विश्वास-प्रस्तुतिः
पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः ॥ १॥
मूलम्
पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः ॥ १॥
मल्लिनाथः ...{Loading}...
पितुरिति॥ समाधिना संयमेन जितेन्द्रियः। ‘समाधिर्नियमे ध्याने’ इति कोशः। यमवतां संयमिनामवतां रक्षतां राज्ञां च धुर्यग्रे स्थितो महारथः। ‘एको दश सहस्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते॥’ इति। दशरथः पितुरनन्तरमुत्तरकोसलाञ्जनपदान्समधिगम्य प्रशशास। अत्र मनुः(7।144)-‘क्षत्रियस्य परो धर्मः प्रजानां परिपालनम्’ इति। द्रुतविलम्बितमेतद्वृत्तम्। तल्लक्षणम्-‘द्रुतविलम्बितमाह नभौ भरौ’ इति ॥ 1 ॥
विश्वास-प्रस्तुतिः
अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् ।
अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः ॥ २॥
मूलम्
अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् ।
अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः ॥ २॥
मल्लिनाथः ...{Loading}...
अधिगतमिति॥ अधिगतं प्राप्तमात्मकुलोचितं स्वकुलागतं सनगरं नगरजनसहितं प्रकृतिमण्डलं जानपदमण्डलम्। अत्र ‘प्रकृति’शब्देन प्रजामात्रवाचिना नगरशब्दयोगाद्गोबलीवर्दन्यायेन जानपदमात्रमुच्यते। यद्यस्माद्विधिवद्यथाशास्त्रमपालयत्। ततो हेतोः। रन्ध्रं करोतीति रन्ध्रहेतुरित्यर्थः। ‘कृञो हेतुताच्छील्यानुलोम्येषु’(पा.3।2।20)इति टप्रत्ययः। नगस्य रन्ध्रकरो नगरन्ध्रकरः कुमारः। ‘कुमारः क्रौञ्चदारणः’ इत्यमरः। तदोजसस्तत्तुल्यबलस्यास्य दशरथस्य गुणवत्तरमभवत्। तत्पौरजानपदमण्डलं तस्मिन्नतीवासक्तमभूदित्यर्थः ॥ 2 ॥
विश्वास-प्रस्तुतिः
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम्।
बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥ ३॥
मूलम्
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम्।
बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥ ३॥
मल्लिनाथः ...{Loading}...
उभयमिति॥ मनस ईषिणो मनीषिणो विद्वांसः। पृषोदरादित्वात्साधुः। बलनिषूदनमिन्द्रम्। दण्डस्य धरो राजा मनुरिति यो दण्डधरः स एवान्वयः कूटस्थो यस्य तमर्थं पतिं दशरथं चेत्युभयमेव। समयेऽवसरे जलं धनं च वर्षतीति समयवर्षी। तस्य भावः समयवर्षिता तया हेतुना कृतकर्मणां स्वकर्मकारिणाम्। नुदतीति नुत्। ‘इगुपधज्ञाप्रीकिरः कः’(पा.3।2।135) इति कप्रत्ययः। श्रमस्य नुदं श्रमनुदम्। क्विबन्तत्वे नपुंसकलिङ्गेनोभयशब्देन सामानाधिकरण्यं न स्यादिति वदन्ति ॥ 3 ॥
विश्वास-प्रस्तुतिः
जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः ।
क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ॥ ४॥
मूलम्
जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः ।
क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ॥ ४॥
मल्लिनाथः ...{Loading}...
जनपद इति॥ शमरते शान्तिपरेऽमरतेजस्यजनन्दने दशरथे पार्थिवे पृथिव्या ईश्वरे सति। ‘तस्येश्वरः’(पा5।1।42)इत्यण्प्रत्ययः। जनपदे देशे गदो व्याघिः। ‘उपतापरोगव्याधिगदामयाः’इत्यमरः। पदं नादधौ। नाचक्रामेत्यर्थः। सपत्नजः शत्रुजन्योऽभिभवः कुत एव? असंभावित एवेत्यर्थः। क्षितिः फलवत्यभूञ्च ॥ 4 ॥
विश्वास-प्रस्तुतिः
दशदिगन्तजिता रघुणा यथा श्रियमपुष्यदजेन ततः परम् ।
तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ॥ ५॥
मूलम्
दशदिगन्तजिता रघुणा यथा श्रियमपुष्यदजेन ततः परम् ।
तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ॥ ५॥
मल्लिनाथः ...{Loading}...
दशेति॥ मही। दशदिगन्ताञ्जितवानिति दशदिगन्तजित्। तेन रघुणा यथा श्रियं कान्तिमपुष्यत्। ततः परं रघोरनन्तरमजेन च यथा श्रियमपुषअयत्। तथैवाहीनपराक्रमं न हीनः पराक्रमो यस्य तमन्यूनपराक्रमं तं दशरथमिनं स्वामिनमधिगम्य पुनर्न बभाविति न। बभावेवेत्यर्थः। द्वौ नञौ प्रकृतमर्थं गमयतः ॥ 5 ॥
विश्वास-प्रस्तुतिः
समतया वसुवृष्टिविसर्जनैनियमनादसतां च नराधिपः ।
अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥ ६॥
मूलम्
समतया वसुवृष्टिविसर्जनैनियमनादसतां च नराधिपः ।
अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥ ६॥
मल्लिनाथः ...{Loading}...
समतयेति॥ नराधिपो दशरथः समतया समवर्तित्वेन। मध्यस्थत्वेनेत्यर्थः। वसुवृष्टेर्धनवृष्टेर्विसर्जनैः। असतां दुष्टानां नियमनान्निग्रहाञ्च। सवरुणौ वरुणसहितौ यमपुम्यजनेश्वरौ यमकुबेरौ यमकुबेरवरुणान्। यथासंख्यमनुययावनुचकार। रुचा तेजसाऽरुणाग्रसरमरुणसारथिं सूर्यमनुययौ ॥ 6 ॥
विश्वास-प्रस्तुतिः
न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।
तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥ ७॥
मूलम्
न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।
तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥ ७॥
मल्लिनाथः ...{Loading}...
नेति॥ उदयाय यतमानमभ्युदयार्थं व्याप्रिमाणं तं दशरथं मृगयाभिरतिराखेटव्यसनं नापाहरन्नाचकर्ष। ‘आक्षोटनं मृगव्यं स्यादाखोटो मृगया स्त्रियाम्’ इत्यमरः। दुष्टमासमन्तादुदमस्येति दुरोदरं द्यूतं च नापाहरत्। ‘दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्’ इत्यमरः। शशिनः प्रतिमा प्रतिबिम्बमाभरणं यस्य तन्मधु नापाहरत्। न वेति पदच्छेदः। ‘वा’शब्दः समुञ्चये। नमयौवना नवं नूतनं यौवनं तारुण्यं यस्यास्तादृशी प्रियतमा वा स्त्री नापाहरत्। जातावेकवचनम्। अत्र मनुः(7।50)‘पानमक्षाः स्त्रियश्चेति मृगया च यथाक्रमम्। एतत्कष्टतमं विद्याञअचतुष्कं कामजे गणे’॥ इति॥ 7 ॥
विश्वास-प्रस्तुतिः
न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।
न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरमीरिता ॥ ८॥
मूलम्
न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।
न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरमीरिता ॥ ८॥
मल्लिनाथः ...{Loading}...
नेति॥ तेन राज्ञा प्रभवति प्रभौ सति वासवेऽपि कृपणा दीना वाङ् नेरिता नोक्ता। परिहासकथास्वपि वितथाऽनृता वाङ् नेरिता। किंचापरुषा रोषशून्येन तेन सपत्नजनेष्वपि शत्रुजनेष्वपि परुषाक्षरं निष्ठुराक्षरं यथा तथा वाङ् नेरिता। किमुतान्यत्रेति सर्वत्र ‘अपि’शब्दार्थः। किंत्वदीना सत्या मधुरैव वागुक्तेति फलितार्थः ॥ 8 ॥
विश्वास-प्रस्तुतिः
उअदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः ।
स हि निदेशमलङ्घयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् ॥ ९॥
मूलम्
उअदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः ।
स हि निदेशमलङ्घयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् ॥ ९॥
मल्लिनाथः ...{Loading}...
उदयमिति॥ वसुधाधिपा राजानः। उद्वहतीत्युद्वहो नायकः। पचाद्यच्। रघूणामुद्वहो रघुनायकः। तस्माद्रघुनायकादुदयं बृद्धिम्। अस्तमयं नाशं च। इत्युभयमानशिरे लेभिरे। कुतः? हि यस्मात्,स दशरथो निदेशमाज्ञामलङ्घ्यताम्। शोभनं हृदयमस्येति सुहृन्मित्रमभूत् ‘सुहृद्दुर्हृदौ मित्रामित्रयोः’(पा.5।4।150) इति निपातः। प्रतिगर्जतां प्रतिस्पर्धिनाम्। अय इव हृदयं यस्येति अयोहृदयः कठिनचित्तोऽभूत्। आज्ञाकारिणो रक्षति,अन्यान्मारयतीत्यर्थः ॥ 9 ॥
विश्वास-प्रस्तुतिः
अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः ।
जयमघोषयदस्य तु केवलं गजवती जवतीव्रहया चमूः ॥ १०॥
मूलम्
अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः ।
जयमघोषयदस्य तु केवलं गजवती जवतीव्रहया चमूः ॥ १०॥
मल्लिनाथः ...{Loading}...
अजयदिति॥ अधिज्यशरासनः स दशरथ उदधिनेमिं समुद्रवेष्टानां मेदिनीमेकरथेनाजयत्। स्वयमेकरथेनाजैषीदित्यर्थथः। गजवती गजयुक्ता। जवेन तीव्रा जवाधिका हया यस्यां सा चमूस्त्वस्य नृपस्य केवलं जयमघोषयदप्रथयत्। स्वयमेकंवीरस्य चमूरुपकरणमात्रमिति भावः॥ 10 ॥
विश्वास-प्रस्तुतिः
अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः ।
विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः ॥ ११॥
मूलम्
अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः ।
विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः ॥ ११॥
मल्लिनाथः ...{Loading}...
अवनिमिति॥ वरूथिना गुप्तिमता। ‘वरूथो रथगुप्तिर्या तिरोधत्ते रथस्थितिम्’ इति सज्जनः। एकरथेनाद्वितीयरथेन। अवनिं जितवतो धनुर्भृतो नरवाहनसंपदः कुबेरतुल्यश्रीकस्य तस्य दशरथस्य घनरवा मेघसमघोषा अर्णवा विजयदुन्दुभितां किल ययुः। अर्णवान्तविजयीत्यर्थः ॥ 11 ॥
विश्वास-प्रस्तुतिः
शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरंदरः ।
स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥ १२॥
मूलम्
शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरंदरः ।
स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥ १२॥
मल्लिनाथः ...{Loading}...
शमितेति॥ पुरंदर इन्द्रः शतकोटिना शतास्त्रिणा कुलिशेन वज्रेण शिखरिणां पर्वतानां शमितपक्षबलो विनाशितपक्षसारः। नवतामरसाननो नवपङ्कजाननः। ‘पङ्केरुहं तामरसम्’ इत्यमरः। स दशरथः शरवृष्टिमुचा स्वनवता धनुषा द्विषां शमितो नाशितः पक्षः सहायो बलं च येन स तथोक्तः। ‘पक्षः सहायेऽपि’इत्यमरः ॥ 12 ॥
विश्वास-प्रस्तुतिः
चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन् ।
नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम् ॥ १३॥
मूलम्
चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन् ।
नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम् ॥ १३॥
मल्लिनाथः ...{Loading}...
चरणयोरिति॥ शतशो नृपतयोऽखण्डितपौरुषं तं दशरथम्। मरुतो देवाः शतमखं यथा शतक्रतुमिव। नखरागेण चरणनखकान्त्या समृद्धिभिः संपादितर्द्धिभिर्मुकुटरत्नमरीचिभिश्चरणयोरस्पृशन्। तं प्रणेमुरित्यर्थः॥ 13 ॥
विश्वास-प्रस्तुतिः
निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् ।
समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम् ॥ १४॥
मूलम्
निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् ।
समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम् ॥ १४॥
मल्लिनाथः ...{Loading}...
निववृत इति॥ स दशरथः सचिवैः संप्रयोजितैः कारिता बालसुतानामञ्जलयो यैस्तान्। स्वयमसंमुखागतानित्यर्थः। अनलकान्हतभर्तृकतयालकसंस्कारशून्यान्। सपत्नपरिग्रहाञ्छत्रुपत्नीः। ‘पत्नीपरिजनादनमूलशापाः परिग्रहाः’ इत्यमरः। समनुकम्प्यानुगृह्य। अलकानवमामलकानगरादन्यूनां पुरीमयोध्यां प्रति महार्णवानां रोधसः पर्यन्तान्निववृते। शरणागतवत्सल इति भावः ॥ 14 ॥
विश्वास-प्रस्तुतिः
उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारणः ।
श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः ॥ १५॥
मूलम्
उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारणः ।
श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः ॥ १५॥
मल्लिनाथः ...{Loading}...
उपगत इति॥ अनुदित मनुच्छ्रितमन्यत्स्वच्छत्रातिरिक्तं सितातपवारणं श्वेतच्छत्रं यस्य सः। अनलसोमयोरग्निचन्द्रयोः समे द्युती तेजः कान्ती यस्य स तथोक्तः। श्रियं लक्ष्मीं रन्ध्रेऽन्यायालस्यादिरूपे छले चलां चञ्चलामवेक्ष्यावलोक्य। श्रीर्हि केनचिन्मिषेण पुमांसं परिहरति। स दशरथो मण्डलस्य नाभितां द्वादशराजमण्डलस्य प्रधानमहीपतित्वमुपगतोऽपि। चक्रवर्ती सन्नपीत्यर्थः। ‘अथ नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका। रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः॥ आद्यक्षत्रियभेदे तु मतो मुख्यमहीपतौ।’ इति केशवः। अनलसोऽप्रमत्तोऽभूत्। ‘अजितमस्ति नृपास्पदम्’ इति पाठान्तरेऽजितं नृपास्पदमस्तीति बुद्ध्यानलसोऽप्रमत्तोऽभूत्। विजितनिखिलजेतव्योऽपि पुनर्जेतव्यान्तरवानिव जागरूक एवावतिष्टतेत्यर्थथः। द्वादशराजमण्डलं तु कामन्दकेनोक्तम्-‘अरेर्मित्रमरेर्मित्रं मित्रमित्रमतः परम्। तथारिमित्रमित्रं च विजिगीषोः पुरःसराः॥ पर्ष्णिग्रहास्ततः पश्चादाक्रन्दस्तदनन्तरम्। आसारावनयोश्चैव विजिगीषोस्तु पृष्टतः’॥ ‘अरेश्च विजिगीषोश्च मध्यमोभूम्यनन्तरः। अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे॥ मण्डलाद्बहिरेषामुदासीनो बलाधिकः। अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः॥’ इति॥ ‘अरिमित्रादयः पञ्च विजिगीषोः पुरःसराः। पार्ष्णिग्राहाक्रन्दपार्ष्णिग्राहासाराश्च पृष्ठतः॥’ इति पृष्ठतश्चत्वारः। मध्यमोदासीनौ द्वौ विजिगीषुरेक इत्येवं द्वादश राजमण्डलम्। तत्रोदासीनमध्यमोत्तरश्चक्रवर्ती। दशरथश्चैतादृगिति तात्पर्यार्थः ॥ 15 ॥
विश्वास-प्रस्तुतिः
तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभवं च पतिव्रता ।
नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु ॥ १६॥
मूलम्
तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभवं च पतिव्रता ।
नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु ॥ १६॥
मल्लिनाथः ...{Loading}...
तमिति॥ पत्यौ व्रतं नियमो यस्याः सा पतिव्रता सकमला कमलहस्ता देवता लक्ष्मीरर्थिषु विषयेऽलाघवं लघुत्वरहितम्। अपराङ्मुखमित्यर्थः। ककुत्स्थकुलोद्भवं तं दशरथमात्मभवं पुरुषं विष्णुं चापहाय त्यक्त्वा। अन्यं कं नृपतिमसेवत? कमपि नासेवतेत्यर्थः। विष्णाविव विष्णुतुल्ये तस्मिन्नपि श्रीः स्थिराभूदित्यर्थः ॥ 16 ॥
विश्वास-प्रस्तुतिः
तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः ।
मगधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम् ॥ १७॥
मूलम्
तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः ।
मगधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम् ॥ १७॥
मल्लिनाथः ...{Loading}...
तमिति॥ परिरेव देवता यासां ताः पतिदेवताः पतिव्रताः। मगधाश्च कोसलाश्च केकयाश्च ताञ्जनपदाञ्छासतीति तच्छासिनः। तेषां राज्ञां दुहितरः पुत्र्यः। सुमित्राक-कौसल्या-कैकेय्य इत्यर्थः। अत्र क्रमो न विवक्षितः। अहितरोपितमार्गणं शत्रुनिखातशरम्। ‘कदम्बमार्गणशराः’ इत्यमरः। तं दशरथँ शिकरिणां क्ष्माभृतां दुहितरः। आ समन्तादपगच्छन्तीति। अथवा,-‘आपेनाप्संबन्धिना वेगेन गच्छन्तीत्यापगाः’ इति क्षीरस्वामी। नद्यः सागरमिव। पतिं भर्तारमलभन्त प्रापुः ॥ 17 ॥
विश्वास-प्रस्तुतिः
प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः ।
उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः ॥ १८॥
मूलम्
प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः ।
उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः ॥ १८॥
मल्लिनाथः ...{Loading}...
प्रियतमाभिरिति॥ अरीन्घ्रन्तीत्यरिहणो रिपुघ्नाः। हन्तेः क्विप्। ‘ब्रह्मभ्रूणवृत्रेषु क्विप्’ इति नियमस्य प्रायिकत्वात्। यथाह न्यासकारः-‘प्रायिकश्चायं नियमः क्वचिदन्यस्मिन्नप्युपपदे दृश्यते मधुहा। प्रायिकत्वं च वक्ष्यमाणस्य बहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते’ इति। तेषु योगेषूपायेषु विचक्षणो दक्षः। ‘योगः संनहनोपायध्यानसंगतियुक्तिषु’इत्यमरः। इन्द्रेऽपि योज्यमेतत्। असौ दशरथस्तिसृभिः प्रियतमाभिः सह। प्रजा विनिनीषुर्विनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रियतमाभिः सह। प्रजा विनिनीषुर्विनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रभुमन्त्रोत्साहशक्तिभिरेव सह भुवमुपगतो हरिहय इन्द्र इव। बभौ ॥ 18 ॥
विश्वास-प्रस्तुतिः
स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः ।
स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः ॥ १९॥
मूलम्
स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः ।
स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः ॥ १९॥
मल्लिनाथः ...{Loading}...
स इति॥ महारथथः स दशरथः संयुगमूर्ध्नि रणाङ्गणे मघवत इन्द्रस्य सहायतां प्रतिपद्य प्राप्य शरैरवधूतभया निवर्तितत्रासाः सुरवधूरुच्छ्रितं स्वभुजवीर्यमगापयत्किल खलु। गायतेः शब्दकर्मत्वात् ‘गतिबुद्धि-’(पा.1।4।52)इत्यादिना सुरवधूनामपि कर्मत्वम् ॥ 19 ॥
विश्वास-प्रस्तुतिः
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः ।
कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ॥ २०॥
मूलम्
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः ।
कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ॥ २०॥
मल्लिनाथः ...{Loading}...
क्रतुष्विति॥ क्रतुष्वश्वमेधेषु विसर्जितमौलिनाऽवरोपितकिरीटिन। ‘यावद्यज्ञमध्वर्युरेव राजा भवति’ इति राज्ञश्चिह्नत्यागविधानादित्यभिप्रायः। ‘मौलिः किरीटे धम्मिल्ले’ इति विश्वः। भुजसमाहृतदिग्वसुना भुजार्जितदिगन्तसंपदा। अनेन क्षत्रियस्य विजितत्वमुक्तम्। नियमार्जितधनत्वं सद्विनियोगकारित्वं च सूच्यते। वितमसा तमोगुणरहितेन तेन दशरथेन। तमसा च सरयू नद्यौ। तयोस्तटः कनकयूपानां समुच्छ्रयेण समुन्नमनेन शोभिनः कृताः। कनकमयत्वं च यूपानां शोभार्थं विध्यभावात्। ‘हेमयूपस्तु शोभिकः’ इति यादवः ॥ 20 ॥
विश्वास-प्रस्तुतिः
अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् ।
अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदीश्वरः ॥ २१॥
मूलम्
अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् ।
अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदीश्वरः ॥ २१॥
मल्लिनाथः ...{Loading}...
अजिनेति॥ ईश्वरो भगवानष्टमूर्तिरजिनं कृष्णाजिनं दण्डमौदुम्बरं बिभर्तीति तमजिनदण्डभृतम्। ‘कृष्णाजिनं दीक्षयति। औदुम्बरं दीक्षितदण्डं यजमानीय प्रयच्छति’ इति वचनात्। कुशमयी मेखला यस्यास्तां कुशमेखलाम्। ‘शरमयी मौञ्जी वा मेखला। तया यजमानं दीक्षियती’ति विधानात्। प्रकृते कुशग्रहणं क्वचित्प्रतिनिधिदर्शनात्कृतम्। यतगिरं वाचंयमम्। ‘वाचं यच्छति’ इति श्रुतेः। मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम्। ‘कृष्णविषणया कण्डूयते’ इति श्रुतेः। अध्वरदीक्षितां संस्कारविशेषयुक्तां तनुं दाशरथीमधिवसन्नधितिष्ठन्सन्। असमा भासो दीप्तयो यस्मिन्कर्मणि तद्यथा तथा अभासयद्भासयति स्म ॥ 21 ॥
विश्वास-प्रस्तुतिः
अवभृथप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः ।
नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥ २२॥
मूलम्
अवभृथप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः ।
नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥ २२॥
मल्लिनाथः ...{Loading}...
अवभृथेति॥ अवभृथेन प्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितो देवसभाधिष्ठानार्हः स दशरथ उन्नतं शिरो वनमुचे जलवर्षिणे। ‘जलं नीरं वनं सत्त्वम्’ इति शाश्वतः। मनुचेररये केवलमिन्द्रायैव नमयति स्म। न कस्मैचिदन्यस्मै मानुषायेत्यर्थः ॥ 22 ॥
विश्वास-प्रस्तुतिः
असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥ २३॥
मूलम्
असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥ २३॥
मल्लिनाथः ...{Loading}...
असकृदिति॥ एकरथेनाद्वितीयरथेन तरस्विना बलवता हरिहयस्येन्द्रस्याग्रसरेण धनुर्भृता दशरथेनासकृद्बहुशो दिनकरस्याभिमुखाः। अभिमुखस्थिता इत्यर्थथः। रणरेणवः सुरद्विषां दैत्यानां रुधिरेण रुरुधिरे निवारिताः ॥ 23 ॥
विश्वास-प्रस्तुतिः
अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् ।
यमकुबेरजलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥ २४॥
मूलम्
अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् ।
यमकुबेरजलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥ २४॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ यमकुबेरजलेश्वरवज्रिणां धर्मराजधनदवरुणामरेन्द्राणां समा धूर्भाो यस्य स समधुरः। माध्यस्थवितरणसंनियमनैश्वर्यैस्तुल्यकक्ष इत्यर्थः। ‘ऋक्पूरब्धूः-’ (पा.5।4।74) इत्यादिना समासान्तोऽच्प्रत्ययः। तं समधुरम्। अञ्चितविक्रमं पूजितपराक्रममेकनराधिपं तं दशरथं सेवितुमिव। मधुर्वसन्तः। ‘अथ पुष्परसे मधुः। दैत्ये चैत्रे वसन्ते च मधुः’ इति विश्वः। नवैः कुसुमैरुपलक्षितः सन्,समाववृत्ते समागतः। ‘रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुम्’ इति वचनात्पुष्पसमेतो राजानं सेवितुमागत इत्यर्थः ॥ 24 ॥
विश्वास-प्रस्तुतिः
जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।
दिनमुखानि रविर्हिमनिग्रहैर्विमलयन्मलयं नगमत्यजत् ॥ २५॥
मूलम्
जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।
दिनमुखानि रविर्हिमनिग्रहैर्विमलयन्मलयं नगमत्यजत् ॥ २५॥
मल्लिनाथः ...{Loading}...
जिगमिषुरिति॥ धनदाध्युषितां कुबेराधिष्ठितां दिशं जिगमिषुर्गन्तुमिच्छुः। रथयुजा सारथिनारुणेन परिवर्तितवाहनो निवर्तिताश्वो रविः। हिमस्य निग्रहैर्निराकरणैर्दिनमुखानि प्रभातानि विमलयन्विशदयन् मलयं नगं मलयाचलमत्यजत्। दक्षिणां दिशमत्याक्षीदित्यर्थः ॥ 25 ॥
विश्वास-प्रस्तुतिः
कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।
इति यथाक्रममाविरभून्मधुर्द्रुमवतीमवतीर्य वनस्थलीम् ॥ २६॥
मूलम्
कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।
इति यथाक्रममाविरभून्मधुर्द्रुमवतीमवतीर्य वनस्थलीम् ॥ २६॥
मल्लिनाथः ...{Loading}...
कुसुमेति॥ आदौ कुसुमजन्म। ततो नवपल्लवाः। तदनु। ‘अनुर्लक्षणे’(पा.1।4।84) इति कर्मप्रवचनीयत्वाद्द्वितीया। यथासंख्यं तदुभयानन्तरं षट्पदानां कोकिलानां च कूजितम्। इत्येवंप्रकारेण यथाक्रमं क्रममनतिक्रम्य द्रुमवतीं द्रुमभूयिष्ठां वनस्थलीमवतीर्य मधुर्वसन्त आविरभूत्। केषाचिद्द्रुमामां पल्लवप्राथम्यात्केषांचित्कुसुमप्राथम्यान्नोक्तक्रमस्य दृष्टविरोधः ॥ 26 ॥
विश्वास-प्रस्तुतिः
नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियमर्थिनः ।
अभिययुः सरसो मधुसंभृतां कमलिनीमलिनीरपतत्रिणः ॥ २७॥
मूलम्
नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियमर्थिनः ।
अभिययुः सरसो मधुसंभृतां कमलिनीमलिनीरपतत्रिणः ॥ २७॥
मल्लिनाथः ...{Loading}...
नयेति॥ नयो नीतिरेव गुणः। तेन। अथवा,-नयेन गुणैः शौर्यादिभिश्चोपगचिताम्। सतामुपकारः फलं यस्यास्तां सदुपकारफलां भूपतेर्दशरथस्य श्रियमर्थिन इव। मधुना वसन्तेन संभृतां सम्यक्पुष्टां सरसः संबन्धिनीं कमलिनीं पद्मिनीमलिनीरपतत्रिणः । अलयो मृङ्गान्। नीरपतत्रिणो जलपतत्रिणो हंसादयस्च। अभिययुः ॥ 27 ॥
विश्वास-प्रस्तुतिः
कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् ।
किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥ २८॥
मूलम्
कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् ।
किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥ २८॥
मल्लिनाथः ...{Loading}...
कुसुममिति॥ ऋतुरस्य प्राप्त आर्तवम्। ‘ऋतोरण्’(पा.5।1।105)इत्यण्। नवं प्रत्यग्रमशोकतरोः केवलं कुसुममेव स्मरदीपनमुद्दीपनं न। किंतु विलासिनां मदयिता मदजनको दयिताश्रवणार्पितः किसलयप्रसवोऽपि पल्लवसंतानोऽपि स्मरदीपनोऽभवत् ॥ 28 ॥
विश्वास-प्रस्तुतिः
विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः ।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥ २९॥
मूलम्
विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः ।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥ २९॥
मल्लिनाथः ...{Loading}...
विरचिता इति॥ मधुना वसन्तेन विरचिता उपवनश्रियामभिनवाः पत्रविशेषकाः पत्ररचना इव स्थिता मधूनां मकरन्दानां दाने विशारदाश्चतुराः कुरबकास्तरवो मधुलिहां मधुपानां रवकारणतां ययुः। भृङ्गाः कुरबकाणां मधूनि पीत्वा जगुरित्यर्थः। दानशौण्डानर्थिजनाः स्तुवन्तीति भावः ॥ 29 ॥
विश्वास-प्रस्तुतिः
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः ।
मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ॥ ३०॥
मूलम्
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः ।
मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ॥ ३०॥
मल्लिनाथः ...{Loading}...
सुवदनेति॥ सुवदनावदनासवेन कान्तामुखमद्येन संभृतो जनितः। तत्तस्य दोहदमिति प्रसिद्धिः। तस्यासवस्यानुवादी सदृशो गुणो यस्य तदनुवादिगुणः कुसुमोद्गमः कर्ता मधुलोलुपैरायतपङ्क्तिभिर्दीर्घपङ्क्तिभिर्मधुकरैर्मधुपैः करणैः बकुलं बकुलवृक्षमाकुलमकरोत् ॥ 30 ॥
विश्वास-प्रस्तुतिः
उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके ।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥ ३१॥
मूलम्
उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके ।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥ ३१॥
मल्लिनाथः ...{Loading}...
उपहितमिति॥ शिशिरापगमश्रिया वसन्तलक्ष्म्या किंशुके पलाशवृक्षे। ‘पलाशः किंशुकः पर्णः’ इत्यमरः। उपहितं दत्तं मुकुलजालं कुड्यलसंहतिः। मदेन यापितलज्जयाऽपसारितत्रपया प्रमदया प्रणयिनी प्रियतम उपहितं नखक्षतमेव मण्डनं तदिव॥ अशोभत॥ 31 ॥
विश्वास-प्रस्तुतिः
व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् ।
न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् ॥ ३२॥
मूलम्
व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् ।
न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् ॥ ३२॥
मल्लिनाथः ...{Loading}...
व्रणेति॥ व्रणैर्दन्तक्षतैर्गुरुभिर्दुर्धरैः प्रमदानामधरैरधरोष्ठैर्दुःसहं हिमस्य व्यथाकरत्वादसह्यम्। जघनेषु निर्विषयीकृता निरवकाशीकृता मेखला येन तत्। शैत्यात्त्याजितमेखलमित्यर्थः। एवंभूतं हिमं रविस्तावदा वसन्तादशेषं निशेषं यथा तथाऽपोहितुं निरसितुं नालं खलु न शक्तो हि। किंतु विरलं कृतवांस्तनूचकार ॥ 32 ॥
विश्वास-प्रस्तुतिः
अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा ।
अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥ ३३॥
मूलम्
अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा ।
अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥ ३३॥
मल्लिनाथः ...{Loading}...
अभिनयानिति॥ अत्र चूतलताया नर्तकीसमाधिरभिधीयते। अभिनयानर्थव्यञ्जकान्व्यापारान्। ‘व्यञ्जकाभिनयौ समौ’ इत्यमरः। परिचेतुमभ्यसितुमुद्यतेव स्थिता। कुतः? मलयमारुतेन कम्पितपल्लवा। ‘पल्लव’शब्देन हस्तो गम्यते। सकलिका सकोरका। ‘कलिका कोरकः पुमान्’इत्यमरः। सहकारलता। कलिः कलहो द्वेष उच्यते। ‘कलिः स्यात्कलहे शूरे कलिरन्त्ययुगे युधि’इति विश्वः। कामो रागः। तज्जितामपि। जितरागद्वेषाणामपीत्यर्थः। मनोऽमदयत् ॥ 33 ॥
विश्वास-प्रस्तुतिः
प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः ।
सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ ३४॥
मूलम्
प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः ।
सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ ३४॥
मल्लिनाथः ...{Loading}...
प्रथममिति॥ सुरभिर्गन्धो यासां तासु सुरभिगन्धिषु। ‘गन्धस्य-’(पा.5।4।135) इत्यादिनेकारः। कुसुमान्यासां संजातानि कुसुमिताः। तासु वनराजिषु वनपङ्क्तिषु। अन्यभृताभिः कोकिलाभिः प्रथमं प्रारम्भेषूदीरिता उक्ता अत एव मिताः परिमिता गिर आलापाः। प्रविरला मौग्ध्यात्स्तोकोक्ता मुग्धवधूनां कथा वाच इव। शुश्रुविरे श्रुताः ॥ 34 ॥
विश्वास-प्रस्तुतिः
श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः ।
उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः ॥ ३५॥
मूलम्
श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः ।
उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः ॥ ३५॥
मल्लिनाथः ...{Loading}...
श्रुतीति॥ श्रुतिसुखाः कर्णमधुरा भ्रमरस्वना एव गीतयो यासां ताः। कुसुमान्येव कोमला दन्तरुचो दन्तकान्तयो यासां ताः। अनेन सस्मितत्वं विवक्षितम्। उपवनान्तलताः पवनेनाहतैः कम्पितैः किसलयैः सलयैः साभिनयैः। ‘लय’ शब्देन लयानुगतोऽभिनयो लक्ष्यते। उपवनान्ते पवनाहतैरिति सक्रियत्वाभिधानात्। पाणिभिरिव बभुः। अनेन तलानां नर्तकीसाम्यं गम्यते ॥ 35 ॥
विश्वास-प्रस्तुतिः
ललितविभ्रमबन्धविचेक्षणं सुरभिगन्धपराजितकेसरम् ।
पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥ ३६॥
मूलम्
ललितविभ्रमबन्धविचेक्षणं सुरभिगन्धपराजितकेसरम् ।
पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥ ३६॥
मल्लिनाथः ...{Loading}...
ललितेति॥ अङ्गना ललितविभ्रमबन्धविचक्षणं मधुरविलासघटनापटुतरम्। सुरभिणा मनोहरेण गन्धेन पराजितकेसरं निर्जितबकुलपुष्पम्। ‘अथ केसरे। बकुलः’ इत्यमरः। स्मरस्य सखायं स्मरसखम्। स्मरोद्दीपकमित्यर्थः। मधुं मद्यम्। ‘अर्धर्चाः पुंसि च’(पा.2।4।31) इति पुंसिङ्गता। उक्तं च-‘मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः। अर्धर्चादिगणे पाठान्पुंसकयोर्मधुः॥’ इति। पतिषु विषये रसखण्डनवर्जितमनुरागभङ्गरहितं यथा तथा निर्विविशुः। परस्परानुरागपूर्वकं पतिभिः सह पपुरित्यर्थः ॥ 36 ॥
विश्वास-प्रस्तुतिः
शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः ।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ ३७॥
मूलम्
शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः ।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ ३७॥
मल्लिनाथः ...{Loading}...
शुशुभिर इति॥ विकचतामरसा विकसितकमलाः। मदेन कला अव्यक्तमधुरं ध्वनन्त उदकलोलविहंगमा जलप्रियपक्षिणो हंसादयो यासु ता मदकलोदकलोलविहंगमा गृहेषु दीर्घिका वाप्यः। स्मितेन चारुतराण्याननानि यासां ताः श्लथाः शिञ्जिता मुखरा मेखला यासां ताः। शिञ्जितेति कर्तरि क्तः। स्त्रिय इव शुशुभिरे ॥ 37 ॥
विश्वास-प्रस्तुतिः
उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः ॥ ३८॥
मूलम्
उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः ॥ ३८॥
मल्लिनाथः ...{Loading}...
उपययाविति॥ मधुना मधुसमयेन खण्डिता ह्रासं गमिता। क्षीयन्ते खलूत्तरायणे रात्रयः; खण्डिताख्या च नायिका ध्वन्यते। हिमकरोदयेन चन्द्रोदयेन पाण्डुर्मुखस्य प्रदोषस्य वक्रस्य च छविर्यस्याः सा रजन्येव वधूः। इष्टसमागमनिर्वृत्तिं प्रियसंगमसुखम्। अनितयाऽप्राप्तया। ‘इण् गतौ’ इति धातोः समागमनिर्वृतिं प्रियसंगमसुखम्। अनितयाऽप्राप्तया। ‘इण् गतौ’ इति धातोः कर्तरि क्तः। वनितया सदृशं तुल्यं तनुतां न्यूनतां कार्श्यं चोपययौ ॥ 38 ॥
विश्वास-प्रस्तुतिः
अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः ।
कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥ ३९॥
मूलम्
अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः ।
कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥ ३९॥
मल्लिनाथः ...{Loading}...
अपेति॥ हिमकरश्चन्द्रः। अपतुषारतयाऽपगतनीहारतया विशदप्रभैर्निर्मलकान्तिभिः सुरतसङ्गपरिश्रमनोदिभिः सुरतसङ्गखेदहारिभिरंशुभिः किरणैः। मकरोर्जितकेतनम्। मकरेणोर्जितं केतनं ध्वजो यस्य तम्। लब्धावकाशत्वादुच्छ्रितध्वजमित्यर्थः। कुसुमचापं काममतेजयदशातयत्। ‘तिज निशाने’ इति धातोर्ण्यन्ताल्लङ्। सहकारिलाभात्कामोऽपि तीक्ष्णोऽभूदित्यर्थः ॥ 39 ॥
विश्वास-प्रस्तुतिः
हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् ।
युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥ ४०॥
मूलम्
हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् ।
युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥ ४०॥
मल्लिनाथः ...{Loading}...
हुतेति॥ हुतहुताशनदीप्त्याऽऽज्यादिप्रज्वलिताग्निप्रभं यत्कुसुमम्। कर्णिकारमित्यर्थः। वनश्रिय उपवनलक्ष्म्याः कनकाभरणस्य प्रतिनिधिः। अभूदिति शेषः। दसेषु केसरेषु च पेशलम्,सुकुमारपत्रकिञ्जल्कमित्यर्थः। आहितम्। प्रियैरिति शेषः। तत्कुसुमं युवतयोऽलके कुन्तले दधुः ॥ 40 ॥
विश्वास-प्रस्तुतिः
अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥ ४१॥
मूलम्
अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥ ४१॥
मल्लिनाथः ...{Loading}...
अलिभिरिति॥ अञ्जनबिन्दुमनोहरैः कज्जलकणसुन्दरैः कुसुमपङ्क्तिषु निपतन्ति ये तैः। अलिभिरङ्कितश्चह्नितस्तिलकः श्रीमान्नाम वृक्षः। ‘तिलकः क्षुरकः श्रीमान्’ इत्यमरः। वनस्थलीम्। तिलको विशेषकः। ‘तमालपत्रतिलकचित्रकाणि विशेषकम्। द्वितीयं च तुरीयं च न स्त्रियम्’इत्यमरः। प्रमदामिव। न शोभयति स्मेति न खलु। अपि त्वशोभयदेवेत्यर्थः। ‘लट् स्मे’(पा.3।2।118) इति ‘स्म’शब्दयोगाद्भूतार्थे लट् ॥ 41 ॥
विश्वास-प्रस्तुतिः
अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः ।
कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ ४२॥
मूलम्
अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः ।
कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ ४२॥
मल्लिनाथः ...{Loading}...
अमदयदिति॥ तरुचारुविलासिनी तरोः पुंसश्च चारुविलासिनी नवमल्लिका सप्तलाखअया लता। ‘सप्तला नवमल्लिका’ इत्यमरः। मधुनो मकरन्दस्य मद्यस्य च गन्धेन सनाथया। गन्धप्रधानयेत्यर्थः। किसलयमेवाधरस्तत्र संगतया। प्रसृतरागयेत्यर्तः। कुसुमैः संभृतया संपादितया। कुसुमरूपयेत्यर्थः। स्मितरुचा हासकान्त्या मनः। पश्यतामिति शेषः। अमदयत् ॥ 42 ॥
विश्वास-प्रस्तुतिः
अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ॥ ४३॥
मूलम्
अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ॥ ४३॥
मल्लिनाथः ...{Loading}...
अरुणेति॥ विलासिनो विलसनशीलाः पुरुषाः। ‘वौ कषलस-’(पा.3।2।143) इत्यादिना घिनुण्प्रत्ययः। अरुणस्यानूरो रागमारुण्यं निषेधन्ति तिरस्कुर्वन्तीत्यरुणरागनिषेधिनः। तैः। कुसुम्भादिरञ्जनात्तत्सदृशैरित्यर्थथः। ‘तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति। तस्येवानुकरोतीति शब्दाः सादृश्यवाचकाः॥’ इति दण्डी। अंशुकैरम्बरैः। श्रवणेषु कर्णेषु लब्धपदैः। निवेशितैरित्यर्थः। यवाङ्कुरैश्च परभृताविरुतैः कोकिलाकूजितैश्च। इत्येतैः स्मरबलैः। कामसैन्यैः। अबलास्वेक एव रसो रागो येषां तेऽबलैकरसाः स्त्रीपरतन्त्राः कृताः ॥ 43 ॥
विश्वास-प्रस्तुतिः
उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी ।
सदृशकान्तिरक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ४४॥
मूलम्
उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी ।
सदृशकान्तिरक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ४४॥
मल्लिनाथः ...{Loading}...
उपचितेति॥ शुचिभिः शुभ्रैः कणै रजोभिरुपचितावयवा पुष्टावयवा। अलिकदम्बकयोगमुपेयुषी प्राप्ता। तिलकजा तिलकवृक्षोत्था मञ्जरी। अलकेषु जय्यालकमाभरणविशेषस्तस्मिन्मौक्तिकैः सदृशकान्तिः। अलक्ष्यत। भृङ्गसङ्गिनी शुभ्रा तिलकमञ्जरी नीलालकसक्ताजालमिवालक्ष्यतेति वाक्यार्थः ॥ 44 ॥
विश्वास-प्रस्तुतिः
ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः ।
कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः ॥ ४५॥
मूलम्
ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः ।
कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः ॥ ४५॥
मल्लिनाथः ...{Loading}...
ध्वजेति॥ अलिव्रजाः षट्पदनिवहा धनुर्भृतो धानुष्कस्य मदनस्य कामस्य ध्वजपटं पताकाभूतम्। ऋतुश्रियो वसन्तलक्ष्म्याश्छविकरं शोभाकरं मुखचूर्णं मुखालंकारचूर्णभूतं सपवनोपवनोत्थितं सपवनं पवनेन सहितं यदुपवनं तस्मिन्नुत्थितम्। कुसुमानां केसरेषु किञ्जल्केषु यो रेणुस्तम्। अन्वयुरन्वगच्छन्। यातेर्लङ् ॥ 45 ॥
विश्वास-प्रस्तुतिः
अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया ।
अनयदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः ॥ ४६॥
मूलम्
अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया ।
अनयदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः ॥ ४६॥
मल्लिनाथः ...{Loading}...
अनुभवन्निति॥ नवो दोला प्रेङ्खा यस्मिंस्तं नवदोलमृतूत्सवं वसन्तोत्सवमनुभवन्नबलाजनः पटुरपि निपुणोऽपि प्रियकण्ठस्य जिघृक्षया ग्रहीतुमालिङ्गितुमिच्छया आसनरज्जुपरिग्रहे पीठरज्जुग्रहणे भुजलतां बाहुलतां जलतां शैथिल्यम्। डलयोरभेदः। अनयत् दोलाक्रीडासु पतनभयनाटितकेन प्रियकण्ठमाश्लिष्यदित्यर्थः ॥ 46 ॥
विश्वास-प्रस्तुतिः
त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः ।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ ४७॥
मूलम्
त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः ।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ ४७॥
मल्लिनाथः ...{Loading}...
त्यजतेति॥ ‘बत’इत्यामन्त्रणे। ‘खेदानुकम्पासंतोषविस्मयामन्त्रणे बत’इत्यमरः। बत अङ्गाना मानं कोपं त्यजत। तदुक्तम्-‘स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये’इति। विग्रहैर्विरोधैरलम्। विग्रहो न कार्य इत्यर्थः। गतमतीतं चतुरमुपभोगक्षमं वयो यौवनं पुनर्नैति नागच्छति। इत्येवंरूपे स्मरमते स्मराभिप्राये। नपुंसके भावे क्तः। परभृताभिः कोकिलाभिर्निवेदिते सतीव वधूजनो रमते स्म रेमे। कोकिलाकूजितोद्दीपितस्मरः स्त्रीजनः कामशासनभयादिवोच्छृङ्खलमखेलदित्यर्थः ॥ 47 ॥
विश्वास-प्रस्तुतिः
अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः ।
नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः ॥ ४८॥
मूलम्
अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः ।
नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः ॥ ४८॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथानन्तरं मधुं मथ्नातीति मधुमद्विष्णुः। संपदादित्वात्क्विप्। पधुर्वसन्तः। मध्नातीति भावः। पचाद्यच्। मनसो मथो मन्मथः कामः। तेषां संनिभः सदृशो मधुमन्मधुमन्मथसंनिभः स नरपतिर्दशरथो विलासवतीसखः स्त्रीसहचरः सन्। ऋतुः प्राप्तोऽस्यार्तवः। तमुत्सवं वसन्तोत्सवं यथा-सुखं समनुभूय मृगयारतिं मृगयाविहारं चकम आचकाङ्क्ष ॥ 48 ॥
विश्वास-प्रस्तुतिः
परिचयं चललक्ष्यनिपातने भयरुचोश्च तदिङ्गितबोधनम् ।
श्रमजयात्प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ ॥ ४९॥
मूलम्
परिचयं चललक्ष्यनिपातने भयरुचोश्च तदिङ्गितबोधनम् ।
श्रमजयात्प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ ॥ ४९॥
मल्लिनाथः ...{Loading}...
परिचयमिति॥ असौ मृगया। चललक्ष्याणि मृगगवयादीनि। तेषां निपातने परिचयमभ्यासं करोति। भयरुषोर्भयक्रोधयोस्तदिङ्गितबोधनं तेषां चललक्ष्याणामिङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति। तनुं शरीरं श्रमस्य जयान्निरासात्प्रगुणां प्रकृष्टलाघवादिगुणवतीं च करोति। अतो हेतोः सचिवैरनुमतोऽनुमोदितः सन् ययौ। सर्वं चैतद्युद्धोपयोगीत्यतस्तदपेक्षया मृगयाप्रवृत्तिः। न तु व्यसनितयेति भावः ॥ 49 ॥
विश्वास-प्रस्तुतिः
मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः ।
गगनमश्वखुरोद्धतरेणुभिर्नृसविता स वितानमिवाकरोत् ॥ ५०॥
मूलम्
मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः ।
गगनमश्वखुरोद्धतरेणुभिर्नृसविता स वितानमिवाकरोत् ॥ ५०॥
मल्लिनाथः ...{Loading}...
मृगेति॥ मृगाणां वनं तस्योपगमः प्राप्तिः। तस्य क्षममर्हं वेषां बिभर्तीति स तथोक्तः। मृगयाविहारानुगुणवेषधारीत्यर्थः। विपुलकण्ठे निषक्तशरासनो लग्नधन्वा। ना सवितेव नृसविता पुरुषश्रेष्ठः। उपमितसमासः। स राजाऽश्वखुरोद्धतरेणुभिर्गगनं वितानं तुच्छमसदिवाकरोत्। गगनं नालक्ष्यतेत्यर्थः। ‘वितानं तुच्छमन्दयोः’ इति विश्वः। अथवा,-‘सवितानम्’ इत्येकं पदम्। सवितानमुल्लोचसहितमिवाकरोत् । ‘अस्त्री वितानमुल्लोचः’ इत्यमरः ॥ 50 ॥
विश्वास-प्रस्तुतिः
ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः ।
तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥ ५१॥
मूलम्
ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः ।
तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥ ५१॥
मल्लिनाथः ...{Loading}...
ग्रथितेति॥ वनमालया वनपुष्पस्रजा ग्रथितमौलिर्बद्धधम्मिल्लः । तरुणां पलाशैः पत्रैः सवर्णः समानस्तनुच्छदो वर्म यस्य स तथोक्तः। इदं च वर्मणः पलाशसावर्ण्याभिधानं मृगादीनां विश्वासार्थम्। तुरगस्य वल्गनेन गतिविशेषेण चञ्चलकुण्डलोऽसौ दशरथो रुरुभिर्भृगविशेषैश्चेष्टिताश्चरिता या भूमयस्तासु विरुरुचे विदिद्युते ॥ 51 ॥
विश्वास-प्रस्तुतिः
तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः ।
ददृशुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥ ५२॥
मूलम्
तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः ।
ददृशुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥ ५२॥
मल्लिनाथः ...{Loading}...
तन्विति॥ तनुषु लतासु विनिवेशितविग्रहाः संक्रमितदेहाः। भ्रमरेषु संक्रमिता ईक्षणवृत्तयो दृग्व्यापारा यासां ता वनदेवताः सुनयनं सुलोचनं नयेन नीत्या नन्दितास्तोषिताः कोसला येन तं दशरथमध्वनि ददृशुः। प्रसन्नपावनतया तं देवता अपि गूढवृत्त्या ददृशुरित्यर्थः ॥ 52 ॥
विश्वास-प्रस्तुतिः
श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः ।
स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनम् ॥ ५३॥
मूलम्
श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः ।
स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनम् ॥ ५३॥
मल्लिनाथः ...{Loading}...
श्वगणीति॥ स दशरथः। शुनां गणः स एषामस्तीति श्वगणिनः श्वप्राहिणः। तैः। वागुरा मृगबन्धनरज्जुः। ‘वागुरा मृगबन्धनी’ इत्यमरः। तया चरन्तीति वागुरिका जालिकाः। ‘चरति’(पा.4।4।8) इति ठक्प्रत्ययः। ‘द्वौ वागुरिकजालिकौ’इत्यमरः। तैशअच प्रथममास्थइतमधिष्ठितम्। व्यपगता अनला दावाग्नयो दस्यवस्तस्कराश्च। यस्मात्तथोक्तम्। ‘दस्युतस्करमोषकाः’ इत्यमरः। ‘कारयेद्वनविशोधनमादौ मातुरन्तिकमपि प्रविविक्षुः। आप्तशस्त्र्यनुगतः प्रविशेद्वा संकटे च गहने च न तिष्ठेत्॥’ इति कामन्दकः। स्थिरा दृढा पङ्कादिरहिता तुरंगमयोग्या भूमिर्यस्य तत्। निपानवदाहावयुक्तम्। ‘आहावस्तु निपानं स्याद्गुपकूपजलाशये’इत्यमरः। मृगैर्हरिणादिभिर्वयोभिः पक्षिभिर्गवयैर्गोसदृशैररण्यपशुविशेषैश्चोपचितं समृद्धं वनं विवेश प्रविष्टवान् ॥ 53 ॥
विश्वास-प्रस्तुतिः
अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् ।
धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ॥ ५४॥
मूलम्
अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् ।
धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ॥ ५४॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथानाधिर्मनोव्यथारहितो नरवरो नरश्रेष्ठः। रवेण धनुष्टङ्कारेण रोषिताः केसरिणः सिंहा येन स राजा। कनकमिव पिङ्गः पिशङ्गो यस्तडिदेवप गुणो मौर्वी तेन संयुतं त्रिदशायुधमिन्द्रचापं नभस्यो भाद्रपदमास इव। ‘स्युर्नभस्यप्रौष्टपदभाद्रभाद्रपदाः समाः’ इत्यमरः। अधिज्यमधिगतमौर्वीकं धनुरुपापदे जग्राह ॥ 54 ॥
विश्वास-प्रस्तुतिः
तस्य स्तनप्रणयिभिर्मुहुरेणशावै-
र्व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर्बभूव कुशगर्भमुखं मृगाणां
यूथं तदग्रसरगर्वितकृष्णसारम् ॥ ५५॥
मूलम्
तस्य स्तनप्रणयिभिर्मुहुरेणशावै-
र्व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर्बभूव कुशगर्भमुखं मृगाणां
यूथं तदग्रसरगर्वितकृष्णसारम् ॥ ५५॥
मल्लिनाथः ...{Loading}...
तस्येति॥ स्तनप्रणयिभिः स्तनपायिभिरेणशावैर्हरिणशिशुभिः। ‘पृथुकः शावकः शिशु’इत्यमरः। व्याहन्यमानं तद्वत्सलतया तद्गमनानुसारेण मुहुर्मुहुः प्रतिषिध्यमानं हरिणीनां गमनं गतिर्यस्य तत्। कुशा गर्भे येषां तानि मुखानि यस्य तत् कुशगर्भमुखम्। तस्य यूथस्याग्रेसरः पुरःसरो गर्वितो दृप्तश्च कृष्णसारो यस्य तत्। मृगाणां यूथं कुलम्। ‘सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम्’ सारो यस्य तत्। मृगाणां यूथं कुलम्। ‘सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम्’इत्यमरः। तस्य दशरथस्य पुरस्तादग्र आविर्बभूव। वसन्ततिलका वृत्तम् ॥ 55 ॥
विश्वास-प्रस्तुतिः
तत्प्रार्थितं जवनवाजिगतेन राज्ञा
तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति ।
श्यामीचकार वनमाकुलदृष्टिपातै-
र्वातेरितोत्पलदलप्रकरैरिवार्द्रैः ॥ ५६॥
मूलम्
तत्प्रार्थितं जवनवाजिगतेन राज्ञा
तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति ।
श्यामीचकार वनमाकुलदृष्टिपातै-
र्वातेरितोत्पलदलप्रकरैरिवार्द्रैः ॥ ५६॥
मल्लिनाथः ...{Loading}...
तदिति॥ जवनो जवशीलः। ‘जुचंक्रम्य’-(पा.3।2।150) इत्यादिना युच्प्रत्तययः। ‘तरस्वी त्वरितो वेगी प्रजवी जवनो जवः’ इत्यमरः। तं वाजिनमश्वं गतेनारूडेन। तूणीषुधिः। ‘बह्वादिभ्यश्च’(पा.4।1।54)इति स्त्रियां ङीष्। तस्या मुखाद्विवरादुद्धृतशरेण राज्ञा प्रार्थितमभियाचितम्। ‘याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः’इति केशवः। अत एव विशीर्णा पङ्क्तिः संघीभावो यस्य तत्। मृगयूथं कर्तृ आद्रैर्भयादश्रुसिक्तैराकुला भयचकिता ये दृष्टिपातास्तैः। वातेरितोत्पलदलप्रकरैः पवनकम्पितेन्दीवरदलवृन्दैरिव। वनं श्यामीचकार ॥ 56 ॥
विश्वास-प्रस्तुतिः
लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् ।
आकर्णकृष्टमपि कामितया स धन्वी
बाणं कृपामृदुमनाः प्रतिसंजहार ॥ ५७॥
मूलम्
लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् ।
आकर्णकृष्टमपि कामितया स धन्वी
बाणं कृपामृदुमनाः प्रतिसंजहार ॥ ५७॥
मल्लिनाथः ...{Loading}...
लक्ष्यीकृतेति॥ हरिरिन्द्रो विष्णुर्वा तस्येव प्रभावः सामर्थ्य यस्य स तथोक्तः। धन्वी धनुष्मान् स नृपः। लक्ष्यीकृतस्य वेद्धुमिष्टस्य हरिणस्य स्वप्रेयसो देहं व्यवधायानुरागादन्तर्धाय स्थिताम्। सह चरतीति सहचरी। पचादिषु चरतेष्टित्करणान्ङीप्। यथाह वामनः-‘अनुचरीति चरेष्टित्त्वात्’ इति। तां सहचरीं हरिणीं प्रेक्ष्य कामितया स्वयं कामुकत्वात्। कृपामृदुमनाः करुणार्द्रचितः सन्। आकर्णकृष्टमपि। दुष्प्रतिसंहरमपीत्यर्थः। बाणं प्रतिसंजहार। नैपुण्यादित्यर्थः। नैपुण्यं तु ‘धन्वी’ इत्यनेन गम्यते ॥ 57 ॥
विश्वास-प्रस्तुतिः
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः
कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः ।
त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः
प्रौढप्रियानयनविभ्रमचेष्टितानि ॥ ५८॥
मूलम्
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः
कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः ।
त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः
प्रौढप्रियानयनविभ्रमचेष्टितानि ॥ ५८॥
मल्लिनाथः ...{Loading}...
तस्येति॥ त्रासाद्भयादतिमात्रचटुलैरत्यन्तचञ्चलैः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि प्रगल्भकान्ताविलोचनविवलासव्यापारान्सादृश्यात्स्मरतः। अपरेष्वपि मृगेषु शरान्मुमुक्षोर्मोक्तुमिच्छोस्तस्य नृपस्य निबिडो दृढोऽपि मुष्टिः कर्णान्तमेत्य प्राप्य बिभिदे। स्वयमेव भिद्यते स्म। भिदेः कर्मकर्तरि लिट्। कामिनस्तस्य प्रियाविभ्रमस्मृतिजनितकृपातिरेकान्मुष्टिभेदः। न त्वनैपुण्यादिति तात्पर्यार्थः ॥ 58 ॥
विश्वास-प्रस्तुतिः
उत्तस्थुषः सपदि पल्वलपङ्कमध्या-
न्मुस्ताप्ररोहकवलावयवानुकीर्णम् ।
जग्राह स द्रुतवराहकुलस्य मार्गं
सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥ ५९॥
मूलम्
उत्तस्थुषः सपदि पल्वलपङ्कमध्या-
न्मुस्ताप्ररोहकवलावयवानुकीर्णम् ।
जग्राह स द्रुतवराहकुलस्य मार्गं
सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥ ५९॥
मल्लिनाथः ...{Loading}...
उत्तस्थुष इति॥ स नृपः मुस्ताप्ररोहाणां मुस्ताङ्कुराणां कवला ग्रासाः तेषामवयवैः श्रमविवृतमुखभ्रंशिभिः शकलैरनुकीर्णं व्याप्तम्। आयताभिर्दीर्घाभिरार्द्रपदपङ्क्तिभिः सुव्यक्तम्। सपदि पल्वलपङ्कमध्यादुत्तस्थुष उत्थितस्य द्रुतवराहकुसस्य पलायितवराहयूथस्य मार्गं जग्राहानुससार ॥ 59 ॥
विश्वास-प्रस्तुतिः
तं वाहनादवनतोत्तरकायमीष-
द्विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीषुः ।
नात्मानमस्य विविदुः सहसा वराहा
वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ॥ ६०॥
मूलम्
तं वाहनादवनतोत्तरकायमीष-
द्विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीषुः ।
नात्मानमस्य विविदुः सहसा वराहा
वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ॥ ६०॥
मल्लिनाथः ...{Loading}...
तमिति॥ वराहाः। वाहनादश्वादीषदवनतोत्तरकायं किंचिदानतपूर्वकायं विध्यन्तं प्रहरन्तं तं नृपम्। उद्धृतसटा ऊर्ध्वकेसराः सन्तः। ‘सटा जटाकेसरयोः’ इति केशवः। प्रतिहन्तुमीषुः प्रतिहर्तुमैच्छन्। अस्य नृपस्येषुभिः सहसा जघनानामाश्रयेष्ववष्टम्भेषु वृक्षेषु विद्धमात्मानं न विविदुः। एतेन वराहाणां मनस्वित्वं नृपस्य हस्तलाघवं चोक्तम् ॥ 60 ॥
विश्वास-प्रस्तुतिः
तेनाभिघातरभसस्य विकृष्य पत्री
वन्यस्य नेत्रविवरे महिषस्य मुक्तः ।
निर्भिद्य विग्रहमशोणितलिप्तपुङ्ख-
स्तं पातयां प्रथममास पपात पश्चात् ॥ ६१॥
मूलम्
तेनाभिघातरभसस्य विकृष्य पत्री
वन्यस्य नेत्रविवरे महिषस्य मुक्तः ।
निर्भिद्य विग्रहमशोणितलिप्तपुङ्ख-
स्तं पातयां प्रथममास पपात पश्चात् ॥ ६१॥
मल्लिनाथः ...{Loading}...
तेनेति॥ अभिघातो सभस औत्सुक्यं यस्य तस्य। अभिहन्तुमुद्यतस्येत्यर्थः। वन्यस्य वने भवस्य महिषस्य नेत्रविवरे नेत्रमध्ये तेन नृपेण विकृष्याकृष्य मुक्तः पत्री शरो विग्रहं महिषदेहं निर्भिद्य विदार्य। शोणितलिप्तो न भवतीत्यशोणितलिप्तः पुङ्खो यस्य स तथोक्तः सन्। तं महिषं प्रथमं पातयाभवतीत्यशोणितलिप्तः पुङ्खो यस्य स तथोक्तः सन्। तं महिषं प्रथमं पातयामास। स्वयं पश्चात्पपात। ‘कृञ्चानुप्रयुज्यते लिटि’(पा.3।1।40)इत्यत्रानुशब्दस्य व्यवहितविपर्यस्तप्रयोगनिवृत्त्यर्थत्वात् ‘पातयां प्रथममास’ इत्यपप्रयोग इति पाणिनीयाः। यथाह वार्तिककारः-‘विपर्यासनिवृत्त्यर्थः व्यवहितवृत्त्यर्थं च’ इति ॥ 61 ॥
विश्वास-प्रस्तुतिः
प्रायो विषाणपरिमोक्षलघूत्तमाङ्गा-
न्खड्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः ।
शृङ्गं स दृप्तविनयाधिकृतः परेषा-
मत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ॥ ६२॥
मूलम्
प्रायो विषाणपरिमोक्षलघूत्तमाङ्गा-
न्खड्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः ।
शृङ्गं स दृप्तविनयाधिकृतः परेषा-
मत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ॥ ६२॥
मल्लिनाथः ...{Loading}...
प्राय इति॥ नृपतिर्निशितैः क्षुरप्रैः शरविशेषैः खङ्गान् खङ्गाख्यान्मृगान्। ‘गण्डके खङ्गखङ्गिनौ’इत्यमरः। प्रायो बाहुल्येन विषाणपरिमोक्षेण शृङ्गभङ्गेन लघून्यगुरूण्युत्तमाङ्गानि शिरांसि येषां तांश्चकार। न त्ववधीदित्यर्थः। कुतः? दृप्तविनयाधिकृतो दुष्टनिग्रहनियुक्तः स राजा परेषां प्रतिकूलानामत्युच्छ्रितमुन्नतं श्रृङ्गं विषाणं प्राधान्यं च। ‘शृङ्गं प्राधान्यसान्वोश्च’ इत्यमरः। न ममृषे न सेहे। दीर्घमायुर्जीवितकालम्। ‘आयुर्जीवितकालो ना’ इत्यमरः। न ममृषे इति न। किंतु ममृष एवेत्यर्थः ॥ 62 ॥
विश्वास-प्रस्तुतिः
व्याघ्रानभीरभिमुखोत्पतितान्गुहाभ्यः
फुल्लासनाग्रविटपानिव वायुरुग्णान् ।
शिक्षाविशेषलघुहस्ततया निमेषा-
त्तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥ ६३॥
मूलम्
व्याघ्रानभीरभिमुखोत्पतितान्गुहाभ्यः
फुल्लासनाग्रविटपानिव वायुरुग्णान् ।
शिक्षाविशेषलघुहस्ततया निमेषा-
त्तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥ ६३॥
मल्लिनाथः ...{Loading}...
व्याघ्रानिति॥ अभीर्निर्भीकः स धन्वी गुहाभ्योऽभिमुखमुत्पतितान्। वायुना रुग्णान्भग्नान्। फुल्ला विकसिताः। ‘अनुपलर्गात्फुल्लक्षीवकृशोल्लाघाः’(पा.3।2।55) इति निष्ठातकारस्य लत्वनिपातः। येऽसनस्य सर्जवक्षस्य। ‘सर्जकासनबन्धूकपुष्पप्रियकजीवकाः’ इत्यमरः। अग्रविटपास्तानिव स्थितान्। इषुधिभूतानित्यर्थः। व्याघ्राणां चित्ररूपत्वादुपमाने ‘फुल्ल’विशेषणम्। शरैः पूरितानि वक्त्ररन्ध्राणि येषां तान्व्याघ्रान्। शिक्षाविशेषेणाभ्यासातिशयेन लघुहस्ततया क्षिप्रहस्ततया निमेषात्तूणीचकार। तूणं शरैः पूरितवानित्यर्थथः॥ 63 ॥
विश्वास-प्रस्तुतिः
निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान् ।
नूनं तेषामभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दो मृगेषु ॥ ६४॥
मूलम्
निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान् ।
नूनं तेषामभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दो मृगेषु ॥ ६४॥
मल्लिनाथः ...{Loading}...
निर्घातेति॥ कुञ्जेषु लीनान्। ‘निकुञ्जकुञ्जौ वा क्लीवे लतादिपिहितोदरे’ इत्यमरः। सिंहाञ्जिघांसुर्हन्तुमिच्छुः। निर्घातो व्योमोत्थित औत्पातिकः शब्द विशेषः। तद्वदुग्रै रौद्रैर्ज्यानिर्घोषैर्मौर्वीशब्दैः क्षोभयामास। अत्रोत्प्रेक्षते-तेषां सिंहानां संबन्धिनि वीर्येणोदग्र उन्नते मृगेषु विषये यो राजशब्दस्तस्मिन्नभ्यसूयापरोऽभून्नृनम्। अन्यथा कथमेतानन्विष्य हन्यादित्यर्थः। ‘मृगाणाम्’ इति पाठे समासे गुणभूतत्वात् ‘राज’शब्देन संबन्धो दुर्घटः। शालिनीवृत्तम्-‘शालिन्युक्ता स्तौ तगौ गोऽब्धिलोकैः’ इति लक्षणात् ॥ 64 ॥
विश्वास-प्रस्तुतिः
तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ।
आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैरमंस्त ॥ ६५॥
मूलम्
तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ।
आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैरमंस्त ॥ ६५॥
मल्लिनाथः ...{Loading}...
तानिति॥ काकुत्स्थो दशरतः। गजकुलेषु बद्धं तीव्रं वैरं यैस्तान्। कुटिलेषु नखाग्रेषु लग्ना मुक्ता गजकुम्भमौक्तिकानि येषां तान्सिंहान्हत्वा आत्मानं रणेषु कृतकर्मणां कृतोपकाराणां गजानामानृण्यमनृणत्वं मार्गणैः शरैः। ‘मार्गणो याचके शरे’ इति विश्वः। गतं प्राप्तवन्तमिवामंस्त मेने ॥ 65 ॥
विश्वास-प्रस्तुतिः
चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी ।
नृपतीनिव तान्वियोज्य सद्यः सितबालव्यजनैर्जगाम शन्तिम् ॥ ६६॥
मूलम्
चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी ।
नृपतीनिव तान्वियोज्य सद्यः सितबालव्यजनैर्जगाम शन्तिम् ॥ ६६॥
मल्लिनाथः ...{Loading}...
चमरानिति॥ क्वचिञ्चमरान्परितः। ‘अभितः परितः समया-’(वा1442) इत्यादिना द्वितीया। प्रवर्तिताश्वः प्रधाविताश्वः। आकर्णविकृष्टभल्लानिषुविशेषान्वर्षतीति तथोक्तः स नृपः। नृपतीनिव तांश्चमरान्सितबालव्यजनैः शुभ्रचामरैर्वियोज्य विरहय्य सद्यः शान्तिं जगाम। शूराणां परकीयमैश्वर्यमेकसह्यम्,न तु जीवितमिति भावः। औपच्छन्दसिकं वृत्तम् ॥ 66 ॥
विश्वास-प्रस्तुतिः
अपि तुरगसमीपादुत्पतन्तं मयूरं
न स रुचिरकलापं बाणलक्ष्यीचकार ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
रतिविगलितबन्धे केशपाशे प्रियायाः ॥ ६७॥
मूलम्
अपि तुरगसमीपादुत्पतन्तं मयूरं
न स रुचिरकलापं बाणलक्ष्यीचकार ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
रतिविगलितबन्धे केशपाशे प्रियायाः ॥ ६७॥
मल्लिनाथः ...{Loading}...
अपीति॥ स नृपस्तुरगसमीपादुत्पतन्तमपि। सुप्रहारमपीत्यर्थः। रुचिरकलापं भासुरबर्हम्। मह्यामतिशयेन रौतीति मयूरो बर्ही। पृषोदरादित्वात्साधुः। तं चित्रेण माल्येनानुकीर्णे रतौ विगलितबन्धे प्रियायाः केशपाशे सपदि गगतमनस्कः प्रवृत्तचित्तः। ‘उरः प्रभृतिभ्यः कप्’(पा.1।4।151) इति कप्प्रत्ययः। न बाणलक्ष्यीचकार। न प्रजहारेत्यर्थः ॥ 67 ॥
विश्वास-प्रस्तुतिः
तस्य कर्कशविहारसंभवं स्वेदमाननविलग्नजालकम् ।
आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः ॥ ६८॥
मूलम्
तस्य कर्कशविहारसंभवं स्वेदमाननविलग्नजालकम् ।
आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः ॥ ६८॥
मल्लिनाथः ...{Loading}...
तस्येति॥ कर्कशविहारादतिव्यायामात्संभवो यस्य तम्। आनने विलग्नजालकं बद्धकदम्बकं तस्य नृपस्य स्वेदम्। सतुषारशीकरः शिशिराम्बुकणसहितः। भिन्ना निर्दलिताः पल्लवानां पुटाः कोशा येन सः। वनानिल आचचाम। जहारेत्यर्थः। रथोद्धतावृत्तमेतत् ॥ 68 ॥
विश्वास-प्रस्तुतिः
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बिधुरं धराधिपम् ।
परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥ ६९॥
मूलम्
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बिधुरं धराधिपम् ।
परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥ ६९॥
मल्लिनाथः ...{Loading}...
इतीति॥ इति पूर्वोक्तप्रकारेण। आत्मनो विस्मृतमन्यत्करणीयं कार्यं येन तम्। विस्मृतात्मकार्यान्तरमित्यर्थः। सचिवैरवलम्बिता धृता धूर्यस्य तम्। ‘ऋक्पूरब्धूः पथामानक्षे’(पा.5।4।74) इति समासान्तोऽच्प्रत्ययः। अनुबन्धसेवया संततसेवया परिवृद्धो रागो यस्य तं धराधिपम्। मृग्यन्ते यस्यां मृगा इति मृगया। ‘परिचर्यापरिसर्यामृगयाटाट्यादीनामुपसंख्यानम्’(वा.2215) इति शप्प्रत्ययान्तो निपातः। चतुरा विदग्धा कामिनीव। जहाराचकर्ष। ‘न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥’ इति भावः ॥ 69 ॥
विश्वास-प्रस्तुतिः
स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् ।
नरपतिरतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥ ७०॥
मूलम्
स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् ।
नरपतिरतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥ ७०॥
मल्लिनाथः ...{Loading}...
स इति॥ स नरपतिः ललितानि कुसुमानि प्रवालानि पल्लवानि शय्या यस्यां ताम्। ज्वलिताभिर्महौषधिभिरेव दीपिकाभिः सनाथाम्। तत्प्रधानामित्यर्थः। त्रियामां रात्रिं क्वचिदसमेतपरिच्छदः। परिहृतपरिजनः सन्नित्यर्थः। अतिवाहयांबभूव गमयामास। पुष्पिताग्रावृत्तम् ॥ 70 ॥
विश्वास-प्रस्तुतिः
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः ।
अरमत मधुराणि तत्र शृण्वन्विहगविकूचितबन्दिमङ्गलानि ॥ ७१॥
मूलम्
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः ।
अरमत मधुराणि तत्र शृण्वन्विहगविकूचितबन्दिमङ्गलानि ॥ ७१॥
मल्लिनाथः ...{Loading}...
उषसीति॥ उषसि प्रातः पटूनां पटहानामिव ध्वनिर्येषां तैर्गजयूथानां कर्णैरेव तालैर्वाद्यप्रभेदैर्विनीतनिद्रः स नृपस्तत्र वने मधुराणि विहगानां विहंगानां विकूजितान्येव बन्दिनां मङ्गलानि मङ्गलगीतानि शृण्वन्नरमत ॥ 71 ॥
विश्वास-प्रस्तुतिः
अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः ।
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण ॥ ७२॥
मूलम्
अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः ।
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण ॥ ७२॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ जातु कदाचिद्रुरोर्मृगस्य गृहीतवर्त्मा स्वीकृतरुरुमार्गो विपिनेवने पार्श्वचरैरलक्ष्यमाणः। तुरगवेगादित्यर्थः। श्रमेण फेनमुचा। सफेनं स्विद्यतेत्यर्थः। तुरंगमेण तपस्विभिर्गाढामवगाढां सेवितां तमसां नाम नदीं सरितं प्राप ॥ 72 ॥
विश्वास-प्रस्तुतिः
कुम्भपूरणभवः पटुरुच्चैरुच्चचार निनदोऽम्भसि तस्याः ।
तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषुं विससर्ज ॥ ७३॥
मूलम्
कुम्भपूरणभवः पटुरुच्चैरुच्चचार निनदोऽम्भसि तस्याः ।
तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषुं विससर्ज ॥ ७३॥
मल्लिनाथः ...{Loading}...
कुम्भेति॥ तस्यास्तमसाया अम्भसि कुम्भपूरणेन भव उत्पन्नः। पचाद्यच्। पटुर्मधुरः। उञ्चैर्गम्भूरो निनदो ध्वनिरुञ्चचारोदियाय। तत्र निनदे स नृपः। द्विरदबृंहितं शङ्कत इति द्विरदबृंहितशङ्की सन्,शब्देन शब्दानुसारेण तपतीति शब्दपातिनमिषुं विससर्ज। स्वागतावृत्तम् ॥ 73 ॥
विश्वास-प्रस्तुतिः
नृपतेः प्रतिषिद्धमेव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यत् ।
अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥ ७४॥
मूलम्
नृपतेः प्रतिषिद्धमेव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यत् ।
अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥ ७४॥
मल्लिनाथः ...{Loading}...
नृपतेरिति॥ तत्कर्म नृपतेः क्षत्रियस्य प्रतिषिद्धमेव निषिद्धमेव यदेतत्करम् गजवधरूपं पङ्क्तिरथो दशरथो विलङघ्य ‘लक्ष्मी कामो युद्धादन्यत्र करिवधं न कुर्यात्’ इति शास्त्रमुल्लङ्घअय कृतवान्। ननु विदुषस्तस्य कथमीदृग्विचेष्टितमत आह-अपथ इति। श्रुतवन्तोऽपि विद्वांसोऽपि रजोनिमीलिता रजोगुणावृताः सन्तः। न पन्था इत्यपथम्। ‘पथो विभाषा’(पा.5।4।72) इति वा समासान्तः। ‘अपथं नपुंसकम्’(पा.2।4।30)इति नपुंसकम्। ‘अपन्थास्त्वपथं तुल्ये’इत्यमरः। तस्निन्नपथेऽमार्गे पदमर्पयन्ति हि निक्षिपन्ति हि। प्रवर्तन्त इत्यर्थः। वैतालीयं वृत्तम् ॥ 74 ॥
विश्वास-प्रस्तुतिः
हा तातेति क्रन्दितमाकर्ण्य विषण्ण-
स्तस्यान्विष्यन्वेतसगूढं प्रभवं सः ।
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं
तापादन्तःशल्य इवासीत्क्षितिपोऽपि ॥ ७५॥
मूलम्
हा तातेति क्रन्दितमाकर्ण्य विषण्ण-
स्तस्यान्विष्यन्वेतसगूढं प्रभवं सः ।
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं
तापादन्तःशल्य इवासीत्क्षितिपोऽपि ॥ ७५॥
मल्लिनाथः ...{Loading}...
हा तातेति॥ हेत्यार्तौ। तातो जनकः। ‘हा विषादशुगर्तिषु’इति,‘तातस्तु जनकः पिता’ इति चामरः। हा तातेति क्रन्दितं क्रोशनमाकर्ण्य। विषण्णो भग्नोत्साहः सन्। तस्य क्रन्दितस्तय वेतसैर्गूढं छन्नम्। प्रभवत्यस्मादिति प्रभवः कारणम्। तमन्विष्यञ्छल्येन शरेण प्रोतं स्यूतम्। ‘शल्यं शङ्कौ शरे वंशे’इति विश्वः। सकुम्भं मुनिपुत्रं प्रेक्षअय स क्षितिपोऽपि तापाद्दुःखादन्तःशल्यं यस्य सोऽन्तःशल्य इवासीत्। मत्तमयूरं वृत्तम् ॥ 75 ॥
विश्वास-प्रस्तुतिः
तेनावतीर्य तुरगात्प्रथितान्वयेन
पृष्टान्वयः स जलकुम्भनिषण्णदेहः ।
तस्मै द्विजेतरतपस्विसुतं स्खलद्भि-
रात्मानमक्षरपदैः कथयांबभूव ॥ ७६॥
मूलम्
तेनावतीर्य तुरगात्प्रथितान्वयेन
पृष्टान्वयः स जलकुम्भनिषण्णदेहः ।
तस्मै द्विजेतरतपस्विसुतं स्खलद्भि-
रात्मानमक्षरपदैः कथयांबभूव ॥ ७६॥
मल्लिनाथः ...{Loading}...
तेनेति॥ प्रथितान्वयेन प्रख्यातवंशेन। एतेन पापभीरुत्वं सूचितम्। तेन राज्ञः तुरगादवतीर्य पृष्टान्वपयो ब्रह्महत्याशङ्कया पृष्टकुलः। जलकुम्भनिषण्णदेहः स मुनिपुत्रस्तस्मै राज्ञे स्खलद्भिः। अशक्तिवशादर्धोञ्चारितैरित्यर्थः। अक्षरप्रायैः पदैरक्षरपदैरात्मानं द्विजेतरश्चासौ तपस्विसुतश्च तं द्विजेतरतपस्विसुतं कथयांबभूव। न तावत्त्रैवर्णिक एवाहमस्मि,किंतु करणः। ‘वैश्यात्तु करणः शूद्र्यां’(आचार.4।92) इति याज्ञवल्क्यः। कुतो ब्रह्महत्येत्यर्थः। तथा च रामायणे-(अयोध्या.6।50) ‘ब्रह्महत्याकृतं पापं हृदयादपनीयताम्। न द्विजातिरहं राजन्। मा भूत्ते मनसो व्यथा॥ शूद्रायामस्मि वैश्येन जातो जनपदाधिप!।’ इति ॥ 76 ॥
विश्वास-प्रस्तुतिः
तच्चोदितः स तमनुद्धृतशल्यमेव पित्रोः सकाशमवसन्नदृशोर्निनाय ।
ताभ्यां तथागतमुपेत्य तमेकपुत्रमज्ञानतः स्वचरितं नृपतिः शशंस ॥ ७७॥
मूलम्
तच्चोदितः स तमनुद्धृतशल्यमेव पित्रोः सकाशमवसन्नदृशोर्निनाय ।
ताभ्यां तथागतमुपेत्य तमेकपुत्रमज्ञानतः स्वचरितं नृपतिः शशंस ॥ ७७॥
मल्लिनाथः ...{Loading}...
तदिति॥ तञ्चोदितस्तेन पुत्रेण चोदितः ‘पितृसमीपं प्रापय’ इत्युक्तः स नृपतिरनुद्धृतशल्यमनुत्पाटितशरमेव तं मुनिपुत्रम्। अवसन्नदृशोर्नष्टचक्षुषोः। अन्धयोरित्यर्थः। पित्रोर्मातापित्रोः। ‘पिता मात्रा’(पा.1।2।70)इत्येकशेषः। सकाशं समीपं निनाय। इदं च रामायणविरुद्धम्। तत्र-‘अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ। अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया॥’(अयोध्या.64।28) इति नदीतीर एव मृतं पुत्रं प्रति पित्रोरानयनाभिधानात्। तथागतं वेतसगूढम्। एकश्चासौ पुत्रश्च तमेकपुत्रम्। ‘एक’ग्रहणं पित्रोरनन्यगतिकत्वसूचनार्थम्। तं मुनिपुत्रमुपेत्य संनिकृष्टं गत्वाऽज्ञानतः करिभ्रान्त्या स्वचरितं स्वकृतं ताभ्यां मातापितृभ्याम्। क्रियाग्रहणाञअचतुर्थी। श
शंस कथितवान् ॥ 77 ॥
विश्वास-प्रस्तुतिः
तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा
शल्यं निखातमुदहारयतामुरस्तः ।
सोऽभूत्परासुरथ भूमिपतिं शशाप
हस्तार्पितैर्नयनवारिभिरेव वृद्धः ॥ ७८॥
मूलम्
तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा
शल्यं निखातमुदहारयतामुरस्तः ।
सोऽभूत्परासुरथ भूमिपतिं शशाप
हस्तार्पितैर्नयनवारिभिरेव वृद्धः ॥ ७८॥
मल्लिनाथः ...{Loading}...
ताविति॥ तौ जाया च पतिश्च दंपती। राजदन्तादिषु ‘जाया’शब्दस्य दम्भावो जम्भावश्च विकल्पेन निपातितः। ‘दंपती जंपती जायापती भार्यापती च तौ’ इत्यमरः। बहु विलप्य भूयिष्ठं परिदेव्य। ‘विलापः परिदेवनम्’ इत्यमरः। शिशोरुरस्तो वक्षसः। ‘पञ्चम्यास्तसिल्’(पा.5।3।7) । निखातं शल्यं शरं प्रहर्त्रा राज्ञोदहारयतामुद्धारयामासतुः। स शिशुः परासुर्गतप्राणोऽभूत्। अथ वृद्धो हस्तार्पितैर्नयनवारिभिरेव शापदानस्य जलपूर्वकत्वात्तैरेव भूमिपतिं शशाप॥ 78 ॥
विश्वास-प्रस्तुतिः
दिष्टान्तमाप्स्यति भवानपि पुत्रशोका-
दन्त्ये वयस्यहमिवेति तमुक्तवन्तम् ।
आक्रान्तपूर्वमिव मुक्तविषं भुजंगं
प्रोवाच कोसलपतिः प्रथमापराद्धः ॥ ७९॥
मूलम्
दिष्टान्तमाप्स्यति भवानपि पुत्रशोका-
दन्त्ये वयस्यहमिवेति तमुक्तवन्तम् ।
आक्रान्तपूर्वमिव मुक्तविषं भुजंगं
प्रोवाच कोसलपतिः प्रथमापराद्धः ॥ ७९॥
मल्लिनाथः ...{Loading}...
दिष्टान्तमिति॥ हे राजन्! भवानप्यन्त्ये वयस्यहमिव पुत्रशोकाह्रिष्टान्तं कालावसानम्। मरणमित्यर्थः। ‘दिष्टः काले च दैवे स्याद्दिष्टम्’ इति विश्वः। आप्स्यति प्राप्स्यति। इत्युक्तवन्तम्। आक्रान्तः पादाहतः पूर्वमाक्रान्तपूर्वः। सुप्सुपेति समासः। तम्। प्रथममपकृतमित्यर्थः। मुक्तविषमपकारात्पश्चादुत्मृष्टविषं भुजंगमिव स्थितं तं वृद्धं प्रति प्रथमापराद्धः प्रथमापराधी। कर्तरि क्तः। इदं च सहने कारणमुक्तम्। शापदानात्पश्चादपराधी कोसलपतिर्दशरथः प्रोवाच ॥ 79 ॥
विश्वास-प्रस्तुतिः
शापोऽप्यदृष्टतनयाननपद्मशोभे
सानुग्रहो भगवता मयि पातितोऽयम् ।
कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो
बीजप्ररोहजननीं ज्वलनः करोति ॥ ८०॥
मूलम्
शापोऽप्यदृष्टतनयाननपद्मशोभे
सानुग्रहो भगवता मयि पातितोऽयम् ।
कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो
बीजप्ररोहजननीं ज्वलनः करोति ॥ ८०॥
मल्लिनाथः ...{Loading}...
शाप इति॥ अदृष्टा तनयाननपद्मशोभा येन तस्मिन्नपुत्रके मयि भगवता पातितः वज्रपायत्वात् ‘पुत्रशोकान्म्रियस्व’इत्येवंरूपः शापोऽपि सानुग्रहः वृद्धकुमारीवरन्यायेनेष्टावाप्तेरन्तरीयकत्वात्सोपकार एव। निग्राहकस्याप्यनुग्राहकत्वमर्थान्तरन्यासेनाह-कृष्यामिति। इन्धनैः काष्ठैरिद्धः प्रज्वलितो ज्वलनोऽग्निः कृष्यां कर्षणार्हम्। ‘ऋदुपधाञ्चाक्लृपि चृतेः’(पा.3।1।110) इति क्यप्। क्षितिं दहन्नपि बीजप्ररोहाणां बीजाङ्कुराणां जननीमुत्पादनक्षमां करोति ॥ 80 ॥
विश्वास-प्रस्तुतिः
इत्थं गते गतघृणः किमयं विधत्तां वध्यस्तवेत्यभिहितो वसुधाधिपेन ।
एधान्हुताशनवतः स मुनिर्ययाचे पुत्रं परासुमनुगन्तुमनाः सदारः ॥ ८१॥
मूलम्
इत्थं गते गतघृणः किमयं विधत्तां वध्यस्तवेत्यभिहितो वसुधाधिपेन ।
एधान्हुताशनवतः स मुनिर्ययाचे पुत्रं परासुमनुगन्तुमनाः सदारः ॥ ८१॥
मल्लिनाथः ...{Loading}...
इत्थमिति॥ इत्थं गते प्रवृत्ते सति। वसुधाधिपेन राज्ञा। गतघृणो निष्करुणः,हन्तृत्वान्निष्कृप इत्यर्थः। अत एव तव वध्यो वधार्होऽयं जनः। ‘अयम्’ इति राज्ञो निर्वेदादनादरेण स्वात्मनिर्देशः। किं विधत्तामित्यभिहित उक्तः,‘मया किं विधेयम्?‘इति विज्ञापित इत्यर्थः। स मुनिः सदारः सभार्यः परासुं गतासुं पुत्रमनुगन्तुं मनो यस्य सोऽनुगन्तुमनाः सन्। ‘तुं काममनसोरपि’ इति मकारलोपः। हुताशनवतः साग्नीनेधान् काषअठानि ययाचे। न चात्रात्मघातदोषः-‘अनुषअठानासमर्थस्य वानप्रस्थस्य जीर्यतः। भृग्वग्निजलसंपतैर्मरणं प्रविधीयते॥’ इत्युक्तेः ॥ 81 ॥
विश्वास-प्रस्तुतिः
प्राप्तानुगः सपदि शासनमस्य राजा
संपाद्य पातकविलुप्तधृतिर्निवृत्तः ।
अन्तर्निविष्टपदमात्मविनाशहेतुं
शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः ॥ ८२॥
मूलम्
प्राप्तानुगः सपदि शासनमस्य राजा
संपाद्य पातकविलुप्तधृतिर्निवृत्तः ।
अन्तर्निविष्टपदमात्मविनाशहेतुं
शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः ॥ ८२॥
मल्लिनाथः ...{Loading}...
इति श्रीरघुवंशे महाकाव्ये कविकालिदासकृतौ मृगयावर्णनों नाम नवमः सर्गः ।
प्राप्तेति॥ प्राप्तानुगः प्राप्तानुचरो राजा सपद्यस्य मुनेः शासनं काषअठसंभारणरूपं प्रागेकोऽपि संप्रति प्राप्तानुचरत्वात्संपाद्य पातकेन मुनिवधरूपेण विलुप्तधृतिर्नष्टोत्साहः सन्। अन्तर्निविष्टपदमन्तर्लब्धस्थानमात्मविनाशहेतुं शापम्। अम्बुराशिरौर्वं ज्वलनं वडवानलमिव। ‘और्वस्तु वाडवो वडवानलः’ इत्यमरः। दधद्धृतवान्सन्। निवृत्तः। वनादिति शेषः ॥ 82 ॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ मृगयावर्णनो नाम नवमः सर्गः ॥