूगैर्नृपूगैः-
र्मधुमधुवनपूगैर्देवपूगैः सुपूगैः।

पुरहरपरमाङ्गे भासि मायेव गङ्गे!
शमयसि विषतापं देवदेवस्य वन्द्ये॥४॥

चलितमभिकुलाभैरुत्तरङ्गैस्तरङ्गैः
अमितनदनदीनामङ्गसङ्गैरसङ्गैः।

विहरसि जगदण्डे खण्डयन्तौ गिरीन्द्रान्
रमयसि निजकान्तं सागरं कान्तकान्ते!॥५॥

तव परमहिमानं चित्तवाचाममानं
हरिहरविधिशक्रा नापि मङ्गे! बिदन्ति।

श्रुतिकुखमभिधत्ते शङ्कितंतं गुणान्तं
गुणगणसुविलापै र्नेति नेतीति सत्यम्॥६॥

तव नुतिनतिनामान्यप्यघंपावयन्ति
ददति परमशान्तिं दिव्यभोगान् जनानाम्।

इति पतितशरण्ये! त्वां प्रसन्नोऽस्मि मात
र्लतिततरतरङ्गे चाङ्गगङ्गे प्रसीद॥७॥

शुभतरकृतयोगाद्विश्वनाथप्रसादात्
भवहरवरविद्यां प्राप्य काश्यां हि गङ्गे।

भगवति! तव तीर नीरसारं निपीय
मुदितहृदयकुञ्जे मन्दसूनुं भजेऽहम्॥८॥

गङ्गाष्टकमिदं कृत्वा भुक्तिमुक्तिप्रदं तृणाम्।
सत्यज्ञानानन्दतीर्थयतिना स्वर्पितं शिवे॥९॥

तेन प्रीणातु भगवान् शिवो गङ्गाधरो विभुः।
करोतु शङ्करः काश्यां जनानां सन्ततं शिवम्॥१०॥

इति सत्यज्ञानानन्दतीर्थयतिना विरचितंगङ्घाष्टकं सम्पूर्णम्।

शृङ्गाररसाष्टकम्।

<MISSING_FIG href="../books_images/U-IMG-172890633444.png"/>

अविदितसुखदुःखं निर्गुणं वस्तु किञ्चित्
जड़मतिरिह कश्चित् मोक्ष इत्याचचक्षे।

मम तु मतमनङ्गस्मेरतारुल्यघूर्णन्-
मदकलमदिराक्षी-नीविमोक्षौ हि मोक्षः॥१॥

कदा कान्तागारे परिमलमिलत्पुष्पशयने
शयानः कान्तायाः कुचयुगमहं वक्षसि वहन्।

अये कान्ते! मुग्धे! कुटिलनयने! चन्द्रवदने!
प्रसीदेति क्रोशन् निमिषमिव नेष्यामि रजनीम्॥१॥

सायं नायमुदेति वासरमणिः, चन्द्रो न चण्डद्युति-
र्दावाग्निः कथमम्बरे? किमशनिः? स्वच्छान्तरीक्षे कुतः?।

हन्तेदं! निरणायि पान्थरमणीप्राणानिस्नाशाशया
धावद्घोरविभावरीविषधरोभोगस्य भीमो मणिः॥३॥

आयाति याति पुनरेव जलं प्रयाति
पद्माङ्कुराणि विचिनोति धुनोति पक्षौ।

उन्मत्तवद् भ्रमति कूजति मन्दमन्दं
कान्तावियोगविधुरो निशि चक्रवाकः॥४॥

भंक्ता भोक्तुं न भुंक्ते कुटिलविसलताखण्डमिन्दोर्वितर्कात्
ताराकारास्तृषार्त्तो न पिवति पयसां विप्रषः पत्रसंस्थाः।

छायामन्भोजिनीनामलिकुलभवलां वीक्ष्यसन्धग्रामसन्ध्याम्
कान्ताविश्लेषभीरुर्दिनमपि रजनीं मन्यते चक्रवाकः॥५॥

गन्धाढ्यासौभुवनविदिता केतकीस्वर्णवर्णा
पद्मभ्रान्त्या चपलमधुपः पुष्पमध्ये पपात।

अन्धीभूतः कुसुमरजसा कण्टकैर्लनपक्षः
स्थातुं गन्तुं द्वयमपि सखे ! नैव शक्तो द्विरेफः॥६॥

तं वीक्ष्य वेपथुमतीसरसाङ्गयष्टि-
र्निक्षेप एव पदमुद्धृतमर्पयन्ती।

मार्गाचलव्यतिकराकुलितेव सिन्धुः
शैलाधिराजतनया न ययौ न तस्थौ॥७॥

का काबला निधुवनश्रमपीड़िताङ्गी
निन्द्रां गता दयितबाहूलतानुबद्धा।

सा सा तु यातु भवनं मिहिरोद्गमोऽयं
सङ्केतवाक्यमिति काकचया वदन्ति॥८॥

इति महाकविकालिदासविरचितंशृङ्गाररसाष्टकं समाप्तम्

______________________

मणिकर्णिका महिमा।

_____________

अनेकजन्मसाहस्रतपोध्यानशिवार्चनैः।
अद्वैतानन्दसङ्गेन लब्धवेदान्तिसत्पदः॥१॥

सदाशिवसुतः शान्तः काश्यां गङ्गाधरः कविः।
सर्वतीर्थवरां देवीं स्तौति श्रीमणिकर्णिकाम्॥२॥

आनन्दकाननमिदं सुखदं पुरैव
तत्रापि चक्रसरसी मणिकर्णिकाथ।

स्वः सिन्धुसङ्गतिरथो परमास्यदञ्च
विश्वेशितुः किमिह तत्र विमुक्तये यत्॥३॥

गर्जन्ति सर्वतीर्थानि स्वस्वधिष्ट्यगतान्यहो।
केवलं बलमासाद्य सुमहत् माणिकर्णिकम्॥४॥

शिवाद्या देवसङ्घाश्च सनकाद्या महर्षयः।
ते सर्वे स्नातुमायान्ति मध्याह्ने मणिकर्णिकाम्॥५॥

इच्छन्ति मरणं तत्र मुक्तये चामरा अपि।
अतश्च स्वकृतैः श्लेाकैस्तां देवीं प्रार्थयेऽन्वहम्॥६॥

________________________

मणिकर्णिकाष्टकम्।

________________________________________

विष्णोः सुतप्ततपसां चलितोत्तमाङ्ग-
विश्वेशितुस्तड़िदिवाम्बरतः सुकर्णात्।

या चक्रतीर्थसलिले ललिता पपात
सा मे सदा शिवकरीमणिकर्णिकास्तु॥१॥

चिन्तामणिस्तनुभृतां सहसान्तकाले
तत्तारकं व्यपदिशत्यथ कर्णिकायाम्।

यस्यां मृतो न भवमेति भवप्रसादात्
सा मे सदा शिवकरीमणिकर्णिकास्तु॥१॥

चन्द्रांशुका सुनयना धबला कुमारी
वेदैश्च पाणिकमलेर्वरमौक्तिकान्त्या।

या दृश्यते सुकृतिभिर्वरकाशिकायां,
सा मे सदा शिवकारी मणिकर्णिकास्तु॥२॥

मालां सुपङ्कजमयींकरकण्ठयोर्या
धत्ते बरोद्यतकरे शुभमातुलाङ्गम्।

वृक्ष पाणियुगलं शुभपश्चिमास्यं
सा मे सदा शिवकरीमणिकर्णिकास्तु॥३॥

दानावगाहसुरपूजनतर्पणादि
यस्यामनन्तफलदं भवति प्रसङ्गात्।

भक्त्या कृतं यदि सदैव जगत् पुनाति
सा मे सदा शिवकरी मणिकर्णिकास्तु॥५॥

स्वर्गस्तृणं भवति चीरधरोऽपि राजा
मृत्युः सखा सुखहरोऽपि शवः शिवः स्यात्।

पातोऽपि यत्र सुरसम्मत उत्तमाद्या
सा मे सदा शिवकरीमणिकर्णिकास्तु॥६॥

सुप्तोऽपि योगिसमतां समुपैति यत्र
मग्नः स्मरेद्यदि शिवं स तु कालकालः।

याद्व्यातोऽप्यभयमेति च दूरवासौ
सा मे सदा शिवकरी मणिकर्णिकास्त॥७॥

संसारचिन्तामणिरत्र यस्मात्
तत्तारकं सज्जनकर्णिकायाम्।

शिवोऽभिधत्ते सहसान्तकाले
तद्गीयतेऽसौमणिकर्णिकेति॥८॥

मोक्षलक्ष्मौमहापीठमणिस्तच्चरणाब्जयोः।
कर्णिकेति ततः प्राहू र्यांजना मणिकर्णिकाम्॥९॥

मणिकर्थ्याः स्तोत्रमिदं भुक्तिमुक्तिप्रदं वरम्।
पठतां शृण्वताञ्चास्तु प्रसन्ना मणिकर्णिका॥१०॥

इति श्रीगङ्गाधरकविविरचितं श्रीमणिकर्णिकास्तोत्रं सम्पूर्णम्।

_______

मोहमुद्गरः।

_______

मूढ़! जहीहि धनागमतृष्णां कुरु तनुबुद्धे! मनसि वितृष्णाम्।
यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम्॥१॥

अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम्।
पुत्रादपि धनभाजां भीतिः, सर्वत्रैषा विहिता रोतिः॥२॥

का तव कान्ताः? कस्ते पुत्रः? संसारोऽयमतीव विचित्रः।
कस्य त्वं वा? कुत आयातः? तत्त्व चिन्तय तदिदं भ्रातः!॥३॥

माकुरु धनजनयोवनगर्वं, हरति निमेषात् कालः सर्वम्।
मायामयमिदमखिलं हित्वा ब्रह्मपदं प्रविशाशु विदित्वा॥४॥

नलिनीदलगतजलमतितरलं, तद्वज्जीवितमतिशयचपलम्।
विद्धिव्याधिव्यालग्रस्तं लोकं शोकहतञ्च समस्तम्॥५॥

तत्त्वंचिन्तय सततं चित्ते, परिहर चिन्तां नश्वरवित्ते।
क्षणमिह सज्जनसङ्गतिरेका, भवति भवार्णवतरणे नौका॥६॥

अष्टकुलाचलसप्तसमुद्रा, ब्रह्म-पुरन्दर दिनकर-रुद्राः।
न त्वं, नाहं, नायं लोकः, तदपि किमर्थं क्रियते शोकः?॥७॥

यावद्वित्तोपार्ज्जनशक्तः, तावत् निजपरिवारो रक्तः।
तदनु च जरया जर्जरदेहे, वार्त्तां कोऽपि न पृच्छति गेहे॥८॥

कामं क्रोधं लोभं मोहं त्यक्तात्मानं पश्य हि कोऽहम्।
आत्मज्ञानविहीना मूढाः, ते पच्यन्ते नरकनिगूढाः॥९॥

सुरमन्दिरतरुमूलनिवासः, शय्या भूतलमजिनं वासः।
सर्वपरिग्रहभोगत्यागः, कस्य सुखं न करोति विरागः॥१०॥

बालस्तावत् क्रीड़ासक्तः, तरुणस्तावत् तरुणीरक्तः।
‘वृद्धस्तावत् चिन्तामग्नः, परमे ब्रह्मणि कोऽपि न लग्नः॥११॥

‘शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ।
भव समचित्तः सर्वत्र त्वंवाञ्छस्यचिराद यदि विष्णुत्वम्॥१२॥

यावज्जननं तावन्मरणं, तावज्जननीजठरे शयनम्।
इति संसारे स्फुटतरदोषः, कथमिह मानव! तव सन्तोषः॥१३॥

दिनयामिन्यौसायं प्रातः, शिशिरवसन्तौ पुनरायातः।
कालः क्रीड़ति गच्छत्यायुः, तदपि न मुञ्चत्याशावायुः॥१४॥

अङ्गं गलितं पलितं मुण्डं, दन्तविहीनं यातं तुण्डम्।
करधृतकम्पितशोभितदण्डं तदपि न मुञ्चत्याशाभाण्डम्॥१५॥

त्वयि मयि चान्यत्रैको विष्णुः, व्यर्थं कुप्यसि मय्यसहिष्णुः।
सर्वं पश्यात्मन्यात्मानं, सर्वत्रोत्सृजभेदज्ञानम्॥१६॥

षोड़शपज्झटिकाभिरशेषः, शिष्याणां कथितोऽभ्युपदेशः।
येषां नैष करोति विवेक, तेषां कः कुरुतामतिरेकम्॥१७॥

इति श्रीशङ्कराचार्य्यविरचितो मोहमुद्गरः समाप्तः।

__________

घटकर्परः।

_______

निचितं खमुपेत्य नीरदैः प्रियहीना हृदयावनीरदैः।
सलिलैर्निहितं रजः क्षितौ रविचन्द्रावपि नोपलक्षितौ॥१॥

हंसा नदन्मेघभयाद् द्रवन्ति निशामुखान्यद्य न चन्द्रवन्ति।
नवाम्बु मत्ताः शिखिनो नदन्ति मेघागमे कुन्दसमानदन्ति॥२॥

मेघावृतं निशि न भाति नभो वितारं
निद्राभ्युपैति च हरिं सुखसेवितारम्।

सेन्द्रायुधश्च जलदोधरसन्निभानां
संरम्भमावहति भूधरसन्निभानाम्॥३॥

सतड़ित्जलदार्पितं नगेषु स्वनदम्भोधरभीतपद्मगेषु।
परिधीररवं जलं दरीषु प्रपतत्यद्भूतरूपसुन्दरीषु॥४॥

क्षिप्रं प्रसादयति सम्प्रति कोऽपि तानि
कान्तामुखानि रतिविग्रहकोपितानि।

उत्कण्ठयन्ति पथिकान् जलदाः स्वनन्तः
शोकः समुद्भवति तद्वनिताखनन्तः॥५॥

छादिते दिनकरस्य भावने
खाज्जले पतति शोकभावने।

मन्मथे च हृदि हन्तुमुद्यते
प्रोषितप्रमदयेदमुद्यते॥६॥

सर्वकालमवलङ्घ्य तोयदा
आगता स्थ दयितो गतो यदा।

निर्घृणेन परदेशसेविना
मारयिष्यथ हतेन मां विना॥७॥

ब्रूत तं पथिकपांशुलं घनाः!
यूयमेव पथि शीघ्रलङ्घनाः।

अन्धदेशरतिरद्य मुच्यतां
साथवा तव बधूः किमुच्यताम्॥८॥

हंसपक्तिरपि नाथ! सम्प्रति
प्रस्थिता वियति मानसं प्रति।

चातकोऽपि तृषितोऽम्बु याचते
दुःखिता पथिक! सा प्रिया च ते॥९॥

नीलशस्यमभिभाति कोमलं
वारि विन्दति च चातकोऽमलम्।

अम्बुदैः शिखिगणो विनाद्यते
का रतिर्दयितया विनाद्य ते॥१०॥

मेघशब्दमुदिताः कलापिनः
प्रोषिता हृदयशोकलापिनः।

तोयदागमकृशापि साद्य ते
दुर्धरेण मदनेन साद्यते॥११॥

किं कृपापि तव नास्ति कान्तया
पाण्डुगण्डपतितालकान्तया।

शोकसागरजलेऽद्य पातितां
त्वद्गुणस्मरणमेव पाति ताम्॥१२॥

कुसुमितकुटजेषु काननेषु
प्रियरहितेषु समुत्सुकाननेषु।

वहति च कलुषे जले नदीनां
किमिति च मां समवेक्षसे न दीनाम्॥१३॥

मार्गेषु मेघसलिलेन विनाशितेषु
कामे धनुः स्पृशति तेन विना शितेषु।

गम्भीरमेघरसितव्यथिता कदाहं
जह्यां सखि! प्रियवियोगजशोकदाहम्॥१४॥

सुसुगन्धतया वने जितानां
स्वनदम्भोधरवायुवीजितानाम्।

मदनस्य कृते निकेतकानां
प्रतिभान्त्यद्य वनानि केतकानाम्॥१५॥

तत् साधु, यत् त्वां सुतरुः ससर्ज
प्रजापतिःकामनिवास सर्ज!।

त्वं मच्छरीभिः प्रवरो बनानां
नेत्रोत्सवश्चासि सयौवनानाम्॥१६॥

नवकदम्ब! शिरोवनतास्मि ते
वसति यत् मदनः कुसुमस्मिते।

कुटज! किं कुसुमैरुपहस्यते
निपतितास्मि सुदुः प्रसहस्य ते॥१७॥

तरुवर! विनतास्मि ते सदाहं
हृदयं मे प्रकरोषि किं सदाहम्।

तव कुसुमनिरीक्षणे पदेहं
विसृजेयं सहसैव नीपदेहम्॥१८॥

कुसुमैरुपशोभितां सित
र्घनमुक्ताम्बुलवप्रकाशितैः।

मधुनः समवेक्ष्य कालतां
भ्रमरश्चुम्बति यूथिकालताम्॥१९॥

तासामृतुः सफल एवहि या दिनेषु
सेन्द्रायुधाम्बुधर गर्जितदुर्दिनेषु।

रत्युत्सवं प्रियतमैः सह मानयन्ति
मेघागमे प्रियसखीश्च समानयन्ति॥२०॥

एतन्रिशम्य विरहानलपीड़ितायाः
तस्या वचः खलु दयालुरपीड़ितायाः।

स्वं स्वारवेण कथितं जलदैरमोघैः
प्रत्याययौस गृहमूनदिनैरमोघैः॥२१॥

आलम्ब्यचाम्बु तृषितः करकोषपेयम्
भावानुरक्तवनितासुरतैः शपेयम्।

जीयेय येन कविना यमकैः परेण
तस्मै वहेयमुदकं घटकर्परेण॥२२॥

इति श्रीपटकर्मरकविकृतं यमककाव्य समाप्तम्।

_____

नीतिप्रदीपः।

______________________

रत्नाकरः किं कुरुते स्वरत्नैः?
विन्ध्याचलः किं करिभिः करोति?

श्रीखण्डखण्डैर्मलयाचलः किं?
परोपकाराय सतां विभूतिः॥१॥

कर्णावध्नतनिपुणेन च ताड्यमाना
दूरीकृताः करिवरेण मदान्धबुद्ध्या।

तस्यव गण्डयुगमण्डनहाबिरेषा
भृङ्गाः पुनर्विकचपद्मवने चरन्ति॥२॥

येनाकारि मृणालपत्रमशनं क्रीड़ा करिण्या सह
स्वच्छन्दं भ्रमणञ्च कन्दरमणे पीतं पयो निर्झरम्।

सोऽयं वन्यकरीनरेषु पतितः पुष्णाति देहं तृणै
यद्देवेन ललाटपत्रलिखितं तत् प्रोज्झितुं कः क्षमः॥३॥

शशिदिवाकरयोर्ग्रहपीड़नं
गजभुजङ्गमयोरपि बन्धनम्‌।
मतिमताञ्चविलोक्यदरिद्रतां
विधिरहोबलवान्‌ इति मे मतिः॥४॥

व्योमैकान्तविहारिणोऽपि विहगाःसम्प्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलात्‌ मत्स्याःसमुद्रादपि।
दुर्नीते हि विधौ किमस्ति चरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि॥५॥

अविदलम्मुकुले वकुले यया
यदमधायि कदापि न हेलया।
अहह! सा सहसा विधुरे विधौ
मधुकरीवदरीमनुवर्त्तते॥६॥

गतोऽस्मितीरं जलधेः पिपासया
स चापि शुष्कश्चलुकीकृतो मया।
न दृश्यते दोषलवोऽपि तोयधेः
ममैव तत्कर्मफलं विजृम्भते॥७॥

सिंहक्षुणकरीन्द्रकुम्भगलितं रक्ताक्तमुक्ताफलं
कान्तारे बदरीधिया द्रुतमगात्‌ भिल्लस्य पत्नीमुदा।
पाणीभ्यामवगुह्यशुक्लकठिनं तद्वीक्ष्यदूरे जहौ
अस्थाने पततामतीव महतामेतादृशो स्वाद्गतिः॥८॥

किं ते नम्रतया किमुन्नततया किं ते घनच्छायया
किं ते पल्लवलीलया किमनया चाशोक पुष्पश्रिया।

यत्त्वन्मूलनिषणखिन्नपथिकस्तोमः स्तुवन्नन्वयं
न स्वादूनि मृदूनि खादति फलान्युत्कण्ठमुत्कण्ठितम्॥९॥

दूरे मार्गान्निवससि पुनः कण्टकैरावृतोऽसि
छायाशून्यः फलमपि च ते वानरैरप्यभक्ष्यम्।
निर्गन्धस्त्वं मधुपरहितः शाल्मले! सारशून्यः
सेवास्माकं भवति विफला तिष्ठ निश्वस्य यामः॥१०॥

हंसा पद्मवनाशया मधुलिहः सौरभ्यलाभाशया
पान्थाःस्वादुफलाशया बलिभुजो गृध्राश्चमांसाशया।
दूरादुन्नतपुष्परागनिकरैर्निःसारमिथ्योन्नतै
रे रे शाल्मलिपादप! प्रतिदिनं के न त्वयावञ्चिताः॥११॥

किं तेन हेमगिरिणा रजताद्रिणा वा
यत्र स्थिता हि तरवस्तरवस्तएव।
वन्दामहे मलयमेव यदाश्रयेण
शाकोटनिम्बकुटजान्यपि चन्दनानि॥१२॥

निर्वाणदीपे किमु तैलदानं
चौरे गतेवा किमु सावधानम्।
वयोगते किं वनिताविलासः
पयोगते किंखलु सेतुबन्धः॥१३॥

शीतेऽतीते वसनमशनं वासरान्ते निशान्ते
क्रीड़ारम्भः कुवलयदृशां यौवनान्ते विवाहः।
सेतोर्बन्धः पयसि गलिते प्रस्थिते लग्नचिन्ता
सर्वञ्चैतद्भवति विफलं स्वस्वकाले व्यतीते॥१४॥

नवं वस्त्रं नवछत्रं नव्यां स्त्रूीनूतनं गृहम्।
सर्वत्र नूतनं शस्तं सेवकान्नेपुरातने॥१५॥

समायाति यदा लक्ष्मी र्नारिकेलफलाम्बुवत्।
विनिर्याति यदा लक्ष्मी र्गजभुक्तकपित्थवत्॥१६॥

इति श्रीमहाकविवेतालभट्टविरचितं
नीतिप्रदीपकाव्यं समाप्तम्।

————

नीतिसारम्।

————

गिरौकलापी गगने पयोदा
लक्षान्तरेऽर्कश्च जलेषु पद्माः।
इन्दुर्द्विलक्षंकुमदस्य बन्धु
र्यो यस्य मित्रं नहि तस्य दूरम्॥१॥

माता निन्दति नाभिनन्दति पिता भ्राता न सम्भाषते
भृत्यः कुप्यति नानुगच्छति सुतः कान्ता च नालिङ्गते।
अर्थप्रार्थनशङ्कया न कुरुतेऽप्यालापमात्रं सुहृत्
तस्मादर्थमुपार्जयस्व च सखे! ह्यर्थस्य सर्वे वशाः॥२॥

धनैर्निष्कुलीनाः कुलीनाः भवन्ति
धनैरापदं मानवा निस्तरन्ति।
धनेभ्यः परो बान्धवो नास्ति लोके
धनान्यर्जयध्वं धनान्यर्जयध्वम्॥३॥

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज! बद्धोऽस्म्यर्थेन कौरवैः॥४॥

त्रिविक्रमोऽभूदपि वामनोऽसौ
स शूकरश्चेति स वै नृसिंहः।
नीचैरनीचैरतिनीचनीचैः
सर्वेरुपायैः फलमेव साध्यम्॥५॥

चलच्चित्तं चलद्वित्तंचलज्जीवनयौवनम्।
चलाचलमिदं सर्वं कीर्तिर्य्यस्य स जीवति॥६॥

स जीवति यशो यस्य कीर्तिर्यस्य स जीवति।
अयशोऽकीर्तिसंयुक्तो जीवन्नपि मृतोपमः॥७॥

वृद्धस्य वचनं ग्राह्यमापत्काले ह्युपस्थिते।
सर्वत्रैवं विचारेण नाहारे न च मैथुने॥८॥

क्वचिद्रुष्टः क्वचित्तुष्टो रुष्टस्तुष्टः क्षणे क्षणे।
अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्कर॥९॥

निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य
कथं जनस्तं परितोषयिष्यति॥१०॥

शूकर उवाच।

दश व्याघ्रा जिताः पूर्वं सप्त सिंहास्त्रयो गजाः।
पश्यन्तु देवताः सर्वा अद्य युद्धं त्वया मया॥११॥

सिंह उवाच।

गच्छ शूकर! भद्रं ते ब्रूहि सिंहोमया जितः।
पण्डिता एव जानन्ति सिंहशूकरयोर्बलम्॥१२॥

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी
र्दैवेन देयमिति कापुरुषा वदन्ति।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्ध्यति कोऽत्रदोषः?॥१३॥

एका भार्य्या प्रकृतिमुखरा चञ्चला च द्वितीया
पुत्रस्त्वेको भुवनविजयीमन्मथो दुर्निवारः।
शेषः शय्या शयनमुदधौ वाहनं पन्नगारिः
स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः॥१४॥

अतिदूरपथश्रान्ताश्छायां यान्ति च शीतलाम्।
शीतलाश्च पुनर्यान्ति का कस्य परिदेवना॥१५॥

अपमानं पुरस्कृत्य मानं कृत्वा च पृष्ठके।
स्वकार्य्यमुद्धरेत् प्राज्ञः कार्य्यध्वंसे हि मूर्खता॥१६॥

एको हि दोषो गुणसन्निपाते।
निमज्जतीन्दोरिति यो बभाषे।
नूनं न दृष्टं कविनापि तेन।
दारिद्रदोषो गुणराशिनाशी॥१७॥

कृतस्य करणं नास्ति मृतस्य मरणं तथा।
गतस्य शोचनं नास्ति ह्येतद्वेदविदां मतम्॥१८॥

नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि।

कुशकण्टकविद्धोऽपि प्राप्तकालो न जीवति॥१९॥

निमग्नस्य पयोराशौ पर्वतात् पतितस्य च।
तक्षकेनापि दष्टस्य आयुर्मर्माणि रक्षति॥२०॥

करोतु नाम नीतिज्ञो व्यवसायमितस्ततः।
फलं पुनस्तदेव स्यात् यद्विधेर्मनसि स्थितम्॥२१॥

इति श्रीमहाकविघटकर्परविरचितं
नीतिसारं समाप्तम्।

————

धर्म्मविवेकः।

<MISSING_FIG href="../books_images/U-IMG-1729225326Screenshot2024-10-18095034.png"/>

————

श्रद्धावीजोविप्रवेदाम्बुसिक्तः
शाखा विद्यास्ताश्चतस्रो दशापि।
पुण्यान्यर्थाद्वेफले स्थूलसूक्ष्मे
मोक्षः कामोधर्मवृक्षोऽयमीड्यः॥१॥

यातः क्ष्मामखिलां प्रदाय हरये पातालमूलं बलिः
शक्तुप्रस्थविसर्जनात् स च मुनिः स्वर्गं समारोपितः।
आबाल्यादसती सतीसुरपुरींकुन्ती समारोहयत्
हा! सीता पतिदेवतागमदधोधर्मस्य सूक्ष्मा गतिः॥२॥

कानीनस्य मुनेः स्व-बान्धव-बधू-वैधव्य-विध्वंसिनो
नप्तारः खलु गोलकस्य तनयाः कुण्डाः स्वयं पाण्डवाः।
तेऽमीपञ्च समानयोनिरतयः तेषां गुणोत्कीर्त्तनात्
अक्षय्यं सुकृतं भवेदविकलं धर्मस्य सूक्ष्मा गतिः॥३॥

आहारे शुचिता ध्वनौमधुरता नीड़े पराधीनता
बन्धौनिर्ममता, वने रसिकता वाचालता माधवे।
यस्यैते गुणराशयः पिकवरं त्यत्क्वाकिमेते जना
वन्दन्ते खलु खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम्॥४॥

कान्तं वक्ति कपोतिकाकुलतया नाथान्तकालोऽधुना
व्याधोऽधो धृतचापशाणितशरः श्येनः परिभ्राम्यति।
इत्थंसत्यहिना स दष्ट इषुणा श्येनोऽपि तेनाहतः
तूर्णं तौतु यमालवम्प्रति गतौ दैवी विचित्रागतिः॥५॥

शुण्ठीगोखुरयोर्विचार्य्यमनसा कल्काशनं यन्मया
प्रोक्तं तद्विपरीतकं कृतमहोगोःखूरमात्रं ददौ।
नार्थो मूर्खजनालये न च सुखं नो वा यशो लभ्यते
सद्वैद्येकविभूपतौहरिहरे लाभः परं गोबधः॥६॥

पञ्चास्यस्य पराभवाय भषको मांसेन गोर्भूयसा
दध्यन्नैरपि पायसैः प्रतिदिनं सम्बर्द्धितो यो मया।
सोऽयं सिंहरवाद्गुहान्तरगमङ्गीत्याकुलः सम्भ्रमाद्
हन्ताशा विलयं गता इतविधेर्लाभः परं गोबधः॥७॥

पारीन्द्रस्य पराभवाय सुरभीमांसेन दुर्भेधसा
पुष्यन्तेकिल पीबराः कटुगिरः श्वानः प्रयत्नादमी।
नत्वेतन्मदमत्तवारणचमूविद्रावणः केशरी
जेतव्यो भवता किरातनृपते लाभः परं गोबधः॥८॥

एका भूरुभयोरैक्यमुभयोर्दलकाण्डयोः।
शालिश्यामाकयोर्भेदः फलेन परिचीयते॥९॥

जातःसूर्य्यकुले पिता दशरथःक्षौणीभुजामग्रणीः
सीता सत्यपरायणा प्रणयिणीयस्यानुजो लक्षणः।
दोर्दण्डेन समो नचास्ति भुवने प्रत्यक्षविष्णुः स्वयं
रामो येन विड़म्बितोऽपि विधिना चान्येपरे का कथा॥१०॥

एका भार्य्या प्रकृतिमुखरा चञ्चला च द्वितीया
पुत्रस्तेको भुवनविजयी मन्मथो दुर्निवारः।
शेषः शय्या शयनमुदधौ वाहनं पन्नगारिः
स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः॥११॥

असारे खलु संसारे सारं श्वशुरमन्दिरं।
हरो हिमालये शेते विष्णुः शेते महोदधौ॥१२॥

असारे खलु संसारे सारमेतच्चतुष्टयम्।
काश्यांवासः सतां सङ्गो गङ्गाम्भः शम्भुसेवनम्॥१३॥

आपदर्थं धनं रक्षेद्दारान् रक्षेद्धनैरपि।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥१४॥

चिन्ता ज्यरो मनुष्याणां वस्त्राणामातपो ज्वरः।
असौभाग्यं ज्वरः स्त्रीणामश्वानां मैथुनं ज्वरः॥१५॥

यदि कृष्णपदे चिन्ता भक्तिस्तत् पदपङ्कजे।
विषमे दुर्गमे वापि का चिन्ता मरणे रणे॥१६॥

देवे तीर्थे द्विजे मन्त्रे दैवज्ञेभेषजे गुरौ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी॥१७॥

न माता शपते पुत्रं न दोषं लभते मही।
न हिंसां कुरुते साधुर्नदेवः सृष्टिनाशकः॥१८॥

जल्पन्ति सूरयः सर्वे धर्मोरक्षति धार्मिकम्।
एतज्ज्ञातव्यमद्यैव किमत्रच भविष्यति॥१९॥

जयोऽस्तु पाण्डुपुत्राणां येषां पक्षे जनार्दनः।
यतः कृष्णस्ततो धर्मोयतो धर्मस्ततो जयः॥२०॥

इति श्रीमहाकविहलायुधविरचितं धर्म्मविवेककाव्यं
समाप्तम्।

————

वेदसारशिवस्तवः।

<MISSING_FIG href="../books_images/U-IMG-1729217649Screenshot2024-10-18074227.png"/>

पशूनां पतिं पापनाशं परेशं
गजेन्द्रस्य कृत्तिंवसानं वरेण्यम्।
जटाजूटमध्ये स्फुरद्गाङ्गवारि
महादेवमेकं स्मरामि स्मरारिम्॥१॥

महेशं सुरेशं सुरारातिनाशं,
विभुं विश्वनाथं विभूत्यङ्गभूषम्।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
सदानन्दमीड़े प्रभुं पञ्चवक्त्रम्॥२॥

गिरीशं गणेशं गले नीलवर्णं
गबेन्द्राधिरूढं गुणातीतरूपम्।
भवं भास्वरं भस्मना भूषिताङ्गं
भवानीकलत्रं भजे पञ्चवक्त्रम्॥३॥

शिवाकान्त! शम्भो! शशाङ्कार्द्धमौले!
महेशान! शूलिन्! जटाजूटधारिन्!।
त्वमेक्रो जगद्व्यापकोविश्वरूप!
प्रसीद प्रसीद प्रभो! पूर्णरूप!॥४॥

परात्मानमेकं जगद्वीजमाद्यं
निरीहं निराकारमोङ्कारवेद्यम्।
यतो जायते पाल्यते येन विश्वं
तमीशं भजे लीयते यत्र विश्वम्॥६॥

न भूमिर्न चापोन वह्निर्न वायु
र्न चाकाशमास्ते न तन्द्रा न निद्रा।
न ग्रीष्मों न शीतं न देशो न केशो
न यस्यास्ति मूर्तिस्त्रिमूर्तिंतमीड़े॥७॥

अजं शाश्वतं कारणं कारणानां
शिवं केवलं भासकं भासकानाम्।
तुरीयं तमः पारमाद्यन्तहीनं
प्रपद्ये परं पावनं द्वैतहीनम्॥७॥

नमस्ते नमस्ते विभो विस्वमूर्त्ते!
नमस्ते नमस्ते चिदानन्दमूर्त्ते!
नमस्ते नमस्ते तपोयोगगम्य!
नमस्ते नमस्ते श्रुतिज्ञानगम्य!॥८॥

प्रभो! शूलपाणे! विभो! विश्वनाथ!
महादेव! शम्भो! महेश! त्रिनेत्र!।

शिवाकान्त! शान्त! स्मरारे! पुरारे!
त्वदन्यो वरेण्यो न मान्यो न गण्यः॥९॥

शम्भो! महेश! करुणामय! शूलपाणे!
गौरीपते! पशुपते! पशुपाशनाशिन्!
काशीपते! करुणयाजगदेतदेक
स्त्वं हंसि पासि विदधासि महेश्वरोऽसि॥१०॥

त्वत्तो जगद्भवति देव! भव! स्मरारे!
त्वय्येव तिष्ठति जगन्मृड़! विश्वनाथ!।
त्वय्येव गच्छति लयं जगदेतदीश!
लिङ्गात्मके हर! चराचरविश्वरूपिन्!॥११॥

इति श्रीमद्भगवत् शङ्कराचार्य्यविरचितं वेदसार-
शिवस्तोत्रं सम्पूर्णम्।

————

पद्यसंग्रहः।

————

नत्वा तां परमेश्वरींशिवकरीं श्रीभारतीं भास्वतीं
गङ्गातीरनिवासिना सुकविना लोकोपकारार्थिना।
नानापण्डितवक्त्रनिर्गतवतां निर्मीयते केनचित्
पद्यानामिह संग्रहोऽमृतकथाप्रस्तावविस्तारिणाम्॥१॥

काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहु
र्दोषान्वेषणमेव मत्सरयुषां नैसर्गिको दुर्ग्रहः।

कासारेऽपि विकाशिपङ्कजचये खेलन्मराले पुनः
क्रौञ्चश्चञ्चुपुटेन कुञ्चितवपुः शम्बूकमन्वेषते॥२॥

अतिरमणीये काव्येऽपि पिशुनोदूषणमन्वेषयति।
अतिरमणीये वपुषि ब्रणमिव मक्षिकानिकरः॥३॥

कीर्त्तिस्वर्गतरङ्गिणीभिरभितो वैकुण्ठमाप्लावितं
क्षौणीनाथ! तव प्रतापतपनैः सन्तापितः क्षीरधिः।
इत्येवं दयितायुगेन हरिणा त्वं याचितः स्वाश्रयं
हृत्पद्मं हृदये श्रिये स्वभवनं कण्ठं गिरे दत्तवान्॥४॥

रवेःकवेः किं समरस्य सारं?
कृषेर्भयं किं किमदन्ति भृङ्गाः?।
सदा भयं चाप्यभयञ्च केषां?
भागीरथीतीरसमाश्रितानाम्॥५॥

वासः काञ्चनपिञ्जरे नृपकराम्भोजैस्तनूमार्जनं
भक्ष्यं स्वादुरसालदाड़िमफलं पेयं सुधाभं पयः।
पाठः संसदि रामनाम सततं धीरस्य कीरस्य मे
हाहा हन्त! तथापि जन्मविटपिक्रोड़ंमनो धावति॥६॥

उदयति यदि भानुः पश्चिमे दिग्विभागे
विकसति यदि पद्मं पर्वतानां शिखाग्रे।
प्रचलति यदि मेरुः शीततां याति वह्नि
र्न चलति खलु वाक्यं सज्जनानां कदाचित्॥७॥

निर्वाणदीपे किमुतैलदानं?
चौरे गते वा किमु सावधानम्?।

वयोगते किं वनिताविलासः?
पयोमते किं खलु सेतुबन्धः?॥८॥

वरमसिधारा तरुतलवासो
वरमिह भिक्षा वरमुपवासः।
वरमपि घोरे नरके पतनं
न च धनगर्बितबान्धवशरणम्॥९॥

कुग्रामवासः कुजनस्यसेवा
कुभोजनं क्रोधमुखी च भार्य्या।
मूर्खश्च पुत्रो विधवा च कन्या
विनाग्निना संदहते शरीरम्॥१०॥

वरं मौनं कार्य्यं न च वचनमुक्तं यदनृतं
वरं क्लैव्यंपुंसां न च परकलत्राभिगमनम्।
वरं भैक्ष्याशित्वं न च परधनास्वादनसुखं
वरं प्राणत्यागो न च पिशुनवादेष्वभिरतिः॥११॥

निःस्वोवष्टि शतं शतीदशशतं लक्षं सहस्राधिपः
लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेश्वरत्वं पुनः।
चक्रेशः पुनरिन्द्रतां सुरपति र्ब्राह्मं पदं वाञ्छति
ब्रह्मा विष्णुपदं हरिः शिवपदं त्वाशावधिं के गताः?॥१२॥

ख्यातः शक्रो भगाङ्गो विधुरपि मलिनोमाधवो गोपजातो
वेश्यापुत्रोवशिष्ठः सरुजपदयमः सर्वभक्ष्यो हुताशः।
व्यासो मत्स्योदरीयःसलवण उदधिः पाण्डवा जारजाता
रुद्रः प्रेतास्थिधारी त्रिभुवनवसतां कस्य दोषो न जातः॥१३॥

तुरगशतसहस्रं गो-गजानाञ्च लक्षं
कनकरजतपात्रं मेदिनींसागरान्ताम्।
विमलकुलबधूनां कोटिकन्याश्च दद्यात्
नहि नहि सममेतैरन्नदानं प्रधानम्॥१४॥

कालिदासकविता नवं वयःमाहिषं दधि सशर्करं पयः।
ऐनमांसमबला च कोमला सम्भवन्तु मम जन्मजन्मनि॥१५॥

नाक्षराणि पठता किमपाठि?
पाठितोऽपि किमु विस्मृत एव?।
इत्यमर्थिजनसंशयदोला
खेलनां खलु चकार नकारः॥१६॥

लक्ष्मणसेन उवाच।

शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकीस्वच्छता
किं ब्रूमः शुचितां! भवन्ति शुचयः स्पर्शेन यस्या परे।
किं चातः परमं तव स्तुतिपदं त्वं जीवनं जीविनां
त्वं चेन्नीचपथेन गच्छसि पयः! कस्त्वां निरोद्धुं क्षमः?॥१७॥

वल्लाल उवाच।

तापो नापगतस्तृषा न च कृशा धौता न धूलीतनो
र्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा।
दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा नवा पद्मिनी
प्रारब्धो मधुपैरकारणमहो! झङ्कारकोलाहलः॥१८॥

तत् पुत्त्रउवाच।

परीवादस्तथ्योभवति वितथो वापि महतान्
अतथ्यस्तथ्यो वा हरति महिमानं जनरवः।
तुलोत्तीर्णस्यापि प्रकटितहताशेषतमसो
रवेस्तादृक्तेजो नहि भवति कन्यां गतवतः॥१९॥

राजोवाच।

सुधांशोर्जातेयं कथमपि कलङ्कस्य कणिका
विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि।
स किं नात्रेः पुत्त्रो न किमु हरचूड़ार्चनमणि
र्न वा हन्ति ध्वान्तं जगदुपरि किं वा न वसति॥२०॥

इति श्रीकविभट्टकृतः पद्मसंग्रहः समाप्तः।

—————

महापद्यम्।

—————

अस्थिवद्दधिवच्चैव शंखवद्वकवत्तथा।
राजन्! तव यशो भाति पुनः सन्न्यासिदन्तवत्॥१॥

कालिदास इमं श्लोकं स्वकवित्वस्य गोपकम्।
लिखित्वा प्रददौ पत्रंकवये शङ्कराय वै॥२॥

पठित्वा शङ्करः श्लोकं प्रहसन् कौतुकायतत्।
पत्र करे समादाय सानन्दस्त्वरया तदा॥३॥

कालिदासेन सहितो भोजराजसभां ययौ।
अथ दृष्ट्वा स राजानमाशिषं प्रजगाद ह॥४॥

—————

राजन्! अभ्युदयोऽस्तु शङ्करकवे! किं पत्रिकायामिदं?
पद्यं–कस्य? तवैव कीर्त्तिरचना तत् पठ्यतां—पठ्यते।
किन्त्वासामरविन्दसुन्दरदृशां द्राक् चामरान्दोलना
दुद्वेल्लद्भुजवल्लिकङ्कणझणत्कारः क्षणं वार्यताम्॥५॥

महाराज! श्रीमन्! जगति यशसा ते धवलिते
पयः पारावारं परमपुरुषोऽयं मृगयते।
कपर्दी कैलाशं करिवरमथोयं कुलिशभृत्
कलानाथं राहुः कमलभवनोहं समधुना॥६॥

नीरक्षीरे गृहीत्वा सकलखगपतीन् यातिनालैकजन्मा
तक्रं धृत्वा कराब्जेसकलजलनिधीन् चक्रपाणिर्मुकुन्दः।
सर्वानुद्धृत्य शैलान्दहति पशुपतिर्भालनेत्रेण पश्यन्
व्याप्ता त्वत्कीर्त्तिकान्ता सकलवसुमतीं भोजराज! क्षितीन्द्र!॥७॥

श्रीमद्राजशिखामणे! तुलयितुं धाता त्वदीयं यशः
कैलाशञ्च निरीक्ष्यतत्र लघुतां तत्पूर्तये पर्यधात्।
उक्षाणं तदुपर्यमासहचरं तन्मूर्द्ध्रिगङ्गाझरं
तस्याग्रे फणिपुङ्गवं तदुपरि स्फारं सुधादीधितीम्॥८॥

अपायि मुनिना पुरा पुनरमायिमर्य्यादया
अतारि कपिना पुरा पुनरदाहि लङ्कारिणा।

अमन्थि मुरवैरिणा पुनरबन्धि लङ्कारिणा
क्व नाम वसुधापते! तव यशोऽम्बुधिः क्वाम्बुधिः॥९॥

स्वस्ति श्रीभोजराज त्रिभुवनविजयीधार्मिकः सत्यवादी
पित्रा ते मे गृहीता नव नवतियुता रत्नकोटिर्मदीया।
तां त्वं मे देहि शीघ्रं सकलबुधजनैर्ज्ञायते सत्यमेतत्
नो वा जानन्ति केचिन्नवकृतमितिचेद् देहि लक्षंततो मे॥१०॥

भागाः प्रत्युपकारकातरधिया वैमुख्यमाकर्णय
श्रीकर्णाटवसुन्धराधिपसुधासिक्तानि सूक्तानि मे।
वर्ण्यन्ते कति नाम नार्णवनदीभूगोलविन्ध्याटवी
झञ्झामारुतचन्द्रमप्रभृतयस्तेभ्यः किमाप्तं मया॥११॥

इति श्रीमहाकवि कालिदासकृतं महापद्यषट्कं
समाप्तम्।

—————

मुकुन्दमाला।

—————

वन्दे मुकुन्दमरविन्ददलायताक्षं
कुन्देन्दुशंखदशनं शिशुगोपवेशम्।
इन्द्रादिदेवगणवन्दितपादपीठं
वृन्दावनालयमहं वसुदेवसूनुम्॥१॥

श्रीवल्लभेति वरदेति दयापरेति
भक्तिप्रियेति भवलुण्ठनकोविदेति।

नाथेति नागशयनेति जगन्निवासे-
त्यालापिनं प्रतिदिनं कुरु मां मुकुन्द!॥२॥

जयतु जयतु देवो देवकीनन्दनोऽयं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः।
जयतु जयतु मेघश्यामलः कोमलाङ्गो
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः॥३॥

मुकुन्द! मूर्द्ध्राप्रणिपत्य याचे
भवन्तमेकान्तमियन्तमर्थम्।
अविस्मृतिस्त्वच्चरणारविन्दे
भवे भवे मेऽस्तु तव प्रसादात्॥४॥

श्रीगोविन्दपदाम्भोजमधुनो महदद्भुतम्।
यत्पायिनो न मुञ्चन्ति मुञ्चन्ति यदपायिनः॥५॥

नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः
कुम्भीपाकं गुरुमपि हरे! नारकं नापनेतुम्।
रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं
भावे भावे हृदयभवने भावयेऽहं भवन्तम्॥६॥

नास्था धर्मे न वसु-निचये नैव कामोपभोगे
यद्भाव्यं तद्भवतु भगवन्! पूर्व्वकर्मानुरूपम्।
एतत्प्रार्थ्यंमम बहुमतं जन्मजन्मान्तरेऽपि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु॥७॥

दिवि वा भुवि वा ममास्तु वासो
नरके वा नरकान्तक! प्रकामम्।

अवधीरितशारदारविन्दौ
चरणौ ते मरणेऽपि चिन्तयामि॥८॥

सरसिजनयने सशंखचक्रे
मुरभिदि मा विरमेह चित्त! रन्तुम्।
सुखतरमपरं न जातु जाने
हरिचरणस्मरणामृतेन तुल्यम्॥९॥

मा भैर्मन्दमनो विचिन्त्यबहुधा यामीश्चिरंयातना
नैवामी प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्वनारायणं
लोकस्य व्यसनापनोदकरणे दासस्य किं न क्षमः?॥१०॥

भवजलधिगतानां द्वन्द्ववाताहतानां
सुत-दुहितृ-कलत्रत्राणभारावृतानाम्।
विषमविषयतोये मज्जतामप्लवानां
भवति शरणमेको विष्णुपोतो नराणाम्॥११॥

रजसि निपतितानां मोहजालावृतानां
जननमरणदोलादुर्गसंसर्गकानाम्।
शरणमशरणानामेकएवातुराणां
कुशलपथनियुक्तश्चक्रपाणिर्नराणाम्॥१२॥

अपराधसहस्रसङ्कुलं पतितं भीमभवार्णवोदरे।
अगतिं शरणागतं हरे! कृपया केवलमात्मसात् कुरु॥१३॥

मा मे स्त्रीत्वं मा च मे स्यात् कुभावो
मा मूर्खत्वंमा कुदेशेषु जन्म।

मिथ्यादृष्टिर्मा च मे स्यात् कदाचित्
जातौजातौ विष्णुभक्तो भवेयम्॥१४॥

कायेन वाचा मनसेन्द्रियैश्च
वुद्ध्यात्मना वानुसृतिप्रमादात्।
करोमि यद्यत् सकलंपरस्मै
नारायणायैव समर्पयामि॥१५॥

यत् कृतं यत् करिष्यामि तत् सर्वं न मया कृतम्।
त्वया कृतन्तु फलभुक् त्वमेव मधुसूदन!॥१६॥

भवजलधिमगाधंदुस्तरं निस्तरेयं
कथमहमिति चेतो मा स्मगाः कातरत्वम्।
सरसिजदृशि देवे तावकीभक्तिरेका
नरकभिदि निषणा तारयिष्यत्यवश्यम्॥१७॥

तृष्णातोये मदनपवनोद्धुतमोहोर्मिमाले
दारावर्त्ते नयनसहजग्राहशङ्काकुले च।
संसाराख्ये महति जलधौ भज्जतांनस्त्रिधामन्
पादाम्भोजे वरद! भवतो भक्तिभावे प्रसीद॥१८॥

पृथ्वीरेणुरणुःपयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुः
तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रंसुसूक्ष्मं नभः।
क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा
दृष्टे यत्र सतारको विजयते श्रीपादधूलीकणः॥१९॥

आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्राव्रतान्यन्वहं
भेदच्छेदपदानि पूर्त्तविधयः सर्वं हुतं भस्मनि।

तीर्थानामवगाहनानि च गजस्नानं विना यत् पद-
द्वन्द्वान्भोरुहसंस्तुतिं विजयते देवः स नारायणः॥२०॥

आनन्द गोविन्द मुकुन्द राम
नारायणानन्त निरामयेति।
वक्तुं समर्थोऽपि न वक्ति कश्चिद्
अहो जनानां व्यसनानि मोक्षे॥२१॥

क्षीरसागरतरङ्गशीकरासारतारकितचारमूर्तये।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः॥२२॥

इति श्रीकुलशेखरेणराज्ञा विरचिता
मुकुन्दमालासमाप्ता।

—————

व्रजविहारः।

—————

गायन्तीनां गोपसीमन्तिनीनां
स्फीताकाङ्क्षामक्षिरोलम्बमालाम्।
निश्चाञ्चल्यामात्मवक्त्रारविन्दे
कुर्वन्नव्याद्देवकीनन्दनो वः॥१॥

सुपर्णस्वर्णाद्रौरचितमणिशृङ्गोजलधिजा
मुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः।
त्रिलोकीकस्तुरीतिलककमनीयो व्रजबधू-
विहारीश्रीकृष्णो दिशतु भवतां शर्म सततम्॥२॥

कस्त्वं बाल? वलानुजस्त्वमिह किं? मन्मन्दिराशङ्कया
बुद्धं तत् नवनीतकुम्भविवरे हस्तं कथं न्यस्यसि?
कर्त्तुं तत्र पिपीलिकापनयनं सुप्ताः किमुद्वोधिताः?
बाला वत्सगतिं विवेक्तुमिति संजल्पन् हरिः पातु वः॥३॥

जीर्णा तरिः सरिदतीवगभीरनीरा
बाला वयं सकलमित्थमनर्थहेतुः।
निस्तारवीजमिदमेव कृशोदरीणां
यन्माधवस्त्वमसि सम्प्रति कर्णधारः॥४॥

श्रीश्रीकृष्णो जयति जगतांजन्मदाता च पाता
हर्त्ता चान्ते हरति भजतां यश्चसंसारभीतिम्।
राधानाथः सजलजलदश्यामलः पीतवासा
बृन्दारण्ये विहरति सदा सच्चिदानन्दरूपः॥५॥

ज्योतीरूपं परमपुरुषं निर्गुणं नित्यमेकं
नित्यानन्दं निखिलजगतामीश्वरं विश्ववीजम्।
गोलोकेशं द्विभुजमुरलीधारिणं राधिकेशं
वन्दे वृन्दारकहरिहरब्रह्मवन्द्यांघ्रिपद्मम्॥६॥

येषां श्रीमद्यशोदासुतपदकमले
नास्ति भक्तिर्नराणां
येषामाभीरकन्याप्रियगुणकथने
नानुरक्ता रसज्ञा।
येषां श्रीकृष्णलीलाललितगुणकथा
सादरौ नैव कर्णौ

धिक् तान् धिक् तान् धिगेतान् कथयति नितरां
कीर्त्तनस्थो मृदङ्गः॥७॥

केचिद् वदन्ति धनहीनजनो जघन्यः,
केचिद्वदन्ति गुणहीनजनो जघन्यः।
व्यासो वदत्यखिलवेदविशेषविज्ञो
नारायणस्मरणहीनजनो जघन्यः॥८॥

वृन्दावने वृक्षलताप्रतानै
र्वृन्दावनेशस्य विहारहेतोः।
पुरा विधात्रा रचितान् सुकुञ्जान्,
जगाम कृष्णः सह राधया सः॥९॥

नवीनमेघोपमनीलदेहः,
सुपीतपट्टाम्बरयुग्मधारी।
स्मिताननः कुण्डलवान् किरीटी,
वंशीधरी मालतिमाल्यधारी॥१०॥

नवीननीलाम्बुदकान्तिमद्वपुः,
सस्मेरवक्त्राम्बुजवेणुवादनः।
अनेकरत्नाभरणैर्विभूषितः,
स सुन्दराङ्गो महसा महोज्ज्वलः॥११॥

गोपीजनानन्दकरोमुरारिः
वृन्दावनेन्द्रो वनमाल्यशोभी।
वंशीनिनादेन व्रजाङ्गनानां
मनांसि सम्भोहितवान् स कामी॥१२॥

नाशाय बालकगणान् सहि कंसराजः,
तां पूतनां मानुषराक्षसीञ्च।
संप्रेषयामास यदा तदा तां,
मायाशिशुःप्राणसमं शुशोष॥१३॥

जिघांसया समायान्तीं पूतनां राक्षसीवराम्।
क्रोड़े कृत्वा स्तन्यदात्रींजघान बालको हरिः॥१४॥

गोपीगणो तमिह कामदृशा भजन्ते,
यं भक्तिभाज इह केवलभक्तिभावैः।
यं योगिनो हृदि धिया परिचिन्तयन्ति,
तं केवलं कमललोचनमाश्रयेऽहम्॥१५॥

कृष्णे कारुण्यपूर्णे शशधरवदने पीतकौषेयवस्त्रे
रत्नालङ्कारभूषे सजलजलधरश्यामले सुन्दराङ्गे।
वंशीवाद्यप्रमोदे व्रजजनयुवतीजीवने यादवेन्द्रे
भूयाद्भक्तिर्दृढ़ामे सकलसुरवरैः सेव्यमाने मुरारौ॥१६॥

वृन्दारण्ये विहरति सदा वासुदेवो दयालु,
र्गोपस्त्रीभिः स्मरशरशतैभिन्नहृत्कामुकीभिः।
गोपैर्बालैरपि सहचरैः सार्द्धमानन्दयुक्तै,
र्योऽसौ कृष्णः परमकरुणस्तं सदा चिन्तयेऽहम्॥१७॥

वृन्दावनस्थानविहारहेतो,
राधासमं कुञ्जगृहप्रवेशम्।
चकार गोपीजनवल्लभोऽसौ,
पायादपायादपि मां मुरारिः॥१८॥

वने वने कुञ्जवने मुरारि
र्भ्रमन् भ्रमन् भ्राजति राधिका च।
सहैव कुञ्जे रमते च राधया,
पायादपायादिह कृष्ण एकः॥१९॥

अनन्त! विश्वम्भर! वासुदेव!
समस्तदेवैरपि वन्द्यपाद!
निरामय! त्राणपते ! मुरारे!
हरे! हराशेषमहाघसङ्घम्॥२०़॥

इति श्रीधरस्वामिना विरचितं व्रजविहारकाव्यं
समाप्तम्।

—————

अपराधभञ्जनस्तोत्रम।

—————

शान्तं पद्मासनस्थं शशधरमुकुटं पञ्चवक्त्रंत्रिनेत्रम्।
शूलं वज्रञ्च खड्गं परशुमपि वरं दक्षिणाङ्गेवहन्तम्।
नागं पाशञ्चघण्टां डमरुकसहितं चाङ्कशं वामभागे
नानालङ्कारदीप्तं स्फटिकमणिनिभं पार्व्वतीशंभजामि॥१॥

वन्दे देवमुमापतिं सुरगुरं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम्।
वन्दे सूर्य्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयञ्चवरदं वन्दे शिवं शङ्करम्॥२॥

आदौ कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौस्थितः सन्,
विन्मूत्रामेध्यमध्ये व्यथयति नितरां जाठरो जातवेदाः।
यद्यद्वातत्र दुःखं विषयति विषमं शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो!॥३॥

बाल्ये दुखातिरेको मललुलितवपुः स्तन्यपाने पिपासा,
नो शक्यं चेन्द्रियेभ्यो भवगुणजनिता जन्तवो मां तुदन्ति।
नानारोगोत्थदुःखादुदरपरिवशः शङ्करं न स्मरामि,
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो!॥४॥

प्रौढ़ोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ
दष्टो नष्टो विवेकः सुतधनयुवतीस्वादुसौख्ये निषणः।
शेषे चिन्ताविहीनं मम हृदयमहो! मानगर्बाधिरूढ़ं,
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो!॥५॥

बार्द्धक्ये चेन्द्रियाणां विगतगतमतेराधिदैवादितापैः
पापै रोगैर्वियोगैरसदृशवपुषं प्रौढ़हीनञ्च दीनम्।
मिय्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो!॥६॥

नो शक्यं स्मार्त्तकर्म प्रतिपदगहनं प्रत्यवायाकुलाख्यं
श्रौतेवार्त्ता कथंमे द्विजकुलविहिते ब्रह्ममार्गे च सारे।
नष्टो धर्मो विचारः श्रवणमननयोः को निदिध्यासितव्यः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो!॥७॥

स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतंगाङ्गतोयं
पूजार्थं वा कदाचिद् बहुतरुगहनात् खण्डविल्वैकपत्रम्।

नानीता पद्ममाला सरसि विकसिता गन्धपुष्पे त्वदर्थं
क्षन्तव्योमेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो!॥८॥

दुग्धैर्मध्वाज्ययुक्तैर्घटशतसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैःकनकविरचितैः पूजितं न प्रसूनैः।
धूपैः कपूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो!॥९॥

नग्नोनिःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
नासाग्रे न्यस्तदृष्टिर्विहरभवगुणैर्नैव दृष्टं कदाचित्।
उन्मन्तावस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि,
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो!॥१०॥

ध्यानं चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो,
हव्यं ते लक्षसंख्यं हुतबहवदने नार्पितं वीजमन्त्रैः।
नो जप्तं गाङ्गतीरे व्रतपरिचरणैरुद्रजप्यैर्नवेदैः,
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो!॥११॥

स्थित्वास्थाने सरोजे प्रणवमयमरुत् कुम्भके सूक्ष्ममार्गे,
शान्ते स्वान्ते प्रलीने प्रकटितगहने ज्योतिरूपे पराख्ये।
लिङ्गं त्वद्ब्रह्मवाच्यं सकलमभिमतं नैव दृष्टं कदाचित्,
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शम्भो!॥१२॥

आयुर्नश्यति पश्यतां प्रतिदिनं, याति क्षयं यौवनं,
प्रत्यायान्ति गताः पुनर्न दिवसाः, कालो जगद्भक्षकः।
लक्ष्मीस्तोयतरङ्गभङ्गचपला, विद्युत्-चलं जीवनं,
तस्मान्मां शरणागतं शरणद! त्वं रक्ष रक्षाधुना॥१३॥

चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूषितकण्ठकर्णविवरेनेत्रोत्थ-वैश्वानरे।
दन्तित्वक्स्वतिसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थंकुरु चित्तवृत्तिममलामन्यैस्तु किं कर्मभिः॥१४॥

किं दानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं?
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम्।
ज्ञात्वैतत् क्षणभङ्गुरं सपदि रे! त्याज्यं मनो दूरतः
स्वात्मार्थंगुरुवाक्यतो भज भज श्रीपार्व्वतीवल्लभम्॥१५॥

करचरणकृतं वा कायजं कर्मजं वा
श्रवणनयनज्ञं वा मानसं वापराधम्।
विदितमविदितं वा सर्व्वमेतत् क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो!॥१६॥

गात्रंभस्मसितं सितञ्च हसितं हस्ते कपालं सितं
खट्वाङ्गञ्च सितं सितश्चवृषभःकर्णे सिते कुण्डले।
गङ्गाफेनसितं जटापयसि तच्चन्द्रः सितो मूर्द्धनि
सोऽयं सर्वसितो ददातु विभवं पापक्षयं शङ्करः॥१७॥

इति श्रीपरमहंसपरिब्राजकाचार्य्य-श्रीशङ्कराचार्य्य-
भगवत्कृतमपराधभञ्जनस्तोत्रं समाप्तम्।

—————

शृङ्गारतिलकम्।

—————

बाहूद्वौच मृणालमास्यकमलं लावण्यलीला जलं
श्रोणी तीर्थशिला च नेत्रसफरं धम्मिल्लशैवालकम्।
कान्तायाःस्तनचक्रवाकयुगलं कन्दर्पवाणानलै-
र्दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम्॥१॥

आयाता मधुयामिनीयदि पुनर्नायात एव प्रभुः
प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये।
व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहुग्रहः
कन्दर्पे हरनेत्रदीधितिरियं प्राणेश्वरे मन्मथः॥२॥

इन्दीवरेण नयनं मुखमम्बुजेन
कुन्देन दन्तमधरं नवपल्लवेन।
अङ्गानि चम्पकदलैः स विधाय धाता
कान्ते! कथं घटितवानुपलेन चेतः॥३॥

एको हि खञ्जनवरो नलिनीदलस्थो
दृष्टः करोति चतुरङ्गबलाधिपत्यम्।
किं मे करिष्यति? भवद्वदनारविन्दे
जानामि नो नयनखञ्जनयुग्ममेतत्॥४॥

ये ये खञ्जनमेकमेव कमले पश्यन्ति दैवात् क्वचित्
ते सर्वे मनुजा भवन्ति सुतरां प्रख्यातभूमीभुजः।
त्वद्वक्राम्बुजनेत्रखञ्जनयुगं पश्यन्ति ये ये जना-
स्ते ते मन्मथवाणजालविकला मुग्धे! किमित्यद्भुतम्!॥५॥

झटिति प्रविश गेहं मा वहिस्तिष्ठ कान्ते!
ग्रहणसमयवेला वर्त्तते शीतरश्मेः।
अयि! सुविमलकान्तिं वीक्ष्यनूनं स राहु-
र्ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय॥६॥

कस्तूरीवरपत्रभङ्गनिकरो भ्रष्टो न गण्डस्थले
नो लुप्तं सखि! चन्दनं स्तनतटे धौतं न नेत्राञ्जनम्।
रागो न स्खलितस्तवाधरपुटे ताम्बूलसंवर्द्धितः
किं रुष्टासि गजेन्द्रमन्दगमने! किं वा शिशुस्ते पतिः?॥७॥

समायाते कान्ते कथमपि च कालेन बहुना
कथाभिर्देशानां सखि! रजनिरर्द्धंगतवती
ततो यावल्लोलाकलहकुपितास्मि प्रियतमे
सपत्नीव प्राची दिगियमभवत् तावदरुणा॥८॥

श्लाघ्यंनीरसकाष्ठताड़नशतं श्लाघ्यःप्रचण्डातपः
क्लेशः श्लाघ्यतरः सुपङ्कनिचयैः श्लाघ्योऽतिदाहोऽनलैः।
यत् कान्ताकुचपार्श्वबाहुलतिकाहिल्लोललीलासुखं
लब्धं कुम्भकर! त्वया; न हि सुखं दुःखैर्विना लभ्यते॥९॥

किं मे वक्त्रमुपेत्य चुम्बसि बलात् निर्लज्ज! लज्जा न ते
वस्त्रान्तं शठ! मुञ्चमुञ्च शपथैः किं धूर्त्त! निर्वञ्चसे।
क्षीणाहं तव रात्रिजागरवशात् तामेव याहि प्रियां
निर्माल्योज्झितपुष्पदामनिकरे का षट्पदानां रतिः॥१०॥

वाणिज्येन गतः स मे गृहपतिर्वार्त्तापि न श्रूयते
प्रातस्तज्जननी प्रसूततनया जामातृगेहं गता।

बालाहं नवयौवना निशि कथं स्थातव्यमस्मद्गृहे
सायं सम्प्रति वर्त्तते पथिक हे! स्थानान्तरं गम्यताम्॥११॥

यामिन्येषा बहुलजलदैर्वद्वभीमान्धकारा
निद्रां यातो मम पतिरसौ क्लेशितः कर्मदुःखी।
बाला चाहं मनसिजभयात् प्राप्तगाढ़प्रकम्पा
ग्रामश्चौरेरयमुपहतः पान्थ! निद्रां जहीहि॥१२॥

क्व भ्रातश्चलितोऽसि? वैद्यकगृहं, किं तत्र? शान्त्यै रुजां
किं ते नास्ति सखे! गृहे प्रियतमा सर्वं गदं हन्ति या?।
बातश्चेत् कुचकुम्भमर्दनवशात् पित्तञ्चवक्तामृतात्
श्लेष्माणं विनिहन्ति हन्त! सुरतव्यापारकेलिश्रमात्॥१३॥

दृष्टिं देहि पुनर्बाले! कमलायतलोचने!।
श्रूयते हि पुरा लोके विषस्य विषमौषधम्॥१४॥

अन्तर्गता मदनवह्निशिखावली या
सा वाधते किमिह चन्दनलेपनेन।
यत् कुम्भकारपलनोपरिपङ्कलेप-
स्तापाय केवलमसौ न तु तापशान्त्यै॥१५॥

दृष्ट्वा यासां नयनसुभगं वङ्गवाराङ्गनानां
देशत्यागः परमकृतिभिः कृष्णसारैरकारि।
तासामेव स्तनयुगजिता दन्तिनः सन्ति मत्ताः
प्रायो मूर्खः परिभवविधौ नाभिमानं तनोति॥१६॥

अपूर्बोदृश्यते वह्निः कामिन्याः स्तनमण्डले।
दूरतो दहते गात्रंहृदि लग्नस्तु शीतलः॥१७॥

कुसुमे कुसुमोत्पत्तिः श्रूयते न तु दृश्यते।
बाले तव मुखान्भोजे कथमिन्दीवरद्वयम्॥१७॥

अयि मन्मथचूतमञ्जरि! श्रवणायतचारुलोचने!
अपहृत्य मनः क्व यासि मे किमराजकमत्र राजते॥१९॥

कोपस्त्वया यदि कृतोमयि पङ्कजाक्षि!
सोऽस्तु प्रियस्तव किमत्र विधेयमन्यत्।
आश्लेषमर्पय मदर्पितपूर्व्वमुच्चै-
रुच्चैः समर्पय मदर्पितचुम्बनञ्च॥२०॥

इति श्रीकालिदासकृतं शृङ्गारतिलकं समाप्तम्।

—————

ऋतुसंहारः।

ग्रीष्मवर्णना।

प्रचण्डसूर्य्यःस्पृहणीयचन्द्रमाः
सदावगाहक्षमवारिसञ्चयः।
दिनान्तरम्योऽभ्युपशान्तमन्मथो
निदाघकालः समुपागतः प्रिये!॥१॥

निशाः शशाङ्कः क्षतनीरराजयः
क्वचिद्विचित्रं जलयन्त्रमन्दिरम्।
मणिप्रकाराः सरसञ्च चन्दनं,
शुचौ प्रिये! जान्ति जनस्य सेव्यताम्॥२॥

सुवासितं हर्म्यतलं मनोरमं,
प्रियामुखोच्छासविकल्पितं मधु।

सुतन्त्रिगीतं मदनस्य दीपनं,
शुचौ

निशीथेऽनुभवन्ति कामिनः॥३॥

नितम्बविम्बैः सुदुकूलमेखलैः
स्तनैः सहाराभरणैः सचन्दनैः।
शिरोरुहैः स्नानकषायवासितैः
स्त्रियो निदाघं शमयन्ति कामिनाम्॥४॥

नितान्तलाक्षारसरागलोहितै-
र्नितम्बिनीनां चरणैः सनूपुरैः।
पदे पदे हंसरुतानुकारिभि-
र्जनस्य चित्तं क्रियते समन्मथम्॥५॥

पयोधराश्चन्दनपङ्कशीतला-
स्तुपारगौरार्पितहारशेखराः।
नितम्बदेशाश्च सहेममेखलाः
प्रकुर्वते कस्य मनो न सोत्सुकम्॥६॥

समुद्गतस्वेदचिताङ्गसन्धयो,
विमुच्य वासांसि गुरूणि सांप्रतम्।
स्तनेषु तन्वंशुकमुन्नतस्तना
निवेशयन्ते प्रमदाः सयौवनाः॥७॥

सचन्दनाम्बुव्यजनोद्भवानिलैः
सहारयष्टिस्तनमण्डलार्पणैः।
सवल्लकी-काकलि-गीतनिस्वनैः
प्रबुध्यते सुप्त इवाद्य मन्मथः॥८॥

सितेषु हर्म्येषु निशासुयोषितां
सुखप्रसुप्तानि मुखानि चन्द्रमाः।
विलोक्य निर्यन्त्रणमुत्सुकश्चिरं
निशाक्षये याति ह्रियैव पाण्डुताम्॥९॥

असह्यवातोद्गतरेणुमण्डला
प्रचण्डसूर्य्यातपतापिता मही।
न शक्यते द्रष्टुमपि प्रवासिभिः
प्रियावियोगानलदग्धमानसैः॥१०॥

मृगाः प्रचण्डातपतापिता भृशं
तृषा महत्या परिशुष्कतालवः।
वनान्तरे तोयमिति प्रधाविता
निरीक्ष्य भिन्नाञ्जनसन्निभं नभः॥११॥

सविभ्रमैः सस्मितजिह्मवीक्षितै-
र्विलासवत्यो मनसि प्रवासिनाम्।
अनङ्गसन्दीपनमाशु कुर्वते
यथा प्रदोषाः शशिचारुभूषणाः॥१२॥

रवेर्मयूखैरभितापितो भृशं
विदह्यमानः पथि तप्तपांशुभिः।
अवाङ्मुखो जिह्मगतिः श्वसन् मुहुः
फणीमयूरस्य तले निषीदति॥१३॥

तृषा महत्या हतविक्रमोद्यमः
श्वसन् मुहुर्भूरि विदारिताननः।

न हन्त्यदूरेऽपि गजान् मृगाधिपो
विलोलजिह्वश्चलिताग्रकेशरः॥१४॥

विशुष्ककण्ठोद्गतशीकराम्भसो
गभस्तिभिर्भानुमतोऽभितापिताः।
प्रवृद्धतृष्णोपहता जलार्थिनो
न दन्तिनः केशरिणेाऽपि बिभ्यति॥१५॥

हुताग्निकल्पैः सवितुर्मरीचिभिः
कलापिनःक्लान्तशरीरचेतसः।
न भोगिनं घ्नन्ति समीपवर्त्तिनं
कलापचक्रेषु निवेशिताननम्॥१६॥

सुभद्रमुस्तं परिपाण्डुकर्द्दमं
सरः खनन्नायतपोत्रमण्डलैः।
प्रदीप्तभासा रविणाभितापितो
वराहयूथो विशतीव भूतलम्॥१७॥

विवस्वता तीव्रतरांशमालिना
सपङ्कतोयात् सरसोऽभितापितः।
उत्प्लुत्य भेकस्तृषितस्य भोगिनः
फणातपत्रस्य तले निषीदति॥१८॥

समुद्धृताशेषमृणालजालकं
विपन्नमीनं द्रतभीतसारसम्।
परस्परोत्पीड़नसंहतैर्गजैः
कृतं सरः सान्द्रविमर्द्दकर्द्दमम्॥१९॥

रविप्रभोद्भिन्नशिरोमणिप्रभो
विलोलजिह्वाद्वयलीढ़मारुतः।
विषाग्निसूर्य्यातपतापितः फणी
न हन्ति मण्डूककुलं तृषाकुलः॥२०॥

सफेणलालावृतवक्त्रसंपुटं
विनिर्गतालोहितजिह्वमुन्मुखम्।
तृषाकुलं निःसृतमद्रिगह्वराद्
गवेषमाणं महिषीकुलं जलम्॥२१॥

पटुतरवनदाहात् प्लुष्टशस्पप्ररोहाः
परुषपवनवेगात् क्षिप्तसंशुष्कपर्णाः।
दिनकरपरितापात् क्षीणतोयाः समन्ताद्
विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः॥२२॥

श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः
कपिकुलमुपयाति क्लान्तमद्रेर्निकञ्जम्।
भ्रमति गवययूथः सर्वतस्तोयमिच्छन्
शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात्॥२३॥

विकचनवकुसुम्भस्वच्छसिन्दरभासा
परुषपवनवेगोद्धूतवेगेन तूर्णम्।
तरुविटपलताग्रालिङ्गनव्याकुलेन
दिशि दिशि परिदग्धा भूमयः पावकेन॥२४॥

ध्वनति पवनविद्धः पर्वतानां दरीषु
स्फुटति पटुनिनादः शुष्कवंशस्थलीषु।

प्रसरति तृणमध्ये लब्धवृद्धिःक्षणेन
क्षपयति मृगयूथं प्रान्तलग्नोदवाग्निः॥२५॥

बहुतर इवजातः शाल्मलीनां वनेषु
स्फुटति कनकगौरः कोटरेषु द्रुमाणाम्।
परिणतदलशाखादुत्पतत्याशु वृक्षाद्
भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते॥२६॥

गजगवयमृगेन्द्रा वह्निसन्तप्तदेहाः
सुहृद इव समेता द्वन्द्वभावं विहाय।
हुतवहपरिखेदादाशु निर्गत्य कक्षाद्
विपुलपुलिनदेशात् निम्नगामाश्रयन्ते॥२७॥

कमलवनचिताम्बुः पाटलामोदरम्यः
सुखसलिलनिषेकः सेव्यचन्द्रांशुजालः।
व्रजतु तव निदाघः कामिनीभिः समेतो
निशि सुललितगीतैर्हर्म्यपृष्टेसुखेन॥२८॥

इति कालिदासकृतावृतुसंहारे काव्ये
ग्रीष्मवर्णना समाप्ता॥

————

वर्षावर्णना।

————

शशीकराम्भोधरमत्तकुञ्जर-
स्तड़ित्पताकोऽशनिशब्दमर्द्दनः।

समागतो राजवदुन्नतध्वनि
र्धनागमः कामिजनप्रियः प्रिये!॥१॥

नितान्तनीलोत्पलपत्रकान्तिभिः
क्वचित् प्रभिन्नाञ्जनराशिसन्निभः।
क्वचित् सगर्भप्रमदास्तनप्रभैः
समाचितं व्योम घनैः समन्ततः॥२॥

तृषाकुलैश्चातकपक्षिणां कुलैः
प्रयाचितास्तोयभरावलम्बिनः।
प्रयान्ति मन्दं नववारिवर्षिणो
बलाहकाः श्रोत्रमनोहरस्वनाः॥३॥

बलाहकाश्चाशनिशब्दभूषणाः
सुरेन्द्रचापं दधतस्तड़िद्गुणम्।
सुतीक्ष्णधारापतनोग्रसायका
स्तुदन्ति चेतो ध्वनिभिः प्रवासिनाम्॥४॥

प्रभिन्नवैदूर्य्यनिभैस्तृणाङ्कुरैः
समाचिता प्रोत्थितकन्दलीदलैः।
विभाति शुक्लेतररत्नभूषिता
वराङ्गनेव क्षितिरिन्द्रगोपकैः॥५॥

सदा मनोज्ञाम्बुदनादसोत्सुकं
विभाति विस्तीर्णकलापशोभितम्।
सविभ्रमालिङ्गनचुम्बनाकुलं
प्रवृत्तनृत्यं कुलमद्य वर्हिणाम्॥६॥

विपाटयन्त्यः पतितस्तटद्रुमान्
प्रवृद्धवेगैः सलिलैरनिर्मलैः।
स्त्रियः प्रकामा इव जातविभ्रमाः
प्रयान्ति नद्यस्त्वरितं पयोनिधिम्॥७॥

तृणोद्गमैरुद्गतकोमलाङ्कुरैश्चितानि नीलैर्हरिणीमुखक्षतैः।
वनानि रम्याणि हरन्ति मानसं विभूषितान्युद्गतपल्लवद्रुमैः॥८॥

विलोलनेत्रोत्पलशोभिताननैर्मृगः समन्तादुपजातसाध्वसैः।
समाचिता सैकतिनीवनस्थली समुत्सुकत्वं प्रकरोति चेतसः॥९॥

सुतीक्ष्णमुच्चैर्ध्वनतां पयोमुचां
घनान्धकारावृतशर्वरीष्वपि।
तड़ित्प्रभादर्शितमार्गभूमयः
प्रयान्ति रागादभिसारिकाः स्त्रियः॥१०॥

पयोधरैर्भीमगभीरनिस्वनै-
र्ध्वनद्भिरुद्वेजितचेतसो भृशम्।
कृतापराधानपि योषितः प्रियान्
परिष्वजन्ते शयने निरन्तरम्॥११॥

विलोचनेन्दीवरवारिविन्दुभि-
र्निषिक्तविम्बाधरचारुपल्लवाः।
निरस्तमाल्याभरणानुलेपनाः
स्थिता निराशाः प्रमदाः प्रवासिनाम्॥१२॥

विपाण्डवं कीटरजस्तृणान्वितं
भुजङ्गवद्वक्रगतिप्रसर्पितम्।

ससाध्वसैर्भेककुलैर्विलोकितं
प्रयाति निम्नाभिमुखं नवोदकम्॥१३॥

प्रफुल्लपत्रांनलिनीं समुत्सुकां
विहाय भृङ्गाः श्रुतिहारिनिस्वनाः।
पतन्ति मूढ़ाःशिखिनां प्रनृत्यतां
कलापचक्रेषु नवोत्पलाशया॥१४॥

वनद्विपानां नवतोयदस्वनै-
र्मदान्वितानां स्वनतां मुहुमुहुः।
कपोलदेशा विमलोत्पलप्रभाः
सभृङ्गयूथैर्मदवारिभिः श्रिताः॥१५॥

सतोयनम्राम्बुदचुम्बितोपलाः
समाचिताः प्रश्रवणैःसमन्ततः।
प्रवृत्तनृत्यैः शिखिभिः समाकुलाः
समुत्सुकत्वं जनयन्ति भूधराः॥१६॥

कदम्बसर्जार्जुननीपकेतकी-
र्विकम्पयंस्तत्कुसुमाधिवासितः।
सशीकराम्भोधरसङ्गशीतलः
समीरणः कं न करोति सोत्सुकम्॥१७॥

शिरोरुहैः श्रोणितटावलम्बिभिः
कृतावतंसैः कुसुमैः सुगन्धिभिः।
स्तनैः सुपीनैर्वदनैः सशीधुभिः
स्त्रियो रतिं सञ्जनयन्ति कामिनाम्॥१८॥

तड़िल्लताः शक्रधनुर्विभूषिताः
पयोधरास्तोयभरावलम्बिनः।
स्त्रियश्च काञ्चीमणिमेखलोज्ज्वला
हरन्ति चेतो युगपत् प्रवासिनाम्॥१९॥

मालाः कदम्बनवकेशरकेतकीभि
रायोजिताः शिरसि बिभ्रति योषितोऽद्य।
कर्णान्तरेषु ककुभद्रुममञ्जरीभिः
श्रोत्रानुकूलरचितानवतंसकांश्च॥२०॥

कालागुरुप्रचुरचन्दनचर्च्चिताङ्गाः
पुष्पावतंससुरभीकृतकेशपाशाः।
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
शय्यागृहं गुरुगृहात् प्रविशन्ति नार्य्यः॥२१॥

कुवलयदलनीलैरुन्नतस्तोयनम्रै
र्मृदुपवनविधूतैर्मन्दमन्द चलद्भिः।
अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः
पथिकजनबधूनां तद्वियोगक्षतानाम्॥२२॥

मुदित इव कदम्बैर्जातपुष्पैः समन्तात्
पवनचलितशाखैः शाखिभिर्नृत्यतीव।
हसितमिव विधत्ते सूचिभिः केतकीनां
नवसलिलनिषेकाच्छान्ततापो वनान्तः॥२३॥

शिरसि वकुलमालां मालतीभिः समेतां
विकसितवनपुष्पैयूथिकाकुद्मलैश्च।

विकचनवकदम्बैःकर्णपूरं बधूनां
रचयति जलदौघः कान्तवत् काल एषः॥२४॥

दधति कुचयुगाग्रैरुन्नतैर्हारयष्टिं
प्रतनुसितदुकूलान्यायतैःश्रोणिविम्बैः।
नवजलकणसेकादुद्गतां रोमराजीं
त्रिवलिवलिविभागैर्मध्यदेशैश्च नार्य्यः॥२५॥

नवजलकणसेकाच्छीततामादधानः
कुसुमभरनतानां नाशकः पादपानाम्।
जनितसुरभिगन्धः केतकीनां रजोभि
रपहरति नभस्वान् प्रोषितानां मनांसि॥२६॥

जलभरनमितानामाश्रयोऽस्माकमुच्चै-
रयमिति जलसेकैस्तोयदास्तोयनम्राः।
अतिशयपरुषाभिर्ग्रीष्मवह्नेःशिखाभिः
समुपजनिततापं ह्लादयन्तीव विन्ध्यम्॥२७॥

बहुगुणरमणीयो योषितां चित्तहारी
तरुविटपलतानां बान्धवो निर्विकारः।
जलदसमय एष प्राणिनां प्राणहेतु
र्दिशतु तव हितानि प्रायशो वाञ्छितानि॥२८॥

इति कालिदासकृतावृतुसंहारे वर्षावर्णना
समाप्ता।

शरद्वर्णना।

————

काशांशुकाविकचपद्ममनोज्ञवक्त्रा
सोन्मादहंसरुतनूपुरनादरम्या।
आपक्वशालिललितातनुगात्रयष्टिः
प्राप्ता शरन्नवबधूरिवरम्यरुपा॥१॥

काशैर्मही शिशिरदीधितिना रजन्यो
हंसैर्जलानि सरितां कुमुदैः सरांसि।
सप्तच्छदैः कुसुमभारनतैर्वनान्ताः
शुक्लीकृतान्युपवनानि च मालतीभिः॥२॥

चञ्चन्मनोज्ञसफरीरसनाकलापाः
पर्यन्तसंस्थितसिताण्डजपंक्तिहाराः।
नद्यो विशालपुलिनोरुनितम्बविम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य॥३॥

व्योम क्वचिद्रजतशंखमृणालगौरै
स्त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः।
उत्प्रेक्ष्यते पवनवेगचलैः पयोदै
राजेव चामरशतैरभिवीज्यमानः॥४॥

भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं
बन्धूकपुष्परजसारुणिताच भूमिः।
वप्राश्च पक्वकलमावृतभूमिभागा
उत्कण्ठयन्ति न मनो भूवि कस्य यूनः?॥५॥

मन्दानिलाकुलितचारुविशालशाखः
पुष्पोद्गमप्रचयकोमलपल्लवाग्रः।
मत्तद्विरेफपरिपीतमधुप्रसेक-
श्चित्तं विदारयति कस्य न कोविदारः?॥६॥

तारागणप्रचुरभूषणमुद्वहन्ती
मेघोपरोधपरिमुक्तशशाङ्कवक्त्रा।
ज्योत्स्नादुकूलममलं रजनी दधाना
वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला॥७॥

कारण्डवाननविघट्टितवीचिमालाः
कादम्बसारसकुलाकुलतीरदेशाः।
कुर्वन्ति हंसविरुतैःपरितो जनस्य
प्रीतिं सरोरुहरजोरुणिताश्च नद्यः॥८॥

नेत्रोत्सवो हृदयहारिमरीचिमालः
प्रह्लादकः शिशिरशीकरवारिवर्षी।
पत्युर्वियोगविषदिग्धशरक्षतानां
चन्द्रो दहत्यनुदिनं तनुमङ्गनानाम्॥९॥

आकम्पयन् फलभरानतशालिजालान्
आनर्त्तयन् कुरुवकान् कुसुमावनम्रान्।
प्रोत्पुल्लपङ्कजवनां नलिनीं विधुन्वन्
यूनां मनो मदयति प्रसभं नभस्वान्॥१०॥

सोन्मादहंसमिथुनैरुपशोभितानि
स्वच्छानि फुल्लकमलोत्पलभूषितानि।

मन्दप्रचारपवनोद्गतवीचिमाला-
न्यूत्कण्ठयन्ति हृदयं सहसा सरांसि॥११॥

नष्टं धनुर्बलभिदो जलदोदरेषु
सौदामिनी स्फुरति नाद्य वियत्पताका।
धुन्वन्ति पक्षपवनैर्न नभो बलाकाः
पश्यन्ति नोन्नतमुखा गगनं मयूराः॥१२॥

नृत्यप्रयोगरहितान् शिखिनो विहाय
हंसामुपैति मदनो मधुरप्रगीतान्।
त्यक्त्वाकदम्बकुटजार्जुनसर्जनीपान्
सप्तच्छदानुपगता कुसुमोद्गमश्रीः॥१३॥

शेफालिकाकुसुमगन्धमनोहराणि
स्वच्छस्थिताण्डजगणप्रतिनादितानि।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम्॥१४॥

कह्लारपद्मकुसुमानि मुहुर्विधुन्वन्
तत्सङ्गमादधिकशीतलतामुपेत्य।
सोत्कां करोति वनितां पवनः प्रभाते
पत्रान्तलग्नतुहिनानि हरंस्तरूणाम्॥१५॥

सम्पन्नशालिनिचयावृतभूतलानि
सुस्थस्थितप्रचुरगोकुलशोभितानि।
हंसैश्चसारसकुलैः प्रतिनादितानि
सीमान्तराणि जनयन्ति जनप्रमोदम्॥१६॥

हंसैर्जिता सुललिता गतिरङ्गनानां
अम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः।
नीलोत्पलैर्मदचलानि विलोचनानि
भ्रूविभ्रमाश्च सरितां तनुभिस्तरङ्गैः॥१७॥

श्यामा लताः कुसुमभारनतप्रबालाः
स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम्।
दन्तावभासविशदस्मितवक्त्रकान्तिं
बन्धूकपुष्परचिता नवमालतीच॥१८॥

केशान्रितान्तघननीलविकुञ्चिताग्रान्
आपूरयन्ति वनिता नवमालतीभिः।
कर्णेषु च प्रचलकाञ्चनकुण्डलेषु
नीलोत्पलानि विकचानि निवेशयन्ते॥१९॥

हारैः सचन्दनरसैः स्तनमण्डलानि
श्रोणीतटं सुविपुलं रसनाकलापैः।
पादाम्बुजानि वरनूपुरशेखरैचश्च
नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति॥२०॥

स्फटकुमुदचितानां राजहंसाश्रितानां
मरकतमणिभासा वारिणा भूषितानाम्।
श्रियमतिशयरूपां व्योमतोयाशयानां
वहति विगतमेघञ्चन्द्रतारावकीर्णम्॥२१॥

दिवसकरमयूखैर्वोव्यमानं प्रभाते
बरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य।

कुमुदमपि गतेऽस्तं लीयते चन्द्रविम्बे
हसितमिव बधूनां प्रोषितेषु प्रियेषु॥२२॥

शरदि कुमुदसङ्गाद्वायवोवान्ति शीता
विगतजलदवृन्दा दिग्विभागा मनोज्ञाः।
विगतकलुषमम्भः शालिपक्वाधरित्री
विमलकिरणचन्द्रं व्योम ताराविचित्रम्॥२३॥

असितनयनलक्षींलक्षयित्वोत्पलेषु
क्वणितकनककाञ्चींमत्तहंसस्वनेषु।
अधररुचिरशोभां बन्धुजीवे प्रियायाः
पथिकजन इदानीं रोदिति भ्रान्तचित्तः॥२४॥

स्त्रीणां निधाय वदनेषु शशाङ्कलक्ष्मीं
हास्ये विशुद्धवदने कुमुदाकरश्रीम्।
बन्धूककान्तिमधरेषु मनोहरेषु
क्वापि प्रयाति सुभगा शरदागमश्रीः॥२५॥

विकचकमलवक्त्राफुल्लनीलोत्पलाक्षी
कुसुमितनवकाशा व्याकुलालम्बिवासा।
कुमुदरुचिरहासा कामिनीवोन्मदेयं
उपदिशतु शरद्वश्चेतसः प्रीतिमग्राम्॥२६॥

इति कालिदासकृतावृतुसंहारे शरद्वर्णना
समाप्ता।

————

हेमन्तवर्णना।

————

नवप्रबालोद्गमपुष्परम्यः
प्रफुल्ललोध्रः परिपक्वशालिः।
बिलीनपद्मः प्रपतत्तुषारो
हेमन्तकालः समुपागतः प्रिये!॥१॥

मनोहरैचन्दनरागगौरै
स्तुषारकुन्देन्दुनिभैश्च हारैः।
विलासिनीनां स्तनशालिनीनां
नालंक्रियन्ते स्तनमण्डलानि॥२॥

न बाहुयुग्मेषु विलासिनीनां
प्रयान्ति सङ्गं वलयाङ्गदानि।
नितम्बविम्बेषु नवं दुकूलं
तन्वंशुकं पीनपयोधरेषु॥३॥

काञ्चीगुणैः काञ्चनरत्नचित्रे-
र्न भूषयन्ति प्रमदा नितम्बान्।
न नूपुरैर्हंसरुतं भजद्भिः
पादाम्बुजान्यम्बुजकान्तिभाञ्जि॥४॥

गात्राणि कालीयकचर्च्चितानि
सपत्रलेखानि मुखाम्बुजानि।
शिरांसि कालागुरुधूपितानि
कुर्वन्ति नार्य्यः सुरतोत्सवाय॥५॥

रतिश्रमक्षामविपाण्डुवक्त्राः
प्राप्तेऽपि हर्षाभ्युदये तरुण्यः।
हसन्ति नोच्चैर्दशनाग्रभिन्नान्
प्रभिन्नरागानधरानवेक्ष्य॥६॥

पीनस्तनोरुस्थलभागशोभाम्
आपाद्य तत्पीड़नजातखेदः।
तृणाग्रलग्नैस्तुहिनैः पतद्भि-
राक्रन्दतीवोषसि शीतकालः॥७॥

प्रभूतशालिप्रसवैश्चितानि
मृगाङ्गनायूथविभूषितानि।
मनोहरक्रौञ्चनिनादितानि
सीमान्तराण्युत्सुकयन्ति चेतः॥८॥

प्रफुल्लनीलोत्पलशोभितानि।
शरारिकादम्बविघट्टितानि।
प्रसन्नतोयानि सशैवलानि
सरांसि चेतांसि हरन्ति यूनाम्॥९॥

“मार्गं समीक्ष्यातिनिरस्तनीरं
प्रवासखिन्नंपतिमुद्वहन्त्यः।
प्रवेक्ष्यमाणा हरिणेक्षणाक्ष्यः
प्रबोधयन्तीव मनोरथानि॥१०॥”

पाकं व्रजन्तीहिमसङ्गशीतैः
राधूयमाना सततं मरुद्भिः।

प्रिये! प्रियङ्गुप्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव॥११॥

पुष्पासवामोदसुगन्धिवक्त्रो
निश्वासवातैः सुरभीकृताङ्गः।
परस्पराङ्गव्यतिसङ्गशायी
शेते जनः कामशरानुविद्धः॥१२॥

दन्तच्छदैर्दन्तविघातचिह्नैः
स्तनैश्च पाण्यग्रकृताभिलेखैः।
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयौवनानाम्॥१३॥

काचिद्विभूषयति दर्पणसक्तहस्ता
बालातपेषु वनिता वदनारविन्दम्।
दन्तच्छदं प्रियतमेन निपीतसारं
दन्ताग्रभिन्नमपकृष्य निरीक्षते च॥१४॥

अन्याः प्रकामसुरतश्रमखिन्नदेहा
नक्त्रं प्रजागरविपाटलनेत्रपद्माः।
शय्यान्तदेशलुलिताकुलकेशपाशाः
निद्रां प्रयान्ति मृदुसूर्य्यकराभितप्ताः॥१५॥

निर्माल्यदामपरिभुक्तमनोज्ञगन्धं
मूर्ध्नोपनीय घननीलशिरोरुहान्ताः।
पीनोन्नतस्तनभरानतगात्रयष्ट्यः
कुर्वन्ति केशरचनामपरास्तरुण्यः॥१६॥

अन्या प्रियेण परिभुक्तमवेद्य गात्रं
हर्षान्विताविरचिताधरगण्डशोभा।
रक्तांशुकं परिदधाति नवं नताङ्गी
व्यालम्बिनी विललितालककुचिताक्षी॥१७॥

अन्याच्चिरंसुरतकेलिपरिश्रमेण
खेदं गताः प्रशिथिलोद्यतगात्रयट्यः।
संपीच्यमानविपुलोरुपयोधरार्त्ता
अभ्यञ्जनं विद्धति प्रमदाः सुशोभाः॥१८॥

बहुगुणरमणीयो योषितां चित्तहारी
परिनतबहुबालिव्याकुलनामसीमः।
विनिपतिततुषारः क्रौशमादोपगोतः
प्रदिशतु हिमयुक्तः काल एष प्रियं वः॥१९॥

इति कालिदासकृतातसंहारे हेमन्तवर्णनासमाप्ता।

__________________________________

शिशिरवर्णना।

प्ररूढ़शालीक्षुचयावृतक्षितिं
सुस्थस्थितक्रौञ्चनिमादशोभितम्।
प्रकामकामं प्रमदाजनप्रियं
वरोरु! कालं शिशिराह्वयं शृणु॥१॥

निरुद्धवातायनमन्दिरोदरं
हुताशनो भानुमतो गभस्तयः।

गुरुंणि वासांस्यवलाः सयौवनाः
प्रयान्ति कालेऽद्य जनस्य सेव्यताम्॥२॥

न चन्दनंचन्द्रमरीचिशीतलं
न हर्म्यपृष्ठं शरदिन्दुनिर्मलम्।
न वायवः सान्द्रतुषारशीतला
जनस्य चित्तं रमयन्ति साम्प्रतम्॥३॥

तुषारसंघातनिपातशीतलाः
शशाङ्कभाभिः शिशिरीकृताः पुनः।
विपाण्डुतारागणचारुभूषणाः
जनस्य सेव्या न भवन्ति रात्रयः॥४॥

गृहीतताम्ब लविलेपनस्रजः
पुष्पासवामोदितवक्लपङ्कजाः।
प्रकामकालागुरुधूपवासितं
विशन्ति शय्याग्टहमुत्सुकाः स्त्रियः॥५॥

कृतापराधान् बहुशोऽभितर्जितान्
सवेपथून् साध्वसमन्दचेतसः।
निरीक्ष्य भर्तृन् सुरताभिलाषिणः
स्त्रियोऽपराधान् समदा विसस्मरुः॥६॥

प्रकामकामैर्युवभिः सुनिर्दयं
निशासु दीर्घास्वभिभाविताश्चिरम्।
भ्रमन्ति मन्दं श्रमखेदितोरवः
क्षपावसाने नवयौवनाः स्त्रियः॥७॥

पयोधरैः कुङ्कमरागपिञ्जरैः
सुखोपसेव्यैर्नवयौवनोत्सवः।
विलासिनीनां परिपीड़ितोरसः
स्वपन्ति शीतं परिभूय कामिनः॥८॥

मनोज्ञकुर्पासकपीड़ितस्तनाः
सरागकोशेयविभूषितोरवः।
निवेशितान्तःकुसुमैः शिरोरुहै
र्विभूषयन्तीव हिमागमं स्त्रियः॥९॥

सुगन्धिनिःश्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधनम्।
निशांसु हृष्टाः सह कामिभिः स्त्रियः
पिबन्ति मद्यं मदनीयमुत्तमम्॥१०॥

अपगतमदरागा योषिदेका प्रभाते
कृतविनतकुचाग्रा पत्युरालिङ्गनेन।
प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं
ब्रजति शयनवासाद्दासमन्यं हसन्ती॥११॥

अगुरुसुरभिधूपामोदितं केशपाशं
गलितकुसुममालं कुञ्चिताग्रं वहन्ती।
त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या
उषसि शयनवासं कामिनी कामशोभा॥१२॥

कनककमलकान्तैः सद्य एवाम्ब धीतैः
श्रवणतटनिषक्तैः पाटलोपान्त नेत्रैः।

उषसि वदनविम्बै रंगसंयुक्तकेशैः
श्रिय इव गृहमध्ये संखिता योषितोऽद्य॥१३॥

पृथुजघनभरार्त्ताः किञ्चिदानन्यमध्याः
स्तनभरपरिखेदामन्दमन्दं व्रजन्त्यः।
सुरतशयनवेषं नैशमन्यत् ग्रहाय
दधति दिवसयोग्यं वेषमेतास्तरुच्यः॥१४॥

नखषदल्लतभङ्गान् वीचमाणाः स्तनान्तान्
अधरकिसलयाग्रं दन्तभिन्नं सृशन्यः।
अभिमतरतवेशं नन्दयन्त्यस्तरुण्यः
सवितुरुदयकाले भूषयन्त्यादनानि॥१५॥

प्रचुरगुड़विकारस्वादुशालीत्तरम्यः
प्रवलसुरतकेलिर्जातकन्दर्पदर्पः।
प्रियजनरहितानां चित्तसन्तापहेतुः
शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम्॥१६॥

इति कालिदास्तासंहारे शिथिरवर्चना वर्षाप्ता।

—————————

वसन्तवर्णना।

—————————

प्रफुल्लचताङ्गरतीक्ष्णशायको
द्विरेफमालाविलसद्धनुर्गुणः।
मनांसि भेत्तं सुरतप्रसङ्गिनां
वसन्तयोधः समुपागतः प्रिये!॥१॥

द्रुमाः सपुष्पाः सलिलं सपनं
स्त्रियः सकामाः पवनः सुगन्धिः।
सुखाः प्रदोषा दिवसाच रम्याः
सर्वं प्रिये! चारुतरं वसन्ते॥२॥

ईषत्तुषारैः कृतशीतहर्म्यः
सुवासितं चारु शिरः सचम्पकैः।
कुर्वन्ति नार्योऽपि वसन्तकाले
स्तनं सहारं कुसुमैर्मनोहरैः॥३॥

वापीजलानां मणिमेखलानां.
शशाङ्कभासां प्रमदाजनानाम्।
चूतद्रुमाणं कुसुमानतानां
ददाति सौरभ्यमयं वसन्तः॥४॥

स्तनेषु हाराः सितचन्दनार्द्रा
भुजेषु कम्बू वलयाङ्गदानि।
प्रयान्ति निःशङ्कमनङ्गसौख्यं
नितम्बिनीनां जघनेषु काञ्चाः॥५॥

कुसुम्भरागारुणितैर्दुकूलै-
र्नितम्बविम्बानि विलासिनीनाम्।
तन्वंशुकैः कुङ्कुमरागगोरै-
रलंक्रियन्ते स्तनमण्डलानि॥६॥

कर्णेषु योग्यं नवकर्णिकारं
स्तनेषु हारा अलकेष्वशोकः।

उषसि वदनविम्बैरंससंयुक्तकेशैः

श्रिय इव गृहमध्ये संखिता योषितोऽद्य॥१३॥

पृथुजघनभरार्त्ताः किञ्चिदानम्नमध्याः

स्तनभरपरिखेदान्मन्दमन्दं व्रजन्त्यः।

सुरतशय़नवेषं नैशमन्यत् ग्रहाय
दधति दिवसयोग्यंवेषमेतास्तरुण्यः॥१४॥

नखपदकृतभङ्गान् वीक्षमाणाः स्तनान्तान्
अधरकिसलयाग्रं दन्तभिन्नं स्मृशन्त्यः।
अभिमतरतवेशं नन्दयन्त्यस्तरुण्यः
सवितुरुदयकाले भूषयन्त्याननानि॥१५॥

प्रचुरगुड़विकारखादुशालीक्षुरम्यः
प्रवलसुरतकेलिर्जातकन्दर्पदर्पः।
प्रियजनरहितानां चित्तसन्तापहेतुः
शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम्॥१६॥

इति कालिदासकृतावेणी संहारे शिशिरवर्णना समाप्ता।

——————

वसन्तवर्णना।

——————

प्रफुल्लचूताङ्गरतीक्ष्णशायको
द्विरेफम्रालाविलसद्धनुर्गुणः।
मनांसि भेत्तं सुरतप्रसङ्गिनां
वसन्तयोधः समुपागतः प्रिये!॥१॥

द्रुमाः सपुष्पाः सलिलं सपद्मं
स्त्रियः सकामाः पवनः सुगन्धिः।
सुखाः प्रदोषा दिवसाश्च रम्याः
सर्वं प्रिये ! चारुतरं वसन्ते॥२॥

ईषत्तुषारैः कृतशीतहर्म्यः
सुवासितं चारु शिरः सचम्पकैः।
कुर्वन्ति नार्योऽपि वसन्तकाले
स्तनं सहारं कुसुमैर्मनोहरैः॥३॥

वापीजलानां मणिमेखलानां.
शशाङ्कभासां प्रमदाजनानाम्।
चूतद्रुमाणां कुसुमानतानां
ददाति सौरभ्यमयं वसन्तः॥४॥

स्तनेषु हाराः सितचन्दनार्द्रा
भुजेषु कम्बूवलयाङ्गदानि।
प्रयान्ति निःशङ्कमनङ्गसौख्यं
नितम्बिनीनां जघनेषु काञ्च्यः॥५॥

कुसुम्भरागारुणितैर्दुकूलै-
नितम्बविम्बानि विलासिनीनाम्।
तन्वंशुकैः कुङ्कुमरागगोरै-
रलंक्रियन्ते स्तनमण्डलानि॥६॥

कर्णेषु योग्यं नवकर्णिकारं
स्तनेषु हारा अलकेष्वशोकः।

शिखासु माला नवमल्लिकायाः
प्रयान्ति शोभां प्रमदानजस्य॥७॥

सपत्रलेखेषु विलासिनीनां
वक्त्रेषु हेमाम्बु रुहोपमेषु।
स्तनान्तरे मौक्तिकसङ्गजातः
स्वेदोद्गमो विस्तरतामुपैति॥८॥

उच्छ्र्वासयन्त्यः श्लथबन्धनानि
गात्राणि कन्दर्पसमाकुलानि।
समीपवर्त्तिष्वपि कामुकेषु
समुत्सु का एव भवन्ति नार्य्यः॥९॥

तनूनि पाण्डूनि मदालसानि
मुहुर्मुहुर्जूम्भनतत्पराणि।
अङ्गान्यनङ्गः प्रमदाजनस्य
करोति लावण्यरसोत्सु कानि॥१०॥

नेत्रेष्वलोलो मदिरालसेषु
गण्डेषु पाण्डुः कठिनः स्तनेषु।
मध्येषु नम्रो जघनेषु पीनः
स्त्रीणामनङ्गो बहुधा स्थितोऽद्य॥११॥

अङ्गानि निद्रालसविह्वलानि
वाक्यानि किञ्चिन्मदिरालसानि।
भ्रूक्षेपजिह्मानि च वीक्षितानि
चकार कामः प्रमदाजनानाम्॥१२॥

प्रियङ्गकालीयककुङ्गमानि
स्तनाङ्गरागेषु विसर्जितानि।
आलिप्यते चन्दनमङ्गनाभि-
र्मदालसाभिर्मृगनाभियुक्तम्॥१३॥

गुरूणि वासांसि विहाय तूर्णं
तनूनि लाक्षारसरञ्जितानि।
सुगन्धिकालागुरुधूपितानि
धत्ते जनः कामशरानुविद्धः॥१४॥

पुंस्कोकिलश्चूतरसेन मत्तः
प्रियामुखं चुम्बति सादरोऽयम्।
गुञ्जन् द्विरेफोऽप्ययमम्बुजस्थः
क्षिप्रं प्रियायाः प्रकरोति चाटुम्॥१५॥

ताम्रप्रबालस्तवकावनम्रा-
श्चुतद्रुमाः पुष्पितचारुशाखाः।
कुर्वन्ति कान्ते ! पवनावधूताः
समुत्सुकम्मानसमङ्गनानाम्॥१६॥

आमूलतो विद्रुमरागताम्नाः
सपल्लवं पुष्पचयं दधानाः।
कुर्वन्त्यशोका हृदयं सशोकं
निरोक्ष्यमाणा नवयौवनानाम्॥१७॥

मत्तद्विरेफपरिचुम्बितचारुपुष्पा
मन्दानिलाकुलितचारुमृदुप्रबालाः।

कुर्वन्ति कामिमनसां सहसोत्सुकत्वं
बालातिमुक्तलतिकाः समवेक्ष्यमाणाः॥१८॥

कान्ताननद्युतिमुषामचिरोद्गतानां
शोभां परां कुरुवकद्रुममञ्जरीणाम्।
दृष्ट्वा प्रिये ! हि पथिकस्य भवेन्न कस्य
कन्दर्पवाणनिकरैर्व्यथितं हि चेतः?॥१९॥

आदीप्तवह्निसदृशैर्मरुतावधूतैः
सर्वत्र किंशुकवनैः कुसुमावनम्रैः।
सद्यो वसन्तसमये समुपागते हि
रक्तांशुका नवबधूरिव भाति भूमिः॥२०॥

किं किंशुकैः शुकमुखच्छविभि नं दग्धं?
किं कर्णिकारकुसुमैर्न हृतं मनोज्ञैः?।
यत्कोकिलाः पुनरमी मधुरैर्वचोभि-
र्यूनां मनः सुवदने! नियतं हरन्ति॥२१॥

पुंस्कोकिलैः फलरसैः समुपात्तहर्षैः
कूजद्भिरुम्मदकराणि वचांसि धीरम्।
लज्जान्वितं सविनयं हृदयं क्षणेन
मर्य्याकुलं कुलग्टहेऽपि कृतं बधूनाम्॥२२॥

आकम्पयन् कुसुमिताः सहकारशाखा
विस्तारयन् परभृतस्य वचांसि दिक्षु।
वायुर्विवाति हृदयानि हरन् बधनां
नीहारपातविगमात् सुभगो वसन्ते॥२३॥

कुन्दैःसविभ्भ्रमबधूहसितावदातै-
रुद्योतितान्युपवनानि मनोहराणि।
चित्तं मुनेरपि हरन्ति निहत्तरागं
प्रायेण रागचलितानि मनांसि पुंसाम्॥२४॥

प्रालम्बिहेमरसनाः स्तनसक्ताहाराः
कन्दर्पदर्पशिथिलीकृतगात्रयछ्यः।
मासे मधौ मधुरकोकिलभृङ्गनादैः
रामा हरन्ति हृदयं प्रसभं नराणाम्॥२५॥

नानामनोज्ञकुसुमद्रुमभूषिताग्रान्
हृष्टान्यपुष्टनिनदाकुलसानुदेशान्।
शैलेयजालपरिणद्वशिलागुहान्तान्
दृष्ट्वा जनः क्षितिभृतो मुदमेति सर्वः॥२६॥

नेत्रे निमीलयति रोदिति याति मोहं
घ्राणं करेण विरुणधि विरोति चोञ्चैः।
कान्तावियोगपरिखेदितचित्तवृत्ति-
दृष्ट्वाध्वगः कुसुमितान् सहकारवृक्षान्॥२७॥

समदमधुकराणां कोकिलानाञ्च नादैः
कुसुमितसहकारैः कर्णिकारैञ्च रम्यै :
इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां
तुदति कुसुमवाणी मन्मथोद्दीपनाय॥२८॥

रुचिरकनककान्तीन् मुञ्चतः पुष्पराशीन्
मृदुपवनविधूतान् पुष्पितांश्चुतवृक्षान्।

अभिमुखमभिवीक्ष्य क्षामदेहोऽपि मार्गे
मदनशरनिधातैर्मोहमेति प्रवासी॥२९॥

परभृतकलगीतैर्द्धादिभिः सहचांसि
स्मितदशनमयूखान् कुन्दपुष्पप्रभाभिः।
करकिसलयकान्तिं पल्लवैर्विद्रुमाभै-
रुपहसति वसन्तः कामिनीनामिदानीम्॥३०॥

कनककमलकान्तैराननैः पाण्डुगण्डै-
रुपरिनिहितहारैश्चन्दनार्द्रैः स्तनान्तैः।
मदजनितविलासैर्दृष्टिपातैर्मुनीन्द्रान्
स्तनभरनतनार्य्य कामयन्ति प्रशान्तान्॥३१॥

मधुसुरभिमुखाजं लोचने लोधताम्रे
नवकुरुवकपूर्णः केशपाशोमनोज्ञः।
गुरुतरकुचयुग्मंश्रोणिविम्बं तथैव
न भवति किमिदानीं योषितां मन्मथाय॥३२॥

आकम्पितानि हृदयानि मनस्विनीनां
वातैः प्रफुल्ल सहकारकृताधिवासैः।
सम्बाधितं परभृतस्य मदाकुलस्य
श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः॥३३॥

रम्यः प्रदोषसमयः स्फुटचन्द्रभासः
पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः।
‘मत्तालियथविरुतं निशि शीधुपानं
‘सर्वं रसायनमिदं कुसुमायुधस्य॥३४॥

छायां जनः समभिवाञ्छति पादपानां
नक्तं तथेच्छति पुनः किरणं सुधांशोः।
हर्म्य प्रयाति शयितुं सुखशीतलञ्च
कान्ताञ्च गाढ़मुपमूहति शीतलत्वात्॥३५॥

मलयपवनविद्धः कोकिलेनाभिरम्यः
सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः।
विविधमधुपयूथैर्वेष्ट्यमानः समन्ताद्
भवतु तव वसन्तः श्रेष्ठकालः सुखाय॥३६॥

इति श्रीकासिदासकृतादृतसंहारकाले वसन्तवर्णनासमाप्ता।

_____________________

मेघदूतम्।

———-

कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
शापेनास्तङ्गमितमहिमा वर्षभोग्येन भर्तुः।
यक्षश्चक्र जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥१॥

तस्मिन्रद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकबलयभ्रंशरिक्तप्रकोष्ठः।
आषाढ़स्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रोड़ापरिणतगजप्रेक्षणीयं ददर्श॥२॥

तस्य स्थित्वा कथमपि पुरः केतकाधानहेतो-
रन्तर्वाष्पश्चिरमनुचरो राजराजस्य दध्यौ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेशप्रणयिनि जने किं पुनर्दूरसंस्थे॥३॥

प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी
जीमूतेन स्वकुशलयमयींहारयिष्यन् प्रवृत्तिम्।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रौतिप्रमुखवचनं स्वागतं व्याजहार॥४॥

धूमज्योतिः सलिलमरुतां सनिपातः क्व मेघः
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः।
इत्योत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु॥५॥

जातं वंशे भुवनविदिते पुष्करावर्त्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा॥६॥

सन्तप्तानां त्वमसि शरणं तत् पयोद ! प्रियायाः
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
वाह्योद्यानस्थितहरशिरचन्द्रिकाधौतहर्म्या॥७॥

त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः।

कः सन्नधे विरहविधुरां त्वय्युपेक्षेत जायां
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥८॥

मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं नदति मधुरं चातकस्ते सगर्वः।
गर्भाधानक्षणपरिचयान्नूनमाबद्दमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः॥९॥

ताञ्चावश्यं दिवसगणनातत्परामेकपत्नी
मव्यापन्नामविहतगतिद्रक्षसि भ्रातृजायाम्।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि॥१०॥

कर्त्तुंयञ्च प्रभवति महीमुच्छिलोन्ध्रातपत्रां
तत् श्रुत्वा ते श्रवणसुभगं गर्ज्जितं मानसोत्काः।
आकैलासाद्दिसकिसलयच्छेदपाथेयवन्तः
सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः॥११॥

आपृच्छस्व प्रियसखममुंतुङ्गमालिङ्गय शैलं
वन्द्यैः पुंसां रघुपतिपदैरङ्गितं मेखलासु।
काले काले भवति भवतो यस्य संयोगमेत्य
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम्॥१२॥

मार्गं तावत् शृणु कथयतस्त्वत्प्रयाणानुरूपं
सन्देशं मे तदनु जलद! श्रोष्यसि श्रोत्रपेयम्।
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपयुज्य॥१३॥

अद्रेः शृङ्गं हरति प्रवमः किंस्विदित्युम्मुखीमि-
र्दृष्टीच्छ्रायश्चिकितचकितं मुग्धसिद्धाङ्गनाभिः।
स्थानादस्मात् सरसनिचुलादुत्पतोदमुखः खं
दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान्॥१४॥

रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्तात्
वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्डलस्म।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
वर्हेणेव स्फुरितरुचिना गोपवेशस्य विष्णोः॥१५॥

त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रीतिस्निग्धैर्जनपदबधूलोचनैः पीयमानः।
सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं
किञ्चित् पश्चात् व्रज लघुगतिः किञ्चिदेवोत्तरेण॥१६॥

अध्वक्लान्तं प्रतिमुखगतं सानुमांश्चित्रकूट-
स्तुङ्गेन त्वां जलद ! शिरसा वक्ष्यति श्लाघमानः।
आसारेण त्वमपि शमयेस्तस्य नैदाघमग्निं
सद्भावार्द्रःफलति न चिरेणोपकारो महत्सु॥१७॥

त्वामासारप्रशमितवनोपप्लवं साधु मूर्द्ध्वा
वीक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्म्रकूटः।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः॥१८॥

छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै-
स्वय्वारूढ़े शिखरमचलः स्निग्धवेणीसवर्णे।

नूनं यास्यत्वमरमिथुनग्रेक्षेणीयामवस्यां
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः॥१९॥

स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्त्तं
तोयोत्सर्गाद् द्रुततंरगतिस्तत्परं वर्त्म तीर्स्मः।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य॥२०॥

तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तदृष्टि-
र्जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः।
अन्तःसारं धन ! तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय॥२१॥

नीपं दृष्ट्वा हरितकपिशं केशरैरर्द्धरूढ़ै -
राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम्।
दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्ष्याः
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम्॥२२॥

अम्भोविन्दुग्रहणचतुरांश्चातकान् वीक्ष्यमाणाः
श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः।
त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः
सोत्कम्पानि प्रियसहचरीसम्भ्रमालिङ्गितानि॥२३॥

उत्पश्यामि द्रुतमपि सखे ! मत्प्रियार्थं यियासोः
कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते।
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः
प्रत्युव्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत्॥२४॥

पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नै-
र्नीड़ारम्भे गृहबलिभुजामाकुलग्रामचैत्याः।
त्वय्यासन्ने फलपरिणतिश्यामजम्बूवनान्ताः
सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः॥२५॥

तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं
गत्वा सद्यः फलमतिमहत् कामुकत्वस्य लब्ध्वा।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादुयुक्तं
सम्भ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्म्मि॥२६॥

नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो-
स्त्वत्सम्पर्कात् पुलकितमिव प्रौढ़पुष्पैः कदम्बैः।
यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा-
मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि॥२७॥

विश्रान्तः सन् ब्रज नगनदीतीरजातानि सिञ्चन्
उद्यानानां नवजलकणैर्यूथिकाजालकानि।
गण्डस्वेदापनयनरुजा क्लान्तकर्णोत्पलानां
छायादानक्षणपरिचितः पुष्पलावीमुखानाम्॥२८॥

वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः।
विद्युद्दामस्फुरणचकितैस्तत्र पौराङ्गनानां
लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि॥२९॥

वौचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्त्वलितसुगगं दर्शितावर्त्तनाभेः।

निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु॥३०॥

वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः
पाण्डुच्छाया तटरुहतरुभ्रंशिभिः शीर्णपर्णैः।
सौभाग्यं ते सुभग ! विरहावस्थया व्यञ्जयन्ती
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः॥३१॥

प्राप्यावन्तीमुदयनकथाकोविदग्रामवृद्धान्
पूर्व्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम्।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
शेषैः पुण्यैर्ह तमिव दिवः कान्तिमत् खण्डमेकम्॥३२॥

दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः॥३३॥

जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-
र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः।
हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखिन्नान्तरात्मा
त्यक्ता खेदं ललितवनितापादरागाङ्गितेषु॥३४॥

भर्त्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः
पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य।
धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-
स्तोयक्रीड़ाविरतयुवतिस्रानतिक्तैर्मरुद्भिः॥३५॥

अप्यन्यस्मिन् जलधर! महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदभ्येति भानुः।
कुर्वन् सन्ध्यावलिपठहतां शूलिनः श्लाघनीया-
मामन्द्राणां फलमविकलं लप्स्यसे गर्ज्जतानाम्॥३६॥

पादन्यासैःक्वस्मितरसनास्तत्र लीलावधूतै-
रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः।
वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रविन्दून्
आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्॥३७॥

पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यंतेजः प्रतिनवजवापुष्परक्तं दधानः।
नृत्यारम्भे हर पशुपतेरार्ढ्रानागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्याः॥३८॥

गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोकेनरपतिपथे सूचिभेद्यैस्तमोभिः।
सौदामिन्या कनकनिकषच्छायया दर्शयोर्वीं
तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विल्कवास्ताः॥३९॥

तां कस्याञ्चिङ्गवनवलभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलन्नः।
दृष्टे सूर्य्ये पुनरपि भवान् वाहयेदध्वज्ञेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थवृत्याः॥४०॥

तस्मिन् काले नयनसलिलं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु।

प्रालेयास्रं कमलवदनात् सोऽपि हर्त्तुंनलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः॥४१॥

गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम्।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्य्यात्
मोघीकर्त्तुं चटुलसफरोद्वर्त्तनप्रेक्षिशितानि॥४२॥

तस्याः किञ्चित् करधृतमिव प्राप्तवानीरशाखं
हत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम्।
प्रस्थानं ते कथमपि सखे ! लम्बमानस्य भावि

ज्ञातास्वादः पुलिनजघनां को विहातं समर्थः॥४३॥

त्वन्निष्यन्दोच्छसितवसुधागन्धसम्पर्कपुण्यः
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः।
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते
शीतो वायुः परिणमयिता काननोदुम्बराणाम्॥४४॥

तत्र स्कन्दं नियतवसतिं पुष्पमेधीकृतात्मा
पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूनाम्
अत्यादित्यं हुतवृहुमुखे सम्भृतं तद्धि तेजः॥४५॥

ज्योतिर्लेखाबलयि गलितं यस्य बर्हं भवानी
पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति।
धौतापाङ्गं हरशशिरुचाप्याययेस्तं मयूरं
पश्चादद्रिग्रहणगुरुभिर्गर्ज्जितैर्नर्त्तयेथाः॥४६॥

आराध्यैनं शरवणभवं देवमुल्लङ्गिताध्वा
सिद्धद्वन्द्वैर्जलकणभयाद् वीणिभिर्दत्तमार्गः।
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्त्तिम्॥४७॥

त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम्।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी-
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्॥४८॥

तामुत्तीर्य्य व्रज परिचितभ्रूलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम्।
कुन्दक्षेपानुगमधुकरश्रीयुषामात्मबिम्बं
पात्रीकुर्वन् दशपुरबधूनेत्रकौतूहलानाम्॥४९॥

ब्रह्मावर्त्तं जनपदमधश्छायया गाहमानः
क्षेत्रं क्षत्त्रप्रधनपिशुनं कौरवं तद्भजेथाः।
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यषिञ्चन् मुखानि॥५०॥

हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे।
कृत्वा तासामभिगममपां सौम्य ! सारस्वतीनाम्
अन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः॥५१॥

तस्मादु गच्छेरनुकनखलं शैलराजावतीणां
जहोः कन्यां सगरतनयस्वर्ग सोपानपंक्तिम्।

गौरीवक्तभ्रुकुटिरचनां या विहस्येव फेनैः
शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्म्भिहिस्ता॥५२॥

तस्या पातुं सुरगज इव व्योन्नि पूर्वार्द्धलम्बी
त्वञ्चेदच्छस्फटिकविशदं तर्कयेस्तिर्य्यगन्भः।
संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ
स्वादस्यानोपगतयमुनासङ्गमेवाभिरामा॥५२॥

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषस्मः
शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्॥५४॥

तञ्चेद वायौ सरति सरलस्कन्धसंघट्टजन्मा
वाधेतोस्का क्षयितचमरीबालभारी दवाग्निः।
अर्हस्येनं शमयितुमलं वारिधारासहस्रै-
रापन्नार्त्तिप्रशमनफलाः सम्पदो हुत्तमानाम्॥५५॥

ये त्वां मुक्तध्वनिमसहनाः स्वाङ्गभङ्गाय तस्मिन्
दर्पोत्सेकादुपरि शरभा लङ्घयिष्यन्त्यलंघ्यम्।
तान्कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णान्
के वा न स्युः परिभवपदं निष्पलारम्भयत्राः॥५६॥

तत्र व्यक्तं दृशदि चरणन्यासमर्द्धेन्दुमौलेः
शश्वत् सिद्धैरुपचितवलिं भक्तिनम्त्रः परीयाः।
यस्मिन् दृष्टे करणविगमाद्दूरमुद्धूतपापाः
कल्पन्तेऽस्य स्थिरगणपदप्राप्तये श्रद्दधानाः॥५७॥

शब्दायन्ते मधुरमनिलैः कीचकाः पूर्य्यमाणाः
संरेक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः।
निर्ह्रादी चेन्मुरज इब ते कन्दरेषु ध्वनिः स्यात्
सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समग्रः॥५८॥

प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान्
हंसद्वारं भृगुपतियशो वर्त्म यत् क्रौञ्चरन्ध्रम्।
तेनोदीचीं दिशमनुसरेस्तिर्य्यगायामशोभी
श्यामः पादो वलिनियमनायोद्यतस्येव विष्णोः॥५८॥

गत्वा चोर्द्धं दशमुखभुजीच्छ्रासितप्रस्थसन्धेः
कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः।
शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं
राशीभूतः प्रतिदिशमिव च्यम्बकस्याट्टहासः॥६०॥

उत्पश्यामि त्वयि तटगते सिन्धभिन्नञ्जनाभे
सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य।
शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम्
अंसन्यस्ते सति हलभृतो मेचके वाससीव॥६१॥

तस्मिन् हित्वा भुजगवलयं शम्भुना दत्तहस्ता
क्रीड़ाशैले यदि च विचरेत् पादचारेण गौरी।
भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः
सोपानत्वं व्रज पदसुखस्पर्शमारोहणेषु॥६२॥

तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णं तोयं
नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम्।

ताभ्यो मोक्षस्तव यदि सखे ! धर्म्मलब्धस्य न स्वात्
क्रीड़ालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः॥६२॥

हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य।
धुन्वन् वातैः सजलपृषतैः कल्पवृक्षांशकानि
च्छायाभिन्नस्फटिकविशदं निर्विशेस्तं नगेन्द्रम्॥६४॥

तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् !।
या वः काले वहति सलिलोद्गागरमुञ्चैर्विमानै-
र्मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम्॥६५॥

विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
सङ्गीताय प्रहतमुरजाः स्निग्धगन्भीरघोषम्।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः॥६६॥

हस्तेलीलाकमलमलकं बालकुन्दानुविद्धं
नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः।
चूड़ापाशे नवकुरुवकं चारु कर्णे शिरीषं
सोमन्तेऽपि त्वदुपगमजं यत्र नीपं बधूनाम्॥६७॥

यस्यां यक्षाःसितमणिमयान्येत्य हर्म्यस्थलानि
ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु॥६८॥

गत्युत्कम्पादलक्मपतितैर्यत्र मन्दारपुष्यैः
क्लृप्तच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च।
मुक्ताजालैः स्तनपरिसरच्छिन्नस्त्रैश्च हारै-
र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम्॥६९॥

नीवीबन्धोच्छसितशिथिलं यत्र विम्बाधराणां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु।
अर्च्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान्
ह्रौमूढ़ानां भवति विफलप्रेरणा चूर्णमुष्टिः॥७०॥

नेत्रानीताः सततमतिना यद्विमानाग्रभूमी-
रालेख्यानां स्वजलकणिकादोषमुत्पाद्य सद्यः।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालै-
धूमोद्गारानुकृतिनिपुणा जर्ज्जरा निष्पतन्ति॥७१॥

“यस्यां मत्तभ्रमरमुखराः पादपा नित्यपुष्पा
हंसश्रेणीरचितरसना नित्यपुष्पा नलिन्यः।
केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा
नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः “॥७२॥

यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गनानाम्
अङ्गम्लानिं सुरतजनितां तन्तजालावलम्बाः।
त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः॥७३॥

मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं
प्रायश्चापं न वहति भयामन्मथः षट्पदज्यम्।

सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघे -
स्तस्यारम्भश्चटुलवनिताविभ्रभैरेव सिद्धः॥७४॥

तत्रागारं धनपतिगृहादुत्तरेणास्मदीयं

दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन।
यस्योद्याने कृतकतनयः कान्तया वर्द्धितो मे
हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः॥७५॥

वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा
हैमैश्छन्ना क्ममलकुसुमैः स्निग्धवैदूर्य्यनालैः।
यस्यास्तोये कृतवसतयो मानसं सन्निकृष्टं
नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥७६॥

तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः
क्रीड़ाशैलः कनककदलीवेष्टनप्रे क्षणीयः।
मद्गेहिन्याः प्रिय इति सखे। चेतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततड़ितं त्वां तमेव स्मरामि॥७७॥

रक्ताशोकश्चलकिशलयः केशरस्तत्र कान्तः
प्रत्यासन्नौ कुरुवकवृतेर्माधवीमण्डपस्य।
एकः सख्यास्तव सह मया वामपादाभिलाषी
कांक्षत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः॥७८॥

तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-
र्मूले बद्धा मणिभिरनतिप्रौढ़वंशप्रकाशैः।
तालैः शिञ्जावलयसुभगैर्नर्त्तितः कान्तया मे
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः॥७९॥

एभिः साधो ! हृदयनिहितैर्लक्षणैर्लक्षयेथाः
द्वारोपान्ते लिखितवपुषौशंखपद्मौ च दृष्ट्वा।
मन्दच्छायं भवनमधुना मद्वियोगेन नूनं
सूर्य्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्॥८०॥

गत्वा सद्यः कलभतनुतां शीघ्रसम्पातहेतोः
क्रीड़ाशैले प्रथमकथिते रम्यसानौ निषस्म।
अर्हस्यन्तर्भवनपतितां कर्त्तुमल्पाल्पभासं
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम्॥८१॥

तन्वी श्यामा शिखरिदशना पक्कविम्बाधरोष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः।
श्रोणीऊभारादलसगमना स्तोकनम्म्रा स्तनाभ्यां
या तत्र स्यादु युवतिविषये सृष्टिराद्येव धातुः॥८२॥

तां जानीयाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम्।
गाढ़ोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां
जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम्॥८३॥

नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियायाः
निम्खासानामशिशिरतया भिन्नवर्णाधरोष्ठम्।
‘हस्तन्यस्तंमुखमसकलव्यक्तिलम्बालकत्वाद्
इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्विभर्त्ति॥८४॥

आलोके ते निपतति पुरा सा बलिव्याकुला वा
मत्सादृश्य विरहतनु वा भावगम्यं लिखन्ती।

पृच्छन्तीवा मधुरवचनां सारिकां पञ्जरस्यां

कच्चिद्भर्त्तुः स्मरसि रसिके ! त्वं हि तस्य प्रियेति॥८५॥

उत्सङ्गे वा मलिनवसने सौम्य ! निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा।
तन्त्रीमार्द्रां नयनसलिलैःसारयित्वा कथञ्चिद्
भूयोभूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती॥८६॥

शेषान्मासान् गमनदिवसस्थापितस्यावधेर्वा
विन्यस्यन्तीभुवि गणनया देहलीदत्तपुष्यैः।
मत्सङ्गं वा हृदयनिहितारम्भमाखादयन्ती
प्रायेणैते रमणविरहे व्यङ्गनानां विनोदाः॥॥८७॥

सव्यापारामहनि न तथा पीड़येन्मद्वयोगः
शङ्गे रात्रौगुरुतरशुचं निर्बिनोदां सखीं ते।
मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे
तामुन्निद्रामवनिशयनां सौधवातायनस्थः॥८८॥

आधिक्षामां विरहशयने सन्निषणैकपार्खां
प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः।
नीता रात्रिः क्षण इव मया सार्द्धमिच्छारतैर्या
तामेवोष्णैर्विरहजनितैरश्रुभिर्यापयन्तीम्॥८९॥

“स्निग्धाः सख्यः क्षणमपि दिवा तां न मोक्ष्यन्ती तन्वीम्
एकप्रेक्ष्या भवति हि जगत्यङ्गनानां प्रवृत्तिः।
स त्वं रात्रौ जलद! शयनासन्नवातायनस्थः
कान्तां सुप्ते सति परिजने वीतनिद्रामुपेयाः॥९०॥

निश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बम्।
मत्सम्भोगः कथमुपनयेत् स्वप्नजोऽपीति निद्राम्
आकांक्षन्तीं नयनसलिलोत्पीड़रुद्भावकाशाम्॥९१॥

आद्ये बद्भा विरहदिवसे या शिखा दाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम्।
स्पर्शक्लिष्टामयमितनखेनासकृत् सारयन्तीं
गण्डाभोगात् कठिनविषमामेकवेणीं करेण॥९२॥

पादानिन्दोरमृतशिशिरान् जालमार्गप्रविष्टान्
पूर्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव।
चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं
साभ्रेऽङ्कीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम्॥९३॥

सा संन्यस्ताभरणमबला पेशलं धारयन्ती
शय्योत्सङ्गे निहितमसकृद् दुःखदुःखेन गात्रम्।
त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं
प्रायः सर्व्वो भवति करुणावृत्तिरार्द्रान्तिरात्मा॥९४॥

जाने सख्यास्तव मयि मनः सम्भृतस्नेहमस्मादु
इत्थम्भूतां प्रथमविरहे तामहं तर्कयामि।
वाचालं मां न खलु सुभगं मन्यभावः करोति
प्रत्यक्षं ते निखिलमचिराद् भ्रात। रुक्तं मया यत्॥९५॥

रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं
प्रत्यादेशादपि च मधुनो विस्मृतम्भ्रूविलासम्।

त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्याः
मीनक्षोभाकुलकुवलयश्रीतुलामेष्यतीति॥९६॥

वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै-
र्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या।
सम्भोगान्ते मम समुचितो हस्तसंवाहनानां
यास्यत्यूरुः कनककदलीस्तम्भगोरयलत्वम्॥९७॥

तस्मिन् काले जलद ! यदि सा लब्धनिद्रासुखा स्याद्
अम्वास्यैनां स्तनितविमुखो याममात्रं सहस्व।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथञ्चित्
सद्यः कण्ठच्युतभुजलताग्रन्थि गाढ़ोपगूढम्॥९८॥

तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां समप्रोषितानांलकैर्मालतीनाम् \।
विद्युत्कम्पस्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीरःस्तनितवचनर्मानिनों प्रक्रमेथाः॥९९॥

भर्त्तुर्मित्रं प्रियमविधवे! विहि मामम्बुवाहं
त्वत्सन्देशैर्मनसि निहितैरागतं त्वत्समीपम्।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
मन्द्रनिग्धै र्ध्वनिभिरबलावेणीमोक्षोत्सुकानि॥१००॥

इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्यामुत्कण्ठोच्छसितहृदया वीक्ष्य सम्भाभ्य चैव।
श्रोष्यत्यस्मात् परमवहिता सौम्य ! सीमन्तिनीनां
कान्तोदन्तः सुहृदुपगतः सङ्गमात् किञ्चिदूनः॥१०१॥

तामायुष्मन्! मम च वचनाद् आत्मनखोपकर्त्तुं
ब्रूया एवं तव सहचरो रामगिर्य्याश्रमस्थः।
अव्यापन्नःकुशलमबले ! पृच्छति त्वां वियुक्तां
पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव॥१०२॥

अङ्गेनाङ्ग प्रतनु! तनुना गाढ़तप्तेन तप्तं
सास्रेणाश्रु द्रुतमविरतोत्कण्ठमुत्कण्ठितेन।
उष्णोच्छासंसमधिकतरोच्छासिना दूरवर्ती
सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुहमार्गः॥१०३॥

शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्
कर्णे लोलः कथयितुमभूद् आननस्पर्शलोभात्।
सोऽतिक्रान्तः श्रवणविषयं लोचनाम्यामदृश्य-
स्त्वामुत्कण्ठाविरचितपदं मन्- मुखेनेदमाह॥१०४॥

श्यामास्वङ्गंचकितहरिणीप्रेक्षणे दृष्टिपातं
वक्रच्छायां शशिनि शिखिनां वर्हभारेषु केशान्।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्
हन्तैकस्मिन् क्वचिदपि न ते चण्डि ! सादृश्यमस्ति॥१०५॥

धारासिक्तस्थलसुरभिणस्त्वन्मुखस्यास्य बाले !
दूरीभूतं प्रतनुमपि मां पञ्चवाणः क्षिणोति।
धर्म्मान्तेऽस्मिन् विगणय कथं वासराणि व्रजेयु-
र्दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि॥१०६॥

त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम्
आत्मानं ते चरणपतितं यावदिच्छामि कर्त्तुम्।

अस्रैस्तावन्-मुहुरुपचितैर्दृष्टिरालुप्यते मे

क्रूरस्तस्मिन्नपि न सहते सङ्गमंनौ कृतान्तः॥१०७॥

मामाकाशप्रणिहितभुजं निर्दयाश्लेष हेतो-
र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुकिशलयेष्वश्रुलेशाः पतन्ति॥१०८॥

भित्वा सद्यः किशलयपुटान् देववारुद्रुमाणां
ये तत्क्षीरश्रुतिसुरभयो दक्षिणेन पवृत्ताः।
आलिङ्ग्यन्ते गुणवति! मया ते तुषाराद्रिवाताः
पूर्वं सृष्ट’ यदि किल भवेदङ्गमेभिस्तवेति॥ १०९॥

संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा
सर्ब्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात्।
इत्थंचेतश्वटुलनयने ! दुर्लभप्रार्थनं मे
गाढ़ोमाभिः कृतमशरणं त्वदुद्वियोगव्यथाभिः॥११०॥

नन्वात्मानं बहुविगणयन्त्रात्मनैवावलम्बे
तत् कल्याणि ! त्वमपि सुतरां मा गमः कातरत्वम्।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्यपरि च दशा चक्रनेमिक्रमेण॥१११॥

शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ
मासानेतान् गमय चतुरो लोचने मीलयित्वा।
पश्चादावां विरहगणितं तं तमात्माभिलाषं
निर्वेक्ष्यावः परिणतशरञ्चन्द्रिकासु क्षपासु॥११२॥

भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किमपि रुदती सत्वरं विप्रबुद्धा ।
सान्तर्हासं कथितमसकृत् पृच्छतश्च त्वया मे
दृष्टः स्वप्ने कितव ! रमयन् कामपि त्वं मयेति॥११३॥

एतस्मान्-मां कुशलिनमभिज्ञानदानाद् विदित्वा
मां कौलीनादसितनयने मय्यविश्वासिनी भूः।
स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगा-
दिष्टे वस्तुन्धुपचितरसाः प्रेमराशीभवन्ति॥११४॥

आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते
शैलादाशु त्रिनयनवृषोत्खातकूटात्रिवृत्तः।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः॥११५॥

कश्चित् सौम्य! व्यवसितमिदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान्-न खलु भवतो धीरतां तर्कयामि।
निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव॥११६॥

एतत् कृत्वा प्रियमनुचितप्रार्थनावर्त्तिनो मे
सौहार्दाहा विधुर इति वा मय्यनुक्रोशबुह्या।
इष्टान् देशान् जलद! विचर प्रावृषा संभृतश्री-
र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः॥११७॥

श्रुत्वा वार्तां जलदकथितां तां धनेशोऽपि सद्यः
शापस्यान्तं सदयहृदयः संविधायास्तकोपः।

संयोज्यैतो विगलितशुचौ दम्पती हृष्ठचित्तो
भोगानिष्टानविरतसुखान् प्रापयामास शश्वत्॥११८॥

इति श्रीकाविदासकृतं मेघदूताख्यं काव्यंसमाप्तम्।

____________________

हंसदूतः।

<MISSING_FIG href=”../books_images/U-IMG-1728702356Screenshot(110"/>.png)

दुकूलं विम्राणे दलितहरितालद्युतिहरं
जवापुष्पश्रेणीरुचिरुचिरपादाम्बुजतलः।
तमालश्यामाङ्गो दरहसितलीलाञ्चितमुखः
परानन्दाभोगः स्फुरतु हृदि मे कोऽपि पुरुषः॥१॥

यदा यातो गोपीहृदयमदमो नन्दसदनान्-
मुकुन्दो गान्धिन्यास्तनयमनुविन्दन् मधुपुरीम्।
तदामाङ्ङ्क्षीञ्चिन्तासरिति घनघूर्णापरिचयै-
रगाधायां बाधामयपयसि राधा विरहिणी॥२॥

कदाचित् खेदाग्निं ‘वघटयितुमन्तर्गतमसौ
सहालीभिर्लेभे तरलितमना यामुनतटीम्।
चिरादस्याश्चित्तं परिचितकुटीरावकलनाद्
अवस्थां तस्तार स्फुटमथ सुषुप्तेः प्रियसखीम्॥३॥

तदा निष्पन्दाङ्गी कलितनलिनीपल्लवकुलैः
परीणाहात् प्रेम्नामकुशलशताशङ्कहृदयैः।

ट्टगम्भोगम्भीरीकृतमिहिरपुत्रीलहरिभि
र्विलौना धूलीनामुपरि परिवव्रे परिजनैः॥४॥

ततस्तां न्यस्ताङ्गीमुरसि ललितायाः कमलिनी-
पलाशैः कालिन्दीसलिलशिशिरैर्वीजिततनुम्।
परावृत्तश्वासाङ्कुरचलितकण्ठीं कलयतां
सखीसन्दोहानां प्रमदभरशाली ध्वनिरभूत् ॥५॥

निधायाङ्के पङ्केरुहदलविटङ्कस्य ललिता
ततो राधां नीराहरणसरणीम्यस्तचरणा।
मिलन्तं कालिन्दीपुलिनभुवि खेलाञ्चितगतिं
ददर्शाग्रे कञ्चिन्मधुरविरुतं श्वेतगरुतम्॥६॥

तदालोकस्तोकोच्छसितहृदया सादरमसौ
प्रणामं शंसन्तीलघु लघु समासाद्य सविधम्।
धृतोत्कण्ठा सद्यो हरिसदसि सन्देशहरणे
वरं दूतं मेने तमत्तिललितं हन्त ! ललिता॥७॥

अमर्षात् प्रेमेष्यां सपदि दधती कंसमथने
प्रवृत्ता हंसाय स्वमभिलषितं शंसितुमसौ।
न तस्या दोषोऽयं यदिह विहगं प्रार्थितवती
न कस्मिन् विश्रम्भंदिशति हरिभक्तिप्रणयिता॥८॥

पवित्रेषु प्रायो विरचयसि तोयेषु वसतिं
प्रमोदं नालीके वहसि विषदात्मा स्वयमसि।
अतोऽहं दुःखार्ता शरणमबला त्वां गतवती
न भिक्षा सत्प्रक्षे व्रजति हि कदाचिद्विफलताम्॥९॥

चिरं विस्मृत्यास्मान् विरहदहनज्ज्वालविकलाः
कलावान् सानन्दं वसति मथुरायां मधुरिपुः।
तदेतं सन्देशं खमनसि समाधाय निखिलं
भवान् क्षिप्रं तस्य श्रवणपदवीं सङ्गमयतु॥१०॥

निरस्तप्रत्यहं भवतु भवतो वर्त्मनि शिवं
समुत्तिष्ठ क्षिप्रं मनसि मुदमाधाय सदयम्।
अधस्ताद्धावन्तो लघु लघु समुत्ताननयनै-

र्भवन्तं वीक्षन्तां कुतुकतरला गोपशिशवः॥११॥

किशोरोत्तंशोऽसौ कठिनमतिना दानपतिना
यया निन्ये तूर्णं पशुप-युवतीजीवितपतिः।
तया गन्तव्या ते निखिलजगदेकप्रथितया
पदव्या भव्यानां तिलक ! किल दाशार्हनगरी॥१२॥

गलद्वास्पासारप्नुतधवलगण्डा मृगदृशो
विदूयन्ते यत्र ग्रबलमदना वेशविवशाः।
त्वया विज्ञातव्या हरिचरणसङ्गप्रणयिनो
ध्रुवं सा चक्राङ्गी रतिसखशताङ्गस्य पदवी॥१३॥

पिबन् जम्बु श्यामं मिहिरदुहितुर्वारिमधुरं
मृणालीर्भुञ्जानो हिमकरकलाकोमलरुचः।
क्षणं हृष्टस्तिष्ठन् निविड़विटघे शाखिनि सखे !
सुखेन प्रस्थानं रचयतु भवान् वृष्णिनगरे॥१४॥

बलादाक्रन्दन्तीरथ पथिकमक्रूरमिलितं।
विदूरादाभीरीततिरनुययौ येन रमणम्।

तमादौ पन्थानं रचय चरितार्था भवतु ते
विराजन्ती सर्वोपरि परमहंसस्थि तिरियम्॥१५॥

अकस्मादस्माकं हरिरपहरन्नंशुकचयं
यमारूढ़ो गूढ़प्रणयलहरीं कन्दलयितुम्।
तव श्रान्तस्यान्तःस्थगितरविविम्बः किसलयैः
कदम्बः कादम्ब ! त्वरितमवलम्बः स भविता॥१६॥

किरन्ती लावण्यंदिशि दिशि शिखण्डस्तवकिनी
दधाना साधीयः कनकविमलद्योतिवसनम्।
तमालश्यामाङ्गी सरलमुरलीचुम्बितमुखी
जगौ चित्रं यत्र प्रकटपरमानन्दलहरी॥१७॥

तथा भूयः कीड़ारभ्रमविकमहलतबधू-
वपुर्वल्लीभ्रश्यन्मृगमदकणश्यामलिकया।
विधातव्यो हल्लीसकदलितमल्लीलतिकया
समन्तादुब्लासस्तव मनसि रासस्थलिकया॥१८॥

तदन्ते वासन्तीविरचितमनङ्गोत्सवकला
चतुःशालं शौरेः स्फुरति न दृशौ तत्र विकिरेः।
तदालोकोद्भे दप्रमदभरविस्मारितगति-
क्रिये जाने तावत्त्वयि वत हता गोपवनिता॥१९॥

मम स्यादर्थानां क्षतिरिह विलम्बाद् यदपि ते
विलोकेथाः सर्वं तदपि हरिकेलिस्थलमिदम्।
तवेयं न व्यर्था भवतु शुचिता कः स हि सखे !
गुणो यश्चाणूरद्विषि मयिनिवेशाय न भवेत्॥२०॥

सकृद्वंशीनादश्रवणमिलिताभीरवनिता-
रहः क्रीड़ासाक्षी प्रतिपदलतासद्मसुभगः।
स धेनूनां बन्धुर्मधुमथनखट्वायितशिलः
करिष्यत्यानन्दं सपदि तव गोवर्द्धनगिरिः॥२१॥

तमेवाद्रिं चक्राङ्कितिकरपरिष्वङ्गरसिकं
महोचक्रे शङ्के महि शिखरिणां शेखरतया।
अरातिं ज्ञातीनां नतु हरिहयं यः परिभवन्
यथार्थं खं नाम व्यधित भुवि गोवर्द्धन इति॥२२॥

तमालस्यालोकाद्गिरिपरिसरे सन्ति चपला;

पुलिन्दो गोविन्द स्मरणरभसोत्तप्तवपुषः।
शनैस्तापं तासां क्षणमपनयन् यास्यति भवान्
अवश्यं कालिन्दीसलिलशिशिरैः पक्षपवनैः॥२२॥

तदन्ते श्रीकान्तस्मरसमरधाटी पुढ़किता
कदम्बानां वाटी रसिकपरिपाटीं स्फुटयति।
त्वमासीनस्तस्यां न यदि परितो नन्दसि ततो
बभूव व्यर्था ते घनरसनिवेशव्यसनिता॥२४॥

शरम्मे घश्रेणीप्रतिभटमरिष्टासुरशिर-
श्चिरं शुष्कं वृन्दावनपरिसरे द्रक्ष्यति भवान्।
यदारोढुं दूराम्मिलति किल कैलासशिखरि
भ्रमाक्रान्तखान्तो गिरिशसुहृदः किङ्करगणः॥२५॥

रुवन् याहि स्वैरं चरमदशया चुम्बितरुचो
नितम्बिन्यो वृन्दावनभुवि सखे ! सन्ति बहवः।

परावर्तिष्यन्ते तुलितमुरजिन्नूपुररवात्
तव ध्वानात् तासां वहिरपि गताः क्षिप्रमसवः॥२६॥

त्वमासीनः शाखान्तरमिलितचण्डत्विषि सुखं
दधीथा भाण्डीरे क्षणमपि घनश्यामलरुचौ।
ततो हंसा विभ्रन्निखिलनभसश्चक्रमिषया
स वर्द्धष्णुं विष्णुं कलितदरचक्र तुलयिता॥२७॥

त्वमष्टाभिर्नेत्रैर्विगलदमलप्रेमसलिलै-
मुंहुः सिक्तस्तम्भां चतुर चतुरास्यस्तुतिभुवम्।
जिहीथा विख्यातां स्फुटमिह भवद्वान्धवरथं
प्रविष्टं मंस्यन्ते विधिमट विदेव्यस्त्वयि गते॥२८॥

उदञ्चन्नेत्राम्भःप्रसरलहरीपिच्छिलपथ
स्वलत्पादन्यासप्रणिहितविलम्बाकुलधियः।
हरौ यस्मिन्मम्ने त्वरितयमुनाकूलगमन-
स्पृहाक्षिप्ता गोप्यो ययुरनुपदं कामपि दशाम्॥२

९॥

मुहुर्लास्यक्रीडाप्रमदमिलदाहोपुरुषिका
विकाशेन भ्रष्टैः फणिमणिकुलेर्धूमलरुचौ।
पुरस्तस्मिन्नीपद्रुमकुसुमकिञ्जल्कसुरभौ
त्वया पुण्ये पेयं मधुरमुदकं कालियह्रदे॥३०॥

तृणावर्तासतेर्विरहदवसन्तापिततनोः
सदाभीरीवृन्द प्रणयवहूमानोन्नतिविदः।
प्रणेतब्यो नव्यस्तवकभरसम्बर्द्धतशुच-
स्त्वया वृन्दादेव्याः परमविनयाद्वन्दनविधिः॥३१॥

इति कान्त्वाकेकाकृतविरुतिमेकादशवनीं
घनीभूतं चूतैर्ब्र जमनुवनं द्वादशमिदम्।
पुरीयस्मिन्वास्ते यदुकुलभुवां निर्मलयशो-
भराणांधाराभिर्धवलितधरित्रीपरिसरा॥३२॥

निकेतैराकीर्णा गिरिशगिरिडिम्भप्रतिभटै-
रवष्टम्भस्तम्भावलिविलसितैः पुष्पितवना।
निविष्टा कालिन्दीतटभुवि तवाधास्यति सखे !
समन्तादानन्दं मधुरजनवृन्दा मधुपुरी॥३३॥

वृषः शम्भोर्यस्यां दशति नवमेकत्र यवसं
विरिक्षेरन्यस्मिन् गिलति कलहंसो विसलताम्।
क्वचित् क्रौञ्चारातेः कवलयति केकीविषधरं
विलीढेशलक्या बलरिपुकरी पल्लवमितः॥३४॥

अधिष्ठाः काषावहि विघटितां प्रच्छदपटी’
विमुक्तामासीः पथि पथि न मुक्ताबलिमपि।
अयि श्रीगोविन्दस्मरणमदिरामत्तहृदये

सतीति ख्यातिं ते हसति कुलटानां कुलमिदम्॥३५॥

असव्यंविभ्राणा पदमधृत लाक्षारसमसौ
प्रयाताहं मुग्धे ! विरम मम वेशैः किमधुना।
अमन्दादाशङ्क्ते सखि ! पुरपुरन्ध्रीकलकलाद्
अलिन्दाग्रे वृन्दावनकुसुमधन्वा विजयते॥३६॥

अयं लीलापाङ्गपितपुरवीथीपरिसरो
नवाशोकोत्तंसचलति पुरतः कंसविजयी।

किमस्मानेतस्मान्मणिभवनपृष्ठानुदती
त्वमेका स्तब्धाति ! स्थगयसि गवाचावलिम्रपि॥३७॥

मुहुः शून्यां दृष्टि वहसि रहसि ध्यायसि सदा
शृणोषि प्रत्यक्षं न परिजवविज्ञापनशतम्।
अतः शङ्के पजेरुहमुखि ! ययौ श्यामलरुचिः
स यूनामुत्तंसस्तव नयनवोथोपथिकताम्॥३८॥

विलज्जं मा रोदीरिह सखि ! पुनर्यास्यति हरि-
स्तवापाङ्गक्रीड़ां ब्रिविड़परिचर्य्याग्रहिलताम्।
इति स्वैरं यस्यां पथि पथि मुरारेरभिनव-
प्रवेशे नारीणां रतिरभस जल्पाववनिरे॥३९॥

पञ्चभिः कुलकम्।

सखे! साक्षाद्दामोदरवदनचन्द्रावकलन-
स्फुरत्प्रेमातन्दप्रकरलहरीचुम्बितधियः।
मुहुस्तनाभीरीसमुदयशिरोन्यस्तविपद-
स्तवाच्मेरानन्दं विदधति पुरा पौरवनिताः॥४०॥

अथ कामं कामं क्रमघटनया सङ्कटतरान्
निवासान् वृष्णीनामनुसर पुरीमध्यविशिखान्।
मुरारातेर्यत्र स्थग्रितगगनाभि र्विजयते
पताकाभिः सन्तर्पितभुवनमन्तः पुरवरम्॥४१॥

यदुत्सङ्गे तुङ्गस्फटिकरचिताः सन्ति परितो
मराला माणिक्यप्रकरघटितत्रोटिचरणाः।
सुहृद्द हम हंसाः कलितमधुरस्याम्बुजभुवः

समर्य्यादा येषां सपदि परिचर्य्यांविदधति॥४२॥

चिरान्मृग्यन्तीनां पशुपरमणीनामपि कुलै-
रलब्धंकालिन्दीपुलिनविपिने लोनमभितः।
मदालोकोल्लासिस्मितपरिचितास्यं प्रियसखि !
स्फुरन्तं वीक्षिष्ये पुनरपि किमग्रे मुरभिदम्॥४३॥

विषादं माकार्षीर्दु तमवितथव्याहृतिरसौ
समागन्ता राधे ! धृतनवशिखण्डस्तव सखा।
इति ब्रते यस्यां शुकमिथुनमिन्द्रानुजकते
यदाभीरीष्टन्दैरुपसृतमभूदुडवकरे॥४४॥

युज्जकम्।

घनश्यामा भ्राग्यत्युपरिटरिडर्म्यस्य शिखिभिः
कृतस्तोत्रा मुग्धैरगुरुजनिता धूमलतिका।
तदालोकाद्दीर स्फुरति तव चेम्नानसरुचि-
र्जितं तर्हि खैरं जनसहनिवासप्रियतया॥४५॥

ततोमध्येकक्षं प्रतिनवगवाचस्तवकितं
चलन्मु क्तालम्बस्फुरितममलस्तम्भनिवहम्।
भवान् द्रष्टा हेमोल्लिखितदशमस्कन्धचरितै-
र्लसद्धिन्तिप्रान्तं सुरविजयिनः केलिनिलयम्॥४६॥

अलिन्दे यस्यास्ते मरकतमयो यष्टिरमला
शयालुर्य्यां रात्रौमदकलकलापी कलयति।
निरातङ्गन्तस्याः शिखरमधिरुह्य श्रमनुदं
प्रतीक्षेथा भ्रातर्वरमवसरं यादवपतेः॥४७॥

निविष्टः पत्यङ्के मृदुलतरतूलीधवलिते
त्रिलोकीलक्ष्मीणां ककुदि दरसाचीकृततनुः।
अमन्दं पूर्णेन्दुप्रतिममुपधानं प्रमुदितो
निधायाग्रे तस्मिन्नुपहितकपोलिद्दयभरः॥४८॥

उदञ्चत्कालिन्दीसलिलसुभगं भावुकरुचिः
कपोलान्त प्रेङ्खन्मणिमकरमुद्रामधुरिमा।
बसानः कौषेयं जितकनकलक्ष्मीपरिमलं
मुकुन्दस्ते साक्षात् प्रमद सुधया सेच्यति दृशौ॥४९॥

विकद्रुः पौराणीरखिलकुलवृद्धोयदुपते-
रहूरादासीनो मधुरभणितिर्गास्यति तदा।
परस्तादाभौरीगणभयदनामा स कठिमो
मणिस्तम्भालम्बी कुरुकुलकथां सङ्गलयिता॥५०॥

शिलीनामुत्तंसः स किल कृतवर्माप्युभयतः
प्रणेव्येते बालव्यजनयुगलान्दोलनविधिम्।
स जानुभ्यामष्टापदभुवमवष्टभ्य भविता
गुरोः शिष्यो मूनं पदकमलसम्बाहनरतः॥५१॥

विहङ्गेन्द्रो युग्मीक्कतकरसरोजो भुवि पुरः
जताशङ्गो भावी प्रजविनि निदेशेऽर्पितमनाः।
कदद्दन्दे यस्य ध्वनति मधुरावासिवटवो
व्युदस्यन्ते सामस्वरकलितमन्योन्यकलहम्॥५२॥

न निर्वक्तुं दामोदरपदकनिष्ठाङ्गलिनख-
द्यतीनां लावण्यं भवति चतुरास्योऽपि चतुरः।

तथापि स्तीप्रज्ञासुलभतरलत्वादहमसौ
प्रवृत्ता तन्मूर्त्तिस्तवरतिमहासाहसरसे॥५३॥

विराजन्ते यस्य व्रजशिशुकुलस्तेयविकल-
स्वयम्भूचूड़ाग्रैर्लुलितशिखराः पादनखराः।
क्षणं यानालोका प्रकटपरमानन्दविरसः
स देवर्षिर्मुक्तानपि तनुभृतः शोचति मृशम्॥५४॥

सरोजानां व्यूहः श्रियमभिलषन् यस्य पदयो-
र्ययौ रागाच्यानां विधुरमुदवासव्रतविधिम्।
हिमं वन्दे नीचैरनुचितृविधानष्यसनिनां
यदेषां प्राणान्तंदमनमनुवर्षं प्रणयति॥५५॥

रुचीनामुल्लासैर्मरकतमयस्थूलकदली-
कदम्बाहङ्कारं कवलयति यस्योरुयुगलम्।
यदालानस्तम्भद्युतिमवललम्बे बलभृतां
मदादुद्दामानां पशुपरमणीचित्त करिणाम्॥५६॥

सखे! यस्याभीरीनयनसफरीजीवनविधौ
निदानं गाम्भीर्य्य प्रसरकलिता नाभिसरसी।
यतः कल्पस्यादौ सनकजनकोत्पत्ति वड़भी-
गभीरान्तः कक्षाष्टतभुवनमम्भोरुहमभूत्॥५७॥

द्युतिं धत्ते यस्य त्रिबलिलतिका सङ्कटतरं
सखे! दामश्रेणौक्षणपरिचयाभिन्नमुदरम्।
यशोदा यस्यान्तः सुरनरभुजङ्गैः परिवृतं
मुखद्दारावारद्दयमवलु लोके त्रिभुवनम्॥५८॥

उरो यस्य स्फारं स्फुरति वनमालावलयितं
वितन्वानं तन्वीजनमनसि सद्यो मनसिजम् ।
मरीचीभिर्यस्मिन् रविनिवहतुल्योऽपि वहते
सदा खद्योताभां भुवनमधुरः कौस्तुभमणिः॥ ५९॥

समन्तादुन्मीलद्वलभिदुपलस्तम्भयुगल-
प्रभाजैव केशिद्विजलुलितकेयूरललितम् ।
स्रक्लाम्य द्रोपीपटल हठकण्ठग्रहपरं
भुजद्वन्दं यस्य स्फुटसुरभिगन्धं विजयते॥ ६०॥

जिहीते साम्राज्य जगति नवलावण्यलहरी
परिपाकस्यान्तर्मु दितमदनावेशमधुरम् ।
नटहू वल्लीकं स्मितनवसुधाकेलिसदनं
स्फुरन्मुक्तापङ्क्तिप्रतिमरदनं यस्य वदनम्॥ ६१॥

किमेभिर्व्याहारैः कलय कथयामि स्फुटमहं
सखे! निःसन्देहं परिचयपदं केवलमिदम् ।
परानन्दो यस्मिन्नयनपदवीभाजि भविता
त्वया विज्ञातव्यो मधुररव ! सोऽयं मधुरिपुः॥ ६२॥

विलोकेथाः कृष्णां मदकलमरालीरतिकला-
विदग्धव्यामुग्धं यदि पुरबधूविभ्रमभरैः ।
तदा नास्मान् ग्राम्याः श्रवणपदवीं तस्य गमयेः
सुधापूर्णं चेतः कथमपि न तक्रं मृगयते॥ ६३॥

यदा वृन्दारण्यस्मरणलहरीहेतुरमलं
पिकानां वेवेष्टि प्रतिहरितमुच्चैः कुहुरुतम् ।

वहन्ते वा वाताः स्फुरितगिरिमल्लीप्रविमला
स्तदेवास्माकीनां गिरमुपहरेथा मुरभिदि॥६४॥

पुरा तिष्ठन् गोष्ठे निखिलरमणीभ्यः प्रियतया
भवान् यस्यां गोपीरमण ! विदधे गौरवभरम् -
सखौ तस्या विज्ञापयति ललिता धीरललित !
प्रणम्य श्रीपादाम्बुजकनकपीठोपरिसरे॥६५॥

प्रयत्नादाबाल्यं नवकमलिनीपल्लवकुले -
स्त्वया भूयोयस्याः कृतमहह सम्बर्धनमभूत्।
चिरादूधोभारास्पुरणगरिमाक्रान्तजघना
बभूव प्रष्टोही मुरमथन ! सेयं कपिलिका॥६६॥

समीपे नीपानां त्रिचतुरदला हन्त गमिता
त्वया माकन्दस्य प्रियसहचरीभावनियतिम्।
इयं सा वासन्ती गलदमल माध्वीकपटली-
मिषादग्रे गोपीरमण ! रुदती रोदयति नः॥६७॥

प्रसूतो देवक्या मुरमथन यः कोऽपि पुरुषः
स जातो गोपालाभ्युदयपरमानन्दवसतिः।
धृतो यो गान्धिन्या कठिनजठरे सम्पति ततः

समन्तादेवास्त’ शिव शिव गता गोकुलकथा॥६८॥

अरिष्टेनाहताः पशुपसुहशी यान्ति विपदं
तृणावर्ताक्रान्त्या रचयति भयं चत्वरचयः।
श्रमौ व्योमौभूता व्रजवसतिभूमोपरिसरा
वहन्ते नस्तापं मुरहर! विदूरं त्वयि गते॥६९॥

त्वया नागन्तव्यं कथमिह हरे! गोष्ठमधुमा
लताश्रेणी वृन्दावनभुवि यतोऽभूद्दिषमयी।
प्रसूनानां गन्धं कथमितरथा वातनिहितं
भजन् सद्यो मूच्छां वहति निवही गोपसुदृशाम्॥७०॥

कथं सङ्गोऽस्माभिः सह समुचितः सम्प्रति हरे !
वयं ग्राम्या नार्यस्त्वमसि नृपकम्यार्चितपदः।
गतः कालो यस्मिन् पशुपरमणीसङ्गमकते
भवान् व्यग्रस्तस्थौ तमसि गृहवाटीविटचिनः॥७१॥

बयं त्यक्ताः स्वामिन्! यदिह तव किं दूषणमिदं
निसर्गः श्यामानामयमतितरां दुष्परिहरः।
कुहूकण्ठैरण्डावविसहमिवासात् परिचिता
विसृज्यन्ते सव्यः कलितनवपचैर्बलिभुजः॥७२॥

अयं पूर्वो रङ्गः किल बिरचितो यस्य तरसा
रसादाख्यातव्यं परिकलय तनाटकमिदम्।
मया प्रष्टव्योऽसि प्रथममिति वृन्दावनपते !
किमाहो राधेति स्मरसि कृपणं कर्णयुगलम्॥७३॥

अये कुक्षद्रोणौकुहरग्टहमेधिन्! किमधुना
परोक्षं वक्ष्यन्ते पशुपरमणौदुर्नियतयः।
प्रव्रीणा गोपौनां तव चरणपद्मेऽर्पितमना
ययौ राधा साधारणसमुचितप्रश्नपदवीम्॥७४॥

त्वया गोष्ठंगोष्ठोतिलक! किल चेद्दिस्मृतमिदं
न तूर्णं धूमोर्णामतिरपि विवत्ते यदि कृपाम्।

अर्हवृन्दं वृन्दावनकुसुमपालीपरिमलै-
र्दुरालोकं शोकास्पदमथ कथं मेष्यति सखी॥७५॥

तरङ्गैः कुर्वाणा शमनभगिनोलाघवमसौ
नदीं काञ्चिब्रोष्ठे नयनजलपूरैरजनयत्।
इतीवास्याद्देषादभिमतदशाप्रार्षनमयीं
मुरारे विज्ञप्तिं निशमयति मानो न शमनः॥७६॥

कृताक्कष्टिक्रीडं किमपि तव रूपं मम सखी
सक्लद्दुष्टा दूरादहितहितबोधीन्तिमतिः।
हताशेयं प्रेमानलमनुविशन्ती सरभसं
पतङ्गीवात्मानं मुरहर ! मुक्तर्दाहितवती॥७७॥

मया वाच्यः किं वा त्वमिह निजदोषात् परमसौ
ययो मन्दा वृन्दावनकुमुदबन्धो विधुरताम्।
यदर्थं दुःखाग्निर्दहति न तमद्यापि हृदयान्
न यस्माद्दुर्मेधा लवमपि भवन्तं द्रवयति॥७८॥

त्रिवक्राहो धन्या हृदयमिव ते स्वं वपुरियं
समासाद्य खैरं यदिह विलसन्ती निवसति।
ध्रुवं पुण्यभ्रंशादजनि सरलेयं मम सखौ
प्रवेशस्तत्रासीत् चणमपि यदस्या न सुलभः॥७९॥

किमाविष्टा भूतैः सपदि यदि वा क्रूरफणिना
चतापमारेण युतमतिरकस्मात् किमपतत्।
इति व्यग्रैरस्यां गुरुभिरभितो वेणुनिनद-
श्रवाद विभ्रष्टायां मुरहर विकल्पा विदधिरे॥८०॥

नवीनेयं सम्प्रत्यकुशलपरोपाकलहरी
नरीनर्त्ति खैरं मम सहचरीचित्तकुहरे।
जगनेत्रश्रेणी - मधुरमथुरायां निवसत-
विरादार्त्ता वार्त्तामपि तव यदेषा न लभते॥८१॥

जनान् सिद्धादेशान् नमति भजते मान्त्रिकगणान्
विधत्ते शुश्रूषामधिकविनये नौषधिविदाम्।
त्वदौक्षादीक्षायै परिचरति भक्तप्रा गिरिसुतां
मनीषा हि व्यग्रा किमपि सुखहेतुं न मनुते॥८२॥

पशूनां पातारं भुजगरिपुपत्रप्रणयिनं
स्मरोद्दर्द्दिक्रोड़ निविडघनसारद्युतिहरम्।
सदाभ्यर्णे नन्दीश्वर गिरिभुवो रङ्गरसिकं
भवन्तंकंसारे भजति भवदाप्य मम सखी॥८३॥

भवन्तं सन्तप्ता विदलिततमालाडु ररसै-
र्विलिख्य भ्रूभङ्गौक्कृतमदनकोदण्डकदनम्।
निधास्यन्ती कण्ठे तव निजभुजावल्लरिमसौ
धरण्यामुन्मौलज्जड़िमनिविड़ाङ्गी विलुठति॥८४॥

कदाचिन् मूढ़े यं निविड़भवदीयस्मृतिमदा-
दमन्दादात्मानं कलयति भवन्तं मम सखी।
तथास्या राधाया विरहदहनाकल्पितधियो
मुरारे! दुःसाधा क्षणमपि न राधा विरमति॥८५॥

त्वया सन्तापानामुपरि परिमुक्तापि रभसा-
दिदानीमापेदे तदपि तव चेष्टां प्रियसखी।

यदेषा कंसारे भिदुरहृदयं त्वामवयती
सतीनां मूर्द्धन्या भिदुरहृदयाऽभूदनुदिनम्॥८६॥

समक्षं सर्व्वेषां निवससि समाधिप्रणयिनाम्
इति श्रुत्वा नूनं गुरुतरसमाधिं कलयति।
सदा कंसाराते भजसि यमिनां नेत्रपदवीम्
इति व्यक्तं सज्जीभवति यममालम्बितुमपि॥८७॥

मुरारे! कालिन्दीसलिलचलदिन्दीवररुचे !
मुकुन्द! श्रीवृन्दावनमदनवृन्दारकमणे!।
ब्रजानन्दिन्नन्दीश्वरदयितनन्दात्मजहरे!
सदेति क्रन्दन्ती परिजनशचं कन्दलयति॥८८॥

समन्तादुत्तप्तस्तव विरहदावाग्निशिखया
कृतोद्वेगः पञ्चाशुगमृगयुवेधव्यतिकरैः
तनूभूतं सद्यस्तनुवनमिदं हास्यति हरे
हठादद्य श्वो वा मम सहचरीप्राणहरिणः॥८९॥

पयोराशिस्फीतत्विषि हिमकरोत्तंसमधुरे
दधाने दृग्भङ्ग्यास्मरविजयिरूपं मम सखी।
हरे दत्तस्वान्ता भवति तदिमां किं प्रभवति
स्मरो हन्तुं किन्तु व्यथयति भवानेव कुतुकी॥९०॥

विजानीषे भावं पशुप-रमणीनां यदुपते!
न जानीमः कस्मात् तदपि वत मायां रचयसि।
समन्तादध्यात्मंयदिह पवनव्याधिरलपद्-
बलादस्यास्ते न व्यसनकुलमेव द्विगुणितम्॥९१॥

गुरोरन्तेवासी स भजति यदूनां सचिवतां
सखी कालिन्दीयं किल भवति कालस्य भगिनी।
भवेदन्यः को वा नरपतिपुरे मत्परिचितो
दशामस्याः शंसन् यदुतिलक! यस्त्वामनुनयेत्॥९२॥

विशीर्णाङ्गीमन्तर्व्रणविलुठनादुत्कलिकाया
परीतां भूयस्या सततमपरागव्यतिकराम्।
परिध्वस्तामोदां विरमितसमस्तालिकुतुकां
विधो पादस्पर्शादपि सुखय राधाकुमुदिनीम्॥९३॥

विपत्तिभ्यः प्राणान् कथमपि भवत्सङ्गमसुख-
स्पृहाधीना शौरे मम सहचरी रक्षितवती।
अतिक्रान्ते सम्प्रत्यवधिदिवसे जोवनविधौ
हताशा निःशङ्कं वितरति दृशौ चूतमुकुले॥९४॥

प्रतीकारारम्भश्लथमतिभिरुद्यत्परिणतै-
र्विमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः।
अमुञ्चन्ती सङ्गं कुवलयदृशः केवलमसौ
बलादद्य प्राणानवति भवदाशासहचरी॥९५॥

अये रासक्रीड़ारसिक! मम सख्यां नवनवा
पुरा बद्धायेन प्रणयलहरी हन्त गहना।
स चेन्मुक्तापेक्षस्त्वमसि धिगिमां तूलशकलं
यदेतस्यानासानिहितमिदमद्यापि चलति॥९६॥

मुकुन्द भ्रान्ताक्षी किमपि यदसङ्कल्पितशतं
विधत्ते तद्वक्तुं जगति मनुजः कः प्रभवति।

कदाचित् कल्याणी विलपति यदुत्कण्ठितमति-
स्तदाख्यामि स्वामिन्! गमय मकरोत्तंससविधम्॥९७॥

अभूत् कोऽपि प्रेमा मयि मुररिपोर्यः सखि पुरा
पराद्धर्मापेक्षामपि तदवलम्बादलघयन्।
तथेदानींहा धिक्! समजनि तटस्थः स्फुटमहं
भजे लज्जां येन क्षणमिह पुनर्जीवितुमपि॥९८॥

अमी कुञ्जाःपूर्बंमम न दधिरे कामपि मुदं
द्रुमालीयं चेतः सखि न कतिशो नन्दितवती।
इदानीं पश्यैते युगपदुपतापं विदधते
प्रभौ मुक्तापेक्षेभजति न हि को वा विमुखताम्॥९९॥

गरीयान् मे प्रेमा त्वयि परमितिस्नेहलघुता
न जीविष्यामीति प्रणयगरिमाख्यापनविधिः।
कथं नायासीति स्मरणपरिपाटीप्रकटनं
हरौ सन्देशाय प्रियसखि! न मे वागवसरः॥ १००॥

ययौ कालः कल्यान्यवकलितकेलीपरिमलां
विलासार्थी यस्मिन् न चलकुहरे लीनवपुषीम्।
स मां धृत्वा धूतःकृतकपटरोषां सखि हठाद्-
अकार्षीदाकर्षन्नुरसि शशिलेखाशतवृताम्॥१०१॥

कदा प्रेमोन्मीलन्-मदनमदिराक्षी समुदयं
बलादाकर्षन्तं मधुरमुरलीकाकलिकया।
मुहुर्भ्रम्यच्चिल्ली चुलुकितकुलस्त्री ब्रतमहं
विलोकिष्ये लीलामदमिलदपाङ्गीमुरभिदम्॥१०२॥

रणद्भङ्गश्रेणीसुहृदि शरदारम्भमधुरे
वनान्ते चान्द्रीभिः किरणलहरीभिर्धवलिते।
कदा प्रेमोद्दण्डस्मरकलहवैतण्डिकमहं
करिष्ये गोविन्दं निविड़भुजबन्धप्रणयिनम्॥१०३॥

मनो मे हा कष्टं ज्वलति किमहं हन्त करवै
न पारं नावारं किमपि कलयाभ्यस्य जलधेः।
इयं वन्दे मूर्द्ध्रासपदि तमुपायं कथय मे
परामृष्ये यस्माद्धृतिकलिकयापि क्षणिकया॥१०४॥

प्रयातो मां हित्वा यदि विबुधचूड़ामणिरसौ
प्रयातु स्वच्छन्दं मम समयधर्मः किल गतिः।
इदं सोढ़ुंका वा प्रभवति यतः स्वप्नकपटाद्
इहायातो वृन्दावनभुवि बलान्मांरमयति॥१०५॥

अनौचित्तं तस्य व्यथयति मनो हन्त मथुरां
त्वमासाद्य स्वैरं चपलहृदयं धावय हरिम्।
सखि! स्वप्नारम्भे पुनरपि यथा विभ्रममदाद्
इहायातोधूर्तः क्षपयति न मे किङ्किनिगुणम्॥१०६॥

अयि स्वप्नोदूरे निवसतु समक्षं शुणु हठाद्
अविश्वस्ता मा भूरिह सखि मनोविभ्रमधिया।
वयस्यस्ते गोवर्द्धनविपिनमासाद्य कुतुकाद्
अकाण्डे यद्भूयः स्मरकलहपाण्डित्यमकरोत्॥१०७॥

अमर्षाद्धावन्तीं गहनकुहरे सूचितपथां
तुलाकोटिक्वाणैश्चकितपदपातद्विगुणितैः।

दिधीर्षन्मांहर्षोत्तरलनयनान्तः स कुतुकी
न वंशीमज्ञासीद्भुवि करसरोजाद्विगलिताम्॥१०८॥

अशक्तां गन्तव्ये कलितनवचेलाञ्चलतया
लतालीभिः पुष्यस्मितशवलिताभिर्विरुधतीम्।
परीहासारम्भीप्रियसखि समालम्बितमुखीम्
प्रपेदे चुम्बाय स्फुरदधरविम्बस्तव सखा॥१०९॥

ततोऽहं धम्मिल्ले स्थगितमुरलीका सखि शनै-
रलीकामर्षेण भ्रमदविरलभ्रूरुदचलम्।
कचाकृष्टिक्रीड़ाक्रमपरिचिते चौर्य्यचरिते
हरिर्लब्धोपाधिः प्रसभमनयन्मां गिरिदरीम्॥११०॥

कदाचिद्वासन्तीकुहरभुवि धृष्टः सरभसम्
हसन् पृष्ठालम्बीस्थगयति कराभ्यां मम दृशौ।
दिधीर्षैाजातेर्ष्यं मयि सखि तदीयाङ्गलिशिखाम्
न जाने कुत्रायं व्रजति कितवानां कुलगुरुः॥१११॥

अतीतेयं वार्ता विरमतु पुरः पश्य सरले
वयस्यस्ते सोऽयं स्मितमधुरिमोन्मृष्टवदनः।
भुजस्तम्भोल्लासादभिमतपरीरम्भरभसः
स्मरक्रीड़ासिन्धुः क्षिपति मयि बन्धूककुसुमम्॥११२॥

तदुत्तिष्ठ व्रीड़ावति निविड़मुक्तालतिकया
बधानैनं धूर्त्तंसखि मधुपुरीं याति न यथा।
इति प्रेमोन्मीलनद्भवदनुभवारूढ़जड़िमा
सखीनामाक्रन्दंन किल कतिशः कन्दलयति॥११३॥

अहो कष्टं बाल्यादहमिह सखींदुष्टहृदया
मुहुर्मानग्रन्थिं सहजसरलां ग्राहितवती।
तदारम्भाद् मोपीगणरतिगुरो निर्भरमसौ।
न लेभे लुब्धापि त्वदमलभुजस्तम्भरभसम्॥११४॥

अलिन्दे कालिन्दीकमलसुरभौकुञ्जवसते-
र्वसन्तींवासन्तीनवपरिमलोद्गारचिकुराम्।
त्वदुसङ्गे लीनां मदकुलिताक्षींपुनरिमां
कदाहं सेविष्ये किसलयकलापव्यजनिनी॥११५॥

धृतानन्दां वृन्दावनपरिसरे शारदनिशा
विलासोल्लासेन श्लथितकवरीस्फुल्लकुसुमाम्।
तव स्कन्धोपान्ते विनिहितभुजावल्लरिमहं
कदा कुञ्जेलीना रहसि विहसिष्यामि सुमुखीम्॥११६॥

विदूरादाहर्तुंकुसुममुपयामि त्वमधुना
पुरस्तीरे तीरे कलय तुलसीपल्लवमिदम्।
इति व्याजादेनां विदितभवदीयस्थितिरहं
कदा कुञ्जे गीपीरमण गमयिष्यामि समवे॥११७॥

इति श्रीकंसारेः पदकमलयोर्गोकुलकथां
निवेद्य प्रत्येकं भज परिजनेषु प्रणयिताम्।
निजाङ्गे कादम्बीसहचर वहन्मण्डनतया
स यात्युच्चैः प्रेमप्रवणमनुजग्राह भगवान्॥११८॥

मिलद्भङ्घींहंसीरमण! वनमालां प्रथमतो
मुदा क्षेमं पृच्छन्निदमुपहरेथा मम वचः।

चिरं कंसारातेरुरसि सहवासप्रणयिनीं

किमेनामेणाक्षीं गुणवति विसस्मार भवति॥११९॥

इदं किं वा हन्त स्मरसि रसिके खण्डनरुषा
परीताङ्गीगोवर्द्धनगिरिनितम्बे मम सखी।
भिया संभ्रान्ताक्षंयदिह विचकर्ष त्वयि बलाद्
गृहीत्वा विभ्रश्यन्नवशिखिशिखं गोकुलपतिम्॥१२०॥

ततः सम्भाषेथाः श्रुतिमकरमुद्रामिति मुदा
भवत्यां कर्त्तव्यः किमिति कुशलप्रश्नजड़िमा।
रुचिस्मेरा या त्वं रचयसि वालाच्चुम्बनकलाम्
अपाङ्गेन स्पृष्टा सखि मुररिपोर्गण्डकुहरे॥१२१॥

निवासस्ते देवि श्रवणलतिकायामिति धिया
प्रयत्नात्त्वामेव प्रणयहृदया यामि शरणम्।
परोक्षं वृष्णीनां निभृतनिभृतं कर्णकुहरे
हरेः काकून्मिश्रांकथय सखि! राधाविधुरताम्॥१२२॥

परीरम्भं प्रेम्ना मम सविनयं कौस्तुभमणौ
ब्रवाणः कुर्वीथाः पतगवर! विज्ञापनमिदम्।
अगाधा राधायामपि तव सखे! विस्मृतिरभूत्
कथं वा कल्याणं वहति तरले हि प्रणयिता॥१२३॥

मुहुः कूजत्काञ्चीमणिबलयमञ्जीरमुरली-
वरालम्बीभ्राम्यद्युवतिकलगीतैः सुरमणे।
स किं साक्षाद्भावीपुनरपि हरेस्ताण्डवरसै-
रमन्दः कालिन्दीपुलिनभुवि तौर्य्यत्रिकभरः॥१२४॥

नवीनस्त्वंकम्बो पशुपरमणीभिः परिचयं
न धत्सेराधाया गुणगरिमगन्धेऽपि न कृती।
तथापि त्वां याचे हृदयनिहितं दोहदमहं
वहन्ते हि क्लान्ते प्रणयमवदातप्रकृतयः॥१२५॥

गृहीत्वा गोविन्दं जलधिहृदयानन्दन सखे!
सुखेन श्रीवृन्दावनपरिसरे नन्दतु भवान्।
कथं वा ते गोष्ठं भवतु दयितं हन्त बलवान्
यदेतस्मिन् वेणोर्जयति चिरसौभाग्यमहिमा॥१२६॥

इति प्रेमोद्गारप्रभवणमनुनीय क्रमवशात्
परीवारान् भ्रातर्निशमयति चानूरमथने।
पुनः कोपोद्भिन्नप्रणयचटुलं तस्य निकटे
कथामाचक्षीथा दशभिरवतारैर्विलसिताम्॥१२७॥

ग्रहीतुं त्वां प्रेमामिषपरिवृतं चित्तवड़िशं
महामीनं क्षिप्रं न्यधित रसपुरे मम सखी
विवेकाख्यं छित्वा गुणमथ तदग्रासि भवता
हताशेयं किं वा शिव शिव! विधातुं प्रभवति॥१२८॥

वराकीयं दृष्ट्वा सुभग! वपुषो विभ्रमभरं
तवाभ्यर्णं भेजे परमकुतुकोल्लासितमतिः।
तिरोधाय स्वाङ्गंप्रकटयसि यत्त्वं कठिनतां
तदैतत् किं न स्यात् तव कमठमूर्तेः समुचितम्॥१२९॥

सदा कंसाराते स्फुरति चिरमद्यापि भवतः
स्फुटं क्रीड़ाकारे वपुषि निविड़प्रेमलहरी।

यतः सा सैरिन्ध्रीमलयरुहपङ्कप्रणयिनी
तया क्रोड़ीचक्रे परमरभसादात्मदयिता॥१३०॥

चिरादन्तर्भूता नरहरिमयीमूर्त्तिरभित-
स्तदीयो व्यापारस्तव हि न ययौविस्मृतिपथम्।
विनीतप्रह्रादस्त्वमिहपरमक्रूरचरित-
प्रयुक्तो यद्भूयः परहृदयभेदं जनयसि॥१३१॥

यदात्मानं दर्पादगणितगुरुर्वामन मुदा
मनोवाद्ये नाट्यं त्वयि वलितया कल्पितवती।
प्रपेदे तस्येदं फलमुचितमेव प्रियसखी
विदूरे यत् क्षिप्ता व्यसनकुलपाशैर्निगड़िता॥१३२॥

इयं नाथ क्रूरा भृगुपतनमाकांक्षति ततो
यदस्यां काठिन्यं तव समुचितं तद् भृगुपतेः।
इयं ते दुर्वोधाकृतिरश्च भवद्विस्मृतिपथं
यतो यातः साक्षाद् गुरुरपि स नन्दीश्वरपतिः॥१३३॥

निरानन्दा गावश्चिरमुपहता दूषणकुलैः
खरायन्ते सद्यो रघुतिलक गोवर्द्धनतटाः।
विराधत्वंघोषो ब्रजति भवदीयप्रवसनाद्
इदानीं मारीचः स्फुटमिह नरीनर्त्ति परितः॥१३४॥

प्रपन्नः कालोऽयं पुनरुदयितुं रासभजनै-
र्विलासिन्नद्यापि स्फुटमनपराधा वयमपि।
वितन्वानः कान्तिंवपुषि शरदाकाशवनितां
कथं न त्वं सीरध्वज भजसि वृन्दावनमिदम्॥१३५॥

न रागं सर्व्वज्ञक्वचिदपि विधत्ते नरपतिं
मुहुर्द्धष्टि द्रोहं कलयति बलादिष्टविधये।
चिरं ध्यानासक्ता निवसति सदासौगतरति-
स्तथाप्यस्यां हंहोसदयहृदयस्त्वं न दयणे॥१३६॥

परिक्लेशस्त्रेच्छान् समदमधुपालीमधुरया
निकृन्तन् नेत्रान्तप्रणयरचनास्वङ्गलतया।
त्वमासन्नःकल्किमिह च तुरगोपाहितरुचिः
स्वदेशं कुर्वीथाः प्रतिमुदितधीराधिकमिदम्॥१३७॥

इति मे मोद्गाढ़स्थपुटितवचो भङ्गिरखिखं
त्वमावेद्य क्लिद्यन्मुखपरिसरो लोचनजलैः।
ततो गोविन्दस्य प्रतिचरणमाध्वीकपदवीम्
उपासीनो दृग्भ्यां क्षणमवदधीथाः खगपते॥१३८॥

प्रणेतव्यो दृष्टेरनुभवपथं मन्दतनयो
विधेया गोपीनां स्मरपरिवृतानामुपकृतिः।
इयं यामैर्गम्या चतुर मथुरापि त्रिचतुरै-
रिति द्वैधं नान्तः कलय कलहंसीकुलपते!॥१३९॥

अपूर्बायस्यान्तर्विलसति मुदासारसरुचि-
र्विवेक्तुं शक्येते सपदि मिलिते येन पयसी।
कथङ्कारं युक्तो भवतु भवतस्तस्य कृतिनो
विलम्बः कादम्बीरमण मथुरासङ्गमंविधौ॥१४०॥

प्रपन्नः प्रेमाणं भगवति सदा भागवतभाक्
पराचीनोजन्मावधिभवरसाद् भक्तिमधुरः।

चिरं कोऽपि श्रीमान् जयति विदितः साकरतया
धुरीणो धीराणामधिधरणि वैयासकिरिव॥१४१॥

रसानामाधारैरपरिचितदोषः सहृदयै-
र्मुरारातिक्रीड़ानिविड़घटनारूपसहितः।
प्रबन्धोऽयं बन्धोरखिलजगतां तस्य सरसां
प्रभोरन्तः सान्द्रां प्रमदलहरींपल्लवणतु॥१४२॥

इति त्रिरूपनोस्वामिविरचितं हंसदूताख्यं काव्यं
समाप्तम्।

—————

पदाङ्कदूतः।

—————

गोपीभर्तुर्विरहविधुरा काचिदिन्दीवराक्षी
उन्मत्तेव स्खलितकवरीनिःश्वसन्ती विशालम्।
अत्रैवास्ते मुररिपुरिति भ्रान्तिदूतीसहाया
त्वक्त्वागेहं झटिति यमुनामञ्जुकुञ्जंजगाम॥१॥

अप्राप्यैव व्रजपतिसुतं तत्रकालं कियन्तं
मूर्च्छाप्राणप्रियतमसखीसङ्गता सङ्गमस्य।

तस्योपान्ते कुलिशकमलस्यन्दनाङ्गादियुक्तं
पद्माकारं मुरहरपदश्चारु चिह्नं ददर्श॥२॥

तस्मिन्नुद्यन्नवजलधरध्वानमाकर्ण्यभूयः
कन्दर्पेण व्यथितहृदयोन्मत्ततुल्या ययाचे।
प्रज्ञाहीनं वचनरहितं निश्चलं श्रोत्रहीनं
दौत्यंकर्त्तुं मुरहरपदो लक्ष्मणं पक्ष्मलाक्षी॥३॥

रम्यं यावन् मुरहरपदे शोभते तावदेव
त्वय्यप्यास्ते कुलिशकमलस्यन्दनाङ्गाङ्कुशादि।
गोपीदौत्यप्रकटनभिया सन्निधौ चक्रपाणे-
र्याने धीरप्रमुख मुखरो नूपुरो नो गृहीतः॥४॥

युक्तं चैतत् त्वयि मधुपुरीं प्रस्थिते पुण्यशीलाः
कीलालोर्त्थैःसुरभिकुसुमैरर्च्चयन्तोऽपि भक्त्या।
पश्यन्तस्त्वां नयनसुभगं साश्रुधाराक्षियुग्मं
यास्यन्त्युच्चैः पुलकिततनु प्रेमधारामुदाराम्॥५॥

चेतः प्रस्थापितमणुतया दौत्यकर्मोपयुक्तं
तत्रैवास्ते मुरहरपदस्पर्शमासाद्य मुग्धम्।
आकांक्षेयं तनुगुरुतया नैव गन्तुं समर्था
कोऽन्यो गच्छेद्वद मधुपुरीं गोपिकानां हिताय॥६॥

आगन्तव्यं झटिति मथुरामण्डलाद् गोपकान्ते
शान्तेति त्वंभव मधुरिपुः प्रस्थितः प्रोच्यचेदम्।
वाक्यं तच्च श्रवणमभवत् तेन मेने क्रमाङ्क
प्रायः सत्यं मतमिदमहोकारणं कार्य्यमेव॥७॥

तूर्णं तस्यां गमनमुचितं तेन मे तद्वियोग-
व्याधेः शान्तिस्तव च भविता तत्पुरीस्पर्शपुण्यम्।
वृन्दारण्याद्भवतु सुकृतं भूरि तेनैव किं स्यान्
नाकांङ्क्षाकिं भवति विपुलश्रीमतोऽर्थान्तरेषु॥८॥

अक्रूरस्य व्रजकुलबधूप्राणपानोद्यतस्य
प्रीतिर्भूयो भवतु भवतो दर्शनात्तेन किं वा।
कार्य्यासिद्धिर्भवति यदहोमादृशां दुःखहेतु-
र्नैवौन्नत्यं सकलभुवनप्रार्थनीयं रिपूणाम्॥९॥

सन्त्येवास्मत्कलुषकरिणःकोटिशो वारणीया-
स्तेऽप्यस्माभिः स्मृतिकरवरेणाङ्कुशंते गृहीत्वा।
स्वच्छन्देन ब्रज मधुपुरींको भवेद्वाविरोधी
गोपीभर्तुर्विरहजलधिं गोपकन्यास्तरन्तु॥१०॥

आस्ते नूनं यदुषु मथुरामण्डले चक्रपाणिः
कूजद्भृङ्गैरमलकमलैराकुले गोकुले वा।
तस्माद्गच्छेरतिलघुपुरीं ताञ्चजन्मावनीवद
बालक्रीड़ां रचयति मुहुर्यत्र तत्रानुरागः॥११॥

आस्तां मध्ये तरणितनया भीषणा भूरिनक्रै-
रावर्ताद्यैर्नयनभयदैस्तां तरिष्यस्यवश्यम्।
संसाराब्धिं तरति सहसा यत् क्षणं चिन्तयित्वा
तस्यासाध्यं भवति किमहो! पारयानं तटिन्याः॥१२॥

दृष्ट्वैव त्वां विदितमधुना पूर्ववत् पद्मनाभं
प्राप्यावश्यं विरहजलधेः पारमासादयिष्ये।

मोदिष्ये च क्षणमपि हरे रास्यचन्द्रामृतेन
प्राप्तप्राणा सुरभिकुसुमामोदिते मञ्जुकुञ्जे॥१३॥

सम्पर्कात्ते तरणितनयातीरसोपानवृन्दं
राज्ञःपन्थास्तलमपि तरोराचितं पद्मरागैः।
शोभां यास्यत्यचिरमतुलां स्वीयकार्यानुरोधाद्
उक्तैरेतैर्मुहुरपि सखे! तत्र न स्थेयमेव॥१४॥

ये वीक्षन्ते सततमधुना श्रीपतेरङ्घ्रिपद्मं
मञ्जीराद्यैः कनककलितैर्भूषणैर्भूषितञ्च।
तेषां च त्वं किमु न भविता लोचनप्रीतिहेतु-
र्व्यक्तैरेतैः कुलिशकमलस्यन्दनाङ्गादिचिह्नैः॥१५॥

यस्यासङ्गादलभत तनुं मानुषीं गौतमस्त्री
ध्यानेनैव प्रथितमहिमाश्रीपतिं नारदादिः।
तस्माज्जाते त्वयि मधुरिपोरङ्घिपद्माद्विचित्रः
किं दीनानामुपरि करुणालिङ्गितो दृष्टिपातः॥१६॥

एकं चिह्नं हरिपदभवं पन्नगस्योत्तमाङ्गे
तादृक् शोभाममि खगपतेर्निर्भयत्वं चकार।
पिण्डेनान्यत्तरणिरभवद् घोरसंसारसिन्धौ
ध्यातं तादृक् त्वमपि महतां जन्म विश्वोपकृत्यै॥१७॥

उत्फुल्लानामतिसुरभयः सौरभैरम्बुजानाम्
अम्भोलेशैस्तरणिदुहितुः शीतलैः शीतलाश्च।
अद्यावश्यं सततगतयः स्वैरमाधूतवर्हा
वर्तिष्यन्ते भवदभिमतप्रीतये लाञ्चनाग्र॥१८॥

त्यक्तव्येयं चिरपरिचिता जन्मभूमीति बुद्ध्या

मा खिद्यस्व विभुवनजनत्राणहेतो! क्रमाङ्क!।
किं न त्याज्यंभवति महतां चेत् परस्योपकारो
वाराणस्यामुनिरपि गतो दक्षिणाशामगस्त्यः॥१९॥

कर्पूरादेः सलिलमभवत् वैतैरण्यम्बुतुल्यं
वाक्यागम्यं नदति कठिनं कोकिलः षट्पदोऽपि।
वृन्दारण्ये किरति गरलं दुःसहं शीतरस्मि-
र्नैतद्वाच्यं सकृदपि सखे! सन्निधौ केशवस्य॥२०॥

प्रस्थानं ते कुलिशकलनान्नाश्चितं पण्डिताग्रै-
श्चित्तेऽस्माकं तदपि रमते याहि याहीति वाणी।
अप्रामाण्यं जनयति सदा नन्दसूनोर्वियोगो
व्याप्यज्ञानाद व्रजकुलभुवां व्यापकस्यापि सिद्धौ॥२१॥

उक्तप्रायं तरणितनयानागयोस्तत्कथायाम्
आस्ते को वा जगति भवतां भीतिहेतुः क्रमाङ्क!।
किञ्च स्वान्ते क्षणमपि भवत्सङ्गमे याति दूरं
भीतिर्मृत्योरपि किमशनिं लोकरीत्या दधासि॥२२॥

येनारूढं विषधरशिरो भूरि वक्तव्यमन्यत्
किं वाकारि स्तनगिरिवरारोहणं च श्रुतञ्च।
उत्पन्नस्य प्रियतमपदा तेन भीतिस्तवास्ते
को वा ब्रूयादिति हि सदृशं कारणेनैव कार्य्यम्॥२३॥

ज्ञातं ज्ञातं कुलिशसदृशं चिह्नमेतन्नवज्रं
नोचेदेवं जनयति कथं लोचनप्रीतिधाराम् ।

दूरस्थञ्च ग्लपयति मनो निस्वनो यस्य तत्स्या-
न्नेत्रप्रीतिप्रदमिति वचोन श्रुतं क्वापि केन॥२४॥

आस्ते चैवं नवजलधरो यं विलोक्य प्रमोदान्
नृत्यन्त्युच्चैर्विषधरभुजो निस्वनोऽप्यस्य भीमः।
मिथ्यैवायं यदवधि मया वीक्षितस्तादृशोऽयं
कन्दर्पो मां तदवधि दहत्येव वाणैरसह्यैः॥२५॥

क्रोशस्यान्ते चरणयुगलं क्षालयन् सूरजायां
यायाः किञ्च क्षणामपि तरोर्मूलमासाद्य तिष्ठेः।
उत्कृष्ठं यज्जनयति पदं सेवकानां जनानां
पद्म्यांहीनं तदिति जगतां प्रत्ययः कूर्मलोम॥२६॥

आरुह्यास्मत्हृदयमथवा गच्छ तुङ्गं तुरङ्ग
सौरं तेजः सजलजलदच्छायया वारणीयम्।
वृष्टिं नैव त्वदुपरि करिष्यत्ययं चण्डरश्मिः
खेदाशङ्गी सरसिजसखस्त्वद्धृताम्भोरुहस्य॥२७॥

एतेन स्यान्मधुपुरगतिः केन मे पङ्किलोऽभूत्
पन्थानन्दब्रजकुलभुवां लोचनाम्भोभिरुच्चैः।
नो वा शुष्को हरिविरहजोत्तापितोऽपीन्दुवक्त्रे
नित्योत्पत्तेर्नयनपयसां वाक्यमेतन्निरस्तम्॥२८॥

अद्भिस्ताभिस्तरणितनया पीनतां नैव लब्धा
गोपीभर्तुर्विरहदहनैः प्रत्युत क्षीणतां च।
नोचेदेवं सलिलतरसा गोकुले मास्तु किन्तु
प्रस्थानं ते किल मधुपुरे निर्विरोधं क्रमाङ्क!॥२९॥

क्षीणैवास्ते तरणितनया वस्तुतस्त्वद्वियोगे

का वा पीना भवति वचनं कस्यचिन्नेति युक्तम्।
गोपस्त्रीणां नयनसलिलैर्वद्धते सा विशीर्णा
अन्ये नन्दव्रजपुरजना नूनमत्यर्थकं यत्॥३०॥

सामग्री चेन्नफलविरहो व्याप्तिरवेति तत्वं
तत्वं गोपीनयनसलिले केवलेऽप्यस्ति मैवम्।
उत्कण्ठायां हृदि न कुरुते कारणानां सहस्रं
लक्षं वापि क्षणमपि यतः पीवरत्वं जनानाम्॥३१॥

तस्मात्तस्या विरतिरथवा हेतुरन्यादृशोऽस्या
न स्यादेव क्वचिदपि फलं कारणासन्निधाने।
नष्टे हेतौप्रभवति कुतः कार्य्यमित्यप्ययुक्तं
यागेऽपूर्बादिव जनकताद्वारतस्तस्य सिद्ध्या॥३२॥

क्लेशोऽस्माकं मलयपवनैर्मूर्च्छयाचोपकार-
स्तस्मात् सर्वं किल विधिकृतं कारणं कारणं न।
अम्भोजानाममृतकिरणज्योतिषा ग्लानिरुच्चै-
रुग्रज्योतिः किरणमिलनाज्जायते च प्रकाशः॥३३॥

स्त्रीभिः प्रेम प्रियतमकृतं नैव शक्यं विहातुं
यातेऽतस्त्वां किल मधुपुरीं चंक्रमाय क्रमाङ्क।
दग्धेनापि व्यथितहृदया पञ्चवाणेन वाणैः
क्रूरैरुच्चेर्मदनरमणीतत्कृते रोदिति स्म॥३४॥

आस्ते चित्ते किल कलयितुं वासना शम्बरारे-
रेकैकेन व्रजकुलबधूप्राणमेकैकमङ्क।

वाणेनातः सततमतनुर्जातकोपाहितुल्यैः
क्रूरैरस्मान् दहति कुसुमैः मायकैः पञ्चसंख्यैः॥३५॥

यल्लोकानामपकृतिभयात् कालकूटोऽपि पीत-
स्तानेवायं दहति गरलैस्तादृशैराचितेन।
वाणेनेति त्रिपुररिपुणा जातकोपेन दग्धो
नेवोत्थेन प्रबलशिखिना निर्दयं शम्बरारिः॥३६॥

नैवं न्यूनः स गरजमरः शम्बरारेः शरस्य
ब्रह्मादीनामयमपि यतो धैर्य्यविध्वंसहेतुः।
एतद्वाक्यं गिरिशचरणैः खण्डितं मण्डिताक्षै-
रन्यासङ्गाद्व्यथितहृदयैर्निदयं दग्धकामैः॥३७॥

उत्तापोऽयं मदनजनितो वर्द्धते नित्यमुच्चै-
र्वृन्दारण्ये वसतिरधुना केवलं दुःखहेतुः।
किञ्चास्माकं नयनसलिलैर्वर्द्धते चेन्नदीयं
केन स्थेयं द्रुतगतिजलैराचिते कुञ्जमध्ये॥३८॥

यस्य ध्यानं जनयति सुखं यादृशं तादृशं न
स्वर्लोकादावपि किमपरं ब्रह्मसाक्षात्कृतौच।
ज्ञेयञ्चैतन्मुनिवरमुखाम्भोजतः कीदृशी ते
बुद्धिस्तादृग्जनकविधये दर्शने नास्ति यत्नः॥३९॥

वक्तव्यं यन्मदनजनितं दुःखमस्माकमेतद्
भूयोभूयः प्रियतमपदे गोपवित्वा स्वदेहम्।
दृष्टे तेन त्वयि नयनयोर्निस्तुराप्रीतिहेतौ
यास्यत्येव क्षणमपि मनस्तत्कथायां न तस्य॥४०॥

वक्तव्यं च स्फुटमिति यदा निर्जनस्थो मुकुन्दः
पद्माद्यङ्कैरतिसुललितैरङ्कितं तत्पदानैः।
वृन्दारण्यंस्मरसि न कथं श्रीपते! मञ्जुकुञ्जं
ज्ञातं ज्ञातं यदिह न परीरम्भणंकुञ्जिकायाः॥४१॥

आकाङ्क्षाया ग्लपयति मनो मादृशां वासना सा
शाब्दे धर्मे सति न भविता हानिदेव क्रमाङ्क!
साकाङ्क्षोक्त्या मुरहरपदे सर्वमेतन्निवेद्यं
नोचेत्तस्य प्रमितिजनने केन हेतुस्तवोक्तिः॥४२॥

आगन्तव्यं सरसिजदृशा बोधितेन त्वदुक्त्या
नाप्रत्यक्षं प्रमितिकरणं वाक्यमेतन्नयुक्तम्।
स्वीकर्तव्यं नयनविरहापत्तिभीत्येति सर्वै-
र्मानाभावात् दृशि न हि भवेन्मानमन्यद्वितीयात्॥४३॥

बौद्धस्यैतन्मतविटपिनो मूलमाच्छादितं स्यात्
मृद्भिस्तस्यानृतवचनतोयन्मया पूर्वमुक्तम्।
यद्यस्माकं सततमतनोः शायकक्षुणदेहः
प्रामाण्येस्यात् कुसुमविशिखोऽस्तीतिवाक्ये न साक्षी॥४४॥

मूर्खा एव क्षणिकर्मानिशं विश्वमाहुर्नधीराः
खेदोऽस्माकं हरिविरहजःसर्वदैवास्ति चित्ते।
नान्त्यः शब्दो वचनमपि यत्तादृशं तस्य किन्तु
प्रेमैवास्मत्प्रियतमकृतं तच्च गोपाङ्गनासु॥४५॥

शाके शायकवेदषोड़शमिते श्रीकृष्णशर्मार्पयन्
आनन्दप्रदनन्दनन्दनपदद्वन्दारविन्दं हृदि।

चक्रे कृष्णपदाङ्कदूतरचनं विद्वन्मनोरञ्जनं
श्रीलश्रीयुतरामजीवनमहाराजाधिराजादृतः॥४६॥

इति महामहोपाध्याय श्रीकृष्णसार्वभौम विरचितं
पदाङ्कदूतकाव्यंसमाप्तम्।

________

उद्धवदूतः।

________

गोपीबन्धोरनवधिकृपादाक्ष्यदाक्षिण्यसिन्धो-
रादेशेन प्रणयपटुना प्रापितं गोकुलाय।
गोधुग्वृन्दव्यसनविसरालोकदुःस्थंरहस्थं
मध्ये कृत्य प्रियसहचरीमुद्धवं काचिदूचे॥१॥

कस्त्वं साधो! कुवलयदलश्यामविस्तीर्णदृष्टे!
दृष्टे सद्यो भवति भवति स्निग्धमत्यन्तमन्तः।
किंवा प्रश्नैरहह! मथरानाथभुक्तं तदेतत्
यत्ते मौलौ कनककपिशं सौरभोद्गारि वासः॥२॥

तत् त्वं तत्त्वंमधुपुरपतेलब्धलोभ्यप्रसाद-
स्तद्विश्रम्भस्थलमतिमहन्नेह सन्देहलेशः।
वक्षस्येतन्मम च किमिदं कथ्यते दर्श्यते वा
जातं यस्मादखिलमधुना हन्त! हास्यास्पदं नः॥३॥

प्रस्थानं ते भवतु भगवन्नत्र वाप्यन्यतो वा
गम्भीरत्वं भजतु स भवानित्थमुत्तानतां वा।

यद्वातद्वाभवतु विधिना वञ्चितेयं वराकी
यत्ते विज्ञापयति निमिषं पातनीयोऽत्र कर्णः॥४॥

क्वैषा योषित् प्रकृतिचपला पामरी कातरा च
ज्यायान् यातोयदुकुलपतेर्वल्लभत्वं क्व च त्वम्।
विज्ञप्तौ मे तदपि भवता भव्य! नोदासितव्यं
सानुक्रोशं वहति हि मनो दुर्गते दुर्जनोऽपि॥॥५॥

त्वंकल्याणीननु कुलबधूः सार्द्धमन्येन पुंसा
संलापस्ते सपदि समुदाचारसेतुं भिनत्ति।
जल्पन्नेवं नहि जहि घनश्यामदास्योन्मदानां
लोकातीतं किमपि चरितं केन नालोकितं नः॥६॥

अभ्रश्यामं स्मरसि न मनागित्थमुद्भाषिणीनां
घ्राणत्राणप्रवणमनसो गोदुहोगेहिनीनाम्।
एताः शश्वत्कुसुमशयने शाययित्वा सखीव
मन्दं मन्दंसरसविसिनीपल्लवैर्वीजयन्ति॥७॥

सिंहव्याघ्रप्रभृतिभिरपि प्रेक्ष्यमाणाः प्रबाष्पै-
राक्रन्देषु प्रखरकुररीसंसदं शिक्षयन्त्यः।
एकाकिन्यस्तरुणतिमिरास्तत्पदस्पर्शपुण्ये
वृन्दारण्ये कति युवतयो यामिनीर्यापयन्ति॥८॥

पश्यन्नक्षिद्वयमविरलस्यन्दमानाश्रुधारा
क्लिन्नाभोगं मम च किमभूर्लङ्घितो विस्मयेन।
गोगोपानां विरमतु कथा नेह भीरस्ति गत्वा
शारङ्गाणामपि वनजुषां पश्य कीदृक्षमक्षि॥९॥

राधे! मन्युं परिहर हरिःपादमूले तवायं
जातं दैवादसदृशमिदं वारमेकं क्षमस्व।
एतानाकर्णयसि नयवन्! कुञ्जकीरानुवादान्
एभिः क्रूरैर्वयमविरतं वञ्चिता वञ्चिताः स्म॥१०॥

त्वञ्चेदञ्चेरिह विमुखतामत्र बाले तमाले
प्राणान्मोक्ष्ये वनलतिकया कण्ठमुद्बध्य सद्यः।
आतङ्कोवा क इह भवतां सेवकास्तस्य यूयं
यस्योद्देश्यं न खलु किमपि स्त्रोबधादन्यदस्ति॥११॥

पीतप्राणाप्रथमममुना पूतना स्तन्यदात्री
दिष्टस्यान्तं कति न गमिता वेणुगीतेन गोप्यः।
तस्य प्रीत्या जगति विदितं यत् कृतं यज्ञपत्न्या
स्वातन्त्रेण प्रविशति मनस्तत्र तत् किं करोमि॥१२॥

अश्रुस्निग्धं नयनयुगलं रूढ़रोमाञ्चराजि
प्रत्यङ्गं ते तदलमनया देव दुःशङ्कया नः।
एतद्दीनोद्धरणपटवे तुभ्यंमभ्यर्थनीयं
मत्सन्दिष्टं मुदिर महसि प्रेयसि प्रापयेति॥१३॥

नन्दो न त्वां त्यजति निमिषं नापि देवी यशोदा
श्रीदामाद्या अपि न शिशवो नोपि पौराः सदाराः।
स त्वंलब्धो रहसि च मया केनचिन्नापि दृष्ट-
स्तन्निर्णीतं किमपि सुकृतं शिष्टमस्माकमस्ति॥१४॥

द्वित्रानत्रावससि दिवसानास्पदं घोषभर्त्तु-
स्तेनाशङ्के पुरमिदमसि प्रेषितो माधवेन।

एतद्वीजं किमपि बहुधा मद्विधा भावयन्त्य-
स्तस्यात्रत्यं किमपि न पुनः कृत्यमालोकयन्ति॥१५॥

तेन प्राप्तौसपदि जनकौपोषकाभ्यां किमाभ्यां
किं गोरक्षैः सखिभिरधुना राजपुत्राः सखायः।
तस्य द्वारे कति करटिनस्तर्णकादेः क्वचिन्ता
हन्ताभीरीःस्मरतु स कथं संवृतो नागरीभिः॥१६॥

आस्तामेतन्मम किमनया कूटकृत्यानुवृत्त्या
सारं फल्गु प्रियमथ परं पथ्यमन्यादृशं वा
धर्माधीनैरिति मम वचः पुण्डरीकाक्षासाक्षाद्
आख्यातव्यं यदनुकरणे कुत्रचिन्नैव दोषः॥१७॥

विख्यातोऽभूर्दिनकतिपयं नन्दसूनुर्यशोदा-
नेत्रानन्दो ब्रजजनपतिर्वल्लभो वल्लवीनाम्।
अद्य ख्यातो मधुपुरपतिमधिवीप्राणनाथः
सूनुः सौरेरगणितगुणो देवकीनन्दनोऽसि॥१८॥

गोपीषूडुष्विव तव समो भोगकालः कलानां
भर्तुः कर्तुर्निखिलनयनानन्द इन्दोरिवासीत्।
तासां मध्ये तदपि रमणी रोहिणीव प्रसिद्धा
सा त्वां नत्वा रहसि परमाकिञ्चना किञ्चिदाह॥१९॥

इत्यत्रत्यैरुपधिभिरपि स्निग्धसम्बोधनं ते
जायेतारुन्तुदमुदयिनी रीतिरन्याद्य यद्वः।
प्राक्संस्कारास्तदपि यदि मां तेऽनुबध्नन्ति दोषः
क्षन्तव्योऽयं भवतु भवता वाचिकप्रक्रियासु॥२०॥

वाक्चातुर्य्यं त्वयि वत वृथा सन्ततान्तश्चरेण
ज्ञातं चेतश्चरितमखिलं मन्मथेन त्वया च।
विज्ञप्तिर्मेतदपि मथुरानाथ! नेयं विरुद्धा
सन्तप्तादेर्वचसि विदितं पौनरुक्तं न दोषः॥२१॥

गोरक्षत्वंसमजनि यदा तावकीनं तदैव
स्वच्छन्दत्वंतव तिरयितुं नाथ! माभूम शक्ताः।
वश्यः कस्य त्वमथजगतामीशिता किन्तु वाचा-
माविस्कारैरदय! हृदयग्रन्थिमुद्घाटयामि॥२२॥

किन्ते जन्मान्तरमुपगतं पारसञ्चारकाले
धौतं नद्याः किमिदमथवा कार्मणी माथुरीणाम्।
निगर्तव्यं यदिह न तनौ यत्र बन्धः पशोर-
प्यत्रप्रेम्णि क्षणकतिपयैर्नाथ! निर्लेपकोऽसि॥२३॥

कर्त्ता कृष्णो नियतमधुना गोकुलं राजधानी-
बन्धुभ्योऽपि प्रगुणममुना गोदुहो माननीयाः।
काचिद् गोपीभवति महिषीत्युक्तमग्रे नवा कै-
स्त्वद्वैदग्धेन तु पितृवनप्रेतवत् कारिताः स्म॥२४॥

नीते नामन्यपि च भवतः प्रस्रुवाना स्तनाभ्यां
विभ्रत्यङ्केपुलकिनि भवद्वेणुवेत्रप्रतोदान्।
सोरस्ताड़ं न बहतु तवाक्रन्दमम्बा कथं वा
यस्मादद्य प्रशमितपरो राजराजेश्वरोऽसि॥२५॥

तैरुत्साहैः क्व खलु चलितं कुत्र ते नर्मवादाः
कण्ठो भग्नः करुणकरुणैस्तात कृष्णेति शब्दैः।

पर्वस्वन्तः किमपि विरुजन्नाममात्रानुकारी
विच्छेदस्ते तमपि कृतवान् नन्दमस्पन्दमेव॥२६॥

दोहःप्रायो न भवति गवां दोहनं चेन्नपाकः
क्षीराणां स्यात् स भवति यदा दुर्लभं तद्दधित्वम्।
दध्नःसिद्धौक्व खलु मथनं मन्थने क्वोपयोग-
स्तक्रादीनामिति गतिरभूदद्य गोधुग्गृहेषु॥२७॥

तन्नक्षीणीखुरविलिखनं वप्रभङ्गो न शृङ्गै-
र्नैवास्पर्द्धीनवजलमुचां घोरहम्बानिनादः।
कामोन्मादैरुदयति न वा सोपचर्या सपर्या
नामी वाहा मधुपुरपथादन्यदालोकयन्ति॥२८॥

वत्सालोकस्मरणसुलभप्रस्रवप्लावनीयं
धूलीजालं नयनसलिलैरध्वसु प्लावयन्त्यः।
त्वानन्विष्य व्रजपुरसरित्तीरभूषु भ्रमन्त्यः
सद्योजातानपि सुरभयो नार्भकान् पाययन्ति॥२९॥

निःप्रेमाणौ ललितयवसश्यामसीमन्यरण्ये
न्यस्य न्यस्य त्वदनुसृतये चक्षुषीदिक्षु दिक्षु।
आजिघ्रन्ति व्यथितमनसः किञ्च सिञ्चन्ति बास्पैः
क्रीड़ानीपंतव यदुपते! वत्सला वत्सतर्यः॥३०॥

भास्मत्कन्याकमलविपिनं कर्णिकाशेषमेतद्
बृन्दारण्यद्रुमकिशलयाः पाण्डुपत्रीभवन्ति।
शस्यैः पङ्कैःपिहितमभितस्त्वद्विलासानुकूलं
मूलं धत्ते स तव कमलाकान्त केलीकदम्बः॥३१॥

ये वै गोवर्द्धनधर! तव स्निग्धगम्भीरघोषैः
केकावाचः स्तिमितनयनास्तेनिरे ताण्डवानि।
अद्य प्रावृड्घनघनघटागर्जितेऽपि प्रवृत्ते
भुग्नग्रीवाःकिमपि न हि ते पुच्छमुल्लासयन्ति॥३२॥

यस्य स्कन्धो मसृणसुरभिस्तावकैरङ्गसङ्गै-
र्यत्रास्माकं सिचयनिचयं चोरयन्नुत्थितोऽसि।
यस्याधस्तात्तव चरणयोश्चक्रचिह्ना धरित्री
धन्यो नीपः समभवदसौ देव! दोग्धुं दृशौ नः॥३३॥

पाण्डुच्छायाः कुसुमरजसा भृङ्गमालाजटालाः
संवीताङ्गाः किशलयरुचा पाटलेनाम्बरेण।
भोगाभावादपगतरुजः पावनाभ्यासभाजः
सर्वे वृन्दावनविटपिनो योगिचर्य्यां चरन्ति॥३४॥

शृङ्गस्वानप्रियसखसमाहूतिगोरक्षहिक्काः
प्रत्याख्याय व्रजपुरपथस्योपकण्ठे विशिष्य।
श्च्योतद्वास्पाःसहसुरभयस्तोककृष्णादयस्ते
सायं प्रातर्नगरसरणौ चौरवत् सञ्चरन्ति॥३५॥

विस्मृत्य त्वन्मधुपुरगतिं वासरान्ते पुरान्तः
श्रीदामादौ विशति विशती हस्तहैयङ्गवीना।
वत्स क्वासि क्व च मम सुतेत्युन्मदेव भ्रमन्ती
त्वामप्राप्य व्रजपतिबधूः क्रन्दयत्यश्मनोऽपि॥३६॥

वीतासङ्गाः शयनवसनस्नानपानाशनादौ
गायन्त्यस्त्वच्चरितगुणिताः सन्ततं गीतगाथाः।

औदासीन्यं किमपि सकला बन्धुवृन्दे बहन्त्ये

गोप्यो लीलाक्षितिषु भवतो योगिनीवत् भ्रमन्ति॥३७॥

स्वार्थं नैतत् समुचिततया वच्मिकर्मातितीव्रं
सह्यं यस्मिन्रजनि समये नाथ! यातः स कालः।
अद्य वस्यत्त्रिभुवनवशीकारमाधुर्यधूर्ये
त्वच्चातुर्ये न भवति यथा लाञ्छनं तद्विदध्याः॥३८॥

एकैकाभिर्विहितमसकृत् तत्तवेहानुगत्यं
यस्मै कस्मिन्नपि गणयति क्रीतमात्मानमन्यः।
धिग्वैदग्ध्यंतव तदिह ताः सिन्धुपारे विहाय
स्वैरीवैरीपरमइम यन्निर्भरं निर्वृतोऽसि॥३९॥

कूलक्रोड़े तपनदुहितुः श्यानपङ्केनिमग्नं
यत्न्यदुत्थापितमथ कृतोपरिस्क्रियं कौशलेन।
न्यस्तं पीठे तव चरणयोश्चक्रचिह्नंपदं तत्
शालग्रामोपलमिव सदा मद्विधाःपूजयन्ति॥४०॥

युक्त्वासर्वात्मनि मयि मनः सच्चिदानन्दरूपे
चेतस्तापं जहित न हितः कश्चिदेवाङ्गसङ्गः।
इत्युद्देशान् कथयसि वृथा मादृशां बालिशानाम्
एते हि त्वद्विरहशिखिनःसामिधेनीं भजन्ति॥४१॥

वेशे वाम्यं तदपि मुदिरश्याम सावर्ण्यतस्ते
मुग्धा हस्ते मरकतमयी कङ्कणश्रेणिरीदृक्।
अङ्गालेपो मृगमदरसैः स्निग्धनीलं दुकूलं
सर्वाङ्गीनं व्रजपुरजुषामङ्गनानामिदानीम्॥४२॥

साक्षादीक्षांघटयति घनश्याम यत्ते कुतस्तत्
तल्लावण्यं कथय कृतिना केन चित्रेण लेख्यम्।
अक्रूरस्यागमनदिवसान्निद्रया नाथ नष्टं

कुत्र स्वप्नः शिव शिव दृशौ वाष्पवृष्ट्यैपरं नः॥४३॥

दत्तस्वप्नो भवसि यदि मे दर्शनीयः कदाचिद्
वर्हापीड़ं मधुरमुरलीधाम तद्वाम दध्याः।
अस्मादन्यद्यदि वितनुषे दीयते दिव्यमुग्रं
पादस्पर्शः पुरमृगदृशां दुर्लभस्तत्तव स्यात्॥४४॥

मद्भावेन स्थिरमथ चरं भावयन्त्यो भवत्यः
सन्तुष्यन्तु त्वमिति बहुधा सत्वमस्मानवादीः।
आख्यातव्यं किमिह भवतः किञ्चिदूनोनवासौ
नैवास्माकं मदयति मनो नाम नीलाम्बरोऽपि॥४५॥

व्यक्तीभूतः स्वयमयमसि श्लाघनीयः समृद्ध्या
ऋज्वीषु त्वं कथमिह परीतोषमस्मासु यायाः।
तत्तद्वन्धुप्रकरपुरतस्तत्र कापि त्रिवक्रा
धृत्वा यत्त्वामधिनिवसनं नाथ निघ्नीचकार॥४६॥

गव्यस्तेनः प्रथममुदभूर्वत्सपालश्च पश्चात्
तत्रेदानीं तदनु तदनु छिद्रनौकर्णधारः।
लुण्ठाकोऽभूरथ कुलबधूजातिजीवार्थसार्थे
धिग्धातारं भवति निहितो येन भूचक्रभारः॥४७॥

भक्तिप्रीतिप्रणयसहितं मानदम्भाद्यपेतं
चेतोऽस्माकं गुणवदगुणं गोदुहां देहमेतत्।

विक्रीतं ते युगपदुभयं स्वीकृतञ्च त्वयाथो

हृद्गृह्नासि त्यजसि च वपुर्नाथ कोऽयं विचारः॥४८॥

यत्राधर्मः प्रभवतितरां यत्र भूयाननर्थो
यत्राकामः सपरमुदयीयत्र ते नास्ति मोक्षः।
त्यागे तस्मिन्नपि परिजने गोचरे यत् त्वमर्थी
तस्मादर्थी भवति विदुषां पौरुषव्यत्ययेऽपि॥४९॥

शैलोद्धर्ता दमितभुजगः पीतदावाग्निचक्रो
माद्यन्नागायुतबलगजाधीशभोजेन्द्रहन्ता।
स त्वं दोषेऽप्यसति कुरुषे किङ्करीणामभद्रं
वक्तुं नास्ते जन इति न भोः कर्तुमेवं युनक्ति॥५०॥

लोकातीतं य इह कुरुते कर्म किं धर्मधारा
तेन त्याज्या किमिह विहितं श्रीमता राघवेण।
त्यक्ता सीता तदपि सुचिर सव हमा प्रियाभूत्
त्यक्ता यस्मिन्नहनि तु वयं तत्र कुञ्जारतोऽसि॥५१॥

व्यावर्तध्वं स्वभवनमितः कुत्र रे यात मुग्धा
ऋज्वीरद्यस्पृशतु स कथं वल्लभः कुञ्जिकायाः।
संभूय त्वच्चरणकमलस्पर्शलोभेन वान्ती-
रित्थंगोपीःपथि पथि बलादध्वगाअप्यरुन्धन्॥५२॥

पीयूषात्मा तव कुलगुरुर्जन्मदातावदातो
माता याभूदियमपि जगत्पावनीति प्रसिद्धम्।
एकैकन्ते जयति जगदानन्दि चित्तं चरित्रं
कस्मादेवं विरहदहने देव दासीर्जुहोषि॥५३॥

स्वामी वामीभवति यदि तत्सन्निधौसञ्चरिष्णुः
पथ्यं प्रत्याययति समयः सोऽयमीशानयानाम्।
लोकद्विष्टं किमपि भवते कुर्वते युक्तवादी
साधुस्तस्मिन्नकिमु मथुरामण्डले कश्चिदस्ति॥५४॥

येनागत्य त्वमपि मथुरां यानमारोप्य नीतो
यश्चाविष्टस्तव चरणयोश्चक्रचिह्नेलुलोठ।
अस्माकं त्वद्गमनसमये सा दशा येन दृष्टा
सोऽपि स्वामिन्! किमपि करुणाकातरो न ब्रवीति॥५५॥

अस्मन्मर्मच्छिदुरमकरोत् कृत्यमत्युत्कटं यत्
कंसस्तेन त्रिभिरपि दिनैस्तत्फलं साधु लेभे।
त्वामुत्थाप्य त्वरिततुरगं येन यानं वितेने
किञ्चित्तस्य प्रभुवर कुतः श्रूयते नाधुनापि॥५६॥

श्यान तेज, प्रकृतावमलत्वेन सक्रान्तसव
प्रत्यक्षञ्च व्यवधिबहुलं विश्वरूपप्रकाशि।
आन्ध्यं जन्मावधि जनयताशेषलोकैकरत्नं
हाहा तेन त्वमपि मुषितं तारकं चक्षुषोर्नः॥५७॥

सूक्ष्मंसूक्ष्मादपि च कलयन्नन्धवच्चेष्टते यो
नान्ध्यंतस्मात्तिरयति रसैरश्विनीनन्दनोऽपि।
विज्ञातः स त्त्वमपि रचयन्नेवमङ्ग व्यवस्थां
वङ्कीकार्य्यःकथमिव वृथा किं परं दूषयामि॥५८॥

तत्ते चित्तं शरणमपि नः सर्वतो भद्ररूपं
व्यावृत्यास्मान् वसति बलवन्नागरीवृन्दमत्र।

वैदग्ध्यं ते किमिदमधुना तद्वहिर्वीथिकान्ते
वासोरासोत्सवनट विभो दुर्लभो यन्ममापि॥५९॥

किं नो वृष्ट्यान किमशनिभिर्भूभृता वाहताः स्म
किं न प्लुष्टा दवहुतवहैर्दंशिताः किं न सर्पैः।
प्रेम प्रौढ़ किमपि जनयन् नव्यलीकांश्चमुञ्चन
अञ्चन्नेवं कथमपयशो घोरमङ्गीकरोषि॥६०॥

अस्मत्प्राणास्तवपदनखच्छायनीराजनाय
त्वं यातोऽभूः सपदि यदि ते यान्ति को वा विषादः।
एकं किन्तु व्यथयति मनश्छद्मना किङ्करीणां
प्राणान्निन्ये यदुपतिरिति त्वद्गताकिं वदन्ती॥६१॥

सङ्कोचो यस्तव गुरुजने यश्चपौराङ्गनासु
व्यक्तीभूतं तदुभयमभूत् कुञ्जिकोपग्रहेण ।
अस्मानेव क्षिपसि सहसा देव दूराद्दवीयः
कर्तुं यः पारयति स कृतीकिं करोत्येवमेव॥६२॥

एतस्मादप्यधिकमधिकं यत्तदस्मासु कुर्या
न स्वप्नेऽपि त्वयि विसदृशं चिन्तयत्येतदन्तः।
दन्ते कृत्वा तृणमिति महासभ्यमभ्यर्थयामि
स्वामिन्नेवं नहि मधुपुरीं क्षीणमध्यां विदध्याः॥६३॥

द्रोणीरादौ मलयजयुताः शोचिताः सञ्चिनुध्वं
वापीर्निघ्नीकुरुत शतशो नालशैवालपूर्णाः।
सख्यं सख्यो यदि यदुपतौयाति तोयं तदेति
प्रेष्यो वश्यो मिलति यदि तन्माथुरोर्वन्दयिष्ये॥६४॥

सौभाग्येन व्रजकुलबधसार्थसीमन्तरत्नं
या कंसारेरतिगुणवतीस्कन्धमप्यारुरोह।
सेयं राधा किमिदमिति मामुद्दिशन्तोऽङ्गुलीभिः
लोकानत्र स्रपितनयनाः शाखिनो रोदयन्ति॥६५॥

यो विद्यायां तपसि भवतो ज्येष्ठएवादिदेवो
माद्यन्मायाविभवभवता वञ्चितः सोऽपि दृष्टः।
या त्वामम्बा शरणमविशद्वञ्चकश्चापि तस्या-
स्त्वामुद्दामा कथय न कथं लोकलज्जारुणद्धि॥६६॥

आदावेव क्षणसुखकारं कृष्ण कल्पान्तभोग्य-
क्लेशारम्भित्वयि मम महत् पातकं प्रेम मन्ये।
प्रायश्चित्तं भवति नच मे दुर्गताया विधेयं
तेनैव त्वामहमविरतं सानुतापा स्मरामि॥६७॥

मातुर्नापि स्मरणमियता लक्षितं लौकिकं ते
धर्माधीनो यदसि तदपि व्यक्तमेतावतैव।
किञ्च ब्रूते तव रसिकतांनिग्रहः कामिनीनां
को जानीते कितव! भवतः कुत्र तात्पर्यमस्ति॥६८॥

तत्त्वज्ञानं कथय शतधा प्रेषय प्रेषलक्षं
चिन्तारत्नं वितर कुरु वा सानुतापप्रसङ्गान्।
यावद्दोर्भ्यां तव नवघनश्यामलं धाम गाढ़ं
नाश्लिष्यामि त्रुटति नहि मे तावदेवैष तापः॥६९॥

लक्ष्मीकान्तं कतिचन चिदानन्दमन्ये विदुस्त्वां
मायाकारं कतिचिदपरे साधकाः सिद्धिमाहुः।

योवाऽन्योवा भव नवघनश्याम तस्यैव धाम्नो
दासीभूता वयमिति परे बन्ध्यकल्पा विकल्पाः॥७०॥

नायासि त्वं नच नयसि मामात्मनः पादमूलं
नो वा दूतं विसृजसि नवा लेखलेशं ददासि।
निश्वासान्निर्निपतति न ते काचिदाश्वासवार्त्ता
कस्मिन्नास्थामुपहितवती जीवितं धारयामि॥७१॥

यत् पूर्वेद्युर्गमनदिवसान्मानभङ्गाभिलाषी
लक्ष्मीकान्त त्वमपि पतितः पादमूले ममालीः।
स्पृष्टोऽङ्गुल्यातदपि न मया नापि नेत्रान्तपीतः
चित्ते शल्यं सविषमिव तन्मामके लग्नमस्ति॥७२॥

को जानाति त्वदपहरणक्रूरमक्रूरमाप्तं

कः प्रत्येति त्वमपि सहसा गोकुलं त्यक्ष्यसीति।
त्यक्तानायास्यसि पुनरिदं नाथ! केनाशु मेयं
मद्दर्दैवान्यहह सुमहादुर्घटं साधयन्ति॥७३॥

भूयस्त्वञ्चेन्मिलसि महिलासम्प्रदायं विहाय
द्वाभ्यां दृग्भ्यां युगपदपि तद्रूपमादौग्रहीष्ये।
आश्लिष्य त्वामहह! तदनु स्पन्दसम्बन्धहीना
कल्पक्रूरामपि निमिषतां यामिनीं यापयिष्ये॥७४॥

यात्राकाले कथमपि चलन्नन्दपत्नीकराम-
व्यस्तन्यस्तेन च सुरुचिरं रोचनाचित्रकेण।
आशीर्दूर्वाक्षतचितमनुस्मर्यमाणं मुखं ते
सर्वक्लेशापहमपि जगन्नाथ! मर्म छिनन्ति॥७५॥

न स्मर्तव्यस्तदयमदयः कर्हिचिद्वर्हचूड़ो
निश्चित्येति स्पृहयति मनोयावदर्थान्तराय।
किं ते वैरं विहितमव रे कृष्ण कृष्यन्निवान्त-
र्धारावाहिस्मरणपदवीं गाहसे तावदेव॥७६॥

गुञ्जाहारं कतिचन तदा पत्रशृङ्गाणि केचित्
केचिद् वर्हस्तवकमपरे वेत्रमन्ये प्रतोदम्
वंशींकाचित् त्वदधरसुधासारसौरभ्यरम्यां
निन्युर्धन्यानिजमविदुषीदीर्घमायुर्मृतास्मि॥७७॥

आयास्यामि स्वयमिति पुरः प्रस्थितौ यत् त्वयोक्तं
मय्येवाश्रु प्लुतमिव तदा नाथ! निःक्षिप्तमक्षि।
आस्थामत्र प्रणिहितवती प्राणिमि प्राणबन्धो!
चिन्ताबन्धोऽभवदथभवेः सत्यसन्धो न वेति॥७८॥

सेयं सिन्धुर्विकचकमला काननं फुल्लमेतन्-
नीपश्चायं कुसुमनमितः श्रूयते भृङ्गगीतम्।
स त्वं साहं स च रतिपतिः किं वदामः परन्ते
भावोभिन्नःसपदि विदधे सर्वमन्यादृगेव॥७९॥

योषिल्लक्षं रमय दमय द्वेषिणो दुर्विनीतान्
सम्राड़ेधि प्रणयसुमुखो बन्धुवृन्दं पुराणम्।
क्लेशानेषा वहतु बहुशः कान्त! किं तेन वार्तां
कल्याणीं ते भवतु मम तु श्रोतुमेवेदमायुः॥८०॥

यत्तन्मेऽस्तु त्वयि तु चरितं युक्तिवर्त्म व्यतीतं
सम्पश्यन्ती किमपि किमपि प्राणबन्धो! विभेमि।

दीना याचे विधिमहमतस्त्वत्कृते मन्त्रयन्ते

यद्गर्गाद्याः किमपि निपुणे तद्वचः सत्यमस्तु॥८१॥

आगः कस्मिन्नहनि न कृतं तिष्ठतापि त्वयेह
प्रस्थानेन प्रकटितमथो वीर! वैरं वरीयः।
रुक्षत्वं नो न जयितुमियानेव यत्नस्तवाभूद्
एतच्चेतस्त्वयि तु न गुणादन्यदङ्गीकरोति॥८२॥

तुभ्यं दातुं विषमुपनता पूतनाघानि युक्तं
विश्वोन्माथिष्वपि समुचितो निग्रहः पूरुषेषु।
अज्ञा योषित् प्रकृतिकृपणानन्यवृत्तिश्चया ते
तत्रोन्माथे किमपयशसः पातकाद्वान्यदस्ति॥८३॥

संभोग्योऽभूर्दिनकतिपयं मादृशीनामथ त्वं
माधुर्यश्चेद्दिनकतिपयं भुञ्जते सह्यमेतत्।
अस्माभिर्यो भवदनुभवः सोऽपि सर्वात्मना यन्-
निःसंस्कारः समजनि मनो दग्धमेतावतैव॥८४॥

तुल्याकारं समनु भवतोरत्र दुःखं सुखञ्च
क्रीड़ाकारी त्वमहमिति नो शब्दभेदोऽपि जातः।
स त्वं योषित्कुलरतिगुरुः साहमेवं वराकी
सा किं नाहं त्वमसि न स किं नाथ! किं जातमेतत्॥८५॥

धैर्य्यात् काचित् कतिचन सखीशिक्षया लज्जयान्या
भीत्या काचित् कतिचन रुषा काचिदालस्यतोऽपि।
स्वाधीनेऽपि त्वयि रतिगुरौ केलिकुञ्जावलम्बि-
न्यस्वाध्यायाः कति कति निशामादृशामत्र नासन्॥८६॥

दूरं दूरादपि च विषमं कञ्चिदेत्य प्रहारं
कुर्वन्नेकं पशुमिव जगन्नाथ! किं नाबधीर्माम्।
वाटीसीमप्रसरणपटु श्रूयमाणैरजस्रं
किं दुःशीलप्रहरणशतैरङ्गमङ्गं लुनासि॥८७॥

सोढ़व्यं ते सकलमधुना संभृतब्रह्मचर्य्यो
राजर्षिस्त्वं कलयसि यदि स्वीयवंशानुरूपम्।
लक्ष्म श्रोणिः पुरयुवतिषु श्रूयमाणा नवीना
किं कुर्य्याम स्पृशति हृदयं शासिता सर्वलेव॥८८॥

यान्ति प्राणा न हि वहिरमीनुद्यमानाय गाढ़ं
सत्यं गत्यन्तरमपि न मे किञ्चिदस्ति श्वसत्याः।
मग्नं चेतः कुलिशकठिने त्वय्यनुद्वार्य्यमेतत्
तेनैवाहं भवदनुगतिं संश्रिता किं करोमि॥८९॥

किं नो दण्डप्रहररजनीपक्षिणीपक्षरीत्या
स्फीतस्फीतां विरहविपदं साहयन्मामहासीः।
दत्तो यस्यै न खलु निमिषो दृष्टिविघ्नोऽपि तस्यै
दूरस्थित्यै वितरसि विभो! यौगपद्याद् युगानि॥९०॥

स्वामिन्नेकं वचसि भवतः स्वान्तविश्रान्तमन्यत्
कर्म्मण्यन्यन्मुहुरिदमभिव्यक्तमन्धोऽपि वेद।
भूयोभूयस्तदति मुषिता नाम गृह्णामि किं ते
तिष्ठत्यस्मिन् जगति यदि नो जीवनस्थानमन्यत्॥९१॥

त्वत्सेवासु स्खलनमभवन्मादृशः कस्य किं वा
सेवाधर्मो गहन इति यन्नीतिनिष्ठाः पठन्ति।

तेन त्यागः किमयमुचितो व्रच्मिसङ्कोचहीना
पान्थोयत्र त्वमसि रसिकैरीक्षितो नैष पन्थाः॥९२॥

पाण्डुक्षामं वपुरिदममीकुन्तलाः कान्तभारा
वासोऽप्येवंविधमिति भिदा भिक्षुकीभिः कुतो नः।
एषा क्रोशाः कृति च मथुरा यामि चेदद्य किं तत्-
नेत्रद्वन्द्वंन भवति कृति श्रीमुखालोकनाय॥९३॥

कुञ्जद्वाराद्वहिरपि यदि प्राणनाथ! प्रयासि
प्राणैः स्थेयं क्षणमपि तदा नैव मे सत्यमेतत्।
भूयोभूयो विलुभितवती त्वामिति ध्वस्तलज्जा
दूराद्दूरं कथमतिचिरादाननं दर्शयिष्ये॥९४॥

त्वञ्चेदानीं नगरतरुणीसार्थसर्वस्वभूत-
स्ता अप्येवं तव किमितरास्तुभ्यमद्य स्वदन्ते।
अत्यौत्सुक्यात्तदपि भवतः सम्मुखीवा यदि स्यां
किं स्यादेतन्न खलु निपुणं भावयन्त्यप्यवैमि॥९५॥

न स्यादस्यायदि मम तनोः प्रत्यभिज्ञेयता वा
स्यादेवाथ स्फुटमुभयथा मामकीनो विड़म्बः।
आद्ये नो न स्पृशति भवतो दृष्टिरौदास्यमुद्राम्
अन्यत्रापि प्रणयलघुता तादवत्स्थं व्यनक्ति॥९६॥

सांमुख्यं ते भवति यदि से तद्गृहे वा वहिर्वा
सौजन्येन स्मरसि यदि तत् सा कथा दुर्लभैव।
पूर्बावस्थास्मरणलघिमा दुर्निवारः सभायाम्
शान्ते चेच्चतुरतरुणीसार्थसौहार्दभङ्गः॥९७॥

दूरादेव स्मिततरसुधासिच्यमानाधरौष्ठं
गण्डोदञ्चत्पुलककमलाकारविस्फारदृष्टि।
एह्येहीति स्वयमवशतः प्रेयसः प्रार्थनं या
लेभे तस्यामनतिशय़नीमाननैवापमृत्युः॥९८॥

रूक्षालोकाः कटुकुवचसः स्वालये सर्व एव
क्षीणासि त्वं कथमिति वहिर्ग्राम्यवाची दहन्ति।
ग्रामस्यान्ते तपनतनयाकूलमुद्यानमूलं
शून्यंलीलाशरणमपि ते कुत्र तन्निर्वृणोमि॥९९॥

वैमुख्यन्ते किमपि मदनो माद्यति क्रूरकर्मा
नर्मालापेष्वपि कुवचनैर्बाधते बन्धुवर्गः।
चेतो नाथ! त्वयि विनिहितं वाचमुल्लंघ्य यासा
मासामुक्तिः स्मितकलुषिता कल्पते किं करोमि॥१००॥

कुञ्जेकुञ्जे रतिरुपहिता धिक्कृतं धाम धौतं
मग्नं वेणोर्वचसि विहितो बन्धुवाचां विसर्गः।
दृष्टः स्वामी कपिरिव कृतः प्राणसारोऽसि जारो
हीनोपाया कथमहममूनद्य भूयो नियोक्ष्ये॥१०१॥

एते नित्यं नवपरिमलोद्गारिणः सन्तु कुञ्जाः
सन्तु क्लेशा न च मम तनोरत्रवीभत्सभावः।
एतद्दष्ट्वारमयति हरिर्गुढ़मागत्य राधाम्
इत्यद्यापि व्रजयुवतयोमह्यमीर्ष्यां वहन्ति॥१०२॥

राधे राधे कथय कथय त्वय्यसौ नन्दनो मे
बाल्यादेव प्रभृति कुरुते वत्सलो हृत्प्रकाशम्।

द्रष्टव्योऽसौ पुनरपि मया मन्यते कीदृशं वा

मानिन्यम्बा तव च रुदती पृच्छतीदन्दहीति॥१०३॥

अत्रागच्छ त्वरितमथवा तिष्ठ तत्राब्दलक्षं
शृण्वन्त्वेते जनपदजना मुक्तकण्ठा ब्रवीमि।
यामि स्वर्गं निरयमथवा प्राणिमीह म्रिये वा
श्यामादन्यो नहि नहि नहि प्राणनाथो ममास्ते॥१०४॥

राधाबन्धुर्लिखितपठितो विश्वतो यत्त्वमासीः
साहं साहंकृतिरुदभवं यत्तवातिप्रियेति।
लक्ष्मीकान्त! प्रणयसुधया सिञ्च वा मां नवा त्वम्
एतज्ज्ञातं ननु मम जनुर्धन्य एतावतैव॥१०५॥

यान्ति प्राणा मम यदि न ते प्रच्छनीयः पुरोधा
देया मह्यं किसलयरुचा पाणिनैव त्वयापः।
याचे तत्र व्यवधिकृतिनः क्षालनं क्षारनीरः
कर्तव्यं ते मधुपुरबधूपादलाक्षारसस्य॥१०६॥

सीदत्यङ्गं दलति हृदयं किं नु कुर्वन्ति हन्त!
प्राणाः श्यामाशय मम बधाभद्रभागी त्वमेव।
हा धिक् कीदृग् वदसि रसने! तत्त्वतो यत्तदास्तां
वन्दीभूय स्वयमिह मया मोचितः प्राणनाथः॥१०७॥

श्याम श्याम स्मर सहचरी मन्दकारी कृतं मे
केनाकस्माद् भ्रमति भुवनं मज्जति द्यौरवन्याम्
काहं काहं क्व मम दयितः कुत्र तस्यैष दासो,
हा हा हा हा! हरि हरि हरि! क्षीणमध्य प्रसीद॥१०८॥

इत्युद्बाहुर्विमलपुलकाकम्पनासन्नकण्ठी
छिन्ना मूले पतति भुवि सा हेमवल्लीव यावत्।
भृङ्गारैस्तैः शिशिरसलिलैस्तावद्रेवीद्धवोऽस्याः
सिञ्चन्नास्यंतदुपरि विभोरुत्तरीयं दुधाव॥१०९॥

चक्रे चैतन्मनसि चतुराश्चेटकाश्चक्रपाणे-
र्लक्षं यत्स्यात् तदपि यदसौमामिहैकं न्ययुङ्क्त।
एतत् सम्भावनसमुचितं साध्वभून्नैपुणं मे
यद्रक्षायामहमधिकृतो नाशितेयं मयैव॥११०॥

सम्यग्जातं सुचिरविरहज्वालया दूयमाना
सेयं साध्वी विशति परमानन्दधामन्यनन्ते।
मन्त्री वैज्ञानिक इति वृथा मानमासाद्यमाद्यन्
अद्य स्वीयां मतिपरिणतिं बुद्धवानुद्धवोऽपि॥१११॥

शृण्वन्नेतन्मधुपुरपतिर्मंस्यते कीदृशं मां
किं वा भावीकथमिव मया दर्श्यतामास्यमस्मै।
ध्यायन्नेतत् पुलकमुकुलारम्भिसस्पन्दतारं
पश्यन्नस्या मुखमकथयत् प्राणिति प्राणितीति॥११२॥

नष्टं प्राप्तं निधिमिव मुखं वीक्ष्यमाणोऽयमस्या
भूयः सिञ्चन्मधुपुरपतेरुत्तरीयानिलेन।
उच्चैराह श्रुतिपरिसरे किङ्करं कंसशत्रो-
र्दूतं राधे! त्वयि विनिहितं विद्धिमामुद्धवोऽस्मि॥११३॥

सातिस्वादुर्दवथुदमनीतुल्यपीयूषवाणी
वर्णश्रेणि श्रवणपुटकेनान्तरस्या विशन्ती।

को जानीते किमकृत परं सत्वरं सापि तन्वी
किङ्किंकिङ्किंकथय कथयेत्युत्थिता कौतुकेन॥११४॥

आदायास्यै मलयजजलैर्मर्मरीभूतमन्त-
र्म्लानाभोगं नयनपयसः प्रोञ्छनात् साञ्जनस्य।
किञ्च प्रोतं बहुभिरभितः शुष्कशैबालखण्डैः
सारं शौरेरखिलमपि तद्वर्णयामास भूयः॥११५॥

पश्चादूचे पुनरयमिदं चेलवल्लीं धुनान
स्तस्मादस्याः शपथशतकैः सन्निवृत्तः कथञ्चित्।
लक्ष्मीर्यस्मान्निवसति वहिस्त्वंतदन्तर्निमग्ना
मन्योरन्यो भवतु विषयः सा किमेवं विधासि॥११६॥

धारावाहि व्यसनकथनाहूतवत्याः प्रियायाः
सूक्तासत्तिव्यवधिभयतो यन्न मध्ये मयोक्तम्।
मौढ़्यादेवं मम किमु महानेव न स्वादनर्थ-
स्तस्यायं चेद्वसनपवनः पावनो नाभविष्यत्॥११७॥

यस्ते मग्नो मनसि, हृदये यस्य च त्वं विलीना
मन्यन्ते यच्चरणशरण भूतिमैन्द्रीतृणाय।
यस्यालाभात् पुरयुवतयो नालशैबालशय्याः॥
सूर्य्यापाये ज्वलितवपुषो यामिनीर्यापयन्ति॥११८॥

यस्याद्य त्वद्विरहदहनज्वालया पाण्डुभासो
वासो नीलं गमयति भिदामम्ब नीलाम्बरेण।
दासो रासोत्सवनटगुरोरस्य सोऽहं समोऽहं
स त्वामावेदयति यदिदं मन्मुखेन प्रतीहि॥११९॥

दैवादद्य प्रतिपदमितो विश्वतो बन्धुपाशै-
र्देहेनैव द्विजपदमनुप्रापितः संयतोऽस्मि।
यस्मिन् बाले तपनतनयाकूलकुञ्जान्तराले
चित्तेन त्वंविरमसि न मे किन्तु केलीविनोदः॥१२०॥

साक्षादीक्षान भवतु चिरं चिन्तिता तेन माभू-
र्दैवाधीनोगमयति जनः कोऽपि कुत्रापि कालम्।
वन्दीभूतं मयि तव मनस्त्वय्यपीदं ममेति
द्वाभ्यामाभ्यां मिलनमचिरादावयोः साधनीयम्॥१२१॥

राधे! राधे! क्व चलसि मनाक् तिष्ठ कल्याणि! कुञ्जे
प्रातर्जातं न हि न हि निशा सावशेषाधुनापि।
इत्यावेशप्रलपितशतं मद्गतं देवि! दिग्भ्यः
संप्राप्तास्ते कथयितुममी साक्षिणः सन्ति सभ्याः॥१२२॥

रुद्धाबन्धुप्रणयपदवी लङ्घिता लोकलज्जा
मूर्द्ध्निन्यस्तं पदमयशसः शङ्कितो नापमृत्युः।
मामाराद्धुंकिमिव न कृतं दुष्करं त्वादृशीभि
स्त्यक्त्वा युष्मान् मम यदुपतेरद्य राज्यंधिगस्तु॥१२३॥

रम्या हर्म्यावलिरियममी बन्धवः सानुबन्धाः
निर्वैरेयं जयति नगरी गुम्फिता नागरीभिः।
एषा सम्पत् किमिह न सुखं किन्तु कान्तारकुक्षौ
युष्माभिर्यः समजनि स मे दुर्लभोहृद्विनोदः॥१२४॥

नोपष्टम्भो गुणवति! तवं स्यादयं चेत् तदानीं
नाहं नासावतिनवघनश्यामलो देहबन्धः।

दुःखं क्वापि क्वचिदपि सुखं यच्छसि क्वापि मोहं
सर्वत्रैवं स्फुरति मम तु त्वन्मयीसृष्टिरेव॥१२५॥

कुञ्जामृज्वीमकरवमुरीकृत्य यन्निर्घृणत्वं
तत्तात्पर्य्यं विपुलमतयो नापयन्ति क्षतिः का।
हित्वा वेशं कुवलयदृशां केशमक्षिभ्रुवं वा
क्षन्तव्या मे न हि कुटिलतेत्येतदुन्नायकं तत्॥१२६॥

विद्युल्लोलं वपुरिदमितो यौवनादेः कथा का
दृश्यं मिथ्या सकलमिति मद्दासदासोऽपि वेद।
किं ते वक्ष्येस्वयममुमहं नैव वक्तं समर्थो
यद्गोपीतत् प्रणयमदिरामत्तमात्मानमेव॥१२७॥

उद्यद्गोत्रस्खलनमनिशं गोपिते गोपयिष्यन्
राधानाम्रीमकरवमहं सारिकामन्तिकस्थाम्।
नीता राधे मम मुरलिकेत्येवमादीन्यकाण्डे
वक्तुः सभ्यस्मितजनयितुस्तन्ममासीद्वृथैव॥१२८॥

अस्त्रं प्रस्थापनमपि मया लब्धमुन्निद्रकेण
यस्मिन्नेतन्निहितमथ ते स्वप्नसन्दर्शनाय।
जाग्रद्भावे भवति भवतीभावनीयैव धिङ्मे
तेनाशेषस्फुरणशमनो हन्त जाता सुषुप्तिः॥१२९॥

जाने प्राणेश्वरि मम यथा निर्विवादं तथा ते
सन्तप्ताया युगपदभियान्त्यद्यतन्यो रजन्यः।
यास्यन्त्येता दिनकतिपयैरङ्गपल्यङ्कभाजोः
सत्यंसत्यं निमिषनिभृतामावयोः सुस्थिता स्याः॥१३०॥

ज्ञातिग्रामो हसति विभृतं बन्धुवर्गो रुणद्भि
व्रीड़ामन्तर्दधति गुरवो नीरवो भृत्यलोकः।
चित्रीयन्ते किमपि सुजना दुर्जनाः कुत्सयन्ते
श्लाघन्ते मां सदसि रसिकाः सादरं त्वत्कथासु॥१३१॥

इत्यादिष्टंभुवनगुरुणा गौरवेण क्रियाणाम्
अत्रागन्तुं किमिव शयितुं भोक्तुमप्यक्षमेण।
तामौत्सुच्यादिति स कथयन्नात्मनः पादमूले
निम्नासीनः सुरभिशिशिरं निर्झरं किञ्चिदाप॥१३२॥

पश्यन्नेतत् किमिति कथयन्नश्रुधारामुदारां
मन्दाकिन्याइव तनुभृतः सुभ्रुवः सुस्थितायाः।
हा हा जातं किमिति चकितः सत्वरं प्रोच्यपादौ
भक्तिश्रद्धासपुलकमुपादाय मूर्द्ध्नाववन्दे॥१३३॥

बुद्धाबद्धाञ्जलिपुटमिमां किञ्चिदाख्यातुकामाम्
इत्याचख्यौविरमतु परं निष्फलो देवि खेदः।
एतद्वासो नयवति हरेः श्रीमदङ्गाधिरूढ़ं
चेतोमूढ़ं न कुरु करुणासागरे सङ्गतासि॥१३४॥

भास्वानश्वानयमति कृतीखेलयन्नम्बरान्त
र्धर्मस्थित्यै भ्रमति भुवने तामसोन्मूलनाय।
प्रादक्षिण्याञ्झटिति विनतानन्दनाधीनयानो
रागीचिन्तां न कुरु कुरुते पद्मिनीनां प्रबोधम्॥१३५॥

गोपीमात्रं घुणलिपिनयान्माधवप्रेमपात्रं
मत्वा यत्त्वामनतिशयिनीदृष्टिरग्नेममासीत्

क्षन्तव्यं तद्विधिविधिसुतव्योमकेशाब्दिपुत्री-

मृग्यः पाशे पशुरिव तव प्रेम्निबद्धोयदस्ति॥१३६॥

मातर्मातर्जय जय जगन्मोहनं मोहयन्त्याः
कस्ते तत्त्वं कलयतु न यद्वेदगर्भोऽपि वेद।
मन्तव्योऽसौ परिजनतया वल्लभस्येति तस्यै
वारं वारं तदनु दधिरे तेन दण्डप्रणामाः॥१३७॥

सर्वाङ्गीनं पुलकमुदभूदश्रु मग्ने च दृष्टी
कण्ठो भग्नस्वर इव वचःपर्यवस्थानशून्यम्।
तस्यास्तस्याप्यजनि युगपद्यानकाले तदानीं
मुग्धा मूर्द्धन्यभवदुभयोरद्भुता पुष्पवृष्टिः॥१३८॥

आमन्त्र्यैकस्तदनु सकलं घोषमुत्कण्ठमानः
सद्यो राधारमणचरणप्रेक्षणाय प्रतस्थे।
मन्त्रं चिन्तामणिमिव परा चिन्तयन्तीचिराय
प्रेयः सूक्तं वनभुविघनानन्दमग्नावतस्थे॥१३९॥

नानारामप्रणयि-सुमनः सङ्गसौभाग्यभाजा
जाड्यपाये सुरभिसमयस्थायिना माधवेन।
राधाबन्धोरुपहृतमिति प्रेममाध्वीकमेतन्-
निर्विघ्नेन श्रवणपुटकैः पुण्यवन्तः पिबन्तु॥१४०॥

विचारपारदृश्वानः कृतं कृशधिया मया।
करुणार्द्राः करिष्यन्ति शुद्धमुद्धवदूतकम्॥१४१॥

इति तालितनगरनिवासि श्रीमाधवकवीन्द्र भट्टाचार्य्य-
विरचितं उद्धवदूतं खण्डकाव्यं सम्पूर्णम्।

_______

चौरपञ्चाशिका।

<MISSING_FIG href="../books_images/U-IMG-1729345196Screenshot2024-10-19190820.png"/>

अद्यापि तां कनकचम्पकदामगौरीं
फुल्लारविन्दवदनां तनुलोमराजीम्।
सुप्तोत्थितां मदनविह्नललालसाङ्गीं
विद्यां प्रमादगुणितामिव चिन्तयामि॥१॥

अद्यापि तां अभिमुखीं नवयौवनाढ्यां
पीनस्तनीं पुनरहं यदि गौरकान्तिम्।
पश्यामि मन्मथशरानत्वपीड़ितानि
गात्राणि सम्प्रति करोमि सुशीतलानि॥२॥

अद्यापि तां यदि पुनः कमलायताक्षीं
पश्यामि पीवरपयोधरभारखिन्नाम्।
सम्पीड्यवाहुयुगलेन पिबामि वक्त्रम्
उन्मत्तवन्मधुकरः कमलं यथेष्टम्॥३॥

अद्यापि तां निधुवनक्लमनिःसहाङ्गीम्
आपाण्डु गण्डपतितालककुञ्चिताक्षीम्।
प्रछन्नपापकृतमन्तरमावहन्तीं
कण्ठावसक्तमृदुवाहुलतां स्मरामि॥४॥

अद्यापि तां सुरतजामरघूर्णमानां
तिर्य्यक्स्खलत्तरलतारकमावहन्तीम्

शृङ्गारसारकमलाकरराजहंसीं
ब्रीड़ावनम्रवद्नामुरसि स्मरामि॥५॥

अद्यापि तां सुरतताण्डवसूत्रधारीं
पूर्णेन्दुसुन्दरमुखीं मदविह्वलाङ्गीम्
तन्वीं विशालजघनां स्तनभारखिन्नां
व्यालोलकुन्तलकलापवतींस्मरामि॥६॥

अद्यापि तां मसृणचन्द्रनचर्चिताङ्गीं
कस्तूरिकापरिमलेन विसर्पिगन्धाम्।
अल्पेन्दुरेखपरिशीलितभालरेखां
मुग्धाभिरामनयनां शयने स्मरामि॥७॥

अद्यापि तां निधुवने मधुपानपात्रीं
लीढ़ाम्बरां कृशतनुं चपलायताक्षीम्।
काश्मीरपङ्कमृगनाभिकृताङ्गरागां
कर्पूरपूगपरिपूर्णमुखींस्मरामि॥८॥

अद्यापि तां क्लमपतन्मदिरापराग-
प्रस्वेदविन्दुविततं वदनं प्रियायाः।
अन्ते स्मरामि रतिखेदविलोलनेत्रं
राहूपरागपरिमुक्तमिवेन्दुविम्बम्॥९॥

अद्यापि तन्मुखशशीपरिवर्तते मे
रात्रौ मयि क्षुतवतिक्षितिपालपुत्र्या।
जीवेति मङ्गलवचः परिहृत्य कोपात्
कर्णे कृतं कनकपत्रमनालपन्त्या॥१०॥

अद्यापि तत् कनककुण्डलघृष्टमास्यम्
तस्याः स्मरामि विपरीतरताभियोगे।
आन्दोलनश्रमजलस्फुटसान्द्रविन्दु
मुक्ताफलप्रकरविच्छुरितं प्रियायाः॥११॥

अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं
तस्याः स्मरामि रतिविभ्रमगात्रभङ्गम्।
वस्त्राञ्चलेन परिघर्षिपयोधरान्तं
दन्तच्छदं दशनखण्डनमण्डनञ्च॥१२॥

अद्याप्यशोकनवपल्लवरक्तहस्तां
मुक्ताफलप्रचयचुम्बितचूचुकाग्राम्।
अन्तःस्मितोच्छसितपाण्डुरगण्डदेशां
तां वल्लभां रहसि सम्बलितां स्मरामि॥१३॥

अद्यापि तत् कुसुमरेणुसुगन्धिमिश्रं
न्यस्तं स्मरामि नखरक्षतत्वक्ष्म तस्याः।
आकृष्टहेमरुचिराम्बरमुत्थिताया
लज्जावशात् करधृतं न कुतोब्रजन्त्याः॥१४॥

अद्यापि तां विधृतकज्जललोलनेत्रां
पृथ्वीप्रभिन्नकृसुमाकुलकेशपाशान्।
सिन्द्ररसम्बलितमौक्तिकहारभाराम्
आबद्धहेमकटिकां रहसि स्मरामि॥१५॥

अद्यापि तां धबलवेश्मनि रत्नदीप-
मालामयूखपटलैर्गलितान्धकारैः।

सुप्ताञ्चमे रहसि हास्यमुखीं प्रसन्नां
लज्जाभरार्द्रनयनां परिचिन्तयामि॥१६॥

अद्यापि तां गलितबन्धनकेशपाशां
स्रस्तस्रजं स्मितसुधामधुराधरोष्ठीं
पीनोन्नतस्तनयुगोपरि चारु चुम्बन्
मुक्तावलिं रहसि लोलदृशं स्मरामि॥१७॥

अद्याप्यहं विरहवह्निनिपीड़िताङ्गीं
तन्वीं कुरङ्गनयनां सुरतैकपात्रीम्।
नानाविचित्रकृतमण्डनमावहन्तीं
तां राजहंसगमनां सुदतींस्मरामि॥१८॥

अद्यापि तां विरहितां कुचभारनम्रां
मुक्ताकलापविमलीकृतकण्ठदेशाम्।
तां केलिमन्दिरगतां कुसुमायुधस्य
कान्तां स्मरामि रुचिरोज्ज्वलधूमकेतुम्॥१९॥

अद्यापि चाटुशतप्रोल्लसितस्मितन्तु
तस्याः स्मरामि सुरतक्तमविह्वलायाः॥
अव्याजनिस्तनितकातरकाकुकण्ठ-
सङ्कीर्णवर्णरुचिरं वदनं प्रियायाः॥२०॥

अद्यापि तां सुरतघूर्णनिमीलिताक्षीं
स्रस्ताङ्गयष्टिगलितां गुरुकेशनम्राम्।
शृङ्गारवारिकमलाम्बुजराजहंसीम्
जन्मान्तरे निधुवनेऽप्यनुचिन्तयामि॥२१॥

अद्यापि तां प्रणयिनीं मृगशावकाक्षीं
पीयूषपूर्णकुचकुम्भयुगं वहन्तीम्।
पश्याम्यहं यदि पुनर्दिवसावसाने
स्वर्गापवर्गनरराज्यसुखं त्यजामि॥२२॥

अद्यापि तां स्तिमितवस्त्रमिवावलग्नां
प्रौढ़प्रतापमदनानलतप्तदेहाम्।
बालां मदेकशरणामनुकम्पनीयां
प्राणाधिकां क्षणमहं नहि विस्मरामि॥२३॥

अद्याति तां क्षितितले वरकामिनीनां
सर्बाङ्गसुन्दरतया प्रथमैकरेखांम्।
संसारनाटकरसोत्तमरत्नपात्रीं
कान्तां स्मरामि कुसुमायुधवाणखिन्नाम्॥२४॥

अद्यापि तां प्रथमतो वरसुन्दरीं मे
स्नेहैकपात्रघटितावनिनाथपुत्रीम्।
हे हे जना मम वियोगहुताशतापं
सोढुं न शक्यत इति प्रतिचिन्तयामि॥२५॥

अद्यापि विस्मयकरीत्रिदशान् विहाय
बुद्धिर्बलाच्चलति तत् किमहं करोमि।
जानन्नपि प्रतिमुहूर्तमिवान्तकाले
रुष्टा तु वल्लभतरेति ममातिधीराः॥२६॥

अद्यापि तां गमनमित्युदितं मदीयं
श्रुत्वैव भीतहरिणीशिशुचञ्चलाक्षीम्।

वाचस्खलद्विगलदश्रुकणाकुलाक्षीं
सञ्चिन्तयामि गुरुशोकविनम्रवक्त्राम्॥२७॥

अद्यापि वासगृहतो मयि नीयमाने
दुर्वारभीषणवरैर्यमदूतकल्पैः।
किं किं तया बहुविधं न कृतं मदर्थे
कर्तु न पार्यत इति व्यथते मनो मे॥२८॥

अद्यापि तां क्षणवियोगवियोगमग्ना
शङ्केपुनर्बहुतया मृतशोकधाराम्।
मज्जीवधारणकरीं मदनालसाङ्गीं
किं ब्रह्मकेशवहरैः सुदतींस्मरामि॥२९॥

अद्यापि तां चलचकोरविलोलनेत्रां
शीतांशमण्डलमुखीं कुटिलाग्रकेशाम्।
मत्तेभकुम्भसदृशस्तनभारनम्रां
बन्धुकपुष्पसदृशौष्ठपुटां स्मरामि॥३०॥

अद्यापि मे निशि दिवा हृदयं दुनोति
पूर्णेन्दुसुन्दरमुखं मम वल्लभायाः।
लावण्यनिर्जितमनोहरकामदर्पं
भूयः पुनः प्रतिमुहुर्न विलोक्यते यत्॥३१॥

अद्यापि तामरहितां मनसापि नित्यं
सञ्चिन्तयामि सततं मम जीवितेशाम्।
लावण्यभोगनवयौवनभारसारां
जन्मान्तरेऽपि मम सैव गतिर्यथा स्यात्॥३२॥

अद्यापि तां मलयपङ्कजमन्धलुब्ध-
भ्राम्यद्द्विरेफचयचुम्बितगण्डदेशाम्
केशावधूतकरपल्लवकङ्कणानां
त्वां नो दुनोति नियतं सुरतं मदीयम्॥३३॥

अद्यापि सा नखपदं स्तनमण्डलेषु
दत्तं मयैव मधुपानविमोहितेन।
उद्भिन्नरोमपुलकैर्बहुभिः समन्तात्
जागर्ति रक्षति विलोकयति प्रयत्नात्॥३४॥

अद्यापि या शशिमुखी न कृतागसं मां
सौच्चैर्वचः प्रतिददाति यदैव नक्तम्।
चुम्बामि रोदिमि भृशंपतितोऽस्मि पादे
दासस्तव प्रियतमे! भज मां स्मरामि॥३५॥

अद्यापि धावति मनः किमहं करोमि
सार्द्धंसखीभिरभिवासगृहेषु कान्ते।
कान्तासुगीतपरिहासविचित्रवाद्यैः
क्रीड़ासुखैरिह तु यातु मंदीयकालः॥३६॥

अद्यापि तां न खलु वेद्मि किमीशपत्नी
सा वा शचीसुरपतेरथ कृष्णलक्ष्मीः।
धात्रैवकिं विजगतां परिमोहनाथ
सृष्टा कुले युवतिराजिदिदृक्षयेव॥३७॥

अद्यापि तां जगति वर्णयितुं न कोऽपि
शक्नोत्यदृष्टसदृशप्रतिरूपलक्ष्मीम्।

दृष्टं तया तु सदृशं खल तेन रुपं
शक्तो भवेदपि स एव परो न चान्यः॥३८॥

अद्यापि निर्मलशरच्छशिगौरकान्तिं
चेतो मुनेरपि हरेत् किमुतास्मदीयम्।
वक्त्रं सुधामयमहं यदि तत् प्रपद्ये
चुम्बामि चाप्यविरतं व्यथते न चेतः॥३९॥

अद्यापि ते प्रतिमुहुः प्रतिभाव्यमाना
चेतो हरन्ति हरिणिशिशुलोचनायाः।
अन्तर्निमग्नमधुपाकुलकुन्दवृन्द-
सन्दर्भसुन्दररुची नयनार्द्धपाताः॥४०॥

अद्यापि तत्कमलरेणुसुगन्धिगन्धं
तत्प्रेमवारिमकरध्वजतापहारि।
प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं
प्राणांस्त्यजामि नियतं पुनराप्तिहेतोः॥४१॥

अद्यापि सा यदि पुनर्नलिनीवनान्ते
रोमाञ्चवीचिविलसच्चपलाङ्गयष्टिः।
कादम्बकेशररुचः कणमात्रसङ्गात्
किञ्चित् क्रमं श्लथयति प्रियराजहंसी॥४२॥

अद्यापि तां नृपतिशेखरराजकन्यां
सम्पूर्णयौवनमदालसभङ्गगात्रीम्।
गन्धर्वयक्षसुरकिन्नररराजकन्यां
स्वर्गादिमां निपतितामिव चिन्तयामि॥४३॥

अद्यापि तत्सुरतकेलिनिबद्धबुद्धिं
रङ्कोपबन्धपतितोस्मितशून्यहस्ताम्।
दन्तौष्ठपीड़ननखक्षतरक्तसिक्तां
तस्याः स्मरामि रतिबन्धुरगात्रयष्टिम्॥४४॥

अद्यापि तां निजवपुः कृतवेदिमध्याम्
तत्सङ्गसम्बितसुधास्तनभारनम्राम्।
नानाविचित्रकृतमण्डनमण्डिताङ्गीं
सुप्तोत्थितां निशि दिवा नहि विस्मरामि॥४५॥

अद्यापि तां कनककान्तिमदालसाङ्गीं
क्रीडोत्सुकाभिजनभीषणवेपमानाम्।
अङ्गाङ्गसङ्गपरिचुम्बितमोहभङ्गीं
मज्जीवनौषधमिव प्रमदां स्मरामि॥४६॥

अद्यापि तां नवबधूसुरताभियोगे सम्पूर्ण-
केलिविधिना रचितां कदाचित्।
पूर्णेन्दुसुन्दरमुखीं हरिणायताक्षीं
उन्नेन्द्रकोकनदपत्रनखीं स्मरामि॥४७॥

अद्यापि तद्विकसिताम्बुजगौरमध्यं
गोरोचनातिलकविन्दुकृतैकदेशम्।
ईषन्मदालसविघूर्णितदृष्टिपातं
कान्तामुखं सखि मया सह गच्छतीव॥४८॥

अद्याप्यहं नवबधूसुरताभियोगं
शक्नोमि नान्यविधिना रचितुं कदाचित्।

ताद्भ्रातरोमरणमेव हि दुःखशान्तौ
विज्ञापयामि भवतस्त्वरितं सुनीतम्॥४९॥

अद्यापि नोज्झतिहरः किल कालकूटं
कूर्मो बिभर्ति धरणींखलु पृष्ठकेन।
अम्भोनधिर्वहति दुःसहबाड़वाग्निं
अङ्गीकृतं सुकृतिनः परिपालयन्ति॥५०॥

चोरकविकृता चौरपश्चाशिका समाप्ता।

_______

अमरुशतकम्।

_______

ज्याक्तष्टिबद्वखटकामुखपाणिपृष्ठ-
प्रेखन्नस्वाशुचयसम्बलितोऽम्बिकायाः।
त्वां पातु मञ्जरितपल्लवकर्णपूर-
लोभभ्रमद्भ्रहमरविभ्रमभृत्कटाक्षः॥१॥

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण।
आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेचोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः॥२॥

आलोलामलकावलींविलुलितां विभ्रच्चलत्कुण्डलं
किञ्चिन्सृष्टविशेषकं तनुतरैः स्वेदाम्भसां शीकरैः।
तन्व्या यत् सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये
तत् त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः॥३॥

अलसवलितैः प्रेमार्द्रार्दौमुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः।
हृदयनिहितं भावाकृतं वमतिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे! त्वयाद्य विलोक्यते॥४॥

दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालिता
दैवादद्य किल त्वमेव कृतवानस्या नवं विप्रियम्।
मन्धुर्दुःसह एष यात्युपशमं नो सान्त्यवादैः स्पुटं
हे निस्त्रंश विमुक्तकण्ठकरुणं तावत् सखी रोदितु॥५॥

लिखन्नास्ते भूमिं वहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकै-
स्तवावस्था चेयं विसृज कठिने! मानमधुना॥६॥

मार्यस्तन्वि! हठाद्धरन्ति रमणं तिष्ठन्ति नो वारिता-
स्तत् किं ताम्यसि किञ्च रोदिषि मुधा तासां प्रियं माकृथाः
कान्तः केलिरुचिर्युवा सहृदयस्तादृक् पतिः कातरे!
किन्नोवर्करकर्करेः प्रियशतैराक्रम्य विक्रीयते॥७॥

कोपात् कोमललोलबाहुलतिकापाशेन बद्धादृढ़ं
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः।
भूयोऽप्येवमिति स्खलन् मृदुगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नुतिपरः प्रेयान् रुदत्या हसन्॥८॥

प्रहरविरतौमध्ये वाह्नस्ततोऽपि परेऽथ वा
किमुत सकले जाते वाह्नि प्रिय त्वमिहैष्यसि।

इति दिनशतप्राप्यं देयं प्रियस्य यियासतो
हरति गमनं बालालापैः सबाष्पगलज्जलैः॥९॥

याताः किन मिलन्ति सुन्दरि! पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशासि कथयत्येत्वं सबाष्पे मयि।
लज्जामन्वरतारकेण निपतद्धाराश्रुणा चक्षुषा
दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः॥१०॥

धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं
दीर्घोच्छासमुदश्रुणा विरहिणींबालां चिरं ध्यायता।
अध्वन्धेन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं
ग्रामीणैर्ब्रजतो जनस्य बसतिर्ग्रामे निषिद्धा यथा॥११॥

कथमपि सखि! क्रीड़ाकोपाद व्रजेति मयोदिते
कठिनहृदयस्त्यक्त्वा शय्यां बलाद्गतएव सः।
इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणेजने
पुनरपि हतव्रीड़ चेतः प्रयाति करोमि किम्॥१२॥

दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच-
स्तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं बधूः।
कर्णालङ्कृतिपद्मरागशकलं विन्यस्य चञ्चूपुटे
व्रीडार्ता प्रकरोति दाड़िमफलव्याजेन वाग्वन्धनम्॥१३॥

अज्ञानेन पराङ्मुखींपरिभवादाश्लिष्य मां दुःखितां
किं लब्धं चटुल! त्वयेह नयता सौभाग्यमेतां दशाम्।
पश्यैतद्दयिताकुचव्यतिकरीन्मृष्टाङ्गरागारुणं
वक्षस्तेमलतैलपङ्कशवलैर्वेणीपदैरङ्कितम्॥१४॥

एकत्रसनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरत-
स्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविश्नितः।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपश्चारतश्चतुरया कोपःकृतार्थीकृतः॥१५॥

दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादराद्
एकस्या नयने पिधाय विहितक्रीडामुबन्धच्छलः।
ईषद्वक्रिमकन्धरः सपुलकः प्रेमोल्लसन्मानसाम्
अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥१६॥

चरणपतनप्रत्याख्यानात् प्रसादपराङ्मुखे
निभृतकितवाचारेत्युक्त्वारुषा परुषीक्ते।
व्रजति रमसे निःश्वस्योच्चैः स्तनस्थितहस्तया
नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता॥१६॥

काञ्च्यागाढ़ताराबरुद्धवसनप्रान्ता किमर्थं पुन-
र्मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति।
मातः स्वप्तमपीह वारयति मामित्याहितक्रोधया
पर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया॥१८॥

एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो-
रन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम्।
दम्पत्योः शनकैरपाङ्गवलनान्-मिश्रौभवच्चक्षुषो-
र्भग्नोमानकलिः सहासरभसं व्यासक्तकण्ठग्रहम्॥१९॥

पश्यामो मयि किं प्रपद्यत इति स्यैर्य्यं मयालम्बितं
किं मामालपतीत्ययं खल शठः कोपस्तयाप्याश्रितः।

इत्यन्यीन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजंहसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया॥२०॥

परिम्लाने माने मुखशशिनि तस्याः करधृते
मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे।
तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा
प्रसादोबाष्पेन स्तनतटविशीर्णेन कथितः॥२१॥

तस्याः सान्द्रषिलेपनस्तनतटप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते।
इत्युक्ते क्व तदित्युदीर्य्य सहसा तत् सम्प्रमार्ष्टुं मया
साश्लिष्टा रभसेन तत्सुखवशात् तन्व्यापि तद्विस्मृतम्॥२२॥

त्वं मुग्धाक्षि! विनैव कञ्चुलिकया धत्सेमनोहारिणीं
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकां संस्पृशि।
शय्योपान्तनिविष्टसस्मितमुखीनेत्रोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्थासमालीजनः॥२२॥

भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते
कार्कश्यं गमितेऽपि चेतसि तनूरोमाञ्चमालम्बते।
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने॥२४॥

कान्ते! कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ
स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः।
आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैः
सन्देश वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः॥२५॥

सा पत्युःप्रथमापराधसममे सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम्।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्नोत्पला
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः॥२६॥

भवतु विदितं भव्यालापैरलं खलु गम्यतां
तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः।
तव यदि तथाभूतं प्रेम प्रपन्नमिमां दशां
प्रकृतितरले! का नः पीड़ा गते हतजीविते॥२७॥

उरसि निहितस्तारो हारः कृता जघने घने
कलकलवती काञ्जि पादौक्वणन्मणिपुरौ
प्रियमभिसरस्येवं मुग्धे! समाहतडिण्डिमा
यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे॥२८॥

प्रातः प्रातरुपागतेन जनिता निर्निद्रिता चक्षुषो-
र्मन्दायां मयि गौरवव्यपगमादुत्पादितं लाघवम्।
किं मुग्धे न मया कृतं रमणधीर्मुक्ता त्वया गम्यतां
दुस्थं तिष्ठसि यच्चपथ्यमधुना कर्तास्मि तत् श्रोष्यसि॥२९॥

सा बाला वयमप्रगल्भमनसः, सा स्त्री वयं कातराः,
सा पीनोन्नतिमत् पयोधरयुगं धत्ते, सखेदा वयम्।
साक्रान्ता जघनस्थलेन गुरुणा, गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम्॥३०॥

प्रस्थानं वलयैः कृतं प्रियसखैरस्तरैरजस्त्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः।

यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवित! प्रियसुहृत्सार्थः किमु त्यज्यते?॥३१॥

सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती
मामामुञ्चशठेति कोपवचनैरामर्तितभ्रूलता।
शीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी
प्राप्तं तैरमृतं मुधैव मथितो मूढ़ैःसुरैः सागरः॥३२॥

सुप्तोऽयं सखि! सुप्यतामिति गताः सख्यस्ततोऽनन्तरं
प्रेमावासितया मया सरलया न्यस्तं मुखं तन्मुखे।
ज्ञातेऽलीकनिमीलने नयनयोर्धूर्तस्य रोमाञ्चतो
लज्जासीन्मम तेन साप्यपहृता तत्कालयोग्यैःक्रमैः॥३३॥

कोपो यत्र भ्रूकुटिरचना निग्रहो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो यत्र दृष्टिः प्रसादः।
तस्य प्रेम्णस्तदिदमधुना वैषमं पश्य जातं
त्वं पादान्ते लूठसि नहि मे मन्युमोक्षः खलायाः ॥३४॥

सुतनु! जहिहि कोपं पश्य पादानतं मां
न खलु तव कदाचित् कोप एवंविधोऽभूत्।
इति निगदति नाथे तिर्यगामीलिताक्ष्या
नयनजलमनल्प मुक्तमुक्तं न किञ्चित्॥३५॥

गाढ़ालिङ्गनवामनीकृतकुचप्रोङ्भिन्नरोमोङ्गमा
सान्द्रस्नेहरसातिरेकविगलत्-श्रीमनितम्बाम्बरा।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किन्नुमृता नु किं मनसि मे लीना विलोना नु किं॥३६॥

पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्नाणि निभृतम्।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः॥३७॥

गते प्रेमाबन्धे प्रणयवहुमाने विगलिते
निवृत्तेसद्भावे जन इव जने गच्छति पुरः।
तदुत्प्रेक्ष्योत्प्रेक्ष्यप्रियसखि! गतांस्तांश्वदिवसान्
न जाने को हेतुर्दलति शतधा यन्नहृदयम्॥३८॥

चिरविरहिणोरुत्कण्ठार्तिश्लथीकतगात्रयो-
र्नवमिव जगज्जातं भूयश्चिरादभिनन्दतोः।
कथमपि दिने दीर्घेयाते निशामधिरुढयोः
प्रसरति कथा वह्नीयुनोर्यथा न तथा रतिः॥२९॥

दीर्घा वन्दनमालिका विरचिता दृष्ट्यैव नेन्दीवरैः
पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दनात्यादिभिः।
दत्तः स्वे दमुचा पयोधरयुगे नार्घ्योन कुम्भाम्भसा
स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम्॥४०॥

कान्ते सागसि शायिते प्रियसखीवेशंविधायागते
भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्सङ्गमाकांक्षया।
मुग्धे! दुष्करमेतदित्यतितरामुक्ता सहासं बलाद्
आलिङ्ग्यछलितास्मि तेन कितवेनाद्यप्रदोषागमे॥४१॥

आशङ्क्यप्रणतिं पटान्तपिहितौ पादौ करोत्यादरात्
व्याजेनागतमावृणोति हसितं न स्पष्टसुद्वीक्षते।

मय्यालापवति प्रतीपवचनं सख्या सहाभाषते
तस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः॥४२॥

सा यावन्ति पदान्यलीकवचनैरालीजनैःशिक्षिता
तावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः।
प्रारब्धा पुरतो यथा मनसिजस्थाज्ञातथा वर्तितुं
प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः॥४३॥

दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं
संश्लिष्यत्यरुणंगृहीतवसने किञ्चिन्नतभ्रूलतम्।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं
चक्षुर्जातमहो! प्रपञ्चचतुरं जातागसि प्रेयसि॥४४॥

अङ्गानामतितानवं कथमिदं कम्पश्चकस्मात्कुतो
मुग्धे! पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति।
तन्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तर-
व्यापीबाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः॥४५॥

पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात् किमपि लिखितुं दैवहतकः।
स्फुटो रेखान्यासः कथमपि स तादृक् परिणतो
गता येन व्यक्तं पुनरवयवैः सैव तरुणी॥४६॥

कठिनहृहये मुञ्चभ्रान्तिं व्यलीककथाश्रितां
पिशुनवचनैर्दुखं नेतुं न युक्तमिमं जनम्।
किमिदमथवा सत्यं मुग्धे! त्वया हि विनिश्चितं
यदभिरुचितं तन्मे कृत्वा प्रिये! सुखमास्यताम्॥४७॥

मन्द मुद्रितपांशवः परिपतज्झकारझंझामरुद-
वेगध्वस्तकुटीरकान्तरगतच्छिद्रेषु लब्धान्तराः।
कर्मव्यग्रकुटुम्बिनीकुचतटस्वेदच्छिदः प्रावृषः
प्रारम्भे निपतन्ति कन्दलदलोल्लासाः पयोविन्दवः॥४८॥

पीतस्तुषारकिरणो मधुनैव सार्द्धम्
अन्तःप्रविश्य चषके प्रतिविम्बवर्त्ती।
मानान्धकारमपि मानवतीजनस्य
नूनं बिभेद यदसौ प्रससाद सद्यः॥४९॥

नभसि जलदलक्ष्मींसम्भृतां वीक्ष्य दिष्ट्या
प्रसरसि यदि कान्तेत्यर्द्धमुक्त्वा कथञ्चित्।
मम पटमवलम्ब्यप्रोल्लिखन्ती धरित्नीं
तदनुकृतवती सा यत्र वाचो निवृत्ताः॥५०॥

इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा।
पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी॥५१॥

सालक्तकेन नवपल्लवकोमलेन
पादेन नूपुरवता मदनालसेन।
यस्ताद्यते दयितया प्रणयापराधात्
सोऽङ्गीकृतो भगवता मकरध्वजेन॥५२॥

बाले! नाथ! विमुञ्च मानिनि! रुषं रोषान्मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि।
तत् किं रोदिषि गङ्गदेन वचसा? कस्याग्रतो रुद्यते?
नन्वेतन्मम-का तवास्मि?दयिता-नास्मीत्यतो रुद्यते॥५३॥

नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान् परागान्
कौन्दानानन्दितालीनतितरसुरभीन् भूरिशो दिङ्मुखेषु।
एते तेकुङ्कुमाक्तस्तनकलस-भरास्फालनादुच्छलन्तः
पीत्वा शीत्कारिवक्त्रंशिशुहरियां हैमना वान्ति वाताः ५४

श्रुत्वा तन्व्यानिशीथे नवघनरसितं विश्लथाङ्गपतित्वा
शय्यायां भूमिपृष्ठे करतलधृतया दुःखितालीजनेन।
सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटाघातशीर्णाश्रुविन्दु
स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थबध्वा॥५५॥

श्लिष्टः कण्ठे किमिति न मया मूढ़या प्राणनाथ-
श्चुम्बत्यस्मिन् वदनविधुतिः किं कृता किन्न दृष्टः।
नोक्तः कस्मादिति नवबधूचेष्टितं चिन्तयन्ती
पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा॥५६॥

श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गंसमन्तात्
दृष्ट्वा यस्याननेन्दु भवति वपुरिदं चन्द्रकान्तानुकारि।
तस्मिन्नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे
भग्ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्याः कदा नु॥५७॥

रामाणां रमणीयवक्त्रशशिनः स्वेदोदविन्दुप्नुतो
व्यालोलालकवल्लरीं प्रचलयन् धुन्वन् नितम्बाम्बरम्।
प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजी-
जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः॥५८॥

अङ्गं चन्दनपाण्डुपल्लवमृदुस्ताम्बूलताम्राधरो
धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने

अन्तः पुष्यसुगन्धिरार्द्रकवरी सर्बाङ्गलग्नाम्बरं
रामाणां रमणीयतां विदधति ग्रीष्मापराह्णागमे॥५९॥

वरमसौ दिवसोन पुनर्निशा ननु निशैव वरं न पुनर्दिवा।
उभयमेतदुपैत्वथवा क्षयं प्रियजनेन न यत्र समागमः॥६०॥

लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियै-
रन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम्।
पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते
यत् स्नेहोचितमीहितं प्रियतम! त्वं निर्मतः श्रोष्यसि॥६१॥

लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽपिता
नो वा पादतले तया निपतितं तिष्ठेति नोक्तं वचः
काले केवलमम्बुदातिमलिने गन्तु प्रवृत्तः शठः
तन्व्याबाष्पजलौघकल्पितनदीपूरेण बद्धः प्रियः॥६२॥

न जाने संमुखायाते प्रियाणि वदति प्रिये।
सर्वाण्यङ्गानि मे यान्ति श्रोत्रातां किमु नेत्रताम्॥६३॥

विरहविषमः कामो वामस्तनुं कुरुते तनुं
दिवसगणनादक्षश्चासौ व्यपेतघृणोयमः।
त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे !
किशलयमृदुर्जोवेदेवं कथं प्रमदाजनः॥६४॥

पादासक्ते सुचिरमिह ते वामता कैव कान्ते
सन्मार्गस्थे प्रणयिनि जने कोपने! कोऽपराधः।
इत्थं तस्याः परिजनकथा कोपवेगोपशान्तौ
बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रयातम्॥६५॥

पुराभूदस्माकं नियतमविभिन्ना तनुरियं
ततो नु त्वं प्रेयान् वयमपि हताशाः प्रियतमाः।
इदानीं नाथ! स्त्वं वयमपि कलत्रंकिमपरं
मयाप्त प्राणानां कुलिशकठिनानां फलमिदम्॥६६॥

मुग्धे! मुग्धतयैव नेतुमखिलः कालः किमारभ्यते?
मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि
सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचेः शंस हृदि स्थितो ननु स मे प्राणेश्वरः श्रोष्यति॥५७॥

पीतो यतः प्रभृति कामपिपासितेन
तस्या मयाधररसः प्रचुरः प्रियायाः।
तृष्णा ततः प्रभृति मे द्विगुणत्वमेति
लावण्यमस्ति बहु तत्रकिमपि चित्रम्॥६८॥

क्व प्रस्थितासि करभोरु! घने निशीथे?
प्राणाधिको वसति यत्रजनः प्रियो मे।
एकाकिनी वद कथं न बिभेषि बाले!
नन्वस्ति पुंखितशरो मदनः सहायः॥६९॥

लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः
कश्चित्केसरदूषितेक्षण इवव्यामील्यनेत्रेस्थितः।
मुग्धा कुद्मलिताननेन दधतो वायुंस्थिता तस्य सा
भ्रान्त्या धूर्ततया च वेपथुमतीतेनानिशं चुम्बिता॥७०॥

स्फुटतु हृदयं कामः कामं करतु तनुं तनुं
न सखि! चटुलप्रेम्णाकार्यं पुनर्दयितेन मे।

इति सरभसं मानोद्रेकादुदीर्य्यवचस्तया
रमणपदवी शारङ्गाक्ष्याससंभ्रममीक्षिता॥७१॥

पश्याश्लेषविशीर्णचन्दनरजः पुञ्जप्रकर्षादियं
शय्या सम्प्रति कोमलाङ्गि! कठिनेत्यारोप्य मां वक्षसि।
गाढ़ौष्ठग्रहपीड़नाकुलतया पादाग्रसंदंशके-
नाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम्॥७२॥

कथमपि प्रत्यावृत्ते प्रिये स्खलितोत्तरे
विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं
प्रचलितदृशा शून्य गेहे समुच्छसितं पुनः॥७३॥

आदृष्टिप्रसरं प्रियस्य पदवीमुद्वीक्ष्यनिर्विणया
विच्छिन्नेषु पथिष्वहः परिणतौ ध्वान्ते समुन्मीलति।
दत्त्वैकं सशुचा गृहं प्रतिपदं पान्थस्त्रियास्मिन् क्षणे
सोऽभूदागत इत्यमन्दवलितग्रीवं पुनर्वोक्षितः॥७४॥

आयाते दयिते मनोरथशतैर्नीत्वा कथञ्चिद्दिनं
वैदग्ध्याऽपगमाज्जडे परिजने दीर्घां कथां कुर्वति।
दृष्टास्मीत्यभिधाय सत्वरतरं व्याधूय चीनांशुकं
तन्व्याङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम्॥७५॥

अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृद-
स्त्वया मुग्धे! मानः मिमिति सरले प्रेयसि कृतः।
समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखाः
स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः॥७६॥

शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै-
र्निद्राव्याजमपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्।
विश्रब्धं परिचुम्व्यजातपुलकामालोक्यगण्डखलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता॥७७॥

जाता नोत्कलिका स्तनौन लुलितौगात्रं न रोमाञ्चितं
वक्त्रंस्वेदकणाञ्चितं न सहसा यावत् शठेनामुना।
दृष्टेनैव मनोहृतं धृतिमुषा प्राणेश्वरेणाद्य मे
तत्केनापि निरूप्य माननिपुणो मानः समाधीयताम्॥७८॥

दृष्टः कातरनेत्रया चिरतरं बध्वाञ्जलिं याचितः
पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः।
इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः
पूर्वं प्राणपरिग्रही दयितया मुक्तस्ततो वल्लभः॥७९॥

अङ्गल्यग्रनखेन बाष्पसलिलं निक्षिप्य निक्षिप्य किं
तूष्णीं रोदिषि कोपने! बहुतरं फुत्कृत्य रोदिष्यसि।
यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते
निर्विस्मोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति॥८०॥

तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयोः
तस्यालापकुतूहलाकुलतरे श्रोत्र निरुद्धेमया।
पाणिभ्याञ्चतिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः
सख्यः! किं करवाणि यान्ति शतधा यत्कञ्चके सन्धयः॥८१॥

कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः
शिरस्याज्ञा न्यस्ता प्रतिवचनमुच्चैःप्रणमितम्।

न दृष्टेःशैथिल्यं मिलन इति चेतो दहति मे
निगूढान्तः कोपात्कठिणहृदये संवृतिरियम्॥८२॥

एकस्मिन् शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यः कोपपराङ्मुखं शयितया चाटूनि कुर्वन्नपि।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणात्
माभूत्सुप्त इवैष मन्दवलितग्रीवं पुनर्वीक्षितः॥८३॥

मलयमरुतां ब्राता याता विकासितमल्लिका-
परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि।
घन घटयितुं निस्नेहं त्वां यएव निवर्तने
प्रभवति गवां किन्नश्छिन्नं सएव धनञ्जयः॥८४॥

स्वं दृष्ट्वा करजक्षतं मधुमदक्षीवा विचार्य्येर्ष्प्रया
गच्छन्ती क्व नु गच्छसीति विधृता बाला पटान्ते मया।
प्रत्यावृत्तमुखी सबाष्पनयना मां मुञ्च मुञ्चेति सा
कोपात्प्रस्फुरिताधरा यदवदत्तत् केन विस्मर्यते॥८५॥

सालक्तकं शतदलाधिककान्तिरम्यं
रत्नौषधामनिकरारुणनूपुरञ्च।
क्षिप्तं भृशं कुपितया तरलोत्पलाक्ष्या
सौभाग्यचिह्नमिव मूर्द्ध्निपदं विरेजे॥८६॥

कपोले पत्रालीकरतलनिरोधेन मृदिता
निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुः कण्ठे लग्नस्तरलयति बाष्पस्तनतटं
प्रियोमन्युर्जातस्तव निरनुरोधे न तु व्रयम्॥८७॥

लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गले
वक्त्रेकज्जलकालिमा नयनयोस्ताम्बूलरागोदयः।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्विरं प्रेयसो
लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः॥८८॥

तप्ते महाविरहवह्निशिखावलीभि-
रापाण्डुरस्तनतटे हृदये प्रियायाः।
रथ्यालिवीक्षणनिवेशितलोलदृष्टे-
र्नूनं छनच्छनिति बाष्पकणाः पतन्ति॥८९॥

चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतः
प्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तोऽधुना।
सब्रीड़ैरलसैर्निरन्तरलुठद्वाष्पाकुलैर्लोचनैः
श्वासोत्कम्पकुचं निरीक्ष्य सुचिरं जीवाशया वारितः॥९०॥

तन्वङ्ग्या गुरुसन्निधौ नयनजं यद्वारि संस्तम्भितं
तेनान्तर्गलितेन मन्मथशिखीसिक्तोऽनुषङ्गिद्भवः।
मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता
श्वासामोदसमाकुलालिनिकरव्याजेन धूमावलिः॥९१॥

भ्रूभेदो रचितः चिरं नयनयोरभ्यस्तमामीलनं
रोद्धुंशिक्षितमादरेण हसितं मौनेऽभियोगः कृतः।
धैर्यं कर्त्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन्मया
बद्धोमानपरिग्रहे परिकरः सिद्धिस्तु दैव स्थिता॥९२॥

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै-
र्यत्रेनापि न याति लोचनपथं कान्तेति जानन्नपि।

उद्ग्रीवश्चरणार्द्धरुद्धवसुधः कत्वाश्रुपूर्णे दृशौ
तामाशां पथिकस्तथापि किमपि ध्यायन्मुहुः क्षियते॥९३॥

कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि!
सोऽस्तु प्रियस्तव किमत्रविधेयमन्यत्।
आश्लेषमर्पय मदर्पितपूर्बमुञ्चैः
मह्यं समर्पय मदर्पितचुम्बनञ्च॥९४॥

ऊरुद्वयंमृगदृशः कदलस्य काण्डौ
मध्यञ्च वेणिरतुलं स्तनयुग्ममस्याः।
लावण्यवारिपरिपूरितशातकुम्भ-
कुम्भो मनोजनृपतेरभिषेचनाय॥९५॥

चपलहृदये! किं स्वातन्त्र्यात्तथा गृहमागतः
चरणपतितः प्रेमार्द्राद्रः प्रियः समुपेक्षितः?।
तदिदमधुना वावज्जीवं निरस्तसुखोदया
रुदितशरणा दुर्जातीनां सहस्वरुषां फलम्॥९६॥

रात्रौवारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा
पान्थेनात्ममनोजदुःखपिशुनं गीतं तथोत्कण्ठया।
आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्त्तनं
मानस्यापिजलाञ्जलिः सरभसं लोकेन दत्तो यथा॥९७॥

हारो जलार्द्रवसनं नलिनीदलानि
प्रालेयशीकरमुचस्तुहिनांशुभासः।
यस्येन्धनानि सरसानि च चन्दनानि
निर्वाणमेष्यति कथं स मनोभवाग्निः॥९८॥

तन्वी भरत्चिपथगा पुलिने कपोलौ
लोले दृशौ रुचिरचञ्चलखञ्जरीटौ।
तद्वन्धनाय सुचिरार्पितसुभ्रुचाचाप-
चाण्डालपाशयुगलाविव शून्यकर्णो॥९९॥

हारोऽयं हरिणाकक्षिणांलुठति स्तनमण्दले।
मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः॥१००॥

इस्थमणशतकं परिपूर्णम्।

_____

शृङ्गारशतकम्।

<MISSING_FIG href="../books_images/U-IMG-1729448054161001-removebg-preview.png"/>

शम्भुस्वयन्भुहरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृहकर्म्मदासाः।
वाचामगोचरचरित्रविचित्नताय
तस्मै नमो भगवते कुसुमायुधाय॥१॥

स्मितेन भावेन च लज्जाया भिया
पराङ्मुखैरर्द्धकटाक्षवीक्षणैः।
वचोभिरिर्ष्याकलहेन लीलया
समस्तभाषैः खलु बन्धनं स्त्रियः॥२॥

भ्रुचातुर्याकुञ्चिताक्षाःकटाक्षाः
स्त्रिग्धा वाचो लज्जिताश्वैव हासाः।

लीलामन्दं प्रस्थितं च स्थितञ्ज
स्त्रीणामेतत् भूषणञ्चायुधञ्च॥३॥

कचित्सुभ्रुभङ्गैःक्वचिदपि च लज्जापरिणतैः
क्वचिद्भीत्रस्तैःक्वचिदपि च लीलाविलसितैः।
नवोढ़ानामेभिर्वदनकमलैर्नेत्रचलितैः
स्फुरल्लीलालीनाप्रकरपरिपूर्णा इव दृशः॥४॥

वक्त्रंचन्द्रविकासि पङ्कजपरीहासक्षमे लोचने
वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानाञ्चयः।
वक्षोजाविभकुम्भसम्भ्रमहरौगुर्वी नितम्बस्थली
वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम्॥५॥

स्मितं किञ्चिद्वक्त्रेसरलतरलो दृष्टिविभवः।
परिस्यन्दो वाचामभिनवविलासोक्तिसरसः॥६॥

गतीनामारम्भः किसलयितलीलापरिकरः।
स्पृशन्त्यास्तारुण्यं किमिह न हि रम्यं मृगदृशः॥७॥

द्रष्टव्येषु किमुत्तमं? मृगदृशां प्रेमप्रसन्नं मुखम्
घ्रातव्येष्वपि किं? तदास्यपवनःश्राव्येषु किं? तद्वचः।
किं स्वाद्येषु? तदोष्ठपल्लवरसः स्पृश्येषु किं? तत्तनुः
ध्येयं किं? नवयौवनं सहृदयैः सर्वत्नतद्विभ्रमः॥८॥

एताः स्खलद्वलयसंहतिमेखलोत्थ-
झङ्कारनूपुररवाहृतराजहंसाः।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
विश्वस्तमुग्धहरिणीसदृशैः कटाक्षैः॥९॥

कुङ्कुमपङ्ककलङ्कितदेहा गौरपयोधरकम्पितहारा।
नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि रामा॥१०॥

नूनं हि ते कविवरा विपरीतबोधा
ये नित्यमाहुरबला इति कामिनीनाम्।
याभिर्विलोलतरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः॥११॥

नूममाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः।
यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्त्तते॥१२॥

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः।
मुक्तानां सतताधिवासरुचिरं वक्षोजकुम्भद्वयम्
इत्थं तन्वि! वपुः प्रशान्तमपि ते क्षोभं करोत्येव नः॥१३॥

मुग्धे! धनुमतीकेयमपूर्बापि च दृश्यते।
यथावद्धंसि चेतांसि गुणैरेव न शायकैः॥१४॥

सति प्रदीपे सत्यग्नौसत्सु तारारवीन्दुषु।
विना मे मृगशावाक्ष्यातमोभूतमिदं जगत्॥१५॥

यद्वृत्तस्तनभार एष तरले नेत्रेचले भ्रूलते
रागान्धेषु तदोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम्।
सौभाग्याक्षरपंक्तिरेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापमधिकं रोमावली केन सा॥१६॥

गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता।
शनैश्चराभ्यां पादाध्यांरेजे ग्रहमयीव सा॥१७॥

तस्याः स्तनौ यदि घनौजघनं बिहारि
वक्त्रं च चारुतव चित्त किमाकुलत्वम्।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः॥१८॥

मात्सर्य्यसुत्सार्य्यविचार्य्यकार्य्यम्
आर्थ्याःसमर्य्यादमिदं वदन्तु।
सेव्या नितम्बा किमु भूधराणाम्?
उत स्मरस्मेरविलासिनीमाम्?॥१९॥

संसारेऽस्मिन्नसारे परिणतितरले हे गतीपण्डितानां
तत्त्वज्ञानामृताम्भःपुलकितमनसां यान्तुकालः कदाचित्।
नोचेन्मुग्धाङ्गनानां स्तनजघनभराभोगसम्भोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलोलोद्यतानाम्॥२०॥

मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः।
पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा॥२१॥

संमोहयन्ति मदयन्ति विडम्बयन्ति
निर्भत्सयन्ति रमयन्ति विषादयन्ति।
एताः प्रविश्य सदयं हृदयं नराणां
किन्नाम वामनयना न समाचरन्ति॥२२॥

विश्रभ्यविश्रम्यवनद्रमाणां
छायासु तन्वीविचचार काचित्।
स्तनोत्तरीयेण करोद्धृतेन
निवारयन्ती शशिनो मयूखान्॥२१॥

अदर्शने दर्शनमाषकामा
दृष्टा परिष्वङ्गरसैकलोला।
आलिङ्गितायां पुनरायताक्ष्याम्
आशास्महे विग्रहयोरभेदम्॥२४॥

मालतीशिरसि जृम्भणोन्मुखी
चन्दनं वपुषि कुङ्कुमाविलम्
वक्षसि प्रियतमा मनोहरा
स्वर्ग एष परिशिष्ट आगतः॥२५॥

ऋतुवर्णनं तत्रादौ वसन्तः।

परिमलभृतो बाताः शाखा नवाङ्कुरकोटयो
मधुरविरतोत्कण्ठावाचः प्रियाः पिकपक्षिणाम्।
विरलसुरतस्वेदोद्रेका बधूवदनेन्दवः
प्रसरति मधौरात्र्याजातो न कस्य गुणोदयः॥२६॥

मधुरयं मधुरैरपिकोकिला-
कलकलैर्मलयस्य च वायुभिः।
विरहिणः प्रणिहन्ति शरीरिणो
विपदि हन्त सुधापि विषायते॥२७॥

आवासः किल किञ्चिदेव दयितापार्श्वे विलासालसः
कर्णे कोकिलकाकलीकलरश्वेरा लतामण्डपाः।
गोष्ठीसत्कविभिः समङ्कतिपयैः सेव्याः सितांशोः कराः
केषाञ्चित्सुखयन्तिनेत्रहृदये चैत्र विचित्नाःक्षपाः॥२८॥

पान्थस्त्रीविरहानिलाहुतिकलामांतन्वती मञ्जरी
मा कुन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते।
अप्येते नवपाटलाः परिमलाः प्राग्भारपाटञ्चराः
वान्ति क्लान्तिहराः सुशीतलतराः श्रीखण्डशैलानिलाः॥२९॥

सहकारकुसुमकेसरनिकरभरामोदमूर्च्छिता दिगन्ते।
मधुरमधुविधुरमधुपे मधौभवेदुत्कण्ठा॥२०॥

ग्रीष्मः।

अच्छाच्छचन्दनरसार्द्रकरा मृगाक्ष्यी
धारागृहाणि कुसुमानि च कौमुदी च।
मन्दो मरुत्सुमनसः शचि हर्म्यपृष्ठं
ग्रीष्मेमदञ्चमदनञ्च विवर्द्धयन्ति॥३१॥

स्त्रजो हृद्या मोदव्यजनपवनश्चन्द्रकिरणः
परागः कासारीमलयजरजः सिन्धुविशदम्।
शुचिः सौधोत्सङ्गः प्रतनुवसनं पङ्कजदृशो
निदाघे तूर्णंतत्सुखमुपलभन्ते सुकृतिनः॥३२॥

सुधाशुभ्रन्धाम स्फुरदमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभि।
स्रजो हृद्याः कौन्दास्तदिदमखिलं रागिनि जने
करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे॥३२॥

वर्षाममयः।

तरुणी वश्या दीपितकामा विकसज्जातीपुष्पसुगन्धि।
उन्नतपीनपयोधरभारा प्रावृट् कुरुते कस्य न हर्षम्॥३४॥

वियदुपचितमेघम्भूमयः कन्दलिन्धो
नवकुटजकदम्बामोदिनो गन्धवाहाः।
शिखिकुलकलकेका एव रम्या वनान्ताः
सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति॥३५॥

उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः
वसुधा कन्दलधवला तुष्टिं पथिकः क्व पातयतु॥३६॥

इतोविद्युद्वल्लीविलसितमितः केतकितरोः
स्फुरद्गन्धःप्रोद्यज्जलदनिनदस्फूर्जितमितः।
इतः केकिक्रीड़ाकलकलरवः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः॥३७॥

अमुष्मिन् संसारे त्वमसि नभसि प्रौढ़जलद
ध्वनिप्रासे तस्मिन् पतति दृषदां तीरनिचये।
इदं सौदामिन्याः कनककमनीयं विलसितं
मदञ्च ग्लानिञ्च प्रथयति पथिष्वेव सुदृशाम्॥३८॥

आसारेषु न हर्म्यतः प्रियतमैर्यातुं यदा शक्यते
शीतोत्कम्पनिमित्तमायतदृशीगाढं समालिङ्ग्यते।
जाताः शीतलशीकराश्च मरुतो वात्यन्तखेदच्छिदो
धन्यानां वत! दुर्दिनं सुदिनतां याति प्रियासङ्गमे॥३९॥

शरदः।

अर्द्धंनीत्वानिशायाः सरभससुरतायासखिन्नश्लथाङ्गः
प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते।

सम्भोगक्लान्तकान्ताशिथिलभुजलतातर्जितं कर्करान्तो
ज्योत्स्नाभिन्नाधरांशं पिवति न सलिलं शारदं मन्दभाग्यः ४०

हेमन्ते दधिदुन्धसर्पिरशना माञ्जिष्ठवासोधृताः
काश्मीरद्रवसान्द्रदिग्धवपुषः खिन्नाविचित्रैरतैः।
पीनोरःस्थलकामिनीजनशताश्लेषा गृहाभ्यन्तरे
ताम्बूलीदलपूगपूरितमुखा धन्धाः सुखं शेरते॥४१॥

शिशिरः।

चुम्बन्तो गण्डभित्तीरलकवति मुखे शीत्कृतान्यादधाना
वक्षस्युत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः।
उरूनाकम्पयन्तः पृथुजघनतटात् स्रंसयन्तोऽंशुकानि
व्यक्तं कान्ताजनानां विटचरित कृतः शैशिरा वान्ति वाताः॥४२॥

केशानाकलयन् दृशो मुकुलयन वासो बलादाक्षिपन्
आतन्वन् पुलकोद्गमं प्रकटयन्नालिङ्ग्य कम्मं शनैः।
वारंवारमुदारशीत्कृतकृतो दन्तच्छदान् पीडयन्
प्रायः शौशिर एष सम्प्रति मरुत् कान्तासु कान्तायते॥४३॥

आसाराः सन्ततोऽमी विरतिविरसायासविषया
जुगुप्सन्त्यां यद्वा; ननु सकलदोषास्पदमिति।
तथाप्यन्तस्तत्त्वे प्रणिहितधियामप्यतिबल-
स्त्वदीयो नाख्येयः स्फुरति हृदये कोऽपि महिमा॥४४॥

भवन्तो वेदान्तप्रणिहितधियां सन्तु गुरवो
विदग्धालापानां वयमपि कवीनामनुचराः।

तथाप्येतद्भूमौनहि परहितात्युण्यमधिकं
न चास्मिन् संसारे कुवलयदृशो रम्यमपरम्॥४५॥

किमिह बहुभिरुक्तैर्युक्तिशून्यः प्रलापै-
र्द्वयमिहपुरुषाणां सर्वदा सेवनीयम्।
अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिन्नंयौवनं वा वनं वा॥४६॥

सत्यं जना! वच्मि न पक्षपातात्
लोकेषु सर्वेषु च तथ्यमेतत्।
मान्यन्मनोहारि नितम्बिनीभ्यो
दुःखैकहेतुर्नच कश्चिदन्यः॥४७॥

प्राङ्मामेति मनागमानितगुणं जाताभिलाषं ततः
सब्रीडं तदनु श्लथोद्यतमनु प्रत्यस्तधैर्य्यं पुनः।
प्रेमाद्दुःस्पृहणीयनिर्भररहः क्रीडाप्रगल्भा ततो
निःशङ्काङ्गविकर्षणाधिकसखं रम्यं कुलस्त्रीरतम्॥४८॥

उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किञ्चिदुम्मीलितानां
सुरतजनितस्वेदसाद्रमण्डस्थलीनां
अधरमधु बधूनां भाग्यवन्तः पिबन्ति॥४९॥

आमीलितनयनानां यः
सुरतरसोऽनुसंविदं कुरुते।
मिथुनैर्मिथोऽवधारितमवित
थमिदमेव कामनिवर्हणम्॥५०॥

इदमनुचितक्रमश्वपुंसां
यदिह जरास्वपि मान्मथा विकाराः
तदपि च न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा॥५१॥

एतत्कामफलं लोके यद्द्वयोरेकचित्तता
अन्यचित्तकृतेकामे शवयोरिव सङ्गमः॥५२॥

प्रणयमधुराः प्रेमोद्गाढ़रसादलसास्तथा
भणन्ति मधुराः मुग्धप्रायाः प्रकाशितप्रमदाः।
प्रकृतिसुभगा विस्खंभार्हस्मरोदयदायिनः
रहसि किमपि स्वैरालापा हरन्ति मृगदृशाम्॥५३॥

आवासः क्रियतां गाङ्गे पापहारिणि वारिणि
स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि॥५४॥

प्रियपुरतो युवतीनां तावत्पदमातनोतु हृद्दिमानः।
भवति न यावच्चन्दनतरुसुरभिर्मधुनिर्मलः पवनः॥५५॥

दुर्विरक्तप्रशंसा

तावदेव कृतिनामपि स्फुरत्येष निर्मलविवेकदीपकः।
यावदेव न कुरङ्गचक्षुषां ताड्यते चपललोचनाञ्चलैः॥५६॥

वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम्।
जवनमरुणरत्नग्रन्थिकाञ्जीकलापं
कुवलयनयनानां को विहातु समर्थः?॥५७॥

स्वपरप्रतारकोऽसौ निन्दति योऽलीकं पण्डित युवतीः।
यस्मात्तपसोऽपि फलं स्वर्गः स्वर्गस्यापि फलं तथा स रसः॥५८॥

मत्तेभकुम्भदलने भुवि सन्ति शूराः
केचित्प्रचण्डमृगराजबधेऽपि दक्षाः।
किन्तु ब्रवीमि वलिनां पुरतः प्रसह्य
कन्दर्पदर्पदलने विरला मनुष्याः॥५९॥

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणम्
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिवाणः पतन्ति॥६०॥

उन्मत्तप्रेमसंरम्भादारभन्ते पदं जनाः।
तत्र प्रत्यूहमाधातुब्रह्मापि खलु कातरः॥६१॥
तावन्महत्त्व’ पाण्डित्यं कुलीनत्व विवेकिता।
यावज्ज्वलति नाङ्गेषु स्वतः पञ्चेषुपावकः॥६२॥

शास्त्रज्ञोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि वाढ़म्
संसारेऽस्मिन् भवति विरलो भाजनं सङ्गतीनाम्।
येनैतस्मिन्निरयनगरहारमुद्वाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चितेव॥६३॥

कृशः काणः खञ्जःश्रवणरहितः पुच्छविकलो
ब्रणीपूयक्लिन्नःकृमिकुलशतैरावृततनुः।
क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः
शुनीमन्वेति श्वाहतमपि निहन्त्येव मदनः॥६४॥

स्त्रीमुर्दा झषकेतनस्य जननीं सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याकलाम्बेषिणः।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डीताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे॥६५॥

विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशना
स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः।
शास्यन्नं सष्टतं पयोदधियुतं ये भुञ्जते मानवा-
स्तेषामिन्द्रियनिग्रहो यदि भवेत् विन्ध्यस्तरेत्सागरम्॥६६॥

स्त्रीणांपरित्यागप्रशंसा।

संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवावलम्ब-
व्यासङ्गव्यस्तधैर्याः कथममलधियो मानसं संविदध्युः?
यद्येताः प्रोद्यदिन्दुद्युतिनिषयभृतो न स्युरम्भोजनेत्राः
प्रङ्खत्काञ्जीकलापाः स्तनभरविनमम्मध्यभागास्तरुण्यः॥६७॥

सिद्धाध्यासितकन्दरे हरवृषस्कन्धावगाढ़द्रुमे
गङ्गाधौतशिलातले हिमवतः स्थाने स्थितः श्रेयसि।
कः कुर्वीत शिरः प्रणाममलिनं मानं मनस्वीजनो
यद्युत्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः॥६८॥

संसार! तव निस्तारपदवी न दवीयसी।
अन्तरा दुस्तरा न स्युर्यदि रे! मदिरेक्षणाः॥६९॥

जौवनप्रशंसा।

राजन्! तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानम्
को वाथोच्चैःप्रभूतैः स्ववपुषि गलिते यौवने सानुरागे।

गच्छामः सद्म यावद्विकसितमुदेन्दीवरालोकनीनाम्
आक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम्॥॥७०॥

रागस्यागारमेकं नरकशतमहादुःखसम्प्राप्तिहेतु-
र्मोहस्योत्पत्तिवीजं जलधरपटलं ज्ञानताराधिपस्य।
कन्दर्पस्यैकमित्रंप्रकटितविविधस्पष्टदोषप्रबन्धम्
लोकेऽस्मिन्नह्यनर्थं निजकुलदहनं यौवनादन्यदस्ति॥७१॥

शृङ्गारद्रुमनीरदे बहुतरक्रीड़ारसस्रोतसि।
प्रद्युम्नप्रियबान्धवे चतुरतामुक्ताफलोदन्वति।
तन्वीनेत्रचकोरपारणविधौसौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौववे॥७२॥

कामिनीगर्हणं।

कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युत्सुकः
पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुम्भूरिति।
दृष्ट्वा माद्यति मोदतेऽतिरमते प्रस्तौति जानवपि
प्रत्यक्षाशुचिपुत्निकां स्त्रियमहो ! मोहस्य दुश्वेष्टितम्॥७३॥

श्रुता भवति तापाय दृष्ट्वा चोन्मादवर्धिनी।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम्॥७४॥

तावदेवामृतमयी यावल्लोचनगोचरा
चक्षुः पथादपगता विषादप्यतिरिच्यते॥७५॥

नामृतं न विषं किञ्चिदेकां मुक्ता नितम्बिनीम्।
सैवामृतलता रक्ता विरक्ता विषवल्लरी॥७६॥

आवर्तः संशयानामविनयभवनं पत्तनं साहसानाम्
दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानाम्।
स्वर्गद्वारस्य विघ्नो नरकपुरमुखं सर्वमायाकरण्डं
स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिनां मोहपाशः॥७७॥

न सत्येन शशाङ्कएष वदनीभूतो नवेन्दीवर-
द्वन्द्वे लोचनताङ्गते न कनकैरप्यङ्गयष्टिः कृता।
किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते॥७८॥

लीलावतीनां सहजा विलासास्ता एव मूढस्य हृदि स्फुरन्ति।
रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव मुदा षडंघ्रिः॥७९॥

यदेतत् पूर्णेन्दुद्युतिहरपदाराकृतिवरं
मुखाञ्जंतन्वङ्ग्याः किल वसति तत्राधरमधु।
इदं तावत्पाकं द्रुमफलमिवातीव विरसम्
व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम्॥८०॥

उन्मीलत्त्रिवलीतरङ्गनिलया प्रोत्तुङ्गपीनस्तन-
इन्देनोद्यतचक्रवाकमिथुनाकाराम्बुजोङ्गासिनी।
कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते
संसारार्णवमज्जनं यदि जना दूरात् परित्यज्यताम्॥८१॥

जल्पन्ति सार्द्धमन्येन पश्यन्त्यन्यं सविभ्रमाः।
हृदये चिन्तयन्त्यन्यंप्रियः को नाम योषिताम्?॥८२॥

मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम्।
अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते॥८३॥

अपसर सखे! दूरं तस्मात् कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः।
इतरफणिना दष्टाः शक्याश्चिकित्सितुमौषधै-
श्चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः॥८४॥

विस्तारितं मकरकेतनधीवरेण
स्त्रीसंज्ञितं वडिशमत्र भवाम्बराशौ।
येनाचिरात्तदधरामिषलोलमर्त्य-
मत्स्यान् विकृष्य पचतीत्यनुरागवह्नौ॥८५॥

कामिनीकायकान्तारे कुचपर्वतदुर्गमे।
मा संचर मनःपान्य! तत्रास्ते स्मरतस्करः॥८६॥

आदीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना
नीलाञ्जद्युतिवाहिना वरमहं दृष्टो न तच्चक्षुषा।
धन्याः सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम्॥८७॥

इह हि मधुरगीतं नृत्यमेतद्रसोऽपि
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम्।
इति हतपरमार्थैरिन्द्रियैर्भ्राम्यमाणै-
रहितकरणदक्षैःपञ्चभिर्वञ्चितोऽसि॥८८॥

न गम्यो मन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिशतकैः।
भ्रमावेगादङ्गे किमपि विदधद्भव्यमसमः
स्मरापस्मारोऽयम्भ्रमयति दृशं घूर्णयति च॥८९॥

जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च।
यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः॥९०॥

वेश्यासौ मदनज्वालारूपेन्धनसमेधिता।
कामिभिर्यत्र हूयन्तेयौवनानि धनानि च॥९१॥

कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि।
चारभटचौरचेटकनटविटनिष्ठीवनशरावम्॥९२॥

सुचरित्रप्रशंसा।

धन्यास्त एव तरलायतलोचनानां
तारुण्यपूर्णघनपीनपयोधराणाम्।
क्षामोदरोपरिलसत्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिमेति मनो न येषाम्॥९३॥

बाले! लीलामुकुलितममीसुन्दरा दृष्टिपाताः
किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते।
संप्रत्यन्ये वयमुपतं बाल्यमास्था वनान्ते
क्षान्तो मोहस्तृणमिव जगज्जालमालोकयामः॥९४॥

इयं बाला मां प्रत्यनवरतमिन्दीवरदल-
प्रभाचौरं चक्षुः क्षिपति किमभिप्रेतमनया।
गतो मोहोऽस्माकं स्मरसमरवाणव्यतिकर-
ज्वरज्वालाः शान्तास्तदपि न वराकीविरमति॥९५॥

शुभ्रंसद्रसविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला
लक्ष्मीरित्यनुभूयते स्थिरमिव स्फीते शुभे कर्म्मणि।
विछिन्ने नितरामनङ्गकलहक्रीड़ात्रुटत्तत्तु किम्
मुक्ताजालमिव प्रयाति झटिति भ्रश्यदुदृशो दृश्यताम्॥९६॥

सदा योगाभ्यासव्यसनवशयोराममनसो-
रविच्छिन्ना मैत्रीस्फुरति यमिनस्तस्य किमु तैः।
प्रियाणामालापैरधरमधुभिर्वक्त्र विधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः॥९७॥

किं कन्दर्प! करं कदर्थयसि? किङ्कोदण्डझङ्कारितः?
रे रे कोकिल! कोमलङ्कलरवङ्किन्त्वंवृथा भाषसे?
मुग्धे! स्निग्धविदग्धमुग्धमधुरैर्लोलेः कटाक्षैरलं!
चेतः सम्प्रति चन्द्रचूड़चरणध्यानामृते वर्तते॥९८॥

यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा सर्वं नारीमयमिदमशेषं जगदभूत्।
इदानीमस्माकं पटुतरविवेकाञ्जनदृशां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते॥९९॥

यां चिन्तयामि सततं मयि सा विरक्ता
सा चान्यमिच्छति जनं स जनोऽन्य रक्तः।
अस्मत् कृतेऽपि परितुष्यति काचिदन्या
धिक् ताञ्चतञ्चमदनञ्चइमाञ्च माञ्च॥२००॥

इति श्रीभर्तृहरिविरचितं शृङ्गारशतकं समाप्तम्।

______

दृष्टान्तशतकम्।

<MISSING_FIG href="../books_images/U-IMG-1729420160201001-removebg-preview.png"/>

शिवस्मरणमेवैकं संसारान्तकनाशनम्।
घनौघो घोरदावाग्नि-निर्वापणपटुर्भवेत्॥१॥

साधुरेव प्रवीणः स्यात्सद्गुणामृतवर्णने।
नवचूताङ्कुरास्वादकुशलः कोकिलः किल॥२॥

दुर्जनो दूषयत्येव सतां गुणगणं क्षणात्।
मलिनीकुरुते धूमः सर्वथा विमलाम्बरम्॥३॥

यथा दोषो विभात्यस्य जनस्य न तथा गुणः।
प्रायः कलङ्क एवेन्दोः प्रस्फुटो न प्रसन्नता॥४॥

विवेक एव व्यसनं पुंसां क्षययितुं क्षमः।
अपहर्त्तुं समर्थोऽसौ रविरेव निशातमः॥५॥

प्रायः सन्त्युपदेशार्हा धीमन्तो न जड़ाशयाः।
तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः क्वचित्॥६॥

चिन्त्यते नयएवादावमन्दं समुपेयुभिः।
विनम्य पूर्वं सिंहोऽपि हन्ति हस्तिनमोजसा॥७॥

संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरति स्फुटम्।
दग्धस्यागुरुखण्डस्य स्फारि भवति सौरभम्॥८॥

मनखिहृदयं धत्ते रोषेणैव प्रसन्नताम्।
भस्मना ज्वलदङ्गारः प्रसादं लभतेतराम्॥९॥

उत्तमः क्लेशविक्षोभं क्षमः सोढुं नहीतरः।
मणिरेव महाशाणघर्षणं नतु मृत्कणः॥१०॥

स्वजातीयं विना वैरी न जय्यः स्यात् कदाचन।
विना वञ्चमणिं मुक्तामणिर्भेद्यः कथं भवेत्॥११॥

सज्जना एव साधूनां प्रथयन्ति गुणोत्करम्।
पुष्पाणं सौरभं प्रायस्तनुते दिक्षु मारुतः॥१२॥

उपकर्त्तु’ यथा स्वल्पः समर्थो न तथा महान्।
प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः॥५३॥

सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा।
यौवने सदलङ्काराः शोभाम्बभ्रति सुस्रुवः॥१४॥

जड़ः प्रभवति प्रायो दुःखं बिभ्रति साधवः।
शीतांशावुदिते पद्माः सङ्कोचं यान्ति वारिणि॥१५॥

गुणेन स्पृहणीयः स्थान रूपेण युतो नरः।
सौगन्धहोनं नादेयं पुष्पं कान्तमपि क्वचित्॥१६॥

कश्चित् कस्यचिदेव स्यात् सुहृद्दिस्रम्भभाजनम्।
पद्मं विकासयत्यकः सङ्घोचयति कैरवम्॥१७॥

ईश्वराः पिश्वनान् शखद्दिषन्तीति किमदभूतम्।
प्रायो निधय एवाहीन् द्दिजिह्वान् दधतेतराम्॥१८॥

संपद्यास्ते परैः साकं विपदि स्वजनैर्जडः।
जृम्भत्यन्भोरुहं भृङ्गः शुष्यत्युदकशैवलैः॥१९॥

नीचावमानमलिनां प्रभुंक्ते सम्पदं पुमान्।
लशुनाक्तां सकर्पूरचर्चावितनुते तनौ॥२०॥

व्यसनानन्तरं सौख्यं स्वल्पमप्यधिकं भवेत्।
काषायरसमाखाद्य स्वाद्दतीताम्बु विन्दते॥२१॥

गुणानामन्तरं प्रायस्तज्ज्ञो जानाति नेतरः।
मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनम्॥२२॥

प्रभूतवयसः पुंसो धियः पाकः प्रवर्त्तते।
जीर्णस्य चन्दनतरोरामोद उपजायते॥२३॥

कामाय स्पृहयत्यामा संयतोऽपि मनीषिणः।
वीथीनियमितोऽप्युक्षाशष्यमासाद्य धावति॥२४॥

धनागमेऽधिकं पुंसां लोभमभ्येति मानसम्।
निदाघकालेः प्रालेयः प्रायः शैत्यं वहत्यलम्॥२५॥

सहजोऽपि गुणः पुंसां साधुवादेन वर्धते।
कामं सुरसलेपेन कान्तिं वहति काञ्चनम्॥२६॥

निन्दां यः कुरुते साधोस्तथा खं दूषयत्यसौ।
खे भूतिं यस्त्यजेदुच्चैर्मूर्ध्नि तस्यैव सा पतेत्॥२७॥

स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसताम्।
न त्यजन्ति रुतं मच्नु काकसम्पर्कतः पिकाः॥२८॥

सम्पत्तौ कर्कशं चित्तं खलस्यापदि कोमलम्।
शीतलं कठिनं प्रायस्तप्तं मृदु भवत्यपः॥२९॥

प्रायः प्रकुष्यतितरां प्रीत्यैव प्रखलो जनः।
नयनं स्नेहसम्पर्कात्कालुष्यं समुपेत्यलम्॥३०॥

शुभं वाप्यशुभं कर्म फलकालमुपेक्षते।
शरद्येव फलत्याशुशालिर्न सुरभौ कचित्॥३१॥

भोगेच्छा नोपभोगेन भोगिनां जातु शाम्यति।
लवणेनान्तरालेन तृणा प्रत्युत जायते॥३२॥

दुर्लभोऽप्युत्तमः प्रायः स्वजातीयेन लभ्यते।
कर्णकोटरगं वारि वारिणैवावक्कष्यते॥३३॥

जन्तोर्निरुपभोगस्य दृश्यते भुवि रुक्षता।
वाताशिनो द्विजिह्नत्वं विहितं पश्य वेधसा॥३४॥

उर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः।
कवलीकुरुते खस्थं विधुंदिवि विधुन्तुदः॥३५॥

न लभन्ते विनोद्योगं जन्तवः सम्पदां पदम्।
सुराः क्षोरोदविक्षोभमनुभूयामृतं पपुः॥२५॥

सम्पत्तौ कोमलं चित्तं साधोरापदि कर्कशम्।
सुकुमारं मधौ पत्रं तरोः स्यात्कठिनं शुचौ॥३७॥

आकरः कारणं जन्तो र्दौर्जन्यस्य न जायते।
कालकूटः सुधासिन्धोः प्राणिनां प्राणहारकः॥३८॥

गुणदोषाववाप्ये ते पुसां संलशीनाहुधैः।
लेभे पीयूषगरले मन्यनादम्बुधेः सुरैः॥२९॥

स्वभावं न जहात्येव साधुरापत्रतोऽपि सन्।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम्॥४०॥

न व्याप्तिरेषा गुणिनो गुणवान् जायते ध्रुवम्।
चन्दनोऽनलसन्दग्धो न भस्म सुरभि कचित्॥४१॥

अप्यापत्समयः साधोः प्रयाति श्लाघनीयताम्।
विधोर्विधुन्तुदास्कन्दविपत्कालोऽपि सुन्दरः॥४२॥

विना परीक्षां नो तत्त्वप्रसिद्ध ज्ञायते सतः।
स्ववर्मबन्धान्रो शद्दिर्न्नायते कर्षणं विना॥४२॥

प्राप्य वित्तं जड़ास्तूर्णं निर्वृतिं यान्ति नान्यथा।
तोयमासाद्य गर्जन्ति न रिक्तास्तनयित्नवः॥४४॥

कार्यापेक्षोजनः प्रायः प्रीतिमाविष्करोत्यलम्।
लोभार्थी सौण्डिकः शष्यैर्मेषं पुष्णाति पेशलैः॥४५॥

दुर्जनो जीयते युक्त्या निग्रहेण न धीमता।
निपात्यते महावृक्षस्तत्समीपक्षितिक्षयात्॥४६॥

सुखदुःखे समे स्यातां जन्तूनां क्लेशहेतुके।
मूर्ध्नि स्थितानां केशानां भवेतां स्नेहक्छेदने॥४७॥

दुष्टदुर्जनदौरामैाः सज्जने रज्यते जनः।
आरुह्य पर्वतं पान्यः सानौनिर्वृतिमेत्यलम्॥४८॥

स्वभावसुन्दरं वस्तु न संस्कारमपेक्षते।
मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ॥४९॥

शोभते विदुषां मध्ये नैव निर्गुणमानसः।
अन्तरे तमसान्दीपः शोभते नार्कतेजसाम्॥५०॥

युक्त्या परोक्षं बाधेत विपक्षक्षपणक्षमः।
शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः॥५१॥

दुर्गदेशप्रविष्टोऽपि शूरोऽभ्येति पराभवम्।
गाढ़पङ्कनिमग्नाङ्गो मातङ्गोऽप्यवसीदति॥५२॥

नयेनाङ्गरितं शौर्यं जयाय न तु केवलम्।
अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा मृतिः॥५३॥

मृदुभिर्बहुभिः शूरः पुम्भिरेको न बाध्यते।
कपोतपोतकैरेकः श्येनो जातु न बाध्यते॥५४॥

येनात्मापण्यतां मीतः स एवान्विष्यते जनैः।
हस्ती हे मसहस्रेण क्रीयते न मृगाधिपः॥५५॥

गुणणे गुणान्तरापेक्षिस्वरूपख्यातिहेतवे।
स्वभावबाल्यं लावण्यं तारुण्येन मनोहरम्॥५६॥

सुलभं वस्तु सर्वस्य न यात्यादरणीयताम्।
स्वदारपरिहारेण परदारार्थिनो जनाः॥५७॥

विक्रीतं निजमात्मानं वस्तैः संस्करते जड़ः।
परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते॥५८॥

क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः।
सन्त्यज्याम्भोजकिञ्जल्कं न प्रार्थयति शैवलम्॥५९॥

असम्भवगुणस्तुत्या जायते स्वात्मनस्त्रपा।
कर्णिकारं सुगन्धीति वदन् कोनोपहास्यते॥६०॥

धनाशया खलीकारः कस्य नाम न जायते।
दूरादामिषलोभेन बध्यते खे वरः खगः॥६१॥

तटस्थैःख्यापिताश्वेतो विशन्ति गुणिनां गुणाः।
उत्कोचितानां पद्मानां गन्धो वायुभिराहतः॥६२॥

निजाशयवदाभाति पुंसां चित्तेपराशयः।
प्रतिमा मुखचन्द्राभे कृपाणे याति दीर्घताम्॥६३॥

अधमं बाधते भूयो दुःखवेगो न तूत्तमम्।
पादद्दयं ब्रजत्याशु शीतस्पर्शो न चक्षुषि॥६४॥

गुणवान् सुचिरस्थायी देवोऽपि नाभिजायते।
तिष्ठत्येकां निशाञ्चन्द्रः श्रीमान् सम्पूर्णमण्डलः॥६५॥

यतएवागतो दोषस्ततएव निवर्त्तते।
अग्निदग्धस्य विस्फोटशान्तिः स्यादग्निना ध्रुवम्॥६६॥

स्वधियो निश्चयो नास्ति यस्य सम्भ्रमते स्वयम्।
प्रवातवालपत्रस्थः पटस्तत्र निदर्शनम्॥६७॥

कथाप्रवन्धे बन्ध्ये ऽपि कश्चिदेवानुरज्यते।
प्रायःश्वासादपत्यतः सश्वन्निसकेकसम्॥६८॥

बुद्धिमत्वाभिमानः को भवेत् प्रज्ञोपजीविनाम्।
अन्यदेयैरलङ्कारैर्नाहङ्कारो विभूषणे॥६९॥

उत्तमोऽभ्यधमस्य स्याद्याच्ज्ञानम्म्रकरः क्वचित्।
कौस्तुभादीनि रत्नानि ययाचे हरिरम्बुधिम्॥७०॥

प्रयत्ने समके केचिदेव स्युः फलभागिनः।
क्षीरोदमथनाहेवैरमृतं प्रापि नासुरैः॥७१॥

गुणैः पूजा भवेत् पुंसां नैकस्माज्जायते कुलात्।
चूड़ारत्नं शशीशम्भोः यानमुच्चैःश्रवा हरेः॥७२॥

भोगः परोपतापेन पुंसां दुःखाय न स्थिरः।
पानमप्यसृजः क्षिप्रं स्वपीड़ायैजलौकसाम्॥७३॥

नोपभोगपरान् अर्थान् कोऽपि सच्चिनुते चिरम्।
आखवः किमलङ्कारानात्मन्याहृत्य कुर्वते॥७४॥

विवर्णवचनैर्मन्युर्गूढोऽप्यन्तः प्रकाशते।
इन्धनान्तरसंस्थैश्च ज्वलत्यग्नि : पयः कणैः॥७५॥

निकटस्थं गरीयांसमपि लोको न मन्यते
पवित्रामपि यन्मर्त्या न नमस्यन्ति जाह्नवीम्॥७६॥

स्वजनः स्वात्मवज्जन्तुर्ज्ञायते गुणवान्परैः।
गोपैर्गोपषदाज्ञायि हरिर्देवैर्जगत्पतिः॥७७॥

उत्तमस्तोषमायति तदङ्गो पोष्यते यदि।
वृक्षः प्रसीदति प्रायः पादाभ्यङ्गेन न स्वयम्॥७८॥

सर्वत्र गुणवानेव चकास्ति प्रथिते नरे।
मणिर्मूर्ध्नि मले वाहौ पादपीठेऽपि शोभते॥७९॥

उत्तमं सुचिरं नैव विषदोऽभिभवन्त्यलम्।
राहुग्रसनसंभूतक्षणो विक्वाययेद्दिधुम्॥८०॥

प्रायः स्वभावं मुञ्चन्ति सन्तः संसर्गतोऽसताम्।
चण्डाश्चण्डातपात् पादा हिमांशोरमृतसृजः॥८१॥

तुल्यं परोपतापित्वं क्रुडयोः साधुनीचयोः।
न दाहे ज्वलतोर्भित्रञ्चन्दनेन्धनयोः क्वचित्॥८२॥

न भाति वाञ्छावैजात्ये न देवा भान्ति वादिनि।
अञ्जनं दूषणं वक्त्रे भूषयं किल लोचने॥८३॥

दुर्भगः स्यात्प्रकृत्या यो विभूत्यापि स तादृशः।
गोमयं श्रीनिवासोऽस्ति न तथापि मनोहरम्॥८४॥

गुणानर्चन्ति जन्तूनां न जातिं केवलां क्वचित्॥
स्फाटिकं भाजनं भग्नं काकिन्यापि न गृह्यते॥८५॥

आगच्छदुत्सवो भाति यथैव न तथा गतः।
हिमांशोरुदयः सायं चकास्ति न तथोषसि॥८६॥

मनखिनो न मान्यन्ते परतः प्राप्य जीवनम्।
वलिभुग्भ्यो न काकेभ्यः स्पृहयन्ति हि कोकिलाः॥८७॥

सन्तोषक्षतये पुंसामाकस्मिकधनागमः।
सरसां सेतुभेदाय वर्षौघः स च न स्थितः॥८८॥

जीयते भूगतोऽप्यात्मा कालेनामापि स्वर्गतः।
भवेत् श्मशानमुद्यानमुद्यानञ्चश्मशानभम्॥८९॥

उच्चशेखरगं वस्तु शुभं स्यात्सुखकारणम्।
उपशामयते वाधं यथैवा मृतसंस्कृतम्॥९०॥

सन्तुष्यत्युत्तमः स्तुत्या धनेन महताधमः।
प्रसीदन्ति जयैर्देवा वलिभिर्भूतविग्रहाः॥९१॥

स्वजातीयविघाताय माहात्म्यं दृश्यते नृणाम्।
श्येनो विहङ्गमानेव हिनस्ति न भुजङ्गमान्॥९२॥

गुरुप्रयोजनोद्देशादर्चयन्ति न भक्तितः।
दुग्धदात्रीति गौर्गेहे पोष्यते न तु धर्मतः॥९२॥

महतां तादृशं तेजो यत्र शाम्यन्त्यनौजसः।
अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः॥९४॥

दाता दानस्यान्तरा स्यात् पृथिव्यां
गेहे गेहे याचकानां समूहः
चिन्तारन्तस्यास्ति सत्त्वे विवादो
मार्गे मार्गे रेणवः सन्त्यसंख्याः॥९५॥

चारुता अपवशेन पदार्थे धैर्येण तदनुवादिगुणत्वात्।
वेणुगो भवति मञ्जुरसो यन्त्रगो हि सुखदः कृतशब्दः॥९६॥

नराः संस्कारार्हा जगति किल केचित् सुकृतिनः
समानायां जात्यामपि वयसि सत्यां परधियः।

अयं दृष्टान्तोऽत्रस्फुटकरणतोत्पभ्यसनतः
शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदप्रि॥९७॥

धनमपि परदत्तंदुःखमौचित्यभाजां
भवति हृदि तदेवानन्दकारीतरेषाम्।
मलयजरसविन्दुर्वरद्धते न प्रसन्नं
नयति च रसवाहादेवमत्यन्तमत्र॥९८॥

कालक्रमेण परिणामवशादव्या
भावा भवन्ति खलु पूर्वमतीवतुच्छाः।
मुक्तामणिर्जलदतोयकणोऽप्यणीयान्
संपद्यते च चिरकीचकरन्ध्रमध्ये॥९९॥

इयं कुसुमदेवेन कविनैकेन निर्मिता I
दृष्टान्तकलिका नाम जृम्भतां कविमानसे॥१००॥

इति कुसुमदेवरचितं दृष्टान्तशतकं मम्पूर्णम्।

_______

नीतिशतकम्।

_______

अज्ञः सुखमाराध्यः सुखतरमाराध्यतेऽशेषज्ञः।
ज्ञानलवदुर्विदग्धब्रह्मापि नरं न रञ्जयति॥१॥

लभेत सिकतासु तैलमपि यत्नतः पीड़यन्
पिबेच्चमृगतृष्णिकासुसलिलं पिपासार्दितः।
कदाचिदपि पर्यटन् शशविषाणमासादयेत्
नतुप्रतिनिविष्टमूर्खजनचित्तमाराधयेत्॥२॥

प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्राङ्गुरात्
समुद्रमपि सन्तरेत् चपलमूर्मिमालाकुलम्।
भुजङ्गमपि कोपितं शिरसि पुष्यवङ्धारयेत्
नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्॥३॥

शशीदिवसधूसरोगलितयौवना कामिनी
सरोविगतवारिजं मुखमनक्षरं स्वाकृतेः।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे॥४॥

मणिः शाणालीढ़ः समरविजयीहे तिनिहतो
मदक्षिणोनागः शरदि सरितः श्यामपुलिनाः।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
न निम्नाः शोभन्तें गलितविभवाश्चार्थिषु जनाः॥५॥

परिक्षिणः कश्चित् स्पृहयति यवानां प्रसृतये
स पश्चात् सम्पूर्णो गणयति धरित्रीं तृणसमाम्।
अतश्चानेकान्ता गुरुलघुतयार्थेषु धनिनाम्
अवस्था वस्तूनि प्रथयति च सङ्कोचयतिं च॥६॥

शास्त्नोपस्कृतशब्दसुन्दर गिरः शिष्यप्रदेयागमा
विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः।

तज्जाड्यंवसुधाधिपस्य सुधियो ह्यर्थं विनापीश्वराः
कुत्सास्युः कुपरीक्षकै र्हि मणयो यैरर्थतः पातिताः॥७॥

विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम्॥८॥

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः॥९॥

हर्तुर्याति न गोचरं किमपि संपुष्णाति यत्सर्वदा
प्वर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम्।
कल्पान्तेष्वपि न प्रयाति निधनं विद्यास्वमन्तर्धनं
येषां तान् प्रति मानमृच्छति नृपः कस्तैःसह स्पर्धते॥१०॥

अधिगतपरमार्थान् पण्डितान्मावमंस्था
स्तृणमिव लघुलक्ष्मीर्नैव तान् संरुणद्धि।
अभिनवमदलेखाश्यामगण्डस्थलानां
न भवति विशतन्तुर्वारणं वारणानाम्॥११॥

क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टान्दशा
मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि।
उन्मत्तेभविभिन्नकुम्भकवलग्रासैकवद्धस्पृहः
किंजीर्णं तृणमत्ति मानमहतामग्रेसरः केशरी॥१२॥

असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः
प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम्।
विपद्युच्चैः स्थेयं पदमनुविधेयञ्चमहताम्
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्॥१३॥

मनसि वचसि काये पुण्य पीयूषपूर्णा
स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।
परगुणपरमाणु पर्वतीकृत्य नित्यं
निजहृदि विकशन्तः सन्ति सन्तः कियन्तः॥१४॥

इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्
इतश्चशरणार्थिनः शिखरिपत्रिणः शेरते।
इतश्च वड़वानलः सह समस्तसंवर्तकैः
अहो! विततमूर्जितम्भरसहञ्चसिन्धोर्वपुः॥१५॥

उदन्वच्छिन्नाभूः स च निधिरपां योजनशतं
सदा पान्थःपूषा गगनपरिमाणं कलयति।
इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः
सतां प्रज्ञोन्मेषः पुनरयमसीमोविजयताम्॥१६॥

क्वचिद्भूमौशय्या क्वचिदपि च पर्य्यङ्कशयनः
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः।
क्वचित् कन्याधारीक्वचिदपि च दिव्याम्बरधरो
मनस्वीकार्य्यार्थी न गणयति दुःखन्नच सुखम॥१७॥

ये सन्तोषसुखप्रमोदमुदितास्तेषां न भिन्ना मुदो
ये त्वन्येधनलोभसंकुलधियस्तेषान्न तृष्णा हता।

इत्थंकस्य कृते कृतः स विधिना तादृक् पदं सम्पदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते॥१८॥

नमस्यामो देवान्ननु हत विधेस्तेऽपि वशगा
विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः।
फलंकर्मायत्तंयदि किममरैःकिञ्चविधिना
नमस्तत्कर्मभ्यो विधिरपि न येभ्यःप्रभवति॥१९॥

दौर्मन्त्र्यन्नृपतिर्विनश्यति यतिः सङ्गात्सुतोलालनात्
विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात्
ह्रीर्मद्यादनवेक्षणादपि कृषि, स्नेहः प्रवासाश्रयात्।
मैत्रीचाप्रणयात्समृद्धिरनयात् त्यागात् प्रमादाद्धनम्॥२०॥

रक्तत्वं कमलानां सुपुरुषाणां परोपकारित्वम्।
असताञ्चनिर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम्॥२१॥

जाड्यंह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम्
शूरे निर्घृणता ऋजौविमतिता दैन्यं प्रियालापिनि।
तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे
तत्कोनाम गुणोभवेत्सुगुणिनां योदुर्जनैर्नाङ्कितः॥२२॥

जातिर्यातु रसातलं गुणगणस्तस्याप्यधोगच्छतु
शीलं शैलतटात्पतत्वभिजनः सन्दह्यतां वह्निना।
शौर्यं वैरिणि वज्रनिरस्तमस्तुच तथाप्यर्थस्तु नः केवलं
येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे॥२३॥

भग्नाशस्य करण्डपीड़िततनोर्म्लानेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः।

तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
स्वस्थास्तिष्ठत दैवमेव हि नृणां वृद्धीक्षये कारणम्॥२४॥

पतितोऽपि कराघातैरुत्पतत्येव कन्दुकः।
प्रायेण साधुवृत्तीनामस्थायिन्यो विपत्तयः॥२५॥

प्रायः कन्दुकपातेन पतत्यार्यःपतन्नपि।
तथात्वनार्यः पतति मृत्पिण्डपतनं यथा॥२६॥

प्रीणाति यः सुचरितैः पितरं स पुत्रो
यद्भर्त्तुरेव हितमिच्छति तत्कलत्रम्।
तन्मित्रमापदि सुखे च समं प्रयाति
एतत्रयं जगति पुण्यकृतो लभन्ते॥२७॥

सम्पत्सुमहतां चित्तम्भवेदुत्पलकोमलम्।
आपत्सु च महाशैलशिलासंघातकर्कशम्॥२८॥

दुर्जनः परिहर्तव्यो विद्ययापि समन्वितः।
मणिनालङ्कृतः सर्पः किमसौ न भयङ्करः॥२९॥

क्षिरेणात्मगतोदकाय हि गुणा दत्ता पुरा तेऽखिलाः
क्षिरे तापमवेक्ष्य तेन पयसा ह्यात्माकृशानौ हुतः।
गन्तुं पावकमुन्मनस्तदभवद्दृष्ट्वा तु मित्रापदम्
युक्ता तेन जलेन सम्प्रति सतां मैत्री पुनस्त्वीदृशी॥३०॥

या साधून् हि खलान् करोति विदुषोमूर्खान् हितान् द्वेषिणः
प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात्
तामाराधय शङ्करीन्भगवतीन्दात्रींफलं वाञ्छितं
हे! साधो त्वमतो गुणेषु विफलेष्वास्थांवृथा मा कृथाः॥३१॥

कृमिकुलचितं लालाक्लीन्नंविगन्धि जुगुप्सितं
निरुपमरसप्रीत्या खादन् नरास्थि निरामिषम्।
सुरपतिमपि श्वापार्श्वस्थंविलोक्य विशङ्कते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफलफल्गुताम्॥३२॥

स्वल्पं स्नायुवशावशेषमलिनं निर्मांसमप्यस्थिकं
श्वा लब्ध्वापरितोषमेति न च तत्तस्य क्षुधाशान्तये।
सिंहोजम्बुकमङ्कमागतमपि त्यक्ता निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनःसत्त्वानुरूपं फलम्॥३३॥

पापान्निवारयति योजयते हिताय
गुह्यानि गूहति गुणान् प्रकटीकरोति।
आपद्गतञ्चन जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥३४॥

मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम्।
लुभ्रकधीवरपिशुना निष्कारणवैरिणो जगति॥३५॥

सन्तप्तायसि संस्थितस्य पयसोनामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्रे स्थितं राजते।
स्वात्यां सागरशुक्तिमध्यपतितं मुक्ताफलं जायते
प्रायेणाधममध्यमोत्तमगुणः संसर्गतोजायते॥३६॥

ब्रह्मा येन कुलालवन्नियमितोब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तोमहासङ्कटे।
रुद्रो येन कपालपाणिपुटके भिक्षाटनङ्कारितः
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे॥१७॥

कुसुमस्तवस्वेव द्वेवृत्ती तु मनस्विनः।
सर्वलोकस्य वा मूर्द्ध्रिविशीर्येत वनेऽथवा॥३८॥

मौनान्मूकः प्रवचनपटुर्चातुलोजल्पकोवा
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः।
धृष्टः पार्श्वे स भवति जनोदूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥३९॥

नम्रत्वेनोन्नमन्तः परगुणनुतिभिः स्वान् गुणान् ख्यापयन्तः
स्वार्थान् सम्पादयन्तीविनतपृथुतरारन्भयन्तः परार्थेः।
क्षान्त्येवाक्षेपरूक्षाक्षरमुखरमुखान्दुर्मुखान्दूषयन्तः
सन्तः साश्चर्यचर्याजगति वहुमता कस्य नाभ्यर्थनीयाः॥४०॥

लोभश्चास्ति गुणेन किं? पिशुनता यद्यस्ति किम्पातकैः?
सत्यञ्चेत्तपसा च किं? शुचिमनोयद्यस्ति तीर्थेन किं?
सौजन्यं यदि किन्निजैः? स्वमहिमा यद्यस्ति किन्मण्डनैः?
सद्विद्यायदि किं? धनैरपयशोयद्यस्ति किं मृत्युना?॥४१॥

अम्भोजिनीवननिवासविलासहेतुं
हंसस्य हन्तुमपरामपि तां विधाता।
नो तस्य दुग्धजलभेदविधौ प्रशस्ताम्
वैदग्ध्यप्रकीर्त्तिमपहन्तुमसौ समर्थः॥४२॥

खल्वाटोदिवसेश्वरस्य किरणैः सन्तापिते मस्तके
वाञ्छन्देशननातपं विधिवशाद्विल्वस्य मूलङ्गतः।

तत्राप्यस्य महाफलेन पतताभग्नं सशब्दं शिरः
प्रायोगच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः॥४३॥

नवाकृतिःफलति नैव कुलं न शीलं
विद्यापि नैव न च यत्नकृतापि सेवा
भाग्यानि पूर्वतपसा किल सञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः॥४४॥

ऐश्वर्य्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो
ज्ञानस्वोपशमः शमस्य विनयो वित्तस्य पात्रे व्ययः।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकालनियमं शीलम्परन्भूषणम्॥४५॥

ते ते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये
सामान्यास्तु परार्थ मुद्यमभृतः स्वार्थाविरोधेन ये।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय विघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे॥४६॥

जाड्यंधियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति।
चेतः प्रसादयति दिक्षुतनोति क्रीर्त्तिं
सत्सङ्गतिः कथय किं न करोति पुंसाम्॥४७॥

वाच्छा सज्जनसङ्गमे गुणिगणे प्रीतिर्गुरौनम्रता
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम्।
भक्तिःशूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले
एते यत्रवसन्ति निर्मलगुणास्तेभ्योनरेभ्यो नमः॥४८॥

अग्राह्यंहृदयन्तथैव वदनं यद्दर्पणान्तर्गतं
भावः पर्वतसूक्ष्ममार्गविषमःस्त्रिणान्नविज्ञायते।

चित्तं पुष्करपत्रतोयतरलं विद्वद्भिराशंसितम्
नारी नाम विषाङ्कुरैरिव लता दोषैःसमं वर्द्धिता॥४९॥

तृष्णां छिन्धि भज क्षमाञ्जहि मदं पापे रतिम्माकृथाः
सत्यं ब्रूह्यनुयाहि साधु पदवीं सेवस्वविद्वज्जनान्।
मान्यन्मानय विद्विषोऽप्यनुनय प्रच्छादय स्वान् गुणान्
कीर्तिं पालय दुःखिते कुरु दयामेतत्सताञ्चेष्टितं॥५०॥

गुणवदगुणवद्वाकुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन।
अतिरभसकृतानाङ्कर्मणामाविपत्तेः
भवति हृदयदाही शल्यतुल्यो विपाकः॥५१॥

एको देवः केशवोवा शिवो वा
एकं मित्रंभूपतिर्वा यतिर्वा।
एको वासः पत्तने वा वने वा
एका भार्या सुन्दरी वा दरीवा॥५२॥

वने रणे शत्रुजलाग्निमध्ये
महार्णवे पर्वतमस्तके वा।
सुप्तं प्रमत्तं विषमस्थितं वा
रक्षन्ति पुण्यानि पुराकृतानि॥५३॥

भीमं वनम्भवति तस्य पुरं प्रधानं
सर्वो जनः सुजनतामुपयाति तस्य।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य॥५४॥

यन्नागा मदभिन्नगण्डकरटास्तिष्ठन्ति निद्रालसा
द्वारे हेमविभूषणाश्चतुरगा वल्गन्ति यद्दर्पिताः।
वीणावेणुमृदङ्गशंखपटहैः सुप्तस्तु यहीध्वते
तत्सर्वंसुरलोकदेवसदृणं धर्मस्य बिस्फूर्जितम्॥५५॥

मज्जत्वम्भसि यातु मेरुशिखरं शत्रुजयत्वाहवे
वाणिज्यं कृषिसेवनादिसकला विद्याः कलाः शिक्षतु।
आकाशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नम्परं
नाभाव्यम्भवतीह कर्मवशतो भाव्यस्य नाशः कुतः॥५६॥

वरं पक्षछेदः समदमघवन्मुक्तकुलिश
प्रहारैरुद्गछद्वहुलदहनोद्गारगुरुभिः।
तुषाराद्रेः सुनोरहह! पितरि क्लेशविवशे
न चासौसम्पातः पयसि पयसां प्रत्युचितः॥५७॥

नेता यत्र वृहस्पतिः प्रहरणं वज्रंसुराः सैनिकाः
स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावतोवाहनम्
इत्यैश्वर्यसमन्वितोऽपि वलभिद्भग्नःपरैः सङ्करे
तद्युक्तं ननु दैवमेव शरणं धिग्धिग्! वृथा पौरुषम्॥५८॥

कर्मायत्तं फलं पुंसां बुद्धिः कर्म्मानुसारिणी
तथापि सुधिया भाव्यं सुविचार्य्यैव कुर्वता॥५९॥

आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः
नास्त्युद्यमसमो बन्धुःकृत्वा यं नावसीदति॥६०॥

वरङ्गहनदुर्गेषु भ्रान्तं वनचरैः सह
न मूर्खजनसंसर्गः सुरेन्द्रभवनेष्वपि॥६१॥

दानम्भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य
यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति॥६२॥

यस्यास्ति वित्तं स नरः कुलीनः
सएव वक्ता स च दर्शनीयः।
स पण्डितः स श्रुतवान् गुणज्ञः
सर्वेगुणाः काञ्चनमाश्रयन्ति॥६३॥

रत्नैर्महार्हैस्तुतुषु र्न देवाः
न भेजिरे भीमविषेण भीतिम्।
सुधांविना न प्रययु र्विरामं
विनिश्चितार्थाद्विरमन्तिधीराः॥६४॥

सन्त्यन्येऽपि वृहस्पतिप्रभृतयः सम्भाविताः पञ्चषा
स्तान् प्रत्येष विशेषविक्रमरुचीराहुर्नवैरायते।
द्वावेव ग्रसते दिनेश्वरनिशाप्राणेश्वरौभास्वरौ
भ्रातः! पर्वणि पश्य दानवपतिः शीर्षावशेषिकृतः॥६५॥

इयत्येतस्मिन् वा निरवधिचमत्कृत्यतिशये
वराहो वा राहुः प्रभवति चमत्कारविषयः।
महीमेको मग्नां यदयमवहद्दन्तसलिलैः
शिरःशेषः शत्रुर्निगिलति परं सन्त्यजति च॥६६॥

श्रोत्रंश्रुतेनैव न कुण्डलेन
दानेन पाणिर्न च कङ्कणेन।
आभाति कायः करुणापराणां
परोपकारेण न चन्दनेन॥६७॥

जयन्ति ते सुकृतिनो रसवैद्याः कवीश्वराः
नास्ति येषां यशः काये जरामरणजन्मभिः॥६८॥

याद्धात्रानिजभालपट्टलिखितं स्तोकं महद्वाफलं
तत् प्राप्नोति मरुस्थलेऽपि नियतं मेरौच नातोधिकम्।
तद्धीरी भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः
कूपे पश्य पयोनिधावपि घटा गृह्णन्ति तुल्यंजलम्॥६९॥

लाङ्गूलचालनमधश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनञ्च।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरंविलोकयति चाटुशतैश्चभुंक्ते॥७०॥

राजन्! दुधुक्षसि यदि क्षितिधेनुमेतां
तेनाद्य वत्समिव लोकमिमं पुषाण।
तस्मिंश्च सम्यगनिशम्परिपोष्यमाणे
नानाफलैः फलति कल्पलतेव भूमिः॥७१॥

सत्यानृता च परुषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या।
नित्यव्यया प्रचुरनित्यधनागमा च
वाराङ्गणेव नृपनीतिरनेकरूपा॥७२॥

न कश्चिच्चण्डकोपानामात्मीयोनाम भूभुजाम्।
होतारमपि जुह्वन्तं स्पृष्टो दहति पावकः॥७३॥

विपदि महतान्धैर्य्यध्वंसं यदीक्षितु मीहसे
विरम विरसायासादस्माद्दुरध्यवसायतः।

अपि जड़विधेः कल्पापाथेव्यपेतनिजक्रमाः
कुलशिखरिणः क्षुद्रा नैतेन चापि जलाशयाः॥७४॥

अकरुणत्वमकारणविग्रहः परधनाय रतिः परयीषिति।
सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्भमिदं हि दुरात्मनाम्॥७५॥

कान्ताकटाक्षविशिखा न खनन्तियस्य
चित्तंन निर्दहति कोपकृशानुतापः।
कर्षन्ति भूरिविषयायश्च न लोभपाशा
लोकत्रयं जयति कृत्स्नमिदं स वीरः॥७६॥

आरम्भगुर्व्यक्षयिणी क्रमेण लघ्वीपुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्नाछायेव मैत्रीखलु सज्जनानाम्॥७७॥

प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथनञ्चाप्युपकृतेः।
अनुत्सेकोलक्ष्म्यानिरभिभवसाराः परकथाः
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्॥७८॥

छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः।
इति विमृशन्तः सन्तः सन्तप्यन्ते न ते विपदा॥७९॥

भवन्ति नम्रास्तरवः फलोद्गमैः
नवाम्बुभिर्भूमिविलम्बिनोघनाः।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभावएवैष परोपकारिणाम्॥८०॥

कदर्थितस्यापि हि धैर्य्यवृत्तेः
बुद्धेर्विनाशो न हि शङ्कनीयः।

अधःकृतस्यापि तनूनपातो
नाधःशिखा याति कदाचिदेव॥८१॥

अप्रियवचनदरिद्रैः प्रियवचनाढ्यैःस्वदारपरितुष्टः। .
परपरिवादनिवृत्तैःक्वचित् क्वचिन्मण्डिता वसुधा॥८२॥

पद्माकरन्दिनकरोविकचीकरोति
चन्द्रोविकाशयति कैरवचक्रवालम्।
नाभ्यर्थितोऽपि जलदः सलिलन्ददाति
सन्तः स्वयं परहितेषु कृताभियोगाः॥८३॥

एकेनापि हिशूरेण पादाक्रान्तं क्षमातलम्।
क्रियते भास्करेणेव स्फारं स्फुरिततेजसा॥८४॥

वरं तुङ्गात् शृङ्गाद्गुरुशिखरिणः क्वापि पुलिने
पतित्वायङ्कायः कठिनदृषदन्तर्विदलितः।
वरं न्यस्तोहस्तः फणिपतिमुखे तीव्रदशने
वरं वह्नौ पातस्तदपि न कृतः शीलविलयः॥८५॥

वह्निस्तस्य जलायते जलनिधिः कूपायते तत्क्षणात्
मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते।
व्यालोमाल्यगुणायते विषरसः पियूषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति॥८६॥

यदचेतनोऽपि पादैःस्पृष्टः प्रज्वलति सवितुरविकान्तः।
तत्तेजस्वीपुरुषः परकृतनिकृतं कथं सहते॥८७॥

आज्ञा कीर्त्तिः पालनं ब्राह्मणानां
दानम्भोगोमित्रसंरक्षणञ्च।

येषामेते षड्गुणा न प्रवृत्ताः
कोऽर्थस्तेषां पार्थिवोयाश्रयेण॥८८॥

व्यालम्बालमृणालतन्तुभिरसौरोद्धुं समुज्जृम्भते
भेत्तुं वज्रमाणिंशिरीषकुसुमप्रान्ते न सन्नह्यति।
माधुर्य्यं मधुविन्दुना रचयितुं क्षाराम्बुधेरीहते
नेतुंवाञ्छति यः सतां पथिखलान् सूक्तैः सुधास्यन्दिभिः॥८९॥

स्वायत्तमेकान्तहितं विधात्रा
विनिर्मितं छादनमक्षतायाः।
विशेषतः सर्वविदांसमाजे
विभूषणं मौनमपण्डितानाम्॥९०॥

उद्भासिताखिलखलस्य विशृङ्खलस्य
प्राग्जातविस्तृतनिजाधमकर्म्मवृत्तेः।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य
नीचस्य गोचरणतैः सुखमास्यते कैः॥९१॥

विद्या नाम नरस्य रूपमधिकं प्रच्छन्ननुप्तन्धनं
विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनोविदेशगमने विद्या परन्दैवतं
विद्या राजसु पूजिता शुचि धनंविद्याविहीनः पशुः॥९२॥

दाक्षिण्यंस्वजने दया परिजने शाठ्यंसदा दुर्जने
प्रीतिः साधुजनेक्षमा गुरुजने नारीजने धूर्तता।
शौर्य्यं शत्रुजने स्मयः खलजने विद्वज्जने चार्जवं
ये त्वेवं पुरुषाः कलासुकुशलास्ते ष्वेव लोकस्थितः॥९३॥

करेश्लाघस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्यावाणीविजयभुजयोर्वीर्य्यमतुलम्।
हृदि स्वेच्छा वृत्तिः श्रुतमधिगतञ्चश्रवणयोः
विनाप्यैश्यर्येण प्रकृतिमहतां मण्डनमिदम्॥९४॥

वहति भुवनश्रेणींफणीफणाफलकस्थितां
कमठपतिना मध्येपृष्ठंसदा स च धार्य्यते।
तमपि कुरुते क्रीड़ाधानं पयोनिधिरनादरात्
अहह! महतां निःसीमानश्चरित्रविभूतयः॥९५॥

स्पृहयतिभुजयोरन्तरमायतकरवालकर।
रुहदीर्णं विजयश्रीर्वीराणां मत्तप्रौढ़वनितेव॥९६॥

स जातो येन जातेन यातिवंशः समुन्नतिम्।
परिवर्त्तिनि संसारे मृतः कोवा न जायते॥९७॥

लज्जां गुणौघजननीं जननीमिव स्वां
अत्यन्तशुद्धहृदयामनुवर्त्तमानाः।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति
सत्यंव्रतव्यसनिनो न पुनः प्रतिज्ञाम्॥९८॥

सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु।
प्रकृतिरियं सत्यवतां न खलु वयस्तेजसी हेतुः॥९९॥

किंकूर्म्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्
किं वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः।
किन्त्वङ्गीकृतमुत्सृजन्नमनसा श्लाघ्योजनो लज्जते
निर्वाहःप्रतिपन्नवस्तुषु सतामेतद्धिगोत्रव्रतम्॥१००॥

दूरादर्थं घटयति नवन्दूरतश्चापशब्दं
त्यक्ता भूयो भवति नियतं सत्सभारञ्जनेषु।
मन्दन्मन्दं रचयति पदं लोकचित्तानुवृत्त्या
कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः॥१०१॥

दैवेन प्रभुणा स्वयञ्जगति यद्यस्य प्रमाणीकृतं
तत्तस्योपनयेन्मनागपि महान्नैवाश्रयः कारणम्।
सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
सूक्ष्माएव पतन्ति चातकमुखे द्वित्राःपयोविन्दवः॥१०२॥

अभिमुखनिहतस्य सतस्तिष्टतु तावज्जयोऽथवा स्वर्गः।
उभयवलसाधुवादः श्रवणमुखस्यैव तात्पर्य्यम्॥१०३॥

को न याति वशंलोके मुखे पिण्डेन पूरितः
मृदङ्गो मुखलेपेनकरोति मधुरध्वनिम्॥१०४॥

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्वला
न स्नानं न विलेपनं सुकुसुमं नालंकृता मूर्द्धजाः।
वाण्येका समलङ्करोति कृतिनं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्॥१०५॥

यदि नाम दैवगत्या जगदसरोजं कदाचिदपि जातम्।
अवकारनिकरं विकिरति तत्किंकृकवाकुरिव हंसः॥१०६॥

परिचरितव्याः सन्तोयद्यपि कथयन्ति न सदुपदेशम्
यास्त्वेषां स्वैरं कथास्ताएव भवन्ति शास्त्राणि॥१०७॥

कमठकुलाचलदिग्गजफणिप्रतिविधृतापि चलति वसुधेयम्।
प्रतिपन्नममलमनसां न फलति पुंसां युगान्तेऽपि॥१०८॥

   इति श्रीभर्तृहरिविरचितं नीतिशतकं समाप्तम्।

वैराग्यशतकम्।

______

चूड़ोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभासुरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रेस्फुरन्।
अन्तस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयन्
चेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपोहरः॥१॥

तृष्णादूषणम्।

बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः
अबोधोपहताश्चान्ये जीर्णमङ्गेसुभाषितम्॥२॥

न संसारोत्पन्नंचरितमनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः।
महद्भिःपुण्यौघैश्चिरमपि गृहीताश्चविषया
महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम्॥३॥

भ्रान्त्वादेशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं
त्यक्ताजातिकुलाभिमानमुचितं सेवा कृता निष्फला।
भुक्तं मानविवर्जितं परगृहेष्वाशङ्कयाकाकवत्
तृष्णे! जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि॥४॥

उत्खातं निधिशङ्कया क्षितितलं क्ष्माता गिरेर्धातवो
निस्तीर्णःसरिताम्प्रतिर्नृपतयो यत्नेन सन्तोषिताः।

मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
प्राप्तः काणवराटकोऽपि न मया तृष्णे! ऽधुना मुञ्चमाम्॥५॥

खलोल्लापाः सोढ़ाः कथमपि तदाराधनपरैः
निगृह्यान्तर्वाष्पं हसितमपि शून्येन मनसा।
कृतश्चित्तस्तम्भःप्रतिहतधियामञ्जलिरपि
त्वमाशे! मोघाशे किमुपरमतो नर्तयसि माम्॥६॥

अमीषां प्राणानां तुलितविसिनीपत्रपयसां
कृते किन्नास्माभिर्विगलितविवेकैर्व्यवसितम्।
यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां
कृतं वीतव्रीडैर्निजगुणकथापातकमपि॥७॥

भोगा न भुक्ता वयमेव भुक्ता स्तपोन तप्तं वयमेवतप्ताः।
कालो न यातोवयमेव याता स्तृष्णा नजीर्णा वयमेव जीर्णाः॥८॥

विलभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः।
गात्नाणि शिथिलायन्ते तृष्णैका तरुणायते॥९॥

निवृत्ता भोगेच्छा पुरुषवहुमानोऽपि गलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः
शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च मयने
अहो! दुष्टः कायस्तदपि मरणोपायचकितः॥१०॥

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रामग्राहवतीबितर्कविहगा धर्मद्रुमध्वंसिनी।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः॥११॥

अवश्यं यातारश्चिरतरमुषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत् स्वयममून्।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयन्त्यक्तास्त्वेते शममुखमनन्तं विदधति॥१२॥

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहोदुष्करं
यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निस्पृहाः।
न प्राप्तानि पुरा न संप्रति न च प्राप्तौदृढ़प्रत्यया
वाञ्छामात्रपरिग्रहाण्यपि परित्यक्तुन्नशक्तावयम्॥१३॥

धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायताम्
आनन्दाश्रुकणान् पिवन्ति शकुना निःशङ्कमङ्केशयाः।
अस्माकन्तु मनोरथोपरचितप्रासादवापीतट
क्रीड़ाकाननकेलिकौतुकजुषामायुः परं क्षीयते॥१४॥

स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ
मुखं श्लेष्मागारं तदपि च शशाङ्केनतुलितम्।
स्रवन्सूत्रक्लिन्नं करिवरकरस्पर्द्धिजघनं
मुहुर्निन्द्यं रूपं कविवरविशेषैर्गुरु कृतम्॥१५॥

भिक्षाशनं तदपि नीरसमेकवारं
शय्या च भूः परिजनो निजदेहमात्रम्।
वस्त्रं च जीर्णशतखण्डमलीनकन्या
हाहा! तथापि विषयान्नपरित्यजन्ति॥१६॥

अजानन्माहात्म्यम्पतति शलभस्तीब्रदहने
समीनोऽप्यज्ञानाद्वड़िशयुतमश्नाति पिशित्म्।
विजानन्तोह्येते वयमिह विपज्जालपटलान्
न मुञ्चामः कामानहह! गहनो मोहमहिमा॥१७॥

तुङ्गं वेश्म सुताः सतामभिमताः संख्यातिगाः सम्पदः
कल्याणीदयिता वयश्च नवमित्यज्ञानमूढ़ोजनः।
मत्वा विश्वमनश्वरन्निविशते संसारकारागृहे
संदृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु संन्यस्यति॥१८॥

       याच्ञादैन्यदूषणम्।      

दीनादीनमुस्वैःस्वकीयशिशुकैराकृष्टजीर्णाम्बरां
क्रोशद्भिःक्षुधितैर्निरन्नजठरां दृश्येत चेद्भेहिनीम्।
याच्ञाभङ्गभयेन गद्गदगलोद्गच्छद्विलीनाक्षरं
कोदेहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वीपुमान्॥१९॥

अभिमतमहामानग्रन्थिप्रभेदपटियसी
गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका।
विपुलविलसल्लज्जावल्लीविदारकुठारिका
जठरपिठरीदुष्पूरेयं करोति विड़म्बनाम्॥२०॥

पुण्यग्रामे वने वा महति शितपटच्छेदपालींकपाली
मादाय न्यायगर्भं द्विजहुतहुतभुग्धूमधूम्रोपकण्ठम्।
द्वारं द्वारं प्रविष्टो वरमुदरदरीपूरणय क्षुधार्तो
मानीप्राणीसनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः॥२१॥

गङ्गातरङ्गकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि।

स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिण्डरता मनुष्याः॥२२॥

किं कन्दाः कन्दरेभ्यः प्रलयमुपगतानिर्झरा वा गिरिभ्यः
प्रध्वस्ताः किं महीजाः सरसफलभृतोवल्कलिन्यश्चशाखाः।
वीक्ष्यन्ते किं मुखानि प्रसभमुपगतप्रश्रयाणां खलानां
दुःखोपात्ताल्पवित्तस्मयपवनवशान्नर्त्तितम्रुलतानि॥२३॥

पुण्यैर्मूलफलैः प्रियैश्चसलिलैर्वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैर्वितनुतामुत्तिष्ट यामो वनम्।
क्षुद्राणामविवेकमूढ़मनसां तत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते॥२४॥

फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम्।
मृदुस्पर्शा शय्या सुललितलता पल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः॥२५॥

ये वर्द्धन्ते धनपतिपुरः प्रार्थनादुःखभाजो
ये चाल्पत्वं दधति विषयाक्षेपपर्यस्तबुद्धेः।
तेषामन्तःस्फुरितहसितं वासराणां स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषणः॥२६॥

भिक्षाहारमदैन्यमप्रतिहतं भीतिच्छिदं सर्वदा
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम्।

सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं
शम्भोःसत्रमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः॥२७॥

भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने दैन्यभयं वले रिपुभयं रूपे तरुण्या भयम्।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं
सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम्॥२८॥

आक्रान्तं मरणेन जन्म जरसा यात्युत्तमं यौवनं
सन्तोषोधनलिप्सया शमसुखं प्रौढ़ाङ्गनाविभ्रमैः।
लोकैर्मत्सरिर्भिर्गुणा वनभुवोव्यालै र्नृपा दुर्जनैः
अस्थैर्य्येण विभूतयोऽप्युपहता ग्रस्तं न किंकेन वा॥२९॥

आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते
लक्ष्मीर्यत्र पतन्ति तत्र विकृतद्वाराइव ह्यापदः।
आयु र्यातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात्
तत् किं केन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम्॥३०॥

भोगास्तुङ्गतरङ्गतुल्यतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्यव दिनानि यौवनसुखं स्फूर्त्तिः क्रियासु स्थिता।
तत्संसारमसारमेव निखिलं बुद्धाबुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नःसमाधीयताम्॥३१॥

भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला
आयुर्वायुविघट्टिताभ्रपटलोच्छिन्नाभ्बुवद्भङ्गुरं।
लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं
योगे धैर्य्यसमाधिसिद्धिसुलभे बुद्धिं विदद्धं बुधाः॥३२॥

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीः
अर्थाः सङ्कल्पकल्पा घनसमयतड़िद्विभ्रमा भोगपूगाः।
कण्ठाश्लेषोपगूढ़ंतदपि च न चिरं यत्प्रियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरन्तः॥३३॥

कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने चोपभोगः।
वामाक्षिणामवज्ञाविहसितवसतिर्वृद्धभावोऽप्यसाधुः
संसारेरे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित्॥३४॥

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रवइव प्रहरन्ति देहे।
आयुः परिस्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चित्रम्॥३५॥

भोगा भङ्गुरवृत्तयो वहुविधास्तैरेव चायम्भवः
तत्कस्येहकृतेपरिभ्रमत हे लोकाः! कृतं चेष्टितम्।
आशापाशशतोपशान्तिविशदं चेतः समाधीयतां
काम्योत्पत्तिवशे स्वधामनि यदि श्रद्धेयमस्मद्वचः॥३६॥

ब्रह्मेन्द्रादिमरुद्गणांस्तृणगणान् यत्रस्थितो मन्यते
यच्छापाद्विरसा भवन्ति विभवास्त्रैलोक्यराज्यादयः।
बोधः कोऽपि सएकएव परमो नित्योदितो जृम्भते
भोः साधो! क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः॥३७॥

सा रम्या नगरी महान् स नृपतिः सामन्तचक्रञ्च तत्
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रविम्बाननाः।

उन्मत्तःस च राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः
सर्वं यस्य वशादगात् स्मृतिपथं कालाय तस्मै नमः॥३८॥

यत्रानेकःक्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु वहवस्तत्र नैकोऽपि चान्ते।
इत्थञ्चेमौरजनिदिवसौ दोलयन् द्वाविवाक्षौ
कालः काल्या भुवनफलके क्रीड़ति प्राणिसारैः॥३९॥

आदित्यस्य गतागतैरहरहः संक्षीयते जीवनं
व्यापारैर्वहुकार्य्यभारगुरुभिः कालो न विज्ञायते।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयींप्रमादमदिरामुन्मत्तभूतञ्जगत्॥४०॥

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतं प्रारब्धतत्तत्क्रियाः।
व्यापारैः पुनरुक्तभूतविषयैरित्थंविधेनामुना
संसारेण कदर्थिता वयमहोमोहं न जानीमहे॥४१॥

न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्माेऽपि नोपार्जितः।
नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं
मातुः केवलमेव यौवनवनछेदे कुठारावयम्॥४२॥

नाभ्यस्ता भुवि वादिवृन्ददमनीविद्या विनीतोचिता
खङ्गाग्रैः करिकुम्भपीठदमनैर्नाकं न नीतं यशः।
कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यङ्गतमेव निष्फलमहोशून्यालये दीपवत्॥४३॥

विद्या नाधिगता कलङ्करहिता वित्तञ्च नोपार्जितं
शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता
आलोलायतलोचना युवतयः स्वप्नेऽपि नालिङ्गिताः।
कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेषितः॥४४॥

वयं येभ्यो जाताश्चिरपरिगताएव खलु ते
समा येषां वृद्धाःस्मृतिविषयतां तेऽपि गमिताः।
इदानीमेतेस्मत्प्रतिदिवसमापन्नपतना
गता स्तुल्यावस्थां सिकतिलनदीतीरतरुभिः॥४५॥

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्द्धंगतं
तस्यार्द्धस्य परस्य चार्द्धपरं वालत्ववृद्धत्वयोः।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम्॥४६॥

क्षणं वालो भूत्वा क्षणमपि युवा कामरसिकः
क्षणं वित्तैर्हीनःक्षणमपि च सम्पूर्णविभवः।
जराजीर्णैरङ्गैर्नटइव वलीमण्डिततनुः
नरःसंसारान्ते विशति यमधानीयवनिकाम्॥४७॥

यतिनृपतिसम्बादः।

त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः।
इत्थंमानधनातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासुपराङ्मुखोऽसि वयमप्येकान्ततोनिस्पृहाः॥४८॥

अहो वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्ट्रेवा कुसुमशयने वा दृषदि वा।
तृणेवा स्त्रैणेवा मम समदृशी यान्ति दिवसाः
क्वचित्पुण्येऽरण्ये शिवशिवशिवेति प्रलपतः॥४९॥

एकाकीनिस्पृहः शान्तः पाणिपात्रोदिगम्बरः।
कदा शम्भो गविष्यामि कर्मनिर्मूलनक्षमः॥५०॥

पाणिं पात्रयतां निसर्गशचिनाभैक्ष्येऽण सन्तुष्यताम्
यत्रक्वापि निषिदतां वहुतृणं विश्वं मुहुः पश्यताम्।
अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृहां
मर्त्त्यःकोऽपि शिवप्रसादसुलभां सम्पत्स्यते योगिनाम्॥५१॥

अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदर्थं
शूरस्त्वं वादिदर्पज्वरशमनविधावक्षयं पाटवं मे।
सेवन्ते त्वां धनाढ्यामतिमलहतये मामपि श्रोतुकामा
मय्यप्यास्था न ते चेत्त्वयि मम नितरामेव राजन्! गतासीत्॥५२॥

वयमिह परितुष्टा वल्कलैस्त्वंदुकूलैः
समइह परितोषो निर्विशेषो विशेषः।
सतु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः॥५३॥

फलमलमशनाय स्वादु पानाय तोयं
शयनमवनिपृष्टे वाससीवल्कले च।
धनलवमधुपानभ्रामिसर्वेन्द्रियाणा
मविनयमनुमन्तुं नोत्सहे दुर्जनानाम्॥५8॥

अश्नीमहिवयं भिक्षामाशावासो वसीमहि।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः॥५५॥

न नटा न विटा न गायका न च तथ्येतरवादतत्पराः।
नृपसंसदि नाम के वयं स्तनभारानमिता न योषितः॥५६॥

विपुलहृदयैरीशैः कैश्चिज्जगज्जनितं पुरा
विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां कएष मदज्वरः॥५७॥

अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैः
भुवस्तस्या लाभेकइह वहुमानः क्षितिभृताम्।
तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो
विषादे कर्तव्ये विदधति जड़ाः प्रत्युत मुदम्॥५८॥

परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा
प्रसादं किन्नेतुं विशसि हृदय! क्लेशमफलम्।
प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगुणे
विविक्ते सङ्कल्पे किमभिलषितं पुष्यति न ते॥५९॥

परिभ्रमसि किं वृथा क्व च न चित्तं विश्राम्यतां
स्वयम्भवति यद्यथा भवति नान्यथा तत्तथा।
अतीतमपि न स्मरन्नपि च भाव्यंसङ्कल्पयन्
न तर्कितगमागमाननुभवस्व भोगानिह॥६०॥

एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रयात्
श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात्।

आत्मीभावमुपैहि सन्त्यज निजां कल्लोललोलां मतिं
मा भूयो भज भङ्गुराम्भवरतिं चेतः प्रसीदाधुना॥६१॥

मोहं मार्जय तामुप्राश्रय रतिं चन्द्रार्द्धचूड़ामणौ
चेतः स्वर्गतरङ्गिणीतटभुवि व्यासङ्गमङ्गीकुरु
कोवा वीचिषु वुद्वुदेषु च तड़िल्लेखासु च श्रीषु च
जालाग्रेषु च पन्नगेषु च सरिद्वर्गेषु च प्रत्ययः॥६२॥

चेतश्चिन्तय मा रमां सकृदिमामस्थायिनीमास्थया
भूपालभ्रुकुटीकुटीरविहरव्यापारपण्याङ्गनाम्।
कन्थाकञ्चुकिताः प्रविश्य भवनद्वाराणि वाराणसी
रथ्यापंक्तिषु पाणिपात्रपतितां भिक्षामपेक्षामहे॥६३॥

अग्रे गीतं सरसकवयः पार्श्वयो र्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम्।
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं
नोचेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ॥६४॥

प्राप्ताः श्रियः सकलकामदुघास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम्।
सम्पादिताः प्रणयिनोविभवास्ततः किं
कल्पंस्थितास्तनुभृतान्तनवस्ततः किम्॥६५॥

भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु च मन्मथजा विकाराः
संसर्गदोषरहिताविजना वनान्ता
वैराग्यमस्ति किमतः परमर्थनीयम्॥६६॥

तस्मादनन्तमजरं परमं विकासि
तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः।
यस्यानुषङ्गिण इमे भुवनाधिपत्य
भोगादयः कृपणलोकमता भवन्ति॥६७॥

पातालमाविशसि यासि नभोविलंघ्य
दिङ्मण्डलं भ्रमसि मानस! चापलेन।
भ्रान्त्यापि जातु विमलं कथमात्मनीनं
न ब्रह्म संस्मरसि निर्वृतिमेषि केन॥६८॥

नित्यानित्यविचारः।

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः
मुक्तैकंभवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रकाशकलनं शेषा वणिग्वृत्तयः॥६९॥

गात्रंसङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावली
दृष्टि र्नश्यति बर्द्धते वधिरता वक्त्रञ्च लालायते।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रुषते
हा कष्टं! पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते॥७०॥

वर्णं सितं समववीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदेव पुंसाम्।
आरोपितास्थिशेकलं परिहृत्य यान्ति
चाण्डालकूपमिव दूरतरं तरुण्यः॥७१॥

यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो
यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयो मायुषः।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः॥७२॥

तपस्यन्तः सन्तःकिमधिनिवसामः सुरनदीं
गुणोदारान्दारानुत परिचरामः सविषयान्।
पिवामः शास्त्रौघानुत विविधकाव्यामृतरसान्
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने॥७३॥

दुराराध्यः स्वामी तुरगचलचित्ताः क्षितिभुजो
वयञ्चस्थूलेछाः सुमहति पदे बद्धमनसः।
जरा देहे मृत्युर्हरति दयितं जीवितमिदं
सखे! मान्यच्छ्रेयोजगति विदुषामत्र तपसः॥७४॥

रम्यं हर्म्यतलं न किं वसतये श्राव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकं प्रीतये।
किन्तु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपाङ्कुर
छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तङ्गताः॥७५॥

शिवार्चनपद्धति।

आसंसारं त्रिभुवनमिदं चिन्वतां तात तादृक्
नैवास्प्राकं नयनपदवीं श्रोत्रमार्गं गतोवा।
योऽयं धत्ते विषयकरिणीगाढ़गूढ़ाभिमानः
क्षीवस्यान्तःकरणकरिणः संयमालानलीलाम्॥७६॥

जीर्णाएव मनोरथाश्च हृदये यातञ्चतद्यौवनं
हन्ताङ्गेषु गुणाश्च बन्ध्यफलतां याता गुणज्ञैर्विना।
किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तोऽक्षमी
न ध्यातं मदनान्तकाङ्घ्रियुगलं मुक्तेस्तुनान्यागतिः॥७७॥

महेश्वरे वा जगतामधीश्वरे जनार्दने वा जगदन्तरात्मनि।
न वस्तुतो मे प्रतिपत्तिरस्ति तथापि भक्तिस्तरुणेन्दुशेखरे॥७८॥

स्फरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनाः शान्तध्वनिषु रजनीषु द्युसरितः।
भवाभोगोभग्नाः शिवशिवशिवेत्युच्चिवचसः
कदा यास्यामोऽन्तर्गतवहुलवाष्पाकुलदृशः॥७९॥

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदया
स्तरन्तः संसारं विरसपरिणामावधिगतम्।
कदा पुण्यारण्येपरिगतशरच्चन्द्रकिरणा
स्त्रियामा नेष्यामो हरचरणचित्तैकशरणः॥८०॥

कदा वाराणस्याममरतटिनीरोधसि वसन्
वसानः कौपीने शिरसि निदधानोऽञ्जलिपुटम्।
अये गौरीनाथ! त्रिपुरहर! शम्भो! त्रिनयन!
प्रसीदेति क्रोशग्निमिषमिव नेष्यामि दिवसान्॥८१॥

स्नात्वा गाङ्गै पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो! त्वां
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावशय्यानिषणः।
आत्मारामःफलाशीगुरुवचनरतस्त्वत्प्रसादात् स्मरारे!
दुःखं मोक्ष्येकदाहं समकरचरणे पुंसि सेवासमुत्थम्॥८२॥

महीशय्या शय्या विपुलमुपधानं भुजलता
वितानञ्चाकाशं व्यजनमनुकूलोऽयमनिलः।
स्फुरद्दीपश्चन्द्रो विरतिवनितासङ्गमुदितः
सुखं शान्तः शेते मुनिरतनुभूतिर्नृपइव॥८३॥

अवधूतचर्य्या।

कौपीनं शतखण्डजर्जरतरं कन्या पुनस्तादृशी
नैश्चिन्त्यं निरपेक्ष्यभैक्ष्यमशनं निद्रा श्मशाने वने।
स्वातन्त्र्येण निरंङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्य्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम्॥८४॥

भूः पर्य्यङ्को निजभुजलता कन्दुकः खं वितानं
दीपश्चन्द्रोविरतिवनितालब्धसङ्गप्रमोदः।
दिक्कान्ताभिः पवनचमरैर्वीज्यमानः समन्तात्
भिक्षुः शेते नृपइव भुवि त्यक्तसर्वस्पृहोऽपि॥८५॥

ब्रह्माण्डो मण्डलीमात्रं को लोभोऽयं मनस्विनः
शफरीस्फुरितेनाब्धेक्षुब्धता जातु जायते॥८६॥

यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदिति।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते॥८७॥

रम्याश्चन्द्रमरीचयस्तृणवतीरम्या वनान्तस्थली
रम्यं साधुसभा समागमसुखं काव्येषु रम्याः कथाः।

कोपोपाहितवास्पविन्दुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यमनित्यतामधिगतं चित्ते न किञ्चित् पुनः॥८८॥

भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा
हानादानविभिन्नवर्णरहितः कश्चित्तपस्वी स्थितः।
रथ्याकीर्णविशीर्णजीर्णवसनैरास्यूतककन्याधरो
निर्माणो निरहंकृतिः शमसुधाभोगैकबद्धस्पृहः॥८९॥

मातर्मेदिनि! तात मारुत! सखे ज्योतिः! स्वबन्धो जल!
भ्रातर्व्योम! निबद्धएष भवतामग्रे प्रणामाञ्जलिः।
युष्मत्सङ्गवशोपजातसुकृतोद्रेकस्फुरन्निर्मल
ज्वालापास्तसमस्तमोहमहिमा लीये परे ब्रह्मणि॥९०॥

स्वादिष्ठं मधुनो घृताच्च रसवद्यत् प्रस्रवत्यक्षरं
दैवीवागमृतात्मनो रसवतस्तेनैव तृप्ता वयम्।
कुक्षौ यावदिमे भवन्ति धृतये भिक्षाहृताः शक्तवः
तावद्दास्यकृतार्जनैर्नहि धनैर्वृत्तिं समीहामहे॥९१॥

निवृत्ता भोगेच्छा पुरुषवहुमानो विगलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः।
शनैर्यर्ष्ट्युत्थानं घनतिमिररुहे च नयने
अहो भ्रष्टः! कायस्तदपि मरणोपायचकितः॥९२॥

हिंसाशून्यमयत्नलभ्यमशनं वायुः कृतो वेधसा
व्यालानां पशवस्तृणाङ्कुरभुजः पुष्टा स्थलीशायिनः।

संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां
यामन्वेषयतां प्रयान्ति सहसा सर्वे समाप्तिं गुणः॥९३॥

कृशः काणः खञ्जःश्रवणरहितः पुच्छविकलो
व्रणीपूयक्लिन्नःकृमिकुलशतैराकृततनुः
क्षुधाक्षामो जीर्णः पिवरनृकपालार्दितगलः।
शुनीमन्वेति श्वाहतमपि निहन्त्येव मदनः॥९४॥

मृत्पिण्डो जलरेखया वलयितः सर्वोऽप्ययं नन्वणुः
स्वयीकृत्य तमेव संयुगशतैराज्ञां गणाः भुञ्जते।
दह्यन्ते ददतोऽथवा किमपरे क्षुद्रा दरिद्रा भृशं
धिग्धिक् कापुरुषाधमान् धनलवंतेभ्योऽपि वाञ्छन्ति ये॥९५॥

ददतु ददतु गालीर्गालिमन्तो भवन्तः
वयमपि तदभावाद्गालिदानेऽसमर्थाः।
जगति विदितमेतद्दीयते विद्यमानं
नहि शशकविषाणं कोऽपि कस्मै ददाति॥९६॥

पुरा विद्वत्तासीदमलिनधियां क्लेशहतये
गता कालेनासौ विषयसुखसिद्धौविषयिणाम्।
इदानीं सम्प्रेक्ष्यक्षितिलवभुजःशास्त्रविमुखान्
अहो कष्ट! सापि प्रतिदिनमधोऽधः प्रविशति॥९७॥

स जातः कोऽप्यासीमदनरिपुणा मूर्द्ध्निधवलं
कपालं यस्योच्चैर्विनिहितमलङ्कारविधये।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना
नमद्भिःकः पुंसामयमतुलदर्पज्वरभरः॥९८॥

यदा किचिज्ज्ञोऽहं द्विपइव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः।

यदा किञ्चित् किञ्चिद्गुरुजनसकाशादधिगतं
तदा मूर्खोऽस्मीति ज्वरइव मदो मे व्यपगतः॥९९॥

माने श्लाघिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षिणे बन्धुजने गते परिजने नष्टे शनै र्यौवने
युक्तं केवलमेतदेव सुधियां यज्जह्नुकन्यापयः
पूतग्रावगिरीन्द्रकन्दरदरीकुञ्जेनिवासः क्वचित्॥१००॥

इति श्रीभर्तृहरिविरचितं वैराग्य शतकं समाप्तम्।

________

सूर्यशतकम्।

_____

रश्मिवर्णणम्।

जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं
रक्ताः सक्तैरिवोघैरुदयगिरितटीधातुधाराद्रवस्य।
आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै
भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः॥१॥

भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरक्रोड़लीनां
लक्ष्मीमाकर्ष्टुकामाइव कमलवनोद्घाटनं कुर्वते ये
कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः
कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य॥२॥

गर्भेष्वम्भोरुहाणां शिखरिषु च शिताग्रेषु तुल्यं पतन्तः
प्रारम्भ वासरस्य व्युपरतिसमये चैकरूपास्तथैव।

निष्पर्य्यायं पतन्तस्त्रिभुवनभवनप्राङ्गणे पान्तु युष्मान्
उष्मानं सन्तताध्वश्रमजमिव भृशं विभ्रतो ब्रध्नपादाः॥३॥

प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्वीक्ष्यवीतावृतीन् प्राग्
जन्तूंस्तन्तून् यथा यानतमु वितनुते तिग्मरोचिर्मरीचीन्।
ते सान्द्रीभूय सद्यः क्रमविशददशाशादशालीविशालं
शश्वत्सम्पादयन्तोऽम्बरममलमलं मङ्गलं वो दिशन्तु॥४॥

न्यक् कुर्वन्नोषधीशे मुषितरुचि शुचेवौषधीः प्रोषिताभा
भास्वद्ग्रावोद्गतेन प्रथममिव कृताभ्युद्गतिः पावकेन।
पश्चच्छेदब्रणासृक्स्रुतइव दृषदो दर्शयन् प्रातरद्रेः
आताम्रस्तीव्रभानोरनभिमतनुदे स्वाद्गभस्त्युद्गमो वः॥५॥

शीर्णघ्राणाङ्घ्रिपाणीन् घृणिभिरपघनैर्घर्घराव्यक्तघोषान्
दीर्घाघ्रातानघौषैः पुनरपि घटयत्येक उल्लाघयन् यः।
घर्मांशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्तेः
दत्तार्घाः सिद्धसङ्खैर्वदधतु घृणयः शीघ्रमंङ्घोविघातम्॥६॥

विभ्राणावामनत्वं प्रथम मथतथैवांशवः प्रांशवो वः
क्रान्ताकाशान्तरालास्तदनु दश पूरयन्तस्ततोऽपि।
ध्वान्तादाच्छिद्य देवद्विष इव वलितो विश्वमाश्वश्नुवानाः
कृच्छ्राण्युच्छ्रायहेलावहसितहरयो हारिदश्वाहरन्तु॥७॥

उङ्गढेनारुणिम्नाविदधति बहुलं येऽरुणस्यारुणत्वं
मूर्द्धोद्धूतौ खलीनक्षतरुधिररुचो ये रथाश्वाननेषु।
शैलानां शेखरत्वं श्रितशिखरिशिखास्तन्वते ये दिशन्तु
प्रेङ्खन्तः खे खरांशोः खचितदिनमुखास्ते मयूखाः सुखं वः॥८॥

दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टैःपयोभिः
पूर्वाह्नेविप्रकीर्णादिशि दिशि विरमत्यह्निसंहारभाजः।
दीप्तांशोर्दीर्घदुःखप्रभवभयोदन्वदुत्तारनावो
गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु॥९॥

बन्धध्वंसैकहेतुं शिरसि नतिवशाबद्धसन्ध्याञ्जलीनां
लोकानां ये प्रबोधं विदधति विपुलाम्भोजषण्डाशयेव।
ते युष्माकं स्वचित्तप्रथितपृथुतरप्रार्थनाकल्पवृक्षाः
कल्पन्तां निर्विकल्पं दिनकरकिरणाः केतवः कल्मषस्य॥१०॥

धारा रायोधनायापदिसपदिकरालम्बभूताः प्रपाते
तत्त्वालोकैकदीपास्त्रिदिवपतिपुरःप्रस्थितौ वीथ्य एव।
निर्वाणोद्योगियोगिप्रशमनिजतनुद्वारि वेत्रायमाणा
स्त्रायन्तांतीव्रभानोर्दिवसमुखसुखारश्मयः कल्मषाद्वः॥११॥

प्राचि प्रागाचरन्त्योऽनतिचिरमचले चारुचूड़ामणित्वं
कुञ्चन्त्योरोचनाम्बुप्रचुरमिव दिशामुच्चकैश्चर्चनाय।
चाटूत्कैश्चक्रनाम्नां चतुरमविचलैर्लोचनैरर्च्यमानाः
चेष्टन्तां चिन्तितानामुचितमचरमाश्चण्डरोचीरुचो वः॥१२॥

एकं ज्योतिर्द्दशौ द्वेत्रिजगति गदितान्यञ्जजास्यैश्चतुर्भि
भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि।
युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भाषित भानोः
यान्ति प्राह्नेनवत्वं दश दधतु शिवं दीधितीनां शतानि ॥१३॥

आवृत्तिभ्रान्तविश्वाः श्रममिव दधतः शोषिणः स्वोष्मणैव
ग्रीष्मेदावाग्नितप्ता इव रसमसकृद्ये धरित्र्याधयन्ति।

ते प्रावृष्यात्तपानातिशयरुज इवोद्वान्ततोया हिमर्त्तैा
मार्त्तण्डस्य प्रचण्डाश्चिरमशुभभिदे भीषवो वो भवन्तु॥१४॥

तन्वाना दिग्वधूनां समधिकमधुरालोकरम्यामवस्था
मारूढ़प्रौढ़िलेशोत्कलितकपिलिमालंकृतिः केवलैव।
उज्जृम्भाम्भोजनेत्रद्युतिनि दिनमुखे किञ्चिदुद्भिद्यमाना
अश्रुश्रेणीव तासां दिशतु दशशतीशर्म घर्मत्विषो व॥१५॥

मौलीन्दोर्मैषमोषिद्द्युतिमिति वृषभाङ्के न यः शङ्किनेव
प्रत्यग्रोद्घाटिताम्भोरुहकुहरगुहासुस्थितेनेव धात्रा।
कृष्णेन ध्वान्तकृष्णस्वतनुपरिभवत्रस्रुनेव स्तुतोऽलं
त्राणाय स्तात्तनीयानपि तिमिररिपोः सत्विषामुद्गमो वः॥१६॥

विस्तीर्णंव्योमदीर्घाः सपदि दश दिशोव्यस्तवेलाम्भसोऽब्धीन्
कुर्वद्भिर्दृश्यमानां नगनगरगणाभोगपृथ्वीश्च पृथ्वीं।
पद्मिन्यु च्छास्यते यैरुषसि जगदपि ध्वंसयित्वा तमिस्रा
मुस्रावि स्रंसयन्तु द्रुतमनभिमतं ते सहस्रत्विषो वः॥१७॥

अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरः कर्त्तुमीशी
विश्वं वेश्मेव दीपः प्रतिहततिमिरं यः प्रदेशे स्थितोऽपि।
दिक्कालापेक्षयासौ त्रिभुवनमटतस्तिग्मभानोर्नवाख्यां
यातः शातक्रतव्यां दिशि दिशतु शिवं सोऽर्च्चिषामुद्गमोवः॥१८॥

भागान् म्लानिं मृणालीमृदुरितिदययेवाप्रविष्टोऽहिलोकं
लोकालोकस्य पार्श्वं प्रतपति न परं यस्तदाख्यार्थमेव।
ऊर्द्धं ब्रह्माण्डखण्डस्फुटनभयपरित्यक्तदैर्घ्योद्युसीम्नि
स्वेच्छावश्यावकाशावधिरवतु स वस्तापनोरोचिरोघः॥१९॥

अश्यामः कालएको न भवति भुवनान्तेऽपि वीतेऽन्धकारे
सद्यः प्रालेयपादो न विलयमचलश्चन्द्रमाश्चाभ्युपैति।
बन्धः सिद्वाञ्जलीनां नहि कुमुदवनस्यापि यत्रोज्जिहाने
तत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः॥२०॥

यत्कान्तिं प्रङ्कजानां न हरति कुरुते प्रत्युताधिक्यरम्यां
नो धत्ते तारकाभां तिरयति नितरामाशु यन्नित्यमेव।
कर्त्तुं नालं निमेषं दिवसमपि परं यत्तदेकं त्रिलोक्याः
चक्षुः सामान्यचक्षुर्विसदृशमघभिद्भास्वतस्तान्महोवः॥२१॥

क्ष्मां क्षेपीयः क्षपाम्भः शिशिरतरलस्पर्शतर्षादृतेव
द्रागाशा नेतुमाशाद्विरदकरसरः पुष्कराणां विबोधम्।
प्रातः प्रोल्लङ्घ्य विष्णोः पदमपि घृणये वातिवेगाद्गरीय
स्युद्दामद्योतमाना दहतु दिनपतेर्दुर्निमित्तं द्युतिर्वः॥२२॥

नो कल्पापायवायोरदयरयदलत् क्ष्माधरस्यापि गम्या
गाढ़ोद्गीर्णोज्ज्वलश्रिरहनि न रहिता नोतमः कज्जलेन।
प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णत्विषो वो
वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः॥२३॥

निःशेषाशावपूरप्रवणगुरुगुणश्लाघनीयस्वरूपा
पर्य्याप्ता नोदयादौ दिनगमसमयोपप्लवेऽप्युन्नतैव।
अत्यन्तं यानभिज्ञा क्षणमपि तमसा साकमेकत्र वस्तुं
ब्रध्नस्येद्धारुचिर्वोरुचिरिव रुचितस्याप्तये वस्तुनोऽस्तु॥२४॥

विभ्राणः शक्तिमाशु प्रशमितवलवत्तारकौर्जित्यगुर्वी
क्रुर्वाणो लीलयाधः शिखिनमपि लसच्चन्द्रकान्तावभासम्।

आदध्यादन्धकारे रतिमतिशयिनीमावहन् वीक्षणानां
बालो लक्ष्मीमपारामपरइव गुहोऽहर्पतेरातपो वः॥२५॥

तीव्रं निर्वाणहेतुर्यदपि च विपुलं यत् प्रकर्षेण चाणु
प्रत्यक्षं यत् परोक्षं यदिह यदपरं नश्वरं शाखतञ्च।
यत् सर्वस्य प्रसिद्धं जगति कतिपये योगिनो यद्विदन्ति
ज्योतिस्तदद्विप्रकारं सवितुरवतु वोवाह्यमाभ्यन्तरञ्च॥२६॥

ज्योत्स्नांसाकृत्स्नपाण्डुद्युतितिमिरमसीशेषकल्माषमीषत्
जृम्भोद्भूतेन पिङ्गं सरसिजरजसा सन्ध्यया शोणशोचिः।
प्रातः प्रारम्भकाले सकलमिव जगच्चित्रमुन्मीलयन्ती
कान्तिस्तीक्ष्णत्विषोऽक्ष्णांमुदमुपनयतान्तूलिकेवातुलां वः॥२७॥

आयान्ती किं सुमेरोः सरणिररुणिता पाद्मरागैःपरागैः
आहोस्वित्स्वस्य माहारजनविरचिता वैजयन्तीरथस्य।
माञ्जिष्ठीप्रष्ठवाहावलिविधृतशिरश्चामरालीनु लोकैः
आशङ्क्यालोकितैवं सवितुरघनुदे स्यात् प्रभाते प्रभा वः॥२८॥

ध्वान्तध्वसं विधत्ते न तपति नितरां नातिरूपं व्यनक्ति
न्यक्त्वं नीत्वापि नक्तं न वितरतितरां तावदह्नस्त्विषं यः।
स प्रातर्माविरंसीदसकलपटिमा पूरयन् युष्मदाशा
माशाकाशावकाशावतरणतरुणप्रक्रमोऽर्कप्रकाशः॥२९॥

रत्नानां मण्डनाय प्रभवति नियतोद्देशलब्धावकाशं
वह्नेर्दावादि दग्धुं निजजड़िमतया कर्त्तुमानन्दमिन्दोः।
यत्तु त्रैलोक्यभूषाविधिरघदहनं ह्लादिवृष्ट्याशुतद्वो
बाहुल्योत्पाद्य कार्याधिकतरमवतादेकमेवार्कतेजः॥३०॥

भीलच्चक्षुर्विजिह्न श्रुतिजड़रसनं विन्घितघ्राणवृत्ति

स्वव्यापाराक्षमत्वक् परिमुषित मनःश्वासमात्रावशेषम्।

विस्रस्ताङ्गंपतित्वा स्वपदपहरतादप्रियं वोऽर्कजन्मा

कालव्यालावलीढ़ं जगदगदइवोत्थापयन् प्राक् प्रतापः॥३१॥

निःशेषं नैशमम्भः प्रसभमपनुदन्नश्रुलेशानुकारि

स्तोकस्तोकापनोतारुणरचिरचिरादस्तदोषानुषङ्गः।

दाता दृष्टिं प्रसन्नांत्रिभुवननयनस्वाशुयुग्मद्विरुद्धं

बध्याद्व्रध्नस्य सिद्धाञ्जनविधिरपरः प्राक्तनोऽर्चिः प्रचारः॥३२॥

भूत्वा जम्भस्य भेत्तुःककुभि परिभवारम्भभूः शुभ्रभानोः

विभ्राणा वभ्रभावं प्रसभमभिनवाम्भोजजृम्भा प्रगल्भा।

भूषाभूयिष्ठशोभात्रिभुवनभवनस्याशुवैभाकरीप्राग्

विभ्रान्ति भ्राजमाना विभवतु विभवोद्भूतये सा विभा वः॥३३॥

संसक्तं सिक्तमूलादभिनवभुवनोद्यानकौतूहलिन्या

यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन।

अर्कालोकः क्रियाद्वोमुदमुदयमिरश्चक्रवालालवालाद्

उद्यन्वालप्रवालप्रतिमरुचिरहः पादपप्राक्प्रवालः॥३४॥

भिन्नं भासारुणस्य क्वचिदभिनवया विद्रुमाणां त्विषेव
भिन्नंनक्षत्ररत्नद्युतिनिकरकरालान्तरालं क्वचिच्च।
अन्तर्निःशेषकृष्णप्रियमुदधिमिव ध्वान्तराशिंपिवंस्ता
दौर्वःपूर्वोऽप्यपूर्वोऽग्निरिव भवदघप्लष्टयेर्क्वावभासः॥३५॥

गन्धर्वेर्गद्यपद्यव्यतिकरितवचो हृद्यमातोद्यवाद्यैः
यो देवो नारदाद्यै र्मुनिभिरभिनुतो वेदवेद्यैर्विभिद्य।

आसाद्यापाद्यते यं पुनरपि च जगद्यौवनं सद्य उद्यन्
उद्योतीद्योतितद्योर्द्यतु दिवसकृतो साववद्यानिवोऽद्य॥३६॥

आरालैश्चन्द्रकान्तैश्च्युततिमिरतया भानवात्तारकाणाम्
एणाङ्कालोकलोपादुपहतमहसामोषधीनां लयेन।
आरादुत्प्रेक्ष्यमाणाक्षणमुदयतटान्तर्हितस्याहिमांशोः
आभा प्राभातकीवोऽवतुनतुनितरान्तावदाविर्भवन्ती॥३७॥

सानौसा नौदयेनारुणितदलपुनर्यौवनानां वनानाम्
आलीमालीढ़पुर्वा परिहृतकुहरोपान्तनिम्नातनिम्ना।
भावोभावोपशान्तिं दिशतु दिनपतेर्भासमाना समाना
राजी राजीवरेणोः समसमयमुदेतीव यस्या वयस्या॥३८॥

उज्जृम्भाम्भोरुहाणां प्रभवति पयसां या श्रिये नोष्णतायै
पुष्णात्यालोकमात्रंनतु दिशति दृशां दृश्यमाना विघातम्।
पूर्वाद्रेरेव पूर्वन्दिवमनु च पुनः पावनीदिङ्मुखानां
एनां स्येनीविभासौनुदतुनुतिपदैकास्पदंप्राक्तनीवः॥३९॥

वाचां वाचस्पतेरप्यचलभिदुचिता चार्यकाणां प्रपञ्चैः
वैरिञ्च्यानां तथोच्चारितरुचिर ऋचामाननानां चतुर्णाम्।
उच्येतार्च्चासुवाच्यच्युतिशुचिचरितं यस्य नोच्चैर्विविच्य
प्राच्यं वर्चश्चकासश्चिरमुपचिनुतात्तस्य चण्डार्चिषो वः॥४०॥

मूर्द्ध्र्यद्रेर्घातुरागस्तरुषु किशलयो विद्रुमौघःसमुद्रे
दिङ्मातङ्गोत्तमाङ्गेष्वभिनवनिहितः सान्द्रसिन्दूररेणुः।
सीम्निव्योम्नश्चहेम्नः सुरशिखरिभुवो जायते यः प्रकाशः
शोणिम्नाऽसौखरांशोरुषसि दिशतु वः शर्म्मशोभैकदेशः॥४१॥

अस्ताद्रीशोत्तमाङ्गे श्रितशशिनि तमः कालकूटे निपीते
याति व्यक्तिं पुरस्तादरुणकिशलये प्रत्युषः पारिजाते।
उद्यन्त्यारक्तपीताम्बरविशदतरोद्वीक्षिता तीक्ष्यभानोः
लक्ष्मीर्लक्ष्मीरिवास्तु स्फुटकमलपुटोपाश्रया श्रेयसे वः॥४२॥

नोदन्वान् जन्मभूमिर्नतदुदरभुवो बान्धवाः कौस्तुभाद्या
यस्याः पाणौन पद्मंनच नरकरिपूरस्थलीवासवेश्म।
तेजोरूपा परैव त्रिषु भुवनतटेष्वादधाना व्यवस्थां
सा श्रीश्रेयांसि दिश्यादशिशिरमहसोमण्डलाग्रोद्गता वः॥४३॥

अश्ववर्णना।

रक्षन्नक्षुणहेमोपलपटलमलं लाघवादुत्पतन्तः
पातङ्गापङ्गवज्ञाजितपवनजवा वाजिनस्ते जगन्ति।
येषां वीतान्यचिह्नोन्वयमपि वहतां मार्गमाख्याति मेरा
बुद्यन्नुद्दामदीप्तिद्यु मणिमणिशिलावेदिकाजातवेदाः॥४४॥

प्लुष्टाः पृष्टेंशुपातैरतिनिकटतया दत्तदाहातिरेकैः
एकाहाक्रान्तकृत्स्नत्रिदिवपथपृथुश्वासशोषाः श्रमेण।
तीब्रोदन्वास्त्वरन्तामहितविहतये सप्तयः सप्तसप्ते
रभ्यासाकाशगङ्गाजलशवलगलावर्जिताग्रानना वः॥४५॥

मत्वाऽन्यान् पार्श्वतोऽश्वान् स्फटिकतटदृषदृृष्टदेहाद्रवन्ती
व्यस्तेऽहन्यस्तसन्ध्येयमिति मृदुपदा पद्मरागोपलेषु।
सादृश्यात् दृश्यमूर्त्तिर्मरकतदृषदि क्लिष्टसूतासुमेरोः
मूर्द्धन्यावृत्तिलब्धध्रुवगतिरवतु ब्रध्नवाहावली वः॥४६॥

हेलालोलं वहन्ती विषधरदमनस्याग्रजेनावकृष्टां
स्वर्वाहिण्याः सुदूरं जनितजवपयाःस्यन्दनस्य स्यदेन।
निर्व्याजं तापमाने हरितिमनि निजेस्फीतफेनाहितश्रीः
अश्रेयांस्यश्वपङक्तिः समयतु यमुनेवापरा तापनी वः॥४७॥

मार्गोपान्ते सुमेरोर्नुवतिकृतनतौनाकधाम्नां निकाये
वीक्ष्यब्रीड़ावतीनांप्रतिकुहरमुखं किन्नरीणां मुखानि।
सूतेऽस्यत्यपीषज्जड़गतिवहतां कन्धरार्द्धैर्वलद्भिः
वाहानां व्यस्यताद्वःसममसमहरेर्ह्रेषितं कल्मषाणि॥४८॥

धुन्वन्तो नीरदालीर्निजरुचिहरिताः पार्श्वयोः पक्षतुल्या
स्तानूत्तानैः खलीनैः खचितमुखरुचःश्च्योतता लोहितेन।
उड्डीयेव ब्रजन्तो वियति गतिवशादर्कवाहाः क्रियासुः
क्षेमं हेमाद्रिहृद्यद्रुमशिखरशिरः श्रेणिशाखाशुका वः॥४९॥

सारथिवर्णना।

प्रातः शैलाग्रेरङ्गेरजनिजवनिकापायसंलक्ष्य लक्ष्मीः
विक्षिप्यापूर्वपुष्पाञ्जलिमुडुनिकरं सूत्रधारायमाणः।
यामेष्वङ्केष्विवाह्नःकृतरुचिषु चतुर्ष्वेवयातः प्रतिष्ठा
मव्यात् प्रस्तावयन् वो जगदटनमहानाटिकां सूर्य्यसुतः॥५०॥

आक्रान्त्यावाह्यमानं पशुमिव हरिणां वाहकोऽग्र्योहरीणां
भ्राम्यन्तं पक्षपाताज्जगति समरुचिः सर्वकर्मैकसाक्षि।
शत्रुंनेत्रश्रुतीनामवजयति वयोज्येष्ठभावे समेऽपि
स्थाम्नाधाम्नांनिधिर्य्यःसभवदघनुदे नूतनस्तादनूरुः॥५१॥

दत्तार्घेर्दुरनम्रैर्वियति विनयतो वीक्षितः सिद्धसङ्घैः
सामर्थ्यं सारथिर्वः स दशशतरुचेः सातिरेकंकरोतु।
आपीय प्रातरेव प्रततहिमपयः स्यन्दिनीरिन्दुभासो
यः काष्ठादीपनोऽग्रे जड़ित इव भृशं सेवते पृष्ठतोऽर्कम्॥५२॥

मुञ्चन् रश्मीन् दिनादौ दिनगमसमये संहरंश्चस्वतन्त्रः
स्तोत्रप्रख्यातवीर्य्यो विरतहरिपदाक्रान्ति वद्धाभियोगः।
कालोत्कर्षाल्लघुत्वं प्रसभमधिपतौ योजयन् यो द्विजानां
सेवाप्रीतेन पूष्णा स्वसम इव कृतस्त्रायतां सोऽरुणो वः॥५३॥

शात श्यामालतायाः परशुरिव तमोऽरण्यवह्नेरिवार्चिः
प्राच्येवाग्रे ग्रहीतुं ग्रहकुमुदवनं प्रागुदस्तो ग्रहस्तः।
ऐक्यं भिन्दन् द्युभूम्योरवधिरिव विधातेव विश्वप्रबोधं
वाहानां वोविनेता व्यपनयतु विपन्नाम धामाधिपस्य॥५४॥

पौरस्त्यस्तोयदर्त्तोः पवन इव पतन् पावकस्येव धूमो
विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः।
सन्ध्यानृत्योत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः
सौरस्याग्रेसुखंवो वितरतु विनतानन्दनः स्वन्दनस्य॥५५॥

पर्य्याप्तं तप्तचामीकरकटकतटेश्लिष्टशीतेतरांशो
रासीदत् स्यन्दनाश्वानुकृतिमरकते पद्मरागायमाणः।
यः सोत्कर्षां विभूषां कुरत इव कुलक्ष्मामृदीशस्य मेरोः
एनां स्वह्वाय दूरं समयतु स गुरुः काद्रवेयद्विषो वः॥५६॥

नीत्वाश्वान् सप्तकक्षा इव नियमवशं वेत्रकल्पप्रतोद
स्तूर्णं ध्वान्तस्य राशावितरजन इवोत्सारिते दूरभाजि।

पूर्वं प्रष्ठेा रथस्य क्षितिभृदधिपतीन् दर्शयंस्त्रायतां व
स्तैलोक्यास्थानदानोद्यतदिवसपतेः प्राक् प्रतीहारपालः॥५७॥

वज्जिन् जातं विकाशीक्षणकमलवनं भासिनो भासि वह्ने
तातं नत्वाश्वपार्श्वान्नय यम महिषं राक्षसा वीक्षिताः स्थ।
सप्तान् सिञ्च प्रचेतः पवन भज जवं वित्तपा वेदितस्त्वं
वन्देशर्व्वेति जल्पन् प्रतिदिशमधिपान् पातु पूष्णोऽग्रणीर्वः॥५८॥

पाशानाशान्तपालादरुण वरुणतो मा ग्रहिःप्रग्रहार्थं
तृष्णां कृष्णस्य चक्रे जहिहि नहि रथो याति मे नैकचक्रः।
योक्तुं योग्यं किमुच्चैःश्रवसमभिलषस्यष्टमं वृत्रशत्रो
स्त्यक्तान्यापेक्षविश्वोपकृतिरिति रविः शास्तियं सोऽवताद्वः॥५९॥

नोमूर्च्छा छिन्नवाञ्छः श्रमविवशवपुर्नैवनाप्यास्य शोषी
पान्थःपष्यतराणि क्षपयतु भवतां भास्वतोऽग्रेसरः सः।
यः संश्रित्यत्रिलोकीमटति पटुतरैस्ताप्यमानो मयूखैः
आरादारामरेखामिवहरितमणिश्यामलामश्वपंक्तिम्॥६०॥

शीदन्तोऽन्तर्न्निमज्जज्जड़खुरमुषलाः सैकते नाकनद्याः
स्कन्दन्तःकन्दरालीकनकशिखरिणो मेखलासु स्खलन्तः।
दूरं दूर्वास्थलोत्का मरकतदृषदि स्थास्नवो यन्नयाताः
पूष्णोऽश्वाःपूरयंस्तैस्तदवतु जवनैर्हूङ्कतेनाग्रगो वः॥६१॥

पीनोरःप्रेरिताभ्रैश्चरमखुरपुटाग्रस्थितैः प्रातरद्रा
वादीर्घांगैरुदस्तो हरिभिरपगतासङ्गनिःशब्दचक्रः।
उत्तानानूरुमूर्द्धावनतिहठभवद्विप्रतीपप्रणामः
प्राह्नेश्रेयो विधत्तांसवितुरवतरन् व्योमवीथींरथो वः॥६२॥

उत्क्रीर्णस्वर्णरेणुद्रुतखुरदलितापार्श्वयोः शश्वदश्वैः
अश्रान्तभ्रान्तचक्रभ्रमनिखिलमिलन्नेम्निनिम्नाभरेण।
मेरोर्मूर्द्धन्यघंवो विघटयतु रवेरेकवीथीरथस्य
स्वोष्णोदक्ताम्बुरिक्तप्रकटितपुलिनोद्धूसरा स्वर्धुनीवः॥६३॥

ध्वान्तौघध्वंसदीक्षाविधिगुरु वहता प्राक्सहस्रंकराणां
अर्यम्ना यो गरिम्नःपदमतुलमुपानीयताध्यासनेन।
सश्रान्तानां नितान्तं भरमिव मरुतामक्षमाणां विसोढ़ुं
स्कन्धात् स्कन्धं ब्रजन् वो वृजिनविजितये भास्वतः स्यन्दनोऽस्तु॥६४॥

योक्त्रीभूतान् युगस्य ग्रसितुमिवपुरो दन्दशूकान् दधानो
द्वेधाव्यस्ताम्बुवाहावलिविहितवृहत्पक्षविक्षेपशोभः
सावित्रःस्यन्दनोऽसौनिरतिशयरयप्रीणितानूरुरेनः
क्षेपीयो वो गरुत्मानिव हरतु हरीच्छाविधेयप्रचारः॥६५॥

धूर्ध्वस्ताग्रग्रहाणि ध्वजपटपवनान्दोलितेन्दूनि दूरं
राहौ ग्रासाभिलाषादनुसरति पुनर्दत्तचक्रव्यथानि।
श्रान्ताश्वश्वासहेलाधुतविवुधधुनीनिर्झराम्भांसि भद्रं
देयासुर्वोदवीयो दिवि दिवसपतेः स्यन्दनप्रस्थितानि॥६६॥

अक्षे रक्षांनिवध्य प्रतिसरवलयैर्योजयन्त्यो युगाग्रं
धूस्तम्भे दग्धधूपाः प्रतिहतसुमनो गोचरे कूवरस्य।
चर्चाश्चक्रे ददत्यो मलयजरजसा सिद्धसाध्यस्त्रिसन्ध्यं
वन्दन्तेयं द्युमार्गे स दहतु दुरितान्यंशमत्स्यन्दनो वः॥६७॥

नन्तुं नाकालयानामनिशमुपनताम्पद्धतिः पंक्तिरेव
क्षोदोनक्षत्रराशेरकृशरयमिलच्चक्रपिष्टस्य धूलिः।

ह्रेषाह्रादो हरीणां सुरशिखरिदरीःपूरयन्नेमिनादो
यस्याव्यात्तीव्रभानोः स दिविभुवि यथा व्यक्तचिह्नोरथो वः॥६८॥

एकाहेनैव दीर्घां त्रिभुवनपदवीं लङ्घयन् यो लघिष्ठः
पृष्ठे मेरोर्गरीयान्दलितमणिदृषत्त्विंषि पिंषन् शिरांसि
यः सर्वस्योपरिष्टादथच पुनरधस्तादिवास्ताद्रिमूर्द्ध्नि
ब्रघ्नस्याव्यात्म एवं दुरधिगमपरिस्पन्दनः स्यन्दनोवः॥६९॥

निष्पन्दानां विमानावलिविततदिवां देववृन्दारकाणां
वृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो।
मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्दरे मन्दराभे
मन्दारैर्मण्डीतोऽरं दधदपिदिनकृत्स्यन्दनस्तान्मुदेवः॥७०॥

चक्रीचक्रारपंक्तिं हरिरपि च हरीन् धूर्जटिर्धूर्ध्वजाग्रान्
अक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूवराग्रं कुवेरः।
रंहः सङ्घः सुराणां जगदुपकृतये नित्यमुक्तस्य यस्य
स्तौतिप्रीतिप्रसन्नोन्वहमहिमरुचेःसोऽवतात्स्यन्दनो वः॥७१॥

नेत्राहीनेन मूले विहितपरिकरः सिद्धसाध्यैर्मरुद्भिः
पादोपान्ते स्तुतोऽलं वलिहरिरभसाकर्षणाबद्धवेगः।
भ्राम्यन् व्योमाभ्बुराशावशिशिरकिरणस्यन्दनः सन्ततं वो
दिश्याल्लक्ष्मीमतुल्यामतुलितमहिमेवापरो मन्दराद्रिः॥७३॥

मण्डलवर्णनम्।

यज्ज्यायो वीजमह्नामपहृततिमिरं चक्षुषामञ्जनं यत्
यद्वारं मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः।

यद्वृष्ट्याम्भोनिधानं धरणिरससुधापानपात्रं महद्यद्
दिश्यादीशस्य भासां सततमविकलं मण्डलं मङ्गलं वः॥७३॥

वेलावर्द्धिष्णुसिन्धोः पय इव खमिवार्द्धोद्धतोऽग्रग्रहोडु
स्तोकोद्भिन्नस्वचिह्नप्रसवमिवमधोरास्यमस्यन् महांसि।
प्रातः पूष्णोऽशुभानि प्रशमयतु शिरःशेखरीभूतमद्रेः
पौरस्त्यस्योद्गभस्तिस्तिमिततमतमः खण्डनं मण्डलं वः॥७४॥

प्रत्युप्तस्तप्तहेमोज्ज्वलरुचिरचलः पद्मरागेण येन
ज्यायः किञ्जल्कपुञ्जंयदलिकुलसितेरम्बरेन्दीवरस्य।
कालव्यालस्य चिह्नं महिततममहोमूर्द्ध्निरत्नं महद्यत्
दीप्तांशोः प्रातरव्यात्तदविकलजगन्मण्डनंमङ्गलं वः॥७५॥

कस्त्राता तारकाणां पतति तनुरवश्यायविन्दुर्यथेन्दु
निद्राणादृक्स्मरारेरुषसि मुररिपोःकौस्तुभोनोद्गभस्तिः।
वह्नेः सापह्नुतैव द्युतिरुदयगते यत्रतन्मण्डलं वो
मार्तण्डीयं पुनीयाद्दिवि भुवि च तमांसीव मुष्णन् महांसि॥७६॥

यत्प्राच्यांप्राक्चकास्ति प्रभवति च यतः प्राच्यसावुज्जिहाना
दिद्धंमध्ये यदह्नो भवति ततरुचा येन चोत्पाद्यतेऽहः।
यत्पर्य्यायेण लोकानवति च जगतां जीवितं यच्चतद्वो
विश्वानुग्राहि विश्वंसृजदपि च रवेर्मण्डलं मुक्तयेऽस्तु॥७७॥

शुष्यन्त्यूढ़ान्धकारामकरवसतयोमारवीणां स्थलीनां
येनोत्तप्ताः स्पुटन्तस्तडिति तिलतुलां यान्त्यगेन्द्रायुगान्ते।
तच्चण्डांशोरकाण्डत्रिभुवनदहनाशङ्कया धाम कृत्स्नं
संहृत्यालोकमात्रं प्रलघुविदधतस्तान्मुदे मण्डलं वः॥७८॥

उद्यद्यूद्यानवाप्यांवहुलतमतमः पङ्कपूरं विदार्य
प्रोद्भिन्नंपत्रपार्श्वेष्वविमलमरुणच्छायया विस्फुरन्त्या।
कल्याणानि क्रियाद्वःकमलमिव महन्मण्डलंचण्डभानोः
अन्वीतंतृप्तिहेतोरसकृदलिकुलाकारिणाराहुणा यत्॥७९॥

चक्षुर्दक्षद्विषो यन्नतु दहति पुरा पूरयत्येव कामं
नास्तं जुष्टं मरुद्भिर्यदिह नियमिनां यानपात्रंभवान्धौ।
यद्वीतभ्रान्तिशश्वद्भ्रमदपि जगतां भ्रान्तिमद्भ्रान्ति हन्ति
व्रध्नस्याव्याद्विरुद्धक्रियमथचहिताधायि तन्मण्डलं वः॥८०॥

सिद्धैःसिद्धान्तमिश्रं श्रितविधिविबुधैश्चारणैश्चाटुगर्भं
गीत्या गन्धर्वमूख्यैर्मुहुरहिपतिभिर्यातुधानैर्यतात्मा।
सार्घ्यंसाध्यैर्मुनीन्द्रैर्मुदिततममनो मोक्षिभिः पक्षपातात्
प्रातः प्रारभ्यमाणस्तुतिरवतु रविर्विश्वबन्द्योदयो वः॥८१॥

भासामासन्नभावाधिकतरपटुलश्चक्रवालस्य तापात्
छेदादच्छिन्रगच्छत्तुरगखुरपुटन्यासनिःशङ्कटङ्कैः।
निःसङ्गस्यन्दनाङ्ग भ्रमणनिकषणात्पातु वस्त्रिप्रकारं
तप्तांशुस्तत्परीक्षापर इव परितः पर्यटन् हाटकाद्रिम्॥८२॥

नोशुष्कंनाकनद्या विकसितकनकाम्भोरुहाभ्राजितन्तुं
प्लुष्टानैवोपभोग्या भवति भृशतरं नन्दनोद्यानलक्ष्मीः।
नोशृङ्गाणि द्रुतानि द्रुतममरगिरेःकामधौतानि धौता
नीद्धंधाम द्युमार्गेम्रदयति दयया यत्रसोव्यादिनो वः॥८३॥

ध्वान्तस्यैवान्तहेतुर्न भवति मलिनैकात्मनः पाप्मनोऽपि
प्राक्पादोपान्तभाजां जनयति नपरम्पङ्कजानां प्रबोधम्।

कर्त्ता निःश्रेयसानामपि नतु खलु यः केवलं वातराणां
सोऽव्यादेकोद्यमेच्छाविहितबहुवृतहद्विश्वकार्योर्य मा वः॥८४॥

लोठल्लोष्टाविचेष्टः श्रितशयनतलो निःसहीभूतदेहः
सन्देही प्राणितव्येसपदिदशदिशः प्रेक्षमाणोऽन्धकाराः।

निःश्वासायासनिष्ठःपरमपरवशीजायते जीवलोकः
शोकेनान्यत्र लोकाभ्युदयलतिगते यत्र सोऽर्कोऽवताहः॥८५॥

क्रामल्लोलोपिलोकांस्तदुपकृतिशतावास्थितः स्थैर्यकोटीं
नृणां दृष्टिं विजिह्नां विदधदपि करोत्यन्तरत्यन्तभद्रान्।
यस्तापस्यापि हेतुर्भवति नियमिनामेकनिर्वाणदायी
भूयात्तप्रागवस्थाधिकतरपरिणामोदयोऽर्कः श्रिये वः॥८६॥

व्यापत्रर्त्तुर्न्नकालो व्यभिचरति फलं नौषधीर्वृष्टिरिष्टा
नेष्टैस्तुष्यन्ति देवा नहि वहति मरुन्निर्मलाभानि भानि।
आशाःशान्तानभिन्दन्त्यवधिमुदधयोविभ्रतिक्ष्माभृतां
यस्मिंस्त्रैलोक्यमेवं न चलतितपतिस्तात् ससूर्यः श्रिये वः॥८७॥

कैलासे कृत्तिवासा विहरतिविरहत्रासदेहोढ़कान्तः
श्रान्तः शेते महाहावधिजलधिविनाच्छद्मना पद्मनाभः।
योगोद्योगकतानो गमयति सकलं वासरं स्वं स्वयम्भू
र्भूरित्रैलोक्य चिन्ताभृतिभुवनविभौ यत्र भास्वान् स वोऽव्यात्॥८८॥

एतद्यमण्डल खेतपति दिनकृतस्ताऋचोर्चींषि यानि
क्षोतन्ते तानि सामान्ययमपि पुरुषोमण्डलेणुयेजुंषि।
एवं यं वेद वेदत्रितयमयमयं वेद वेदीसमग्रो
वर्गःस्वर्गापवर्ग प्रकृतिरविकृतिः सोऽस्तु सूर्यः श्रिये वः॥८९॥

नाकौकः प्रत्यनीकक्षतिपटुमहसां वासवाग्रेसराणां
सर्वेषां साधुपातां जगदिदमदितेरात्मजत्वे समेऽपि।
येनादित्याभिधानं निरतिशयगुणे नामनि न्यस्तमस्तु
स्तुत्यःत्रैलोक्यवन्द्ये स्त्रिदशमुनिगणैः सोंऽशमान् श्रेयसे वः॥९०॥

भूमिंधाम्नोभिवृष्ट्याजगतिजलमयीं पावनीं संस्मृताव
प्याग्नेयींदाहशक्तिं मुहुरपि यजमानात्मिकांप्रार्थितानाम्।
लीलामाकाश एवामृतकरघटितां ध्वान्तपक्षस्य पर्व
ण्येवं सूर्योऽष्टभेदो भवइव भवतः पातु विभ्रत् स्वमूर्त्तिम्॥१॥

प्राक्कालोन्निद्रपद्माकरपरिमलनाविर्भवत्पादशोभो
भक्त्यात्यक्तोरुखेदोद्गतिदिवि विनतासूनुना नीयमानः।
सप्ताश्वाप्तापरान्तान्यधिकमधरयन् योजगन्ति स्तुतोऽलं
देवैर्दैवः सपायादपर इव मुरारातिरहां पतिर्वः॥६२॥

यः स्रष्टापां पुरस्तादचलवरसमम्युन्नतेर्हेतुरेको
लोकानां यस्त्रयाणां स्थित उपरिपदेदुर्विलंघ्येन धाम्ना।
सद्यः सिद्धौप्रसन्नद्युतिशुभचतुराशामुखस्ताद्विभक्तो
द्वे धावेधाइवाविष्कृतकमलरुचिः सोऽर्चिषामाकरो वः॥८३॥

साद्रिद्यर्वीनदीकादीकादिशति दशदिशोदर्शयन् प्राग् दृशो यः
सादृश्यं दृश्यते नो सदशशतदृशि त्रैदशेयस्य देशे।
दीप्तांशुर्वः स दिश्यादशिवयुगदशा दर्शितद्वादशाला
शंशास्त्यश्वांश्च यस्याशयविदतिशयं दन्दशूकासनाद्यः॥८४॥

तीर्थानि व्यर्थकानि ह्रदनदसरसीनिर्भराम्भोजिनीनां
नोदन्वन्तो नुदन्ति प्रतिदिनमशुभं शुभ्रपातानुबन्धि।

आपो नाकापगाया अपि कलुषमुषो मज्जतां नैव यत्र
त्रातुं यातेऽन्यलोकान् स दिशतु दिवसस्यैकहेतुर्हितं वः॥९५॥

एतत्पातालपङ्कभुतमिव तमसा साकमुद्गाढमासी
दप्रज्ञाताप्रतर्क्यं निरवमति तथालचणं सुप्तमन्तः।
यादृक् सृष्टेः पुरस्तान्निशि निशि निखिलं जायते तादृगेव
त्रैलोक्यंयद्वियोगादवतु रविरसौसर्गतुल्योदयो वः॥९६॥

द्वीपेयोऽस्ताचलाऽस्मिन् भवति खलु स एवापरत्रोदयाद्रिः
या यामिन्युज्वलेन्दुद्यु तिरिहदिवसोऽन्यत्रदीप्तातपः सः।
यद्वश्यौदेशकालाविति हि नियमतोनोभयं देशकाला
वव्यात्सस्वप्रभुत्वाहितभुवनहितो हेतुरह्नामिनो वः॥८७॥

व्यग्रैरुग्रग्रहोडुग्रसनगुरुतरैर्नोसमग्रैरुदग्रैः
व्रत्यग्रैरीषदुत्रैरुदयगिरिगतो गोगणैर्गौरयन् गाम्।
उद्धूमार्चिर्विलीनामरनगर नगग्रामगर्भामिवाह्नाम्
अग्रेश्रेयोविधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः॥९८॥

योनिः साम्नांविधाता मधुरिपुरजितोधूर्जटिः शङ्करोऽसौ
मृत्युःकालोऽलकायाः पतिरपिधनदः पावकोजातवेदाः
इत्थं संज्ञा डवित्यादिवदमृतभुजां या यदृच्छाप्रवृत्ताः
स्तासामेकोऽभिधेयस्तदनुगुणगणी यः स सूर्योऽवताः॥९९॥

देवः किं बान्धवः स्यात्प्रियसुहृदथवाचार्यं आहोस्त्रिदार्य्यो
रक्षा चक्षुर्नु दीपो गुरुरुत जनकी जीवितं वीजमोकः।
एवं निर्णीयते यः कइवम जगतां सर्वदा सर्वदीसौ
सर्वाकारोपकारी दिशतु दशशताभीषुरम्यर्थितं वः॥१००॥

श्लोका लोकस्यभूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या
युक्तश्चैतान् पठेद्यः सकृदपि पुरुषः सर्वपापैर्विमुक्तः।
आरोग्यंसत्कवित्वं मतिमतुलवलं कीर्त्तिमायुः प्रकर्षं
विद्यामैश्वर्य्यमर्थं सुखमपि लभतेसोऽत्रसूर्यप्रसादात्॥१०१॥

इति महाकवि श्रीमयूरभट्टकृतं स्वर्य्यशतकं समाप्तम्।

__________________________

चाणक्यशतकम्।

_______

नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम्।
सर्व्ववीजमिदं शास्त्रं चाणक्यंसारसंग्रहम्॥१॥
मूलसूत्रं प्रवक्ष्यामि चाणक्येन यथोदितम्।
यस्य विज्ञानमात्रेण मूर्खो भवति पण्डितः॥२॥

विद्वत्वञ्च नृपत्वञ्च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्व्वत्र पूज्यते॥३॥

पण्डिते च गुणाः सर्वे मूर्खे दोषा हि केवलम्।
तस्मान्मूर्खसहस्त्रेषु प्राज्ञ एको विशिष्यते॥४॥

मातृवत् परदारेषु परद्रव्येषु लोष्ट्रवत्।
आत्मवत् सर्व्वभूतेषु यः पश्यति स पण्डितः॥५॥
किं कुलेन विशालेन गुणहीनस्तु यो नरः।
अकुलीनोऽपि शास्त्रज्ञो दैवतैरपि पूज्यते॥६॥

रूपयौवनसम्पन्नाविशालकुलसम्भवाः।
बिद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥७॥

नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः।
पृथिवीभूषणं राजा विद्या सर्व्वस्य भूषणम्॥८॥

माता शत्रुः पिता वैरी येन बालो न पाठितः।
न शोभते सभामध्ये हंसमध्ये वको यथा॥९॥

वरमेको गुणीपुत्त्रीनच मूर्खशतैरपि।
एकचन्द्रस्तभोहन्ति न च तारागणैरपि॥१०॥

लालयेत् पञ्च वर्षाणि दश वर्षाणि ताडयेत्।
प्राप्ते तु षोड़शे वर्षे पुत्र मित्रवदाचरेत्॥११॥

लालने बहवो दोषास्ताड़ने बहवो गुणाः।
तस्मात् पुत्त्रश्च शिष्यश्च ताड़येव तु लालयेत्॥१२॥

एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना।
वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा॥१३॥

एकेनापि कुवृक्षेण कोटरस्थेन वह्निना।
दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा॥१४॥

दूरतः शोभते मूर्खो लम्बशाटपटावृतः।
तावच्च शोभते मूर्खो यावत् किञ्चित्र भाषते॥१५॥

विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम्।
नौचादयुत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि॥१६॥

उत्सवे व्यसने चैव दुर्भिक्षे शत्रुविग्रहे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥१७॥

परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेत्तादृशं मित्रं विषकुम्भंपयोमुखम्॥१८॥

सकृद् दुष्टञ्चमित्रंयः पुनः सन्धातुमिच्छति।
स मृत्युमुपगृह्णाति गर्भमश्वतरीयथा॥१८॥

न विश्वसेदविश्वस्तं मित्रापि न विश्वसेत्।
कदाचित् कुपितं मित्रं सर्वदोषं प्रकाशयेत्॥२२॥

जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे।
मित्रञ्चापदि काले च भार्याच्च विभवक्षये॥२१॥

उपकारगृहीतेन शत्रुणा शत्रु मुद्धरेत्।
पादलग्नं करस्थेन कण्टकेनेव कण्टकम्॥२२॥

न कश्चित् कस्यचित्मित्रंन कश्चित् कस्यचिद्रिपुः।
कारणेन हि जानाति मित्राणि च रिपूं स्तथा॥२३॥

दुर्जनः प्रियवादी च नैतद्विश्वासकारणम्।
मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम्॥२४॥

दुर्जनः परिहर्तव्यो विद्ययालङ्कतोऽपि सः।
मणिना भूषितः सर्पः किमसौ न भयङ्करः॥२५॥

सर्पः क्रूरःखलः क्रूरः सर्पात् क्रूरतरः खलः।
मन्त्रौषधिवशः सर्पः खलः केन निवार्य्यते॥२६॥

नखिनाञ्चनदीनाञ्चशृङ्गिणां शस्त्रपाणिनाम्।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च॥२७॥

हस्ती हस्तसहस्रेण शतहस्तेन वाजिनः।
शृङ्गिणो दशहस्तेन स्थानत्यागेन दुर्ज्जनः॥२८॥

आपदर्थंधनं रक्षेत् दारान् रक्षेज्ञनैरपि।
आत्मानं सततं रक्षेद्दारैरपि धमरपि॥२९॥

परदारं परद्रव्यंपरीवादं परस्य च।
परीहासं गुरोः स्थाने चापत्यच्च विवर्जयेत्॥३०॥

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥३१॥

चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान्।
नासमीक्ष्य परं स्थानं पूर्व्वमायतनं त्यजेत्॥३२॥

लुब्धमर्थेन गृह्नीयात् कुत्रमञ्जलिकर्म्मणा।
मूर्खं छन्दोऽनुवृत्तेन तथा तथ्येन पण्डितम्॥३३॥

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च।
वञ्चनञ्चापमानच्च मतिमान् न प्रकाशयेत्॥३४॥

धनधान्यप्रयोगेषु तथा विद्यागमेषु च।
आहारे व्यवहारे च त्यक्तलज्जः सदा भवेत्॥३५॥

धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत्॥३६॥

यस्मिन् देशे न सम्मानं न प्रीतिर्न च बान्धवाः।
न च विद्यागमः कश्चित् तं देशं परिवर्जयेत्॥३७॥

मनसा चिन्तितं कर्म्म वचसा न प्रकाशयेत्।
अन्धलक्षितकार्य्यस्य यतः सिद्धिर्नजायते॥३८॥

कुदेशञ्च कुवृत्तिञ्च कुभार्य्यां कुनदीं तथा।
कुद्रव्यञ्जकुभ्रोज्यच्च वर्जयेत्तु विचक्षणः॥३९॥

ऋणशेषोऽग्निशेषश्च व्याधिशेषस्तथैव च।
पुनश्च वर्द्धते यस्मात्तस्मात् शेषं हि कारयेत्॥४०॥

चिन्ताज्वरो मनुष्याणां वस्त्राणामातपो ज्वरः।
असौभाग्यंज्वरः स्त्रीणामश्वानां मैथुनं ज्वरः॥४१॥

अस्ति पुत्त्रोवशे यस्य भृत्या भार्य्या तथैव च।
अभावे सति सन्तोषः स्वर्गस्थोऽसो महीतले॥४२॥

दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः।
ससर्पे च गृहे वासो मृत्युरेव न संशयः॥४३॥

माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्॥४४॥

ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः॥४५॥

कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्॥४६॥

अविद्याजीवनं शून्यं दिक् शून्या चेदबान्धवा।
पुत्रहीनं गृहं शून्यंसर्वशून्या दरिद्रता॥४७॥

अदाता वंशदोषेण कर्मदोषाहरिद्रता।
उन्मादो मातृदोषेण पितृदोषेण मूर्खता॥४८॥

गुरुरग्नि र्द्विजातीनां वर्णानां ब्राह्मणो गुरुः।
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः॥४९॥

अतिदर्पेहता लङ्का अतिमाने च कौरवाः।
अतिदाने बलिर्ववद्धःसर्वमत्यन्तगर्हितम्॥५०॥

वस्त्रहीनस्त्वलङ्कारो घृतहीनश्च भोजनम्।
स्तनहोना च या नारी विद्याहोनच जीवनम्॥५१॥

भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराः स्त्रियः।
विभवो दानशक्तिश्च नाल्पस्य तपसः फलम्॥५२॥

पुत्रप्रयोजना दाराः पुत्रः पिण्डप्रयोजनः।
हितप्रयोजनं मित्रं धनं सर्व्वप्रयोजनम्॥५३॥

दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेमकृत् सुतः।
दुर्लभा सदृशी भार्य्या दुर्लभः स्वजनः प्रियः॥५४॥

शैले शैले न माणिक्यंमौक्तिकं न गजे गजे।
साधवो न हि सर्वत्र चन्दनन्न वने वने॥५५॥

अशोच्यो निर्धनः प्राज्ञोऽशोच्यः पण्डितबान्धवः।
अशोच्या विधवा नारी पुत्रपौत्रप्रतिष्ठिता॥५६॥

अविद्यः पुरुषः शोच्यः शोच्यंमैथुनमप्रजम्।
निराहाराः प्रजाः शोच्याः शोच्यं राज्यमराजकम्॥५७॥

कुलीनैः सह सम्पर्कं पण्डितैः सह मित्रताम्।
ज्ञातिभिश्च समं मेलं कुर्वाणो न विनश्यति॥५८॥

कष्टा वृत्तिः पराधीना कष्टो वासो निराश्रयः।
निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता॥५९॥

तस्करस्य कुतो धर्म्मो दुर्जनस्य कुतः क्षमा।
वेश्यानाञ्चकुतः स्नेहः कुतः सत्यश्च कामिनाम्॥६०॥

प्रेषितस्य कुतो मानं कोपनस्य कुतः सुखम्।
स्त्रीणां कुतः सतीत्वच्च कुतो मैत्री खलस्य च॥६१॥

दुर्बलस्य बलं राजा बालानां रोदनं बलम्।
बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम्॥६२॥

यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते।
भ्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च॥६३॥

शुष्कंमांसं स्त्रियो वा बालार्कस्तरुणं दधि।
प्रभाते मैश्चुनं निद्रा सद्यःप्राणहराणि षट्॥६४॥

सद्यो मांसं नवान्नञ्च बाला स्त्री क्षीरभोजनम्।
घृतमुष्णोदकञ्चैव सद्यः प्राणकराणि षट्॥६५॥

सिंहादेकं क्कादेकं षट् शुनस्त्रौणि गर्दभात्।
वायसाञ्चचतुः शिक्षेत् चत्वारि कुक्कुटादपि॥६६॥

प्रभूतमल्पकार्यं वा यो नरः कर्तुमिच्छति।
सर्वारम्भेण तत् कुर्यात् सिंहादेकं प्रकीर्त्तितम्॥६७॥

सर्वेन्द्रियाणि संगम्य वकवत् पतितो जनः।
कालदेशोपपत्रानि सर्वकार्यानि साधयेत्॥६८॥

वह्नाशीस्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः।
प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः॥६९॥

अविश्रामं वहेद्भारं शीतोष्णञ्च न विन्दति।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात्॥७०॥

गूढमैथुनधर्मश्च काले काले च संग्रहम्।
अप्रमादमनालस्यं चतुः शिक्षेत वायसात्॥७१॥

युद्धञ्चप्रातरुत्थानं भोजनं सह बन्धुभिः।
स्त्रियमापद्गतां रक्षेच्चतुः शिक्षेत कुक्कुटात्॥७२॥

कोऽतिभारः समर्थानां ? किं दूरं व्यवसायिनाम् ?
को विदेशः सविद्यानां ? कः परः प्रियवादिनाम्?॥७३॥

आपदां कथितः पन्या इन्द्रियाणामसंयमः।
तज्जयः सम्पदां मार्गो येनेष्टंतेन गम्यताम्॥७४॥

नच विद्यासमो बन्धुर्न च व्याधिसमो रिपुः।
न चापत्यसमः स्नेहोनच दैवात् परं बलम्॥७५॥

समुद्रावरणा भूमिः प्राकारावरणं गृहम्।
नरेन्द्रावरणादेशाश्चरित्रावरणाः स्त्रियः॥७६॥

घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान्।
तस्माद् घृतच्च वह्निच्च नैकत्र स्थापयेद्वुधः॥७७॥

आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा।

षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः॥७८॥

जीर्णमत्रं प्रशंसीयात् भार्याञ्च गतयौवनाम्।
रणात् प्रत्यागतं शूरं शस्यञ्च गृहमागतम्॥७९॥

असन्तुष्टा द्विजा नष्टाः सन्तुष्टा इव पार्थिवाः।
सलज्जा गणिका नष्टा निर्लज्जाश्वकुलस्त्रियः॥८०॥

अवंशपतितो राजा मूर्खपुत्रश्च पण्डितः।
अधनेन धनं प्राप्य तृणवन्मन्यते जगत्॥८१॥

ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम्।
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते॥८२॥

पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
कार्यकाले समुत्पन्नेन सा विद्या न तद्धनम्॥८३॥

पादपानां भयं वातात् पद्मानां शिशिराद् भयम्।
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद् भयम्॥८४॥

प्राज्ञे नियोज्यमाने तु सन्ति राज्ञस्त्रयो गुणाः।
यशः स्वर्गनिवासश्च विपुलश्चधनागमः॥८५॥

मूर्खे नियोज्यमाने तु त्रयो दोषा महीपतेः।
अयशश्चार्थनाशश्च नरके गमनं तथा॥८६॥

बहुभिर्मूर्खसङ्घातैरन्योन्यपशुवृत्तिभिः।
प्रच्छाद्यन्ते गुणाः सर्वे मेघैरिव दिवाकरः॥८७॥

यस्य क्षेत्रं नदीतीरे भार्य्या वापि परप्रिया।
वुत्रस्य विनयो नास्ति मृत्युरेव न संशयः॥८८॥

असम्भाव्यं न वक्तव्यं प्रत्यक्षमपि दृश्यते।
शिला तरति पानीयं गीतं गायति वानरः॥८९॥

सुभिक्षं कृषके नित्यं नित्यं सुखमरोगिणि।
भार्य्याभर्तुः प्रिया यस्य तस्य नित्योत्सवं गृहम्॥९०॥

हेला स्यात् कार्यनाशाय बुद्धिनाशाय निर्द्धनम्।
याचना माननाशाय कुलनाशाय भोजनम्॥९१॥

सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात् फलं नास्ति छाया केन निवार्यते?॥९२॥

प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम्।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति?॥९३॥

नदीकूले च ये वृक्षाः परहस्तगतं धनम्।
कार्यं स्त्रीगोचरो यत् स्यात् सर्वं तद्विफलम्भवेत्॥९४॥

कुदेशमासाद्य कुतोऽर्थसञ्चयः?
कुपुत्रमासाद्य कुतो जलाञ्जलिः?।
कुगेहिनौं प्राप्य गृहे कुतः सुखं ?
कुशिष्यमध्यापयतः कुतो यशः ?॥९५॥

कूपोदकं वटच्छाया श्यामा स्त्री चेष्टकालयम्।
शौतकाले भवेदुष्णंग्रौमकाले च शीतलम्॥९६॥

विषं चंक्रमणं रात्रौ विषं राजोऽनुकूलता।
विषं स्त्रियोऽप्यन्यहृदो विषं व्याधिरवोचितः॥९७॥

दुरधीता विषं विद्या अजीर्णे भोजनं विषम्।
विषं गोष्ठौ दरिद्रस्य वृद्धस्य तरुणी विषम्॥९८॥

प्रदोषे निहतः पन्याः पतिता निहताः स्त्रियः।
अल्पवीजं हतं क्षेत्रं भृत्यदोषाद हतः प्रभुः॥९९॥

हतमश्रोत्रियं श्राद्धं हतो यज्ञस्त्वदक्षिणः।
हता रूपवती बन्ध्या हतं सैन्यमनायकम्॥१००॥

वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः।
आशीर्वादवचोयुक्त एष राजपुरोहितः॥१०१॥

कुलशीलगुणोपेतः सर्वधर्मपरायणः।
प्रवीणः प्रेषणाध्यक्ष्यो धर्माध्यक्षो विधीयते॥१०२॥

आयुर्वेदक्कताभ्यासः सर्वेषां प्रियदर्शनः।
आर्यशीलगुणोपेत एष वैद्यो विधीयते॥१०३॥

सकृदुक्तगृहीतार्थोलघुहस्तो जिताक्षरः।
सर्वशास्त्रसमालोको प्रकृष्टो नाम लेखकः॥१०४॥

समस्तनीतिशास्त्रज्ञो वाहने पूजितश्रमः।
शौर्यवीर्यगुणोपेतः सेनाध्यक्षो विधीयते॥१०५॥

मेधावीवाक्पटुः प्राज्ञः परचित्तोपलञ्चकः।
धीरो यथोक्तवादीच एष दूतो विधीयते॥१०६॥

पुत्रपौत्रगुणोपेतः शास्त्री मिष्टपाचकः।
शूरश्च कठिनश्चैव सूपकारः स उच्यते॥१०७॥

इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः।
अप्रमादीसदा दक्षः प्रतीहारः स उच्यते॥१०८॥

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति॥१०९॥

किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते।
नग्नक्षपणके देशेरजकः किं करिष्यति॥११०॥

इति श्री चाणक्यशतकं समाप्तं।

______

शान्तिशतकम्।

_____

नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगा
विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः।
फलं कर्मायन्तं किममरगणैः किञ्च विधिना
नमस्तत् कर्मभ्यो विधिरपि न येभ्यः प्रभवति॥१॥

यदि शान्तौ मनौ देयं यदि मुक्तिपदे रतिः।
तदा शिद्धनमिश्रस्य पद्यमाराध्यतां धिया॥२॥

सन्तोषसन्ततिकरं विदुषां कवीनां
सांसारिकाप्रतिमदुःखविनाशवीजम्।
यत्नेन शान्तिशतकं विदधे विवेकी
श्रीशिङ्कनः प्रकृतिसुन्दरशुद्धबुद्धिः॥३॥

आत्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करम्
यन्मुञ्चन्त्युपभोगभाजापि धनान्येकान्ततो निस्पृहाः।
न प्राप्तानि पुरा न सम्प्रति न च प्राप्तो दृढ़प्रत्यया
वाञ्छामात्रापरिग्रहाण्यपि वयं त्यक्तुं न तानि क्षमाः॥४॥

धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायतां
अनन्दाश्रुजलं पिवन्ति शकुना निःशङ्कमङ्केस्थिताः।
अस्माकन्तु मनोरथोपरचितप्रासादवापीतट
क्रीड़ाकाननकेलिमण्डपजुषामायुः परं क्षीयते॥५॥

विशीर्णं प्रारम्भो वपुरपि जराव्याधिविधुरं
गतं दूरे विप्रस्वजनभरणं वाच्छितमपि।
इदानीं व्यामोहादहह ! विपरीते हतविधौ
विधेयं यत्तत्त्वं स्फुरति मम नाद्यापि हृदये॥६॥

वीभत्साः प्रतिभान्ति किन्न विषयाःकिन्तु स्पृहायुष्मती
देहस्यापक्षयो मतौ निविशते गाढ़ो गृहेषु ग्रहः।
ब्रह्मोपास्यमिति स्फुरत्यपि हृदि व्यावर्तिका वासना
का नामेयमतर्क्य हे तुगहना दैवी सतां यातना॥७॥

अजानन्दाहार्त्तिं विशति शलभो दीपदहनं
न मीनोऽपि ज्ञात्वा वृतवड़िशमश्नाति पिशितम्।

विजानन्तोऽप्येतान् वयमिहविपज्जालजटिलान्
न मुञ्चामः कामानहह! गहनो मोहमहिमा॥८॥

क्षान्तं न क्षमया गृहोचित सुखं त्यक्तन्न सन्तोषतः

सोढ़ा दुःसहशीतवाततपनक्लेशा न तप्तन्तपः।
ध्यातं वित्तमहर्निशं नच पुनर्विष्णोः पदं शाश्वतं
तत् तत् कर्म्म कृतं यदेव मुनिभिस्तेस्तैः फलैर्वञ्चितम्॥९॥

कृत्वा शस्त्रविभीषिकां कतिपयग्रामेषु दीनाः प्रजा
मथ्रन्तोविटजल्पितैरुपहता क्षोणीभुजस्त किल।
विद्वांसोऽपि वयं किल त्रिजगतोसर्गस्थितिव्यापदां
ईशस्तत्परिचर्य्यया न गणितो यैरेष नारायणः॥१०॥

नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति।
यं कञ्चित् पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
सेवायै मृगयामहे नरमहो मूढ़ा वराका वयम्॥११॥

जन्मेदं बन्ध्यतां नीतं भवभोगोपलिप्सया।
काचमूल्येन विक्रीतो हन्त ! चिन्तामणिर्मया॥१२॥

याच्ञाशून्यमयत्नलभ्यमशनं वायुः कृतो वेधसा
व्यालानां पशवस्तृणाङ्कुरभुजः स्वुस्थाः स्थलीमायिनः।
संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां
यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः॥१३॥

यद्वक्तं मुहुरीक्षसे न धनिनां ब्रूश्चे न चाटुं मृषा
नैषां गर्बगिरः शृणोषि न पुनः प्रत्याशया धावसि।
काले वालतृणानि खादसि सुखं निद्रासि निद्रागमै
तन्मेब्रूहि कुरङ्ग ! कुत्र भवता किं नाम तप्तन्तपः?॥१४॥

कामं वनेषु हरिणास्तृणेन जीवन्त्ययत्रसुलभेन।
विदधति धनिषु न दैन्यंते खलु पशवो वयं सुधियः॥१५॥

आस्वाद्य स्वयमेव वच्मि महतीर्ममच्छिदो वेदना
मा भूत् कस्यचिदप्ययं परिभवोयाच्ञेति संसारिणः।
पश्य भ्रात।रियं हि यौवनजराधिक्कारकेलिस्थली
मानस्नानमसीगुणव्यतिकरप्रागल्भ्यगर्वच्युतिः॥१६॥

क गन्तासि ? भ्रातः ! कृतवसतयो यत्र धनिनः
किमर्थं ? प्राणानां स्थितिमनुविधातु कथमपि।
धनैर्याच्ञालब्धै र्ननु परिभवोऽभ्यर्थन फलं
निकारोऽग्रे पश्चाजनमहह ! भो ! स्तद्धि निधनम्॥१७॥

प्राणानां वत किं ब्रुवे कठिनतां तैरेव सा विष्कृता
निष्क्रामन्ति कथञ्चिदेव हि न ये याच्यावचोभिः समम्।

आत्मानं पुनराक्षिपामि विदितस्थैर्यीऽपि येषामहो
मिथ्याशङ्किततद्वियोगविधुरो यत् प्रार्थये सर्वशः॥१८॥

अमीषां प्राणानां तुलितविसिनीपत्रपयसां
कृते किं नास्माभिः विगलितविवेकैःव्यवसितम्।
यदीशानामग्रे द्रविणकणमोहान्धमनसां
कृतं वीतब्रीडैःनिजगुणकथापातकमपि॥१९॥

वीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं
प्रायोर्बन्धुभिरध्वनीव पथिकैः योगो वियोगावहः।
हातव्योऽयमसार एष विरसः संसार इत्यादिकं
सर्वस्यैव हि वाचि चेतसि पुनः कस्यापि पुण्यात्मनः॥२०॥

तड़िन्मालालोलं प्रतिदिवसदत्तान्धतमसं
भवे सौख्यं हित्वा शमसुखमुपादेयमनघम्।
इतिव्यक्तोहारं चटुलवचसः शून्यमनसो

वयं वीतब्रीड़ाः शुकइव पठामः परममी॥२१॥

यदासौ दुर्वारः प्रसरति मदश्चित्तकरिणः
तदा तस्योद्दामप्रसररसरूढ़ैःव्यवसितैः।
क्व तत् धैर्यालानं क्व च निजकुलाचारनिगड़ः
क्व सा लज्जारज्जुः क विनयकठोराङ्कुशमपि॥२२॥

भिक्षाशनं भवनमायतनैकदेशः
शय्या भुवः परिजनो निजदेहभारः।
वासश्च जीर्णपटखण्डनिबद्धकन्या
हाहा ! तथापि विषयान् न जहाति चेतः॥२३॥

त्वामुदर ! साधु मन्ये शाकैरपि यदसि लब्धपरितोषम।
हतहृदयं ह्यधिकाधिकवाच्छा शतदुर्भरं न पुनः॥२४॥

शुचां पात्रं धात्री परिणतिरमेध्यप्रचयभू
रयं भूतावासोविमृश कियतींयाति न दशाम्।
तदस्मिन् धीराणां क्षणमपि किमास्थातुमुचितं
खलीकारः कोऽयं यदहमहमेवेति रभसः॥२५॥

रेतः श्रोणितयोरियं परिणतिर्यद्वर्ष्म तच्चाभवन्
मृत्योरास्पदमाश्रयो गुरुशुचां रोगस्य विश्रामभूः।
जानन्नप्यवशीविवेकविरहाद्मज्जन् न विद्याम्मधौ
शृङ्गारीयति पुत्रकाम्यति वत क्षेत्रीयति स्त्रीयति॥२६॥

क्वैतद्वक्तारविन्दं क तदधरमधु क्कायतास्ते कटाक्षाः
क्कालापाः कोमलास्ते क्वच मदनधनुर्भङ्गुरो म्भूविलासः।
इत्थंखट्वाङ्गकोटौप्रकटितदशनं मञ्जुगुष्वत्तमीरं
रागान्धानामिवोच्चैरुपहसति महामोहजालं कपालम्॥१७॥

श्रृण हृदय ! रहस्यं यत् प्रशस्तं मुनीनां
न खलु न खलु योषित्सब्रिधिः संविधेयः।
हरति हि हरिणाक्षीक्षिप्रमचिक्षुरग्रैः
पिहितशमतनुत्रंचित्तमप्युत्तमानाम्॥२८॥

समाश्लिष्यत्युच्चैर्घनपिशितपिण्डंस्तनधिया
मुखं लालाक्लिन्नं पिवति चषकं सासवमिव।
अमेध्यक्लेदार्द्रेपथि च रमते स्पर्शरसिको
महामोहान्धानां किमपि रमणीयं न भवति॥२९॥

इति शान्तिशतके परीतापोपशमो नाम

प्रथमः परिच्छेदः॥१॥


अयमविचारितचारुतया संसारो भांति रमणीयः।
अत्र पुनः परमार्थदृशां न किमपि सारमणीयः॥१॥

केनाप्यनर्थरुचिना कपटं प्रयुक्तं
एतत् सुहृत्तनयबन्धुमयं विचित्रम्।
कस्यात्र कः परिजनः स्वजनो जनो वा
स्वप्नेन्द्रजालसदृशः खलु जीवलोकः॥२॥

आरम्भः संशयानामविनयभवनं पत्तनं साहसानाम्
दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानाम्।
दुस्त्याज्यं यन्महद्भिः सुरनरवृषभैः सर्वमायाकरण्डं
स्त्रीरूपं केन लोके विषममृतमयं धर्मनाशाय सृष्टम्॥३॥

यदा प्रकृत्यैव जनस्य रागिणो
भृशं प्रदीप्तो हृदि मन्मथानलः।
तदात्रभूयः किमनर्थपण्डितैः
कुकाव्यहव्याहुतयो निवेशिताः॥४॥

दधति तावदमी विषयाः सुखं
स्फुरति यावदियं हृदि मूढ़ता।
मनसि तत्त्वविदान्तु विवेचके
क्व विषयाः क्व सुखं क्वपरिग्रहाः॥५॥

निस्वोवष्टि शतं शतीदशशतं लक्षं सहस्राधिपो
लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेश्वरत्वं पुनः।
चक्रेशः पुनरिन्द्रतां सुरपति र्ब्रह्मास्पदं वाञ्छति
ब्रह्मा विष्णुपदं पुनः पुनरहो आशावधि को गतः॥६॥

यदा पूर्वं नासीदुपरि च तथा नैव भविता
तदा मध्यावस्था क्षणपरिचयो भूतनिचयः।
अतः संयोगेऽस्मिन् परिणतिवियोगे च सहजे
किमाधारः प्रेमाः किमधिकरणाः सन्तु च शुचः॥७॥

इन्द्रस्याशुचिशूकरस्य च सुखे दुःखे च नास्त्यन्तरं
स्वेच्छाकल्पनया तयोः खलु सुधा विष्ठा च काम्याशनम्।
रम्भा चाशुचिशूकरीच परमप्रेमास्पदं मृत्युतः
संवासोऽपि समः स्वकर्मगतिभिश्वान्योन्यभावः समः॥८॥

कृमिकुलचितं लालाको विगन्धि जुगुप्सितं
निरुपमरसप्रौत्या खादन्नरास्थि निरामिषम्।
सुरपतिमिव पार्श्वस्थं वा समतिमोचते
गणयति नहि क्षुद्रो लोकः परिग्रह फल्गुताम्॥९॥

अमीषां जन्तूनां कतिपयनिमेषस्थितिजुषां
वियोगे धीराणां क इह परितापस्य विषयः।
क्षणादुत्पद्यन्ते विलयमपि यान्ति क्षणममी
न केऽपि स्थातारः सुरगिरिपयोधिप्रभृतयः॥१०॥

पुत्रः स्यादिति दुःखितः सति सुते तस्यामये दुःखितः
तद्दुःखादिकमार्जने तदनये तन्मूर्खता दुःखितः।
जातश्चेत् सगुणोऽथ तन्मृतिभयं तस्मिन्मृते दुःखितः
पुत्रव्याजमुपागतो रिपुरयं मा कस्यचिज्जायताम्॥११॥

स्थिरापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं
महाभोगा रोगाः कुवलयदृशःसर्पसदृशः।

महावेशः क्लेशः प्रकृतिचपला श्रीरणि खला
यमः स्वैरीबैरौ तदपि न हितं कर्म्म विहितम्॥१२॥

अर्थप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां
प्रत्यासन्नभयं न वेत्ति विभवं स्वं जीवितं कांक्षति।
उत्तीर्णस्तु ततो धनार्थमपरं भूयो विशत्यापदं
प्राणानाञ्च धनस्य चाधमधिया मन्योन्यभावः पणः॥१३॥

विमलमतिभिः कैरध्येतव्जगज्जनितं पुरा
विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा।
इह हि भुवनान्यन्ये वौराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः॥१४॥

रम्यं हर्म्यतलं न किं वसतये श्राव्यं न गीतादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये।
किन्तु प्रान्तपतत्पतङ्गपवनव्यालोलदीपाद्धुर-
च्छायाचञ्चलमाकलय्य सकलं सन्तोवनान्तं गताः॥१५॥

आस्तामकण्टकमिदं वसुधाधिपत्यं
त्रैलोक्यराज्यमपि नैव तृणाय मन्ये।
निःशङ्कतृप्तहरिणीकुलसङ्कुलासु
चेतः परं वलति शैलवनस्थलीषु॥१६॥

हरिणचरणक्षुसोपान्ताः समाद्वलनिर्भाराः
कुमुमललितैर्विश्वन्वातैस्तरङ्गितपादपाः।
विविधविहगश्रेणी चित्रध्वनिप्रतिनादिता
मनसि न मुदं केषां दध्युः शिवा वनभूमयः॥१७॥

ते तीक्ष्णदुर्जननिकारशरैर्न भित्रा
धीरस्तएव शमसौख्यभुज स्तएव।
सीमन्तिनीभुजलतागहनं व्युदस्य
येऽवस्थिताः शमफलेषु तपोवनेषु॥१८॥

कुरङ्गाः कल्याणं प्रतिविटपमारोग्य मटवीं
श्रयन्ति क्षेमं ते पुलिनकुशलं भद्रमुपलाः।
निशान्तादस्वन्तात् कथमपि विनिष्क्रान्तमधुना
मनोऽस्माकं दीर्घा मभिलषति युष्मत्परिचितम्॥१९॥

वासो वल्कल मास्तरःकिशलयान्यीक स्तरूणां तलं
मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषाशान्तये।
क्रीड़ा मुग्धमृगैर्वयांसि सुहृदो नक्तं प्रदीपः शशी
स्वाधीने विभवे तथापि कृपणा याचन्तइत्यद्भुतम्॥२०॥

शय्या शाद्वल मासनं शुचिशिला सद्म द्रुमाणमधः
शीतं निर्झरवारि पान मशनं कन्दः सहाया मृगा।
इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने
दुष्प्रापार्थिनि यत् परार्थघटनायत्नैविना स्थीयते॥२१॥

पूरयित्वार्थिनामाशां प्रियं कृत्वा द्विषामपि
पारं गत्वा श्रुतौघस्य धन्या बनमुपासते॥२२॥

अलमति चपलत्वात् स्वप्नमायोपमत्वात्
परिणतिविरसत्वात् सङ्गमेनाङ्गनायाः।
इति यदि शतकृत्व स्तत्त्वमालोचयाम
स्तदपि न हरिणाक्षींविस्मरत्यन्तरात्मा॥२३॥

आहारः फलमूलमाकरचितं शय्या महीवल्कलं
सम्वीताय परिच्छदः कुशसमित्पुष्पाणि पुत्रा मृगाः।
वस्त्रान्नाश्रयदानभोगविभवा नियंन्त्रणाः शाखिनो
मित्राणौत्यधिकं गृहेषु गृहिणां किं नाम दुःखादृते॥२४॥

विवेकः किं सोऽपि स्वरसजनिता यत्र न कृपा
स किं योगो यस्मिन् न भवति परानुग्रहरसः।
स किं धर्मोयत्र स्फुरति न परद्रोहविरतिः
श्रुतं किं तद्वास्यादुपशमफलं यन्न भवति॥२५॥

अग्रे कस्यचिदस्ति कञ्चिदभितः केनापि पृष्ठे कृतः
संसारः शिशुभाव-यौवनजराभारावतारादयम्।
बालस्तं बहुमन्यतामसुलभं प्राप्तं युवा सेवतां
वृद्धस्त्वंविषयाद्वहिष्कृत इव व्याहृत्य किं पश्यसि॥२६॥

पुत्रदारादिसंसारः पुंसां सम्मूढचेतसाम्
विदुषां शास्त्रसंसारः सद्योगाम्यासविघ्नकृत्॥२७॥

सार्वभौमभवनं वनवासो निस्वभावभवभावनया ते।
वालिशो हि विषयेन्द्रियचौरैः मुष्यते स्वभवने च वने च॥२८॥

स्थूलप्रावरणोऽतिपूर्वकथकः काशाश्रुलालाविलो
भग्नोरःकटिपृष्टजानुदशनो मुग्धेऽतिथीन् वारयन्।
शृण्वन् धृष्टवधूवचांसि धनुषा संवासयन् वायसान्
आशापाशनिबद्धजीवविभवो वृद्धो गृहे ग्लायति॥२९॥

वनेषु दोषाः प्रभवन्ति रागिणां
गृहेषु पञ्चेन्द्रियनिग्रहस्तपः।

अकुत्सिते कर्म्मणि यः प्रवर्त्तते
निवृत्तरागस्य गुहं तपोवनम्॥३०॥

इति शान्तिशत के विवेकोदयो नाम द्वितीयः

परिच्छेदः॥२॥

_________

महता पुण्यपण्येन क्रीतेयं काय-नौ स्त्वया
पारं दुःखोदधेर्गन्तुं त्वरया यत्र भिद्यते॥१॥

दिवसरजनीकूलच्छेदैः पतङ्गिरिनारतं
वहति निकटे कालः स्रोतः समस्तभयावहम्।
इह हि पततां नात्यालम्बो न चापि निवर्त्तनं
तदिह महतां कोऽयं मोहो यदेष मदाविलः॥२॥

अवश्यं यातारश्चिरतरमुषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत् स्वय मिमान्।
ब्रजन्तः स्वातन्त्र्याप्रात् परमपरितापाय मनसः
स्वयं भुक्ता ह्येते शमसुखमनन्तं विदधति॥३॥

भवारण्यं भीमं तनुगृहमिदं छिद्रबहुलं
वली कालश्चौरो नियतमसिता मोहरजनी।
गृहीत्वा ज्ञानासिं विरतिफलकं शीलकवचं
समाधानं कृत्वा स्थिरतरदृशो जागृत जनाः !॥४॥

गृहे पर्यन्तस्थे द्रविणकणमोषं श्रुतवता
स्ववेश्मान्यारक्षाक्रियत इति मार्गेऽयमुचितः।

नरान् गेहात् गेहात् प्रतिदिवसमाकृष्य नयतः
कृतान्तात् किं शङ्का नहि भवति रे ! जागृत जनाः !॥५॥

के यूयं नो वयमिति च वः के भवामो भवाब्धौ
कर्मोर्मीणां विषमवलनैः फेणवत् पुञ्जिताः स्मः।
तत्क्षेपीयः क्षयिणि विषये चित्तमाधाय धीराः
सर्वारम्भै र्विशति जगतामन्तरात्मन्यनन्ते॥६॥

सूक्तिं कर्णसुधां व्यनक्तु सुजनस्तस्मिन्न मोदामहे
ब्रूतां वाचमस्यको विषमुचं तस्मिन्न खिद्यामहे।
या यस्य प्रकृतिः सतां वितनुतां किं नस्तया जायते
कुर्मस्तत् खलु कर्म्म जन्मनिगड़च्छेदाय यज्जायते॥७॥

मन्निन्दया यदि जनः परितोष मेति
नन्वप्रयत्नसुलभोऽयमनुग्रहो मे।
श्रेयोऽर्थिनोहि पुरुषाः परतुष्टिहेतोः।
दुःखार्जितान्यपि धनानि परित्यजन्ति॥८॥

स्वधर्म पीड़ामपहाय योऽयं मत्पापशद्ध्यार्थमिह प्रवृत्तः।
नत्तेत् क्षमामप्यहमस्य कुर्य्यां मत्तः कृतघ्नो वद कीदृशोऽन्यः॥९॥

कश्चित् पुमान् क्षिपति मां प्रतिरूक्षवाक्यैः
सोऽहं क्षमाभवनमेत्य मुदं प्रयामि।
शोकं ब्रजामि पुनरेवयत स्तपस्वी
चारित्रतः स्वलितवानिति मत्रिमित्तम्॥१०॥

नन्वात्मन्यवधीयतां गृहसुखाद्वैराग्यमाधीयताम्
बन्धुभ्यो व्यवधीयतां सुरसरित्तोरे सदा स्थीयताम्।

भिक्षार्थं व्यवसीयतां प्रतिदिनं सत्कर्म्म सञ्चीयतां
कोयश्चेतसि हीयतां परतरं ब्रह्मानुसन्धीयताम्॥११॥

यत् क्षान्तिः समये श्रुतिः शिव शिवेत्युक्तौमनोनिर्वृतिः
भैक्षे चाभिरुचिर्धनेषु विरतिः शश्वत्समाधौ रतिः।
एकान्ते वसतिर्गुरौ प्रतिनतिः सद्भिः समं सङ्गतिः
सत्त्वे प्रीतिरनङ्गनिर्जिति रसौसम्मुक्तिमार्गे स्थितिः॥१२॥

सम्भोगाद्विषयामिषस्य परितस्तैमित्यमस्ताखिल
ज्ञानोन्मेषतया कथं तव भवेदानास्पद देहिनः।
साध्यं तहि तदेव साधनमितो व्यावृत्तिरेवामिषात्
तस्यां ज्योतिरूपैत्यनिन्धनमिदं दोषत्रयं धश्यति॥१३॥

बुद्धेरगोचरतया न गिरां प्रचारो
दूरे गुरुप्रथितवस्तुकथावतारः।
तत्त्वं क्रमेण विदुषां करुणावदाते
श्रद्धावतां हृदि पदं स्वयमादधाति॥१४॥

दुःखाङ्गारकतीब्रः संसारोऽयं महानसो गहनः
इह विषयामिषलालस मानस मार्जार मा निपत॥१५॥
अरे चेतोमीन भ्रमणमधुना यौवनजले
त्यज त्वं स्वच्छन्दं युवतिजलधौ पश्यसि न किम्।
तनूजालीजालं स्तनयुगलतुम्बीफलयुतं
मनोभूः कैवर्तः क्षिपति परितस्त्वां प्रति मुहुः॥१६॥

विषयविषधराणां दोषदंष्ट्रोत्कटानां
निषर्यावषविमर्दव्यक्तदुश्चेष्टितानाम्।

विरम विरम चेतः ! सविधानादमीषां
सुखकणमणिहेतोः साहसं मास्म कार्षीः॥१७॥

एकीभूय स्फुटमिव किमप्याचरद्भिः प्रलीनैः
एभिर्भूतैः स्मर कति कृताः खान्त ते विप्रलम्भाः।
तस्मादेषां त्यज परिचयं चिन्तय स्वष्यवस्थाम्
आभाषस्ते किमु न विदितः खण्डितः पण्डितः स्यात्॥१८॥

धूर्तैरिन्द्रियनामभिः प्रणयितामापादयद्भिः स्वयं
सम्भोक्तुं विषयामिषं किल पुमान् सौख्याशया वञ्चितः।
तैः शेषे कृतकृत्यतामुपगतेरौदास्यमालम्बितं
सम्प्रत्येष विधेर्नियोगवशगःकर्मान्तरेवध्यते॥१८॥

दैवे समर्प्य चिरसञ्चितमोहजालं
सुस्थाः सुखं वसत किं परयाचनाभिः।
मेरुंप्रदक्षिणयतोऽपि दिवाकरस्य
ते तस्य सप्त तुरगा न कदाचिदष्टौ॥२०॥

आकाशमुत्पततु गच्छतु वा दिगन्तम्
अम्भोनिधिं विशतु तिष्ठतु वा यथेष्टम्।
जन्मान्तरार्जितशुभाशुभकृन्नराणं
छायेव न त्यजति कर्मफलानुबन्धः॥२१॥

उपशमफलाद्विद्याबीजात् फलान्तरमिच्छतां
भवति विफलो यत् प्रारम्भस्तदत्र किमद्भुतम्।
नियतविषया ह्येते भावा न यान्ति विपर्ययं
जनयति यतः शालेर्वीजं न जातु यवाङ्गरम्॥२२॥

यदेते साधूनामुपरि विमुखाः सन्ति धनिमो
नचैषावज्ञै षामपितु निजवित्तव्ययभयम्।
अतः खेदो नास्मिन् परममनुकम्पैव भवति
स्वमांसवस्तेभ्यः कइह हरिणेभ्यः परिभवः॥२३॥

तस्मादनन्तमजरं परमं विकाशि
तद्ब्रह्म वाञ्छत बुधा यदि चेतनास्ति।
यस्यानुषङ्गत इमे भुवनाधिपत्य-
भोगादयः क्षयिणइव सतां विभान्ति॥२४॥

इति शान्तिशतके कर्त्तव्यतोपदेशो नाम तृतीयः
परिच्छेदः॥१॥

________

लक्ष्मीनिर्वतिमेति हीनचरितैर्यैरेव तच्छिक्षया
किं नाद्यैव करोमि तामनुचरींरामां सकामामिव।
ब्रह्माण्डे निपतत्यपि स्वलति न प्रायेण येषां मनः
तेषामार्यमनस्विनामनुपदं गन्तास्मि नाहं यदि॥१॥

लब्धाः श्रियः सकलकामदुघास्ततः किं ?
सन्तर्पिताः प्रणयिनो विभवैस्ततः किम्?।
न्यस्तं पदं शिरसि विद्विषतां ततः किं ?
कल्पं स्थितं तनुभृतां तनुभिस्ततः किम्?॥२॥

निष्कन्दाः किमु कन्दरोदरभुवः क्षीणास्तरुणां त्वचः
किं शुष्काः सरितः स्फुरद्धिरिगुरुग्रावसुबलद्वीचयः।
प्रत्युत्थानमितस्ततः प्रतिदिनं कुर्वद्भिरुद्ग्रीविभिः

यद्द्वारार्पितदृष्टिभिः क्षितिभुजां विद्वद्भिरिष्यास्यते॥३॥

कामं जीर्णपलाशसंहतिकृर्ता कन्यां वसानो वने
कुर्यामम्बुभिरष्ययाचितसुखैः प्राणानुबन्धस्थितिम्।
साङ्गलानि सवेपितं सचकितं स्वान्तर्निदाघज्वरं
वक्तुं नत्वहमुत्सहे सकृपणं देहीति दीनं वचः॥४॥

सत्यं वक्तुमशेषमस्ति सुलभा वाणी मनोहारिणी
दातुंदानवरं शरण्यमभयं स्वच्छं पितृभ्यो जलम्।
पूजार्थं परमेश्वरस्य विमलः स्वाध्याययज्ञः परं
क्षुद्व्याधेः फलमूलमस्ति शमनं क्लेशात्मकैः किं धनैः॥५॥

सन्ति स्वादुफला वनेषु तरवः स्वच्छं पयो निर्झरं
वासो वल्कलमाश्रयो गिरिगुहा शय्या लतावल्लरी।
आलोकाय निशासु चन्द्रकिरणाः सख्यं कुरङ्गैः सह
स्वाधीने विभवेऽप्यहो नरपतिं सेवन्त इत्यङ्गुतम्॥६॥

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमत्रं
वस्त्रं विस्तीर्णमाशादशकममलिनं तल्पमस्वल्पमुर्वी।
येषां निःसङ्गताङ्गीकरणपरिचितिः स्वान्तसन्तोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयम्ति॥७॥

महाशय्या भूमिर्मसृणमुपधानं भुजलता
वितानञ्चाकामं व्यजनमनुकूलोऽयमनिलः।
स्फुच्चन्द्रो दीपः स्वधृतिवनितासङ्गमुदितः
सुखं शान्तः शेते विगतभवभीतिर्नृप इव॥८॥

धैर्य्यं पिता क्षमा च जननी शान्तिश्चिरं गेहिनी

सत्यं सूनुरयं दया च भगिनी भ्राता मनःसंयमः।
शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं
यस्यैते हि कुटुम्बिनो वद सखे ! कस्मात् भयं योगिनः?॥९॥

धिक् धिक् तान् क्वमिनिर्विशेषवपुषः स्फूर्जन्महासिद्धयो
निष्पन्दीकृतशान्तयोऽपि च तमः कारागृहेष्वासते।
तं विद्वांसमिह स्तुमः करपुटीभिक्षात्रशाकेऽपि वा।
बाला वक्तसरोजिनोमधुनि वा यस्या विशेषो रसः॥१०॥

मातर्लक्ष्मि ! भजस्वकञ्चिदपरं मत्कांक्षिणी मास्मभूः
भोगेभ्यः स्पृहया लवस्तव वशाः का निःस्पृहाणामसि।
सद्यः स्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृते
भिक्षाशक्तुभिरेव सम्प्रति वयं वृत्तिं समोहामहे॥११॥

जिह्वे! लोचननासिके श्रवण ! हे ! त्वक् ! चापि नो वार्यसे
सर्वेभ्योऽस्तु नमःकृताञ्जलिरहं सप्रश्रयं प्रार्थये
युष्माकं यदि सम्मतं तदधुना नात्मानमिच्छाम्यहं
होतुं भूमिभुजां निकारदहनज्वालाकराले गृहे॥१२॥

गतः कालो यत्रप्रणयिनि मयि प्रेमकुटिलः
कटाक्षःकालिन्दी लघुलहरिवृत्तिः प्रभवति।
इदानीमस्माकं जठरमकठीपृष्ठकठिना
मनोवृत्तिस्तत् किं व्यसनिनि मुधैव ग्लपयसि॥१३॥

यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं
तदा ज्ञातं तारामयमिदमशेषं जगदपि।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां

समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते॥१४॥

गतः कालो यत्र द्विचरणपशूनां क्षितिभुजां
पुरः स्वस्तीत्युक्ताविषयसुखमास्वादितमभूत्।
इदानीमस्माकं तृणमिव समस्तं कलयतां
अपेक्षा भिक्षायामपि किमपि चेतस्त्रपयति॥१५॥

पूर्वं तावत् कुवलयदृशां लोललोलेरपाङ्गैः
आकर्षङ्गिःकिमपि हृदयं पूजिता यौवनश्रीः।
सम्प्रत्यन्तर्निहितसदसद्भावलब्धप्रबोध-
प्रत्याहारेर्विंशदहृदये वर्त्तते कोऽपि भावः॥१६॥

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मज्ञानाभ्यसनविधिना योगनिद्रां गतस्य।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
सम्प्राणान्ते जठरहरिणा गात्रकण्डूविनोदम्॥१७॥

कदा भिक्षाभक्तैः करकलितगङ्गाम्बुतरलैः
शरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखम्।
कदा ब्रह्माभ्यासस्थिरतनुतयारष्यविहगाः
पतिष्यन्ति स्थाणुभ्रमहतधियः स्कन्धशिरसि॥१८॥

रथ्यान्तश्चरतस्तथा धृतजरत्कन्याञ्चलस्याध्वगैः
सतासश्चसकोतुकञ्चसकृषंदृष्टस्य तैर्नागरेः।
निर्व्याजीकृतचित्सुधारसमुदा निद्रायमानस्य मे
निःशङ्खं करटः कदा करपुटौभिक्षांविलुठिष्यति॥१९॥

एणाक्षीस्पृहयालुतान कथमध्यास्ते विवेकोदयान्

नित्यं प्रच्युतिशङ्कया क्षणमपि स्वर्गे न मोदामहे।
अप्यन्धेषु विना शिवस्तु विषयाभोगेषु तृष्णा न मे
स्वर्णद्यापुलिने परं हरिपदध्यानं मनो वाच्छति॥२०॥

अयि बोधाम्बुधौ भावः खच्छोऽयं विश्वबुद्धुदः
विनीत उदितो वेत्ति विकल्पपटलं मनः॥२१॥

अहङ्कारः क्वापि व्रजवृजिनहेमात्वमिहभूः
अभूमिदर्पाणामहमपसरत्वं पिशुनः हे।
अरे क्रोध ! स्थानान्तरमनुसरानन्यमनसां
त्रिलोकीनायो नो हृदि वस्तु देवो हरिरसौ॥२२॥

मातर्माये ! भ्रमिनि कुमते! हे पितर्मोहजाल !
व्यावर्तध्वं भवतु भवतामेष दीर्घो बियोगः।
सद्यो लक्ष्मीरमणचरणभ्रष्टगङ्गाप्रवाह-
व्यामिश्रायां दृषदि परमब्रह्मदृष्टिर्भवामि॥२३॥

आदित्यस्य गतागतैरहरहः संक्षीयते जौवितं
व्यापारे र्वहुकार्यकारणशतैः कालोऽपि न ज्ञायते।
दृष्ट्वा जन्मजरावियोगमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमोदमदिरामुन्मत्तभूतं जगत्॥२४॥

मातर्मेदिनि ! तात ! मारुत सखे व्योतिः ! सुबन्धो जल !
भ्रातर्व्योम ! निबद्धएष भवतामस्तु प्रणामाञ्जलिः।
युष्मत्सङ्गवशोपजातसुक्कतोद्रेकस्फु रन्निर्मल-
ज्ञानापास्तसमस्तमोहमहिमा लीये परे ब्रह्मणि॥२५॥

आशा नाम नदीमनोरथजला तृष्णातरङ्गाकुला

रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी।
मोहावर्त सुदुस्तरा प्रकटितप्रोत्तुङ्गचिन्तातटी
तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः॥२६॥

इतो न किञ्चित् परतो न किच्छित्
यतो यतो यामि ततो न किञ्चित्।
विचार्य्य पश्यामि जगन्नकिञ्चित्।
स्वात्मावबोधादधिकं न किश्चित्॥२७॥

संसारमृगतृष्णां त्वं मनो धावसि किंमुधा।
अनाविल मिदं ब्रह्मसरः किं नावगाहसे॥२८॥

इति शान्तिशतके ब्रह्ममाप्तिर्नामचतुर्थः
परिच्छेदः सम्पूर्णम्॥४॥

________

वृन्दावन शतकम्।

__________

नमस्तस्मै कस्मैचिदपि पुरुषायाद्भुत महा
महिम्ने विभ्राजत्कनकरुचिधाम्ने स्वकृपया।
असङ्कोचेनैव श्वपचमखिलेभ्यः स्वयमहो
ददौ यत्तह्नक्तिंविमलतरनानारसमयीम्॥१॥

यस्मिन्न प्रविशेन्मनोऽपि महतां का तत्त्ववार्ता पुनः
शास्त्राणां ज्ञपितञ्च यद्भगवता भङ्गैव भक्तोद्धवे।

तहन्दावनमुमदेन रसिकद्वंद्धेन केनाप्यहो
नित्यक्रीड़तया गृहीतमिह के विद्युर्न गौरप्रियाः॥२॥

गुणैः सर्वैर्हीनोऽप्यहमखिलजीवाधमतमो
ऽप्यशेषैः दोषाग्नैरपिक्षवलितो दुर्मतिरपि।

प्रसादात्तस्यैवाविदमहह राध ब्रजपतेः
कुमारं श्रीवृन्दावनमपि स गौरो मम गतिः॥३॥

श्रीवृन्दावनकेलिरङ्गसहजं सौन्दर्य्यशोभावयो
वैदग्ध्याप्रादिचमत्कृतेः परतरं विश्रान्तिधामाद्भुतम्।
तन्मेमोहनदिव्यनागरवरद्वन्द्वंमिथो जीवनं
गौरश्यामलमुज्वलोमदरसाषिष्टं हृदि स्फूर्जतु॥४॥

इह भ्रामं भ्रामं जगति नहि गन्धोऽपि कलितो
यदीयस्तत्रैवाखिलनिगमदुर्लक्षमरणो।
अपारे श्रीवृन्दावनमहिम पीयूषजलधौ
महाश्चर्यीन्मीने मधुरिमनि चित्तं लगतु मे॥५॥

जयति जयते वृन्दारण्यान्य नसिन्धोः
अनुपममिव सारं शारदाकोट्यकथ्यम्।
खगमृगतरुवल्लीकुञ्जवापीतड़ाग
स्थलगिरिनदिनीनामद्भुतैः सौभगाद्यैः॥६॥

वृन्दारण्ये चर चरण दृक् पश्य वृन्दावनश्रीः
जिह्ने ! वृन्दावनगुणगणान् कीर्त्तय श्रोत्र दृष्टान्।
वृन्दाटव्या भज परिमलं घ्राण गात्र त्वमस्मिन्
वृन्दारण्ये लुठ पुलकितं कृष्ण कृष्णलिस्थलीषु॥७॥

महोज्वलवसोन्मदप्रणयसिन्धुनिः स्यन्दिनी
महामधुरराधिकारमणखेलनानन्दिनी
रसेन समधिष्टिता भुवनवन्द्यया वृन्दया
चकास्तु हृदि मे हरेपरमधाम वृन्दाटवी॥८॥

जन्मनि जन्मनि वृन्दावनभुवि वृन्दारकेन्द्रवंन्द्यायाम्
अपि तृणगुल्मकभावे भवतु ममाशासमुल्लासः॥९॥

हरिपदपङ्कजसष्पांहेनर समनुभूय पूर्णोऽपि
यत्रोद्वव आशास्ते तृणतां तत्रोमि राधिकाविपिनम्॥१०॥

राधावल्लभपादपल्लवजुषां सहर्मनीतायुषां
नित्यं सेवितवैष्णवांध्रिरजसां वैराग्यजीवस्पृशाम्।
हन्तैकान्तरसप्रविष्टमनसामप्यस्ति यहरतः
तद्राधाकरुणावलोकमचिराद्विन्दन्तु वृन्दावने॥११॥

राधानन्दकिशोरौ निरवधिरससागरे निमग्नौ
निजकेलिधाम वृन्दाविपिनमुदीच्यैव सौख्यमाप्नुवतः॥१२॥

उद्दामप्रमदोज्वलैकरसया भक्त्या विधूताः कृते
व्यक्त कस्यचिदेव चित्तमुद्ववे तत्तहिषाभोगवत्।
यस्मिन् दिव्यविचित्रकेलिमिथुनं तच्छप्रामगौरं विधु
ज्योत्स्रावत् परिचायये तदिह किं विन्देय वृन्दावनम्॥१३॥

विशुद्धाद्वैतैकप्रणयरसपीयूषजलधेः
घनीभूतद्वीपे समुदयति वृन्दावनमहो।
मिथः प्रेमोद्चूर्णद्रसिकमिभुनक्रीड़मनिशं
तदेवाध्यासीनं प्रविशति पदे क्वापि मधुरे॥१४॥

नाहं वेद्मि कथं नु माधवपदाम्भोजद्वयो ध्यायते
का वा श्रीशुकनारदाद्यकलिते मार्गेऽस्तु मे योग्यता।
तस्माद्भद्रमभद्रमैव यदि नामास्तां ममेकं परं
राधाकेलिनिकुञ्जमञ्जुलतरं वृन्दावनं जीवनम्॥१५॥

यत्सीमानमपि स्पृशन्ननिगमो दूरात् परं लक्षत
किञ्चिद्गूढ़तया यदेव परमानन्दोत्सवैकावधिः।
यमाधुर्य्यकलीऽप्यवेदि न शिवस्वायम्भुवाद्यैरहं
तवृन्दावननामधाम विशदं विन्दामि राधापतेः॥१६॥

कदानु वृन्दावनकुञ्जमण्डले भ्रमंभ्रमं हेमहरिन्मणिप्रभम्
संस्मृत्य संस्मृत्य तदद्भु तप्रियं द्वयं इयं विस्मृति मेतु मेऽखिलम्॥१७॥

विद्येत खण्डशइदं यदि मे शरीरम्
धीरा विपद्धितचयो यदि वा पतन्ति।
हा हन्त हन्त न तथापि ममेह भूयात्
वृन्दावनादितरतीर्थ पदे यियासा॥१८॥

स्वयं पतितपत्रकणामृतवत् क्षुधाभक्षयन्
सदा मिहिरनन्दिनीशचिपयोञ्जलीभिः पिवन्।
कदा मधुरराधिकारमणासकेलिस्थलिं
विलीक्य रसशेवधिमधिवसामि वृन्दावनम्॥१८॥

भूमिर्यत्र सुकोमला वहुविधप्रद्योतिरत्नच्छटा
नानाचित्रमनोहरं खगमृगाद्याश्वरागान्वितम्।
वल्लीभूरुहजातयोद्भुततमा यत्र प्रधानादिभिः
तन्मे नन्दकिशोरकेलिभवनं वृन्दावनं जीवनम्॥२०॥

साक्षादिवास्ते पुरुषोत्तमांघ्रि सेवारसादभ्यधिको रसौघः।
स्यन्देत वृन्दाविपिनेऽप्यदृष्टोराधाप्रियो यो भुवनस्य साक्षी॥२१॥

जागर्ति दुन्दुभिरवः परमोऽत्र राधा
वृन्दावन वनमतिप्रकटं पुराणे।
तस्याविधेयमसमेद्धमहानुराग
मूर्तेस्तदङ्गनमिहेत्य हरिं क्व पश्ये॥२२॥

मिलन्तु चिन्तामणिकोटिकोटयः
स्वयं वहिर्दृष्टिमुपैतु वा हरिः।
तथापि वृन्दावनधूलिधूसरं
न देहमन्यत्र कदापि यातु मे॥२३॥

कृपयतु मयि वृन्दारण्यराजीमनाग
प्यतिवहनकृपोरुस्नेहभावादुदिष्णुः
फलतु तदनुकम्पाकल्पवल्लीफलं त्वत्
प्रभवतु वसतिर्मे तत्प्रियारामसीम्नि॥२१॥

तेनाकारि समस्तएव भगवद्धर्मोऽपि तेनाद्भुतः
सर्वस्मात् पुरुषार्थतोऽपि परमः कश्चित् करस्थीक्ततः।
तेनाधायि समस्तमूर्द्धनि पदं ब्रह्मादयस्तं नम-
न्त्यादेहान्तमधारि येन वसतो वृन्दावने निश्चयः॥२५॥

पुलिने पुलिने कलिन्दजाया विचरंश्चापि तले तले तरूणाम्।
सघणीभूतसुसौख्यकन्दवृन्दाविपिने हन्त कदा दिनानि नेष्ये॥२६॥

गौरश्यामलमिथुनं खेलति कन्दर्प लीलया यत्र।
राधामाधवनाम्ना प्रथितं तन्नौमि काननं किमपि॥२७॥

खगवृन्दं पशुवृन्दं द्रुमवल्लीहन्दमुन्मदप्रेन्ना।
प्रीणयदमृतरसेन ख्यातं वृन्दावनं नमत॥२८॥

ऊषरमपि हरिभक्ते; नाना दुर्मार्गनिष्ठमप्यधमम्।
वृन्दाविषिनमचिन्त्यप्रभावमुन्नादये प्रेम्ना॥२९॥

भक्तैकयान्यत्र कृतार्थमानिनो धीरास्तदेतत्र वयं विदामः।
श्रीराधिकामाधववल्लभं नः परन्तु वृन्दावनमेव संश्रयः॥३०॥

दोषाकरोऽहं गुणलेशहीनः सर्वाधमो दुर्लभवस्तुकांक्षी।
छन्दाटवीमुज्ज्वलभक्तिसारवीजं कदा प्राप्य भवामि पूर्णः॥३१॥

शुद्धोज्ज्वलप्रेमरसामृताब्बेः अनन्तपारस्य किमप्युदारम्।
राधाभिधाय प्रचकास्ति सारं तदेव वृन्दाविपिनं गतिर्मे॥३२॥

सर्वसाधनहीनोऽपि वृन्दारण्यैकसंश्रयः।
यः कोऽपि प्राप्नुयादेव राधाप्रियरसोत्सवम्॥३३॥

त्यजन्तु स्वजनाः कामं देहवृत्तीश्चमाश्नुवन्।
न वृन्दावनसीमातः पदं मे चलतु क्वचित्॥३४॥

सा मे न माता स च मे पिता न
स मे न बन्धुः स च मे सखा न।
स मे न मित्रं स च मे गुरुर्न
यो मे न वृन्दावनवासमादिशेत्॥३५॥

तच्छास्त्रं मम कर्णमूलमपि न स्वप्नेऽपि यायादहो
श्रीवृन्दाविपिनस्य यत्र महिमा नात्यद्भुतः श्रूयते।
ते मे दृष्टिपथं न यान्तु नितरां सम्भाष्यतामाप्नु युः
ये वृन्दावनवैभवे श्रुतिगते नोल्लासिनो नोऽखिलाः॥३६॥

अलमलमिह योषिद्वर्दभौसङ्गरङ्गैः
अलमलमिह वित्तापत्यविद्यायशोभिः।
अलमलमिह नानासाधनायासदुःखैः
भवत भवत वृन्दारण्यमाश्रित्य धन्याः॥३७॥

वैकुण्ठं कोटिकोटिप्रगुणितमपिनो यत्र जालेशमात्रां
प्रोन्मौलतसौभगाब्धेर्लवमपि लभते शुद्धभावोज्ज्वलायाः।
कुर्वीरन् भक्तिकोटीर्भगवति न तथाप्यङ्गु, तप्रेममूर्तेः
श्रीराधाया अभक्तैः किमपि न कलितां नौमि वृन्दाटवीं ताम्॥३८॥

इदमपि भविता किं यत्र कुत्रापि वृन्दा
पदमपि मम जातं श्रोत्रवोथोमकस्मात्।
मधुरमधुरराधामाधवानङ्गखेला-
वनमुपनयदन्तर्दास्यति प्रेममूर्द्धाम्॥३९॥

कदा नु वृन्दावनबीधिकास्वहं
परिभ्रमन् श्यामलगोरमङ्गु तम्।
किशोरमूर्तिद्वयमेकजीबनं
पुरःस्फुरद्वीक्ष्यपतामि मूर्च्छितः॥४०॥

किमेतादृग्भाग्यं मम कलुषमूर्तेरपिभवेन्
निवासो देहान्तावधि यदिह वृन्दावनभुवि।
तयोः श्रीदम्पत्योः नवनवविलासैर्विहरतोः
पदज्योतिः पूरैरपितु मम सङ्गोऽपि भविता॥४१॥

भूतं स्थावरजङ्गमात्मकमहो यत्र प्रविष्टं किम-
प्यानन्दैकघनाकृतिस्वमहसा नित्योत्सवं भासते।

मायान्धीकृतदृष्टिभिस्तु कलितं नानाविरूपात्मना
तद्वृन्दाविपिनं कदाधिवसतः स्यान्ने तनुविन्मयो॥४२॥

यत्र प्रविष्टः संकलोऽपि जन्तुः सर्वः पदार्थोऽप्यवुधैरदृश्यः।
स्वानन्दसम्बीतघनत्वंमेति तदेव वृन्दावनमाश्रयन्तु॥४३॥

वृन्दावनस्येष्वपि येऽत्र दोषान्
आरोपयन्ति स्थिरजङ्गमेषु।
आनन्दमूर्तिष्वपराधिनस्ते
श्रीराधिकामाधवयोः कथं स्युः॥४४॥

ये वृन्दावनवासिनिन्दनरता ये वा न वृन्दावनं
न्नाघन्तेतुलयन्ति ये च कुधियः केनापि वृन्दावनम्।
ये वृन्दावनमत्र नित्यसुखचिद्रूपं सहन्ते न वा
तैः पापिष्ठनराधमैः न भवतु स्वप्नेऽपि मे सङ्गतिः॥४५॥

असह्य बहुदुर्वची यदिह वदन्ति साक्षान्मम
स्त्रियं बलादपहरन्ति चेत् प्रियसुतादिकं घ्नन्ति वा
धनान्यपि च जीवनं यदि हरन्ति वृन्दावनस्थिता-
स्तदपि ते प्रिया मम भवन्ति वन्द्याः परम्॥४६॥

परस्वस्तेयैकव्यसनमपि नित्यं परवधू-
प्रसक्तं विश्वेषामहह बहुधा हिंसकमपि।
दुराचारं लोभादपहतमपि भ्रातररुण -
दिवान्धस्त्वं वृन्दावनगतजनं नावगणयेः॥४७॥

परधनपरदारद्वेषमात्सर्य्यलोभा-
नृतपरुषपराभिद्रोहमिथ्याभिलापान्।

त्यजति य इह भक्तो राधिकाप्राणनाथे
न खलु भवति बन्ध्या तस्य वृन्दाबनाशा॥४८॥

कुरु सकलमधर्मंं मुञ्जसर्वं स्वधर्मं
त्यज गुरुमपि वृन्दारण्यवासानुरोधात्।
स तव परमधर्मः सा च भक्तिर्गुरुणां
स किल कलुषराशिर्यद्धिवासान्तरायः॥४९॥

निर्मर्य्यादाश्चर्य्यकारुण्यपूर्णौ
राधाकृष्णौ पश्यतश्चेत् कदाचित्।
यः कोऽप्यस्मिन् यादृशस्तादृशो वा
देहस्यान्ते प्राप्नुयादेव सिद्धिम्॥५०॥

राधामधुपतिपादाम्बुजभक्तादूरमुक्तस्य।
अजितेन्द्रियस्य कृपया मम वृन्दारण्यमाश्रयो भवतु॥५१॥

राधामाधवपादपङ्कजरजः प्रेमोन्मदैतत्प्रिय-
क्रीड़ाकाननवासिषु स्थिरचरप्राणिष्वपि द्रोहिषु।
प्रद्वेषं परमापराधमहह ! त्यक्तेतरैरप्यधैः
युक्तोऽप्यामरणान्तलब्धवसतिर्वृन्दावने स्यात् कृती॥५२॥

न लोकवेदोवतमार्गभेदैः प्रविश्य संनिश्यत रे विमूढाः।
हठेन सर्वं परिहृत्य छन्दावनान्तरे पर्णकुटींकुरुध्वम्॥५३॥

यत्तद्वल्गन्तु शास्त्राण्यहह ! जनतया गृह्यतां यत्तदेव
स्ंस्वंयत्तन्मतं स्थापयतु लघुमतिस्तर्कमात्रे प्रवीणः
अस्माकं तूज्वलैकोन्मदविमलरसप्रेमपीयूषमूर्त्तेः
श्रीराधाया विहाराटविहिनविनान्यत्रनिर्याति चेतः॥५४॥

विन्धश्यामाभिरामच्छविमृदुमसृणोत्सप्तहे भावदातं
ज्योतिर्द्वन्द्वं किशोराजतिमधुरमहो घूर्णमानं रसेन।
नित्यं यत्रैव खेलायति मदमकलाकोतुकेनात्युदारं
सारं सारादशेषादवतु दशदिशः श्रीलवृन्दावनं नः॥५५॥

अपारकरुणाकरं ब्रजविलासिनीनागरं
मुहुः सुवहुकाकुभिर्नतिभिरेतदम्यर्थये।
अनर्गलवहन्महाप्रणयसीधुसिधौमम
क्वचिज्ज्जनुषि जायतां रतिरिहैव वृन्दावने॥५६॥

नानामार्गरतोऽपि दुमतिरपि त्यत्तस्वधर्मोऽपि हि
स्वच्छन्दाचरितोऽपि दूरभगवत्सम्बन्धगन्धोऽपि च।
कुर्वन् यत्र च कामलोभवशतो वासं समस्तोत्तमं
यायादेव रसात्मकं परमहं तन्नौमि वृन्दावनम्॥५७॥

इह सकलसुखेभ्यः सूत्तमं भक्तिसौख्यं
तदपि चरमकाष्टां सम्यगाप्नोति यत्र।
तदिह परमपुंसो धाम वृन्दावनाख्यं
निखिलनिगमगूढं मूढबुद्धिर्नवेद॥५८॥

भजन्तमपि देवतान्तरमधाक्षरब्रह्मणि स्थितं
पशुवदेव वा विषयभोगमात्रे रतम्।
अचिन्त्यनिजशक्तितः स्वगतराधिकामाधव-
प्रगाढरसदुर्मदं कुरुत एव वृन्दावनम्॥५९॥

यत्कोट्यं शमपि स्पृशेन्न निगमो यत्रो विदुर्योगिनः
श्रीशब्रह्मशकार्जुनोद्धवमुखाः पश्यन्ति यत्र क्वचित्।

अन्यत् किं ब्रजवासिनामपि न यत् दृश्यं कदालोकये
तद्वृन्दावनरूपमद्भुतमहं राधापदैकाश्रयः॥६०॥

विस्मृत्य द्वैतमात्रं प्रणयमयमहो ज्योतिरेकार्णवान्तः
श्रीवृन्दारण्यमत्युच्चलदतुलरसाम्भोधितस्मिन् सखे त्वम्।
वेषं किश्चिद्गृहीत्वोज्वलमखिलकलाकोमलाभौरवाला
प्राणाः श्रीराधिकायाः किमपि रसनिधेश्चाटुकारं भजेथाः॥६१॥

दुर्वासनासुदृढरज्जुशतैर्निवद्धम्
आकृष्य सर्वत इदं स्वबलेन कृष्ण !।
वृन्दावने विहरतः सह राधया ते
पादारविन्दसविधं नय मानसं मे॥६२॥

वशीकर्तुं शक्यो नहि नहि मनागिन्द्रियगणो
गुणोभुन्नैकोऽपि प्रविशति सदा दोषनिचयः।
क्व ताम किं कुर्मो हरि हरि मयीशोऽप्यकरुणः
स्ववासं श्रीवृन्दावन वितर मानन्धगतिकम्॥६३॥

जातिप्राणधनानि यान्तु सुयशोराशिः परिक्षीयतां
सद्धर्मा विलयं प्रयान्तु सततं सर्वैश्च निर्भर्त्स्यताम्।
आधिव्याधिशतेन जीर्य्यतु वपुर्लुप्तप्रतीकारतः
श्रन्दाविपिनं तथापि न मनाक् त्यक्तुं ममास्तां मतिः॥५४॥

रक्षति संसारभयाद्दोषाकरम् अप्यशेषदेहभृद्वृन्दम्।
वृन्दावनमिति तेन प्रथितं तं नौमि काननं किमपि॥६५॥

वृन्दारण्यदन्यत् प्रकृतेरन्तर्बहिर्वापि।
नैवास्ति मधुरवस्त्थित्यवकलितं यैः नमस्तेभ्यः॥६६॥

विभ्राजत्तिलका कलिन्दतनयानीरौधनीलाम्बरा
उदञ्चत्काञ्चनचम्पकच्छविरहो नानारसोल्लासिनी।
कृष्णप्रेमपयोधरेण रसदेनात्यन्तसन्मोहिनी
गोपस्त्रात्मजवल्लभा विजयते राधेव वृन्दाटवी॥६७॥

यस्मिन् कोटिसुरद्रुमैः धुरयुता भूमीरुहः पोषका
भक्तिः सद्धनिता महारसमयीयत्र स्वयं श्लिष्यति।
यत्र श्रीहरिदासवर्यवनिताः खट्वायमानाः शिलाः
तद् वृन्दावनमद्भुतं सुखमयं को नाम नालम्बते॥६८॥

विन्दन्ति यावत् प्रणयं न मन्दा वृन्दावने प्रेमविलासकन्दे।
तावन्नगोविन्दपदारविन्द स्वच्छन्दसद्भक्तिरहस्यलाभः॥६९॥

स्मारं स्मारं नवजलधरश्यामलं धामविद्युत्
कोटिर्ज्योतिस्तनुलतिकया राधयाश्लिष्यमाणः।
उच्चैरुच्चैः सरससरसीप्राब्जवीजृम्भमाण-
प्रेमाविष्टो भ्रमति सुकृतौ कोऽपि वृन्दावनान्तः॥७०॥

राधापदाङ्घभूषितवृन्दारण्यस्थलौषु निर्भरप्रेम्ना हरि हरि।
कदा लुठामि प्रतिपद गलदश्रुरुल्लसत्पुलकः॥७१॥

पूर्णोज्जलत्प्रेमरसैकमृर्तिः यत्रैव राधाविजयो हरीति।
तदेव वृन्दावनमाश्रितानां भवेत् परं भक्तिरहस्यलाभः॥७२॥

सर्वं त्यक्ता सरसविशदप्रेमपीयूषसान्द्रे
वृन्दारण्येऽद्भुततरुलतागुल्मकाद्यैः मनोज्ञे।
राधाकृष्णोज्वलगुणगणोद्दानमत्तालिकारैः
नीरेणापि स्थितिमिह तनोरध्यवस्या वसन्तु॥७३॥

श्रीराधायाः कनकरुचिरज्योतिरङ्गच्छटोषैः
शुद्धप्रेमोलरसमयैः सेव्यमानं समन्तात्।
गोविन्दस्याम्बुदरुचितमोर्ज्योतिरम्भोधिपूरैः
सान्द्रानन्दात्मभिरपि चितं नौमि वृन्दावनं तत्॥७४॥

निन्दा वा स्तुतिरेव वा वहुविपत् सम्पत्तिरेवास्तु वा
पाण्डित्यं वत मूर्खतापि यदि वा रागो विरागोऽथवा।
यत् किंचिद्भवतु श्रुतेरपि मनाग्लक्ष्यं न यद्वैभवं
तद्वृन्दाविपिनं न जीवनमहं स्वप्नेऽपि हातुं क्षमः॥७५॥

चाण्डालश्वखरादिवा यदि जनाः कुर्वन्ति सर्वे तिर -
स्कारंदुर्विषहञ्च तेन नहि मे खेदोऽस्त्यणीयानपि।
देवा देव्य इमे च भूतनिवहाः प्राणाश्चदद्युर्महा-
स्नेहातुष्टिमतो न मे गुरुतृषा वृन्दावनौये वसे॥७६॥

भ्रातः ! समस्तान्यपि साधनामि
विहाय वृन्दावनमाश्रयस्व
यथा तथा प्राक्तनवासनावशात्।

शरीरवाणी हृदयं विचेष्टताम्॥७७॥

तादृक् कालो भवतु भगवान् येन कस्याचि देनी
दृश्या शक्तोऽप्यहह न वहिर्यामि वृन्दाटवीतः।
तादृक् दम्भोऽप्युदयतु तथाहङ्कृतिश्चापि मे स्याद्
येनाप्यस्मिन्विस्मयवने रोचये नित्यवासम्॥७८॥

वरं बृन्दारण्ये हरि हरि करेखर्परभृतो
भ्रमामो भैश्चार्थं स्वपक्षगृहवीथीषु दिनशः।

तथापि प्राचीनैः परमसुतैरव मिलितं
न नेष्यामोऽन्यत्र क्वचिदपि कथञ्चिद्वपुरिदम्॥७९॥

जरत्कन्यामेकां दधदपि च कौपीनमनिशं
प्रगायन् श्रीराधामधुपतिरहःकेलिलहरीम्।
फलं वा मूलं वा किमपि दिवसान्ते कवलयन्
कदा नेष्ये वृन्दावनभुवि दशां जीवनमयोम्॥८०॥

प्रकृत्युपरि केवले सुखनिधौपरब्रह्मणि
श्रुतिप्रथितवैभवं परपदं विकुण्ठाभिधम्।
तदन्तरखिलोज्वलं जयति माथुरं मण्डलं
महारसमयं सखे ! कलय तत्र वृन्दावनम्॥८१॥

कदा बृन्दारण्यं श्रवणवसनस्पर्शननिरो-
क्षणभ्राणाद्यैः मे स्फुरति वसमिच्छन् श्रवदिव।
कदा वा तल्लोकोत्तरवसमदान्धो मधुपते
गुणानुच्चैरुच्चैः सरसमुपगास्यामि परितः॥८२॥

स्वानन्दसच्चिद्वनरूपतामतिः
पावन् न वृन्दावनवासिजन्तुषु।
तावत् प्रविष्टोऽपि न तत्र विन्दते
ततोऽपराधात् पदवीं परात्पराम्॥८३॥

यदैव सच्चिद्रसरूपबुद्धिः
वृन्दावनस्तस्थिरजङ्गमेषु।
स्यान्निर्व्यलीकं पुरुषस्तदैव
चकास्ति राधाप्रियसेविरूपः॥८४॥

सकलविभवसारं सर्वधर्मैकसारं
सकलभजनसारं सर्वसिद्धैकसारम्।
सकलमहिमसारं वस्तु वृन्दावनान्तः
संकलमधुरिमान्भोराशिसारं विहारम्॥८५॥

दैवी वाक् प्रतिषेधिनीभवतु मे स्याद्वागुरूणां गिरां
श्रेणी शास्त्रविदामिहास्तु वहुधा यः कोऽपि कोलाहलः।
त्यक्त्वासाधनसाध्यजातमखिलं प्रलगेन्नु मे राधिका
क्रीड़ाकाननवाससम्पदि मनाक् व्यावर्तते नो मनः॥८६॥

प्रगायन्नटन्नुद्वस्तन्नालुठन्
वप्रे धावन् रुदन् संम्पत् मूर्छितो वा।
कदा वा महाप्रेममाध्वीमदान्धः
विचरिष्यामि वृन्दावने लोकवाह्यः॥८७॥

न लोकं न धर्मं न गेहं न देहं
न निन्दा स्व तिर्वापि सौख्यं न दुःखम्।
विजानन् किमप्युमदप्रे ममाध्व्या-
ग्रहग्रस्तवत् कर्हि वृन्दावनेस्याम्॥८८॥

हरे कृष्ण कृष्णेति कृष्णेति मुख्यान्
महाचर्य्यनामावलीसिहमन्त्रान्।
कृपामूर्त्तिचैतन्यदेवेन गीतान्
कदाभ्यस्ववृन्दावने स्यां कृतार्थः॥८९॥

हैमस्फाटिकपद्मरागरचितैर्माहेन्द्रनीलैर्दुमैः
नानारत्नमयस्थलोभिरलिभिर्झङ्कारितोद्वल्लिभिः।

चित्रैःकीरमयूरकोकिलमुखैर्नानाविहङ्गैर्लसत्
पद्माद्यैश्च सरोभिरङ्मुतमहं ध्यायामि वृन्दावनम्॥९०॥

ताम्बूलपानकमनोहरमोदकादि-
रम्ये लसन्मृदुलपल्लवचारतल्पे।
दूरेस्थितालिभिरहोसुहृदावपेक्ष्य
वृन्दावनं स्मर निकुञ्जगृहैः मनोज्ञम्॥९१॥

क्वचिद्रतिविमर्दितप्रसवतल्पकैः कुत्रचिद्
क्वचितोपकरणाद्रिन्वतप्रियमृदुप्रसूनास्तरैः।
क्वचित् प्रमदराधिकामधुपतिप्रवृत्तोत्सवैः
सदानवनिकुञ्जकैःस्मर सुमञ्चुवृन्दावनम्॥९२॥

राधाकृष्णरहः सुहृद्क्षितिधरस्योपत्यकासु स्फुरन्
नानाकेलिनिकुञ्जवीधिषु नवोन्मीलत्कदम्बादिषु।
भ्रामं भ्राममहर्निशं ननु परं श्रीवासकेलिस्थली
रम्यास्वेव कदा प्रकाशितरहःप्रेमा भवेयं कृती॥९३॥

अलं क्षयिनुदुःखदैः युवतिपुत्रवित्तादिकैः
विमुक्तिकथयाम्यलं मम नमो विकुण्ठप्रिये।
परंत्विह भवेभतु भवे वासमानव्यथो
भजे नन्दतनयो वने लसति यत्र तस्मिन् रतिः॥९४॥

नमामि वृन्दावनमेवमूर्ध्नावदामि वृन्दावनमेव वाचा।
स्मरामि वृन्दावनमेव बुद्ध्यावृन्दावनादन्यदहं न जाने॥९५॥

राधापतिरतिकन्दं वृन्दावनमेव जीवनं येषाम्।

ताम्बजरेनो रामामेवाहमाशासे॥९६॥

शृणन्ति शुकसारिकाः सुचरितानि राधापते
स्तदेकपरितुष्टये तरुलतासदोत्फुज्ञिताः।
सरांसि कमलोत्पलादिभिरधुश्चयत्र श्रियं
तदुत्सवकृते मनः स्मरतदेववृन्दावनम्॥९७॥

नानाकेलिनिकुञ्जमण्डपयुते नानासरोवापिका
रम्ये गुल्मलताद्रुमैश्च परितो नानाविधैः शोभिते।
नानाजातिसमुल्लसत्खगमृगैः नानाविलासस्थली
प्रद्योतद्युति रोचिषि प्रिय कदा ध्येयोऽसि वृन्दावने॥९८॥

यत्नैवातिरसन्मदं विहरते मत्प्रेष्ठवस्तुद्वयं
भक्तिः कापि महारसोत्सवमयीयत्रैव निस्यन्दते।
तत्रैव प्रविशन्ति नैव निगमश्रेणीगिरां भङ्गय
स्तस्मिन्नेव ममास्तुधीःप्रणयिनी वृन्दावने पावने॥९९॥

वाण्या गह्रदया कदा मधुपतेः नामानि संकीर्तये
धाराभिर्नयनाम्भसां तरुतलक्षीणींकदा पङ्कये।
दृष्ट्वा भावनया पुरोमिलदिव स्वन्तस्वभोग्यं महो
द्वन्दंहेमहरिन्मणिच्छवि कदा नं स्ये मुहुर्विह्वलः॥१००॥

वृन्दारण्यनिकुञ्जसीमनि वसन् प्रेमान्तरश्चिन्तयन्
स्वप्राणैकघनं किशोरमिथुनं द्रश्याम्यकस्मात् कदा।
श्यामाकाश्चनचन्द्रिका रसमयीगौरीश्च काश्चित् छटाः।
पश्यामि शृणुयांच शीतमधुरा काश्चिमिथोवाक्मुधा॥१०१॥

वृन्दारण्ये किमपि जनतादुःप्रवेशं प्रदेशं
गत्वा प्रद्यैर्निजदयितयोर्नामजल्पन्नुदश्रुः।

अत्यन्तार्त्या विकलविकलोदिव्यमूर्तैकयापि
श्रीश्वर्याज्ञाकरमृगदृशावाक्सुधास्वासितः स्याम्॥१०२॥

एतत् कारुण्यपुञ्जंकतिदिनकलितस्वाश्रयप्रौढ़ि राधा
कृष्णाङ्घ्रिद्वन्द्वगूढप्रणयमयरसासावाञ्जितो साधुदृष्टैः।
श्रीमद्वृन्दावनं ये निजमहितपराकारिरूपेण सान्द्रा
नन्दौघस्य दिवाप्रोच्चलितमधुरिमैकार्णवेनाविरास्ताम्॥१०३॥

कदा सुदृढभावनोदितनिजेष्टकृपो
मनागपि स्मृतशरीरकोनहिरसेप्रविष्टोऽद्भुते।
क्षणं किमु मुहूर्त्तकं किमथवा नमे वास्थितो
वहिर्दृगपि मुग्धवद्वावहुविहरामि वृन्दावने॥१०४॥

नान्यद्वदामि न शृणोमि न चिन्तयामि
नान्यद्व्रजामि न भजामि न चाश्रयामि।
पश्यामि जाग्रति तथास्वप्नेऽपिनान्यत्
श्रीराधिकारतिविनोदवनं विनाहम्॥१०५॥

किं मां खेदयसे विमुञ्च वसनं तल्पोत्तमेऽस्मिन् सुखे
नागत्य स्वपिहि त्यज त्यजभुज श्लिष्यामि कान्तेसकृत्।
आः किं निर्दयमुञ्चमुञ्चनकिमप्यापीड़ये राधिका
कृष्णा लापमिमं कदानु शृणुयां वृन्दाटवीकीरतः॥१०६॥

कदा वास्वच्छन्दं दिनरजनिवृन्दावनवने
चरन्नेकान्तः स्वस्तुत नवनिजकुञ्जानि प्रविशन्।
अकस्मादेकासौकिरमधुरकैशोरसुधया
हूतो न त्वं याया इति मृदुगिरा वारयति माम्॥१०७॥

कदा वा तुष्णीकः शिथिलितसमस्तब्यवह्वतिः
त्यजन् दीर्घश्वासं कथमपि गृहीतैककवलः।
सदा जाग्रत्प्रायक्षणमुदिततन्द्रोऽतिमधुरं
तदालोके वृन्दावनभुवि निजप्राणमिथुनम्॥१०८॥

अकस्मादेवस्मान्नबललितकुञ्जद्वत वहिः
भवत् स्मित्वा नव्यं तरुणमिथुनं लौकिकमिव।
गतो दूरं दृष्ट्वा पुनरथ निवृत्य स्वदयीतौ
वितर्क्यस्यांवृन्दावनभुवि महाप्रेमविकलः॥१०९॥

कदा पर्णज्योत्स्नाधवलरजनौवासबलये
चरन्नेको वृन्दावनप्रतिविलासस्मृतिपरः।
अकस्मादानन्दाम्बुधिलहरिकोलाहलमिव
ध्वनिं दिव्यं वेणोर्वस्तयरसनादेश्चशृणुयाम्॥११०॥

कदा वा कस्यापि स्फुटनवकदम्बस्य विटपे
स्फुरङ्गोपीभर्तुः किमपि कवये स्मेरवदनम्।
कदा श्रीराधायाः कुसुमचयलोलाञ्चललितं
करं वृक्षे वृन्दावनभुवि लतासु क्वचिदपि॥१११॥

इदं मे किं भावि स्रुतकनकगौरच्छवि हरिं
मणिश्यामं धामद्वयमिह मिथो मेऽर्पितभुजम्।
निरीक्षेतत्स्मेरंवहुविध महाप्रेमविहृतिं
स्थितं पश्चाच्छायाद्वयमथ पुरो मूर्च्छयति माम्॥११२॥

अपि प्रेमोत्कण्ठ्यात्क्षितिषु विलुठत् स्वंवपुरिदं
करेण स्पृष्ट्वा मामनुचरयते राधा प्रिययुता।

अहो! वृन्दारण्येऽद्भुतमहिमसीमन्यपि सुदु-
घटाशाकाप्येकासमुदयति हा किं न भविता॥११३॥

कदा वा कालिन्दीतटनिकटवृन्दावनलता
निकुञ्जान्तः सुप्तंतदतिसरसं प्रेष्ठमिथुनम्।
मिथो गाढ़ाश्लिष्टंमृदु मृदु मया लालितपदं
मुदा वीक्षेस्वप्नेऽप्यहह सुखनिद्रागतमहम्॥११४॥

महाश्चर्यानन्तस्वस्वमहिमवलादेव सकला
धमस्याप्याशानां व्यतिकरमसम्भाव्यमपि मे।
कदा वृन्दारण्यं स्ववसतिकथामात्रनिवहत्
कृपापूरं सम्पूरयतु परतोऽप्यर्वुदजनेः॥११५॥

स्वकर्मस्रोतोभिः सततमभितश्चालितममुं
प्रभो! जीवं यत्र क्वचिदपि न यात्यन्तविवशम्।
परन्त्वेतावन्मे भवतु भवदुःखार्दितहदो-
ऽप्यविश्रान्तं वृन्दावनपदपरे वास्तुरसना॥११६॥

न सत्याख्ये लाके स्पृहयति मनो ब्रह्मपदवीं
न वैकुण्ठे विष्णोरपि मृमयते पार्षदतनुम्।
अपि श्रीवृन्दावनसरसभावोत्यवरतां
निवासे धन्यानां सुवहुकृमिजन्मापि मनुते॥११७॥

श्रीमद्वृन्दाविपिनकुसुमामोदवाही समीरो
यस्मिन् देशे सरति तदवच्छिन्नकृष्णप्लुतो वा।
येषां वृन्दावनमनुसकृद्ग्रीवया सन्नतं वा
तत्नेवास्तां मम खलु जनिर्हन्त तेषां गृहेऽपि॥११८॥

ममापि स्यादेतादृशमपि दिनं किन्नुपरमं
यदा वृन्दाटव्याः कथमपि कृतस्पर्शनमपि।
अहो! देहं दूरादपि समक्लोक्यापि जनुषां
मृहुर्धन्य मन्धे धरणिपतितः स्यां कृतनतिः॥११९॥

यदपि च मम नास्ति श्रीलवृन्दावनीये
महिमनि न समोऽर्द्धे हन्त विश्वासगन्धः।
यदपि मम न तस्मिन्नास्ति वासैष नापि
प्रसरतु मम तादृश्येव वाणी तथापि॥१२०॥

अचैतन्यप्रायं जगदिदमही सर्वविदपि
प्रथीयः श्रीवृन्दावनमहिमवीजाज्जनिमतिः।
अहो! भ्राम्यद्दष्ट्वा विविधसदसद्वर्त्मसु तथा
न पूर्णं स्याच्चित्तं परमिह निषेवे पदरजः॥१२१॥

हा वृन्दावन! हा महारसमय! प्रेमैकसम्पन्निधे!
हा राधापति! नागर! स्मरकलासाक्षिन्! मदेकप्रिय!
हा रासेश्वरविश्वमूर्च्छनलतावल्लीखगाद्यद्भुत
श्रीमद्वाप्रकृतेः परादपि पर त्वं मे गतिस्त्वंगतिः॥१२२॥

नमोऽस्तु वृन्दावनसुन्दराभ्यां
नमोऽस्तु वृन्दावनविभ्रमाम्याम्।
नमोऽस्तु वृन्दावनजीवनाभ्यां
नमोऽस्तु वृन्दावननागराभ्याम्॥१२३॥

नमोऽस्तु वृन्दावनसत्कृपाभ्यां
नमोऽस्तु वृन्दावनसद्रसाभ्याम्।

नमोऽस्तु वृन्दावनपूर्णताभ्यां
ममोऽस्तु वृन्दावनगोचराभ्याम्॥१२४॥

वृन्दारण्योत्तमं नास्ति नास्ति मत्तोऽधमः क्वचित्।
राधानाम्नः प्रभावेण यदि स्यान्मेलनं तयोः॥१२५॥

श्रीमवद्वृन्दावने सर्याः सकृन्नामैकमङ्गलम्।
सर्वाश्चर्यानन्तशक्ति मुखे विजयतां मम॥१२६॥

इति श्रीवृन्दावनशतकं समाप्तम्॥

______

आनन्दलहरी।

______

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
नचेदेवं देवोन खलु कुशलः स्पन्दितुमपि।
अतस्त्वामाराध्यां हरिहरविरिञ्च्यादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति॥१॥

तनीयांसं पांशुं तव चरणपङ्केरुहभवं
विरिञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम्।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसा
हरः संक्षुभ्यैनं भजति भसितोद्धूननविधिम्॥२॥

अविद्यानामन्तस्तिमिरमिहिरोद्दीपनकरी
जडानां चैतन्यं स्तवकमकरन्दश्रुतिशिरा।

दरिद्राणां चिन्तामणिगुणिनका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति॥३॥

त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः
त्वमेकानैवासि प्रकटितवराभित्यभिनया।
भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं
शरण्ये लोकानां तव हि चरणावेवनिपुणौ॥४॥

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननी
पुरा नारीभूत्वा स्मररिपुमपि क्षोभमनयत्।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम्॥५॥

धनुः पौष्पं मौर्व्वीमधुकरमयीपञ्चविशिखा
वसन्तः सामन्तो मलयमरुदायोधनरथः।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां
अपाङ्गात्ते लब्ध्वाजगदिदमनङ्गो विजयते॥६॥

क्वणत्काञ्चीदामा करिकरभकुम्भस्तनभरा
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना।
धनुर्वाणान् पाशं शृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका॥७॥

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे।
शिवाकारे मञ्चे परमशिवपर्य्यङ्कनिलयां
भजन्ति त्वां धन्याः कति च न चिदानन्दलहरीम्॥८॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि।
मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसि॥९॥

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
प्रपञ्चंसिञ्चन्तीपुनरपि रसाम्रायमहसा।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि॥१०॥

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरधः
प्रभिन्नाभिः शम्भोर्नवभिरितिमूलप्रकृतिभिः।
त्रयश्चत्वारिंशद्वसुदलकलाञ्जत्रिवलयः
त्रिरेखाभिः सार्द्धं तव भवनकोणाः परिणताः॥११॥

त्वदीयं सौन्दर्य्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पान्ते कथमपि विरिञ्चिप्रभृतयः।
यदालोक्योसुक्यादमरललना यान्ति सहसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम्॥१२॥

नरं वर्षीयांसं नयनविरसं नर्मसु जड़ं
तवापाङ्गालोके पतितमनुधावन्ति शतशः।
गलद्वेणीबन्धाः कुचकलसविश्रस्तसिचया
हठात् त्रुट्यत्काञ्चीविगलितदुकूला युवतयः॥१३॥

क्षितौषट्पञ्चाशद्विसमधिकपञ्चाशदुदके
हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले।

दिवि द्विषट् त्रिंशन्मनसि च चतुःषष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम्॥१४॥

शरज्जोत्स्नाशुभ्रां शशियुतजटाजूटमुकुटां
वरत्रासत्राणस्फटिकगुटिकापुस्तककराम्।
सकृन्नत्वा न त्वां कथमपि सतां संविदधते
मधुक्षीरद्राक्षामधुरिमधुरीणा भणितयः॥१५॥

कवीन्द्राणां चेतः कमलवनमालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम्।
विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरीं
गभीराभिर्वाग्भिर्विदधति सभारञ्जनमयीम्॥१६॥

सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः
वशिन्द्याद्याभिस्त्वां सह जनमि सञ्चिन्तयति यः।
स कर्त्ता काव्यानां भवति महतां भङ्गिशुभगैः
वचोभि र्वाग्देवीवदनकमलामोदमधुरैः॥१७॥

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः
दिवं सर्वामुर्वीभरुणिमणिमग्नांस्मरति यः।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति नगीर्वाणगलिकाः॥१८॥

मुखं विन्दुंकृत्वा कुचयुगमधस्तस्य तदधो
हरस्यार्द्धंघ्यायेद्धरमहिषि ते मन्मथकलाम्।
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम्॥१९॥

किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्वामाधत्ते हिमगिरिशिलामूर्तिमिव यः।
स सर्पाणां दर्पं शमयति शकुन्ताधिपद्रव
ज्वरप्नुष्टंदृष्ट्या सुखयति सुधासारसिचया॥२०॥

तड़िल्लेखातन्वीं तपनशशिवैखानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तव कलाम्।
महापद्माटव्यां मुदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाङ्गादलहरीम॥२१॥

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा
मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम्॥२२॥

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्द्धंशम्भोरपरमपि शङ्केहृतमभूत्।
तथाहि त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रंकुटिलशशिचूड़ालमुकुटम्॥२३॥

जगत् सूते धाता हरिरवति रुद्रः क्षययति
तिरस्कुर्वन्नेतान् स्वमपि वपुरीशस्तिरयति।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिवः
तवाज्ञामालम्ब्यक्षणचलितयोर्भूलतिकयोः॥२४॥

त्रयाणां देवानां त्रिगुणजनितानामपि शिवे
भवेत् पूजा पूजा तव चरणयो र्या विरचिता।

तथाहित्वत्पादोऽद्वहनमणिपीठस्य निकटे
स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमुकुटाः॥२५॥

विरिञ्चिः पञ्चत्वं ब्रजति हरिराप्नोति विरतिं
विनाशं कीनाशी भजति धनदो याति निधनम्।
वितन्द्रा माहेन्द्री विततिरपि सन्मीलतिदृशां
महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ॥२६॥

जपो जल्पः शिल्पंसकलमपि मुदाविरचनं
गतिः प्रादक्षिण्यभ्रमणमदनाद्या हुतविधिः।
प्रणामः सम्बेशः सुखमखिलमात्मार्पणदया
सपर्य्यापर्य्यायस्तव भवतु यन्मेविलसितम्॥२७॥

ददाने दीनेभ्यः श्रियमनिशमात्मानुसदृशी
ममन्दंसौन्दर्य्यस्तवकमकरन्दं विकिरति।
तवास्मिन्मन्दारस्तवकशुभगे यातु चरणे
निमज्जन्मज्जीवः करणचरणैः षट्चरणताम्॥२८॥

सुधामप्यस्वाद्य प्रतिभयजरामृत्युहरिणीं
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः।
करालं यत् क्षेडं कवलितवतः कालकलना
न शम्भोस्तन्मूलं जननि तव ताटङ्कमहिमा॥२९॥

किरीटं वैरञ्चं परिहरः पुरःकैटभभिदः
कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम्।
प्रणम्येष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते॥२०॥

चतुःषष्ट्यातन्त्रैः सकलमभिसन्धाय भवनं
स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रः पशुपतिः \।
पुनस्तन्निर्बन्धादखिलपुरुषार्थैकघटनात्
स्वतन्त्रन्ते तन्त्रं क्षितितलमवातीततदिदम्॥३१॥

शिवः शक्तिः कामः क्षितिरव रविः शीतकिरणः
स्मरोहंसः शत्रुस्तदनु च परामारहरयः।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते ते वर्णास्तव जननि नामावयवताम्॥३२॥

स्मरं योनिं लक्ष्मीं त्रितयमिदमाद्ये तव मनो
निधायैके नित्ये निरवधिमहाभोगरसिकाः।
जपन्ति त्वां चिन्तामणिगुणनिबद्धाक्षरलयाः
शिवाग्नौजुह्वन्तः सुरभिधृतधाराहुतिशतैः॥३३॥

शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं
तवात्मनं मन्ये भगवति भवात्मानमनघम्।
अतः शेषः शेषीत्ययमुभयसाधारणतया
स्थितः सम्बन्धो वां सरसपरमानन्दपदयोः॥३४॥

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायां नहि परम्।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवतिभावेन विभृषे॥३५॥

तवाज्ञाचक्रस्थंतपनशशिकोटिद्युतिधरं
परं शम्भुं वन्दे परिमिलितपार्श्वंपरचिता।

यमाराद्धुंभक्त्या रविशशिशुचीनामविषये
निरालोके लोको निवसति निजालोकभवने॥३६॥

विशुद्धौते शुद्धस्फटिकविशदं व्योमसदृशं
शिवं सेवे देवीमपि शिवसमानव्यसनिनीम्।
ययोः कान्त्या यान्त्या शशिकिरणसारूप्यसरणीं
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती॥३७॥

समुन्मीलत् सम्बित् कमलमकरन्दैकरसिकं
भजेहं सद्वन्दूं किमपि महतां मानसचरम्।
यदालापादष्टादशगुणितविद्यापरिणतिः
यदादत्ते दोषाङ्गुणमखिलमद्भ्यःपरइव॥३८॥

तड़ित्वन्तं शक्त्यातिमिरपरिपन्थिस्फुरण्या
स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम्।
तमश्यामं मेघं कमपिमणिपूरैकसरणिं
निषेवे वर्षन्तं हरमिहिरतप्तंत्रिभुवनम्॥३९॥

तव स्वाधिष्ठाने हुतवहमधिष्ठाय नियतं
तमीड़ेसम्बर्त्तं जननि जननीं ताञ्च समयाम्।
यदालोके लोकान् दहति महति क्रोधकलिने
दयार्द्रा ते दृष्टिः शिशिरमुपचारं रचयति॥४०॥

तवाधारे मूले सह समयया लास्यपरया
भवात्मानं वन्दे नवरसमहाताण्डवनटम्।
उभाभ्यामेताभ्यामुभयविधिमुद्धिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम्॥४१॥

गतै र्माणिक्यैक्यं गगनमणिभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः।
समीपे यच्छाया स्फुरणकिरणं चन्द्रशकलं
धनुः सौनासीरं किमिदमिति वध्नाति धिषणाम्॥४२॥

धुनोतु ध्वान्तंनस्तुलितदलितेन्दीवरदस्वं
धनं श्लक्ष्णं स्निग्धं चिकुरनिकुरुम्बं तव शिवे।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम्॥४३॥

वहन्तीसिन्दूरं प्रवलकचरीभारतिमिर
द्विषां वृन्दैर्वन्दीकृतमिव नवीनार्ककिरणम्।
तनोतु क्षेमं नस्तव वदनसौन्दर्य्यलहरी
परीवाहश्रोतः सरणिरिव सीमन्तसरणिः॥४४॥

अरालैःस्वाभाव्यादलिकरभसश्रीभिरलकैः
परीतं ते वक्त्रंपरिहसति पङ्केरुहरुचिम्।
दरस्मरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे
सुगन्धौ माद्यन्ति स्मरमथनचक्षुर्मधुलिहः॥४५॥

ललाटं लावण्यद्युतिविमलमाभाति तव यत्
द्वितीयं तन्मन्ये मुकुटशशिखण्डस्य शकलम्।
विपर्यासन्यासादभयमभिसन्धाय मिलितः
सुधालेपस्यतिः परिणमति राकाहिमकरः॥४६॥

भ्रुवौ भुग्नेकञ्चिद्भुवनभयभङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणे।

धनुर्मन्ये सव्येतरकरगृहीतं रतिपतिः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढ़ान्तरमिदम्॥४७॥

अहः सूतेऽसव्यं तव नयनमर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया।
तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः
समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम्॥४८॥

विशाला कल्याणीस्फुटरुचिरयोध्या कुवलयैः
कृपापारावारा किमपि मधुराभोगलतिका।
अवन्तीते दृष्टिर्वहुनगरविस्तारविजया
ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते॥४९॥

कवीनां सन्दर्भस्तवकमकरन्दैकरसिकं
कटाक्षव्याक्षोपभ्रमरकलभौ कर्णयुगलम्।
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला
वसूयासंसर्गादलिकनयनं किञ्चिदरुणम्॥५०॥

शिवे शृङ्गाराद्रातदितरमुखे कुत्सनपरा
सरोषागङ्गायां गिरिशनयने विस्मयवती।
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा॥५१॥

गते कर्णाभ्यर्णंगरुड़इव पक्षाणि दधती
पुरांभेत्तुश्चित्ते प्रशमरसविद्रावणफले।
इमे नेत्रे गोत्राधरपतिकुलोत्तंशकलिके
तवाकर्णाकृष्टस्मरशरविलासङ्कलयतः॥५२॥

विभक्तं त्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया
विभाति त्वन्नित्रत्रितयमिदमीशानदयिते।
पुनः स्रष्टुंदेवान् द्रुहिणहरिरुद्रानुपरतान्
रजःसत्वं विभ्रत्तमइतिगुणानां त्रयमिदम्॥५३॥

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः।
नदः शोणो गङ्गा तपनतनयेतिध्रुवममुं
त्रयाणां तीर्थानामुपनयसि सम्भेदमनघे॥५४॥

तवापर्णे कर्णेजपनयनपैशुन्यचकिता
विलीयन्ते तोये नियतमनिमेषाः सफरिकाः।
इयञ्च श्रौरर्द्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति॥५५॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्य तनये
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः॥५६॥

दृशाद्राघीयस्यादरदलितनीलोत्पलरुचा
दवीयांसन्दीनं स्रपय कृपया मामपि शिवे।
अनेनायं धन्यो भवति नच ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः॥५७॥

अरालं ते पाणियुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकम्।

तिरश्चीनो यत्र श्रवणपथमुल्लंघ्य विलसन्
अपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम्॥५८॥

स्फुरङ्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चकं शङ्क्षेतव मुखमिदं मन्मथरथम्।
यमारुह्य द्रुह्यत्यवनिरथमर्केन्दचरणं
महावीरौ मारः प्रमथपतये स्वं जितवते॥५९॥

सरस्वत्याः सूक्तीरमृतलहरीकौशलभिदः
पिवन्त्याः सर्वाणि श्रवणचुलुकाभ्यामविकलम्।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्टइव ते॥६०॥

असौ नासावंसस्तुहिनगिरिवंशध्वजपुटे
त्वदीयो मेदीयः फलतु फलमस्माकमुचितम्।
वहन्नन्तर्मुक्ताः शिशिरतरनिश्वासघटिताः
समृद्ध्यायस्तासां वहिरपि च मुक्तामणिधरः॥६१॥

प्रकृत्यारक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवक्ष्येसादृश्यं जनयतु कथं विद्रुमलता।
न विम्बं तद्विम्बप्रतिफलनलाभादरुणितं
तुलामध्यारोढुं कथमपि विलज्जेत कलया॥६२॥

स्मितज्जोत्स्नाजालं तव वदनचन्द्रस्य पिवतां
चकोराणामासीदतिरसतया चञ्चुजड़िमा।
अतस्ते शीतांशोरमृतलहरीरत्नरुचयः
पिवन्ति स्वच्छन्दंनिशि निशि भृशं काञ्चिकधिया॥६३

अविश्रान्तं पत्युर्गुणगणकथाम्रेड़नजड़ा
जवापुष्पच्छाया जननि! तव जिह्वाविजयते।
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा॥६४॥

रणे जित्वा दैत्यानपहृतशिरोस्त्रैः कवचिभिः
निवृत्तैश्चण्डांशुत्रिपुरहरनिर्मात्यविमुखैः
विरिञ्चीन्द्रोपेन्द्रैः शशिशकलकर्पूररुचिरा
विलुठ्यन्ते मातस्तव वदनताम्बू लकणिकाः॥६५॥

विपंच्या गायन्ती विविधमवदानं पशुपतेः
तयारब्धे वक्तुं चलितशिरसा साधुवदने।
त्वदीयै र्माधुर्य्यैरपलपिततन्त्रोकलरवां
निजाम्बीणां वाणी निचुलयति चोलेन निभृतम्॥६६॥

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरीशेनोदन्तं मुहुरधरपानाकुलतया।
करग्राह्यंशम्भोर्मुखमुकुरवृन्तंगिरिसुते
कथङ्कारं ब्रूमस्तवचिबुकमौपम्यरहितम्॥६७॥

मुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती
तव ग्रीवाधत्तेमुखकमलनालश्रियमियम्।
स्वतःश्वेताकालागुरुवहुलजम्बालमलिना
मृणालीलालित्यं ब्रजति तदधोहारलतिका॥६८॥

गले रेखास्तिस्त्रो गतिगमकगीतैकनिपुणे
विवादव्यालब्धस्वगुणगणसंख्याप्रतिभुवः।

विराजन्ते नानाविधमधुररागाङ्कुरभुवां
त्रयाणां ग्रामाणां स्थितिनियमसीमानइव ते॥६९॥

मृणालीमुद्वीणां तव भुजलतानां चतसृणां
चतुर्भिः सौन्दर्य्यं सरसिजभवस्तौति वदनैः।
नखेभ्यः सन्त्रस्यन् प्रमथदलनादन्धकरिपोः
चतुर्णांशीर्षाणां सममभयहस्तार्पणधिया॥७०॥

नखानामुद्योतैर्नवनलिनरागं विहसतां
कराणान्ते कान्तिं कथय कथयामः कथममी।
कदाचिद्वासाम्यं ब्रजतु कलया हन्त कमलं
यदि क्रीड़ल्लक्ष्मीचरणतललाक्षारुणदलम्॥७१॥

समन्देवि! स्कन्दद्विपवदनपीतं स्तनयुगं
तवेदं नः स्वेदं हरतु सततं प्रस्तुतमुखम्।
यदालोक्याशङ्काकुलितहृदयो हासजनकः
स्वकुम्भौहेरम्बः परिमृशति हस्तेन झटिति॥७२॥

अमू ते वक्षोजावमृतरसमाणिक्यकलसौ
न सन्देहस्पन्दो नगपतिपताके मनसि नः।
पिवन्तौ तौ यस्मादविदितबधूसङ्गमरसौ
कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ॥७३॥

वहत्यम्बस्तम्बेरमवदनकुम्भप्रसृतिभिः
समाबद्धां मुक्तामणिभिरमलां हारलतिकाम्।
कुवाभोगो विम्बाधररुचिभिरन्तः शरंलितां
प्रतापव्यामिश्रांपुरविजयिनः कीर्त्तिमिव ते॥७४॥

कुचौ सद्यः स्विद्यत्तुटघटितकुर्पासभिदुरौ
कषन्तौ दोर्मूलं कनककलसाभौ कलयताम्।
भयात् त्रातुं भङ्गादुदरमविलग्नं तनुभुवा
त्रिधा बद्धंदेवि! त्रिवलिनवलीवल्लिभिरिव॥७५॥

तव स्तन्यं मन्ये धरणिधरकन्येहृदयतः
पयः पारावारः परिहरति सारस्वतइव।
दयावत्या दत्तं द्रविड़शिशुवरास्वाद्य तव यत्
कवीनां प्रौढ़ानामजनि कमनीयं कवयिता॥७६॥

हरक्रोधज्वालावलिभिरवलीढेन वपुषा
गभोरे ते नाभीसरसि कृतझम्पो मनसिजः।
समुत्तस्थौ तस्मादचलतनये धूमलतिका
जनस्तां जानीते जननि तव रोमावलिरिति॥७७॥

यदेतत् कालिन्दीतनुभरतरङ्गाकृति शिवे
कृशे मध्ये किञ्चिज्झटिति तव तद्भाति सुधियाम्।
विमर्दादन्योन्यंकुचकलसयोरन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम्॥७८॥

स्थिरोगङ्गावर्तस्तनमुकुललोमावलिलता
तलारालं कुण्डं कुसुमशरतेजोहुतभुजः।
रते लीलागारं किमपि तव नाभीति गिरिजे
विलद्वारं सिद्धेर्गिरिश नयनानां विजयते॥७९॥

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
नमन्मूर्त्तेर्नाभौ वलिषु शनकैस्त्रट्यइव।

चिरन्ते मध्यस्य त्रुटिततटिनीतीरतरुणा
समावस्था हेम्नो भवतु कुशलं शैलतनये॥८०॥

गुरुत्वंविस्तारं क्षितिधरपतिः पार्वति निजान्
नितम्बादाकृप्य त्वयि हरणरूपेण विदधे।
अतस्ते विस्तीर्णा गुरुरयमशेषां वसुमतीं
नितम्बप्राग्भावः स्थगयति लघुत्वं नयति च॥८१॥

करीन्द्राणां शुण्डाकनककदलीकाण्डपटलीम्
उभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती।
सुवृत्ताभ्यां पत्यौ प्रणतिकठिनाभ्यां गिरिसुते
विजिग्ये जानुभ्यां विवुधकरिकुम्भद्वयमपि॥८२॥

पराजेतुं

रुद्रंद्विगुणशरगर्भौगिरिसुते
निषङ्गौते जङ्घेविषमविशिखोवाढ़मकृत।
यदग्रे दृश्यन्ते दशशरफलाः पादयुगले
नखाग्रच्छद्मानः सुरमुकुटशाणैकनिशिताः॥८३॥

श्रुतीनां मूर्द्धानो दधति तव यो शेखरतया
ममाप्येतौ मातः! शिरसिदयया धेहि चरणौ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः॥८४॥

हिमानीहन्तव्यं हिमगिरितटाक्रान्तरुचिरौ
निशायां निद्राणं निशि च परभागेण विषदौ।
परं लक्ष्मीपात्रं श्रियमभिसृजन्तौ प्रणयिनां
सरोजं त्वत्पादौ जननि! जयतश्वित्रमिह किम्॥८५॥

नमोवाचं ब्रूमोनयनरमणीयाय पदयो
स्तवास्मै द्वन्दाय स्फुटरुचिरमालक्तकरुचे।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकङ्केन्दितरवे॥८६॥

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणयुगलं ताड़यति ते।
चिरादन्तः शल्यं दहनकृतमुन्मीलितवता
तुलाकोटिक्वाणैः किलकिलितमीशानरिपुणा॥८७॥

पदन्ते कान्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सङ्गिःकठिनकमठीकर्परतुलाम्।
कथम्बा वाहुभ्यामुपयमनकाले पुरभिदा
तदादाय न्यस्तं दृषदि दयमानेन मनसा॥८८॥

नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभिः
तरूणां दिव्यानां हसत इव ते चण्डि! चरणौ।
फलानि स्वःस्थेभ्यः किशलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ॥८९॥

कदा काले मातः! कथय कलितालक्तकरसं
पिवेयं विद्यार्थी तव चरणनिर्णेजनक्षजम्।
प्रकृत्या मूकानामपिच कविताकारणतया
यदाधत्ते वाणीमुखकमलताम्बूलरसताम्॥९०॥

पदन्यासक्रीड़ापरिचयमिवालब्धुमनसः
चरन्तस्ते खेलां भवनकलहंसा न जहति।

सुविक्षेपे शिक्षांसुभगमणिमञ्जीररणित-
च्छलादाचक्षाणं चरणकमलं चारचरितम्॥९१॥

अराला केशेषु प्रकृतिसरलानन्दहसित
शिरीषाभा गात्रे दृषदिव कठोरा कुचतटे।
भृशं तन्वीमध्ये पृथुरसि वरारोहविषये
जगत्रातुंशम्भोर्जयति करुणा काचिदरुणा॥९२॥

पुररातेरन्तः पुरमसिंततस्त्वच्चरणयोः
सपर्या मर्यादातरुणकरुणा नाम सुलभा।
तथाह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः॥९३॥

गतास्ते पञ्चत्वं द्रुहिणहरिरुद्रेश्वरशिवाः
शिवसस्वच्छच्छायाघटितकपटप्रच्छदपटः।
त्वदीयानां भासां प्रतिफलनलाभारुणतया
शरीरीशृङ्गारो रसइव दृशां दोग्धि कुतुकम्॥९४॥

कलङ्कःकस्तूरीरजनिकरविम्बंजलमयं
कलाभिः कर्पूरैर्मरकतकरण्डंनिविड़ितम्।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निविड़यति नूनं तव कृते॥९५॥

स्वदेहोद्भूताभि र्घृणिभिरणिमाद्याभिरभितो
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः।
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
महासम्वर्ताग्निर्विरचयति नीराजनविधिम्॥९६॥

समुद्वूतस्थूलस्तनभरमुरश्चारुहसितं
कटाक्षेकन्दर्पाः कतिचनकदम्बद्युतिवपुः।
रहस्यं त्वद्भ्रान्तिं मनसि जनयन्तः समतुलां
भवत्यां ये भक्ताः परिणतिरमीषामियमुमे॥९७॥

कलत्रंवैधात्रं कति कति भजन्ते न कवयः
श्रियो देव्याः कींवा न भवति पतिः कैरतिधनैः।
महादेवं हित्त्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरुवकतरोरप्यसुलभः॥९८॥

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेः पत्नींपद्मां हरसहचरीमद्रितनयाम्।
तुरीया कापि त्वं दुरधिगमनिःसीममहिमा
महामाये विश्वं भ्रमयसि परब्रह्ममहिषि॥९९॥

सरस्वत्या लक्ष्म्याविधिहरिसपत्न्योर्विजयते
रतेः पातिब्रत्यं शिथिलयति रम्येण वपुषा।
चिरञ्जीवन्नेव क्षयितपशुपाशव्यतिकरः
परब्रह्माभिख्यं रसयति रसं त्वद्भजनवान्॥१००॥

निधे नित्यस्मेरे निरवधि गणेनीतिनिपुणे
निरायातज्ञाने नियमपरिचित्त्येकनिलये।
नियत्या निर्मुक्ते निखिलनियमान्तस्तुतिपदे
निरातङ्के नित्ये निशमय ममापि स्त तिमिमाम्॥१०१॥

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना।

स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि! वाचां स्त तिरियम्॥१०२॥

मञ्जीरशोभिचरणं बलिशोभिमध्यं
हाराभिरामकुचमम्बु रुहायताक्षम्।
लीलालकं हिममहीधरकन्यकाख्यं
ज्ञानस्वरूपमिदमीश्वरदीपदीप्यम्॥१०३॥

इति शङ्कराचार्यविरचितानन्दलहरी समाप्ताः।

____

श्रीकृष्णलहरी।

____

कदा वृन्दारण्ये विपुलयमुनातीरपुलिने
चरन्तं गोविन्दं हलधरसुदामादिसहितम।
अहो कृष्ण! स्वामिन् मधुरमुरलीमोहनविभो!
प्रसीदेतिक्रोशन्निमिषमिवनेष्यामिदिवसान्॥१॥

कदा कालिन्दीयै र्हरिचरणमुद्राङ्किततटैः
स्मरं गोपीनाथं कमलनयनं सस्मितमुखम्।
अहो पूर्णानन्दाम्बु जवदनभक्तकललनं “प्रसी”॥२॥

कदाचित् खेलन्तंव्रजपरिसरे गोपतनयैः
कुतश्चित् संप्राप्तं किमपि भयितं गोपललनम्।
अये राधे! किं वा हरसि रसिके! कञ्चुकयुगं “प्रसी”॥३॥

कदाचित् गोपीनां हसितचकितस्निग्धनयनं
स्थितं गोपीवृन्दे नटमिवनदं तं सललितम्।

सुराधीशैःसर्वैः स्तुतपदममुंश्रीहरिमिति “प्रसी॥४॥”

कदाचित्स्वच्छायाश्रितमभिमहान्तं यदुपतिं
समाधिस्वच्छायाञ्चल इवविलोलैकमकरम्।
अये! भक्तोदाराम्बुजवदन! मन्दस्य तनयं “प्रसी”॥५॥

कदाचित्कालिन्द्यान्तटतरुकदम्बे स्थितममुं
स्मयन्तंसाकूतं हृतवसनगोर्पीस्तनपटम्।
अहो! शक्रानन्दोम्बुजवदन! गोबर्द्धनधरं “प्रसी”॥६॥

कदाचित् कान्तारेविजयसखमिष्टं नृपसुतं
वदन्तं पार्द्धेत्वंनृपसुत! सखे! बन्धुरिति च।
भ्रमन्तं विश्रान्तं श्रितमुरसि रम्यं हरिममी“प्रसी”॥७॥

कदा द्रक्ष्वेपूर्णं पुरुषममलं पङ्कजदृशं
अहो! विष्णो! राधारसिक! मुरलीमोहन! विभो!
दयां कर्तुं दीने परमकरुणाब्धे समुचितं “प्रसी”॥८॥

इति कृष्णलहरी संपूर्णा।

____

गङ्गालहरो।

____

समृद्धं सौभाग्र्यंसकलवसुधायाः किमपि तन्
महैश्वर्य्यंलीलाजनितजगतः खण्डपरशोः।
श्रुतीनां सर्वस्वंसुकृतमथ मूर्त्तं सुमनसाम्
सुधासौन्दर्य्यन्तेसलिलमशिवं नः शमयतु॥१॥

स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि! वाचां स्त तिरियम्॥१०२॥

मञ्जीरमोभिचरणं बलिशोभिमध्यं
हाराभिरामकुचमम्बु रुहायताक्षम्।
लीलालकं हिममहीधरकन्यकाख्यं
ज्ञानस्वरूपमिदमीश्वरदीपदीप्यम्॥१०३॥

इति शङ्कराचार्यविरचितानन्दलहरी समाप्ताः।

____

श्रीकृष्णलहरी।

____

कदा वृन्दारण्ये विपुलयमुनातीरपुलिने
चरन्तंगोविन्दं हलधरसुदामादिसहितम।
अहो कृष्ण! स्वामिन् मधुरमुरलीमोहनविभो!
प्रसीदेतिक्रोशन्निमिषमिवनेष्यामिदिवसान्॥१॥

कदा कालिन्दीयै र्हरिचरणमुद्राङ्किततटैः
स्मरं गोपीनाथं कमलनयनं सस्मितमुखम्।
अहो पूर्णानन्दाम्बु जवदनभक्तकललनं “प्रसी”॥२॥

कदाचित् खेलन्तं व्रजपरिसरे गोपतनयैः
कुतश्चित् संप्राप्तं किमपि भयितं गोपललनम्।
अये राधे! किं वा हरसि रसिके! कञ्चुकयुगं “प्रसी”॥३॥

कदाचित् गोपीनां हसितचकितस्निग्धनयनं
स्थितं गोपीवृन्दे नटमिवनटं तं सललितम्।

सुराधीशैःसर्वैः स्तुतपदममुं श्रीहरिमिति “प्रसी॥४॥”

कदाचित्स्वच्छायाश्रितमभिमहान्तं यदुपतिं
समाधिस्वच्छायाञ्चल इव विलोलैकमकरम्।
अये! भक्तोदाराम्बुजवदन! मन्दस्य तनयं “प्रसी”॥५॥

कदाचित्कालिन्द्यान्तटतरुकदम्बे स्थितमभुं
स्मयन्तंसाकूतं हृतवसनगोपीस्तनंपटेम्।
अहो! शक्रानन्दाम्बुजवदन! गोवर्द्धनधरं “प्रसी”॥६॥

कदाचित् कान्तारे विजयसखमिष्टं नृपसुतं
चदन्तं पार्श्वेत्वंनृपसुत! सखे! बन्धुरिति च।
भ्रमन्तं विश्रान्तं श्रितमुरसि रम्यं हरिमसी “प्रसी”॥७॥

कदा द्रश्येपूर्णंपुरुषममलं पङ्कजदृशं
अहो! विष्णो! राधारसिक! मुरलीमोहन! विभो!
दयां कर्तुं दीने परमकरुणाब्धे समुचितं “प्रसी”॥८॥

इति कृष्णलहरी संपूर्ण।

____

गङ्गालहरी।

____

समृद्धं सौभाग्र्यंसकलवसुधायाः किमपि तन्
महेश्वर्य्यंलीलाजनितजगतः खण्डपरशोः।
श्रुतीनां सर्वस्वंसुकृतमथ मूर्त्तं सुमनसाम्
सुधासौन्दर्य्यन्तेसलिलमशिवं नः शमयतु॥१॥

दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां
द्रुतं दूरीकुर्वन् सकृदुपगतो दृष्टिसरणिम्।
अपि द्रागाविद्यद्रुमदलनदीक्षागुरुरिह
प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः॥२॥

स्मृतिं याता पुंसामकृतसुकृतानामपि च या
हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशसरणिः।
इयं सा ते मूर्त्तिः सकलसुरसंसेव्यसलिला
ममान्तः सन्तापं त्रिविधमथ तापञ्च हरताम्॥३॥

तवालम्बादंब! स्फुरदलघुगर्वेण सहसा
मया सर्वे

ऽवज्ञासरणिमथ नीताः सुरगणाः।
इदानीमौदास्यं यदि भजसि भागीरथि! तदा
निराधारोहा! रोदिमि कथय केषामिह पुरः॥४॥

अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा
विलोलद्वानीरं तव जननि! तीरं श्रितवताम्।
सुधातःस्वादीयः सलिलमिदमातृप्ति पिबतां
जनानामानन्दः परिहसति निर्वाणपदवीम्॥५॥

उदञ्चन्मात्सर्य्यस्फटकपट-हेरम्बजननी-
कटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः।
भवन्तु त्वङ्गन्तो हरशिरसि गङ्गातनुभुव
स्तरङ्गाः प्रोत्तुङ्गा दुरितभवभङ्गाय भजताम्॥६॥

प्रभाते स्नातीनां नृपतिरमणीनां कुचतटी
गतो यावन्मात! र्मिलति तब तोयैर्मृगमदः।

मृगास्तावद्वैमानिकशतसहस्रैःपरिवृता
विशन्ति स्वच्छन्दं विभलवपुषो नन्दनवनम्॥७॥

स्मृतं सद्यः स्वान्तं विरचयति शान्तं सकृदपि
प्रगीतं यत्पापं झटिति भवतापञ्च हरति।
इदं तङ्गङ्गेति श्रवणरमणीयं खलु पदं
मम प्राणप्रान्ते वदनकमलान्तर्धिलसतु॥८॥

यदन्तः खेलन्तः खलु बहुल सन्तोषभरिता
न काकानाकाधीश्वरनगरसाकाङ्क्षमनसः।
निवासाल्लोकानां जनिमरणशोकापहरणं
तदेतत्ते तीरं श्रमशमनधीरं भवतु नः॥९॥

नयत् साक्षाद्वेदैरपिगलितभेदैरवसितं
न यस्मिञ्जीवानां प्रसरति मनोवागवसरः।
निराकारं नित्यं निजमहिमनिर्वासिततमो
विशुद्धं यत्तत्त्वं सुरतटिनि तत्त्वं न विषयः॥१०॥

महादानैर्ध्यानैर्बहुविधवितानैरपि च यन्
न लभ्यं घोराभिः सुविमलतपोराजिभिरपि।
अचिन्त्यं तद्विष्णोः पदमखिलसाधारणतया
ददाना केनासि त्वमिह तुलनीया कथय?नः॥११॥

नृणामीक्षामात्रादपि परिहरन्त्या भवभयं
शिवायास्ते मूर्त्तेः क इह बहु मानं कथयतु?।
अमर्षम्लानायाः परममनुरोधं गिरिभुवो
विहाय श्रौकण्ठःशिरसि नियतं धारयति याम्॥१२॥

विनिन्द्यान्युन्मत्तैरपि च परिहार्य्याणि पतितै
रवाच्यानि व्रात्यैः सपुलकमपहास्यानि पिशुनैः।
हरन्ती लोकानामनवरतमेनांसि कियतां
कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे॥१३॥

स्खलन्तीस्वर्ल्लोकादवनितलशोकापहृतये
जटाजूटग्रन्थौयदसि विनिबद्धापुरभिदा।
अये निर्लोभानामपि मनसिलोभञ्जनयतां
गुणानामेवायं तव जननि! दोषः परिणतः॥१४॥

जड़ानन्धान् पङ्गन् प्रकृतिबधिरानुक्तिविकलान्
ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणान्।
निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपतितान्
नरानम्ब! त्रातुं त्वमिह परमं भेषजमसि॥१५॥

स्वभावस्वच्छानां सहजशिशिराणामयमपाम्
अपारस्ते मात! जर्गति महिमा कोऽपि जयति।
मुदा यं गायन्ति द्युतलमनवद्यद्युतिभृतः
समासाद्याद्यापि स्फुटपुलकसान्द्राः सगरजाः॥१६॥

कृतात् क्षुद्रात्पापाज्झटिति निःसन्तप्तमनसः
समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः।
अपि प्रायश्चित्तप्रसरणपथातीतचरिता-
न्नरानूरीकर्तुं त्वमिव जननि! त्वंविजयसे॥१७॥

निधानन्धर्म्माणां किमपि च विधानं नवमुदां
प्रधानं तीर्थानाममलपरिधानं त्रिजगतः।

समाधानं बुद्धेरथखलु तिरोधानमधियां
श्रीयामाधानं नः परिहरतु तापन्तव वपुः॥१८॥

पुरो धावं धावं द्रविणमदिराघूर्णितदृशं
महीपानां नानातरुतरुणचेष्टस्य नियताम्।
ममैवायं सन्तुः स्वहितशतहर्तुर्जडधियो
वियोगस्ते मातः! यदिहकरुणान्तः क्षणमपि॥१९॥

मरुल्लीलालोलल्लहरिलुलिताम्भोजपटल-
स्खलत्पांशुव्रातच्छुरणविरसत्कौङ्कुमरुचि।
सुरस्त्रीवक्षोजक्षरदगुरुजं बालजटिलं
जलन्ते जम्बालं मम जननजालं रमयतु॥२०॥

समुत्पत्तिः पद्मारमणपदपद्मामलतला
न्निवासः कन्दर्पप्रतिभटजटाजूटभवने।
अथायं व्यासङ्गो हतपतितविस्तारणविधे
नै कस्मादुत्कर्षस्तव जननि! जागर्त्ति जगतः॥२१॥

न गेभ्यो यान्तीनां कथय तटिनीनां कतमया
पुराणां संहर्तुः सुरधुनि! कपर्द्दोऽधिरुरुहे
कया वा श्रीभर्तुः पदकमलमक्षालि सलिलै
स्तुलालेशो यस्यां तव जननि! दीयेत कविभिः॥२२॥

विधत्तां निःशङ्कविरवधिसमाधिं विधिरहो
सुखं शेषे शूतां हरिरविरतं नृत्यति हरः।
कृतैः प्रायश्चित्तैरलमथ तपोदानयजनैः
सवित्रीकामानां यदि जगति जागर्ति भवती॥२३॥

अनाधिः सोहार्दांविगलितगतिः पुण्यगतिदां,
पतन्विश्वोद्वर्त्रीं,गदविदलितः सिद्धभिषजम्।
सुधासिन्धुं तृष्णाकुलितहृदयो मातरमयं
शिशुःसंप्राप्तस्त्वामहमिह निदध्यासमुचितम्॥२४॥

विलीनोऽयं वैवस्वतनगरकोलाहलभयो
गता दूता दूरं क्वचिदपि परेतान्मृगयितुम्।
विमानानां ब्रातोविदलयति वीथीर्दिविषदां
कथा ते कल्याणीयदवधि महीमण्डलमगात्॥२५॥

स्फुरत् कामक्रोधप्रवलरससञ्जातजटिल-
ज्वरज्वालाजालज्वलितवपुषां नः प्रतिदिनम्।
हरन्तां सन्तापं कमपि मरुदुल्लासिलहरी
छटाचञ्चत्पाथः कणसरणयोदिव्यसरितः॥३६॥

इदं हि ब्रह्माण्डं सकलभवनाभोगभवनं
तरङ्गैर्यस्यान्तर्लुठति परितस्तिन्दुकमिव।
सएष श्रीकण्ठप्रविततजटाजूटजड़ितो
जलानां सङ्घातस्तव जननि! तापं हरतु नः॥२७॥

चयन्ते तीर्थानि त्वरितमिह यस्योद्वतिविधौ
करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः।
इमं तं मामम्ब! त्वमियमनुकम्पार्द्रहृदया
पुनाना सर्वेषामघशमनदर्पन्दलयसि॥२८॥

श्वपाकानां व्रातैरमितविचिकित्साविगलितै
र्विमुक्तानामेके किल सदनमेनः परिषदाम्।

अहोमामुद्धर्तुंजननि! घटयन्त्या परिकरं
तव श्लाघाङ्कर्तुं कथमिव समर्थो नरपशुः॥२९॥

न कोऽप्येतावन्तं खलु समयमारभ्य मिलितो
यदुद्धारादाराद्भवति जगतो विस्मयभरः।
इतीमामोहान्ते मनसि चिरकालं स्थितवती
भयं सम्प्राप्तोऽहं सफलयितुमम्व प्रणयतः॥३०॥

श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं
कुतर्केष्वभ्यासः सततपरपैशून्यमननम्।
अपि श्रावंश्रावं मम तु पुनरेवंविधगुणा-
न्नतेऽन्यत् कोनाम क्षणमपि निरीक्षेत वदनम्॥३१॥

विशालाभ्यामाभ्यां किमिह नयनाभ्यां खल फलम्
नयाभ्यामालीढ़ा परमरमणीया तव तनुः।
अयं हि न्यक्वारो जननि! मनुजस्य श्रवणयो
र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकलः॥३२॥

विमानैः स्वच्छन्दं सुरपुरमयन्ते सुकृतिनः
पतन्ति द्राक् पापाजननि! नरकान्तः परवशाः।
विभागोऽयं तस्मिन्नुभयमथ मूर्त्तौ जनपदे
न यत्र त्वं लीलाशमितमनुजाशेषकलुषाः॥३३॥

अपि घ्नन्तोविप्रानविरतमुषन्तीगुरुसतीः
पिबन्तो मैरेयं पुनरपहरन्तश्च कनकम्।
विहाय त्वय्यन्ते तनुमतनुदानाध्वरजषा
मुपर्य्यं विक्रीडन्त्यखिलसुरसम्भावितपदाः॥३४॥

अलभ्यं सौरभ्यं हरति सततं यः सुमनसां
क्षणादेव प्राणानपि विहर शस्त्रक्षतभृताम्।
त्वदीयानां लीलाचलितलहरीणां व्यतिकरा
त्पुनीते सोऽपि द्रामहह! पवमानस्त्रिभुवनम्॥३५॥

कियन्तः सन्त्येके नियतमिह लोकार्थघटकाः
परे पूतात्मानः कति न परलोकप्रणयिनः।
सुखं शेतेमातः! तब खलु कृपातः पुनरयं
जगन्नाथः शश्वत्त्वयि विहितलोकद्वयमरः॥३६॥

भवत्या हिव्रात्याधमपतित पाषण्डपरिषत्-
परित्राणस्नेहःश्लथयितुमशक्यः खलु यथा।
ममाप्येवं प्रेम्णा दुरितनिवहेष्वम्ब जगति
स्वभावोऽयं सर्वैरपि खलु यतोदुष्परिहरः॥३७॥

प्रदोषान्तेनृत्यत्पुरमथनलीलोद्धतजटा
तदाभोगप्रेङ्खल्लहरिभुजसन्तानविधुतिः।
गलक्रोड़क्रीड़ज्जलडमरुढाङ्कारसुभग
स्तिरोधत्तां तापं चिदशतटिनीताण्डवविधिम्॥३८॥

सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमं
यदि त्वं मामम्ब त्यजसि समयेस्मिन्नविषये।
तदाविश्वासोऽयं त्रिभुवनतलादस्तमयते
निराधारा चेयं भवति खलुनिर्व्याजकरुणा॥३९॥

कपर्दादुल्लस्य प्रणयमिलदर्द्धाङ्गयुवतेः
पुरारेः प्रेक्षन्त्यो मृदुलतरसीमन्तसरणौ।

भवान्यासापत्न्यास्फुरितनयनं कोमलरुचा
करेणोत्क्षिप्तास्ते जननि! विजयन्तां लहरयः॥४०॥

प्रपद्यन्ते लोकाः कति न भवतीमत्रभवती-
मुपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि।
अये! तुभ्यंमात! र्मम तु पुवरात्मासुरधुनि!
स्वभावादेवत्वय्यमितमनुरागं विधृतवान्॥४१॥

ललाटे यालोकैरिह खलु सलीलं तिलकिता
तमो हन्तुं धत्ते तरुणतरमार्तण्डलनाम्।
विलुम्पन्ती सद्योविधिलिखितदुर्वर्णसरणिं
तदीया सा मृत्स्रा मम हरतु कृत्स्नामपि शुचम्॥४२॥

नरान्मूढांस्तत्तज्जनपदसमासक्तमनसो
हसन्तः सोल्लासं विकचकुसुमब्रातमिषतः।
पुनाना सौरभ्यैः सततमलिनोऽनित्यमलिनान्
सखायो नः सन्तु त्रिदशतटिनीतीरतरवः॥४३॥

यजन्त्येके देवान् कठिनतरसेवांस्तदपरे
वितानव्यासक्ता यमनियमरक्ताःकतिपये।
अहन्तु त्वन्नामस्मरणश्रुतकामस्त्रिपथगे
जगज्जालं जाने जननि! तृणजालेन सदृशम्॥४४॥

अधिश्रान्तंजन्मावधिसुकृतकर्मार्जनकृतां
सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः।
निरस्तालम्बानामकृतसुकृतानान्तु भवती
विनामुष्मिंल्लोके न परमवलोके हितकरः॥४५॥

पयः पीत्वा मात! स्तवसपदि यातःसहचरै
र्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमत्।
इदानीमुत्सङ्गे मृदुपवनसञ्चारशिशिरे
चिरादुन्निद्रंमां सदयहृदये स्थापय चिरम्॥४६॥

बिधान द्रागेव द्रढिमरमणीयं परिकरं
किरीटे वालेन्दुनियमय पुनःपन्नगगणैः।
न कुर्य्यास्त्वहेलामितरजनसाधारणधिया
जगन्नाथस्यायं सुरधुनि! समुद्धारसमयः॥४७॥

शरच्चन्द्रश्वेतां शशिशकलशोभालमुकुटां
करैःकुम्भाम्भोजे वरभयनिरासौ विदधतीम।
सुधासाराकाराभरणवसनां शुभ्रमकर
स्थितां त्वां ध्यायन्त्युदयति न तेषां परिभवः॥४८॥

दरस्मितसमुल्लसद्वदनकान्तिपूरामृतै
र्भवज्वलनभर्जिताननिशमूर्छयन्तीनरान्।
विवेकमयचन्द्रिकाचयचमत्कृतिं तन्वती
धनोतु तमसन्तनोः सपदि सन्तनोरङ्गना॥४९॥

मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः
स्रस्तं सान्द्रसुधारसै र्विदलितं गारुत्मतैर्ग्रावभिः।
वीचिक्षालितकालिमाहितपदे स्वर्लोककल्लोलिनि
त्वं तापं निरयाधुना ममभवव्यालावलीढ़ात्मनः॥५०॥

द्यूते नागेन्द्रकृत्तिंप्रमथगणफणिश्रेणिनन्दीन्दुमुख्यं
सर्वस्वं हारयित्वा त्वमथ पुरभिदि द्राक् पणीकर्तुकामे।

साकूतं हैमवत्या मृदुलहसितया वीक्षितायास्तवाम्ब!
व्यालोलल्लासितत्वाल्लहरिनवघटाताण्डवं नःपुनातु॥५१॥

विभूषिता नागरिपूत्तमाङ्गा सद्यःकृतानेकजनार्त्तिभङ्गा।
मनोहरोत्तुङ्गचलत्तरङ्गा गङ्गा ममाङ्गान्धमलीकरोतु॥५२॥

इमां पीयूषलहरीं जगन्नाथेन निर्मिताम्
यः पठेत्तस्य सर्वत्र जायन्ते जयसम्पदः॥५३॥

इति श्रीपण्डितराजाभिध श्रीजन्नाथकविरचितो
गङ्गालहरीस्तवराजः सम्पूर्णः।

____

** श्रुतबोधः।**

____

छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते।
तमहं सम्प्रवक्ष्यामि श्रुतबोधमविस्तरम्॥१॥

संयुक्ताद्यं दीर्घं सानुस्वारं विसर्गसंमिश्रम्।
विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन॥२॥

एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते।
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यजनं चार्द्धमात्रकम्॥३॥

यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि।
अष्टादश द्वितीये चतुर्थके पञ्चदश सार्य्या॥४॥

आर्य्यापूर्वार्द्धसमं द्वितीयमपि भवति यत्र हंसगते।
छन्दोविदस्तदानीं गीतिं ताममृतवाणि! भाषन्ते॥५॥

आर्य्योत्तरार्द्धतुल्यं प्रथमार्द्धमपि प्रयुक्तं चेत्।
कामिनि तामुपगीतिं प्रतिभाषन्ते महाकवयः॥६॥

आद्यचतुर्थं पश्चमकं चेत्।
यत्र गुरु स्यात् साक्षरपङक्तिः॥७॥

अगुरु चतुष्कं भवति र्गुरु द्वौ।
घनकुच्चयुग्मे! शशिवदनासौ॥८॥

तुर्यं पञ्चमक चेङ्यत्र स्याल्लघु बाले।
विद्वद्भिर्मृगनेत्रेप्रोक्तासा मदलेखा॥९॥

श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम्।
द्विचतुःपादयोर्ह्रस्वं सप्तमं दीर्घमन्ययो॥१०॥

आदिगतं तुर्यगतं पञ्चमकं चान्त्यगतम्।
स्यात् गुरू चेत् संकथितं माणवकाक्रीडमिदम्॥११॥

द्वितुर्य्यषष्ठमष्टमं गुरु प्रयोजितं यदा।
तदा निवेदयन्ति तां बधा नगस्वरूपिणीम्॥१२॥

सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदै र्वेदैः।
विद्वद्वृन्दैर्वीणावाणि! व्याख्याता सा विद्युन्माला॥१२॥

तन्वि! गुरु स्यादाद्यचतुर्थं पञ्चमषष्ठं चान्त्यमुपान्त्यम्!
इन्द्रियवाणैःयत्र विरामः सा कथनीया चम्पकमाला॥१४॥

चम्पकमाला यत्र भवेद् अन्त्यविहीना प्रेमनिधे!
छन्दसि दक्षाये कवय स्तन्मणिमध्यं ते ब्रुवते॥१५॥

मन्दाक्रान्तान्त्ययतिरहिता सालङ्कारे यदि भवति या।
सा विद्वद्भिर्ध्रुवमभिहिता ज्ञेया हंसी कमलवदने!॥१६॥

ह्रस्वोवर्णो जायते यत्र षष्ठः कम्बुग्रीवो तद्वदेवाष्टमान्त्यः
विश्रान्तः स्यात्तन्विवेदैस्तुरङ्गैः तांभाषन्तेशालिनींछान्दसीयाः
आद्यचतुर्थमहीननितम्बे सप्तमकं दशमञ्चतथान्त्यं
यत्र गुरु प्रकटस्मरसारे तत् कथितं ननु दोधकवृत्तं १८

यस्यास्त्रिषट्सप्तममक्षरं स्यात् ह्रस्वंसुजंधे नवमञ्चतद्वत्
गत्या विलज्जीकृतहंसकान्ते तामिन्द्रवज्रां ब्रुवते कवीन्द्राः १९

यदीन्द्रवज्राचरणेषु पूर्वे भवन्ति वर्णा लघवः सुव्रण
अमन्दमाद्यन्मदने तदानीमुपेन्द्रवज्रा कथिता कवीन्द्रैः२०

यत्र द्वयोरप्यनयोस्तु पादा भवन्ति सीमन्तिनि चन्द्रकान्ते
विद्वद्भिराद्यैःपरिकीर्तिता सा प्रयुज्यतामित्युपजातिरेषा २१

आख्यानकीसा प्रकटीकृतार्थे यदीन्द्रवज्राचरणः पुरस्तात्
उपेन्द्रवज्राचरणास्त्रयोऽन्येमनीषिणोक्ता विपरीतपूर्वा २२

आद्यमक्षरमतस्तृतीयकं सप्तमञ्च नवमं तथान्तिमं
दीर्घमिन्दुमुखि यत्र जायते तां वदन्ति कवयो रथोद्धातां २३

अक्षरञ्च नवमं दशमञ्च व्यत्ययाद् भवति यत्र विनीते
प्राक्तनैः सुनयने यदि सैव स्वागतेति कविभिः कथितासी२४

सतृतीयकषष्ठमनङ्गरते नवमं विरतिप्रभवं गुरु चेत्
घनपीनपयोधरभारनते ननु तोटकवृत्तमिदं कथितं २५

यदि तोटकस्य गुरु पश्चमकं विहितं विलासिनि तदक्षरकं
रससंख्याकं गुरु न चेदबले प्रमिताक्षरेति कविभिः कथिता २६

यदाद्यंचतुर्थं तथा सप्तमं स्यात्तथैवाक्षरं ह्रस्वमेकादशाद्यं
शरच्चन्द्रविद्वेषिवक्त्रारविन्दे तदुक्तं कविन्द्रैर्भुजङ्गप्रयातं २७

अयि कृशोदरि यत्र चतुर्थकं गुरु च सप्तमकं दशमं तथा
विरर्तिगञ्च तथैव सुमध्यमे द्रुतविलम्बितमित्युपदिश्यते २८

प्रथमाक्षरमाद्यतृतीययो र्द्रुतविलम्बितकस्य हि पादयोः
यदि नास्ति तदा कमलेक्षणे भवतिसुन्दरि सा हरिणीप्लुता २९

उपेन्द्रवज्राचरणेषु सन्ति चेदुपान्त्यवर्णा लघवः परेकृताः
मदोल्लसद्भ्रूजितकामकार्मुके वदन्ति वंशस्थविलं बुधास्तदा ३०

यस्यामशोकांकूरपाणिपल्लवे वंशस्थपादा गुरुपूर्ववर्णकाः
तारुण्यहेलारतिरङ्गलालसे तामिन्द्रवंशां कवयः प्रचक्षते ३१

यस्यां प्रिये प्रथमकमक्षरद्वयं तुर्यं तथा गुरु नवमं दशान्तिमं
सान्त्यंभवेद्य्तिरपिचेद्युगग्रहैः सालक्ष्यताममृतरुतेप्रभावती३२

आद्यंचेत् त्रितयमथाष्टमं नवान्त्यं
द्वावन्तौ गुरुविरती सुभाषिते स्यात्
विश्रामो भवति महेशनेत्रदिग्भि
र्विज्ञेया ननु सुदति प्रहर्षिणी सा ३३

आद्यंद्वितीयमपि चेद् गुरु तच्चतुर्थं
यत्राष्टमञ्च दशमान्त्यमुपान्त्यमन्त्यं
अष्टाभिरिन्दुवदने विरतिश्च षड्भिः
कान्ते वसन्ततिलकं किल तं वदन्ति ३४

प्रथममगुरु षट्कं विद्यते यत्र कान्ते
तदनु च दशमं चेदक्षरं द्वादशान्त्यं
गिरिभिरथ तुरङ्गै र्यत्रकान्ते विरामः
सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा २५

सुभुखिलघवः पञ्च प्राच्यास्ततो दशमान्तिमः
तदनु ललितालापे वर्णौतृतीयचतुर्थकौ
प्रभवति पुनर्यत्रोपान्त्यः स्फुरन्कनकप्रमे
यतिरपि रसैर्वेदैरश्वैःस्मृता हरिणीति सा ३६

यदि प्राच्यो ह्रस्वःकलितकमले पञ्च गुरवः
ततो वर्णाः पञ्च प्रकृतिसुकुमाराङ्गि लघवः
त्रयोन्ये चोपान्त्याः सुतमुजघने भोगसुभगे
रसैरीशैर्यस्यां भवति विरतिः सा शिखरिणी ३०

द्वितीयमलिकुन्तले गुरु षडष्टमद्वादशं
चतुर्दशमथ प्रियेगुरु गभीरनाभीह्रदे
सपञ्चदशमान्तिमं तदनु यत्र कान्ते यतिः
गिरीन्द्रफणभृत्कुलैर्भवति सुभ्रुपृथ्वीति सा ३८

चत्वारः प्राक् सुतनु गुरवो द्वौदशैकादशौ चेन्
मुग्धे वर्णौतदनु कुमुदाभोदिनि द्वादशान्त्यौ
तद्वच्चान्त्यौयुगरसहयै र्यच्च कान्ते विरामो
मन्दाक्रान्तां प्रवरकवयस्तन्वि तां सङ्गिरन्ते३९

आद्यंयत्र गुरुत्रयं प्रियतमे षष्ठं ततश्चाष्टमं
सन्त्ये कादशतस्त्रयस्तदनु चेदष्टादशादद्यान्तिमाः
मार्तण्डैर्मुनिभिश्चयत्र विरतिः पूर्णेन्दु विम्बानने
तद्वृत्तं प्रवदन्ति काव्यरसिकाः शार्दूलविक्रीडितं ४०

चत्वारो यत्र वर्णाः प्रथममलघवः षष्ठकः सप्तमोऽपि
द्वौ तद्वत् षोडशाद्योमृगमदतिलके षोडशान्त्यौ तथान्त्यौ

रम्भास्तम्भोरुकान्ते मुनिमुनिमुनिभिर्दश्यते चेद्विरामो
बाले वन्द्यैः कवीन्द्रैःसुतनु निगदिता स्रग्धरा सा प्रसिद्धा ४१

इति श्रीकालिदासविरचितः श्रुतबोधः सम्पूर्णः॥

आर्य्याप्रासप्तशती।

<MISSING_FIG href="../books_images/U-IMG-1729069088161001-removebg-preview.png"/>

पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति।
अङ्कुरितइव मनोभूर्यस्मिन् भस्मावशेषोऽपि॥१

मा वम संवृणु विषमिदमिति सातङ्कं पितामहेनोक्तः।
प्रातर्ज्जयति सलज्जः कज्जलमलिनाधरः शम्भुः॥२

जयति प्रियापदान्ते गरलग्रैवेयकः स्मरारातिः।
विषमविशिखे विशन्निव शरणं गलबङ्घकरवालः॥३

जयति ललाटकटाक्षः शशिमौलेः पक्ष्मलः प्रियाप्रणती।
धनुषि स्मरेण निहितः सकण्टकः केतकेषुरिव॥४

जयति जटाकिञ्जल्कं गङ्गामधु, मुण्डवलयवीजमयं।
गलगरलपङ्कसम्भव मम्भोरुहमाननं शम्भोः॥५

सन्ध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन्।
गौरीमुखार्पितमना विजयाहसितः शिवो जयति॥६

प्रतिविम्बितगौरीमुखविलोकनोत्कम्पशिथिलकरगलितः।
स्वेदभरपूर्य्यामाणः शम्भोः सलिलाञ्जलि र्जयति॥७

प्रणयकुपितप्रियापदलाक्षासन्ध्यानुबन्धमधुरेन्दुः।
तद्वलयकनकनिकषग्रावग्रीवः शिवो जयति॥८

पूर्णनस्वेन्दु र्द्विगुणितमञ्जीरा प्रेमशृङ्खला जयति।
हरशशिलेखा गीरिचरणाङ्गुलिमध्यगुल्फेषु॥९

श्रीकरपिहितं चक्षुः सुखयतु नः पुण्डरीकनयनस्य।
जघनमिवेक्षितुमागतमञ्जनिभं नाभिसुषिरेण॥१०

श्यामं श्रीकुचकुङ्कु ममञ्चरितमुरो मुरद्विषो जयति।
दिनमुखनभ इव कौस्तुभविभाकरो यद्विभूषयति॥११

प्रतिविम्बितप्रियातनु सकौस्तुभंजयति मुरभिदो वक्षः।
पुरुषायितमभ्यस्यति लक्ष्मीर्यद्वीक्ष्यमुकुरमिव॥१२

केलिचलाङ्ग लिसञ्चितलक्ष्मीनाभि र्मुरद्दिषश्चरणः।
स जयति येन कृता श्रीरनुरूपा पद्मनाभस्य॥१३

रोमावली मुरारेः श्रीवत्सनिषेविताग्रभागा वः।
उन्नालनाभिनलिनच्छायेवोत्तापमपहरतु॥१४

आदाय सप्ततन्त्रीचितां विपञ्चीमिव त्रयींगायन्।
मधुरं तुरङ्गवदनोचितं, हरि र्जयति हयमूर्द्धा॥१५

स जयति महावराहो जलनिधिजठरे चिरं निममापि।
येनान्त्रैरिव सह फणिगणै र्बलादुद्धृता धरणी॥१६

ब्रह्माण्णकुम्भकारं भुजगाकारं जनार्द्दनं स्तौमि।
स्फारे यत्फणचक्रे धरा, शरावश्रियं वहति॥१७

चण्डोजङ्घाकाण्डः शिरसा चरणस्पृशि प्रिये जयति।
शङ्करपर्य्यन्तजितो वीरस्तम्भः स्मरस्येव॥१८

उन्नालनाभिपङ्केरुह इव येनावभाति शम्भुरपि।
जयति पुरुषायितायास्तदाननं शैलकन्यायाः॥१९

अङ्गनिलीनगजाननशङ्काकुलबाहुलेयहृतवसनौ।
सस्मितहरकरकलितौहिमगिरितनयास्तनौ जयतः॥२०

कण्ठोचितोपि हुङ्कृतिमात्रनिरस्तः पदान्तिके पतितः।
यस्याश्चन्द्रशिखः स्मरभल्लनिभो जयति सा चण्डी॥२१

देवेऽर्पितवरणसृजि बहुमाये वहति कैटभीरूपं।
जयति सुरासुरहसिता लज्जाजिह्मेक्षणा लक्ष्मीः॥२२

तानसुरानपि हरिमपि तं वन्दे कपटकैटभीरूपं।
यै र्यहिम्बाधररसलुब्धैःपीयूषमपि मुमुचे॥२३

तल्पीकृताहिरगणितगरुडो हाराभिहतविधि र्जयति।
फणशतपीतश्वासो रागान्धायाः श्रियः केलिः॥२४

स्मेराननेन हरिणा सस्पृहमाकारवेदिना कलितं।
जयति पुरुषायितायाः कमलायाः कैटभीध्यानं॥२५

कृतकान्तकेलिकुतुकश्रीशीतश्वाससेकनिद्राणः।
घोरितविततालिरुतो नाभिसरोजे विधि र्जयति॥२६

एकरद, द्वै मातुर, निस्त्रिगुण, चतुर्भुजापि पञ्चकर।
जय वरानतमुख सप्तच्छदगन्धिमदाष्टतनूतनय॥२७

मङ्गलकलशद्वयमयकुम्भमदम्भेन भजत गजवदनं।
यद्दानतोयतरलै स्तिलतुलनालम्बि रोलम्बैः॥२८

याभिरनङ्गः साङ्गीकृतः स्त्रियोऽस्त्रीकृताश्च येन।
वाम्याचारप्रवणौ प्रणमत तौ कामिनोकामौ॥२९

विहितघनालङ्कारम् विचित्रवर्णीवलीमयस्फुरणम्।
शक्रायुधमिव वक्रम् वल्मीकभुवं मुनिं नौमि॥३०

व्यासगिरांनिर्य्यासं सारं विश्वस्य भारतं वन्दे।
भूषणतयैव संज्ञां पदाङ्कितां भारतीवहती॥३१

श्रीरामायणभारतवृहत्कथानां कवीन् नमस्कुर्म्मः।
तिस्रोताइव सरसा सरस्वती स्फुरति यै र्भिन्ना॥३२

** सति काकुत्स्यकुलोन्नतिकारिणि रामायणे किननरकावेन।
रोहति कुल्यागङ्गापूरे किं बहुरसे वसति॥३३**

अतिदीर्घजीविदोषाद् व्यासेन यशोऽपहारितं हन्त।
कैर्नोच्येतगुणाढ्यःस एवजन्मान्तरापन्नः॥३४

साकूतमधुरकोमलविलासिनीकण्ठकूजितप्राये।
शिखासमयेऽपि मुदेरतलीलाकालिदासोक्तौ॥३५

भवभूतेः सम्बन्धाद भूधरभूरेव भारती भाति।
एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा॥३६

** जाता शिखण्डिनी प्राग यथा शिखण्डी तथावगच्छामि।
प्रागल्भ्यमधिकमाप्तुम् वाणी वाणो बभूवेति॥३७**

यं गणयन्ति गुरोरनु यस्यास्तेऽधर्म्मकर्म्म सङुचितं।
कविमह मुशनसमिव तं तातं नीलाम्बरं वन्दे॥३८

सकलकलाः कल्पयितुम् प्रभुः प्रवन्धस्य कुमुट्वन्धोश्च।
सेनकुलतिलकभूपति रेको राकाप्रदोषश्च॥३९

काव्यस्याक्षरमैत्रीभाजो नच कर्कशा नच ग्राम्याः।
शव्दा अपि सत्पुरुषा अपि साधव एवार्थबोधाय॥४०

वंशे घुणइव न विशति दोषो रसभाविते सतां मनसि।
रसमपितु न प्रतीच्छति बहुदोषः सन्निपातीव॥४१

विगुणोपि काव्यबन्धः साधूनामाननं गतः स्वदते।
फुत्कारोपि सुवंशै मुद्यमानःश्रुतिं हरति॥४२

स्वयमपि भूरिच्छिद्रश्चापलमपि सर्वतोमुखं तन्वन्।
विततस्कषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः॥४३

अन्तर्गूढ़ानर्थीन् व्यञ्जयतः प्रसादरहितस्य।
सन्दर्भस्य नदस्य च न रसः प्रीत्यै रसज्ञानाम्॥४४

यदसेवनीयमसतामसृतप्रायं सुवर्णविन्यासं।
सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः॥४५

सत्कविरसनाशूर्पी निष्कषतरशब्दशालिपाकेन।
तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी॥४६

अकलितशब्दालङ्कृतिरनुकूला सुवलितपदनिवेशापि।
अभिसारिकेव रमयति सूक्तिः सोत्कर्षशृङ्गारा॥४७

अध्वनि पदग्रहपरं मदयति हृदयं नवा नवा श्रवणं।
काव्यमभिज्ञसभायांमञ्जीरं केलिवेलायाम्॥४८

आस्वादितदयिताधररसस्यैव सूक्तयो मधुराः।
अकलितरसालमुकुलो न कोकिलः कलमुदं चयति॥४९८

बालाकटाक्षसूत्रित मसतीनेत्रत्रिभागकृतभाष्यम्।
कविमाणवको दतोव्याख्यातमधीयते भावम्॥५०

मसृणपदरीतिगीताः सज्जनहृदयाभिसारिकाः सुरसाः।
मदनाद्वयोपनिषदो विशदा गोवर्द्धनस्यार्य्यः॥५१

वाणी प्राकृतसमुचितरसा बलेनैव संस्कृतं नीता।
निम्नानुरुपतीरा कलिन्दकन्येव गगणतलं॥५२

आर्य्या सप्तमतीयं प्रगल्भमनसामनादृता येषाम्।
दूतीरहिता इव तेन कामिनीमनसि निविशन्ते॥५९

रतरीतिवीतरसना प्रियेव शुद्धापिवा मुदे सरसा।
अरसा सालङ्कृतिरपि न रोचते शालभञ्जिव॥५४

अवधि दिनावधि जीवाः प्रसौद जीवन्तु पथिकजनजायाः।
दुर्ल्लङ्घ्यवर्त्मशैलीस्तनौ पिधेहि प्रियापालि॥५५

अतिवत्सला सुशीला सेवाचतुरा मनोनुकूला च।
अजनि विऩीता गृहिणी सपदि सपत्नीस्तनोद्भेदे॥५६

अयि कुल निचुलमूलोच्छेदनदुःशीतवीचिवाचाले।
बकविघस पङ्कसारा न चिरात् कावेरि भवितासि॥५७

अयि विविधवचनरसने ददासि चन्द्रं करे समानीय।
व्यसनदिवसेषु दूति क्व पुनस्त्वंदर्शनीयासि॥५८

अस्तम्नानिर्लोको लाञ्छनमुपदिशतु हीयतामोजः।
तदपि न मुञ्चति स त्वां वसुधाच्छायामिव सुधांशुः॥५९

अतिचापलं वितन्वन् अन्तर्थि विशन् निकामकाठिन्यः।
मुखरयसि स्वयमेतां सद्वृत्तां शङ्कुरिव घण्ठाम्॥६०

अङ्गेषु जीर्य्यति परं खञ्जनयूनो मनोभवप्रसरः।
न पुनरनन्तर्गमितनिधिनि धरामण्डले केलिः॥६१

अन्धत्वमन्धसमये वधिरत्वं वधिरकाल आलम्ब्य।
श्रीकेशवयोः प्रणयीप्रजापति र्नाभिवास्तव्यः॥६२

अयि कोशकार कुरुषे वनेचराणाम् पुरो गुणोद्गारम्।
यन्नविचार्य्यविदारितजठरस्त्वं स खलु ते लाभः॥६३

अशणितमहिमा लङ्घितगुरुरधनेहः स्तनन्धयविरोधी।
इष्टाकीर्त्तिस्तस्या स्त्वयि रागः प्राणनिरपेक्षः॥६४

अपराधादधिकं मां, व्यथयति तव, कपटवचनरचनेयम्।
शस्त्राघातो न तथा सचीव्यधवेदना यादृक्॥६५

असतीलोचनमुकुरे किमपि प्रतिफलति यन्मनोवर्त्ति।
सारस्वतमपि चक्षुः सतिमिरमिव तन्नलक्षयति॥६६

अन्यमुखे दुब्र्बादो यः प्रियमुखे स एव हि परिहासः।
इतरेन्धनंजन्मा यो धूभः सोऽगुरुसम्भवो धूपः॥६७

अयि सुभम कुतुकतरला विचरन्ती सौरभानुसारेण।
त्वयि मोहाय वराकीपतिता मधुपीव बिषकुसुमे॥६८

अयिमुग्धगन्धसिन्धुरशङ्गामात्रेण दत्तिनोदलिताः।
उपभुञ्जते कररयून् केवलमिह मत्कुणाः करिणः। ६९

अतिविनयवामनतनु र्विलङ्घते गेहदेहलीं न बधूः।
अस्याः पुनरारभटीं कुसुमवाटो विजानाति॥७०

अन्तर्गतै र्गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः।
सगुणो गीतेर्यदसीवनेचरं हरिणमपि हरति॥७१

अलुलितसकल विभूषाम् प्रातर्बालां विलोक्य मुदिताभिः।
प्रियशिरसि वीक्ष्ययावकमथ निश्वसितं सपत्नीभिः॥७२

अयि लज्वावति, निशीथरतनिःसहाङ्गि, सुखसुप्ते।
लोचनकोकनदच्छदमुन्मोलय सुप्रभातं ते॥७३

अमिलितवदनमपीड़ितवक्षोरुहमतिविधुरजघनोरु।
शपथंशतेन भुजाभ्यां केवलमालिङ्गितोऽस्मि तया॥७४

अतिपूजिततारेयं दृष्टिश्रुतिलङ्घनक्षमा सुतनु।
जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति॥७५

अलमविषयभयलज्जावञ्चितमात्मानमियमियत्समयम्।
नवपरिचितदयितगुणा शोचति नालपति शयनसखीः॥७६

अनुरागवर्त्तिनी तव विरहेणीग्रेण सा गृहीताङ्गी।
त्रिपुररिपुणेव गौरीवरतनुरर्द्धावशिष्टैव॥७७

अन्यप्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः।
तद्गतिमिश्छन्त्यः सखि भवन्ति विफलश्रमा हास्याः॥७८

अधिकः सर्व्वेभ्योयः प्रियः प्रियेभ्यो हृदि स्थितः सततम्।
संलुठति विरहे जीवः कण्ठेहस्यास्त्रमिव सम्भोगे॥७९

अनयनपथे प्रिये न तु व्यथा यथा दृश्य एव दुष्पापे।
म्लानैव केवलं निशि तपनशिला वासरे ज्वलति॥८०

अजनितप्रेमैव वरम् न पुनः सञ्जातविघटितप्रेम।
उत्पाटितनयन स्ताम्यति यथा न तथा जातान्धः॥८१

अविभ्याव्योमित्रेऽपि स्थितिमात्रेणैव नन्दयन् दयितः।
रहसि व्यवदेशादय मर्थ वाराज के भोग्यः॥८२

अश्रौषीरपराधान् तथ्यमिदं कथय मन्मुखं वीक्ष्य।
अभिधीयते न किं यदि न मानचौराननः कितवः॥८३

अन्येन्यमनुश्रोतसमवादयान्यत्तटात्तटं भजतोः।
उदितेऽर्केपि तन्माघस्नानं प्रसमाप्यते यूनोः॥८४

अयि चूतश्रीफलभरनताङ्गि विषग्विकाशिसौरभ्ये।
श्वपचघटखर्पराङ्का त्वं किल फलितापि विफलैव॥८५

अञ्जलिरकारि लोकै र्म्नानिमवाप्यैरव रञ्जिता जगती।
सन्ध्यायाइव बसतिः स्वल्पापि सखे सुखायैव॥८६

अगृहीतानुनयां मामुपेक्ष्यासख्येगता वतैकाहम्।
प्रसभं करोषि मयि च त्वदुपरि वपुरद्यमोक्ष्यामि॥८७

अस्थिररागः कितवः मानीचपलो विदूषक स्त्वमसि।
मम सख्याः पतसि करे पश्यामि यथा ऋजु र्भवसि॥८८

अकरुण कारतमनसो दर्शितनीरा निरन्तरालेयं।
त्वामनुधावति विमुखं गङ्गेव भगीरथं दृष्टिः॥८९

अन्तःकलुषस्तम्भितरसया भृङ्गारनालयेव मम।
अप्युन्मुखस्य विहिता वरवर्णिनि त त्वया तृप्तिः॥९०

अयि सरले सरलतरो र्मदमुदितद्विपकपोलपालेश्च।
अन्योन्यमुग्धगन्धः व्यतिहारः कषणमाचष्टे॥९१

अस्याः कररुहखण्डितकाण्डपटप्रकटनिर्गता दृष्टिः।
पटविगलितनिष्कलुषा स्वदते पीयूषधारेव॥९२

अस्याः पतिगृहगमने करोति माताऽश्रुपिच्छिलां पदवीम्।
मुणगर्विता पुनरसौहसति शनैः शुष्करुदितमुखी॥९३

अङ्के निवेश्य कूणितदृशःशनैरकरुणेति शंसन्त्याः।
मोक्ष्यामि वेणीवन्धं कदा नखै र्गन्धतैलाक्तैः॥९४

अलमनलङ्कृतिसुभगे भूषणमुपहासविषयमितरासाम्।
कुरुषे वनस्पतिलताप्रसूनमिव वन्ध्यवल्लीनाम्॥९५

अजुधा अजङ्गमा अपि कयापि गत्या परं पदमवाप्ताः।
मन्त्रिपइत किर्त्तान्ते नयबलगुलिका इव जनेन॥६६॥

अतिशीतशीतलतया लोकेषु सखीमृदुप्रतापा नः।
क्षणवामप्रदहामानः प्रतापमस्याः प्रियो वेद॥६७॥

अन्यास्वपिगृहिणीति ध्यायन्रभिलषितमाप्नोति।
पश्यन् पाषाणमयीःप्रतिमाद्रव देवतात्वेन॥६८॥

अनुपेत्य नीचभावं बालक परितोगभीरमधुरस्य।
अस्याः प्रेम्णः पात्नन भवति सरितो रसस्येव॥६६॥

अधिवासनमाधेयं गुणमार्गमपेक्षते न च ग्रथनां।
कलयति युवजनमौलिं केतककलिकास्वरूपेण॥१००॥

अपनीतनिखितापां सुभग स्वकरेण विनिहितां भवता।
पतिशयनवारपालं ज्वरीषधिं वहति सा मालां॥१०१॥

अमपितगुणेन सुन्दर कृत्वा चारित्रमपुरदासीनम्।
भवताऽनन्यगति सा विहितावर्त्तेन तरणिरिव॥११२॥

अनुरक्तरामया पुनरागतये स्थापितोत्तरीयस्य।
अपेकवासस स्तव सर्वयुवमेाऽधिका शोभा॥१०३॥

अर्थः प्राणितोकीमृत इतरो मे विधुन्तुदस्येव।
सुधयैव प्रियायाः पथि सङ्गतप्रालिङ्गितार्धस्य॥१०४॥

अवधीरितोऽपि निद्रामिषेण माहात्मामसृणया प्रियया।
अवबोधितोऽस्प्रिक्षपलो वाष्पस्तिमितेन तल्पेन॥१०५॥

अयिशब्दमात्रसाम्यादाखादितशर्करस्य तव पथिक।
खयो रसनाच्छेदःपुरतो नतु हास्यता महती॥१००॥

अभिनवयौवनदुर्जयविपक्षजनहनामानमानपि॥
सम्रोः पिष्टप्रियत्वाद् विभर्ति सुभगामदं गृहिणी॥१०७॥

अपम्मानितमिव सम्प्रति गुरुणाग्रीष्मेण दुर्बल शैत्यं।
स्रानोत्सुकतरुणीस्तनकलशनिग्रहं पयो विशति॥१०६॥

अलसयति गात्रमखिलं क्लेशं मोचयति लोचनं हरति।
स्वपत्रु इवप्रेयान् मम भोक्तुम् न ददाति शयनीयम्॥१०८॥

अंशावलम्बिकरष्टतकचमिदमभिषेकधवलनखरेखं।
धौताधरनयनं वपुरस्त्रमनङ्गस्य तत्र निसितम्॥११०॥

अविनिहितं विनिहितमिव युवसु स्वच्छेषु वारवामदृशः।
उपदर्शयन्ति हृदयं दर्पणविस्बेषु वदनमिव॥१११॥

अतिलज्जया त्वयैव प्रकटः प्रेयानकारि निभृतोऽपि ।
प्रासादमैलिरुपरि प्रसरन्तावैजयन्तेव॥११२॥

अनेन संग्रथनगुणयोगाद् गावः पदार्थणैर्बहुभिः।
खलमपि तुदन्ति भेढ़ीभूतमधास्थमालम्बा॥११३॥

अननुग्रहेण न तथा कायवति कटुकजितैर्वद्या पिशुनः।
रुधिरादानादधिकं दुनोति कर्षे करान्सकः॥११४॥

अग्रे लघिमा पञ्चान् महतापि विधीयते न हि महिमा।
वामन इति त्रिविक्रममभिदधति दशावतारविदः॥११५॥

अङ्केस्तनन्धय स्तव चरणे परिचारिकाः प्रियः पुष्टे।
अस्ति किमलब्धमधिकं गृहिणि यदाशङ्कसे. बाली॥११६॥

अधर उदस्तः बुजितनामीलितमक्षिलोखितो मौलिः।
आसादितमिवचुन्नसुखमस्पर्शेऽपि तरुणानाम्॥११॥

अतिरभसेन भुषोय वृतिविवरेण प्रवेशितः सदनं।
दयितास्पर्शोल्लषितो नागच्छति वर्त्मना तेन॥११८॥

अम्बरमधनिविष्टं तत्रेदमतिचपलमलघु जघनतटं।
चातक द्रव नवमभ्त्रं निरीक्षमाणो न तृपनामि॥११९॥

अश्वमन्धकारसिन्धुरभाराक्रान्तावनीभराक्रान्तः।
उन्नतपूर्वाद्रिमुखः कूर्मः सन्धग्रास्रमुद्दमति॥१२०॥

अन्तर्भूतो निवसति जड़े जड़ः शिमिरमहसि हरिणइव।
अजड़े शशीव तपने सुतनु प्रविष्टोऽपि निःसरति॥१२१॥

अगबितजनापवादा त्वत्पाणिस्प र्गृहवंतरलेय’।
आयास्यती वराकी ज्वरस्य तल्पं प्रकल्पयति ॥१२२॥

अपेकवंश जनुषोः पश्यत पूर्णत्वतुच्छताभाजोः।
ज्याकार्मुकयोः कश्चिद् गुणभूतः कश्चिदपि भर्त्ता॥१२३॥

अभिनवकेलिक्रान्ता कलयति बाला क्रमेण घर्म्माम्भः।
जरामर्पयितुं नमिता कुसुमास्वधनुर्लतेव मधु॥१२४॥

अविरलपतिताश्रु वपुः पाण्डस्निग्धं तवोपनीतमिदं।
शतधीतमाजामिव मे स्मरशरदाहव्यथां हरति॥१२५॥

अन्तर्निपतितगुष्नागुणरमणीय श्चकास्ति केदारः।
निजगोपोविनयवायखेदेन विदीर्णहृदय इव॥१२६॥

अमुनाह्तमिदमिदमिति प्रतिवेशिनेऽङ्गमङ्गमियं।
रोषमिषदलितलज्जा गृहिणी दर्शयति पतिपुरतः॥१२७॥

आन्तरमपि वहिरिय हि वाञ्जयितुमशेषतः सततं।
असतो सत्ऋविसूक्तिः कावघटीति त्नयं वेद॥१२८॥

आलोक एव विमुखो क्वचिदपि दिवसे न दक्षिणा भवसि।
क्वायेव तदपि तापं त्वमेव में हरसि मानवति॥१२९॥

आज्ञाकाकुर्याच्आक्षेपो हसितञ्च शुष्करुदितञ्च।
इति मधुवनपाडिता धायंस्तस्या न तृपणामि॥१३०॥

आज्ञापयिषासि पदं दास्यसि दयितस्वशिरशि किं त्वरसे।
असमयमानिनि रमधे मा कुरु भाग्नाङ्कुरं प्रेम॥१३१॥

आसाद्य भङ्गमनवा द्यूते विहिताभिरुचितकेलियसे।
निःसारयताक्षानिति कपटरुषोत्सारिताः सख्यः॥१३२॥

आदरणीयगुणा सखि महता निहितासि तेन शिरसि त्वं।
तव लाघवदोषोऽयं सौधपताकेव यञ्चलसि॥१३३॥

आयाति याति खेदं करोति मधु हरति मधुकरीवान्या।
अधिदेवता त्वमेव, श्रीरिव कमलस्य, मम मनसः॥१३४॥

आर्द्रमपि स्तनजघनान् निरस्य सुतनु त्वयैतदुन्नक्तं।
स्वस्थमवाप्तमिव त्वाम् तपनांशूनंशुकं पिवति॥१३५॥

आरोपिता शिलायाम् अश्मेव त्वं स्थिरा भवेति मन्त्रेण।
मम्नापि परिणयापदि जारमुखं वीक्षाहसितैव॥१२६॥

आसाद्य दक्षिणां दिशमविलम्ब ताजति चोत्तरां तरणिः।
पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव॥१३७॥

आदानपानलेपैः काश्चिद् गरलोपतापहारिणाः।
सदसि स्थितैवसिडौषधिवत् स्त्रो कापि जीवयति॥१३८॥

आन्दोललालकेशीं चलकाञ्चोकिङ्किणीगपाणितां।
पुरुषायितां स्मरे तां स्मरचामरविक्रयष्टिमिव॥१३९॥

आक्षिपसि कर्णमक्ष्या त्रिधैव बह्वीबलि स्वया मध्ये।
इतिजितसकलबदान्येतनुदाने किन्नलज्जसे युवति॥२४०॥

आक्षेपचरणसङ्गनकेशग्रहकेलिकुतुकतरलेन।
स्त्रीयांपतिरचि गुरुरिति धर्मं न श्राविता तेन॥१४१॥

आकुञ्चितैकजङ्गं दरावृतार्चोरु गोपितर्हिरु।
सुतमोः श्वसितक्रमनमदुदरं स्फ़ुटमाभि शयनमिदं॥ १४२॥

आगच्छताऽनवेक्षितपृष्ठेनार्थी वराटकेनेव।
सुक्ताऽस्मि तेन जघनांशुकमपि वोढुमशक्तेव ॥१४३॥

आदाय धनममल्पं ददानया सुभग तावकं वासः।
मुग्धा रजक गृहिण्या जता दिनैः कतिपयैर्विःस्खा॥१४४॥

आस्तां वरमवकेशीमा दोहद मध्ये रचय चूततरोः।
एतस्मात् फलितादपि केवलमुद्देगमवगच्छ॥१४५॥

आरब्धमब्धिगमनं स्वहस्तयित्वो हित्रिह्वममरैर्यत्।
उचितस्तत्परिणामो विषमं विषमेव यज्जातंः॥१४६॥

आवर्जितालकावलि श्वासोत्कम्पस्तनार्तितैकभुजं।
शयनं रतिविवशतनोः स्मरामि शिथिलांशुकं तस्याः॥ १४७॥

आम्राङ्कुरोऽयमरुणश्यामलरुचि रन्थिनिर्गतः सुतनु।
तव कमठखर्परपुटान् मूर्द्धवोर्ह्वं गतः स्फुरति॥१४८॥

आभङ्गराग्रबहुगुणदीर्घा स्वादप्रिया दृष्टिः।
कर्षति मनोमदीयं क्रदमीनं वड़िशरज्जुरिव॥ १४९॥

आसप यथा यथेच्छसि युक्तं तव कितव किमुपरोधयसि।
स्त्रीजातिलाइनमसौ जीवितरका सखी सुभगा॥१५०॥

आस्वादितोऽसि मोहाद् यत विदिता वदनमाधुरी भवतः।
मधुलिप्तक्षुररसमाच्छेदाय परं विजानासि॥१५१॥

आकृष्टिभग्नकटकं केन तवप्रकृतिकोमलं सुभगे।
धन्येनभुजमृणालं ग्राह्यं मदनस्य राज्यमिव॥१५२॥

आरुह्य दूरमगणितरौद्रक्लेशाप्रकाशयन्ती स्वं।
वातपुतोच्छनपटी वहित्रमिव हरसि मां सुतनु॥१५३॥

आयासः परहिंसा वैतंसिक सारमेय तव सारः।
त्वामुत्सार्य्याविभाज्यः कुरङ्ग एषोऽधुनैवान्यैः॥१५४॥

आनयति पथिकतरुणो हरिण इह प्रापयसिवात्मानं ।
उपकलमगोपि कोमलकलमावलिकवलमोत्तरलः॥१५५॥

आसीदेव यदार्द्रःकिमपि तदा मायमाहतोऽप्याह।
निष्ठरभावादधुना कटूनि रटति सखि पटह इव॥१५६॥

आज्ञाकरश्वताड़नपरिभवसहश्वसत्यमहमस्याः।
न तु शीलशीतलेयं प्रियेतरं वक्त मपि वेद॥१५७॥

आधाय दुग्धकलशे मन्यानं कान्तदोलता गोपी।
अप्राप्तपारिजाता दैवे दोषं निवेशयति॥१५८॥

आस्ता॑ मानसकथमं सखीषु वा मयि निवेद्य दुर्विनये।
शिथिलितरतिगणगर्वा ममापि सा लज्जिता सुतनु॥१५९॥

आवर्त्तैरातर्पण शोभां हिण्डोरपाण्डुरै र्दधती।
गायति मुखरितसजिला प्रियसङ्गममङ्गलं सुरसा॥१६०॥

इयमुद्गतिं हरन्ती नेत्रनिकेोचं विदधती पुरतः॥
न विजानीमः किं तव वदति सपत्रीव दिननिद्रा॥२६१॥

इदमुभयभित्तिसन्ततहारगुणान्तर्गतैककुचमुकुलं।
गुलिकाधरिव बालावपुस्मरः श्रयति कुतुकेन॥१६२॥

इह शिखिशिखरावलम्बिविनोददरतरलवपुषि तरुहरिणे।
पश्याभिलषति पतितुम् विहङ्गी निजमीड़मोहेन॥१६३॥

इक्षुर्नदोपवाहेद्यूतं मानग्रहव ते सुतनु।
म्रूलतिका च तवेयं भङ्गेरसमधिकमावहति॥१६४॥

इन्दोरिवास्य पुरतो यद्विमुखी सापवारण भ्रमसि।
तत् कथय किन्नु दुरितं सखि त्वया च्छाययेव कृतं॥१६५॥

इह कपटकुतुकतरलितदृशि विश्वासं कुरङ्ग किं कुरुषे।
नवरभसतरलितेयव्याघबधू र्बालधौबलते ॥१६६॥

इह वहति बहुमहोदधिविभूषणा मानमियमुर्व्वी।
देवस्य कमठमूर्त्तेर्नपृष्ठमपि निखिलमाप्नोति ॥१६७॥

ईर्षारोषज्वलितो निजपतिसङ्ग’ विचिन्तयंस्तस्याः।
चुतवसनजघनभावनसान्द्रानन्देन निर्व्वामि॥१६८॥

ईश्वरपरिग्रहोचितमोहोऽस्यां मधुप किं सुधा पतसि।
कनकाभिधानसारा वीतरसा कितव कलिकेयं ॥१६९॥

ईषदवशेषजड़िमा शिशिरे गतमात्र एव चिरमङ्गैः।
नवयौवनेवतन्वीनिषेव्यते निर्भरं वापी ॥१७०॥

उल्लसितभ्रु धनुषा तव पृथुना लोचनेन रुचिराङ्गि।
अचला अपि न महान्तः के चञ्चलभावमानीताः ॥१७१॥

उपनीय यश्नितम्बेभुजङ्गमुचैरलम्भि विबुधैः श्रीः।
एकः स मन्दरगिरिः सखि गरिमाणं समुद्दहतु ॥१७२॥

उल्लसितलाच्छनोऽयं ज्योत्स्रावर्षी सुधाकरः स्फ़ुरति।
आसक्तकृष्णवरणः शकट इव प्रकटितक्षीरः॥१७३॥

उपचारानुनयास्ते कितवस्थोपेक्षिताः सखीवचसा।
अधुना निष्टुरमपि यदि स वदति कलिकैतवाद् यामि॥१७४॥

उषसि परिवर्त्तयन्त्या मुक्तादामोपवीततां नीतं।
पुरुषायितवैदग्ध्राव्रीड़ावति कैर्न कलितं ते॥१७५॥

उड्डीनानामेषां प्रासादात् तरुचि पक्षिणां पङ्क्तिः।
विस्फ़ुरति वैजयन्ती पबनच्छित्रापविद्धेव॥१७६॥

उज्जागरितभ्भ्रामितदन्तुरदुलरुतमधुकरप्रकरे।
काञ्चनकेतकि मा तव विकसतु सीरभ्यसम्भारः॥१७७॥

उल्लसितभ्रूःकिमतिक्रान्तंचिन्तयसि निस्तरङ्गाक्षि।
क्षुद्रापचारविरसः पाकः प्रेमणः गुड़स्येव॥१७८॥

उद्दिश्य निःसरन्तीसखीमियं कपटकोपकुटिलभ्रूः।
एवमवतंसमाक्षिपदाहंतदीपं यथा पतति॥१७९॥

उदितोऽपि तुहिनगहने गगनप्रान्तेन दीप्यते तपनः।
कठिनधृतपूरपूर्णे शरावशिरसि प्रदीपइव॥१८०॥

उङ्गमनोपनिवेशनहासपरावृत्तिचलनवचनेषु।
अनिशं स मोहयति मां हृल्लग्नः श्वास इव दयितः॥१८१॥

उच्छ्रितसोभाग्यमदस्फ़ुटयाच्याभङ्गभीतयो र्युनोः।
अकलितमनसोरेका दृष्टि र्दूतो निसृष्टार्था॥१८२॥

उत्तमभुजङ्गमसङ्गमनिस्पन्दनितम्बचापलः स्तस्याः।
मन्दरगिरिरिव विबुधैरितस्ततः कृष्यते कायः॥१८३॥

उपनीय कलमकुड़वं कथयति समय श्चिकित्सके हलिकः।
शोणं सोमार्द्धनिभंबधूस्तने व्याधिमुपजातं ॥१८४॥

उन्मुकुलिताधरपुटे भूतिकणत्रासमिलितार्द्धाक्षि ।
धूमोऽपि नेह विरम भ्रमरोऽयं श्वसितमनुसरति॥१८५॥

उपरि परिप्लवते मम बालेयंगृहिणि हंसमालेव।
सरसइव नलिनमाला पुनस्त्वमाशयं प्राप्य वससि॥१८६॥

उत्कल्पवर्म्मपिच्छिलदोःसाधिक हस्तविच्युत श्वीरः।
शिवमाशास्ते सुतनुं स्तनयो स्तव चञ्चलाञ्चलयोः॥१८७॥

उत्क्षिप्तवाहुदर्शितभुजमूलं चूतमुकुल मम संख्या।
आकृष्यमास राजति भवतः पदमुच्चै स्तेलाभः॥ १८८॥

उच्चकुचकुम्भनिहितो हृदयं चालवति जंघनलग्नाग्रः।
अतिनिम्मधासक्रनदारनिभ स्तरुणि ते हारः॥१८९॥

उल्लसितशीतदीधितिकलोपकण्ठे स्फुरति तारीधाः।
कुसुमायुधविष्टतधनुर्निर्मतमकरन्दविन्दु निभाः ॥१९०॥

उपनीय प्रियमसमयविदं च मे दग्धं मानमपनीय।
नशर्मोपक्रम एव क्षणदेदूतीवचलितासि ॥१९१॥

उत्तमवलितैकगतिः करीव सरसीपयः सखे धैर्य्यं।
आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशम् हरसि ॥१९२॥

जाढाश्मुनातिवाहय पृष्ठे लग्नापि कालमचलापि।
सर्व्वसहेकठोरत्वचः किमङ्गेन कमठस्व॥१९३॥

ऋजुना निधेहि चरणौ परिहर सखि निस्खिलनामाचारं।
इह डाकिनीति पत्नीपतिः कटाक्षेऽपि दण्ठ्यति॥१९४॥

ऋषभोऽत्न मोचतइति श्रुत्वा स्वरपरागा वयं प्राप्ताः।
को वेद गोष्ठमेतद् गोशान्तो विहितबहुमानं॥१९५.

एको हरः प्रियाधरगुणवेदो दिविषदः परे मूढाः।
विषममृतंवासममिति यः पश्यन् गरलमेव पंपौ॥१९६॥

एष्यति मां पुनरयमिति ममने पदमङ्गलं मयाऽकारि।
अधुना तदवे कारणमवस्थितौ दम्धगेहपतेः॥१९७॥

एकैकशो युवजनं विलङ्गमानाक्षनिकरमिव तरला।
विश्राम्यति सुभग त्वांअङ्गुलि रासाद्य मेरुमिव॥१९८॥

एकः सएव जीवति हृदयविशुन्धोऽपि सह्दयो राहुः।
यः सकललविमकारणमुदरं न विभर्त्ति दुष्पूरं॥१९९॥

एकेन चूर्णकुन्तलमपरेण च कदा चिवुकमुन्नमन्।
पश्यामि वाष्पधीतश्रुति, नगरद्दारि तद्वदनं॥२००॥

एवं जीवनमूलं चच्चलमपि तापचण्डमपि सततं।
अन्तर्वहति वराकी सा त्वां नासेव निश्वासं॥२०१॥

एकं वदति मनो मे यामि न यामीति हृदयमपरं मे।
हृदयदयमुचितं तव सुन्दरि हृतकान्तचित्तायाः॥२०२॥

एरण्ड्पत्नशयना जनयन्ती स्वेदमलघु जघनतटं।
धूलिपुटोव मिलन्तीकरज्वरं हरति हलिकमधः॥२०३॥

केलिनिलयंसखोमिव न याति नवोढ़ा स्वयं न भी भजते।
इत्थं गृहिणीमार्येःस्तुवति प्रतिवेशिना हसितं॥२०४॥

कालक्रमकमनीयक्रीडे़यंकेतकीति का शङ्का।
वृद्दिर्यथायथा स्यात् तथा तथा कलकोत्कर्षः॥२०५॥

कृतकस्वापमिदोयश्वासंध्वनिदत्तकर्ण किंतीव्रैः।
विधासिमां निखासैःस्वरः शरैः शब्दवेधीव॥२०६॥

क्व त्तनिर्म्मोकदुकूलः कालङ्गरणायफणिमणिश्रेणीः।
कालिय भुजङ्गगमनाद् यमुने विश्वस्व गम्यासि॥२०७॥

किञ्चिन्नवालयोत्कंनसमसादा निषेविता दृष्टिः।
मयि पदपतिते केवलमकारि शुलपज्जरों विमुखः॥२०८॥

कृतहसितहस्ततालांमन्मथरलैर्विलोकितां युवभिः।
क्षिप्तः क्षिप्तो निपतन अङ्गेमर्त्तयति भृङ्ग स्त्वां॥ २०९॥

कमलमुखि सर्वतोमुखनिवारणं विदधदेव भूषयति।
रोधो रुहस्वरसा स्तरङ्गिणी स्तरलनयनाश्च॥२१०॥

कितवप्रवञ्चिता सा भवता मन्दाक्षमन्दसञ्चारा।
बहुदायै रपि सम्प्रति पाशकणारीव नायाति॥२११॥

कः श्लाघनीयजन्मामाधनिशीथेऽपि यस्य सोभाग्यं।
प्रालेयानिलदीर्धःकथयति काञ्चीनिनादीऽयं॥२१२॥

किमशकनीयंप्रेम्णःफणिनः कथयापि या विभेति स्त्र।
सा गिरिशभुलभुजङ्गमणीपधानाऽद्यनिद्राति॥ २१३॥

कृतिमकनकेमेव प्रेमणासुषितस्य धारवनिताभिः।
लघुरिववित्तविनाशक्लेशो जनहास्यता महती॥ २१४॥

किंपर्वदिवसमार्ज्जितदशोष्ठि निजं वपु र्नमण्डयसि।
न त्वांव्यक्ष्यति पर्वस्वपि मधुरामिक्षुष्टिमिव॥२१५॥

कष्ट साहसकारिणि तव नयनार्डेन सोऽध्वनि स्पृष्टः।
उपवीतादपि विदितो न द्विजदेह स्तपस्वीते॥२१६॥

ऋषभोऽत्न मोचतइति श्रुत्वा स्वरपरागा वयं प्राप्ताः।
को वेद गोष्ठमेतद् गोशान्तो विहितबहुमानं॥१९५॥

एको हरः प्रियाधरगुणवेदो दिविषदः परे मूढाः।
विषममृतंवासममिति यः पश्यन् गरलमेव पंपौ॥१९६॥

एष्यति मां पुनरयमिति ममने पदमङ्गलं मयाऽकारि।
अधुना तदवे कारणमवस्थितौ दम्धगेहपतेः॥१९७॥

एकैकशो युवजनं विलङ्गमानाक्षनिकरमिव तरला।
विश्राम्यति सुभग त्वांअङ्गुलि रासाद्य मेरुमिव॥१९८॥

एकः सएव जीवति हृदयविशुन्धोऽपि सह्दयो राहुः।
यः सकललविमकारणमुदरं न विभर्त्ति दुष्पूरं॥१९९॥

एकेन चूर्णकुन्तलमपरेण च कदा चिवुकमुन्नमन्।
पश्यामि वाष्पधीतश्रुति, नगरद्दारि तद्वदनं॥२००॥

एवं जीवनमूलं चच्चलमपि तापचण्डमपि सततं।
अन्तर्वहति वराकी सा त्वां नासेव निश्वासं॥२०१॥

एकं वदति मनो मे यामि न यामीति हृदयमपरं मे।
हृदयदयमुचितं तव सुन्दरि हृतकान्तचित्तायाः॥२०२॥

एरण्ड्पत्नशयना जनयन्ती स्वेदमलघु जघनतटं।
धूलिपुटोव मिलन्तीकरज्वरं हरति हलिकमधः॥२०३॥

केलिनिलयंसखोमिव न याति नवोढ़ा स्वयं न भी भजते।
इत्थं गृहिणीमार्येःस्तुवति प्रतिवेशिना हसितं॥२०४॥

कालक्रमकमनीयक्रीडे़यंकेतकीति का शङ्का।
वृद्दिर्यथायथा स्यात् तथा तथा कण्ठकोत्कर्षः॥२०५॥

कृतकस्वापमिदोयश्वासंध्वनिदत्तकर्ण किंतीव्रैः।
विधासिमां निखासैःस्वरः शरैः शब्दवेधीव॥२०६॥

क्व त्तनिर्म्मोकदुकूलः कालङ्गरणायफणिमणिश्रेणीः।
कालिय भुजङ्गगमनाद् यमुने विश्वस्व गम्यासि॥२०७॥

किञ्चिन्नवालयोत्कंनसमसादा निषेविता दृष्टिः।
मयि पदपतिते केवलमकारि शुलपज्जरों विमुखः॥२०८॥

कृतहसितहस्ततालांमन्मथरलैर्विलोकितां युवभिः।
क्षिप्तः क्षिप्तो निपतन अङ्गेमर्त्तयति भृङ्ग स्त्वां॥ २०९॥

कमलमुखि सर्वतोमुखनिवारणं विदधदेव भूषयति।
रोधो रुहस्वरसा स्तरङ्गिणी स्तरलनयनाश्च॥२१०॥

कितवप्रवञ्चिता सा भवता मन्दाक्षमन्दसञ्चारा।
बहुदायै रपि सम्प्रति पाशकणारीव नायाति॥२११॥

कः श्लाघनीयजन्मामाधनिशीथेऽपि यस्य सोभाग्यं।
प्रालेयानिलदीर्धःकथयति काञ्चीनिनादीऽयं॥२१२॥

किमशकनीयंप्रेम्णःफणिनः कथयापि या विभेति स्त्र।
सा गिरिशभुलभुजङ्गमणीपधानाऽद्यनिद्राति॥ २१३॥

कृतिमकनकेमेव प्रेमणासुषितस्य धारवनिताभिः।
लघुरिववित्तविनाशक्लेशो जनहास्यता महती॥ २१४॥

किंपर्वदिवसमार्ज्जितदशोष्ठि निजं वपु र्नमण्डयसि।
न त्वांव्यक्ष्यति पर्वस्वपि मधुरामिक्षुष्टिमिव॥२१५॥

कष्ट साहसकारिणि तव नयनार्डेन सोऽध्वनि स्पृष्टः।
उपवीतादपि विदितो न द्विजदेह स्तपस्वीते॥२१६॥

क्लेशेऽपि तन्य

यांने मिलितेयं सां प्रमोदवत्येव।
रौद्रेऽनभ्रेऽपि नभः सुरावगाकरिवृष्टिरिव॥२१७॥

कूपप्रभवाणां परमुचितमपां पदबन्धनं मन्ये।
याः शाक्यन्ते लब्बुम्न पार्थिवेनापि विगुणेन॥२१८॥

कररुहशिखानिखातभ्रान्ता विश्रान्त रजनिदुरवाप।
रचिरिव यन्त्रोशिखितः प्रयोऽपि लोकस्य हरसि दृशं॥२१९॥

किं करवाणि दिवानिशमणि लग्ना सहजशीतल प्रकृतिः।
हन्त सुस्वयामि न प्रियमात्मानमियात्मनश्छ्या॥२२०॥

केशैः शिरसो गरिमा मरणं पीयूषकुण्डपातेम।
दयितवदमेन वहसि यदि भार स्तदिदमचिकित्स्यं॥२२१॥

किञ्चित् कर्कशतामनुरसं प्रदास्यनिसर्गमधुरो मे।
इक्षोरिव ते सुन्दरि मानस्य ग्रस्थिरपि काम्यः॥२२२॥

केन गिरिशस्य दत्ता बुद्धि भुजङ्गं जटावनेऽर्पयितुम्।
येन रतिरभसकान्ताकर चिकुराकर्षणं मुषितं॥२२३॥

करचरणकाञ्चिदामप्रहारमविचिन्त्य बलगृहीतकचः।
प्रणयो चुम्बति दवितावदनं स्फ़ुरदधरमरुणाक्षं॥२२४॥

कुरुतां चापलमधुना कलयतु सुरसासि यादृशीतदपि।
सुन्दरि हरीतकीममु परिपीता वारिधारेव॥२२५॥

काज्जलतिशलकलङ्गितमुखचन्द्रे गलितसलिलकणकेशि।
नवविरहद्रूह्ननदूनोजीवयितय्यस्त्वया कतमः॥२२६॥

कृच्छ्रावृत्तयोऽपि हि परोपकारं त्यजन्ति न महान्तः।
तृवमात्नजीवना अपि करिणी दानद्रवार्व्द्रकराः॥२२७॥

किं हसन्नकिं प्रधावथ किं जनमा

त्रयथ बालका विकलं।
तदयं दर्शयति यथा रिष्टः कण्ठेऽमुना जगृहे॥२१८॥

कातरताकेकरितस्मरखज्जारोषमसृणंमधुराक्षि।
भोक्तुं न भक्त मथवा बलतेऽसावर्हलब्धनतिः॥२२९॥

को विक्रमो गुणा के का कान्तिः शिशिरकिरणले खानां।
अन्तः प्रविश्यं यासामाक्रान्तंपशुविशेषेण॥२३०॥

केतकगर्भे गन्धादरेण दूरादमी द्रतमुपेताः।
मदनस्यन्दनवाजिन इव मधुपा भूरिमाददते॥२३१॥

कृतविविधमथनयत्नः पराभवाय प्रभुः सुरासुरयोः।
इच्छति सौभागामदात् स्वयम्बरेण श्रियं विष्णुः॥२३२॥

किं पुत्रि गण्डशैलाभ्रमेण नवनीरदेषु निद्रासि।
अनुभव चपलाविलसितगर्ज्जितदेशान्तरम्भ्रान्तीः॥२३३॥

कान्तः पदेन हत इति सरलामपराध्य किं प्रसादयध !
सोऽप्येवमेवं सुलभः पदप्रसादतः प्रहारः किं॥२३४॥

कर्णगतेयममोघा दृष्टि स्तत्र शक्तिरिन्द्रदत्ता च।
सा नासादितविजया कचिदपि नापार्थपतितेयं॥२२५॥

शयति किमिति दूतीर्यदशक्यं सुमुखि तव कटाक्षेण।
कामोऽपि तत्नसायकमकीर्त्तिशड्कीन सन्धत्ते॥२२५॥

‘को वेद मूल्यमक्षद्यूते प्रभुणा पणीकृतस्य विधोः।
प्रतिपितये यत्प्रतिपलमधरं धरनन्दिनी विदधे॥२१७॥

कुपितां प्रहरणभयेन मुज्जामि न स्वल चण्डि त्वां।
अतिरनिलचपलकिसलयताड़नसहनो लत भवते॥२३८॥

कोपाकृष्टभ्रुस्मररासने सम्बुणु प्रिये पततः।
छिन्नस्थामधुपानिव कज्जलमलिनाश्रुजलविन्दून्॥२३८॥

कामेनापि न भेक्तं किमु हृदयमपारि बालवनितानाम्।
मूढ़विशिखप्रहारोर्च्छुनमिवाभाति रद्क्ष :॥२४०॥

किं प्ररजोवै र्हीव्यसि विस्प्रयमधुराक्षिगच्छ सखि दूरं !
अहिमधिचत्वरमुरगग्राही खेलयतु निर्विघ्नः॥२४१॥

करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षि।
रोषयति परुषवचनैस्तथा तथा प्रेयसीं रसिकः॥२४२॥

कस्त्वां निन्दति लुम्पति कः स्प्ररफलकस्य वर्णकं मुग्धः।
को भवति रत्नकण्टकममृते कस्यारुचिरुदेति॥२४३॥

कोपवतीपाणिलीलाचञ्चलचूताङ्करे त्वयि भ्रमति।
करकम्पितकरवाले स्प्रर इव सा मूर्च्छिता सुतनुः॥२३४॥

कौलीनादमेनां भजामि न कुलं स्प्ररः प्रमाणयति।
ताङ्भावनेन भजतो मम गोत्नवलनमनिवार्य्यं॥२४५॥

कृत इह कुरङ्गशावक केदारे कलममन्जरीं त्यजसि।
तृणधवातृणविशिखः तृणघटितकपट पुरुषोऽयम्॥२४६॥

खलसख्य’ प्राङ्मधुरं वार्य्यामन्तराले निदाघंदिनमन्ते।
एकादिमध्यपरिणतिरमणीया साधुजनमैत्नी॥२४७॥

गुणमधिगतमपि धनवान् अचिरान्राणयति रक्षति दरिद्रः।
‘मज्जयति रञ्जसम्भसि पूर्णकुम्भः सखि न तुच्छः॥२४८॥

गुरुरपि लघुपनीतो निमज्जति नियतमाशये महतः।
वानरकरोपनीतः शैलो मकरालयस्येव॥२४९॥

गौरीपते र्गरीयो गरलं गत्वा गले जीर्णं ज्जीर्य्यति।
जीर्य्यति कर्णे महतां दुर्वादोनाल्पमपि निविशति॥२५०॥

गृहपतिपुरतो जारं कपटकथाकथितमन्मथावस्थं।
प्रीणयति पीड़वति च वाला निश्वस्य निश्वस्य॥२५१॥

गतिमच्चितवरयुवतिः करीकपोलौ करोतु मदमलिनी।
मुखबन्धमातसिन्धुर लम्बोदर किं मदं वहसि॥२५२॥

गेहिन्या शृण्वन्ती गोत्रस्खलितापराधतो मानं।
स्त्रिग्धां प्रिये सगर्वां सखीषु बाला दृशंदिशति॥२५२॥

ग्रीष्ममये समयेऽमिन् विनिम्मितं कलय केलिवनमूले।
अलमालत्रालवलयच्छलेन कुण्डलितमिव शैत्यं॥२१४॥

गुणववरण इति मा लीलाविहगं त्रिमुञ्च सखि मुग्धे।
अस्मिन् वलयितशाखे क्षणेन गुणयन्त्रणं त्रुटति॥२५५॥

गुरुगर्ज्जसाष्ट्रविटाद् भय मुद्रितकर्णचक्षुषां पुरतः।
बाला चुम्बति जारं वज्रादधिको हि मदनेषुः॥२५६॥

गृहिणीगुणेषु गणिता विनय सेवा विधेयतेति गुणाः।
मानः प्रभुता वाम्यं विभूषणं वामनयनानां॥२२७॥

गुणमान्तरमगुणम्बा लक्ष्मी र्गङ्गा च वेद हरिहरयोः।
एका पदेऽपि रमते न वसति निहिता शिरस्थपरा॥२५८॥

गत्वा जीवितसंशयमभ्यस्तः सोदूमतिचिराधिरहः।
अकरुण पुनरपि दित्ससि सुरतदुरभ्यासमस्प्राकं॥२५८॥

गोत्रस वलितप्रश्नेप्युत्तरमतिशीलशीतलं दत्त्वा।
निश्वस्य मोषरूपे स्ववपुषि निहितं तया चक्षुः॥२६०॥

गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु भ्रमी।
उचितज्ञासि तुले किं तुलयसि गुज्जाफलैःकनकं॥२६१॥

गन्धग्राहिणी शालोन्मीलन्निर्य्यास निहितनिखिलाड्गि।
उपभुक्तमुक्तभूरुहशतेऽधुना भ्रमरि न भ्रमसि॥२६२॥

गेहिन्या क्रियमाणं निरुध्यमानं नवोढ्या पुरतः।
मम नौका द्वितयार्वितगुणा इव हृदयं द्विधा भवति॥२६३॥

गुण आकर्षणयोग्यो धनुष इवैकोपि लक्षलाभाय।
सूतातन्तुभिरिव किं गुणै र्विमर्द्दसहैर्बहुभिः॥२६४॥

गायति मीतें शंसति वंशे वादयति सा विपञ्चौषु।
पाठयति पञ्जरशकं तव सम्बादाचरं वाला॥२६५॥

गणयति न मधुव्ययमयमविरतमापिबतु मधुकरः कुमुदं।
सौभाग्यमानवान् परमसूयति घुमण्ये चन्द्रः॥२६६॥

गुणविधृता सखि तिष्ठसि तथैव देहेन किन्तु हृदयं ते।
हृतममुना मालायाः समीरणेय सौरभ्यं॥२६७॥

गुरुसदने नेदीयसि चरणगते मयि च मूकयापि तथा।
नूपुरमपास्य पदयोः किं न प्रियमीरितं प्रिययाः॥२६८॥

अन्विलतया किमिक्षोःकिमपभ्रंशेन गीतस्य।
किमनार्ज्जवेन शशिनः किं दारिद्रेय दयितस्य॥२६९॥

गेहिन्या चिकुरग्रहसमयससीत्कारमीलितद्यापि।
बालाकपोलपुलकं विलोक्य निहितोऽस्प्रि शिरसि पदा॥२७०॥

गुरुपक्षजागरारुणघूर्णत्तारं कथज्जिदपि चलते।
नयनमिदं स्फुटनस्वपदनिवेशकोपकुटिलभ्रु॥२७१॥

घटितजधनं निपीडितपोनीरुन्यस्तनिखिलकुचभारं।
आलिङ्गत्यपि वाला बदत्यसौमुच मुञ्चेति॥२७२॥

घटितपलायकपाटं निशिनिशिसुखिनोहि मेरते पद्माः।
उज्जागरेणकैरव कति शक्या रक्षितुं लक्ष्मीः॥२६४॥

घूर्णन्ति विमलब्धाः स्नेहापायात् प्रदोषकालिकाक्ष॥
प्रातः प्रस्थित्या स्त्रीहृदयं स्फ़ुटति कमलञ्च॥2७४॥

चपलस्व’ पलितलादितचिकुरं दक्तिस्य मौलिमवलीक्य।
स्वेदोचितेऽपि समये समद मेवाददे गृहिणी॥२७५॥

चण्डि प्रसारितेन स्पृशन् भुजेनापि कोपनां भवती।
तृम्यामिपङ्किलाभिवपिवन्नदीं नलिननालेन॥२७६॥

चपलभुजङ्गीभुक्तोज्झितशीतलगन्धवह निशिभ्रान्ते।
अपराशां पूरयितुम् प्रत्व व सदागते मच्छं॥२७८॥

चिरपथिक ट्राधिममिलदलकलताशैवालाबलिंग्रथितो।
करतोयेव मृगाच्याः दृष्टिरिदानींसदानीरा॥२७६॥

चण्डि दरचपलक्षेलव्यक्तोरुविलोकनैकरसिकेन।
धूलि भयादपि न मया चरणाहतो कुचितं चक्षु॥२८०॥

चलकुण्डलचलदलक बलदुरसिजवसनसज्जादूरुयुगं।
व्यजनभरक्लमकूणित नयनमिदं हरति गतमस्याः॥२८१॥

चरणैःपरागसैकतमफलमिदं लिस्वसि केतव्याः।
इह वसति कान्तिसारे नान्तः सलिलापि मधुसिन्धः॥२८२॥

चिरकालपथिक शङ्कातरङ्गिताक्षःकिमोक्षसे मुग्धः।
त्वन्निस्विंश्लेषव्रणकिस राजीयमेतस्याः॥२८३॥

चमलांयथा मदान्धम्बायामयमाभानः करीहन्ति।
आस्फालयति करं प्रतिगज’ स्तथायं पुरो वधः॥२८४॥

चुम्बनलोलुपमदवरञ्जतकाश्मीरं स्मरत्रतृप्यामि।
हृदयविरदालान स्तम्भं तस्वा स्तदूरुयुगं॥२८५

चिकुरविसारणतिर्व्यगात्तकण्ठो विभखत शिरिति बाला।
त्वामियमङ्गुलिकल्पितकचावकथा विलोकयति॥२८६॥

चुम्बनत्रतान्ञ्जनार्द्धंस्फुटजागरमीक्षणं क्षिपसि॥
किमुषसि वियोगकातरमंसमेषुरिवार्डमाराचं॥२८७॥

छायाग्राहीचन्द्रः कूटत्वं सततमन्व जे भवति।
हित्वोभयं सभायां स्तौति तवैवाननं लोकः॥२८८॥

छायामात्नं पश्ववधोपाद्गतेन धैर्योण।
तुदति मम हृदयमिषुणा राधाचक्रं किरिटिव॥२८८॥

जलविन्दवः कतिपये नयनाद गमनोद्यमे तव स्खलिताः।
कान्ते मम मन्तव्या भूरेतैरेव पिच्छलिता॥२८०॥

जृम्भोत्तम्भितदोर्युगयन्त्रितताण्डक पीड़ितकपोलं।
तस्याः स्मरामि जलकणलुलिताञ्जनमलसदृष्टि मुखं॥२८१॥

जागरयित्वा पुरुषं परं वने सर्व्वतोमुखं हरसि।
अयि शरदनुरूपं तव शोलमिदं जातिशालिन्याः॥२८२॥

जीवामि लङ्घितावधिदिनेति लज्जावशेन गेहिन्याः।
मयि सम्बततोऽपिवाष्पैरसम्बरै र्व्यञ्जितो मानः॥२९३॥

जास्मो गुरुः सृष्टष्टो वामेतरचरणभेद उपदेशः।
ख्याति र्गुणवला इति भ्रमसि सुखं वृषभ रम्यासुः॥२८४॥

ज्वर वीतौषधिबाध स्तिष्ठ सुखं दत्तमङ्गमखिलं ते।
असुलभलोकाकर्षणपाषाणसखेन मोक्षसि मां॥२८५॥

जीवनहेतो र्मिलिता मुञ्चति करकर्षणेऽपि न खलु त्वां।
नौरिव मित्रंसुन्दर मुग्धा तहिरसतां मागाः॥२८६॥

जघमेन चापलं तव वितन्वतेयं तमूकता तनुः।
शाणेनेव क्षिला स्मरारिपुत्री मनो विशति॥२८७॥

ज्योत्स्नाभिसारसमुचितवेशे व्याकोषमल्लिकोत्तंसे।
विशति ममो निशितेव स्प्ररस्य कुमुदत्तरुच्छुरिका॥२८८॥

जड़ सुखयसि परतरुणींगृहिणींकारयसि केवलं सेवां।
आलिङ्गति दिशमिन्दुःस्वान्तु शिलां वारि वाहयति॥२८८॥

ज्योत्स्नागर्भितसैकतमध्यगतः स्फ़ुरति यामुनः पूरः।
दुग्धनिधीमागाधिपतल्पतले सुप्त इव कृष्णः॥३००॥

ठुच्छ्रुतकङ्गणपाणिक्षेपैस्तभावलम्बने र्मौनैः।
शोभयसि शष्करुदितैरपि सुन्दरि मन्दिरद्दद्वारं॥३०१॥

ढक्कामाहत्य नदं वितन्वते करिण इव पुरुषाः।
स्त्रीणां करिणीनामिव मदः परं स्वकुलनाशाय॥३०२॥

तां तापयन्ति मन्मथवाणा स्वां प्रीणयन्तीव ते सुभगं।
तपनकरा स्तपनशिलां ज्वलयन्ति विधु मधुरयन्ति॥३२३॥

तव सुतनु सानुमत्या बहुधातुजनितनितम्बरागायाः।
गिरिवरभुवइव लावेनाप्नोमि ह्वाङ्गुलेन दिवं॥३०४॥

त्यक्तो मुञ्चति जीवनमुक्तजति नानुग्रहेऽपि लोलत्वं।
किं मातृषेवपद्माकरस्य करणीयमस्य मया॥३०५॥

तहिरहायदि पाहुस्तन्वङ्गी च्छाययैकेवलका।
हंसीव व्योत्स्वायां सा सुभन प्रत्यभिज्ञेया॥३०६॥

त्वद्धिविनिवेशितचिश्या शुभम गता केवलेन कायेन।
घननावरूमीना नदीव सा नीरमात्नेण॥३०७॥

त्वयि संपत तस्याः कठोरतर हृदयमसमथरतरणं।
म्प्ररुतचतमञ्चलमिव कण्टकसम्पर्कतः स्फ़ुटितं॥३०८॥

त्वमसूर्य्यम्पयासि पदमपि न विजयवारणभ्रमति।
क्वायेकिमिह विधेयं मुञ्चन्ति न मूत्ति मन्तस्त्व्यं॥३०९॥

तव विरहे विस्तारितरजनौ जनितेन्दुनन्दनहेये।
बिसिनीवमाघमासे बिना हुताशेन सा दग्धा॥३१०॥

तरुणित्वचरणाहति कुसुमितकङ्गेलि कोरकप्रकारं।
कुटिलचरिता सपत्नीन पिवति व्रत शोकविलापि॥३१२॥

तल्पे प्रभुरिव गुरुरिव मनसिजतन्तेश्रमेषु भुजिस्थेव।
मेले श्रिरिव गुरुजनपुरतो मूर्त्तेव सा व्रीड़ा॥३१३॥

त्वमलभ्या मम तावन्मोक्त मशकास्त्र सम्मुखं व्रजतः
कार्यवापसरन्ती भीव्या न निवार्य्यसे यावत्॥३१३॥

तपसा क्तेथित एषः प्रोढवलो न खलु फाल्गुनेऽप्यासीत्।
मधुना प्रमत्तमधना को मदनं मिहिरभित्र सहते॥१६४॥

त्वममनदिवसगणनावलक्षरेखाभिरलङ्गता सा सुभग।
गण्णस्थलीव तस्याः पाण्ड्रिता भवनभित्तिरपि ॥३१५॥

तस्याग्रास्यस्वाहं सस्विवक्रस्चिमधमधुरया दृष्ट्या।
विद्या तदेकनेया पोविणद्रव दंष्ट्र्वाधरणीं॥३१६॥

त्वयि कुग्रामवढद्रम वैश्रवणो वस्तु वा लक्ष्मीः।
धार्मरकुठारपातात् कातरशिरसैव ते रक्षा॥३१७॥

तवमुखर वदनदोषं सहमाना मोक्त मक्षमा सुतनुः।
सां वहति वत भवनं घुणमन्तः शालभञ्जीव॥३१८॥

तृणमुखमपि न खलु त्वां त्यजन्ति अमी हरिणवैरिणःशवराः।
यशसैवजीवितमिदं त्यच योजितशृङ्गसङ्ग्रामः॥३१८॥

त्रिपुररिपोरिव गङ्गा मम मानिन जनितमदनदाहस्य।
जीवनमर्पितशिरसो ददासि चिकुरग्रहेणैव॥३२०॥

त्वत्सङङ्कथासु मुखरः सनिन्छ गनन्द साहित्यश्व।
स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः॥३२१॥

त्वयि सर्पति पथि दृष्टिः सुन्दर इतिविवरविनिर्गता तस्याः।
दरतरलभित्रभैवलजाला शफरीव बिस्फ़ुरति॥३२२॥

ते सुतनु शून्यहृदया ये शङ्कं शून्यहृदयमपि विदधति।
अङ्गीकतकरपत्रो यस्तव हस्तग्रहं कुरुते॥३२३॥

ते श्रेष्ठिनः का सम्प्रति शक्रध्वज यैः कृतस्तवोच्छ्रायः।
ईषाम्बा मेठिम्बा अधुनातनास्त्वांविधित्सन्ति॥३२४॥

तानवमेत्य च्छित्रः परोपहितरागमदनसङ्घटितः।
कर्णद्रव कामिनीनां विराजते निर्भरः प्रेमा॥३२५॥

तस्मिनात्ताद्रभावे विगतरसे शुण्ठिशकल इव।
पतिभुतिभाजि मलिने नागरशब्दो विड़म्बाय॥२२६॥

तमसि घनेविषमे पथि जम्बुकमुक्कामुखं प्रपन्नाः स्प्र।
किं कुर्मः सोऽपि सखे स्थितो मुखं मुद्रयित्वेव॥३२७॥

त्वामभिलषतो मानिनि मम गरिमगुणोपि दोषतां मातः।
पङ्किलकूलां तटिनीं पिपासतः सिन्धुरस्येव॥३२८॥

तिमिरेपि दूरदृश्यां कठिनाश्लेषे च रहसि मुखरा च।
शङ्कमयवलयराजी गृहपतिशिरसा सह स्फुटतु॥३२८॥

तव वृत्तेन गुणेन च समुचितसम्पत्रकण्ठलुण्ठनायाः।
हारस्रजइव सुन्दरि कृतः पुन र्नायक स्तरलः॥३३०॥

दर्शनविनीतमाना हर्षोल्लसत्कपोलतलं।
चुम्बननिषेधमिषतो वदनं पिदधाति पाणिभ्यां॥३३१॥

देहस्तम्भः तवलनं शैथिल्यं वेपथुः प्रियध्यानं।
पथि पथि गगनाश्लेषः कामिनि कस्तेऽभिसारगुणः॥३३२॥

द्रावयता दिवसानि त्वदीयविरहेण तीव्रतापेन।
ग्रीष्मेणेव नलिन्या जीवनमल्पीकृतं तस्याः॥३३३॥

दुर्जन सहवासादपि शीलोत्कर्षं न सज्जन स्त्वजति।
प्रतिपर्वतपनवासी निसृतमात्रः शशीशीतलः॥३३४॥

दयित प्रहितां दूतीमालम्बा करेण तमसि गच्छन्ती।
खेदच्युतम्सृगनाभि र्दूराद् गौराङ्गि दृश्यासि॥३३५॥

दयितागुणप्रकाशं नीतः स्वेणैव वदनदोषेण।
प्रतिदिन विदलितवाटीवृत्तिघटनैः खिद्यसे किमिति॥३३६॥

दाक्षिण्यान्वदिमानं भजन्तमेनं न भानुमवमंस्थाः।
रौद्रिमुपागतेऽस्प्रिन् कः क्षमते दृष्टिमपि दातुम्॥३३०॥

द्दष्टौव विरहकातरतारकया प्रियमुखे समर्पितया।
यान्ति मृगवह्नभायाः पुलिन्दवायार्द्दिताः प्राणाः॥३३८॥

दूरस्थापितंद्ददयों गूढरहस्यो निकामसाशङ्कः।
आश्लेषो बालानां भवति स्वलानाच्च सभेदः॥३३८॥

हारे गुरवः कोणे शुष्कः सकाशे शिशु र्गृहे सख्यः।
कालासह क्षमस्वप्रिय प्रसोद प्रभातमहः॥त४०॥

दधिकणामुनाभरणा स्वासोत्तुङ्गस्तनार्पणमनोनं।
प्रियमालिङ्गति गोपीमन्यश्रममन्थरैरङ्गैः॥३४१॥

दलितोद्दगेन सखि प्रियेण लग्नेन रागमावहता।
मोहयता शयनीयं ताम्बुलेनेव नौतास्मि॥३३२॥

दृष्टमदृष्टप्रायां दयितं कृत्वा प्रकाशितस्तनया।
हृदयं करेण ताड़ितमथ मिथाव्यञ्जितत्रपया॥३४३॥

दर्शितयमुनच्छाये भ्रूविभ्रमभाजि बलति तव नयने।
क्षिप्तहले हलधर इव पुरमेवावर्जितं सुतनु॥३४४॥

दयितप्रार्थितदुर्लभमुखमदिरासारसेकसुकुमारः।
व्यथयति विरहेवकुलः क परिचयः प्रकृतिकठिनानां॥३४५॥

द्विवैरेष्यामि दिनैरिति किं तदवसि सखि तवाश्यासः।
कथयति चिरपथिककृतं दूरनिखातो नखाङ्कस्ते॥३४६॥

दतिस्पर्शोन्मीलित वम्मं जलस्व लितच र गनखलाचे।
ग़वंभरमुखरिते सखि तच्चिकुरान् किमपराधयसि॥३४७॥

दुष्टग्रहेण गेहानि तेन कुपुत्नेण किं प्रजातेन।
भौमेनेव निजं कुलमङ्गारवत् कृतं येन॥३४८॥

दर्शिततापोच्छु यैस्तेजोवह्निः सुगोत्नसञ्जातैः।
हिरेरखप्रवीरैरापत्स्वपि गम्यते नाधः॥३४८॥

दरनिद्रावस्यापि स्मरस्य शिल्पेन निर्गता शून्यं।
मुग्धे तव दृष्टि रचावर्जुनयन्त्रेषुरिव हन्ति ॥३५०॥

दुर्गतगृहिणी तनये करणार्द्रा प्रियतमे राममयी।
मुग्धा रताभियोगं न मन्यते व प्रतिक्षिपति ॥३५१॥

दुर्गतमेहिनि जर्ज्जरमन्दिर सुप्तैव वन्दसेचन्द्रं।
बयमिन्दु वञ्चितदृशो नितुलितदोखाविहारिणः॥३५२॥

दारवितुम् किमपारि व हृदयं कुसुमेषुणापि बालानां।
गूढ़प्रहारोच्छ बमिवाभाति यद्दक्षः॥३५३॥

दीर्वगवाक्षमुखान्तर्निपातिन स्तरुणि रश्मयः शोखाः।
नृहरिनखाइव दानववक्षःप्रविशन्ति सौधतलं॥३५४॥

दरतरलेक्षणि वक्षसि दरोव्रते तव मुखे च दरहसिते।
आस्तां कुसुमं वीरः स्प्ररोऽधुना चित्रधनुषापि ॥३५५॥

दुष्टसखी सहितेयं पूर्णेंन्दुमुखी सुखाय नेदानीं।
राकेष दृष्टियुक्ता भवतोऽभिमताय निशिभवतु ॥३५६॥

दलिते पलालपुज्जेवृषभं परिभवति गृहपतौ कुपिते।
जिभृते निभालितवदनो हलिकबधू देवरौहसतः॥३५७॥

दीप्यन्तां ये दीप्तौघटिता मण्यश्च वीरपुरुषाश्व।
तेजः स्वविनाशाय तु नृणां तृणानामिव लघूनां॥३५८॥

धूमैरश्रूणि पातय दह शिखया दहन मलिनयाङ्गारैः।
नागरयिष्यति दुर्गतगृहिणी त्वां तदपि शिभिरनिधि॥३५९॥

धैर्य्यंनिधेष्ठि गच्छतु रजनी सोप्यतु सुमुखि सोत्कण्ठः।
प्रविश हृदि तस्यदूरं क्षणधृतमुक्ता स्प्ररेषुरिव॥३६०॥

श्वबलनखलक्ष्य दुर्व्वलमकलितनेपथामलकपिहिताक्ष्याः।
द्रक्ष्यामि मदवलोकनद्दिगुणाश्र वपुः पुणेद्धीरि॥२६०॥

धर्मारन्भेऽरम्यतां परहिंसैव प्रयोजिका भवति।
काकानामभिषेके कारणतां दृष्टिरनुभवति॥३६१॥

नीसवतरणदन्तुरसैकतवः भेदमेदुरैः शिशिरे।
राजन्ति तूलराशिस्थूलपटैरिव तटैः सरितः॥३६२॥

निजकायच्छायायां विश्रम्य निदाघविपदमपनेतुम्।
वत विविधास्तनुभङ्गी र्मुग्धकुरङ्गीयमाचरति॥३६३॥

न हसन्ति जरठ इति यद् वल्लववाला नमन्ति नन्दमपि।
सखि स यशोदातनयो नित्यं कन्दलितकन्दर्पः॥३६४॥

नीतास्तमावमर्पितवपुरपि वाम्यं न कामिनी त्यजति।
हरदेहार्थग्रथिता निदर्शनं पार्वतीतच॥३६५॥

नागरभोगानुमितस्वबधूसौन्दर्य्यगर्वतरलस्य।
नियतति पदं न भूमो ज्ञातिपुरतस्तन्तुवायस्थ ॥३६६॥

निपतति चरणेकोणं प्रविश्य निशि यन्निरीक्षते क स्तत्।
सखि स खल लोकपुरतः खलः स्वगरिमापमुद्गिरति॥२६७॥

न विमोवज्जितुंशक्यः क्षमां महान्मोचितो यदि कथञ्चित्।
मन्दरबिरिशिव मरलं निवर्त्ततेऽनर्थमुत्पाद्य॥२६८॥

नियतैःपदै र्निसेत्र्यं स्वलिलेऽक्वर्थावहं समाश्रयति।
सावदिन्यगतिः कः सङ्ग मकाष्ठं दुरीशञ्च॥३६८॥

निर्जपदगुणेंम रुज्जित जंगतां करिणाज्जसत्कावीनाञ्च।
कहतामपि महिमानं शोभायै सज्जनाएव॥३७०॥

नोत्तपत्ते न स्नेहं हरति न निर्वाति न मलिनं चमति।
तस्योज्ज्वलो निशि निशि प्रेमा रत्नप्रदीप दूव॥३७१॥

निहितान् निहितानुज्भति नियतं मम पार्थिवानपि प्रेम।
भ्रामं भ्रामं तिष्ठति तत्नैव कुलालचक्रमिव॥३७२॥

निर्भरमपि संभुक्त दृष्ट्या प्रातः पिबन् न तृम्यामि।
जघनमनंशुकमस्यायकोर इव शिशिरकरविम्बं॥३७३

निविघटितोरुयुगलां श्वासोत्तु ङ्गस्तनार्पितव्यवनां।
तां स्निग्धकुपितदृशं स्मरामि रतिनिः सहां सुतनुं॥३७४॥

निर्गुणइति मृतइति च हावेकार्थाभिधायिनौ विधि।
अपश्य धनुर्गुणशून्यं निर्जीवं यदिह शंसन्ति॥३७५॥

निजसूक्ष्मसूत्रलम्बी विलोचनं तरुणं ते क्षणहरतु।
स्वयमुद्गगृहीतवड़िशः कर्क्कट द्रव मर्कटः पुरतः॥३७६॥

नागरक गीतिरिव सा ग्रामस्थितापि हृदयहरा सुतनुः।
कस्तूरी न मृगोदरवासवशाद् विस्रतामेति॥३७७॥

नखलिखितस्तनि कुरुवकमयपृष्ठे भूमिलुलितशर्वाङ्नि।
हृदयविदारणनिःसृतकुसुमास्त्रशरइव हरसि मनः॥३७८॥

नीता लघिमान मियं तस्यां गरिमाणमधिकमर्पयसि।
भार इंव विषमभार्य्यःसुदुर्वहो भवति गृहवासः॥ ३७९॥

मच दूतीनच याच्जानचाज्जलि र्नच कट्राक्षनिक्षेपः।
सौभाग्य मानिनां सखि कुचग्रहः प्रथममभियोगः॥३८०॥

निभिः विषमकुसुमविथितप्रेरितयो र्नौसम्धरतिरसयो र्हि।
मान स्तथैव विलसति दम्पत्योरभिषिकग्रन्थिः॥३८१॥

निजनानंनिर्विशेषस्थापितमपि निखिलसारमादाय।
निर्भीकज्जभुजङ्गीमुज्जति पुरुषज्जवारबधुः॥३८२॥

नृत्यश्रमधर्मार्द्रमुञ्चसि कृच्छ्रेणेकञ्चुकं सुतनु।
मकरन्दोदकजुष्टं मदनधनुर्वल्लीरिव चोलं ॥३८३॥

नाहं वदामि सुतनु त्वमशीला वा प्रचण्डचरिता वा।
प्रेमस्वभावसुलभं भयमुदयति मम तु हृदयस्य॥३८४॥

नखदशनमुष्टिपातैरदयैरालिङ्गनैश्च सुभगस्य।
अपराधं शंसन्त्यः शान्तिं रचयन्ति रागिण्यः॥३८५॥

न निरूपितोऽसि सख्या नियतं नेत्नत्निभागमात्नेण।
हारयति येन कुसुमं विमुखे त्वयि कण्ठइव देवे ॥३८६॥

न गुणे न लक्षणेवा वयमि च रूपे च नादरो विहितः।
त्वयि सौरभेयि घण्टा कपिलापुवीति बद्धेयं ॥३८७॥

निष्कारणापराधं निष्कारणकलहपोषपरितोषं।
सामान्यमरणजीवनसुखदुःखं जयति दाम्पत्यं॥३८८॥

न प्राप्यसे कराभ्यां ह्रदयावापैषि वितनुषे बाधां।
त्वं मम भग्नावस्थितकुसुमायुधविशिखफलिकेव॥३८९॥

नाथइति परुषमुचितं प्रियइति दासइत्यनुग्रहो यत्र।
तद्दाम्पत्यमतोऽन्यं नीबी रज्जुः पशुः पुरुषः॥३८०॥

निहितायामन्यस्यामपि सेवैका मनसि मम स्फ़ुरति।
रेखान्तरोप्रधाना यत्राक्षरराजिरिव दयिता ॥३८१॥

निधिनिक्षेपस्थानस्योपरि चिह्नार्थिमिव लता निहिता।
लोभयति तव नमूदरि जघनतटादुपरि रोमावली॥३८२॥

निहितार्हलोचनाया स्त्वंतस्या हरति हदयवर्य्यान्तं।
न सुभग समुचितमीदृशमङ्गुलिदाने भुजं गिलसि॥२८३॥

नीत्वागारं रजनीजागरमेकच सादरं दत्त्वा।
अचिरेण कैर्न तरुणैर्दुर्गायचीव विमुक्तासि॥३४॥

नक्षत्नेऽन्गाविन्दावुदरे कनके मणौदृशि समुद्रे।
यत् खलु तेजस्तदखिलमोजायितमलमित्नस्य॥३८५॥

न स वर्णो न च रूपं न संस्कृतिः कापि नापि सा प्रकृतिः।
बाला त्वरिहापदि जाताऽपभ्रंशभाषेव॥३८३॥

न विभूषणे तवास्या वपुर्गुणेनैव जयसि सखि पुनः।
अवधीरितास्त्रमस्त्रा कुसुमेषो र्मल्लविद्येव॥३८७५॥

नेत्राकृष्टो भ्रामं भ्रामं प्रेयान् यथा यथाऽस्ति तथा।
मन्ययति सखि मनो मम दधिभाण्डं मन्यदण्डदव॥३८८॥

नानावर्णकरूपं प्रकल्पयन्तीमनोहरं तन्वी।
चित्रकरतूलिकेज त्वां सा प्रतिभित्ति भावयति॥८॥

पथिकासक्ला किञ्चिन् न वेद घनक्लमगोपिका गोपी।
केलिकलाहङ्कारैः कीरावली मोघमपसरति॥४०९॥

प्रणमति चुम्बति पश्यति संश्लिष्यति पुलकमुकुलितैरङ्गैः।
प्रियसङ्गाय स्फ़ुरन्तीवियोगिनी वामकाहुलतां॥४०९॥

प्रविशसि नच निर्य्यातुम् जानासि व्याकुलत्वमातनुते।
बालक चेतसि तस्या चक्रव्यूहेऽभिमनुरिव॥४०२॥

पश्यानुरूपमिन्दिन्दिरेण माकन्द शेखरो मुखरः।
अपिच षिवुमर्दमुकुले मौकुलि कुलमाकुलं पतति॥४०३॥

प्रतिविम्बसम्बृताननमादर्श मुग्ध मम सखीहक्षात्।
आदातुमिच्छसि मुधा किं लोलाकमलमोहेन॥४०४॥

प्राचीनाचलमौलौ यथा शशीगगन मध्यमधिवसति।
त्वां सखि पश्यामि तथा कायामिवसङ्घवतानां॥४०५॥

प्राङ्गयजोणेऽपि निशापतिः सन्तापं सुधाभयोहरणि।
यदि मां रजनीज्वर इव स न विरुणद्धि मेहपतिः॥४०३॥

पतिपुस्तकदूनमात्रीस्वच्छायावीक्षेणेऽपि या सभयाः।
अभिसरति सुभग सा त्वां दखयन्ती कण्टकं तमसि॥४०७॥

प्रतिभूःशकोत्रिपक्षेदण्डः शृङ्गारसंकथा गुरुषुः।
पुरुषायितं वणस्तद बाले परिभाव्यतां दायः॥४०८॥

परमोहनाय सुप्तोनिकरुले तरुणितव कटाक्षोऽयं।
विशिखदवकलितकर्णः प्रविशति हृदयं न निःसरति॥४०८॥

प्रपदालम्वितभूमिश्रुबन्ती प्रोतिभीतिमधुराक्षि।
प्रियषीनांनिवेशितचिषुकतया न पतिता सुततुः॥७२०॥

प्रातरुपेतैव मृषा वदतः सखि नास्य विद्यते व्रीड़ा।
मुखलम्क्याऽपि योऽसौ न लज्जते पश्य कालिकया॥४११॥

पश्योत्तर स्तनूदरि फाल्गुनमासाद्य निर्ज्जितविपक्षः।
वैराटिरिव पतङ्गः प्रत्यामयनं करोति गवां ॥४१२॥

प्रमदवनं तव च स्तनशैलं मूलं गन्भीरसरसाञ्च।
जमति निदाघनिरस्तशैत्यो दुर्गत्रयं श्रयति ॥४१३॥

प्रोव्छति तयापराधं मानं मर्द्दयति निर्व्वृतिं हरति।
सुकृतन्निहन्ति शपथा नुजागरदीर्घानिशा सुभम॥४९४॥

प्रिय आयाते दूरादभूत इव सङ्गमोऽभवत् पूर्व्वः।
मानरुदितप्रसादाः पुमरासन्रपरसुरतादौ॥४१५॥

पूर्व्वमहीधरशिखरे तमः समासन्नमिहिरकरकलितं।
शूलप्रोतं सरुधिरमिदमन्धकवपुरिवाभाति॥४१६॥

परिवृत्तनाभि लुप्तत्रिवलि श्यामस्तनाग्रमखसाक्षि।
बहुधवलजघनलेखं वपु र्न पुरुषायितं सहते॥४१७॥

प्रारब्धनिधुवनेव स्वेदजलं कोमलाङ्गि किं वहसि।
श्यामर्पयितुं नमिता कुसुमास्त्रधनुर्लतेव मधु॥४१८॥

पुंसां दर्शय सुन्दरि मुखेन्दुमवषामपाकच्च।
आयाजित इति रूढ़ा जनश्रुतिथे यशो भवतु॥४१६॥

प्रसरतु शरन्तियामा जगन्ति धवलयतु धाम तुहिनांशो।
पज्जरचमोरिकाणाम् कणिकाकलोऽपि न विशेषः॥४२०॥

पतितेऽशुकेस्तनार्पित हस्तां तां निविड़जघनपिहितीरुं।
नसंपदविकलां फूत्जतिशतधूतदीषां मनःस्मररति॥४२१॥

प्रथमागत सोत्कण्ठा चिरचलितेयं विलम्बदोषेव।
वक्ष्यन्ति साङ्गरागाः पथि तरव स्तव समाधानं॥४२२॥

परितः स्फ़ुरितमहौषधिमणिनिकरे केलितल्प इव शैले।
काज्जीगुण इवपतितः स्थितैकरनः फणी स्फुरति॥४२३॥

प्रावृषि शैलश्रेणीनितम्बमुजसि दिगन्तरे भ्रमसि।
चपलान्तरघन किं तव वचनीयं पवमवश्योऽसि॥४२४॥

प्रतिदिवसक्षिणदशःतवैष वसनाचलोऽतिकरकुष्टः।
भिजनायकमतिक्कपनं कथयति कुग्राम इव विरलः॥४२५॥

पथिक कथं चपलोज्वलमम्बुदजलविन्दः निवहमविषह्यं।
मयपुरकनकद्रवमिव शिवशरशिखिभावितं सहसे॥४२६॥

पथिकं श्रमेण सुप्त दरतला तरुणि सुमधुरच्छाया।
व्यालम्बमानवेणिः सुखयसि शाखेव सारोहा॥४२७॥

प्रददासि नापरास प्रवेशमपि पीनतुङ्गजघनोरुः।
या लुप्तकीस्वभारा यतो हृदि बहिरदृश्यासि॥४२८॥

प्रातः र्निद्राति यथा यथात्मजा लुलितनिःसहैरङ्गैः।
जामातरि मुदितमाना स्तथा तथा सादरा श्वश्रूः॥४२६॥

प्रण्यवलितया सकपटकोपकटाक्षैर्मया कृतस्तम्भः।
त्रासतरलो गृहीतः सहासरभसं प्रियः कण्ठे॥४३०॥

प्रियदुर्मयेन हृदय स्फ़ुटसि यदि स्फ़ुटनमपिं तवश्लाघ्यं।
तत्कलि समये तल्पीकृतस्य वसनाञ्चलस्येव॥४३१॥

पवनोपनीतसौरभदूरोदकपूरपद्मिनीलुब्धः।
अपरीक्षितस्वपक्षोगन्ता हन्ता पदं मधुपः॥४३२॥

प्रेमलघुकृतकेशत्रवक्षोभरविपुलपुलककुचकलसा।
गोवर्द्धनगिरिगुरुतां मुग्धबधू र्निभृतसुपहसति॥४३३॥

प्रियविरहनिःसहायाः सहजविपक्षाभिरपि सपत्नीभिः।
रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृहभङ्गभीताभिः॥४३४॥

प्रकटयति रागमधिकं लपनभिदं वक्रिमाणमावहति।
प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य॥४३५॥

प्रविशन्त्याः प्रियदयं बालायाः प्रवलयौवनव्याप्तं।
नवनिमितदरतरङ्गितनयनमयेनासिना पन्थाः॥४३६॥

प्रणयापराधरोषप्रसादविश्वासकेलिपाण्डित्यैः।
रूपप्रेमा क्रियते किमु बाला कुतुकमात्रेण॥४३१॥

पूव्वैरेव विचित्रैर्गमनैर्जनितास्ति पूज्यता भवतः।
मुञ्चमदमस्य गन्धात् युवभिः कुञ्जरमन्वनीयोऽसि॥४३८॥

प्रसभं प्रवेशितायां वासामारं कधञ्च न सखीभिः।
न शृणोतीव प्रातः सा निर्गममाप्तसड्केता॥8३८॥

पूजा विमा प्रतिष्ठां नास्ति न मन्त्र विना प्रतिष्ठा च।
तदुभयविप्रतिपन्नःपश्यतु गीर्वाणपाषाणं॥४४०॥

पूर्वाधिको गृहिण्याबहुमानः प्रेम नर्न्मविश्वासः।
भीरधिकेय कथयति रागं बालया विभक्तमिव॥४४१॥

पुलकितकठोरपीवरकुचकलशाश्लेश्चवेदनाभिद्मः
शम्भोरुपवीतफणी वान्छति मानग्रहं देव्याः॥४४२॥

प्रिय या दूरादिति या प्रीत्तिर्बभूव गेहिन्याः।
पथिकेभ्यः पूर्वागतइति गर्वात् साविशतशिखरा॥४४३॥

पृष्ठं प्रयच्छ मा स्पृश दूरादपसर्प विहितवैमुख्यः।
त्वामनुधावति तरणि स्तदपि गुणाकर्षतरलेयं॥४४४॥

प्रियाया कुड्कमपिञ्जरपाणिवययोजनाचितं वासः।
प्रहितं मां याच्ञाञ्जलिसहस्र करणाय शिखयति॥४४५॥

पश्वातिनिर्द्दय कुलटाशोषित नैवेर्ष्यया न रोषेण।
दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य॥४४६॥

प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति।
प्रागिरिपिहिता रात्नीसन्धयारागं दिनस्येव॥४४७॥

परपतिनिर्द्दयकुलटासख नेर्ष्ययान शत्रा न कोपेन।
दग्धममतोपतप्ता रोदिमि तब तानवं वीक्ष्य॥88८॥

प्राड्गण एव कदा मां श्लिष्यति मन्युकम्पितकुचकलशा।
अंसनिषणमुखी सा स्रपयति वाष्पेण मम पृष्ठं॥88९॥

प्रेतैः पृथस्तसत्वा साश्रुकैर्वीक्षिता स्वलद्गासैः।
चुम्बति मृतस्य वदनं भूतमुखोरको चितं बाला॥8५०॥

पिश्चमः खलु सुजनानां खलमेव पुरो निधाय जेतव्यः।
कृत्वा ज्वरमात्मीयं जिगाय वाणं रणे कच्छ ॥८५१॥

पिब मधुप बकुलकलिकां दूरे रसनाथमाधाय।
अधरविलेपसमाप्येमधुनि सुधा वदनमर्पयसि॥8५२॥

प्रायेणैव स्त्राना मलिनानामाश्रयत्वमुपायान्ति।
कालिन्दीपुटभेदः कालिपुटभेदनं भवति ॥8५३॥

पश्य प्रियतसुविघटनभयेन मथिमौलि देहसंलम्बा।
सुभगैकदैवतमुभा शिरसा भागीरथींवहति॥8५8॥

पत्रिकबधूजनलोचनवाष्पनदीमातृकेषु देशेषु।
घनमण्डलमाखण्डलधनुषा कुण्डलितमिव विधिना॥ 8५५॥

प्रतिवेथिविबन्धुषु दूरात् कच्छागतोपि गेहिन्याः।
प्रतिकेलिलम्पटतया दिनमेकमगोपि गेहपतिः ॥8५६॥

परपट इव रजकीभि र्मलिनो भुक्तापि निर्द्दयं ताभिः।
द्रव्यग्रहेण न बिना जघन्य मुक्तोऽसि कुलटाभिः॥8५७॥

सुयोषिति लाक्षारुणशिरसि वयस्येन दयित उपहसिते।
तत्कालकलितलज्जापिशुनयति सखीसु सौभाग्य॥8५८॥

बन्धनभाजोऽ मुष्या चिकुरकलापस्य मुक्तमालस्य।
सिन्दूरितसीमन्तच्छलेन हृदयं विदीणमिव॥8५६॥

वलमपिवसति मयीति श्रेष्ठिनि गुरुगर्वगहदं वदति।
तज्जयया जनानां मुखमीक्षितमावृतस्मितया॥8६०॥

बलबदनिलोपनोतस्फुटितनवाम्भोजसीरभो मधुपः।
आकृष्यते नलिन्या नासानिक्षिप्तरज्जुरिव॥8६१॥

वाणं हरिरिव कुरुते स्वजनो बहुदोषमप्यदोषमिव।
यावद्दोषं जाग्रति मलिम्ल चाइव पुनः पिशुनाः॥8६२॥

वीडस्प्रेव क्षणिको यद्यपि बहुवल्लभस्य तव भावः।
भग्ना भग्ना भूरिव न तु तस्या विघटते मैत्री॥४६३॥

भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणमपि श्रयसि।
धिङमानं तव कुश्वर जीवनं जहासि जठराग्नी॥8६8॥

भूतिमयं कुरुतेऽग्निः तृणमपि संलग्नमेनमपि भजतः।
सैव सुवर्ण दशा ते शङ्क गरिमापराधेन॥४६५॥

भवति निदावे दीर्घे यथेह यमुनेव यामिनी तन्वी।
द्दिपाइव दिवसा अपि तथा क्रमेण पृथीयांसः॥8६६॥

भवता महति स्नेहानलेऽर्पिता पथिक हेमगुटिकेव। .
तन्वीहस्तेनापि पृष्टुमशुङ्गैर्न सा शक्या ॥8६७॥

भूतिललितैक कुण्डलमुत्त सितकाण्डघटमियं मुग्धा।
पश्यन्तीनिश्वासैः क्षिपति मनो रेणपूरमिव॥8६८॥

भवतालिङ्गिभुजङ्गिजातः किल भोगिचक्रवर्त्ती त्वं।
कज्जुकवनेचरीस्तनमभिलषतः स्फुरति ते लघिमा॥४६८॥

भैक्षभुजो पक्षीपति रितिस्तुत स्तबधूस्वदृष्टेन।
रक्षक जयसि यदेका शून्येश्वरसदसि सुखमस्मि॥8७0॥

भोगाक्षमस्य रक्षांदृङ्मात्नेण कुर्वतोपि मुन्धस्य।
वृहस्य प्रमदापि श्रीरपि भृत्योपभोगाय ॥ 8७१॥

भवितासि रञ्जनीयेत्यध्वश्रमशान्तये पदं दधती।
स बलाद् बलयितजहां रुहां मां रहसि पातयति ॥8७२॥

भूषणतां भजतः सखि कषणविश्वस्व जातरूपस्य।
पुरुषस्य च कनकस्य च मुक्तो गरिमा सरागस्व ॥8७३॥

भस्प्रपरुषेऽपि गिरिशे श्रेहमयी त्वमुचितेन सुभवासि।
मोघस्वयि जनवादो यदोषधिपुस्खदुहितेति॥ 8७४॥

भयपिहितं बालायाः पीवरमुरूडयं स्मरोन्निद्रः।
निद्रायां प्रेमार्द्रः पश्यति निश्वस्य निश्वस्य ॥8७५॥

भ्रमरीव केशगर्भे गन्धहृता कुसुममनुसरन्ती त्वां ।
अव्यक्ता कूजन्तीसङ्केतं तमसि सा भ्रमति॥8७६॥

भ्रामं भ्रामं स्थितया श्नेहेतरपयसि तत्नतत्रैव।
आवर्त्तपतितनौकायितमनषा विनयमुपनीय ॥8७७॥

भ्रमयति गुणमयि कण्ठग्रह योग्यान् स्वमन्दिरोपेतान् ते।
हालिकनन्दिनि तरुथान् ककुद्मिनो मेधिरज्जुरिव ॥8७८॥

भालनयनेऽग्निरिन्दु र्मौलीगात्रेभुजङ्गमणिदीपाः।
तदपि तमोमय एव त्वमीश्वरः प्रकतिमतिभेतुम्॥8०८॥

मधुमदवीतव्रीड़ा यथा लपति सन्मूखंबाला।
तन्मूखमजाततृति स्तधा तथा वल्लभः पिवति॥४८१॥

मित्नैरालोच्च समं गुरु कृत्वा वदनमपि समारब्धः।
अर्थः सतामिव हतो मुखवैलक्ष्ये णमानोऽयं ॥४८२॥

मम रामिणो मनस्विनि करमर्पयतो ददासि पृष्ठमपि।
यदि तदपि कमलवन्धोरिव मन्ये स्वस्य सौभाग्यं ॥४८३॥

मा स्पृश मामिनि सकुपितमिव भणितं व्यवितान व्रीड़ा।
श्रालिङ्गितया सम्मितमुक्तमनाचार किं कुरुषे ॥४८४॥

मूलानिच निचुलानाम् हृदयानि च कुलंषसतीकुलटानां ।
मदिरमदिराप्रमत्ता गोदावरि किं विदारयसि ॥४८५॥

मलयद्रुमसाराणामिव धीराणां गुणप्रकर्षोऽपि।
जड़समयनिपतितानामनादरायैव न गुणाय ॥8८६॥

मधुमथनमौलिमाले सखि तुलयसि किं मुधात्मना राधां ।
यत्तव पदमदसीयं सुरभवितुं सौरभौङ्गेदः ॥8८७॥

मयियास्यति कृत्वावधिदिनसङख्य चुम्बनं तथाश्लेषं।
प्रिययानुशोचिता सा तावत् सुरताक्षमा रजनी ॥8८८॥

मृगमदनिदानमटवीकुङ ममपि कृषकवाटिका वहति ।
हट्टविलासिनि भवती परमेका पौरसर्व्वस्वं॥ 8८६॥

मधुदिवसेषु भ्राम्यन् यथा यथा विशति मानसं भ्रमरः।
सम्वि लोहकण्ठकनिभ स्तथा तथा मदनविशिखोपि ॥8८०॥

मयि चलिते तव मुक्ता दृशः सुताराः प्रिये सपानीबाः।
सत्वममूलयाः सद्यः प्रयान्ति मम हृदयहारत्वं ॥४८१॥

मुग्धे मम मनसि शराः स्मरस्यः पञ्चापि सततं विलम्माः।
शङ्गेस्तनगुटिकाइयमपितमेतेन तव हृदये॥४८२॥

मधुमथनवदनविनिहितवंशीसुषिरानुसारिणेरागाः।
हन्त हरन्ति मनो मम कलिकाविशिखाः स्मरस्येव॥४६२॥

महतोः सुवृत्तयोः सखि हृदयग्रह योग्य योः समुच्छ्रितयोः
सज्जनयोः स्तनयोरपि निरन्तरं सङ्गतं भवति॥8८३॥

मम वारितस्य बहुभि र्भुयोभूयः स्वयच्च भावयतः।
जातो दिशीव तस्यां सखे न निवर्त्तते मोहः॥8६8॥

मग्नो नमंद्रारसे हतोसि वीचिलोचनक्षेपैस्त्व।
यदुप्रच्यसे तरुवरभ्भ्रष्टो भ्भ्रंशोषि ते श्लाघ्यः॥४६५॥

मेनामुल्लासयति स्मेरयति हरिं गिरिञ्चविमुखयति।
कृतकरबधबिलम्बः परिणयने गिरिशकरकम्पः॥8६६॥

मधुमन्धि घर्मतिलकं खलदुक्ति घुर्णदरुणविलोकनञ्च।
तस्याः कदाधरासृतमाननमवधूय पास्यामि॥8६७॥

मेदिन्यां तव निपतति नैव पदं बहुवल्लभेति गर्व्वेण।
आश्लिष्य कैर्न तरुणैस्तरीब वसनै र्विमुक्तासि ॥8६८॥

मूले निसर्गचतुरं समर्पयन्तो रसं पुरो विरसाः।
इक्षव इव परपुरुषा विविधेषु रसेषु विनिधेयाः॥४६६॥

महति स्नेहे निहितः कुसुमं बहुदत्तमर्चितो बहुशः।
वक्र स्तदपि शनैश्रवग्रह इव दुष्टग्रहो दयितः॥५००॥

मा शवतरुणिपीबवक्षोरुहयो र्भरेण भन्ज गर्व्वं।
निर्मौकैरुपशोभा ययो भुजङ्गीभिरुन्मुक्तैः॥५०१॥

मम कृषिवाया हायां भूमावालिङ्गय सखि मिलितपुलकः
से इमपश्यमतत्क्षन् करोति किं नैष मामपरुषं॥५०२॥

मुचित इव क्षणविरहे रिपुरिव कुसुमेषुकेलिसंग्रामे।
दास इव श्रमसमये भजवताङ्गीं न तृप्यामि॥५०३॥

मुच्चसि किं मानवतीं व्यवसायद्विगुणरोषवेगेति।
स्नेहभवः पयसाग्निः सान्त्वेन च रोष उन्मिषति॥५०४॥

मलयजमपसार्य्यघनं वीजनविघ्नं विहाय वाहुभ्याम्।
स्मरसम्वापादगणितनिदाघमालिङ्गते मिथुनं॥५०५॥

महतोपि विश्वासान् महाशया दधति नास्यमपि लघवः।
सदृष्णोऽद्रिनुदधि र्विदावनद्यो न भेकमपि॥५०६॥

मधुधारेव न मुञ्चसि मानिनि रुक्षापि माधुरीं सहहां।
कृतमुखभङ्गापि रसं ददासि मम सरिदिववान्भोधेः॥५००॥

मदनाक्कष्टधनुर्ज्यास्वनैरिव गृहिणी पथिकतरुणानां।
वीणातन्त्नीकाणैःकेषां न विकल्पते चेतः॥५१८॥

मम भयमस्याः कोपो निर्देदोऽस्या ममापि मन्दाक्षम्।
यातं क्व चान्तरिक्षे स्मितसम्वृतिनमितकन्धरयोः॥५०८॥

मुक्ताम्बरैव धावतु निपततु भुवि सा सखे विपथगास्तु।
इयमेव नर्मदा मम वंशप्रभवानुरूपरसा॥५१०॥

मृगमदलेपनमेतत् नीलनिचोलैरनिशि निषेवश्व।
कालिन्दामिन्दीवरमिन्दिन्दिसुन्दरीब सखि॥५११॥

मम सख्या नयनपथे मिलितः शक्तो न कश्चिदपि चलितुम्।
पतितोसि पथिक विषमे घटकुटीयं कुसुमकेतोः॥५१२॥

महता प्रियेण निम्मितमप्रियमपि सुभग सह्यतां याति।
सुतसम्भवेन यौवनविनाशनं न खलु भेदाय॥५१३॥

मानग्रहकोपादनु सा दयितान्यव रेचनेह्यंम।
काज्जनमयीविभूषा दाहाश्चितशदभावेव ॥५१8॥

यूनः कण्टकिविपानिवाञ्चलग्राहियस्यजन्ती सा।
वन व पुरेपि विचरति पुरुषं त्वामेव जानन्ती ॥५१५॥

युष्मासूपगंताः स्मोःविबुधा वाङ्मात्रपाटवेन वयं।
अन्तर्भवति भवत्स्वपि नाभक्त स्तन्नविज्ञातं ॥५१६॥

यत्र न दूतीयत्र त्रिगधा न दृशोषि निपुणया निहिताः।
न गिरोऽद्यापि व्यक्तीकृतः स भावोऽनुरागेण ॥५१०॥

या नीयते सपत्ना प्रविश्य यां वर्ज्जिता भुजङ्गमे ।
यमुनाया इवतस्याः सखि मलिनं जीवनं मन्ये ॥५१८॥

यक्तिन्नयशोपि वणोकीबोकोत्रो मानएव दीः गौल्यं।
लघुता गुणज्ञता किं नवो युत्रा न सखि तेऽद्य दृष्टः ॥५१८॥

यद् वीक्ष्यते खलानां महात्मा क्वापिदैवयोगेन ।
काकानामिव शौक्लांतदपि नचिरादनर्थाय ॥५२०॥

यत् खलु खलमुखहुतवहविनिहितमपि शुचिमेव परसेति ।
तदनलशौचमिवांशुकमिह लोके दुर्लभं प्रेम ॥५२१॥

यत्राधिमर्थयते पाथेयार्थंददाति सर्वस्वं।
तेनाऽनयातिदारुणशङ्कामारोपितं चेतः॥५२२॥

यूनामीर्थ्यावैरं वितन्वता तरुणि चक्ररुचिरेण।
तव जघनेनाकुलिता निखिला पल्लीखलेनेव॥५२३॥

यावजीवनभावी तुल्याशययो र्नितान्तनिर्भेदः।
नदयोरिवैष यूनोः सङ्गो रसमधिकमावहतु ॥५२४॥

याविहितां शेखरयसि मालां सा पातु शठ भवन्तमिति।
प्रहरन्तीं शिरसि पदा स्प्ररामि तां सर्वगुणकोपां ॥५२५॥

यौवनगुप्तिपत्यौ बन्धषु सुग्धत्वमार्ज्जवं गुरुषु।
कुर्वाणा हलिषबधूः प्रणम्यते व्याजतो युवभिः ॥५२६॥

यो गुरुभिर्न न मिवैर्न विवेकैरेव नापि रिपुहसितैः।
नियमितपूर्णःसुन्दरि स विनीतत्वं त्वयानीतः ॥५२७॥

यन्म लामार्द्रदकैः कुसुमं प्रतिपर्व फलभरः परितः।
द्रुम तन्माद्यसि वीचीपरिचयपरिणाम मविचिन्त्य॥५२८॥

यस्याङ्केस्मरसङ्गरविश्रान्तिप्रोव्छना सखौ स्वपिति।
स वहतु सुभगाभिमानं मदनधनुर्वह्निचोलइव ॥५२८॥

यदि दानगन्धमात्राद् वसन्ति सप्तच्छदेपि दन्तिन्यः।
किं मदकलङ्गमलिनां करीकपोलस्थलों वहति॥५३०॥

यदवधिविष्टङसान्द्रा विकासितकुसुमोत्करा शरश्रेणी।
पोतांशुक प्रियेयं तदवधि पल्लीपतेः पुत्री ॥५३१॥

यमुना तकङ्गतरलं न कुवलयं कुमुमहेले न सुलभं।
यदि सौरभानुसारौ भाङ्कारी भ्रमति न भ्रमरः॥५३२॥

ये शिरसि विनिहिता अपि भवन्ति न सखे समानसुखदुःखाः।
चिकुरा इव ते. बाला एव जरायां पाण्डुभावेपि ॥५३३॥

यत्रियतं निर्गुणं यन् न वंशजं यस्य नित्यनिर्वाणं ।
किं कुर्म्मस्तनिहितं धनुस्पदे देवराजेन॥५३8॥

या दाक्षिणा त्वमस्यामदक्षिणो दक्षिण स्तदितरस्यां ।
जलधि र्मध्यस्थः सन्नवेलयोः सदृशमाचरति ॥५३५॥

युगपज्जघनोरुस्तनपिधानमधुरे अपास्प्रितार्द्रमुखि।
लोलाक्षिनैष पवनो विरमति तय वसनपरिवर्त्ती ॥५३६॥

यद्यपि वचः शैलैर्य्यद्यपि गिरिमयनमुषितेसर्वस्वः।
तदपि परिभीतभूवर रक्षाया दीक्षितो जलधिः॥५३२॥

यस्यां दिशि यस्यतरी र्य्यामेत्य शिखां यतोबतची।
दृश्या सुधांशलेखा निशां चकोरस्तथा नयति ॥५३८॥

यत्नार्ज्ज वेन लघुता गरिमाण यत्र वक्रिमा तनुते।
कन्दःशास्त्र इवास्प्रिन् लोके सरलः सखे किमसि ॥५३८॥

यन्नोपकारकं यन् म भूषणं यत् प्रकोपमांतनुते।
गुरुणापि तेन कार्य्यंपदेन किं श्रीपदेनेव ॥५४०॥

यूथपते तव कश्चिन् न हि मानस्यानुरूप वह विटपी।
प्रेरम दिनं निदाघद्राघीयः क खलु ते छाया ॥५४१॥

यद्यपि चन्दनविटपी फलपुष्पविवर्ज्जितो विधिना।
निजवपुषैव तथापि स हरते सन्तापमपरेषा ॥५४५॥

राज्याभिषेकसलिलचालितमौलेः कथाएं कृणास्य।
गर्व्वभरमन्थराक्षिपश्यति पदपङ्गजं राधा ॥५8३॥

रतिकलह कुपितकान्ता कर विकुराकर्ष मुदित गृहनार्यः।
भवति भवनं तदन्य प्रागशः पर्णशाला वा ॥५88॥

रोगी राजायत इति जतवादं सत्यमद्य कलयामि।
आरोग्यपूर्व कं त्वयि तल्योपान्तागर्ते सुभग ॥५४५॥

रुद्दस्वरसप्रसरस्यार्लिभिरग्रेसरं प्रियं प्रति मे ।
विस्त्रोतसइव निम्नं प्रति रागस्य हिगुण आवेगः॥५४६॥

रुपमिदं कान्तिरसावयमुत्कर्षः सुवर्णरचनेयं।
दुर्गतमिलिता ललिते भ्रमसि प्रतिमन्दिरद्दारं॥५४७॥

रचिते निकुज्जपवैर्भिक्षुकपात्नेददाति सावज्ञं।
पर्य्युषितमपि सुतीक्ष्णश्वासकदुष्टं वघूरत्नं॥५४८॥

रक्षति न सखि निजस्थितिमलघुः स्थापयति नायकः स यथा।
तिष्ठति तथैव तद्गुष्यविङ्केयं हारयष्टिरिव॥५४८॥

राजसि कशाङ्गिमङ्गलकलशी सहकारपल्लवेनेव।
तेनैव चुम्बितमुखीप्रथमाविर्भूतरागेण॥५५०॥

रूपगुणहीनभार्य्याभवति लघुधूलिरनिलचपलेव।
प्रथयति पृथुमुणने या तरणी तरणीव गरिमाणं॥५५१॥

रागे नवे विजम्भति विरहक्रममन्दमन्दाक्षे।
सस्मितसलज्जभीक्षितमिदमिष्ट सिद्दमाचष्टे॥५५२॥

रोषोऽपि रसवतीनां न कर्कशो मो चिरानुबन्धी वा।
वर्षाणामुलोऽपि हि सुखिग्धः क्षणिककल्पश्व॥५५३॥

रोदनमेतवन्ध सखि किं बहुरपि ममार्घः।
स्वप्नेनेव हि विहितो नयनमनोहारिणा तेन॥५५४॥

रोषेणैव मया सखि वक्रोग्रन्थिलोऽपि कठिनोऽपि।
ऋजुतामानीतोऽसी सद्यः स्वेदेन वंशइव॥५५५॥

रजनीमियमुपनेतुं पितृप्रसूःप्रथममुपतस्थे।
रञ्जयति स्वयमिन्दु कुनायकं दुष्टद्रतोव॥५५६

लग्नापि कृष्णवर्त्मनि सुस्निग्धवर्त्तिहन्त दग्धासि।
अयमखिलनयनसुभगे न भुक्तमुक्तां पुनः स्पृशति॥५५७

लक्ष्मीःशिक्षयति गुणानमून् पुन र्दुर्गति र्विधूनयति।
पूर्णे भवति सुवृत स्तुषाररुचिरपचपे वक्रः॥५५८॥

लतातन्तुनिरुवद्वारः शून्यालयः पतत्पतगः।
पथिके तस्मिन्रचलपिहितमुखो रोदितीव सखि॥५५६॥

लग्नं जघने तस्याः सुविशाले कलितकरिकरक्रीड़।
वप्रे शक्तं द्दिपमिव शृङ्गारस्त्वां विभूषयति ॥५६०॥

क्षिप्तं न मुखं नाग्रं न पक्षतीन चरचाः परागेण।
अस्पृशतेव नलिन्या विदरधमधुपेन मधु पीतं ॥५६१॥

लग्नं जघने तस्याः शुष्यति नखलक्षमानसं मम च।
भुक्तमविषमवेदनमिदमधिकस रागसाबाधं ॥५६२॥

लज्जयितुमखिलगीपीर्निपीतमनसं मधुद्विषिराधा।
अज्ञेव पृच्छति कथां शम्भो र्दयितार्द्दतुष्टस्वः॥५६३॥

लक्ष्मीनिःश्वासानिलपिण्डीक्कतदुग्धजलधिसारभुजः।
क्षिरनिधितीरसदो यशांसि गायन्ति राधायाः ॥५६४॥

लीलागारस्य वहिः सखि चरणातिथौ मयि प्रियया।
प्रकटीकृतः प्रसादो दत्त्वावातायने व्यजनं ॥५६५॥

वर्णष्टति र्न ललाटे न लुलितमङ्गं न चाधरे दंशः।
उत्पलमहारि वारिचर न स्पृष्टमुपायचतुरेण ॥५६६॥

व्यालम्बिचूर्णकुन्तलचुम्बितनयनाञ्चले मुखे तस्याः।
वाष्पजलविन्दवोऽलकमुक्ता इव पान्य निपतन्ति ॥५६७॥

विहितबहुमानमौना सखीप्रबोधैर्य्यदप्रमा तनुते।
रागार्त्तिका कुयाच्ञालघुवीर्य्याहरसि पुनरेषा॥५६८॥

विनयविनता दिनेऽसौनिशि मदनकलाविलासलसदङ्गी
निर्वाणज्वलितीषधिरिव निपुणप्रत्यभिज्ञेया ॥५६८॥

विषमशरविभिखमिना पल्लीशरणं यदेकमभिलषसि।
तस्य तव च्छायेव स्वीया जायाऽपि भयहेतुः॥५७०॥

विविधायुधव्रणार्वुदविषये वक्षःस्थले प्रियतमस्य ।
श्रीरपि वीरबधूरपि गर्वोत्पुलका सुखं स्वपिति ॥५७१॥

वैमुख्यऽपि विमुक्ताः शरा इवान्याययोधिनो बितनोः।
भिन्दन्ति पृष्ठपतिताः प्रियहृदयं मम स्वरवासाः॥ ५७२॥

व्यक्तमधुना समेतः खेड़ी मदिराक्षिदशनवसने ते।
तत्र वसुधैकसारं सोमिनि यत् किमपि नाद्राक्षं॥५७३॥

बालाविलासबन्धादप्रभवम् मनसि चिन्तयन् पूर्व्व।
समाजार्ज्जिताज्जतां गृहिणीमेवानुशोचामि॥५७४॥

वोजयतीरन्योन्ध’ यूनो र्वियुतानि सकलगात्राणि।
सन्मैत्नीर श्रोणीपरं निदाघेऽपि न विघटिता ॥५७५॥

व्यावोषं मानिन्धा स्तमो दिवः कासरं कलमभूमैः।
रुद्दमलिञ्च नलिन्याः प्रभातसन्धाऽपसारयति ॥५७६॥

वक्षिसि विजृन्भ्रमाणे स्तनभिन्नंलूटति कञ्चुकं तस्याः।
पूर्वदयितानुराग स्तव हृदि न मनागपि त्रूटति ॥५७७॥

व्यक्तिमवेक्ष्यतदन्यां तस्यामेवेति विदिताना सा।
हर्न्माहरिमुखमिव त्वामुभयोः साधारणं वेत्ति ॥५७९॥

व्यजनस्येव समीपे गतागतैस्तापहारिणो भवतः।
अञ्चलभित्र चञ्चलतां मम सख्याः प्रापितं चेतः॥५७८॥

वितरन्ती रसमन्त र्ममाद्रभावं तनोषि तनुगात्नि।
अन्तःसलिला सरदिव निवसति हृदि वहिरदृश्यासि ॥५८०॥

विहितविविधानुबन्धो मानोन्नतयावधीरितो मानी।
लभते कुतः प्रबोधं स जागरित्वेव निद्राणः ॥५८१॥

ब्रीड़ाविमुखीं वीतस्त्नेहामाशङ्कय काकुवाङ्मधुरे।
प्रेमार्द्रसापराधं दिशति दिशं व उभे बाला ॥५८२॥

वाष्पाकुलं प्रलपतो गृहिणि निवर्त्तस्वकान्त गच्छेति।
यातं दम्पत्यो र्दिननुगमनावधि सरस्तीरे ॥५८३॥

वक्षः शायिनि सान्द्रश्वासे वाङ्मावरभटे घनघर्म्मे।
सुतनु ललाटनिवेशितललाटिके तिष्ठ विजितासि ॥५८४॥

विचरति परितः कृष्णेराधायां रागचपलनयनायां।
दशदिग्वेधविशुद्ध विशिखं विदधाति कुसुमधनुः॥५८५॥

वीक्ष्यैव वेत्ति पथिकः पीवरबहुवायसं निजारामं।
सौन्दर्य्यकनिधेरपि दयितायाश्चरितमविचलितं ॥५८६

विमुखे चतुर्म्मुखे श्रितवति चानीशभावमीशेऽपिं।
मम्ममहीनिस्तारे हरिः परं स्तङ्गरोमाभूत् ॥५८७

वापीकच्छे वासः कटकवृतयः सजागरा भ्रमराः।
केतकविटप किमेतै र्ननु वारय मच्छरीगन्धं ॥५८८॥

विचलसि मुग्धे विष्टता यथा विशसि हृदयमदयम्प्रे।
शक्तिप्रसूनधनुषः प्रकम्पलच्यं स्पृशन्तीव ॥५८९॥

विहितासमशरसमरो जितगाङ्गेयच्छविः कृताटोपः।
पुरुषायितो विराजति देह स्तव सखि शिखण्डीव॥५८०॥

वृतिविरनिर्गतस्य प्रमदाविम्बाधरस्य मधु पिबते।
अवधीरितपीयूषः स्पृहति देवाधिराजोऽपि ॥५८१॥

वासितमधुनि बधूनामवतंसे मौलिमण्डने यूनां ।
विलसति सा पुरकुसभे मधुमेपीव वनप्रसूनेऽपि ॥५८२॥

ब्रीड़ाप्रसरः प्रथमं तदनुसारसभावपुष्टचेष्टयें ।
रजनीविनिर्गमादनु तटीव दयिता गनो हरति ॥५८३॥

वाससि हरिद्रयेव त्वयि गौराङ्गया निवेशितोरागः ।
पिशुनेन सोऽपनीतः सहसा पतता जलेनेव॥५८४॥

विस्वगविसारिसौरभरागान्धव्याधबाधनीयस्य ।
क्वचिदपि कुरङ्ग भवतो नाभीमादाय न स्थानं ॥५८५॥

वटकुटजशालमालालिरसालबहुवार सिन्धुवाराणां ।
अस्ति भिदा मलयाचलसम्भवसौरभ्यसाम्येपि ॥५८६॥

विनिहितकपर्द्दकोटिं चापलदोषेण शङ्करं त्यक्त्वा।
दटमेकमनुसरन्तीजाह्नवि लुठसि प्रयागतटे ॥५८७॥

वेद रजनी चतुणीं प्रहराणां सङ्गमं वियोगञ्च ।
चरणानामिव कूर्म्मो सङ्गोचमपि प्रसारमपि ॥५८८॥

वृतिविवरेण सरन्ती सुभग त्वामोक्षितुम् सखीदृष्टिः ।
हरति युषहृदयपश्चरमध्यस्था मन्मथेषुरिव ॥५६८॥

विपणितुलासामान्ये मा गणयेनं निरुपणं निपुणं ।
धर्म्प्रधरोऽसावधरीकरोति गुरुमुपरि नयति लघु ॥६००॥

बातरगम्यमनुरोरम्बरमवनी च वामनैकपदं ।
जलधिरपि पोतलङ्घयः सतां मनः केन कलयामि॥६०१॥

वितततमोमसिलेखालक्षोत्सङ्गस्फुटाः कुरङ्गाक्षि।
पत्राक्षरनिकरा इव ताराप्रकरा विराजन्ति ॥६०२॥

वपुषा भुजङ्गसङ्गमसहेन तब तरुणि गुरुनितम्बेन।
न क्षुभ्यति गम्भीरः को जलनिधि र्मन्दरेणेव॥६०३॥

विधिभाङ्गभङ्गिषु गुरु र्नुतनशिष्यां मनोभवाचर्य्यः।
क्षेत्रलतयेव बालां तल्पे नर्त्तयति रतरीत्या॥६०४॥

विपरीतमपि रतं ते स्रोतो नद्या इवानुकूलमिदं ।
तटतरमिव मम हृदयं समूलमावेगतो हरति ॥६०५॥

वैभवभाजां दुषणमपि भूषणपक्ष एव निक्षिप्तं ।
शुरमा मनामधर्म्मदेषञ्च मृगयन्ति काणदाः ॥६०६॥

वक्राकपटस्निग्धा मलिनाः कर्णान्तिके प्रसज्जन्तः ।
कं वञ्चयन्ति न सखे खलाश्च गणिकाकटाक्षाश्व॥६०७॥

विद्युज्ज्वालावलयितजलधरपिठरोदराद्दिनिर्याति ।
विषदौदनदतिमुषः प्रेयसि पयसा समं करकाः ॥३०८॥

व्यजनादिभिरुपचारैः किं मरुपधिकस्य गृहिणि विहितैमें ।
तापस्त्वदूरकदलीद्दयमध्ये शान्तिमयमेति ॥६०८॥

विश्वाचल इव देह स्तव विविधावर्त्तं नर्मदनितम्ब ।
स्थगयति गतिं मुनेरपि संम्भावित रविरथस्तम्भः ॥६१०॥

वैगुण्यमपि हि महतां विनिर्मितं भवति कर्म शोभायै ।
दुर्व्व हनितम्वमन्यरमपि हरति नितम्बिनीनृत्य॥६११॥

वीक्ष्यसतीनां गणने रेखामेकां तया स्वनामाङ्कां ।
सन्तु युवानो हसितुम् स्वयमेवापारि नाचरितुम् ॥६१२॥

वृतिभञ्जनगञ्जनसह निकाममुद्दाम लङ्गिताराम।
परवाटीशतलम्पट दुष्टवृष स्प्ररसि गेहमपि ॥६१३॥

वंशावलम्बनं यद् यो विस्तारो गुणस्य याऽवमतिः।
यज्जालस्य खलस्य च निजाङ्गसुप्तप्रणाशाय ॥६१४॥

वक्षःस्थलसुप्तेमम सुखमुपधातुम् न मौलिमभिलषसे।
पोनोत्तङ्गस्तनभरदूरीभूतं रतश्रान्ते॥६१५॥

वदनव्यापारान्त र्भावादनुरक्तमालयन्तीत्वं।
दूति सतीनां सार्थं तस्य भुजङ्गस्य दंष्ट्रासि ॥६१६॥

श्रीरपि भुजङ्गभोगे मोहेन विज्ञेन शायिता येन ।
सोऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः ॥६१७॥

शङ्के या स्थैर्यमयीश्वथयति बाहू मनोभवस्यापि ।
दर्शशिलामिव भवतीकतर स्वरुणो विचालयति ॥६१८॥

शार्दूलनखरभङ्ग रकठोरतरजातरूपवचनोसि।
बालानामपि बाला सा हस्या स्त्वमपि हृदि वससि ॥६१९॥

श्रुतएव श्रुतिहारिणि रागोत्कर्षण कण्ठमधिवसति।
गीत दूव त्वयि मधुरे करोति नार्थग्रहं सुतनुः ॥६२०॥

श्रीश्रीफलेन राज्यं तृणराजेनाल्पसाम्यतः प्राप्त।
त्वत्कुचयोः सम्यक्ः साम्यादं गतो घट श्वक्रवर्त्तित्वं॥६२१॥

श्रोणी भूमावङ्केसुतो भयं मनसि भूजे मौलिश्व।
गूढ़खासो वदने सुरतमिदञ्च तृणं त्निदिवं ॥३२२॥

श्लिम्बवित्र चुम्बात्रिव चोल्लिखन्निवादृतः।
दधत्रि पसारामि संख्या जघनं ॥३२३॥

शिरसि च णप्रहारं प्रदाबनिःसार्य्यतांस ते तदपि।

चक्राङ्कितो भुजङ्गः कालिय इव सुमुखि कालिन्द्याः॥६२४॥

शोच्येव सा कृशाङ्गीभूतिमयीप्रभवतु गुणमयी वापि।

सेहैकव्ययिमवता मुक्ता दीपेन वर्त्तिरिव॥६२५॥

शुक इव दारुशलाकापञ्जरमनुदिवसबर्द्धमानो मे।

कृन्तति दयिताहृदयं शोकः स्मरविशिखतीच्चमुखः॥६२६॥

श्रुत्वाकस्मिकमरणं शुकयूनः सकलकौतुकैकनिधेः।

ज्ञातो गृहिणीविनयव्यय आगत्यैव पथिकेन॥६२७॥

शीलितभूजङ्गभोगा क्रीड़ेनाभ्युद्धृतापि कृष्णेन।

अचलैव कीर्त्त्यते भूः किमशक्यं नाम वसुमत्सुः॥६२८॥

श्यामा विलोचनहरा बालेयं मनसि हन्त सज्जन्ती।

लुम्पति पूर्वकलत्रंधूमलता भित्तिचित्रमिव॥६२९॥

शतशो मतिमावृत्तिं शतशः कण्हावलम्बनं शतशः।

शतशो यामीति वचः स्मरामि तस्य प्रवासदिने॥६३०॥

श्रुतपरषुष्टरवाभिः पृष्टो गोपीभिरभिमतं कृष्णः।

शंसति वंशस्तनितैः स्तनविनिहितलोचनोऽभिमतं॥६३१॥

शङ्करशिरसि निवेशितपदाऽहमिति मा मुदं वहेन्दुकलै।

फलमेतस्य भविष्यति तत्र चण्डीचरणरेणुसृजा॥६३२॥

शाखिशिखरे समीरणेदोलायितनीड़निर्वृतं वसति।

कर्म्मैकशरणमगणितभयमशिथिलकेलि स्वगमिथुनं॥६३३॥

शक सुरतसमरनोरद हृदयरहस्यैकसारसर्वज्ञ।

गुरुजनसमक्षमूक प्रसीद जम्बूफलं दलय॥६३४॥

शिरसा वहसि कपर्दं रुद्र रुदित्वैव रजतमर्जयसि।

अस्वाष्युदरस्वार्द्धंभजतस्तव वेत्ति कस्तत्त्वं॥६३५॥

श्रोतव्यैव सुधेध श्वेतांशुकलेव दूरदृश्यासि।

दुष्टभुजङ्गपरीता त्वं केतकि न खलु नः स्पृश्या॥६३६॥

श्रवणोपनीतगुणयासमर्पयन्त्याप्रणम्य कुसुमानि।

मदनधनुर्णतयेव त्वया वशंदूति नीतास्मि॥६३७॥

शाकोटकशाखोटज वैखानसकरटपूज्य रट सुचिरं।

नादरपदमिह गणकः प्रमाणपुरुषो भवानेकः॥६३८॥

शशिरेखापमकान्ते स्तवान्धपाणिग्रहं प्रयातायाः।

मदनासिपुत्रिकाया प्रवाङ्गशोभां कदर्थयति॥६३९॥

शैथिल्येन भृता अपि भर्त्तुःकार्य्यंत्यजन्ति न सुवृत्ताः।

बलिनाकृष्टेवाहौवलयाः कूजन्ति धावन्ति॥६४०॥

वट्चरणकीटजुष्टं परागघुणकीर्णमायुषं त्यक्त्वा।

त्वां मुष्टिमेयमध्यामधुना शक्तिं स्मरो वहति॥६४१॥

सा दिवसकृत्ययोग्यव्यपदेशात्तस्य केवलं गृहिणी।

दितिधेर्दिवस्य परा तिथिरिव सेव्या निशि त्वमसि॥६४२॥

स्तननूतननखलेखालम्बीतव धर्म्मविन्दुसन्दीहः।

आभाति पदसूत्रेप्रविशन्निव मौक्तिकप्रसरः॥६४३॥

सौभान्धगर्वमेका करोतु यूथस्य भूषणंकरिणी।

युद्धार्थमेतवो र्यामदान्धयो र्मध्यमधिवसति॥६४४॥

स्वचररूपीड़ानुमितत्वम्मीलिरुजाऽपनीतमात्सर्य्या।
अपराहा सुभन त्वां स्वयभियमनुनेतुमार्याता॥६४५॥

लिहभयान् पीड़यत्तः किं चक्रेणाऽपि तैस्तलारस्व।

चालयति पार्थिवानपि यः स कुलालः परं चक्री॥६४६॥

सरले न वेद भवती बहुभङ्गां बहुरसां बहुविवर्त्तां।

गतिमसतीनेत्राणांप्रेम्नांस्रोतस्वतीनाच्च॥६४७॥

सखिमध्याह्नद्विगुणद्युमणिकरश्रेणीपीड़िता च्छाया।

मज्जितुमिवालवाले परित स्तरमूलमाश्रयति॥६४८॥

सखि शृणु मम प्रियोऽयं बेहं येनैव वर्मनायाति।

तन्नगरग्रामनदीः पृच्छति स ममागतानन्यान्॥६४९॥

सायं रजिरनलमसीमदनशरं स च वियोगिनीचेतः।

इदमपि तमःसमूहं सोऽपि नभो निर्भरं विशति॥६५०॥

स्मरसमरमयपूरितकम्बुनिभद्विगुणपीनगलगोलः।

शीर्षप्रासादोपरि जिगोदुरिव कलरवः क्वणति॥६५१॥

स्मुरदधरमविरताश्रव्वनिरोधोत् कम्पिकुचमिदं रुदितं।

जानूपनिहितहस्तन्यस्यमुखं दक्षिणप्रकृतेः॥६५२॥

स्वयमुपनीतैरशनैः पुष्यन्तीनीड़निर्वृत्तं दयितं।

सहजप्रेमरसज्ञासुभगा गर्वं वकीवहतु॥६५३॥

स्वरसेन बध्नतां करमादाने कण्ठोत्करैस्तुदतां।

पिशुनानां पनसानां कोषीभोगोऽथ परिणामः॥६५४॥

सौभाग्यं दाक्षिस्वान् नेत्युपदिष्टं हरेणतरुणीनां।

वामार्द्धमेव देव्याः स्ववपुः शिल्पेनिवेशयता॥६५५॥

स्थलकमललीलामृता क्रीड़स्थितैकचरणेन सा।
विश्वासयति नलिन्याः कुले विकण्ठीका सफरं॥६५६॥

सनखपदमतिगौरं नाभीमूलं निरंशुकं कृत्वा।

अनया सेविततपोवन त्वं किं कृतमलयभृगुणातः॥६५७॥

सर्वाङ्गमर्पयन्ती लोला सुप्तं श्रमेण शय्यायां।

अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः॥६५८॥

सुभग स्वभवनभित्तीभवता सन्मदा पीड़िता सुतनुः।

सा पीड़यैव जोवति दधती वैद्येषु विद्वेषं॥६५९॥

सा गुणमयी स्वभावस्वच्छा सुतनुः करग्रहायत्ता।

भ्रमिता बहुमन्त्रविदा भवता काश्मीरमालेव॥६६०॥

सब्रीड़स्मितसुभगे स्पृष्टास्पृष्टेव किञ्चिदपयान्ती।
अपसरसि सुन्दरि र्यथा तथातथा स्पृशसि मम हृदयं॥६६१॥

सखि सुखयत्यवकाशप्राप्तः प्रेयान् यथा तथा न गृही।

कतादवारितादपि भवति गवाक्षानिलः शीतः॥६६२॥

सन्ततमरुणमुखी सखि निगिरन्ती गरलमिवगिरां गुम्फं।

अविगणितीषधिमन्त्रा भुजङ्गिरक्तं विरञ्जयसि॥६६३॥

सुदिनं तदेव यत्र स्मारंस्मारं वियोगदुःखानि।

आलिङ्गिता सा गाढ़ं पुनः पुन र्य्यामिनीप्रथमे॥६६४॥

सान्तर्भयं भुजिष्या यथा यथा चरति समधिकां सेवां।

साशङ्कसेर्ष्यसभया तथा तथा गेहिनी तस्याः॥६६५॥

सुन्दरि दर्शयति यथा भवद्विपक्षस्य तत्सखीकान्तिं।

पतति तथा मम दृष्टि स्त्वदेकदासस्य सासूया॥६६६॥

स्वाधीनैरधरव्रणनखाङ्कएवाबलो यदि न शयनैः।

सुभगा सुभगेत्यनया-सखि निखिला मुखरिता पल्ली॥६६७॥

सरित द्रव यस्य गेहे शुष्यन्ति विशाल

णेजा नार्य्यः।

क्षाराव्वेव स तृप्यति जलनिधिलहरीषु जलद इव॥६६८॥

सकलकटकैकमण्डिनि कठिनीभूताशये शिखरिदन्ति।

भिरिभुव इव तवमन्ये मनःशिला समभवच्चण्डि॥६६९॥

सखि दुरवगाहगहनो विदधानो विप्रियं प्रियेऽपि जने।

खल इव दुर्लक्षस्तव विनयमुखोपस्थितः कोपः॥६७०॥

स्वेदसचेलस्नाता सप्तपदीं सप्तमण्डलीं याता।

समदनदहनविकारा मनोहरा ब्रीड़िता नमति॥६७१॥

सुरसप्रवर्त्तमानः सङ्घातोऽयं समानवृत्तानां।

एत्यैव धर्म्मवृत्तैर्भङ्गुरितः काव्यसर्ग इव॥६७२॥

सर्वासामेव सखे पयो गवामिवमनोहारि तस्याः।

पुनः पुनरावृत्तीच दुग्धमिव सुरतमेव मधुरं॥६७३॥

स्वप्नेऽपि यां न मुञ्चसि या तेऽनुग्राहिणी हृदि स्थिता च।

दुष्टां न बुद्धिमिव तां गूढ़व्यभिचारिणीं वेत्सि॥६७४॥

सपरावृत्तिचलन्तीवात्येव तृणं मनोऽनवद्याङ्गि।

हरसि तरलयसि वहसि भ्रमयसि लोलयसि पातयसि॥६७५॥

सा बहुलक्षणभावा स्त्रीमात्रं वेति कितव तव तुल्यं।

कोटि र्वराटिका वा द्यूतविधेः सर्वत्र पणः॥६७६॥

सा विरहदहनदूना भृत्वा भृत्वापि जीवति वराकी।

सारीव कितव भवता अनुकूलिता पातिताऽक्षेण॥६७७॥

स्पर्शादेव स्वेदं जनयति नच मे ददाति निद्रातुम्।

णेयइव जनांशुकमपि न निदाघः क्षणमपि क्षमने॥६७८॥

सा भवतो भावनया समयविरुद्धं मनोभवं बाला।

नूतनलतेव सुन्दर दोहदशक्त्याफलं वहति॥६७९॥

स्पृशति नखरैर्न विलिखति सिचयं गृह्णाति न च विमोचयति।

नच मुञ्चति नच रमयति नयति निशां सा च न निद्राति॥६८०॥

स्तनजघनमुच्चमस्या लङ्घितमध्यं सखे मम कटाक्षः।

नोज्झति रोधश्वत्यास्तटद्वयं तीर्थकाक इव॥६८१॥

सब्रीड़स्मितमन्दश्वसितं मा मां स्पृशेति शंसन्त्या।

आकोपमेत्य वातायनं पिधाय स्थितं प्रियया॥६८२॥

सकचग्रहं सरुदितं साक्षेपंसनखमुष्टि सजिगीषं।

तस्याः सुरतं सुरतं प्राजापत्यः क्रतुरतोन्यः॥६८३॥

स्वल्पा इति राघवबलै र्ये न्यस्ता आशये पयोराशेः।

शैला स्ते स्थितिमन्तो हन्त लघिम्नैव बहुमानः॥ ६८४॥

सखि न खलु निर्मलानां विदधत्यभिधानमपि मुखे मलिनाः।

केनाश्रावि पिकानां कुहुंविहायेतरः शब्दः॥६८५॥

सा श्यामा तन्वङ्गी दहता शीतोपचारतीव्रेण।

विरहेण पाण्डिमानं नीता तुहिनेन दूर्वेव॥६८६॥

सुनिरीक्षितनिश्चलकरवल्लभधाराजलोक्षिता न तथा। .

सोत्कम्पेन मया सखि सिक्ता सा माद्यति स्म यथा॥६८७॥

सखि मोघीकृतमदने पतिव्रते क स्तवादरं तनुते।

नाश्रौषी र्भगवानपि स कामविद्धोहरः पूज्यः॥६८८॥

सा मयि न दासबुद्धि र्न रति र्नत्रपा न वा विश्वासः।

हन्त निरीक्ष्यनवोढ़ां मन्ये वयमप्रिया जाताः॥६८९॥

सुचिरायाते गृहिणी निशि भक्त्यादिनमुखे विदग्धेयं।

धवलनखाङ्कं निजवपुरकुङ्कुमाक्तंन दर्शयति॥६९०॥

स्तनजघनोरुप्रणयो गात्रविलग्नो निवेशितस्नेहः।

प्रिय कालपरिणतिरियं विरज्यसे यन्नखाङ्ग इव॥६९१॥

सा विच्छाया निशि निशि सुतनु र्बहुतुहिनशीतले तस्ये।
ज्वलति त्वदीयविरहादोपधिरिव हिमवतः पृष्ठे॥६९२॥

सा नीरसे तव हृदि प्रविशति निर्य्याति न लभते स्थेैर्य्यं।

सुन्दर सरसा दिनकरविम्बेतुहिनांशुरेखेव॥६९३॥

सुकुमारत्वं कान्ति नितान्तसरलत्वमान्तराश्च गुणाः।
किन्नाम नेन्दुलेखे शशग्रहेणैव ते कथितं॥६९४॥

सौरभ्यमात्रमनसामास्तां मलयद्रुमेण हि विशेषः।
धर्म्मार्थिनां तथापि स मृग्यः पूजार्थमश्वत्थः॥६९५॥

संवाहयति शयनं यथोपवोजयति गृहपतिं गृहिणी।

गृहवृतिविवरनिवेशितदृशस्तथाश्वासनं यूनः॥६९६॥

सत्यंस्वल्पगुणेषु स्तब्धा सदृशे पुनर्भुजङ्ग सा।

अर्पितकोटिः प्रणमति सुन्दर हरचापयष्टिरिव॥६९७॥

सर्वंसहां महीमिव विधाय तां वाष्मवारिपरिपूर्णां।
भवनान्तरमयमधुना संक्रान्तस्ते गुरुः प्रेयान्॥६९८॥

सम्भवति न खलु रक्षा सरसानां प्रकृतिचपलचरितानां।

अनुभवति हरशिरस्यपि भुजङ्गपरिशीलनं गङ्गा॥६९९॥

सुलभेषु कमलकेशरकेतकमाकन्दकुन्दकुसुमेषु।

वाञ्छति मनोरथान्धामधुपीस्मरधनुषि गुणभावं॥७००॥

सा भवतो भावनया समयविरुद्धं मनोभवंबाला।

नूतनलतेव सुन्दर दोहदशक्त्याफलं वहति॥६७९॥

स्पृयति नखरैर्नविलिखति सिचयं गृह्णाति न च विमोचयति।

नच मुञ्चति नच रमयति नयति निशां सा च न निद्राति॥६८०॥

स्तनजघनमुच्चमस्या लङ्घितमध्यं सखे मम कटाक्षः।

नोज्झति रोधश्वत्यास्तटद्वयं तीर्थकाक इव॥६८१॥

सब्रीड़स्मितमन्दश्वसितं मा मां स्पृशेति शंसन्त्या।

आकोपमेत्य वातायनं पिधाय स्थितं प्रियया॥६८२॥

सकचग्रहं सदितं साक्षेषं सनखमुष्टि सजिगीषं ।

तस्याः सुरतं सुरतं प्राजापत्यः क्रतुरतोन्यः ॥ ६८३

स्वल्पा इति राघवबलै र्ये न्यस्ता आशये पयोराशेः।

शैला स्ते स्थितिमन्तो हन्त लघिम्नैव बहुमानः॥६८४॥

सखि न खलु निर्मलानां विदधत्यभिधानमपि मुखे मलिनाः ।

केनाश्रावि पिकानां कुछ विहायेतरः शब्दः ॥६८५॥

सा श्यामा तन्वङ्गी दहता शीतोपचारतीव्रेण।

विरहेण पाण्डिमानं नीता तुहिनेन दूर्वेव॥६८६॥

सुनिरीक्षितनिश्चलकरवल्लभधाराजलोक्षिता न तथा।

सोत्कम्पेन मया सखि सिक्तासा माद्यति स्म यथा॥६८७॥

सखि मोघीकृतमदने पतिव्रते क स्तवादरं तनुते।

नाश्रौषी र्भगवानपि स कामविद्धोहरः पूज्यः॥६८८॥

सा मयि न दासबुद्धि र्न रति र्न त्रपा न वा विश्वासः।

हन्त निरीक्ष्यनवोढ़ां मन्ये वयमप्रिया जाताः॥६८९॥

सुचिरायाते गृहिणो निशि भक्त्यादिनमुखे विदग्धेयं।

ववलनखाङ्कं निजवपुरकुङ्कुमाक्तंन दर्शयति॥६९०॥

स्तनजघनोरुप्रणयीगात्रविलग्नो निवेशितस्नेहः।

प्रिय कालपरिणतिरियं विरज्यसे यन्नखाङ्ग इव॥६९१॥

सा विच्छाया निशि निशि सुतनु र्बहुतुहिनशीतले तल्पे।

ज्वलति त्वदीयविरहादीपधिरिवं हिमवतः पृष्ठे॥६९२॥

सा नीरसे तव हृदि प्रविशति निर्य्याति न लभते स्थैर्य्यं।

सुन्दर सरसा दिनकरविम्बेतुहिनांशुरेखेव॥६९३॥

सुकुमारत्वं कान्ति र्नितान्तसरलत्वमान्तराश्च गुणाः।

किन्नाम नेन्दुलेखे शशग्रहेणैव ते कथितं॥६९४॥

सौरभ्यमात्रमनसामास्तां मलयद्रुमेण हि विशेषः।

धर्म्मार्थिनां तथापि स मृग्यः पूजार्थमश्वत्थः॥६९५॥

संवाहयति शयनं यथोपवीजयति गृहपतिं गृहिणी।

गृहवृतिविवरनिवेशितदृशस्तथाश्वासनं यूनः॥६९६॥

सत्यंस्वल्पगुणेषु स्तब्धा सदृशे पुनर्भुजङ्गे सा।

अर्पितकोटिः प्रणमति सुन्दर हरचापयष्टिरिव॥६९७॥

सर्वंसहां महीमिव विधाय तां वाष्मवारिपरिपूर्णां।

भवनान्तरमयमधुना संक्रान्तस्ते गुरुः प्रेयान्॥६९८॥

सम्भवति न खलु रक्षासरसानां प्रकृतिचपलचरितानां।

अनुभवति हरशिरस्यपि भुजङ्गपरिशीलनं गङ्गा॥६९९॥

सुलभेषु कमलकेशरकेतकमाकन्दकुन्दकुसुमेषु।

वाञ्छति मनोरथान्धा मधुषीस्मर

धनुषि गुणभावं॥७००॥

सा लज्जिता सपत्नीकुपिता भीतः प्रियः सखीःसुखिता।

बालायाः पीड़ायां निदानिते जागरे वैद्यै॥७०१॥

सुचिरागतस्य संवाहनच्छलेनाङ्गमङ्गमालिङ्ग्य।

पुष्यति न मानचर्य्यागृहिणी सफलयति चोत्कलिकां॥७०२॥

सा सर्वथैव रक्ता रागं गुञ्जेव नतु मुखे वहति।

वचनपटो स्तव रागः केवलमारये शुकस्येव॥७०३॥

सायं कान्तभुजान्तःपतिता रतिनीतनिखिलरजनीसा।

उषसि ददती प्रदीपं सखीभिरुपहस्यते बाला॥७०४॥

सा तीक्ष्णमानदहनो महतः स्नेहस्य दुर्लभः पाकः।

त्वां दर्वीमिव दूति प्रयासयन्नास्ति विश्वस्तः॥७०५॥

स्नेहः क्षति र्जिगीषा समरः प्राणव्ययावधिः करिणां।

न वितनुते कमनर्थं दन्तिनि तवयौवनोद्भेदः॥७०६॥

सहनादपैति दयितो हसति सखी विशति बालमिव वाला ।

ज्वलति सपत्नीकीरे जल्पति मुग्धे प्रसीदेति॥७০७॥

सङ्कुचिताक्षींद्विगुणांशुकां मनोमात्रविष्णुन्मदनां।

दयितां भजामि बाला मिवतुहिन त्वत्प्रसादेन॥७०८॥

सखी मानैव वसन्ती सदाशये संहति रसमये तस्य।

वाड़वशिखेव सिन्धो र्न मानप्यार्द्रतां भजसि॥७०९॥

सखि मिहिरोद्गमनादिप्रमोदमपिधाय सोऽयमवसाने।

वन्ध्यावधिवासर इव तुषारो दिवस कदर्थयति॥७१०॥

सुरभवनेतरुणाभ्यां परस्पराकृष्टदृष्टिहृदयाभ्यां।

देवार्च्चनार्थमुद्यतमन्योन्यस्यार्पित कुसुमं॥७११॥

सायं कुशेशयान्तर्मधुपालीनां विनिर्यतां नादः।

मित्रव्यासनविषणैःकमलैराक्रन्द इव मुक्तः॥७१२॥

सुमहति मन्युनिमित्तेमयैव विहितेऽपि वेपमानोरुः।

न सखीनामपि रुदती ममैव वक्षःस्थले पतिता॥७१३॥

सुभग व्यजनविचालनशिथिलभुजाऽभूदियं वयस्यापि।

उद्वर्त्तनं न सख्याः समाप्यते किञ्चिदवगच्छ॥७१४॥

सब्रीड़ा नखदशनार्पषेषु कुपिता कुटुम्बिनी दयिता।

बहुयाच्ञाचरणग्रहसाध्या रोषेण जातेयं॥७१५॥

सुगृहीतमलिनपक्षालघवः परभेदिनः परं तीक्ष्णा।

पुरुषा अपि विशखा अपि गुणच्युताः कस्य न भयाय॥७१६॥

स्वकपीलेनप्रकटीकृतं प्रमत्तदुःखकारणं किमपि।

द्विरदस्य दुर्जनस्य च मदं चकारैव दानमपि॥७१७॥

सत्यं पतिरविदग्धः सा तु स्वधियैव निधुवने निपुणा।

मार्त्तिकमादाय गुरुं धनुरधिगतमेकलब्येन॥७१८॥

सौभाग्यमानवान् स त्वयाऽवधीर्य्यापमानतां नीतः।

स्वविरहपाण्डिमानंभस्मस्नातोपमं तनुते॥३१९॥

हृत्वा तटिनि तरङ्गै र्भ्रमितश्चक्रेषुणामये निहितः।

फलदलधनरहित श्चत्वयान्तरिक्षे तरुस्त्यक्तः॥३२०॥

हृतकाञ्चिप्रतिबन्धोत्तरजघनादपरभोगभुक्तायाः।

उल्लसिता रोमालीगरलविलेखेव वामिन्याः॥७२१॥

क्षीणस्य दयितदुर्नयतापप्रशान्तोपचारमासाद्य।

अङ्गान्यानमयति शनैः प्रेम्नः शेषो ज्वरस्येव॥७२२॥

क्ष्मान्तमपसारितो वश्चरणावुपधाय सुत एद्धासि।

उद्घाटयसि किमूरू निश्वासैः पुलकयचूणैः॥७२३॥

क्षुद्रोद्भवस्य कटुतां प्रकटयतो विदधतश्चमदमुच्चैः।

मधुनोऽधमपुरुषस्यगरिमा लघिमा च भेदाय॥७२४॥

पूर्वैविभिन्नवृत्तां गुणाढ्यभवभूतिवाणरघुकारैः।

वान्देवीं भजतो मम सन्तः पश्यन्तु को दोषः॥७२५॥

हतपात्रोपनयोचित्तसत्प्रतिविम्बाभिनववस्तु।

कस्यजनयति न हर्षं सत्काव्यं मधुरवचनच्च॥७२६॥

सत्सूत्रसंविधानं सदलङ्कारं सुवृत्तमच्छिद्रं।

को धारयति न कण्ठे सत्काव्यं माध्यममर्षश्च॥७२७॥

एका ध्वनिद्वितीया त्रिभुवनसारा स्फुटोक्तिचातुर्य्या।

पञ्चेषुषट्पदहिता भूषा श्रवणस्य सप्तशती॥७२८॥

कविसमरसिंहनादः स्वरानुवादः सुधैकसम्वादः।

विद्वद्विनोदकन्दः सन्दर्भोऽयं मया विहितः॥७२९॥

उदयनबलभद्राभ्यां सप्तशती शिष्यसोदराभ्यां नः।

द्यौरिव रविचन्द्राभ्यां प्रकाशितानिर्म्मलीकृत्यः॥७३०॥

विरचन् वामनशीलां वामन इव कविपदं लिप्सुः।

अकृतार्थ्यासप्तशतीमेतां गोवर्द्धनाचार्य्यः॥७३१॥

श्रीगोवर्द्धनाचार्य्य-विरचिता आर्य्या-सप्तशती
समाप्ता ।

<MISSING_FIG href="../books_images/U-IMG-1729152099Screenshot2024-10-17133010.png"/>

विदग्धमुखमण्डनम।

<MISSING_FIG href="../books_images/U-IMG-1729153175Screenshot2024-10-17134804.png"/>

सिङ्घौषधानि भवदुःखमहागदानां

पुण्यात्मनां परमकर्णरसायनानि।

प्रक्षालनैकसलिलानि मनोमलानां .

शौद्धदनेः प्रवचनानि चिरं जयन्ति॥१॥

जयन्ति सन्तः सुकृतैकभाजनं परार्थसम्पादनसन्तस्थिताः।

करस्थनौरोपमविश्वदर्शिनोजयन्ति वैदग्ध्यभुवः कवेर्गिरः॥२॥

आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा

सातत्यं वत मुद्रितेवजतुना नीतेव मूर्च्छांविषैः।

बद्धेवातनुरज्जुभिः परगुणान्वक्तुं न शक्ता सती

जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते॥३॥

इहानेके सत्यं सततमुपकारिण्युपकृतिं

कृतज्ञाः कुर्वन्तो जगति निवसन्त्येव सुधियः।

कियन्तस्ते सन्तः सुकृतपरिपाकप्रणयिनो

विना स्वार्थं येषां भवति परकृत्यव्यसनिता॥४॥

बध्वाञ्जलिं सममसज्जनसज्जनौ तौ

वन्दे नितान्तकुटिलप्रगुणस्वभावौ।

एकं भियाऽभिनवसंहितवैरिभावं

प्रीत्वा परं परमनिर्वृतिपात्रभूतम्॥५॥

किम्मेऽथवा हतखलप्रणतावपि स्यात्

स स्वीकरोति सुजनो यदि मां गुणज्ञः।

चन्द्रेण चारुचरितेन विकासितं सत्

सङ्कोचितं भवति किं कुमुदन्तमोभिः॥६॥

प्रीत्यै सतान्तदनुभावगतावसादः

सन्त्यज्य गूढरचनां प्रतिभानुरूपम्।

क्षिप्रावबोधकरणक्षममीक्षितार्थं

वक्ष्ये विदग्धमुखमण्डनमप्रपञ्चम्॥७॥

यद्यस्ति सभामध्ये स्थातुं वक्तुंमनस्तदा सुधियः।

ताम्बूलमिव गृहीत्वा विदग्धमुखमण्डनं विशत॥८॥

प्राहुर्व्यस्तं समस्तं च द्विर्व्यस्तं द्विःसमस्तकम्।

तथा व्यस्तसमस्तं च द्विर्व्यस्तं द्विःसमस्तकम्॥९॥

सद्विःसमस्तकव्यस्तमेकालापं प्रभिन्नकम्।

भेद्यभेदकमोजस्विसालङ्कारं सकौतुकम्॥१०॥

प्रश्नोत्तरसमं पृष्ट प्रश्नं भग्नोत्तरं तथा।

आदिमध्योत्तराख्ये द्वेअन्त्योत्तरमतःपरम्॥११॥

कथितापह्नुतिञ्चैव विषमं वृत्तनामकम्।

नामाख्यातं च तार्क्यंच सौत्रं शाब्दीयशास्त्रजे॥१२॥

वर्णवाक्योत्तरेतद्वत् श्लोकोत्तरमतः परम्।

खण्डपादोत्तरे चक्रं पद्मं काकपदं तथा॥१३॥

गोमूत्रीं सर्व्वतोभद्रं गतप्रत्यागतं बहु।

वर्द्धमानाक्षरं तद्वद्धीयमानाक्षरं तथा॥१४॥

शृङ्खलां नागपाशं च चित्रं संशुद्धमेव च।

प्रहेलिकान्तथा हृद्यं कालसारादि वर्णितम्॥१५॥

अजमारादिकं गूढं पदपादार्थगूढकम्।

स्तुतिनिन्दान्तथाद्व्यर्थं सहापह्नुति विन्दुमत्॥१६॥

क्रियाकारकसंबन्धगुप्तान्यामन्त्रितस्य च।

गुप्तन्तथा समासस्य लिङ्गस्य वचनस्य च॥१७॥

मात्राविन्दुविसर्गाणां च्युतकान्यक्षरस्य च।

स्थानव्यञ्जनयोश्चापि च्युतदत्ताक्षरन्तथा॥१८॥

इत्युद्दे

शकम्।

पृष्टम्पदविभागेन केवलेनैव यद्भवेत्।

विदुर्व्यस्तं समस्तं यत्समुदायेन पृच्छति॥१९॥

पूजायां किं पदं प्रोक्तमस्तनं को बिभर्त्युरः।

क आयुधतयाख्यातः प्रलंबासुरविद्विषः॥२०॥

सुनासीरः, इति व्यस्तसमस्तजातिः।

को दुराढ्यस्य मोहाय का प्रिया सुरविद्विषः।

पदं प्रश्नवितर्केकिं को दन्तच्छदभूषणम्॥२१॥

रामानुरागः। इति व्यस्तजातिः।

अपिसेविता द्विजिह्वैःकदापि केन यान्ति विकारम्।

विच्छिद्यमानतनवः स्वगुणैरधिकं विराजन्ते॥२२॥

मलयतरवः।

अनिभृतकोकिलनिःस्वनमुखरितसहकारकाननःपुंसाम्।

को भवति हृदयहारीमधुकरझङ्कारिकंकेलिः॥२३॥

मधुसमय, इति समस्तजातिः।

व्यस्तं समस्तमथवा समासपदभङ्गतः।
द्विःपृष्टंयत्तदेव स्याद् द्विर्व्यस्तं द्विःसमस्तकम्॥२४॥

वर्षासु का भवति निर्मधुकीदृगब्जम्

शेषं विभर्त्ति वसुधासहितं क एकः।

आमन्त्रयस्वधरणीधरनाथपुत्रीम्

कोवाऽस्ति भस्मनि चिताङ्गजनाश्रयः स्यात्॥२५॥

कालिकापालिकमठः।

कीद्दशं वद मरुस्थलं मतं द्वारि कुत्र सति भूषणं भवेत्।

ब्रूहि कांत! सुभटः सकार्मुकः कीद्दशो भवति कुत्र विद्विषाम्॥२६॥

अवारितो रणे, इति द्विर्व्यस्तजातिः।

पक्षिश्रेष्ठसखीबभ्रूसुरावाच्याः कथं वद।

ज्येष्ठेमासि गताः शोषं कीदृशोऽल्पजला भुवः॥२७॥

विवरालीनकुलीराः।

विश्वम्भराप्रलम्बघ्नव्रीहिमानुषसंयतः।

कथं वाच्याः भवन्तेता दिनादौ विकसन्ति काः॥२८॥

कुवलयवनराजयः, इतिद्विःसमस्तजातिः।

पृष्टं पदविभागेन समुदायेन वद्भवेत्।

विदु र्व्यस्तसमस्तं तदुभयार्थप्रदर्शनात्॥२९॥

का प्रियेण रहिता वराङ्गना धाम्निकेन तनयेन नन्दिता।

कीदृशेन पुरुषेण पक्षिणां बन्धनं समभिलष्यते सदा॥३०॥

शकुन्तला भरतेन

कीदृशं हृदयहारि कूजितं कः सखा यशसि भूपतेर्मतः।

कस्तवास्ति विपिने भयाकुलः कीदृशश्चन भवेन्निशाकरः॥३१॥

कलङ्कविरहितः, इति व्यस्तसमस्तजातिः।

दिर्व्यस्तमेव यत् पृष्टंसमुदायेन यद्भवेत्।

त्रिधाभिन्नंतदेवोक्तंद्विर्व्यस्तकसमस्तकम्॥३२॥

कौ शङ्गरस्य वलयावपयोधरः कः

कीदृक् परस्य नियतं वशमेति भूपः।

संबोधयोरगपतिं विजयीच कीदृग्

दुर्योधनो न हि भवेद्वद कीदृशश्च॥३३॥ अहीनाक्षतनयः।

को मोहाय दुरीश्वरस्य विहितः सम्बोधनीयो गुरुः

कोधात्र्याविरलः कलौ नवघनः किंवन्नं कीदृग् द्विजः।

किं लेख्यवचनं भवेदतिशयन्दुःखाय कीदृक् खलः

को विघ्नाधिपतिर्मनोभवसमो मूर्त्याभवन् कीदृशः॥३४॥

राजीवसन्निभवदनः, इति द्विर्व्यस्तसमस्तनातिः।

द्विःसमस्तं यदा पृष्टंव्यस्तकेन पुनर्भवेत्।

तद् द्विःसमस्तकव्यस्तं कथितं प्रश्नपण्डितैः॥३५॥

कीदृक्षःसकलजनो भवेत्सुराज्ञः

कः कालो विदित इहान्धकारहेतुः।

कः प्रेयान् कुमुदवनस्य को निहन्ति

भ्रातृव्यं वद शिरसा जितस्त्वया कः॥३६॥

विधुरविरहितः।

संग्रामे स्फुरदसिना हतास्त्वया के

के दुःखं वत निरये नरस्य कुर्युः।

कस्मिन् उद्भवति कदापि नैव लोम

ख्याताः के जगति महालघुत्वभाजः॥३७॥

नरकरेणवः, इति द्विःसमस्तकव्यस्तजातिः।

एकश्रुत्या वचो यत्रभिन्नार्थप्रतिपादकम्।

प्रभेदं द्विःसमस्तस्य तमेकालापकं विदुः॥३८॥

कीदृशीनिरयभूरनेकधा सेव्यते परमपापकर्मभिः।

प्रेतराक्षसपिशाचसेविता कीदृशीच पितृकाननस्थली॥३९॥

नरकपालरचिता।

केसरद्रुमतलेषु संस्थितः कीदृशो भवति मत्तकुञ्जरः।

तत्वतः शिवमपेक्ष्य लक्षणैः अर्जुनः समिति कीदृशो भवेत्॥४०॥

दानवकुलभ्रमरहितः, इत्येकालापकजातिः।

शब्दार्थलिङ्गवचनैर्व्यस्तैर्यद्वासमस्तकैः।

विभक्त्या च प्रभिन्नंयत् तत् प्रभिन्नकमुच्यते॥४१॥

निर्जितसकलारातिः पृच्छति को नैको मृत्योर्भयमृच्छति।

मेघात्ययकृतरुचिराशायाः किं तिमिरक्षयकारि निशायाः॥४२॥

विधुतारातेजः।

विहगपतिः कं हतवानहितं कीदृक् भवति पुरं जनसहितम्।

किं कठिनं विदितं वद धीभृद्! यादःपतिरपि कीदृग् भयकृत्॥४३॥

अहिमकरमयः, इति शब्दार्थलिङ्गप्रभिन्नकम्।

अनुकूलविधायिदैवतो विजयी स्यान्न तु कीदृशो नृपः।

विरहिण्यपि जानकीवने निवसन्तीमुदमादधौ कुतः॥४४॥

कुशलवर्द्धितः।

कुसुमं पतदेत्यनाकतो वद कस्मै स्पृहयन्ति भोगिनः।

अधिगम्य रतं वराङ्गना क्व नु यत्नं कुरुते सुशिक्षिता॥४५॥

सुरतरवे, इति शब्दार्थभिन्नम्।

कामुज्जहार हरिरम्बुधिमध्यमग्नां

कीदृक् श्रुतं भवति निर्मलमागमानाम्।

आमन्त्रयस्ववनमग्निशिखावलीढ़म्

तच्चापि को दहति के मदयन्ति भृङ्गान्॥४६॥

कुन्दमकरन्दविन्दवः।

वसति कुत्र सरोरुहसन्ततिः

दिनकृतो ननु के तिमिरच्छिदः।

पवनभक्षसपत्नरणोत्सुकं

पुरुषमाह्वय को जगति प्रियः॥४७॥

केकिरणोत्कराः। इति शब्दार्थवचनभिन्नम्।

कीदृग् गृहं याम्यगृहङ्गतस्य

कास्त्राणमन्भस्तरणे जनानाम्।

भूषा कथं कण्ठ न ते तु पृष्ठे

मुक्ताकलापैरिति चोत्तरं किम्॥४८॥ हाराविनावः।

कवयो वद कुत्र कीदृशाः कठिनं किं विदितं समन्ततः।

अधुना तव वैरियोषितां हृदि तापः प्रवलो विहाय काः॥४९॥

गिरिसारमुषाः। इति शब्दार्थलिङ्गवचनविभक्तिभिन्नम्।

मेघात्यये भवति किं सुभगावगाहं

का वा विड़म्बयति चारणमल्लवेश्याः।

दुर्व्वारवीर्य्यविभवस्य रणेभवेत् कः

काः स्मेरवक्तसुभमास्तरणिप्रभाभिः॥५०॥ सरोजराजयः।

पृच्छति शिरोरुहो मधुमथनं

मधुमथंनस्तं शिरोरुहञ्च।

कः खलु चपलतया भुवि विदितः

का ननु यानतया गवि विदिताः॥५१॥

केशवनौकाः। इति शब्दार्थलिङ्गवचनभिन्नम्।

न भवति मलयस्य कोदृशी भूः

क इह कुचं न विभर्त्ति कं गता श्रीः।

भवदरिनिवहेषु कास्ति नित्यं

वलमथनेन विपद् व्यधायिकेषाम्॥५२॥ विपन्नगानाम्।

समयमिह वदन्ति कं निशीथं

शमयति कान् वद वारिवाहवृन्दम्।

वितरति जगतां मनःसु कीदृङ्

मुदमतिमात्रमयं महातड़ागः॥५३॥ अरविन्दवान्।

इति शब्दार्थविभक्तिवचनभिन्नम्।

कीदृशंसमिति बलं निहन्ति शत्रं

विष्णोः का मनसि मुदंसदा तनोति।

तुच्छं सच्छरधिमुखं निगद्यते किं

पञ्चत्वैः सममपमान एव केषु॥५४॥ अभिमानिषु।

घनसमये शिखिषु स्वान्नृत्यं कीदृक्षुकिं घनात् पतति।

प्रावृषि कस्य न गमनं मानसगमनायकीदृशा हंसाः॥५५॥

समुत्सुकमनसः।

इति शब्दार्थलिङ्गवचमभिन्नम्। इति प्रभिन्नकजातिः।

अर्थमात्रैकभेदेन भिन्नंवध्नन्ति केचन।

सुकुमाराधियस्तच्चविदग्धैर्नादृतं यथा॥५६॥

आनन्दयति कोत्यर्थं सज्जनानेव भूतले।

प्रबोधयति पद्मानि तमांसि च निहन्ति कः॥५७॥

मित्रोदयः।

अटवी कीदृशीप्रायो दुर्गमा भवति प्रिये।

प्रियस्य कीदृशी कान्ता तनोति सुरतोत्सवम्॥५८॥

मदनवती।

भिन्नाववश्यंकर्त्तव्यौ शब्दार्थौप्रश्नकोविदैः।

लिङ्गादिषु यथा शक्तिभेदमाहुर्विपश्चितः॥५९॥

इति श्रीधर्मदासविरचिते विदग्धमुखमण्डने

प्रथमः परिच्छेदः।

________

विशेषणं विशेष्यञ्च यत्र प्रश्न विधीयते।

भेद्यभेदकमाहुस्तं प्रश्नं प्रश्नविदो यथा॥१॥

कीदृक् किं स्यान्नमत्स्यानां हितं स्वेच्छाविहारिणाम्।

गुणैःपरेषामत्यर्थं मोदते कीदृशः पुमान्॥२॥ विमत्सरः।

अगस्त्येन पयोराशेः कियत् किं पीतमुज्झितम् ।

त्वया वैरिकुलं वीर! समरे कीदृशंकृतम्॥३॥

सकलङ्कम्। इति भेद्यभेदकजातिः।

दीर्घवृत्तेन यत् पृष्टमुत्तरं कियदक्षरम्।

तदोजस्वीति विख्यातमूर्जितं चेति के चन॥४॥

कामिन्यास्तनभारमन्थरगतेर्लीलाचलच्चक्षुषः

कन्दर्पैकविलासनित्यवसतेः कीदृक् पुमान्वल्लभः।

हेलाकृष्टकृपाणपाटितगजानीकात् कुतस्तेऽरयः

श्वासायासविशुष्ककण्ठकुहरा निर्यान्ति जीवार्थिनः॥५॥

समरतः।

दैत्यारातिरसौ वराहवपुषा कासुज्जहाराम्बुधेः

का रूपं विनिहन्ति को मधुवधूवैधव्यदीक्षागुरुः।

स्वच्छन्दंनवशल्लकीकवलनैः पम्पासरोमज्जनैः।

के विन्ध्याद्रिवने वसन्त्यभिमतक्रीड़ाभिरामस्थिताः॥६॥

कुञ्जराः इत्योजस्विजातिः।

उपमादिरलङ्कारोबहुधा परिकीर्त्तितः।

यत्नेन कथ्यते सार्द्धं सालङ्कारं तदुच्यते॥७॥

कल्याणवाक् त्वमिव किं पदमत्र कान्तं

सद्भूपतेस्त्वमिव कः परितोषकारी।

कः सर्वदा वृषगतिस्त्वमिवातिमात्रं

भूत्याश्रितः कथय पालितसर्वभूतः॥८॥ शङ्करः।

सूर्य्यस्य का तिमिरकुञ्जरवृन्दसिंही

सत्यस्य का सुकृतवारिधिचन्द्रलेखा।

पार्थश्चकीदृगरिदावहुताशनोऽभूत्

का मालतीकुसुमदाम हरस्य मूर्द्ध्नि॥९॥

भागीरथी। रूपकं सालङ्कारजातिः।

लघुवृत्तेन यत् पृष्टं

प्रभूताक्षरमुत्तरम्।

सकौतुकमितीच्छन्ति तद्विस्तदिदं यथा॥१०॥

के स्थिराः के प्रियाः स्त्रीणां कोऽप्रियोनक्तमाह्वय।

नृत्यभूः कीदृशीरम्या नदी कीदृग्घनागमे॥११॥

अगाधवारिपूरजनिततरङ्गाः।

का कृता विष्णुना कीदृग्योषितां कः प्रशस्यते।

असेव्यः कीदृशः स्वामी को निहन्ति निशातमः॥१२॥

कुमुदवनवान्धवोदयः। इति सकौतुकजातिः।

प्रश्नवर्णश्रुतेस्तुल्यं यत्र स्यादुत्तरं वरम्।

प्रश्नोत्तरसमन्तज्ज्ञास्तदाहुः श्रयतां यथा॥१३॥

कन्दर्पं मदजनकं प्राहुः काचघटी गदिताच्छतमेह।

इत्यादि प्रश्ने युक्तं यद्भूत तदुत्तरमाशु विचिन्त्य॥१४॥

पथिकस्तिष्ठति कष्टं विरहीनाविक आस्ते तत्कृतरक्षः।

इत्यादि प्रश्ने युक्तं यद्ब्रूहि तदुत्तरमुत्तमपूरुष!॥१५॥

इति प्रश्नोत्तरसमजातिः।

यस्मिन्नुत्तरमुच्चार्य प्रश्नस्तस्यैव पृच्छ्यते।

पृष्टप्रश्नं तदिच्छन्ति प्रश्नोत्तरविदो यथा॥१६॥

लक्ष्मणेत्युत्तरं यत्र प्रश्नः स्यात्तत्र कीदृशः।

ग्रीष्मे द्विरवृन्दाय वनाली कीदृशीहिता॥१७॥

कासारसहिता।

चादथइति यत्र स्वादुत्तरमथ तत्र कीदृशः प्रश्नः।

कथय त्वरितं के स्युर्नैकाया वाहनोपायाः॥१८॥

केनिपाताः। इति पृष्टप्रश्नजातिः।

कथयामुकमित्यादि भंक्त्रायत्रोत्तरं भवेत्।

भग्नोत्तरं तदिच्छन्ति काकुमात्रेण गोपितम्॥१९॥

भवत इवातिस्वच्छं कस्याभ्यन्तरमगाधमतिशिशिरम्।

काव्यामृतरसमग्नस्त्वमिव सदा कः कथय सरसः॥२०॥

वीरे सरषि रिपूणां नियतं का हृदयशालिनी भवति।

नभसि प्रस्थितजलदे का राजति देव! वद तारा॥२१॥

इति भग्नोत्तरजातिः।

यत् पृष्टं प्रश्नवाक्ये स्यादादिमध्यान्तसंस्थितम्।

उत्तरं तत् त्रिधा प्रोक्तमादिमध्यान्तसंज्ञितम्॥२२॥

भ्रमरहितः कीदृक्षोभवतितरां विकसितः पद्मः।

ज्योतिषि कः कीदृक्षःप्रायोभुवि पूज्यते लोकैः॥२३॥

प्रभवः को गङ्गाया नगपतिरतिसुभगशृङ्गधरः।

के सेव्यन्ते सेवकसार्थैरत्यर्थमर्थरतैः॥२४॥ आद्युत्तरजाति।

अयमुदितो हिमरश्मिर्वनितावदनस्य कीदृशः सदृशः।

नीलादिकोपलम्भः स्फुरति प्रत्यक्षतः कस्य॥२५॥

गैरिकमनःशिलादिः प्रायेणोत्पद्यते कुतो न गतः।

यः खलु न चलति पुरुषः स्थानादुक्तः स कीदृक्षः॥२६॥

इति मध्योत्तरजातिः।

कस्मिन्वसन्ति वद मीनगणा विकल्पं

किं वा पदं वदति किं कुरुते विवस्वान्।

विद्युल्लतावलयवान् पथिकाङ्गनानाम्

उद्वेजको भवति कः खलु वारिवाहः॥२७॥

शब्दः प्रभूगत इति प्रचुराभिधायी

कीदृग् भवेद्वदत शब्दविदो विचिन्त्य।

कीदृग् बृहस्पतिमते विदिताभियोगः

प्रायः पुमान् भवति नास्तिकवर्ममध्यः॥२८॥

इत्यन्तोत्तरजातिः।

पदान्तरादिसम्बन्धात् प्रश्नवाक्येऽपि संस्थितम्।

कथितापह्नुतिः सा स्याल्लज्ञ्यते यत्र नोत्तरम्॥२९॥

पृथ्वीसम्बोधनं कीदृक् कविनापरिकीर्त्तितम्।

केनेदं मोहितं विश्वं प्रायः केनाप्यते यथः॥३०॥

कस्य मरौ दुरधिगमः कमले कः कथय विरचितावासः।

कैतुष्यति चामुण्डा रिपवस्ते वद कुतो भ्रष्टाः॥३१॥

इति कथितापह्नुतिजातिः।

यत्र भङ्गस्य वैषम्यं विषमन्तन्निगद्यते।

वृत्तं नामोत्तरं यत्र प्रश्नं तद्वत्तनामकम्॥३२॥

कीदृम्बनं स्यान्न भयाय पृष्ठे यदुत्तरं तस्य च कीदशस्य।

बाच्यं भवेदीक्षणजातमम्वु कं चाधिशेते गवि कोऽर्चनीयः॥३३॥

अहिंस्रमहिमः।

प्रायः कार्य्येन मुह्यन्ति नराः सर्वत्र कीदशाः।

नाधा इति भवेच्छब्दो नौवाची पद कीदृशः॥३४॥

सावघानाः। इति विषमजातिः।

गतक्लेशायासाः विमलमनसः कुत्र मुनयः

तपस्यन्ति स्वस्थाः सुररिपुरिपोः का च दयिता!

कविप्रेयः किं स्यान्रवलघुयुतैरष्टगुरुभिः

बुधावृत्तं वर्णैः स्फुटघटितबन्धंकथयत॥३५॥

शिखरिणी।

उरसि मुरभिदः का गाढ़मालिङ्गितास्ते

सरसिजमकरन्दामोदिता नन्दने का।

गिरिसमलघुवर्णैरर्णवाख्यातिसंख्यैः

गुरुभिरपि कृता का छन्दसां वृत्तिरम्या॥३६॥

मालिनी। इति वृत्तनामजातिः।

एकमेवोत्तरं यत्र सुश्लिष्टत्वाद्द्विधा भवेत्।

सुप्तिङन्तप्रभेदेन नामाख्यातन्तदुच्यते॥३७॥

समरशिरसि सैन्यं कीदशंदुर्निवारं

विगतघननिशीथे कीदृशे व्योम्निशोभा।

कमपि विधिवशेन प्राप्य योग्याभिमानं

जगदखिलमनिन्द्यन्दुर्जनः किं करोति॥३८॥

अभिभवति ।

पदमनन्तरवाचि किमिष्यते कपिपतिर्विजयीननु कीदृशः।

परगुणं गदितुं गतमत्सराः कुरुत किं सततं भुवि सज्जनाः॥३९॥

अनुसरामः। लट्।

वदति रामममुष्य जघन्यजो

वसति कुत्र सदालसमानसः।

अपि च शक्रसुतेन तिरस्कृतो

रविसुतः किमसौ विदधे त्वया॥४०॥ अनुजगृहे।

भवति गमनयोग्या कीदृशी भूरथानां

किमतिमधुरमम्लन्भोजनान्ते प्रदेयम्।
प्रियतम!वद नीचामन्त्रणे किं पदं स्यात्
कुमतिकृतविवादाश्चक्रिरे किं समर्थैः॥४१॥

समादधिरे। लिट्।

वदतानुत्तमवचनं ध्वनिरुच्चैरुच्यते स कीदृक्षः।

तव सुहृदो गुणनिवहैरिपुनिवहं किं नु कर्त्तारः॥४२॥

अवमन्तारः।

कीदृक्तोऽयं दुस्तरं स्यात्तितीर्षोः

का पूज्यास्मिन् खङ्गमामन्त्रयस्व।

दृष्ट्वा धूमं दूरतो मानविज्ञाः

किं कर्त्तास्मि प्रातरेवाश्रयाशम्॥४३॥

अनुमातासे। लुट्लकारः।

कामुकाःस्युः कया नीचाः सर्वः कस्मिन् प्रमोदते।

अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किम्॥४४॥

दास्यामहे।

को दुःखी सर्वकार्येषु किं भृशार्थस्य वाचकम्।

यो यत्र विरतो नित्यन्ततः किं स करिष्यति॥४५॥

प्रयास्यति। लृट्।

विद्यन्त इति समानार्थः शब्दः कोऽचिरयति मुद्रां किम्।

कथमपि यदि कोपः स्यात्त्वांसुजनः किं करोतु वद॥४६॥

सन्त्यजतु।

मेघात्यये भवति का सुभगावगाहा

वृत्तं वसन्ततिलकं कियदक्षराणाम्।

भो भोः कदर्य्यपुरुषा विषुवद्दिने च

वित्तञ्च नः सुबहु तत् क्रियतां किमेतत्॥४७॥

नदीयतां। लोट्।

का माद्यति मकरन्दैः तनयं कमसूतजनकराजसुता।

कथय कृषीवल! सस्यं पक्वंकिमचीकरस्त्वमपि॥४८॥

अलीलवम्।

पृच्छति पुरुषः केऽस्यां समभूवन्वज्रकृत्तपक्षतयः।

बहुभयदेशं जिगमिषुरे काकी वार्य्यते च कथम्॥४९॥

मानवनगाः कथम्। लुङ्।

किमकरवमहं हरिर्महीध्रं

स्वभुजवलेन गवां हितं विधित्सुः।

प्रियतम वदने न पीयते कः

परिणतबिम्बफलोपमः प्रियायाः॥५०॥ अधरः।

परिहरति भयात्तवाहितः किं

कमथ कदापि न विन्दतीह भीतः।

कथय किमकरोरिमां धरित्रीं

नृपतिगुणैर्नृपते! स्वयं त्वमेकः॥५१॥

समरञ्जयम्। लङ्।

कीदृक् सेना भवति रणे दुर्वारा

वीरः कस्मैस्पृहयति लक्ष्मीमिच्छन्।

का सम्बुद्धिर्भवति भुवः संग्रामे

किं कुर्व्वीध्वं सुभटजना भ्रातृव्यान्॥५२॥

पराजयेमहि।

कंसारातेर्वद गमनं केन स्यात्

कस्मिन् दृष्टिंलभते स्वल्पेच्छुः।

कं सर्वेषां शुभकरमूचुर्द्धीराः

किं कुर्य्यास्त्वं सुजन! सशोकं लोकम्॥५३॥

विनोदयेयम्। लिङ्।

वारणेन्द्रो भवेत् कीदृक् प्रीतये भृङ्गसंहतेः।

यद्यवक्ष्यंतदास्मै किमकरिष्यमहं धनम्॥५४॥

समदास्यः।

काले देशे यथा युक्तं नरः कुर्व्वन्नुपैति काम्।

भुक्तवन्तावलप्सेतां किमन्नमकरिष्यताम्॥५५॥

अहास्यताम्। ऌङ्। इति नामाख्यातजातिः।

ज्ञेयन्तार्क्यदृशातार्क्यंसौत्रंसूत्रोत्तरैस्तथा।

शाब्दीयं शब्दसंज्ञाभिः शास्त्रजं शास्त्रभाषया॥५६॥

हिमानीस्थगिरौ स्यातां कीदृशौ शशिभास्करौ।

कः पूज्यः कः प्रमाणेभ्यो न प्रभाकरसम्मतः॥५७॥

अभावः।

के प्रवीणाः कुतो हीनं जीर्णं वासोऽशमांश्चकः।

निराकरिष्णवो वाह्यंयोगाचाराश्चकीदृशाः॥५८॥

विज्ञानवादिनः। तार्क्यजातिः।

को नयति जगदशेषं क्षयमथ बिभराम्बभूव कं विष्णुः।

नीचः कुत्र सगर्वः पाणिनिसूत्रञ्च कीदृक्षम्॥५९॥

यमोगन्धने।

किं स्याद्विशेष्यनिष्ठं का संख्या वदत पूरणीभवति।

नीचः केन सवर्गः सूत्रं चन्द्रस्य कोदृक्षम्॥६०॥

विशेषणमेकार्थेन। इति सीत्रजातिः।

न श्लाघते खलः कस्मै सुप्तिङन्तं किमुच्यते।

लादेशानां नवानाच्च तिङां किं नाम कथ्यताम्॥६१॥

परस्मैपदम्।

सततं श्लाघते कस्मैनीचोभुवि किमुत्तमम्।

कर्त्तर्य्यपि रुचादीनां धातूनां किं पदं भवेत्॥६२॥

आत्मनेपदम् ।

किमञ्ययतया ख्यातं कस्य लोपो विधीयते।

ब्रूत शब्दविदो ज्ञात्वा समाहारः क उच्यते॥६३॥

स्वरितः। इति शाब्दीयजातिः।

जलदात्यये भवति कः समदः

सुभगञ्चकिं कमधरन्मुरजित्।

कटुतैलमिश्रितोगुड़ो नियतं

विनिहन्ति कं त्रिगुणसप्तदिनैः॥६४॥ श्वासरोगम्।

कीदृक् प्रातर्दीपवर्त्तेः शिखा स्याद्

उष्ट्रः पृच्छत्याभजन्ते मृगाः किम्।

देवामात्ये किं गते प्रायशोऽस्मिन्

लोकः कुर्य्यान्नोविवाहं विविक्तः॥६५॥

विभाकरभवनम् ।

वर्णएवोत्तरं यत्र तद्वर्णोत्तरमुच्यते

बाक्यं यत्रोत्तरं तत्तु वाक्योत्तरमिति स्मृतम्॥६६॥

को शत्रूभुवि विख्यातौ शोकं वदति किं पदम्।

कोऽभीष्टोऽत्र दरिद्रस्य सेवन्ते के च भिक्षुभिः॥६७॥

विहासः।

किं मुञ्चन्ति पयोवाहाः कीदृशीहरिवल्लभा।

पूजायां किं पदं कोऽग्निः कः कृष्णेन हतो रिपुः॥६८॥

कंसासुरः। इति वर्णोत्तरजातिः।

दधौ हरिः कं शचि कोदृगभ्रं

पृच्छत्यकः किं कुरुते सशोकः।

श्लोकं विधायापि किमित्युदारः

कविर्नतोषं समुपैति भूयः॥६९॥

आगमकमकरोदिति।

लक्ष्मीधरः पृच्छति कीदृशः स्यात्

नृपः सपत्नैरपि दुर्निवारः।

अकारि किं ब्रूहि नरेण सम्यक्

पितृत्वमारोपयितुं स्वकीयम्॥६९॥

समजनितनयः। इति वाक्योत्तरजातिः।

इति श्रधर्मदासविरचिते विदग्दमुखमण्डने

द्वितीयः परिच्छेदः।

________

श्लोक एवोत्तरं यत्र तत् श्लोकोत्तरमुच्यते।

खण्डोत्तरं भवेदर्द्धंश्लोकात् पादात्तदुत्तरम्॥१॥

कन्देवङ्केऽर्चयन्ति स्फुटरुचि निशि किं कोदृशीदुःखिनो स्त्री

कीदृक् चक्रं सदास्ते क्व च तव विजयी प्रावृषं कीदृशं खम्।

कामाहुः प्रेतयोग्यां कथय सुकृतिनः कीदृशाःस्युः पुमांसः

कं धत्ते कञ्च धत्ते गगनतलमलं प्रेक्षणीयं जनानाम्॥२॥

प्लक्षःकीदृक् चकास्ति स्फुटनवकुसुमाशोकमासाद्य कालं

किं मुञ्चन्त्यम्बुवाहाभवदरिनिवहे संज्वरः किं भवश्च।

किं नेत्रप्रावृतिःस्यादतिमयलघवः के च को व्रीहिभेदः

प्रायेण प्रावृषेण्याः प्रियतमदिवसाः कीदृशाकीदृशास्युः॥३॥

अञ्जनाभमहावारिवाहौघनिचिताम्बराः।

कदम्बकन्दलीकन्दरजः पक्ष्मलवायवः॥४॥

कुर्य्यादुद्वेगवन्तं कमपि निशि सरः कीदृशंकास्ति वक्त्रे

वक्त्रानिन्द्यःकयास्यात् परिषदिनियतं मन्दसम्बोधनं किम्।

वर्णोपान्त्यङ्कमूचुः किमसुररिपुणा नन्दगोपालयेऽस्तं

कः प्रालेयाद्रिपुत्रीकुचकलशलुठत्पाणिरेणाङ्कमौलिः॥५॥

कीदृक् कस्येह बन्धुः सुकृतमपहरत् प्रेयसी का लयान्ते

कीदृक्भीतिं विधत्ते धनुरवनिरुहां कञ्चिदामन्त्रयस्व।

दैत्यः कंसद्विषा कः कथयविनिहतो गद्गदः कः प्रतीतः

कीदृक्कीदृम्वसन्तः प्रियतम! भवतः प्रीतये नित्यमस्तु॥६॥

कोकिलालापवाचालसहकारमनोहरः।

अशोकस्तवकालीनमत्तालिमधुरस्वनः॥७॥

इति श्लोकोत्तरजातिः।

का चक्रे हरिणा धने कृपणधीः कीदृग् भुजङ्गेऽस्ति किं

कोदृक् कुम्भसमुद्धवस्य जठरं कीदृग् यियासुर्वधूः।

आकः कादृगभाप्सतः सुकृातना कादृङ् नभा निर्मल

क्षौणीमाह्वय सर्वगं किमुदितं रात्रौ सरः कीदृशम्॥८॥

कुमुदवनपरागरञ्जितान्भो विहितगमागमकोकमुग्धरेखम्।

वन्धः पृच्छति किं मुरारिशयनं का हन्ति रूपं नृणां

कीदृग्वीरजनश्चकोऽतिगहनः सम्बोधयावञ्चितम्।

का धात्री जगतो बृहस्पतिबधूः कीदृक् कविः क्वादृतः

कोऽर्थः किं भवता कृतं रिपुकुलं कीदृक् सरो वासरे॥९॥

विकचवारिजराजिसमुद्भवोच्छलितभूरिपरागविराजितम्

इति खण्डोत्तरजातिः।

बिभर्त्ति वदनेन किं क इह सत्वपीड़ाकरं

कुलं भवति कीदृशंगलितयौवनं योषिताम्।

बभार हरिरम्बुधेरुपरि काञ्च केन स्तुते

हतः कथय कस्त्वया नगपते र्भयं कीदृशात्॥१०॥

विषमपादनिकुञ्जगताहितः।

हरिर्वहति कान्त्यवास्त्यरिषु का गता कञ्चका

कमर्चयति रोगवान् धनवती पुरी कीदृशी।

हरिः कमधरद्वलिप्रभृतयो धरां किं व्यधुः

कया सदसि कस्त्वया वद जितोऽम्बुधिः कीदृशः॥११॥

कुम्भीरमीनमकरागमदुर्गवारिः। इति पादोत्तरजातिः।

चत्वार्य्यराणि पादाभ्यां नेमिं पादद्वयेन च।

लिखित्वा दक्षिणावर्त्तंचक्रं प्रश्नमवेहि मे॥१२॥

कंचौरस्य च्छिनत्ति क्षितिपतिरनघः किं पदं वक्ति कुत्सां

क्षोणीसम्बोधनं किं वदति कमलभूः काच विश्वं विभर्त्तिं।

चक्राङ्गामन्त्रणं किं कथमपि सुजनः किं न कुर्यादनार्यं

कीदृग्भोक्तुः पुरं स्यात्पयसि वद कुतोमीनपंक्तिर्बिभेति॥१३॥

किं स्वच्छं शारदं स्याद्वदति वृषगतिः कोंऽशुमालीपवित्रः

कोऽस्मिन् किं जीवनं कां विरचयति कविर्वह्निसम्बोधनं किम्।

नाकांक्षन्ति स्त्रियः कन्तनुरसुररिपोः कीदृशीकश्चमूकः

सम्यक्प्रीतिन्तडागः प्रियतम! तनुते कीदृशः कीदृशस्ते॥१४॥

करंकुकोककुररकलहंसकरम्बितः।

सरोजकोमलोहारनीरसंसक्तमारुतः॥१५॥

इति चक्रजातिः।

काव्यसंग्रहः

<MISSING_FIG href="../books_images/U-IMG-1729140133Screenshot2024-10-17101042.png"/>

वर्णद्वयद्वयैकैकदलभूतदलाष्टकम्।

सर्वोत्तराद्यवर्णेन पद्मं स्यात् कृतकर्णिक॥१६॥

पुण्यात्मा वद कीदृशः सरसिजैः के मोदिताः कीदृशः

तद्वैरीगतचक्षुषः कुलमभूत् कीदृक् त्वया के जिताः।

वद्वालिः सलिलाशयः कथय भोः कीदृक् च आक्षेपवाक्

शब्दः कुत्र न तस्करादिकभयं दत्ते भवेत्प्रायशः॥१७॥

अप्पित्तंगवि कीदृशं निगदितो मुक्तः पुमान् कीदशः

कस्माद्विभ्यति कौशिका भुवि कृतः कीदृक् त्वया तस्करः।

हस्तीस्यान्ननु कीदृशो वहुमतः शोच्योरणः कीदशः

कीदृक्षःपुरुषः पराप्रतिहतः कीदृक् भवेद्वासुकिः॥१८॥

अलयः अपश्यत् अबन्धः अहस्तः अगजः अहीनः

इति पद्मोत्तरजातिः।

काव्यसंग्रहः।

<MISSING_FIG href="../books_images/U-IMG-1729140664Screenshot2024-10-17101936.png"/>

काकस्येव पदं त्र्यस्रंयत्तक्ताकपदं मतम्।

तिर्यगन्धोन्यरेखाभिर्गोमूत्रीद्विपदीद्वये॥१९॥

कुतः कः स्याक्तीदृक् कथय विषवैद्य स्फुटमिदं

रिपोः कः कीदृक्षोभवति वशगः कश्च करभः।

प्रवीणः सम्बोध्यः सुभग! वद कीरत्नवचनौ

सुरूपे विख्यातिं जगति महतीका गतवती॥२०॥

नागदरतः। नागतनयः। नागरमणी। इति काकपदजातिः।

<MISSING_FIG href="../books_images/U-IMG-1729140834Screenshot2024-10-17102225.png"/>

कामाहु र्युवतीममङ्गलवतीकीदृग्ग्रहाणां गतिः

सम्बोध्या वत मत्स्यवेधनपरः कीदृग्भवेत्पामरः।

कीदृग्वाल्मीकिवेश्म कोस्तनमुरोधत्ते सुरैरुच्यते

नीःकीदृङ्नकदापि कम्बु रहितं वाञ्छन्ति कं योषितः॥२१॥

कीदृक् पान्यकुलन्तमोहरति का किञ्चक्रसम्बोधनं

रम्या चम्पकशाखिनां कथय का कश्चाटजर्थे भवेत्।

किं क्षिप्तंवलिवैरिणा मुररिपोः काह्वाश्मशानेस्ति का

क्ष्मा कीदृग्भवति स्म पूर्वमधुना कीदृक् पुनर्वर्त्तते॥२२॥

अजरामशुभाचारवलिशीलविनोदिता।

भुजङ्गमनिभासारकलिकालजनोचिता॥२३॥

गोमूत्रजातिः।

अ ज रा म शु भा चा र व लि शील वि नो दि ता

भु ज ङ्ग म नि भा सा र क लि का ल ज नो चि ता

इति गोमूत्रिकाबन्धः।

वर्णेनैकेन वा द्वाभ्यां सर्वैर्वा सर्वदिग्गतैः।

उत्तरैः सर्वतोभद्रं दुष्करं तदिदं यथा॥२४॥

कस्त्यागे धातुरक्तस्तव रिपुहृदि का भूषणं के स्तनानां

को दुःखीकश्चशब्दो वदति वद शुचङ्कीरिपू ख्यातवीर्य्यौ।

शृङ्गारी कीदृशः का रणशिरसि भयाद्भङ्गमाप्नोति सेना

को दानार्थाभिधायीशिर सिशिरसि कौ युध्यतः संप्रहृत्य॥२५॥

कीदृक्तोयार्थिनी स्त्री भवति मदकरः प्रायशः को दुराढ्ये

कस्मिन्मन्दायतेऽसौ नियतमुड़ुपतिः प्रेयसी का मुरारेः।

विख्यातौ वाहनौ कौ द्रुहिणमुरभिदोःकीदृगाखेटकस्त्री

कीदृम्मैवाचिराभा समिति गतभयाः के गतौकश्चधातुः॥२६॥

हारावी। इति सर्वतोभद्रजातिः।

<MISSING_FIG href="../books_images/U-IMG-1729141856Screenshot2024-10-17103927.png"/>

प्रतिलोमानुलोमाभ्यामुत्तरेण गतागतम्।

मध्यवर्णविलोपेन तच्चानेकप्रकारकम्॥२७॥

वद वल्लभ सर्वत्र साधुर्भवति कीदृशः भोविन्दे।

नानासिक्षिप्ते नन्दवेश्मनि काभवत्॥२८॥ दीनरक्ष।

यत्नादन्विष्य का ग्राह्या लेखकैर्मसिमल्लिका।

घनान्धकारनिःशङ्कंमोदते केन बन्धकी॥२९॥ नारिकेरज।

असुरसुरनरेन्द्ररुह्यते का शिरोभिः

तनुरपि शुचिवस्त्रे कोऽतिविस्तारमेति।

वदति कमलयोनिः सेव्यते केन पुष्पं

मधुरमसृणमृद्वीका भवेदुत्पलस्य॥३०॥

<MISSING_FIG href="../books_images/U-IMG-1729141950Screenshot2024-10-17104059.png"/>

हिमांशुखण्डं कुटिलोज्ज्वलप्रभं

भवेद्वराहप्रवरस्य कीदृशम्।

विहाय वर्णं पदमध्यसंस्थितं

न किं करोत्येव जिनः करोति किम्॥३१॥ दंष्ट्राभम्।

वसन्तमासाद्य वनेषु कीदृशाः

पिकेन राजन्ति रसालभूरुहाः।

निरस्य वर्णद्वयमत्र मध्यमं

तव द्विषां कान्त्यतमा तिथिश्चका॥३२॥

कान्तगिरा। गतप्रत्यागतजातिः।

आदौ मध्ये तथान्ते वा वर्द्धन्ते वर्णजातयः।

एकद्वित्र्यादयो यत्र वर्द्धमानाक्षरं हि तत्॥३३॥

किमनन्ततया ख्यातं पादेन व्यङ्गमाह्नय।

जनानां लोचनानन्दङ्केतन्वन्ति घनात्यये३४॥ खञ्जनाः।

उरःस्थलं कोऽत्रविना पयोधरं

बिभर्त्ति सम्बोधय मारुताशनम्।

वदन्ति कं पत्तनसम्भवं जनाः

फलञ्च किं गौडवधूकुचोपमम्॥३५॥ नागरङ्गम्।

प्रायेण नीचलोकस्य कः करोतीह गर्वताम्।

आदौ वर्णद्वयं दत्त्वा ब्रूहि के वनवासिनः॥३६॥ शवराः।

सानुजः काननङ्गत्वा नैकषेयान् जघान कः।

मध्ये वर्णत्रयं दत्त्वा रावणः कीदृशो वद॥३७॥ राक्षसोत्तमः।

धन्ते वियोगिनी गण्डस्थलपाण्डुफलानि का।

वद वर्णौविधायान्ते शीता हृष्टा कयाभवत्॥३८॥

विष्णोः का वल्लभा देवी लोकत्रितयपावनी। लवलीलया

वर्णमाद्यं तयोर्दत्त्वा कः शब्दतुल्यवाग्वद॥३९॥

समानः। इति वर्द्धमानाक्षरजातिः।

आदितो मध्यतोन्ताद्वाहीयन्ते वर्णजातयः।

एकद्वित्रादयो यत्र हीयमानाक्षरं हि तत्॥४०॥

वसन्तमासाद्य विकासि राजते

वनेषु किं वल्लभ पुष्पमुच्यताम्।

विहङ्गमं कञ्च परिस्फुटाक्षरं

वदन्ति कम्पङ्कजसम्भवं विदुः॥४१॥ किं शुकम्।

समुद्यते कुत्र न याति पांशुलाः

समुद्यते कुत्र भवं भवेज्जलात्।

समुद्यते कुत्र तवापयात्यरिः

प्रहीनसम्बोधनवाचि किं पदम्॥४२॥ हिमकरे।

तपस्विनोऽत्यन्तमहासुखाशया

वनेषु कस्मै स्पृहयन्ति सत्तमाः।

इहाद्यवर्णद्वितयं निरस्य भोः

सदा स्थितं कुत्र च सत्त्वमुच्यताम्॥४३॥ तपसे।

पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः।

मध्यवर्णद्वयं त्यक्त्वाब्रूहि कः स्यात्सुरालयः॥४४॥

नागरिकः।

यजमानेन कः स्वर्गहेतुः सम्यग्विचार्य्यते।

विहायाद्यन्तयोर्वर्णौगोत्वं कुत्रस्थितं वद॥४५॥

यागविधिः। हीयमानाक्षरजातिः।

अन्योन्याक्षरवर्त्तिन्या चैकान्तरितयाऽथवा।

शृङ्खलाबन्धः इत्युक्तो ग्रन्थिमान्नागपाशकः॥४६॥

पवित्रमतितृप्तिकृत् किमिह किं भटा मल्लणं

ब्रवीति धरणीधरस्तु किमजीर्णसम्बोधनम्।

हरिर्वदति को जितो मदनवैरिणा संयुगे

तनोति ननु कः शिखण्डिकुलताण्डवाड़म्बरम्॥४७॥

पयोधरसमयः।

भवति जयिनी काजौ सेनायाधरभूषणं

वहति किमहिः पुष्पं कीदृक् कुसुम्भसमुद्भवम्।

महति समरे वैरी वीर त्वया वद किं कृतः

कमलमुकुले भृङ्गः कीदक् पिबन्मधु राजते॥४८॥

परागरञ्जितः। शृङ्खलाजातिः।

आह्वानं किं भवति हि तरोः कस्यचित् प्रश्नविज्ञाः

प्रायः कार्य्यं किमपि न कलौ कुर्वते के परेषाम्।

पूर्णं चन्द्रं वहति ननु का पृच्छति म्लानचक्षुः

केनोदन्याजनितमसमं कष्टमाप्नोति लोकः॥४९॥

नीरापकारेण।

का संबुद्धिः सुभट भवतो ब्रूहि पृच्छामि सम्यक्

प्रातः कीदृग् भवति विपिनं संप्रवृद्धैर्विहङ्गैः।

लोकः कस्मिन् प्रथयति मुदं का त्वदीया च जैत्री

प्रायो लोके स्थितमिह सुखं जन्तुना कोदृशेन॥५०॥

विहारसेविना। एकान्तरितशृङ्खलाजातिः।

गोष्ठी विदग्धजनवत्यपि शोचनीया

कीदृग् भवेत्तरणिरश्मिषु का सदास्ति।

दुर्वारदर्पदलितामरनायकापि

कीदृश्यकारि सुरशत्रुचमूगृहेन॥५१॥

तारकविरहिता।

<MISSING_FIG href="../books_images/U-IMG-1729084126Screenshot2024-10-16183713.png"/>

कौदृक् परैरुपहतो भवति क्षितीशः

पृच्छत्यनुच्च इह किं विदितं पवित्रम्।

विच्छिन्रपाणिचरणो जनको यदीयः

कोदृक् परेरभिहितः स पुमान् पुनः स्यात्॥५२॥

व्यङ्गतनयः। नागपाशजातिः।

भाषाभिश्चित्रितं यत् स्यात्संस्कृतप्राकृतादिभिः।

सन्तश्चित्रन्तदिच्छन्ति संशुद्धंत्वेकभाषया॥५३॥

किं न स्यात्कीदृगक्षंमहतोपि च तादृशस्य जलराशेः।

दिनअरकिरणष्यंसण पड़िउद्धं होइ किं गोसे॥५४॥

कमलवणम्।

मत्स्यहितमम्बु कोदृक् पृच्छति रोगी निशासु किं भाति।

कोऽनङ्गो वदति मृगः खे गन्मइ केरिसा रइणा॥५५॥

अविसामभमिरेण। संस्कृतप्राकृतजातिः।

प्रायो बिभ्यति कीदृशादरिगजाद्दन्तप्रहीणा गजाः

पृथ्वी सम्प्रति कोदृशीनृपतिना राजन्वतीराजते।

प्रायः प्रावृषि कीदृशी गिरितटी धत्तेच कः कञ्जले

मज्जणेवलिये घणच्चयदिणेजादं सरो केरिसम्॥५६॥

सरदादवताविदवाहिरम्।

कृत्तं कीदृशमङ्गंदन्तभवं कं वदन्ति विद्वांसः।

अतिलघुवाचि पदं किं केरिसुः सुअणेसु होइजणो॥५७॥

विस्रन्तमणु। इति संस्कृतापभ्रंशजातिः।

किं सुखमाहुः प्रायः केशविकारश्च का हरेर्दयिता।

कथमाभा कस्मिन्निशि को लुब्ध इवीरपुलिसाणम्॥५९॥

शमलकन्मालम्भे।

कस्तम्बेरमसुत इति विख्यातः पृच्छति स्फुटं हरिणः।

अहिणवणअलीरणो असाहुणो केण उज्जलइ॥५९॥

                   कलभएण। संस्कृतमागधिकम्।

कीपारुणं किमरुणाग्रसरस्य पूर्व

काष्ठाग्रनिष्ठिततनोरुपमानपात्रम्।

पत्तं खणेण मरणंसअरः सरणं

पुत्तेहि किं पविसिउण तुरङ्गमत्थम्॥६०॥

कपिलपणम्।

कं प्रीणयन्ति जलदाः सैन्यं कीदृक् पलायते समरात्।

धत्ते शिरोधरा किं रुइसिरं केरिसम्भोदि॥६१॥

चातकं कातरं कम्। संस्कृतपैशाचिकम्।

को वर्णाद्यः क्व च जलधिसुता कञ्चदीर्घादिसंज्ञं

प्राहुबुद्धाःकमजयदसौ तार्किकैः के क्रियन्ते।

आमन्त्र्यो विः कथय विदितं किं पदं हेतुवाचि

जाणच्चेडं महइ महिला साविवोल्लेइ कोसे॥६२॥

अरोचन्मारं वादावेहि।

शब्दः कः स्यात्परुषवचनं कुण्डली कीस्मरारेः

कामम्भोधेर्हरिरुदहरद्वीबधः पृच्छतीदम्।

हण्डीकुण्डीअणसिणधरे कीस अम्हार अत्थं

ये पुच्छिल्ला सउण परिहारुत्तरं कीसदेइ॥६३॥

नाहीकुम्भार। संस्कृतलौकिकं इति चित्रजातिः।

को निवसइ स्वच्छन्दं सुन्दरि गिरिगहकुञ्जमज्जम्मि।

सह अज्जुणेण योद्धुंसिहि ममणो केरिसो होइ॥६४॥

सरहससवाराहवग्गो।

काहरइ मणं पइणो गुणगणजीवण सलाहणिगास्म।

कअ चड़चड़ेति सद्दाहुआसना केरिसाहोन्ति॥६५॥

सरिसवहूआ। इति शुद्धप्राकृतम्।

पाणिगाहणणि अंसणुसोहइकेहि मण्डिअम्।

साहसु बहुवीर पइणो रिइबलं केहिं खण्डिअम्॥६६॥

समरङ्गणेहिम् ।

रसिअहु केण उच्चाड़णु किज्जइ

जुअइ भाणसु केण उविज्जइ।

तिसि अलोअखणु केण सुहिगाइ

एहु पहु मम भुअणे गिग्धद॥६७॥

णीरसराइण। शुद्धापभ्रंशम्।

सुत्रलो मेहं पुच्छइपुच्छइमेहोवि तन्तहा सुअलम्।

केणह आसअलसुआ केण जणो विसदइपाआलम्॥६८॥

बलाहकविलेन।

धवलुज्जलेहिं केहि सौहइधलणी मसाण देसस्स।

णिलअस्सरकवणाला केहिं पलिवेटि आहोन्ति॥६९॥

णलकलकेहिम्। शुद्धमागधिकम्।

वैरीपृच्छइककणे रोचइ कसणो घणो केहिम्।

सच्चाइणकेहिं समत्थन्ति सच्चंणि हितं कता दम्पि॥७०॥

अहितपकवेहिम्।

पत्तूण किं भड़ अणो णिधणे हताणं

अद्वासणं फचति चम्फणि सूत्रणस्य भोत्तूण।

खोरतर तुक्खस आइ पावामोहं

धआकरणं लप किं लहन्ति॥७१॥

विसमरणम्। शुद्धपैशाचिकम्।

जाणीआणइ णिं भेदे भलि

साकिस वुच्चइ वोल्लरे सम्भरि।
जोतिलसरीस वपीड़यि जाणी
कीस भणीज्जइ सोविस्माणी॥७२॥

सुतेल्लीशुद्धलौकिकम्। इति संशुद्धजातिः।

एतावतापि दिङ्मात्रं प्रश्नानां दर्शितं मया।

येन येन हि माद्यन्ति तद्विधस्तत्तदूह्यताम्॥७३॥

इति श्रधर्म्मदासविरचिते विदग्धमुखमण्डने

तृतीयः परिच्छेदः।

_________

व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात्।

यत्र वाह्यान्तरावर्थैा कथ्येते सा प्रहेलिका॥१॥

सा द्विधार्थी च शाब्दी च विख्याता प्रश्नशासने।

आर्थी स्यादर्थविज्ञानाच्छाब्दी शब्दविभागतः॥२॥

तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः।

गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः॥३॥

पानीयकुम्भः।

आपाण्डु पीनकठिनं वर्तुलं सुमनोहरम्।

करैराकृष्यतेऽत्यर्थं किं बद्धैरपि सस्पृहम्॥४॥

पक्वविल्वफलम्। इत्यार्थीजाति।

दुर्वारवीर्य सरुषि त्वयि का प्रसुप्ता

श्यामा सपत्नहृदये सुपयोधरा च।

तुष्टे पुनः प्रणतशत्रुसरोजसूर्ये

सैवाद्य वर्णरहिता वद नाम का स्यात्॥५॥ शस्त्री।

सदारिमध्यापि न वैरियुक्ता नितान्तरक्तापि सितैव नित्यम्।

यथोक्तवादिन्यपि नैव दूतिका का नाम कान्तेति निवेदयाशु॥६॥

सारिका। शब्दीजातिः।

नीरस आउण सो बहुगुणवन्तउ भमइ

निरन्तरु णीच्चलहोन्तउ।

तरुगिज्जइ णउण फलुपत्तु समु

योपरि आणइ पावइ सोविजसु॥७॥ गुणरुकेवा।

घर घर चल्लइ सअलपि आरी

जीवन्ति होइ वैरिणोः णारी।

खाबन्धइ खन मुञ्चइ खण एकल्ली

तह जाणह जह जाइ णपेल्ली॥८॥

पाशासारी। इति प्रहेलिकाजातिः।

कालसारादिकं हृद्यमजमरादिगूढ़कम्।

विदग्धा दुर्विदग्धानां कुर्वते दर्पशान्तये॥९॥

अनुनेतुं माणिन्या दयितश्चरणे सरागचरणायाः।

यावत् पतितः स तया तत्क्षणमवधीरितः कस्मात्॥१०॥

रजस्वला यतः।

अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ।

निःश्वस्य रोदितुं लग्ना कुतो व्याधकुटुम्बिनी॥११॥

असारस्तनयो यतः। कालसार जातिः।

दरदिवुचू अमडलं पिच्छि असहि आरा विरहिणींसहियम्।

णमिओकं केल्लितरु चूओलणाह ओकतो॥१२॥

पिच्छन्तमणिमिसच्छ पिच्छि अबहुआए भक्तिभिरुक् वअंरम्।

दंसिअकआइ सीसे कतोदोजाइ कुसुमाइ॥१३॥

इतिकालसारादिहृद्यजातिः।

रविसुतकृतगोकर्णः श्रुतिविषयमुणांवरो वनात्मधरः।

नरकशिरो जगदखिलञ्चिरमव्यादसमरुक्पाणिः॥१४॥

कुध्रेन सुप्रीनयनाश्रयास दग्धोन्मदादर्दुरहर्षकाले।

स्वजन्मभक्षप्रियभोजनाशा नृत्यन्ति भीमानुजगोजभाजः॥१५॥

इत्यजमारादिगूढ़जातिः।

वाताच्छीतिररिध्रोरं बोहरतान्महासुरीदयितः।

वीड्ब्राह्मानौकावार्वाहाभोसमस्तानाः॥१६॥

इति पदगूढ़जातिः।

दयावान् प्रयतः शुद्धः प्रबुद्धकमलेक्षणः।

पापापहस्त्रिभुवनं बुद्धः पायादपायतः॥१७॥

न सज्जति क्वचिद्दोषे प्रीणाति जगतां मनः।

य एकः स परं श्रीमांश्चिरं जयति सज्जनः॥१८॥

इति पादगूढ़जातिः।

दृष्टो मया सखि ब्रूहि रोदयित्वा गतोद्यमाम्।

भद्रे कल्याणिनीभूयाः प्राचीं पश्चातिनिर्म्मलाम्॥१९॥

डाहिणपवणु विग्गासं मीलइ लोअणाइ पहि अवहू।

णिउण सहीउणतीएकस्सेविवरे ढक्के इठ॥२०॥

अर्थगूढ़जातिः।

स्तुतिनिन्दा तदर्थत्त्वाद्व्यर्थमर्थद्वयोदयात्।

निह्नवात्कथितस्यापि शब्दव्याजादपह्नुतिः॥२१॥

बहुदोषो गुणध्वंसीगोहन्ता जनपीड़कः।

करोतु विरथो लोकमस्तमाप्तमहोदयम्॥२२॥

विष्णोःस्तुतिनिन्दे।

सततमहितजनवत्सलबहुभयपापक्रियापरिभ्रष्टः।

इह कलिकाले कुपतिर्जगतस्त्वं परमदुःखकरः॥२३॥

राज्ञःस्तुतिनिन्दे। इति स्तुतिनिन्दाजातिः।

प्रसन्नवदनः श्रीमानयं लब्धगुणोदयः।

करप्रचारसुभगो राजा नन्दयति प्रजाः॥२४॥

चन्द्रभूपती।

विनायकाहितप्रीतिर्देवो गङ्गां बभार यः।

सर्वदो माधवः स त्वामव्यादव्यर्थविक्रमः॥२५॥

शङ्करवासुदेवौ। द्व्यर्थजातिः।

शीत्कारं जनयति ब्रणयत्यधरं तनोति रोमाञ्चम्।

नागरिकः किमु मिलितो नहि नहि सखि हैमनः पवनः॥२६॥

रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति।

तत्किं तरुणी नहि नहि वाणीवाणस्य मधुरशीलस्य॥१७॥

अपह्नुतिजातिः।

स्वरेषु विन्दुयुक्तेषु हलां यदवबोधनम् ।

तद्विन्दुमदिति प्राहुः केचिद्विन्दुमतीमिति॥२८॥

मनसीनाभसीत्याद्याः बुद्ध्यादो न्यासतो हि याः।

बाहुल्येनाप्रयोगात्तु नेह तासां प्रदर्शनम्॥२९॥

त्रिनयनचूड़ारत्नं मित्रं सिन्धोः कुमुद्वतीदयितः।

अयमुदयति घुसृणारुणरमणीवदनोपमश्चन्द्रः॥३०॥

इति विन्दु मज्जातिः।

क्रियादिकं पदे यत्र पदसाधनकौशलात्।

स्फुटं न लक्ष्यते तत्स्यात् क्रियागुप्तादिकं यथा॥३१॥

राजन्! नव घनश्याम निस्त्रिंशाकर्षदुर्जय।

आकल्पं वसुधामेतां विद्विषोऽद्य रणे बहून्॥३२॥

पुंस्कोकिलकुलस्यैते नितान्तं मधुरारवैः।

सहकारद्रुमारभ्यांवसन्ते कामपि श्रियम्॥३३॥

इति क्रियागुप्तजातिः।

न करोतु नाम रोषं न वदतु परुषं न हन्तु वा शत्रून्।

रक्षयति महीमखिलां तथापि धीरस्य वीरस्य॥३४॥

शरदिन्दुकुन्दधवलं नगनिलयरतं मनोहरन्देवम्।

यैः सुकृतं कृतमनिशन्तेषामेव प्रसादयति॥३५॥

कर्तृगुप्तम्।

शीत्कारासारसंवाही सरोजवनमारुतः।

प्रक्षोभयति पान्यस्त्री निश्वासैरिव मांसलः॥३६॥

सुभग! तवाननप्रङ्गजदर्शनसञ्जातनिर्भरप्रीतेः।

शमयति कुर्वन् दिवसः पुण्यवतः कस्य रमणीयः॥३७॥

कर्मगुप्तम्।

पूतिपङ्कमयेऽत्यर्थं कासारे दुःखिता अमी।

दुर्वारा मानसं हंसाः गमिष्यन्ति घनागमे॥३८॥

अहं महानसायातः कल्पितो नरकस्तव।
मया मांसादिकं भुक्तं भीमं जानीहि मां वक॥३९॥

करणगुप्तम्।

अम्भोरुहमये स्नात्वा वापीपयसि कामिनी।
ददाति भक्तिसम्पन्नापुष्पं सौभाग्यकामया॥४०॥

प्रशस्त्यायुक्तमार्गस्य तव सम्मानिताश्रिताः।
स्पृहयन्ति न के नाम गुणरत्नालय प्रभो!॥४१॥

सम्प्रदानगुप्तम्।

शिलीमुखैस्त्वया वीर! दुर्वारैर्निर्जितो रिपुः।
बिभेत्यत्यन्तमलिनोः वनेऽपि कुसुमाकुले॥ ४२॥

सरसीतोयमुद्धृत्य जनः कन्दर्पकारकम्।
पिबत्यम्भोजसुरभिस्वच्छमेकान्तशीतलम्॥ ४३॥

अपादानगुप्तम्।

या कटाक्षच्छटापातैः पवित्रयति मानवम्।
एकान्तरोपितप्रीतिरस्ति सा कमलालया॥ ४४॥

विपद्यमानता सिद्धा सर्वस्यैव निरुष्मणः।
तथाहि भस्मपादाभ्यां निर्वाणं हन्त्ययं जनः॥४५॥

अधिकरणगुप्तम्। कारकगुप्तजातिः।

तूणीव मधुमासेऽस्मिन् रसालद्रुममञ्जरी।
इयमुद्भिन्नमुकुलैः भाति न्यस्तशिलीमुखा॥ ४६॥

प्राप्तमदो मधुमासः प्रवलारुक् प्रियतमो विदूरस्थः।

असतीयं संनिहिता हा हतशीला सखी नियतम्॥४७॥

सम्बन्धगुप्तजातिः।

सर्वज्ञेन त्वया किञ्चिन्नास्त्यविज्ञातमीदृशम्।
मिथ्या वचस्तथा हि त्वमसत्यं वेत्सि न क्वचित्॥४८॥

कमले कमले नित्यंमधूनि पिबतस्तव।
भविष्यति न सन्देहः कष्टं दोषाकरोदये॥४९॥

आमन्त्रितगुप्तजातिः।

विषादीभैक्ष्यमश्नाति सदारोगं न मुञ्चति।
रुष्टेनापि त्वया वीर! शम्भुनारिः समः कृतः॥५०॥

नित्यमाराधिता देवैः कंसस्य द्विषतस्तनुः।
मण्डलाग्रं गर्दा शङ्खं चक्रं जयति विभ्रती॥५१॥

समासगुप्तजातिः।

नितान्तस्वच्छहृदयं सखि! प्रेयान् समागतः।
त्वां चिरादर्शनप्रीत्या यः समालिङ्ग्य रंस्यते॥५२॥

कलिकालमियन्तावदगस्त्यस्य मुनेरपि।
मानसं खण्डयत्यत्र शशिखण्डानुकारिणी॥५३॥

लिङ्गगुप्तजातिः।

प्रमोदं जनयन्त्येव सदाराः गृहमेधिनः।
यदि धर्म्मश्चकामश्च भवेतां सङ्गतावुभौ॥५४॥

सुव्वचनगुप्तम्।

कस्मात्त्वं दुर्वलासीति सख्यस्तां परिपृच्छति।
त्वयि सन्निहिते तासु दद्यात् किं कथयोत्तरम्॥५५॥

लिङ्गवनगुप्तम्। वचनगुप्तजातिः।

अन्योऽप्यर्थः स्फुटो यत्र मात्रादिच्युतकेष्वपि।
प्रतीयते विदुस्तज्ज्ञास्तन्मात्राच्युतकादिकम्॥५६॥

महाशयमतिस्वच्छं नीरं सन्तापशान्तये।
खलावासादतिश्रान्ताः समाश्रयत हे जनाः॥५७॥

तुषारधबल स्फूर्जन्महामणिधरोऽनघः।
नागराजो जयत्येकः पृथिवीवरणक्षमा॥५८॥

मात्राच्युतजातिः।

सुश्यामा चन्दनवती कान्ता तिलकभूषिता।
कस्यैषा नगभूः प्रीतिं भुजङ्गस्य करोति न॥५९॥

यथा सत्प्रसवः स्निग्धः सन्मार्गविहितस्थितः।
तथा सर्वाश्रयः सत्यमयमेव कुलद्रुमः॥६०॥

विन्दुच्युतकजातिः।

महीरुहो विहङ्गानामेते हृद्यैः कलापिनाम्।
विरुतैः स्वागतानीव नीरवाहाय कुर्व्वते॥६१॥

अगस्त्यमुनेः शापाद्ब्रह्मस्पन्दनमाश्रितः।
महासुखात् परिभ्रष्टो नहुषः सर्पतां गतः॥६२॥

विसर्गच्युतकजातिः।

महानपि सुधीरोऽपि बहुरत्नयुतोऽपि सन्।
विरसः कुपरीवारः नदीनः केन सेञ्यते॥६३॥

सुशीलः स्वर्णगौराभः पूर्णचन्द्रनिभाननः।
सुगतः कस्य न प्रीतिं तनोति हृदि संस्थितः॥६४॥

असतीयं संनिहिता हा हतशीला सखीनियतम्॥४७॥

सम्बन्धगुप्तजातिः।

सर्वज्ञेन त्वया किञ्चिन्नास्त्यविज्ञातमीदृशम्।
मिथ्या वचस्तथा हि त्वमसत्यं वेत्सिन क्वचित्॥४८॥

कमले कमले नित्यंमधूनि पिबतस्तव।
भविष्यति न सन्देहः कष्टं दोषाकरोदये॥४९॥

आमन्त्रितगुप्तजातिः।

विषादी भैक्ष्यमश्नाति सदारोगं न मुञ्चति।
रुष्टेनापि त्वया वीर! शम्भुनारिः समः कृतः॥५०॥

नित्यमाराधिता देवैः कंसस्य द्विषतस्तनुः।
मण्डलाग्रं गदां शङ्खं चक्रं जयति विभ्रती॥५१॥

समासगुप्तजातिः।

नितान्तस्वच्छहृदयं सखि! प्रेयान् समागतः।
त्वां चिरादर्शनप्रीत्या यः समालिङ्ग्य रंस्यते॥५२॥

कलिकालमियन्तावदगस्त्यस्य मुनेरपि।
मानसं खण्डयत्यत्र शशिखण्डानुकारिणी॥५३॥

लिङ्गगुप्तजातिः।

प्रमोदं जनयन्त्येव सदाराः गृहमेधिनः।
यदि धर्म्मश्च कामश्च भवेतां सङ्गतावुभौ॥५४॥

सुव्वचनगुप्तम्।

कस्मात्त्वं दुर्वलासीति सख्यस्तां परिपृच्छति।
त्वयि सन्निहिते तासु दद्यात् किं कथयोत्तरम्॥५५॥

लिङ्गवनगुप्तम्। वचनगुप्तजातिः।

अन्योऽप्यर्थः स्फुटो यत्र मात्रादिच्युतकेष्वपि।
प्रतीयते विदुस्तज्ज्ञास्तन्मात्राच्युतकादिकम्॥५६॥

महाशयमतिस्वच्छं नीरं सन्तापशान्तये।
खलावासादतिश्रान्ताः समाश्रयत हे जनाः॥५७॥

तुषारधबल स्फूर्जन्महामणिधरोऽनघः।
नागराजो जयत्येकः पृथिवीवरणक्षमा॥५८॥

मात्राच्युतजातिः।

सुश्यामा चन्दनवती कान्ता तिलकभूषिता।
कस्यैषा नगभूः प्रीतिं भुजङ्गस्य करोति न॥५९॥

यथा सत्प्रसवः स्निग्धः सन्मार्गविहितस्थितः।
तथा सर्वाश्रयः सत्यमयमेव कुलद्रुमः॥६०॥

विन्दुच्युतकजातिः।

महीरुहो विहङ्गानामेते हृद्यैः कलापिनाम्।
विरुतैः स्वागताऩीव नीरवाहाय कुर्व्वते॥६१।

अगस्त्यमुनेः शापाद्ब्रह्मस्पन्दनमाश्रितः।
महासुखात् परिभ्रष्टो नहुषः सर्पतां गतः॥६२॥

विसर्गच्युतकजातिः।

महानपि सुधीरोऽपि बहुरत्नयुतोऽपि सन्।
विरसः कुपरीवारः नदीनः केन सेव्यते॥६३॥

सुशीलः स्वर्णगौराभः पूर्णचन्द्रनिभाननः।
सुगतः कस्य न प्रीतिं तनोति हृदि संस्थितः॥६४॥

अक्षरच्युतकजातिः।

तनोतु ते यस्य फणी गरुत्मान्पाणौ मुरारिर्दयिता च शय्या।
नाभ्यां स्फुरन् भद्र दमशभ्रदेहः पद्मागतिश्चक्रमसौविरिञ्चिः॥६५॥

हरःक्षयी तापकरः सुरेशःशान्तो हरिर्गोत्ररिपुर्विवस्वान्।
चन्द्रोद्विजिह्वाश्रित इत्युपेक्ष्य लक्ष्म्यावृतः पातु विधिर्जगन्ति॥६६॥

स्थानच्युतकजातिः।

भिक्षवो रुचिराः सर्वे सुरसाश्च जनप्रियाः।
क्षमायामतिसम्पन्ना दृश्यन्ते मगधे परम्॥६७॥

सत्यशीलो दयोपेतो दाता शुचिरमत्सरः।
जिनः सर्वात्मना सेव्यः पदमुच्चैरभीप्सिता॥६८॥

व्यञ्जनच्युतजातिः।

स्फोटयित्वाक्षरं किञ्चित् पुनरन्यस्य दानतः।
यत्रापरो भवेदर्थश्चुतदत्ताक्षरं हि तत्॥६९॥

सदागतिहतोच्छ्रायस्तमसो वशताम् गतः।
अस्तमेष्यति दीनोऽयं विधुरेकः शिवंस्थितः॥७०॥

पूर्णचन्द्रमुखीरम्या कामिनी निर्मलाम्बरा।
करोति कस्य न स्वान्तमेकान्तमदनोत्तरम्॥७१॥

इति च्युतदत्ताक्षरजातिः।

इति श्रीधर्मदासविरचिते विदग्धमुखमण्डने
चतुर्थः परिच्छेदः।
समाप्तः।

________

रतिमञ्जरी।

नत्वा सदाशिवं देवं नागराणां मनोहरम्।
रचिता जयदेवेन सुबोधा रतिमञ्जरो॥१॥

रतिशास्त्रं कामशास्त्रं तस्य सारं समाहृतम्।
सुप्रबन्धं सुसंक्षिप्तं जयदेवेन भण्यते॥२॥

पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा।
शशो मृगोवृषोऽश्वश्चस्त्रीपुंसोर्जातिलक्षणम्॥३॥

भवति कमलनेत्रा नासिकाक्षुद्ररन्ध्रा
अविरलकुचयुग्मा चारुकेशी कृशाङ्गी।
मृदुवचनसुशीला गीतवाद्यानुरक्ता
सकलतनुसुवेशा पद्मिनी पद्मगन्धा॥४॥

भवति रतिरसज्ञानातिखर्वा न दीर्घा
तिलकुसुमसुनासा स्निग्धनीलोत्पलाक्षी।
घनकठिनकुचाढ्यासुन्दरी बद्धशीला
सकलगुणसमेता चित्रिणी चित्रवक्त्रा॥५॥

दीर्घातिदीर्घनयना वरसुन्दरी या
कामोपभोगरसिका गुणशीलयुक्ता।
रेखात्रयेण च विभूषितकण्ठदेशा
सम्भोगकेलिरसिका किल शङ्खिनी सा॥६॥

स्थूलाधरा स्थूलनितम्बभागा स्थलाङ्गुली स्थूलकुचा सुशीला।
कामोत्सुका गाढरतिप्रियाया नितान्तभोक्त्रीकरिणी मता सा॥

शशके पद्मिनीतुष्टा चित्रिणी रमते मृगम्।

वृषभे शङ्खिनीतुष्टा हस्तिनीरमते हयम्॥८॥

पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी।
शङ्खिनी क्षारगन्धा च मदगन्धा च हस्तिनी॥९॥

बाला च तरुणी प्रौढ़ा वृद्धाभवति नायिका।
गुणयोगेन रन्तव्या नारी वश्या भवेत्तदा॥१०॥

आ षोड़शाद् भवेद्वाला तरुणी त्रिंशका मता।
पञ्चपञ्चाशका प्रौढ़ा भवेवृद्धाततः परम्॥११॥

फलमूलादिभिर्बाला तरुणी रतियोगतः।
प्रेमदानादिभिः प्रौढ़ा वृद्धा च दृढ़ताड़नात्॥१२॥

बाला तु प्राणदा प्रोक्ता तरुणी प्राणहारिणी।
प्रौढ़ा करोति वृद्धत्वं वृद्धामरणादिशेत्॥१३॥

अङ्गुष्ठे चरणे च गुल्फनिलये जानुद्वये वस्तिके
नाभौ वक्षसि जङ्घयोर्निगदिता कण्ठे कपोलेऽधरे।

नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवा
मूर्द्धाधश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः॥१४॥

सीमन्ते नयनेऽधरे च गलके कक्षस्तटे चूचुके
नाभौश्रोणितटे मनोभवगृहे जङ्घातटे गण्डके।
गुल्फे पादतले तदङ्गुलितटेऽङ्गुष्ठे च तिष्ठत्यसौ
वृद्धिक्षीणतया समं शशिकला पञ्चद्वयोर्योषिताम्॥१५॥

शुक्लपक्षे वसेद्वामे पादाङ्गुलिकनिष्ठके।
शुक्लप्रतिपदादौ च कृष्णे चाधः प्रलम्बते॥१६॥

पुंसः सव्ये स्त्रियो वामे शुक्लेकृष्ण विपर्य्ययः।

एतानि कामस्थानानि ज्ञेयानि नागरैः सदा॥१७॥

बलयुक्ता यदा नारी विपरीतरतिर्भवेत्।
सञ्चाल्यतु कलास्थानं रन्तव्या कामिनी तदा॥१८॥

नेत्रे कण्ठे कपोले च हृदि पार्श्वद्वयेऽपि च।
ग्रीवायां नाभिदेशे च कामीचुम्बति कामिनीम्॥१९॥

मुखे जङ्घेनितम्बे च जघने मदनालये।
स्तनयुग्मे सदाप्रीतिः कामो चुम्बति कामिनीम्॥२०॥

प्रेम्णा स्त्रियं समालिङ्ग्यशीत्कारं मुखचुम्बनम्।
कण्ठासक्तं पुनः कृत्वा गाढ़ालिङ्गनमाचरेत्॥२१॥

विधृत्य हस्तौ जघनोपपिष्टः शीत्कृत्य वक्त्रेच मुदा प्रचुम्ब्य।
भगे च लिङ्गंस्तनमर्द्दनञ्चदत्त्वापि कृत्वा प्ररमेच्चकामी॥२२॥

केतक्यग्रनखं कृत्वा नखांस्त्रीन् पञ्चचैव वा।
पृष्ठे च जघने योनौ दत्त्वा कामी रमेत् स्त्रियम्॥२३॥

नखरोमाञ्चितं कृत्वा दन्तेनाधरपीड़नम्।
ग्रीवामाकृष्य यत्नेन योनौ लिङ्गेन ताड़नम्॥२४॥

लिङ्गप्रवेशनं कृत्वा धृत्वा गाढ़प्रयोगतः।
पार्श्वद्वयेन सम्पीड्य निस्पृहं ताड़येद्भगम्॥२५॥

समालिंग्य स्त्रियं गाढ़ंस्तनयुग्मे च मर्दनम्।
योनौ नाभौ च संमर्द्यनिष्ठुरं लिङ्गताडनम्॥२६॥

केशं करेण संगृह्य दृढ़ंसन्ताडयेद्भगम्।
वदने चुम्बनं कृत्वा भगं हस्तेन मर्दयेत्॥२७॥

कुचंकरेण संमर्द्यपीडयेदधरं दृढ़म्।

रमनं पद्मबन्धेन पद्मनीरतिमादिशेत्॥२८॥

शीत्कारं चुम्बनं पीडा गले हस्ते च चुम्बनम्।
क्षणे क्षणे स्तने हस्तं चित्रिणीरतिमादिशेत्॥२९॥

स्त्रीपुंसयो स्तथान्योन्यं भगे लिङ्गे च चुम्बनम्।
रमणन्तु तथा गाढ़ं´ शङ्खिणीरतिमादिशेतम्॥३०॥

केशं करेण संगृहृ सुदृढ़ं गजबन्धनम्।
भगं करेण संताड्य हस्तिनीरतिमादिशेत्॥३१॥

कूर्मपृष्ठं गजस्कन्धं गद्मगन्धं सुगन्धि यत्।
अलोमकं सुविस्तीर्णं पञ्चैतद् भगमुत्तमम्॥३२॥

शीतलं निम्नमत्युच्चं गोजिह्वासदृशं परम्।
इत्यक्तं कामशास्त्रज्ञै र्भगदोषचतुष्टयम्॥३३॥ .

मुसलं वंशकं वीरं द्विविधं लिङ्गलक्षणम्।
स्थूलं मुसलमित्युक्तं दीर्घं क्शंकवीरकम्॥३४॥

स्त्रीजितो गायकश्चै व नारीसत्यपरः सुखी।
मडङ्गुलशरीरश्च स श्रीमान् शशको मतः॥३५॥

श्रेष्ठस्तु धार्मिकः श्रीमान् सत्यवादी प्रियम्बदः।
अष्टाङ्गुलशरीरश्च रूपयुक्तो मृगो मतः॥३६॥

उपकारपरो नित्यं स्त्रीजितः श्लेष्मणः सुखी।
दशाङ्गुलशरीरश्च मनस्वी वृषभो मतः॥३७॥

काष्ठतुल्यवपुर्धृष्टो मिर्थ्यावाक्यश्च निर्भयः।
द्वादशाङ्गुललिङ्गश्च नरिद्रश्च हयो मतः॥३८॥

न रमन्ते यदा नार्य्यस्तृप्तावा रमते च या।

नानाबन्धां स्तथा वक्ष्ये रन्तव्या कामिभिः स्त्रियः॥३९॥

पद्मासनो नागपादो लतावेष्ट्योर्द्धसंपुटः।
कुलिशः सुन्दरश्चैव तथा केशर एव च॥४०॥

हिल्लोलो नरसिंहोऽपि विपरीतस्तथापरः।
क्षुद्गारो धेनुकश्चैव उत्कण्ठश्च ततः परः।
सिंहासनोरतिर्नागो विद्याधरस्तु षोडशः॥४१॥

क्षस्ताभ्याञ्च समालिङ्ग्य नारीं पद्मासनोपरि।
रमेद्गाढ़ं समाकृष्य बन्धोऽयं पद्मसंज्ञकः॥ ४२॥

पादौ स्कन्धयुगे हस्तौ क्षिपेल्लिङ्गं भगे लघु।
प्ररमेत्कामुको नारीं बन्धो नागपदो मतः॥ ४३॥

बाहुभ्यां पादयुग्माभ्यां वेष्टयित्वा रमेत् स्त्रियम्।
लघु लिङ्गं ताडयेद्योनौलतावेष्टोऽयमुच्यते॥४४॥

स्त्रीपादावन्तरीक्षे तु किञ्चिद्भूमौ च जानुनि।
स्तनयोर्मर्दनं पीड़ा बन्धोममर्द्धसंपुटः॥४५॥

स्त्रीपादद्वयमास्फाल्य हटाल्लिङ्गस्य ताडनं।
योनिमापीड़येत्कामी बन्धः कुलिशसंज्ञकः॥४६॥

नारीपादद्वयं स्वामी धारयेदूर्द्धदेशतः।
कुचौ धृत्वा पीवेद्वक्त्रंबन्धोऽयं रतिसुन्दरः॥४७॥

स्त्रीयो जङ्घे समापीभ्य दोर्भ्यांगात्रस्य मर्दनं
पुनः प्रपीड़येद्योनिं बन्धः केशरसंज्ञकः।
हृदि कृत्वा स्त्रियः पादौ कराभ्यां धारयेत् करौ
यथेष्टं ताड़येद् योनिं बन्धो हिल्लोलसंज्ञकः॥४८॥

वादौ संपीड्ययोनौ च हठाल्लिङ्गप्रवेशनम्।
हस्तयो वेष्टनं गाढ़ं बन्धो नृसिंहसंज्ञकः॥५०॥

पादमेकमुरौ कृत्वा द्वितीयं कटिसंस्थितम्।
नारीञ्च सुरमेत्कामी विपरीतस्तु बन्धकः॥५१॥

पार्श्वोपरि पदौ कृत्वा योनौ लिङ्गेन ताड़येत्।
बाहुभ्यां तायेद्गाढ़ं क्षुद्गारो बन्ध एव सः॥५२॥

सुप्तां स्त्रियं समालिङ्ग्य स्वयं सुप्तो रमेत् पुनः।
यल्लिङ्गं चालयेद् योनौ बन्धोऽयं धेनुकः स्मृतः॥५३॥

नारीपादौ च हस्तेन धारयेद् गलके पुनः।
स्तनार्पितकरोकामी बन्धश्चोत्कण्ठसंज्ञकः॥५४॥

स्वयं जङ्घाद्वयं बाहौकृत्वा योषित्पदद्वयम्।
स्तनौ धृत्वा रमेत् कामी बन्धः सिंहासनो मतः॥५५॥

पीड़येदुरुयुग्मेन कामुकः कामिनीं यदि।
रति र्नागः समाख्यातः कामिनीनां मनोहरः॥५६॥

नार्याश्चोरुयुगं धृत्वा कराभ्यां ताडयेत्पुनः।
रमयेन्निर्भरं कामी बन्धो विद्याधरो मतः॥५७॥

स्त्रोयमानीय यत्नेन विधृत्य चरणद्वयम्।
वशं नयति यः कामी रतिशास्त्रविचक्षणः॥५८॥

रतिशास्त्रं समाकर्ण्य बन्ध्यान् पद्मादिषोड़श।
नानाविधरतिं कुर्य्यात् कामिनीं कामुको जनः॥५९॥

सर्वशास्त्रार्थवक्त्रेण जयदेवेन धीमता।
मञ्जरी रतिशास्त्रस्य कृता नीता समाप्तताम्॥६०॥

इति श्रीजयदेवेन विरचिता रतिमञ्जरी समाप्ता।

नलोदयः।

<MISSING_FIG href="../books_images/U-IMG-1729586977Screenshot2024-10-22141805.png"/>

प्रथमोच्छासः।

हृदय सदायादवतः पापाटव्या दुरासदायादवतः।
अरिसमुदायादवतस्त्रिजगन्मा गाः स्मरेणदायादवतः॥ १॥

योऽजनि नागोपीतश्चचार यो बल्लावांगनागोपीतः।
भूर्येनागोपीतः कंसाद्यो द्वेषमेव नागोपीतः॥२॥

यदरिपुसान्नानस्थितयोयन्नुन्नमुदलसन्नामानः।
यत्र ससन्नामानःस्यर्भवभाजश्च पठितसन्नामानः॥३॥

समनिन्दानवनाशञ्जनतालिकुलेयथैवदानवनाशम्।
द्विरदाद्दानवनाशं जगच्च लभते यतः स दानवनाशम्॥४॥

अस्ति सराजा नीते रामाख्योयो गतीःपरा जानीते।
यस्य रराजानीते रत्नानि जनः कुले धराजानीते॥५॥

यः सेनानावारिप्रकरनदीः शरमयं धुनानावारि।
अतरन्नानावारि व्यसनैर्यद्भुवि वनञ्च नानावारि॥६॥

अपि यो दायादाय क्षयप्रदोऽंहसि सतां यदायादायः।
करमादायादाय श्रियोऽब्धिरधिराजमसिगदायादायः॥ ७॥

अविदूराजादित्या कृताल्पभेदैव भूः सराजादित्या।
येन सराजादित्यात् त्रिदिवात्संयुक्तशत्रुराजादित्या॥८॥

खलसेना नावेद्यः स्वांहोव्धौभुवि च यस्य नानावेद्यः।

स्निग्धजनानाबेद्य प्रयतेऽस्य सुकाव्यविरचनानावेद्य॥९॥

अथ निजराज्यन्तेन प्राशासि नलेन शत्रुराज्यन्तेन।
येनाराज्यन्तेनश्रिया दिशो यस्य विहतिराज्यन्तेन॥१०॥

मूर्त्तिं मारसमानां योऽदधदायुः सहस्रभारसमानाम्।
रुद्रकुमारसमानामजयद् द्विषताम्पंक्तिमारसमानाम्॥११॥

साश्वनियामानयतः श्रेष्ठाविद्यास्तदाश्रयामानयतः।
अधिकायामानयतः शत्रावपि यस्य धीर्दयामानयतः॥१२॥

अहितानामायस्य त्राता यः शरणगामिनामायस्य।
गतनानामायस्य श्रुतः पिता वीरसेननामायस्य॥१३॥

भुव्यतनोदन्तेन द्विषतां सयशांसि शोभनोदन्तेन।
नीतानोदन्तेन क्षितिमभजन्नहितदन्तिनोदन्तेन॥१४॥

सपिवगिरागोपायन्नलः सष्टथिवीं निरस्तरागोपायम्।
शत्रोरागेापायं नीत्वा नेमुर्महत्तरागोपायम्॥१५॥

योऽदम्भोमान्यायादधिकोऽथ रिपुर्यमेत्य भीमान्यायात्।
वैदर्भीमान्यायात्रिजगति कन्या बभूव भीमान्यायात॥१६॥

महिततमारम्भाभिर्दमयन्ती सदृगुमारमारम्भाभिः।
दधती मारम्भाभिर्ववृधे सोरुद्बये समारन्भाभिः॥१७॥

सारत्नंनारीणां नलः श्रियामजनि निलयनॅनारीणाम्।
यस्यानन्नारीणां मरुभुवमापद्घटावनं नारीणाम्॥१८॥

चकमे साराजन्यश्रेष्ठन्तन्तां स तेजसाराजन्यः॥
आत्तविसाराजन्यश्रियोऽधितययाजिताः ससाराजन्यः॥१९॥

नार्त्तिर्नोद्यानेन प्रभाविहीनेन शोभनोद्यानेन।
स्मरजानोद्यानेन स्फुटमितिगमिहनलोतनोद्यानेन॥२०॥

सोहहितहन्तापततः कांश्चिदपश्यद्धिताय हन्तापततः।
सस्नेहन्तापततस्तान्यदमी तोषमावहन्तापततः॥२१॥

तन्तरसारसमानः सविहंगगणोऽब्रवीत्ससारसमानः।
गतहिंसारसमानस्तुदलभ्योनिष्क्रयः स्वसारसमानः॥२२॥

त्वं झषकेत्वङ्गत्वादधिको भैम्यास्तुमोन्तिकेत्वङ्गत्वा।
सातेऽङ्केत्वङ्गत्वासक्ता लल तत्सकाशकेत्वङ्गत्वा॥२३॥

इति हंसारामाया निकटंयामयकृतेव सारामाया।
जग्मुःसारामाया जगदुश्चालीभिरभिससारामाया॥२४॥

श्रीसंकाशास्यस्य त्वं भैमि नलस्य शशिनिकाशास्थस्य।
अरिलोकाशास्यस्य यदि भार्यास्याः कुमारिकाशास्यस्य॥२५॥

इति हांसेनोदितया गणेन भैम्या मुदारसेनोदितया।
नबभासेनोदितया स्मरेण सपुननलौकसेनोदितया॥२६॥

ता बहुधावायस्य श्रेण्यः पुनरस्य सन्निधावायस्थ।
ताञ्चनिधावायस्य व्यनुवंस्तुलनाय न विबुधावायस्य॥२७॥

इति सवितामानितया जह्रे भैम्यानलोऽपि नामानितया।
स्वास्थ्यं नामानितया शिश्येच विचिन्त्यतस्यनामानितया॥२८॥

अथ ससमुद्रागस्य क्ष्मान्तस्यालङ्कृतेः समुद्रागस्य।
यौवनमुद्रागस्य स्वसुतारत्नस्य सादमुद्रागस्य॥२९॥

दृष्ट्वा राजातनुत स्वयंवरं विधिवदिन्दिराजातनुतः।
यस्य जराजातनुतः पृथग्व्यथासौजनाद्रराजातनुतः॥३०॥

तं हासेनापालिःस्वयंवरंक्षितिभुजां ससेनापालिः।
न बभाप्तेनापालिः स्रगेषु यैः शिरसि या रसेनापालि॥३१॥

तां गां सेनाराजिः स्वर्गसदां यैः सदारसेनाराजि।
आयासेनाराजिक्षयितरिपौ चलति विबुधसेनाराजि॥३२॥

सोऽथ परमहस्तेन प्रापि नलेनोत्सवः परमहस्तेनः।
स्फुरितपरमहस्तेन प्रबभौरविणेवतत्पुरं परमहस्तेन॥३३॥

क्षिप्तलसन्नालीकानहितेषु मुखेन्दुतुलितसन्नालीकान्।
राज्ञः सन्नालीकान् कान्तिर्विबुधांश्चनाहसन्नालीकान्॥ ३४॥

अजनिकलापास्यन्तं स्वयशोऽनिजकंमहः कलापास्यन्तम्।
शत्रुकलापास्यन्तम्प्रेक्ष्य नलं सुरततिः कलापास्यन्तम्॥३५॥

स्वर्निलयानामनलंकृतमपि जेतुन्ततिः श्रियानामनलम्।
यमजेयानामनलम्प्रोचे शक्रस्तमरिचयानामनलम्॥३६॥

वद कामायासन्नस्त्वम्भैम्यै यद्गुणाः श्रमायासन्नः।
श्रेष्ठतमायासन्नस्त्वान्द्रष्टा नतु जनः स्वमायासन्नः॥३७॥

इति सरवकेहास्तन्नयस्य समुकुलं सुरप्रवेकेहास्त।
तामविवेकेहास्तः श्रयति स्त्रीतत्रपार्थिवेकेहास्त॥३८॥

हरिपवमानयमानान्दुतीऽस्मिनलोमहारमानयमानान्।
भवतीं मानयमानान्भैमिसुरान्विद्धिमहमिमानयमानान्॥३९॥

तुल्येऽप्सरमादेहिप्रभवो मग्नाः स्मर प्रसरसादेहि।
तानभिसरसादेहि स्रजञ्चनाकात्सुखञ्चसरसादेहि॥४०॥

इति कृतसामारवतः सुरलोकात्तन्मुखेन सामारवतः।
नरिरंसामारवतस्थलादिव नलोत्कमानसामारवतः॥४१॥

साविरराजायतया वीक्ष्य दृशातं स्मरातुराजायतया।
स्थितिरत्राजायतया द्यसदाञ्चाभाषिनिषधराजायतया॥४२॥

तस्या देवाद्यस्य प्रणम्य च नलेन धीः पदेवाद्यस्य।
सति निनदेवाद्यस्य स्वयं प्रियायाः पदं मुदेवाद्यस्य॥४३॥

अथ तरसारं गेयन्नृपतिगणोऽस्थित पदेषु सारंगेयं।
चञ्चलसारंगेयन्दमयन्ती चाक्षितुलितसारंगेयं॥४४॥

व्यधुरवनामान्येषु प्रजा नृपेष्वथनिवेद्य नामान्येषु।
सूतैर्नामान्येषु प्रकीर्त्तयमानेषु शोभनामान्येषु॥४५॥

सांगेननलसमानाननलसमानानमुत्रकतिचित्पुरुषान्।
प्रैक्षत ननलसमानाननलसमानानभून्न तेषाम्भेदः॥४६॥

रुचिकृतनासत्यागाः स्फुरतु नलोयदिचवच्मिनासत्यागाः।
अपि दीनासत्यागान्न्याययुतेनैव वर्त्मनासत्यागा॥४७॥

यदि वाभावन्न्यस्य स्थितास्मि नल एव नरविभावन्यस्य।
देवसभावन्यस्य द्विपस्य वपुषो भवेद्विभावन्यस्य॥४८॥

कृतभावासावनितानितिभुवमेक्षत्सुरान्सुवासावनिता।
स्वपतिं वासावनिताचिह्नं धार्म्मिकजने ध्रुवासावनिता॥४९॥

स्वरिरंसादेवाल्याकुलया दृष्ट्यार्थितापि सादेवाल्या।
वपुषि संसादेवाल्यादवृत्तनलमुपस्थितं रसादेवाल्या॥५०॥

सत्सदसोमाननया रुद्रसमोयः स्वतेजसोमाननया।
प्रवृतः सोमाननया नलोबभौ भविगुणेन सोमाननया॥ ५१॥

मददम्भावरमस्यज्ज्ञात्वाथमनोगुरुप्रभावरमस्य।
सुरवृषभावरमस्य प्रदिश्य जग्मु र्गतप्रभावरमस्य॥५२॥

गुरुमहिमापरमायास्तम्भी नलएषवसतिमापरमायाः।
प्रिययामापरमायाः स्वपुरगुर्यत्र तं क्षमापरमायाः॥५३॥

शिनाश समहासमहानगरेजनतासमहासमहास्तमुदम्।
अतिभासुरयासुरयाव्यहरद्व्यतनोत्सुरयासुरयागमपि॥५४॥

इति श्रीकालिदासकृते नलोदधे सत्काब्ये
प्रथमः सर्गः।

________

द्वितीयः सर्गः।

अथ रतिरेकान्तेन प्रापि नलेनात्र मन्दिरेकान्तेन।
ताम्पनरेकान्तेन प्राप्तवता रिपुमदातिरेकान्तेन॥१॥

बभौ ससारसागरश्चकाससारसार्द्रधीः।
मधः ससारसारवस्तदा ससारसार्त्तवः॥२॥

समुदधिताशालीनां करेण कणिशाग्ररुचिजिताशालीनाम्।
दिनभर्त्ताशालीनामिव नलिनीमध्य समुत्थिताशालीनाम्॥३॥

कुरवापचसारसकाकुरवान् कुरवाख्यनगोपितदांकुरवान्।
कमलं कृतवद्गतपङ्कमलं कमलं नविलोभयितुङ्कमलम्॥४॥

अगुरतिमहिमानीतस्ततोरविमहांसिगुरुतमहिमानीतः।
भवनं महिमानीतः स्मरेण परितः शराख्यमहिमानीतः॥५॥

स्मरसूचितयाजगतः क्षितिसूचितयाभवद्धिचम्पकमुकुलम्।
तदसूचितया व्यथया निरसूचितया यथावियुग्दम्पतिकौ॥६॥

विरलोच्चपलाशस्य प्रचुरम्पुष्पं बभूव चपलाशस्य।
स्मरनीचपलाशस्य प्राश्याध्वगपिशितचारुचपलाशस्य॥७॥

ऋतौबभुर्निशाह्नया विभा विभा विभा विभाः।
कलाश्चतेषु सत्पतेरदा रदा रदा रदाः॥८॥

इहललनाशोकालिप्रदेन येनात्ममदविनाशोकालि।
कामनाशीकालिस्वनहूंकृतिभिः सदिक्ष्वनाशोकालि॥९॥

स्मरस्य युद्धरङ्गतां रसा रसा रसा रसा।
जितावियोगिनः समुन्नते नते नते नते॥१०॥

नुन्नमनामधुनानाश्रयतिभृतिङ्कोविनाङ्गनामधनाना।
इति ललनामधुनानाविधमधयत्किलतदर्थनामधनाना॥११॥

पिकोपिको पिको पिको वियोगिनीरभर्त्सयत्।
वचांसि भङ्गमालपन्निता निता निता निताः॥१२॥

श्रीरापिकमापेन प्रवृद्धमाम्रावलिषु पिकलापेन।
न कलापिकलापेन प्रणर्त्तनमकारि वागपिकलापेन॥१३॥

सहकारवृते समये सहकारहणस्य के न सस्मार पदम्।
सहकारमुपरिकान्तैः सहकारमणीपुरः सकलवर्णमपि॥१४॥

अधिगतकामधरागात् अगमेत्यभ्रमरपटलिकामधुरागात्।
पीत्वोत्कामधरागात्द्रतमकृतततःश्रियोधिकामधरागात्॥१५॥

नसमा नसमा नसमा नसमा गममाप समीक्ष्य वसन्तनभः।
भ्रमद भ्रमद भ्रमदभ्रमद भ्रमरच्छलतः खलुकामिजनः॥१६॥

गतमत्र चयेन गृहादसमुत्तरतान्तरतान्तरतान्तरताम्।
परएव विकार इयाय वृहत्तमसन्तमसन्तमसन्तमसन्॥१७॥

क्रुधिकान्तवशन्नवदामसमापनयापनयापनयापनया।
तभृतेऽनुशयेन च तामशनैरवता रवता रवता रवता॥१८॥

नभसो विवरं कुसुमेक्षणभागतरो गतरो गतरो गतरो।
वद कान्तमवेक्ष्य यथाद्य मधावरमे वरमे वरमे वरमे॥१९॥

श्रितेतिगामनागतस्वबन्धुकामनागतः।
परापनामनागतस्ततामकामनागतः॥२०॥

काललनादिवसन्तं कुसुमशरमसोढ़हृद्यनादिवसन्तम्।
अलिभिरनादिवसन्तं दृष्ट्वा यत्रात्मनोऽर्थनादिवसन्तम्॥२१॥

स्वयमथ मन्दारितया युक्तो युक्तन्नलः स मन्दारितया।
आरामन्दारितया मदनेन धियापदुत्तमन्दारितया॥२२॥

अनुव्रता समाननं समाननन्द भीमजा।
तमिन्दुना समाननं समाननन्दने वने॥२३॥

इह रुचिरामावलयस्वदृशमिति पृथक् प्रियस्य रामावलयः।
प्राप्तारामावलयस्फुरो गिरा यदुदरेभिरामावलयः॥२४॥

नवकुसुमानमनागा गन्तुं नैच्छत्परा समानमनागाः।
अजनिपुमानमनागाश्रित्यससत्कुसुमदानमानमनागाः॥२५॥

रुषितं सखिसादममुष्यलसत्तनुते तनुते तनुते तनुते।
ननवाननवाननवाननवागिहते चरणेभृतिमेय्यति सः॥२६॥

अपि चैत्यनगानवतानवतानवतानवतास्ततरामधना।
इह सौख्यमगोचरमाचरमाचरमाचरमाचरमास्यनरम्यतरा॥२७॥

इति लालिकयालिकयातकचै-
रतिकयालिकयालिकया कथिता।

दयितं समया समयादपरा
व्यहरत्समया मसयाचतया॥२८॥

अतिरुचिमानस्तवकः सरस्तटोऽयं विचीयमानस्तवकः।
इह खलु मानस्तवकः प्रियामिति परोनयत्समानस्तवकः॥२९॥

अरुणतरपरागस्य प्रसवम्प्रैक्षिष्ट न पुनरपरागस्य।
हसितैरपरागस्य स्वैस्तिष्ठन्त्यपि लवेप्सरपरागस्य॥३०॥

अवेक्ष्य पल्लवालयानगान् श्रितालवालया।
लतातयेवबालयाबभेऽन्ययाववालया॥३१॥

व्रततीनामालीनां मध्येन्योव्यचिनुताङ्गनामालीनाम्।
अप्येनामालीनां स्मिताच्च जानन् मदाच्चनामालीनाम्॥३२॥

कमितुः कलुषाक्षिसुखार्थनभागपरागपरागरागपरा।
स्थितिमाप तथैव हृतः सपुमाननयाननयाननयाननया॥३३॥

स्वमनेन समायतयाव्यधितागः स्वेवकश्चनसमायतया।
ऋजुमानसमायतयातस्मैनाक्रोधिजीवनसमायतया॥३४॥

अभवदनेनानाविस्मयदोन्योमानिनीजनेनानावि।
अतिसुजने नानाविस्खलनं यदुपवनमनेनानावि॥३५॥

जनादसोःसमानतः पदाहतिं समानतः।
परोदधौ समानतः स्वमूर्द्धिभासमानतः॥३६॥

तनुच्छटीत्तमालया तयाभुवोत्तमालया।
अहारिशीतमालयानिलावधूतमालया॥३७॥

श्रितलसदारामाभिः प्राप्येति जनोविहृतिमुदारामाभिः।
आरादारामाभिस्फुरितसरोजं सरस्तदारामाभिः॥३८॥

किमपःसरसीमाया धाम गुणामृत प्रसरसीमायाः।
दुतमिति सरसोमायात्यक्तोभैग्या नलश्च सरसीमायात्॥३९॥

गतपङ्काः सारस्यश्रियोऽस्यजहुर्मनोऽधिकाः सारस्यः।
अपिकेाकाः सारस्यस्थिताः कुरर्य्यश्चहंसिकाः सारस्यः॥४०॥

काक्षतिरस्तिमिताभिः स्फुटमद्भिर्विहृृतिरस्तिमिताभिः।
अनतितरस्तिमिताभिः

कमेत्ययदशङ्किधृतिभिरस्तिमिताभिः॥४१॥

अलिर्मिलत्परागतः सरोरुहात्पारागतः।
मुखंमुदापरगतस्तदीयमापरागतः॥४२॥

अथकामानलिनोनांस्त्रीणां संघैर्मनोरमानलिनोनाम्।
विधुरतमानलिनीनाम्पंक्तिर्विततान संभ्रमानलिनीनाम्॥४३॥

सरःश्रियोऽन्तरङ्गतःसरोजनृत्तरङ्गतः।
भयंमहत्तरङ्गतस्तनूजनस्तरङ्गतः॥४४॥

अथ नीरात्सारसतः फेनपरीताद्यथाम्बरात्सारसतः।
अतिमुखरात्सारमत स्तीरमितास्त्रीततिश्चिरात्सारसतः॥४५॥

सचोदयावलीनतः समुत्प्रभावलीनतः।
नयन्ययावलीनतः पदंजनोवलीनतः॥४६॥

दिशः कामानङ्गेहं मन्यो मदनेषुविकृतिमानङ्गेहम्।
इति परमानङ्गेहं नलःप्रियामनयदतिविमानङ्गेहम्॥४७॥

अरुणमहस्तेनेन प्रापि च सोऽब्जैर्गुणग्रहस्तनेन।
भाव्यमिहस्तेनेन स्फुटमस्यहि तद्गतेंऽशुहस्तेनेन॥४८॥

यतो यतो यतो यतो रवेर्मरीचिसञ्चयः।
महान्धकारसञ्चयस्तत स्तत स्तत स्ततः॥४९॥

छादितरवितानेन प्रापि च कालेन सस्वरवितानेन।
जितरुधिरवितानेन व्योम्नाचस्फुरितमुडुभिरवितानेन॥५०॥

अथोद्यतोम्बुराजतःश्रियं खमाप राजतः।
यथा घटो व्यराजतस्मराग्रगःसराजतः॥५१॥

दधतं कालं कालं कालं कालं वियोगनी शशिनन्तम्।
अध्वगकालं कालं कालं कालंप्रसमीक्षितुप्रोद्यन्तम्॥५२॥

क्षरत्तुषारशीकराः प्रबद्धकैरवाकराः।
ततीजजृम्भिरे करा जगत्सु शार्वरीकराः॥५३॥

बधूस्तदानुनिन्यिरे नये नये नये नये।
वशं नरोऽनयन्समुन्नते नते नते नते॥५४॥

सहासहावमादरैः सहा सहाः स्मरस्य ते।
सुरा सुरा यथामृते सरा सुरागमादधुः॥५५॥

मधुं प्रपीय चाभवन्नता नता नता नताः।
रमा रमा रमा रमाकुले जनेऽत्र हालया॥५६॥

भ्रमरैर्द्रागस्तानि प्रपीय च मधूनि सानुरागस्तानि।
दत्तनिरागस्तानि प्रापच्छयनञ्जनस्त्वरागस्तानि॥५७॥

ससमुद्रमहेलाभित्फरितगुणाभिस्ततस्मरमहेलाभि।
श्रीः प्रवरमहेलाभिस्तथैवयुवपंक्तिभिः परमहेलाभिः॥५८॥

तयार्द्रधीरमायया मुदामनारमायया।
नलो विहारमाययावधःकृतारमायया॥५९॥

साशंकामायासीत्कृतिनी भैमी नलस्य कामायासीत्।
कामनिकामायासीद्यतिन्तदिष्टांसचाधिकामायासीत्॥६०॥

इतिनानामायानांनलः कलिभुवांबलेननानामायानाम्।
व्यसनानामानान्निधिररमद्राज्यजन्मनामायानाम्॥६१॥

स्वयंवरादनन्तरं मही मही महीनधोः।
ररक्षनैषधस्तदारराजरा जरा जराः॥६२॥

इति श्रीकालिदासकृते नलोदये सत्काव्ये
द्वितीयः सर्गः।

________

तृतीयः सर्गः।

अथमुरबृषभाः स्वरतः प्रेक्ष्यकलिंप्रस्थितामहाद्भास्वरतः।
यः कृतिषुशुभास्वरतः पप्रच्छस्तद्गतिङ्घननिभाः स्वरतः॥१॥

यशसामायामितयाहृतः श्रियाभीमहितृमदुायामितया।
तदधिगमायामितया स्पृहयाद्यमनुव्यमायामितया॥२॥

इतिविकलोमायायास्तदुक्तऊचेजनोऽमलोमायायाः।
शुभशोलोमायायाः स्थितीनलोऽस्यावरोऽनुलोमायायाः॥३॥

वचइतिवस्वादिभ्यः श्रुत्वाकलिरुत्सवासवस्वादिभ्यः।
मखमस्वार्वदिभ्यश्चुकोपदोषात् समदभुवः स्वादिभ्यः॥४॥

प्रबलतमानबलतयासंयोज्यनलेपुरोत्तमानवलतया।
तेनानामानवलतयातरुणेवतयास्यतांनमानवलतया॥५॥

इति बलवानन्तरतः कलिः किलैतज्जगादवानन्तरतः।
अवहितवानन्तरतः समृद्धिषुनलस्यविविशिवानन्तरतः॥६॥

सोऽथसदारोदरतः पुष्करविजितोनलः सदारोदरतः।
व्याजाद्दारोदरतः स्वपुरान्नियातवानुदारोदरतः॥७॥

असमानानाहारिः स्मैनं शब्दांश्च किममुनानाहारि।
अपितेनानाहारि भ्रान्तन्भूषणमपास्वनानाहारि॥८॥

शुचमकरोदन्यस्य भ्रमन्नलः पथिपदं सरेदन्न्यस्य।
नच पुनरोदन्यस्य त्राणायाभूत्परम्परौदन्यस्य॥९॥

नास्य रमानावासस्तच्च खगाजह्र रर्थ्य मानावासः।
अपिमदमानावासस्वरोषजलधिन्तरन् क्षमानावासः॥१०॥

तापशतेनवसानौद्रवेदितीमौनगावृतेनघमानौ।
चेलान्तेनवसानौ चेरतुरेकेन पर्वतेनवसानौ॥११॥

तद्वासः स्वापाथान्नीतिरियंचेति विपदि सखापायाम्।
निजवासः स्वापायान्निकृत्यताममुञ्चदिहसखापायाम्॥१२॥

बभ्रामानस्तेन श्रमेण कलिना विधूयमानस्तेन।
सहिरिपुमानस्तेनः स्वभाग्यदोषाः क्वसमहिमानस्तेन॥१३॥

मृगकुलमारसदाविश्रममभितापातुरो ममारसदाविः।
स्फरिततमारसदाविस्तृतानगा यत्र विपिनमारसदावि॥१४॥

शोकभरोदस्तेन श्रुतः स च नलाद्रवेतिरोदस्तेन।
द्रुतिमकरोदस्तेन स्वयमित्यूचे भयं पुरोदस्तेन॥१५॥

क्व भवान् शंसत्वस्य त्वापजमित्याश्रयो नृशंसत्वस्य।
तन्देशं सत्वस्य प्राप नलः सत्वरो भृशं सत्वस्य॥१६॥

अथ पवनाशमयन्तं क्वापि दवाग्नौ ददर्श नाशमयन्तम्।
स्वबले नाशमयन्त्रं रुजमधिजिवृक्षच्च पुनरनाशमयन्तम्॥१७॥

स च धृतनागस्तेन स्वविषेण विरूपितो मनागस्तेन।
सहितो नागस्तेन प्रोक्तश्चात्मास्तु वेदनागस्तेन॥१८॥

स्यात्तरसाकल्यन्ते वपुरमुनात्तेन वाससाकल्यन्ते।
ये यशसाकल्यन्ते गुणोदयैर्दधति भूतिसाकल्यन्ते॥१९॥

अपि च विनामानेन श्रयणीयः सर्त्तुपर्णनामानेनः।
स्वांगेमानेन स्युर्विपदो न हि नृणां क्व नामानेन॥२०॥

व्रजसुखमायाहीनश्रीरित्यन्तर्हितः शमायाहीनः।
स्निग्धो मायाहीनः स्याज्जनतायाः क्वनोत्तमायाहीनः॥२१॥

प्रोतिवशादनवनतः कृत्वा तद्वसनमात्मसादनवनतः।
बहुमांसादनवनतः सोऽस्मादृतुपर्णमाससादनवनतः॥२२॥

अकृतमुदायन्तारन्तममनुतमोऽध्वनोयदायन्तारम्।
ध्वनिसमुदायन्तारन्दधतोऽस्यहयाश्चतन्तदायन्तारम्॥२३॥

अथ सहसा दमयन्त्या सादमयन्त्यात्मशर्म निद्रामुमुचे।
जीवितसादमयन्त्या सादमयन्त्यागमकृतसचयदातस्याः॥२४॥

सात्र ससादारामा सीतेव त्रासमाससादारामा।
याप्रासादारामानुपत्य भर्त्रा रतिं रसादारामा॥२५॥

तत्र पदे व्यालीनामथ विभ्रान्तं वने च देव्यालीनाम्।
तरुवृन्देव्यालीनान्ततिन्दधाने तयास्पदेव्यालीनाम्॥२६॥

वेगवलापासितया वेण्या भैमीयुता ललापासितया।
नृपसकलापासितया हत्वारीन् बान्धवान् किलापासितया॥२७॥

सकथं मानवनानान्यायविदाचरसि

सेव्यमान

वनानाम्।

धृतसीमानवनानान्दाराणां त्यागमनुपमानवनानाम्॥२८॥

परकृतमेतत्त्वेन स्मरामि यन्न स्मृतोऽसिमेतत्त्वेन।
दोषसमेतत्वेन प्रदूषये नात्र संभ्रमेतत्वेन॥२९॥

हृदयाकायस्तेन स्थीयेत यथैव पावकायस्तेन।
यावत्कायस्तेनत्यजेत स्वहृृदि चाधिकायस्ते न॥३०॥

यस्य पदे शङ्कमितः स्वजनोऽयंप्राप्य जनपदेशङ्कमित।
अरिवृन्दे शङ्कमितस्मित सत्वमुपागतोऽसिदेशङ्कमितः॥३१॥

यद्यशसानुरुरोदःकुहरं योद्वेष्टुरं जसानुरुरोदः।

अद्रेःसानुरुरोदः किमापदयितो ममेति सानुरुरोद॥३२॥

श्रयकलनामानन्तेत्ययञ्जनो ददति चाङ्गनामानन्ते।
हार्द्देनामानन्ते जनमेनमशोककुरुमनामानन्ते॥३३॥

उच्चशिरोदारावालप्यति वने सुबन्ध रोदारावा।
द्रुतिमकरोदारावारुक्षं मरुतलमथो सरोदारावा॥३४॥

मृगकुलमारव्याधिप्रचुरं बिभ्रद्वनं समारव्याधि।
वोथ्या मारव्याधिष्ठितभुजगम्भीमजेयमारव्याधि॥३५॥

सास्रवनासारासा वेगमना भीमनन्दनासारासा।
सुनयननासारासावजगरमग्रासि चामुनासारासा॥३६॥

अथ शवरोहास्यन्तंस्वास्तसूंदसूंश्च रिपुतरोहास्यन्तम्।
समधिरुरोहास्यन्तंन्यस्य तदास्येऽकरोत्खरोहास्यन्तम्॥३७॥

ताम्पुनरेकामयतः कृशां किरातः स्मरातिरेकामयतः।
कान्तारेकामयत स्त्रियं न कांक्षेदुपह्नरेकामयतः॥३८॥

धृतवनमह्यन्तेन त्रातासि मया ननु त्वमह्यन्तेन।

मानिनिमह्यन्तेन प्रसीद शरणागताः क्वमाह्यन्तेन॥३९॥

सुमुखनिशापेतेनः स्मर दासानिति प्रोच्य वशापेतेन।
दत्ते शापेतेन स्थितया सान्त्वेन चलदृशापेतेन॥४०॥

दग्धमरागाहितयादमयन्त्या विपिनभूः परागाहितया।
उच्चतरागाहितया दृष्ट्वाघोराच कन्दरागाहितया॥४१॥

पदवा पदवा पदवा पदवारयतोऽद्रिवनं विललाप च सा।
तरप्तान्तरसान्तरसान्तरसान्वयदुःखबृणीष्व सखे मरणम्॥४२॥

वृककोपपुरः सरमा सरमा सरमा सरमा भवताननुसा।

किमृतेदयितादयतोदयतोदयतोदयतोऽस्तिममेह सुखम्॥४३॥

अयिराक्षसमक्षयमांक्षुधितो नवसानवसानवसानवसाः।
रुजमुज्झजनेऽत्रचहेकरुणान्तरदान्तरदान्तरदान्तरदाम्॥४४॥

करमाकरमाकरमाकरमाकलयव्यसनं ममपाहि हरे।
दरतोदरतोदरतोदरतोविरुतैर्मरुतांसुकरत्वमपि॥४५॥

त्वदरिर्निषधेश समृद्धिमना रमयारमयारमयारमयाः।
व्यसनन्त्वमुपैमिकदानुसभीशमनाशमनाशमनाशमनाः॥४६॥

यमनायमनायमनायमनागभिवीक्ष्यरतन्द्रवतीह परः।
सरुषोनिषधक्षितिनाथगलन्नवमानवमानवमानवमाः॥४७॥

नयमानयमानयमानयमावसएत्यनिवामममुम्भवता।
भवनोयमपायमरीनुदयान्नयतानयतानयतानयता॥४८॥

सनयासनयासनयासनयाह्मसुहृद्वटयाविपदं स्वपदम्।
हितदेहितदेहितदेहितदेत्यलपद्बहुधानरदेवसुता॥४९॥

सविधुराधावन्तं रत्नौघं क्वापिनिरपराधावन्तम्।
सार्थं राधावन्तंप्रैक्षिष्टापच्चसुतनुराधावन्तम्॥५०॥

व्याकुलयेवारितयाविधेर्गतिरनेनसिद्धयेवारितया।
अपिचययेवारितया यथाशफर्य्याजलोच्चयेवारितया॥५१॥

प्रतिषिद्धान्यायस्य प्रापि सुबाहोश्च राजधान्यायस्य।
बहुधनधान्यायस्य प्रबभुर्वृन्दानि बहुविधान्यायस्य॥५२॥

सञ्छन्नामात्रासानन्दंराज्ञोभृताच नामात्रामा।
शोकेनामात्रासाववसद्धृतदेहयापनामात्रामा॥५३॥

पदापदापरिभ्रमन्नयेनयापदा पदा।
वना वना वनाथवत्सजीवना वनाभवत्॥५४॥

इति श्रीकालिदासकृते नलोदये सत्काब्ये
तृतीयः सर्गः।

_______

चतुर्थः सर्गः।

अथतुङ्गोपायस्य श्रवणेन नलस्य सानुगोपायस्य।
वशगा गोपायस्य स्वमनोभीमश्चिरं जुगोपायस्य॥१॥

निशिचदिवाचार्य्यस्यक्षतस्यनलविचिन्तयेथवाचार्य्यस्य।

भृशमेवाचार्य्यस्य द्विजोत्तमैः शिष्यकैरिवाचार्य्यस्य॥२॥

अथनयनेत्रासादिप्रचुरापुः केनचिज्जनेत्रासादि।
यत्रसुनेत्रासादिग्भ्रमेण दुःखङ्गतावनेत्रासादि॥३॥

सहदीनायततेनस्वगृहञ्चभैमीययेमुनायततेन।
स्वनयेनायततेन प्राप्त्यै स्वासोश्च शोभनायततेन॥४॥

वसनांशस्य स्तेन क्वासिममाथंविधिर्यशस्यस्तेन।
छद्मविशस्यस्तेनस्वजनेनभृतेनभवसिशस्यस्तेन॥५॥

सजनस्ते नागादिक्रामीतिजनेनतन्मतेनागादि।
भर्तृकृतेनागादिस्यदेनभुविवस्त परिहृतेनागादि॥६॥

कोऽप्यूचेतनयायाःपदमेत्यनृपस्यत्तेषुचेतनयायाः।
भीर्मुञ्चेतनयायादर्त्तिस्त्वांदुःसहाचचेतनयाया॥७॥

निजधामेतंसमयामृतुपर्णंश्रावितोऽर्थमेतंसमया।
सचिवसमेतंसमयागिरोत्तरंनाजनिष्टमेतंसमया॥८॥

दीनानायतनस्थोनानायतमक्षमोऽस्यसौत्येधिकृतः।
नानायतनकरोलीनानायतनः पथ्यु वाचाथ रहः॥९॥

दीनायानायतयाविवाससेऽस्मैविहीनयानायतया।
नखलुधियानायतयाक्रोधव्यन्धर्म्मनिश्चयानायतया॥१०॥

कृतकर्म्माननत्वागतोस्मिवचसेतितस्यमानेनत्वा।
वेदयमानेनत्वा विप्रे च धनेषु दीयमानेनत्वा॥११॥

तत्रापर्णायततस्वनयाद्भैमी तपस्यपर्णायतत।
तुलितसुपर्णायततस्तस्यागमनायमर्त्तुपर्णायततः॥१२॥

साकृतसामान्येनश्रावितवत्यमुमनन्यसामान्येन।
स्वंरहसामान्येनस्वयंवरंस्मरतिनाञ्चसामान्येन॥१३॥

रहसितदासन्नाहस्थितःस्ममलंयुतोमहासन्नाह।
श्रीस्त मदासन्नाहल्फुटंप्रयामोब्रजेदितिव्युदामन्नाहः॥१४॥

सावनिताबध्वानःस्वगुणैःकर्षतिकेहृताश्चबध्वान।
समहस्तावद्धानःश्वइतियोजनशतंमितावध्वानः॥१५॥

तत्त्वरयामायामः प्रणयेर्यदिमानितत्रियामायामः।
नलजायामायामस्वत्वेत्यूचे क्वदूर्धियामायामः॥१६॥

मां भजमानाश्वःस्यान्नू नमसौ तत्प्रणोद्यमानाश्वःस्याम्।
इतिमतिमानाश्वस्यान्यायमनाशंक्यविकृतिमानाश्वस्याम्॥१७॥

अथरथमावन्तंशस्त्राणिनलःशुमाश्वमारावन्तम्।
सजगामारावन्तंनृपतिमारोप्यचगुरुतमारावन्तम्॥१८॥

स्वांसकृतावसमस्यक्षणदूरत्वेनसङ्गतावसनस्य।
भूभर्त्तावसनस्यव्यस्मयतरथद्रतेर्धुतावसनस्य॥१९॥

फलगणनादक्षस्थव्यधित तदासोऽश्वनोदनादक्षस्य।
तपसि च नादक्षस्य प्रहर्षणं हृदयबोधनादक्षस्य॥२०॥

बलजितदेवार्य्याभ्यां विद्याविनिमयोयुगपदेवार्य्याभ्याम्।

संमर्देवार्य्याभ्यां व्यधायि संस्पृश्य सम्पदेवार्य्याभ्याम्॥२१॥

तदनु द्रुतमक्षमतः स्वीकृत्यास्वदहनेधिकतमक्षमतः।
कालरुन्नतमक्षमतः स्फुटमेवगतोनलस्तुनतमक्षमत॥२२॥

पतितमलसमेतस्याभैम्यारुषिविद्धिमानलसमेतस्याः।
आर्त्त्यनलमेतस्याश्रितस्यशरणप्रदोनलसमेतस्याः॥२३॥

कलिमितिनानामायंनमन्तममुञ्चन्महामनानामायम्।
कीर्त्तिधनानामायंमदधातिहरन्तिरिपुजनानामायम्॥२४॥

अथनुन्नाश्वस्तेन प्रास्थित राजामहात्मनाश्वस्तेन।
साललनाश्वस्तेनस्यादितिहसताविरोधिनाश्वस्तेन॥२५॥

मीऽयमनेनायततामिष्ट इति नलः समंत्वनेनायतताम्।
वहतिदिनेनायतताम्पुरीम्प्रियेणाश्रिताञ्जनेनायतताम्॥२६॥

कर्त्तुम्मानन्तेनश्रमइतिनीतोभुवोऽयमानन्तेनः।
स्वधामानन्तेनप्रेम्णा भीमेन जितविमानन्तेन॥२७॥

सज्जनतामहितस्यव्यग्रेतरलोकसूचितामहितस्य।
सद्विषतामहितस्य द्रुतं पुरस्येक्षणात्तातामहितस्य॥२८॥

प्रथिततमायामायांशुचिरथवसतावनुत्तमायामायाम्।
चारुतमायामान्नलः स्मरन्वासमससमायामायाम्॥२९॥

तं स्वनयानन्तरसान्निध्यगतमवेक्ष्यनुन्नयानन्तरसा।
अभ्युदयानन्तरसावधितमुदानैषधप्रियानन्तरसा॥३०॥

तन्नन्नालीकेन स्थीयतइत्यत्र सुखमुखनालीकेन।
किंहीनालीकेनस्वकमित्राकृत्तरिपुजनालीकेन॥३१॥

तंसाम्नामानयतः परीक्ष्यबहुधागुणाभिरामानयतः।
स्वजनगिरामानयतः स्ववयस्यावसतिमपिपरामानयत॥३२॥

तरसैवासावासत्वांबिकृतिमहेर्वहन् सुवासावास।
स्थिरभावासावासस्निग्धश्चारंस्तनृपतिवासावासः॥३३॥

नृपधामनिशान्तेनव्यतीत्यभैमीममागमनिशान्तेत।
द्विषतामनिशान्तेन श्वशुरोदृष्टः श्रितोत्तमनिशान्तेन॥३४॥

धृतजड़िमानेहासीदृतुपर्णोऽपिप्रदृश्यमानेहासी।
आत्मसमानेहासीदभिपूज्यैनं नलोरिमानेहासी॥३५॥

सासुसमासामासस्वयमत्र पुरे नलोऽयमासामास।
स्त्रीणामासामासश्रमममुनानायिसुमुखमासामासः॥३६॥

अथमहदाराजितयास्वपुरञ्चम्वानलस्तदाराजितया।
सासिगदाराजितया पुष्करमभ्यधादुदाराजितया॥३७॥

मयिगहनामायासि त्वयामनोनात्रमानिनामायासि।

धनुरवनामायासि द्यूतायालं क्वचेतनामायासि॥३८॥

इत्युक्तोदेवनतःसोऽर्थ्य भवत्पुष्करःप्रमादेवनतः।
येतसबिभिदेवनतः पुरावनेः श्रममपि प्रपेदेवनतः॥३९॥

सचराजायततेनद्यतेऽसुपणेजितोव्यजायततेन।
मिर्व्याजांयततेन त्यक्तश्चागस्मुगतरजायततेन॥४०॥

अयिभवनेत्रायस्वस्वभुवं पुष्करमुदञ्जनेत्रायस्व।
युगबलनेत्रायस्वस्नेहायपुरेवविमलनेत्रायस्वः॥४१॥

हरिपवनयमानस्य स्वबलादिति तुलयतोनुनयमानस्य।
स्नेहानयमानस्य प्रणतिमधात् पुष्करः सुनयमानस्य॥४२॥

अरिसेनानाशस्य श्रितवत्सलतेऽस्तुचेतनानाशस्या।
पूरितनानाशस्यास्तोकयशोभिः कदापिनानाशःस्याः॥४३॥

इतिसननामनलस्य प्रणतोघ्रीफल्लवक्त्रनामनलस्य।
अहितानामनलस्य प्रययौ सार्द्धंतेननामनलस्य॥४४॥

मुदममुनामुक्तेन प्राप्य सुराज्यं महात्मनामुक्तेन।
धृतनानामुक्तेन राज्यञ्चिरंप्राणासिविघढ्ढनामुक्तेन॥४५॥

अरिसंहतिरस्य वनेष शुचाम्पदमापदमापदमापदमा।
सुखदञ्च मथैव जनायहरिं यतमायतमायतमायतमा॥४६॥

नलेन पुर्व्वता यता यता यता पुरोसा।
सदायमुन्महा महा महा महास्तसम्पदम्॥४७॥

इति श्रीकालिदासकृते नलोदये सत्काव्ये
चतुर्थः सर्गः

समाप्तः।

________

जगन्नाथाष्टकम्।

<MISSING_FIG href="../books_images/U-IMG-1729604927Screenshot2024-10-22191716.png"/>

कदाचित्कालिन्दीतटविपिनसङ्गीतकबरो
मुदाभिरीनारीवदनकमलास्वादमधुप।
रमाशम्भुर्ब्रह्मासुरपतिगणेशाच्चितपदो
जगन्नाथस्वामी नयनपथगामी भवतु मे॥१॥

भुजे मव्ये वेणुं शिरसि शिखिपुच्छं कटितटे
दुकूलं नेत्रान्ते सहचरिकटाज्ञेण विदधत्।
सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो
जगन्नाथस्वामी० ॥२॥

महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे
वसन् प्रासान्ते सहजबलभद्रेण बलिना।
मुभद्रामध्यस्थः सकलसुरसेवावसरदो
जगन्नाथस्वामी० ॥३॥

कृपापारावारः सजलजलदश्रेणिरुचिरो
रमाबाणीरामस्फुरदमलपद्मेक्षणमुखः।
सुरेन्द्रैराराध्यः श्रुतिमुखगणोद्गीतचरितो
जगन्नाथ० ॥४॥

परंब्रह्मापीषत्कुवलयदलोत्फ्लनयनो
निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि।
रसानन्दीराधासरसवपुरानन्दनसुखी
जगन्नाथ० ॥५॥

रथारूढ़ो गच्छन् पथि मिलितभूदेवपटलै
स्तुतिप्रादुर्भावं प्रतिपदमुपाकर्ण्यसदयः।
दयासिन्धोर्बन्धुः सकलजगतां सिन्धुसदयो
जगन्नाथ० ॥६॥

नचेद्राज्यं राज्यं न च कनकमाणिक्यविभवो
न याचेऽहं रम्यां सकलजनकाम्यावरविधे।
सदा काले कामः प्रथमपठिनीद्गीतचरितो
जगन्नाथ० ॥ ७॥

हरत्वं सं सारं द्रुततरमसारं सुरपते
वरत्वं भोगीशं सततमपरं नीरजपते।
अहो दीनानाथो निहितमचलं निश्चितमिदं
जगन्नाथस्वामी नयनपथगामी भवतु मे॥८॥

जगन्नाथाष्टकं पुण्यं यः पठेत् प्रयतः शुचिः।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति॥९॥

इति जगन्नाथाष्टकं सम्पूर्णम्।

________

यमुनाष्टकम्।

मुरारिकायकालिमाललामवारिधारिणी
तृणीकृतत्रिविष्टपानृलोकशीकहारिणी।

मनोऽनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा
धुनोतुनोमनोमलङ्कलिन्दनन्दिनीसदा॥१॥

मलापहारिवारिपूरिभूरिमण्डितामृता
भृशंप्रपातकः प्रपञ्चनाति पण्डितानिशा।
सुनन्दनन्दिनाङ्गरागरागरञ्चिताह्रिता
धुनो तु० ॥२॥

लसत्तरङ्गसङ्गधूतभूतजातपातका
नवीनमाधुरीधुरोनभक्तिजातचातका।
तटान्तवासदासहंसप्तंसृताम्हिकामदा
धनीतु नी० ॥३॥

विहाररासखेदभेदधीरतीरमारुता
गतागिरामगोचरे यदीयनीरचारुता।
प्रवाहसाहचर्यपूतकेदिनीनदीनदा
धुनोतु नो० ॥४॥

तरङ्गसङ्गसैकतान्तरान्तितंसदासिता
शरन्निशाकरांशुभंजमंजरीसभाजिता।
भवार्चनाप्रचारुणाम्बुनाधुनाविशारदा
धनोतु नो० ॥५॥

जलान्तकेलिकारिचारुराधिकांगरागिणी
स्वभर्तुरन्यदुर्लभांगतागतांशभागिनी।
स्वदत्तमुप्तसप्तसिंधुभेदिनातिकोविदा
धुनीतु नो० ॥६॥

जलच्युतच्युतांगरागलम्पटालिशालिनी
विलोलराधिकाकचान्तचम्पकालिमालिनी।
सदावगाहनावतीर्णभर्तृभृत्यनारदा
धुनोतु नो० ॥७॥

सदैवनन्दिनन्दकेलिशालिकुञ्जमञ्जुला
तटोत्वफुल्लमल्लिकाकदम्बरेणुमुज्ज्वला
जलावगाहिनानृणां भवान्धिसिन्धुपारदा
धनोतु नो मनोमलङ्कलिन्दनन्दिनी सदा॥८॥

इति श्रीशङ्कराचार्यविरचितं यमुनाष्टकं
सम्पूर्णम्।

________

उद्धवसन्देशः।

सान्द्रीभूतैर्नवविटपिनां पुष्पितानां वितानैः
लक्ष्मीवत्तां दधति मथुरापत्तने दत्तनेत्रः।
कृष्णः क्रीड़ाभवनवड़भीभूर्ध्नि विद्योतमानो
दध्यौ सद्यस्तरलहृदयो गोकुलारण्यमैत्रीम्॥१॥

श्वासोल्लाभैरथ तरलितस्तूलनालीकमालः
कुर्वन् पूर्णा नयनपयसां चक्रबालैः प्रणालीः।
स्मारं स्मारं प्रणयनिविड़ांबल्लवीकेलिलक्ष्मीम्
दीर्घेात्कण्ठाजटिलहृदयस्तत्र चित्रायितोऽभूत्॥२॥

अन्तःस्वान्ते क्षणमथ परामृष्य पाराभिलाषी
कष्टाम्भोधेर्भवनशिखरे कुट्टिमान्तर्निविष्टः।
सोत्कण्ठोऽभूदभिमतकथां शंसितुं कंसभेदी
नेदिष्टाय प्रणयलहरी बद्धवागुद्धवाय॥३॥

त्वं सर्वेषां मम गुणनिधे बान्धवानां प्रधानम्
त्वत्तोमन्त्रैःश्रियमविचलां यादवाः साधयन्ति।
इत्याश्वासादभिमतविधौ कामये त्वां नियोक्तुम्
न्यस्तः साधीयसि सफलतामर्थभारो हि धत्ते॥४॥

संरम्भेण क्षितिपतिगिरां लम्भिते गर्वितानां
वृन्दारण्यान्मयिमधपुरीं गान्दिनीनन्दनेन।
वल्लव्यस्ता विरहदहनज्वालिकामण्डलीनाम्
अन्तर्लीनाः कथमपि सखे जीवितं धारयन्ति॥५॥

प्राणेभ्यो मे प्रणयवसतिर्मित्र तत्रापि राधा
धातुः सृष्टौ मधुरिमधराधारणादद्वितीया।
वाचोयक्तिस्तवकितपदैरद्य सेयं सखीनां
गाढ़ाश्वासैर्विधुरविधरं प्राणभारं बिभर्ति॥६॥

गत्वा नन्दीश्वरशिखरिणो मेखलां रत्नभूताम्
त्वं वल्लीभिर्वलयितनगां वल्लवाधीशपत्नीम्।
तां दष्टाङ्गीं विरहफणिना प्राणयन् प्रीणयार्तां
वार्तामन्त्रध्वनिभिरथ मे मन्त्रिचूड़ामणोन्द्र॥७॥

तिष्ठन्त्येते जगति बहवस्त्वद्विधानां विधातुं
चेतःपूर्तिं ननु जनपदामूर्तिभिर्मे सनाथाः।

भूयोभूयः प्रियसख शपे तुभ्यमव्याजतोऽहम्
भूरन्या मे हृदि सुखकरी गोष्ठतःकापि नास्ति॥८॥

मद्विश्लेषज्वलनपटलोज्वालया जर्जराङ्गीः
सर्वे तस्मिन्निधनपदवीं शाखिनोऽप्याश्रयिष्ठन्।
गोपीनेत्रावलिविगलितैर्भूरिभिर्बाष्पवारां
पूरैस्तेषां यदि निरवधिर्नाभिषेकोऽभविष्यत्॥९॥

आत्मक्लेशैरपि नहि तथा मेरतुङ्गैर्व्यथन्ते
वल्लव्यस्ताः प्रियसख यथा मद्व्यथालेशतोऽपि।
दुर्वारां मे विरहविहितां निह्नुवानस्तदाति
प्रेमग्रन्थिं त्वमतिष्टथुलं तासु विख्यापयेथाः॥१०॥

भ्रातर्नन्दीश्वरगिरिमितो यास्यतस्ते विदूरं
पन्थाः श्रीमानयमकुटिलः कथ्यते पथ्यरूपी।
प्रीये सद्यस्त्वयि निपतिते गोकुलानन्दसिन्धौ
सन्तस्तुष्टे सुहृदि हि निजां तुष्टिमेवामनन्ति॥११॥

अग्रे गौरीपतिमनुसरेः पत्तनान्तर्व सन्तं
गोकर्णाख्यंव्यसनजलधौ कर्णधारं नराणाम्।
यस्याभ्यर्णे सह रविजया सङ्गमो जङ्गमानाम्

आविष्कुर्वन्नभिमतधुरां धीर सारस्वतोऽस्ति॥१२॥

आरूढस्ते नयनपदवीं तन्निधन्यासि सोऽयं
गोपीनग्नंकरणमुरलीकाकलीकः कलावान्
इत्यालापस्फरितवदनैर्यत्र नारीकदम्बैः
दृग्भङ्गीभिः प्रथममथुरासङ्गमे चुम्बितोऽस्मि॥१३॥

तस्मादन्तर्विरचितपरानन्दपूराददूरां
याहि प्रीत्या सपदि पदवीमम्बिकाकाननस्य।
यत्रानन्दोत्सवमकरवं सर्पतः सर्पताया
नन्दं विद्याधरमपि पुरामोचयन् वल्लवीनाम्॥१४॥

भूयोऽभिस्त्वं किल कुवलयापीड़दन्तावघातैः
एता निम्नोन्नतपरिसरां स्यन्दने वर्त्तमानः।
मुञ्चोत्तुङ्गां मिहिरदुहितु र्धीरतीरान्तभूमिं
मन्दाक्रान्तां न खलु पदवीं साधवः शीलयन्ति॥१५॥

मुञ्चासव्ये विहगरुचिरं किञ्चिदस्मादुदञ्चं
राजत्तीरं नवसुमनसां राजिभिस्तीर्थराजम्।
यत्रापूर्वं किमपि कलयाञ्चक्रतुर्मत्प्रभावाद्
आभीराणां कुलमपि तथा गान्दिनीनन्दनोऽपि॥१६॥

यज्वानस्त यदपि भवतो विप्रिया हेलनान् मे
नम्रस्तेषां तदपि भवनद्वाररथ्यां जिहीथाः।
गायन्तीनां मदनुरचितं तत्र विप्राङ्गनानाम्
आलोकाथ स्पृहयसि न चेदध्वभावैर्जितोऽसि॥१७॥

तद्विख्यातं स्फटविटपिनां मण्डलेनाभिपूर्णं
तूर्णं गच्छेरुपपुरिपुरःकोटिकाख्यंप्रदेशम्।
यत्र प्राप्ते मयि विकिरती नेत्रमुद्यानपाली
शालीनापि प्रकटितभुजा मूलमल्पं जहास॥१८॥

इत्थं क्रान्त्वा पुरपरिसरान् याहि सढ्ढीकराख्यं

पठ्ठीभूतं भ्रमरनृपतेः पुष्पितारण्यमारात्।

श्रीदामानं सुभग गरुड़ीकृत्य यत्राधिरूढ़ः
क्रीड़ाकारो दधदुरुभुजां द्वादशाहं वसामि॥१९॥

मुग्धे श्यामः कलयति युवा पश्य मामेव नत्वाम्
इत्युल्लासैरहमहमिकां सर्वतः कुर्वतीभिः।

यानालम्बी सरलनयनालोकमैत्रीभराणां
ग्रामीणाभिर्युवतिभिरहं यत्र पात्रीकृतोऽस्मि॥२०॥

मुञ्चन् सव्ये वहलबहुलां काननस्योपशल्यं
तञ्चोत्तुङ्गं हृदपरिसरं दक्षिणे कालियस्य।
फुल्लाभिस्त्वंपिहितमिहिरद्योतमन्तर्लताभिः
धीराध्वानं विमलसरसीराजिभाजं भजेथाः॥२१॥

वल्लीचित्रं व्रजमृगहरं तं व्रजस्योपशल्ये
कल्ये क्रीड़ावनविहरणोत्कण्ठया गच्छतो मे।
यत्रोदञ्चत् कलवलथितैर्वेणुगीतैर्मृगाणां
तूर्णंराजीरजनिविरहव्याकुलानामहारि॥२२॥

आनम्राणां हसितमुकुलैः फुल्लगण्डस्थलानां
दूराद्दृष्टिं स्फुटसुमनसां स्यन्दने मुञ्चतीनाम्।
ते वैदग्धीपरिमलकिरो यत्रसीमन्तिनीनां
सस्रुर्वाणावलिविलसिता रुद्धलक्षाःकटाक्षाः॥२३॥

एष श्रीमान् प्रसवति रथीमाधवो राधिकायाः
प्रेम स्थूलं करणकुटिलालोकभङ्गीविलासः।
इत्यौत्सुक्याद्धरयुवतिभिः स्मारितोद्दामनर्मा
वर्माश्नोभिर्ष्टततनुरहं यत्र चित्रायितोऽस्मि॥२४॥

लीलास्वप्नो मम विजयते यत्र नागेन्द्रभोगे
श्रीराधाङ्गीकृतपदयुगाम्भोजसंवाहनस्य।
तत्र क्षीराम्बुधिपरिमलस्पर्द्धने वर्द्धहस्त
ग्रामे कामं ध्वजवति भजे बद्धविश्रामसौख्यम्॥२५॥

सोऽयं दध्नां मथननिनदाक्रान्तदिक्वक्रवालो
घोषस्तोषं तव जनयिता योजनद्वन्द्वचुम्बी।
दिव्येनालं निखिलजगतीं सर्पिषा तर्पयन्ती
भ्रातर्भूम्ना विलसति विधेर्नोमयीयत्र सृष्टिः॥२६॥

कक्षां लक्षावधिभिरभितः कासरोभिः परीतां
तां सन्नद्धव्रजविजयिनीं शाल्मलाख्यां भजेयाः।
वीथ्यां वीथ्यां पृथकनिकरा यत्र भित्रानुवेलं
खेलन्तस्ताननुविदधते विक्रमान् मे क्रमेण॥२७॥

दूरादेष प्रणयति पुरा लब्धसाहारनामा
प्रेमानन्दं तव नयनयोरौपनन्दो निवासः।
जङ्घालेन क्षितिपतिपुरीं स्यन्दनेनानुविन्दन्
यत्राहारं प्रियमकरवं हारि हैयङ्गवीनम्॥२८॥

गोपेन्द्रस्य ब्रजपरिसरे लब्धतुष्टिर्लभेयाः
तां विख्यातां कलितमहिलाचारुहेलां रहेलाम्।
यामासाद्य प्रहितमुरलीकाकलीदूतिकोहं
सायं गोपीकुलमकरवं सामि नेपथ्यनद्धम्॥२९॥

यत्र प्रीतानहमकरवं मित्रभावेन शावान्
हारं हारं विदितसमयोवल्लवीतां दधीनि।

शाखिव्रातः स खलु वलितः प्रीतशाराभिधस्ते
देशः क्लेशं पथिषु रथिनो दारयिव्यत्युदारम्॥३०॥

सोऽयं रम्भानटनचटुलैःसेव्यमानो मरुद्भिः
कम्राशोकोत्तमसुमनसां निर्भरामोदधारी।
पीयूषेण स्फुरितवसतिस्तामुदञ्चद्गुरुश्रीः
लोकातीतः किल मदयिता वल्लवेन्द्रस्य लोकः॥३१॥

पश्यन्तीनां चकितचकितं लब्धसङ्गं शताङ्गे
मामुत्तुङ्गव्यसनविसरैः काममुन्मादितानाम्।
तासां विद्युत्तरलवपुषां वल्लवीनां प्रपातात्
विद्युत्कारी कथयति जनो दक्षिणां यस्य कक्षाम्॥३२॥

यत्राक्रूरः प्रणयनिविड़ोत्क्रण्ठयागुण्टितात्मा
रङ्गाङ्गोष्ठाङ्गणमनुसरन् मामलोकिष्टबन्धुम्।
तद्वास्याम्भः कुलपरिचयारब्धजृम्भैः कदम्बैः
मा सम्बीता विलसति तटी यत्र सौयात्रिकाख्या॥३३॥

धावद्वालावलिकरतलप्रीच्चलद्वालधीनां
यत्रोत्तुङ्गस्फटिकपटलस्पर्द्धिं देहद्युतोनाम्।
घ्रायं घ्रायं नवतृणशिखां मुञ्चतीनां वलन्ते
वत्सालीनां चटुलपटुलं शश्वदाटीकनानि॥३४॥

आभीरीणां नयनसरणीसङ्गमादेव तासां
सद्यो मोट्टायितमधुरिमोल्लासभङ्गीविधाता।
पीठीभूतो मम परिमलोद्गारगोष्ठी गरीयान्
यत्रास्थानीमनुविजयते पाण्डरो मण्डशैलः॥३५॥

रेणर्नायं प्रसरति गवां धूमधारा कृशानोः
वेणुर्नासौ गहनकुहरे कीचको रोरवीति।
पश्योन्मत्तेरविरभिययौ नाधुनापि प्रतीचीं
मा चाञ्चव्यं कलय कुचयोः पत्रवल्लींतनोमि॥३६॥

दूरे वंशीध्वनिरुदयते हन्त मा धाव तावत्
धूम्रेदानीमपि नहि गवां लक्ष्यते धूलिलेखा।
अस्ति द्वारे गुरुरपि ततो लम्बितां स्तम्भयम्ती
क्षीरे नीवीं त्वमिह तरसा याहि गेहान्तरालम्॥३७॥

अप्रत्यषादपि सुमनसां वीथिभिर्ग्रथ्यमाना
धन्ते नासौ सखि कथमहो वैजयन्ती समाप्तिम्।
धिन्वन् गीपीनयनशिखिनो व्योमकज्ञांजगाहे
सोऽयं मुग्धे निविड़धवलोधूलिचक्राम्बुवाहः॥३८॥

अस्मिन् भूयो विसृमरवपुः सौरभे सौरभेयी
धूलेर्जालैःसवलितशिरो मालतीचक्रवाले।
अन्तर्गोष्ठं प्रविशति हरौ हन्त कस्या न चेतः
तृष्णां धत्तेजरति मुखरे किं वृथा रारटीषि॥३९॥

मा मन्दाख्यं कुरुगुरुजनाद्देहलीं गेहमध्यात्
एहि क्लान्ता दिवसमखिलं हन्त विश्लेषतोऽसि।
एष स्मेरो मिलति मृदुले वल्लवीचित्तहारी
हारी गुञ्जावलिभिरलिभिर्लींढ़गन्धो मुकुन्दः॥४०॥

सौरिर्गोष्ठाङ्गणमनुसरन् शिञ्जितैरेवमुग्धः
किङ्किण्यास्ते परिहर दृशोस्ताण्डवं मण्डिताङ्गि।

आराद्गीतैःकलपरिमिसन्माधुरीकैः कुरङ्गे
लब्धे सद्यः सखि विवशतां वागुरां कस्तनोति॥४१॥

यान्त्यालीलोद्भटकलतुलाकोटि सद्यस्त्वयासौ
लब्धा चन्द्रावलि सखि कुतः शब्दभेदाख्यविद्या।
पश्योयेन्द्रः सदनपदवीं वल्लवेन्द्रस्य मुञ्चन्
अन्तर्भिन्नोमुहुरिह ययासम्भुमाद्बभ्रमीति॥४२॥

सा सोत्कण्ठंवसति वसतेर्वत्सला द्बारि देवी
वल्लीस्तोमैः क्षणमिह मुखान्धोजलक्ष्मीं विधेहि।
दूराच्चेतोमणिमपहरन्नेष भव्याङ्गि दिव्यो
विव्वौकस्तेमुरविजयिनो वर्त्म पाती बभूव॥४३॥

यष्टिर्भूमौ लुठति तरसा अंसते पश्य वंशी
कंसारातेः स्खलनममलं शृङ्गमङ्गीकरोति।
दूरान्नन्दः कलयति पुरो हेपयामुंन राधे
बन्धे देवि स्थगय चपलापाङ्गभङ्गीवितानम्॥४४॥

तिष्ठन् गोष्ठाङ्गणभवि मुहुर्लोचनान्तं विधत्ते
जातोत्क्रण्ठस्तव सखि हरिर्देहलीवेदिकायाम्।
मिथ्यामानोन्नतिकवलिते किं गवाक्षार्पिताक्षी
स्वान्तं हन्त ग्लपयसि वहिः प्रीणय प्राणनाथम्॥४५॥

पश्य व्रीड़ां सकपटमसौ तन्वती नः पुरस्तात्
द्वारे गौरी न सरति मुहुःशौरिणाकारितापि।
आकृष्टाया गहनकुहरे वेणुविद्याविनोदैः
जानात्यस्याः पुनरनुपमं विक्रमं कुञ्जवीथी॥४६॥

इत्थंसाचिस्मितरुचिभृतां यत्र सन्ध्यानुबन्ध
मामुद्दिश्य स्मरपरिमलं बिभ्रतीनामदभ्रम्।
पौनःपुन्याद्बिविधहृदयोत्तुङ्गभावानुसङ्गी
लीलाजल्पः कुबलयदृशां प्रेमपूर्णः पुरासीत्॥४७॥

**
द्वादशभिः कुलकम्।**

दामाकृष्टिद्विगुणितकरारण्यविद्योतितानां
घर्माम्भोभिर्दरवलयितस्मेरगण्डस्थलानाम्।
भालोपान्तप्रचलदलकश्रेणिभाजां मदीयेः
कीर्त्तिस्तोमैर्मुखरितमुखाम्भोजलक्ष्मीभराणाम्॥४८॥

हेलाचञ्चद्बलयरणितग्रन्थितैर्मन्थनीनां
ध्वानोन्मिश्रैर्मसृणमसृणंमन्थतीनां दधीनि।
गीतैस्तासां कुवलदृशां यत्र रात्रैर्विरामे
प्रैमोत्तानैर्मम समजनि स्वप्नलीलासमाप्तिः॥४९॥

युग्मकम्।

निर्मायत्वंवितरफलकं हारि कंसारिमृर्त्या
वारं वारं दिशति यदि मां माननिर्वाहनाय।
यत् पश्यन्तीभवनकुहरे रुद्धकर्णान्तराहं
साहङ्कारा प्रियसखि सुखं यापयिष्यामि यामम्॥५०॥

सन्ति स्फोता व्रजयुवतयस्त्वद्विनोदानुकूला
रागिण्यग्रे मम सहचरीन त्वया घट्टनीया।
दृष्ट्वाभ्यर्णे शठकुलगुरुं त्वां कटाक्षार्द्धचन्द्रान्
भ्रूकोदण्डे घटयति जवात् पश्य संरम्भिणीयम्॥५९॥

मा भूयस्त्वं वद रविसुतातीरधूतस्य वार्तां
गन्तव्या मे न खलु तरले दूति सीमापि तस्य।
विख्याताहं जगति कठिना यत् पिधत्ते मदङ्गं
रोमाञ्चोऽयं सपदि पवनो हैमनस्तत्र हेतुः॥५२॥

कामं दूरे वसतु पटिमा चाटुवृन्दे तवायं
राज्यं स्वामिन् विरचय मम प्राङ्गणं मा प्रयासीः।
हन्त क्लान्ता मम सहचरी रात्रिमेकाकिनीयं
नीता कुञ्जे निखिलपशुपीनागरोज्जागरेण॥५३॥

मेदिन्यां ते लुठति दयिता मालती स्नानपुष्पा
तिष्ठन् द्वारे रमणिविमनाः खिद्यते पद्मनाभः।
त्वं चोन्निद्रा क्षपयमि निशां रोदयन्ती वयस्या
माने कस्ते नवमधुरिमातन्तुमालोकयामि॥५४॥

मद्वक्त्राम्भोरुहपरिमलोन्मत्तसेवानुबन्धे
पत्यःकृष्णभ्रमर कुरुषे किन्तरामन्तरायम्।
तृष्णाभिस्त्वंयदि कलरुतव्यग्रचित्तस्तदाग्रे
पुष्पैःपाण्डच्छविमविरलैर्याहि पुन्नागकुञ्जम्॥५५॥

अत्रायान्तं चलनपि हरिं लोकयन्ती बलिष्ठां
त्वामालम्ब्य प्रियसखि घने नास्मि कुञ्जे निलीना।
अस्मान्मग्धे हृदयनिहितादद्य पीताम्बरात्ते
शक्तो नान्यः कुचपरिचये मत्पुरो मा व्यथिष्ठाः॥ ५६॥

मां पुष्पाणामवचयमिषाद्दूरमानीय कुञ्चं
स्मित्वा धृर्ते किमिति रभसादुच्चकैर्गायसि त्वम्।

शङ्कामन्तर्न रचय मुधा तन्वि गीतं तनोमि
स्फीतं वृन्दावनभुवि मुहुः कृष्णसारोत्सवाय॥५७॥

वारं वारं व्रजसि सलिलच्छद्मना पद्मबन्धोः
पुत्रीं ज्ञातस्तव सखि रसः पुण्डरीकेक्षणोऽसौ।
चेतः काम्या भवति विशदासारसाली न वामे
तेन स्मेरं मुहुरभिलषाम्यच्युतं रक्तपद्मम्॥५८॥

पश्याम्यन्तर्विहितवसतिं त्वामरालाङ्गनानां
अत्र क्षीरे स्पृहयसि कथं कृब्णकण्ठग्रहाय।
साधु ब्रूषे सखि मदकलो मां शिखण्डोज्ज्चलोयं
कुञ्जेदृष्ट्वा भुजगदमनोद्दामदर्पोऽभ्युपैति॥५९॥

बाले चन्द्रावलि नहि वहिर्भूय भूयः प्रदोषे
गेहात् तृष्णावति कुरु पुरः कृष्णवर्त्मावलोकम्।
सर्वस्यान्तर्जड़िमदमने पावके नाद्य लब्धे
मुग्धे सिद्धिर्मम रसवती प्रक्रिया न प्रयाति॥६०॥

हस्तेनाद्य प्रियसखि लसत्पुष्कराभेन दूरात्
कृष्णेनाहं मदकलदृशा कम्पिताङ्गी विकृष्टा।
नीचैर्जल्प भ्रमति पुरतो भ्रान्तचित्ते गुरुस्ते
हूङ्कालिन्दीपुलिनविपिने दीप्रदन्तीश्वरेण॥६१॥

वृन्दारण्ये मम विदधिरे निर्भरोत्कण्ठितानि
क्रीड़ोल्लासैःसपदि हरिणा हा मया किं विधेयम्।
ज्ञातं धूर्त्ते स्पृहयसिमुहुर्नन्दपुत्राय तस्मै
मा शङ्किष्ठाः सखि मम रसो दिव्यसारङ्गतोऽभूत्॥६२॥

इत्थंभूता बहुविधपदारम्भगम्भीरगर्भा
कर्णानां मे स्फुटतरतया कोटिभिः पातुमिष्टा।
आसीत्तासां प्रियसख पुरा यत्र कल्याणवाचां
प्रेमोल्लासप्रकटनकला कर्मठा नर्म्मगोष्ठी॥६३॥

** चतुर्दशभिः कुलकम्।**

केयंश्यामा स्फरति सरले गोपकन्या किमर्थं
प्राप्ता सख्यं तवमृगयते निर्मितासौ वयस्या।
आलिङ्गामुं मुहुरिति तथा कुर्वती मां विदित्वा
नारीवेशं ह्रियमुपययौ मानिनी यत्र राधा॥६४॥

यत्रोत्तुङ्गाः करपरिचयं शश्वदासेदिवांसो
भूयांसो मे विमलदृषदां कल्पिता मण्डलीभिः।
बन्धायोद्यत्तरलतरसां तर्णकानां निखाताः
कीलाः कूलस्थलवलथिनो भान्ति पद्माकराणाम्॥६५॥

नो जानीमः कठिनविधिना मद्विधानां कपाले
गोपालीनां किल विलिखिता कीदृशी वर्णलेखा।
यः सन्ध्यायां सुमुखि मिलितो गोकुले राजदूतः
सोऽयं कर्णे निभृतनिभृतं माधवं वावदीति॥ ६६॥

एष क्षत्ता व्रजनरपतेराज्ञया गोकुलेऽस्मिन्
बाले प्रातर्नगरगतये घोषणामातनोति।
दुष्टं भूयः स्फुरति च बलादीक्षणं दक्षिणं मे
तेन स्वान्तं स्फटति चटुलं हन्त भाव्यं न जाने॥६७॥

प्रातर्यात्रांनरपतिपुरे तथ्यमाकर्ण्य शौरेः
आयामाय प्रियसखि मया यामिनी प्रार्थिताभूत्।

पश्य क्षिप्रं प्रथितलघिमा पापिनीयं प्रभाता
जायन्त हि प्रचुरतमसो नानुकूलाः परेषु॥६८॥

यावद्व्यक्तिं न किल भजते गान्दिनेयानुबन्धः
तावन्नत्वा सुमुखि भवतीं किञ्चिदभ्यर्थयिष्ये।
पुष्पैर्यस्या मुहुरकरवं कर्णपूरान् मुरारेः
सेऽयं फला गृहपरिसरे मालती पालनोया॥६९॥

नावैषि त्वं पतितमशनिं मूर्ध्नि निर्मीयमाणा-
मेनां कस्ते सखि शिखरिणीं हन्त पाता हतासि।
तूर्णं मुग्धे वहिरनुसर प्राङ्गणं गेहमध्यात्
अध्यारूढ़ां जिगमिषुरसौ स्यन्दने नन्दसूनुः॥७०॥

आसीदार्ये पशुपपटलीमन्तरा नान्तरायः
प्रापुः पापा नच विकलतापादभङ्गैस्तुरङ्गाः।
ध्वस्तो नाभूदयमपि मनाक् स्यन्दने चक्रबन्धः
सत्यंगन्ता मधपुरमसौ हन्त किं केशिहन्ता॥७१॥

आरादग्रे कलय नृपतेर्दूत निर्धूतलज्जा
सज्जा तन्वी किमपि विषमं साहसं कर्तुमिच्छः।
यानाद्यावद्विसृजसि पुरश्चन्द्रहासं न कृष्णं
हस्तात्तावद्विसृति सखी चन्द्रहासं न कृष्णम्॥७२॥

मुग्धे पश्य क्षणमपि हरिं नेत्रमुन्मीलयन्ती
मोहेन त्वं विरचय मुहूर्नात्मनो वञ्चनानि।
शृण्वन् काकूत्करमपि पुरो हन्त सीमन्तिनीनां
क्रूरस्तर्णं विनुदति रथं दूरमक्रूरनामा॥७३॥

पश्य क्षामोदरि तव मुखालोकजन्मा हि शोको
वारं वारं हरिनयनयोर्वाष्पमन्तस्तनोति।
धावद्वाजित्स्फुरदुरुखुरोत्तानितानां वितानो
धूलीनान्तु श्रयति विसरन्नेष मिथ्याकलङ्कः॥७४॥

कृष्णंमुष्णन्नकरुणबलाङ्गोपनारोबधार्थीं
मा मर्यादां यदुकुलभुवां भिन्धिरे गान्दिनेयः।
इत्युत्तुङ्गामम मधुपुरे यात्रया तत्रतासां
वित्रस्तानां परिववलिरे वल्लवीनां विलापाः॥७५॥

दशभिः कुलकम्।

शश्वन्नीराहरणकपटप्राप्तगोपालनारी
गृढ़क्रीड़ावसतिनिविड़च्छायकुञ्जोपगृढ़ः।
यत्रादूरे विलसति महान् बद्धरोलम्बसघ्ना
पद्मामोदस्रपितपवनः पावनाख्यस्तड़ागः॥७६॥

लीलाक्रान्तैर्मुरविजयिनः सर्वतः पादपातैः
बैलक्षण्यंकिमपि जगतामन्तराकर्षि नीताः।
एते नन्दीश्वरपरिमरा नेत्रवीथींभजन्तः
तीव्रंमातः किमपि दहनं चेतसि ज्वालयन्ती॥৩৩॥

अस्ति प्रेन्नांत्वयि परिमली मांसलः कंसशत्रोः
अद्य श्वो वा स तव भविता हारिहारानुकारी।
दम्भोलीनामपि सुवदने गर्भनिर्भेददक्षैः
एभिः कामं किमु विलपितैर्बान्धवान् दन्दहीषि॥७८॥

मा कार्पण्याद्विरचय वृथा बाष्पमोक्षं हताशे
कृष्णाश्लिष्टां तनुमनुपमां स्वेच्छया न त्यजामि।

ज्वालस्तीव्रोविरहदहनादाप्तजन्मा बलान्मे
मर्न्मोन्माथी लघुतरमिमां पातयन्दन्दहीति॥७८॥

कारुण्याब्धौक्षिपसि जगतीं हा किमेभिर्विलापैः
धेहि स्थैर्य्यंमनसि यदभूरध्वरोबद्ध्वरागा।
स्मृत्वा बाणीमपि यदि निजां सब्रजं नाजिहीते
धर्त्तोस्माकं विजगति ततस्तन्वि निर्देषिताभूत्॥८०॥

कायं गन्ता मधुरिपुरितो मोकुलादस्मदोयः
काले वंस्येसुखमिति मया हन्त मानो व्यधायि।
का जानीते यदिह खलताचातुरीदीक्षितेन
प्रक्षेप्रव्यं शिरसि कुलिशं गान्दिनीनन्दनेन॥८१

न क्षीदीयानपि सखि मम प्रेमगन्धो मुकुन्दे
क्रन्दन्तीं मां निजशुभगताख्यापनाय प्रतीहि।
खेलद्वंशीवलयिनमनालोक्य तं वक्त्रविम्बं
ध्वस्तालम्बा यदहमहह प्राणकीटं बिभर्मि॥८२॥

आशापाशैः सखि नवनवैः कुर्वतो प्राणबन्धं
जात्या भीरुः कति पुनरहं वासराणि क्षयिय्ये।
एते वृन्दावनविटपिनः स्मारयन्तो विलासान्
उत्फुल्लास्तान्मम किल बलान्मर्म निर्मूलयन्ति॥८३॥

सा विश्राम्यन्मनसिजधनुर्विभ्रमोद्वोधविद्या
चिल्लोवल्लिभ्रमिमधुरिमोद्दामसम्पद्भिरिष्टा।
एतामार्त्तिं मम शमयिता स्मेरता सङ्गराङ्की
प्रेमोतुङ्गाः किमु मुरभिदो भङ्कुरापाङ्गभङ्गी॥८४॥

कामं दूरे सहचरि वरीवर्त्ति यत् कंसवैरी
नेदं लोकोत्तरमपि विपद्दुर्दिनं मे दुनोति।
आकीलो हदि किल धृतः प्राणरोधी तु यो मे
सोऽयं पीड़ां निविड़बड़वावह्नितीव्रस्तनोति॥८५॥

तत्र स्फीताधरमधभरे शीतलोत्सङ्गसङ्गे
सौन्दर्य्येणोल्लसितवपुषि स्फारसौरभ्यपूरे।
नर्मारम्भस्थपुटितवचःकन्दले नन्दसूनौ
मोदिय्यन्ते मम सखि कदा हन्त पञ्चेन्द्रियाणि॥८६॥

भिन्दन्नक्ष्योःकिल कलुषतां श्यामलः श्यामलाभिः
लिम्पन्तीभिर्गिरिपरिसरं माधरीणां छटाभिः।
आविर्भावी गुरुतरचमत्कारभाजः कदा मे
स्वेलन्नग्रे निखिलकरुणानन्दनो नन्दसूनुः॥८७॥

आनम्रायां मयि निजमुखालोकलक्ष्मीप्रसादं
स्वेदश्रेणीविरचितमनो लाघवायां विधेहि।
सेवाभाग्येयदपि न विभो योग्यता मे तथापि
स्मारं स्मारं तव करुणतापूरमेवं ब्रवीमि॥८८॥

क्रीड़ातल्पेनिहितवपुषः कल्पिते पुष्पजालैः
स्मित्वा स्मित्वा प्रणयरभसात् कुर्वतोनर्मभङ्गी।
विन्यस्यन्ती तब किल मुखेपूगफालींविधास्ये
कुञ्जद्रोण्यामहमिह कदा देव सेवाविनोदम्॥८॥

इत्य न्नड्वःपशुपरमयोमण्डलोनां विलापैः
भूयोभूयः करुणकरुणैरद्य कीर्णान्तरस्य।

उद्यद्वाष्पा त्यजति परितो रुद्धकर्णा कराभ्यां
दूरात् पान्थावलिरपि सखे यस्य सोमोपकण्ठम्॥०॥

चतुर्दशभिः कुलकम्।

युक्तं शृङ्गीकनकनिकरालिङ्गिताङ्गैस्तुरङ्गैः
दृष्ट्वा नन्दीश्वरतटभुवि स्यन्दनं ते मिलन्तम्।
मामाशङ्क्यस्फुटमुपगतं सन्निधातव्यमारात्
धावन्तीभिस्तरलतरलं राधिकायाः सखीभिः॥२१॥

गोपालीनामपि वपुरलङ्कारलीलां दधानो
येषां नव्यः किसलयगणो रागिणं माञ्चकार।
भ्राम्यद्भृङ्गावलिषु भवता तेषु मस्ताशिषां मे
वृन्दं वृन्दावनविटपिषु प्राज्ञ विज्ञापनीयम्॥२॥

मत्ता वंशीनिनदमर्धाभिस्तूर्णगा स्तणकानां
ता मुञ्चन्त्यः प्रणयमभितः सस्रु, रस्रुताक्ष्यः।
तासामुच्चैर्मम परिपठन् कामतो नामधेयं
क्षेमं पृच्छत्वमथ निचये नीचकैर्नैचकीनाम्॥८३॥

डिम्भव्यूहं हृतवति विधौ तत्तदाभस्तदाहं
स्तन्यं यासां मधुरमधयं वत्सरं वत्सलानाम्।
वारं वारं मम नतिगणान् विज्ञ विज्ञापयेथा
नम्रस्तासां जठरपशुपीमण्डलीनां पदेषु॥४॥

आमोदं मे मधुर दधिरे मामहंपूर्विकाभिः
दूरे यान्तं कुसुमितवनालोकनाय स्वृशन्तः।
श्रीदामाद्याः प्रिय सहचरा हन्त मन्नामतस्ते

पौनःपुन्यानिपुण भवता तुङ्गमालिङ्गनीयाः॥५॥

हत्वा रङ्गस्थलभुवि मया धीर कंसं नृशंसं
काकून्मिश्रैःशपथशतकैर्गोकुलं प्रेषितस्य।
आनम्रस्त्वं चरणयुगलं वल्लवेंन्द्रस्य कामं
नामग्राहं मम गुणनिधेवन्दमानो दधीथाः॥९६॥

तां वन्देथा मम सविनयं नामतः क्षामगात्रिम्
आक्रोशन्तींखलनरपतिं साङ्गलीभङ्गमुच्चैः।
अन्तश्चिन्ताविलुलितमुखींहा मदेकप्रसूतिं
सर्वाङ्गैस्त्वं’ कलितवसुधालयम्बमम्बां यशोदाम्॥१७॥

या निश्वासोद्गमवलयिनं हारवं मुञ्चमाना
स्नेदोदग्रं मम गुणकथा मन्तरेणान्तरेण
क्षामीभूता क्षितिपतिपुरीवर्त्मविन्यस्तनेत्रा
बास्पोद्गारस्रपितवसना वासराणि क्षिपन्ती॥८॥

अक्रूराख्यो हृतवति हठाज्जीवनं मां निदाघे
विन्दन्तीनां मुझुरविरलाका रमन्तर्विदारम्।
सद्यः शुय्यन्मुखवनरुहां वलवीदीर्घिकाणां
यासामासामृदमनुसृताः प्राणकूर्मा वसन्ति॥९९॥

तासां बद्धाञ्जलिरनुसरैरन्तिकं यन्त्रितात्मा
शङ्काभिस्त्वं क्लमपरिणमद्विक्रियाणांप्रियाणाम्।
दूत्यंकुर्वन्नसि गुणनिधे सापराधस्य यन्मे
भर्तुर्दोषादपि हि कुशला हन्त दुष्यन्ति भृत्याः॥१००॥

मन्नेपथ्यस्तवकितभद्वीक्षणेनाकुलानां

तुङ्गातङ्गोत्तरलितमनःकल्पनाजल्पभाजाम्।
तिष्ठन्नासां पथि नयनयोनिःसलाकं गतानां
सन्देशं मे लघु लघु, सखेहारिणं व्याहरेथाः॥१०१॥

त्रिभिः कुलकम्।

यः कालिन्दीवनविहरणोद्दामकामः कलावान्
वृन्दारण्यान्नरपतिपुरं गान्दिनीयेन नीतः।
कुर्वन् दूत्यंप्रणयसचिवस्तस्य गोपेन्द्रसुनोः
देवीनां वः सपदि सविधं लब्धवानुद्ध्ववोऽस्मि॥१०२॥

तापीन्नद्ध्वश्वसितपटलीदूयमानाधरश्रीः
मुक्तक्रीड़ो धवलमधुराहिण्डिरक्षामगण्डः।
स्मारं स्मारं गुणंपरिमलं हन्त वः क्लान्तचेताः
सोऽयं कान्तः किमपि सरलाःसुन्दरं संदिदेश॥१०३॥

कच्चिद्भीतं न भजत मुहुर्दानवेभ्यः पुरावत्
कल्याणं वः सरलहृदयाः कच्चिदुल्लालसीति।
कच्चिद्युयं स्मरथ सरसं तत्रक्षित्तानुकूलं
कुञ्जेकुञ्जेकृतमथ मया तञ्चसेवाप्रपञ्चम्॥१०४॥

नीतो यत्राद्विविधविनयैर्बन्धनं बन्धुताभिः
कर्त्तुंभूयः किमपि कुशलं पत्तने वर्तमानः।
ध्यायं ध्यायं नवनवमहं सौहृदं वः सुकण्ठ्यो
गाढ़ोत्कण्ठक्लमपरवशं वासराणि क्षिपामि॥१०५॥

ज्ञातं ज्ञातं विरमत चिरं त्वादृशीनां चरित्रं
याभ्यस्त्रीत्रा समजनि मनोभेदिनीवेदनेयम्।

चकृर्वक्रंमयिकिल तथा प्रेमपूरं भक्त्यो
येनोद्भ्रान्तस्तुटिमपि बलादुत्सहे नाद्यनेतुम्॥१०६॥

रामोल्लासान्निशिनिशि चिरं स्वप्नवृन्दापदेशात्
वृन्दारण्येसुरभिणि मया सार्द्ध्वमास्वादयन्ते।
भूयोभूयस्तदपि च परित्यागिता दूषणं मे
शंसन्त्यः किं कुटिलहृदया न त्रपन्तेभवत्यः॥१०७॥

ते ते चन्द्रावलि रसभरभ्रान्तनेत्रान्तमैत्री
वैचित्रीभिस्त्रिभुवनजये दत्तहस्तावलम्बाः
उत्सर्पन्तः स्मरणसरणींहन्त ते भ्रूविलासाः
निःशङ्गं मे हृदयमधुना प्रांशवः श्रंसयन्ति॥१०८॥

तत्तत्तन्वि स्मरसि विपिने फुक्रुशाखे विशाखे
कर्षन्नीवीं तव मुहुरहं वीक्ष्यंवृद्ध्वांमिलन्तीम्।
कल्याणींमे वितर कितवे हन्त चेलान्तराले
गुप्तांगुञ्जावलिमिति वदन् यद्विलक्षस्तदासम्॥१०९

तां वैदग्धीपरिमलकथामुद्गिरन्ती सखीषु
क्लान्तिं दूरे क्षपयसि निजां हन्त धन्यासि धन्ये।
ध्यायन्नाहं तमिह नगरे देवि लोकं विलोके
प्रीत्या यव व्यसनविधुरं वक्त्रमुन्मुद्रयामि॥१९०

गम्भीराणि प्रमदगुरुभिर्गूढ़नर्मप्रबन्धैः
माध्वीकानां मधुरिममहाकीति विध्वं सनानि।
सोत्कण्ठंमे स्मरति हृदयं श्यामले कोमलानि
प्रेमोत्तुङ्गस्मितपरिचितान्यद्य ते जल्पितानि॥१११॥

पद्मे पद्मस्तुतमुखिलतासद्मनि छद्मनिद्रां
लब्धेलुब्धा मयि मुरलिकां हर्तुकामा त्वमासीः।
धृत्वा पाणौ मुहुरथ मया कञ्चकं मुञ्चता ते
यत्प्रारब्धंकिमपि तदिदं स्वान्तमन्तः पिनष्टि॥११२॥

न्यस्ताङ्गी मे सुरभिनि भुजस्तम्भयोरन्तराले
भूयोभिस्त्वंरहसि ललिते केलिभिर्लालितासि।
अन्तश्चिन्ताविधुरमधुना पांशुपुञ्जेलुठन्ती
हन्त म्लाना रचयसि कथं प्राणसन्धारणानि॥११३॥

यः सेवाभिर्मुदमुदयिनीं तत्रभद्राङ्गि भद्रे
नीतस्ताभिर्निशि निशि मनः कर्षिणीभिस्त्वयासीत्।
सप्रेष्ठस्ते नवपरिचयादिङ्गित स्वानभिङ्गैः
कृष्णस्तूष्णीं पुरपरिजनैः सेव्यमानो दुनोति॥११४॥

मोढ़व्यं ते कथमपि बलाच्चक्षुषी मुद्रयित्वा
तीव्रोत्तापं हतमनसिजोद्दामविक्रान्तचक्रम्।
द्वितैरेव प्रियसखि दिनैः सेव्यतां देवि शैव्ये
यास्यामि त्वत्प्रणयचटुलभ्रूयुगाड़म्बराणाम्॥११५॥

इत्थंतासामनुनयकलापेशलःक्लोशहारी
सन्देशं मे कुवलयदृशां कर्णपूरं विधाय।
त्वं मच्चेतोभवनवडभीप्रौढ़पारावतींतां
राधामन्तः क्लमकवलितां संभ्रमेणाजिहीथाः॥११६॥

सा पल्यङ्के किशलयदलैः कल्पिते तत्र सुप्त्वा
गुप्तानीरस्तवकितदृशां चक्रबालैः सखीनाम्।

द्रष्टव्या ते क्रशिमकलिताकष्ठनालोपकण्ठ-
स्पन्देनान्तर्वपुरनुमितप्राणसङ्गा वराङ्गी॥११७॥

मालां मैत्रीविदुरमदुरःसङ्गसौरभ्यसभ्यां
वासन्तीभिर्विरचितमुखीं पञ्चवर्णांंगृहाण।
आरूढ़ायाः परिणतिदशां तादृशीं सारसाक्ष्याः
साक्षादेतत्परिमलमृते कः प्रबोधेसमर्थः॥११८॥

माल्यामोदव्यतिकरवहिर्बोधितायाः सबाष्पं
नेत्रद्वन्द्वंदिशि दिशि मुहुर्विक्षिपन्त्याविलक्षम्।
तस्थाः प्रोद्यत्पलककलिकादन्तुरायाः पुरस्तान्-
मन्दं मन्दं विनयमसृनस्त्वं विनम्रो जिहीथाः॥११८॥

धृत्वा मालां किशलयततेरञ्चले न्यञ्चदङ्गी
भ्रसंज्ञाभिः सपदि सचिवीकृत्य तस्या वयस्याः।
दूत्यंस्वस्य प्रणयहृदयस्त्वं निवेद्यानवद्यं
धीमन् सद्यो मम कथयितुं वाचिकं प्रक्रमेथाः॥१२०॥

यः सर्वस्मात्तव किल गुरुस्त्वञ्च यस्यासिधीरे
प्राणेभ्यस्त्वं प्रणयवसतिर्यस्य यः स्यात्तवापि।
स त्वां धृत्वा मनसिं विधरे हन्त सन्धुक्षमाणः
कृष्णस्तृष्णाचटुलचटलं देवि मन्देदिशीति॥१२१॥

सख्युर्लक्ष्मीमुखि मतमुरीकृत्य दूरीभविष्णोः
धत्ते प्राणाननुपदविपद्विद्ध्विचित्तापि साध्वी।
सुक्तच्छाया मुहुरसुमनाः क्षौणिपृष्ठेलुठन्ती
बद्धापेक्षं विलसति गते माधवे माधवीयम्॥१२२॥

नीते शोषं विरहरविणासर्वतो हृत्तड़ागे
जाने कण्ठस्थलविलुठितप्राणमानासि तन्वि।
दूरे संप्रत्यविरलसुहृन्मारुतैर्वारितोऽहं
कृष्णाम्भोधौ विलसदमृतालङ्कृतः किं करिष्ये॥१२२॥

नायं स्वप्नो निशिनिशिभवेद्यत्तयासङ्गतिर्मे
पश्यामोदं विधुमुखि निराबाधमास्वादयामि।
किन्तु ज्ञातं त्वयिविजयते काचिदाकृष्टिविद्या
यां संसन्ती हरसि तरसा मामदूराद्यदूनाम्॥१२४॥

लब्धान्दोलः प्रणयरभसादेष ताम्रोष्ठि नम्रः
प्रज्ञायन्तीं किमपि भवतीं याचते नन्दसूनुः।
प्रेमोद्दामप्रमदपदवी साक्षिणी शैलकक्षे
द्रष्टव्या ते कथमपि न सा माधवी कुञ्जवीथी॥१२५॥

विन्दन् वंशीस्फुरितवदनो नेत्रवीथीमकस्मात्
अन्तर्वाधाकवलितधियो धातुभिर्धूमलोऽहम्।
क्रीड़ाकुञ्जेलुठितवपुषः श्रान्तमानन्दधारा-
कल्लोलैस्तेरहसि सहसोत्फुल्लमुल्लासयिष्ये॥१३६॥

प्रेमोनाहादहमधिवहन् बास्पधारामकाण्डे
गण्डोत्सङ्गे स्मरपरिभवैः पाण्डुरे दत्तचुम्बः।
कुर्वन् कण्ठग्रहविलसितं नन्दयिष्यामि सत्यं
सान्द्रेण त्वां सहचरि परिष्वङ्गरङ्गोत्सवेन॥१२७॥

इत्थंतीव्रव्यसनजलधेः पारसीमामिवासां
संदेशैर्मैधृतगरिमभिर्दर्शयन् दूरदर्शी।

भूयः कुर्वन् कुवलयदृशां तत्र चित्तानुकूलं
कालं कञ्चित् त्वमतुलमते गोकुलान्तर्नयेथाः॥१२८॥

गोपेन्द्रस्य व्रजभुवि सखे केवलं यात्रया ते
नार्थः सिद्धेन्मम बहुमतः किन्तु वाढ़ं तवैव।
प्रेमोल्लासं परिकलयतां गोपसीमन्तिनीनां
स्मर्तव्या मे सपदि भवता भारतीसारतेयम्॥१२६॥

गोष्ठक्रीडोल्लसितमनसीनिर्व्यलीकानुरागात्
कुर्वाणस्य प्रथितमथुरामण्डले ताण्डवानि।
भूयोरूपाश्रयपदसरोजन्मनः स्वामिनोऽयं
तस्योद्दामं वहतु हृदयानन्दपूरं प्रबन्धः॥१३०॥

श्रीदामाद्यैः शिशुसहचरैर्बाल्यखेलामकार्षोत्
गोपालीभिः सह युवतिभीरासकेलिं चकार।
दुष्टान् दैत्यानपि बहुतरान् हेलया यो जघान
स श्रीकृष्णस्तरुणकरुअस्तारयेद्वोभवाब्धिम्॥१२१॥

इत्युद्धवसन्देशाख्यप्रबन्धः समाप्तः।

_________________

रामकृष्णविलोमकाव्यम्।

तं भसुतामुक्तिमुदारहासं
वन्देयतो भव्यभवं दयाश्रीः।

श्रीयादवं भव्यभतोयदेवं
संहारदा मुक्तिमुतासुभूतम्॥१॥

चिरं विरिञ्चिर्न चिरं विरिञ्चिः
साकारता सत्यसतारका सा।
साकारता सत्यसतारका सा
चिरं विरिञ्चिर्न चिरं विरिञ्चिः॥२॥

तामसीत्यसति सत्यभीमता
माययाक्षमसमक्षयायमा।
माययाक्षमसमक्षयायमा
तामसीत्यसति सत्यसीमता॥३॥

का तापघ्नी तारकाद्या विपापा
त्रेधा विद्या नोष्णकृत्यं निवासे।
सेवा नित्य कृष्णमोद्या विधात्रे
पापाविद्याकारताघ्नीपताका॥४॥

श्रीरामतो मध्यमतोदि येन
धोरोऽनिशं वश्यवतोवराद्वा।
द्वारावती वश्यवशंनिरोधी
नयेदितो मध्यमतोऽमरा श्रीः॥५॥

कौशिके त्रितपसि क्षरव्रती
योऽददाद्वितनयस्वमातुरम्।
रन्तुमास्वयन तद्विदादयो
तीव्ररक्षसि पतत्रिकेशिकौ॥६॥

लंबाधरोरुत्रयललंबनासे
त्वं याहि याहि क्षरमागताज्ञा।
ज्ञाताममा रक्षहि याहि या त्वं
सेना बलं यत्र रुरोध बालम्॥७॥

लंकायना नित्यगमा धवाशा
साकं तयानुन्नयमानुकारा।
राकानुमा यन्ननु यातकंसा
शावाधमागत्य निनाय कालम्॥८॥

गाधिजाध्वरवैरा ये तेऽतीता रक्षसा मताः।
तामसाक्षरतातीते ये रावेरध्वजाधिगाः॥2॥

तावदेव दया देवे यागे यावदवासना।
नासवादवयां गेया वेदे यादवदेवता॥१०॥

सभास्वये भग्नमनेन चापं
कीनाशतानद्धरुषा शिलाशैः।
शैलाशिषारुद्ध्वनताशनाकी
पञ्चानने मग्नभयेस्वभासः॥११॥

न वेद यामक्षरभामसीतां
का तारका विष्णुजिते विवादे।
देवाविते जिष्णुविकारता का
तां सीमभारक्षम यादवेन॥१२॥

तीव्रगोरन्वयत्रार्योवैदेहीमनसो मतः।
तमसो न महिदेवैर्योत्रायन्वरगो व्रती॥१३॥

वेद या पद्मसदनं साधारावततार सा।
सारता तव राधा सा नन्दसद्मप यादवे॥१ 8॥

शैवतो हननेऽरीधीयो देवेषु नृपोत्सवः।
वत्सपो नृषु वेदे यो धिरो नेन हतो वशैः॥१५॥

न गोपगोसि क्षर मेपिनाके
नापो जने धर्मधनेन दानं।
नंदानने धर्मधने जपो ना
के नापि मे रक्षसि गोपगोनः॥१६॥

ततान दाम प्रमदा पदाय
नेमे रुचामस्वन सुन्दराक्षी।
क्षीरादसुं न स्वमचारु मेने
यदापदामु प्रमदा न तातः॥१७॥

तामितो मत्तत्रामा शापादेष विगानताम्।
तां नगाविषदे पाशा मात्रा सूत्तमतो मिता॥१८४

नासावधापत्रपाज्ञाविनोदी
धीरो नुत्या सस्मितीऽद्याविगीत्या।
त्यागी विद्यातोऽस्मि सत्यानुरोधी
दीनो विज्ञापात्रपधावसाना॥१६॥

सम्भावितं भिक्षुरगादगारं
याताधिराप स्वनघाजवंशः।
शवं जवान स्वपराधिता या
रंगादगार क्षभितं विभासम्॥२०॥

तपातितारः स्वनयागतं मा
लोकापवादद्वितयं पिनाके।
केनापि यं तद्विदवाप कालो
मातंगयान स्वरतातिपातः॥२१॥

शवेऽविदा चित्रकुरङ्गमाला
पञ्चावटोनर्म न रोचते वा।
वाते चरो नर्म नटीव चापं
लामागरं कुत्रचिदाविवेश॥२२॥

नेह वा क्षिपसि पक्षिकन्धरा
मालिनी स्वमतमत्त दूयते।
ते यदूत्तम तमस्वनीलिमा
राधकं क्षिपमि पक्षिवाहने॥२३॥

वनान्तयान स्वणुवेदनासु
योषामृते ररापगजाविरोधी।
धीरो विजागपरा रते मृषा यो
सुनादवेणुस्वनया तनां वः॥२४॥

किंनुतोयरसापम्पा न सेवा नियतेन वैः।
वैनतेयनिवासेन पापं सारयतो नु किम्॥२५॥

स न तातपहा तेने स्वं शेनाविहितागसम्।
संगताहि विनाशे खं नेतेहापततान सः॥२६॥

कपितालविभागेन योषादो नुनयेन सः।
सनयेन नु योषादो नगेभा बिलतापिकः॥२७॥

ते सभा प्रकपिवर्णमालिका
नाल्पकप्रसरमभ्रकल्पिता।
ताल्पिकभ्रमरसप्रकल्पना
कालिमार्णबपिक प्रभासते॥२८॥

रावणोऽक्षिपत न त्रपानते
नाल्पकभ्रमणमक्रमातुरम्।
रंतुमाक्रमणमभ्रकल्पना
ते न पात्र नतपक्षिणो वराः॥२८॥

दैवेयोगे सेवादानं शङ्कानापेरुङ्कायाने
नेया कालं पेनाकाशं मंदावासे गेयो वेदैः ॥३०॥

शंकावज्ञानुत्वनुज्ञावकाशं
याने नद्यामुद्याननेयाः।
याने नद्यामुद्याननेया
शंकावज्ञानुत्वनुज्ञावकाशम्॥३१॥

वादिदेश द्विसीनापंपम्पाथोयनसेतवे
वेतसेन यथो पापं पन्तासीद्विशदे दिवा॥२२॥

वायुजोनुमतो मेने संग्रामे रवितोऽह्निवः।
वह्नितो विरमे ग्रासं नेमेऽतोमनुजो यवा॥३३॥

क्षतायमा यत्र रघोरितायु
रंकानुगानल्पवयोऽयनानि।
निनाय योवल्पगानुकारं
यतारिघोर त्रयमायताक्षः॥३४॥

तारके रिपुरापश्रीरुचा दाससुतान्वितः।
तन्वितासु सदाचारु श्रीपरा पुरिके रता॥२५॥

रुङ्कारङ्कागाराभ्यासं याने मेया काराव्यासे।
सेव्या सँका यामे नेया संध्या रागाकारं कालम्॥३६॥

गोदावरी ब्रह्मगिरेः शकाशात्
संप्रापिता प्रागुदधिं प्रयत्नात्।
येनर्षिणा सोऽपि पुनः प्रतीम
मानेतुमद्रि प्रभवेत् किमेताम्॥३७॥

एवं विलोमाक्षरकाव्यकर्त्तु-
र्भूयः सभायां समवेक्ष्य ताः।
जानंत्विमां चित्रकवित्वसीमां
दैवज्ञसूर्याभिधसंप्रदिष्टाम्॥३८॥

इति श्रीदैवज्ञपण्डितसूर्यकविविरचित विलोमाक्षररामकृष्णकाव्यं समाप्तम्।

** _________________**

काशोस्त्रोत्रम्।

** ____________**

सत्यज्ञानानन्दतीर्थं प्राप्तोऽहं यत्प्रसादतः।
तं गुरुंपरमं ह्रंसं विश्वेश्वरमजं भजे॥९॥

विश्वेशं माधवं ढुंढिं दण्डपाणिञ्च भैरवम्।
वन्देकाशींगुहां गङ्गां भवानीं मणिकर्णिकाम्॥२॥

अखण्डः सच्चिदानन्दः शिवो देवो महेश्वरः।
तस्य तां परमां शक्तिंकाशीं स्तौमि सदुक्तिभिः॥३॥

श्यामां षोड़शवार्षिकीं सकरुणां मर्त्तिं दधानां वरां
हस्ताभ्यामभयञ्च विश्वजननींविद्येति या गीयते।
या दृष्टा स्मरणं गतापि सततं या कीर्त्तिता संस्तुता
या स्पृष्टा प्रणता श्रुता प्रकुरुते नृणां परं मङ्गलम्॥४॥

भूमिष्ठापि न यात्र भूस्त्रिदिवतोऽप्युच्चैरधस्थापि या
या बद्ध्वाभुवि मुक्तिदा स्युरमृतं यस्यां मृता जन्तवः।
या नित्यं त्रिजगत्पवित्रतटिनीतीरे सुरैः सेव्यते
मा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत्॥५॥

पूर्व्वजन्मशतकोटिमञ्चितं
पापराशिमतुलं विनाशयेत्।
काशिका परपदप्रकाशिका
दर्शनश्रवणकीर्त्तनादिभिः॥६॥

यः काशीं स्तौति मेधावी यः काशींहृदि धारयेत्।
तेन तप्तं तपस्तीव्रंतेनेष्टं क्रतुकोटिभिः॥७॥

वाराणसीति काशीति महामन्त्रमिमं जपन्।
यावज्जीवन् त्रिसंध्यं तु जन्तुर्जातु न जायते॥८॥

यस्तु काशीति काशीति द्विस्त्रिर्जपति पुष्यवान्।
अपि सर्व पवित्रेभ्यः स पवित्रतरो महान्॥९॥

मुने न मे प्रियस्तद्वद्दीक्षितो मम पूजकः।
यादृक प्रियतरः सत्यङ्काशीस्तवनलालसः॥१०॥

वरङ्काशीपुरीवासो मासोपवसनादिभिः।
विचित्रच्छत्रसुच्छायं राज्यं नान्यत्र कामये॥११॥

काशीवासी क्षुत्कृशः पुक्कसोऽपि
श्रेष्ठो राजन् मुक्तिकन्यावृतो यत्।
अन्यत्रस्थः सार्वभौमः स्वधर्मीं-
न स्याच्छेयान् गर्भवासैकयोग्यः॥१२॥

जड़ेषु सर्वेष्वपि मज्जमाने
ष्वियं चिदानन्दमयी न मज्जति।
स्वयं निमग्ना कथमुद्धरेत्परान्
लोके च वेदे च विचार्यमेतत्॥१३॥

सर्व वाङ्मनसातीतं भावाभावविवर्जितम्।
चिन्मात्रंयत्परं ब्रह्म पञ्चकोशात्मकं हि तत्॥१४॥

तदेतत्क्षेत्रमापूर्य्यस्थितं सर्वगमप्यहो।
अनुग्रहार्थं लोकानामिति वेदविदो विदुः॥१५॥

शम्भोः शक्तिरियं काशी तदभिन्ना परा चितिः।
शिवएव हि जानाति काशिकायाः परं सुखम्॥१६॥

शिवस्यापि परं सौख्यं काशिका वेत्ति तत्परा।
निर्विशेषा च शुद्धा च जड़ा सेति त्रिधा मता॥१७॥

क्षेधरूपा जड़ा काशी मो वयेसर्वदेहिनः
मूर्त्तिरूपा तु या काशी शुद्धा सा चिन्मयी सती॥१८॥

पूर्णरूपा स्वमाहात्म्यंस्वयमेव विचारयेत्।
निर्विशेषा तु मुक्तानां शिवस्य च परा गतिः॥१८॥

कोटिजन्मसहस्रेषु तपोध्यानसमाधिभिः।
प्रसादितो शिवो येन स एवं वेत्ति काशिकाम्॥२०॥

यस्याः प्रसादादहमेव शम्भुः
जानामि शम्भुं सकलात्मभूतम्।
स्मरामि शम्भं प्रणवं शिवञ्च
शिवप्रियां तां प्रणमामि काशीम्॥२१॥

प्रकाशयेत् याशुपरात्मतत्त्वं
प्रकाशतेऽस्यामिति वाथ काशी।
चिन्मात्ररूपापि च गीयते या
तां ब्रह्मविद्यां प्रणमामि काशीम्॥२२॥

यस्यां वसन् जन्तुरुपैति धर्मं
भुक्तिं च विश्वेश्वरमार्थसङ्गम्।
गङ्गां सुविद्यां परमाङ्गतिं च
सा काशिका मेऽस्तु गतिर्मुमुक्षोः॥२३॥

सर्वाणि तीर्थानि वसन्ति यस्यां
वेदाः सदेवाः मुनयश्च मुक्तौ।
विभुषिता या परया द्यनद्या
साकाशिका मेऽस्तु गतिर्मुमुक्षोः॥२४॥

शवः शिवः स्यादशिवोऽपि यस्याम्
श्रभद्रमुक्त मरणञ्च भद्रम्।
दरिद्यपि श्रीपतितुल्य आस्ते
तां काशिकां को न भजेत्सुबुद्धिः॥२५॥

विरक्रियोगादिभवा हि विद्या
सुदुर्लभा मास्ति कलौ विमुक्तिः।
यस्यां म्हृतस्तां समुपैति जन्तुः
शिवप्रसादादिति निश्चितं हि॥२६॥

अतः सदा सैव निषेवितव्या
मुमुक्षुनिः शङ्करराजधानी।
स्वधर्मनिष्ठैःकलिकाल एका
ध्येया च वन्द्या परिकीर्तनीया॥२७॥

ये पुण्यशीलाः परिकीर्त्तयन्ति
काशीं सदैव प्रणमन्ति भक्त्या।
तेषामहम्पादरजो बिभर्मि
शोक्षामि नित्यं दयया तदन्यान्॥२८॥

वसन्ति पापा नहि काशिकायां
वसन्ति चेदत्रमृतिर्न जायते।
मृतिर्भवेचेन्नहि यातनाक्षयः
तथापि चान्ते परिमुच्यतेऽसौ॥२८॥

आदौ काश्यांधर्ममार्गेण बासः
पापत्यामः काशिमाहात्म्यदृष्टिः।
देहङ्गेहं पुत्रमित्रादि यस्य
सर्वन्तुच्छं सोऽधिकारी महात्मा॥३०॥

वासः काश्यांसज्जनानां प्रसङ्गो
गङ्गास्नानं पापकर्मारुचिच्च।

पुण्येप्रीतिः स्वेच्छया लाभसौख्यं
दानं शक्त्यान प्रतिग्राह्यमन्नम्॥३१॥

अष्टावेते यस्य सन्त्येव योगा
योगाभ्यासैस्तस्य किङ्काशिकायाम्।
एवं ज्ञात्वा यो वसेत् काशिकायां
सद्यो मुक्रोऽसौ भवेन्नैव चान्यः॥३२॥

काश्यांकृतातिपापस्य दारुणा रुद्रयातना।
अहो रुद्रपिशाचत्वं नरकेभ्योऽपि दुःसहम्॥२२॥

तस्मात्पापं न कर्त्तव्यं मनागपि विभोः पुरे।
जातं यत्तत्प्रमादेन प्रायश्चित्तेन नश्यति॥३४॥

स्थापनं शिवलिङ्गादेः पञ्चक्रोशप्रदक्षिणा।
स्नानं दानं दया खेदः प्रायश्चित्तं महत्स्मृतम्॥३५॥

पापमेवहि कर्तव्यं मतिरस्ति यदीदृशी।
सुखेनान्यत्र कतव्यं महीह्यस्ति महीयसी॥३६॥

यथा कामातुरो जन्तुरेकां रक्षति मातरम्।
तथा पापकृता काशी रक्षितव्या मुमुक्षुणा॥३७॥

काश्यांमृतानां मुक्तिः स्यान्नवेति विवदन्ति ये।
नरकं यान्ति ते पापाः काका गृध्रा भवन्त्यथ॥३८॥

तस्मात्सर्वं परित्यज्य श्रोतव्याः काशिसत्कथाः।
न विना श्रवणम्पुण्यंपापं वा वेत्ति कोऽपि हि॥२६॥

काश्यांवासः सतां सङ्गीगङ्गाम्भः शिवपूजनम्।
ध्यानं नारायणस्यैतत्सारात्सारं विदुर्बुधाः॥४०॥

कलौ विश्वेश्वरीदेवः कलौ वारणासी पुरी।
कलौ भागीरथी गङ्गा दानङ्कलियुगे महत्॥४१॥

गङ्गा विश्वेश्वरः काशी जागर्ति वितयं यतः।
तत्र नैश्रेयसी लक्ष्मीर्लभ्यते चित्रमवकिम्॥४२॥

न विश्वेशसमं लिङ्गं न काशी सदृशी पुरो।
मणिकर्णिसमं तीर्थ नास्ति ब्रह्माण्डगोलके॥४३॥

काश्यां लिङ्गान्यनेकानि काश्यां तीर्थान्यनेकशः।
तथापि सेव्यो विश्वेशः स्नातव्या मणिकर्णिका॥४४॥

यथाभूमितले विप्रपूयः सन्ति सहस्रशः।
तथा काशी न मन्तव्या कापि लोकोत्तरात्वियम्॥४५॥

अन्यानि मुक्तिक्षेत्राणि काशीप्राप्तिकराणि हि।
काशीं प्राप्य विमच्येत नान्यथातीर्थकोटिभिः ॥४६॥

तीर्थार्थं न वहिर्गच्छेद्देवार्थं वा कदाचन।
सर्वतीर्थानि देवाश्च वसन्त्यत्राविमुक्तके॥४७॥

शशकैर्म्मशकैः काश्यांयत्पदं हेलयाप्यते।
तत्पदं नाप्यतेऽन्यत्र योगयुक्त्यापि योगिभिः॥४८॥

मध्यमेश्वरमारभ्य यावद्देहलिविघ्नपम्।
सूत्रंसंस्थाप्य तद्दिक्षुभ्रामवेन्मण्डलाकृति॥४८॥

तत्र या जायते रेखा तन्नाध्ये क्षेत्रमुत्तमम्।
काशीति यद्विदुर्वेदास्तत्रमुक्तिः प्रतिष्ठिता॥५०॥

पूर्वतो जाह्नवी पश्चात्पाशपाणिर्गणेश्वरः।
असीवरणयोर्मध्ये शुभा वाराणसी मता॥५१॥

विश्वेश्वराच्चतुर्दिक्षु धनुःशतयुमोन्मितम्।
अविमुक्तमिति प्रोक्तमन्तर्गृहमथो शृणु॥५२॥

गोकर्णेशः पश्चिमे पूर्वतश्च
गङ्गामध्यञ्चोत्तरे भूरिभृतः।
ब्रह्मेशानो दक्षिणे संप्रदिष्टः
तत्तु प्रोक्तं भवनं विश्वभर्त्तुः॥५३॥

इत्थंचतुर्विधं क्षेत्रंप्रशस्तञ्चोत्तरोत्तरम्।
पञ्चक्रोशात्मकं लिङ्गं यो वेद स परः शिवः॥५४॥

य इदं काशिकास्तोत्रंभक्त्यासङ्कीर्त्तयेत्सदा।
स सव्वपापनिर्मुक्तः सद्योमोक्षमवाप्नुयात्॥५५॥

गुणानामेकदेशोऽयं काशिकायाः प्रकीर्तितः।
तेन प्रीणातु भगवान् विश्वेशः काशिकाप्रियः॥५६॥

** इति श्रीपरमहंसपरिव्राजकाचार्य्य-श्रीरामकृष्णतीर्थवादकिङ्करशिष्य-श्रीसत्यज्ञानानन्दतीर्थयतिविरचितं काशोस्तोत्रं
सम्पूर्णम्।**

आत्मबोधः !

<MISSING_FIG href="../books_images/U-IMG-1729351865Screenshot(99"/>.png)

तपोभिः क्षोणपापानां शान्तानां वीतरागिणान्।
मुमुक्षुणामपेक्षोऽयमात्मबोधों विधीयते॥१॥

बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम्।
पाकस्य वह्निवजज्ञानं विना मोक्षो न सिध्यति॥२॥

अविरोधितया कर्म नाविद्यां विनिवर्तयेत्।
विद्याविद्यां निहन्येव तेजस्तिमिरसङ्घवत्॥३॥

परिच्छिन्न द्रवाज्ञानात्तन्नाशे सति केवलः।
स्वयं प्रकाणते ह्यात्मा मेघापायेंशुमानिव॥४॥

अज्ञानकनुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम्।
कृत्वा ज्ञानं स्वयं नश्येज्जलं केतकरेणुवत्॥५॥

संसारः स्वप्नतुल्योहि रागद्वेषादिसङ्कुलः।
स्वप्नकाले सत्यबद्भाति प्रबीधेऽसत्य वद्भवेत्॥६॥

तावत्सत्यंजगद्भाति शुक्तिकारजतं यथा।
यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम्॥७॥

सच्चिदात्मन्यनुस्यूते नित्येविष्णौ प्रकल्पितः।
व्यक्तयोविविधाः सर्वा हटके कटकादिवत्॥८॥

यथाकाशो हृषीकेशो नानोपाधिगतो विभुः।
तद्भेदाद्भिन्नवद्भातितन्नाशादेकवद्भवेत्॥९

नानोपाधिवशादेवं जातिनामाश्रयादयः।
आत्मन्यारोपितास्तोये रसवर्णादिभेदवत्॥१०॥

पञ्चीकृतमहाभूतसम्भवं कर्मसञ्चितम्।
शरीरं सुखदुःखानां भोगायतनमुच्यते॥११॥

पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्।
अपञ्चीकृतभूतोत्थंसूक्ष्माङ्गं भोगसाधनम्॥२२॥

अनाद्यविद्या निर्वाच्या कारणोपाधिरुच्यते।
उपाधित्रितयादन्यमात्मातमवधारयेत् ॥१३॥

पञ्चक्रोशादियोगेन तत्तन्मयइव स्थितः।
शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥१४ ॥

वषुस्तुषादिभिः कोणैर्युक्तं युक्त्या वघातनः।
आत्मानमान्तरं शुद्धंविविच्यात्तण्डुलं यथा ॥१५॥

सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते।
बुद्धावेवावभासेत स्वच्छेषु प्रतिविम्बवत् ॥१६॥

देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम्।
तद्वृक्षिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥१७॥

व्यावृत्तेष्विन्द्रियेष्वात्मा व्यापारी वाविवेकिनाम्।
दृश्यतेऽभ्रेष धावत्सु धावन्निव यथा शशी ॥१८॥

आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः।
स्वकीयार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः ॥१९॥

देहेन्द्रियगुणान् कर्माण्यमले सच्चिदात्मनि।
अध्यस्यतेऽविवेकेन गगने नीलतादिवत् ॥२०॥

अज्ञानान्मानसोपाधेः कर्तृ त्वादीनि चात्मनि।
कल्प्यन्तेऽम्बुगते चन्द्रेचलनादिर्यथाम्भसः ॥२१॥

रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते।
सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥२२॥

प्रकाशाऽर्कस्य तोधस्य भैत्यमग्नेर्यथोष्णता।
स्वभावः सञ्चिदानन्दनित्यनिर्मलतात्मनः ॥२३ ॥

आत्मनः सच्चिदशश्च बुद्धेर्वृत्तिरिति द्वयम्।
संयोज्य वा विवेकेन जानामीति प्रवर्तते॥२४॥

आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति।
जीवः सर्वमलं ज्ञात्वा ज्ञाता द्रष्टेति मुह्यति॥२५॥

रज्जुसर्पवदात्मानं जीवीज्ञात्वा भयं वहेत्।
नाहञ्जीवः परात्मेतिज्ञानश्चेन्निर्भयो भवेत्॥२६॥

आत्मावभासयत्येको बद्ध्यादीनीन्द्रियाणि हि।
दीपो घटादिवत्स्वात्मा जडैस्तैर्नाविभास्यते॥२७॥

स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः।
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने॥२८॥

निषिध्य निखिलीपाधीन्नेति नेतीति वाक्यतः।
विद्यादैक्यंमहावाक्यैःजीवात्मपरमात्मनोः॥३८॥

अविद्यकं शरीरादि दृश्यं कुद्बुदवत् क्षरम्।
एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम्॥३०॥

देहान्यत्वान्नमे जन्मजराकार्श्यलयादयः।
शब्दादिविषयैः सङ्गो निरिन्द्रियतया न च॥३१॥

अमनस्त्वान्न मे दुःखरागद्वेषभयादयः।
अप्राणोह्यमनाः शुभ्र इत्यादि श्रुतिशासनात्॥३२॥

निर्गुणो निष्क्रियो नित्यो निर्व्विकल्पीनिरञ्जनः।
निर्विकारो निराकारो नित्यमुक्तोऽस्मि निर्मलः॥३२॥

अहमाकाशवत्सर्ववहिरन्तर्गतोऽच्युतः।
सदा सर्वसमः शुद्धोनिःसङ्गो निर्मलोऽचलः॥३४॥

नित्यशुद्धविमुक्तकमखण्डानन्दमद्वयम्।
सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत्॥३५॥

एवं निरन्तरं कृत्वा ब्रह्मैवास्मीति वासना।
हरत्यविद्याविक्षेपान् रोगानिव रसायनम्॥३६६॥

विविक्तदेशे आमीनो विरागो विजितेन्द्रियः।
भावयेदेतमात्मानं तमनन्तमनन्यधीः॥२७॥

आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः।
भावयेदेकमात्मानं निर्मलाकाशवत्सदा॥२८॥

रूपवर्णादिकं सर्वं विहाय परमार्थवित्।
परिपूर्णचिदानन्दस्वरूपेणावतिष्ठति॥३

ज्ञातृज्ञानज्ञेयभेदः परात्मनि न विद्यते।
चिदानन्दकरूपत्वाद्दीस्यते स्वयमेव हि॥४०॥

एवमात्मारणो ध्यानमथने सततं कृते।
उदितागतिर्ज्वाला सर्वाज्ञानेन्धनं दहेत्॥४१॥

आरुणेनैव बोधेन पूर्वं सतमसे हृते।
तत आविर्भवेदात्मा स्वयमेवांशुमानिव॥४२॥

आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया।
तन्नाशे प्राप्तवद्भाति स्वकष्ठाभरणं यथा॥४३॥

स्थाणौ पुरुषवद्भ्रान्त्या कृता ब्रह्मणि जीवता।
जीवस्य तात्विके रूपे तस्मिन् दृष्टे निवर्त्तते॥४४॥

तत्त्वस्वरूपानुभवादुत्पन्नं ज्ञानमन्ञ्जमा।
अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत्॥४५॥

सभ्यम्विज्ञानवान्योगी स्वात्मन्येवाखिलञ्जगत्।
एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा॥४६॥

आत्मैवेदं जगत् सर्वमात्मनोऽन्वन् न किञ्चन।
मृदो यद्वत् घटादीनि स्वात्मानं सर्वमीक्षते॥४৩॥

जीवन्मुक्तिस्तु तद्विद्बान् पूर्वोपाधिगुणांस्त्यजेत्।
सच्चिदानन्दरूपत्वाद्भजेद्भ्रमरकीटवत्॥४८॥

तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान्।
योगी सर्व समायुक्त आत्मारामो विराजते॥४८॥

वाह्यानित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः।
घटस्थदीपवत् स्वच्छमन्तरेव प्रकाशते॥५०॥

उपाधिस्थोऽपि तदधर्मैर्निर्लिप्तोव्योमवन्मुनिः।
सर्वविन्मूढ़वत्तिष्ठेदसक्तो वायुवञ्चरेत्॥५१॥

उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः।
जले जलं वियद्व्योम्नितेजस्तेजसि वा यथा॥५२॥

यल्लाभान्नापरी लाभो यत् सुखान्नापरं सुखम्।
यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत्॥५ ३२॥

यद्दृष्टा नापरं दृश्यंयद्भूत्वा न पुनर्भवः।
तजज्ञात्वा ना परं ज्ञेयं तद्ब्रह्मेत्यवधारयेत्॥५४

तिर्यगूर्द्ध्वमधःपूर्णसच्चिदानन्दमद्वयम्।
अनन्तं नित्यमेकं यत् तत् ब्रह्मेत्यवधारयेत्॥५५॥

अतद्व्यावृत्तिरूपेण बेदान्तैर्लक्ष्यतेऽद्वयम्।
अखण्डानन्दमेकं यत् तद्ब्रह्मेत्यवधारयेत्॥५६॥

अखण्डानन्दरूपस्य तस्यानन्दलवाश्रिताः।
ब्रह्माद्यास्तारतम्येन भवन्त्यानन्दिनो लवाः॥५७॥

तद्युक्तमखिलं वस्तु व्यवहारस्तदन्वितः।
तस्मात् सर्व गतं ब्रह्म क्षीरे सर्पिरिवाखिले॥५८॥

अनण्वस्थुलमह्रस्वमदीर्घमजमव्ययम्।
अरूपगुणवर्णाख्यं तत् ब्रह्मेत्यवधारयेत्॥५६॥

यद्भासा भास्यतेऽर्कादिः भास्यैर्यत्तु न भास्यते।
येन सर्वमिदं भाति तद्ब्रह्मेत्यवधारयेत्॥६०॥

स्वयमन्तर्वहिर्व्याप्य भासयेन्निखिलं जगत्।
ब्रह्म प्रकाशते वह्निप्रतप्तायसपिण्डवत्॥६१॥

जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन् न किञ्चन।
ब्रह्मान्यद्भासते मिथ्या यथा मरुमरीचिका॥६३॥

दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न विद्यते।
तत्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्वयम्॥६२॥

सर्व्वगं सच्चिदात्मानं ज्ञानचक्षर्निरीक्ष्यते।
अज्ञानचक्षुर्नेक्षेत भास्वतम्भानुमन्धवत्॥६ ४॥

श्रवणादिभिरुद्दीप्तो ज्ञानाग्निपरितापितः।
जीवः सर्व्वमलान् मुक्तः स्वर्णवद्द्योतते स्वयम्॥६५॥

हृदाकाशोदितो ह्यात्मा बोधभानुस्तमोपहृत्।
सर्व्वव्यापी सर्व्वधारी भाति सर्व्वं प्रकाशते॥६६॥

दिग्देशकालाद्यनपेचसर्व्वगं
शीतादिहृन्नित्यमुखंनिरञ्जनम्।

यः स्वात्मतीर्थं भजते विनिष्क्रियः
स सर्ववित्सर्वगतोऽमृतो भवेत्॥६८॥

इतिश्रीमत्परमहंसपरिव्राजकार्य्यश्रीमत्पूङ्कराचार्य्यविरचितमात्मबोधप्रकरणं सम्पूर्णम्।

___________

भक्तचामरस्तोत्रम्।

कपर्दगौरजाह्नवीतरङ्गफेणचन्द्रिका
सरत्नभोगिकुण्डलोल सत् कपोल मण्डली।
सपातुखण्डितारितुण्डमण्डिताजिमण्डलः
मुरासुरेन्द्रवृन्दभाललोलमालभारिपात्॥१॥

समस्तभावभावना कलप्रदोवृषध्वजः
करीन्द्रचर्मचेलभृत् सदष्टभूतिमूर्तिमान्।
सपातुचित्रभोगिमुण्डमाल्यनीलकण्ठवान्
दिगम्बरोगिरीन्द्रजातपः फलप्रदोहरः॥२॥

मुकुन्दवद्विभासिदन्तमन्दिरारविन्दहा
मनन्दितामरेन्द्रवृन्दवन्दितोमहेश्वरः।
सपातु सेवके कृपां करोतु पार्वतीपतिः
वृषेन्द्र वाहनीविनीतमेघवाहनः प्रभुः॥३॥

सह्रासनन्दनादिभिविभाव्यमानधामवान्
प्रदोषताण्डवेनटन्मृदङ्गमङ्गलं ध्वनम्।

सपातु भक्तपालकः प्रभाकरोविभाकरः
प्रतिक्षणं विभावरीदिवासुखप्रदोहरः॥४॥

स्वभक्तभीभयङ्करः कुतश्चिदप्रमेयतः
शिवेतिमन्त्रमन्त्रणात् सतां विनिर्गतं भवम्।
सपातुलोचनत्रयोविभाषितो हरो विभुः।
सपातुभक्तचामरैः सुवीजितश्चचामरैः॥५॥

मुमुद्रिताग्निलोचनस्त्रिलोचनप्रवृद्वये
वनाय चामरार्चितोगिरीन्द्रकन्यकासजूः।
सपातुभोगिकङ्कणः सरीसृपाङ्गदः शिवो
विमुक्तकञ्चुकाहिसूत्रसत्कृतोपवीतवान्॥६॥

कपोलग्लापितप्रियो नमः शिवाय नरपतेऽ-
प्यनल्पकामदायकोऽप्यकिञ्चनो निरञ्जनः।
सपातुभुक्ति मुक्तिदो जगद्विलम्बिकीर्तनी
वसद्गिरीन्द्रकन्यया परार्थ साधने रतः॥७॥

गणेशकार्त्तिकेयसूनुपार्वतीप्रियम्बदो
गृहाश्रमं विडम्बयन्दिनेदिने सुयोगिराट।
सपातुशम्भुरार्ययावमद्विनीतभार्य्यया
निवेद्यमानमर्चनं क्षणं क्षणं नवं नयन्॥८॥

कृपांकुरालबालदृक्कटाक्षमार्गभासतो
विभर्तिभारतीश्वरः श्रियामपीश्वरः परः।
सपातु पार्वतीपतिर्हिरूढ़िरिष्यते बुधै-
र्द्विधाहरिर्हरः सदाप्रतीतिमात्रभेदतः॥८॥

मुनीन्द्रनारदादिवृन्दगीयमानकीर्तिमान्
गिरीन्द्रजापुरस्सरोऽस्परीभिरीड़ितः शिवः।
सपातु भूतभव्यकालिकालकालनापरः
परारिरूढ़नामवान्पुनाति वैपुनःपुनः॥१०॥

स्फुरत्क्षणप्रदामुखे विशुद्धचन्द्रतारके
मणिप्रदीपमन्दिरे नटएमनोगतं नयन्।
सपातुपालनापरोमहेश्वरच्चकीर्त्यते
विशेषतश्च निस्पृहः परार्थभूतिमूर्तिमान्॥११॥

कृपालुताहृदिस्थिताविभाविताचसुरभि-
र्यदक्षिकोणकेरुणेरसाम्भसेऽरुणप्रभाम्।
सपातुवैबिभतिथः प्रमोदतां महेश्वरः
कुटुम्बिर्नांञ्च पार्वतींगणेशनन्दनानुगाञ्॥१२॥

यदङ्घ्रिभस्मरेणुनाविधेऽस्तविश्वसृट्कथा
चतुर्मुखाञ्चतुर्भुजान्निजार्चनं विभावयन्।
सपातुपञ्चवक्त्रवान् सहस्रनेत्रपूजितः
पिपर्त्तियो जगत्त्रयं गुणत्रयातिमो हरः॥१३॥

सचन्दनाम्बुसीकरप्रकीर्णभक्तचामरैः
सुवीजितोक्षताम्बु माल्यविल्वपत्रकाञ्चनैः।
सपातु योऽर्चितो हरी हरत्यनल्पमंज्वर
यदर्चनाम्बुलोचने निषिक्त मध्यतामपि॥१.४॥

असद्गुहाश्चवीक्षितुं न शक्नुवन्ति किम्पनः
बिभेति वै परेतराड्यदङ्गभष्मधारणात्।

सपातुपार्वतीपितुः पितॄन् पिपर्ति नप्तृदः
सुपात्रपौत्रसम्पदाजगद्विभर्ति यच्च सः॥१५॥

बभुक्षते पिपासते चलुब्धकायविल्वको
परिह्यु पावसज्जनाय वैमृगेन्द्रभीतितः।
सपातु शम्भरंधिणात्रटत् सुविल्वपत्रतो-
ऽर्च्चनान्निजास्पदं ददौ निशामुमूत्रसेचनात्॥१६॥

मुनिःस्वनन्मृदङ्गमेघसंभ्रमित्ववाहने
निरूढ़नन्दनं निरीक्ष्यमोदमुस्मिताननाम्।
सपातुपार्वतीहरोगजास्वपुष्करं मुज-
न्नखेन्दुसम्पदाकरेणपातिनन्दनेक्षणाम्॥१७॥

सुरासुरैर्धरामरैर्धराधिपैःमुपार्श्वगैः
ध्वनन्मृदङ्गडिण्डिमादिधण्टयानिवेद्यते।
सपातुपार्वतीश्वरोतिदीनमीनकाकुवाक्
प्रपञ्चमञ्चतिप्रभुः शृणोतिसत्वरं चसः॥१८॥

सितेन्दुविम्बिताकृतिं निजांनिरीक्ष्यपार्वतीं
विशङ्कमानभामिनींपरस्त्रियं चकासतीम्।
सपातु मञ्जवाक्शतप्रयासहासवीक्षितैः
शुचिस्मिताचकारयीविशुद्धबोधदानतः॥१८॥

शिवस्य निन्दकोऽपि सन् शिवोभवन् पुरःसरन्
करे ग्रहीतुमुद्यतस्तपोवने च पावतीम्।
स पातु रुक्ष्यया गिरा तिरस्कृतोऽप्यधोमुखीं
ह्रिया नकिञ्चनोत्तरां प्रमोदपूरितान्तराम्॥२०॥

सदोन्नमःशिवाययोजपेत्त्रिवर्गसम्पदा
स युज्यते च भुज्यते भयैर्वियज्यते पुनः।
स पातु सत्प्रमोदमन्त्रमूतिरीश्वरो हरः
ददातिसद्यशोम्बरं सुगन्धिभोजनं किमु॥२१५॥

सुधांशुविम्बनामकपालमण्डलेजलैः
क्षणेनलाक्षणस्यविश्वमज्जयत्रसत्यकम्।
सपातुभातकौतुकीकरोति सत्यमेक्यदू-
गुणैर्निजैश्चकीत्तितैयथाकथञ्चिदर्चितः॥२२॥

सुपार्वतीतपःफलेनशम्भनास्मभूयते
प्रपद्यतेचपार्वतीनिजंतपोमहत् फलस्।
स पातु लोकमातरं जगत्पितापुरातनीं
पुरातनो बिभर्त्ति वै कृपावर्ती कृपाकरः॥२३॥

नवीदयारुणेन्दुविम्बवद्विभासिताननां
प्रभाकरप्रभातभापरिच्छदावृनाङ्गिनीम्।
सपातु पार्वतीं वहन्विवारूमण्डपे भ्रमन्
प्रदक्षिणेनसर्वतोहरो गिरीन्द्रसद्मनि॥२४॥

सुमृत्युजित्पतिब्रतासुपुत्रिणीसुमङ्गली
भवेतिसत्प्रणम्यमातृवर्गवाग्भिरादृताम्।
मपातु केकसद्मनिस्तुतोगिरीन्द्रजामुवा
हमेनकोर्वशीतिलोत्तमासखीजनैश्चताम्॥२५॥

अकर्मकोपिकर्मभिः स्मयोज्यते सखीजनैः
प्रहेलिकापरैरलं विलम्बितोक्षरैः क्षरैः।

सपातुकौतुकेगृहेष्यजर्यसङ्गतेप्सुभिः
शुचिस्मितैः शुचिस्मितः शुचिस्मितेश्वरीश्वरः॥२६॥

विघट्टनं सरावकस्यकोमलैकमुष्टिना
प्यकारिपार्वतीपतिः सखीजनैःकुतूहलात्।
सपातुकौतुकेगृहेगृहीतवामभागवान्
सुमेनकाद्रिराट्प्रभूतभूतिभूषितास्त्रिया॥२७॥

सदात्मनोपिनिन्दयो छूलत्क्षलोप्यपर्णया
विभावितो विभावरोशशेषरस्तपोव्रतैः।
सपातुयोनिरञ्जनोनवर्द्धतेनहीयते
प्रवर्ततेचसर्वतः समः समस्तदः शिवः॥२८॥

प्रियांप्रियः प्रियांप्रियो विभावितोविभावितो
विभाविताद्यदम्पतीस्वभावकौतुकीभवः।
सपातुकाश्यपीमृतामपत्यकन्ययावृतः
प्रभोः प्रभूततारकारिभाविपुलिया॥२८॥

गजास्य पुष्करामृतं पिबंश्च पञ्चभिर्मुखै-
रतुष्टिमाप्नुवन्हरः शुचिस्मितास्यवीक्षणः।
सपातुभूषणेन्दुगाकृतिं प्रमातुमीप्सया
विलोलवक्त्रपुष्करं गजाननं जहासयः॥३०॥

सहस्यवारिवासिनींविभजांचमध्यगां
शुचौप्रवर्षदम्बरांवभारभूमिभृत्सुताम्।
सपातुभाविभब्यभूतभूतिसत्यतापृधा
समर्त्तिरश्वरीश्वरोविहारकौतुकीभवः॥२१॥

सुरासुरातितापिभिःप्रमथ्यमन्दराद्रिणा
हृतेधनेब्बुधेःप्रकोपकालकूटजाद्भयात्।
सपातुगोपयांचकार नीलकण्ठभूषणः
सुरासुराद्रिद्रुतानिपीयकालकूटकम्॥२२॥

विचित्रभोगिरत्नवज्जटाविलम्बिजाह्नवी
तरङ्गमौलिवेष्टनोपरीन्दुसुन्दराकृतिः।
सपातुभूधरात्मजाहृतार्द्धवामभागवान्
सदुच्चकैःककुद्वृषेन्द्रवाहनोदयानिधिः॥२२॥

सभृङ्गशोणपद्मवद्विलोललोचनप्रभा
बलिप्तपाण्डुरोल्लसत्कपोललोलकुण्डली।
सपातुपार्वतीपतिर्महोत्सवे प्रमोदको
गजाननस्य जन्मनिप्रकामपूरकोहरः॥३४॥

भवायत्तेभवायतेऽगुणाय सद्गुणायते
कर्मण्येप्यकर्मणेपरोक्षवीक्षणायते।
नमोस्तुशम्भवे शिवप्रकामपूरणायते
प्रसीदतामहेश्वरी तपोवशीभवन्भवः॥३५॥

समक्रमैकपंक्तिकोछ्रयप्रकल्पकद्रुमे
फलप्रसूनगन्धवाहचुम्बिमञ्जरीवृते।
नमो वनेविहारिणो हरायहर्स्यवासिने
मरुत्वदादिदेववृन्दगीतकीर्त्तये नमः॥२६॥

मदुत्तमोनपातकी त्वदुत्तमो नपापहा
भुवःस्खलज्जनस्यवैक्षमैवसम्यगाश्रयः।

विधीयतां निजोचितं महेश्वरोसिसर्वदी
दयानिधेक्षमाश्वमेऽपराधमान्तरंवहिः॥२०॥

निषेव्यभक्तचामरैर्नियम्यकीर्तयन्तिये
हृदाभिवाद्यविश्ववन्दनीयपादपशवम्।
गणेशकार्त्तिकेयमातृवल्लभंतु मानसीं
व्यथां न जानु जानते नमस्तुतेऽस्तुशम्भवे॥३॥

स्वकीयविम्बिताकृतिं स्वकीयभालभूषणे
विलोक्यविभ्रमद्भुवौ विशङ्किनौशुचिस्मितौ।
प्रसीदतां शुचिस्मितास्यवीक्षणौमहेश्वरौ
नटाविवातिसुन्दरौ सुपर्वणां मनोहरौ॥३८॥४

सुखप्रकाशतो मथानुनीयतेन मत्कृतौ
नन्दीश्वरौनमुक्ततां गतौनमस्करोमितौ।

अभिन्नचित्सुरूपिणोवपुर्भवेन कर्हिचित्
न मेघकक्षमस्वमेपराधमीसभाविनम्॥४०॥

अविघ्नतादिकारणैकदन्तविष्णुमूर्त्तिमा
सुतेन तारकारिणाविनीतभार्ययार्यया।
गृहाश्रमीवयोगतारतस्यमृत्यु जित्तमो
नुकम्पतो प्रसीदतान्नमोऽस्तु शङ्करायते॥४९॥

क्षमासुमूर्तिरोशते भवन्नचेद्दिवौकसो
नहिस्थिरत्वमाप्नयुस्तदेतरस्य का कथा।
मरीचिमञ्जरीवृतायचन्द्रमूर्त्तये नमः
प्रभाकराय ते नमोनिशादिवातमोनुदे॥१२॥

तवैवतोयमूर्त्तितो जगत्त्रयस्त जीवनं
तवैवायुमूर्त्तितो जगत्त्रयस्य चालनम्।
तवैववह्निम्र्त्तितो जगत्त्रयस्य जाङ्यता
विलीयते गिरीश ते नमो नमो नमोऽस्तुते॥४३॥

त्वथैवयज्ञकारिणाम्बुदोऽपि जीवनप्रदः
सजन्यतेभिवर्षतिक्षमांतुषारविन्दुभिः।
ततो हि जीवजातयः समुद्भवन्ति चान्नभृत्
चकासतेप्रशरन्नमोऽस्तुशम्भवे दयालवे॥४४॥

वियत्सु मूर्तिरीशतेचवर्ण्यते न केनचित्
चराचरं जगच्च यत्र कल्प्यते स्वयम्भुवा।
समुल्लसन्ति यद्गुणामुखेमुखेशरीरिणां
श्रुतिप्रमाणती मया विकल्प्यतेनकल्पना॥४५॥

प्रभासते क्वचिच्च यः क्वचिच्च न प्रभासते
सुचक्षुषामपि प्रभाति कस्यचिद्विशेषतः।
महीश्वरश्चराचरे जगत्यजश्रमेकधा-
प्यनेकधान्तरं वहिः प्रमोदतां हृदम्बुजे॥४६॥

किमीहसेकिमोहसेनुजल्पतीवशङ्करो
दरिद्रताभियां भयं समोहसे समीहसे।
कृपालुतार्द्रपार्वतीवशम्बदोनुगम्यते
पराधिभिः पराधिभिः प्रसीदतान्नमोऽस्तुते॥४७॥

इति श्रीशाकद्वीपीय नियमधरमिश्रविरचितं भक्तचामरस्तोत्रं सम्पूर्णम्

रावणकृतशिवताण्डवः।

<MISSING_FIG href="../books_images/U-IMG-1729406091Screenshot(101"/>.png)

जटाकटाहसंभ्रमभ्रमन्निलिम्पनिर्झरी
विलोलवीचिवल्लरीविराजमानमूर्द्धनि।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम॥१॥

धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर-
स्फुरद्दृगन्तसन्ततिप्रमोदमानमानसे।
कृपाकटाक्षधोरणीनिरुद्धदुर्द्धरापदि
क्वचिद्दिगम्बरेमनो विनोदमस्तु वस्तुनि॥२॥

जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे।
मदान्धसिन्धरासुरत्वगुत्तरीयमेदुरे
मनोविनोदमद्भुतं बिभर्तुभूतभर्तरि॥३॥

ललाटचत्वरज्वलद्धनञ्जयस्फलिङ्गया
निपीतपञ्चसायकं नमन्निलिम्पनायकम्।
सुधामय्खरेखयाविराजमानशेखरं
महः कपालिसम्पदेसरिज्जटालमस्तुनः॥४॥

महस्रलोचनप्रभृत्यशेषलेखशेखर
प्रसूनष्टलिधोरणी विधूसरांघ्रिपीठभूः।
भजङ्गराजमालयानिबद्धजाटजूटकः
श्रियेचिरायजायतां चकोरबन्धशेखरः॥५॥

करालभालपट्टिकाधगद्वगद्धगज्ज्वल
द्धनञ्जयादुरीकृतप्रचण्डपञ्चसायके।
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रके
प्रकल्पनैकशिल्पिनित्रिलोचनेरतिर्मम॥६॥

नवीनमेघमण्डलीनिरुद्धदुर्द्धरस्फुरत्
कुहूनिशीथिनीतमप्रबद्धबन्धकन्धरः।
निलिम्पनिर्झरीधरस्तनोतुकृत्तिसुन्दरः
कलानिधानबन्धुरः श्रियंजगद्धुरन्धरः॥७॥

प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा
विलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम्।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदान्धकच्छिदं तमन्तकच्छिदम्भजे॥८॥

अखर्वसर्वमङ्गलाकलाकदम्बमञ्जरी
वरत्प्रवाहमाधरीविजृम्भणामधुव्रतम्।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकम्भजे॥

जयत्पदभ्रविभ्रमद्भुजङ्गमश्वसद्दिनि-
र्गमक्रमस्फरत्करालभालहव्यवाट्ज्वलन्।
धिमिं धिमिंधिमिध्वनन्मृदङ्गतुङ्गमङ्गल-
ध्वनिक्रमप्रवर्त्तितप्रचण्डताण्डवः शिवः॥१०॥

दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजो-
र्गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः।
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः

समप्रवृत्तिकः कदा सदाशिवं भजाम्यहम्॥११॥

कदानिलिम्पनिर्झरीनिकुञ्जकोटरे वसन्
विमुक्तदुर्मतिः सदाशिरस्वमञ्जलिं वहन्।
विलोललोललोचनललामभाललग्रकं
शिवेतिमन्त्रमुच्चरन् सदासुखीभवाम्यहम्॥१२॥

निलिम्पनाथनागरीकदम्बमौलिमहिका
निगुम्फनिर्भरक्षरनाधूष्ठिकामनोहरम्।
तनोतु नोमनोमुदंविनोदनीमहर्निशं
परश्रियः परंपदन्तदङ्गजत्विषांचयः॥१३॥

प्रचण्डवाड़वानलप्रभाशुभप्रचारणे
महाष्टसिद्धिकामिनीजनावदूतजल्पना।
विभक्तवामलोचनाविवाहकालिकध्वनिः
शिवेतिमन्त्रभूषणाजगज्जयायजायताम्॥१ ४॥

नमामि पार्वतीपतिं नमामि जान्हवीपतिं
नमामि भक्तवत्सलं नमामि रक्तलोचनम्।
नमामि चन्द्रशेखरं नमामि दुःखमोचनं
त्वदीयपादपङ्कजं स्मराम्यहं महेश्वरम्॥१५॥

रावणे न कृतं स्तोत्रं यः पठेत् शिवसन्निधौ।
पुत्रपौत्रादिकं सौख्यं लभते मोक्षमेवच॥१६॥

इति दशवदनकृतः शिवताण्डवः सम्पूर्णः।

** कृष्णताण्डवस्त्रोत्रम्।**

<MISSING_FIG href="../books_images/U-IMG-1729355046Screenshot(64"/>.png)

भजेव्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम्।
सुपिच्छगुच्छ मस्तकं सुनादवेणुहस्तकं
अनङ्गरङ्गसागरं नमामि कृष्णनामरम्॥१॥

मनोजगर्वमोचनं विशालभाललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम्।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णवारणम्॥२॥

कदम्बवनुकुण्डलं सुचरुगण्डमण्डलं
ब्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम्।
यशोदया समोदया सकोपया दयानिधिः
उलूखलेसुदुःसहं नमामि नन्दशम्बहम्॥२॥

नवीनगोपनागरं नवीनकेलिमन्दिरं
नवीनमेघसुन्दरं भजे व्रजैकमन्दिरम्।
सदैव पादपङ्कजं मदीयमानसे निजं
दधाति नन्दबालकः समस्तभक्तपालकः॥४॥

समस्तगोपनागरोहृदं ब्रजैकमोहनं
नमामि कुञ्जमध्यगं प्रसूनभालशोभिनम्।

दृगन्तकान्तरिङ्गणं सहासाबलसङ्गिनं
दिने दिने नवं नवं नमामि नन्दसम्भवम्॥५॥

गुणाकरं सुखाकरं कृपाकरं कृपानरं
त्वरासुखैकदायकं नमामि गोपनायकम् ।
समस्तदोषशोषणंसमस्तलोकतोषणं
समस्तदासमानसं नमामि कृष्णलालसम्॥६॥

समस्तगोपनागरीनिकामकामदायकं
हगन्तचारुसायकं नमामि वेणुनायकम्।
भवो भवावतारकं भवान्धिकर्णधारकं
यशोमतेः किशोरकं नमामि दुग्धचीरकम्॥७॥

विदग्धमुग्धगोपिकामनोमनोजदायकं
नमामि मुञ्जकानने प्रवृद्धवह्निपायिनम् ।
यदा तदा यथा तथा तथैव कृष्ण सत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम्॥८॥

इति श्रोकृष्णताण्डवस्तोत्रं सम्पूर्णम्।

_____________

राक्षसकाव्यम्।

**कश्चिद्वनं बहुवनं विचरन् वयस्थो
वश्यां वनात्मवदनां वनितां वनार्द्राम्।
तर्वर्यरि प्रदमुदीक्ष्यसमुत्थितं खे
नागामिमां मदकलः सकलां बभाषे॥१॥

་**

पश्याजहग् गिरितटेष कुमारतृसाहान्
भूदेवराजरिपुशत्रुसमावधूतान्।
वैश्वानरारिजरिपुघ्नन्नराभिभूतैः
दृक्श्रीभिरुपासितपुष्पशोभान्॥२॥

पश्याद्रिसारसदृशिभिरमूभिरद्भि-
राप्लावयत्यमरगुप्धरिणीं महिनः।
अब्दः सिताभिरसितःसवलः खगाभि
र्वार्जैःसितैरिव विभाति वनं प्रबुद्धैः॥३॥

गोष्ठं घृतं सुघृतवाङ्भिरमूभिरम्यं
गोभिः समुद्धरति यद्वह धाहिमघ्नः।
तद्गव्यमम्बरगतं शिखिजात्मसंस्थं
विस्पन्दमानमभिक्यतोहगोजान्॥४॥

अब्रूट्पलाशनिभदृग्घनजात्मवक्रात्वा
वार्च्चरूरेभनिमगागदोःसमोरूः।
सीरिध्वजप्रसक्तुल्यविषाङ्कदासौ
न्नाशं गताप्रमुदिताप्रसमीक्ष्यवार्दम्॥५॥

गोमध्यमध्ये मृगगीधरेहे सहस्रगोभूषणकिङ्कराणान्।
नादेन गोभ्रत्शिखरे प्रमत्ता नृत्यन्ति गोकर्णशरीरभक्ष्याः॥६॥

सूर्य्यांशुनामपतिरुन्नतदृप्तगामी
वाग्नामभिः परिवृतो विषनामदाभिः।
उष्णां वरप्रमुदितः प्रतिनानदीति
गर्जन्तमीक्षणसहितोच्चयतुल्परूपम्॥७॥

एनं पयोदप्रतिरुन्नमितः पयोरं
स्वस्थंमहोतलगतप्रतिगर्जतीव।
भित्त्वावनींवनयहाक्षिशिरोरुहाभ्यां
संप्रस्थितोमृतधरैरभिषिच्यमानः॥८॥

स्त्रोतोजविक्षतजभूधरधातुरूपाः
स्वस्थाः पयोजलबदृक् शुचिशुक्रमासे।
मासोर्न भस्य नभसो रतिसंक्षरन्तः
तीव्रं विषं विषधराः परिनिर्वपन्ति॥९॥

स्वयोनिभक्षध्वजसम्भवानां श्रुत्वा निनादं गिरिगहरण्यः।
तमोरिविम्बप्रतिविम्बधारी विरौति कान्तेपवनाशनाशः॥१॥

गोष्ठश्च कुङ्कमवपुः प्रतिराजतेऽसौ
सप्ताद्रिदैत्यभुजगोत्तमशनगोपः।
उर्वीधराभमचिरीत्वितमध्वरं खे
दृष्ट्वाहिहाप्रमुदितोहि महाहयानः॥११॥

कृष्णाव्धरः क्षरति तोयम सावजस्त्र-
मल्पाविभौ रणगताविव चेभराजौ।
अन्येतु ते द्विरदवृन्दनिभाः क्षरन्तः
प्रच्छादयन्त्यमरवृन्दविमानमार्गम्॥१२॥

बार्दाः खगाः क्षितिधरागमनप्रकाशा
नेमीभरासभतुरङ्गमतुल्यघोषाः।
वाय्वीरिताः खमवस्य वनं चरन्तो
बार्भिः क्षितिं घृतधराः परिनिर्वन्तिं॥१२॥

एषोंघ्रिपाश न रिपुधसुतारिसाह
मारुह्य तिष्ठति सुगात्रि भुजङ्गमारिः।
यस्य स्वरैः प्रमुदितस्य ममाद्य बाले
तालध्वजावरजसूनुशराः पतन्ति॥१४॥

उस्रा विषं स्थलगतोसितथैव वार्भ्यो
वार्जीद्विजोहरिदृगेष दशार्द्धगृढ़ः।
वाताशनः स्वशयनः स्मरति स्थलस्य
चच्क्षुःश्रवा वनभयात् सुरशत्रुनामा ॥१५॥

यक्ष्यश्वमेधतुरगप्रतिमोष्ठवर्णी
वार्दंनवर्षतिसमाहयतेह्यहिघ्नः।
भेकस्तथैवपवनाशनवेद्यत्राणिः
शब्दंकरोत्यपि भृशं विषराशिमग्नः॥१६॥

नाविष्किरावणमुपेत्य कुमामाहू-
माक्रीड़ते मधुकलोङ्गनया समेतः।
अन्यस्त्वयं मणिवराभमुपेत्य गोजं
नारामया महपयःपतिजां वृणीते॥१७॥

स्थूलं महत् क्षतजवर्णनिभं नरोऽसौ
बिभ्रत्यमूनि च भिनत्ति सरोरुहाणि।
तज्जेन चापि रजसा वनितां वयस्थो
अभ्य द्धरत्यवकिरत्यभिषिच्यमानः॥१८॥

पङ्के निमग्नमिभवृन्दमदः सवारि
गर्जत्तिमिक्षयदवृन्दमिवावभाति।

वार्य्यात्मनामशतचित्तनुःसुपर्णो
योषितद्वृतःसमदनः प्रतिरौरवीति ॥१८॥

विस्फारिताम्बुजरवेण निरंसुरेष
संत्रासितोहरिनोकहनिष्कुटस्थः।
संलीयते तडितमप्यभिवीक्ष्यविद्मः
खात् संमहन्तरमसौ खमनुप्रविष्टः॥२०॥

एतावदुत्तमवचः सुमनाः म उक्त्वा
रन्त्वादिनं सह तया प्रियया ह्यदीनः।
युक्तं चतुभिरनडुद्भिरदीनवाडूभि-
रारुह्मयानमथनाप्रययौ स्वर्गहम्॥२१॥

इति राक्षसकायंसम्पूर्णम्।

<MISSING_FIG href="../books_images/U-IMG-1729399382Screenshot(102"/>.png)

सप्तश्लोको भागवतम्।

ज्ञानं परमगुह्यंमे यद्विज्ञानसमन्वितम्।
सरहस्यं तदङ्गञ्चगृहाण गदितं मया॥१॥

यावानहं यथाभावो यद्रूपगुणकम्मकः।
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात्॥२॥

अहमेवासमेवाग्रे नान्यद्यत् सदसत्परम्।
पश्चादहं तदेतच्चयोऽवशिष्यतसोऽस्म्यहम्॥२॥

मृतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि।

तद्विद्यादात्मनो मायां यथाभासो यथातमः॥४॥

यथा महान्ति भूतानि भूतेषुच्चावचष्वनु।
प्रविष्टान्यप्रविष्टानि तथातेषु नतेष्वहम्॥५॥

एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः।
अन्वयव्यतिरेकाभ्यां यत् स्यात्सर्वत्र सर्वदा॥६॥

एतन्मतं ममातिष्ठ परमेण समाधिना।
भवात् कल्पविकल्पेषु न विमुह्यति कर्हिचित्॥७॥

इति श्रीश्लोकसप्तको श्रीभागवतं समाप्तम्।

____________

एकश्लोकी भागवतम्।

आदौ देवकिदेवगर्भजननं गोपीगृहे वर्द्धनं
मायापूतनजीबितापहरणं गोवर्द्धनोद्धारणम्।
कंसच्छेदनकौरवादिहननं कुन्तीसुतापालनं
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम्।

इति एक्लोकी भागवतम्।

__________

एकश्लोकी रामायणम् !

आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनं
वैदेहीहरणं जटायमरणं सुग्रीवसम्भाषणम्।

वालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं
पश्चाद्रावणकुम्भकर्णहननम् एतद्धि रामायणम्॥

इति एकश्लोकी रामायणम्।

** ______________**

** एकश्लोकी भारतम्।**

आदौ पाण्डवधार्त्तराष्ट्रजननं लाक्षागृहे दाहनं
द्युतश्रीहरणं वने व्यतरणं मत्स्यास्येवर्द्धनम्।
लीलागोग्रहणं रणेव्यतरण संध्यक्रियावर्द्धनं
पश्चाद्भीम्मककौरवादिहननञ्चैतन्महाभारतम्॥

इति एकश्लोकी भारतम्।

_______________

** विष्णुस्तवः।**

श्रीकृष्ण विष्णो मधुकैटभारे भक्त्यानुकम्पन् भगवन्मुरारे।
त्रायस्व मां केशव लोकनाथ गोविन्द दामोदर माधवेति॥१॥

मंसारकूपे पतितो ह्मगाधे मोहान्धपूर्णे विषयातितप्ते।
करावलम्बं मम देहि विष्णो गोविन्द दामोदर माधवेति॥२॥

जिह्नेसदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि।
समस्तभक्तार्तिविनाशनानि गोविन्द दामोदर माधवेति॥३॥

इति श्रीकृष्णानन्द व्यासदेवरागसागरोद्भवस्तोत्रादि परमाथस्तोत्रादि
संग्रहकृतं समाप्तम्।

रसमञ्जरी।

आत्मीयं चरणं दधाति पुरतो निन्नोन्नतायां भुवि
स्वीयेनैव करेण कर्षति तरोः पुष्पं श्रमाशङ्कया।
तल्पे किस करित्वचा विरचिते निद्रातिभागैर्निजै-
रन्तःप्रेमभरालसां प्रियतमामङ्गेदधानो हरः॥१॥

विद्बज्जनमनोमृङ्ग-रसव्यासङ्गहेतवे।
एषा प्रकाश्यते श्रीमद्भानुना रसमञ्जरी॥२॥

तत्र रसेषु शृङ्गारस्याभ्यर्हितत्वेन तदालम्बनविभावत्वेन नायिका तावन्निरूप्यते। सा च विधा स्वीया परकीया सामान्यवनिता चेति। यत्रस्वामिन्येवानुरक्ता स्वीया न च परिणीतायां परगामिन्यामतिव्याप्तिस्तत्रपतिव्रताया एव लक्ष्यत्वात्। तस्याः परगामितया परकीयात्वमपि सम्भवति। अस्याश्चेष्टा भर्तुः शुश्रूषा शीलसंरक्षणम् आर्जवं क्षमा च। यथा

गतागतकुतूहलं नयनयोरपाङ्गावधि
स्मितं कुलनतभ्रुषामधर एव विश्राम्यति।
वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः
कदाचिदपि चेत्तदा मनसि केवलं मज्जति॥३॥

स्वीया त्रिविधा मुग्धा मध्यमा प्रगल्भा च। तत्राङ्कुरितयौवना मुग्धा। सा चाज्ञातयौवना ज्ञातयौवना च। सैव क्रमशो लज्जाभयपराधीनरतिर्नबोढ़ा। सैव क्रमशः

रूप्रश्रयाविश्रब्धनवोढ़ा। तस्वाश्चेष्टा क्रिया मनोहरा कोपे मार्द्दवं नवभूषणे समीहा चेति।

मुग्धा यथा।

आज्ञप्तं किल कामदेवधरणीपालेन काले शुभे
वस्तुं वास्तुविधिं विधास्यति तनौ तारण्यमेनीदृशः।
दृष्ट्याखञ्जनचातुरी मुखरुचा सौधाकरी माधुरी
बाचा किञ्च सुधासमुद्र लहरीलावण्यमा मन्त्र्यते॥४॥

उरो भवि न तुङ्गिमा न च गतागते भङ्गिमा
नवा वचसि रङ्गिमा कुटिलता न तावद्भ्रुवोः।
तथापि हरिणीदृशां वपुषि कापि कान्तिच्छटा
पटावृतमहामणिद्युतिरिवान्तरा लक्ष्यते॥
बाल्ययौवनयोर्मध्ये द्वैराज्येकुसुमायुधः।
बारं वारं धनुर्द्धत्ते वारं वारं विमुञ्चति।
चलदचलदपाङ्कं स्मेरम स्मेरमास्यं
गतिरहह किमस्या मन्थरामन्थरा च।
इति मनसि नितान्तं चिन्तयन् पञ्चबाणः
करविनिहितबाणः संभ्रमाद्बभ्रमीति॥

अज्ञातयौवना यथा।

नीरात्तीरमुपागता श्रवणयोः सीम्निस्फुरन्नेत्रयोः
श्रोत्रे लग्नमिदं किमुत्पलमिति ज्ञातुं करं न्यस्यति।
शैवालाङ्कुरशङ्कया शशिमुखी रोमावलीं प्रोञ्छति
श्रान्तास्मीति मुहूःसखीमविदितश्रीणीभरापृच्छति॥५

ज्ञातयौवना यथा।

स्वयम्भुः शम्भुरम्भोजलोचने त्वत्पयोधरः।
नखेन कस्य धन्यस्य चन्द्रचड़ो भविष्यति॥६॥

तन्वी बाला मृदुतमुरियं त्यज्यतामत्र शङ्का
काचिद्दृष्टा भ्रमरभरतो मञ्जरी भिद्यमाना।
तस्मादेषा रहसि भवता निदयं पीड़नीया
मन्दाक्रान्ता वितरति रसं नेनुयष्टिः समग्रम्॥१॥

नवोढ़ा यथा।

हस्ते धृतापि शयने विनिवेशितापि
कोड़े कृतापि यतते वहिरेव गन्तुम्।
जानीमहे नवबधूरथ तस्य वश्या
यः पारदं स्थिरयितुं क्षमते करेण॥७॥

बलान्नीता पार्श्वं सुखमभिमुखं नैव कुरुते
धनानामूर्द्धानं रहसि बहूशश्चुम्वनविधौ।
हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना
नवोढ़ा वीढ़ारं रमयति च सन्तापयति च॥८॥

विश्रब्धनवोढ़ा यथा।

दरमुकुलितनेत्र पालिनो सा नियमित बाहुकृतोरुयुग्मबन्धम्।
वारकलितपयोधरं नवाढास्वपिति समीपमुपेत्य कस्य यूनः॥९॥

समानलज्जामदनामध्या॥
एषैव चातिप्रश्रयादतिविश्रब्धनवोढ़ा।

अतिविश्रब्धनवोढ़ा यथा।

प्रेङ्क्षणप्रेक्षणालापान् कुर्ब्वत्त्यःसस्मितजपम्।
नवीनायाः प्रवीणायाः स्वञ्जनं स्मररञ्जनम्॥१०॥

अस्याश्चेष्टा श्वागसि प्रेयसिधैर्य्येवक्रोक्तिःअधैर्य्यपरुषबाक्यथा

स्वापे प्रियाननविलोकनहानिरेव
स्वापच्युतौ प्रियकरग्रहणप्रसङ्गः।
इत्थंसरोरुहमुखी परिचिन्तयन्ती
स्वापं विधातुमपि हातुमपि प्रपेदे॥१९॥

पतिमात्रविषयकेलिकलापकोविदा प्रगल्भा।
वेश्यायाञ्चपतिमात्रविषयकत्वाभावान्नातिव्याप्तिः॥
अस्वाश्चेष्टा रतिप्रीतिः आनन्दात् सम्मोहः।

प्रथमं यथा।

संस्पृश्य स्तनमाकलष्यवदनं संश्लिष्य कण्ठस्थलं
निष्पीड्याधरविम्बमम्बरमपाकृष्य व्युदस्यालकम्।
देवस्याजिनीपतेः समुदयं जिज्ञासमाने प्रिये
वामाक्षीवसनाञ्चलैः श्रवणयीर्नीलोत्पलं निह्नुते॥१२॥

द्वितीयं यथा।

नखक्षतमुरस्थलेऽधरदले रदस्य क्षतं
च्युता वकुलमालिका विगलिता च मुत्क्यावली।
रतान्तसमये मया सकलमेतदालोकितं
स्मृतिःक्वच रतिः क्वच क्वच तवालि शिक्षाविधिः॥१३

मध्याप्रगल्भे मानावस्थायां प्रत्येकं त्रिविधे धीरा अधीरा धीराधीरा च।

व्यङ्गकोपप्रकाशिका धीरा। अव्यङ्गकोपप्रकाशिका अधीरा। व्यङ्गाव्यङ्गकोपप्रकाशिका धीराधीरा।इयन्त विशेषः।

मध्याधीरायाः कोपस्य गीर्व्यञ्जिका।अधीरायाः परुषबाक्। धीराधीरायास्तु वचनरुदिते कोपप्रकाशके।

प्रौढ़ाधीरायास्तु रत्यौदास्यम्। अधीरायास्तु तर्जनताडनादिः। धीराधीरायास्तु रत्यौदास्यं तर्जनताड़नादि च कोपस्य प्रकाशकमिति।

यत्तु धौराभेदः स्वीयायामेव न तु परकीयायामिति प्राचीनलिखनम् तदाज्ञामात्रं धीरत्वमधीरत्वं तदुभयं वा माननियतं, परकीयाया अपि मानश्चेत्तासामप्यावश्यकत्वम्। मानश्च स्वीयायामेव न तु परकीयाया इति वक्तुंन शक्यते।

मध्याधीरा यथा।

लोलालिपुञ्जब्रजतोनिकुञ्जे
स्फारा बभूवुः श्रमवारिधाराः।
देहे समीहेभवतो विधातुं
धीरं समीरं नलिनीदलेन॥१४॥

मध्यमा अधीरा दथा।

जातस्तेनिशिजागरो मम पुनर्नेचाम्बुजेश्वेत्रिमा

निष्पीतं भवता मधु प्रवितं व्याधूणितं मे मनः।
भ्राम्यद्भृङ्गगणे निकुञ्जभवने लब्धंत्वया श्रीफलं
पञ्चेषुः पुनरेव मां हुतवहक्रुरैः शरैः कृन्तति॥१५॥

मध्याधीराधीरा यथा॥

कान्तानुरागचतुरोऽसि मनोहरोऽसि
नाथोऽसि किञ्च नवयौवनभूषितोऽसि।
इत्यंनिगद्य सुदृशा वदने प्रियस्य
निश्वस्वबास्पलुलिता निहिता दृगन्ताः॥१६॥

प्रगल्भाधीरा यथा॥

नो तल्पं भजसे न जल्पसि सुधाधारानुकारा गिरो
दृक्पातं कुरुषे नवा परिजनक्रोधप्रकाशच्छलात्।
इत्थंकेतकगभगौरिदयिते कोपस्य सङ्गोपनं
ते स्यादेव न चेत् पुनः सहचरी कुर्व्वीत साचिस्मितम्॥१७

प्रगल्भाधीरा यथा

प्रतिफलमवलोक्य स्वीयमिन्दोः कलायां
हरशिरसिपरस्यावासमाशङ्कमाना।
गिरिशमचलकन्या तर्जयामास कम्प-
प्रचलवलयवल्गगत्कान्तिभाजा करेण॥१८॥

प्रगल्भाधीराधीरा यथा।

तल्पोपान्तमुपेयुषिप्रियतमे वक्रीकृतग्रीवया
काकुव्याकुलवाचि साचिहसितस्फुर्य्यत्कपोलश्रिया।

हस्तन्यस्तकरे पुनर्मृगदृशालाक्षारसक्षालित -
प्रोडोपृहमयूस्वमांसलरूचो विस्फारिता दृष्टयः॥१८॥

धीरादि त्रय एते द्विधा। ज्येष्ठाकनिष्ठा च। अधीरा ज्येष्ठाकनिष्ठाच। धीराधीरा ज्येष्ठाकनिष्ठा च। परिसीतात्वेसति भर्त्तरधिकस्नेहा ज्येष्ठा।परिणीतात्वे सतिभर्तुर्न्यूनस्नेहा कनिष्ठा।अधिकस्नेहास न्यूनस्नेहासु सामान्यवनितासु नातिव्याप्तिः। परिणीतपादेन व्याव्वर्त्तनात् नापि परकीयायां भर्तृपदव्यावृत्तेः।

धीरा ज्येष्ठाकनिष्ठा यथा।

एकस्मिन् शयने सरोरुदृशोर्विज्ञाथ निद्रार्त्तथौ-
रेकां पल्ववितावगुण्ठनवतिमुत्कन्धरो दृष्टवान्।
अन्यस्याः सविधं समेत्य निभृतं व्यालीलहस्ताङ्कुलि-
र्व्यापारैर्वसनाञ्चलं चपलयन् स्वापच्युतिं क्लृप्तवान्॥२०॥

अधीराज्येष्ठाकनिष्ठा यथा।

अतःकोपकषाथिते प्रियतमे पशुन्घने कानने
पुष्पस्यावच्यायनम्रवदनामेकां समायोजयन्।

अर्द्धोन्मिलितलोचनाञ्चलचमत्कारभिरामाननां
स्मेराभाधरल्लवांनवबधूमन्यां समालिङ्गति॥ २१॥

धीराधीरा ज्येष्ठाकनिष्ठा यथा।

धैर्य्याधैर्य्यपरिग्रहग्रहिनयोरेनीदृशःप्रीतये
रत्नद्वन्द्वमनन्तकान्तिरुचिरं मुष्टिद्वयेन्यस्तवान्।

एकस्याः कलनयन् करे प्रथमतो रत्नं परस्याः प्रियो
हस्ताहस्तिमिषात् स्पृशन् कुचतटीमानन्दमाविन्दति॥२२

अप्रकटितपरपुरुषानुरागा परकीया। सा च द्विविधा परोढाकन्यका चेति। कन्यायाः पिचाद्यधीनत्वात् परकीया अस्या गुप्ता एव सर्व्वा चेष्टा।

परोढ़ा यथा।

अयं रेवाकुञ्जःकुसुमशरसेवासमुचितः
समीरोऽयं वेलादरविदलदेलापरिमलः।
इयं प्राविट् धन्या नवजलविन्यासरुचिरा
पराधीनं चेतः सखि किमपि कर्तुं मृगयते॥२३॥

गुप्ताविदग्धालक्षिताकुलटानुशयानामुदिताप्रभृतीनां परकीयायामेवान्तर्भावः।

गुप्ता त्रिविधावृत्तसुरतगोपना वर्त्तिय्यमाणसुरतगोपना वर्त्तमानसुरतगोपना च इति।

चितयमपि यथा।

श्मश्रुःक्रुध्यतु निर्दिशन्तु सुहृदो निन्दन्तु वा यांतर-
स्तस्मिम्नद्यन मन्दिरे सखि पुनः स्वापोविधेयो मया।
आखीराक्रमणाय कोणकुहरादुत्कालमातन्वती
मार्जारीनखरैः खरैः कृतवती कां कां न मे दुर्दशाम्॥२४॥

वाग्विदग्धा यथा।

निविडतमतमालमल्लिबल्ली-
विचकिलराजिविराजितोपकण्ठे।

पथिक समुचितवाद्यतीव्रे
सवितरि तत्र सरित्तटे निवासः॥२४॥

विदग्धा द्विविधा। वाम्बिदग्धा, क्रियाविदग्धा।

क्रियाविदग्धा यथा।

दासाय भवननाथे वदरीमपनेतुमादिशति।
हेमन्ते हरिणाक्षी पयसि कुठारं विनिःक्षिपति॥२६॥

रूक्षिता यथा।

यदभूतं तदभूतं यदभूयात्तदपि वा भूयात्।
यद्भवति तद्भवतु वा विफलस्तव कोपगीपनोपायः॥२६॥

कुलटा यथा।

एते वारिङ्कणान् किरन्ति पुरुषान् वर्षन्ति नाम्भोधराः
शैलाः साद्वलमुद्वहन्ति न सृज्यन्तेऽते पुनर्नायकान्।
त्रैलोक्येतरवः फलानि सुबते नैवारभन्ते जनान्
धातः कातरमालयामि कुल्टाहतोस्त्वया किं कृतम्॥२७

ब्रह्मैवसर्व्वमितरं न हि वस्तु किञ्चित्
जारे यथा गृहपतौ च रुचिस्तथा मे।
तस्मादहो न हि परापरभेदबुद्धिः
मूढाः किमर्थमस्तीति कदर्थयन्ति॥

पृथ्वी तावत्त्रिकोणा विपुलनदनदीग्रावरुद्धं तदर्द्धं
तत्राप्यर्द्धयुवत्यः शिशुगतवयसो रोगिणोयोगिंनश्च।
त्यज्यास्तत्रापि मान्याः श्वशुरपितृमुखाः सन्ति शेषाः कियन्तां
मिथ्यावादो ममायं सुखरमुखरवः पुंश्चली पुंश्चलीति॥

ग्रन्थान्तरे अनुशयाना यथा। वृत्तस्थानविघटनेन भाविस्थानाभावशङ्कया स्वानधिष्ठितशङ्केतस्थाने भर्तुर्गमनानुमानेन चानुशयाना भवति। प्रत्येकमुदाहरणानि। प्रथमं यथा।—

समुपागतवति चैत्रे निपतति पत्रे लवङ्गस्वतिकायाः।
सुदृशः कपोलपाली शिव शिव तालीद्यतिं धत्ते॥२८॥

निद्रालुकेकिमिथुनानि कपोतपीत-
व्याधूतनूतनमहीरुहपल्लवानि।
तत्रापि तन्विन वनानि कियन्ति सन्ति
खेद्यप्त्वनप्रियतमस्य गृहं प्रयाति॥२९॥

कर्णकल्पितरसालमञ्जरी पिञ्चरीकृतकपोलमण्डलः।
निष्पतन्नयनवारिधारया राधया मधुरिपुर्निरीक्ष्यते॥

मुदिता यथा।

गोष्ठेषु तिष्ठति पतिर्वधिरो न नन्दो
नेत्रद्वयस्य न च पाटवमस्ति यातुः।
इत्थंनिगद्य तरुणी कुचकुम्भसीम्नि
रोमाञ्चकञ्चुकमुदञ्चितमाततान॥७०॥

कन्यका यथा।

किञ्चित् कुञ्चितहारयष्टिशरलभ्रूवल्लिसाचिस्मितं
प्रान्तभ्रान्तविलोचनद्युति-भुजा पर्य्यन्तकर्णोत्पलम् \।
अङ्गुल्याङ्कुरदद्धुलीयकरुचांगण्डस्य कण्डूयनं
कुर्व्वाणा नृपकन्यका सुकृतिनं सव्याजमालोकते॥२१॥

वित्तमात्रोपाधिकसकलपुरुषाभिनया सामान्यवनितेति। नन्वग्निमित्रेक्षितिपतावनुरक्तायामैरावत्यामप्राप्तिः। तत्र वित्तमात्रोपाधेरभावादि चेत् मैवम्। सापि काश्मीरहीरकादिदातरि महाराजेऽनुरक्ता न तु महाहर्षितेनावगम्यते। तत्रवित्तमातोपाधिरिति सामन्यवनिता यथा।

दृष्ट्वा प्राङ्गणसन्निधौ बहुधनं दातारमभ्यागतं

वक्षोजौ तनुतः परस्परमिवाश्चेषं कुरङ्गीदृशः।

आनन्दाश्रुपयांसि मुञ्चति मुहुर्मालामिषात् कुन्तलो

दृष्टिः किञ्च धनागमं कथयितुं कर्णान्तिकं गच्छति॥३२॥

अन्यसम्भोगदुःखिता यथा।

त्वं दूति निरगाः कुञ्जंन तु पापीयसो गृहम्।
किंशुकाभरणी देहो दृश्यते कथमन्यथा॥३३॥

वक्रोक्तिगर्विता द्विविधा। प्रेमगर्विता सौन्दर्य्यगर्विता चेति।

प्रेमगर्विता यथा।

वपुषि तवतनोति रत्नभूषां
प्रभुरिति धन्यतमासि ब्रवीमि।
सखि तनुनयनान्तरालभीरुः
कलयति मे न भूषणानि कान्तः॥७४॥

सौन्दर्य्यविता यथा।

कलयतिः कमलोपमान मक्ष्णे
प्रथयति वाचि सुधारसस्य साम्यम्।

सखि कथय किमाचरामि कान्ते
समजनि तत्र सहिष्णुतैव दोषः॥३५॥

** **मानवती यथा। प्रियापराधसूचको मानः। स च लघुर्मध्यमो गुरुः। अल्पानेयो लघुः। कष्टतयापनेयो मध्यमः, कष्टतरापनयोगुरुः॥ असाध्यस्तु रसाभासः। अन्यस्त्रीदर्शनादिजन्मा लघुः। गोत्रस्खलनादिजन्मा मध्यमः। अपरस्त्रीसम्भोगादिजन्मा गुरुः। अन्यथा सिद्धकुतूहलाद्यप नेयो लघुः। अन्यथावादशपथाद्यपनेयो मध्यमः अन्यस्त्रीदर्शनादिजन्मा। चरणपातभूषणदानाद्यपनेयो गुरुः।

परस्त्रीदर्शनादिजन्मा यथा।

स्वेदाम्बुभिः क्व च न पिच्छलमङ्गमूमौ
शातोदरि क्व च न कण्ठकितं विभाति।
अन्धां बिलोकयति भाषयति प्रियेऽपि
मानः क्व दास्यति पदं तव तन्न विद्मः॥३६॥

गोत्रस्खलादिजन्मायथा।

यद्गोगोत्रस्खलनं तत्र भ्रमो यदि न मन्यसे।
रोमा लिव्यालसंस्पर्शं शपथं तन्वि कारय॥

अपराङ्गनामङ्गादिजन्मा यथा।
दयितस्य निरीक्ष्य भालदेशं
चरणालक्तकपिञ्जरं सपत्न्याः।
सुदृशोनयनस्य कोणभासः
श्रुतिमुक्तशिखरोपमा बभूवुः॥२७॥

एताः षोड़शापि अष्टाभिरवस्थाभिः प्रत्येकमष्टविधाः। प्रोषितभर्तृका खण्डिता कलहान्तरिता विप्रलब्धा उत्कण्ठिता वासकसज्जा स्वाधीनपतिका अभिसारिका चेति गणनया अष्टाविंशत्यधिकशतं भेदा भवन्ति॥१२८॥ तासामप्युत्तमाधममध्यमागणनया चतुरशीतियुतं शतत्रयं भेदा भवन्ति॥३८४॥ यत्तु तासांदिव्या अदिव्या दिव्यादिव्यादित्रयगणनया द्विपञ्चाशदधिकशतयुतसहस्रभेदा भवन्ति॥११५२॥ तत्र दिव्या शच्यादयः।अदिव्या मालत्यादयः। दिव्यादिव्या या द्रौपद्यादयः इति। तन्न अवस्थायां भेदेनैव नायिकानामपि भेदात्। जातिभेदेन भेदस्वीकारे नायकानामष्येवमानन्त्यंस्यात्।

तथाहि दिव्यादिभेदाः नायकानामपि सन्ति यथा। दिव्या इन्द्रादयः, अदिव्या माधवादयः दिव्यादिव्या अर्जुनादयः। यद्यपि मुग्धायां यथा धीरादिभेदाभावस्तथाविधप्रज्ञासामग्र्यप्रभावात् तथा अष्टविधत्वाभावो भवितुमर्हति। तथापि प्राचीनलिखनानुरोधेन नवोढ़ामप्यवलम्ब्यते भेदा अवगन्तव्याः। देशान्तरगते प्रेयसि मन्तापव्याकुला प्रोषितभर्तृका। उत्कण्ठिता कलहान्तरिता विप्रलब्धानां पतिर्देशान्तरगतो न भवतीति तत्रातिब्याप्तिः। अस्थाश्चेष्टा दशाबस्था।

मुग्धा प्रोषितभर्तृका यथा।

दुःखं दीर्घतमं वहन्त्यपि सखी वर्गाथ नो भाषते
शैवालैःशयनं सृजन्त्यपि पुनः शेते न वा लज्जया।

कण्ठेगङ्गादवाचसञ्चति दृशा धत्तेन बास्पोदकं
सन्तापं सहते यदम्बुजमुखी तद्वेद चेतोभवः॥३८॥

मध्य प्रोषितभर्तृका यथा।

वासस्तदेव वपुषो वलयस्तदेव
हस्तस्य सैव जघनस्य च रत्नकाञ्ची।
वाचालभृङ्गसुभगे सुरभौसमस्त-
मभ्याधिकं भवति तत् सखि किं निदानम्॥३९॥

प्रौढप्रोषितभर्तृका यथा।

माला बालाम्बुजदलमयी मौक्तिकीहारवष्टिः
काञ्ची किञ्च त्वयि यदुपते प्रस्थिते प्रस्थितैव।
अन्यद्ब्रूमः किमिह धमनी वर्त्तते वा नवेति
ज्ञातुं बाह्वोरहह बलयं पाणिमूलं प्रयाति॥४०॥

परकीया प्रोषितभर्तृका यथा।

श्वश्रूः पद्मदलं ददाति तदपि भ्रसंज्ञया गृह्यते
सद्योमर्म्मरशङ्कया न च तथा संस्पृश्यते पाणिना।
यातुर्वाचि सुहृद्गणस्य वचसि प्रत्युत्तरं दीयते
श्वासः किन्तु न मुच्यते हुतवहक्रूरः कुरङ्गीदृशा॥४१॥

सामान्यवनिता प्रोषितभर्तृका यथा।

विरहविदितमन्तः प्रेम विज्ञाय कान्तः
पुनरपि वसु तस्मादेत्य मे दास्यतीति।
मरिचनिचयमक्ष्णोर्न्यस्य बाष्पोदविन्दून्
विसृजति पुरयोषिद्द्वारदेशोपविष्टा॥

अन्योपभोगचिह्नितःप्रातरागच्छति पतिर्यस्या साखण्डिता। प्रातरित्युपलक्षणन्, अस्याश्चेष्टा, अस्फुटालाप-चित्त-सन्ताप-निश्वास-तुष्णीम्भावाश्रुुपातादयः।

मुग्धा खण्डिता यथा।

वक्षः किमु कलसाङ्कितमिति किमपि द्रष्टुमिच्छन्त्याः।
नयनं नवोढसुदृशः प्राणेशः पाणिना पिधत्ते॥

भध्या खण्डिता यथा।

वक्षोजचिह्नितमुरो दयितस्य वीक्ष्य
दीर्घं न निःश्वसिति जल्पति नैव किञ्चित्।
प्रातर्जलेन वदनं परिमार्जयन्ती
बाला विलोचनजलानि तिरोदधाति॥४२॥

प्रौढा खण्डिता यथा।

कान्तं वीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्त्रकै-
रालिप्ताननमानतीकृतमुखी चित्रार्पितैवाभवत्।
व्यक्तं नोक्त्रवती न वा कृतवती निश्वासकोष्ण दिशः
प्रातर्मङ्गलमङ्गनाकरतलादादर्शमादर्शयत्॥४७॥

नवनखपदमङ्गं गौपयस्यंशुकेन
स्थगयसि पुनरोष्ठंपाणिना दन्तदष्टम्।
प्रतिदिशमपरस्त्रीसङ्गसंशी विसर्पन्
नवपरिमलगन्धः केन शक्यो वरीतुम्॥

सखे दशनक्षतमधरं किमिति गोपयसे प्रयत्नेन।

संप्रति रजनिरहस्यं नयनालस्यं निवेदयति॥

ग्रन्थान्तरम्।

परकीया खण्डिता यथा।

कान्तं निरीक्ष्य वलयाङ्कितकण्ठदेशम्
उक्ता तथा परभिया परुषा न वाचः।
दूतीमुखे मृगदृशा खलदश्रुपूरा
दूरात् परं निदधिरे नयनान्तपाताः॥४४॥

सामान्यवनिता खण्डिता यथा।

उरस्तव पयोधराङ्कितमिदं कुतो मे क्षमा
ततो मयि निधीयतां वसु पुरा यदङ्गीकृतम्।
इति प्रचलचेतसः प्रियतमस्य वारस्त्रिया
क्वणत्कणककङ्कणंकरतलात् समाकृष्यते॥४५॥

अग्रे श्रवमत्य पतिं पश्चात् परितप्ता कलाहान्तरिता॥

अस्याश्चेष्टा भ्रान्तिसंमोहसन्तापसन्ततिश्वासज्वरप्रलापादयः।

मुग्धा कलहान्तरिता यथा।

अनुनयति पतिं न लज्जमाना
कथयति नापि सखीजनाय किञ्चित्।
प्रसरति मलयानिलेन बोढ़ा
वहति परन्तु चिराय शुभ्यमन्तः॥

मध्या कलहान्तरिता यथा।

विरमति कथनं विना न खेदः
सति कथने समपैति कापि लज्जा।

इति कलहमधोमुखी सखीभ्यो
लपितु मनालपितुं समाचकांक्षे॥१२॥

प्रौढाकलहान्तरिता यथा।

अकरोः किं नु नेत्रशीणिमानं
किमकार्षीः करपल्लवावरोधम्।
कलहं किमधाः क्रुधा रसज्ञे
हितमर्थं न विदन्ति दैवदष्टाः॥४७॥

परकीया कलहान्तरिता यथा।

भर्त्तुर्थस्य कृते गुरुर्लघुरभूद्गोष्ठी कनिष्ठकृता
धैर्य्यं कोषधनं गतं सहचरी नीतिःकृता दूरतः।
निर्मुक्ता तृणवत्त्रपा परिचिता स्रोतस्वती विन्दुवत्
स क्रोधादवधीरितो हतधिया मातर्बलीयान् विधिः॥४८

सामान्यवनिता कलहान्तरिता यथा।

यत्पङ्केरुहलक्ष्यपासिकमले भाग्यालये यद्गुरु
न्यस्तं काममयं ललाटफलके भाग्याक्षरं वेधसा।
तत् सर्व्वं सस्वियो यथार्थमकरोत् तस्मिन् प्रकोपः कृतो
धिङ मां धिङ्ममजीवितं धिगतनुं धिक्चेष्टितं दिग्वयः॥४९

सङ्केतनिकेतने प्रियतममनवलोक्यसमाकुलहृदया विप्रलब्धा।

अस्याश्चेष्टा निर्वेदनिःश्वाससखीजनोपालम्भा-
सन्तापालापमयचिन्ताश्रुतमूर्च्छादयः॥५०॥

मुग्धा विप्रलब्धा यथा।

आलीभिः सपथैरनेककपटैः कुञ्जोदरं नीतया
शून्यं तच्च निरीक्ष्य विक्षुभितया न प्रस्थितं न स्थितम्।
न्यस्ता किन्तु नवीढ़नीरजदृशा कुञ्जोपकण्ठेरुषा
भ्राम्यद्भृङ्गकदम्बडम्बरचमत्कारस्पृशो दृष्टयः॥५१॥

किमुत्तीर्णः पन्थाः कुपितभुजगोभोगविषमो
विषोढ़ा भूयस्यः किमपि कुलपालोकटुगिरः।
इति स्मारं स्मारं दरदलितशीतद्युतिरुचौ
सरोजाक्षी शीणं दिशि नयनकोणं विकिरति॥५२॥

मध्यमा विप्रलब्धा यथा।

सङ्केतकेलिगृहमेत्य निरीक्ष्यशून्यम्
एनीदृशो निभृतनिःश्वसिताधरायाः।
अर्द्धाक्षरं वचनमद्धविकाशिनेत्रं
ताम्बूलमर्द्धकवलीकृतमेव तस्यौ॥५३॥

प्रौढ़ा विप्रलब्धा यथा।

शून्यं केलिगृहं निरीक्ष्य कुटिलंविज्ञाय चेतोभवं
दूती नापि निवेदिता सहचरी पृष्टापि नो वा तथा।
शम्भो ! शङ्कर! चन्द्रशेखर ! हर ! श्रीकण्ठ! शूलिन् ! शिव !
त्रायस्वेति परन्तु पङ्कजदृशा भर्गस्य चक्रेस्तुतिः॥५४॥

परकीया विप्रलब्धा यथा।

दत्त्वा धैर्य्यभुजङ्गमृद्धिं चरणाबुल्लङ्घ्यलज्जानदी-
सङ्केकृत्य घनान्धकारपटलं तन्वान दृष्टः प्रियः।

सन्तापाकुलया तथा च परितः पाथोधरे गर्जति
क्रोधकान्तकृतान्तमत्तमहिषभ्रान्या दृशौयोजिते॥५५॥

सामान्यवमिता विप्रलब्धा यथा।

कपट वचनभाजा केनचिद्वारयोषा
सकलरसिकगोष्ठीरञ्जिका वञ्चितासौ।
इति विहसति रिङ्गद्भृङ्गविक्षिप्तवल्ली-
विकचकुसुमकान्तिच्छद्मना केलिकुञ्जः॥५६॥

सङ्केतस्थलं प्रति भत्तुरनागमनकारणं या चिन्तयति सा उत्कण्ठिता।अवधिदिवसानागतप्रेयसि प्रोषितपतिकायां नातिव्याप्तिः। तस्या भत्तुरवधिदिवसे भवनागमनानियम इति सङ्केतपदेन व्यावर्त्तनात्।

अस्याश्चेष्टा।

अरतिसन्ताप-जृम्भनाङ्गाकृष्टिकश्मलरुदितश्वासावस्थाकथनादयः।

मुग्धा उत्कण्ठिता यथा।

यन्नाद्यापि समागतः पतिरिति प्रायः प्रपेदे पराम्
इत्थंचेतसि चिन्तयन्त्यपि सखीं न व्रीड़िता पृच्छति।
दीर्घं नश्वसितं दधाति चकितं न प्रेक्षते केवलं
किञ्चित्पक्कपलाण्डु पाण्डुररुचिं धत्ते कपोलस्थलीम्॥५५

मध्या उत्कण्ठितायथा।

आनेतुं नगता किमु प्रियसखी भीता भुजङ्गात् किमु

क्रोधो वा प्रतिषेधवाचि किमसौ प्राणेश्वरो वर्त्तते।
इत्थंकर्णसुवर्णकेतकरजःपातोपवातच्छलात्
अक्ष्णोःकापि नबोड़नीरजमुखी बास्योदकं मुञ्चति॥५६॥

प्रोढ़ा उत्कण्ठिता यथा।

भ्रातर्निकुञ्ज सखि यूथिरसाल बन्धो
मातस्तमखिनि पितस्तिमिर प्रमोद।
पृच्छामि किञ्चिदिह नीरधराभिरामो
दामोदरः कथय किन्न समाजगाम॥५७॥

परकीया उत्कण्ठिता यथा।

ख्यातं वारिदवारिभिर्व्विरचितो वासोघने कानने
शीतैश्चन्दनवारिभिर्म्मनसिजो देवः समाराधितः।
नीता जागरणव्रतेन रजनी ब्रीड़ा कृता दक्षिणा
तप्तं किन्न तपस्तथापि स कथं नाद्यापि नेत्रातिथिः॥५८॥

सामान्यवनिता उत्कण्ठिता यथा।
कथं न कान्तः समुपैति कुञ्जम्
इत्थं चिरं चेतसि चिन्तयन्ती।
अक्षालयनिष्पतिताश्रुधारां
वाराङ्गना कापि धनाभिलाषात्॥५९॥

अद्य मे प्रियवासक इति अभिप्रेत्य या सुरतसामग्रीं सज्जीकरोति, सावासकसज्जा। वासको वासरः।

अस्याश्चेष्टा मनोरथसखीपरीहामदूतीप्रश्नसामग्रीसम्पादनमार्गकिलोकनादयः।

मुग्धा बासकसज्जा यथा।

हारं गुम्फति तारकास्तरुचिरं त्रष्युतिकाञ्चीलतां
दीपं न्यस्यति किन्तु तत्र बहुलं स्नेहं न दत्ते पुनः।
आलीनामिति वासकस्य रजनौ कामानुरूपां क्रियां
साचिस्मेरर नवीढनीरजमुखी दूरात् समुदीक्षते॥६०॥

मध्या वासकसज्जा यथा।

शिल्पंदर्शयितुं करोति कुतुकात् कह्वारहारस्रजं
चित्रप्रेक्षणकैतवेन किमपि द्वारं समुद्वोक्षते।
गृह्णात्याभरणं नवं सहचरीभूषाजिगीषामिषा-
दित्यं पद्मनः प्रतीक्ष्यचरितं स्मेराननोऽभूत् स्मरः॥६१

प्रगल्भावासकसज्जायथा।

कृतं वपुषि भूषणं चिकुरधोरणी धूपिता
कृताशयनसन्निधौ क्रमुकवीटिकासम्भृतिः।
अकारि हरिणीदृशा भवनमेत्य देहश्रिया
स्फुरत्कनककेतकी कुसुमकान्तिभिर्दुर्द्दिनम्॥६२॥

मनोरथो यथा।

आवयोरङ्गयर्द्वित्वे भूयो विरहविक्लवः।
अद्वैते च स्मितं स्फीतं नस्यादन्योन्यवीक्षणम्॥६२॥

परकीया वासकसज्जा यथा।

श्वश्रूंस्वापयति च्छलेन च तिरोधत्ते प्रदीपाङ्करान्
धत्ते सौधकपोतपोतनिनदैः साङ्केतिकं चेष्टितम्।
शश्वत्पार्श्वविवर्त्तिताङ्गलतिकं लोलत्कपोडद्युति
क्वापि क्वापि कराम्बुजं प्रियधिया तल्पान्तिके न्यस्यति॥६४

सामान्यवनिता वासकसज्जा यथा।

चोलं नीविनिचोलकषणविधौ चूड़ामणिं चुम्बने
याचिय्येकुचयोः करार्पणविधौ काञ्चींपुनः काञ्चनीम्।
इत्थं चन्दनचर्च्चितैर्मृंगमदैरङ्गानि संस्कुर्वती
तत् किं यन्न मनोरथं वितनुते वारेषु वाराङ्गना॥६५॥

** **सदा कृताज्ञापरा प्रियतमा स्वाधीनपतिका।अत्याश्चेष्टा वनविहारादिमदनमहोत्सवमदाहङ्कारमनोरथाव्याप्तिप्रभृतयः।

मुग्धा स्वाधीनपतिका यथा।

मध्ये नो कृशिमा स्तने न गरिमा देहे न वा कान्तिमा
श्रोणौ न प्रथिमा गतो न जड़िमा नेत्रे न वारक्रिया।
लास्ये न द्रढिमा न वाचि पटिमा हास्ये न वा स्फीतिमा।
प्राणेशस्य तथापि मज्जति मनो मय्येव किं कारणम्॥६६॥

मध्या स्वाधीनपतिका यथा।

यदपि रतिमहोत्सवे नकारो
यदपि करेण च नीविधारणानि।
प्रियसखि ! पतिरेष पार्श्वदशं
तदपि न मुञ्चति चेत् किमाचरामि॥६७॥

प्रौढ़ा स्वाधीनपतिका यथा।

रक्तस्याधरपल्लवस्य वचमो हास्यस्य लास्यस्यवा
धन्यानामरविन्दसुन्दरदृशां कान्तस्तनोति स्तुतिम्।
स्वप्नेनापि न गच्छति श्रुतिपथं चेतः कथं दृक्पथं
काप्यन्या दयितस्य मे सखि ! कथं तथास्तु भेदग्रहः॥६८

परकीया स्वाधीनपतिका यथा।

स्वीयाः सन्ति गृहे सरोरुहदृशी, यासां विलासक्वणत्-
काञ्चीकुण्डलहेमकङ्कणझणत्कारो न विश्राम्यति।
को हेतुः सखि ! कानने पुरपथे सौधे सखीसन्निधौ
भ्राम्यन्तीमपि वल्लभस्य परितो दृष्टिर्न मां मुञ्चति॥६८॥

सामान्यवनिता स्वाधीनपतिका यथा।

सन्त्वेवं प्रतिमन्दिरं मृगदृशो यासां सुधासागर-
स्रोतःसूतसरोजसुन्दरचमत्कारा दृशो विभ्रमाः।
चित्रं किन्तु विचित्रमन्मथकलाकौशल्यहेतोःपुन-
र्वित्तंचित्तहरं प्रयच्छतियुवा मय्येव किं कारणम्॥७०॥

स्वयमभिसरति प्रियमभिसारयति साभिसारिका।अस्याश्चेष्टा समयानुरूपमितभूषणरूङ्काज्ञानैपुण्यकपटहासादयः। इति परकीयायाः, स्वीयायास्तु प्रकृतएव विभ्रमः।

मुग्धाभिसारिका यथा।

दूतीविद्युदुपागता सहचरी रात्रिश्चिरस्थायिनी
दैवज्ञो जलदः खनेन दिशति प्रस्थानवेलां शुभाम्।

वाचं माङ्गलिक्कींतनोति तिमिरस्तोमोऽपि झिल्लीकरै-
र्जातोऽयं दयिताभिस्मरममयो सुग्धोविमुश्चत्रपाम्॥७१

मध्याभिसारिका यथा।

भौतासि नैव भुजगात् पथि मद्भुजस्य
सङ्गात् पुनः किमपि भीतिमुरीकरोसि।
अम्भोधरध्वनिभिरभितासि तन्वि!
मद्वाचि साचिवदनासि किमाचरामि॥७२॥

प्रौढ़ाभिसारिका यथा।

स्फुरदुरसिजभारभङ्गुराङ्गी
किशलयकोमलकान्तिना पदेन।
अथ कथय कथं सहेत गन्तुं
यदि न निशासु ममोरथो रथः स्यात्॥७३॥

परकीयाभिसारिका यथा।

रभसादभिसर्त्तुमुद्यतानां
वनितानां सखि वारिदीविवस्वान्।
रजनी दिवमोऽन्धकारमच्चिः
विपिनं वेशा विमार्गं एव मार्गः॥७४॥

कृष्णाभिसारिका यथा।

नाम्बुजैर्नंकुमुदैरुपमेयं स्वैरिणीजनविलोचनयुग्मम्।
नोदये दिनकरस्य न चेन्दोः केवले तमसि यस्य विकाशः॥७५

ज्योत्स्नाभिचारिका यथा।

चन्द्रोदये चन्दनमङ्गकेषु विहस्य विन्यस्य विनिर्गतायाः।
मनोनिहन्तं मदनोऽपि वाणान् करेण कोपादिभराम्बभूव॥६६

दिवसाभिसारिका यथा।

पक्षीनामधिपस्य पङ्कजदृशां पर्वोत्सवामन्त्रणे
जाते सद्मजना मिथःकृतमहोत्साहं पुरः प्रस्थिताः।
सव्याजं स्थितयोर्विहस्य गतयोः शुद्धान्तनत्रामत्रान्तरे
यूनोः स्विन्नकपोलयोर्विजयते कोप्येष कण्ठग्रहः॥७७॥

सामान्यवनिताभिसारिका यथा।

लोलच्चीलचमत्कृति प्रविचलत्काञ्चीलता झङ्कृति
न्यञ्चत्कञ्चुकबन्धबन्धुरचलद्वक्षोजकुम्भीन्नति।
स्फुर्जद्दिधितिविस्फरत्कृतिचलत् चामीकरालङ्कृति
क्रीड़ाकुञ्जगृहं प्रयाति कृतिनः कस्यापि वाराङ्गना॥७८

मुग्धाया लज्जाप्राधान्येन, मध्याया लज्जामदनप्राधान्येन, प्रगल्भायाः कोपप्रकाशप्राधान्येन, धीराया धैर्य्यप्राधान्येन अधीराया अधैर्य्यप्राधान्येन, नवोढ़ायाःसंगुप्तिप्राधान्येन, मुग्धायाइव कन्यायाः। सामान्य वनिताया धनप्राप्तिप्राधान्येन, अष्टविधायिकावर्णनमिति शेषः।

प्रस्थानं बल्यैः कृतं प्रियसखैरश्रैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः।
यातुं निश्चितचेतमि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्येसति जीवित ! प्रियसुहृत्सार्थं किमु त्यज्यताम्॥७९

इत्यादि प्राचीनग्रन्थकारलिखनात्।

अग्रिमक्षणे देशान्तरनिश्चितगमने प्रेयसि प्रोष्वपतिकापि नवमी नायिका भवितुमर्हति। तथाहि

एतस्याः प्रोषितपतिकाविप्रलब्धोत्कण्टितासु नान्तर्भावः, भर्त्तुःसन्निधिवर्त्तित्वात्। नापि कलहान्तरितामेवान्तर्भावः, कलहाभावात् अनवमानितपतित्वाच्च। नापि खण्डितायामन्तर्भावः प्रियस्यान्योपभोगचिह्नितस्यागमनाभावात्प्रियायाः कोपाभावात्। काकुवचनकातरप्रेक्षणादिसूचितान्तःपक्षपातदर्शनाच्च। न वासक सज्जान्तर्भावः। वासकसज्जाया बासरनियमाभावात्। सुरतसामग्री सज्जीकरणाद्यभावत् निर्वेददर्शनाच्च। न स्वाधीनपतिकान्तर्भावः अग्रिमक्षण एव सङ्गस्य बिच्छेददर्शनात्। नहि स्वाधीनपतिकाया कदाचिदपि सङ्गस्य विच्छेद इति सम्प्रदायकाः। व्रजन्नपि पतिःस्वाधीनपतिकया निरुध्यते।अन्यथा भर्त्तरि स्वाधीनत्वमेव न स्यात्, नेह तथा सर्वथा अग्रिमत्क्षणे विच्छेददर्शनात्। किञ्च निर्वेदाश्रुपातनिश्वासवनविहारादिमदनमहो सवाभावदर्शनाच्च। नाप्यभिमारिकान्तर्भावः अभिसारोत्सवाभावात् अन्तस्तापदर्शनाच्चेति युक्तमुपपत्स्यामः लक्षयन्तु यस्याः पतिरग्रिमक्षणे देशान्तरं यास्यति एव सा प्रोय्यत्पतिका। अस्याश्लेष्टा। काकुवचनकातरप्रेक्षणगमनविघ्नोपदर्शननिर्वेदसन्तापमम्मोहनिश्वास बाष्पादयः। मुग्धाप्रोय्यत्पतिका यथा।

प्राणेश्वरे किमपि जल्पति निर्गमाय
क्षामोदरी वदनमानमयाञ्चकार।
आली पुनर्निभृतमेत्य लतानिकुञ्ज-
मुन्मत्तकोकिलकलध्वनिमाततान॥८०॥

मध्या प्रोव्यत्पतिका यथा।

गन्तुं प्रिये वदति निश्वसितं न दीर्घ-
मासीन्न वा नयनयोर्जलमाविरासीत्।
आयुर्लिपिं पठितुंमेनदृशःपरन्तु
भालस्थलीं किमु करः समुपाजगाम॥८१॥

प्रौढ़ा प्रोय्यत्पतिका यथा।

नायं मुञ्चति सुभ्रुवामपि तनुत्यागे वियोगज्वरः
तेनाहं विहिताञ्जलिर्यदुपते ! पृच्छामि सत्यं वद।
ताम्बूलं कुसुमं पटीरमुदकं यद्वन्धुभिर्दीयते
स्यादत्रैव परत्रतत्किमु विषज्वालावलीदुःसहम्॥८२॥

परकीया प्रोय्यत्पतिका यथा।

न्यस्तं पन्नगमूर्ध्नि पादयुगलं भक्तिर्विमुक्ता गुरौ
त्यक्ता नीतिरकारि किं न भवतो र्हेतर्म्मया दुस्कृतम्।
अङ्गानां शतयातना नयनयोः कोपक्रमो रौरवः
कुम्भीपाकपराभवश्च मनसोमुक्तं त्वयि प्रस्थिते॥८३॥

सामान्यवनिता प्रोषितपतिका यथा।

मुद्रां प्रदेहि वलयाय भवद्वियोगम्
आसाद्य यास्यति वहिःसहसा यदेतत्।

दूत्थं निगद्य विगलन्नयनाम्बुधारा
वाराङ्गना प्रियतमं करयोर्बभार॥८४॥

अहितकारिण्यपि प्रिये हितकारिणी या सा उत्तमा। अस्या उत्तमैव चेष्टा। यथा

पतिः शयनमागतः कुचविचित्रितोरस्थलः
प्रसन्न वचनामृतैरयमतर्पि वामभ्रवा।
अचर्च्चिसुभगस्मिताद्युतिपटीरपङ्कद्रवै-
रपूजि विलसद्विलोचनचमत्कृतैरम्बुजैः॥८४॥

हिताहितकारिणि प्रिये हिताहितकारिणी या सा मध्यमा। व्यवहारानुसारिणी चेष्टा। यथा

कान्ते सागसि कञ्चुकस्यशितया साचीकृतग्रीवया
मुक्ताः कोपकषायमन्मथशरक्रूराः कटाक्षाङ्कराः।
साकूते दरहासपेशलवचोमाध्वीकधारालसा-
प्रीतिः कल्पलता च का चन महादानीकृत सुभ्रु वा॥८५

हिताहितकारिण्यपि प्रियतमे अहितकारिणी या सा अधमा। एषैव निर्न्निमित्तकोपमा चण्डीत्यच्यते। अस्वा निर्न्निमित्तकोपत्वादधमैव चेष्टा। यथा

प्रस्थाने तव यः करोति कमलच्छायां मुखाम्भोरुहं
श्रीखण्डद्रवधारया शिशिरया मार्गं पुरः सिञ्चति।
तस्मिन् प्रेयसि विद्रुमद्रवनदीरिङ्गत्तुरङ्गभ्रमि-
भ्रान्ताक्रान्तसरोजपत्रसदृशा भूयोदृशा क्रुध्यति॥८६॥

विस्तरभिया प्रत्येकमेतासामुत्तममध्यमाधमभेदा शेदाहृता इति। विश्वासविश्रामकारिणी पार्श्वचारियो सखी। तस्या मण्डनोपालम्भशिक्षापरिहासप्रभृतीनि कर्म्मणि। मण्डनं यथा।

स्तनकणकमहीधरोपकण्ठे
प्रियकरपल्लवमुल्लसत्प्रमोदम्।
रहसि मकरिकामिषाल्लिखन्तीं
कमलमुखी कमलैःसखींजधान॥८३॥

उपालम्भो यथा।

अभ्रध्वानैर्मुखरितदिशः श्रेणयस्तोथदानां
धारासारैर्धरणिवरूयं सर्वतः प्लावयन्ति।
तेन स्नेहं वहति विपुलं मत्सखी युक्तमेतत्
त्वं निःस्नेहो यदसि तदिदं नाथ मे विस्मयाय॥८८

शिक्षा यथा।

सानन्दमालि वनमालिविलोकनाय
निगच्छ कुब्जमिति किन्तु विचारयेथाः।
झङ्कारिणो मधुलिहोमधुलिहो दिवसे भ्रमन्ति
रात्रौ पुनश्चपलचञ्च पुटाश्चकोराः॥८९॥

परिहासो यथा।

आगारभित्तिलिखितासु निवेदयस्व
कः सप्तमी दशसु मूर्त्तिषु लोकभर्त्तुः।

इत्थंसखीजनवचः प्रतिपद्य सद्यः
सीता स्मितद्युतिभिरुत्तरयाञ्चकार॥९०॥

सापरिहास द्रव प्रियस्य परिहासः। यथा

श्रुमंज्ञया दिशसि तन्वि! सखीं न वाग्भि-
रिव्यंविहस्य मुरवैरिणि भाषमाणे।
राधा चिराय दशनव्रणदूयमान-
विम्बाधरावदनमानमयाञ्चकार॥९१॥

प्रियस्य परिहासवत्प्रियाया अपि परिहासः, यथा।
दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावकी
दिव्य तद्धिविलोचनं कथमहोदिव्यं सचाङ्गेतव।
तस्माद्दूतविधौ त्वयाद्य मुषितो हारः परित्यज्यता-
मित्यं शैलजया विहस्य लपितःशम्भुः शिवायास्तवः॥९२

दूतव्यापारङ्गता दूती। तस्याः सङ्घट्टनविरहनिवेदनादीनिकर्म्माणि। मङ्घट्टनं यथा।

अञ्चति रजनिरुदञ्चति तिमिरमिदं प्रादुर्भवति मनोभृः।
उक्तंन त्यज युक्तंविरचय रक्तं मनस्तस्मिन्॥९३॥

विरहनिवेदनं यथा।

चक्रे चन्द्रमुखोप्रदीपकलिका धात्रा धरामण्डले
तस्या दैवशाद्दिशापि चरमा प्रायः समुन्मीलति।
तद्ब्रुमः सहसा न तेन शिरसा श्रीकृष्ण निक्षिप्यतां
स्नेहस्तत्र तथा यथा न भवति त्रैलोक्यमन्धन्तमः॥९४॥

इति नायिकाप्रकरणम्।

_________

अथ शृङ्गारस्य उभयसाधनत्वान्नायकोऽपि निरूप्यते। स च त्रिविधः। पतिरुपपतिर्वैशिकश्चेति।

विधिवत्पाणिग्राहकः पतिर्यथा।

त्वं पीयूषमयूख ! मुञ्चसि शिलास्निग्धान् सुधाशीकरान्
त्वं भोगीन्द्र ! विलम्बसे किमु फणाभोगैः शनैर्वीजय।
त्वं स्वर्वाहिणि ! किञ्च सिञ्च सलिलैरङ्गैः शिरीषोपमैः
सेयं शैलसुता क

ठोरमहसः कान्त्या पथिक्लाम्यति॥९५॥

अनुकूलदक्षिणधृष्टशठभेदात् पतिश्चतुर्विधः। सार्वकालिकपराङ्गनापराङ्मुखत्वे सति सर्वकालमनुरक्तोऽनुकूलः यथा।

ष्टश्वि!त्वं भव कोमला दिनमणे ! त्वं शैत्यमङ्गीकुरु
त्वं वर्त्मन् ! लघुतां प्रयाहि पवन ! त्वंस्वेदमुत्सारय।
सान्निध्यं कुरु दण्डकाननगिरे ! निर्गच्छ मार्गाद्वहिः
सीतासौ विपिनं मया सह यतो गन्तुं समुत्कण्ठते॥९६॥

सकलनायिकाविषय सहजानुरागो दक्षिणः यथा।

अन्तःपुरे स्फुरति पद्मदृशां सहस्र-
मक्षिद्वयंकथय कुत्र निवेशयामि।
इत्याकलय्य नयनाम्बुरुहे निमील्य
रोमाञ्चितेन वपुषा स्थितमच्युतेन॥९७॥

भूयोनिःशङ्ककृतदोषोऽपि भूयोनिवारितोऽपि भूयःप्रश्रयपरायणणे धृष्टः। स यथा।

बद्धोहारैः करकमलयोर्द्वारतो वारितोऽपि
स्वापं बुद्धा पुनरुममतो दूरतो दत्तदृष्टिः॥
तल्पोपान्ते कनकवलयंमुक्तमन्येषयन्त्या
दृष्टो धृष्टः पुनरपि मया पार्श्व एव प्रसुप्तः॥९८॥

कामिनीविषयक कपटपटुः शठः। स यथा।

मौलौ दाम विधाय भालफलके व्यालिख्य पत्रावलीं
केयूरं भूजयोर्विधाय कुचयोर्विन्यस्य मुक्तास्रजम्।
विश्वासं समुपार्जयन् मृगदृशः काञ्ची निवेशच्छलात्
मौविग्रन्थिमपाकर ति मृदुना हस्तेन वामभ्रु

दः॥९९॥

आचारहानिहेतुः पतिरुपपतिः। स यथा।

शङ्काशृङ्खलितेन यत्र नयनप्रान्तेन न प्रेक्ष्यते
केयूरध्वनिभिर्बिभेति चकितं नो यत्र वाश्लिष्यते।
नो वा यत्र शनैरलग्नदशनं विम्बाधरः पीयते
नो वा यत्रविधीयते चमकितं तत् किं रतं कानिनोः॥१००॥

उपपतिरपि चतुर्धा। परन्तु तत्र शठत्व’ नियतम् अनियतमित्यपरे। ब

हुलवेश्योपभोगरसिको वैशिकः ! यथा

काञ्चीकण्त्क्कणितकोमलनाभिकान्तिं
पारावतध्वनिविचित्रितकण्ठपालिम्।
उद्भ्रान्तलोचनचकोरमनङ्गरङ्ग-
माशास्महे किमपि वारविलासवत्याः॥१०१॥

वैशिकस्तु उत्तमाधममध्यमभेदात्रिविधः।द

चितायाः भृयः प्रकोपेऽपि उपचारपराय

ण उत्तमः। यथ।

चक्षुःप्रान्तमुदीक्ष्य पक्ष्मलदृशः शोणारविन्दश्रियं
नोच्चैजल्पति न स्मितं वितनुते गृह्नाति बीटिं न वा।
तल्पोपान्तमुपेत्य किन्तु पुलकभ्राजत्कपोलद्युतिः
कान्तः केवलमानतेन शिरसा मक्तास्रजं गुम्फति॥१०२॥

प्रियायाः प्रकोपे यः प्रकोपमनुरागं वा न प्रकटयति चेष्टया मनोभावं गृह्णाति स मध्यमः। यथा।

आस्यं यद्यपि हास्यवजर्जित मेदं लास्येन हीनं वचो
नेत्रे शोणसरोजकान्तिरुचिरे क्वापि क्षणं स्थीयताम्।
मालायाः करणोद्यमो मकरिकारम्भः कुचाम्भोधरो
धूपः कुन्तलधोरणीषु सुतनोः सायन्तनो दृश्यते॥१०३॥

भयकृपालज्जाशून्यः कामक्रीड़ायां अकृतकृत्याविचारोऽधमः। स यथा।

उदयति हृदि नैव यस्य लज्जा
न च करुणा न च कोऽपि भीतिलेशः।
वकुलमुकुलकोषकोमलां मां
पुनरपि तस्य करे न पातयेथाः॥१०४॥

मानी यथा।

वाह्याकृतपरायणं तव वचो वज्रोपमेयं मनः
श्रुत्वा वाचमिमामपास्य विनयं व्याजाद्वहि प्रस्थिते।
प्रातर्वीतविलोकेनेपरिहतालापे विवृत्तानने
प्राणेशे निपतन्ति हन्त कृपणा वामभ्रुवो दृष्टयः॥१०४॥

वाक्चेष्टाव्यङ्गसमागमश्चतुरः। चेष्टाव्यङ्गसमागमो यथा।

कान्तेकनकजम्बीरं करे किमपि कुर्वति।
आमारलिखिते भानौ विन्दुमिन्दुमुखी ददौ॥१०६॥

वचनव्यङ्गसमागमो यथा।

तमोजटाले हरिदन्तराले
काले निशायां तव निर्गतायाः।
तटे नदीनां निकटे वनानां
घटेत शातोदरि कः सहायः॥१०७॥

प्रोषितपतिरुपपतिः वैशिकश्च भवति। क्रमेणोदाहरणानि यथा।

ऊरू रम्भा दृगपि कमलं शैवलं केशपाशो
वक्तं चन्द्रो लपितममृतं मध्यदेशो मृणालम्।
नाभिः कूपो वलिरपि सरित् पल्लवः किञ्च पाणि
र्यस्याः सा चेदुरसि न कथं हन्त ! तापस्य शान्तिः॥१०८॥

यान्याः सरः सलिलकेलिकूतूहलाय
व्याजादुपेत्य मयि वर्त्मनि वर्त्तमाने।
अन्तःस्मितद्यतिचमत्कृतदृक्तरङ्गै-
रङ्गीकृतं किमपि वामदृशः स्मरामि॥१०८॥

अधृतपरिपतन्निचोलबन्धं
मुषितनकारमवक्रदृष्टिपातम्।
प्रकटितहसितमुन्नतास्यपद्मं
पुरसुदृशः स्मरचेष्टितं स्मरामि॥११०॥

अनभिज्ञनायकी नायिकाभाषो यथा।

शून्ये सद्मनि योजिता बहुविधा भङ्गी बने निर्जने
पुष्पव्याजमुपेत्य निर्गतम

य स्फारीकता दृष्टयः।
ताम्बूलाहरणछलेन विहितौ व्यक्तौ च वक्षोरुहा-
वेतेनापिन वेत्ति दूति कियता यत्नेन संज्ञास्यति॥१११॥

न च नायिकाया इव नायकस्यापि ते ते भेदाः सन्तीति न वाच्यं अस्या अवस्थाभेदेन भेदाः। अस्य च स्वभावभेदेन भेदा इति विशेषात्। अनुकूलत्वं, दक्षिणत्वं धृष्टत्वं शठत्वमिति चत्वार एव नायकानां स्वभावाः। अन्यच्च अवस्थाभेदेन यदि नायकानां भेदः स्यात् तदा उक्तविप्रलब्धखण्डितादयोऽपि नायकाः स्वीकर्त्तव्या। तथाच सङ्केतव्यवस्थायां स्त्रीणामनागमने अन्यसम्भोगाशङ्काविषयत्वे अन्य सम्भोगचिह्नितत्व वा नायकानामपि स्वात् नतु नायिकानां ताः प्रति तदुद्भावे रसाभासतापत्तिरिति। तेषाञ्च पीठमर्द्दविटचेटकविदूषकभेदाच्चतुर्विधाः। कुपितस्त्रीप्रसादकः पीठमर्दकः। स यथा

कोऽयं कोपविधिः प्रयच्छ करुणागर्भ्योवचो जायतां
पीयूषद्रवदीर्घिकापरिमलैरामोदिता मेदिनी।
आस्तां वा रुष्टहयालु लोचनमिदं व्यावर्त्तयन्ती मुहु-
र्वस्मै कुप्यसि तस्य चैव सुतपोवृन्दानि वन्दामहे॥११२॥

नर्मसचिवोऽप्ययमेव। कामतन्त्रकलाकोविदो विटः। स यथा

आयातः कुसुमेश्वरोऽपि जयते सर्वेश्वरो मारुतो
भृङ्गः स्फूजति भैरवो न निकटं प्राणेश्वरो भुञ्चति।
एते सिद्धरसाः प्रसूनविशिखो वैद्योऽद्य वेद्योत्सवो
मानव्याधिरसौ कृशोदरि ! कथं त्वच्चेतसि स्थास्यति॥११३॥

सन्धानचतुरश्चेटकः यथा।

सा चन्द्रसुन्दरमुखी सच नन्दसुनु-
र्दैवात् निकुञ्जभवनं समुपाजगाम।
तत्रान्तरे सहचरस्तरणौ कठोरे
पानीयपानकपटेन सरः प्रतस्थे॥११४॥

अङ्गादिवैकृत्यैर्हास्यपरो विदूषकः यथा
आनीय नीरजमुखीं शयनोपकण्ठ-
मुक्तण्ठितोऽस्मि कुचकञ्चकमोचनाय।
तत्रान्तरे मुहुरकारि विदूषकेण
प्रातः स्तनस्तरुणकुक्कटकूटनादः॥२१५॥

स्वेदस्तम्भोऽथ रोमाञ्चो स्वरभङ्गीऽथ वेपथुः।
वैवर्ण्यमश्रुप्रल्यावित्यष्टो सात्विका गुणाः। यथा।

भेदो वाचि दृशोर्ज्जलं कुचतटे स्वेदप्रकम्पोऽधरे
पाण्डर्गण्डतटी वपुः पुलकितं लीनं मनस्तिष्ठति।
आलस्यं नयनाश्रयं चरणयोः स्तम्भः समुज्जृम्भते
तत् किं राजपथे कृणोयोदरि दृशोर्ज्जाऽतिथिः केशवः॥२१६॥

रतिस्था

पिभावः शृङ्गारः, स च द्विविधः, सम्भोगो विप्रलम्भश्च। सम्भोगो यथा।

वियति विलोलितजलदः स्फरति कूजति कपोतः।
निपतति तारकाश्च समान्दोलयति वीचिरमरवाहिन्याः॥११७॥

विप्रलम्भो यथा॥

प्रादुर्भूते नवजलधरे तत्पथं द्रष्टुकामाः

प्राणाः पङ्केरुहदलदृशः कण्ठदेशं प्रयान्ति।
अन्यद्ब्रुमस्तव मुखविधुंद्रष्टुमुड्डीय गन्तं
वक्षःपक्षं सृजति विधिना पल्लवस्य च्छलेन॥११८॥

अभिलाषस्तथा चिन्ता स्मृतिश्च गुणकीर्त्तनम्।
उद्वेगश्च बिलापश्च उन्मादो व्याधिरेव च।
जड़तानि धनाद्येता दशावस्थाः प्रकीर्त्तिताः॥

सङ्गमेच्छाभिलाषो यथा।

तस्यां सुतनुसरस्यां चेतो नयनञ्च निष्पतितम्।
चेतो गुरु निमग्नं लघु नयनं सर्वतो भ्रमति॥

दर्शनसम्भोगयोः प्रकारभावना चिन्ता। यथा

मया विधेयो मुहुरद्य तस्मिन् कुञ्जोपण्ठे कलकण्ठनादः।
राधा मधौ विभ्रममावहन्ती कुर्वीत नेत्रोत्पलतोरणानि॥११८॥

प्रियायाः चेष्टाद्युद्बोधसंस्कारजन्यं ज्ञानं स्मृतिः। यथा

रामो लक्ष्मणदीर्घदुःखचकितो नाविष्करोति व्यथां
श्वामं नोष्णतरं जहाति सलिलंधत्ते न वा चक्षुषि।
बातावर्तविवर्त्त मानदहनक्रूरैनङ्गज्वरैः

छामः किन्तु विदेहराजतनयां भूयः स्मरन् वर्त्तते॥१२०॥

विरहकालीनकान्ताविषयकप्रशंसाप्रतिपादनं गुणकीर्त्तनम्। यथा

संस्पर्शः स्तनसंस्पर्शो वीक्षणं रत्नवीक्षणम्।
तस्याः केलिकलालापसमयः समयः सखे !॥

विषयजन्यदुःखकामक्लेशजनितसकलविषयकहेयताज्ञानम् उद्वेगः। यथा

गरलद्रुमकन्दमिन्दुविम्बं क्रीड़ावारिजवारबो वसन्तः।
रजनी स्मरभूपतेः कृपाणी करणीयं किमतःपरं विधातः॥२२१॥

प्रियाश्रितकाल्पनिकव्यवहारः प्रलापः। यथा। कल्पनायाः कारणमन्तःकरणविक्षेपः। तस्य च निदानमुत्कण्ठा।

अर्द्ध मुद्वीक्षणं चक्षुरर्द्वसम्मीलनं मनः।
अर्द्धसंस्पर्शनं पाणिरद्य मे किं भविष्यति।

औत्सुक्यसन्तापादिकारितमनोविपर्य्यास समुत्थितप्रियाश्रितवृथाव्यापार उन्मादः। व्यापारः कायिको वाचिकश्चेति।

कायिको यथा।

प्रतिफलममृतांशोः प्रेक्ष्य कान्तो मृताक्ष्या
सुखमिति परिहासं कर्त्तुमभ्युद्यतोऽभूत्।
अथ शिथिलत

क्षचो मानमाशङ्क्य तस्याः
स्पृशति पु

स्तकभाजा पाणिपङ्केरुहेब॥१२२॥

वाचिको यथा।

किं रे विधो मृगदृशो मुखमद्वितीयं
कन्दर्पदर्पसिदृगम्बुजमम्बुदेव।
झङ्कारमावहसि भृङ्गतनू न तादृक्
किं कर्म्म किञ्च पुनरीदृशमीक्षणीयम्॥१२३॥

मदन वेदना समुत्थसन्तापकार्श्यादिदीषो व्याधिर्यथा।

कोदण्डं विशिखो मनो निविशते कामस्थतस्या अपि
भ्रूवल्लीनयनाञ्चलं मनसिजो वासः समुन्मीलति।

इत्थं साम्यविधौ तयोः प्रभवति स्वाभी तथा विद्वतां
तन्मानस्तनुतां क्रमादतनुतां नैषा यथा गच्छति॥२२४॥

विरहव्यथा निष्कारणसत्वे बन्धजीवनावस्था जड़ता।

पाणिर्नोरवकङ्कणस्तनतटोनिष्कम्पमानांशुकी
दृष्टिर्निश्चलतारका समभवद्ध्वस्त्रांशुकं कुण्डलम्।
कश्चित्रार्पितश्च समं मृगदृशोर्भेदो वदन्नो यदि
त्वन्नामस्मरणेन कोऽपि पुलकारम्भः समुज्जृम्भते॥१२५॥

स्वप्ननचित्रसाक्षाद्भेदात् दर्शनं त्रिधा। स्वप्नदर्शनं यथा—

मुक्ताहारं नच कुचगिरेः कङ्कणंनैव हस्तात्
कर्णात् स्वर्णाभरणमपि वा नीतवानेव भागात्।
आहो स्वप्ने वकुलकुसुमं भूषणं सन्दधानः
कोऽयं चौरो हृदयमहरत् तन्वि तन्न प्रतीमः॥१२६॥

चित्रदर्शनं यथा।

नीवी हरेदुरसिजं विलिखेन्न केन
दन्तच्छदञ्च दशनेन दशेदकस्मात्।
इत्थंपटे विलिखितं प्रविलोक्य कान्तं
बाला पुरे वनजहारविहारशङ्काम्॥१२७॥

साक्षाद्दर्शनं यथा।

चेतस्त्वं चलतां त्यज प्रियसखि ब्रीड़े न मां पीड़य
भ्रातर्म्मुञ्च दृशो निमेष भगवन् काम क्षणं क्षम्यताम्।
बर्हं मूर्ध्नि च कर्णयोः कुवलयं धेनुं दधानः करे
सोऽयं लोचनगोचरी भवतु मे दामोदरः सुन्दरः॥१२८॥१६

माध्वीकस्यन्दसन्दोहुसुन्दरीं रसमञ्जरीम्।

कुर्वन्तु कवयः कर्णभूषणं कृपया मम॥

तातो यस्य जनेश्वरः कविकुलालङ्कारचूड़ामणि-
र्देशो यस्य विदेहनूःसुरसरित्कन्दो न कर्म्मोरिता।
पद्येनात्मकृतेन तेन कविना श्रीभानुना बोधिता
वाग्देवी श्रुतिपारिजातकुसुमं स्पर्द्धाकरी मञ्जरी॥१२८॥

इति श्रीमहामहोपाध्यायभानुदत्तमिश्रविरचिता

रसमञ्जरी ममाप्ता॥

<MISSING_FIG href="../books_images/U-IMG-1729334499DASA.PNG"/>

राजप्रशस्तिः।

स्वस्ति श्रीमन्महाराजाधिराजेषु निवेदनम्।
तारानाथद्विजस्थेदमाशीराशिपुरस्मरम्॥

कमला कमलालयालये लसतात्तेऽचपला निरन्तरम्।
बदने वचनाधिपालिका समरे तेऽग्रसरास्तु कालिका॥

चित्तस

प्रनि तवास्तु सन्ततें वासुदेवपदवाच्यधाम तत्।
येन सर्व्वमिदमाततं ततं पालितं तदनु संहृतं क्रमात्॥

योगमार्गनिहितेन चेतसा विश्वरूपमनघं विभावय।
तेन लब्धपुरुषार्थसार्थकं सार्थकं जननमस्तु भूप ! ते॥

सवीजा हृद्वृत्तिः क्रममनुगता वीजरहिता
परे तत्त्वे सम्यग् लयमुपगता जन्मशमनी।

त्रयाणां तापानामतिशयसमूलक्षयकरी
प्रगाढ़ ते भूयात् प्रकृतिपुरुषव्यक्तिजननी॥

संप्रज्ञातसमाधिधूतनिरये चित्ते क्रमादुद्गताऽ-
संप्रज्ञातममाधिना नरपते !भयात् विवेकोदयः।
अत्यन्तः पुरुषार्थलाभ इह ते भूयाश्च भूमीपते !
येनाश्रान्तभोन तेन न भवे भूयात् पुनः सम्भवः॥

चित्तप्रसादनकरी परिकर्म्मरूपा
ज्योतिष्मती मधुमती च तथा विशोका।
आनन्दया च सहिता सततं चकास्तु
भूपालवर्ण्य ! सततं तव चित्तवृत्तिः ॥

मैत्री साधुषु दुःखितेषु करुणोपेक्षा च पापात्मसु
वृत्तिः सा हृदयस्य भूप ! मुदिता सौख्यान्वितेष्वस्तु ते।
एतासां परिशुद्धभाववशतः स्थैर्य्यान्वितं मानसं
सर्व्वानर्थनिवर्हणाय नृप ! ते शान्तिं परामृच्छतु॥

योगोक्तलक्षणयमादिभिरष्टसंख्यै-
र्योगानुशीलनमनुक्षणमातनु त्वम्।
तुष्टीः सदा नवविधा नृपते ! लभस्व
लस्यन्तु योगजनितास्तव सिद्धयोऽष्टौ॥

क्लेशजन्मपरिहीण ईश्वरो
वासनारहित एष भूपते ! ।
कर्म्मपाकपरिमुक्त आदिम-
श्चेतसि प्रणिहितः सदास्तु ते॥

सारूप्यं विषयेषु सन्ततमनुस्युतं विहायान्तरं
योगं वृत्तिनिरोधलक्षणमथो चित्तस्य भूपाप्नुहि।
येन स्यात् परनिर्वृतिर्नच पुनर्जन्मादिकं भूपते !
जायेत्रापि भवार्णवे न च गतिः संसारमूलक्षयात् ॥

शान्तो दान्तेन्द्रियः सन्नुपरतिसहितो दुःखसौ

स्थेसहिष्णु-
वि

श्वासी शा

स्त्रवाक्ये गुरुवचसि तथा श्रद्धया संयतश्च

आत्मन्येवात्मवीक्षानियतनिरतिभृत् सर्व्वयोगाङ्गयुक्तो
भूया भूपाल ! भूयो भवभवनसमुच्छेदबोधोदयार्थम्।

आपाततो ज्ञातवेदवेदाङ्गार्थोऽपकल्मषः।
नित्यनैमित्तिकप्रायश्चित्तोपास्तिपरोऽमि यत्॥

नित्यानित्यविवेकिता तव सदा मोक्षे च तीव्रस्पृहा
वैराग्यं विषये तवास्ति सततं शान्त्यादि षट्कं तथा।
तेन ब्रह्मविचारणे नरपते ! मन्येऽधिकारी भवाम्
तस्मात् सद्गुरुसेवनेन सततं तत्रैव यत्रं क्रियाः॥ युग्मम्

वेदार्थानुभवेन यज्ञविधिना दानैस्तपश्चर्य्यया
प्रायश्चित्तविधानतो विविदिषा जातेति मन्ये तव।
यस्या ब्रह्मविचारणाय यतसे वित्तादिमुक्तैषण!
भयात् ते नृप। वेदवाक्यजनिता ब्रह्मात्मसाक्षात्कृतिः॥

यया शक्त्या सम्यक्प्रसृतमपि चैतन्यममलं
गुहास्थंसद्रत्नं तिमिरनिकरेणावृतमिव।
जहि त्वं विक्षेपाह्वयपरमशक्त्या पुनरमुं
ततस्ते चैतन्यं हृदयमदने संस्फुरतु तत्॥

दोषानशेषानपहाय सम्यगबोधेन जीवन्नपि भक्त एक।
प्रारब्धकर्म्मक्षयतः परस्ताविदेहकैवल्यमवाप्नुहि त्वम्॥

याथार्थ्य बोधेन निवृत्तमिथ्याज्ञानस्य दोषादिविवर्जितस्य।

अजन्मनस्ते क्रमशोऽप्रवृत्तेरात्यन्तिकी दुःखनिवृत्तिरास्ताम्॥

शान्ते स्वान्ते निशान्ते तव वस्तुतरां सर्व्वलोकैकसाक्षी
भूयोभूयोऽभिभूया रिपुकुलनिवहं सर्व धामैकधामन् !॥

प्रत्यूहव्यहराशिस्तव विलयमितो युद्धयात्रासु भूयात्
भूपेभूपेऽनुरूपे भवतु च नितरां तेऽनुकम्पा सदैव॥

सर्वप्रत्ययसङ्ग्ता निगदिता सत्साधनैरन्विता
लिङ्गालिङ्गयुता विभक्तिवचनैनित्यं समुद्भासिनी।
स्फोटात्मा प्रकृतिस्त्वदीव

च्चदये नित्य जरीजृम्भ्यताम्
नित्या ब्रह्ममयी विवर्तजगतामर्थात्मनामाश्रयः॥

प्रजाः प्रजापाल ! पितेव पाया घोरादपायात् जगदेकमान्य।
समस्तविज्ञानविवर्द्धनार्थं लोकानशेषानिह शिक्षय त्वम्॥

धर्मेषु चित्तं रमतां निरन्तरं कुकर्मवृत्तेश्च निवर्त्ततां तव।
प्रजासु कल्याणकरी हृदन्तरे वृत्तिस्त्वदीया सततं विराजताम्॥

माधुर्य्यादिगुणैजुषां सुवचसां रीत्यादिसंशोभिनां
सर्व्वालङ्घतिशालिनां कलयसे सम्यक् रसास्वादनम्।
सत्काव्यार्थाविभावनैकनिपुणः प्राज्ञोऽसि तेनास्म्यहम्
कीत्तिस्यूतगुणादिवर्णनविधौ जातस्तवोत्कण्ठितः॥

यावद्यस्य मतिविधावति परं तावद्वि तेनोद्यते
निःसीमे भक्तीगुणार्णव द्रह प्रान्तं कथं प्राप्तुयाम्।

यावन्तस्तु गुणा मम श्रुतिगतास्तावन्त एवोदिताः
क्षन्तव्यं क्षितिपाल ! चापलमिदं सोढुः क्षमैवोचिता॥

अहो विधातुः करुणा प्रजासु ययाक्षराणीह समुत्ससर्ज।
येभ्यीऽक्षरेभ्यो हृदयस्य भावः प्रकाशतेऽन्यस्य विबोधनार्थम्॥

भावं स्वात्मगुहाशयं न परथा वेद्यं परैर्व्यञ्जयन्
वर्णस्तोममहानिधिर्विधिकृतो लोकोपकाराय यत्।
तेनैव व्यवहारिणो वयमहो वर्णेषु सर्व्वेवशा
वर्णाद्यस्त्वमतश्च वर्णतुलया राजन् पुरो वर्ण्यासे॥

वर्ण्यन्ते विषया यैस्तेलोके वर्णा इतीरिताः।
ज्ञातेषु तेषु वर्णेषु सार्व्वज्ञयात् लब्धवर्णता॥

आरात्यकं दुःखमितीह लोके विष्णुर्यथाकारपदाभिधेयः।
नाशाय दुःखग्रहणात्तथैव राजस्त्वमाकारपदेन वाच्यः॥

कं सुखं हि कुरुते प्रजापतिस्तेन तस्य विदिता ककारता।
सर्व्वलोकसुखकारता यतस्त्वय्यतस्तव ककारता मता॥

तोऽसि वर्णादिरनाद्यवर्णो वर्गोत्तमश्चादिमवर्गरूपः।
ततोहि लोके मनुजेन्द्र ! चित्रं सर्व्वे विरोधास्त्वयिनाशमाप्ताः॥

प्रणयसे येन समस्तलोकैस्तेनैव लोके प्रणवोऽसि राजन्।
धर्मार्थकामत्रयतत्परत्वात् त्रयीव मूर्त्तिर्भवतञ्चकास्ति॥

शासनात् सव्वलोकानां शास्त्ररूपोऽसि भूपते!।
सर्व्वस्थितेर्धारणाच्च धर्म्म इत्यभिधीयसे॥

सर्व्वलोके राजमानः प्रकृतीश्चापि रञ्जयन्।
संगतार्थं राजशब्दं बिभ्रत् लोकेषु विश्रुतः॥

यशःस्तोमे सोमे तव समुदिते भूमिवलये
तमोवृन्दं स्थानं क्वचिदपि यदा नाप नृपते !।
तदा भ्रामं भ्रामं वियति कृतलक्ष्यंगतमद-
स्तमोरूपेणैव स्थितमिति मुधा ज्योतिषकथा॥

सत्कीर्त्तिपूर्त्तिनिवहेन धरातले ते
वर्णान्तरापहरणात् धवलीकृतेऽस्मिन्
वर्णेषु भेदरहिता इह सर्व्वलोकाः
चित्रं त्वदीयविषये नृप ! वर्णभेदः॥

त्वदीयकीर्त्त्या सितया

हमाल ! सर्व्वेषु वर्णेषु निवारितेषु।
चित्रं त्वदीये विषये समन्तात् सर्व्वेऽपि लोकाः किल लब्धवर्णाः॥

कुन्देन्दुसुन्दरचा तव कीर्त्तिपूर्त्त्या
ध्वस्तं गुहास्थमपि यत् तम एतदेत्य ।
व्योमापि त

ङ्गश्चवशात् किल कीर्त्तिबन्धुं
चन्द्रं समाश्रितेमदो न विधौः कलङ्कः॥

भूमण्डलादपहता यज्ञसेन्दुना या
तस्यापकारकरणाय कृतोद्यमा ते।
तद्वन्धुचन्द्रमनघं ग्रसतीव रोषात्
राहुच्छलेन किल भूप । तमस्ततिः सा॥

विश्वरूपपरिचिन्तयानिशं विश्वरूपधरतामुपेयि

वान्।
योहि यत्र मन आददे चिरं तेन तस्य किल रूपमा

ध्यते॥

विश्वात्मकोऽपि यतसे कमलोंदयार्थं
लोकेषु धर्म्मजननात् तमसो निरासात्।

तेजः सहस्रनिलयो जगतां पतिच्च
भास्वांच्च नी स्वरकरः प्रथितः पृथिव्याम्॥

कलयन् सकलाः कलाः सदा रचयन् कौमुदमुद्विजृम्भणम् ।
द्विजराजोऽसि कलङ्कभागितां न च दोषाकरताञ्च नाश्रितः ॥

भूमिनन्दनतां बिभ्रत् रक्ताङ्गत्वञ्च धारयन्।
मङ्गलोऽपि महीपाल ! वक्रत्वं न समाश्रितः॥

द्विजवरगणराजं नन्दयन् सौम्यमृर्त्तिः
प्रथितबधसमाख्यो रोहिणीनन्दनश्च।
नरपतितिलकस्त्वं राजपुत्रत्वमाप्तः
स्वरतरकरयोगं नाश्रितस्त्वं कदाचित्॥

गिरांपतिर्जिष्णुमतःकचान्वितस्तारापतिच्चित्रशिखण्डिभूषितः।
गुरुर्नियन्ताश्रमवृत्तिभिक्षणात् परं न चार्ब्वाकमतप्रवर्त्तकः॥

कविश्च काव्यप्रणयात् सदा त्वं नीत्यादिशास्त्रेषु च पारदृश्या
सदोदयस्तेभुवि तीग्भतेजःसम्पर्कता नास्ति मनाक कदाचित्।

प्राणिहिंसाभयेनेव पद्भ्यां मन्दं चरन् भुवि।
शणैश्वरोऽसि मित्रस्य नन्दनात् क्रूरता न ते॥

छायया भूमिमाश्रित्य चन्द्रार्कौ तेजसा ग्रसन्।
राहुत्वं प्राप्तवान् राजन् न क्षागुत्वमवाप्तवान्॥

वैरिव्यहविनाशनाय जगतामुत्पातकेतुर्भवान्
क्रान्तौ खेचरगास्त्वदीयवशगास्तेनासि पातो मतः।

चित्त्रास्ते शतशः शिखाः समुदिता बुद्धेश्च वीर्य्यस्य च
जाने नासुरयोनिरद्भुतमिदं लोकेषु तद् विश्रुतम्॥

विघ्नानां वारणाल्लोके गणराजत्वमागतः।
तव नो रामवैरित्वं दाने न वारणास्यता॥

भवान् शक्तिधरः साक्षात् सेनानीत्वमुपागतः।
सुकुमारो महीपाल ! न च प्राप्तः कुमारताम्॥

विभूतिभूषितो भूप ! तारानाथकतेक्षणः।
गामाश्रित्य शिवो भूत्वा न प्रातः कामवैरिताम्॥

विद्वनानसहंसवामनिरतो बास्याच कण्ठे श्रितो
हस्ते साक्षकमण्डलुर्मरपते ! सृत्रं च विवत् गले॥
वेदानध्ययनादिभिर्वज्झलचनुचैच्चतुर्भिर्मुखैः
त्वं ब्रह्मत्वमुपागतोऽपि रजसा नाक्रान्त इत्यद्भुतम्॥

नित्यं सत्वसमाश्रितांद्विजगतिर्लक्ष्मीपतिर्भूपते !
देवानां हितकृत्सतां गतिरहो वैकुष्ठधानाश्रितः।
गोलोकैकविभूषणं च शरणं भक्तस्य कामप्रसू-
र्विष्णुस्त्वं बलिदासतां न च गतो जानेऽतिचित्रं महत्॥

धर्म्मेण राजसे यस्मात् ततस्ते धर्म्म राजता।
प्रजासु दण्डधरता संमता न तु कालता॥

श्रीदः पुण्यजनेश्वरच्च नृपते ! भूतेशबन्धुस्तथा
जातीऽपि प्रथितः कुबेरपदभाक् नैवासि चित्रं हि तत्।
पाशाड्यो नृप ! वाहिनीपतिरथो पञ्चाद्दिगीशोऽपि यत्
तच्चित्रं न च वारुणीमधिगतो नो वा जडेशोऽभवान्॥

जाने शुद्धमतङ्गजाधिपतितां जीवे च ते गौरवं
स्वर्गे वासिसलोकतां नरपते ! लोकाधिपत्वं तथा।

शास्त्रेषु प्रक्षिप्तंसहस्रनयनत्वञ्चेति सक्ष्मेक्षया

त्
पौरस्त्येषु समादस्ते न च तवेत्ये तद्विचित्रं महत्॥

मित्रोदयाय यतसे सततंपुरस्तात्
तत्रस्थलोकनिवहांरत्वयि रागयुक्तान्।
मुक्तान्यदेशनिकरेषु वसुप्रदोऽभूः
पौरस्त्यवासिषु कथं न वसुप्रसारः॥

गिरीशसेवनान् मूर्ध्ना वर्त्मत्रयविभूषणात्।
गङ्गत्यमाश्रितो भूप!नि

गगत्यं न चाश्रितः॥

रामकृष्णासेवनेन गङ्गासङ्गमनेन च।
क्लिवप्रि

य ति

मिवात् धनाभावेऽपि वा।
सुशुचिर्न तु नर्वभञ्चको द्विजराजो न करूणभूषितः।
धमपि कुवेरा वजन कमलेशोऽपि न वा जनार्द्दनः।

कुशासनरतोऽपि वा कुन विवर्जितः
नवा रिक्कोऽपि दानारिविधकः॥

चलयसि कलिमलनाशं भजसि च ब्रगदावासम्।
चलयसि विकलतासं रचयचि वृष ! सुरवासम्॥
नानातीर्थसमाश्रयोद्विनकुलेनाराधितोभूयसा
शश्वत् सौरभशालिनां सुमनसामुलासहेतुस्तथा।

गम्भीरोऽतिदुरासदोऽहितजुषां पद्मै

कभृमिर्भवान्
मध्ये कोऽपि जलाशयोऽसि महतां तापस्य संशान्तये।
शङ्खचक्रपरिचिह्नितः करे पादयोर्ध्व जसुक्ष्मादिलाञ्छितः।
मालया बनजवा च शोभितो वैष्णव ङ्क

सखिलं त्वमाश्रितः॥

सर्व्वेषां तापनाशाय दक्षिणो मलयाचलः।
कथं न मयि दाक्षिण्यं कुर्य्यादाशंसनं मम॥

त्वं दानवारिपरिसेवनमात्रकर्मा
नित्यादिकर्म्मसु तथा कृत्य दानधर्म्मा।

लोकादिरक्षणविधौ कृतवर्म्मा
दानादिनाश्रितजने कृतदेवशर्मा ॥

उज्जृम्भते हि सरसां कमलोदयार्थं
भास्वान् दिवेति विदितं नृप ! लोकमध्ये।

त्वं सर्वदा तु जगतां किल सर्वदाना-
दुज्जृम्भसे नरपते ! कमलोदयार्थम्॥

उदेयेनैव सविता जगद्धर्मप्रवर्त्तकः।
श्रद्धादयेऽसि नृपते ! सर्व्व धर्मप्रवर्त्तकः॥

शश्वत् श्रुतोऽसि मनसा परिशोलितोऽसि
ध्यानेन मुद्रितदृशा च विलोकितोऽसि॥

तस्मात्तु ते परिचय मयि वर्त्ततेऽद्य
त्वय्येव मे परिचयाय ममैष यत्नः।

तव गुणनिकरान्तं नैव गन्तुं समर्था
वयमिति विरताः स्म श्रान्तियोगाच्च राजन॥

कलयसि गुणलेशं दोषजालं जहासि
गुणिगणगुणलेशादा

श्यतेाषो भवान् यत्॥

गुणानामाधारे गुणिजनगुणग्राहकवरे
दयासारे पारेवचन मनुवर्णैकनिलये।

ममैषाः विज्ञप्ति र्नयनपदवीमेत्य सहसा
सदा सानन्द तं विरचयतु नित्यं रमयतु।
प्रशस्तिपत्रिका यत्नात् श्रीतारानाथशर्म्मणा।
द्विजेन रचिता तुष्ट्यै दृषस्यास्तु चिरं शिवम्॥

इति श्रीतारानाथतर्कवाचस्पत्तिभट्टाचार्य्यविरचित
राजप्रशस्तिः समाप्ता

<MISSING_FIG href="../books_images/U-IMG-1729350615GHB.PNG"/>

हृन्दावनयमकं।

वरदाय नमो हरये पतति जनो यं स्मरन्नपि न मोहरवे।
बहुशश्चक्रं दहता मनसि दितिर्येन दैत्यचक्रं दहता॥१॥

स्वमिव भुजं गवि शेषं व्युपधाय स्वपिति यो भुजङ्गविशेषम्।
नवपुष्करसमकरया श्रीयोर्मि पंक्त्याच सेवितः समकरथा॥२॥

येन च वलिरसुरोधः समवस्थापितः क्षितेरसुरोधः।
पृथुकः सन्निभवदनः चिक्षेप च यः सरोजसन्निभवदनः॥३॥

विशेषकम्।

स्तौमि च लाङ्गलव

न्तं देवं यः संयुगे च लाङ्गलवन्तम्।
कपिमकरोदसुरहितं दिविदं दृढ़मुश्चिताड़नादसुरहितम्॥४॥

आपानपरम्परया भेजे यं रेवती जितपरं परया।
बिभ्रतमालानाभौ बामन

हममकुसुमाश्च माला नाभौ॥५॥

यो रूढमदारुणथा तन्वा प्रणतं प्रतिद्विषमदारुणया।
कर्षितदानवकुलया विभवौ गन्धविजितेभदानवकुलया॥६॥

ग्रहपतिरिव हिमहीनः कान्त्याभूदुग्रसेन इति हि महीनः।
प्रकृतिभिररिहेतीह स्वयं वृतः संहताभिररिहेतीहः॥७॥

बलभिदरीभागानां जेताविन्ध्यर्क्षवदरीभागानाम्।
शौक्त्यादाशार्हस्व प्रभवो यशसः नमश्च दाशार्हस्य॥८॥

योभोक्तेव सुधावाः वर्णकविः शशिता च वसुधायाः।
यस्य परामुदधीनां तटेषु दत्तिं प्रचक्षते मुदधीनाम्॥९॥

भरत इबविभावसवः सर्वेषां प्राणिनामथ विभावसवः।
यस्मिन्वसुधामवति स्थिरा बभूवुः समाश्च वसुधाभवति॥१०॥

अनुष्टात्मरघो राज्ञः प्रत्याख्याताशनः प्रभुरघोराज्ञः।
योगिभिरित्यस्तमितः केशवमाप्नोमि नाथमस्तमितः॥११॥

तस्येयमकार्येभ्यः च्युतेन तनयेन रचितयमकार्येभ्यः।
दत्ता वाक् स्वाकृतिना मानाङ्केन हरिसंश्रया स्वाकृतिना॥१२॥

अथ जग्मतुरुरुमत्तौ वयसा वृन्दावनान्तरं रुरुमत्तौ।
हरिराहितकुमुदसितः स्निग्धतराङ्गस्तमा हली कुमुदस्तिः॥१३॥

उदधिपयोनिर्घोषंतत्र निवेप्याच्यु तोऽपयोनिर्घोषम्।
अविचिन्तितकं सबलः चचार भेजे च यामुनकं सबलः॥१४॥

प्रियसुहृदामोदरयोः ललतो रथरौहिणेयदामीदरयोः।
कृतपशुवृन्दावनयोः धर्मः क्षयमापयितवृन्दा वनयोः॥९५॥

क्षोभमगादभ्राणां स्तनितैर्विद्युत्वतामगादभ्राणाम्।
मुनिरपि नीरागमनाः सरितश्चासंप्रवृत्तनीरागमनाः॥१६॥

रोन्द्रंकन्दर्प्यस्य प्रथमो हेतु र्बभूवकन्दर्पस्य।
स्त्रीहृृदयान्यभिदनतः सशरैःप्राप्य सुहृृदो घनामभिदमतः॥१७॥

विद्युद्गौरी हावान् अकृतेव घनेष्वसभृञ्च गौरीहावान्।
सुलभवलाकायेषु म्लपितचिरप्रोषितबलाकायेषु॥१८॥

जात्या सज्जालकया यूथिकया चाप्तयुवतिसज्जालकया।
कमलानि ससर्जाभ्यां भ्रमरः कृष्णो वलादिव ससर्जाभ्याम्॥१९॥

व्याप्य दिशो दश निभृतः क्षणमपि तस्थौ शासनादशनिभृतः।
संसमितागवलस्य ध्वनत् घनौघसमप्रभोगवलस्य॥२०॥

भ्रमर दश कदम्बरजः त्वमितीववदन् स्वनादशकदम्बरजः।
हन्तुं विभ्रमरहितां नलिनोंपथिकाङ्गनाञ्च विभ्रमरहिताम्॥२१॥

ज्योत्स्नालंघनमलिना न बभौ क्रियते स्प्रकुटजलङ्घनमलिना।
बलवानवपृरोहन्हृद्यास नदीतटांश्च नवपूरोऽहन्॥२२॥

शिखिषु समुत्सु, कमनसः
गतिहरमुञ्चति च खे समुत्सकमनसः।
व्यमुञ्चन्नपवनजवना
वापीर्हसाश्च न पवनजवनाः॥२३॥

शब्दोनादेयानां कलुषतया नो शशाम नादेयानाम्।
फेणी वा नीराणां आकृष्टोभयतटान्तवानीराणाम्॥२४॥

प्राप्य सखद्यीतायां निशि विद्युज्जितमरुत्सस्वद्योतायाम्।
प्रियतमसदनं गेहा दवला भयमुत्ससर्ज सदनङ्गेहा॥२५॥

पर्वतकटकेशानां नीपरजः कपिलकुम्भकटकेशानाम्।
कुञ्जनदीनगजानां हर्षो जज्ञे महान्नदीनगजनाम्॥२६॥

विविधोपलराशिखरं पिदधे गोवर्द्धनं तृणैराशिखरम्।
कालोऽगन्धारावान् अकरोत्कुजटशिखिनाञ्च गन्धारावान्॥२७॥

कणिकाभिरषां सुखरा वृन्दावनमारुता ववुरपांसुखरा।
यमुना नचमुदकषटंभेजेब्रजलोकमाश्रिता मुदकपटम्॥१८॥

अतपनबसुदे वसुतौ ब्रजस्य साम्भेततोऽह्निवसुदेसुतौ।
अमृतसमधुनीभवन्तंवृन्दावनमविशतां समधुमीपवनम्॥२९॥

शिखिसर्वस्नधरस्मद्वेप्रियतां जग्मतुर्हरेः स्वधरस्य।
भ्रमरकदम्बकरहा वेणुः प्राक्षष्ट तथा कदम्बकरबहा॥३०॥

अंशादामोदस्य स्थानमबभ्रुंशि नीपदामोदस्य।
श्रीर्लैलितमयो व्रजतः कायिबभूवास्य मुष्टिकमयो ब्रजतः॥३१॥

धृतकामधुरैःमधुरैः
धमरेज्यो मुदितवल्लवकुलैर्मकुलैः।
क्षतकेशिशिराः शिशिराः
स्यलीर्युताःप्राथसोऽस्तसुरभीः सुरभीः॥३२॥

ता वृत्रभरणाभरणा स्तेनयुताः स्वयमिवांज्रनभसा नभया।
रेजुः सुतरां क्षुतरां यमुनामभितः स्वच्छ, ललता खलता॥३३॥

श्रेष्ठपदारोहाण्याःसुतोय लंघ्यमहिमा पदारोहिण्याः।
प्राप्य शरीरं तुङ्गां द्यतिञ्चसइवागतः शरीरं तुङ्गास्॥३४॥

निचुलवतीं ककुभानां
समो मतिक्षान्तिकान्तिभिः ककुभानाम्।
अंशेन स्वनवद्यां
अजंवहन्रपिबदलिकुलं स्वनवद्याम्॥३५॥

दृष्ट्योद्ध्यलासितिया लिम्पन्निवदिङ्मुखानि धवलासितया।
बहुधा पवनेच्छायां प्रावृषि मेघानुयातपवनेच्छायाम्॥३६॥

अथ स वलक्षोभाणांपतिरिव कर्तारमरिवलक्षोभाणाम्।
मुसलीदं तुरगहनं वीक्ष्य गिरिं प्राह कुटजदन्तुरगहनम्॥३७॥

विदधच्छन्नः कत्रः कुटजैःक्षरति प्रगीतगोपी गोपः।
प्रश्वनदभ्रोदभः सृष्टिविशेषो यमतुलधातुः धातुः॥३८॥

पश्य श्यामा श्यामा वनस्थली भाति वलवद्दृश्या दृश्या
प्रदरा धारा धारा धुन्यन्ति मेघाश्च शिरसि हन्ते हन्ते॥३९॥

अस्मसु कन्दलदशनैः रुद्धमति दरीमुखैश्च कन्दलदशनैः।
दीयतोच्युत हेममयः तव च रवीन्दोरिवाचलो हेममयः॥४०॥

शकुनिपताकाशवलं घनवृन्दचक्षुषा पताकाशवलम्।
रूपं हारीतानां श्रियं वनानां च मत्तहारीतानाम्॥४१॥

पूर्वं स्प्रहरे शेषे यान्मेघान् वीक्ष्य भूश्रमहरे प्रेषे।
जनितरतिरसावसितैः आदाय तड़िद्गुणार्णवरसावसितैः॥४२॥

कार्मुकवलयमनूनं दिशसि यत्तोषितोसि वलयमनूनम्।
इत्याशमुखरतया घनराज्या हरिरिवोच्यते मुखरतया॥४३॥

नतवोपरिवर्हेण ग्रथिताभरणस्य गोपपरिवर्हेण।
कायामसितापघनः सुरचापाङ्कः परैरकसितापघनः॥४४॥

हतगिरिधातुरसङ्गा रुध्वा तव भुजसमोर्मिधातुरसङ्गा।
कुलानि स्वनद्यमुना वहति जलमसौ विसर्पति खनद्यमुना॥४५॥

पवनैरजसा ध्वस्तं बिभ्राणां नीपमात्मरजसाध्वस्तम्।
पश्यैकान्ततरलतां स्थलीमितां वर्हियोगकान्तरलताम्॥४६॥

वसने संस्तवनं नवा जेतुमजममोधसंस्तवन नवा।
मधुकरविश्वसितानि स्मितमिहकुटजानि जनितविश्वसितानि॥४७॥

मारुतवेगाद्गुणवन्नवशशिखण्डानां
शुल्कापाङ्गविडम्बितनवशशिखण्डानाम्।
संघाः शिखिनां प्राप्ताः शङ्केकायन्ते
स्थलघनमिति मन्वानाः शङ्केकायन्ते॥४८॥

पश्यशिलाशैलेस्मिन्नुच्चावचसानौ
यान्त्युन्मुख्यवर्हिणताम् ञ्चावचसानौ।
अमुना शमितरिपुस्त्रीशृंगारोहित्वं
याचितदवाम्बुनादैःशृङ्गारोहित्वम्॥४९॥

नदति जलदैर्निदाघे सारङ्गोपास्ते
विभूति केतकमवनेः सारङ्गोपास्ते।
संप्रत्यद्यमकालो न वाहिनीपानां
त्वन्मुस्वसुरभीनां च श्रीर्नवा हि नीपानाम्॥५०॥

इत्याह पीतवाससमायतनेत्नस्तं
कंसासुरात्पशुमतामायतनेत्नस्तम्।
हमितातां विमलतया स हली लाजानां
कायां विकिरन्दशनैः सह लीलाजानाम्॥५१॥

इति श्रीवृन्दावनं नाम यमककाव्यं
मानाङ्ककृतं समाप्तम्।

______________

विद्यासुन्दरम्।

कालिन्दीतटसन्निधावुपवनें गोपाङ्गनालिङ्गन-
क्रीड़ाकर्षणचुम्बनादिरसितः संमूर्च्छितो वेणुना।
स्थित्वा कल्पमहीरुहाश्रितलतावासे सुपुष्यान्विते
नानाभूषणभूषितो विहसितः कृष्णः प्रसन्नोऽस्तु ते॥१॥

राजात्मजे कामकलाकलापे संगीतविद्यारसिकेऽम्बुजाक्षि।
हेमप्रभे पीननितविम्बे विम्बोष्टिरम्भोरु मयि प्रसीद॥२॥

गिरौ समाकर्ण्य मयूरनादं जगाद विद्या वचसा कुमारम्॥
पद्येन कोऽयं वद रौति शैले भृदुस्वरं प्राज्ञवरो यदि स्याः॥३॥

गोमध्यमध्ये मृगगोधरे हे सहस्रगोभूषणकिङ्कराणाम्।
नादेन गोभृच्छिञ्चरेषु मत्ता नदन्ति गोकर्णशरीरभक्षाः॥४॥

स्वयोनिभक्षध्वजसम्भवानान् श्रुत्वानिनादं गिरिगह्वरस्थः।
तमोऽरिविम्बप्रतिविम्बधारी रुराव कान्ते पवनाद्यनाशः॥५॥

बालेऽवलारत्नदयार्द्रा चित्ते
प्राणेश्वरि श्रीमति सुप्रसन्ने।
दासोऽस्मि ते सुन्दरि राजपुत्त्रि
प्राणानि रक्षस्व हि मे मृगाक्षि॥६॥

हे पान्थ चिन्ताकुलितातिमूढ़ः
संस्तौषि किं मामबलां कृशाङ्गीम्।
अर्थं यदि प्रार्थयसे भजेशं
मोक्षञ्च लक्ष्मीपतिमम्बुजाक्षम्॥७॥

धनं त्वमेवात्नसुवर्णवर्णे! स्त्रीरत्नभूते! मम रत्नभूषा।
सेवापि ते भूपतिजे ! प्रसन्ने ! सौख्यप्रदे ! मोक्षदवासुदेवः॥८॥

प्रिये ! सदा पूर्णतरं मनोहरं ते निष्कलङ्कं मुखचन्द्रमण्डलम्॥
विलोक्य सव्रीड़तया निशापतिर्गतः प्रतप्तोजलधेर्जलान्तरम्॥९॥

किं केसकौपरिमलोत्थितगन्धलुब्धो
गुञ्जन् भ्रमन् भ्रमर वाश्छसि रन्तुमेताम्।
यत् कण्डकैः परिवृतामतुलामगम्यां
संरक्षितां व्रज निकुञ्जलतां सपुष्पाम्॥१०॥

यत् केतकीकुसुमसौरभगन्धलुब्धो
भृङ्गस्तदर्पितरसोदितचित्तवृत्तिः।
किं कण्ठकैर्भवतु दुर्गम एव किंवा
जानाति सुभ्र ! वरकुञ्जलतां न चैच्छत्॥११॥

त्वद्वर्त्तुल स्थलसुवर्णकान्ति रम्यस्तनश्रीफलयुग्ममेतत्।
दृष्ट्वा वने श्रीफलसङ्कलं किं लज्जाभिरालम्बितमेव वृक्षे॥१२॥

हे कोकिलाखिललतासु फलानि सन्ति
संत्यज्य तानि ननु चूतलतां सपुष्पाम्।
किं काङ्क्षसीह रमितुंफलभोक्तुकामः
न ज्ञायसे नृपतिसेवकभीषणीयाम्॥१३॥

यञ्चातकोऽन्यानि जलानि हित्वा
धाराजले प्राप्तमतिं करोति।
तथा पिकश्चुतफलानि तानि
रम्याणि दृष्ट्वान्यफलं जहाति॥१४॥

विचक्षणे! पद्मिनि! पद्मगन्धे !
प्रमत्तमातङ्गगतेऽनुरक्ते।
कृपात्मजे ! जीवय मा मनोज्ञे !
मनोजवाणपव्रणस्विन्नगात्नम्॥१५॥

मृदादिपात्नेसलिलं यथा स्यात्
तृब्णाक्षरं स्वादु सुशीतलञ्च।
सुवर्णरत्नैरपि निर्म्मिते तु
गतं सुपात्नेऽम्बुतथा न किं स्यात्॥१६॥

सद्धेमरत्नचयनिर्म्मितवारिपात्रे
गाङ्गं सुनिर्म्मलहिमं परमं सुरम्यम्।
कर्पूरवासितजलं सुखदं यथा स्यात्
कौपं पयःकिमु भवेच्च तथाविधानम्॥१७॥

बलित्रयाबद्धसुसूक्ष्ममध्ये!
विषापहार्य्यौषधमन्त्ररूपे!।
मनोजबाणौघविषार्त्तगात्र-
मनुग्रहं मां कुरु सम्प्रति त्वम्॥१८॥

कन्दर्पबाणावशचित्तवृत्ते!
किमर्थमेवं वदसि स्मरार्त्त!।
ज्ञातव्यमेवं यदि मे च पित्रा
कथं त्वया कामुक! जीवितव्यम्॥१९॥

जघान बाणैर्दशभिर्द्दशास्य-शिरांसि सीताहरणेस रामः।
त्वदङ्गसङ्गाय सदानुरक्ते प्रयातु मे मस्तकमेकमेव॥२०॥

स्वरूपसन्दर्शनमेव देहि चक्षुर्द्वयं मे सफलीकुरुष्व।
तपःकृतं येन नरोत्तमेन तेनाङ्गसङ्गः स्तव लभ्यते च॥२१॥

प्रपृर्य्यते किं ननु दर्शनेन विनापि कुक्षिर्वरभोजनेन।
सखण्डमारीचपयोभवेन रसान्वितस्वादुसुधोपमेन॥२२॥

भो देवि! सुभ्र, कृशशीतलकोमलाङ्गि!
नानाविभूषणविभूषितचारुगात्रि।
आज्ञां विधेहि किमहं करवाणि हृद्ये
प्राणप्रदेऽद्य परिपूरय मेऽभिलाषम्॥२३॥

विद्याविनोदरसिके! सुरतैकपात्रे!
सर्व्वाङ्गसुन्दरि! धराधिपतिप्रसूते।
यद्यस्ति मेऽद्य सदये न दया तवैव
त्वत्प्राप्तथे सुरसरित्सु तनुं त्यजामि॥२४॥

सुरक्षकैरेष विमोदसौधः
सुदुर्गसोऽन्तःपुरचारिभिश्च।
सखीजनैरिङ्गितहेत्वभिज्ञैः
कथं हि ते वाञ्छितसिद्धिरस्तु॥२५॥

प्रसन्नतायां त्वयि राजकन्ये!
भवेत् सुसिद्विर्म्मम वाञ्छितस्व।
अभीष्टदा कल्पलतेव भासि
सुकेशि! चिन्तामणिरेव किं त्वम्॥२६॥

मृदुलकनककान्ति श्वाससौरभ्यरम्यं
वदनकमलमेतन्नेत्रमत्तद्विरेफम्।

तव किमु सुसमीक्ष्य व्रीड़या पद्मवृन्दम्
सरसि सलिलपूर्णे मर्त्तुकामं विवेश॥२७॥

ज्योत्स्ना दिवं गच्छति वाञ्छितस्य
सिद्धिर्भवेत् कर्म्मबलेन पुंसाम्।
पुनः पुनर्व्वाक्यमिदं सुलब्धम्
बुभुक्षितः किं द्विकरेण भुङ्क्ते॥२८॥

प्राणाधिके! प्रियतमे! तव रूपरज्जु-
बद्धोऽस्मि संप्रति कथं भवने वसामि।
राजात्मजे! त्वमसि सुन्दरि कर्म्मरूपा
त्वत्प्रीतिरम्यसुरतैर्म्मम कार्य्यसिद्धिः॥२९॥

चन्द्रानने ! श्रीफलपीनतुङ्ग-
रम्य स्तनि ! स्प्रेरसुधांशुवक्त्रे।
विद्याविनोदे ! सुविचक्षणा त्वं
स्त्रीरत्नभूते ! मयि भोः प्रसीद॥३०॥

कामाभिराम कामार्त्त प्रीतिविश्रम्भभाजनम्।
साकं सख्या समागच्छ त्यक्तमार्गोऽन्यरूपधृक्॥३१॥

अद्यैव पुष्यदिवसो मम देवि! बाले !
तत्पादपङ्कजयुगं ह्यवलोक्यते यत्।
रम्यातिपीनजघनस्तनि! सेवकं मां
मुग्धे ! विधेहि ! सदयेऽधरसीधुलुब्धम्॥३२॥

गुणाक्षरस्येव विधानमत्न
त्वं निर्म्मिता देवि ! तथा विधात्ना।

विधेस्तु जानामि सुकौशलत्वं
त्वद्रपकल्पा यदि दृश्यतेऽन्या॥३३॥

उक्तं त्वया मदनसुन्दर! पूर्वमस्मत्-
सन्दर्शनाय ननु साम्प्रतमेव दृष्टम्।
गच्छ स्वकीयभवनं त्वरितञ्च पश्य
प्राणेश्वरीं तव मनोरथसिद्धिरस्तु॥३४॥

त्वमेव मे भूपतिजे! निवास-
स्त्वमेव जीवेश्वरि! नास्ति मेऽन्या।
प्रसन्नता ते सकलेष्टसिद्धि-
र्मनोजसम्मोहिनि! मामव त्वम्॥३५॥

तवनयनकटाक्षक्षिप्तबाणव्रणार्त्तां
मम तनुमनुरक्ते! जीवय ह्यौषधेन।
त्वदधरमधुपानं क्षेममेकं परस्तु
स्तनजघनविलग्रालिङ्गनं गात्नलेपः॥३६॥

क्रीड़ार्थं मदनातुरा प्रियतमा सञ्जातलज्जादरा
कान्तं केलिनिकेतनं नृपसुता नीत्वात्मशव्वोपरि।
संस्थाप्यागुरुचन्दनं सुकुसुमं कर्पूरपूगं पुरो-
दत्वा प्रीतिसखीजनैःप्रहसिता कान्तेन सम्मानिता॥३७॥

सव्रीड़ां हि विनिर्गतां प्रियसखीं दृष्ट्वा स कामातुर-
स्तस्याः पीनघनस्तनोरुयुगलादाकृष्य चेलांशुकम्।
कृत्वालिङ्गनचुम्बनं नृपसुतां पीत्वाधरं ताड़न
मन्दं दन्तनखक्षतानि कुरुते क्षोभञ्च नीव्यास्ततः॥३८॥

दृष्टं तज्जघनस्थलं स्तनयुगं लज्जाभरव्याकुला
बाला सत्कवरीसुपुष्पविलसन्मालाहते दीपके।
चञ्चद्रत्नसुतेजसा समभवद्दीपोपमेन स्फुटं
दृष्ट्वाकान्तिगुणाधिकं स्मितमुखी सा त्यक्तलज्जाभवत्॥३९॥

सत्पानं सुमनः स्रजश्च मधुरालापश्च पादद्वये
सौवर्णध्वनि नूपुरद्वयमिदं कर्पूरपर्णानि च।
कर्पूरागुरुचन्दनादिरचनासीत्कारनादाः कथा
एतान्याभरणानि किं निधुवने प्रोत्साहयन्ति स्मरम्॥४०॥

शृङ्गारमेतद्विपरीतमस्याः
समाचरन्त्यानृप राजपुत्त्र्याः।
कर्णे शशी कुण्डलछद्मरूपो
गण्डस्थलीं चुम्बति किं स कामी॥४१॥

उत्तुङ्गस्तनयुग्मनिर्द्दयदृढ़ाश्लेषेण तेऽद्य प्रिये!
दन्ताघात नखक्षतैः सुमधुरालापैस्तथा चुम्बनैः।
नानाबन्धविनोदिताधिकरसेनैतत् कृतं सार्थकं
गात्रमे पुरुषायितेन शमिता कन्दर्पबाणव्यथा॥४२॥

यद्वक्त्रमुखरञ्च कुण्डलयुगं लोलायमानं प्रिये!
निःशब्दंवहतीह नृपुरसुगं यद्यत्कृतं भाविनि!।
निःशब्दा कटिमेखला घनरवं विज्ञापयन्ती स्प्ररं
कुर्वन्ती जयडिण्डिमध्वनिमसौशृङ्गारसत्ताण्डवे॥४३॥

त्वद्वक्त्रंरुचिरानने! त्वदधराद्दिव्यामृतं स्वादितं
याभ्यां ते नयने निचोलरहितं सर्व्वाङ्गमालोकितम्।

तौ, हस्तौ जघनस्थलं स्तनयुगं ते सन्दधानौच यौ
तड्गात्रंतपसार्ज्जितं रतिसुखं प्राप्ताङ्गसङ्गञ्चयत्॥४४॥

त्वद्दिव्यपीनस्तनयुग्ममास्यं
त्वच्चारुरूपं जघनस्थलञ्च।
त्वत्पीवरं रम्यनितम्बविम्बं
मज्जीवनं जीवयतिस्प्रकान्ते!॥४५॥

निशावशेषे रमणाभिलाष-
सिद्धिस्तवासीत् किमतः परन्तु।
यथा न जानाति जनोऽपि कश्चित्
तथा तथा याहि पुनस्त्वमेहि॥४६॥

तवास्त मेऽनुग्रह एष देवि!
त्वदङ्गसङ्गात् सफलं हि जन्म।
न च प्रिये मां विजहासि नूनं
मनोव्यथाभैषजमत्र नास्ति॥४७॥

न स्नानं नच भोजनं न पठनं नान्यत्र सौख्यं धृति-
र्नान्यस्त्रीजनसेवनं नच कथा निद्राविलासोद्यमः।
किन्तु त्वां परिचिन्तयामि सततं ध्यानेन चेतः स्थितां
स्वप्नालीकनकामकेलिविधिना जीवामि कान्ते! तव॥४८॥

रात्रिः कालयुगोपमा मलयजो गन्धानिलः किं विषं
सोमः सूर्य्य इवाभवन्मलयजालेपः स्फुलिङ्गोपमः।
तिक्तः सुस्वरगोतवाद्यपरभृत्पारावतादिध्वनि—
बजस्याहतिरेव कर्णयुगले विच्छेदतो मे तव॥४९॥

चन्द्रो द्वादशभास्करः समभवद्रात्निर्युगानां शतं
मिष्ठंतिक्तरसं विलेपनमही दोप्तानलो मे तव।
विच्छेदान्मलयानिलः प्रियतमे! किं कालकूटः श्रुतौ
गीतादिध्वनिरेव वज्रसदृशोऽरस्यं विचित्नगृहम्॥५०॥

मानं मानिनि ! मुञ्च देवि ! दयिते ! मिथ्या वचः श्रूयते
किं कोपो निजसेवके यदि वचः सत्यं त्वया गृह्यते।
दोर्भ्यांबन्धनमाशुदन्तदलनं पीनस्तनास्फालनं
दोषश्चेन्मम ते कटाक्षविशिखैः शस्त्रैःप्रहारं कुरु॥५१॥

नानाकथा कौतुककेलिभिः सा सार्द्धं तु तेनैव रमेत नित्यम्।
हर्म्येसुरम्ये रमयेन युक्ता वरासखीभिः परमप्रियाभिः॥५२॥

कामार्त्तोनवयौवनः कविवरो भूपालपुत्र्या समं
नानाबन्धविनोदनिर्भररतिक्रीड़ारसानन्दितः।
गत्वान्तःपुरतो वहिर्विलसिता राजाग्रतो नीयते
चौरो राजनियोजितैः सुपुरुषेश्चारैरुपायक्षमैः॥५३॥

राजा तानपि सेवकान् सुवसनालङ्कारभूषीकृतान्
कृत्वा घ्नन्तु विपक्षकं खरतरं खड्गं समानीय ते।
नीत्वा तं भवनाद्वहिविलसितं राजात्मजं साहसं
दृष्ट्वा संस्मर देवतामिति तदाप्यचुः स चौरोऽवदत्॥५४॥

इति विद्यासुन्दरं समाप्तम्।

** _____________**

** सम्पूर्णम्।**

गीतगोविन्दे।

सामोददामोदरः।

मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-
र्नक्तं भीरुरयं त्वमेव तदिमं राधे! गृहं प्रापय।
इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्ति यमुनाकूले रहः केलयः॥१॥

वाग्देवताचरितचित्रितचित्तसद्मा
पद्मावतीचरणचारणचक्रवर्ती।
श्रीवासुदेवरतिकेलिकथासमेतम्
एतं करोति जयदेवकविः प्रबन्धम्॥२॥

यदि हरिस्प्ररणे सरसं मनो यदि विलासकलासु कुतूहलम्।
मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम्॥२॥

वाचःपल्लवयत्युमापतिधरः सन्दर्भशुद्धिङ्गिरां
जानीते जयदेवएव शरणः श्लाघ्यो दुरूहद्रुते।
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्य्यगोवर्द्धनः
स्पर्द्धीकोऽपि न विश्रुतः श्रुतिधरो धोयी कविः क्ष्मापतिः॥४॥

मालवगौड़रागेण रूपकतालेन गीयते।

प्रलयपयोधिजले धृतवानसि वेदम्।
विहितवहित्रचरित्नमखेदं
केशव! धृतमीनशरीर जय ‘जगदोश! हरे’ ध्रवम्॥१॥

क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे
धरणिधरणकिणचक्रमरिष्ठे।
केशव! धृतकच्छपरूप! ‘जय जगदीश हरे’॥२॥

वसति दशनशिखरे धरणीतव लग्ना
शशिनि कलङ्ककलेव निमग्ना।
केशव! धृतशूकररूप! ‘जय जगदीश हरे’॥३॥

तव करकमलवरे नखमद्भुतशृङ्गं
दलितहिरण्यकशिपुतनुभृङ्गम्।
केशव! धृतनरहरिरूप ‘जय जगदीश हरे’॥४॥

कलयसि विक्रमणे बलिमद्गुतवामन-
पदनखनीरजनितजनपावन!
केशव! धृतवामनरूप! ‘जय जगदीश हरे’॥५॥

क्षत्रियरुधिरमये जगदपगतपापं
स्रपयसि पयसि शमितभवतापम्।
केशव! धृतभृगुपतिरूप! ‘जय जगदीश हरे’॥६॥

वितरसि दिक्षु रणेदिक्पतिकमनीयं
दशमुखमौलिबलिं रमणीयम्।
केशव! धृतरामशरीर! ‘जय जगदीश हरे’॥७॥

वहसि वपुषि विशदे वसनं जलदाभं
हलहतिभीतिमिलितयमुनाभम्।
केशव! धृतहलधररूप! ‘जय जगदीश हरे’॥८॥

निन्दसि यज्ञविश्वेरहह! श्रुतिजातं

सदयहृदयदर्शितपशुघातम्।
केशव! धृतबुद्धशरीर! ‘जय जगदीश हरेः॥९॥

म्लेच्छनिवहनिधनेकलयसि करबालं
धूमकेतुमिव किमपि करालम्।
केशव! धृतकल्किशरीर! ‘जय जगदीश हरे’॥१०॥

श्रीजयदेवकवेरिदमुदितमुदारं, शृण शुभदं सुखदं भवसारम्।
केशव! धृतदशविधरूप! ‘जय जगदीश हरे’॥११॥

वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते
दैत्यान्दारयते बलिं कलयते क्षत्रक्षयं कुर्वते।
पौलस्त्यंजयते हलं कलयते कारुण्यमातन्वते
म्लेच्छामूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यन्नमः॥१२॥

गुर्जरीरामनिःसारतालाभ्यां गीयते।

श्रितकमलाकुचमण्डल ! धृतकुण्डल ए
कलितललितनवमाल ! ‘जय जय देव ! हरे ध्रुवम्’॥१॥

दिनमणिमण्डलमण्डन ! भवखण्डन ए
मुनिजनमानसहंस ! ‘जय जय देव हरे’॥२॥

कालियविषधरगञ्जन ! जनरञ्जम ए
यदुकुलनलिनदिनेश ! ‘जय जय देव हरे’॥३॥

मधुमुरनरकविनाशन ! गरुड़ासन ए
सुरकुलकेलिनिदान ! ‘जय जय देव हरे’॥४॥

अमलकमलदललोचन !भवमोचन ए
त्रिभुवनभवननिधान ! ‘जय जय देव हरे’॥५॥

जनकसुताकृतभूषण! जितदूषण ए
समरशमितदशकण्ठ! ‘जय जय देव हरे’॥६॥

अभिनवजलधरसुन्दर! धृतमन्दर ए
श्रीमुखचन्द्रचकोर! ‘जय जय देव हरे’॥७॥

तव चरणे प्रणता वयमिति भावय ए
कुरु कुशलं प्रणतेषु ‘जय जय देव हरे’॥८॥

श्रीजयदेवकवेरिदं कुरुते मुदम् ए-
मङ्गलमुज्ज्वलगीति ‘जय जय देव हरे॥९॥

पद्मापयोधरतटीपरिरम्भलग्न-
काश्मीरमुद्रितमुरो मधुसूदनस्य।
व्यक्तानुरागमिव खेलदनङ्गखेद-
स्वेदाम्बुपूरमनुपूरयतु प्रियं वः॥१०॥

वसन्तरागयतितालाभ्यां गीयते।

वसन्ते वासन्तीकुसुमसुकुमारैरवयवै-
र्भ्रमन्तीं कान्तारे बहुविहितकृष्णाबुसरणाम्।
अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया
बलद्वाधांराधां सरसमिदसूचे सहचरी॥१॥

ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे
मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे।
‘विहरति हरिरिह सरसवसन्ते
नृत्यति युवतिजनेन समं सखि! विरहिजनस्य दुरन्ते ध्रुवम्॥२॥

उन्मदमदनमनोरथपथिक-
बधूजनजनितविलापे।
अलिकुलसङ्कुलकुसुमसमूह-
निराकुलवकुलकलापे ‘विहरति’॥३॥

मृगमदसौरभरभसवशम्बद-
नवदलमालतमाले।
युवजनहृदयविदारणमनसिज-
नखरुचिकिंशुकजाले ‘विहरति’॥४॥

मदनमहीपतिकनकदण्ड-
रुचिकेशरकुसुमविकासे।
मिलितशिलीमुखपाटलिपटल
कृतस्मरतूणविलासे ‘विहरति’॥५॥

विगलितलज्जितजगदवलोकन
तरुणकरुणकृतहासे।
विरहिनिकृन्तनकुन्तमुखाकृति-
केतकिदन्तुरिताशे ‘विहरति’॥६॥

माधविकापरिमलललिते नवमालतियातिसुगन्धौ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ‘विहरति’॥७॥

स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते।
वृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ‘विहरति’॥८॥

श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारं
सरसवसन्तसंमयवनवर्णनमनुगतमदनविकारं ‘विहरति’॥९॥

दरविदलितवल्लीवल्लिश्वञ्चत्पराग-
प्रकटितपटवासैर्वासयन् काननानि।
इह हि दहति चेतः केतकीगन्धबन्धः
प्रसरदसमवाणप्राणवङ्गन्धवाहः॥१॥

उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-
क्रीड़त्कोकिलकाकलीकलकलैरुङ्गीर्णकर्णज्वराः
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण-
प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः॥११॥

अनेकनारीपरिरम्भसम्भूमस्फुरन्मनोहारिविलासलालसम्।
मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम्॥१॥

रामकिरीरागयतितालाभ्यां गीयते।

चन्दनचर्चितनीलकलेवरपीतवसनवनमाली
केलिचलन्मणिकुण्डलमण्डितगण्ड-
युगस्मितशाली ‘हरिरिह मुग्धबधूनिकरे’
विलासिनि विलसति केलिपरे ध्रुबम्॥२॥

पीनपयोधरभारभरेण हरिं परिरम्य सरागं
गोपबधूरनुगायति काचिदुदञ्चितपञ्चमरागं ‘हरिरिह’॥३॥

कापि विलासविलोलविलोचनखेलनजनितमनोजम्।
ध्यायति मुग्धबधूरधिकं मधुसूदनवदनसरोजं ‘हरिरिह’॥४॥

कापि कपोलतले मिलिता लपितुंकिमपि श्रुतिमूले।
चारु चुचुम्ब नितम्बवतीदयितं पुलकैरनुकूले ‘हरिरिह’॥५॥

केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले
मञ्जुलवञ्जलकुञ्जगतं विचकर्षकरेण दुकूले ‘हरिरिह’॥६॥

करतलतालतरलबलयावलिकलितकलस्वनवंशे।
रासरसे सह नृत्यपरा हरिणा युवतिः प्रशशंसे ‘हरिरिह’॥७॥

श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम्।
पश्यति सस्मितचारुपरामपरामनुगच्छति वामां ‘हरिरिह’॥८॥

श्रीजयदेवभणितमिदमद्भुतकेशवकेलिरहस्यम्।
वृन्दावनविपिनेललितं वितनोतु शुभानि यशस्यं‘हरिरिह’॥९॥

विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर-
श्रेणीश्यामलकोमलैरूपनयन्नङ्गैरनङ्गोत्सवम्।
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः
शृङ्गारः सखि! मूर्त्तिमानिव मधौ मुग्धो हरिः क्रीड़ति॥१०॥

अद्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं
प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः।
किञ्च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया-
दुन्मीलन्ति कुहूःकुहूरितिकलोत्तालाः पिकानां गिरः॥११॥

रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवा-
मभ्यर्णे परिरभ्य निर्भरमुरःप्रेमान्धया राधया।
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-
व्याजादुद्भटचुम्बितस्मितमनोहारी हरिः पातु वः॥१२॥

इति श्रीगीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः।

    \_\_\_\_\_

अक्लेशकेशवः।

_______________

विहरति वने राधा साधारणप्रणये हरौ
विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः।
क्वचिदपि लताकुञ्जगुञ्जन्मधुव्रतमण्डली
मुखरशिखरे लीना दीनाप्युवाच रहः सखीम्॥१॥

गुर्जरीरागेण यतितालेन

च गीयते।

सञ्चरदधरसुधामधुरध्वनिमुखरितमोहनवंशं
चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम्।
“रासे हरिमिह विहितविलासं
स्मरति मनो मम कृतपरिहासं ‘ध्रुवम्’॥२॥

चन्द्रकचारुमयूरशिखण्डकमण्डलबलयितकेशं
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशं “रासे”॥३॥

गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम्।
बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभं “रासे”॥४॥

विपुलपुलकभुजपल्लवबलयितबल्लवयुवतिसहस्रम्।
करचरणोरसिमणिगणभूषणकिरणविभिन्नतमिस्रं “रासे”॥५॥

जलदपटलचलदिन्दविनिन्दकचन्दनतिलकललाटम्।
पीनपयोधरपरिसरमर्दननिर्दयहृदयकपाटं “रासे”॥६॥

मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम्।
पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारं “रासे”॥७॥

विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम्।
मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तं ‘रासे’॥८॥

श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम्।
हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम् ‘रासे’॥९॥

गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते
वहति च परितोषं दोषं विमुञ्चति दूरतः।
युवतिषु चलत्तृष्णे कृष्णे विहारिणि मां विना
पुनरपि मनो वामं कामं करोति करोमि किम्॥१॥

मालवगौड़रागेण एकतालीतालेन च गीयते।

निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तं
चकितविलोकितसकलदिशा रतिरभसभरेण हसन्तं।
“सखि हे केशिमथनमुदारं रमय मया सह
मदनमनोरथभावितया सविकार” ध्रुवम्॥२॥

प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम्।
मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलं ‘सखि हे’॥३॥

किशलयशयननिवेशितया चिरमुरसि ममैव शयानम्।
कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानं ‘सखि हे’॥४॥

अलसनिमीलितलोचनया पुलकावलिललितकपोलम्।
श्रमजलसिक्तकलेवरया वरमदनमदादतिलोलम् ‘सखिहे’॥५॥

कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम्।
श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ‘सखिहे’॥६॥

चरणरणितमणिनूपुरया परिपूरितसुरतवितानम्।
मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ‘सखिहे’॥७॥

रितिसुखसमयरसालसया दरमुकुलितनयनसरीजम्।
नः सहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ‘सखिहे’॥८॥

श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम्।
सुखमुत्कण्ठितगोपबधूकथितंवितनोतु सलीलम् ‘सखिहे’॥९॥

हस्तस्रस्तविलासवंशमनुजभ्रुवल्लिमद्वल्लवी
वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम्।
मामुद्वोक्ष्यविलक्षितस्मितसुधामुग्धाननं कानने
गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च॥१०॥

दुरालोकस्तोकस्तवकनवकाशोकलतिका-
विकाशः काशारोपवनपवनोऽपि व्यथयति।
अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल-
प्रसूतिश्चूतानां सखि! शिखरिणीयं सुखयति॥११॥

साकूतस्मितमाकुलाकुलगलद्धन्मिल्यमुल्लासित-
भ्रूवल्लीकमलीकदर्शितभुजामूलार्द्धदृष्टस्तनम्।
गोपीनां निभृतं निरोक्ष्यदयिताकाङ्क्षश्चिरं चिन्त्ययन्
अन्तर्म्मुग्धमनोहरं हरतु वः क्लेशं नवः केशवः॥१२॥

इति अक्लेशकेशवोनाम द्वितीयः सर्गः।
_______

** तृतीय सर्गः।**

_____

सुग्ध मधुसूदनः।

कंसारिरपि संसारवासनाबद्धशृङ्खलाम्।
राधामाधाय हृदये तत्याज व्रजसुन्दरीः॥१॥

इतस्ततस्तामनुसृत्य राधिकामनङ्गवाणव्रणखिन्नमानसः।
कृतानुतापः स कलिन्दनन्दिनीतटान्तकुञ्जेनिषसाद माधवः॥२॥

गुज्जरीरागयतितालाभ्यां गीयते।

मामियं चलिता विलोक्य वृतं बधूनिचयेन
सापराधतया मयापि न वारितातिभयेन।
“हरिहरि हतादरतया गता सा कुपितेव”ध्रुवम्॥३॥

किं करिष्यति किं वदिष्यति सा चिरं विरहेण।
किं धमेन जनेन किं मम जीवितेन गृहेण ‘हरिहरि’॥४॥

चिन्तयामि तदाननं कुटिलभ्रुकोपभरेण।
शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ‘हरिहरि’॥५॥

तामहं हृदि सङ्गतामनिशं भृशं रमयामि।
किं वनेऽनुसरामि तामिहि किं वृथा विलपामि ‘हरिहरि’॥६॥

तन्वि! खिन्नमसूयया हृदयं तवाकलयामि।
तत्र वेद्मि कुतो गतासि न तेन तेऽनुनयामि ‘हरिहरि’॥७॥

दृश्यसे पुरतो गतागतमेव मे विदधासि।
किं पुरेव ससम्भ्रमं परिरम्भणं न ददासि ‘हरिहरि’॥८॥

क्षम्यतामपरं कदापि तवेदृशं न करोमि।
देहि सुन्दरि! रमणं मम मन्मथेन दुनोमि ‘हरिहरि’॥९॥

वर्णितं जयदेवकेन हरेरिदं प्रवणेन।
केन्दुविल्लसमुद्रसम्भवरोहिणीरमणेन ‘हरिहरि’॥१०॥

हृदि विषलताहारोनायं भुजङ्गमनायकः
कुवलयदलश्रेणीकण्ठे न सा गरलद्युतिः।
मलयजरजो नेदं भस्म प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग! क्रुधा किमु धावसि॥११॥

पाणौमा कुरु चूतसायकममुंमा चापमारोपय
कीड़ानिर्ज्जितविश्व! मूर्च्छितजनाघातेन किं पौरुषम्।
तस्या एव सृगीदृशोमनसिजमेङ्क्षत्कटाक्षाशुग
श्रेणीजर्ज्जरितं मनागपि मनो नाद्यापि सन्धुक्षते॥१२॥

भूपल्लवं धनुरपाङ्गतरङ्गितानि
वाणा गुणः श्रवणपालिरिति स्मरेण।
तस्यामनङ्गजयजङ्गमदेवताया-
मस्त्राणि निर्ज्जितजगन्ति किमर्पितानि॥१३॥

भ्रुचापे निहितः कटाक्षविशिखो निर्म्मातु मर्म्मव्यथां
श्यामात्माकुटिलः करोतु कवरीभारोऽपि मारोद्यमम्।
मोहं तावदयञ्चतन्वि! तनुतां विम्बाधरोरामवान्
सद्वृत्तस्तनमण्डलस्तव कथं प्राणैर्मम क्रीड़ति॥१४॥

तानि स्पर्शसुखानि ते च तरुणाः स्निग्धादृशो-
र्व्विभ्रमास्तद्वत्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा।

सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेद्मानसम्।
तस्यां लग्नसमाधि हन्तं विरहव्याधिः कथं वर्त्तते॥१५॥

तिर्य्यक्वण्ठविलोलमौलितरलोत्तंसस्य वंशोच्चरद्
गीतस्थानक्वतावधानललनालक्षैर्न संलक्षिताः।
संमुग्धं मधुसूदनस्य मधुरे राधामुखेन्दौ मृदु-
स्पन्दं कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्मयः॥१६॥

                           इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीय सर्गः।

______

**
स्निग्धमधुसूदनः।**

यमुनातीरवानीरनिकुञ्जेमन्दमास्थितम्।
प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी॥१॥

कर्णाटरागैकतालीतालाभ्यां गीयते॥

निन्दति चन्दनमिन्दुकिरणमनुविन्दति खेदमधीरं
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरं
“सा विरहे तव दीना।

माधव मनसिजविशिखभयादिव भावनया त्वयि लीना” “ध्रुवम्”
अविरलनिपतितमदनशरादिव भवदवनाय विशालम्।
स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालं “सा विरहे”
कुसुमविशिखशरतल्पमनल्प विलासकलाकमनीयम्।
व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयं “सा वि रहे”

वहति च बलितविलोचनजलधरमाननकमलमुदारम्।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारं “सा विरहे”
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम्।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतं “सा विरहे”
प्रतिपदमिदमपि निगदति माधव तव चरणे पतित्ताहम्।
त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तमुदाहं“सा विरहे”

ध्यानलयेन पुरः परिकल्प्य
भवन्तमतीव दुरापम्।
विलपति हसति विषीदति रोदिति
चञ्चति मुञ्चति तापं “सा विरहे”॥८॥

श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम्।
हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयं “सा विरहे”॥९॥

आवासो विपिनायते प्रियसखीमालापि जालायते
तापोऽपि श्वसितेन दावदहनज्वाला कलापायते।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं
कन्दर्पोऽपि यमायते विरचयन् शार्दूलविक्रीडितम्॥१०॥

देशाखरागैकतालीतालाभ्यां गीयते॥
स्तनविनिहितमपि हारमुदारम्।
सा मनुते कृशतगुरिव भारम्।
“राधिका तव विरहे केशव” ध्रुवम्॥११॥

सरसमसृणमपि मलयजपङ्कम्।
पश्यति विषमिव वपुषि सशङ्कं “राधिका”॥१२॥

श्वसितप वनमनुपमपरिणाहम्।
मदनदहनमिव वहति सदाहं “राधिका “॥१२॥

दिशि दिशि किरति सजलकणजालम्।
नयननलिनमिव विगलितनालं “राधिका”॥१४॥

नयनविषयमपि किशलयतल्पम्।
गणयति विहितहुताशविकल्प “राधिका”॥१५॥

त्यजति न पाणितलेन कपोलम्।
बालशशिनमिव सायमलोलं “राधिका”॥१६॥

हरिरिति हरिरिति जपति सकामम्।
विरहविहितमरणैव निकामं “राधिका”॥१७॥

श्रीजयदेवभणितमिति गीतम्।
सुखयतु केशवपदमुपनीतं “राधिका”॥१८॥

सा रोमाञ्चति सीत्करोति विलपत्युत्कम्पते ताम्यति
ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि।
एतावत्यतनुज्वरं वरतनुर्जीवेन्नकिं ते रसात्
स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा हस्तकः॥१९॥

स्मरातुरां दैवतवैद्यहृव्य
त्वदङ्गसङ्गामृतमात्रसाध्याम्।
विमुक्तबाधां कुरुषे न राधाम्
उपेन्द्रवज्रादपि दारुणोऽसि॥२०॥

कन्दर्पज्वरसंज्वरातुरतनोराश्चर्य्यमस्वाश्चिरं
चेतश्चन्दनचन्द्रमः कमलिनीचिन्तासु सन्ताम्यति।

किन्तु क्षान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं
ध्यायन्तीरहसि स्थिता कथमपि क्षीणाक्षणं प्राणिति॥२१॥

क्षणमपि विरहः पुरा न सेहे
नयननिमीलनखिन्नया यया ते।
श्वसिति कथमसीरसालशाखां
चिरविरहेण विलोक्य पुष्पिताग्राम्॥२२॥

दृष्टिव्याकुलगोकुलावनवशादुद्धृत्य गोवर्द्धनं
विभ्रद्वल्लवबल्लभाभिरधिकानन्दाच्चिरं चुम्बितः।
दर्पेणैव तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो
बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसद्विषः॥२३॥

इति श्रीगीतगोविन्द स्निग्धमधुसूदनो
नाम चतुर्थः सर्गः॥४॥

     \_\_\_\_\_

** साकांक्षपुण्डरीकाक्षः।**

अहमिह निवसामि याहि राधां
अनुनय मद्वचनेन चानयेथाः।
इति मधुरिपुणा सखीनियुक्ता
स्वयमिदमेत्य पुनर्जगाद राधां॥१॥

देशीवराड़ीरागेण रूपकतालेन गीयते।
वहतिमलयसमीर मदनमुपनिधाय

स्फुटति कुसुमनिकरे विरहिहृदयदलनाय
“तव विरहे वनमाली सखि! सीदति” ध्रुवम्॥२॥

दहति शिशिरमयूखे मरणमनुकरोति
पतति मदनविभिखे विलपति विकलतरोऽति “तव विरहे”॥३॥

ध्वनति मधुपसमूहे श्रवणमपिदधाति।
मनसि बलितविरहे निशि निशि रुजमुपयाति “तव विरहे”॥४॥

वसति विपिनविताने त्यजति ललितधाम।
लुठति धरणिशयने बहु विलपति तव नाम “तव विरहे”॥५॥

भणति कविजयदेवे विरहिविलसितेन।
मनसि रभसविभवे हरिरुदयतु सुकृतेन “तव विरहे”॥६॥

पूर्वं यत्र समं त्वया रतिपतेरासादिताः सिद्धय-
स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः।
ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं
भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति॥७॥

गुर्जरीरागेण एकतालीतालेन गीयते।

रतिसुखसारे गतमभिसारे मदनमनोहरवेशम्।
न कुरु नितम्बिनि! गमनविलम्बनमनुसर तं हृदयेशम्।
“धीरसमीरं यमुनातीरे वसति वने वनमाली” ध्रुम्॥८॥

नामसमेतं कृतसङ्केतं वादयते मृदु वेणुम्।
बहु मनुते तनुते तनुसङ्गतपवनचलितमपि रेणुं “धीरसमीरे”९

पतति पतत्रे विचलति पत्रे शङ्किभवदुपयानम्।
रचयति शयनं स चकितनयनं पश्यति तवपन्थानं “धीरसमीर”॥१०॥

मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम्।
चल सखि कुञ्जंसतिमिरपुञ्जंशीलय नीलनिचोलं “धीरसमीरे”
उरसि मुराररुपहितहारे घन इव तरलबलाके।
तड़िदिव पीतेरतिविपरीते राजसि सुकृतविपाके “धीरसमीरे”
विगलितवसनं परिहृतरसनं घटय जघनमपिधानम्।
किशलयशयने पङ्कजनयने निधिमिव हर्षनिधानं “धीरसमीरे”
हरिरभिमानी रजनिरिदानीमियमपि याति विरामम्।
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामं “धीरसमीरे”
श्रीजयदेव कृतहरिसेवे भणति परमरमणीयम्।
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयं “धीरसमीरे”

विकिरति मुहुःश्वासानामाः पुरो मुहुरीक्षते
प्रविशति मुहुः कुञ्जंगुञ्जन्मुहुर्बहु ताम्यति।
रचयति मुहुः शय्यां पर्य्याकुलं मुहुरीक्षते
मदनकदनक्लान्तः कान्ते प्रियस्तव वर्त्तते॥१६॥

त्वद्वाक्येन समं समग्रमधुना तिग्मांशरस्तं गतो
गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम्।
कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना
तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः॥१७॥

आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-
प्रोद्वोधादनु सम्भ्रमादनु रतारम्भादन प्रीतयोः।
अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानती-
र्दम्पत्योरिह को न को न तमसि ब्रीड़ाविमिश्रो रसः॥१८॥

सभयचकितं विन्यस्यन्तीं दृशौ तिमिरे पथि
प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम्।
कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः
सुमुखिसुभगः पश्यन् स त्वामुपैतु कृतार्थाम्॥१९॥

राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली
नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः।
स्वच्छन्दंव्रज सुन्दरीजनमनस्तोषप्रदोषश्चिरं
कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः॥२०॥

इति श्रीगीतगोविन्देऽभिसारिकावर्णने साकाङ्क्ष
पुण्डरीकाक्षोनाम पञ्चमः सर्गं॥५॥

         \_\_\_\_\_\_

** धृष्टवैकुण्ठः।**

अथ तां गन्तुमाशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा
तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह॥१॥

गोण्डकिरोरागेण रूपकतालेन गीयते
पश्यति दिशि दिशि रहसि भवन्तम्।
तदधरमधुरमधूनि पिवन्तं
“नाथ हरे सीदति राधाव सगृहे”। ध्रुवम्॥२॥

त्वदभिसरणरभसेन वलन्ती
पतति पदानि कियन्ति चलन्ती “नाथ हरे”॥३॥

विहितविशदविशकिमलयपलया।
जीवति परमिह तव रतिकलया।“नाथ हरे”॥४॥

मुहूरवलोकितमण्डललीला।
मधुरिपुरहमिति भावनशीला।“नाथ हरे”॥५॥

त्वरितमुपैति न कथमभिसारम्।
हरिरिति वदति सखीमनुवारम्। “नाथ हरे”॥६॥

श्लिष्यति चुम्बति जलधरकल्पम्।
हरिरुपगत इति तिमिरमनल्पम्।“नाथ हरे”॥७॥

भवति विलम्बिनि विगलितलज्जा।
विलपति रोदिति बासकसज्जा। “नाथ हरे”॥८॥

श्रीजयदेवकवेरिदमुदितम्।
रसिकजनं तनुतामतिमुदितम्। “नाथ हरे”॥९॥

विपुलपुलकपालिः स्फीतसीत्कारमन्त
र्जनितजड़िम काकुव्याकुलं व्याहरन्ती।
तव कितव विधायामन्दकन्दर्पचिन्तां
रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षि॥१०॥

अङ्गेष्वाभरणं करोति बहूशः पत्रेऽपि सञ्चारिणि
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति।
इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत
व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति॥११॥

किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि
भ्रातर्याहि न दृष्टिगोचरमितः सानन्दनन्दास्पदम्।

राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो
मोविन्दस्य जयन्ति सायमतिथेः सुस्रिग्धगर्भा गिरः॥१२॥

इति श्रीगीतगोविन्दे वासकसज्जावर्णन धृष्टवैकुण्ठो
नाम षष्ठः सर्गः॥६॥

** _______**

** नागरनारायणः।**

अत्रान्तरेच कुलटाकुलवर्त्मपात
सञ्जातपातक इव स्फुटलाच्छनश्रीः।
वृन्दावनान्तरमदीपयदंशुजालै
र्दिक्सुन्दरीवदनचन्दनविन्दुरिन्दुः॥१॥

प्रसरति शशधरबिम्बे विहितविलम्वेच माधव विधुरा
विरचित विविधविलापं सा परिपापं चकारोच्चः॥२॥

मालवरागयतितालाभ्यां गीयते।

कथितसमयेऽपि हरिरहह! न ययौ वनं
मम विफलमिदममलरूपमपि यौवनम्।
“यामि हे कमिह शरणं
सखीजनवचनवञ्चिता”। ध्रुवं॥३॥

यदनुगमनाय निशि गहनमपि शीलितं
तेन मम हृदयमिदमसमशरकीलितं “यामि हे”॥४॥

मम मरणमेव वरमतिवितथकेतना

श्चिमिह विषहामि विरहानलमचेतना “यामि हे”॥५॥

मामहह विधुरयति मधुरमधुयामिनी
कापि हरिमनुभवति कृतसुकृतकामिनी“यामि हे”॥६॥

अहह! कलयामि वलयादिमणिभूषणम्।
हरिविरहदहनवहनेन बहुदूषणं “यामि हे”॥७॥

कुसुमसुकुमारतनुमतनुशरलीलया।
स्रगपि हृदि हन्ति मामतिविषमशीलया “यामि हे”॥८॥

अहमिह निवसामि नगणितवनवेतसा।
स्मरति मधुसूदनो मामपि न चेतसा “यामि हे”॥९॥

हरिचरणशरणजयदेवकविभारती
वसतु हृदि युवतिरिव कोमलकलावती “यामि हे”॥१०॥

तत् किं कामपि कामिनीमभिसृतः किंवा कलाकेलिभि
र्वहो बन्धुभिरन्धकारिणि वनाभ्यर्णेकिमुद्भ्राम्यति।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः
सङ्केतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नगतः॥११॥

अथागतां माधवमन्तरेण सखीमियंवीक्ष्यविषादमूकाम्।
विशङ्कमाना रमितं कयापि जनार्दनं दृष्टवदेतदाह॥१२॥

  वसन्तरागयतितालाभ्यां गीयते।

स्मरसमरोचितविरचितवेशा गलितकुसुमदरविलुलितकेशा।
कापि मधुरिपुणा विलसति युवतिरधिकगुणा॥१३॥

हरिपरिरम्भणवलितविकारा
कुचकलशोपरितरलितहारा। “कापि”॥१४॥

विचलदलकललिताननचन्द्रा।
तदधरपानरभसकृततन्द्रा। “कापि”॥१५॥

चञ्चलकुण्डलदलितकपोला।
मुखरितरसनजघनगतिलोला। “कापि”॥१६॥

दयितविलोकितलज्जितहसिता।
बहुविधकूजितरतिरसरसिता। “कापि”॥१७॥

विपुलपुलकष्टपृथुवेपथुभङ्गा।
श्वसितनिमीलितविकसदनङ्गा। “कापि”॥१८॥

श्रमजलकणभरसुभगशरीरा।
परिपतितोरसि रतिरणधीरा। “कापि”॥१९॥

श्रीजयदेवभणितहरिरभितम्।
कलिकलुषं जनयतु परिशमितं। “कापि”॥२०॥

विरहपाण्डुमुरारिमुखाम्बुज द्युतिरयं तिरयन्नपिवेदनाम्।
विधुरतीव तनोतिमनोभुवः सुहृदये हृदये मदनव्यथाम्॥२१॥

गुर्जरीरागैकतालीतालेन गीयते।
समुदितमदने रमणीवदने चुम्बनवलिताधरे।
मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे।
“रमते यमुनापुलिनवने विजयी मुरारिरधुना”। “ध्रुवं”॥२२॥

घनचयरुचिरं रचयति चिकुरे तरलिततरुणानने।
कुरवककुसुमं चपलासुषमं रतिपतिमृगकानने ‘रमते’॥२३॥

घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते।
मणिसरममलं तारकपटलं नखपदमभिभूषिते “रमते”॥२४॥

जितविसकले मृदुभुजयुगले करतलनलिनोदले।
मरकतवलयं मधुकरनिचयं वितरति हिमशीतले “रमते”॥२५॥

रतिगृहजधने विपुलापघने मनसिजकनकासने।
मणिमयरसनं तोरणहसनं विकिरति कृतवासने “रमते

”॥२६॥

चरणकिशलये कमलानिलये नखमणिगणपूजिते।
वहिरपवरणं यावकभरणं जनयति हृदि योजिते “रमते”॥२७॥

रमयतिसुदृशंकामपिसुभृशं खलहलधरसोदरे।
किमफलमवसं चिरमिह विरस वद सखि! विटपोदरे “रमते”॥२८॥

इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके।
कलियुगचरितं न वसतु दुरितं कविनृपजयदेव के “रमते”॥२९॥

नायातः सखि! निर्दयो यदि शठस्त्वं दूति! किं दूयसे
स्वच्छन्दं बहु वल्लभः स रमते किं तत्र ते दूषणम्।
पश्याद्य प्रियसङ्गमाय दयितस्याकृष्यमाणं गुणै-
रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति॥३०॥

देशवराडीरागेण रूपकतालेन गीयते।

अनिलतरलकुवलयनयनेन तपति न सा किशलयशयनेन।
“सखि या रमिता वनमालिना”। ध्रुवम्॥३१॥

विकसित सरसिजललितमुखेन।
स्फुटति न सा मनसिज विशिखेन। “सखि या”॥३२॥

अमृतमधुरमृदुतरवचनेन।
ज्वलति न सा मलयजपवनेन। “सखि या”॥३३॥

स्थलजलरुहरुचिकरचरणेन।

शुठति न सा हिमकरकिरणेन। ‘सखि या’॥३४॥

सजलजलदसामुदवरुधिरेण।
दलति न सा हृदिविरहभरेण। ‘सखिया’॥३५॥

कनकनिकषरुचिवसवेन।
श्वसिति न सा परिजनहवनेन। ‘सखि या’॥३६॥

सकलभुवनजनवरतरुणेन।
वहति न सा रुजमतिकरुणेन। ‘सखि या’॥३७॥

श्रीजयदेवभणितवचनेन।
प्रविशतु हरिरपि हृदयमनेन। ‘सखि या’॥३८॥

मनोभवानन्दनचन्दनानिल
प्रसीद रे दक्षिण मुञ्चवामत्ताम्।
क्षणं जगत्प्राण विधाय माधवं
पुरो मम प्राणहरो भविष्यसि॥३९॥

रिपुरिव सखीसम्बासोऽयं शिखीव हिमानिलो
विषमिव सुधारश्मिर्यस्मिन् दुनोति मनोगते।
हृदयमदयेतस्मिन्नेवं पुनर्वलते बलात्
कुवलयदृशां वामः कामो निकामनिरङ्कुशः॥४०॥

वाधां विधेहि मलयानिल पञ्चवाण
प्राणान् गृहाण न गृहं पुनराश्रयिष्ये।
किं ते कृतान्तभगिनि क्षमया तरङ्गै-
रङ्गानि सिञ्च मम शाम्यतु देहदाहः॥४१॥

सान्द्रानन्दपुरन्दरादिदिविषद्वृन्दैरमन्दादराद्

आनस्त्रैमुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दीवरम्।
स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरम्
श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे॥४२॥

इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणो
नाम सप्तमः सर्गः॥७॥

_____

विलक्षलक्ष्मीपतिः।

अथ कथमपियामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते।
अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम्॥१॥

भैरवीरागयतितालाभ्यां गीयते।

रजनिजनितगुरुजागररानकषायितमलसनिमेषं
वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम्।
हरिहरि याहि माधव याहि केशव मा वद कैतववादं
तामनुसर सरसीरुहलोचन या तव हरति विषादम्॥२॥

कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम्।
दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम्॥
‘हरिहरि याहि’॥३॥

वपुरनुहरति तव स्मरसङ्करखरनखरक्षतरेखम्।
मरकतसकलकलितकलधौतलिपेरिव रतिजयलेखम्॥
‘हरिहरि याहि’॥४॥

चरणकमलगलदलक्तसितमिदं तव हृदयमुदारं।
दर्शयतीव वहिमंदनद्रुमनवकिशलयपरिवारम्।
‘हरिहरि याहि’॥५॥

दशनपदं भवदधरगतं मम जनयति चेतसि खेदम्।
कययति कथमधुनापि मया सह तववपुरेतदभेदम्॥
‘हरिहरि याहि’॥६॥

वहिरिव मलिनतर’ तव कृष्ण मनोऽपि भविष्यति नूनम्।
कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम्।
‘हरिहरि याहि’॥७॥

भ्रमति भवानबलाकबलाय वनेषु किमत्र विचित्रम्।
प्रथयति पूतनिकैव बधूबधनिर्दयबालचरित्रम्।
‘हरिहरि याहि’॥८॥

श्रीजय देवभणितरतिवञ्चितखण्डितयुवतिविलापम्।
शृणत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम्।
‘हरिहरि याहि’॥९॥

तवेदं पश्यन्त्याः प्रसरदनुरागं वहिरिव
प्रियापादालक्तच्छुरितमरुणच्छायहृदयम्।
ममाद्य प्रखातप्रणयभरभङ्गेन कितव
त्वदालोकः शोकादपि किमपि लज्जां जनयति॥१०॥

प्रातर्नीलनिचोलमच्च तमुरः सम्बीतपीतांशकं
राधायायकितं विलोक्य हसति स्वैरं सखीमण्डले।

व्रीडाचञ्चलमञ्चलं नयनयौराधाय राधानने
स्मेरः स्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः॥११॥

इति श्रीगीतगोविन्दे खण्डितावर्णने विलक्षलक्ष्मीपतिर्नाम
अष्टमः सर्गः॥८॥

______

मुग्धमुकुन्दः।

अथ तां मन्मथखिन्नांरतिरसभिन्नांविषादसम्पन्नां
अनुचिन्तितहरिचरितां कलहान्तरितामुवाच रहः सखी॥१॥

रामकिरीरागयतितालाभ्यां गीयते।
हरिरभिसरति वहति मधुपवने
किम परमधिकसुखं सखि भवने।
‘माधवे मा कुरु मानिनि मानमये’। ध्रुवं॥२॥

तालफलादपि गुरुमतिसरसम्।
किं विफलोकुरुषे कुचकलसम्।‘माधवे’॥३॥

कति नकथितमिदमनुपदमचिरम्।
मा परिहर हरिमतिशयरुचिरम्। ‘माधवे’॥४॥

किमिति विषीदसि रोदिषि विकला।
विहसति युवतिसभा तव सकला।‘माधवे’॥५॥

सजलनलिनीदलशीलितशयने।
हरिमवलोकय सफलय नयने। ‘माधवे’॥६॥

जनयसि मनसि किमिति गुरुखेदम्।
शृणु मम वचनमनीहितभेदम्। ‘माधवे’॥७॥

हरिरुपयातु वदतु बहूमधुरम्।
किमिति करोषि हृदयमतिविधुरम्।‘माधवे’॥८॥

श्रीजयदेवभणितमतिललितं
सुखयतु रसिकजनं हरिचरितम्। ‘माधवे’॥९॥

स्निग्धयत्परुषासि यत्प्रणमसि स्तब्धासि यद्रागिणि
द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन् प्रिये।
तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं
शीतांशुस्तपनो हिमं हूतवहः क्रीडामुदो यातनाः॥१०॥

अन्तर्मोहनमौलिघूर्णनचलन्मन्दारविस्रंसन
स्तब्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गीदृशाम्।
दृष्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां
भ्रंशः कंसरिपोर्व्यपोहतु स वोऽश्रेयांसि वंशीरवः॥११॥

** इति श्रीगीतगोविन्देकलहान्तरितावर्णने।**

**
मुग्धमुकुन्दो नाम नवमः सर्गः॥९॥**

**
______**

**
चतुरचतुर्भुजः।**

अत्रान्तरेमसृणरोषवशामंसीम
निश्वास निःसहमुखींसुमुखीमुपेत्य।

सव्रीडमीक्षितसखीवदनां दिनान्ते
सानन्दमद्गदपदं हरिरित्युवाच॥१॥

देशवराडीरागाष्टतालाभ्यां गीयते।

वदसि यदि किञ्चिदपि दन्तरुचिकौमुदी
हरति दरतिमिरमतिघोरम्।
स्फुरदधरसीधवे तव वदनचन्द्रमा
रोचयति लोचनचकोरम्।

‘प्रिये चारुशीले मुञ्च मयि मानमनिदानं
सपदि मदनानलो दहति मम मानसम्।
देहि मुखकमलमधुपानम्’। ध्रुवम्॥२॥

सत्यमेवासि यदि सुदति मयि कोपिनी
देहि स्वरनयनशरघातम्।
घटय भुजबन्धनं जनय रदखण्डनं
येन वा भवति सुखजातम्। ‘प्रिये’॥३॥

त्वमसि मम भूषणं त्वमसि मम जीवनं
त्वमसि मम भवजलधिरत्नम्।
भवतु भवतीह मयि सततमनुरोधिनी
तत्र मम हृदयमतियत्नम्। “प्रिये”॥४॥

नीलनलिनाभमपि तन्वि तव लोचनं
धारयति कोकनदरूपम्।
कुसुमशरवाणभावेन यदि रञ्जयसि
कृष्णमिदमेतदनुरूपम्। “प्रिये”॥५॥

स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी
रञ्जयतु तव हृदयदेशम्।
रसतु रसनापि तव धनजघनमण्डले
घोषयतु मन्मथनिदेशम्। “प्रिये”॥६॥

स्थलकमलगञ्जनं मम हृदयरञ्जनं
जनितरतिरङ्गपरभागम्।
भण मसृणवाणि करबाणि चरणद्वयं
सरसलसदलतकरागम्। “प्रिये”॥७॥

स्मरगरलखण्डनं मम शिरसि मण्डनं
देहि पदपल्लवमुदारम्।
ज्वलति मयि दारुणो मदनकदनानलो
हरतु तदुपाहितविकारम्। “प्रिये”॥८॥

इति चटुलचाटुपटुचारुमुरवैरिणो
राधिकामधिवचनजातम्।
जयति पद्मावतीरमणकविभारती
जयदेवभणितमतिशातम्। “प्रिये”॥९॥

परिहर कृतातङ्गेशङ्कां त्वया सततं घन-
स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं
स्तनभरपरीरम्भारम्भे विधेहि विधेयताम्॥१०॥

सुग्धेविधेहि मयि निर्दयदन्तर्दशं
दोर्वल्लिबन्धनिविड़स्तनपीडनानि।

चण्डि त्वमेवं मुदमञ्चय पञ्चवाण
चाण्डालकाण्डदलनादसवः प्रयान्ति॥११॥

शशिमुखि तव भाति भङ्गुरभ्रूर्युवजनमोहकरालकालसर्पः।
तदुदितभयभञ्जनाय यूनां त्वदधरसीधुसुधैव सिद्धमन्त्रः ॥१२॥

व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं
तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः।
सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्चमां
स्वयमतिशयस्निग्धे मुग्धे प्रियोऽहमुपस्थितः॥१३॥

बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छवि
गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम्।
नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये
प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः॥१४॥

दृशौतव मदालसे वदनमिन्दुसन्दीपकं
गतिर्जनमनोरमा विजितरम्भमूरुद्वयम्।
रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवौ
अहो विबुधयौवतं वहसि तन्वि पृथ्वीगता॥१५॥

प्रीतिं वस्तनुतां हरिः कुवलयापीडेन सार्द्धंरणे
राधापीनपयोधरस्मरणकृत्कुम्भेन सम्भेदवान्।
यत्र स्विद्यति मीलति क्षणमथ क्षिप्ते द्विपे तत्क्षनात्
कंसस्यालमभूज्जितं जितमिति व्यामोहकोलाहलः॥१६॥

इति श्रीगीतगोविन्देमानिनीवर्णने चतुरचतुर्भुजो
नाम दशमः सर्गः॥१०॥

**
सदानन्ददामोदरः।**

सुचिरमनुनयेन प्रीणयित्वा गृगाक्षीं
गतवती कृतवेशेकेशवे कुञ्जशय्याम्।
रचितरुचिरभूषां दृष्टिमोष प्रदोषे
स्फुरति निरवसादां कापि राधां जगाद॥१॥

वसन्तरागयतितालाभ्यां गीयते।

विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम्।
संप्रति मंजुलबंजुलसीमनि केलिशयनमनुयातम्।
“मुग्धे मधुमथनमनुगतमनुसर राधिके”। ध्रुवम्॥२॥

घनजघनस्तनभारभरे दरमन्वरचरणविहारम्।
मुखरितमणिमञ्जीरमुपैहि विधेहि मरालविकारम् “मुग्धे” ३

शृण रमणीयतरं तरुणीजनमोहनमधुरिपुरावम्।
कुसुमशरासनशासनवन्दिनि पिकनिकरे भज भावं “मुग्धे” ४

अनिलतरलकिशलयनिकरेण करेण लतानिकुरुम्बं
प्रेरणमिव करभोरु करोति गतिं प्रतिमुञ्चविलम्बं “मुग्धे” ५

स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरन्भम्।
पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् “मुग्धे”॥६॥

अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम्।
चण्डि रणितरसनारवडिण्डिममभिसर सरसमलज्जम् “मुग्धे” ७

स्मरशरसुभगनखेन करेण सखीमवलम्ब्यसलीलम्।
चलवलयक्वणितैरवबोधय हरिमपि निजगतिशीलम् ‘मुग्धे’॥८॥

श्रीजयदेवभणितमधरीकृतहारमुदासितवामम्।
हरिविनिहित मनसामधितिष्ठतु कण्ठतटीमविरामम् ‘सुग्धे’
सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः
प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः।
स त्वां पश्यति कम्पते पुलकयत्यानन्दति स्विद्यति
प्रत्युङ्गच्छति मूर्च्छति स्थिरतमः पुञ्जेनिकुञ्जेप्रियः॥१०॥

अक्ष्णोर्निक्षिपदं जनं श्रवणयोस्तापिच्छगुच्छावलीं
मूर्द्ध्निश्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम्।
धूर्त्तानामभिसारसत्वरहदां विष्वङ्रिकुञ्जेसखि
ध्वान्तंनीलनिचोलचार सुदृयां प्रत्यङ्गमालिङ्गति॥११॥

काश्मीरगौरवपुषामभिसारिकाणां
आवद्वरेखमभितो रुचिमञ्जरीमिः।
एतत्तमालदलनीलतमं तमिश्रं
तत्प्रेमहेमनिकषोपलतां तनोति॥१२॥

हाराबलीतरलकाञ्चनकाञ्चिदाम
केयूरकङ्क्षणमणिद्युतिदीपितस्य।
द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य
व्रीड़ावतीमथ सखी निजगाद राधाम्॥१३॥

वराड़ीरागरूपकतालाभ्यां गीयते।

मञ्जुतरकुञ्जतलकेलिसदने।
‘प्रविश राधे माधवसमीपमिह’।
विलस रतिरभसहसितवदने॥१४॥

नवभवदशोकदलशयनसारे।
‘प्रविशराधे माधवसमीपमिह’।
बिलस कुचकलसतरलहारे॥१५॥

कुसुमचयरचितशुचिवासगेहे।
‘प्रविश राधे माधवसमीपमिह’।
विलस कुसुमसुकुमारदेहे॥१६॥

चलमलयवनपवनसुरभिशीते।
‘प्रविश राधे माधवसमीपमिह’।
विलस रतिवलितललितगीते॥१७॥

विततबहुवल्लिनवपल्लवधने।
‘प्रविणराधे माधवसमीपमिह’।
विलस चिरमलसपीनजघने॥१८॥

मधुमुदितमधुपकुलकलितरावे।
‘प्रविश राधे माधवसमीपमिह’।
विलस मदनरभसरसभावे॥१९॥

मधुतरलपिकनिकरनिनदमुखरे।
‘प्रविश राधे माधवसमीपमिह’
विलस दशनरुचिरुचिरशिखरे॥२०॥

विहितपद्मावतीसुखसमाजे।
कुरु मुरारे मङ्गलशतानि।
भणति जयदेवकविराजराजे॥२१॥

त्वां चित्तेन चिरं वहन्नयमिति श्रान्तो भृशं तापितः

कन्दर्पेणच पातुमिच्छति सुधासंव्राधत्रि

*धरम्।
अस्याङ्गंतदलं कुरु क्षणमिह भ्रुक्षेधलक्ष्मीलव-
क्रीते दासइवोपसेवितवदाम्भोजेकुतः सम्भ्रमः॥२२॥

सा ससाध्वससानन्दं गोविन्दे लोललोचना।
सिञ्जाना मंजु मंजीरं प्रविवेश निकेतनम्॥२३॥

वराड़ीरानयतितालाभ्यां गीयते॥

राधावदनविलोकनविकासितविविधविकारविभङ्गं
जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम्।
हरिमेकरसं चिरमभिलषितविलासं
‘सा ददर्श गुरुहर्षवशम्बदनमङ्गविकाशम्’ ध्रुवं॥२४॥

हारममलतरतारमुरसि दधतं परिलम्ब्यविदूरम्।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरं ‘हरिमेकरसं’
श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम्।
नीलनलिनमिव पीतपरागपटलभरवलयितमूलं ‘हरिमेकरसं’
तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम्।
स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तड़ागम्।
‘हरिमेकरसं’॥२७॥

वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम्।
स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभं ‘हरिमेकरसं’
शशिकिरणच्छुरितोदरजलधरसुन्दरतुकुसुमकेशम्।
तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशम्।
‘हरिमेकरसम्’॥२९॥

विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम्।
मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम्।
‘हरिमेकरसम्’॥३०॥

श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम्।
प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदयसारम्।
‘हरिमेकरसम्’॥३१॥

अतिक्रम्यापाङ्गं श्रवणपथपर्य्यन्तगमन-
प्रयासेनैवाक्ष्णोस्तरलतरतारं पतितयोः।
इदानीं राधायाः प्रियतमसमालोकसमये
पपात स्वेदाम्बु प्रसर इव हर्षाश्रुनिकरः॥३२॥

भजन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहित
स्मिते याते गेहाद्वहिरवहितालीपरिजने।
प्रियास्यं पश्यन्त्याः स्प्ररशरवशाकूतसुभगं
सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः॥३३॥

जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः
स्वयंसिन्दूरेण द्विपरणमुदा मुद्रित इव।
भुजापीड़क्रीड़ाहतकुवलयापीड़करिणः
प्रकीर्णाशृग्विन्दर्जयति भुजदण्डो मुरजितः॥३४॥

इति श्रीगीतगोविन्देराधिकामिलने सानन्ददामोदरो
नाम एकादशः सर्गः॥११॥

   \_\_\_\_\_\_\_\_\_\_

सुप्रीतपीताम्बरः।

गतवति सखीवृन्देमन्दत्रपाभरनिर्भर-
स्प्ररशरवशाकूतस्फीतस्मितस्त्रपिताधराम्।
सरसमनसां दृष्ट्वा राधां मुहुर्नवपल्लव
प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम्॥१॥

** विभासरागैकतालीतालाभ्यां गीयते।
किशलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम्।
तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम्।
‘क्षणमधुना नारायणमनुगतमनुसर राधिके’।ध्रुवं॥२॥**

करकमलेन करोमि चरणमहमागमितासि विदूरम्।
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरं’क्षणमधुना’
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम्।
विरहमिवापनयामि पयोधररोधकमुरसि दुकूलं ‘क्षणमधुना’
प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम्।
मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापं ‘क्षणमधुना’
अधरसुधारसमुपनय भामिनि जीवय मृतमिव दासम्।
त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम्।
‘क्षणमधुना’॥६॥

शशिमुखि मुखरयमणिरसनागुणमनुगुणकण्ठनिनादम्।
श्रुतियुगले पिकरुतविकले मम समय चिरादवसादम्।
‘क्षणमधुना’॥७॥

मामतिविफलरुषा विकलीकृतमवलोकितुमधुनेदम्।
मीलितलज्जितमिव नयनं तवविरम विसृज रतिखेदम्।
‘क्षणमधुना’॥८॥

श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम्।
जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम्।
‘क्षणमधुना’॥९॥

प्रत्यूहः पुलकाङ्कुरेणनिविड़ाश्लेषे निमेषेण च
क्रीड़ाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः।
आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्प्रिन्नभूत्
उङ्गूतः स तयोर्बभूव सुरतारम्भः प्रियम्भावुक॥१०॥

दोर्भ्यां संयमितः पयोधरभरेणापीड़ितः पाणिजै
राविड्धोदशनैः क्षताधरपुटः श्रीणीतटेनाहतः।
हस्तेनानमितः कचेऽधरमधुस्यन्देन सम्मोहितः
कान्त कामपि तृप्तिमाप तदहो कामस्य वामा गतिः॥११॥

मारङ्गे रतिकेलिसङ्कुलरणा रम्भे तया साहस
प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्भ्रमात्।
निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं
वक्षो मीलितमक्षिपौरुषरसः स्त्रीणां कुतः सिद्ध्यति॥१२॥

तस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ
निर्धूतोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्द्धजाः।
काञ्चादाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशोः
एभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितम्॥१३॥

त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे
शङ्केसुन्दरिकालकूटमपिवम्मूढो मृडानीपतिः।
इत्थं पूर्व्वकथाभिरन्यमनसो निक्षिप्य वामाञ्चलं
राधायाः स्तनकोरकोपरिचलन्नेत्रोहरिः पातु वः॥१४॥

व्यालोलः केशपाशस्तरलितमलकैः स्वेदलोलौ कपोलौ
स्पष्टा दष्टाधरश्रीःकुचकलशरुचा हारिता हारयष्टिः।
काञ्ची काञ्चिङ्गताशांस्तनजघनपदं पाणिनाच्छाद्य सद्यः
पश्यन्तीह्यात्मरूपंतदपिविलुलितस्रग्धरेयंधिनोति॥१५॥

ईषन्मीलितदृष्टि मुग्धहसितं शीत्कारधारावशाद्
अव्यक्ताकुलकेलिकाकुविकसद्दन्तांशधौताधरम्।
श्वासोन्नङ्गपयोधरः परिपरिष्वङ्गात् कुरङ्गीदृशो
हर्षोत्कर्षविमुक्तिनिःसहतनोर्धन्यो धयत्याननम्॥१६॥

अथ सहसा सन्तुष्टं सुरतान्ते सा नितान्तखिन्नाङ्गी
राधा जगाद सादरमिदमानन्देन गोविन्दम्॥१७॥

रामकिरीरागयतितालाभ्यां गीयते।

कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे
मृगमदपत्रकमत्र मनोभवमण्डलकलससहोदरे।
निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने॥१८॥

अलिकुलगञ्जनमञ्जनकं रतिनायकशायकमोचने
त्वदधरचुम्बनलम्बितकज्जलमुज्जलय प्रिय लोचने।
‘निजगाद सा’॥१९॥

नयन कुरङ्गतरङ्गविकाशनिरासकरे श्रुतिमण्डले।

मनसिजपाशविलासधरे शुभवेशनिवेशय कुण्डले॥
‘निजगाद सा’॥२०॥

भ्रमरचयं रचयन्तमुपरि रुचिरं सुचिरं मम सन्मुखे।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे॥
‘निजगाद सा’॥२१॥

मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे।
विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे॥
‘निजगाद सा’॥२२॥

मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे।
रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे॥
‘निजगाद सा’॥२३॥

सरसघने जघने मम शम्बरदारणवारणकन्दरे।
मणिरसनावसनाभरणानि शुभाशय वासय सुन्दरे
“निजगाद सा”॥२४॥

श्रीजयदेववचसि जयदे हृदयं सदयं कुरु मण्डने।
हरिचरणस्प्ररणामृतकृतकलिकलुषज्वरखण्डने
“निजगाद सा”॥२५॥

रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो
र्घटय जघने काञ्चीमञ्च स्रजा कवरीभरम्।
कलयवलयश्रेणीं पाणौ पदे कुरु नूपुरौ
इति निगदितः प्रीतः पीताम्बरोऽपि तथाकरोत्॥२६॥

पर्य्यङ्घीकृतनागनायकफणाश्रेणीमणीनाङ्गणे

संक्रान्तप्रतिबिम्बसंवलनया विभ्रद्विभुप्रक्रियाम्।
पादाम्भोरुहधारिवारिधिसुतामक्ष्णांदिदृक्षुः शतैः
कायव्यूहमिवाचरन्नुपचितीभूतो हरिः पातु वः॥२६॥

यद्गान्धर्वकलासु कौशलमनुध्यानञ्च यद्वैष्णवं
यच्छृङ्गारविवेकतत्त्वमपि यत् काव्येषु लीलायितम्।
तत्सर्व्वंजयदेवपण्डितकवेः कृष्णैकतानात्मनः
सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः॥२७॥

श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य।
पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्द कवित्वमस्तु॥२८॥

इति श्रीगीतगोविन्दे स्वाधीनभर्त्तृकावर्णने सुप्रीत
पीताम्बरो नाम द्वादश सर्गः॥१२॥

       \_\_\_\_\_\_

** सम्पूर्णम्।**

२४ कुमारसम्भव—उत्तरखण्ड
२५ अष्टकम्पाणिनीयम्
२६ वाचस्पत्यम् [संस्कृत-वृहदभिधान]
२७ कादम्बरी-सटीक
२८ राजप्रशस्ति
२९ अनुमानचिन्तामणि तथा अनुमानदीधिति
३० सर्वदर्शनसंग्रह
३१ भामिनीविलास—सटीक
३२ हितोपदेश—सटीक
३३ भाषापरिच्छेद मुक्तावलीसहित
३४ बहुविवाहवाद
३५ दशकुमारचरित—सटीक
३६ परिभाषेन्दुशेखर
३७ कविकल्पदृम (वोपदेवकृत धातुपाठ)
३८ चक्रदत्त (वैद्यक)
३९ उणादिसूत्न—सटीक
४० मेदिनीकोष
४१ पञ्चतन्त्रम् [श्रीविष्णु-शर्म्म-सङ्कलितम्]
४२ विद्वन्मोदतरङ्गिणी(चम्पूकाव्य)
४३ माधवचम्पु
४४ तर्कसंग्रह (इंराजी अनुवाद सहित)
४५ प्रसत्रराघवनाटक (श्रीजयदेवकविरचित)
४६ विवेकचूड़ामणि [श्रीमत्शङ्कराचार्य्य विरचित]
४७ काव्यसंग्रह [सम्पुर्ण]
४८ लिङ्गानुशासन (सटीक)
४९ ऋतुसंहार—सटीक
५० विक्रमोर्वशी—सटीक
५१ वसन्ततिलक भाण
५२ गायत्री [वङ्गाक्षरैः]
५३ सांख्यदर्शन (भाष्यसहित) सांख्यप्रवचन भाष्य
५४ भोजप्रबन्ध
५५ नलोदय—सटीक
५६ ईश केन कठ, प्रश्न, मुण्ड, माण्डुक्य, (उपनिषद्)[शाङ्करभाष्य तथा आनन्दगिरिकृत टीकासहित]
५७ छान्दोग्य (उपनिषद्) [शाङ्करभाष्य तथाआनन्दगिरिकृतटीका सहित]
५८ तैत्तिरीय ऐतरेय (उपनिषद्) [शाङ्करभाष्यतथा आनन्दगिरिकतटीका सहित]
५९ वृहदारण्यक (उपनिषद्) [भाष्यसहित]
६० सुश्रुत
६१ शार्ङ्गधर [वैद्यक]
६२ वेतालपञ्चत्रिंशति [जम्भलदत्त विरचिता]तथा सिंहासन द्वात्रिंशत् कथा
६३ पातञ्जलदर्शन [महर्षि वेदव्यासकृत भाष्यसहित]
६४ आत्मतत्त्वविवेक [वौडाधिकार]
६५ मुक्तिकोपनिषद्
६६ उपमानचिन्तामणि

कलिकातासंस्कृतविद्यामन्दिरे—वि, ए, उपाधिधारिणःश्रीजीवानन्द-विद्यासागर-भट्टाचार्य्यस्य सकाशात् लभ्यानि।

]