विश्वास-प्रस्तुतिः
पृथिवीं शासतस्तस्य पाकशासनतेजसः ।
किंचिदूनमनूनर्द्धेः शरदामयुतं ययौ॥ १॥
मूलम्
पृथिवीं शासतस्तस्य पाकशासनतेजसः ।
किंचिदूनमनूनर्द्धेः शरदामयुतं ययौ॥ १॥
मल्लिनाथः ...{Loading}...
पृथिवीमिति॥ पृथिवीं शासतः पालयतः पाकशासनतेजस इन्द्रवर्चसः। अनूनर्द्धेर्महासमृद्धेस्तस्य दशरथस्य किंचिदूनमीषन्न्यूनं शरदां वत्सराणाम्। ‘स्यादृतौ वत्सरे शरत्’इत्यमरः। अयुतं दशसहस्रं ययौ। ‘एकदशशतसहस्राण्ययुतं लक्षं तथा प्रयुतम्। कोट्यर्बुदं च पद्मं स्थानात्स्थानं दशगुणं स्यात्॥’ इत्यार्यभट्टः। इदं च मुनिशापात्परं वेदितव्यं,न तु जननात्। ‘षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक!। दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि॥’(बाल.20।10)इतिरामायणविरोधात्। नाप्यभिषेकात्परम्,तस्यापि ‘सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्प्रजानाम्’(8।94) इति कौमारानुष्ठितत्वाभिधानात्स एव विरोध इति ॥ 1 ॥
विश्वास-प्रस्तुतिः
न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।
सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम्॥ २॥
मूलम्
न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।
सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम्॥ २॥
मल्लिनाथः ...{Loading}...
न चेति॥ स दशरथथः पूर्वेषां पितॄणामृणनिर्मोक्षसाधनम्। ‘एष वा अनृणो यः पुत्री’ इति श्रुतेः। पितॄणामृणनिर्मुक्तिकारणम्। सद्यः शोक एव तमस्तदपहन्तीति शोकतमोपहम्। अत्र’अभयंकर’ इतिवदुपपदेऽपि तदन्तविधिमाश्रित्य ‘अपे क्लेशतमसोः’(पा.3।2।50)इति डप्रत्ययः। सुताभिधानं सुताख्यं ज्योतिर्नोपलेमे न प्राप च ॥ 2 ॥
विश्वास-प्रस्तुतिः
अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः ।
प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः॥ ३॥
मूलम्
अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः ।
प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः॥ ३॥
मल्लिनाथः ...{Loading}...
अतिष्ठदिति॥ प्रत्ययं हेतुमपेक्षत इति प्रत्ययापेक्षा संततिर्यस्य स तथोक्तः। ‘प्रत्ययोऽधीनशपथज्ञानविशअवासहेतुषु’इत्यमरः। स नृपः। मन्थात्प्राङ्यन्थनात्पूर्वमनभिव्यक्ताऽदृष्टा रत्नोत्पत्तिर्यस्य सोऽर्णव इव। चिरमतिष्ठत्। सामग्र्यभावाद्विलम्बो न तु वन्ध्यत्वादिति भावः ॥ 3 ॥
विश्वास-प्रस्तुतिः
ऋष्यशृङ्गादयस्तस्य सन्तः सन्तानकाङ्क्षिणः ।
आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः॥ ४॥
मूलम्
ऋष्यशृङ्गादयस्तस्य सन्तः सन्तानकाङ्क्षिणः ।
आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः॥ ४॥
मल्लिनाथः ...{Loading}...
ऋष्यशृङ्गेति॥ ऋष्यशृङ्गादयः। ऋष्यशृङ्गो नाम कश्चिदृषिः। तदादयः। ऋतुमृतौ वा यजन्तीत्यृत्विजो याज्ञिकाः। ‘ऋत्विग्दधऋक्-’(पा.3।2।59)इत्यादिना क्विबन्तो निपातः। जितात्मानो जितान्तःकरणाः सन्तः संतानकाङ्क्षिणः पुत्रार्थिनस्तस्य दशरथस्य पुत्रीयां पुत्रनिमित्ताम्। ‘पुत्राच्छ च’(पा.5।1।40)इति छप्रत्ययः। इष्टिं यागमारेभिरे प्रचकमिरे ॥ 4 ॥
विश्वास-प्रस्तुतिः
तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् ।
अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः॥ ५॥
मूलम्
तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् ।
अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः॥ ५॥
मल्लिनाथः ...{Loading}...
तस्मिन्निति॥ तस्मिन्नवसरे पुत्रकामेष्टिप्रवृत्तिसमये देवाः। पुलस्त्यस्य गोत्रापत्यं पुमान् पौलस्त्यो रावणः। तेनोपप्लुताः पीडिताः सन्तः निदाघार्ता धर्मातुराः। अध्वानं गच्छन्तीत्यध्वगाः पान्थाः। ‘अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः’(पा.3।2।48)इति डप्रत्ययः। छायाप्रधानं वृक्षं छायावृक्षमिव। शाकपार्थिवादित्वात्समासः। हरिं विष्णुमभिजग्मुः ॥ 5 ॥
विश्वास-प्रस्तुतिः
ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः ।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्॥ ६॥
मूलम्
ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः ।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्॥ ६॥
मल्लिनाथः ...{Loading}...
त इति॥ ते देवाश्चोदन्वन्तं समुद्रम्। ‘उदन्वानुदधौ च’(पा.8।2।13) इति निपातः। प्रापुः। आदिपूरुषो विष्णुश्च बुबुधे। योगनिद्रां जहावित्यर्थः। गमनप्रतिबोधयोरविलम्बार्थौ चकारौ। तथा हि-अव्याक्षेपो गम्यस्याव्यासङ्गः। अविलम्ब इति यावत्। भविष्यन्त्याः कार्यसिद्धेर्लक्षणं लिङ्गं हि॥ उक्तं च-‘अनन्यपरता चास्य कार्यसिद्धेस्तु लक्षणम्’ इति॥ 6 ॥
विश्वास-प्रस्तुतिः
भोगिभोगासनासीनं ददृशुस्तं दिवौकसः ।
तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम्॥ ७॥
मूलम्
भोगिभोगासनासीनं ददृशुस्तं दिवौकसः ।
तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम्॥ ७॥
मल्लिनाथः ...{Loading}...
भोगीति॥ द्यौरोको येषां ते दिवौकसो देवाः। पृषोदरादित्वात्साधुः। यद्वा,-‘दिव’शब्दोऽदन्तोऽप्यस्ति। तथा च बुद्धचरिते-‘न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवम्’इति । तत्र ‘दिवु क्रीडादौ’इति धातोः ‘इगुपध-’(पा.3।1।135) इति कः। दिवमोक एषामिति विग्रहः। भोगिनः शेषस्य भोगः शरीरम्। ‘भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः।’ इत्यमरः। स एवासनं सिंहासनम्। तत्रासीनमुपविष्टम्। आसोः शानच्। ‘ईदासः’(पा.7।2।83)इतीकारादेशः। तस्य भोगिनः फणामण्डले य उदर्चिष उद्रश्मयो मणयस्तैर्द्योतितविग्रहं तं विष्णुं ददृशुः ॥ 7 ॥
विश्वास-प्रस्तुतिः
श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले ।
अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे॥ ८॥
मूलम्
श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले ।
अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे॥ ८॥
मल्लिनाथः ...{Loading}...
श्रिय इति॥ कीदृशं विष्णुम्? पद्मे निषण्णाया उपविष्टायाः श्रियः क्षौमन्तरिता दुकूलव्यवहिता मेखला यस्य तस्मिन्। आस्तीर्णौ करपल्लवौ वाणिपल्लवौ यस्मिन्। विशेषणद्वयेनापि चरणयोः सौकुमार्यात्कटिमेखलास्पर्शासहत्वं सूच्यते। तस्मिन्नङ्के निक्षिप्तौ चरणौ येन तम् ॥ 8 ॥
विश्वास-प्रस्तुतिः
प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
दिवसं शारदमिव प्रारम्भसुखदर्शनम्॥ ९॥
मूलम्
प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
दिवसं शारदमिव प्रारम्भसुखदर्शनम्॥ ९॥
मल्लिनाथः ...{Loading}...
प्रबुद्धेति॥ पुनः कीदृशम्? प्रबुद्धे विकसिते पुण्डरीके इवाक्षिणी यस्य त्तम्। दिवसे तु पुण्डरीकमेवाक्षि यस्येति विग्रहः। बालातपनिभमंशुकं यस्य तम्। पीताम्बरधरमित्यर्थः। अन्यत्र,-बालातपव्याजांशुकमित्यर्थः। ‘निभो व्याजसदृक्षयोः’ इति विश्वः। प्रकृष्ट आरम्भो योगो येषां ते प्रारम्भा प्रकृष्टोद्योगा योगिनः। तेषां सुखदर्शनम्। अन्यत्र,-प्रारम्भ आदौ सुखदर्शनं शारदं शरत्संबन्धिनं दिवसमिव स्थितम्॥ 9 ॥
विश्वास-प्रस्तुतिः
प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा॥ १०॥
मूलम्
प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा॥ १०॥
मल्लिनाथः ...{Loading}...
प्रभेति॥ पुनः किंविधम्? प्रभयाऽनुलिप्तमनुरञ्जितं श्रीवत्सं नाम लाञ्छनं येन तम्। लक्ष्म्या विभ्रमदर्पणं कौस्तुभ इत्याख्या यस्य तम्। अपां समुद्राणां सारं स्थिरांशम्। अम्मयमणिमित्यर्थः। बृहतोरसा बिभ्राणम् ॥ 10 ॥
विश्वास-प्रस्तुतिः
बहुभिर्विटपाकारैर्दिव्याभरणभूषितैः ।
आविर्भूतमपां मध्ये पारिजातमिवापरम्॥ ११॥
मूलम्
बहुभिर्विटपाकारैर्दिव्याभरणभूषितैः ।
आविर्भूतमपां मध्ये पारिजातमिवापरम्॥ ११॥
मल्लिनाथः ...{Loading}...
बाहुभिरिति॥ विटपाकारैः शाखाकारैर्दिव्याभरणभूषितैर्बाहुभिरुपलक्षितम्। अत एव अपां सैन्धवानां मध्य आविर्भूतमपरं द्वितीयं पारिजातमिव स्थितम्॥ 11 ॥
विश्वास-प्रस्तुतिः
दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः ।
हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम्॥ १२॥
मूलम्
दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः ।
हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम्॥ १२॥
मल्लिनाथः ...{Loading}...
दैत्येति॥ दैत्यस्त्रीगण्डलेखानामसुराङ्गनागण्डस्थलीनां यो मदरागस्तं विलुम्पन्ति हरन्तीति मदरागविलोपिनः। तैश्चेतनावद्भिः सजीवैर्हेतिभिः सुदर्शनादिभिः शश्त्रैः। ‘रवेरर्चिश्च शश्त्रं च वह्निज्वाला च हेतयः।’ इत्यमरः। उदीरितजयस्वनम्। जयशब्दमुद्धोषयन्तीभिर्मूर्तिमतीभिरस्त्रदेवताभिरुपास्यमानमित्यर्थः ॥ 12 ॥
विश्वास-प्रस्तुतिः
मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा ।
उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता॥ १३॥
मूलम्
मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा ।
उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता॥ १३॥
मल्लिनाथः ...{Loading}...
मुक्तेति॥ मुक्तो भगवत्संनिधानात्त्यक्तः शेषेणाहीश्वरेण सह विरोधः सहजमपि वैरं येन तेन। कुलिशव्रणा अमृताहरणकाल इन्द्रयुद्धे ये वज्रप्रहारास्त एव लक्ष्माणि यस्य स तेन। प्रबद्धोऽञ्जलिर्येन तेन प्राञ्जलिना। कृताञ्जलिनेत्यर्थः। विनीतेनानुद्धतेन गरुत्मतोपस्थितमुपासितम्। पुरा किल मातलिप्रार्थितेन भगवता तद्दुहितुर्गुणकेश्याः पत्युः कस्यचित्सर्पस्य गरुडादभयदाने कृते स्वविपक्षरक्षणक्षुभितं पक्षिराजं ‘त्वद्वोढाऽहं त्वत्तो बलाढ्यः’ इति गर्वितं स्ववामतर्जनीभारेणैव भङ्यक्त्वा भगवान्विनिनायेति महाभारतीयां कथां सूचयति ‘विनीतेन’इत्यनेन ॥ 13 ॥
विश्वास-प्रस्तुतिः
योगनिद्रान्तविशदैः पावनैरवलोकनैः ।
भृग्वादीननुगृह्णन्तं सौखशायनिकानृषीन्॥ १४॥
मूलम्
योगनिद्रान्तविशदैः पावनैरवलोकनैः ।
भृग्वादीननुगृह्णन्तं सौखशायनिकानृषीन्॥ १४॥
मल्लिनाथः ...{Loading}...
योगेति॥ योगो मनसो विषयान्तरव्यावृत्तिः,तद्रूपा या निद्रा तस्या अन्तेऽवसाने विशदैः प्रसन्नैः पावनैः शोधनैरवलोकनैः। सुखशयनं पृच्छन्तीति सौखशायनिकास्तान्। ‘पृच्छतौ सुस्नातादिभअयः’(वा.2943)इत्युपसंख्यानाटुक्प्रत्ययः। भृग्वादीनृषीननुगृह्णन्तम् ॥ 14 ॥
विश्वास-प्रस्तुतिः
प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषां ।
अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम्॥ १५॥
मूलम्
प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषां ।
अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम्॥ १५॥
मल्लिनाथः ...{Loading}...
प्रणिपत्येति॥ अथ दर्शनानन्तरं सुराः सुरद्विषामसुराणां शमयित्रे विनाशकाय तस्मै विष्णवे प्रणिपत्य स्तुत्यं स्तोत्रार्हम्। ‘एतिस्तुशास्वृदृजुषः क्यप्’(पा.3।1।109)इति क्यप्प्रत्ययः। वाक्च मनश्च वाङ्मनसे। ‘अचतुर-’(पा.5।4।77)इत्यच्प्रत्ययान्तो निपातः। तयोर्गोचरो विषयो न भवतीत्यवाङ्मनसगोचरः। तमेनं विष्णुं तुष्टुवुरस्तुवन् ॥ 15 ॥
विश्वास-प्रस्तुतिः
नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।
अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने॥ १६॥
मूलम्
नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।
अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने॥ १६॥
मल्लिनाथः ...{Loading}...
नम इति॥ पूर्वमादौ विश्वसृजे विश्वस्रष्ट्रे तदनु सर्गानन्तरं विश्वं विभ्रते पुष्णते। अथ विश्वस्य संहर्त्रे। एवं त्रेधा सृष्टि-स्थिति-संहारकर्तृत्वेन स्थित आत्मा स्वरूपं यस्य तस्मै ब्रह्म-विष्णु-हरात्मने तुभ्यं नमः ॥ 16 ॥
विश्वास-प्रस्तुतिः
रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते ।
देशे देशे गुणेष्वेवमवस्थास्तवमविक्रियः॥ १७॥
मूलम्
रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते ।
देशे देशे गुणेष्वेवमवस्थास्तवमविक्रियः॥ १७॥
मल्लिनाथः ...{Loading}...
रसान्तराणीति॥ एकरसं मधुरैकरसं दिवि भवं दिव्यं पयो वर्षोदकं देशे देश ऊषरादिदेशेऽन्यान्रसान्रसान्तराणि लवणादीनि यथाऽश्नुते प्राप्नोति। एवमविक्रियो निर्विकारः। एकरूप इत्यर्थः। त्वं गुणेषु सत्त्वादिष्ववस्थाः स्रष्टृत्वादिरूपा अश्नुषे ॥ 17 ॥
विश्वास-प्रस्तुतिः
अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः ।
अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम्॥ १८॥
मूलम्
अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः ।
अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम्॥ १८॥
मल्लिनाथः ...{Loading}...
अमेय इति॥ हे देव! त्वममेयो लोकैरियत्तया न परिच्छेद्यः। मितलोकः परिच्छिन्नलोकः। अनर्थी निःस्पृहः। आवहतीत्यावहः। पचाद्यच्। प्रार्थनानामावहः कामदः। अजितोऽन्यैर्न जितः। जिष्णुर्जयशीलः। अत्यन्तमव्यक्तोऽतिसूक्ष्मरूपः। व्यक्तस्य स्थूलरूपस्य कारणम् ॥ 18 ॥
विश्वास-प्रस्तुतिः
हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।
दयालुमनघस्पृष्टं पुराणमजरं विदुः॥ १९॥
मूलम्
हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।
दयालुमनघस्पृष्टं पुराणमजरं विदुः॥ १९॥
मल्लिनाथः ...{Loading}...
हृदयेति॥ हे देव! त्वां हृदयस्थं सर्वान्तर्यामितया नित्यसंनिहितं तथाप्यनासन्नमगम्यरूपत्वाद्विप्रकृष्टं च विदुः। संनिकृष्टस्यापि विप्रकृष्टत्वमिति विरोधः। त्तथाऽकामम्। न कामोऽभिलाषोऽस्य तं परिपूर्णत्वान्निःस्पृहत्वाञ्च निष्कामम् । तथापि तपस्विनं तापसं विदुः। यो निष्क्रामः स कथं तपः कुरुत इति विरोधः। परिहारस्तु-ऋषिरूपेण दुस्तरं तपस्तप्यते। दयालुं परदुःखप्रहाणपरं तथाप्यनधस्पृष्टं नित्यानन्दस्वरूपत्वाददुःखिनं विदुः। ‘अघं दुरितदुःखयोः’ इति विश्वः। दयालुरदुःखी चेति विरोधः। ‘ईर्ष्यी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते नित्यदुःखिताः॥’ इति महाभारते। पुराणमनादि मजरं निर्विकारत्वादक्षरं विदुः। चिरंतनं न जीर्यत इति विरोधालंकारः। उक्तं च -‘आभासत्वे विरोधस्य विरोधालंकृतिर्मता’ इति। विरोधेन चालौकिकमहिमत्वं व्यज्यते ॥ 19 ॥
विश्वास-प्रस्तुतिः
सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः ।
सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक्॥ २०॥
मूलम्
सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः ।
सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक्॥ २०॥
मल्लिनाथः ...{Loading}...
सर्वज्ञ इति॥ त्वं सर्वं जानातीति सर्वज्ञः । ‘इगुपध-’(पा.3।1।135) इति कप्रक्ययः। अविज्ञातः। न केनापि विज्ञात इत्यर्थः। त्वं सर्वस्य योनिः कारणम्। त्वमात्मन एव भवतीत्यात्मभूः। न ते किंचित्कारणमस्तीत्यर्थः। त्वं सर्वस्य प्रभुः। त्वमनीशः। त्वमेकः सर्वरूपभाक्। त्वमेक एव सर्वात्मना वर्तस इत्यर्थः ॥ 20 ॥
विश्वास-प्रस्तुतिः
सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।
सप्तार्चिमुखमाचख्युः सप्तलोकैकसंश्रयम्॥ २१॥
मूलम्
सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।
सप्तार्चिमुखमाचख्युः सप्तलोकैकसंश्रयम्॥ २१॥
मल्लिनाथः ...{Loading}...
सप्तेति॥ हे देव! त्वां सप्तभिः सामभी रथंतरादिभिरुपगीतम्। ‘तद्धित्तार्थ-’(पा.2।1।51) इत्युत्तरपदसमासः। सप्तानामर्णवानां जलं सप्तार्णवजलम्। पूर्ववत्समासः। तत्र शेते यः स सप्तार्णवजलेशयः। तम्। ‘शयवासवासिष्वकालात्’(पा.6।3।18) इत्यलुक्। सप्तार्चिर्मुखं यस्य तम्। ‘अग्निमुख! वै देवा’ इति श्रुतेः। सप्तानां लोकानां भूर्भुवःस्वरादीनामेकसंश्रयम्। एवंभूतमाचख्युः ॥ 21 ॥
विश्वास-प्रस्तुतिः
चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः ।
चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात्॥ २२॥
मूलम्
चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः ।
चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात्॥ २२॥
मल्लिनाथः ...{Loading}...
चतुरिति॥ चतुर्णां धर्मार्थकाममोक्षाणां वर्गश्चतुर्वर्गः। ‘त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः’ इत्यमरः। तत्फलकं यज्ज्ञानम्। चत्वारि युगानि कृतत्रेतादीनि यासु ताश्चतुर्युगाः कालावस्थाः कालपरिमाणम्। चत्वारो वर्णाः प्रकृता उच्यन्ते यस्मिन्निति चतुर्वर्णमयः। चातुर्वर्ण्यप्रचुर इत्यर्थः। ‘तत्प्रकृतवचने मयट्’(पा.5।4।21)। ‘तद्धितार्थ-’(पा.2।1।51) इत्यादिना तद्धितार्थे विषये तत्पुरुषसमासः। स लोकः। इत्येवंरूपं सर्वं चतुर्मुखाञ्चतुर्मुखरूपिणस्त्वत्तः। जातमिति शेषः। ‘इदं सर्वमसृजत यदिदं किंच’(तैत्ति.2।6) इति श्रुतेः ॥ 22 ॥
विश्वास-प्रस्तुतिः
अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।
ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये॥ २३॥
मूलम्
अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।
ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये॥ २३॥
मल्लिनाथः ...{Loading}...
अभ्यासेति॥ अभ्यासेन निगृहीतं विषयान्तरेभ्यो निवर्तितम्। तेन मनसा योगिनो हृदयाश्रयं हृत्पद्मस्थं ज्योतिर्मयं त्वां विमुक्तये मोक्षार्थविचिन्वन्त्यन्विष्यन्ति। ध्यायन्तीत्यर्थः ॥ 23 ॥
विश्वास-प्रस्तुतिः
अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव॥ २४॥
मूलम्
अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव॥ २४॥
मल्लिनाथः ...{Loading}...
अजस्येति॥ न जायत इत्यजः। ‘अन्येष्वपि दृश्यते’(पा.3।2।101) इति डप्रत्ययः। तस्याजस्य जन्मशून्यस्यापि जन्म गृह्णतः मत्स्यादिरूपेण जायमानस्य। निरीहस्य चेष्टारहितस्यापि हतद्विषः शत्रुघातिनो जागरूकस्य सर्वसाक्षितया नित्यप्रबुद्धस्यापि स्वपतो योगनिद्रामनुभवतः। इत्थं विरुद्धचेष्टस्य तव याथार्थअयं को वेद वेत्ति? ‘विदो लटो वा’(पा.3।4।84)इति णलादेशः ॥ 24 ॥
विश्वास-प्रस्तुतिः
शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः ।
पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम्॥ २५॥
मूलम्
शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः ।
पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम्॥ २५॥
मल्लिनाथः ...{Loading}...
शब्देति॥ किंच,कृष्णादिरूपेण शब्दादीन्विषयान्भोक्तुम्। नरनारायणादिरूपेण दुश्चरं तपश्चरितुम्। तथा दैत्यमर्दनेन प्रजाः पातुम्। औदासीन्येन ताटस्थ्येन वर्तितुं च पर्याप्तः समर्थोऽसि। भोग-तपसोः पालनौ-दासीन्ययोश्च परल्परविरुद्धयोराचरणे त्वरन्यः कः समर्थ इत्यर्थः ॥ 25 ॥
विश्वास-प्रस्तुतिः
बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः ।
त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे॥ २६॥
मूलम्
बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः ।
त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे॥ २६॥
मल्लिनाथः ...{Loading}...
बहुधेति॥ आगमैस्त्रयीसांख्यादिभिर्दर्शनैर्बहुधा भिन्ना अपि सिद्धि-हेतवः पुरुषार्थसाधकाः पन्थान उपायाः। जाह्नव्या इमे जाह्नवीया गाङ्गाः। ‘वृद्धाच्छः’(पा.4।2।114) इति छप्रत्ययः। ओधाः प्रवाहाः। तेऽप्यागमैरागतिभिर्बहुधा भिन्नाः सिद्धिहेतवश्च। अर्णव इव त्वय्येव निपतन्ति प्रविशन्ति। येन केनापि रूपेण त्वामेवोपयान्तीत्यर्थः। यथाहुराचार्याः-‘किं बहुना कारवोऽपि विश्वकर्मेत्युपासते’ इति ॥ 26 ॥
विश्वास-प्रस्तुतिः
त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् ।
गतिस्त्वं वीतरागाणामभूयःसंनिवृत्तये॥ २७॥
मूलम्
त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् ।
गतिस्त्वं वीतरागाणामभूयःसंनिवृत्तये॥ २७॥
मल्लिनाथः ...{Loading}...
त्वयीति॥ त्वय्यावेशितं निवेशितं चित्तं यैस्तेषाम्। तुभ्यं समर्पितानि कर्माणि यैस्तेषाम्। ‘मन्मना भव मद्धक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि कौन्तेय ! प्रतिजाने प्रियोऽसि मे॥’ (गी.9।34)इति भगवद्वचनात्। वीतरागाणां विरक्तानामभूयःसंनिवृत्तयेऽपुनरावृत्तये। मोक्षायेत्यर्थः। त्वमेव गतिः साधनम्। ‘तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वेता.6।15) इति श्रुतेरित्यर्थः ॥ 27 ॥
विश्वास-प्रस्तुतिः
प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव ।
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा॥ २८॥
मूलम्
प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव ।
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा॥ २८॥
मल्लिनाथः ...{Loading}...
प्रत्यक्ष इति॥ प्रत्यक्षः प्रत्यक्षप्रमाणगम्योऽपि तव मह्यादिः पृथिव्यादिर्महिमैश्वर्यमपरिच्छेद्यः। इयत्तया नावधार्यः। आप्तवाग्वेदः। ‘यतो वा इमानि भूतानि जायन्ते’(तैत्तिरीय.3।1) इत्यादिश्रुतेः। अनुमानं ‘क्षित्यादिकं सकर्तृकं कार्यत्वात्,घटवत्’इत्यादिकम्। ताभअयां साध्यं गम्यं त्वां प्रति का कथा? प्रत्यक्षमपि त्वत्कृतं जगदपरिच्छेद्यम्,तत्कारणमप्रत्यक्षस्त्वमपरिच्छेद्य इति किमु वक्यव्यमित्यर्थः ॥ 28 ॥
विश्वास-प्रस्तुतिः
केवलं स्मरणेनैव पुनांसि पुरुषं यतः ।
अनेन वृत्तयः शेषा निवेदितफलास्त्वयि॥ २९॥
मूलम्
केवलं स्मरणेनैव पुनांसि पुरुषं यतः ।
अनेन वृत्तयः शेषा निवेदितफलास्त्वयि॥ २९॥
मल्लिनाथः ...{Loading}...
केवलमिति॥ स्मरणेन केवलं कृत्स्नम्। ‘केवलः कृत्स्न एकश्च’ इति शाश्वतः। पुरुषं स्मर्तारं जनं पुनासि। यतः यदित्यर्थः। अनेन स्मृतिकार्येणैव त्वयि त्वद्विषये याः शेषा अवशिष्टा वृत्तयो दर्शनस्पर्शनादयो व्यापारास्ता निवेदितफला विज्ञापितकार्याः। तव स्मरणस्यैवैतत्फलं,दर्शनादीनां तु कियदिति नावधारयाम इति भावः ॥ 29 ॥
विश्वास-प्रस्तुतिः
उदधेरिव रत्नानि तेजांसीव विवस्वतः ।
स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते॥ ३०॥
मूलम्
उदधेरिव रत्नानि तेजांसीव विवस्वतः ।
स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते॥ ३०॥
मल्लिनाथः ...{Loading}...
उदधेरिति॥ उदधे रत्नानीव। विवस्वतस्तेजांसीव। दूराण्यवाङ्भनसगोचराणि ते चरितानि स्तुतिभ्यो व्यतिरिच्यन्ते। निःशेषं स्तोतुं न शक्यन्त इत्यर्थः ॥ 30 ॥
विश्वास-प्रस्तुतिः
अनवाप्तमवाप्तव्यं न ते किञ्चन विद्यते ।
लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः॥ ३१॥
मूलम्
अनवाप्तमवाप्तव्यं न ते किञ्चन विद्यते ।
लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः॥ ३१॥
मल्लिनाथः ...{Loading}...
अनवाप्तमिति॥ अनवाप्तमप्राप्तम्। अवाप्तव्यं प्राप्तव्यं ते तव किंचन किंचिदपि न विद्यते। नित्यपरिपूर्णत्वादिति भावः। तर्हि किंनिबन्धने जन्मकर्मणी तत्राह-लोकेति। एको लोकानुग्रह एव ते तव जन्मकर्मणोर्हेतुः। परमकारुणिकस्य ते परार्थैव प्रवृत्तिः,न स्वार्थेत्यर्थः ॥ 31 ॥
विश्वास-प्रस्तुतिः
महिमानं यदुत्कीर्त्य तव संह्रियते वचः ।
श्रमेण तदशक्त्या वा न गुणानामियत्तया॥ ३२॥
मूलम्
महिमानं यदुत्कीर्त्य तव संह्रियते वचः ।
श्रमेण तदशक्त्या वा न गुणानामियत्तया॥ ३२॥
मल्लिनाथः ...{Loading}...
महिमानमिति॥ तव महिमानमुत्कीर्त्य वचः सं ह्रियत इति यत्। तद्वचःसंहरणं श्रमेण वाग्यापारश्रान्त्या। अशक्त्या कार्त्स्न्येन वक्तुमशक्यत्वाद्वा। गुणानामियत्तयैतावन्मात्रतया न। तेषामानन्त्यादिति भावः ॥ 32 ॥
विश्वास-प्रस्तुतिः
इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् ।
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥ ३३॥
मूलम्
इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् ।
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥ ३३॥
मल्लिनाथः ...{Loading}...
इतीति॥ इति ते सुरास्तमधोभूतमक्षजमिन्द्रियजं ज्ञानं यस्मिंस्तमधोक्षजं विष्णुम्। प्रसादयामासुः प्रसन्नं चक्रुः। हि यस्मात् परमेष्ठिनः सर्वोत्तमस्य तस्य देवस्य सा देवैः कृता भूतार्थव्याहृतिर्भूतस्य सत्यस्यार्थस्य व्याहृतिरुक्तिः। ‘युक्ते क्ष्मादावृते भूतम्’ इत्यमरः। न स्तुतिर्न प्रशंसामात्रम्। महान्तो हि यथाकथंचिन्न सुलभा इति भावः। परमे स्थाने तिष्ठतीति परमेष्ठी। ‘परमे कित्’(उणा.450) इत्युणादिसूत्रेण तिष्ठतेरिनिः। ‘तत्पुरुषे कृति बहुलम्’(पा.6।2।2) इति सप्तम्या अलुक्। ‘स्थास्थिन्स्थृणाम्’ इति वक्तव्यात्षत्वम् ॥ 33 ॥
विश्वास-प्रस्तुतिः
तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः ।
भयमप्रलयोद्वेलादाचख्युर्नैरृतोदधेः॥ ३४॥
मूलम्
तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः ।
भयमप्रलयोद्वेलादाचख्युर्नैरृतोदधेः॥ ३४॥
मल्लिनाथः ...{Loading}...
तस्मा इति॥ सुरा देवाः कुशलस्य संप्रश्नेन व्यञ्जिता प्रकटीकृता प्रीततिर्यस्य तस्मै। लक्षितप्रसादायेत्यर्थः। अन्यथा अनवसरविज्ञप्तिमुखराणामिव निष्फला स्यादिति भावः। तस्मै विष्णवेऽप्रलये प्रलयाभावेऽप्युद्वेलादुन्मर्यादात्। नैर्ऋतो राक्षसः। स एवोदधिः। तस्माद्भयमाचख्युः कथितवन्तः ॥ 34 ॥
विश्वास-प्रस्तुतिः
अथ वेलासमासन्नशैलरन्ध्रानुवादिना ।
स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः॥ ३५॥
मूलम्
अथ वेलासमासन्नशैलरन्ध्रानुवादिना ।
स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः॥ ३५॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ वेलायामब्धिकूले समासन्नानां संनिकृष्टानां शैलानां रन्ध्रेषु गह्वरेष्वनुनादिना प्रतिध्वनिमता स्वरेण परिभूतार्णवध्वनिस्तिरस्कृतसमुद्रघोषो भगवानुवाच ॥ 35 ॥
विश्वास-प्रस्तुतिः
पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता ।
बभूव कृतसंस्कारा चरितार्थैव भारती॥ ३६॥
मूलम्
पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता ।
बभूव कृतसंस्कारा चरितार्थैव भारती॥ ३६॥
मल्लिनाथः ...{Loading}...
पुराणस्येति॥ पुराणस्य चिरंतनस्य कवेस्तस्य भगवतो वर्णस्थानेषूरः-कण्ठादिषु समीरिता सम्यगुञ्चारिता। अत एव कृतः संपादितः संस्कारः साधुत्वस्पष्टतादिप्रयत्नो यस्याः सा भारती वाणी चरितार्था कृतार्था वभूवैव। ‘एव’- कारस्त्वसंभावनाविपरीतभावनाव्युदासार्थः ॥ 36 ॥
विश्वास-प्रस्तुतिः
बभौ सदशनज्योत्स्ना सा विभोर्वदनोद्गता ।
निर्यातशेषा चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी॥ ३७॥
मूलम्
बभौ सदशनज्योत्स्ना सा विभोर्वदनोद्गता ।
निर्यातशेषा चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी॥ ३७॥
मल्लिनाथः ...{Loading}...
बभाविति॥ विभोर्विष्णोर्वदनादुद्गता निःसृता। सदशनज्योत्स्ना दन्तकान्तिसहिता। इदं च विशेषणं धावल्यातिशयार्थम्। अत एव सा भारती। चरणादङ्घ्रेर्निर्याता चासौ शेषा च निर्यातशेषा। निःसृतावशिष्टेत्यर्थः। ‘स्रियाः पुंवत्-’(पा.6।3।34)इत्यनुवर्त्य ‘पुंवत्कर्मधारय-’(पा.6।3।42)इति पुंवद्भावः। ‘निर्यात’शब्दस्य या निर्याता सावशेषा सा गङ्गेवेति सामानाधिकरण्यनिर्वाहः। निर्यातायाः शेषेति विग्रहे पुंवद्भावो दुर्घटा एव। ऊर्ध्वप्रवर्तिन्यूर्ध्ववाहिनी गङ्गेव। बभौ। इत्युत्प्रेक्षा ॥ 37 ॥
विश्वास-प्रस्तुतिः
जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ ।
अङ्गिनां तमसेवोभौ गुणौ प्रथममध्यमौ॥ ३८॥
मूलम्
जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ ।
अङ्गिनां तमसेवोभौ गुणौ प्रथममध्यमौ॥ ३८॥
मल्लिनाथः ...{Loading}...
जान इति॥ हे देवाः! वो युष्माकमनुभाव-पराक्रमौ महिम-पुरुषकारौ रक्षसा रावणेन। अङ्गिनां शरीरिणां प्रथम-मध्यमावुभौ गुणौ सत्त्व-रजसी तमसेव तमोगुणेनेव। आक्रान्तौ जाने। वाक्यार्थः कर्म ॥ 38 ॥
विश्वास-प्रस्तुतिः
विदितं तप्यमानं च तेन मे भुवनत्रयम् ।
अकामोपनतेनेव साधोर्हृदयमेनसा॥ ३९॥
मूलम्
विदितं तप्यमानं च तेन मे भुवनत्रयम् ।
अकामोपनतेनेव साधोर्हृदयमेनसा॥ ३९॥
मल्लिनाथः ...{Loading}...
विदितमिति॥ किंच,अकामेनानिच्छयोपनतेन प्रमादादागतेनैनसा पापेन साधोः सज्जनस्य हृदयमिव। तेन रक्षसा तप्यमानं संतप्यमानम्। तपेर्भौवादिकात्कर्मणि शानच्। भुवनत्रयं च मे विदितम्। मया ज्ञायत इत्यर्थः। ‘मतिबुद्धि-’(पा.3।2।188) इत्यादिना वर्तमाने क्तः। ‘क्तस्य च वर्तमाने’(पा.2।3।67)इति षष्टी॥ 39 ॥
विश्वास-प्रस्तुतिः
कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा ।
स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते॥ ४०॥
मूलम्
कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा ।
स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते॥ ४०॥
मल्लिनाथः ...{Loading}...
कार्येष्विति॥ किंच,एककार्यत्वादावयोरेककार्यत्वाद्धेतोः। कार्येषु कर्तव्येषु विषयेषु वज्रिणेन्द्रेण। अभ्यर्थ्यः’इदं कुरु’ इति प्रार्थनीयो नास्मि। तथा हि-वातः स्वयमेवाग्नेः सारथ्यं साहाय्यं प्रतिपद्यते प्राप्नोति। न तु वह्निप्रार्थनया। इत्येवकारार्थः। प्रेक्षावतां हि स्वार्थे स्वत एव प्रवृत्तिः,न तु परप्रार्थनया। स्वार्थश्चायं ममापीत्यर्थः॥ 40 ॥
विश्वास-प्रस्तुतिः
स्वासिधारापरिहृतः कामं चक्रस्य तेन मे ।
स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा॥ ४१॥
मूलम्
स्वासिधारापरिहृतः कामं चक्रस्य तेन मे ।
स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा॥ ४१॥
मल्लिनाथः ...{Loading}...
स्वेति॥ स्वासिधारया स्वखङ्गधारया परिहृतः। अच्छिन्न इत्यर्थः। दशमो मूर्धा मे मम चक्रस्य कामं पर्याप्तो लभ्यांशः प्राप्तव्यभाग इव तेन रक्षसा स्थापितः। तत्सर्वथा तमहं हनिष्यामीत्यर्थः ॥ 41 ॥
विश्वास-प्रस्तुतिः
स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः ।
अत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः॥ ४२॥
मूलम्
स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः ।
अत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः॥ ४२॥
मल्लिनाथः ...{Loading}...
स्रष्टुरिति॥ किंतु स्रष्टुर्ब्रह्मणो वरातिसर्गाद्वरदानाद्धेतोः। मया तस्य दुरात्मनो रिपो रावणस्यात्यारूढमत्यारोहणम्। अतिवृद्धिरित्यर्थः। नपुंसके भावेक्तः। भोगिनः सर्पस्यात्यारूढं चन्दनेनेव सोढम्। चन्दनद्रुमस्यापि तथा सहनं स्रष्टुर्नियतेरिति द्रष्टव्यम् ॥ 42 ॥
विश्वास-प्रस्तुतिः
धातारं तपसा प्रीतं ययाचे स हि राक्षसः ।
दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः॥ ४३॥
मूलम्
धातारं तपसा प्रीतं ययाचे स हि राक्षसः ।
दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः॥ ४३॥
मल्लिनाथः ...{Loading}...
धातारमिति॥ स राक्षसस्तपसा प्रीतं संतुष्टं धातारं ब्रह्माणाम्। मर्त्येषु विषय आस्थापराङ्मुखः आदरविमुखः सन्। मर्त्याननादृत्येत्यर्थः। दैवादष्टविधात् सर्गाद्दैवसृष्टेरवध्यत्वं ययाचे हि ॥ 43 ॥
विश्वास-प्रस्तुतिः
सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमम् ।
करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम्॥ ४४॥
मूलम्
सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमम् ।
करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम्॥ ४४॥
मल्लिनाथः ...{Loading}...
सोऽहमिति॥ सोऽहम्। दशरथस्यापत्यं पुमान् दाशरथिः। ‘अत इञ्’(पा.8।1।95) इतीञ्प्रत्ययः। रामो भूत्वा तीक्ष्णैः शरैस्तस्य रावणस्य शिरांस्येव कमलानि तेषामुञ्चयं राशिं रणभूमेर्बलिक्षमं पूजार्हं करिष्यामि। पुष्पविशदा हि पूजेति भावः ॥ 44 ॥
विश्वास-प्रस्तुतिः
अचिराद्यज्वभिर्भागं कल्पितं विधिवत्पुनः ।
मायाविभिरनालीढमादास्यध्वे निशाचरैः॥ ४५॥
मूलम्
अचिराद्यज्वभिर्भागं कल्पितं विधिवत्पुनः ।
मायाविभिरनालीढमादास्यध्वे निशाचरैः॥ ४५॥
मल्लिनाथः ...{Loading}...
अचिरादिति॥ हे देवाः! यज्वभिर्याज्ञिकैर्विधिवत् कल्पितमुपहृतं भागं हवि र्भागं मायाविभिर्मायावद्भिः। ‘अस्मायामेधास्रजो विनिः’(पा.5।2।121)इति विनिप्रत्ययः। निशाचरै रक्षोभिरनालीढमनास्वादितं यथा तथाऽचिरात् पुनरादास्यध्वे ग्रहीष्यध्वे ॥ 45 ॥
विश्वास-प्रस्तुतिः
वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि ।
पुष्पकालोकसंक्षोभं मेघावरणतत्पराः॥ ४६॥
मूलम्
वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि ।
पुष्पकालोकसंक्षोभं मेघावरणतत्पराः॥ ४६॥
मल्लिनाथः ...{Loading}...
वैमानिका इति॥ मरुतां देवानां पथि व्योम्नि वैमानिका विमानैश्चरन्तः। ‘चरति’(पा.4।4।8) इति ठक्प्रत्ययः। मेघावरणतत्परा रावणभयान्मेघेष्वन्तर्धानतत्पराः। पुण्यकृतः सुकृतिनः पुष्पकालोकेन यदृच्छया रावणविमानदर्शनेन यः संक्षोभो भयचकितं तं त्यजन्तु । ‘संक्षोभो भयचकितम्’ इति शब्दार्णवः ॥ 46 ॥
विश्वास-प्रस्तुतिः
मोक्ष्यध्वे स्वर्गबन्दीनां वेणीबन्धनदूषितान् ।
शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः॥ ४७॥
मूलम्
मोक्ष्यध्वे स्वर्गबन्दीनां वेणीबन्धनदूषितान् ।
शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः॥ ४७॥
मल्लिनाथः ...{Loading}...
मोक्ष्यध्व इति॥ हे देवाः! यूयं शापेन नलकूबरशापेन यन्त्रिताः प्रतिबद्धाः पौलस्त्यस्य रावणस्य बलात्कारेण ये कचग्रहाः केशाकर्षास्तैरदूषिताननुपहतान् स्वर्गबन्दीनां हृतस्वर्गाङ्गनानां वेणीबन्धान् मोक्ष्यध्वे। पुरा किल नलकूबरेणात्मानमभिसरन्त्या रम्भाया बलात्कारेण संभोगात्क्रुद्धेन दुरात्मा रावणः शप्तः-‘स्त्रीणां बलाद्ग्रहणे मूर्धा ते शतधा भविष्यति’-इति भारतीया कथानुसंधेया ॥ 47 ॥
विश्वास-प्रस्तुतिः
रावणावग्रहक्लान्तमिति वागमृतेन सः ।
अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे॥ ४८॥
मूलम्
रावणावग्रहक्लान्तमिति वागमृतेन सः ।
अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे॥ ४८॥
मल्लिनाथः ...{Loading}...
रावणेति॥ स कृष्णो विष्णुः स एव मेघो नीलमेघश्च। विश्रवसोऽपत्यं पुमानिति विग्रहे रावणः। ‘विश्रवः’शब्दाच्छिवादित्वादणि ‘विश्रवसो विश्रवणरवणौ’इत्यन्तर्गणसूत्रेण ‘विश्रवः’शब्दस्य वृत्तिविषये रवणादेशे रावण इति सिद्धम्। स एवावग्रहो वर्षप्रतिबन्धः,तेन क्लान्तं म्लानं मरुतो देवा एव सस्यं तत्। इत्येवंरूपेण वागमृतेन वाक्सलिलेन। ‘अमृतं यज्ञशेषे स्यात्पीयूषे स्यात्पीयूषे सलिले।़मृतम्’इति विश्वः। अभिवृष्याभिषिच्य तिरोदधेऽन्तर्दधे ॥ 48 ॥
विश्वास-प्रस्तुतिः
पुरहूतप्रभृतयः सुरकार्योद्यतं सुराः ।
अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमाः॥ ४९॥
मूलम्
पुरहूतप्रभृतयः सुरकार्योद्यतं सुराः ।
अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमाः॥ ४९॥
मल्लिनाथः ...{Loading}...
पुरुहूतेति॥ पुरुहूतप्भृतय इन्द्राद्याः सुराः सुरकार्ये रावणवधरूप उद्यतं विष्णुमंशैर्मात्राभिः। द्रुमाः पुष्पैः स्वांशैर्वायुमिव। अनुययुः। सुग्रीवादिरूपेण वानरयोनिषु जाता इत्यभिप्रायः ॥ 49 ॥
विश्वास-प्रस्तुतिः
अथ तस्य विशांपत्युरन्ते कामस्य कर्मणः ।
पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम्॥ ५०॥
मूलम्
अथ तस्य विशांपत्युरन्ते कामस्य कर्मणः ।
पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम्॥ ५०॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ स्य विशांपत्युर्दशरथस्य संबन्धिनः काम्यस्य कर्मणः पुत्रकामेष्टेरन्तेऽवसानेऽग्नेः पावकात् पुरुषः कश्चिद्दिव्यः पुमान्। ऋत्विजां विस्मयेन सह प्रबभूव प्रादुर्बभूव। तदाविर्भावात्तेषामपि विस्मयोऽभूदित्यर्थः ॥ 50 ॥
विश्वास-प्रस्तुतिः
हेमपात्रगतं दोर्भ्यामादधानः पयश्चरुम् ।
अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम्॥ ५१॥
मूलम्
हेमपात्रगतं दोर्भ्यामादधानः पयश्चरुम् ।
अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम्॥ ५१॥
मल्लिनाथः ...{Loading}...
हेमपात्रेति॥ आद्यस्य पुंसो विष्णोरनुप्रवेशादधिष्ठानाद्धेतोस्तेन दिव्यपुरुषेणापि दुर्वहम्। चतुर्दशभुवनोदरस्य भगवतो हरेरतिगरीयस्त्वाद्वोढुमशक्यम्। हेमपात्रगतं पयसि पक्वं चरुं पयश्चरुं पायसान्नं दोर्भ्यामादधानो वहन्। ‘अनल्पाग्निभिरूष्मपक्व ओदनश्चरुः’ इति याज्ञिकाः ॥ 51 ॥
विश्वास-प्रस्तुतिः
प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः ।
वृषेव पयसां सारमाविष्कृतमुदन्वता॥ ५२॥
मूलम्
प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः ।
वृषेव पयसां सारमाविष्कृतमुदन्वता॥ ५२॥
मल्लिनाथः ...{Loading}...
प्राजापत्येति॥ नृपो दशरथः प्राजापत्येन प्रजापतिसंबन्धिना पुरुषेणोपनीतं,न तु वसिष्ठेन। ‘प्राजापत्यं नरं विद्धिमामिहाभ्यागतं नृप!’ (बाल.16।16) इति रामायणात्। तदन्नं पायसान्नम्। उदन्वतोदधिनाऽऽविष्कृतं प्रकाशितं पयसां सारममृतं वृषा वासव इव। ‘वासवो वृत्रहा वृषा’ इत्यमरः। प्रत्यग्रहीत् स्वीचकार ॥ 52 ॥
विश्वास-प्रस्तुतिः
अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः ।
प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत्॥ ५३॥
मूलम्
अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः ।
प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत्॥ ५३॥
मल्लिनाथः ...{Loading}...
अनेनेति॥ तस्य राज्ञो दशरथस्यान्यैर्दुर्लभा असाधारणा गुणा अनेन कथइता व्याख्याताः। यद्यस्मात्त्रयो लोकास्त्रैलक्यम्। चातुर्वर्ण्यादित्वात्स्वार्थेष्यञ्। तस्य प्रभवः कारणं विष्णुरपि तस्मिन् राज्ञि प्रसूतिमुत्पत्तिं चक्रमे कामितवान्। त्रिभुवनकारणस्यापि कारणमिति परमावधिर्गुणसमाश्रय इत्यर्थः ॥ 53 ॥
विश्वास-प्रस्तुतिः
स तेजो वैष्णवं पत्न्योर्विभेजे चरुसंज्ञितम् ।
द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम्॥ ५४॥
मूलम्
स तेजो वैष्णवं पत्न्योर्विभेजे चरुसंज्ञितम् ।
द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम्॥ ५४॥
मल्लिनाथः ...{Loading}...
स इति॥ स नृपः चरुसंज्ञाऽस्य संजाता चरुसंज्ञितम्। वैष्णवं तेजः पत्न्योः कौसल्या-कैकेय्योः। द्योश्च पृथिवी च द्यावा-पृथिव्यौ। ‘दिवसश्च पृथिव्याम्’इति चकारात् ‘दिव्’शब्दस्य द्यावादेशः। तयोर्द्यावापृथिव्योः। अह्नः पतिरहर्पतिः। ‘अहरादीनां पत्यादिषु वा रेफः’(वा.4815)इत्युपसंख्यानाद्वैकल्पिको रेफस्य रेफादेशो विसर्गापवादः। प्रत्यग्रमातपं बालातपमिवप। विभेजे। विभज्य ददावित्यर्थः ॥ 54 ॥
विश्वास-प्रस्तुतिः
अर्चिता तस्य कौसल्या प्रिया केकयवंशजा ।
अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः॥ ५५॥
मूलम्
अर्चिता तस्य कौसल्या प्रिया केकयवंशजा ।
अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः॥ ५५॥
मल्लिनाथः ...{Loading}...
अर्चितेति॥ तस्य राज्ञः। कौ पृथिव्यां सलति गच्छतीति कोसलः। ‘सलगतौ’पचाद्यच्। कुशब्दस्य पृषोदरादित्वाद्गुणः। कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या। ‘वृद्धेत्कोसलाजादाञ्ञ्यङ्’(पा.4।1।171) इति ञ्यङ्,‘यङश्चाप्’(पा.4।1।74)इति चाप्। अत एव सूत्रे निर्देशात् ‘कोसल’शब्दो दन्त्यसकारमध्यमः। अर्चिता ज्येष्टा मान्या। केकयवंशजा कैकेयी। प्रियेष्टा। अतो हेतोः,ईश्वरो भर्ता नृपः सुमित्रां ताभ्यां कौसल्या-कैकेयीभ्यां संभावितां भागदानेन मानितामैच्छदिच्छति स्म। एवं च सामान्यं तिसृणां च भागप्रापणमिति राज्ञ्युचितज्ञता कौशलं च लभ्यते ॥ 55 ॥
विश्वास-प्रस्तुतिः
ते बहुज्ञस्य चित्तज्ञे पत्नौ पत्युर्महीक्षितः ।
चरोरर्धार्धभागाभ्यां तामयोजयतामुभे॥ ५६॥
मूलम्
ते बहुज्ञस्य चित्तज्ञे पत्नौ पत्युर्महीक्षितः ।
चरोरर्धार्धभागाभ्यां तामयोजयतामुभे॥ ५६॥
मल्लिनाथः ...{Loading}...
ते इति॥ बहुज्ञस्य सर्वज्ञस्य। उचितज्ञस्येत्यर्थः। पत्युर्महीक्षितः क्षितीश्वरस्य। विशेषणत्रयेण राज्ञोऽनुसरणीयतामाह-चित्तज्ञे अभिप्रायज्ञे ते उभे पत्न्यौ कौसल्या-कैकेय्यौ। चरोर्यावर्धभागौ समभागौ तयोर्यावर्धौ तौ च तौ भागौ चेत्यर्धभागावेकदेशौ। ताभ्यामर्धभागौ समभागौ तयोर्यावर्धौ तौ च तौ भागौ चेत्यर्धभागावेकदेशौ। ताभ्यामर्धार्धभागाभ्याम्। ‘पुंस्यर्धोऽर्धं समेंऽशके’ इत्यमरः। तां सुमित्रामयोजयतां युक्तां चक्रतुः। अयं च विभागो न रामायणसंवादी; तत्र चरोरर्धं कौसल्याया अविशिष्टार्धं कैकेय्यै शिष्टं पुनः सुमित्राया इत्यभिधानात्। किंतु पुराणान्तरसंवादो द्रष्टव्यः। उक्तं च नारसिंहे-‘ते पिण्डप्राशने काले सुमित्रायै महीपतेः। पिण्डाभ्यामल्पमल्पं तु स्वभगिन्यै प्रयच्छतः॥’ इति। एवमन्यत्रापि विरेधे पुराणान्तरात्समाधातव्यम् ॥ 56 ॥
विश्वास-प्रस्तुतिः
सा हि प्रणयवत्यासीत्सपत्न्योरुभयोरपि ।
भ्रमरी वारणस्येव मदनिस्यन्दरेखयोः॥ ५७॥
मूलम्
सा हि प्रणयवत्यासीत्सपत्न्योरुभयोरपि ।
भ्रमरी वारणस्येव मदनिस्यन्दरेखयोः॥ ५७॥
मल्लिनाथः ...{Loading}...
सेति॥ सा सुमित्रा। उभयोरपि। समान एकः पतिर्ययोस्तयोः सपत्नयोः। ‘नित्यं सपत्न्यादिषु’(पा.4।1।35) इति ङीप्। नकारादेशश्च। भ्रमरी भृङ्गाङ्गना वारणस्य गजस्य मदनिस्यन्दरेखयोरिव गण्डद्वयगतयोरिति भावः। प्रणयवती प्रेमवत्यासीत्। ‘सपत्न्योः’ इत्यत्र समासान्तर्गतस्य पत्युरुपमानं ‘वारणस्य’ इति ॥ 57 ॥
विश्वास-प्रस्तुतिः
ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसंभवः ।
सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः॥ ५८॥
मूलम्
ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसंभवः ।
सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः॥ ५८॥
मल्लिनाथः ...{Loading}...
ताभिरिति॥ ताभिः कौसल्यादिभिः प्रजानां भूत्या अभ्युदयाय। देवस्य विष्णोरंशः संभवः कारणं यस्य स गर्भः। सूर्यस्येमाः सौर्यः,ताभिः सौरीभिः। ‘सूर्यतिष्य-’(6।4।149)इत्युपधायकारस्य लोपः। अमृता इत्याख्या यासां ताभिः। जलवहनसाम्यान्नाडीभिरिव। नाडीभिर्वृष्टिविसर्जनीभिर्दीधितिभिः। अपां विकारोऽम्मयो जलमयो गर्भ इव। दध्रे धृतः। जातावेकवचनम्। गर्भा दधिर इत्यर्थः। अत्र यादवः-‘तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने। शतत्रयं हिमोत्सर्गे तावद्गर्भस्य सर्जने॥ आनन्दाश्च हे मेध्याश्च नूतनाः पूतना इति। चतुःशतं वृष्टिवाहास्ताः सर्वा अमृताः स्त्रियः॥’ इति॥ 58 ॥
विश्वास-प्रस्तुतिः
सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः ।
अन्तर्गतफलारम्भाः सस्यानामिव संपदः॥ ५९॥
मूलम्
सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः ।
अन्तर्गतफलारम्भाः सस्यानामिव संपदः॥ ५९॥
मल्लिनाथः ...{Loading}...
सममिति॥ समं युगपदापन्ना गृहीताः सत्त्वाः प्राणिनो याभिस्ता आपन्नसत्त्वा गर्भिण्यः। ‘आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी’ इत्यमरः। अत एव,आपाण्डुरत्विष ईषत्पाण्डुरवर्णास्ताः राजपत्न्यः। अन्तर्गता गुप्ताः फलारम्भाः फलप्रादुर्भावा यासां ताः सस्यानां संपद इव। रेजुर्बभुः ॥ 59 ॥
विश्वास-प्रस्तुतिः
गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः ।
जलजासिकदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः॥ ६०॥
मूलम्
गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः ।
जलजासिकदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः॥ ६०॥
मल्लिनाथः ...{Loading}...
गुतमिति॥ सर्वास्ताः स्वप्नेषु। जलजः शङ्खः। जलजासिगदाशार्ङ्गतचक्रैर्लाञ्छिता मूर्तयो येषां तैर्वामनैर्ह्रस्वैः पुरुषैर्गुप्तं रक्षितमात्मानं स्वरूपं ददृशुः ॥ 60 ॥
विश्वास-प्रस्तुतिः
हेमपक्षप्रभाजालं गगने च वितन्वता ।
उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा॥ ६१॥
मूलम्
हेमपक्षप्रभाजालं गगने च वितन्वता ।
उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा॥ ६१॥
मल्लिनाथः ...{Loading}...
हेमेति॥ किंचेति चार्थः। हेम्नः सुवर्णस्य पक्षाणां प्रभाजालं कान्तिपुञ्जं वितन्वता विस्तारयता। वेगेनाकृष्टाः पयोमुचो मेघा येन तेन। सुपर्णेन गरुत्मता गरुडेन गगने ता उह्यन्ते स्मोढाः ॥ 61 ॥
विश्वास-प्रस्तुतिः
बिभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बितम् ।
पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया॥ ६२॥
मूलम्
बिभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बितम् ।
पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया॥ ६२॥
मल्लिनाथः ...{Loading}...
बिभ्रत्येति॥ किंच,स्तनयोरन्तरे मध्ये विलम्बिनं लम्बमानम्। न्यस्यत इति न्यासः। कौस्तुभ एव न्यासस्तम्। पत्या कौतुकान्न्यस्तम्। कौस्तुभमित्यर्थः। बिभ्रत्या पद्ममेव व्यजनं हस्ते यस्यास्तया लक्ष्म्या पर्युपास्यन्तोपासिताः ॥ 62 ॥
विश्वास-प्रस्तुतिः
कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः ।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपतस्थिरे॥ ६३॥
मूलम्
कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः ।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपतस्थिरे॥ ६३॥
मल्लिनाथः ...{Loading}...
कृतेति॥ किंच,दिवि भवायां दिव्यायां त्रिस्रोतस्याकाशगङ्गायां कृताभिषेकैः कृतावगाहैः। परं ब्रह्म वेदरहस्यं गृणद्भिः पठद्भिः सप्तभिर्ब्रह्मर्षिभिः कश्यपप्रभृतिभिरुपतस्थिर उपासांचक्रिरे ॥ 63 ॥
विश्वास-प्रस्तुतिः
ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिवः ।
मेने परार्ध्यमात्मानं गुरुत्वेन जगद्गुरोः॥ ६४॥
मूलम्
ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिवः ।
मेने परार्ध्यमात्मानं गुरुत्वेन जगद्गुरोः॥ ६४॥
मल्लिनाथः ...{Loading}...
ताभ्य इति॥ पार्थिवो दशरथस्ताभ्यः पत्नीभ्यः। ‘आख्यातोपयोगे’(पा.1।4।29) इत्यपादानत्वात्पञ्चमी। तथाविधानुक्तप्रकारान्स्वप्नाञ्छ्रुत्वा प्रीतः सन्। आत्मानं जगद्गुरोर्विष्णोरपि गुरुत्वेन पितृत्वेन हेतुना परार्ध्यं सर्वोत्कृष्टं मेने हि ॥ 64 ॥
विश्वास-प्रस्तुतिः
विभक्तात्मा विभुस्तासामेकः कुक्षिष्वनेकधा ।
उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव॥ ६५॥
मूलम्
विभक्तात्मा विभुस्तासामेकः कुक्षिष्वनेकधा ।
उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव॥ ६५॥
मल्लिनाथः ...{Loading}...
विभक्तेति॥ एक एकरूपो विभुर्विष्णुस्तासां राजपत्नीनां कुक्षिषु गर्भेषु। प्रसन्नानां निर्मलानामपां कुक्षिषु प्रतिमाचन्द्रः प्रतिबिम्बचन्द्र इव। अनेकधा विभक्तात्मा सन्। उवास ॥ 65 ॥
विश्वास-प्रस्तुतिः
अथाग्र्यमहिषी राज्ञः प्रसूतिसमये सती ।
पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः॥ ६६॥
मूलम्
अथाग्र्यमहिषी राज्ञः प्रसूतिसमये सती ।
पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः॥ ६६॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ राज्ञो दशरथस्य सती पतिव्रता। अग्र्या चासौ महिषी चाग्र्यमहिषी कौसल्या। प्रसूतिसमये प्रसूतिकाले। ओषधिर्नक्तं रात्रिसमये तमोऽपहन्तीति तमोपहम्। ‘अपे क्लेशतमसोः’(पा.3।2।50)इति ङप्रत्ययः। ज्योतिरिव। तमोपहं तमोनाशकरं पुत्रं लेभे प्राप॥ 66 ॥
विश्वास-प्रस्तुतिः
राम इत्यभिरामेण वपुषा तस्य चोदितः ।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम्॥ ६७॥
मूलम्
राम इत्यभिरामेण वपुषा तस्य चोदितः ।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम्॥ ६७॥
मल्लिनाथः ...{Loading}...
राम इति॥ अभिरमन्तेऽत्रेत्यभिरामं मनोहरम्। अधिकरणार्थे घञ्प्रत्ययः। तेन वपुषा चोदितः प्रेरितो गुरुः पिता दशरथस्तस्य पुत्रस्य जगतां प्रथमं मङ्गलं सुलक्षणं राम इति नामधेयं चक्रे। अभिरामत्वमेव रामशब्दप्रवृत्तिनिमित्तमित्यर्थः ॥ 67 ॥
विश्वास-प्रस्तुतिः
रघुवंशप्रदीपेन तेनाप्रतिमतेजसा ।
रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन्॥ ६८॥
मूलम्
रघुवंशप्रदीपेन तेनाप्रतिमतेजसा ।
रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन्॥ ६८॥
मल्लिनाथः ...{Loading}...
रघ्विति॥ रघुवंशस्य प्रदीपेन प्रकाशकेन। अप्रतिमतेजसा तेन रामेण रक्षागृहगताः सूतिकागृहगता दीपाः प्रत्यादिष्टाः प्रतिबद्धा इवाभवन्। महादीपसमीपे नाल्पाः स्फुरन्तीति भावः ॥ 68 ॥
विश्वास-प्रस्तुतिः
शय्यागतेन रामेण माता शातोदरी बभौ ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा॥ ६९॥
मूलम्
शय्यागतेन रामेण माता शातोदरी बभौ ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा॥ ६९॥
मल्लिनाथः ...{Loading}...
शय्येति॥ शातोदरी गर्भमोचनात्कृशोदरी माता शय्यागतेन रामेण। सैकते पुलिने योऽम्भोजबलिः पद्मोपहारस्तेन शरदि कृशा जाह्नवी गङ्गेव। बभौ ॥ 69 ॥
विश्वास-प्रस्तुतिः
कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम्॥ ७०॥
मूलम्
कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम्॥ ७०॥
मल्लिनाथः ...{Loading}...
कैकेय्या इति॥ केकयस्य राज्ञोऽपत्यं स्त्री कैकेयी। ‘तस्यापत्यम्’ (पा.4।1।92)इत्यणि कृते ‘केकयमित्रयुप्रलयानां यादेरियः’(पा.3।2।50)इतीयादेशः। तस्या भरतो नाम शीलवांस्तनयो जज्ञे जातः। यस्तनयः। प्रश्रयो विनयः श्रियमिव। जनयित्रीं मातरमलंचक्रे ॥ 70 ॥
विश्वास-प्रस्तुतिः
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।
सम्यगाराधिता विद्या प्रबोधविनयाविव॥ ७१॥
मूलम्
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।
सम्यगाराधिता विद्या प्रबोधविनयाविव॥ ७१॥
मल्लिनाथः ...{Loading}...
सुताविति॥ सुमित्रा लक्ष्मण-शत्रुघ्नौ नाम यमौ युग्मजातौ सुतौ पुत्रौ। सम्यगाराधिता स्वभ्यस्ता विद्या प्रबोध-विनयौ तत्त्वज्ञानेन्द्रियजाताविव। सुषुवे ॥ 71 ॥
विश्वास-प्रस्तुतिः
निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत् ।
अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम्॥ ७२॥
मूलम्
निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत् ।
अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम्॥ ७२॥
मल्लिनाथः ...{Loading}...
निर्दोषमिति॥ सर्वं जगद्भूलोको निर्दोषं दुर्भिक्षादिदोषरहितम्। आविष्कृतगुणं प्रकटीकृतारोग्यादिगुणं चाभवत्। अत्रोत्प्रेक्षते-गां भुवं गतमवतीर्णं पुरुषोत्तमं विष्णुं स्वर्गोऽप्यन्वगादिव। स्वर्गो हि गुणनान्निर्दोषश्चेत्यागमः। स्वर्गतुल्यमभूदित्यर्थः ॥ 72 ॥
विश्वास-प्रस्तुतिः
तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः ।
विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव॥ ७३॥
मूलम्
तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः ।
विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव॥ ७३॥
मल्लिनाथः ...{Loading}...
तस्येति॥ चतुर्मूर्ते रामादिरूपेण चतूरूपस्य सतस्तस्य हरेरुदये सति। पौलस्त्याद्रावणाञ्चकिता भीता ईश्वरा नाथा इन्द्रादयो यासां ता दिशश्चतस्रो विरजस्कौरपधूलिभिर्नभस्वद्भिर्वायुभिः। मिषेण। उच्छ्वसिता इव इत्युत्प्रेक्षा। श्वसेः कर्तरि क्तः। स्वनाथशरणलाभसंतुष्टानां दिशामुच्छ्वासवाता इव वाता ववुरित्यर्थः। चतुर्दिगीशरक्षणं मूर्तिचतुष्टयप्रयोजनमिति भावः ॥ 73 ॥
विश्वास-प्रस्तुतिः
कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः ।
रक्षोविप्रकृतावास्तामपविद्धशुचाविव॥ ७४॥
मूलम्
कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः ।
रक्षोविप्रकृतावास्तामपविद्धशुचाविव॥ ७४॥
मल्लिनाथः ...{Loading}...
कृशानुरिति॥ रक्षसा रावणेन विप्रकृतावपकृतौ। पीडितावित्यर्थः। कृशानुरग्निः प्रभाकरः सूर्यश्च यथासंख्यमपधूमत्वात्प्रसन्नत्वाञ्चापविद्धशुचौ निरस्तदुःखाविव। आस्तामभवताम् ॥ 74 ॥
विश्वास-प्रस्तुतिः
दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः॥ ७५॥
मूलम्
दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः॥ ७५॥
मल्लिनाथः ...{Loading}...
दशाननेति॥ तत्क्षणं तस्मिन्क्षणे रामोत्पत्तिसमये राक्षसश्रियोऽश्रुबिन्दवो दशाननकिरीटेभ्यो मणीनां व्याजेन मिषेण पृथिव्यां पर्यस्ताः पतिताः। रामोदये सति तद्वध्यस्य रावणस्य किरीटमणिभ्रंशलक्षणं दुर्निमित्तमभूदित्यर्थः ॥ 75 ॥
विश्वास-प्रस्तुतिः
पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः ।
आरम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि॥ ७६॥
मूलम्
पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः ।
आरम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि॥ ७६॥
मल्लिनाथः ...{Loading}...
पुत्रेति॥ पुत्रिणो जातपुत्रस्य तस्य दशरथस्य पुत्रजन्मनि प्रवेश्यानां प्रवेशयितव्यानाम्। वादनीयानामित्यर्थः। तूर्याणां वाद्यानामारम्भमुपक्रमं प्रथमं दिवि देवदुन्दुभयश्चक्रुः। साक्षात्पितुर्दशरथादपि देवा अधिकं प्रहृष्टा इत्यर्थः ॥ 76 ॥
विश्वास-प्रस्तुतिः
संतानकमयी वृष्टिर्भवने चास्य पेतुषी ।
सन्मङ्गलोपचाराणां सैवादिरचनाऽभवत्॥ ७७॥
मूलम्
संतानकमयी वृष्टिर्भवने चास्य पेतुषी ।
सन्मङ्गलोपचाराणां सैवादिरचनाऽभवत्॥ ७७॥
मल्लिनाथः ...{Loading}...
संतानकेति॥ अस्य राज्ञो भवने संतानकानां कल्पवृक्षकुसुमानां विकारः संतानकमयी वृष्टिश्च पेतुषी पपात। ‘क्वसुश्च’(पा.3।2।107) इति क्वसुप्रत्ययः। ‘उगितश्च’(पा.4।1।6)इति ङीप्। सा वृष्टिरेव सन्तः पुत्रजन्मन्यावश्यका ये मङ्गलोपचारास्तेषामादिरचना प्रथमक्रियाऽभवत् ॥ 77 ॥
विश्वास-प्रस्तुतिः
कुमाराः कृतसंस्कारास्ते धात्रीस्तन्यपायिनः ।
आनन्देनाग्रजेनेव समं ववृधिरे पितुः॥ ७८॥
मूलम्
कुमाराः कृतसंस्कारास्ते धात्रीस्तन्यपायिनः ।
आनन्देनाग्रजेनेव समं ववृधिरे पितुः॥ ७८॥
मल्लिनाथः ...{Loading}...
कुमारा इति॥ कृताः संस्कारा जातकर्मादयो येषां ते। धात्रीणामुपमातॄणां स्तन्यानि पयांसि पिबन्तीति तथोक्ताः। ते कुमारा अग्रे जातेनाग्रजेन ज्येष्ठेनेव स्थितेन पितुरानन्देन समं ववृधिरे। कुमारवृद्ध्या पितामहान्तमानन्दमवापेत्यर्थः। कुमारजन्मनः प्रागेव जातत्वादग्रजत्वोक्तिरानन्दस्य ॥ 78 ॥
विश्वास-प्रस्तुतिः
स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा ।
मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजाम्॥ ७९॥
मूलम्
स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा ।
मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजाम्॥ ७९॥
मल्लिनाथः ...{Loading}...
स्वाभाविकमिति॥ तेषां कुमाराणां संबन्धि स्वाभाविकं सहजं विनीतत्वं विनयकर्मणा शिक्षया। हविर्भुजामग्नीनां सहजं तेजो हविषाऽऽज्यादिकेनेव। मुमूर्छ ववृधे। निसर्गसंस्काराभ्यां विनीता इत्यर्थः ॥ 79 ॥
विश्वास-प्रस्तुतिः
परस्परविरुद्धास्ते तद्रगोरनघं कुलम् ।
अलमुद्योतयामासुर्देवारण्यमिवर्तवः
समानेऽपि हि सौभ्रात्रे यथेभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः॥ ८१॥
मूलम्
परस्परविरुद्धास्ते तद्रगोरनघं कुलम् ।
अलमुद्योतयामासुर्देवारण्यमिवर्तवः
समानेऽपि हि सौभ्रात्रे यथेभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः॥ ८१॥
मल्लिनाथः ...{Loading}...
समान इति॥ शोभनाः स्निग्धा भ्रातरो येषां ते सुभ्रातरः। ‘नद्यृतश्च’(पा.5।4।153)इति कब्न भवति। ‘वन्दिते भ्रातुः’ इति निषेधात्। तेषां भावः सौभ्रात्रम्। यवादित्वादण्। तस्मिन्समाने चतुर्णां तुल्येऽपि यथौभौ रामलक्ष्मणौ प्रीत्या द्वन्द्वं बभूवतुः। तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं द्वौ द्वौ साहचर्येणाभिव्यक्तौ बभूवतुः। ‘द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु’(पा.8।1।15) इत्यभिव्यक्तार्थे निपातः। क्वचित्कस्यचित्स्नेहो नातिरिच्यत इति भावः ॥ 81 ॥
विश्वास-प्रस्तुतिः
तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन ।
यथा वायुर्विभावस्वोर्यथा चन्द्रसमुद्रयोः॥ ८२॥
मूलम्
तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन ।
यथा वायुर्विभावस्वोर्यथा चन्द्रसमुद्रयोः॥ ८२॥
मल्लिनाथः ...{Loading}...
तेषामिति॥ तेषां चतुर्णां मध्ये द्वयोर्द्वयोः। रामलक्ष्मणयोर्भरत-शत्रुघ्नयोश्चेत्यर्थः। यथा वायु-विभावस्वोर्वात-वह्न्योरिव। चन्द्र-समुद्रयोरिव च। ऐक्यमैकमत्यं कदाचन न बिभिदे। एककार्यत्वं समानसुखदुःखत्वं च क्रमादुपमाद्वयाल्लभ्यते। सहजः सहकारी हि वह्नेर्वायुः। चन्द्रवृद्धौ हि वर्धते सिन्धुः,तत्क्षये च क्षीयत इति॥ 82 ॥
विश्वास-प्रस्तुतिः
ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च ।
मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव॥ ८३॥
मूलम्
ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च ।
मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव॥ ८३॥
मल्लिनाथः ...{Loading}...
त इति॥ प्रजानाथास्ते कुमारास्तेजसा प्रभावेण प्रश्रयेण विनयेन च निदाघान्ते ग्रीष्मान्ते श्यामान्यभ्राणि मेघा येषां ते श्यामाभ्राः। नातिशीतोष्णा। इत्यर्थः। दिवसा इव। प्रजानां मनो जह्नुः ॥ 83 ॥
विश्वास-प्रस्तुतिः
स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः ।
धर्मार्थकाममोक्षाणामवतार इवाङ्गवान्॥ ८४॥
मूलम्
स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः ।
धर्मार्थकाममोक्षाणामवतार इवाङ्गवान्॥ ८४॥
मल्लिनाथः ...{Loading}...
स इति॥ स चतुर्धा। ‘संख्याया विधार्थे धा’(पा.5।3।42) इत्यनेन धाप्रत्ययः। व्यस्तो विभक्तः पृथिवीपतेर्दसरथस्य प्रसवः संतानः। चतुर्धाऽङ्गवान् मूर्तिमान् धर्मार्थकाममोक्षाणामवतार इव बभौ ॥ 84 ॥
विश्वास-प्रस्तुतिः
गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः ।
तमेव चतुरन्तेशं रत्नैरिव महार्णवाः॥ ८५॥
मूलम्
गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः ।
तमेव चतुरन्तेशं रत्नैरिव महार्णवाः॥ ८५॥
मल्लिनाथः ...{Loading}...
गुणैरिति॥ गुरुवत्सलाः पितृभक्तास्ते कुमारा गुणैर्विनयादिभिर्गुरुं पितरम्। चतुर्णामन्तानां दिगन्तानामीशं चतुरन्तेशम्। ‘तद्धितार्थ-’(पा.2।1।51) इत्यादिनोत्तरपदसमासः। तं दशरथमेव महार्णवाश्चत्वारो रत्नैरिव। आराधयामासुरानन्दयामासुः ॥ 85 ॥
विश्वास-प्रस्तुतिः
सुरगज इव दन्तैर्भग्नदैत्यासिधारै-
र्नय इव पणबन्धव्यक्तयोगैरुपायैः ।
हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः
पतिरवनिपतीनां तैश्चकाशे चतुर्भिः॥ ८६॥
मूलम्
सुरगज इव दन्तैर्भग्नदैत्यासिधारै-
र्नय इव पणबन्धव्यक्तयोगैरुपायैः ।
हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः
पतिरवनिपतीनां तैश्चकाशे चतुर्भिः॥ ८६॥
मल्लिनाथः ...{Loading}...
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ रामावतारो नाम दशमः सर्गः ।
सुरगज इति॥ भग्ना दैत्यानामसिधारा यैस्तैश्चतुर्भिर्दन्तैः सुरगज ऐरावत इव। पणबन्धेन फलसिद्ध्या व्यक्तयोगैरनुमितप्रयोगैरुपायैश्चतुर्भिः सामादिभिर्नयो नीतिरिव। युगपद्दीर्धैश्चतुर्भिर्दोर्भिर्भुजैर्हरिर्विष्णुरिव। तदीयैहरिसंबन्धिभिरंशैरंशभूतैश्चतुर्भिस्तैः पुत्रैरवनिपतीनां पती राजराजो दशरथः। चकाशे विदिद्युते ॥ 86 ॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ रामावतारू नाम दशमः सर्गः ॥