विश्वास-प्रस्तुतिः
अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् ।
शिश्रिये श्रुतवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥ १॥
मूलम्
अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् ।
शिश्रिये श्रुतवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥ १॥
मल्लिनाथः ...{Loading}...
अग्निवर्णमिति॥ श्रुतवतां श्रुतसंपन्नानामपश्चिमः प्रथमो वशी जितेन्द्रियो राघवः सुदर्शनः पश्चिमे वयसि वार्द्धके स्वे पदे स्थानेऽग्नितेजसं तनयमग्निवर्णमभिषिच्य नैमिषं नैमिषारण्यं शिश्रिये श्रितवान् ॥ 1 ॥
विश्वास-प्रस्तुतिः
तत्र तीर्थसलिलेन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशैः ।
सौधवासमुटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः ॥ २॥
मूलम्
तत्र तीर्थसलिलेन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशैः ।
सौधवासमुटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः ॥ २॥
मल्लिनाथः ...{Loading}...
तत्रेति॥ तत्र नैमिषे तिर्थसलिलेन दीर्घिका विहारवापीरन्तरितभूमिभिः कुशैस्तल्पं शय्यामुटजेन पर्णशालया सौधवासं विस्मृतो विस्मृतवान्सः। कर्तरि क्तः। फले स्वर्गादिफले निःस्पृहस्तपः संचिकाय संचितवान् ॥ 2 ॥
विश्वास-प्रस्तुतिः
लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी ।
भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता ॥ ३॥
मूलम्
लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी ।
भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता ॥ ३॥
मल्लिनाथः ...{Loading}...
लब्धेति॥ ततत्सुतः सुदर्शनपुत्रोऽग्निवर्णो लब्धपालनविधौ लब्धस्य राज्यस्य पालनकर्मणि खेदं नाप। अक्लेशेनापालयदित्यर्थः। कुतः? हि यस्मात्। भुजनिर्जितद्विषा गुरुणा पित्रा मेदिन्यस्याग्निवर्णस्य भोक्तुमेव कल्पिता,प्रसाधयितुं न। प्रसाधनं कण्टकशोधनम्। अलंकृतिर्ध्वन्यते। तथा च यथालंकृत्य नीता युवतिः केवलमुपभुज्यते तद्वदिति भावः ॥ 3 ॥
विश्वास-प्रस्तुतिः
सोऽधिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत्समाः ।
संनिवेश्य सचिवेष्वतःपरं स्त्रीविधेयनवयौवनोऽभवत् ॥ ४॥
मूलम्
सोऽधिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत्समाः ।
संनिवेश्य सचिवेष्वतःपरं स्त्रीविधेयनवयौवनोऽभवत् ॥ ४॥
मल्लिनाथः ...{Loading}...
स इति॥ अभिकः कामुकः। ‘अनुकाभिकाभीकः कमिता’(पा.5।2।74) इति निपातः। ‘कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः’ इत्यमरः। सोऽग्निवर्णः कुलोचितमधिकारं प्रजापालनं काश्चन समाः कतिचिद्वत्सरान् स्वयमवर्तयदकरोत्। अतःपरं सचिवेषु संनिवेश्य निधाय स्त्रीविधेयं स्त्र्यधीनं नवं यौवनं यस्य सोऽभवत्। स्त्र्यासक्तोऽभूदित्यर्थः ॥ 4 ॥
विश्वास-प्रस्तुतिः
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु ।
ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ॥ ५॥
मूलम्
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु ।
ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ॥ ५॥
मल्लिनाथः ...{Loading}...
कामिनीति॥ कामिनीसहचरस्य कामिनस्तस्य मृदङ्गनादिषु मृदङ्गनादवत्सु वेश्मस्वधिकर्द्धिः पूर्वस्मादधिकसंभारः उत्तर उत्सवः। ऋद्धिमन्तं साधनसंपन्नं पूर्वमुत्सवमपोहदपानुदत्। उत्तरोत्तराधिका तस्योत्सवपरम्परा वृत्तेत्यर्थः ॥ 5 ॥
विश्वास-प्रस्तुतिः
इन्द्रियार्थपरिशून्यमक्षमः सोढुमेकमपि स क्षणान्तरम् ।
अन्तरेव विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ॥ ६॥
मूलम्
इन्द्रियार्थपरिशून्यमक्षमः सोढुमेकमपि स क्षणान्तरम् ।
अन्तरेव विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ॥ ६॥
मल्लिनाथः ...{Loading}...
इन्द्रियेति॥ इन्द्रियार्थपरिशून्यं शब्दादिविषयरहितमेकमपि क्षणान्तरं क्षणभेदं सोढुमक्षमोऽशक्तः सोऽग्निवर्णो दिवानिशमन्तरेव विहरन् समुत्सुका दर्शनाकाङ्क्षिणीः प्रजा न व्यपैक्षत नापेक्षितवान् ॥ 6 ॥
विश्वास-प्रस्तुतिः
गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ ।
तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥ ७॥
मूलम्
गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ ।
तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥ ७॥
मल्लिनाथः ...{Loading}...
गोरवादिति॥ जातु कदाचिन्मन्त्रिणां गौरवाद्गुरुत्वाद्धेतोः। मन्त्रिवचनानुरोघादित्यर्थः। प्रकृतिभिः प्रजाभिः काङ्क्षितं यदपि दर्शनं ददौ तदपि गवाक्षविवरावलम्बिना केवलेन चरणेन चरणमात्रेण कल्पितं संपादितम्,न तु मुखावलोकनप्रदानेनेत्यर्थः ॥ 7 ॥
विश्वास-प्रस्तुतिः
तं कृतप्रणतयोऽनुजीविनः कोमलात्मनखरागरूषितम् ।
भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥ ८॥
मूलम्
तं कृतप्रणतयोऽनुजीविनः कोमलात्मनखरागरूषितम् ।
भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥ ८॥
मल्लिनाथः ...{Loading}...
तमिति॥ कोमलेन मृदुलेनात्मनखानां रागेणारुप्येन रूषितं छुरितम्। अत एव नवदिवाकरातपेन स्पृष्टं व्याप्तं यत्पङ्कजं तस्य तुलां साम्यतामधिरोहति प्राप्नोतीति तुलाधिरोहणम्। तं चरणमनुजीविनः कृतप्रणतयः कृतनमस्काराः सन्तो भेजिरे सिषेविरे ॥ 8 ॥
विश्वास-प्रस्तुतिः
यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः ।
गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः ॥ ९॥
मूलम्
यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः ।
गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः ॥ ९॥
मल्लिनाथः ...{Loading}...
यौवनेति॥ विगाढमन्मथः प्रौढमदनः सोऽग्निवर्णो यौवनेन हेतुनोन्नतानां विलासिनीस्तनानां क्षोभेणाघातेन लोलानि चञ्चलानि कमलानि वासां ताः। तदम्बुभिस्तासां दीर्घिकाणामम्बुभिर्गृढान्यन्तर्हितानि मोहनगृहाणि सुरतभवनानि यासु ताश्च दीर्घिका व्यगाहृत। स्त्रीभिः सह दीर्घिकासु विजहारेत्यर्थः ॥ 9 ॥
विश्वास-प्रस्तुतिः
तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः ।
अङ्गनास्तमधिकं व्यलोभयन्नर्पितप्रकृतकान्तिभिर्मुखैः ॥ १०॥
मूलम्
तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः ।
अङ्गनास्तमधिकं व्यलोभयन्नर्पितप्रकृतकान्तिभिर्मुखैः ॥ १०॥
मल्लिनाथः ...{Loading}...
तत्रेति॥ तत्र दीर्घिकास्वङ्गनाः सेकेन हृतं लोचनाञ्जनं नेत्रकज्जलं येषां तैः। रज्यतेऽनेनेति रागो रागद्रव्यं लाक्षादि। रागस्य परिपाटलोऽङ्गगुणः। ‘गुणे शुक्लादयः पुंसि’ इत्यमरः। धौतो रागपरिपाटलो येषां ते तथोक्ता अधरायेषां तैः। निवृत्तसांक्रमिकरागैरित्यर्थः। अत एवार्पितप्रकृतकान्तिभिः। अभिव्यञ्जितस्वाभाविकरागैरित्यर्थः। एवंभूतैर्मुखे त्तनग्निवर्णमधिकं व्यलोभयन् प्रलोभितवत्यः ॥ 10 ॥
विश्वास-प्रस्तुतिः
घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः ।
अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः ॥ ११॥
मूलम्
घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः ।
अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः ॥ ११॥
मल्लिनाथः ...{Loading}...
व्राणेति॥ प्रियासखः सोऽग्निवर्णो घ्राणकान्तेन घ्राणतर्पणेन मधुगन्धेन कर्षिणीर्मनोहारिणीः। रच्यन्त इति रचनाः,पानभूपय एव रचनाः,रचिताः पानभूमय इत्यर्थः। वासितासखः करिणीसहचरः। ‘वासिता स्त्रीकरिण्योश्च’ इत्यमरः। द्विपः पुष्पिताः कमलिनीरिव। अभ्यपद्यताभिगतः ॥ 11 ॥
विश्वास-प्रस्तुतिः
सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः ।
ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः ॥ १२॥
मूलम्
सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः ।
ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः ॥ १२॥
मल्लिनाथः ...{Loading}...
सातिरेकेति॥ अङ्गना रहो रहसि सातिरेकस्य सातिशयस्य मदस्य कारणं तेनाग्निवर्णेन दत्तं मुखासवमभिलेषुः। बकुलेन तुल्यदोहदस्तुल्याभिलाषः। ‘अथ दोहदम्। इच्छाकाङ्क्षा स्पृहेहा तृट्’ इत्यमरः। बकुलद्रुमस्याङ्गनामद्यार्थित्वात्तुल्याभिलाषत्वम्। सोऽपि ताभिरङ्गनाभिरुपहृतं दत्तं मुखासवमपिबत् ॥ 12 ॥
विश्वास-प्रस्तुतिः
अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे ।
वल्लकी च हृदयंगमक्षमा वल्गुवागपि च वामलोचना ॥ १३॥
मूलम्
अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे ।
वल्लकी च हृदयंगमक्षमा वल्गुवागपि च वामलोचना ॥ १३॥
मल्लिनाथः ...{Loading}...
अङ्कमिति॥ अङ्कपरिवर्तनोचिते उत्सङ्गविहारार्हे उमे तस्याग्निवर्णस्याङ्कमशून्यतां पूर्णतां निन्यतुः। के उभे? हृदयंगमस्वना मनोहरध्वनिर्वल्लकी वीणा च। वल्गुवाङ्मुधुरभाषिणी वामलोचना कामिन्यपि च हृदयं गच्छतीति हृदयंगमः। खच्प्रकरणे गमेः सुप्युपसंख्यानात्खच्प्रत्ययः। अङ्काधिरोपितयोर्वीणा-वामाक्ष्योर्वाद्य-गीताभ्यामरंस्तेत्यर्थः ॥ 13 ॥
विश्वास-प्रस्तुतिः
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः ।
नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जयत् ॥ १४॥
मूलम्
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः ।
नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जयत् ॥ १४॥
मल्लिनाथः ...{Loading}...
स इति॥ कृती कुशलः स्वयं प्रहतपुष्करो वादितवाद्यमुखो लोलानि माल्यानि वलयानि च यस्य स तथोक्तं मनो हरन्। नर्तकीनामिति शेषः। सोऽग्निवर्णोऽभिनयातिलङ्घिनीः। अभिनयेषु स्खलन्तीरित्यर्थः। नर्तकीर्विलासिनीः। ‘शिल्पिनि ष्वुन्’(पा.3।1।145) इति ष्वुन्प्रत्ययः। ‘षिद्गौरादिभ्यश्च’ (पा.4।1।41) ङीप्। ‘नर्तकीलासिके समे’ इत्यमरः। गुरुषु नाट्याचार्येषु पार्श्ववर्तिषु समीपस्थेषु सत्स्वेव। अलज्जयत् लज्जामगमयत् ॥ 14 ॥
विश्वास-प्रस्तुतिः
चारु नृत्यविगमे स तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् ।
प्रेमदत्तवदनानिलः पिबन्नत्यजीवदमरालकेश्वरौ ॥ १५॥
मूलम्
चारु नृत्यविगमे स तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् ।
प्रेमदत्तवदनानिलः पिबन्नत्यजीवदमरालकेश्वरौ ॥ १५॥
मल्लिनाथः ...{Loading}...
चाविति॥ किंच,चारु सुन्दरं नृत्यविगमे लास्यावसाने परिश्रमान्नर्तनऽवासात्स्वेदेन भिन्नतिलकं विशीर्णतिलकं तन्मुखं नर्तकीमुखं प्रेम्णा दत्तवदनानिलः प्रवर्तितमुखमारुतः पिबन्। अमराणामलकायाश्चेश्वराविन्द्रकुबेरौ। अत्यजीवदतिक्रम्याजीवत्। ततोऽप्युत्कृष्टजीवित आसीदित्यर्थः। इन्द्रादेरपि दुर्लभमीदृशं सौभाग्यमिति भावः ॥ 15 ॥
विश्वास-प्रस्तुतिः
तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः ।
वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमा ॥ १६॥
मूलम्
तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः ।
वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमा ॥ १६॥
मल्लिनाथः ...{Loading}...
तस्येति॥ उपसृत्यान्यत्र गत्वा न वेषु नूतनेषु काम्यवस्तुषु शब्दादिष्विन्द्रियार्थेषु सङअगिन आसक्तिमतः सतस्तस्य सावरणाः प्रच्छन्ना दृष्टाः प्रकाशाश्च संधयः साधनानि येषु ते समागमाः संगमा वल्लभाभिः प्रेयसीभिः सामिभुक्तविषया अर्धोपभुक्तेन्द्रियार्थाश्चक्रिरे। यथेष्टं भुक्तश्चेत्तर्ह्ययं निःस्पृहः सन्नस्मत्समीपं नायास्यतीति भावः। अत्र गोनर्दीयः-‘संधिद्विविधः-सावरणः,प्रकाशश्च। छावरणो भिक्षुक्यादिना प्रकाशः स्वयमुपेत्य केनापि’ इति। ‘इतः स्वयमुपसृत्य विशेषार्थीं तत्र स्थितोऽनुपजापं स्वयं संधेयः’ इति वात्स्यायनः। अन्यत्र गतं कथंचित्संधाय पुनरुपगमायार्धोपभोगेनानिवृत्ततृष्णं चक्रुरित्यर्थः ॥ 16 ॥
विश्वास-प्रस्तुतिः
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।
मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः ॥ १७॥
मूलम्
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।
मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः ॥ १७॥
मल्लिनाथः ...{Loading}...
अङ्गुलीति॥ सोऽग्निवर्णः प्रणयिनीः प्रेयसीर्वञ्चयन्नन्यत्र गच्छन्। अङ्गुल्यः किसलयानि तेषामग्राणि तैस्तर्जनं भर्त्सनं भ्रुविभङ्गेन भ्रूमेदेन कुटिलं वक्रं वीक्षितं वीक्षणं चासकृन्मेखलाभिर्बन्धनं चावाप। अपराधिनो दण्ञ्डा इति भावः ॥ 17 ॥
विश्वास-प्रस्तुतिः
तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु ।
शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ॥ १८॥
मूलम्
तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु ।
शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ॥ १८॥
मल्लिनाथः ...{Loading}...
तेनेति॥ सुरतस्य वारो वासरः,तस्य रात्रिषु दूतीनां विदितं यथा तथआ पृष्ठतः प्रियजनस्य पश्चाद्भागे निषेदुषा तेनाग्निवर्णेन विप्रलम्भपरिशङ्किनो विरहशङ्किनः। प्रियश्चासौ जनश्च प्रियजनः। तस्य कातरं वचः ‘प्रियानयनेन मां पाहि’ इत्येवमादि दीनवचनं शुश्रुवे ॥ 18 ॥
विश्वास-प्रस्तुतिः
लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः ।
वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः ॥ १९॥
मूलम्
लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः ।
वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः ॥ १९॥
मल्लिनाथः ...{Loading}...
लौल्यमिति॥ गृहिणीपरिग्रहाद्राज्ञीभिः समागमाद्धेतोर्नर्तकीषु वेश्यास्वसुलभासु दुर्लभासु सतीषु लौल्यमौत्सुक्यमेत्य प्राप्य। अङ्गुल्योः क्षरणेन स्वेदनेन सन्नवार्तिको विगलितशलाकः सोऽग्निवर्णस्तासां नर्तकीनां वपुस्तद्वपुरालिखन् कथंचिद्वर्तते स्मावर्त ॥ 19 ॥
विश्वास-प्रस्तुतिः
प्रेमगर्वितविपक्षमत्सरादायताश्च मदनान्महीक्षितम् ।
निन्युरुत्सवविधिच्छलेन तं देव्य उज्झितरुषः कृतार्थताम् ॥ २०॥
मूलम्
प्रेमगर्वितविपक्षमत्सरादायताश्च मदनान्महीक्षितम् ।
निन्युरुत्सवविधिच्छलेन तं देव्य उज्झितरुषः कृतार्थताम् ॥ २०॥
मल्लिनाथः ...{Loading}...
प्रेमेति॥ प्रेम्णा स्वविषयेण प्रियस्यानुरागेण हेतुना गर्विते विपक्षे सपत्नजने मत्सराद्वैरादायतात्प्रवृद्धान्मदनाञ्च हेतोर्देव्यो राज्ञ्य उज्झितरुषस्त्यक्तरोषाः अत्यस्तं महीक्षितम्। उत्सवविधिच्छलेन महोत्सवकर्मव्याजेन। कृतोऽर्थः प्रयोजनं येन स कृतार्थः,तस्य भावं कृतार्थतां निन्युः। मदनमहोत्सवव्याजानीतेन तेन अमनोरथं कारयामासुरित्यर्थथः ॥ 20 ॥
विश्वास-प्रस्तुतिः
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः ।
प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः ॥ २१॥
मूलम्
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः ।
प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः ॥ २१॥
मल्लिनाथः ...{Loading}...
प्रातरिति॥ सोऽग्निवर्णः प्रातरेत्यागत्य परिभोगशोभिना दर्शनेन हेतुना। दृशेर्ण्यन्ताल्ल्युट्। कृता खण्डनव्यथा यासां तास्तथोक्ताः खण्डिता इत्यर्थः। तदुक्तम्-‘ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता’ इति। प्रणयिनीः प्राञ्जलिः प्रसादयंस्तथापि प्रणयमन्थरः प्रणयेन नर्तकीगतेन मन्थरोऽलसः। तत्र शिथिलप्रयत्नः सन्नित्यर्थः। पुनरदुनोत् पर्यतापयत् ॥ 21 ॥
विश्वास-प्रस्तुतिः
स्वप्नकीर्तितविपक्षमङ्गनाः प्रत्यभैत्सुरवदन्त्य एव तम् ।
प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः ॥ २२॥
मूलम्
स्वप्नकीर्तितविपक्षमङ्गनाः प्रत्यभैत्सुरवदन्त्य एव तम् ।
प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः ॥ २२॥
मल्लिनाथः ...{Loading}...
स्वप्नेति॥ स्वप्ने कीर्तितो विपक्षः सपत्नजनो येन तं। तमग्निवर्णम्। अवदन्त्य एव। त्वया गोत्रस्खलनं कृतमित्यनुपालम्भमाना एव। प्रच्छदस्यास्तरणपटस्यान्ते अध्ये गलिता अश्रुबिन्दवो येषु तैः क्रोधेन भिन्नानि भग्नानि वलयानि येषु तैर्विवर्तनैः पराग्विलुण्ठनैः प्रत्यभैत्सुः प्रतिचक्रुः। तिरश्चक्रुरित्यर्थः ॥ 22 ॥
विश्वास-प्रस्तुतिः
कॢप्तपुष्पशयनाꣳल्लतागृहानेत्य दूतिकृतमार्गदर्शनः ।
अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरम् ॥ २३॥
मूलम्
कॢप्तपुष्पशयनाꣳल्लतागृहानेत्य दूतिकृतमार्गदर्शनः ।
अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरम् ॥ २३॥
मल्लिनाथः ...{Loading}...
क्लृप्तेति॥ सोऽग्निवर्णो दूतिभिः कृतमार्गदर्शनः सन्। क्लृप्तपुष्पशयनाँल्लतागृहानेत्य। अवरोधादन्तःपुरजनाद्भयेन यो वेपथुः कम्पस्तदुत्तरं तप्रधानं यथा तथा परिजनाङ्गनारतं दासीरतमन्वभूत्। परिजनश्चासावङ्गना चेति विग्रहः। अत्र छीबन्तस्यापि ‘दूती’ शब्दस्य छन्दोभङ्गभयाद्ध्रस्वत्वं कृतम्। ‘अपि माषं मषं कुर्याच्छन्दोभङ्गं त्यजेद्गिराम्’ इत्युपदेशात् ॥ 23 ॥
विश्वास-प्रस्तुतिः
नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्ष्यते ।
लोलुपं ननु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः ॥ २४॥
मूलम्
नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्ष्यते ।
लोलुपं ननु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः ॥ २४॥
मल्लिनाथः ...{Loading}...
नामेति॥ मया ते वल्लभजनस्य प्रियजनस्य नाम प्राप्य तन्नाम्नाह्वानं लब्ध्वा तस्य त्वद्वल्लभजनस्य यद्भाग्यम्। तत्परिहासकारणमिति शेषः। तदपि काङ्क्ष्यते। ननु बत मम मनो लोलुपं गृध्रु। इत्यनेन प्रकारेण गोत्रे नाम्नि विस्खलितं स्खलितवन्तं तमग्निवर्णमूचुः। ‘गोत्रं नाम्नि कुलेऽचले’ इति यादवः। तन्नामलाभे सति तद्भाग्यमपि काङ्क्ष्यते मनः। अहो तृष्णेति सोल्लुण्ठमुपालम्भन्तेत्यर्थः ॥ 24 ॥
विश्वास-प्रस्तुतिः
चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम् ।
उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत् ॥ २५॥
मूलम्
चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम् ।
उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत् ॥ २५॥
मल्लिनाथः ...{Loading}...
चूर्णेति॥ चूर्णैर्बभ्रु चूर्णैर्व्यानतकरणैरधोमुखव्स्थितायाः स्त्रियाशअचिकुरगलितैः कुङ्कुमादिभिर्बभ्रु पिङ्गलम्। ‘बभ्रु स्यात्पिङ्गले त्रिषु’ इत्यमरः। लुलितस्नगाकुलं वरिपदाख्यबन्धे स्त्रिया भूमिगतमस्तकतया पतिताभिर्लुलितस्रग्भिराकुलम्। छिन्नमेखलं हरिविक्रमकरणैः स्त्रिया उच्छ्रितैकचरणत्वाच्छिन्नमेखलम्,गलितमेखलमित्यर्थः। अलक्तकाङ्कितं धेनुकबन्धे भूतलनिहितकान्ताचरणत्वाल्लक्षारागखषितं शयनं कर्तृ। उत्थितस्य । शयनादिति भावः। विलासिनस्तस्याग्निवर्णस्य विभ्रमरतानि लीलारतानि। सुरतबन्धविशेषानित्यर्थः। अपावृणोत् स्फुटीचकार। व्यानतादीनां लक्षणं रतिरहस्ये-‘व्यानतं रतमिदं प्रिया यदि स्यादधोमुखचतुष्पदाकृतिः। तत्कटिं समधिरुह्य वल्लभः स्याद्वृषादिपशुसंस्थितस्थितिः। भूगतस्तनभुजास्यमस्तकामुन्नतस्फिञ्चमधोमुखीं स्त्रियम्। क्रामति स्वकरकृष्टमेहने वल्लभे वरिपदं तदुच्यते। योषिदेकचरणे समुत्विते जायते हि हरिविक्रमाह्वयः। न्यस्तद्दस्तयुगला निजे पदे योषिदेति कटिरूढवल्लभा। अग्रतो यदि शनैरधोमुखी धैनुकं वृषवदुन्नते प्रिये ॥’ इति ॥ 25 ॥
विश्वास-प्रस्तुतिः
स स्वयं चरणरागमादधे योषितां न च तथा समाहितः ।
लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः ॥ २६॥
मूलम्
स स्वयं चरणरागमादधे योषितां न च तथा समाहितः ।
लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः ॥ २६॥
मल्लिनाथः ...{Loading}...
स इति॥ सोऽग्निवर्णः स्वयमेव योषितां चरणयो रागं लाक्षारसमादधेऽर्पयामास। किं च,श्लथांशुकैः। प्रियाङ्गस्पर्शादिति भावः। नितम्बिभिर्नितम्बवद्भिर्मेखलागुणपदैर्जघनैः। ‘पश्चान्नितम्बः स्त्रीकठ्याः क्लीबे तु जघनं पुरः’ इत्यमरः। लोभ्यमाननयन आकृष्यमाणदृष्टिः सन्। तथा समाहितोऽवहितो नादधे यथासम्यग्रागरचना स्यदिति भावः ॥ 26 ॥
विश्वास-प्रस्तुतिः
चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने ।
विघ्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्वधूरतम् ॥ २७॥
मूलम्
चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने ।
विघ्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्वधूरतम् ॥ २७॥
मल्लिनाथः ...{Loading}...
चुम्बन इति॥ चुम्बने प्रवृत्ते सति विपरिवर्तिताधरं परिहृतोष्ठम्। रशनाया विघट्टने ग्रन्थिविस्रंसने प्रसक्ते सति हस्तं रुणद्धिवारयतीति हस्तरोधि। इत्थं सर्वतः सर्वत्र विघ्नितेच्छं प्रतिहतमनोरथमपि वधूनां रतं सुरतं तस्याग्निवर्णस्य मन्मथेन्धनं कामोद्दीपनमभूत् ॥ 27 ॥
विश्वास-प्रस्तुतिः
दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वमनुपृष्ठसंस्थितः ।
छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखीश्चकार सः ॥ २८॥
मूलम्
दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वमनुपृष्ठसंस्थितः ।
छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखीश्चकार सः ॥ २८॥
मल्लिनाथः ...{Loading}...
दर्पणेष्विति॥ सोऽग्निवर्णो दर्पणेषु परिभोगदर्शिनीः संभोगचिह्नानि पश्यन्तीर्वधूर्नर्मपूर्व परिहासपूर्वम्। अनुपृष्ठं तासां पृष्ठभागे संस्थितः सन्। स्मितेन मनोज्ञया छायया दर्पणगतेन स्वप्रतिबिम्बेन ह्नीनिमीलितमुखीर्लज्जावनतमुखीश्चकार। तमागतं दृष्ट्वा लज्जिता इत्यर्थः ॥ 28 ॥
विश्वास-प्रस्तुतिः
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः ।
प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनम् ॥ २९॥
मूलम्
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः ।
प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनम् ॥ २९॥
मल्लिनाथः ...{Loading}...
कण्ठेति॥ प्रियाः शयनादुत्थितं तमग्निवर्णं कण्ठसक्तं कण्ठार्पितं मृदुबाहुबन्धनं यस्मिंस्तत्। अग्रपादयोः स्वकीययोर्न्यस्ते पादतले यस्मिंस्तत्। निशात्यये विसर्गो विसृज्य गमनं तत्र यञ्चुम्बनं तत्प्रार्थयन्त। ‘दुह्याच्-’ इत्यादिना द्विकर्मकत्वम्। अत्र गोनर्दीयः-‘रतावसाने यदि चुम्बनादि प्रयुज्य यायान्मदनोऽस्य वासः’ इति ॥ 29 ॥
विश्वास-प्रस्तुतिः
प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोभिनम् ।
पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्मपरिभोगमण्डनम् ॥ ३०॥
मूलम्
प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोभिनम् ।
पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्मपरिभोगमण्डनम् ॥ ३०॥
मल्लिनाथः ...{Loading}...
प्रेक्ष्येति॥ युवा सोग्निवर्णोऽतिशक्रं यथा तथा शोभमानमतिशक्रशोभिनं तर्पणतलस्थं दर्पणसंक्रान्तम्। आत्मनो राजवेषं प्रेक्ष्य तथा न पिप्रिये न तुतोष यथा व्यक्तलक्ष्म प्रकटचिह्नं परिभोगमण्डनं प्रेक्ष्य पिप्रिये ॥ 30 ॥
विश्वास-प्रस्तुतिः
मित्रकृत्यमपदिश्य पार्श्वतः प्रस्थितं तमनवस्थितं प्रियाः ।
विद्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः ॥ ३१॥
मूलम्
मित्रकृत्यमपदिश्य पार्श्वतः प्रस्थितं तमनवस्थितं प्रियाः ।
विद्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः ॥ ३१॥
मल्लिनाथः ...{Loading}...
मित्रेति॥ मित्रकृत्यं सुहृत्कार्यमपिदिश्य व्याजीकृत्य पार्श्वतः प्रस्थितमन्यतो गन्तुमुद्युक्तमनवस्थितमवस्थातुमक्षमं तमग्निवर्णं प्रियाः,हे शठ हे गूढविप्रियकारिन्। ‘गूढविप्रियकृच्छठः’(2।7) इति दशरूपके। तव पलायनस्य छलान्यञ्जसा तत्त्वतः। ‘तत्त्वे त्वद्धाञ्जसा द्वयम्’इत्यमरः। विद्म जानीमः। ‘विदो लटो वा’(पा.3।4।83) इति वैकल्पिको मादेशः। इति उक्त्वेति शेषः। कचग्रहैः केशकर्षणै रुरुधुः। अत्र गोनर्दीयः-‘ऋतुस्नाताभिगमने मित्रकार्ये तथापदि। त्रिष्वेतेषु प्रियतमः क्षन्तध्यो वारगम्यया।’ इति। विरक्तलक्षणप्रस्तावे वात्स्यायनः-‘मित्रकृत्यं चापदिश्यान्यत्र शएते’ इति ॥ 31 ॥
विश्वास-प्रस्तुतिः
तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रमपदिश्य योषितः ।
अध्यशेरत बृहद्भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥ ३२॥
मूलम्
तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रमपदिश्य योषितः ।
अध्यशेरत बृहद्भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥ ३२॥
मल्लिनाथः ...{Loading}...
तस्येति॥ निर्दयरतिश्रमेणालसा निश्चेष्टा योषितः कण्ठसूत्रमालिङअगनविशेषमषदिश्य व्याजीकृत्य पीवरस्तनाभ्यां विलुप्तचन्दनं प्रमृष्टाङ्गरागं तस्याग्निवर्णस्य बृहद्भुजान्तरमध्यशेरत वक्षःस्थले शेरते स्म। कण्ठसूत्रलक्षणं तु -‘यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निबिडोपगूढम्। परिश्रमार्थं शनकैर्विदग्धास्तत्कण्ठसूत्रं प्रवदन्ति सन्तः’। इदमेव रतिरहस्ये स्तनालिङ्गनमित्युक्तम्। तथा हि-‘उरसि कमितुरुञ्चैरादिशन्ती वराङ्गी स्तन्युगमुपधत्ते यत्स्तनालिङ्गनं तत्’ इति ॥ 32 ॥
विश्वास-प्रस्तुतिः
संगमाय निशि गूढचारिणं चारदूतिकथितं पुरोगताः ।
वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तमङ्गनाः ॥ ३३॥
मूलम्
संगमाय निशि गूढचारिणं चारदूतिकथितं पुरोगताः ।
वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तमङ्गनाः ॥ ३३॥
मल्लिनाथः ...{Loading}...
संगमायेति॥ संगमास्य सुरतार्थं निशइ गूढमज्ञातं चरतीष्टगृहं प्रति गच्छतीति गूढचारी। तं चारदूतिकथितम्। चरन्तीति चारा गूढचारिण्यः। ‘ज्वलितिकसन्तेभ्यो णः’(पा.3।1।140) इति णप्रत्ययः। चाराश्च ता दूत्यश्च चारदूतयः। ताभिः कथितं निवेदितं तमग्निवर्णम्। अङ्गनाः पुरोऽग्रे गताः। अवरुद्धमार्गाः सत्य इत्यर्थः। हे कामुक!तमसा वृतो गूढः सन् कुतो वञ्चयिष्यसीति। उपालभ्येति शेषः। चकृषुः। स्ववासं निन्युरित्यर्थः ॥ 33 ॥
विश्वास-प्रस्तुतिः
योषितामुडुपतेरिवार्चिषां स्पर्शनिवृतिमसाववाप्नुवन् ।
आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥ ३४॥
मूलम्
योषितामुडुपतेरिवार्चिषां स्पर्शनिवृतिमसाववाप्नुवन् ।
आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥ ३४॥
मल्लिनाथः ...{Loading}...
योषितामिति॥ उडुपतेरिन्दोरर्चिषां भासामिव। ‘ज्वाला भासो न पुंस्यर्चिः’ इत्यमरः। योषितां स्पर्शनिर्वृत्तिं स्पर्शसुखमवाप्नुवन्। किंच,रात्रिषु जागरपरः। दिवा दिवसेषु शेते स्वपितीति दिवाशयः। ‘अधिकरणे क्षेतेः’(पा.3।2।15) इत्यच्प्रत्ययः। असावग्निवर्णः कुमुदाकरस्योपमां साम्यम्। आरुरोह प्राप ॥ 34 ॥
विश्वास-प्रस्तुतिः
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः ।
शिल्पकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन् ॥ ३५॥
मूलम्
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः ।
शिल्पकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन् ॥ ३५॥
मल्लिनाथः ...{Loading}...
वेणुनेति॥ दशनैः पीडिताधरादष्टोष्ठाः। नखपदैर्नखक्षतैरङ्कितोरवश्चिह्नितोत्सङ्गाः। व्रणिताधरोरुत्वादक्षमा इत्यर्थः। तथापि वेणुना वीणया चेत्युभयेन। अधरोरुपीडाकरेणेत्यर्तः। वेजिताः पीडिताः शिल्पं वेणुवीणावाद्यादिकं कुर्वन्तीति शिल्पकार्यो गायिकाः। ‘कर्मण्यण्’(पा.3।2।1) इत्यण्। ‘टिड्ढाणञ्-’ (पा.4।1।15) इत्यादिना ङीप्। तं विजिह्यनयनाः कुटिलदृष्टयः सत्यः। स्वं चेष्टितं जानन्नपि वृथा नः पीडयतीति साभिप्रायं पश्यन्त्य इत्यर्थः । व्यलोभयन्। तथाविधालोकनमपि तस्याकर्षकमेवाभूदिति भावः ॥ 35 ॥
विश्वास-प्रस्तुतिः
अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यमुपधाय दर्शयन् ।
स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ ॥ ३६॥
मूलम्
अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यमुपधाय दर्शयन् ।
स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ ॥ ३६॥
मल्लिनाथः ...{Loading}...
अङ्गेति॥ अङ्गं हस्तादि। सत्त्वमन्तःकरणम्। वचनं गेयं च श्रयः कारणं यस्य तदङ्गसत्त्ववचनाश्रयम्। आङ्गिकसात्त्विकवाचिकरूपेण त्रिविधमित्यर्थः। यथाह भरतः-‘सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः’ इति। नृत्यमभिनय मिथो रहसि स्त्रीषु नर्तकीषूपधाय निधाय दर्शयन्। स मित्रसंनिधौ सहचरसमक्षं प्रयोगेऽभिनये निपुणैः कृतिभिः प्रयोक्तृभिरभिनयार्थप्रकाशकैर्नाट्याचार्यैः सह संजघर्षं संघर्षं कृतवान्। संघर्षः पराभिभवेच्छा ॥ 36 ॥
विश्वास-प्रस्तुतिः
अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः ।
प्रावृषि प्रमदबर्हिणेष्वभूत्कृत्रिमाद्रिषु विहारविभ्रमः ॥ ३७॥
मूलम्
अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः ।
प्रावृषि प्रमदबर्हिणेष्वभूत्कृत्रिमाद्रिषु विहारविभ्रमः ॥ ३७॥
मल्लिनाथः ...{Loading}...
अंसेति॥ प्रावृष्यंसलम्बिन्यः कुटजानामर्जुनानां ककुभानां च स्रजो यस्य तस्य। नीपानां कदम्बकुसुमानां रजसाङ्गरागिणोऽङ्गरागवतस्तस्याग्निवर्णस्य प्रमदबर्हिणेषून्मत्तमयूरेषु कृत्रिमाद्रिषु विहार एव विभ्रमो विलासोऽभूदभवत् ॥ 37 ॥
विश्वास-प्रस्तुतिः
विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्वरे ।
आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम् ॥ ३८॥
मूलम्
विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्वरे ।
आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम् ॥ ३८॥
मल्लिनाथः ...{Loading}...
विग्रहादिति॥ ‘प्रावृषि’ इत्यनुषज्यते। सोऽग्निवर्णो विग्रहात्प्रणयकलहाच्छयेन पराङ्मुखीरबला अनुनेतुं न तत्वरे न त्वरितवान्। किंतु घनशब्देन घनगर्जितेन विक्लवाश्चिकिताः,अत एव विवृत्य स्वयमेवाभिमुखीभूय भुजान्तरं विशतीः प्रविशन्तीः। ‘आच्छीनद्योर्नुम्’ (पा.7।1।80) इति नुम्विकल्पः। ता अबला आचकाङ्क्ष। स्वयंग्रहादेव सांमुख्यमैच्छदित्यर्थः ॥ 38 ॥
विश्वास-प्रस्तुतिः
कार्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः ।
अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥ ३९॥
मूलम्
कार्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः ।
अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम् ॥ ३९॥
मल्लिनाथः ...{Loading}...
कार्तिकीष्विति॥ कार्तिकस्येमाः कार्तिक्यः। ‘तस्येदम्’(पा.4।3।120) इत्यण्। तासु यामिनीषु निशासु। शरद्रात्रिष्वित्यर्थः। सवितानान्युपरिवस्त्रावृतानि हर्म्याणि भजतीति सवितानहर्म्यभाक्। भजेर्ण्विप्रत्ययः। हिमवारणार्थं सवितानमुक्तम्। ललिताङ्गनासखः सोऽग्निवर्णः सुरतश्रमापहां मेघमुक्ता च सा विशदा च ताम्। बहुलग्रहणात्सविशेषणसमासः। चन्द्रिकामन्वभुङ्क्त ॥ 39 ॥
विश्वास-प्रस्तुतिः
सैकतं स सरयूं विवृण्वतीं श्रोणिबिम्बमिव हंसमेखलम् ।
स्वप्रियाविलसितानुकारिणीं सौधजालविवरैर्व्यलोकयत् ॥ ४०॥
मूलम्
सैकतं स सरयूं विवृण्वतीं श्रोणिबिम्बमिव हंसमेखलम् ।
स्वप्रियाविलसितानुकारिणीं सौधजालविवरैर्व्यलोकयत् ॥ ४०॥
मल्लिनाथः ...{Loading}...
सैकतमिति॥ किंच,हंसा एव मेखला यस्य तत्सैकतं पुलिनं श्रोणिबिम्बमिव विवृण्वतीम्। अत एव स्वप्रियाविलसितान्यनुकरोतीति तद्विधां सरयूम्। सौधस्य जालानि गवाक्षाः। त एव विवराणि। तैर्व्यलोकयत् ॥ 40 ॥
विश्वास-प्रस्तुतिः
मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमरशनैस्तमेकतः ।
जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निवसनैः सुमध्यमाः ॥ ४१॥
मूलम्
मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमरशनैस्तमेकतः ।
जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निवसनैः सुमध्यमाः ॥ ४१॥
मल्लिनाथः ...{Loading}...
मर्मरैरिति॥ मर्मरैः संस्कारविशेषाच्छब्दायमानैः। ‘अथ मर्मरः। स्वनिते वस्त्रपर्णानाम्’ इत्यमरः। अगुरुधूपगन्धिभिर्व्यक्तहेमरशनैर्लोल्याल्लक्ष्यमाणकनकमेखलागुणैर्हैमनैर्हेमन्ते भवैः। ‘सर्वत्राण्च तलोपश्च’ (पा.4।3।22) इति ‘हिमन्त’ शब्दादण्प्रत्ययस्तलोपश्च। निवसनैरंशुकैः सुमध्यमाः स्त्रियः एकतो नितम्बैकदेश आग्रथनमोक्षयोर्नीवीबन्ध-विस्रंसनयोर्लोलुपमासक्तं तं जह्नुराचकृषुः ॥ 41 ॥
विश्वास-प्रस्तुतिः
अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु ।
तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ॥ ४२॥
मूलम्
अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु ।
तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ॥ ४२॥
मल्लिनाथः ...{Loading}...
अर्पितेति॥ निपाता वातरहिताः कुक्षयोऽभ्यन्तराणि येषां तेषु गर्भवेश्मसु गृहान्तर्गृहेष्वर्पिता दत्ताः स्मिमिता निवातत्वान्निश्चला दीपा एव दृष्टयो याभिस्ताः। अत्रानिमिषदृष्टित्वं च गम्यते। सर्वसुरतान्तरक्षमास्तापस्वेदापनोदनत्वाद्दीर्घकालत्वाञ्च सर्वेषां सुरतान्तराणां सुरतभेदानां क्षमाः क्रियार्हाः शिशिररात्रयस्तस्याग्निवर्णस्य साक्षितां ययुः। विविक्तकालदेशत्वाद्यथेच्छं विजहारेत्यर्थः ॥ 42 ॥
विश्वास-प्रस्तुतिः
दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् ।
अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगमङ्गनाः ॥ ४३॥
मूलम्
दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् ।
अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगमङ्गनाः ॥ ४३॥
मल्लिनाथः ...{Loading}...
दक्षिणेनेति॥ अङ्गना दक्षिणेन पवनेन मलयानिलेन संभृतं जनितं सपल्लवं चूतकुसुमं प्रेक्ष्य। अवधूतविग्रहास्त्यक्तविरोधाः सत्यो दुरुत्सहवियोगं दुःसहविरहं तमन्वनैषुः। तद्विरहमसहमानाः स्वयमेवानुनीतवत्य इत्यर्थः ॥ 43 ॥
विश्वास-प्रस्तुतिः
ताः स्वमङ्कमधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया ।
मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनमवाप बाहुभिः ॥ ४४॥
मूलम्
ताः स्वमङ्कमधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया ।
मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनमवाप बाहुभिः ॥ ४४॥
मल्लिनाथः ...{Loading}...
ता इति॥ ता अङ्गनाः स्वमङ्कं स्वकीयमुत्सङ्गमधिरोप्य परिजनेनापविद्धया संप्रेषितया दोलया मुक्तरज्जु त्यक्तदोलासूत्रं यथा तथा प्रेङ्खयंश्चालयन् भयाच्छलात्पतनभयमिषाद्वाहुभिरङ्गनाभुजैर्निबिडं कण्ठबन्धनमवाप प्राप। स्वयंग्रहाश्लेषशुखमन्वभूदित्यर्थः ॥ 44 ॥
विश्वास-प्रस्तुतिः
तं पयोधरनिषिक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः ।
ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलैः प्रियाः ॥ ४५॥
मूलम्
तं पयोधरनिषिक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः ।
ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलैः प्रियाः ॥ ४५॥
मल्लिनाथः ...{Loading}...
तमिति॥ प्रियाः पयोधऱेषु स्तनेषु निषिक्तमुक्षितं चन्दनं येषु तैः। मौक्तिकैर्ग्रथितानि प्रोतानि चारुभूषणानि येषु तैः। मुक्ताप्रायाभरणैरित्यर्थः। श्रोणिलम्बिन्यो मणिमेखला मरकतादिमणियुक्तकटिसूत्राणि येषु तादृशैर्ग्रीष्मवेषविधइनिरुष्णकालोचितनेपथ्यविधानैः। शीतलोपायैरित्यर्थः । तमग्निवर्णं सिषेविरे ॥ 45 ॥
विश्वास-प्रस्तुतिः
यत्स लग्नसहकारमासवं रक्तपाटलसमागमं पपौ ।
तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः ॥ ४६॥
मूलम्
यत्स लग्नसहकारमासवं रक्तपाटलसमागमं पपौ ।
तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः ॥ ४६॥
मल्लिनाथः ...{Loading}...
यदिति॥ सोऽग्निवर्णो लग्नः सहकारश्चूतपल्लवो योस्मिस्तं रक्तपाटलस्य पाटलकुसुमस्य समागमो यस्य तमासवं मद्यं पपौ। इति यत्तेनासवपानेन मधुनिर्गमाद्वसन्तापगमात् कृशो मन्दवीर्यस्तस्य चित्तयोनिः कामः पुनर्नवः प्रबलोऽभवत् ॥ 46 ॥
विश्वास-प्रस्तुतिः
एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः ।
आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः ॥ ४७॥
मूलम्
एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः ।
आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः ॥ ४७॥
मल्लिनाथः ...{Loading}...
एवमिति॥ एवमनङ्गवाहितः कामप्रेरितोऽन्यकार्यविमुखः स पार्थिव इन्द्रियाणां सुखानि सुखकराणि शब्दादीनि निर्विशन्ननुभवन्नात्मनो लक्षणैः कुटजस्रग्धारणादिचिह्नैर्निवेदितान्। अयमृतुरिदानीं वर्तत इति ज्ञापितान्। ऋतून्वर्षादीन्। अत्यवाहयदगमयत् ॥ 47 ॥
विश्वास-प्रस्तुतिः
तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवाः ।
आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥ ४८॥
मूलम्
तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवाः ।
आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥ ४८॥
मल्लिनाथः ...{Loading}...
तमिति॥ प्रमत्तं व्यसनासक्तमपि तं नृपं प्रभावतोऽन्यपार्थिवा आक्रमितुमभिभवितुं न शेकुर्न शक्ताः। रतिरागसंभव आमयो व्याधिस्तु। क्षयरोग इत्यर्थः। दक्षस्य दक्षप्रजापतेः शात्पश्चन्द्रमिव। अक्षिणोदकर्शयत्। शापोऽपि रतिरागसंभव इति। अत्र दक्षः किलान्याः स्वकन्या उपेक्ष्य रोहिण्यामेव रममाणं राजानं सोमं शशाप। स शापश्चाद्यापि क्षयरूपेण तं क्षिणोतीत्युपाख्यायते ॥ 48 ॥
विश्वास-प्रस्तुतिः
दृष्टदोषमपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजामनाश्रवः ।
स्वादुभिस्तु विषयैर्हृतस्ततो दुःखमिन्द्रियगणो निवार्यते ॥ ४९॥
मूलम्
दृष्टदोषमपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजामनाश्रवः ।
स्वादुभिस्तु विषयैर्हृतस्ततो दुःखमिन्द्रियगणो निवार्यते ॥ ४९॥
मल्लिनाथः ...{Loading}...
दृष्टेति॥ भिषजां वैद्यानामनाश्रवो वचसि न स्थितः। ‘वचने स्वित आश्रवः’ इत्यमरः। अविधेय इत्यर्थः। स दृष्टदोषमपि। रोगजननादिति शेषः। ततत्सङ्गस्य वस्तु सङ्गवस्तु स्त्रीमद्यादिकं सङ्गजनकं वस्तु नात्यजत्। तथा हि-इन्द्रियगणः स्वादुभिर्विषयैर्हृतस्तु हृतश्चेत्ततस्तेभ्यो विषयेभ्यो दुःखं कृच्छ्रेण निवार्यते। यदि वार्येतेति शेषः। दुस्त्यजाः खलु विषया इत्यर्थः ॥ 49 ॥
विश्वास-प्रस्तुतिः
तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना ।
राजयक्ष्मपरिहानिराययौ कामयानसमवस्थया तुलाम् ॥ ५०॥
मूलम्
तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना ।
राजयक्ष्मपरिहानिराययौ कामयानसमवस्थया तुलाम् ॥ ५०॥
मल्लिनाथः ...{Loading}...
तस्येति॥ तस्य राज्ञः पाण्डुवदना। अल्पभूषणा परिमिताभरणा। सावलम्बं दासादिहस्तावलम्बसहितं गमनं यस्यां सा सावलम्बगमना। मृदुस्वना हीनस्वरा। राज्ञः सोमस्य यक्ष्मा राजयक्ष्मा क्षयरोगः । तेन या परिहानिः क्षीणावस्था सा। कामयते विषयानिच्छति कामयानः कामयमानः। कमेर्णिङन्ताच्छानच्। ‘अनित्यमागमशासनम्’ इति मुमागमाभावः। एतदेवाभिप्रेत्योक्तं वामनेनापि (का.सू.5।2।83) ‘कामयानशब्दः सिद्धोऽनादिश्च’ इति। तस्य समवस्थया कामुकावस्थया तुलां साम्यमाययौ प्राप। कालकृतो विशेषोऽवस्था। ‘विशेषः कालिकोऽवस्था’ इत्यमरः ॥ 50 ॥
विश्वास-प्रस्तुतिः
व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषमिव घर्मपल्वलम् ।
राज्ञि तत्कुलमभूत्क्षयातुरे वामनार्चिरिव दीपभाजनम् ॥ ५१॥
मूलम्
व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषमिव घर्मपल्वलम् ।
राज्ञि तत्कुलमभूत्क्षयातुरे वामनार्चिरिव दीपभाजनम् ॥ ५१॥
मल्लिनाथः ...{Loading}...
व्योमिति॥ राज्ञि क्षयातुरे सति तत्कुलं रघुकुलं पश्चिमकलायां स्थइत इन्दुर्यस्मिंस्तत्कलावशिष्टेन्दु व्योम वा व्योमेव। ‘वा’शब्द इवार्थे। यथाह दण्डी-‘इववद्वायथाशब्दौ’ इति। पङ्कशेषं घर्मपल्वलमिव वामनार्चिरल्पशिस्त्रं दीपभाजनं दीपपात्रमिवाभूत् ॥ 51 ॥
विश्वास-प्रस्तुतिः
बाढमेष दिवसेषु पार्थिवः कर्म साधयति पुत्रजन्मने ।
इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः ॥ ५२॥
मूलम्
बाढमेष दिवसेषु पार्थिवः कर्म साधयति पुत्रजन्मने ।
इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः ॥ ५२॥
मल्लिनाथः ...{Loading}...
बाढमिति॥ बाढं सत्यमेव पार्थिवो दिवसेषु पुत्रजन्मने पुत्रोदयार्थं कर्म जपादिकं साधयति। इत्येवमदर्शितरुजो निगूहितरोगाः सन्तोऽस्य राज्ञो मन्त्रिणोऽघशङ्किनीर्व्यसनशङ्किनीः प्रजाः शश्वदूचुः ॥ 52 ॥
विश्वास-प्रस्तुतिः
स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य संततिम् ।
वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् ॥ ५३॥
मूलम्
स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य संततिम् ।
वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् ॥ ५३॥
मल्लिनाथः ...{Loading}...
स इति॥ स त्वग्निवर्णोऽनेकवनितासखः सन्नपि। पावनीं पितॄणमोचनीं संततिमनवलोक्य। पुत्रमनवाप्येत्यर्थः। वैद्ययत्नपरिभाविनं गदं रोगम्। प्रदीपो वायुविव। नात्यगान्नातिचक्राम। ममारेत्यर्थः ॥ 53 ॥
विश्वास-प्रस्तुतिः
तं गृहोपवनएव संगताः पश्चिमक्रतुविदा पुरोधसा ।
रोगशान्तिमपदिश्य मन्त्रिणः संभृते शिखिनि गूढमादधुः ॥ ५४॥
मूलम्
तं गृहोपवनएव संगताः पश्चिमक्रतुविदा पुरोधसा ।
रोगशान्तिमपदिश्य मन्त्रिणः संभृते शिखिनि गूढमादधुः ॥ ५४॥
मल्लिनाथः ...{Loading}...
तमिति॥ पश्चिमक्रतुविदाऽन्त्येष्टिविधिज्ञेन पुरोधसा संगताः समेता मन्त्रिणो गृहोपवन एव गृहाराम एव। ‘आरामः स्यादुपवनम्’ इत्यमरः। दोगशान्तिमपदिश्य शान्तिकर्म व्यपदिश्य तमग्निवर्णं संभृते समिद्धे शिखिन्यग्नौ गूढमप्रकाशमादधुर्निदधुः ॥ 54 ॥
विश्वास-प्रस्तुतिः
तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी ।
साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥ ५५॥
मूलम्
तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी ।
साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥ ५५॥
मल्लिनाथः ...{Loading}...
तैरिति॥ आशु शीघ्रं कृतः प्रकृतिमुख्यानां पौरजनप्रधानानां संग्रहः संनिपातनं यैस्तादृशैस्तैर्मन्त्रिभिः साधु निपुणं दृष्टशुभगर्भलक्षणा परीक्षितशुभगर्भचिह्ना तस्याग्निवर्णस्य सहचारिणी नराधिपश्रियं प्रत्यपद्यत राज्यलक्ष्मीं प्राप ॥ 55 ॥
विश्वास-प्रस्तुतिः
तस्यास्तथाविधनरेन्द्रविपत्तिशोका-
दुष्णैर्विलोचनजलैः प्रथमाभितप्तः ।
निर्वापितः कनककुम्भमुखोज्झितेन
वंशाभिषेकविधिना शिशिरेण गर्भः ॥ ५६॥
मूलम्
तस्यास्तथाविधनरेन्द्रविपत्तिशोका-
दुष्णैर्विलोचनजलैः प्रथमाभितप्तः ।
निर्वापितः कनककुम्भमुखोज्झितेन
वंशाभिषेकविधिना शिशिरेण गर्भः ॥ ५६॥
मल्लिनाथः ...{Loading}...
तस्या इति॥ तथाविधया नरेन्द्रविपत्त्या यः शोकस्तस्मादुष्णैर्विलोचनजलैः प्रथमाभितप्तस्तस्या गर्भः कनककुम्भानां मुखैर्धारैरुज्झितेन शिशिरेण शीतलेन वंशाभिषेकविधिना लक्षणयाऽभिषेकजलेन निर्वापित आप्यायितः ॥ 56 ॥
विश्वास-प्रस्तुतिः
तं भावार्थं प्रसवसमयाकाङ्क्षिणीनां प्रजाना-
मन्तर्गूढं क्षितिरिव नभोबीजमुष्टिं दधाना ।
मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था
राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा ॥ ५७॥
मूलम्
तं भावार्थं प्रसवसमयाकाङ्क्षिणीनां प्रजाना-
मन्तर्गूढं क्षितिरिव नभोबीजमुष्टिं दधाना ।
मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था
राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा ॥ ५७॥
मल्लिनाथः ...{Loading}...
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतावग्निवर्णश्रृङ्गारो नामैकोनविंशः सर्गः ।
तमिति॥ प्रसवो गर्भमोचनम्। फलं च विवक्षितम्। ‘स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने’ इत्यमरः। तस्य यः समयस्तदाकाङ्क्षिणीनां प्रजानां भावार्थं भावाय। भूतय इत्यर्थः। ‘भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु’ इति यादवः। क्षितिरन्दर्गूढं नभोबीजमुष्टिमिव। श्रवणमास्युप्तं बीजमुष्टिं यथा-धत्ते तद्विदित्यर्थः। ‘मुष्टि’ शब्दो द्विलिङ्गः। ‘अक्लीबौ मुष्टिमुस्तकौ’ इति यादवः। अन्तर्गूढमन्तर्गतं गर्भं दधाना हेमसिंहासनस्थाऽव्याहताज्ञा राज्ञी मौलैर्मूले भवैर्मूलादागतैर्वा। आप्तैरित्यर्थः। स्थिविरसचिवैर्बृद्धामात्यैः। सार्धं भर्तू राज्यं विधिवद्विष्यर्हम्। यथाशास्त्रमित्यर्थः। अर्हार्थे वतिप्रत्ययः। अशिषच्छास्ति स्म। ‘सर्तिशास्त्यर्तिभ्यश्च (पा.3।1।76) इति च्लेरङ्। ‘शासइदङ्हलोः’ (पा.6।4।34) इतीकारः ॥ 57 ॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदास- कृतावग्निवर्णशृङ्गारो नामैकोनविंशः सर्गः ॥