विश्वास-प्रस्तुतिः
अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती ।
पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना॥ १॥
मूलम्
अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती ।
पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना॥ १॥
मल्लिनाथः ...{Loading}...
अतिथिमिति॥ कुमुद्वती काकुत्स्थात्कुशात्। अतिथिं नाम पुत्रम्। चेतना बुद्धिः पश्चिमादन्तिमाद्यामिन्या रात्रेर्यामात्प्रहरात्। ‘द्वौ यामप्रहरौ समौ’ इत्यमरः। प्रसादं वैशद्यमिव। प्राप। ब्राह्मे मुहूर्ते सर्वेषां बुद्धिवैशद्यं भवतीति प्रसिद्धिः ॥ 1 ॥
विश्वास-प्रस्तुतिः
स पितुः पितृमान्वंशं मातुश्चानुपमद्युतिः ।
अपुनात्सेवितेवोभौ मार्गावुत्तरदक्षिणौ॥ २॥
मूलम्
स पितुः पितृमान्वंशं मातुश्चानुपमद्युतिः ।
अपुनात्सेवितेवोभौ मार्गावुत्तरदक्षिणौ॥ २॥
मल्लिनाथः ...{Loading}...
स इति॥ पितृमान्। प्रशंसार्थे मतुप्। सुशिक्षित इत्यर्थः। अनुपमद्युतिः सवितुश्चेदं विशेषणम्। सोऽतिथिः पितुः कुशस्य मातुः कुमुद्वत्याश्च वंशम्। सविता। उत्तरदक्षिणावुभौ मार्गाविव। अपुनात् पवित्रीकृतवान् ॥ 2 ॥
विश्वास-प्रस्तुतिः
तमादौ कुलविद्यानामर्थमर्थविदां वरः ।
पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता॥ ३॥
मूलम्
तमादौ कुलविद्यानामर्थमर्थविदां वरः ।
पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता॥ ३॥
मल्लिनाथः ...{Loading}...
तमिति॥ अर्थाञ्छब्दार्थान्दानसंग्रहादिक्रियाप्रयोजनानि च विदन्तीत्यर्थविदः तेषां वरः श्रेष्ठः पिता कुशः। तमतिथिमादौ प्रथमं कुलविद्यानामान्वीक्षिकीत्रयीवार्ता-दण्डनीतिनामर्थमभिधेयमग्राहयदबोधयत्। पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्स्वीकारितवान्। उदवाहयदित्यर्थः। ग्रहेर्ण्यन्तस्य सर्वत्र द्विकर्मकत्वम् स्तीत्युक्तं प्राक् ॥ 3 ॥
विश्वास-प्रस्तुतिः
जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः ।
अमन्यैतकमात्मानमनेकं वशिना वशी॥ ४॥
मूलम्
जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः ।
अमन्यैतकमात्मानमनेकं वशिना वशी॥ ४॥
मल्लिनाथः ...{Loading}...
जात्य इति॥ जातौ भवो जात्यः कुलीनः शूरो वशी कुशोऽभिजातेन कुलीनेन। ‘अभिजातः कुलीनः स्यात्’ इत्यमरः। शौर्यवता वशिना तेनातिथिना। करणेन एकमात्मानम्। एको न भवतीत्यनेकस्तम्। अमन्यत। सर्वगुणसामग्र्यादात्मजमात्मन एव रूपान्तरममंस्तेत्यर्थः ॥ 4 ॥
विश्वास-प्रस्तुतिः
स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् ।
जघान समरे दैत्यं दुर्जयं तेन चावधि॥ ५॥
मूलम्
स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् ।
जघान समरे दैत्यं दुर्जयं तेन चावधि॥ ५॥
मल्लिनाथः ...{Loading}...
स इति॥ स कुशः कुलोचितं कुलाभ्यस्तमिन्द्रस्य साहायकं सहकारित्वम्। ‘योपधात्-’(पा.5।1।132) इत्यादिना वुञ्। उपेयिवान् प्राप्तः सन् समरे नामतोऽर्थतश्च दुर्जयं दैत्यं जघानावधीत्। तेन दैत्येन। अवधि हतश्च। ‘लुङिच’ (पा.2।4।43) इति हनो वधादेशः ॥ 5 ॥
विश्वास-प्रस्तुतिः
तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती ।
अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी॥ ६॥
मूलम्
तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती ।
अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी॥ ६॥
मल्लिनाथः ...{Loading}...
तमिति॥ कुमुदस्य नाम नागराजस्य स्वसा कुमुद्वती कुशपत्नी कुमुदानन्दं शशङ्कं कौमुदी ज्योत्स्नेव। तं कुशमन्वगात्। कुशस्तु। कुः पृथ्वी तस्या मुत्प्रीतिः सैवानन्दो यस्येति कुमुदानन्दः। परानन्देन स्वयमानन्दतीत्यर्थः ॥ 6 ॥
विश्वास-प्रस्तुतिः
तयोर्दिवस्पतेरासीदेकः सिंहासनार्धभाक् ।
द्वितीयापि सखी शच्याः पारिजातांशभागिनी॥ ७॥
मूलम्
तयोर्दिवस्पतेरासीदेकः सिंहासनार्धभाक् ।
द्वितीयापि सखी शच्याः पारिजातांशभागिनी॥ ७॥
मल्लिनाथः ...{Loading}...
तयोरिति॥ थयोः कुश-कुमुद्वत्योर्मध्य एकः कुशो दिवस्पतेरिन्द्रस्य सिंहासनार्धं सिंहासनैकदेशः,तद्भाक्। आसीत्। द्वितीया कुमुद्वत्यपि शच्या इन्द्राण्याः पारिजातांशस्य भागिनी ग्राहिणी। ‘संपृच्-’ इत्यादिना भजेर्घिनुण्प्रत्ययः। सख्यासीत्। कस्कादित्वाद्दिवस्पतिः साधुः ॥ 7 ॥
विश्वास-प्रस्तुतिः
तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः ।
स्मरन्तः पश्चिमामाज्ञां भर्तुः सङ्ग्रामयायिनः॥ ८॥
मूलम्
तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः ।
स्मरन्तः पश्चिमामाज्ञां भर्तुः सङ्ग्रामयायिनः॥ ८॥
मल्लिनाथः ...{Loading}...
तदिति॥ सङ्ग्रामयायिनः सङ्ग्रामं यास्यतः। आवश्यकार्थे णिनिः। ‘अकेनोर्भविष्यदाधमर्ण्ययोः’(पा.2।3।70) इति षष्ठीनिषेधः। भर्तुः स्वामिनः कुशस्य पश्चिमामन्तिमामाज्ञां विपर्यये पुत्रोऽभिषेक्तव्य इत्येवंरूपां स्मरन्तो मन्त्रिवृद्धास्तदात्मसंभवमतिथिं राज्ये समादधुर्निदधुः ॥ 8 ॥
विश्वास-प्रस्तुतिः
ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः ।
विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम्॥ ९॥
मूलम्
ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः ।
विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम्॥ ९॥
मल्लिनाथः ...{Loading}...
त इति॥ ते मन्त्रिणस्तस्यातिथेरभिषेकाय शिल्पिभिरुद्वेदि उन्नतवेदिकं चतुःस्तम्भप्रतिष्ठितं चतुर्षु स्तम्भेषु प्रतिष्ठितं नवं विमानं मण्डपं कल्पयामासुः कारयामासुः ॥ 9 ॥
विश्वास-प्रस्तुतिः
तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः ।
उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम्॥ १०॥
मूलम्
तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः ।
उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम्॥ १०॥
मल्लिनाथः ...{Loading}...
तत्रेति॥ तत्र विमाने भद्रपीठे पीठविशेष उपवेशितमेनमतिथिं हेमकुम्भेषु संभृतैः संगृहीतैस्तीर्थवारिभिः। करणैः प्रकृतयो मन्त्रिणा उपतस्थु ॥ 10 ॥
विश्वास-प्रस्तुतिः
नदद्भिः स्निग्धगंभीरं तूर्यैराहतपुष्करैः ।
अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति॥ ११॥
मूलम्
नदद्भिः स्निग्धगंभीरं तूर्यैराहतपुष्करैः ।
अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति॥ ११॥
मल्लिनाथः ...{Loading}...
नदद्भिरिति॥ आहतं पुष्करं मुखं येषां तौ। ‘पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखेऽपि च’ इत्यमरः। स्निग्धां मधुरं गम्भीरं च नदद्भिस्तूर्यैस्तस्यातिथेरविच्छिन्नसंतत्यविच्छिन्नपारंपर्यं कल्याणं भावि शुभमन्वमीयतानुमितम् ॥ 11 ॥
विश्वास-प्रस्तुतिः
दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् ।
ज्ञातिवृद्धैः प्रयुक्तान्स भेजे नीराजनाविधीन्॥ १२॥
मूलम्
दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् ।
ज्ञातिवृद्धैः प्रयुक्तान्स भेजे नीराजनाविधीन्॥ १२॥
मल्लिनाथः ...{Loading}...
दूर्वेति॥ सोऽतिथिः दूर्वाश्च यवाङ्कुराश्च प्लक्षत्वचश्चु अभिन्नपुटा बालपल्लवाश्चोत्तराणि प्रधानानि येषु तान्। अभिन्नपुटानि मधूकपुष्पाणीति केचित्। कमलानीत्यन्ये। ज्ञातिषु ये वृद्धास्तैः प्रयुक्तान्नीराजनाविधीन्भेजे ॥ 12 ॥
विश्वास-प्रस्तुतिः
पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः ।
उपचक्रमिरे पूर्वमभिषेक्तुं द्विजातयः॥ १३॥
मूलम्
पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः ।
उपचक्रमिरे पूर्वमभिषेक्तुं द्विजातयः॥ १३॥
मल्लिनाथः ...{Loading}...
पुरोहितेति॥ पुरोहितपुरोगाः पुरोहितप्रमुखा द्विजातयो ब्राह्मणा जिष्णुं जयशीलं तमतिथिं जैत्रैर्जयशीलरथर्वभिर्मन्त्रविशेषैः करणैः पूर्वमभिषेक्तुमुपचक्रमिरे ॥ 13 ॥
विश्वास-प्रस्तुतिः
तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत ।
सशब्दमभिषेकश्रीर्गङ्गेव त्रिपुरद्विषः॥ १४॥
मूलम्
तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत ।
सशब्दमभिषेकश्रीर्गङ्गेव त्रिपुरद्विषः॥ १४॥
मल्लिनाथः ...{Loading}...
तस्येति॥ तस्यातिथेर्मूर्ध्नि सशब्दं निपतन्त्योघमहती महाप्रवाहा। अभिषिच्चतेऽनेनेत्यभिषेको जलम्। स एव श्रीः। यद्वा,-तस्य श्रीः समृद्धिस्त्रिपुरद्विषः शिवस्य,मूर्ध्नि निपतन्ती गङ्गेव। व्यरोचत। त्रयाणां पुराणां द्वेष्टेति विग्रहः ॥ 14 ॥
विश्वास-प्रस्तुतिः
स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः ।
प्रवृद्ध इव पर्जन्यः सारङ्गैरभिनन्दितः॥ १५॥
मूलम्
स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः ।
प्रवृद्ध इव पर्जन्यः सारङ्गैरभिनन्दितः॥ १५॥
मल्लिनाथः ...{Loading}...
स्तूयमान इति॥ तस्मिन्क्षणेऽभिषेककाले बन्दिभिः स्तूयमानः सोऽतिथिः प्रवृद्धः प्रवृद्धवान्। कर्तरि क्तः। अत एव सारङ्गैश्चातकैरभिनन्दितः पर्जन्यो मेघ इव। अलक्ष्यत ॥ 15 ॥
विश्वास-प्रस्तुतिः
तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः ।
ववृधे वैद्युतश्चाग्नेर्वृष्टिसेकादिव द्युतिः॥ १६॥
मूलम्
तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः ।
ववृधे वैद्युतश्चाग्नेर्वृष्टिसेकादिव द्युतिः॥ १६॥
मल्लिनाथः ...{Loading}...
तस्येति॥ सन्मन्त्रैः पूताभिः शुद्धाभिरद्भिः स्नानं प्रतीच्छतः कुर्वपतस्तस्य वृष्टिसेकात्। विद्युतोऽयं वैद्युतः। तस्याबिन्धनस्याग्नेरिव। द्युतिर्ववृधे ॥ 16 ॥
विश्वास-प्रस्तुतिः
स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु ।
यावतैषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः॥ १७॥
मूलम्
स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु ।
यावतैषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः॥ १७॥
मल्लिनाथः ...{Loading}...
स इति॥ सोऽतिथइरभिषेकान्ते स्नातकेभ्यो गृहस्थेभ्यस्तावत्तावत्परिमाणं वसु धनं ददौ। यावता वसुना। एषां स्नातकानां पर्याप्ददक्षिणाः समग्रदक्षिणा यज्ञाः समाप्येरन्। तावद्ददावित्यन्वयः ॥ 17 ॥
विश्वास-प्रस्तुतिः
ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन् ।
सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलैः॥ १८॥
मूलम्
ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन् ।
सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलैः॥ १८॥
मल्लिनाथः ...{Loading}...
त इति॥ प्रीतमनसस्ते स्नातकास्तस्मा अतिथये यामाशिषमुदैरयन् व्याहरन् साशीस्तस्यातिथेः कर्मनिर्वृत्तैः पूर्वपुण्यनिष्पन्नैः फलैः साम्राज्यादिभिर्दूरं दूरतः पश्चात्कृता। स्वफलदानस्य तदानीमनवकाशात्कालान्तरोद्वीक्षणं न चकारेत्यर्थः ॥ 18 ॥
विश्वास-प्रस्तुतिः
बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम् ।
धुर्याणां च धुरो मोक्षमदोहं चादिशद्गवाम्॥ १९॥
मूलम्
बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम् ।
धुर्याणां च धुरो मोक्षमदोहं चादिशद्गवाम्॥ १९॥
मल्लिनाथः ...{Loading}...
बन्धेति॥ सोऽतिथिर्बद्धानां बन्धच्छेदं वधार्हाणामवध्यताम्। धुरं वहन्तीति धुर्या बपलीवर्दादयः। तेषां धुरो भारस्य मोक्षं गवामदोहं वत्सानां पानार्थं दोहनिवृत्तिं चादिशदादिदेश ॥ 19 ॥
विश्वास-प्रस्तुतिः
क्रीडापतत्रिणोप्यस्य पञ्जरस्थाः शुकादयः ।
लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन्॥ २०॥
मूलम्
क्रीडापतत्रिणोप्यस्य पञ्जरस्थाः शुकादयः ।
लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन्॥ २०॥
मल्लिनाथः ...{Loading}...
क्रीडेति॥ पञ्जरस्थाः शुकादयः। अस्यातिथेः क्रीडापतत्रिणोऽपि। किमुतान्य इति ‘अपि’शब्दार्थः। तदादेशात्तस्यातिथेः शासनात्। लब्धमोक्षाः सन्तो यथेष्टं गतिर्येषां ते स्वेच्छाचारिणोऽभवन् ॥ 20 ॥
विश्वास-प्रस्तुतिः
ततः कक्ष्यान्तरन्यस्तं गजदन्तासनं शुचि ।
सूत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः॥ २१॥
मूलम्
ततः कक्ष्यान्तरन्यस्तं गजदन्तासनं शुचि ।
सूत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः॥ २१॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततः सोऽतिथिः। नेपथ्यग्रहणाय प्रसाधनस्वीकाराय। कक्ष्यान्तरं हर्म्याङ्गणविशेषः। ‘कक्ष्या प्रकोष्ठे हर्म्यादेः’ इत्यमरः। तत्र न्यस्तं स्थापितं शुचि निर्मलं सोत्तरच्छदमास्तरणसहितं गजदन्तस्यासनं पीठमध्यास्त। तत्रोपविष्ट इत्यर्थः ॥ 21 ॥
विश्वास-प्रस्तुतिः
तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः ।
आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः॥ २२॥
मूलम्
तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः ।
आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः॥ २२॥
मल्लिनाथः ...{Loading}...
तमिति॥ तोयेन निर्णिक्तपाणयः क्षालितहस्ता;प्रसाधका अलंकर्तारो धूपेन गन्धद्रव्यधूपेनाशअयानकेशान्तं शोषितकेशपाशान्तं तमतिथिं तैस्तैराकल्पस्य नेपथ्यस्य साधनैर्गन्धमाल्यादिभिः। उपसेदुरुपतस्थुः,अलंचक्रुरित्यर्थः ॥ 22 ॥
विश्वास-प्रस्तुतिः
तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् ।
प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना॥ २३॥
मूलम्
तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् ।
प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना॥ २३॥
मल्लिनाथः ...{Loading}...
त इति॥ ते प्रसाधका मुक्तागुणेन मौक्तिकसरेणोन्नद्धमुद्बद्धमन्तर्गतस्रजमस्यातिथेर्मौलिं धम्मिल्लं प्रभामण्डलशोभिना पद्मरागेण माणिक्येन प्रत्यूपुः प्रत्युप्त चक्रुः ॥ 23 ॥
विश्वास-प्रस्तुतिः
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना ।
समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम्॥ २४॥
मूलम्
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना ।
समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम्॥ २४॥
मल्लिनाथः ...{Loading}...
चन्दनेनेति॥ किंच,मृगनाभ्या कस्तूरिकया सुगन्धिना चन्दनेन अङ्गरागमङ्गविलेपनं समापय्य समाप्य ततोऽनन्तरं विन्यस्ता रोचना गोरोचना यस्मिंस्तत्पत्रं पत्ररचनं चक्रुः ॥ 24 ॥
विश्वास-प्रस्तुतिः
आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् ।
आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः॥ २५॥
मूलम्
आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् ।
आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः॥ २५॥
मल्लिनाथः ...{Loading}...
आमुक्तेति॥ आमुक्ताभरणः आसञ्जिताभरणः। स्रजोऽस्य सन्तीति स्रग्वी। ‘अस्मायामेधास्रजो विनिः’(पा.5।2।121) इति विनिप्रत्ययः। हंसाश्चिह्नमस्येति हंसचिह्नं यद्दुकूलं तद्वान्। अत्र बहुव्रीहिणैवार्थसिद्धेर्मतुबानर्थक्येऽपि सर्वधनीत्यादिवत् कर्मधारयादपि मत्वर्थीयं प्रत्ययमिच्छन्ति। एवमन्यत्रापि द्रष्टव्यम्। राज्यश्रीरेव वधूर्नवोढा तस्या वरो वोढा। ‘वधूः स्नुषा नवोढा स्त्री वरो जामातृषिङ्गयोः’ इति विश्वः। सोऽतिथिः। अतिशयेन प्रेक्ष्यो दर्शनीय आसीत् । वरोऽप्येवंविशेषणः ॥ 25 ॥
विश्वास-प्रस्तुतिः
नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये ।
विरराजोदिते सूर्ये मरौ कल्पतरोरिव॥ २६॥
मूलम्
नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये ।
विरराजोदिते सूर्ये मरौ कल्पतरोरिव॥ २६॥
मल्लिनाथः ...{Loading}...
नेपथ्येति॥ हिरण्मये सौवर्ण आदर्शे दर्पणे नेपथ्यदर्शिनो वेषं पश्यतस्तस्यातिथेश्छाया प्रतिबिम्बम्। उदिते सूर्ये दर्पणकल्पे मेरौ यः कल्पतरुस्तस्य छायेव। विरराज। तस्य सूर्यसंक्रान्तबिम्बस्य संभवत् ‘मेरौ’इत्युक्तम् ॥ 26 ॥
विश्वास-प्रस्तुतिः
स राजककुदव्यग्रपाणिभिः पार्श्ववर्तिभिः ।
ययावुदीरितालोकः सुधर्मानवमां सभाम्॥ २७॥
मूलम्
स राजककुदव्यग्रपाणिभिः पार्श्ववर्तिभिः ।
ययावुदीरितालोकः सुधर्मानवमां सभाम्॥ २७॥
मल्लिनाथः ...{Loading}...
स इति॥ सोऽतिथी राजककुदानि राजचिह्नानि छत्रचामरादीनि। ‘प्राधान्ये राजलिङ्गे च वृषाङअके ककुदोऽस्त्रियाम्’ इत्यमरः। तेषु व्यग्राः पाणयो येषां तैः पार्श्ववर्तिभिर्जनैरुदीरितालोक उञ्चारितजयशब्दः। ‘आलोको जयशब्दः स्यात्’ इति हलायुधः। सुधर्माया देवसभाया अनवमामन्यूनां सभामास्थानीं ययौ। ‘स्यात्सुधर्मा देवसभा’ इत्यमरः ॥ 27 ॥
विश्वास-प्रस्तुतिः
वितानसहितं तत्र भेजे पैतृकमासनम् ।
चूडामणिभिरुद्धृष्टं पादपीठं महीक्षिताम्॥ २८॥
मूलम्
वितानसहितं तत्र भेजे पैतृकमासनम् ।
चूडामणिभिरुद्धृष्टं पादपीठं महीक्षिताम्॥ २८॥
मल्लिनाथः ...{Loading}...
वितानेति॥ तत्र सभायां वितानेनोल्लोचेन सहितम्। ‘अस्त्री वितानमुल्लोचः’ इत्यमरः। महीक्षितां राज्ञां चूडामणिभिः शिरोरत्नैरुद्धृष्टमुल्लिखितं पादपीठं यस्य तत्। पितुरिदं पैतृकम्। ‘ऋतष्ठञ्’(पा.4।3।78) इति ठञ्प्रत्ययः। आसनं सिंहासनं भेजे ॥ 28 ॥
विश्वास-प्रस्तुतिः
शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् ।
श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम्॥ २९॥
मूलम्
शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् ।
श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम्॥ २९॥
मल्लिनाथः ...{Loading}...
शुशुभ इति॥ तेन चाक्रान्तं। श्रीवत्सो नाम गृहविशेषः तल्लक्षणं श्रीवत्सरूपम्। ‘श्रीवत्सनन्द्यावर्तादिविच्छेदा बहवो द्वयोः’ इति सज्जनः। महदधिकं मङ्गलायतनं मङ्गलगृहं सभारूपम्। कौस्तुभेन मणिनाऽऽक्रान्तं श्रीवत्सलक्षणम्। केशवस्येदं कैशवम्। वक्ष इव शुशुभे ॥ 29 ॥
विश्वास-प्रस्तुतिः
बभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः ।
रेखाभावादुपारूढः सामग्र्यमिव चन्द्रमाः॥ ३०॥
मूलम्
बभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः ।
रेखाभावादुपारूढः सामग्र्यमिव चन्द्रमाः॥ ३०॥
मल्लिनाथः ...{Loading}...
बभाविति॥ सोऽतिथिः कुमारत्वाद्बाल्याद्भूयो यौवराज्यमवाप्यैवानन्तरम्। अधिराजस्य भाव आधिराज्यं माहाराज्यमवाप्य। रेखाभावादर्धेन्दुत्वमवाप्यैव सामग्र्यमुपारूढः पूर्णतां गतश्चन्द्रमा इव बभौ इति व्याख्यानम्। तदपि यौवराज्याभावनिश्चये ज्याय एव ॥ 30 ॥
विश्वास-प्रस्तुतिः
प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् ।
मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः॥ ३१॥
मूलम्
प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् ।
मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः॥ ३१॥
मल्लिनाथः ...{Loading}...
प्रसन्नेति॥ प्रसन्नो मुखरागो मुखकान्तिर्यस्य तं स्मितपूर्वं यथा तथाऽभिभाषिणमाभाषणशीलं तमतिथिम्। अनुजीविनो मूर्तिमन्तं विग्रहवन्तं विश्वासं विस्रम्भममन्यन्त। ‘समौ विस्रम्भविश्वासौ’ इत्यमरः ॥ 31 ॥
विश्वास-प्रस्तुतिः
स पुरं पुरहूतश्रीः कल्पद्रुमनिभध्वजाम् ।
क्रममाणश्चकार द्यां नागेनैरावतौजसा॥ ३२॥
मूलम्
स पुरं पुरहूतश्रीः कल्पद्रुमनिभध्वजाम् ।
क्रममाणश्चकार द्यां नागेनैरावतौजसा॥ ३२॥
मल्लिनाथः ...{Loading}...
स इति॥ पुरुहूतश्रीः सोऽतिथिः कल्पद्रुमाणां निभाः समाना ध्वजा यस्यास्तां पुरमयोध्याम्। ऐरावतस्य ओज इवौजो बलं यस्य तेन नागेन कुञ्जरेण क्रममाणश्चरन्। ‘अनुपसर्माद्वा’(पा.1।2।43) इति वैकल्पिकमात्मनेपदम्। द्यां चकार। स्वर्गलोकसदृशीं चकारेत्यर्थः। ‘द्यौः स्वर्पसुरवर्त्मनोः’ इति विश्वः ॥ 32 ॥
विश्वास-प्रस्तुतिः
तस्यैकस्योच्छ्रितं छत्रं मूर्ध्नि तेनामलत्विषा ।
पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम्॥ ३३॥
मूलम्
तस्यैकस्योच्छ्रितं छत्रं मूर्ध्नि तेनामलत्विषा ।
पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम्॥ ३३॥
मल्लिनाथः ...{Loading}...
तस्येति॥ तस्यैकस्य मूर्ध्नि छत्रमुच्छ्रितमुन्नमितम्। अमलत्विषा तेन छत्रेण कृत्स्नस्य जगतः पूर्वराजस्य कुशस्य वियोगेन यदौष्म्यं संतापस्तद्धृतं नाशितम्। अत्र छत्रोन्नमन-संतापहरणलक्षणयोः कारणकार्ययोर्भिन्नदेशत्वादसंगतिरलंकारः। तदुक्तम्-‘कार्यकारणयोर्भिन्नदेशत्वे सत्यसंगतिः’ इति ॥ 33 ॥
विश्वास-प्रस्तुतिः
धूमादग्नेः शिखाः पश्चादुदयादंशवो रवेः ।
सोऽतीत्य तेजसां वृत्तिं सममेवोत्थितो गुणैः॥ ३४॥
मूलम्
धूमादग्नेः शिखाः पश्चादुदयादंशवो रवेः ।
सोऽतीत्य तेजसां वृत्तिं सममेवोत्थितो गुणैः॥ ३४॥
मल्लिनाथः ...{Loading}...
धूमादिति॥ अग्नेर्धूमात्पश्चात्। अनन्तरमित्यर्थः। शिखा ज्वालाः। रवेरुदयात्पश्चादनन्तरमंशवः। उत्तिष्ठन्त इति शेषः। सोऽतिथिस्तेजसामग्न्यादीनां वृत्तिं स्वभावमतीत्य गुणैः समं सह एव। उत्थित उदितः। अपूर्वमिदमित्यर्थः ॥ 34 ॥
विश्वास-प्रस्तुतिः
तं प्रीतिविशदैर्नेत्रैरन्वयुः पौरयोषितः ।
शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवम्॥ ३५॥
मूलम्
तं प्रीतिविशदैर्नेत्रैरन्वयुः पौरयोषितः ।
शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवम्॥ ३५॥
मल्लिनाथः ...{Loading}...
तमिति॥ पौरयोषितः प्रीत्या विशदैः प्रसन्नैर्नेत्रैः करणैस्तमतिथिम्। अन्वयुरनुजग्मुः। सदृष्टिप्रसारमद्राक्षुरित्यर्थः। कथमिव? शरदि प्रसन्नैर्ज्योतिर्भिर्नक्षत्रैर्विभावर्यो रात्रयो ध्रुवमिव। ध्रुवपाशबद्धत्वात्ताराचक्रस्येत्यर्थः॥ 35 ॥
विश्वास-प्रस्तुतिः
अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः ।
अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतैः॥ ३६॥
मूलम्
अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः ।
अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतैः॥ ३६॥
मल्लिनाथः ...{Loading}...
अयोध्येति॥ प्रशस्तेष्वायतनेष्वालयेष्वर्चिता अयोध्यादेवताश्चानुध्येयमनुग्राह्यमेनमतिथिं प्रतिमागतैरर्चासंक्रान्तैः सांनिध्यैः संनिधानैः। अनुदध्युरनुजगृहुः। ‘अनुध्यानमनुग्रहः’ इत्यचुत्पलमालायाम्। तदनुग्रहबुद्ध्या संनिदधुरित्यर्थः ॥ 36 ॥
विश्वास-प्रस्तुतिः
यावन्नाश्यायते वेदिरभिषेकजलाप्लुता ।
तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः॥ ३७॥
मूलम्
यावन्नाश्यायते वेदिरभिषेकजलाप्लुता ।
तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः॥ ३७॥
मल्लिनाथः ...{Loading}...
यावदिति॥ अभिषेकजलैराप्लुता सिक्ता वेदिरमिषेकवेदिः। यावन्नाश्यायते न शुष्यति। कर्तरि लट्। तावदेवास्य राज्ञो दुःसहः प्रतापो वेलान्तं वेलापर्यन्तं प्राप ॥ 37 ॥
विश्वास-प्रस्तुतिः
वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः ।
किं तत्साध्यं यदुभये साधयेयुर्न संगताः॥ ३८॥
मूलम्
वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः ।
किं तत्साध्यं यदुभये साधयेयुर्न संगताः॥ ३८॥
मल्लिनाथः ...{Loading}...
वसिष्ठस्येति॥ गुरोर्वसिष्ठस्य मन्त्राः। धन्विनस्तस्यातिथेः सायकाः। इत्युभये संगताः सन्तो यत्साध्यं न साधयेयुस्तादृक्साध्यं किम्? न किंचिदित्यर्थः। तेषामसाध्यं नास्तीति भावः ॥ 38 ॥
विश्वास-प्रस्तुतिः
स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् ।
ददर्श संशयच्छेद्यान्व्यवहारानतन्द्रितः॥ ३९॥
मूलम्
स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् ।
ददर्श संशयच्छेद्यान्व्यवहारानतन्द्रितः॥ ३९॥
मल्लिनाथः ...{Loading}...
स इति॥ धर्मे तिष्ठन्तीति धर्मस्थाः सभ्याः। ‘राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः’(याज्ञ.2।2) इत्युक्तलक्षणाः,तेषां सखा धर्मस्थसखः। तत्सहित इत्यर्थः। अतन्द्रितोऽनलसः स नृपः शश्वत्। अन्वहमित्यर्थः। अर्थिनां साध्यार्थवतां प्रत्यर्थिनां तद्विरोधिनां च संशयच्छेद्यान् संशयाद्धेतोश्छेद्यान्परिच्छेद्यान्। संदिग्धत्वादवश्यनिर्णेयानित्यर्थः। व्यवहारानृणादानादिविवादान्। स्वयं ददर्शानुसंदधौ। न तु प्राड्विवाकमेव नियुक्तवानित्यर्थः। अत्र याज्ञवल्क्यः (व्यव.1)-‘व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह’ । इति ॥ 39 ॥
विश्वास-प्रस्तुतिः
ततः परमभिव्यक्तसौमनस्यनिवेदितैः ।
युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः॥ ४०॥
मूलम्
ततः परमभिव्यक्तसौमनस्यनिवेदितैः ।
युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः॥ ४०॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततः परं व्यवहारदर्शनानन्तरं भृत्याननुजीविनः। अभिव्यक्तं मुखप्रसादादिलिङ्गैः स्फुटीभूतं यत्सौमनस्यं स्वामिनः प्रसन्नत्वं तेन निवेदितैः सूचितैः पाकाभिमुखैः सिद्ध्युन्मुखैर्विज्ञापनानां विज्ञप्तीनां फलैः प्रेप्सितार्थैर्युयोज योजयामास। अत्र बृहस्पतिः-‘नियुक्तः कर्मनिष्पत्तौ विज्ञप्तौ च यदृच्छया। मृत्यान्धनैर्मानयंस्तु नवोऽप्यक्षोभ्यतां व्रजेत्’ इति॥ कविश्च वक्ष्यति-‘अक्षोभ्यः-’(17।44) इति अत्र सौमनस्यफलयोजनादिभिर्नृपस्य वृक्षसमाधिर्ध्वन्यत इत्यनुसंधेयम् ॥ 40 ॥
विश्वास-प्रस्तुतिः
प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः ।
तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययुः॥ ४१॥
मूलम्
प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः ।
तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययुः॥ ४१॥
मल्लिनाथः ...{Loading}...
प्रजा इति॥ प्रजास्तस्यातिथेर्गुरुणा पित्रा कुशेन। नभसा श्रावणमासेन नद्य इव। विवर्धिताः तस्मिन्नतिथौ तु नभस्ये भाद्रपदे मासे ता इव नद्य इव भूयसीं वृद्धिमभ्युदयमाययुः। प्रजापौषणेन पितरमतिशयितवानित्यर्थः ॥ 41 ॥
विश्वास-प्रस्तुतिः
यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् ।
सोऽभूद्भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन्॥ ४२॥
मूलम्
यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् ।
सोऽभूद्भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन्॥ ४२॥
मल्लिनाथः ...{Loading}...
यदिति॥ सोऽतिथिः। यद्वाक्यं दानत्राणादिविषयमुवाच तन्न मिथ्याऽनृतं नाभूत्। यद्वस्तु ददौ तन्न जहार न पुनराददे। किंतु शत्रूनुद्धृत्योत्स्वाय प्रतिरोपयन् पुनः स्थापयन्। भग्नव्रतो भग्ननियमोऽभूत् ॥ 42 ॥
विश्वास-प्रस्तुतिः
वयोरूपविभूतीनामेकैकं मदकारणम् ।
तानि तस्मिन्समस्तानि न तस्योत्सिचिषे मनः॥ ४३॥
मूलम्
वयोरूपविभूतीनामेकैकं मदकारणम् ।
तानि तस्मिन्समस्तानि न तस्योत्सिचिषे मनः॥ ४३॥
मल्लिनाथः ...{Loading}...
वय इति॥ वयोरूपविभूतीनां यौवनसौन्दर्यैश्वर्याणां मध्य एकैकं मदकारणं मदहेतुः। तानि मदकारणानि तस्मिन्राज्ञि समस्तानि। मिलितानीति शेषः। तथापि तस्यातिथेर्मनो नोत्सिषिचे न जगर्व। सिञ्चतेः स्वरितेत्त्वादात्मनेपदम्। अत्र वयोरूपादीनां गर्वहेतुत्वान्मदस्य च मदिराकार्यत्वेनातत्कारकत्वात् ‘मद’शब्देन गर्वो लक्ष्यत इत्याहुः। उक्तं च-‘ऐश्वर्यरूपतारुण्यकुलविद्याबलैरपि। इष्टलाभादिना ह्येषामवज्ञा गर्व ईरितः। मदस्त्वानन्दसंमोहः संभेदो मदिराकृतः ॥’ इति॥ अत एव कविनापि ‘उत्सिषिचे’ इत्युक्तम्,नतु ‘उन्ममाद’ इति ॥ 43 ॥
विश्वास-प्रस्तुतिः
इत्थं जनितरागासु प्रकृतिष्वनुवासरम् ।
अक्षोभ्यः स नवोऽप्यासीद्दृढमूल इव द्रुमः॥ ४४॥
मूलम्
इत्थं जनितरागासु प्रकृतिष्वनुवासरम् ।
अक्षोभ्यः स नवोऽप्यासीद्दृढमूल इव द्रुमः॥ ४४॥
मल्लिनाथः ...{Loading}...
इत्थमिति॥ इत्थमनुवासरमन्वहं प्रकृतिषु प्रजासु जनितरागासुसतीषु स राजा नवोऽपि। दृढमूलो द्रुम इव। अक्षोभ्योऽप्रधृष्य आसीत् ॥ 44 ॥
विश्वास-प्रस्तुतिः
अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः ।
अतः सोऽभ्यन्तरान्नित्याञ्षट्पूर्वमजयद्रिपून्॥ ४५॥
मूलम्
अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः ।
अतः सोऽभ्यन्तरान्नित्याञ्षट्पूर्वमजयद्रिपून्॥ ४५॥
मल्लिनाथः ...{Loading}...
अनित्या इति॥ यतो बाह्याः शत्रवः प्रतिनृपा अनित्याः। द्विषन्ति स्निह्यन्ति चेत्यर्थः। किंच,ते बाह्या विप्रकृष्टा दूरस्थाश्च। अतः सोऽभ्यन्तरानन्तर्वर्तिनो नित्याञ्षड्रिपून्कामक्रोधादीन्। पूर्वमजयत्। अन्तःशत्रुजये बाह्या अपि न दुर्जया इति भावः ॥ 45 ॥
विश्वास-प्रस्तुतिः
प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः ।
निकषे हेमरेखेव श्रीरासीदनपायिनी॥ ४६॥
मूलम्
प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः ।
निकषे हेमरेखेव श्रीरासीदनपायिनी॥ ४६॥
मल्लिनाथः ...{Loading}...
प्रसादेति॥ स्वभावतश्चपला चञ्चलापि श्रीः प्रसादाभिमुखे तस्मिन्नृपे। निकषे निकषोपले हेमरेखेव अनपायिनी स्थिराऽऽसीत् ॥ 46 ॥
विश्वास-प्रस्तुतिः
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः॥ ४७॥
मूलम्
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः॥ ४७॥
मल्लिनाथः ...{Loading}...
कातर्यमिति॥ केवला शौर्यवर्जिता नीतिः कातर्यं भीरुत्वम्। शौर्यं ‘केवलम्’ इत्यनुषञ्जनीयम्। केवलं नीतिरहितं शौर्यं श्वापदचेष्टितम्। व्याघ्रादिचेष्टाप्रायमित्यर्थः। ‘व्याघ्रादयो वनचराः पशवः श्वापदा मताः’ इति हलायुधः। अतो हेतोः सोऽतिथिः समेताभ्यां संगताभ्यामुभाभ्यां नीति-शौर्याभ्यां सिद्धिं जयप्राप्तिम्। अन्वियेष गवेषितवान् ॥ 47 ॥
विश्वास-प्रस्तुतिः
न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः ।
अदृष्टमभवत्किंचिद्व्यभ्रस्येव विवस्वतः॥ ४८॥
मूलम्
न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः ।
अदृष्टमभवत्किंचिद्व्यभ्रस्येव विवस्वतः॥ ४८॥
मल्लिनाथः ...{Loading}...
न तस्येति॥ न्यस्ताः सर्वतः प्रहिताः प्रणिधयश्चरा एव दीधितयो रश्मयो यस्य तस्य। ‘प्रणिधिः प्रार्थने चरे’ इति शाश्वतः। तस्य राज्ञः। व्यभ्रस्य निर्मेधस्य विवस्वतः सूर्यस्येव। मण्डले स्वविषये किंचिदल्पमष्यदृष्टमज्ञातं नाभवन्नासीत्। स चारचक्षुषा सर्वमपश्यदित्यर्थः ॥ 48 ॥
विश्वास-प्रस्तुतिः
रात्रिंदिवविभागेषु यदादिष्टं महीक्षिताम् ।
तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः॥ ४९॥
मूलम्
रात्रिंदिवविभागेषु यदादिष्टं महीक्षिताम् ।
तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः॥ ४९॥
मल्लिनाथः ...{Loading}...
रात्रिंदिवेति॥ रात्रौ च दिवा च रात्रिंदिवम्। ‘अचतुर-’(पा.5।4।77) इत्यादिनाधिकरणार्थे द्वन्द्वेऽच्प्रत्ययान्तो निपातः। अव्ययान्तत्वादव्ययत्वम्। अत्र षष्ठ्यर्थलक्षणया रात्रिंदिवमिति। अहोरात्रयोरित्यर्थः। तयोर्विभागा अंशाः। प्रहरादयस्तेषु। महीक्षितां राज्ञां यदादिष्टम् ‘इदमस्मिन्काले कर्तव्यम्’ इति मन्वादिभिरुपदिष्टं तत्स राजा विकल्पपराङ्मुखः संशयरहितः सन्। नियोगेन निश्चयेन सिषेवे। अनुषअठितवानित्यर्थः। अत्र कौटिल्यः-‘कार्याणां नियोगविकल्पसमुञ्चया भवन्ति,-अनेनैवोपायेन नान्येनेति नियोगः। अनेन वान्येन वेति विकल्पः। अनेन चेति समुञ्चयः’ इति ॥ 49 ॥
विश्वास-प्रस्तुतिः
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः ।
स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते॥ ५०॥
मूलम्
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः ।
स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते॥ ५०॥
मल्लिनाथः ...{Loading}...
मन्त्र इति॥ तस्य राज्ञः प्रतिदिनं मन्त्रिभिः सह मन्त्रो विचारो बभूव। स मन्त्रः सेव्यमानोऽप्यन्वहमावर्त्यमानोऽपि जातु कदाचिदपि न सूच्यते न प्रकाश्यते। तत्र हेतुः-गुप्तद्वार इति। संवृतेङ्गिताकारादिज्ञानमार्ग इत्यर्थः ॥ 50 ॥
विश्वास-प्रस्तुतिः
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः ।
सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि॥ ५१॥
मूलम्
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः ।
सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि॥ ५१॥
मल्लिनाथः ...{Loading}...
परेष्विति॥ यथाकालमुक्तकालानतिक्रमेण स्वपन्नपि सोऽतिथिः परेषु शत्रुषु स्वेषु स्वकीयेषु च। मन्त्र्यादितीर्थेष्विति शेषः। क्षिप्तैः प्रहितैरविज्ञाताः परस्परे येषां तैः। अन्योन्याविज्ञातैरित्यर्थः। अपसर्पैश्चरैः। ‘अपसर्पश्चरः स्पशः’ इत्यमरः। जजागार बुद्धवान्। चारमुखेन सर्वदा सर्वमज्ञासीदित्यर्थः। अत्र कामन्दकः-‘चारन्विचारयेत्तीर्थेष्वात्मनश्च परस्य च। पाषण्ड्यादीनविज्ञातानन्योन्यमितरैरपि ॥’ इति ॥ 51 ॥
विश्वास-प्रस्तुतिः
दुर्गाणि दुर्ग्रहाण्यासंस्तस्य रोद्धुरपि द्विषाम् ।
न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः॥ ५२॥
मूलम्
दुर्गाणि दुर्ग्रहाण्यासंस्तस्य रोद्धुरपि द्विषाम् ।
न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः॥ ५२॥
मल्लिनाथः ...{Loading}...
दुर्गाणीति॥ द्विषां रोद्धू रोधकस्यापि,न तु स्वयं रोध्यस्येत्यर्थथः। तस्य राज्ञो दुर्ग्रहाणि परैर्दुर्धर्षाणि दुर्गाणि महीदुर्गदीन्यासन्। न च निर्भीकस्य किं दुर्गैरिति वाच्यमित्यर्थान्तरन्यासमुखेनाह-न हीति॥ गजानास्कन्दति हिनस्तीति गजास्कन्दि सिंहो भयाद्धेतोः। गिरिगुहासु शेत इति गिरिगुहाशयो न हि,किंतु स्वभाव एवेति शेषः ‘अधिकरणे शेतेः’(पा.3।2।15) इत्यच्प्रत्ययः। अत्र मनुः (7।70)-‘धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा । नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् ॥’ इति ॥ 52 ॥
विश्वास-प्रस्तुतिः
भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्यानिरत्ययाः ।
गर्भशलिसधर्माणस्तस्य गूढं विपेचिरे॥ ५३॥
मूलम्
भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्यानिरत्ययाः ।
गर्भशलिसधर्माणस्तस्य गूढं विपेचिरे॥ ५३॥
मल्लिनाथः ...{Loading}...
भव्येति॥ भव्यमुख्याः कल्याणप्रधानाः,न तु विपरीताः। प्रत्यवेक्षां ‘एतावत्कृतमेतावत्कर्तव्यम्’ इत्यनुसंधानेन विचारणीयाः। अत एव निरत्यया निर्बाधा गर्भेऽभ्यन्तरे पच्यते ये शालयस्तेषां सधर्माणः। अतिनिगूढा इत्यर्थः। ‘धर्मादनिच्केवलात्’(पा.5।4।124) इत्यनिच्प्रत्ययः समासान्तः। तस्य राज्ञः समारभ्यन्त इति समारम्भाः कर्माणि गूढमप्रकाशं विपेचिरे । फलिता इत्यर्थः। ‘फलानुमेयाः प्रारम्भाः’ इति भावः ॥ 53 ॥
विश्वास-प्रस्तुतिः
अपथेन प्रववृते न जातूपचितोऽपि सः ।
वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः॥ ५४॥
मूलम्
अपथेन प्रववृते न जातूपचितोऽपि सः ।
वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः॥ ५४॥
मल्लिनाथः ...{Loading}...
अपथेनेति॥ सोऽतिथिरुपचितोऽपि वृद्धिं गतोऽपि सन्। जातु कदाचिदप्यपथेन कुमार्गेण न प्रववृते न प्रवृत्तः। मर्यादां न जहावित्यर्थः। तथा हि-लवणाम्भसो लवणसागरस्य वृद्धौ पूरोत्पीडे सत्यां नदीमुखेनैव नदीप्रवेशमार्गेणैव प्रस्थानं निःसरणम्,न त्वन्यथेत्यर्थः ॥ 54 ॥
विश्वास-प्रस्तुतिः
कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमः ।
यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत्॥ ५५॥
मूलम्
कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमः ।
यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत्॥ ५५॥
मल्लिनाथः ...{Loading}...
काममिति॥ प्रकृतिवैराग्यं प्रजाविरागम्। दैवादुत्पन्नमिति शेषः। सद्यः कामं सम्यक् शमयितुं प्रतिकर्तुं क्षमः शक्तः स राजा यस्य प्रकृतिवैराग्यस्य प्रतीकारः कार्यः कर्तव्यः। अनर्थहेतुत्वादित्यर्थः। तद्वैराग्यं नोदपादयत् । उत्पन्नप्रतीकारादनुत्पादनं वरमिति भावः। अत्र कौटिल्यः-‘क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम्। विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयम्॥’ तस्मात्प्रकृतीनां विरागकारणानि नोत्पादयेदित्यर्थः ॥ 55 ॥
विश्वास-प्रस्तुतिः
शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः ।
समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः॥ ५६॥
मूलम्
शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः ।
समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः॥ ५६॥
मल्लिनाथः ...{Loading}...
शक्येष्विति॥ शक्तिमतः शक्तिसंपन्नस्यापि सतस्तस्य राज्ञः शक्येषु शक्तिविषयेषु स्वस्माद्धीनबलेष्वेव विषये यात्रा दण्डयात्राऽभवत्। न तु समधिकेष्वित्यर्थः। तथा हि-समीरणसहायोऽपि दवानलोऽम्भः प्रार्थी जलान्वेषी न। दग्धुमिति शेषः। किंतु तृणकाष्ठादिकमेवान्विष्यतीत्यर्थः । अत्र कौटिल्यः- ‘समज्यायोभ्यां संदधीत,हीनेन विगृह्णीयत्’ इति ॥ 56 ॥
विश्वास-प्रस्तुतिः
न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ ।
नार्थं कामेन कामं व सोऽर्थेन सदृशस्त्रिषु॥ ५७॥
मूलम्
न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ ।
नार्थं कामेन कामं व सोऽर्थेन सदृशस्त्रिषु॥ ५७॥
मल्लिनाथः ...{Loading}...
न धर्ममिति॥ स राजा। अर्थकामाभ्यां धर्मं न बबाधे न नाशितवान्। तेन धर्मेण! च तावर्थ-कामौ न। अर्थं कामेन कामं वाऽर्थेन न बबाधे। एकत्रैवासक्तो नाभूदित्यर्थः। किंतु त्रिषु धर्मार्थकामेषु सदृशस्तुल्यवृत्तिः। अभूदित्यर्थः ॥ 57 ॥
विश्वास-प्रस्तुतिः
हीनान्यनृपकर्तॄणि प्रवृद्धानि विकुर्वते ।
तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः॥ ५८॥
मूलम्
हीनान्यनृपकर्तॄणि प्रवृद्धानि विकुर्वते ।
तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः॥ ५८॥
मल्लिनाथः ...{Loading}...
हीनानिति॥ मित्राणि हीनान्यतिक्षीणानि चेत्,अनुपकर्तॄण्यनुपकारीणि। प्रवृद्धान्यतिसमृद्धानि चेद्विकुर्वते विरुद्धं चेष्टते। अपकुर्वत इत्यर्थः। ‘अकर्मकाञ्च’ (पा.1।3।45) इत्यात्मनेपदम्। अतः कारणात्तेन राज्ञा मित्राणि सुहृदः। ‘मित्रं सुहृदि मित्रोऽर्के’ इति विश्वःष। मध्यमशक्तीनि नातिक्षीणोच्छ्रितानि यथा- स्यात्तथा स्थापितानि ॥ 58 ॥
विश्वास-प्रस्तुतिः
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् ।
ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा॥ ५९॥
मूलम्
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् ।
ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा॥ ५९॥
मल्लिनाथः ...{Loading}...
परेति॥ सोऽतिथिः परात्मनोः शत्रोरात्मनश्च शक्त्यादीनां शक्तिदेशकालादीनां बलाबलं न्यूनाधिकभावं परिच्छिद्य निश्चित्य। एभिः शक्त्यादिभिः परस्माच्छत्रोर्बलिष्ठः स्वयमतिशयेन वलवांश्चेत्। ‘बल’शब्दान्मतुबन्तादिष्ठन्प्रत्ययः। ‘विन्मतोर्लुक्’(पा.5।3।65) इति मतुपो लुक्। ययौ यात्रां चक्रे। अन्यथा न बलिष्ठश्चेत्। आस्तातिष्ठत्। न ययावित्यर्थः। अत्र मनुः(7।171)-‘यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम्। परस्य विपरीतं च तदा यायाद्रिपून्प्रति॥ यदा तु स्यात्परिक्षीणो वाहनेन बलेन च। तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन्’ इति ॥ 59 ॥
विश्वास-प्रस्तुतिः
कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः ।
अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते॥ ६०॥
मूलम्
कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः ।
अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते॥ ६०॥
मल्लिनाथः ...{Loading}...
कोशेनेति॥ कोशेनार्थचयेन। आश्रणीयत्वं भजनीयत्वम्। भवतीति शेषः। इति हेतोस्तस्य राज्ञः कर्तुः अर्थसंग्रहः। न तु लोभादित्यर्थः। तथा हि-अम्बु गर्भे यस्य सोऽम्बुगर्भः,जीवनस्य जलस्य मूतः पुटबन्धो जीमूतो मेघः। ‘मूङ् बन्धने’। पृषोदरादित्वात्साधुः। चातकैरभिनन्द्यते सेव्यते। न तु कर्तरि क्तः। अत्र कामन्दकः-‘धर्महेतोस्तथाऽर्थाय मृत्यानां रक्षणाय च। आपदर्थं च संरक्ष्यः कोशो धर्मवता सदा ॥’ इति ॥ 60 ॥
विश्वास-प्रस्तुतिः
परकर्मापहः सोऽभूदुद्युतः स्वेषु कर्मसु ।
आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून्॥ ६१॥
मूलम्
परकर्मापहः सोऽभूदुद्युतः स्वेषु कर्मसु ।
आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून्॥ ६१॥
मल्लिनाथः ...{Loading}...
परकर्मेति॥ स राजा परेषां कर्माणि सेतुवार्तादीन्यपहन्तीति परकर्मापहः सन्। ‘अन्येष्वपि दृश्यते’(पा.3।3।101) इत्यपिशब्दसामर्थ्याद्धन्तेर्डप्रत्ययः। स्वेषु कर्मसूद्यत उद्युक्तोऽभूत्। किंच,रिपून् रन्ध्रेषु प्रहरन्नात्मनो रन्ध्रं व्यसनातिकमावृणोत् संवृतवान्। अत्र मनुः(7।105)-‘नास्य च्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु। गूहेत्कर्मं इवाङ्गानि रक्षेद्विवरमात्मनः ॥’ इति ॥ 61 ॥
विश्वास-प्रस्तुतिः
पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः ।
तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत॥ ६२॥
मूलम्
पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः ।
तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत॥ ६२॥
मल्लिनाथः ...{Loading}...
पित्रेति॥ दण्डो दमः सैन्यं वा,तद्वतो दण्डवतो दण्डसंपन्नस्य तस्य राज्ञः पित्राकुशेन नित्यं संवर्धितः पुष्टः कृतास्त्रः शिक्षितास्त्रः। संपरायो युद्धम्। ‘युद्धायत्योः संपरायः’ इत्यमरः। तमर्हतीति सांपराथिकः। ‘तदर्हति’(पा.5।1।63) इति ठक्प्रत्ययः। दण्डः सैन्यम्। ‘दण्डो यमे मानमेदे लगुडे दमसैन्ययोः’ इति विश्वः। स्वदेहान्न व्यशिष्यत नाभिद्यत। स्वदेहेऽपि विशेषणानि योज्यानि। मूनबलं स्वदेहमिवारक्षदित्यर्थः ॥ 62 ॥
विश्वास-प्रस्तुतिः
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः ।
स चकर्ष परस्मात्तदयस्कान्त इवायसम्॥ ६३॥
मूलम्
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः ।
स चकर्ष परस्मात्तदयस्कान्त इवायसम्॥ ६३॥
मल्लिनाथः ...{Loading}...
सर्पस्येति॥ सर्पस्य शिरोरत्नमिव। अस्य राज्ञः शक्तित्रयं परः शत्रुर्न चकर्ष। स तु परस्मात् शत्रोः। तत् शक्तित्रयम्। अयस्कान्तो मणिविशेष आयसं लोहविकारमिव चकर्ष ॥ 63 ॥
विश्वास-प्रस्तुतिः
वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव ।
सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु॥ ६४॥
मूलम्
वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव ।
सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु॥ ६४॥
मल्लिनाथः ...{Loading}...
वापीष्विति॥ स्रवन्तीषु नदीषु वापीषु दीर्घिकास्वव। ‘वापी तु दीर्घिका’ इत्यमरः। वनेष्वरण्येषु। उपवनेष्वारमेष्विव। ‘आरामः स्यादुपवनम्’ इत्यमरः। अद्रिषु स्वकीयेषु वेश्मस्विव। सार्था वणिक्प्रभृतयः स्वैरं स्वेच्छया चेरुश्चरन्ति स्म ॥ 64 ॥
विश्वास-प्रस्तुतिः
तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः ।
यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक्॥ ६५॥
मूलम्
तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः ।
यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक्॥ ६५॥
मल्लिनाथः ...{Loading}...
तप इति॥ विघ्नेभ्यस्तपो रक्षन्। तस्करेभ्यः संपदश्च रक्षन्। स राजा। आश्रमैर्ब्रह्मचर्यादिभिर्वर्णैरपि ब्राह्मणादिभिश्च यथास्वं स्वमनतिक्रम्य षडंशभाक् चक्रे। यथाक्रममाश्रमैस्तपसो वर्णैः संपदां च षष्ठांशभाक्कृत इत्यर्थः । षष्ठोंऽशः षडंशः। ‘संख्या’ शब्दस्य वृत्तिविषये पूरणार्थत्वमुक्तं प्राक् ॥ 65 ॥
विश्वास-प्रस्तुतिः
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान् ।
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः॥ ६६॥
मूलम्
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान् ।
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः॥ ६६॥
मल्लिनाथः ...{Loading}...
खनिभिरिति॥ भूर्भूमिस्तस्मै राज्ञे रक्षासदृशं रक्षणानुरूपमेव वेतनं मृतिं दिदेश ददौ। कथम्? खनिभिराकरैः। ‘खनिः स्त्रियामाकरः स्यात्’ इत्यमरः। रत्नं माणिक्यादिकं सुषुवेऽजीजनत्। क्षेत्रैः सस्यम्। वनैर्गजान् हस्तिनः सुषुवे ॥ 66 ॥
विश्वास-प्रस्तुतिः
स गुणानां बलानां च षण्णां षण्मुखविक्रमः ।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु॥ ६७॥
मूलम्
स गुणानां बलानां च षण्णां षण्मुखविक्रमः ।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु॥ ६७॥
मल्लिनाथः ...{Loading}...
स इति॥ षण्मुखविक्रमः स राजा षण्णां गुणानां संधिविग्रहादीनां बलानां मूलमृत्यादीनां च साधनीयेषु वस्तुषु साध्येष्वर्थेषु विनियोगं जानातीति विनियोगस्य ज्ञ इति वा विनियोगज्ञः। कर्मविवक्षायामुपपदसमासः। ‘आतोऽनुपसर्गे कः’(पा.3।2।3) इति कप्रत्ययः। शेषविवक्षायां षष्ठीसमासः। ‘इगुपध’-(पा.3।1।135) इत्यादिना कप्रत्ययः। बभूव। ‘इदमत्र प्रयोक्तव्यम्’ इत्याद्यज्ञासीदित्यर्थः ॥ 67 ॥
विश्वास-प्रस्तुतिः
इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् ।
आ तीर्थादप्रतीघातं स तस्याः फलमानशे॥ ६८॥
मूलम्
इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् ।
आ तीर्थादप्रतीघातं स तस्याः फलमानशे॥ ६८॥
मल्लिनाथः ...{Loading}...
इतीति॥ इति चतुर्विधाम्। सामाद्युपायैरिति शेषः। राजनीतिं दण्डनीतिं क्रमात् सामादिक्रमादेव प्रयुञ्जानः स राजा। आ तीर्थान्मन्त्र्याद्यष्टादशात्मकतीर्थपर्यन्तम्। ‘योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि। पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात्’ इति हलायुधः। तस्या नीतेः फलमप्रतीघातमप्रतिबन्धं यथा तथा आनशे प्राप्तवान्। मन्त्रादिषउ यमुद्दिश्य य उपायः प्रयुज्यते,स तस्य फलतीत्यर्थः॥ 68 ॥
विश्वास-प्रस्तुतिः
कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि ।
भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी॥ ६९॥
मूलम्
कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि ।
भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी॥ ६९॥
मल्लिनाथः ...{Loading}...
कूटेति॥ कूटयुद्धविधेज्ञेऽपि कपटयुद्धप्रकाराभिज्ञेऽपि सन्मार्गेण योधिनि धर्मयोद्धरि तस्मिन्नतिथौ वीरगामिनी जयश्रीरभिसारिकावृत्तिं मेजे। ‘कान्तार्थिनी तु या याति संकेतं साऽभिसारिका’ इत्यमरः। जयश्रीस्तमन्विष्यागच्छदित्यर्थः ॥ 69 ॥
विश्वास-प्रस्तुतिः
प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः ।
रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिनः॥ ७०॥
मूलम्
प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः ।
रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिनः॥ ७०॥
मल्लिनाथः ...{Loading}...
प्राय इति॥ अरीणां सर्वेषामपि प्रतापेनातितेजसैव भग्नत्वात्तस्य राज्ञः। गन्धेन मदगन्धेनैव भिन्ना भग्ना अन्ये दन्तिनो येन तस्य गन्धद्विपस्येव। प्रायः प्रायेण रणो दुर्लभः। खलर्थयोगेऽपि शेषविवक्षायां षष्ठीमिच्छन्तीत्युक्तम् ॥ 70 ॥
विश्वास-प्रस्तुतिः
प्रवृद्धौ ह्रीयते चन्द्रः समुद्रोऽपि तथाविधः ।
स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी॥ ७१॥
मूलम्
प्रवृद्धौ ह्रीयते चन्द्रः समुद्रोऽपि तथाविधः ।
स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी॥ ७१॥
मल्लिनाथः ...{Loading}...
प्रवृद्धाविति॥ प्रवृद्धौ सत्यां चन्द्रो हीयते। समुद्रोऽपि तथाविधश्चन्द्रवदेव प्रवृद्धौ हीयते। ‘प्रवृद्ध’ इति वा पाठः। स राजा तु ताभ्यां चन्द्र-समुद्राभ्यां समा वृद्धिर्यस्य स तत्समवृद्धिश्चाभूत्। तौ चन्द्रसमुद्राविव क्षयी। ‘जिदृक्षि-’ (पा.3।2।157) इत्यादिनेनिप्रत्ययः। नाभूत् ॥ 71 ॥
विश्वास-प्रस्तुतिः
सन्तस्तस्याभिगमनादत्यर्थं महतः कृशाः ।
उदधेरिव जीमूताः प्रापुर्दातृत्वमर्थिनः॥ ७२॥
मूलम्
सन्तस्तस्याभिगमनादत्यर्थं महतः कृशाः ।
उदधेरिव जीमूताः प्रापुर्दातृत्वमर्थिनः॥ ७२॥
मल्लिनाथः ...{Loading}...
सन्त इति॥ अत्यर्थं कृशा दरिद्रा अत एवार्थिनो याचनशीलाः सन्तो विद्वांसो महतस्तस्य राज्ञोऽभिगमनात् उदधेरभिगमनाज्जीमूता इव। दातृत्वं प्रापुः,अर्थिषु दानभोगपर्याप्तं धनं प्रयच्छतीत्यर्थः ॥ 72 ॥
विश्वास-प्रस्तुतिः
स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन् ।
तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः॥ ७३॥
मूलम्
स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन् ।
तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः॥ ७३॥
मल्लिनाथः ...{Loading}...
स्तूयमान इति॥ स राजा स्तुत्यं स्तोत्रार्हमेव यत्तदेव समाचरन्नत एव स्तूयमानः सन् जिह्नाय ललज्ज। तथापि हीनत्वेऽपि तत्कारिणः स्तोत्रकारिणो द्वेष्टीति तत्कारिद्वेषिणस्तस्य राज्ञो यशो ववृधे। ‘गुणाढ्यस्य सतः पुंसः स्तुतौ लज्जेव भूषणम्’ इति भावः ॥ 73 ॥
विश्वास-प्रस्तुतिः
दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः ।
प्रजाः स्वतन्त्रयांचक्रे शश्वत्सूर्य इवोदितः॥ ७४॥
मूलम्
दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः ।
प्रजाः स्वतन्त्रयांचक्रे शश्वत्सूर्य इवोदितः॥ ७४॥
मल्लिनाथः ...{Loading}...
दिरितमिति॥ स राजा। उदितः सूर्य इव। दर्शनेन दुरितं घ्नन्निवर्तयन्। तथा च स्मर्यते-‘अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः। दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत नित्यशः ॥’ इति। तत्त्वस्य वस्तुतत्त्वस्यार्थेन समर्थनेन च तमोऽज्ञानं ध्वान्तं च नुदन् शश्वत्प्रजाः स्वतन्त्रयांचक्रे स्वाधीनाश्चकार ॥ 74 ॥
विश्वास-प्रस्तुतिः
इन्दोरगतयः पद्मे सूर्यस्य कुमुदेंऽशवः ।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम्॥ ७५॥
मूलम्
इन्दोरगतयः पद्मे सूर्यस्य कुमुदेंऽशवः ।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम्॥ ७५॥
मल्लिनाथः ...{Loading}...
इन्दोरिति॥ इन्दोरंशवः पद्मेऽगतयः। प्रवेशरहिता इत्यर्थः। सूर्यस्यांशवः कुमुदेऽगतयः। गुणिनस्तस्य गुणास्तु विपक्षे शत्रावप्यन्तरमवकाशं लेभिरे प्रापुः ॥ 75 ॥
विश्वास-प्रस्तुतिः
पराभिसंधानपरं यद्यप्यस्य विचेष्टितम् ।
जिगीषोरश्वमेधाय धर्म्यमेव बभूव तत्॥ ७६॥
मूलम्
पराभिसंधानपरं यद्यप्यस्य विचेष्टितम् ।
जिगीषोरश्वमेधाय धर्म्यमेव बभूव तत्॥ ७६॥
मल्लिनाथः ...{Loading}...
परेति॥ अश्वमेधाय जिगीषोरस्य विचेष्टितं दिग्विजयरूपं यद्यपि पराभिसंधानपरं शत्रुवञ्चनप्रधानं तथापि तद्धर्म्यं धर्मादनपेतमेव। ‘धर्मपथ्यर्थन्यायादनपेते’(पा.4।4।92) इति यत्प्रत्ययः। बभूव। ‘मन्त्रप्रभावोत्साहशक्तिभिः परान्संदध्यात्’ इति कौटिल्यः ॥ 76 ॥
विश्वास-प्रस्तुतिः
एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना ।
वृषेव देवो देवानां राज्ञां राजा बभूव सः॥ ७७॥
मूलम्
एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना ।
वृषेव देवो देवानां राज्ञां राजा बभूव सः॥ ७७॥
मल्लिनाथः ...{Loading}...
एवमिति॥ एवं शास्त्रनिर्दिष्टवर्त्मना शास्त्रोपदिष्टमार्गेण प्रभावेण कोशदण्डजेन तेजसा। ‘स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्’ इत्यमरः उद्यन्नुद्युञ्जनः सः। वृषा वासवो देवानां देवो देवदेव इव। राज्ञां राजा राजराजो बभूव ॥ 77 ॥
विश्वास-प्रस्तुतिः
पञ्चमं लोकपालानां तमूचुः साम्ययोगतः ।
भूतानां महतां षष्ठमष्टमं कुलभूभृताम्॥ ७८॥
मूलम्
पञ्चमं लोकपालानां तमूचुः साम्ययोगतः ।
भूतानां महतां षष्ठमष्टमं कुलभूभृताम्॥ ७८॥
मल्लिनाथः ...{Loading}...
पञ्चममिति॥ तम्। राजानमिति शेषः। साम्ययोगतो यथाक्रमं लोकसंरक्षणपरोपकारभूधारणरूपसमानधर्मत्वबलाल्लोकपालानामिन्द्रादीनां चतुर्णां पञ्चममूचुः। महतां भूतानां पृथिव्यादीनां षष्ठमूचुः। कुलभूभृतां कुलाचलानां महेन्द्रमलयादीनां सप्तानामष्टममूचुः ॥ 78 ॥
विश्वास-प्रस्तुतिः
दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम् ।
दधुः शिरोभिर्भूपाला देवाः पौरंदरीमिव॥ ७९॥
मूलम्
दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम् ।
दधुः शिरोभिर्भूपाला देवाः पौरंदरीमिव॥ ७९॥
मल्लिनाथः ...{Loading}...
दूरेति॥ भूपालाः शासनेषु पत्रेष्वर्पितामुपन्यस्तां तस्य राज्ञ आज्ञाम्। देवाः पौरंदरीमैन्द्रीमाज्ञामिव। दूरापवर्जितच्छत्रैर्दूरात्परिहृतातपत्रैः शिरोभिर्दधुः ॥ 79 ॥
विश्वास-प्रस्तुतिः
ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ ।
यथा साधारणीभूतं नामास्य धनदस्य च॥ ८०॥
मूलम्
ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ ।
यथा साधारणीभूतं नामास्य धनदस्य च॥ ८०॥
मल्लिनाथः ...{Loading}...
ऋत्विज इति॥ स राजा महाक्रतावश्वमेधे। ऋत्विजो याजकान् दक्षिणाभिस्तथानर्चार्चयामास। अर्चतेर्भौवादिकाल्लिट्। यथाऽस्य राज्ञो धनदस्य च नाम साधारणीभूतमेकीभूतम्। उभयोरपि धनदसंज्ञा यथा स्यात्तथेत्यर्थः ॥ 80 ॥
विश्वास-प्रस्तुतिः
इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभू-
द्यादोनाथः शिवजलपथः कर्मणे नौचराणाम् ।
पूर्वापेक्षी तदनु विदधे कोषवृद्धिं कुबेर-
स्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः॥ ८१॥
मूलम्
इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभू-
द्यादोनाथः शिवजलपथः कर्मणे नौचराणाम् ।
पूर्वापेक्षी तदनु विदधे कोषवृद्धिं कुबेर-
स्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः॥ ८१॥
मल्लिनाथः ...{Loading}...
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतावतिथिवर्णनं नाम सप्तदशः सर्गः ।
इन्द्रादिति॥ इन्द्राद्वृष्टिरभूत्। यमो नियमिता निवारिता गदस्य रोगस्योद्रेक एव वृत्तिर्येन सोऽभूत्। यादोनाथो वरुणो नौचराणां नाविकानां कर्मणे संचाराय शिवजलपथः। सुचरजलमार्गोऽभूत्। तदनु पूर्वापेक्षी रघुरामादिमहिमाभिज्ञः कुबेरः कोषवृद्धिं विदधे। इत्थं लोकपालास्तस्मिन्राज्ञि विषये दण्डोपनतस्य शरणागतस्य चरितं वृत्तिं भेजिरे। ‘दुर्बलो बलवत्सेवी विरुद्धाच्छङ्कितादिभिः। वर्तेत दण्डोपनतो भर्तर्येवमवस्थितः’ इति कौटिल्यः ॥ 81 ॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदास- कृतावतिथिवर्णनं नाम सप्तदशः सर्गः ॥