विश्वास-प्रस्तुतिः
निर्दिष्टविषयस्नेहः स दशान्तमुपेयिवान् ।
आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि॥ १॥
मूलम्
निर्दिष्टविषयस्नेहः स दशान्तमुपेयिवान् ।
आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि॥ १॥
मल्लिनाथः ...{Loading}...
निर्विष्टेति॥ स्नेहयन्ति प्रीणयन्ति पुरुषमिति स्नेहाः। पचाद्यच्। स्निह्यन्ति पुरुषा येष्विति वा स्नेहाः। अधिकरणार्थे घञन्। विषयाः शब्दादयस्त एव स्नेहाः निर्विष्टा भुक्ता विषयस्नेहा येन स तथोक्तः। ‘निर्वेशो भृतिभोगयोः’इति विश्वः। दशा जीवनावस्था तस्या अन्तं वार्घकमुपेयिवान्। स दशरथः। उषसि प्रदीपार्चिरिव दीपज्वालेव। आसन्नं निर्वाणं मोक्षो यस्य स तथोक्त आसीत्। अर्चिःपक्षे तु- विषयो देश आश्रयः। भाजनमिति यावत्। ‘विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च’ इति विश्वः। ‘स्नेहस्तैलादिकरसे द्रवे स्यात्सौहृदेऽपि च’ इति विश्वः। दशा वर्तिका। ‘दशा वर्ताववस्थायाम्’ इति विश्वः। निर्वाणैविनाशः। ‘निर्वाणं निर्वृतौ मोक्षो विनाशे गजमज्जने’इति यादवः ॥ 1 ॥
विश्वास-प्रस्तुतिः
तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति ।
कैकेयीशङ्कयीवाह पलितच्छद्मना जरा॥ २॥
मूलम्
तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति ।
कैकेयीशङ्कयीवाह पलितच्छद्मना जरा॥ २॥
मल्लिनाथः ...{Loading}...
तमिति॥ जरा कैकेयीशङ्कयेव पलितस्य केशादिशौक्ल्यस्य छद्मना मिषेण। ‘पलितं जरसा शौक्ल्यं केशादौ’इत्यमरः। कर्णमूलं कर्णोपकण्ठमागत्य रामे श्रीराज्यलक्ष्मीर्न्यस्यतां निधीयतामिति तमाह। दशरथो ‘बृद्धोऽहम्’इति विचार्य रामस्य यौवराज्याभिषेकं चकाङ्क्षेत्यर्थः ॥ 2 ॥
विश्वास-प्रस्तुतिः
सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः ।
प्रत्येकं ह्रादयांचक्रे कुल्येनोद्यानपादपान्॥ ३॥
मूलम्
सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः ।
प्रत्येकं ह्रादयांचक्रे कुल्येनोद्यानपादपान्॥ ३॥
मल्लिनाथः ...{Loading}...
सेति॥ सा पौरकान्तस्य रामस्याभ्युदयश्रुतिरभिषेकवार्ता। कुल्या कृत्रिमा सरित्। ‘कुल्याऽल्पा कृत्रिमा सरित्’इत्यमरः। उद्यानपादपानिव। पौरान्प्रत्येकं ह्लादयांचक्रे ॥ 3 ॥
विश्वास-प्रस्तुतिः
तस्याभिषेकसंभारे कल्पितं क्रूरनिश्चया ।
दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः॥ ४॥
मूलम्
तस्याभिषेकसंभारे कल्पितं क्रूरनिश्चया ।
दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः॥ ४॥
मल्लिनाथः ...{Loading}...
तस्येति॥ क्रूरनिश्चया कैकेयी तस्य रामस्य कल्पितं संभृतमभिषेकस्य संभारमुपकरणं शोकोष्णैः पार्थिवाश्रुभिर्दूषयामास। स्वदुःखमूलेन राजशोकेन प्रतिबबन्धेत्यर्थः ॥ 4 ॥
विश्वास-प्रस्तुतिः
सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ ।
उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ॥ ५॥
मूलम्
सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ ।
उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ॥ ५॥
मल्लिनाथः ...{Loading}...
सेति॥ चण्ड्यतिकोपना। ‘चण्डस्त्वत्यन्तकोपनः’ इत्यमरः। सा किल भर्त्राऽऽश्वासिताऽनुनीता सती तेन भर्त्रा संश्रुतौ प्रतिज्ञातौ वरौ। इन्द्रेणसिक्ताऽभिवृष्टा भूर्बिले वल्मीकादौ मग्नावुरगाविव। उद्ववामोज्जगार ॥ 5 ॥
विश्वास-प्रस्तुतिः
तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः ।
द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम्॥ ६॥
मूलम्
तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः ।
द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम्॥ ६॥
मल्लिनाथः ...{Loading}...
तयोरिति॥ सा तयोर्वरयोर्मध्य एकेन वरेण रामं चतुर्दश समाः संवत्सरान्। अत्यन्तसंयोगे द्वितीया। प्राव्राजयत् प्रावासयत्। द्वितीयेन वरेण सुतस्य भरतस्य वैधव्यैकफलां स्ववैधव्यमात्रफलाम्। न तूपभोगफलामिति भावः। श्रियमैच्छदियेष ॥ 6 ॥
विश्वास-प्रस्तुतिः
पित्रा दत्तं रुदन्रामः प्राङ्महीं प्रत्यपद्यत ।
पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत्॥ ७॥
मूलम्
पित्रा दत्तं रुदन्रामः प्राङ्महीं प्रत्यपद्यत ।
पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत्॥ ७॥
मल्लिनाथः ...{Loading}...
पित्रेति॥ रामः। प्राक् पित्रा दत्तां महीं रुदन्प्रत्यपद्यताङ्गीचकार। स्वत्यागदुःखादिति भावः। पश्चाद्वनाय गच्छेत्येवंरूपां तदाज्ञां पित्राज्ञां मुदितोऽग्रहीत्। पित्राज्ञाकरणलाभादिति भावः ॥ 7 ॥
विश्वास-प्रस्तुतिः
दधतो मङ्गलक्षौमे वसानस्य च वल्कले ।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः॥ ८॥
मूलम्
दधतो मङ्गलक्षौमे वसानस्य च वल्कले ।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः॥ ८॥
मल्लिनाथः ...{Loading}...
दधत इति॥ मङ्गलक्षौमे दधतो वस्कले वसानस्याच्छादयतश्च तस्य रामस्य सममेकविधं मुखरागं मुखवर्णं जना विस्मिता ददृशुः। सुखदुःखयोरविकृत इति भावः ॥ 8 ॥
विश्वास-प्रस्तुतिः
स सीतालक्ष्मणसखः सत्याद्गुरुमलोपयन् ।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः॥ ९॥
मूलम्
स सीतालक्ष्मणसखः सत्याद्गुरुमलोपयन् ।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः॥ ९॥
मल्लिनाथः ...{Loading}...
स इति॥ स रामो गुरुं पितरं सत्याद्वरदानरूपात्। अलोपयन्नभ्रंशयन्। सीतालक्ष्मणयोः सखेति विग्रहः। ताभ्यां सहितः सन् दण्डकारण्यं विवेश। सतां मनः प्रत्येकं विवेश। पितृभक्त्या सर्वे सन्तः संतुष्टा इति भावः ॥ 9 ॥
विश्वास-प्रस्तुतिः
राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम् ।
शरीरत्यागमात्रेण शुद्धिलाभमन्यत॥ १०॥
मूलम्
राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम् ।
शरीरत्यागमात्रेण शुद्धिलाभमन्यत॥ १०॥
मल्लिनाथः ...{Loading}...
राजेति॥ तद्वियोगार्तः पुत्रवियोगदुःखितो राजिपि स्वकर्मणा मुनिपुत्रवधरूपेण जातः स्वकर्मजस्तं शापं पुत्रशोकजं मरणात्मकं स्मृत्वा शरीरत्यागमात्रेण देहत्यागेनैव शुद्धिलाभं प्रायश्चित्तम्। अमन्यत। मृत इत्यर्थः॥ 10 ॥
विश्वास-प्रस्तुतिः
विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषततां ययौ॥ ११॥
मूलम्
विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषततां ययौ॥ ११॥
मल्लिनाथः ...{Loading}...
विप्रोषितेति॥ विप्रोषिता गताः कुमारा यस्मिंस्तत्तथोक्तम्। अस्तमितो मृत ईश्वरो राजा यस्या तत्तथोक्तं तद्राज्यं रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां भोग्यवस्तुतां ययौ। ‘आमिषं भोग्यवस्तुनि’इति केशवः ॥ 11 ॥
विश्वास-प्रस्तुतिः
अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् ।
मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः॥ १२॥
मूलम्
अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् ।
मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः॥ १२॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथानाथाः प्रकृतयोऽमात्याः। ‘प्रकृतिः सहजे योनावमात्ये परमात्मनि’ इति विश्वः। मातृबन्धुषु निवासिनं भरतं स्तम्भिताश्रुभिः। पितृमरणगुप्त्यर्थमिति भावः। मौलैराप्तैः सचिवैः। आनाययामासुराममयां चक्रुः ॥ 12 ॥
विश्वास-प्रस्तुतिः
श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः ।
मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः॥ १३॥
मूलम्
श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः ।
मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः॥ १३॥
मल्लिनाथः ...{Loading}...
श्रुत्वेति॥ कैकेयीतनयो भरतः पितुस्तथाविधं स्वमातृमूलं मृत्युं मरणं श्रुत्वा स्वस्या मातुः केवलं मातुरेव पराङ्मुखो न। किंतु श्रियोऽपि पराङ्मुख आसीत् ॥ 13 ॥
विश्वास-प्रस्तुतिः
ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयैः ।
तस्य पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान्॥ १४॥
मूलम्
ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयैः ।
तस्य पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान्॥ १४॥
मल्लिनाथः ...{Loading}...
ससैन्य इति॥ ससैन्यो भरतो राममन्वगाञ्च। किं कुर्वन्? आश्रमालयैर्वनवासिभिर्दर्शितान् ‘एते रामनिवासाः’ इति कथितान् ससौमित्रेर्लक्ष्मणसहितस्य तस्य रामस्य वसतिद्रुमान्निवासवृक्षान्पश्यन्न्रुदश्रू रुदन् ॥ 14 ॥
विश्वास-प्रस्तुतिः
चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः ।
लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा॥ १५॥
मूलम्
चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः ।
लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा॥ १५॥
मल्लिनाथः ...{Loading}...
चित्रेति॥ चित्रकूटवनस्थं तं रामं च गुरोः पितुः कथितस्वर्गतिः। कथितपितृमरणः सन्नित्यर्थः। अनुच्छिष्टाऽननुभूतशिष्टा संपद्गुणोत्कर्षो यस्याः सा। ‘संपद्भूतौ गुणोत्कर्षे’इति केशवः। तया लक्ष्म्या करणेन निमन्त्रयांचक्रे आहूतवान् ॥ 15 ॥
विश्वास-प्रस्तुतिः
स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे ।
परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः॥ १६॥
मूलम्
स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे ।
परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः॥ १६॥
मल्लिनाथः ...{Loading}...
स हीति॥ स हि भरतः प्रथमजेऽग्रजे तस्मिन् रामेऽकृतश्रीपरिग्रहे सति स्वयं भुवः स्वीकरणादात्मानं परिवेत्तारं मेने। ‘परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्’ इत्यमरः। भूपरिग्रहोऽपि दारपरिग्रहसम इति भावः ॥ 16 ॥
विश्वास-प्रस्तुतिः
तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः ।
ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते॥ १७॥
मूलम्
तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः ।
ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते॥ १७॥
मल्लिनाथः ...{Loading}...
तमिति॥ स्वर्गिणः पितुर्निदेशादपाक्रष्टुं निवर्तयितुमशक्यं तं रामं पश्चाद्राज्याधिदेवते स्वामिन्यौ कर्तुं पादुके ययाचे याचितवान् ॥ 17 ॥
विश्वास-प्रस्तुतिः
स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् ।
नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक्॥ १८॥
मूलम्
स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् ।
नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक्॥ १८॥
मल्लिनाथः ...{Loading}...
स इति॥ स भरतो भ्रात्रा रामेण तथेत्युक्त्वा विसृष्टः सन् पुरीमयोध्यां नाविशदेव। किंतु नन्दिग्रामगतः सन्। तस्य रामस्य राज्यं न्यासमिव निक्षेपमिव। अभुनगपालयत्। न तूपभुक्तवानित्यर्थः। अन्यथा ‘भुजोऽनवने’ (पा.1।3।63) इत्यात्मनेपदप्रसङ्गात्। भुजेर्लङ् ॥ 18 ॥
विश्वास-प्रस्तुतिः
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत्॥ १९॥
मूलम्
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत्॥ १९॥
मल्लिनाथः ...{Loading}...
दृढेति॥ ज्येष्ठे दृढभक्ती राज्यतृष्णापराङ्मुखो भरत इति पूर्वोक्तानुष्ठानेन मातुः पापस्य प्रायश्चित्तं तदपनोदकं कर्म। अकरोदिव। इत्युत्प्रेक्षा। ‘दृढभक्तिः’इत्यत्र ‘दृढ’शब्दस्य ‘स्त्रियाः पुंवत्-’(पा.6।3।34)इत्यादिना पुंवद्भावो दुर्घटः। ‘अप्रियादिषु’इति निषेधात्। ‘भक्ति’शब्दस्य प्रियादिषु पाठात्। अतो दृढं भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिरिति गणव्याख्याने दृढभक्तिरित्येवमादिषु पूर्वपदस्य नपुंसकस्य विवक्षितत्वात्सिद्धमिति समाधेयम्। वृत्तिकारश्च-दीर्घनिवृत्तिमात्रपरो ‘दृढभक्ति’शब्दो लिङ्गविशेषस्यानुपकारत्वात्स्त्रीत्वमविवक्षितमेव। तस्मादस्त्रीलिङ्गत्वाद्दृढभक्तिशब्दस्यायं प्रयोग इत्यभिप्रायः। न्यासकारोऽप्येवम्। भोजराजस्तु-‘कर्मसाधनस्यैव भक्तिशब्दस्य प्रियादिपाठाद्भवानीभक्तिरित्यादौ कर्मसाधनत्वात्पुंवद्भावप्रतिषेधः। दृढभक्तिरित्यादौ भावसाधनत्वात्पुंवद्भावसिद्धिः पूर्वपदस्य’इत्याह ॥ 19 ॥
विश्वास-प्रस्तुतिः
रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् ।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा॥ २०॥
मूलम्
रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् ।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा॥ २०॥
मल्लिनाथः ...{Loading}...
राम इति॥ सानुजः शान्तो रामोऽपि वैदेह्या सह वने वन्येन वनभवेन कन्दमूलादिना वर्तयन् वृत्तिं कुर्वञ्जीवन् वृद्धेक्ष्वाकूणां व्रतं वनवासात्मकं युवा यौवनस्थ एव चचार ॥ 20 ॥
विश्वास-प्रस्तुतिः
प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् ।
कदाचिदङ्के सीतायाः शिश्ये किंचिदिव श्रमात्॥ २१॥
मूलम्
प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् ।
कदाचिदङ्के सीतायाः शिश्ये किंचिदिव श्रमात्॥ २१॥
मल्लिनाथः ...{Loading}...
प्रभावेति॥ स रामः कदाचित् प्रभावेण स्वमहिम्ना स्तम्भिता स्थिरीकृता छाया यस्य तं वनस्पतिमाश्रितः सन्। किंचिदीषच्छ्रमादिव सीताया अङ्के शिश्ये सुष्वाप ॥ 21 ॥
विश्वास-प्रस्तुतिः
ऐन्द्रः किल नखैस्तस्या विददार स्तनौ द्विजः ।
प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन्॥ २२॥
मूलम्
ऐन्द्रः किल नखैस्तस्या विददार स्तनौ द्विजः ।
प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन्॥ २२॥
मल्लिनाथः ...{Loading}...
ऐन्द्रिरिति॥ ऐन्द्रिरिन्द्रस्य पुत्रो द्विजः पक्षी काकस्तस्याः सीताया स्तनौ। प्रियस्य रामस्योपभोगचिह्नेषु। तत्कृतनखक्षतेष्वित्यर्थः। पुरोभागिनो दोषैकदर्शिनः कर्म पौरोभाग्यम्। ‘दोषैकदृक्पुरोभागी’इत्यमरः। दुःश्लिष्टदोषघातमाचरन्कुर्वन्निव। नखैर्विददार विलिलेख। ‘किल’इत्यैतिह्ये ॥ 22 ॥
विश्वास-प्रस्तुतिः
तस्मिन्नस्थदिषीकास्त्रं रामो रामावबोधितः ।
आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः॥ २३॥
मूलम्
तस्मिन्नस्थदिषीकास्त्रं रामो रामावबोधितः ।
आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः॥ २३॥
मल्लिनाथः ...{Loading}...
तस्मिन्निति॥ रामस्य सीतयाऽवबोधितो रामस्तस्मिन् काक इषीकास्त्रं काशास्त्रम्। ‘इषीका काशमुच्यते’इति हलायुधः। आस्थदस्यति स्म। ‘असु क्षेपणे’ इति धातोर्लुङ्। ‘अस्यतिवक्तिख्यातिभ्योऽङ्’(पा.3।1।52) इत्यङ्प्रत्ययः। ‘अस्यतेस्थुक्’(पा.7।4।17)इति थुगागमः। स काक एकनेत्रस्य व्ययेन दानेन तस्मादस्त्रादात्मानं मुमुचे मुक्तवान्। मुचेः कर्तरि लिङ्। ‘धेनुं मुमोचज’(2।1)इतिक्प्रयोगः ॥ 23 ॥
विश्वास-प्रस्तुतिः
रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः ।
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ॥ २४॥
मूलम्
रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः ।
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ॥ २४॥
मल्लिनाथः ...{Loading}...
राम इति॥ रामस्त्वासन्नदेशत्वाद्धेतोः पुनर्भरतागमनमाशङ्क्योत्सुकसारङ्गामुत्कण्ठितहरिणां चित्रकूटस्थलीं जहौ तत्याज। आसन्नश्चासौ देशश्चेति विग्रहः ॥ 24 ॥
विश्वास-प्रस्तुतिः
प्रययावातिथेयेषु वसन्नृषिकुलेषु सः ।
दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः॥ २५॥
मूलम्
प्रययावातिथेयेषु वसन्नृषिकुलेषु सः ।
दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः॥ २५॥
मल्लिनाथः ...{Loading}...
प्रययाविति॥ सः रामः। अतिथिषु साधूनि आतिथेयानि। ‘पथ्यतिथिवसतिस्वपतेर्ढञ्’(पा.4।4।104)इति ढञ्प्रत्ययः। तेषु। ऋषिकुलेष्वृष्याश्रमेषु। ‘कुलं कुल्ये गणे देहे गेहे जनपदेऽन्वये’इति हैमः। वर्षासु भवानि वार्षिकाणि। ‘वर्षाभ्यष्ठक्’(पा.4।3।18)इति ठक्प्रत्ययः। तेषु। ऋक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव वसन् दक्षिणां दिशं प्रययौ ॥ 25 ॥
विश्वास-प्रस्तुतिः
बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता ।
प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी॥ २६॥
मूलम्
बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता ।
प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी॥ २६॥
मल्लिनाथः ...{Loading}...
बभाविति॥ तं राममनुगच्छन्ती विदेहाधिपतेः सुता सीता कैकेय्या प्रतिषिद्धा निवारिताऽपि गुणोन्मुखी गुणोत्सुका लक्ष्मी राजलक्ष्मीरिव बभौ॥ 26 ॥
विश्वास-प्रस्तुतिः
अनसूयातिसृष्टेन पुण्यगन्धेन काननम् ।
सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम्॥ २७॥
मूलम्
अनसूयातिसृष्टेन पुण्यगन्धेन काननम् ।
सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम्॥ २७॥
मल्लिनाथः ...{Loading}...
अनसूयेति॥ सा सीताऽनसूययाऽत्रिभार्यया। अतिसृष्टेन दत्तेन पुण्यगन्धेनाङअगरागेण काननं वनं पुष्पेभ्य उञअचलिता निर्गताः षट्पदा यस्मिंस्तत्तथाभूतं चकार ॥ 27 ॥
विश्वास-प्रस्तुतिः
संध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः ।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः॥ २८॥
मूलम्
संध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः ।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः॥ २८॥
मल्लिनाथः ...{Loading}...
संध्येति॥ संध्याभ्रकपिशो विराधो नाम राक्षसः। ग्रहो राहुरिन्दोरिव। तस्य रामस्य मार्गमध्वानमावृत्यावरुध्यातिष्ठत् ॥ 28 ॥
विश्वास-प्रस्तुतिः
स जहार तयोर्मध्ये मैथिलीं लोकशोषणः ।
नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे॥ २९॥
मूलम्
स जहार तयोर्मध्ये मैथिलीं लोकशोषणः ।
नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे॥ २९॥
मल्लिनाथः ...{Loading}...
स इति॥ लोकस्य शोषणः शोषकः स राक्षसस्तयो रामलक्ष्मणमयोर्मध्ये मैधिलीम्। नभो-नभस्ययोः श्रावण-भाद्रपदयोरन्तरे मधअये वृष्टिमवग्रहो वर्षप्रतिबंध इव। जहार। ‘वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ’ इत्यमरः॥ 29 ॥
विश्वास-प्रस्तुतिः
तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् ।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः॥ ३०॥
मूलम्
तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् ।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः॥ ३०॥
मल्लिनाथः ...{Loading}...
तमिति॥ ककुत्स्थस्य गोत्रापत्ये पुमांसौ काकुत्स्थौ रामलक्ष्मणौ तं विराधं विनिष्पिष्य हत्वा। अशुचिनाऽपवित्रेण गन्धेन स्थलीमाश्रमभुवं पुरा दूषयति दूषयिष्यतीति हेतोः। ‘यावत्पुरानिपातवोर्लट्’(पा.3।3।4) इति भविष्यदर्थे लट्। वसुधायां निचख्नतुर्भूमौ खनित्वा निक्षिप्तवन्तौ च ॥ 30 ॥
विश्वास-प्रस्तुतिः
पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः ।
अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव॥ ३१॥
मूलम्
पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः ।
अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव॥ ३१॥
मल्लिनाथः ...{Loading}...
पञ्चवट्यामिति॥ ततो रामः कुम्भजन्मनोऽगस्त्यस्य शासनात्। पञ्चानां वटानां समाहारः पञ्चवटी। ‘तद्धितार्थ-’(पा.2।1।51)इति तत्पुरुषः । ‘संख्यापूर्वो द्विगोः’(पा.2।1।22)इति द्विगुसंज्ञायाम् ‘द्विगोः’(पा.4।1।21)इति ङीप्। ‘द्विगुरेकवचनम्’(पा.2।4।1)इत्येकवचनम्। तस्यां पञ्चवट्याम्। विन्ध्याद्रिः प्रकृतौ वृद्धेः पूर्वावस्थायामिव। अनपोढस्थितिरनतिक्रान्तमर्यादस्तस्थौ ॥ 31 ॥
विश्वास-प्रस्तुतिः
रावणावरजा तत्र राघवं मदनातुरा ।
अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम्॥ ३२॥
मूलम्
रावणावरजा तत्र राघवं मदनातुरा ।
अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम्॥ ३२॥
मल्लिनाथः ...{Loading}...
रावणावरजेति॥ तत्र पञ्चवट्यां मदनातुरा रावणावरजा शूर्पणखा। ‘पूर्वपदात्संज्ञायामगः’(पा.8।4।3)इति णत्वम्। राघवम्। निदाघार्ता घर्मतप्ता व्याकुला व्याली भुजंगी मलयद्रुमं चन्दनद्रुममिव। अभिपेदे प्राप ॥ 32 ॥
विश्वास-प्रस्तुतिः
सा सीतासंनिधावेव तं वव्रे कथितान्वया ।
अत्यारूढो हि नारीणामकालज्ञो मनोभवः॥ ३३॥
मूलम्
सा सीतासंनिधावेव तं वव्रे कथितान्वया ।
अत्यारूढो हि नारीणामकालज्ञो मनोभवः॥ ३३॥
मल्लिनाथः ...{Loading}...
सेति॥ सा शूर्पणखा सीतासंनिधावेव कथितान्वया कथितस्ववंशा सती तं रामं वव्रे वृतवती। तथा हि-अत्यारूढोऽतिप्रवृद्धो नारीणां मनोभवः कामः कालज्ञोऽवसरज्ञो न भवतीत्यकालज्ञो हि ॥ 33 ॥
विश्वास-प्रस्तुतिः
कलत्रवानहं बाले कनीयांसं भजस्व मे।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम्॥ ३४॥
मूलम्
कलत्रवानहं बाले कनीयांसं भजस्व मे।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम्॥ ३४॥
मल्लिनाथः ...{Loading}...
कलत्रवानिति॥ वृषः पुमान्। ‘वृषः स्याद्वासवे धर्मे सौरभेये च शुक्रले। पुंराशिमेदयोः शृङ्ग्यां मूषकश्रेष्ठयोरपि॥’ इति विश्वः। वृषं पुरुषमात्मार्थमिच्छतीति वृषस्यन्ती कामुकी। ‘वृषस्यन्ती तु कामुकी’इत्यमरः। ‘सुप आत्मनः क्यच्’(पा.3।1।8)इति क्यच्प्रत्ययः। अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि(पा.7।1।51)इत्यसुगागमः। ततो लटः शत्रादेशः। ‘उगितशअच’(पा.4।1।6)इति ङीप्। श्लोकार्थस्तु-वृषस्कन्धो रामो वृषस्तन्तीं तां राक्षसीम् ‘हे बाले! अहं कलत्रवान्,मे कनीयांसं कनिष्ठं भजस्व’इति शशासाः ज्ञापितवान् ॥ 34 ॥
विश्वास-प्रस्तुतिः
ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिताम् ।
साऽभूद्रामाश्रया भूयो नदीवोभयकूलभाक्॥ ३५॥
मूलम्
ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिताम् ।
साऽभूद्रामाश्रया भूयो नदीवोभयकूलभाक्॥ ३५॥
मल्लिनाथः ...{Loading}...
ज्येष्ठेति॥ पूर्वं ज्येष्ठाभिगमनात्तेन लक्ष्मणेनाष्यनभिनन्दिता नाङअगीकृता भूयो रामाश्रया सा राक्षसी। उभे कूले भजतीत्युभयकूलभाक् नदीवाभूत् सा हि यातायाताभ्यां पर्यायेण कूलद्वयगामिनी नदीसदृश्यभूदित्यर्थः ॥ 35 ॥
विश्वास-प्रस्तुतिः
संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम् ।
निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः॥ ३६॥
मूलम्
संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम् ।
निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः॥ ३६॥
मल्लिनाथः ...{Loading}...
संरम्भमिति॥ मैथिलीहासः क्षणं सौम्यां सौम्याकारां तां राक्षसीम्। निवातेन स्तिमितां निश्चलामुदधेर्वेलामम्बुविकृतिम्। अम्बुपूरमित्र्थः। ‘अब्ध्यम्बुविकृतौ वेला’इत्यमरः। चन्द्रोदय इव। संरम्भं संक्षोभं निनाय ॥ 36 ॥
विश्वास-प्रस्तुतिः
फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
मृग्याः परिभवो व्याघ्र्यामित्यवेहि त्वया कृतम्॥ ३७॥
मूलम्
फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
मृग्याः परिभवो व्याघ्र्यामित्यवेहि त्वया कृतम्॥ ३७॥
मल्लिनाथः ...{Loading}...
फलमिति॥ श्लोकद्वयेनान्वयः। अस्योपहासस्य फलं सद्यः संप्रत्येव प्राप्स्यसि। मां पश्य । त्वया कर्त्र्या कृतमुपहासरूपं करणं व्याघ्र्यां विषये मृग्याः कर्त्रअयाः परिभव इत्यवेहि ॥ 37 ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशतीं भयात् ।
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत॥ ३८॥
मूलम्
इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशतीं भयात् ।
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत॥ ३८॥
मल्लिनाथः ...{Loading}...
इतीति॥ भयाद्भर्तुरङ्के निविशंतीमालिङ्गन्तीं मैथिलीमित्युक्त्वा शूर्पणखा नाम्नः सदृशम्। शूर्पाकारनखयुक्तमित्यर्थः। रूपमाकारं प्रत्यपद्यत स्वीचकार। अदर्शयदित्यर्थः॥ 38 ॥
विश्वास-प्रस्तुतिः
लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।
शिवाघोरस्वनां पश्चाद्बुबुधे विकृतेति ताम्॥ ३९॥
मूलम्
लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।
शिवाघोरस्वनां पश्चाद्बुबुधे विकृतेति ताम्॥ ३९॥
मल्लिनाथः ...{Loading}...
लक्ष्मण इति॥ लक्ष्मणः प्रथमं कोकिलावन्मञ्जुवादिनीं पश्चाच्छिवावद्धोरस्वनां तां शूर्पणखां श्रुत्वा। तस्याः स्वनं श्रुत्वेत्यर्थः। ‘सुस्वनः शङ्खः श्रूयते’इतिवत्प्रत्योगः। विकृता मायाविनीति बुबुधे बुद्धवान्। कर्तरि लिट्॥ 39 ॥
विश्वास-प्रस्तुतिः
पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः ।
वैरूप्यपौनरुक्त्येन भीषणां तामयोजयत्॥ ४०॥
मूलम्
पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः ।
वैरूप्यपौनरुक्त्येन भीषणां तामयोजयत्॥ ४०॥
मल्लिनाथः ...{Loading}...
पर्णशालामिति॥ अथ स लक्ष्मणो विकृष्टासिः कोशोद्धृतखङ्गः सन् क्षिप्रं पर्णशालां प्रविश्य। भीषयतीति भीषणाम्। नन्द्यादित्वाल्लयुट् कर्तरि। तां राक्षसीं वैरूप्यस्य पौनरुक्त्यं द्वैगुण्यं लक्षणया। तेन। अयोजयद्योजितवान्,स्वभावत एव विकृतां तां कर्णादिच्छेदेन पुनरतिविकृतामकरोदित्यर्थः ॥ 40 ॥
विश्वास-प्रस्तुतिः
सा वक्रनखधारिण्या वेणुकर्कशपर्वया ।
अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे॥ ४१॥
मूलम्
सा वक्रनखधारिण्या वेणुकर्कशपर्वया ।
अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे॥ ४१॥
मल्लिनाथः ...{Loading}...
सेति॥ सा वक्रनखं धारयतीति वक्रनखधारिणी तया वेणुवत्कर्कशपर्वया। अत एवाङ्कुशस्याकार इवाकारो यस्याः सा तया अङ्गुल्या तौ राघवावम्बरे व्योम्नो स्थिता। ‘अम्बुरं व्योम्नि वाससि’इत्यमरः। अतर्जयदभर्त्सयत्। ‘तर्ज भर्त्सने’ इति धातोश्चौरादिकादनुदात्तेत्त्वादात्मनेपदेन भाव्यम्। तथापि चक्षिङो ङइत्करणाञ्ज्ञापकादानुदात्तेत्त्वनिमित्तस्यानित्यत्वात्परस्मैपदमूह्यृमित्युक्तमाख्यातचन्द्रिकायाम्-‘तर्जयते भर्त्सयते तर्जयतीत्यपि च दृश्यते कविषु’इति ॥ 41 ॥
विश्वास-प्रस्तुतिः
प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम् ।
रामोपक्रममाचख्यौ रक्षःपरिभवं नवम्॥ ४२॥
मूलम्
प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम् ।
रामोपक्रममाचख्यौ रक्षःपरिभवं नवम्॥ ४२॥
मल्लिनाथः ...{Loading}...
प्राप्येति॥ साशु जनस्थानं प्राप्य खरादिभ्यो राक्षसेभ्यस्तथाविधं स्वाङअगच्छेदात्मकम्। उपक्रम्यत इत्युपक्रमः। कर्मणि घञ्प्रत्ययः। रामस्य कर्तुरुपक्रमः रामोपक्रमम्। रामेणादावुपक्रान्तमित्यर्थः। ‘उपज्ञोपक्रमं तदाद्याचिख्यासायाम्’(पा.2।4।21)इति क्लीबत्वम्। तन्नवं रक्षसां कर्मभूतानां परिभवमाचख्यौ च ॥ 42 ॥
विश्वास-प्रस्तुतिः
मुखावयवलूनां तां नैरृता यत्पुरो दधुः ।
रामाभियायिनां तेषां तदेवाभूदमङ्गलम्॥ ४३॥
मूलम्
मुखावयवलूनां तां नैरृता यत्पुरो दधुः ।
रामाभियायिनां तेषां तदेवाभूदमङ्गलम्॥ ४३॥
मल्लिनाथः ...{Loading}...
मुखेति॥ नैर्ऋता राक्षसाः। ‘नैर्ऋतो यातुरक्षसी’ इत्यमरः। मुखावयवेषु कर्णादिषु लूनां छिन्नां तां पुरो दधुरग्रे चक्रुरिति यत्तदेव रामाभियायिनां राममभिद्रवतां तेषाममङ्गलमभूत् ॥ 43 ॥
विश्वास-प्रस्तुतिः
उदायुधानात्पततस्तान्दृप्तान्प्रेक्ष्य राघवः ।
निदधे विजयाशंसां चापे सीतां च लक्ष्मणे॥ ४४॥
मूलम्
उदायुधानात्पततस्तान्दृप्तान्प्रेक्ष्य राघवः ।
निदधे विजयाशंसां चापे सीतां च लक्ष्मणे॥ ४४॥
मल्लिनाथः ...{Loading}...
उदिति॥ उदायुधानुद्यतायुधानापतत आगच्छतो दृप्तांस्तान्खरादीन्प्रेक्ष्य राघवश्चापे विजयस्याशंसामाशां लक्ष्मणे सीतां च निदधे। सीतारक्षणे लक्ष्मणं नियुज्य स्वयं युद्धाय संनद्ध इति भावः ॥ 44 ॥
विश्वास-प्रस्तुतिः
एको दाशरथिः कामं यातुधानाः सहस्रशः ।
ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः॥ ४५॥
मूलम्
एको दाशरथिः कामं यातुधानाः सहस्रशः ।
ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः॥ ४५॥
मल्लिनाथः ...{Loading}...
एक इति॥ दाशरथी राम एकोऽद्वितीयः। यातुधानाः कामं सहस्रशः। सन्तीति शेषः। तैर्यातुधानैस्तु स राम आजौ ते यातुधाना यावन्तो वावत्संख्याका एव तावांस्तावत्संख्याकश्च ददृशे ॥ 45 ॥
विश्वास-प्रस्तुतिः
असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् ।
न चक्षमे शुभाचारः स दूषणमिवात्मनः॥ ४६॥
मूलम्
असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् ।
न चक्षमे शुभाचारः स दूषणमिवात्मनः॥ ४६॥
मल्लिनाथः ...{Loading}...
असदिति॥ अथ शुभाचारो रणे साधुचारि सद्वृत्तश्च स काकुत्स्थोऽसज्जनेन दुर्जनेन रक्षोजनेन च प्रयुक्तं प्रेषितमुञ्चारितं च दूषणं दूषणाख्यं राक्षसमात्मनो दूषणं दोषमिव न चक्षमे न सेहे। प्रतिकर्तुं प्रवृत्त इत्यर्थः॥ 46 ॥
विश्वास-प्रस्तुतिः
तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः ।
क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः॥ ४७॥
मूलम्
तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः ।
क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः॥ ४७॥
मल्लिनाथः ...{Loading}...
तमिति॥ स रामस्तं दूषणं खरत्रिशिरसौ च शरैः प्रतिजग्राह। प्रतिजहारेत्यर्थः। क्रमशो यथाक्रमम्। प्रयुक्ता अपीति शेषः। तस्य ते शराः पुनश्चापात्समं युगपदिवोद्ययुः। अतिलघुहस्त इति भावः ॥ 47 ॥
विश्वास-प्रस्तुतिः
तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः ।
आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः॥ ४८॥
मूलम्
तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः ।
आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः॥ ४८॥
मल्लिनाथः ...{Loading}...
तैरिति॥ देहमतीत्य भित्त्वा गच्छन्तीति देहातिगाः। तैर्यथास्थिता पूर्वशुद्धिर्येषां तैः। अतिवेगत्वेन देहभेदात्प्रागिव रुधिरलेपरहितैरित्यर्थः। शितैस्तीक्ष्णैस्तैर्बाणैस्त्रयाणां खरादीनामायुः पीतम्। रुधिरं तु पतत्रिभिः पीतम् ॥ 48 ॥
विश्वास-प्रस्तुतिः
तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् ।
उत्थितं ददृशेऽन्न्यच्च कबन्धेभ्यो न किंचन॥ ४९॥
मूलम्
तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् ।
उत्थितं ददृशेऽन्न्यच्च कबन्धेभ्यो न किंचन॥ ४९॥
मल्लिनाथः ...{Loading}...
तस्मिन्निति॥ तस्मिन्रामशरैरुत्कृत्ते छिन्ने महति रक्षसां बल उत्थितमुत्थानक्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः। ‘कबन्धोऽस्त्रीक्रियायुक्तमपमूर्धकलेवरम्’इत्यमरः। अन्यञअचान्यत्किंचन न ददृशे। ‘कबन्धेभअय’इत्यत्र ‘अन्यारात्-’(पा.2।3।29)इति पञ्चमी। निःशेषं हतमित्यर्थः॥ 49 ॥
विश्वास-प्रस्तुतिः
सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी॥ ५०॥
मूलम्
सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी॥ ५०॥
मल्लिनाथः ...{Loading}...
सेति॥ सा सुरद्विषां वरूथिनी सेना बाणवर्षिणं रामं योधयित्वा युद्धं कारयित्वा गृध्राणां छाया गृध्रच्छायम्। ‘छाया बाहुल्ये’(पा.2।4।22) इति क्लीबत्वम्। तस्मिन्। अप्रबोधायापुनर्बोधाय सुष्वाप। ममारेत्यर्थः। अत्र सुरतश्रान्तकान्तासमाधिर्धअवन्यते ॥ 50 ॥
विश्वास-प्रस्तुतिः
राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत्॥ ५१॥
मूलम्
राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत्॥ ५१॥
मल्लिनाथः ...{Loading}...
राघवेति॥ एका शूर्पवन्नखानि यस्याः सा शूर्पणखा। ‘पूर्वपदात्संज्ञायाम्-’(पा.8।4।3)इति णत्वम्। ‘नखमुखात्संज्ञायाम्’इति ङीप्प्रतिषेधः। सैव रावणं प्रति राघवास्त्रैर्विदीर्णानां हतानां तेषां रक्षसां खरीदीनां दुष्प्रवृत्तिं वार्तां हरति प्रापयतीति दुष्प्रवृत्तिहराऽभवत्। ‘हरतेरनुद्यमनेऽच्’(पा.3।2।9)इत्यच्प्रत्ययः ॥ 51 ॥
विश्वास-प्रस्तुतिः
निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः ।
रामेण निहितं मेने पदं दशसु मूर्धसु॥ ५२॥
मूलम्
निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः ।
रामेण निहितं मेने पदं दशसु मूर्धसु॥ ५२॥
मल्लिनाथः ...{Loading}...
निग्रहादिति॥ स्वसुः शूर्पणखाया निग्रहादङ्गच्छेदादाप्तानां बन्धूनां खरादीनां वछाञ्च कारणाद्धनदानुजो रावणो रामेण दशसु मूर्धसु पदं पादं निहितं मेने ॥ 52 ॥
विश्वास-प्रस्तुतिः
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः॥ ५३॥
मूलम्
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः॥ ५३॥
मल्लिनाथः ...{Loading}...
रक्षसेति॥ स रावणो मृगरूपेण रक्षसा मारीचेन राघवौ वञ्चयित्वा प्रतार्य पक्षीन्द्रस्य जटायुषः प्रयासेन युद्धरूपेण क्षणं विघ्नितः संजातविघ्नः सन् सीता जहार ॥ 53 ॥
विश्वास-प्रस्तुतिः
तौ सीतावेषिणौ गृध्रं लूनपक्षमपश्यताम् ।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः॥ ५४॥
मूलम्
तौ सीतावेषिणौ गृध्रं लूनपक्षमपश्यताम् ।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः॥ ५४॥
मल्लिनाथः ...{Loading}...
ताविति॥ सीतान्वेषिणौ तौ राघवौ लूनपक्षं रावणेन छिन्नपक्षं कण्ठवर्तिभिः प्राणैर्दशरथप्रीतेर्दशरथसख्यस्यानृणमृणैर्विमुक्तं गृध्रं जटायुषमपश्यतां दृष्टवन्तौ। दर्शर्लङि रूपम् ॥ 54 ॥
विश्वास-प्रस्तुतिः
स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् ।
आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः॥ ५५॥
मूलम्
स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् ।
आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः॥ ५५॥
मल्लिनाथः ...{Loading}...
स इति॥ स जटायू रावणहृतां मैथिलीं ताभ्यां रामलक्ष्मणाभ्याम्। ‘क्रियाग्रहणमपि कर्तव्यम्’इति संप्रदानत्वाञ्चतुर्थी। वचसा वाग्वृत्त्याचष्ट। आत्मनः सुमहत्कर्म युद्धरूपं व्रणैरावेद्य संस्थितो मृतः ॥ 55 ॥
विश्वास-प्रस्तुतिः
तयोस्तस्मिन्नवीभूतपितृव्यापतिशोकयोः ।
पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः॥ ५६॥
मूलम्
तयोस्तस्मिन्नवीभूतपितृव्यापतिशोकयोः ।
पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः॥ ५६॥
मल्लिनाथः ...{Loading}...
तयोरिति॥ व्यापत्तिर्मरणम्। नवीभूतः पितृव्यापत्तिशोको ययोस्तौ तयो राघवयोस्तस्मिन्गृध्रे पितरीवाग्निसंस्कारादग्निसंस्कारमारभ्य परा उत्तराः क्रिया ववृतिरेऽवर्तन्त। तस्य पितृवदौर्ध्वदेहिकं चक्रतुरित्यर्थः ॥ 56 ॥
विश्वास-प्रस्तुतिः
वधनिर्धूतशापस्य कबन्धस्योपदेशतः ।
मुमूर्च्छ सख्यं रामस्य समानव्यसने हरौ॥ ५७॥
मूलम्
वधनिर्धूतशापस्य कबन्धस्योपदेशतः ।
मुमूर्च्छ सख्यं रामस्य समानव्यसने हरौ॥ ५७॥
मल्लिनाथः ...{Loading}...
वधेति॥ वधेन रामकृतेन निर्धूतशापस्य देवभूयं गतस्य कबन्धस्य रक्षोविशेषस्योपदेशतो रामस्य समानव्यसने समानापदि। सखअयार्थिनीत्यर्थः। हरौ कपौ सुग्रीवे। ‘शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु’ इत्यमरः। सख्यं मुमूर्च्छ ववृधे ॥ 57 ॥
विश्वास-प्रस्तुतिः
स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते ।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्॥ ५८॥
मूलम्
स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते ।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्॥ ५८॥
मल्लिनाथः ...{Loading}...
स हत्वा वालिनं वीरः स रामो वालिनं सुग्रीवाग्रजं हत्वा चिरकाङ्क्षिते तत्पदे वालिस्थाने। धातोः स्थान आदेशमिव। आदेशभूतं धात्वन्तरमिवेत्यर्थः। सुग्रीवं संन्यवेशयत्स्थापितवान्। यथा ‘अस्तेर्भूः’इत्यस्तिधातोः स्थान आदेशो भूधातुरस्तिकार्यमशेषं समभिधत्ते तद्विदिति भावः। आदेशो नाम शब्दान्तरस्य स्थाने विधीयमानं शब्दान्तरमभिधीयते ॥ 58 ॥
विश्वास-प्रस्तुतिः
इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः ।
कपयश्चेरुरार्तस्य रामस्येव मनोरथाः॥ ५९॥
मूलम्
इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः ।
कपयश्चेरुरार्तस्य रामस्येव मनोरथाः॥ ५९॥
मल्लिनाथः ...{Loading}...
इतस्ततशअचेति॥ वैदेहीमन्वेष्टुं मार्गितुं भर्त्रा सुग्रीवेण चोदिताः प्रयुक्तः कपयो हनुमत्प्रमुखाः। आर्तस्य विरहातुरस्य रामस्य मनोरथाः कामा इव। इतस्ततशअचेरुर्नानादेशेषु बभ्रमुश्च ॥ 59 ॥
विश्वास-प्रस्तुतिः
प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात् ।
मारुतिः सागरं तीर्णः संसारमिव निर्ममः॥ ६०॥
मूलम्
प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात् ।
मारुतिः सागरं तीर्णः संसारमिव निर्ममः॥ ६०॥
मल्लिनाथः ...{Loading}...
प्रवृत्ताविति॥ संपातिमर्ना जटायुषो ज्यायान्भ्राता। तस्य दर्शनात्। तन्मुखादिति भावः। तस्यः सीतायाः प्रवृत्तौ वार्तायाम्। ‘वार्ता प्रवृत्तिर्वृत्तान्तः’ इत्यमरः। उपलब्धायां ज्ञातायां सत्याम्। मरुतस्यापत्यं पुमान् मारुतिर्हनुमान्। सागरम्। ममेत्येतदव्ययं ममतावाचि। तद्रहितो निर्ममो निःस्पृहः संसारमविद्याबन्धनमिव। तीर्णस्ततार। तरतेः कर्तरि क्तः ॥ 60 ॥
विश्वास-प्रस्तुतिः
दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता ।
जानकी विषवल्लीभिः परितेव महौषधिः॥ ६१॥
मूलम्
दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता ।
जानकी विषवल्लीभिः परितेव महौषधिः॥ ६१॥
मल्लिनाथः ...{Loading}...
दृष्टेति॥ लङ्कायां रावणराजधान्यां विचिन्वता मृगयमाणेन तेन मारुतिना राक्षसीभिर्वृता जानकी। विषवल्लीभिः परीता परिवृता महौषधिः संजीविनीलतेव। दृष्टा ॥ 61 ॥
विश्वास-प्रस्तुतिः
तस्यै भर्तुरभिज्ञानमङ्गुलीयं ददौ कपिः ।
प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः॥ ६२॥
मूलम्
तस्यै भर्तुरभिज्ञानमङ्गुलीयं ददौ कपिः ।
प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः॥ ६२॥
मल्लिनाथः ...{Loading}...
तस्या इति॥ कपिर्हनुमान् भर्तू रामस्य संबन्ध्यभिज्ञानं प्रत्यभिज्ञानसाधकमङ्गुलीयमूर्मकाम्। ‘अङ्गुलीयकमूर्मिका’इत्यमरः। ‘जिह्वामूलाङ्गुलेश्छः’(पा.4।3।62) इति छप्रत्ययः। तस्यै जानक्यै ददौ। किंविधमङ्गुलीयम्? अनुष्णैः शीतलैस्तस्या आनन्दाश्रुबिन्दुभिः प्रत्युद्गतमिव स्थितम्। भर्त्रभिज्ञानदर्शनादानन्दबाष्पो जात इत्यर्थः ॥ 62 ॥
विश्वास-प्रस्तुतिः
निर्वाप्य प्रियसंदेशैः सीतामक्षवधोद्धतः ।
स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः॥ ६३॥
मूलम्
निर्वाप्य प्रियसंदेशैः सीतामक्षवधोद्धतः ।
स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः॥ ६३॥
मल्लिनाथः ...{Loading}...
निर्वाप्येति॥ स कपिः। प्रियस्य रामस्य संदेशैर्वाचिकैः सीतां निर्वाप्य सुखयित्वा। अक्षस्य रावणकुमारस्य वधेनोद्धतो दृप्तः सन्। क्षणं सोढोऽरेरिन्द्रजितः कर्तुः निग्रहो बाधो ब्रह्मास्त्रबन्धनरूपो येन स तथोक्तः सन्। लङ्कां पुरीं दददाह भस्मीचकार ॥ 63 ॥
विश्वास-प्रस्तुतिः
प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती ।
हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत्॥ ६४॥
मूलम्
प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती ।
हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत्॥ ६४॥
मल्लिनाथः ...{Loading}...
प्रत्यभिज्ञेति॥ कृती कृतकृत्यः कपिः स्वयमायातं मूर्तिमद्वैदेह्या हृदयमिव स्थितं तस्या एव प्रत्यभिज्ञानरत्नं च रामायादर्शयत् ॥ 64 ॥
विश्वास-प्रस्तुतिः
स प्राप हृदयन्यस्तमणिस्पर्शनिमीलितः ।
अपयोधरसंसर्गां प्रियालिङ्गननिर्वृतिम्॥ ६५॥
मूलम्
स प्राप हृदयन्यस्तमणिस्पर्शनिमीलितः ।
अपयोधरसंसर्गां प्रियालिङ्गननिर्वृतिम्॥ ६५॥
मल्लिनाथः ...{Loading}...
स इति॥ हृदये वक्षसि न्यस्तस्य धृतस्य मणेरभिज्ञानरत्नस्य। स्पर्शेन निमीलितो मोहितः स रामोऽविद्यमानः पयोधरसंसर्गः स्तनस्पर्शो यस्यास्तां तथाभूतां प्रियाया आलिङ्गनेन या निर्वृतिरानन्दस्तां प्राप ॥ 65 ॥
विश्वास-प्रस्तुतिः
श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः ।
महार्णवपरिक्षेपं लङ्कायाः परिखालघुम्॥ ६६॥
मूलम्
श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः ।
महार्णवपरिक्षेपं लङ्कायाः परिखालघुम्॥ ६६॥
मल्लिनाथः ...{Loading}...
श्रुत्वेति॥ प्रियाया उदन्तं वार्ताम्। ‘उदन्तः साधुवार्तयोः’इति विश्वः। श्रुत्वा तस्याः सीतायाः संगम उत्सुको रामो लङ्कायाः संबन्धी यो महार्णव एव परिक्षेपः परिवेषस्तं परिखालघुं दुर्गवेष्टनवत्सुतरं मेने ॥ 66 ॥
विश्वास-प्रस्तुतिः
स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः ।
न केवलं भुवः पृष्ठे व्योम्नि संबाधवर्तिभिः॥ ६७॥
मूलम्
स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः ।
न केवलं भुवः पृष्ठे व्योम्नि संबाधवर्तिभिः॥ ६७॥
मल्लिनाथः ...{Loading}...
स इति॥ केवलमेकं भुवः पृष्ठे भूतले न किंतु व्योम्नि च संबाधवर्तिभिः संकटगामिभिर्हरिसैन्यैः कपिबलैरनुद्रुतोऽन्वितः सन् स रामोऽरिनाशाय प्रतस्थे चचाल ॥ 67 ॥
विश्वास-प्रस्तुतिः
निविष्टमुदधेः कूले तं प्रपाद बिभीषणः ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः॥ ६८॥
मूलम्
निविष्टमुदधेः कूले तं प्रपाद बिभीषणः ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः॥ ६८॥
मल्लिनाथः ...{Loading}...
निविष्टमिति॥ उदधेः कूले निविष्टं तं रामम्। विशेषेण भीषयते शत्रूनिति विभीषणो रावणानुजः। राक्षसलक्ष्म्या स्नेहाद्बुद्धिं कर्तव्यताज्ञानमाविश्य चोदितः प्रेरित इव। प्रपेदे प्राप्तः ॥ 68 ॥
विश्वास-प्रस्तुतिः
तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः ।
काले खलु समालब्धाः फलं बध्नन्ति नीतयः॥ ६९॥
मूलम्
तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः ।
काले खलु समालब्धाः फलं बध्नन्ति नीतयः॥ ६९॥
मल्लिनाथः ...{Loading}...
तस्मा इति॥ राघवस्तस्मै विभीषिणाय। ‘प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता’(पा.1।4।40)इति संप्रदानत्वाञ्चतुर्थीं। निशाचरैश्वर्यं राक्षसाधिपत्यं प्रतिशुश्राव प्रतिज्ञातवान्। तथा हि-कालेऽवसरे समारब्धाः प्रकान्ता नीतयः फलं बध्नन्ति गृह्णन्ति। जनयन्तीत्यर्थः। खलु॥ 69 ॥
विश्वास-प्रस्तुतिः
स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि ।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः॥ ७०॥
मूलम्
स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि ।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः॥ ७०॥
मल्लिनाथः ...{Loading}...
स इति॥ स रामो लवणं क्षारमम्भो यस्यासौ लवणाम्भस्तस्मिँल्लवणाब्धौ प्लृवगैः प्रयोज्यैः। शार्ङ्गिणो विष्णोः स्वप्नाय शयनाय रसातलात् पातालादुन्मग्नमुत्थितं शेषमिव स्थितम्। सेतुं बन्धयामास ॥ 70 ॥
विश्वास-प्रस्तुतिः
तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलैः ।
द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः॥ ७१॥
मूलम्
तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलैः ।
द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः॥ ७१॥
मल्लिनाथः ...{Loading}...
तेनेति॥ रामस्तेन पथा सेतुमार्गेणोत्तीर्य,सागरमिति शेषः । पिङ्गलैः सुवर्णवर्णैरत एव द्वितीयं हेमप्राकारं कुर्वद्भिरिव स्थितैर्वानरैर्लङ्कां रोधयामास ॥ 71 ॥
विश्वास-प्रस्तुतिः
रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् ।
दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः॥ ७२॥
मूलम्
रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् ।
दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः॥ ७२॥
मल्लिनाथः ...{Loading}...
रण इति॥ तत्र लङ्कायां प्लवगानां रक्षसां च भीमो भयंकरो दिग्विजृम्भितं काकुत्स्थः-पौलस्त्ययो राम-रावणयोर्जयघोषणं जयशब्दो यस्मिन्स तथोक्तो रणः प्रववृते प्रवृत्तः। ‘अस्त्रियां समरानीकरणाः कलहनिग्रहौ’ इत्यमरः ॥ 72 ॥
विश्वास-प्रस्तुतिः
पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः ।
अतिशस्त्रनखन्यासः शैलरुग्णमतंगजः॥ ७३॥
मूलम्
पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः ।
अतिशस्त्रनखन्यासः शैलरुग्णमतंगजः॥ ७३॥
मल्लिनाथः ...{Loading}...
पादपेति॥ किविधो रणः? पादपैर्वृक्षैराविद्धा भग्नाः परिघा लोहबद्धकाष्ठानि यस्मिन्स तथोक्तः। ‘परिघः परिघातनः’इत्यमरः। शिलाभिर्निष्पिष्टाश्चूर्णिता मुद्गरा अयोघना यस्मिन्स तथोक्तः। ‘द्रुघणो मुद्गरघनौ’इत्यमरः। अतिशस्त्राः शस्त्राण्यतिक्रान्ता नखान्यासा यस्मिन्स तथोक्तः। शैलै रुग्णा भग्ना मतंगजा यस्मिन्स तथोक्तः ॥ 73 ॥
विश्वास-प्रस्तुतिः
अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् ।
सीतां मायेति शंसन्ती त्रिजटा समजीवयत्॥ ७४॥
मूलम्
अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् ।
सीतां मायेति शंसन्ती त्रिजटा समजीवयत्॥ ७४॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथानन्तरम्। छिद्यत इति छेदः खण्डः। शिर एव छेद इति विग्रहः। रामशिरश्छेदस्य विद्युज्जिह्वाख्यराक्षसमायानिर्मितस्य दर्शनेनोद्भ्रान्तचेतनां गतसंज्ञां सीतां त्रिजटा नाम काचित्सीतापक्षपातिनी राक्षसी मायाकल्पितं न त्वेतत्सत्यमिति शंसन्ती ब्रुवाणा। ‘शप्श्यनोर्नित्यम्’(पा.7।1।81) इति नित्यं नुमागमः। समजीवयत् ॥ 74 ॥
विश्वास-प्रस्तुतिः
कामं जीवति मे नाथ इति सा विजहौ शुचम् ।
प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता॥ ७५॥
मूलम्
कामं जीवति मे नाथ इति सा विजहौ शुचम् ।
प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता॥ ७५॥
मल्लिनाथः ...{Loading}...
काममिति॥ सा सीता मे नाथो जिवतीति हेतोः शुचं शोकं कामं विजहौ। किंतु प्राक् पूर्वमस्य नाथस्यान्तं नाशं सत्यं यथार्थं मत्वा जीविता जिवितवत्यस्मीति हेतोर्लज्जिता लज्जावती। कर्तरि क्तः। दुःखादपि दुःसहो लज्जाभर इति भावः ॥ 75 ॥
विश्वास-प्रस्तुतिः
गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः ।
दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत्॥ ७६॥
मूलम्
गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः ।
दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत्॥ ७६॥
मल्लिनाथः ...{Loading}...
गरुडेति॥ गरुडस्तार्क्ष्यः तस्यापातेनागमनेन विश्लिष्टं मेघनादस्येन्द्रजितोऽस्त्रेण नागपाशेन बन्धनं यस्मिन्स तथोक्तः क्षणक्लेषो दाशरथ्यो रामलक्ष्मणयोः स्वप्नवृत्तः स्वप्नावस्थानुभूत इवाभवत् ॥ 76 ॥
विश्वास-प्रस्तुतिः
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् ।
रामस्त्वनाहतोऽप्यासीद्विदीर्णहॄदयः शुचा॥ ७७॥
मूलम्
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् ।
रामस्त्वनाहतोऽप्यासीद्विदीर्णहॄदयः शुचा॥ ७७॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततः पौसस्त्यो रावणः शक्त्या कासूनामकेनायुधेन। ‘कासूसामर्थ्योः शक्तिः’इत्यमरः। लक्ष्मणं वक्षसि बिभेद विदारयामास। रामस्त्वनाहतोऽप्यहतोऽपि शुचा शोकेन विदीर्णहृदय आसीत् ॥ 77 ॥
विश्वास-प्रस्तुतिः
स मारुतिसमानीतमहौषधिहतव्यथः ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः॥ ७८॥
मूलम्
स मारुतिसमानीतमहौषधिहतव्यथः ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः॥ ७८॥
मल्लिनाथः ...{Loading}...
स इति॥ लक्ष्मणो मारुतिना मरुत्सुतेन हनुमता समानीतया महौषध्या संजिविन्या हतव्यथः सन् पुनः शरैर्लङ्कास्त्रीणां विलापे परिदेवने। ‘विलापः परिदेवनम्’ इत्यमरः। आचार्यकमाचार्यकर्म। ‘योपधाद्गुरूपोत्तमाद्वुञ्’ (पा.5।1।132)इति वुञ्। चक्रे। पुनरपि राक्षसाञ्जघानेति व्यज्यते ॥ 78 ॥
विश्वास-प्रस्तुतिः
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् ।
मेघस्येव शरत्कालो न किञ्चित्पर्यशेषयत्॥ ७९॥
मूलम्
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् ।
मेघस्येव शरत्कालो न किञ्चित्पर्यशेषयत्॥ ७९॥
मल्लिनाथः ...{Loading}...
स इति॥ स लक्ष्मणः शरत्कालो मेघस्येव। मेघनादस्येन्द्रजितो नादं सिंहनादम्। अन्यत्र,-गर्जितं च इन्द्रायुधप्रभं शक्रधनुःप्रभं धनुश्च किंचिदल्पमपि न पर्यशेषयन्नावशेषितवान्। तमवधीदित्यर्थः ॥ 79 ॥
विश्वास-प्रस्तुतिः
कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः ।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः॥ ८०॥
मूलम्
कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः ।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः॥ ८०॥
मल्लिनाथः ...{Loading}...
कुम्बकर्ण इति॥ कपीन्द्रेण सुग्रीवेण स्वसुः शूर्पणखायास्तुल्यावस्थो नासाकर्णच्छेदेन सदृशः कृतः। कुम्भकर्णष्टङ्केन शिलाभेदकशस्त्रेण छिन्ना मनःशिला रक्तवर्णधातुविशेषो यस्य स तथोक्तः। ‘टङ्कः पाषाणदारणः’इति,‘धातुर्मनः शिलाद्यद्रेः’इति चामरः। शृङ्गी शिखरीव। रामं रुरोध ॥ 80 ॥
विश्वास-प्रस्तुतिः
अकाले बोधितो भ्राता प्रियस्वप्नो वृथा भवान् ।
रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः॥ ८१॥
मूलम्
अकाले बोधितो भ्राता प्रियस्वप्नो वृथा भवान् ।
रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः॥ ८१॥
मल्लिनाथः ...{Loading}...
अकाल इति॥ प्रियस्वप्न इष्टनिद्रोऽनुजो भवान्वृथा भ्रात्रा रावणेनाकाले बोधित इतीवासौ कुम्भकर्णो रामेषुभी रामबाणैर्दीर्घनिद्रां मरणं प्रवेशितो गमितः। यथा लोकेष्विष्टवस्तुविनाशदुःखितस्य ततोऽपि भूयिष्ठमुपपाद्यते तद्वदिति भावः ॥ 81 ॥
विश्वास-प्रस्तुतिः
इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव॥ ८२॥
मूलम्
इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव॥ ८२॥
मल्लिनाथः ...{Loading}...
इतराणीति॥ इतराणि रक्षांस्यपि वानरकोटिषु। समरोत्थानि रजांसि तेषां रक्षसां शोणितनदीषु रक्तप्रवाहेष्विव। पेतुः। निपत्य मृतानीत्यर्थः ॥ 82 ॥
विश्वास-प्रस्तुतिः
निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् ।
अरावणमरामं वा जगदद्येति निश्चितः॥ ८३॥
मूलम्
निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् ।
अरावणमरामं वा जगदद्येति निश्चितः॥ ८३॥
मल्लिनाथः ...{Loading}...
निर्ययाविति॥ अथ पौलस्त्यो रावणः। अद्य जगदरावणं रावणशून्यमरामं रामशून्यं वा भवेत्। इति निश्चितो निश्चितवान्,कर्तरि क्तः। विजयमरणयोरन्यतरनिश्चयवान् पुनर्युद्धाय मन्दिरान्निर्ययौ निर्जगाम ॥ 83 ॥
विश्वास-प्रस्तुतिः
रामं पदातिमालोक्य लङ्केशं च वरूथिनम् ।
हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः॥ ८४॥
मूलम्
रामं पदातिमालोक्य लङ्केशं च वरूथिनम् ।
हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः॥ ८४॥
मल्लिनाथः ...{Loading}...
राममिति॥ पादाभ्यामततीति पदातिः। तं पादचारिणं रामम्। वरूथो रथगुप्तिः। ‘रथगुप्तिर्वरूथो ना’ इत्यमरः। अत्र वरूथेन रथो लक्ष्यते। वरूथिनं रथिनं लङ्केशं चालोक्य पुरंदर इन्द्रः। युगं वहन्तीति युग्या रथाश्वाः। ‘तद्वहति रथयुगप्रासङ्म्’(पा.3।4।7।6)इति यत्प्रत्ययः। हरियुग्यं कपिलवर्णाश्वम्। ‘शुकाहिकपिमेकेषु हरिर्ना कपिले त्रिषु’इत्यमरः। रथं तस्मै रामाय प्रजिघाय प्रहितवान् ॥ 84 ॥
विश्वास-प्रस्तुतिः
तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः ।
देवसूतभुजालम्बी जैत्रमध्यास्त राघवः॥ ८५॥
मूलम्
तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः ।
देवसूतभुजालम्बी जैत्रमध्यास्त राघवः॥ ८५॥
मल्लिनाथः ...{Loading}...
तमिति॥ राघवो व्योमगङ्गोर्मिवायुभिराधूतध्वजपटम्। मार्गंवशादिति भावः। जेतैव जैत्रो जयनशीलः,तं जैत्रम्। ‘जेतृ’शब्दात्तृन्नन्तात्’प्रज्ञादिभ्यश्च’(पा.5।4।38)इति स्वार्थेऽण्प्रत्ययः। तं रथं देवसूतभुजालम्बी मातलिहस्तावलम्बः सन्,अध्यास्ताधिष्ठितवान्। आसेर्लङअ ॥ 85 ॥
विश्वास-प्रस्तुतिः
मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम् ।
यत्रोत्पलदलक्लैब्यमस्त्राण्यापुः सुरद्विषाम्॥ ८६॥
मूलम्
मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम् ।
यत्रोत्पलदलक्लैब्यमस्त्राण्यापुः सुरद्विषाम्॥ ८६॥
मल्लिनाथः ...{Loading}...
मातलिरिति॥ मातलिरिन्द्रसारथिर्माहेन्द्रम्। तनुश्छाद्यतेऽनेनेति तनुच्छदो वर्म। ‘पुंसि संज्ञायां घः प्रायेण’(पा.3।3।118) इति घः। तम्। तस्य रामस्यामुमोैचासञ्जयामास। यत्र तनुच्छदे सुरद्विषामस्त्राण्युत्पलदलानां यत्क्लैब्दं नपुंसकत्वं निरर्थकत्वं तदापुः ॥ 86 ॥
विश्वास-प्रस्तुतिः
अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् ।
रामरावणयोर्युद्धं चरितार्थमिवाभवत्॥ ८७॥
मूलम्
अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् ।
रामरावणयोर्युद्धं चरितार्थमिवाभवत्॥ ८७॥
मल्लिनाथः ...{Loading}...
अन्योन्येति॥ चिरादन्योन्यदर्शनेन प्राप्तविक्रमावसरं रामरावणयोर्युद्धमायोधनं चरितार्थं सफलमभवदिव। प्राक्पराक्रमावसरदौर्बल्याद्विफलस्याद्य तल्लाभात्साफल्यमुत्प्रेक्ष्यते ॥ 87 ॥
विश्वास-प्रस्तुतिः
भुजमूर्धोरुबाहुल्यादेकोऽपि धनदानुजः ।
ददृशे ह्ययथापूर्वो मातृवंश इव स्थितः॥ ८८॥
मूलम्
भुजमूर्धोरुबाहुल्यादेकोऽपि धनदानुजः ।
ददृशे ह्ययथापूर्वो मातृवंश इव स्थितः॥ ८८॥
मल्लिनाथः ...{Loading}...
भुजेति॥ यथाभूतः पूर्वं यथापूर्वः। सुप्सुपेति समासः। यथापूर्वो न भवतीत्ययथापूर्वः। निहतबन्धुत्वाद्रक्षः परिचारशून्य इत्यर्थः। अत एवैकोऽपि सन् घनदानुजो रावणः। भुजाश्च मूर्धानश्चोरवः पादाश्च भूजमूर्धोरु। प्राण्यङ्गत्वाद्द्वन्द्वैकवद्भावः। तस्य बाहुल्याद्बहुलत्वाद्धेतोः। तद्बहहुत्वे यादवः-‘दशास्यो विंशतिभुजश्चतुष्पान्मातृमन्दिरे’इति। मातृवंशे मातृसंबन्धिनि वर्गे स्थइत इव ददृशे दृष्टो हि। ‘वंशो वेणौ कुले वर्गे’इति विश्वः। अत्र रावणमातू रक्षोजातित्वात्तद्वर्गो रक्षोवर्ग इति लभ्यते। अतश्चैकोऽप्यनेकरक्षः परिवृत इवालक्ष्यतेत्यर्थः ॥ 88 ॥
विश्वास-प्रस्तुतिः
जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् ।
रामस्तुलितकैलासमारातिं बह्वमन्यत॥ ८९॥
मूलम्
जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् ।
रामस्तुलितकैलासमारातिं बह्वमन्यत॥ ८९॥
मल्लिनाथः ...{Loading}...
जेतारमिति॥ लोकपालानामिन्द्रादीनां जेतारम्। ‘कर्तृकर्मणोः कृति’कैलासमुत्क्षिप्तरुद्रादिं तमेवं शौर्यवीर्यसत्त्वसंपन्नं महावीर्यमरातिं शत्रुं रामो गुणग्राहित्वाज्जेतव्योत्कर्षस्य जेतुः स्वोत्कर्षहेतुत्वाञ्च बह्वमन्यत। साधु मद्विक्रमस्यायं पर्याप्तो विषय इति बहुमानमकरोदित्यर्थः। बह्विति क्रियाविशेषणम् ॥ 89 ॥
विश्वास-प्रस्तुतिः
तस्य स्फुरति पौलस्त्यः सीतासंगमशंसिनि ।
निचखानाधिकक्रोधः शरं सव्येतरे भुजे॥ ९०॥
मूलम्
तस्य स्फुरति पौलस्त्यः सीतासंगमशंसिनि ।
निचखानाधिकक्रोधः शरं सव्येतरे भुजे॥ ९०॥
मल्लिनाथः ...{Loading}...
तस्येति॥ अधिकक्रोधः पौलस्त्यः स्फुरति स्पन्दमानेऽत एव सीतासंगमशंसिनि तस्य रामस्य सव्य इतरो यस्मात्सव्येतरे दक्षिणे। ‘न बहुव्रीहौ’(पा.1।1।29)इति ‘इतर’ शब्दस्य सर्वनामसंज्ञाप्रतिषेधः। भुजे शरं निचखान निखातवान् ॥ 90 ॥
विश्वास-प्रस्तुतिः
रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः ।
विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम्॥ ९१॥
मूलम्
रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः ।
विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम्॥ ९१॥
मल्लिनाथः ...{Loading}...
रावणस्येति॥ रामेणास्तः क्षिप्त आशुगो बाणः। विश्रवसोऽपत्यं पुमान् रावणः। ‘विश्रवः’शब्दादपत्येऽर्थेऽण्प्रत्यये सति ‘विश्रवसो विश्रवणरवणौ’इति रावणादेशः। तस्य रावणस्यापि हृदयं वक्षो भित्त्वा विदीर्य। उरगेभ्यः पातालवासिभ्यः प्रियमाख्यातुमिव। भुवं विवेश ॥ 91 ॥
विश्वास-प्रस्तुतिः
वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः ।
अन्योन्यजयसंरम्भो ववृधे वादिनोरिव॥ ९२॥
मूलम्
वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः ।
अन्योन्यजयसंरम्भो ववृधे वादिनोरिव॥ ९२॥
मल्लिनाथः ...{Loading}...
वचसेति॥ वाक्यं वचसैवास्त्रमस्त्रेण निघ्नतोः प्रतिकुर्वतोस्तयो रामरावणयोः। वादिनोः कथकयोरिव। अन्योन्यविषये जयसंरम्भो ववृधे ॥ 92 ॥
विश्वास-प्रस्तुतिः
विक्रमव्यतिहारेण सामान्याऽभूद्द्वयोरपि ।
जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव॥ ९३॥
मूलम्
विक्रमव्यतिहारेण सामान्याऽभूद्द्वयोरपि ।
जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव॥ ९३॥
मल्लिनाथः ...{Loading}...
विक्रमेति॥ जयश्रीर्विक्रमस्य व्यतिहारेण पर्यायक्रमेण तयोर्द्वयोरपि। अन्तरा मध्ये। अव्ययमेतत्। वेदिर्वेद्याकारा भित्तिर्मत्तवारणयोरिव। सामान्या साधारणाऽभूत्। न त्वन्यतरनियतेत्यर्थः। अत्र ‘मत्तवारणयोः’इत्यत्र ‘द्वयोः’इत्यत्र च ‘अन्तरान्तरेण युक्ते’(पा.2।3।4) इति द्वितीया न भवति। ‘अन्तरा’ शब्दस्योक्तरीत्याऽन्यत्रान्वयात्। मध्ये कामपि भित्तिं कृत्वा गजौ योधयन्तीति प्रसिद्धिः ॥ 93 ॥
विश्वास-प्रस्तुतिः
कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः ।
परस्परशरव्राताः पुष्पवृष्टिं न सेहिरे॥ ९४॥
मूलम्
कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः ।
परस्परशरव्राताः पुष्पवृष्टिं न सेहिरे॥ ९४॥
मल्लिनाथः ...{Loading}...
कृतेति॥ स्वयमस्त्रप्रयोगः कृतं प्रतिकृतं परकृतप्रतीकारस्ताभ्यां प्रीतैः सुरासुरैर्यथासंख्यं तयो राम-रावणयोर्मुक्तां पुष्पवृष्टिम्। द्वयीमिति शेषः। परस्परं शरव्राता न सेहिरे। अहमेवालं,किं त्वयेति चान्तराल एवेतरेतरबाणवृष्टिरितरेतरपुष्पवृष्टिमवारयदित्यर्थः ॥ 94 ॥
विश्वास-प्रस्तुतिः
अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे ।
हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत्॥ ९५॥
मूलम्
अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे ।
हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत्॥ ९५॥
मल्लिनाथः ...{Loading}...
अय इति॥ अथ रक्षो रावणोऽयसः शङ्कुभिः कीलैश्चितां कीर्णा शतघ्नीं सोहकण्टककीलितयष्टिविशेषम्। ‘शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता। यष्टिः’ इति केशवः। हृतां विजयलब्धाम्। वैवस्वतस्यान्तकस्य कूटशाल्मलिमिव। शत्रवे राघवायाक्षिपत् क्षिप्तवान्। कूटशाल्मलिरिव कूटशाल्मलिरिति व्युत्पत्त्या वैवस्वतगदाया गौणी संज्ञा। कूटशाल्मलिर्नामैकमूलप्रकृतिः कण्टकी वृक्षविशेषः। ‘रोचनः कूटशाल्मलिः’इत्यमरः। तत्सादृश्यं च गदाया अयःसंङ्कुचितत्वादनुसंधेयम् ॥ 95 ॥
विश्वास-प्रस्तुतिः
राघवो रथमप्राप्तां तामाशां च सुरद्विषाम् ।
अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखम्॥ ९६॥
मूलम्
राघवो रथमप्राप्तां तामाशां च सुरद्विषाम् ।
अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखम्॥ ९६॥
मल्लिनाथः ...{Loading}...
राघव इति॥ राघवो रथमप्राप्तां तां शतघ्नीं सुरद्विषां रक्षसामाशां विजयतृष्णां च। ‘आशा तृष्णादिशोः प्रोक्ता’ इति विश्वः। अर्धचन्द्र इव मुखं येषां तैर्बाणैः कदलीवत्सुखं यथा तथा चिच्छिद। अथवा कदल्यामिव सुखमक्लेशो यस्मिन्कर्मणि तदिति विग्रहः ॥ 96 ॥
विश्वास-प्रस्तुतिः
अमोघं संदधे चास्मै धनुष्येकधनुर्धरः ।
ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम्॥ ९७॥
मूलम्
अमोघं संदधे चास्मै धनुष्येकधनुर्धरः ।
ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम्॥ ९७॥
मल्लिनाथः ...{Loading}...
अमोघमिति॥ एकोऽद्वितीयो धनुर्धरो रामः प्रियायाः शोक एव शल्यं तस्य निषअकर्षणमुद्धारकं यदौषधं तदमोघं ब्राह्मं ब्रह्मदेवताकमस्त्रमभिमन्त्रितं बाणमस्मै रावणाय च। तद्वधार्थमित्यर्थः। धनुषि संदधे ॥ 97 ॥
विश्वास-प्रस्तुतिः
तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् ।
वपुर्महोरगस्येव करालफलमण्डलम्॥ ९८॥
मूलम्
तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् ।
वपुर्महोरगस्येव करालफलमण्डलम्॥ ९८॥
मल्लिनाथः ...{Loading}...
तदिति॥ व्योम्नि शतधा भिन्नं प्रसृतं दीप्तिमन्ति मुखानि यस्य तद्ब्रह्मास्त्रम्। करालं भीषणं तुङ्गं वा फणमण्डलं यस्य तत्तथोक्तम्। ‘करालो दन्तुरे तुङ्गे करालो भीषणेऽपि च’ इति विश्वः। महोरगस्य शेषस्य वपुरिव। ददृशे दृष्टम् ॥ 98 ॥
विश्वास-प्रस्तुतिः
तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत् ।
स रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम्॥ ९९॥
मूलम्
तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत् ।
स रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम्॥ ९९॥
मल्लिनाथः ...{Loading}...
तेनेति॥ स रामो मन्त्रप्रयुक्तेन तेनास्त्रेणाज्ञातव्रणवेदनामतिशैघ्र्यादननुभूतव्रणदुःखां रावणशिरःपङ्क्तिं निमेषार्धादपातयत् पातयामास ॥ 99 ॥
विश्वास-प्रस्तुतिः
बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः ।
रराज रक्षःकायस्य कण्ठच्छेदपरम्परा॥ १००॥
मूलम्
बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः ।
रराज रक्षःकायस्य कण्ठच्छेदपरम्परा॥ १००॥
मल्लिनाथः ...{Loading}...
बालेति॥ पतिष्यत आसन्नपातस्य रक्षःकायस्य रावणकलेवरस्य छिद्यन्त इति छेदाः खण्डाः। कण्ठानां ये छेदास्तेषां परम्परा पङ्क्तिः। वीचिमिर्भिन्ना नानाकृताप्सु बालार्कस्य प्रतिमा प्रतिबिम्बमिव। रराज। अर्कस्य बालविशेषणमारुण्यसिद्ध्यर्थमिति भावः ॥ 100 ॥
विश्वास-प्रस्तुतिः
मरुतां पश्यतां तस्य शिरांसि पतितान्यपि ।
मनो नातिविशस्वास पुनःसंधानशङ्किनाम्॥ १०१॥
मूलम्
मरुतां पश्यतां तस्य शिरांसि पतितान्यपि ।
मनो नातिविशस्वास पुनःसंधानशङ्किनाम्॥ १०१॥
मल्लिनाथः ...{Loading}...
मरुतामिति॥ पतितानि तस्य रावणस्य शिरांसि पश्यतामपि पुनः-संधानशङ्क्तिनाम्। पूर्वं तथादर्शनादिति भावः। मरुताममराणाम्। ‘मरुतौ पवनामरौ’ इत्यमरः। मनो नातिविशश्वासाऽतिविश्वासं न प्राप ॥ 101 ॥
विश्वास-प्रस्तुतिः
अथ मदगुरुपक्षैलोकपालद्विपाना-
मनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय ।
उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः
सुरभि सुरविमुक्तं पुष्पवर्षं पपात॥ १०२॥
मूलम्
अथ मदगुरुपक्षैलोकपालद्विपाना-
मनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय ।
उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः
सुरभि सुरविमुक्तं पुष्पवर्षं पपात॥ १०२॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ मदेन गजगण्डसंचारसंक्रान्तेन गुरुपक्षैर्भारायमाणपक्षैरसिवृन्दैर्लोकपालद्विपानामैरावतादीनां गगनवर्तिनां गण्डभित्तीर्विहायानुगतमनुद्रुतं सुरभि सुगन्धि। ‘सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः। गन्धोपले सौरभेय्यां सल्लकीमातृभेदयोः॥ सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभि स्मृतम्।’ इति विश्वः। सुरविमुक्तं पुष्पवर्षमुपनत आसन्नो मणिबन्धो राज्याभिषेकसमये भावी यस्य तस्मिन्। पौलस्त्यशत्रो रामस्य मूर्ध्नि पपात। इदमेव राज्याभिषेकसूचकमिति भावः ॥ 102 ॥
विश्वास-प्रस्तुतिः
यन्ता हरेः सपदि संहृतकार्मुकज्य-
मापृच्छ्य राघवमनुष्ठितदेवकार्यम् ।
नामाङ्करावणशराङ्कितकेतुयष्टि-
मूर्ध्वं रथं हरिसहस्रयुजं निनाय॥ १०३॥
मूलम्
यन्ता हरेः सपदि संहृतकार्मुकज्य-
मापृच्छ्य राघवमनुष्ठितदेवकार्यम् ।
नामाङ्करावणशराङ्कितकेतुयष्टि-
मूर्ध्वं रथं हरिसहस्रयुजं निनाय॥ १०३॥
मल्लिनाथः ...{Loading}...
यन्तेति॥ हरेरिन्द्रस्य यन्ता मातलिः सपदि संहृतकार्मुकज्यमनुष्ठितं देवकार्यं रावणवधरूपं येन तं राघवमापृच्छ्य ‘साधु यामि’ इत्यामन्त्र्य। नामाङ्कैर्नामाक्षरचिह्नै रावणशरैरङ्किता चिह्निता केतुयष्टिर्ध्वजदण्डो यस्य तम्। हरीणां वाजिनां सहस्रेण युज्यत इति हरिसहस्रयुक्। तम्। ‘यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। हरिः’ इत्युभयत्राप्यमरः। रथमूर्ध्वं निनाय नीतवान् ॥ 103 ॥
विश्वास-प्रस्तुतिः
रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां
प्रियसुहृदि बिभीषणे संगमय्य श्रियं वैरिणः ।
रविसुतसहितेन तेनानुयातः ससौमित्रिणा
भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्॥ १०४॥
मूलम्
रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां
प्रियसुहृदि बिभीषणे संगमय्य श्रियं वैरिणः ।
रविसुतसहितेन तेनानुयातः ससौमित्रिणा
भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्॥ १०४॥
मल्लिनाथः ...{Loading}...
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ रावणवधो नाम द्वादशः सर्गः ।
रघुपतिरिति॥ रघुपतिरपि जातवेदस्यग्नौ विशुद्धां जातशुद्धिं प्रियां सीतां प्रगृह्य स्वीकृत्य। प्रियसुहृदि विभीषणे वैरिणो रावणस्य श्रियं राजलक्ष्मीं संगमय्य संगतां कृत्वा। गमेर्ण्यन्ताल्ल्यप्प्रत्ययः। ‘मितां ह्रस्वः’(पा.6।4।92) इति ह्रस्वः। ‘ल्यपि लघुपूर्वात्’(पा.6।4।56)इति णेरयादेशः। रविसुतसहितेन सुग्रीवयुक्तेन ससौमित्रिणा सलक्ष्मणेन तेन विभीषणेनानुयातोऽनुगतः सन् विमानं रत्नमिव विमानरत्नमित्युपमितसमासः। भुजविजितं यद्विमानरत्नं पुष्पकं तदारूढः सन्। पुरीमयोध्यां प्रतस्थे। ‘समवप्रविभ्यः स्थः’(पा.1।3।22) इत्यात्मनेपदम्। अत्र प्रस्थानक्रियाया अकर्मकत्वेऽपि तदङ्गभूतोद्देशक्रियापेक्षया सकर्मकत्वम्। अस्ति च धातूनां क्रियान्तरोपसर्जनकस्वार्थाभिधायकत्वम्। यथा ‘कुसूलान्पचति’ इत्यादावादानक्रियागर्भः पाको विधीयत इति ॥ 104 ॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ रावणवधो नाम द्वादशः सर्गः ॥