विश्वास-प्रस्तुतिः
अथेतरे सप्तरघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च ।
चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुकारि ॥ १॥
मूलम्
अथेतरे सप्तरघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च ।
चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुकारि ॥ १॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ रामनिर्वाणानन्तरम्। इतरे लवादयः सप्तरघुप्रवीराः। पुरः पूर्वं जन्म यस्य तस्य भावस्तत्ता तया। गुणैश्च ज्येष्ठं कुशं रत्नविशेषभाजं तत्तच्छ्रेष्ठवस्तुभागिनं चक्रुः। तदुक्तम्-‘जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते’ इति। तथा हि-सुभ्रातॄणां भावः सौभ्रात्रम्। ‘हायनान्त-’(पा.5।1।130) इत्यादिना युवादित्वादण्प्रत्ययः। एषां कुशलवादीनां कुलानुसारि वंशानुगतं हि ॥ 1 ॥
विश्वास-प्रस्तुतिः
ते सेतुवार्तागजबन्धमुखैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः ।
अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ॥ २॥
मूलम्
ते सेतुवार्तागजबन्धमुखैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः ।
अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ॥ २॥
मल्लिनाथः ...{Loading}...
त इति॥ सेतुर्जलबन्धः। वार्ता कृषिगोरक्षणादिः। ‘वार्ता कृष्याद्युदन्तयोः’ इति विश्वः। गजबन्ध आकरेभ्यो गजग्रहणम्। ते मुख्यं प्रधानं येषां तैरवन्ध्यैः सफलैः कर्मभिरभ्युच्छ्रिताः। अतिसमर्था अपीत्यर्थः। ते कुशादयः। प्रविभज्यन्त इति प्रविभागाः। अन्योन्यदेशप्रविभागानां या सीमा ताम्। वेलां समुद्रा इव। न व्यतीयुर्नातिचक्रमुः। अत्र कामन्दकः-‘कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम्। खन्याकरधनादानं शून्यानां च निवेशनम्॥ अष्टवर्गमिमं साधुः स्वयं वृद्धोऽपि वर्धयेत् ॥’ इति ॥ 2 ॥
विश्वास-प्रस्तुतिः
चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानाम् ।
सुरद्विपानामिव सामयोनिर्भिन्नोऽष्टधा विप्रससार वंशः ॥ ३॥
मूलम्
चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानाम् ।
सुरद्विपानामिव सामयोनिर्भिन्नोऽष्टधा विप्रससार वंशः ॥ ३॥
मल्लिनाथः ...{Loading}...
चतुर्भुजेति॥ चतुर्भुजो विष्णुः,तस्यां शा रामादयः ते प्रभवाः कारणानि यस्य स तथोक्तः। दानं त्यागो मदश्च। ‘दानं गजमदे त्यागे’ इति विश्वः। प्रवृत्तिर्व्यापारः प्रवाहश्च। दानप्रवृत्तेरनुपारतानां सुरद्विपानां दिग्गजानां वंश इव। अष्टधा भिन्नः सन्। विप्रससार विस्तृतोऽभूत्। ‘सामयोनिः’ इत्यत्र पालकाप्यः-‘सूर्यस्याण्डकपाले द्वे समानीय प्रजापतिः। हस्ताभ्यां परिगृह्याथ सप्त समान्यगायत। गायतो ब्रह्मणस्तस्मात्समुत्पेतुर्मतङ्गजाः ॥’ इति ॥ 3 ॥
विश्वास-प्रस्तुतिः
अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः ।
कुशः प्रवासस्थकलत्रवेषामदृष्टपूर्वां वनितामपश्यत् ॥ ४॥
मूलम्
अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः ।
कुशः प्रवासस्थकलत्रवेषामदृष्टपूर्वां वनितामपश्यत् ॥ ४॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ अर्धं रात्रेरर्धरात्रः। ‘अर्धं नपुंसकम्’(पा.2।2।4) इत्येकदेशसमासः। ‘अहःसर्वैदेशसंख्यातपुण्यञ्च रात्रेः’(पा.5।4।87) इति समासान्तोऽच्प्रत्ययः। ‘रात्राह्नाहाः पुंसि’(पा.2।4।29) इति नियमात्पुंस्त्वम्। अर्धरात्रे निशीथे स्तिमितप्रदीपे सुप्तजने शय्यागृहे प्रबुद्धः,न तु सुप्तः। कुशः प्रवासस्थकलत्रवेषां प्रोषितभर्तृकावेषाम्। अदृष्टा पूर्वमित्यदृष्टपूर्वा ताम्। सुप्सुपेति समासः। वनितामपश्यत् ॥ 4 ॥
विश्वास-प्रस्तुतिः
सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरहूतभासः ।
जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ॥ ५॥
मूलम्
सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरहूतभासः ।
जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ॥ ५॥
मल्लिनाथः ...{Loading}...
सेति॥ सा वनिता साधुसाधारणपार्थिवर्द्धेः सज्जनसाधारणराज्यश्रियः पुरुहूतभास इन्द्रतेजसः परेषां शत्रूणां जेतुर्बन्धुमतस्तस्य कुशस्य पुरस्तात्स्थित्वा जयशब्दपूर्वं यथा तथाऽञ्जलिं बबन्ध ॥ 5 ॥
विश्वास-प्रस्तुतिः
अथानपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम् ।
सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविसृष्टतल्पः ॥ ६॥
मूलम्
अथानपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम् ।
सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविसृष्टतल्पः ॥ ६॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ सविस्मयः पूर्वार्धेन शरीरपूर्वभागेन विसृष्टतल्पस्त्यक्तशय्यो दाशरथेस्तनूजः कुशः। अनपोढार्गलमनुद्धाटितविष्कम्भमपि। ‘तद्विष्कम्भोऽर्गलं न ना’ इत्यमरः। अगारम्। आदर्शतलं छायामिव। प्रविष्टां तां वनितां प्रोवाचावदत् ॥ 6 ॥
विश्वास-प्रस्तुतिः
लब्धान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते ।
बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥ ७॥
मूलम्
लब्धान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते ।
बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥ ७॥
मल्लिनाथः ...{Loading}...
अग्रिमश्लोकम् ईक्षताम्।
विश्वास-प्रस्तुतिः
का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्तिः ॥ ८॥
मूलम्
का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्तिः ॥ ८॥
मल्लिनाथः ...{Loading}...
लब्धेति॥ का त्वमिति च॥ युग्मम्। सावरणेऽपि गेहे लब्धान्तरा लब्धावकाशा। त्वमिति शेषः। योगप्रभावश्च ते न लक्ष्यते। मृणालिनी हैमं हिमकृतमुपरागमुपद्रवमिव। अनिर्वृतानां दुःखितानामाकारं बिभर्षि च। न हि योगिनां दुःखमस्तीति भावः। किं च,हे शुभे! त्वं का? कस्य वा परिग्रहः पन्ती? ते तव मदभ्यागमे कारणं वा किम्? वशिनां जितेन्द्रियाणां रघूणां मनः परस्त्रीषु विषये विमुखा प्रवृत्तिर्यस्य तत्तथाभूतं मत्वाऽऽचक्ष्व ॥ 7-8 ॥
विश्वास-प्रस्तुतिः
तमब्रवीत्सा गुरुणानवद्या या नीतपौरा स्वपदोन्मुखेन ।
तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्नधिदेवतां माम् ॥ ९॥
मूलम्
तमब्रवीत्सा गुरुणानवद्या या नीतपौरा स्वपदोन्मुखेन ।
तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्नधिदेवतां माम् ॥ ९॥
मल्लिनाथः ...{Loading}...
तमिति॥ सा वनिता तं कुशमब्रवीत्। अनवद्याऽदोषा या पूःस्वपदोन्मुखेन विष्णुपदोन्मुखेन गुरुणा त्वत्पित्रा नीतपौरा हे राजन्! मां संप्रति वीतनाथामनाथां तस्याः पुरो नगर्या अयोध्याया अधिदेवतां जानीहि ॥ 9 ॥
विश्वास-प्रस्तुतिः
वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या ।
समग्रशक्तौ त्वयि सूर्यवंश्ये सति प्रपन्ना करुणामवस्थाम् ॥ १०॥
मूलम्
वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या ।
समग्रशक्तौ त्वयि सूर्यवंश्ये सति प्रपन्ना करुणामवस्थाम् ॥ १०॥
मल्लिनाथः ...{Loading}...
वस्वौकसारामिति॥ साऽहं सौराज्येन राजन्वत्तया हेतुना बद्धोत्सवया विभूत्या। वस्वौकसाराऽलका पुरी। ‘अलका पुरी वस्वौकसारा स्यात्’ इति कोशः। अथवा,-मानसोत्तरशैलशिखरवर्तिनी शक्रनगरी। ‘वस्वौकसारा शक्रस्य’ इति विष्णुपुराणात्। तामभिभूय तिरस्कृत्य समग्रशक्तौ त्वयि सूर्यवंश्ये सति करुणामवस्थां दीनां दशां प्रपन्ना प्राप्ता ॥ 10 ॥
विश्वास-प्रस्तुतिः
विशीर्णतल्पाट्टशतो निवेशः पर्यस्तसालः प्रभुणा विना मे ।
विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तमुग्रानिलभिन्नमेघम् ॥ ११॥
मूलम्
विशीर्णतल्पाट्टशतो निवेशः पर्यस्तसालः प्रभुणा विना मे ।
विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तमुग्रानिलभिन्नमेघम् ॥ ११॥
मल्लिनाथः ...{Loading}...
विशीर्णेति॥ तल्पान्यट्टालिकाः। ‘तल्पं शय्याट्टदारेषु’ इत्यमरः। अट्टानि गृहभेदः। ‘अट्टं भक्ते च शुष्के च क्षौमेऽत्यर्थेगृहान्तरे’ इति विश्वः। विशीर्णानि तल्पानामट्टानां च शतानि यस्य स तथोक्तः। ‘विशीर्णकल्पाट्टशतो निवेशः’ इति वा पाठः। अट्टाः क्षौमाः। ‘स्यादट्टः क्षौममस्त्रियाम्’ इत्यमरः। ईषदसमाप्तं विशीर्णानि विशीर्णकल्पान्यट्टशतानि यस्य स तथोक्तः। पर्यस्तसालः स्रस्तप्राकारः। ‘प्राकारो वरणः सालः’ इत्यमरः। प्रभुणा स्वामिना विनैवंभूतो मे निवेशः निवेशनम्। अस्तनिमग्नसूर्यमस्ताद्रिलीनार्कमुग्रानिलेन भिन्नमेघं दिनान्तं विडम्बयत्यनुकरोति ॥ 11 ॥
विश्वास-प्रस्तुतिः
निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम् ।
नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥ १२॥
मूलम्
निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम् ।
नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥ १२॥
मल्लिनाथः ...{Loading}...
निशास्विति॥ निशासु भास्वन्ति दीप्तिमन्ति कलान्यव्यक्तमधुराणि नूपुराणि यासां तासामभिसारिकाणाम्। ‘कान्तार्थइनी तु या याति संकेतं साऽभिसारिका’ इत्यमरः। यः राजपथः संचरत्यनेनेति संचरः संचारसाधनमभूत्। ‘गोचरसंचर-’ इत्यमरः। यः राजपथः संचरत्यनेनेति संचरः संचारसाधनमभूत्। ‘गोचरसंचर-’(पा.3।3।119) इत्यादिना घप्रत्ययान्तो निपातः। नदत्सु मुखेषु या उल्कास्तभिर्विचितामिषाभिरन्विष्टमांसाभिः शिवाभिः क्रोष्ट्रीभिः स राजपथो दाह्यते गम्यते। वहेरन्यो वहिधातुरस्तीत्युपदेशः ॥ 12 ॥
विश्वास-प्रस्तुतिः
आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत् ।
वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥ १३॥
मूलम्
आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत् ।
वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥ १३॥
मल्लिनाथः ...{Loading}...
आस्फालितमिति॥ यदम्भः प्रमदाकराग्रैरास्फालितं ताडितं सत्। जलक्रीडास्विति शेषः। मृदङ्गानां धीरध्वनिस्तमन्वगच्छदन्वकरोत्। तद्दीर्घिकाणामम्भ इदानीं वन्यैर्महिषैः कर्तृभिः शृङ्गैर्विषणैराहतं सत् क्रोशति। न तु मृदङ्गध्वनिमनुकरोतीत्यर्थः ॥ 13 ॥
विश्वास-प्रस्तुतिः
वृक्षेशया यष्टिनिवासभङ्गान्मृदङ्गशब्दापगमादलास्याः ।
प्राप्ता दवोल्काहतशेषबर्ह्याः क्रीडामयूरा वनबर्हिणत्वम् ॥ १४॥
मूलम्
वृक्षेशया यष्टिनिवासभङ्गान्मृदङ्गशब्दापगमादलास्याः ।
प्राप्ता दवोल्काहतशेषबर्ह्याः क्रीडामयूरा वनबर्हिणत्वम् ॥ १४॥
मल्लिनाथः ...{Loading}...
वृक्षेशया इति॥ यष्टिरेव निवासः स्थानं तस्य भङ्गात्। वृक्षे शेरत इति वृक्षेशयाः। ‘अधिकरणे शेतेः’(पा.3।2।15) इत्यच्प्रत्ययः। ‘शयवासवासिष्वकालात्’(पा.6।3।18) इत्यलुक्सप्तम्याः। मृदङ्गशब्दानामपगमादभावादलास्या नृत्यशून्याः। दवोऽरण्यवह्निः। ‘दवदावौ वनारण्यवह्नी’ इत्यमरः। तस्योल्काभिः स्फुलिङ्गैर्हेतेभ्यः शेषाणि बर्हाणि येषां ते क्रीडामयूरा वनबर्हिणत्वं वनमयूरत्वं प्राप्ताः ॥ 14 ॥
विश्वास-प्रस्तुतिः
सूपानमार्गेषु च येषु रामा निक्षिप्तवत्यश्चरणान्सरागान् ।
सद्योहतन्यङ्कुभिरस्रदिग्धं व्याघ्रैः पदं तेषु निधीयते मे ॥ १५॥
मूलम्
सूपानमार्गेषु च येषु रामा निक्षिप्तवत्यश्चरणान्सरागान् ।
सद्योहतन्यङ्कुभिरस्रदिग्धं व्याघ्रैः पदं तेषु निधीयते मे ॥ १५॥
मल्लिनाथः ...{Loading}...
सोपानेति॥ किंच,येषु सोपानमार्गेषु रामा रमण्यः सरागाँल्लाक्षारसार्द्राश्चरणान्निक्षिप्तवत्यः। तेषु मे मम मार्गेषु सद्योहतन्यङ्कुभिर्मारितमृगैर्व्याघ्नैरस्रदिग्धं रुधिरलिप्तं पदं निधीयते ॥ 15 ॥
विश्वास-प्रस्तुतिः
चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः ।
नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ॥ १६॥
मूलम्
चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः ।
नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ॥ १६॥
मल्लिनाथः ...{Loading}...
चित्रेति॥ पद्मवनमवतीर्णाः प्रविष्टाः। तथा लिखिता इत्यर्थः। करेणुभिः करिणीभिः। चित्रगताभिरेव। ‘करेणुरिभ्यां स्त्री नेमे’ इत्यमरः। दत्तमृणालभङ्गाश्चित्रद्विपा आलेख्यमातङ्गाः। नखा एवाङ्कुशास्तेषामाघातैर्विभिन्नकुम्भाः सन्तः संरब्धसिंहप्रहृतं कुपितसिंहप्रहारं वहन्ति ॥ 16 ॥
विश्वास-प्रस्तुतिः
स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् ।
स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः ॥ १७॥
मूलम्
स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् ।
स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः ॥ १७॥
मल्लिनाथः ...{Loading}...
स्तम्मेष्विति॥ उत्क्रान्तवर्णक्रमा विशीर्णवर्णविन्यासास्ताश्च धूसराश्च यास्तासां स्तम्भेषु योषित्प्रतियातनानां स्त्रीप्रतिकृतीनां दारुमयीणां फणिभिर्विमुक्ता निर्मोकाः कञ्चुका एव पट्टाः। ‘समौ कञ्चुकनिर्मोकौ’ इत्यमरः। सङ्गात्सक्तत्वात् स्तनोत्तरीयाणि स्तनाच्छादनवस्त्राणि भवन्ति ॥ 17 ॥
विश्वास-प्रस्तुतिः
कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्कुरेषु ।
त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्च्छन्ति न चन्द्रपादाः ॥ १८॥
मूलम्
कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्कुरेषु ।
त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्च्छन्ति न चन्द्रपादाः ॥ १८॥
मल्लिनाथः ...{Loading}...
कालेति॥ कालान्तरेण कालभेदवशेन श्यामसुधेषु मलिनचूर्णेष्वितस्ततो रूढतृणाङ्कुरेषु हर्म्येषु गृहेषु नक्तं रात्रौ मुक्तागुणानां शुद्धिरिव शुद्धिः स्वाच्छ्यं येषां तादृशा अपि। ततः पूर्वं ये मूर्च्छन्ति स्म त एव चन्द्रपादाश्चन्द्ररश्मयः। ‘पादा रश्म्यङ्घितुर्यांशाः’ इत्यमरः। न मूर्च्छन्ति। न प्रति फलन्तीत्यर्थः ॥ 18 ॥
विश्वास-प्रस्तुतिः
आवर्ज्य शाखां सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः ।
वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः ॥ १९॥
मूलम्
आवर्ज्य शाखां सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः ।
वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः ॥ १९॥
मल्लिनाथः ...{Loading}...
आवज्येति॥ किंच,विलासिनीभिः सदयं शाखा लतावयवानावर्ज्यानमय्य यासां लतानां पुष्पाण्युपात्तानि गृहीतानि ता मदीया उद्यानलताः। वन्यैः पुलिन्दैर्म्लेच्छविशेषैरिव वानरैः। उभयैरपीत्यर्थः। क्लिश्यन्ते पीड्यन्ते। क्लिश्नातेः कर्मणि लट्। ‘भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः’ इत्यमरः ॥ 19 ॥
विश्वास-प्रस्तुतिः
रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि ।
तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छन्नधूमप्रसरा गवाक्षाः ॥ २०॥
मूलम्
रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि ।
तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छन्नधूमप्रसरा गवाक्षाः ॥ २०॥
मल्लिनाथः ...{Loading}...
रात्राविति॥ रात्रावनाविष्कृतदीपभासः। दीपप्रभाशून्या इत्यर्थः। दिवापि दिवसेऽपि कान्तामुखानां श्रिया कान्त्या वियुता रहिता विच्छिन्नो नष्टो धूमप्रसरो येषां ते गवाक्षाः कृमितन्तुजालैर्लूतातन्तुवितानैः। तिरस्क्रियन्ते छाद्यन्ते ॥ 20 ॥
विश्वास-प्रस्तुतिः
बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति ।
उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥ २१॥
मूलम्
बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति ।
उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥ २१॥
मल्लिनाथः ...{Loading}...
बलिक्रियेति॥ ‘बलिः पूजोपहारः स्यात्’ इति शाश्वतः। बलिक्रियावर्जितानि सैकतानि येषां तानि स्नानीयानि स्नानसाधनानि चूर्णादीनि। ‘कृत्यल्युटो बहुलम्’ (पा.3।3।113) इति करणेऽनीयर्प्रत्ययः। स्नानीयसंसर्गमनाप्नुदृष्ट्वा दूये परितप्ये ॥ 21 ॥
विश्वास-प्रस्तुतिः
तदर्हसीमां वसतिं विसृज्य मामभ्युपेतुं कुलराजधानीम् ।
हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ॥ २२॥
मूलम्
तदर्हसीमां वसतिं विसृज्य मामभ्युपेतुं कुलराजधानीम् ।
हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ॥ २२॥
मल्लिनाथः ...{Loading}...
तदिति॥ तत्तस्मादिमां वसतिं कुशावतीं विसृज्य कुलराजधानीमयोध्यां मामभ्युपेतुमर्हसि। कथमिव? ते गुरुः पिता रामस्तां प्रसिद्धां कारणवशान्मानुषीं तनुं मानुषमूर्तिं हित्वा परमात्ममूर्तिं यथा विष्णुमूर्तिमिव ॥ 22 ॥
विश्वास-प्रस्तुतिः
तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणाम् ।
पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥ २३॥
मूलम्
तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणाम् ।
पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥ २३॥
मल्लिनाथः ...{Loading}...
तथेति॥ रघूणां प्राग्रहरः श्रेष्ठः कुशस्तस्याः पुरः प्रणयं याञ्चां प्रतीतो हृष्टः सन्,तथेति प्रत्यग्रहीत् स्वीकृतवान्। पूः पुराधिदेवताप्यभिव्यक्तमुखप्रसादा सती। इष्टलाभादिति भावः। शरीरबन्धेन शरीरयोगेन करणेन तिरोबभूवान्तर्दधे। मानवं रूपं विहाय दैवं रूपमग्रहीदित्यर्थः ॥ 23 ॥
विश्वास-प्रस्तुतिः
तदद्भुतं संसदि रात्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस ।
श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतमभ्यनन्दन् ॥ २४॥
मूलम्
तदद्भुतं संसदि रात्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस ।
श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतमभ्यनन्दन् ॥ २४॥
मल्लिनाथः ...{Loading}...
तदिति॥ नृपतिः कुशस्तदद्भुतं रात्रिवृत्तान्तं प्रातः संसदि सभायां द्विजेभ्यः शशंस। ते द्विजाः श्रुत्वैनं कुलराजधान्या साक्षात् स्वयमेव पतित्वे विषये वृतमभ्यनन्दन्। पतित्वेन वृतोऽसीत्यपूजयन्। आशीर्भिरिति शेषः। अत्र गार्ग्यः-‘दृष्ट्वा स्वप्नं शोभनं नैव सुप्यात्पश्चाद्दृष्टो यः स पाकं विधत्ते। शंसेदिष्टं तत्र साधुर्द्विजेभ्यस्ते चाशीर्भिः प्रीणयेयुर्नरेन्द्रम्’। इदमपि स्वप्नतुल्यमिति भावः ॥ 24 ॥
विश्वास-प्रस्तुतिः
कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः ।
अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ॥ २५॥
मूलम्
कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः ।
अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ॥ २५॥
मल्लिनाथः ...{Loading}...
कुशावतीमिति॥ स कुशः कुशावतीं श्रोत्रियेषु छान्दसेष्वधीनां श्रोत्रियसात्। ‘तदधीनवचने’(पा.5।4।54) इति सातिप्रत्ययः। ‘श्रोत्रियंश्छन्दोऽधीते’(पा.5।2।84) इति निपातः। ‘श्रोत्रियच्छान्दसौ समौ’ इत्यमरः। कृत्वा यात्रानुकूलेऽहनि सावरोधः सान्तःपुरः सन्। वायुरभ्रवृन्दैरिव। सैन्यैरनुद्रुतोऽनुगतः सन्,अयोध्याभिमुखं प्रतस्थे ॥ 25 ॥
विश्वास-प्रस्तुतिः
सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः ।
सेना रथोदारगृहा प्रयाणे तस्याभवज्जंगमराजधानी ॥ २६॥
मूलम्
सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः ।
सेना रथोदारगृहा प्रयाणे तस्याभवज्जंगमराजधानी ॥ २६॥
मल्लिनाथः ...{Loading}...
सेति॥ केतुमाला एव उएपवनानि यस्याः सा बृहद्भिर्नागैर्गजैर्विहारशैलैः क्रीडाशैलैरनुगतेव स्थिता। रथा एवोदारगृहा यस्याः सा। सा सेना तस्य कुशस्य प्रयाणे जंगमराजधानी संचारिणी नगरीव। अभवद्बभूव ॥ 26 ॥
विश्वास-प्रस्तुतिः
तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् ।
बभौ बलौघः शशिनोदितेन वेलामुदन्वानिव नीयमानः ॥ २७॥
मूलम्
तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् ।
बभौ बलौघः शशिनोदितेन वेलामुदन्वानिव नीयमानः ॥ २७॥
मल्लिनाथः ...{Loading}...
तेनेति॥ आतपत्रमेवामलं मण्डलं बिम्बं यस्य तेन। तेन कुशेन पूर्वनिवासभूमिमयोध्यां प्रति प्रस्थापितो बलौघः। आतपत्रवदमलमण्डलेनोदितेन शशिना वेलां नीयमानः प्राप्यमाणः। उदकमस्यास्तीत्युदन्वान् उदधिरिव। बभौ। ‘उदन्वानुदधौ च’(पा.8।2।13) इति निपातनात्साधुः ॥ 27 ॥
विश्वास-प्रस्तुतिः
तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढुम् ।
वसुंधरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ॥ २८॥
मूलम्
तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढुम् ।
वसुंधरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ॥ २८॥
मल्लिनाथः ...{Loading}...
तस्येति॥ प्रयातस्य प्रथितस्य तस्य कुशस्य वरूथिनीनां सेनानां कर्त्रीणां ‘कर्तृकर्मणोः कृति’(पा.2।3।65) इति कर्तरि षष्ठी। पीडां सोढुमपर्याप्तवतीवाशक्तेव वसुंधरा रजश्छलेन द्वितीयं विष्णुपदमाकाशमध्यारुरोहेव। इत्युत्प्रेक्षा ॥ 28 ॥
विश्वास-प्रस्तुतिः
उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती ।
सा यत्र सेना ददृशे नृपस्य तत्रैव सामग्र्यमतिं चकार ॥ २९॥
मूलम्
उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती ।
सा यत्र सेना ददृशे नृपस्य तत्रैव सामग्र्यमतिं चकार ॥ २९॥
मल्लिनाथः ...{Loading}...
उद्यच्छमानेति॥ पश्चात्कुशावत्याः सकाशाद्गमनाय प्रयाणाय तथा पुरोऽग्रे निवेशे निमित्ते। निवेष्टुं चेत्यर्थः। उद्यच्छमानोद्योगं कुर्वती। ‘समुदाङ्भ्यो यमोऽग्रन्थे’(पा.1।3।75) इत्यस्य सकर्मकाधिकारत्वादात्मनेपदम्। पथि च व्रजन्ती नृपस्य सा सेना यत्र पश्चात्पुरो मध्ये वा ददृशे तत्रैव सामग्र्यमतिं कृत्स्नताबुद्धिं चकार। अपरिमिता तस्य सेनेत्यर्थः ॥ 29 ॥
विश्वास-प्रस्तुतिः
तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणाम् ।
रेणुः प्रपेदे प्रथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतुः ॥ ३०॥
मूलम्
तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणाम् ।
रेणुः प्रपेदे प्रथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतुः ॥ ३०॥
मल्लिनाथः ...{Loading}...
तस्येति॥ नेतुस्तस्य कुशस्य द्विपानां मदवारिभिः सेकात्तुरंगमाणां खुराभिघाताञ्च यथासंख्यं पथि रेणू रजः पङ्कभावं पङ्कतां प्रपेदे। पङ्कोऽपि रेणुत्वमियाय। तस्य तावदस्तीत्यर्थः ॥ 30 ॥
विश्वास-प्रस्तुतिः
मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना ।
चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥ ३१॥
मूलम्
मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना ।
चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥ ३१॥
मल्लिनाथः ...{Loading}...
मार्गेति॥ वैन्ध्येषु विन्ध्यसंबन्धिषु कटकान्तरेषु नितम्बावकाशेषु। ‘कटकोऽस्त्री नितम्बोऽद्रेः’ इत्यमरः। मार्गैषिणी मार्गावलोकिनी। अत एव बहुधा विभिन्ना। महाविरावा दीर्घशब्दा सा सेना। रेवेव नर्मदेव। ‘रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका’ इत्यमरः। गुहामुखानि बद्धप्रतिश्रुन्ति प्रतिध्वानवन्ति चकाराकरोत् ॥ 31 ॥
विश्वास-प्रस्तुतिः
स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः ।
व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि ॥ ३२॥
मूलम्
स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः ।
व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि ॥ ३२॥
मल्लिनाथः ...{Loading}...
स इति॥ धातूनां गैरिकादीनां भेदेनारुणा याननेमी रथचक्रधारा यस्य। प्रयाणे ये ध्वनयः क्ष्वेडहेषादयः तन्मिश्राणि तूर्याणि यस्यैवंविधः स प्रभुः कुशः। पुलिन्दैः किरातैरुपपादितानि समर्पितान्युपायनानि पश्यन्। विन्ध्यं व्यलङ्घयत् ॥ 32 ॥
विश्वास-प्रस्तुतिः
तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोस्य गङ्गाम् ।
अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः ॥ ३३॥
मूलम्
तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोस्य गङ्गाम् ।
अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः ॥ ३३॥
मल्लिनाथः ...{Loading}...
तीर्थ इति॥ तदीये वैन्ध्ये तीर्थेऽवतारे गजा एव सेतुस्तस्य बन्धाद्धेतोः प्रतीपगां पश्चिमवाहिनीं गङ्गामुत्तरतोऽस्य कुशस्य नभोलङ्घनेन लोलपक्षा हंसा अयत्नेन बालव्यजनीबभूवुश्चामराण्यभूवन्। अभूततद्भावे च्विः ॥ 33 ॥
विश्वास-प्रस्तुतिः
स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणाम् ।
सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौलुलितं ववन्दे ॥ ३४॥
मूलम्
स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणाम् ।
सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौलुलितं ववन्दे ॥ ३४॥
मल्लिनाथः ...{Loading}...
स इति॥ स कुशः कपिलेन मुनिना रोषाद्भस्मावशेषीकृता विग्रहा देहा येषां तेषां पूर्वजानां वृद्धानां सागराणां सुरालयस्य स्वर्गस्य प्राप्तौ निमित्तं नौभिर्लुलितं क्षुभितम्। त्रिस्रोतस इदं त्रैस्नोतसम्। गाङ्गमम्भो ववन्दे ॥ 34 ॥
विश्वास-प्रस्तुतिः
इत्यध्वनः केचिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः ।
वेदिप्रतिष्ठान्वितताधराणां यूपानपश्यच्छतशो रघूणाम् ॥ ३५॥
मूलम्
इत्यध्वनः केचिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः ।
वेदिप्रतिष्ठान्वितताधराणां यूपानपश्यच्छतशो रघूणाम् ॥ ३५॥
मल्लिनाथः ...{Loading}...
इतीति॥ इति कैश्चिदहोभिरध्वनोऽवसाने कुशः सरय्वाः कूलं समासाद्य वितताध्वराणां विस्तृतमखानां रघूणाम्। वेदिः प्रतिष्ठास्पदं येषां तान्। यूपाञ्छतशोऽपश्यत् ॥ 35 ॥
विश्वास-प्रस्तुतिः
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरंगान् ।
तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥ ३६॥
मूलम्
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरंगान् ।
तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥ ३६॥
मल्लिनाथः ...{Loading}...
आधूयेति॥ कुलराजधान्या उपवनान्तवायुः कुसुमद्रामाणां शाखा आधूयेषद्धत्वा। सुरभिर्मन्दश्चेत्यर्थः। शीतान्सरयूतरंगांश्च स्पृष्ट्वा। अनेन शैत्योक्तिः। क्लान्तसैन्यं तं कुशं प्रत्युज्जगाम ॥ 36 ॥
विश्वास-प्रस्तुतिः
अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखा स राजा ।
कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥ ३७॥
मूलम्
अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखा स राजा ।
कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥ ३७॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ रिपुषु मग्नं शल्यं शङ्कु शरो वा यस्य सः। ‘शल्यं शङ्कौ शरे वंशे’ इति विश्वः। पौराणां सखा पौरसखः। कुलस्य ध्वजश्चिह्नभूतो बली स राजा चलाशअचलन्तो वा ध्वजा येषां तानि। तानि बलानि सैन्यानि तस्याः पुरः पुर्या उपशल्ये ग्रामान्ते। ‘ग्रामान्त उपशल्यं स्यात्’ इत्यमरः। निवेशयामास ॥ 37 ॥
विश्वास-प्रस्तुतिः
तं शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वात् ।
पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥ ३८॥
मूलम्
तं शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वात् ।
पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥ ३८॥
मल्लिनाथः ...{Loading}...
तामिति॥ प्रभुणा नियुक्ताः शिल्पिनां तक्षादीनां संघाः संभृतसाधनत्वान्मिलितोपकरणत्वात्तां तथागताम्। शून्यामित्यर्थः। पुरमयोध्याम्। मेघा अपां विसर्गाज्जलसेकान्निदाघग्लपितां ग्रीष्मतप्तामुर्वीमिव। नवीचक्रुः परिपूरयांचक्रुः ॥ 38 ॥
विश्वास-प्रस्तुतिः
ततः सपर्यां सपशूपहारां पुरः परार्घ्यप्रतिमागृहायाः ।
उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयामास रघुप्रवीरः ॥ ३९॥
मूलम्
ततः सपर्यां सपशूपहारां पुरः परार्घ्यप्रतिमागृहायाः ।
उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयामास रघुप्रवीरः ॥ ३९॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततो रङुप्रवीरः कुशः प्रतिमा देवताप्रतिकृतयः। अर्चा इत्यर्थः। परार्धअयप्रतिमागृहायाः प्रशस्तदेवतायतनायाः पर उपोषितैर्वास्तुविधानविद्भिः प्रयोज्यैः पशूपहारैः सहितां सपशूपहारां सपर्यां निर्वर्तयामास कारयामास। अत्र ण्यन्ताण्णिच्पुनरित्यनुसंधेयम्। अन्यथा वृतेरकर्मकस्य करोत्यर्थत्वे कारयत्यर्थाभावप्रसङ्गात्। भवितव्यं वृतेरण्यन्तकर्त्रा प्रयोज्यत्वेन तन्निर्देशात्प्रयोगान्तरस्यापेक्षितत्वात् ॥ 39 ॥
विश्वास-प्रस्तुतिः
तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य ।
यथार्हमन्यैरनुजीविलोकं संभावयामास यथाप्रधानम् ॥ ४०॥
मूलम्
तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य ।
यथार्हमन्यैरनुजीविलोकं संभावयामास यथाप्रधानम् ॥ ४०॥
मल्लिनाथः ...{Loading}...
तस्या इति॥ स कुशस्तस्याः पुरः संबन्धि राजोपपदं ‘राजशब्द’ पूर्वं निशान्तम्। राजभवनमित्यर्थः। ‘निशान्तं भवनोषसोः’ इति विश्वः। कामी कान्तहृदयमिव प्रविश्य। अन्यैर्निशान्तैरनुजीविलोकममात्यादिकं यथाप्रधानं मानानुसारेण। यथार्हं यथोचितम्। तत्तदुचितगृहैरित्यर्थः। संभावयामास ॥ 40 ॥
विश्वास-प्रस्तुतिः
सा मन्दुरासंश्रयिभिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः ।
पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥ ४१॥
मूलम्
सा मन्दुरासंश्रयिभिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः ।
पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥ ४१॥
मल्लिनाथः ...{Loading}...
सेति॥ विपणिस्थानि पण्यानि क्रयविक्रयार्हवस्तूनि यस्याः सा। ‘विपणिः पण्यवीथिका’ इत्यमरः। सा पूः अयोध्या। मन्दुरासंश्रयिभिरश्वशालासंश्रयणशीलैः। ‘वाजिशाला तु मन्दुरां’ इत्यमरः। ‘जिदृक्षि-’(पा.3।2।157) इत्यादिनेनिप्रत्ययः। तुरंगैरश्वैः। शालासु गृहेषु ये विधिना स्थापिताः स्तम्भास्तान्गतैः प्राप्तैर्नागैश्च। सर्वाङ्गेषु नद्धान्याभरणानि यस्याः सा नारीव। आबभासे ॥ 41 ॥
विश्वास-प्रस्तुतिः
वसन्स तस्यां वसतौ रघूणां पुराणशोभामभिरोपितायाम् ।
न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय ॥ ४२॥
मूलम्
वसन्स तस्यां वसतौ रघूणां पुराणशोभामभिरोपितायाम् ।
न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय ॥ ४२॥
मल्लिनाथः ...{Loading}...
वसन्निति॥ स मैथिलेयः कुशः पुराणशोभां पूर्वशोभामधिरोपितायां तस्यां रघूणां वसतावयोध्यायां वसन्। दिवो भर्त्रे देवेन्द्राय तथाऽलकेश्वराय कुबेरायापि न स्पृहयांबभूव। तावपि न गणयामासेत्यर्थः। ‘स्पृहेरीप्सितः’(पा.1।4।37) इति संप्रदानत्वाञ्चतुर्थी। एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ॥ 42 ॥
विश्वास-प्रस्तुतिः
अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् ।
निःश्वासहार्यांशुकमाजगाम घर्मः प्रियावेशमिवोपदेष्टुम् ॥ ४३॥
मूलम्
अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् ।
निःश्वासहार्यांशुकमाजगाम घर्मः प्रियावेशमिवोपदेष्टुम् ॥ ४३॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथास्य कुशस्य। रत्नैर्मुक्तामणिभिर्ग्रथितान्युत्तरीयाणि यस्मिंस्तम्। एकान्तमत्यन्तं पाण्ड्वोः स्तनयोर्लम्बिनो हारा यस्मिंस्तम्। निःश्वासहार्याण्यतिसूक्ष्माण्यंशुकानि यत्र तम्। एवं शीतलप्रायं प्रियाया वेशं नेपथ्यमुपदेष्टुमिव। घर्मो ग्रीष्म आजगाम ॥ 43 ॥
विश्वास-प्रस्तुतिः
अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते ।
आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ॥ ४४॥
मूलम्
अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते ।
आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ॥ ४४॥
मल्लिनाथः ...{Loading}...
अगस्त्येति॥ अगस्त्यश्चिह्नं यस्य तस्मादयनान्मार्गाद्दक्षिणायनाद्भास्वति समीपं संनिवृत्ते सति। उत्तरा दिक्। आनन्दशीतां बाष्पवृष्टिमिव। हैमवतीं हिमवत्संबन्धिनीं हिमस्रुतिं हिमनिष्यन्दं हिमनिष्यन्दं ससर्ज। अत्र प्रोषितप्रियासमागमसमाधिर्गम्यते ॥ 44 ॥
विश्वास-प्रस्तुतिः
प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी ।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम् ॥ ४५॥
मूलम्
प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी ।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम् ॥ ४५॥
मल्लिनाथः ...{Loading}...
प्रवृद्धेति॥ अतिमात्रं प्रवृद्धतापो दिवसः। अत्यर्थमेवानल्पं तन्वी कृशा क्षणदा च इत्येतावुभौ विरोधक्रियया प्रणयकलहादिना विरोधाचरणेन विभिन्नौ सानुशयौ सानुतापौ जायापती दंपती इव। आस्ताम्। तयोरपि तापकार्श्यसंभवात्तत्सदृशाबभूतामित्यर्थः ॥ 45 ॥
विश्वास-प्रस्तुतिः
दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः ।
उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥ ४६॥
मूलम्
दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः ।
उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥ ४६॥
मल्लिनाथः ...{Loading}...
दिने दिन इति॥ दिने दिने प्रतिदिनं शैवलवन्त्यधस्ताद्यानि सोपानानां पर्वाणि भङ्ग्यस्तानि विमुञ्चत्। अत एव उद्दण्डपद्मं गृहदीर्घिकाणामम्भः। नारीनितम्बः प्रमाणमस्य नारीनितम्बद्वयसं बभूव। विहारयोग्यमभूदित्यर्थः। ‘प्रयाणे द्वयसच्-’(पा.5।2।37) इति द्वयसच्प्रत्ययः ॥ 46 ॥
विश्वास-प्रस्तुतिः
वनेषु सायंतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु ।
प्रत्येकनिक्षिप्तपदः सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥ ४७॥
मूलम्
वनेषु सायंतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु ।
प्रत्येकनिक्षिप्तपदः सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥ ४७॥
मल्लिनाथः ...{Loading}...
वनेष्विति॥ वनेषु विजृम्भणेन विकासेनोद्गन्धिषूत्कटसौरभेषु । ‘गन्धस्य -’(पा.5।4।135) इत्यादिना समासान्त इकारादेशः। सायंतनमल्लिकानां कुड्मलेषु सशब्दं यथा तथा प्रत्येकमेकैकस्मिन्निक्षिप्तपदः। मकरन्दलोभादित्यर्थः। भ्रमर एषां कुड्मलानां संख्यां गणनां चकारेव ॥ 47 ॥
विश्वास-प्रस्तुतिः
स्वेदानुविद्धार्धनखक्षताङ्के भूयिष्ठसंदिष्टशिखं कपोले ।
च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ ४८॥
मूलम्
स्वेदानुविद्धार्धनखक्षताङ्के भूयिष्ठसंदिष्टशिखं कपोले ।
च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ ४८॥
मल्लिनाथः ...{Loading}...
स्वेदेति॥ स्वेदानुविद्धमार्द्रं नूतनं नखक्षतमङ्को यस्य तस्मिन्कामिनीनां कपोले भूयिष्ठमत्यर्थं संदष्टशिखं विश्लिष्टकेसरम्,अत एव कर्णाञ्च्युतमपि। शिरीषपुष्पं सहसा न पपात ॥ 48 ॥
विश्वास-प्रस्तुतिः
यन्त्रप्रवाहैः शिशिरैः परीतान्रसेन धौतान्मलयोद्भवस्य ।
शिलाविशेषान्यधिशय्य निन्युर्धारागृहेष्वातपमृद्धिवन्तः ॥ ४९॥
मूलम्
यन्त्रप्रवाहैः शिशिरैः परीतान्रसेन धौतान्मलयोद्भवस्य ।
शिलाविशेषान्यधिशय्य निन्युर्धारागृहेष्वातपमृद्धिवन्तः ॥ ४९॥
मल्लिनाथः ...{Loading}...
यन्त्रेति॥ ऋद्धिमन्तो धनिका धारागृहेषु यन्त्रधारागृहेषु शिशिरैर्यन्त्रप्रवाहैर्यन्त्रसंचारितसलिलपूरैः परीतान् व्याप्तान्। मलयोद्भवस्य रसेन चन्दनोदकेन धौतान्क्षालिताञ्छिलाविशेषान्मणिमयासनान्यधिशय्य तेषु शयित्वाऽऽतपं निन्युरातपपरिहारं चक्रुः ॥ 49 ॥
विश्वास-प्रस्तुतिः
स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायंतनमल्लिकेषु ।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ ५०॥
मूलम्
स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायंतनमल्लिकेषु ।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ ५०॥
मल्लिनाथः ...{Loading}...
स्नानेति॥ वसन्तस्यात्मसहकारिणोऽत्ययेनातिक्रमेण मन्दवीर्योऽतिदुर्बलः कामः स्नानार्द्राश्च ते मुक्ताश्च। धूपसंचारणार्थमित्यर्थः,तेषु। अनुधूपवासं धूपवासानन्तरं विन्यस्ताः सायंतनमल्लिका येषु तेषु। अङ्गनानां केशेषु बलं लेभे। तैरुद्दीपित इत्यर्थः ॥ 50 ॥
विश्वास-प्रस्तुतिः
आपिञ्जरा बद्धरजःकणत्वान्मञ्जुर्युदारा शुशुभेऽर्जुनस्य ।
दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभवस्य ॥ ५१॥
मूलम्
आपिञ्जरा बद्धरजःकणत्वान्मञ्जुर्युदारा शुशुभेऽर्जुनस्य ।
दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभवस्य ॥ ५१॥
मल्लिनाथः ...{Loading}...
आपिञ्जरेति॥ बद्धरजःकणत्वाद्व्याप्तरजः कणत्वादापिञ्जरोदारा द्राघीयसी अर्जुनस्य ककुभवृक्षस्य। ‘इन्द्रद्रुः ककुभोऽर्जुनः’ इत्यमरः। मञ्जरी। देहं दग्ध्वापि रोषाद्गिरिशेन गिरिरस्त्यस्य निवासत्वेन गिरिशस्तेन। सोमादित्वाच्छप्रत्ययः। गिरौ शेत इति विग्रहे तु ‘गिरौ शेतेर्डः’(वा.1999) इत्यस्य छन्दसि विधानाल्लोके प्रयोगानुपपत्तिः स्यात्। तस्मात्पूर्वोक्तमेव विग्रहवाक्यं न्याय्यम्। खण्डीकृता मनोभवस्य ज्या मौर्वीव। शुशुभे ॥ 51 ॥
विश्वास-प्रस्तुतिः
मनोज्ञगन्धं सहकारभङ्गं पुराणशीधुं नवपाटलं च ।
संबध्नता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥ ५२॥
मूलम्
मनोज्ञगन्धं सहकारभङ्गं पुराणशीधुं नवपाटलं च ।
संबध्नता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥ ५२॥
मल्लिनाथः ...{Loading}...
मनोज्ञेति॥ मनोज्ञगन्धमिति सर्वत्र संबध्यते। सहकारभङ्गं चूतपल्लवखण्डम्। पुराणं वासितं शेरतेऽनेनेति शीधुः पक्वेक्षुरसप्रकृतिकः सुराविशेषस्तम्। ‘शीङोधुक्’(उ.सू.478) इत्यणादिसूत्रेण ‘शीङ् स्वप्ने’ इत्यस्माद्धातोर्धुक्प्रत्ययः। ‘पक्वैरिक्षुरसैरस्त्री शीधुः पक्वरसः शिवः’ इति यादवः। नवं पाटलायाः पुष्पं पाटलं च संबध्नता संघट्टयता निदाघावधिना ग्रीष्मकालेन। ‘अवधिस्त्ववधाने स्यात्सीम्नि काले बिलेऽपि च’ इति विश्वः। कामिजनेषु विषये सर्वे दोषास्तापादयः प्रमृष्टाः परिहृताः ॥ 52 ॥
विश्वास-प्रस्तुतिः
जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ ।
तापापनोदक्षमपादसेवौ स चोदयस्थौ नृपतिः शशी च ॥ ५३॥
मूलम्
जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ ।
तापापनोदक्षमपादसेवौ स चोदयस्थौ नृपतिः शशी च ॥ ५३॥
मल्लिनाथः ...{Loading}...
जनस्येति॥ थस्मिन्समये ग्रीष्मे विगाढे कठिने सति जनस्य द्वौ सविशेषे सातिशयं यथा तथा कान्तौ बभूवतुः। कौ द्वौ? तापापनोदे क्षमा योग्या,पादयोरङ्घ्रयोः पादानां रश्मीनां च सेवा ययोस्तौ। उदयस्थावभ्युदयस्थौ स च नृपतिः शशी च ॥ 53 ॥
विश्वास-प्रस्तुतिः
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः ।
विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥ ५४॥
मूलम्
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः ।
विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥ ५४॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथोर्मिषु लोलाः सतृष्णा उन्मदा राजहंसा यस्मिंस्तस्मिन्। ‘लोलश्चलसतृष्णयोः’ इत्यमरः। रोधोलतापुष्पाणां वहे प्रापके। पचाद्यच्। ग्रीष्मेषु सुखे सुखकरे सरय्वा अम्भसि पयसि तस्य कुशस्य वनितासखस्य। वनिताभिः सहेत्यर्थः। विहर्तुमिच्छा बभूव ॥ 54 ॥
विश्वास-प्रस्तुतिः
स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम् ।
विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥ ५५॥
मूलम्
स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम् ।
विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥ ५५॥
मल्लिनाथः ...{Loading}...
स इति॥ चक्रधरप्रभावो विष्णुतेजाः स कुशस्तीरभूमौ विहितोषकार्या यस्यास्ताम्। आनायो जालमेषामस्तीत्यानायिनो जालिकाः। ‘जालमानायः’ (पा.3।3।124) इति निपातः। ‘ानायः पुंसि जालं स्यात्’ इत्यमरः। तैः,अपकृष्टनक्रामपनीतग्राहां तां सरयूं श्रीमहिम्नोः संपत्प्रभावयोरनुरूपं योग्यं यथा तथा विगाहितुं प्रचक्रेमे। अत्र कामन्दकः-‘परितापिषु वासरेषु पश्यंस्तटलेखास्थितमाप्तसैन्यचक्रम्। सुविशोधितनक्रमीनजालं व्यवगाहेत जलं सुहृत्समेतः॥’ इति ॥ 55 ॥
विश्वास-प्रस्तुतिः
सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः ।
सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा सरिदङ्गनाभिः ॥ ५६॥
मूलम्
सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः ।
सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा सरिदङ्गनाभिः ॥ ५६॥
मल्लिनाथः ...{Loading}...
सेति॥ सा सरित् सरयूः। तीरसोपानपथेनावतारादवतरणादन्योन्यं केयूरविघट्टिनीभिः संनद्धाङ्गदसंघर्षिणीभिः सनूपुरक्षोभाणि सनूपुरस्खलनानि पदानि यासां ताभिरङ्गनाभिर्हेतुभिरुद्विग्नहंसा भीतहंसाऽऽसीत् ॥ 56 ॥
विश्वास-प्रस्तुतिः
परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी ।
नौसंश्रयः पार्श्वगतां किरातीमुपात्ताबालव्यजनां बभाषे ॥ ५७॥
मूलम्
परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी ।
नौसंश्रयः पार्श्वगतां किरातीमुपात्ताबालव्यजनां बभाषे ॥ ५७॥
मल्लिनाथः ...{Loading}...
परस्परेति॥ नौसंश्रयः परस्परमभ्युक्षणे सेचने तत्पराणामासक्तानां तासां स्त्रीणां मज्जने रागोऽभिलाषस्तद्दर्शी नृपः पार्श्वगतामुपात्तबालव्यजनां गृहीतचामरां किरातीं चामरग्राहिणीं बभाषे। ‘किरातस्तु द्रुमान्तरे। स्त्रियां चामरवाहिन्यां मत्स्यजात्यन्तरे द्वयोः’ इति केशवः ॥ 57 ॥
विश्वास-प्रस्तुतिः
पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः ।
संध्योदयः साभ्र इवेष वर्णं पुष्यत्यनेकं सरयूप्रवाहः ॥ ५८॥
मूलम्
पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः ।
संध्योदयः साभ्र इवेष वर्णं पुष्यत्यनेकं सरयूप्रवाहः ॥ ५८॥
मल्लिनाथः ...{Loading}...
पश्येति॥ गलिताङ्गरागैर्मदीयैः शतशोऽवरोधैर्विगाह्यमानो विलोङ्यमान एष सरयूप्रवाहः। साभ्रः समेघः संध्योदयः संध्याविर्भाव इव। अनेकं नानाविधं वर्णं रक्तपीतादिकं पुष्यति पश्य। वाक्यार्थः कर्म ॥ 58 ॥
विश्वास-प्रस्तुतिः
विलुप्तमन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः ।
तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥ ५९॥
मूलम्
विलुप्तमन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः ।
तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥ ५९॥
मल्लिनाथः ...{Loading}...
विलुप्तमिति॥ नौलुलिताभिर्नौक्षुभिताभिरद्भिः। अन्तःपुरसुन्दरीणां यदञ्जनं कज्जलं विलुप्तं हृतं तदञ्जनं विलोचनेषु नयनेषु मदेन या रागशोभा तां बध्नतीभिर्घटयन्तीभिरद्भिरासां प्रतिमुक्तं प्रत्यर्पितम्। प्रतिनिधिदानमपि तत्कार्यकारित्वात्प्रत्यर्पणमेवेति भावः ॥ 59 ॥
विश्वास-प्रस्तुतिः
एता गुरुश्रोणिपयोधरत्वादात्मानमुद्वोढुमशक्नुवत्यः ।
गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥ ६०॥
मूलम्
एता गुरुश्रोणिपयोधरत्वादात्मानमुद्वोढुमशक्नुवत्यः ।
गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥ ६०॥
मल्लिनाथः ...{Loading}...
एता इति॥ गुरु दुर्वहं श्रोणिपयोधरं यस्यात्मन इति विग्रः। गुरुश्रोमिपयोधरत्वादात्मानं शरीरमुद्धोढुमशक्नुवत्य एता बाला गाढाङ्गदैः श्लिष्टाङ्गदैर्बाहुभिः क्लेशोत्तरं दुःखप्रायं यद्या तथा रागवशात् क्रीडाभिनिवेशपारतन्त्र्यात्। प्लवन्ते तरन्ति ॥ 60 ॥
विश्वास-प्रस्तुतिः
अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् ।
पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् ॥ ६१॥
मूलम्
अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् ।
पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् ॥ ६१॥
मल्लिनाथः ...{Loading}...
अमी इति॥ वारिविहारिणीनामासां प्रभ्रंशिनो भ्रष्टा निम्नगायाः स्रोतसि पारिप्ववाश्चञ्चलाः। ‘चञ्चलं तरलं चैव पारिप्लवपरिप्लवे’ इत्यमरः। अमी शिरीषप्रसवा एवावतंसाः कर्णभूषा शैवाललोलाञ्जलनीलिप्रियान्। ‘जलनीली तु शैवालम्’ इत्यमरः। मीनांश्छलयन्ति प्रादुर्भावयन्ति। शैवालप्रियत्वाच्छिरीषेषु शैवालभ्रमात्प्रादुर्भवन्तीत्यर्थः ॥ 61 ॥
विश्वास-प्रस्तुतिः
आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः ॥ ६२॥
मूलम्
आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः ॥ ६२॥
मल्लिनाथः ...{Loading}...
आसामिति॥ जलस्यास्फालने तत्पराणामासक्तानामासां स्त्रीणां मुक्ताफसस्पर्धिषु मौक्तिकानुकारिषु पयोधरेषु स्तनेषूत्सर्पन्त्युत्पतन्ति ये तेषु शीकरेषु शीकराणां मध्ये शीर्यमाणो गलन् हारोऽत एव छिदुरः स्वयं छिन्नोऽपि न संलक्ष्यते। ‘विदिभिदिच्छिदेः कुरच्’(पा.3।2।162) इति कुरच्प्रत्ययः। शीकरसंसर्गाच्छिन्न इति न ज्ञायत इति भावः ॥ 62 ॥
विश्वास-प्रस्तुतिः
आवर्तशोभा नतनाभिकान्तेर्भङ्गो भ्रुवां द्वन्द्वचराः स्तनानाम् ।
जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम् ॥ ६३॥
मूलम्
आवर्तशोभा नतनाभिकान्तेर्भङ्गो भ्रुवां द्वन्द्वचराः स्तनानाम् ।
जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम् ॥ ६३॥
मल्लिनाथः ...{Loading}...
आवर्तेति॥ विलासिनीनां विलसनशीलानां स्त्रीणाम्। ‘वौ कषलसकत्थस्नम्भः’(पा.3।2।143) इति घिनुण्प्रत्ययः। रूपावयवानामुपमेयानां यान्युपमानानि लोकप्रसिद्धानि तान्यदूरवर्तीन्यन्तिकगतानि जातानि। कस्य किमुपमानमित्यत्राह-नतनाभिकान्तेर्निम्ननाभिशोभाया आवर्तशोभा। ‘स्यादावर्तोऽम्भसां भ्रमः’ इत्यमरः। भ्रुवां भङ्गस्तरंगः। स्तनानां द्वन्द्वचराश्चक्रवाकाः। ‘उपमानम्’ इति सर्वत्र संबध्यते ॥ 63 ॥
विश्वास-प्रस्तुतिः
तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् ।
श्रोत्रेषु संमूर्च्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥ ६४॥
मूलम्
तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् ।
श्रोत्रेषु संमूर्च्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥ ६४॥
मल्लिनाथः ...{Loading}...
तीरेति॥ उत्कलापैरुञ्चबर्हैः प्रस्निग्धा मधुराः केका येषां तैः। तीरस्थलीषु स्थितैर्बर्हिभिर्मयूरैरभिनन्द्यमानं रक्तं श्राव्यं गीतानुगं गीतानुसारि। आसां स्त्रीणां संबन्धि। वार्येव मृदङ्गस्तस्य वाद्यं वाद्यध्वनिः श्रोत्रेषु संमूर्च्छति व्याप्नोति ॥ 64 ॥
विश्वास-प्रस्तुतिः
संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः ।
अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ ६५॥
मूलम्
संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः ।
अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ ६५॥
मल्लिनाथः ...{Loading}...
संदष्टेति॥ संदष्टवस्त्रेषु जलसेकात्संश्लिष्टवस्त्रेष्वबलानां नितम्बेष्वधिकरणेषु। इन्दुप्रकाशेन ज्योत्स्नयाऽन्तरितान्यावृत्तानि यान्युडूनि नक्षत्राणि तत्तुल्याः। मुक्तामयत्वादिति भूषाः। ‘कलापो भूषणे बर्हे’ इत्यमरः। मौरम्। निःशब्दतामित्यर्थः। भजन्ते ॥ 65 ॥
विश्वास-प्रस्तुतिः
एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः ।
वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति ॥ ६६॥
मूलम्
एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः ।
वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति ॥ ६६॥
मल्लिनाथः ...{Loading}...
एता इति॥ दर्पात्सखीजनं प्रति करैरुत्पीडिता उत्सारिता वारिधारा याभिस्ताः स्वयमपि पुनस्तथैव सखीभिर्वदनेषु सिक्ता एतास्तरुण्यो वक्रेतराग्नैर्जलसेकादृज्वग्रैरलकैः करणैश्चूर्णैः कुङ्कुमादिभिररुणान्वारिलवानुदकबिन्दून् वमन्ति वर्षन्ति ॥ 66 ॥
विश्वास-प्रस्तुतिः
उद्बन्धकेशच्युतपत्रलेखो विश्लेषिमुक्ताफलपत्रवेष्टः ।
मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ॥ ६७॥
मूलम्
उद्बन्धकेशच्युतपत्रलेखो विश्लेषिमुक्ताफलपत्रवेष्टः ।
मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ॥ ६७॥
मल्लिनाथः ...{Loading}...
उद्बन्धेति॥ उद्बन्धा उद्भ्रष्टाः केशा यस्मिन्सः। च्युतपत्रलेखः क्षरितपत्ररचनः। विश्लेषिणो विस्रंसिनो मुक्ताफलपत्रवेष्टा मुक्तामयताडङ्का यस्मिन्सः। एवमम्भोविहाराकुलितोऽपि प्रमदामुखानां वेषो नेपथ्यं मनोज्ञ एव। रम्याणां विकृतिरपि श्रियं तनोतीति भावः ॥ 67 ॥
विश्वास-प्रस्तुतिः
स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु ।
स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥ ६८॥
मूलम्
स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु ।
स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥ ६८॥
मल्लिनाथः ...{Loading}...
स इति॥ स कुशो नौर्विमानमिव नौविमानम्। उपमितसमासः। तस्मादवतीर्य विलोलहारः सन्,ताभिः स्त्रीभिः सहकरेणुभिः सह स्कन्धावलग्नोद्धृतपद्मिन्युत्पाटितनलिनी यस्य स तथोक्तः सन्। ‘नद्यृतश्च’(5।4।153) इति कप्रत्ययः। वन्यो द्विपेन्द्र इव। अप्सु रेमे ॥ 68 ॥
विश्वास-प्रस्तुतिः
ततो नृपेणानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः ।
प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥ ६९॥
मूलम्
ततो नृपेणानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः ।
प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥ ६९॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततो भ्राजिष्णुना प्रकाशनशीलेन। ‘भुवश्च’ (पा.4।1।47) इति चकारादिष्णुच्। नृपेणानुगताः संगतास्ताः स्त्रियः सातिशयं यथा तथा विरेजुः। प्रागेव इन्द्रनीलयोगात्पूर्वमेव। केवला अपीत्यर्थः। मुक्ता मणयो नयनाभिरामाः। उन्मयूखमिन्द्रनीलं प्राप्य किमुत> अभिरामा इति किमु वक्तव्यमित्यर्थः ॥ 69 ॥
विश्वास-प्रस्तुतिः
वर्णोदकैः काञ्चनशृङ्गमुक्तैस्तमायताक्ष्यः प्रणयादसिञ्चन् ।
तथागतः सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः ॥ ७०॥
मूलम्
वर्णोदकैः काञ्चनशृङ्गमुक्तैस्तमायताक्ष्यः प्रणयादसिञ्चन् ।
तथागतः सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः ॥ ७०॥
मल्लिनाथः ...{Loading}...
वर्णोदकैरिति॥ तं कुशम्। आयताक्ष्यः काञ्चनस्य शृङ्गैर्मुक्तानि तैर्वर्णोदकैः कुङ्कुमादिवर्णद्रव्यसहितोदकैः प्रणयात्स्नेहादसिञ्चन्। तथागतस्तथास्थितः। वर्णोदकसिक्त इत्यर्थः। स कुशः सधातुनिष्यन्दो गैरिकद्रव्ययुक्तोऽद्रिराज इव। अतितरां बभासेऽत्यर्थं चकासे ॥ 70 ॥
विश्वास-प्रस्तुतिः
तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् ।
आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥ ७१॥
मूलम्
तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् ।
आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥ ७१॥
मल्लिनाथः ...{Loading}...
तेनेति॥ अवरोधप्रमदासखेनान्तः पुरसुन्दरीसहचरेण तां सरिद्वरां सरयूं विगाहमानेन तेन कुशेन। आकाशगङ्गायां रतिः क्रीडा यस्य सोऽप्सरोभिर्वृत आवृतो मरुत्वानिन्द्रोऽनुयातलीलोऽनुकृतश्रीः। अभूदिति शेषः। इन्द्रमनुतवानित्यर्थः ॥ 71 ॥
विश्वास-प्रस्तुतिः
यत्कुम्भयोनेरधिगम्य रामः कुशाय राज्येन समं दिदेश ।
तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ॥ ७२॥
मूलम्
यत्कुम्भयोनेरधिगम्य रामः कुशाय राज्येन समं दिदेश ।
तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ॥ ७२॥
मल्लिनाथः ...{Loading}...
यदिति॥ यदाभरणं रामः कुम्भयोनेरगस्त्यादधिगम्य प्राप्य कुशाय राज्येन समं दिदेश ददौ। राज्यसममूल्यमित्यर्थः। सलिले विहर्तुः क्रीडितुरस्य कुशस्य तज्जैत्राभरणं जयशीलमाभरणमज्ञातपातं सत्। ममज्ज बुब्रोड ॥ 72 ॥
विश्वास-प्रस्तुतिः
स्नात्वा यथाकाममसौ सदारस्तीरोपकार्यां गतमात्र एव ।
दिव्येन शून्यं वलयेन बाहुमपोढनेपथ्यविधिर्ददर्श ॥ ७३॥
मूलम्
स्नात्वा यथाकाममसौ सदारस्तीरोपकार्यां गतमात्र एव ।
दिव्येन शून्यं वलयेन बाहुमपोढनेपथ्यविधिर्ददर्श ॥ ७३॥
मल्लिनाथः ...{Loading}...
स्नात्वेति॥ असौ कुशः सदारः सन् यथाकामं यथेच्छं स्नात्वा विगाह्य। ‘तीरे या उपकार्या पूर्वोक्ता तां गतमात्रो गगत एवापोढनेपथ्यविधिरकृतप्रसाधन एव दिव्येन वलयेन शून्यं बाहुं ददर्श ॥ 73 ॥
विश्वास-प्रस्तुतिः
जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्मात् ।
सेहेऽस्य न भ्रंशमतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः ॥ ७४॥
मूलम्
जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्मात् ।
सेहेऽस्य न भ्रंशमतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः ॥ ७४॥
मल्लिनाथः ...{Loading}...
जयेति॥ यतः कारणात्। तदाभरणंज यश्रियः संवननं वशीकरणम्। ‘वशक्रिया संवननम्’ इत्यमरः। यस्माञ्च गुरुणा पित्रा। आमुक्तपूर्वं पूर्वमामुक्तम्। धृतमित्यर्थः। सुप्सुपेति समासः। अतो हेतोरस्याभरणस्य भ्रंशं नाशं न सेहे। लोभान्न। कुतः? हि यस्माद्धीरो विद्वान्। स कुशस्तुल्यानि पुष्पाण्याभरणानि च यस्य सः। पुष्पेष्विवाभरणेषु धृतेषु निर्मिल्यबुद्धिं करोतीत्यर्थः ॥ 74 ॥
विश्वास-प्रस्तुतिः
ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् ।
वन्ध्यश्रमास्ते सरयूं विगाह्य तमूचुरम्लानमुखप्रसादाः ॥ ७५॥
मूलम्
ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् ।
वन्ध्यश्रमास्ते सरयूं विगाह्य तमूचुरम्लानमुखप्रसादाः ॥ ७५॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततः। नद्यां स्नान्ति कौशलेनेति नदीष्णाः। तान्। ‘सुपि-’(पा.3।2।4) इति योगविभागात्कप्रत्ययः। ‘निनदीभ्यां स्नातेः कौशले’(पा.8।3।89) इति षत्वम्। सर्वानानायिनो जालिकांस्तस्याभरणस्य विचयेऽन्वेषणे निमित्त आशु समाज्ञापयदादिदेश। त आनायिनः सरयूं विगाह्य विलोड्य चन्ध्यश्रमा विफलप्रयासास्तथापि तद्गतिं ज्ञात्वाऽम्लानमुखप्रसादाः सश्रीकमुखाः सन्तस्तं कुशमूचुः ॥ 75 ॥
विश्वास-प्रस्तुतिः
कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते ।
नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तर्ह्रदवासिना तत् ॥ ७६॥
मूलम्
कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते ।
नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तर्ह्रदवासिना तत् ॥ ७६॥
मल्लिनाथः ...{Loading}...
कृत इति॥ हे देव! प्रयत्नः कृतः। पयसि मग्नं त आभरणोत्तमं न च लब्धम्। किंतु तदाभरणमन्तर्ह्रदवासिना कुमुदाख्येन नागेन पन्नगेन लौल्याल्लोभादुपात्तं गृहीतम्। ‘नूनम्’ इति वितर्के ॥ 76 ॥
विश्वास-प्रस्तुतिः
ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः ।
गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रम् ॥ ७७॥
मूलम्
ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः ।
गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रम् ॥ ७७॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततो धनुर्धरः कोपविलोहिताक्षस्तरस्वी बलवान् स कुशस्तीरगतः सन् धनुराततज्यमधिज्यं कृत्वा भुजंगस्य कुमुदस्य नाशाय गारुत्मतं गरुत्मद्देवताकमस्त्रं समाददे ॥ 77 ॥
विश्वास-प्रस्तुतिः
तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरंगहस्तः ।
रोधांसि निघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास ॥ ७८॥
मूलम्
तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरंगहस्तः ।
रोधांसि निघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास ॥ ७८॥
मल्लिनाथः ...{Loading}...
तस्मिन्निति॥ तस्मिन्नस्त्रे संहितमात्रे सत्येव ह्रदः क्षोभाद्धेतोः समाविद्धाः संघट्टितास्तरंगा एव हस्ता यस्य स रोधांसि निघ्नन्पातयन्। अवपाते गजग्रहणगर्ते मग्नः पतितः। ‘अवपातस्तु हस्त्यर्थे गर्तश्छन्नस्तृणादिना’ इति यादवः। वन्यः करीव परुषं घोरं ररास दध्वान ॥ 78 ॥
विश्वास-प्रस्तुतिः
तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज ।
लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः ॥ ७९॥
मूलम्
तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज ।
लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः ॥ ७९॥
मल्लिनाथः ...{Loading}...
तस्मादिति॥ मथ्यमानात्समुद्रादिव। उद्वृत्तनक्रात्क्षुभितग्राहात्तस्माद्ध्रदात्। लक्ष्म्या सार्धं सुरराजस्येन्द्रस्य वृक्षः पारिजात इव। कन्यां पुरस्कृत्य भुजंगराजः कुमुदः सहसोन्ममज्ज ॥ 79 ॥
विश्वास-प्रस्तुतिः
विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशांपतिस्तम् ।
सौपर्णमस्त्रं प्रतिसंजहार प्रह्रेष्वनिर्बन्धरुषो हि सन्तः ॥ ८०॥
मूलम्
विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशांपतिस्तम् ।
सौपर्णमस्त्रं प्रतिसंजहार प्रह्रेष्वनिर्बन्धरुषो हि सन्तः ॥ ८०॥
मल्लिनाथः ...{Loading}...
विभूषणेति॥ विशांपतिर्मनुजपतिः कुशः। ‘द्वौ विशौ वैश्यमनुजौ’ इत्यमरः। विभूषणं प्रत्युपहरति प्रत्यर्पयतीति विभूषणप्रत्युपहारः। ‘कर्मण्यण्’ (पा.3।2।1) । विभूषणप्रत्युपहारो हृस्तो यस्य तम्। उपस्थितं प्राप्तं तं कुमुदं वीक्ष्य सौपर्णं गारुत्मतमस्त्रं प्रतिसंजहार। तथा हि-सन्तः प्रह्वेषु नम्रेष्वनिर्बन्धरुषोऽनियतकोपा हि ॥ 80 ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामङ्कुशमस्त्रविद्वान् ।
मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे ॥ ८१॥
मूलम्
त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामङ्कुशमस्त्रविद्वान् ।
मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे ॥ ८१॥
मल्लिनाथः ...{Loading}...
त्रैलोक्येति॥ अस्त्रं विद्वानस्त्रविद्वान्। ‘न लोक-’(पा.2।3।69) इत्यादिना षष्ठीसमासनिषेधः। ‘द्वितीया श्रिता-’(पा.2।1।24) इत्यत्र ‘गम्यादीनामुपसंख्यानाद्द्वितीया’(वा.1247) इति योगविभागाद्वा समासः। गारुडास्त्रमहिमाभिज्ञ इत्यर्थः। कुमुदः। त्रयो लोकास्त्रैलोक्यम्। चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः। त्रैलोक्यनाथो रामः प्रभवो जनको यस्य तम्। अत एव प्रभावाद्द्विषामङ्कुशं निवारकं मूर्धाभिषिक्तं राजानं कुशं मानोन्नतेनापि मूर्ध्नाऽभिवन्द्य प्रणम्य बभाषे ॥ 81 ॥
विश्वास-प्रस्तुतिः
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् ।
सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतेर्विघातम् ॥ ८२॥
मूलम्
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् ।
सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतेर्विघातम् ॥ ८२॥
मल्लिनाथः ...{Loading}...
अवैमीति॥ त्वाम्। ‘ओएदनान्तरस्तण्डुल’ इतिवत् कार्यान्तरः कार्यार्थः। ‘स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्येषु चान्तरम्’ इति शाश्वतः। स चासौ मानुषश्चेति तस्य विष्णो रामस्य सुताख्यां पुत्रसंज्ञामपरां तनुं मूर्तिमवैमि। ‘आत्मा वै पुत्रनामासि’(आश्व.ग-.1।15) इति श्रुतेरित्यर्थः। स जानन्नहमाराधनीयस्योपास्यस्य तव धृतेः प्रीतेः। ‘धृ प्रीतौ’ इति धातोः स्त्रियां क्तिन्। विघातं कथं नामाचरेयम्? असंभावितमित्यर्थः ॥ 82 ॥
विश्वास-प्रस्तुतिः
कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन ।
ह्रदात्पतज्ज्योतिरिवान्तरिक्षादादत्त जैत्राभरणं त्वदीयम् ॥ ८३॥
मूलम्
कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन ।
ह्रदात्पतज्ज्योतिरिवान्तरिक्षादादत्त जैत्राभरणं त्वदीयम् ॥ ८३॥
मल्लिनाथः ...{Loading}...
करेति॥ कराभिघातेनोत्थित ऊर्ध्वं गतः कन्दुको यस्याः सा। कन्दुकार्थमूर्ध्वं पश्यन्तीत्यर्थः। इयं बाला अन्तरिक्षाज्ज्योतिर्नक्षत्रमिव। ‘ज्योतिर्भद्योतदृष्टिषु’ इत्यमरः। ह्रदात्पतत्त्वदीयं जैत्राभरणमालोक्य। अतिकुतूहलेनात्यन्तकौतुकेन। आदत्तागृह्णात् ॥ 83 ॥
विश्वास-प्रस्तुतिः
तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन ।
भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥ ८४॥
मूलम्
तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन ।
भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥ ८४॥
मल्लिनाथः ...{Loading}...
तदिति॥ तदेतदाभरणमाजानुविलम्बिना दीर्घेण। ज्याघातेन या रेखा रेखाकारा ग्रन्थयस्तासां किणं चिह्नं तदेव लाञ्छनं यस्य तेन। भूमे रक्षायाः परिघेण रक्षार्गलेन। ‘परिघो योगभेदास्त्रमुद्गरेऽर्गलघातयोः’ इत्यमरः। अंसलेन बलवता ते भुजेन पुनर्योगं संगतिमुपैतु। एतैर्विशषणैर्महाभाग्यशौर्यधुरंधरत्वबलवत्त्वादि गम्यते ॥ 84 ॥
विश्वास-प्रस्तुतिः
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् ।
आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते ॥ ८५॥
मूलम्
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् ।
आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते ॥ ८५॥
मल्लिनाथः ...{Loading}...
इमामिति॥ किंच,हे पार्थिव! ते तव पादयोश्चिराय शुश्रूषया परिचर्यया। ‘शुश्रूषा श्रोतुमिच्छायां परिचर्याप्रदानयोः’ इति विश्वः। आत्मापराधमाभरणग्रहणरूपं नुदतीम्। परिजिहीर्षन्तीमित्यर्थः। ‘आशंसायां भूतवञ्च’(पा.3।3।132) इति चकाराद्वर्तमानार्थे शतृप्रत्ययः। ‘आच्छीनद्योर्नुप्’(पा.7।1।80) इत्यस्य वैकल्पिकत्वान्नुमभावः। इमां मे यवीयसीं कनिष्ठां स्वसारं भगिनीं कुमुद्वतीमनुमन्तुं नार्हसीति न। अर्हस्येवेत्यर्थः ॥ 85 ॥
विश्वास-प्रस्तुतिः
इत्यूचिवानुपहृताभरणः क्षितीशं
श्लाघ्यू भवान्स्वजन इत्यनुभाषितारम् ।
संयोजयां विधिवदास समेतबन्धुः
कन्यामयेन कुमुदः कुलभूषणेन ॥ ८६॥
मूलम्
इत्यूचिवानुपहृताभरणः क्षितीशं
श्लाघ्यू भवान्स्वजन इत्यनुभाषितारम् ।
संयोजयां विधिवदास समेतबन्धुः
कन्यामयेन कुमुदः कुलभूषणेन ॥ ८६॥
मल्लिनाथः ...{Loading}...
इतीति॥ इति पूर्वश्लोकोक्तम्। ऊचिवानुक्तवान्। ब्रुवः क्वसुः। उपहृताभरणः प्रत्यर्पिताभरणः कुमुदः। हे कुमुद! भवाञ्श्लाघ्यः स्वजनो बन्धुः। इत्यनुभाषितारमनुवक्तारं क्षितीशं कुशं समेतबन्धुर्युक्तबन्धुः सन् कन्यामयेन कन्यारूपेण कुलयोर्भूषणेन विधिवत्संयोजयामास। न केवलं तदीयमेव किंतु स्वकीयमपि भूषणं तस्मै दत्तवानिति ध्वनिः। आम्प्रत्ययानुप्रयोगयोर्व्यवधानं तु प्रागेव समाहितम् ॥ 86 ॥
विश्वास-प्रस्तुतिः
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते
माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य ।
दिव्यस्तूर्यध्वनिरुदचरद्व्यश्नुवानो दिगन्ता -
न्गन्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्यमेघाः ॥ ८७॥
मूलम्
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते
माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य ।
दिव्यस्तूर्यध्वनिरुदचरद्व्यश्नुवानो दिगन्ता -
न्गन्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्यमेघाः ॥ ८७॥
मल्लिनाथः ...{Loading}...
तस्या इति॥ मनुजपतिना कुशेन साहचर्याय। सहधर्माचरणायेत्यर्थः। माङ्गल्या मङ्गले साधुर्या ऊर्णा मेषादिलोम। ‘ऊर्णा मेषादिलोम्नि स्यात्’ इत्यमरः। अत्र लक्षणया तन्निर्मितं सूत्रमुच्यते। तया वलयिनि वलयवति तस्याः कुमुद्वत्या हस्ते पाणावुच्छिखस्योदर्चिषः पावकस्य पुरोऽग्रे स्पृष्टे गृहीते सति दिगन्तान् व्यश्नुवानो व्याप्नुवन्। दिव्यस्तूर्यध्वनिरुदचरदुत्थितः। तदन्वाश्चर्या अद्भुता मेघा गन्धेनोदग्रमुत्कटं पुष्पं पुष्पाणि। जात्यभिप्रायेणैकवचनम्। ववृषुः। ‘आश्चर्य’ शब्दस्य ‘रौद्रं तूग्रममी त्रिषु। चतुर्दश’ इत्यमरवचनात्त्रिलिङ्गत्वम् ॥ 87 ॥
विश्वास-प्रस्तुतिः
इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं
लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य ।
एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेया -
च्छान्तव्यालामवनिमपरः पौरकान्तः शशास ॥ ८८॥
मूलम्
इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं
लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य ।
एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेया -
च्छान्तव्यालामवनिमपरः पौरकान्तः शशास ॥ ८८॥
मल्लिनाथः ...{Loading}...
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ कुमुद्वतीपरिणयो नाम षोडशः सर्गः ।
इत्थमिति॥ इत्थं नागः कुमुदः। त्रयाणां भुवनानां समाहारस्त्रिभुवनम्। ‘तद्धितार्थ-’(पा.2।1।51) इत्यादिना तत्पुरुषः। अदन्तद्विगुत्वेऽपि पात्राद्यन्तत्वान्नपुंसकत्वम्। ‘पात्राद्यन्तैरनेकार्थो द्विगुर्लक्ष्यानुसारतः’ इत्यमरः। तस्य गुरूरामः। तस्यौरसं धर्मपत्नीजं पुत्रम्। ‘औरसो धर्मपत्नीजः’(2।128) इति याज्ञवल्क्यः। मैथिलेयं कुशं बन्धुं लब्ध्वा कुशोऽपि च तक्षकस्य पञ्चमं पुत्रं तं कुमुदं बन्धुं लब्ध्वा। एकस्तयोरन्यतरः कुमुदः पितृवधेन रिपौर्वैनतेयाद्गरुडात्। गुरुणा वैष्णवांशेन कुशेन त्याजितक्रौर्यादिति भावः। शङ्कां भयमत्यजत्। अपरः कुशः शान्तव्यालां कुमुदाज्ञया वीतसर्पभयामवनिमत एव पौरकान्तः पौरप्रियः सन्। शशास ॥ 88 ॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ कुमुद्वतीपरिणयो नाम षोडशः सर्गः ॥