विश्वास-प्रस्तुतिः
अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः ।
वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥ १॥
मूलम्
अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः ।
वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥ १॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ पार्थिवो रघुर्ललितं सुभगं विवाहकौतुकं विवाहमङ्गलं विवाहहस्तसूत्रं वा बिभ्रत एव। ‘कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले’ इति शाश्वतः। तस्याजस्य। अपरामिन्दुमतीमिव। वसुधामपि हस्तगामिनीमकरोत्। अस्मिन्सर्गे वैतालीयं छन्दः ॥ 1 ॥
विश्वास-प्रस्तुतिः
दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् ।
तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥ २॥
मूलम्
दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् ।
तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥ २॥
मल्लिनाथः ...{Loading}...
दुरितैरिति॥ नृपसूनवो राजपुत्रा यद्राज्यं दुरितैरपि विषप्रयोगादिनिषिद्धोपायैरपि आत्मसात् स्वाधीनम्। ‘तदधीनवचने’(पा.5।4।54) इति सातिप्रत्ययः। कर्तुं प्रयतन्ते हि। प्रवर्तन्त एवेत्यर्थः। ‘हि’ शब्दोऽवधारणे। ‘हि हेताववधारेण’ इत्यमरः। उपस्थितं स्वतःप्राप्तं तद्राज्यम्। अजः पितुराज्ञेति हेतोरग्रहीत् स्वीचकार। भोगतृष्णया तु नाग्रहीत् ॥ 2 ॥
विश्वास-प्रस्तुतिः
अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम् ।
विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ॥ ३॥
मूलम्
अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम् ।
विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ॥ ३॥
मल्लिनाथः ...{Loading}...
अनुभूयेति॥ मेदिनी भूमिर्महिषी च ध्वन्यते। वसिष्ठेन संभृतैः सलिलैस्तेनाजेन सहाभिषेचनमनुभूय विशदोच्छ्वसितेन स्फुटमुद्बृहणेन। आनन्दनिर्मलोच्छ्वसितेन चेति ध्वन्यते। कृतार्थतां गुणवद्भर्तृलाभकृतं साफल्यं कथयामासेव। न चैतावता पूर्वेषामपकर्षः;प्रशंसापरत्वात्। ‘सर्वत्र जयमन्विच्छेत् पुत्रादिच्छेत्पराजयम्’ इत्यङ्गीकृतत्वाञ्चज ॥ 3 ॥
विश्वास-प्रस्तुतिः
स बभूव दुरासदः परैर्गुरुणाऽथर्वविदा कृतक्रियः ।
पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा ॥ ४॥
मूलम्
स बभूव दुरासदः परैर्गुरुणाऽथर्वविदा कृतक्रियः ।
पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा ॥ ४॥
मल्लिनाथः ...{Loading}...
स इति॥ अथर्वविदाऽथर्ववेदाभिज्ञेन गुरुणा वसिष्ठेन कृतक्रियः। अथर्वोक्तविधिना कृताभिषेकसंस्कार इत्यर्थः। सोऽजः परैः शत्रुभिर्दुरासदो दुर्धर्षो बभूव। तथा हि-अस्त्रतेजसा क्षत्रतेजसा सहितं युक्तं यद्ब्रह्म ब्रह्मतेजोऽयं पवनाग्निसमागमो हि तत्कल्प इत्यर्थः। ‘पवनाग्नि’इत्यत्र पूर्वनिपातशास्त्रस्यानित्यत्वात् ‘द्वन्द्वे घि’(पा.2।232)इति नाग्निशब्दस्य पूर्वनिपातः। तथा च काशिकायाम्-‘अयमेकस्तु लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्’इति। क्षात्रेणैवायं दुर्धर्षः किमयं पुनर्वसिष्ठमन्त्रप्रभावे सतीत्यर्थः। अत्र मनुः-‘नाक्षत्रं ब्रह्म भवति क्षत्रं नाब्रह्म वर्धते। ब्रह्मक्षत्रे तु संयुक्ते हहामुत्र च वर्धते॥’ इति ॥ 4 ॥
विश्वास-प्रस्तुतिः
रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः ।
स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ॥ ५॥
मूलम्
रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः ।
स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ॥ ५॥
मल्लिनाथः ...{Loading}...
रघुमिति॥ प्रजा नवेश्वरं तमजं निवृत्तयौवनं प्रत्यावृत्तयौवनं रघुमेवामन्यन्त। न किंचिद्भेदकमस्तीत्यर्थः। कुतः? हि यस्मात् सोऽजस्तस्य रघोः केवलामेकां श्रियं न प्रतिपेदे। किंतु सकलान्गुणान् शौर्यदाक्षिण्यदीनपि प्रतिपेदे। अतस्तद्गुणयोगात्तंद्बुद्धिर्यथेत्यर्थः ॥ 5 ॥
विश्वास-प्रस्तुतिः
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् ।
पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥ ६॥
मूलम्
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् ।
पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥ ६॥
मल्लिनाथः ...{Loading}...
अधिकमिति॥ द्वयमेव शुभंयुना शुभवता। ‘शुभंयुस्तु शुभान्वितः’ इत्यमरः। ‘अहंशुभमोर्युस्(पा.5।2।140) इति युस्प्रत्ययः। द्वितयेन संगतं युतं सदधिकं शुशुभे। किं केनेत्याह-पदमिति। पैतृकं पितुरागतम्। ‘ऋतष्ठञ्’ (पा.4।3।78)इति ठञ्प्रत्ययः। ऋद्धं समृद्धं पदं राज्यमजेन अस्याजस्य नवं यौवनं विनयेनेन्द्रियजयेन च। ‘विजयो हीन्द्रियजयस्तद्युक्तः शास्त्रमर्हति’ इति कामभ्दकः। राज्यस्थोऽपि प्राकृतवन्न दृप्तोऽभूदित्यर्थः ॥ 6 ॥
विश्वास-प्रस्तुतिः
सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥ ७॥
मूलम्
सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥ ७॥
मल्लिनाथः ...{Loading}...
सदयमिति॥ सहाभुजः सोऽजोऽचिरोपनतां नवोपगतां मेदिनीं भुवम्। नवं पाणिग्रहणं विवाहो यस्यास्तां नवोढां वधूमिव। सहसा बलात्कारेण चेत्। ‘सहो बलं सहा मार्गः’ इत्यमरः। इयं मेदिनीर्वा। उद्वेगं भयं व्रजेदिति हेतोः। सदयं सकृपं बुभुजे भुक्तवान्। ‘भुजोऽनवने’(पा.1।3।66) इत्यात्मनेपदम् ॥ 7 ॥
विश्वास-प्रस्तुतिः
अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ ८॥
मूलम्
अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ ८॥
मल्लिनाथः ...{Loading}...
अहमिति॥ प्रकृतिषु प्रजासु मध्ये सर्वोऽपि जनः। अथवा,-प्रकृतिष्वित्यस्याहमित्यनेनान्वयः। व्यवधानं तु सह्यम्। सर्वोऽपि जनः प्रकृकतिष्वहमेव महीपतेर्मतो महीपतिना मन्यमानः। ‘मतिबुद्धिपूजार्थेभ्यश्च’(पा.3।2।188)इति वर्तमाने क्तः,‘क्तस्य च वर्तमाने’(पा.2।3।67)इति षष्ठी। इत्यचिन्तयदमन्यत। उदधेर्निम्रगाशतेष्विवास्य नृपस्य कर्तुः। ‘कर्तृकर्मणोः कृति’(पा.2।3।65)इति कर्तरि षष्ठी। क्वचिदपि जनविषये विमाननाऽवगणना तिरस्कारो नाभवत्,यतो न कंचिदवमन्यतेऽतः सर्वोऽप्यहमेवास्य मत इत्यमन्यतेत्यर्थः ॥ 8 ॥
विश्वास-प्रस्तुतिः
न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव ।
स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ॥ ९॥
मूलम्
न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव ।
स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ॥ ९॥
मल्लिनाथः ...{Loading}...
नेति॥ स नृपो भूयसा बाहुल्येन खरस्तीक्ष्णो न। भूयसा मृदुरतिमृदुरपि न। कुंतु पुरस्कृतमध्यमक्रमः सन्,मध्यमपरिपाटीमवलम्ब्येत्यर्थः। पवमानो वायुः पृथिवीरुहांस्तरूनिव नृपाननुद्धरन्ननुत्पाटयन्नेव नमयामास। अत्र कामन्दकः-‘मृदुश्चेदवमन्येत तीक्ष्णादुद्विजते जनः। तीक्ष्णश्चैव मृदुश्चैव प्रजानां स च संमतः ॥’ इति ॥ 9 ॥
विश्वास-प्रस्तुतिः
अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया ।
विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥ १०॥
मूलम्
अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया ।
विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥ १०॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ रघुरात्मजं पुत्रमात्मवत्तया। निर्विकारमनस्कतयेत्यर्थः। ‘उदयादिष्वविकृतिर्मनसः सत्त्वमुच्यते। आत्मवान्सत्त्ववानुक्तः’ इत्युत्पलमालायाम्। प्रकृतिष्वमात्यादिषु प्रतिष्ठितं रूढमूलं वीक्ष्य ज्ञात्वा विनाशो धर्मो येषां तेषु विनाशधर्मसु। अनित्येष्वित्यर्थः। ‘धर्मादनिच्केवलात्’(पा.5।4।124) इत्यनिच्प्रत्ययः समासान्तः। त्रिदिवस्थेषु स्वर्गस्थेष्वपि विषयेषु शब्दादिषु निःस्पृहो निर्गतेच्छोऽभवत् ॥ 10 ॥
विश्वास-प्रस्तुतिः
गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः ।
पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ॥ ११॥
मूलम्
गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः ।
पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ॥ ११॥
मल्लिनाथः ...{Loading}...
गुणवदिति॥ दिलीपवंशजाः परिणामे वार्धके गुणवत्सुतेषु रोपितश्रियः स्थापितलक्ष्मीकाः प्रयताश्च सन्तः। तरुवल्कान्येव वासांसि तेषां संयमिनां यतीनां पदवीं प्रपेदिरे। यस्मात्तस्मादस्यापीदमुचितमित्यर्थः ॥ 11 ॥
विश्वास-प्रस्तुतिः
तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः ।
पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः ॥ १२॥
मूलम्
तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः ।
पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः ॥ १२॥
मल्लिनाथः ...{Loading}...
तमिति॥ अरण्यसमाश्रयोन्मुखं वनवासोद्युक्तं पितरं तं रघुं सुतोऽजः। वेष्टनशोभिनोष्णीषमनोहरेण शिरसा पादयोः प्रणिपत्य। आत्मनोऽपरित्यागमयाचत। मां परित्यज्य न गन्तव्यमिति प्रार्थितवानित्यर्थः ॥ 12 ॥
विश्वास-प्रस्तुतिः
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः ।
न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥ १३॥
मूलम्
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः ।
न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥ १३॥
मल्लिनाथः ...{Loading}...
रघुरिति॥ आत्मजप्रियः पुत्रवत्सलो रघुः। अश्रूणि मुखे यस्य तस्याश्रुमुखस्याजस्य तदपरित्यागरूपमीप्सितमभिलषितं कृतवान्। किंतु सर्पस्त्वचमिव व्यपवर्जितां त्यक्तां श्रियं पुनर्न प्रतिपेदे न प्राप ॥ 13 ॥
विश्वास-प्रस्तुतिः
स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥ १४॥
मूलम्
स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥ १४॥
मल्लिनाथः ...{Loading}...
स इति॥ स रघुः किलान्त्यमाश्रमं प्रव्रज्यामाश्रितः पुरान्नगराद्बहिरावसथे स्थाने निवसन्नविकृतेन्द्रियः। जितेन्द्रियः सन्नित्यर्थथः। अत एव स्नुषयेव वध्वेव पुत्रभोग्यया न स्वभोग्यया। श्रिया समुपास्य शुश्रूषितः। जितेन्द्रियस्य तस्य स्नुषयेव श्रियापि’ पुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किंचिदपेक्षितमासीदित्यर्थः॥ अत्र यद्यपि ‘ब्राह्मणाः प्रव्रजन्ति’ इति श्रुतेः। ‘आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्’(6।38) इति मनुस्मरणात्। ‘मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम्। बाहुजातोरुजातानामयं धर्मो न विद्यते॥’ इति निषेधाञ्च ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरित्याहुः। तथापि ‘यदहरेव विरजेत्तदहरेव प्रव्रजेत्’ इत्यादिश्रुतेस्त्रैवर्णिकसाधारण्यात्। ‘त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः’ इति सूत्रकारवचनात्। ‘ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद्गृहात्’(मनु.10।117) इति स्मरणात्। ‘मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम्। बाहुजातोरुजातानां त्रिदण्डं न विधीयते॥’ इति निषेधस्य त्रिदण्डविषयत्वदर्शनाञ्च। कुत्रचिद्ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित्त्रैवर्णिकाधिकारं प्रतिपेदिरे। तथा सति ‘स किलाश्रममन्त्यमाश्रितः’(8।14)इत्यत्रापि कवनाप्ययमेव पक्षो विवक्षित इति प्रतीमः। अन्यथा वानप्रस्थाश्रमतया व्याख्याते ‘विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्’(8।25) इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात्; अग्निसंस्काररहितस्य वानप्रस्थास्यैवाभावात् इत्यलं प्रासङ्गिकेन ॥ 14 ॥
विश्वास-प्रस्तुतिः
प्रशमस्थितपूर्वपार्थिवं कुलमभ्यद्यतनूतनेश्वरम् ।
नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ॥ १५॥
मूलम्
प्रशमस्थितपूर्वपार्थिवं कुलमभ्यद्यतनूतनेश्वरम् ।
नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ॥ १५॥
मल्लिनाथः ...{Loading}...
प्रशमेति॥ प्रशमे स्थितः पूर्वपार्थिवो रघुर्यस्य तत्। अभ्युद्यतोऽभ्युदितो नूतनेश्वरोऽजो यस्य तत्। प्रसिद्धं कुलं निभृतेन्दुनाऽस्तमयासन्नचन्द्रेणोदितार्केण प्रकटितसूर्येण च नभसा तुलां सादृश्यं समारुरोह प्राप। न च ‘नभसा तुलाम्’ इत्यत्र ‘तुल्यार्थैः-’(पा.2।3।72) इत्यादिना प्रतिषेधस्तृतीयायाः। तस्य सदृशवाचि’तुला’ शब्दविषयत्वात्। ‘कृष्णस्य तुला नास्ति’ इति प्रयोगात्; अस्य च सादृश्यवाचित्वात् ॥ 15 ॥
विश्वास-प्रस्तुतिः
यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः ।
अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ॥ १६॥
मूलम्
यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः ।
अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ॥ १६॥
मल्लिनाथः ...{Loading}...
यतीति॥ यतिर्भिक्षुः। पार्थिवो राजा। तयोर्लिङ्गधारिणौ रघुराघवौ रघुतत्सुतौ। अपवर्गमहोदयार्थयोर्मोक्षाभ्युदयफलयोः। धर्मयोः। निवर्तकप्रवर्तकरूपयोरित्यर्थः। भुवं गतौ भूलोकमवतीर्णावंशाविव। जनैर्ददृशाते दृष्टौ ॥ 16 ॥
विश्वास-प्रस्तुतिः
अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः ।
अनुपायिपदोपप्राप्तये रघुराप्तैः समियाय योगिभिः ॥ १७॥
मूलम्
अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः ।
अनुपायिपदोपप्राप्तये रघुराप्तैः समियाय योगिभिः ॥ १७॥
मल्लिनाथः ...{Loading}...
अजितेति॥ अजोऽजिताधिगमायाजितपदलाभाय नीतिविशारदैर्नीतिज्ञैर्मन्त्रिभिर्युयुजे संगतः । रघुरप्यनपायिपदस्योपलब्धये मोक्षस्य प्राप्तये यथार्थदर्शिनो यथार्थवादिनश्चाप्ताः। तैर्योगिभिः समियाय संगमः। उभयत्राप्युपायचिन्तार्थमिति शेषः ॥ 17 ॥
विश्वास-प्रस्तुतिः
नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनमाददे युवा ।
परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥ १८॥
मूलम्
नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनमाददे युवा ।
परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥ १८॥
मल्लिनाथः ...{Loading}...
नृपतिरिति॥ युवा नृपति रजः प्रकृतीः प्रजाः कार्यार्थिनीरवेक्षितुम्। दुष्टादुष्टपरिज्ञानार्थमित्यर्थः। व्यवहारासनं धर्मासनम्। आददे स्वीचकार। प्रवयाः स्थविरो नृपती रघुस्तु। ‘प्रवयाः स्थविरो वृद्धः’इत्यमरः। धारणां चित्तस्यैकाग्रतां परिचेतुमभ्यसितुम्। उपांशु विजने। ‘उपांशु विजने प्रोक्तम्’ इति हलायुधः। कुशैः पूतं विष्टरमासनमाददे। ‘यमादिगुणसंयुक्ते मनसः स्थइतिरात्मनि। धारणा प्रोच्यते सद्भिर्योगशास्त्रविशारदैः ॥’ इति वसिष्ठः ॥ 18 ॥
विश्वास-प्रस्तुतिः
अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् ।
अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥ १९॥
मूलम्
अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् ।
अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥ १९॥
मल्लिनाथः ...{Loading}...
अनयदिति॥ एकोऽन्यतमः। अज इत्यर्थः। अनन्तरान्स्वभूम्यनन्तरान्नृपतीन्यातव्यपार्षिणिग्राहादीन् प्रभुशक्तिसंपदा कोशदण्डमहिम्ना वशं स्वायत्ततामनयत्। ‘कोशो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता’ इति मिताक्षरायाम्। अपरो रघुः प्रणिधानयोग्यया समाध्यभ्यासेन। ‘योगाभ्यासार्कयोषितोः’ इति विश्वः। शरीरगोचरान्देहाश्रयान्पञ्च मरुतः पाणादीन्वशमनयत्। ‘प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। शरीरस्थाः’ इत्यरमः ॥ 19 ॥
विश्वास-प्रस्तुतिः
अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् ।
इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥ २०॥
मूलम्
अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् ।
इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥ २०॥
मल्लिनाथः ...{Loading}...
अकरोदिति॥ अचिरेश्वरोऽजः क्षितौ द्विषतामारम्भाः कर्माणि तेषां फलानि भस्मसादकरोत् कार्त्स्न्येन भस्मीकृतवान्। ‘विभाषा साति कार्त्स्न्ये’(पा.5।4।52)इति सातिप्रत्ययः। इतरो रघुर्ज्ञानमयेन आत्मज्ञानप्रचुरेण वह्निना पावकेन करणेन स्वकर्मणां भवबीजभूतानां दहने भस्मीकरणे ववृते। स्वकर्माणि दग्धुं प्रघृत्त इत्यर्थः। ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जन इति गीतावचनात्’॥ 20 ॥
विश्वास-प्रस्तुतिः
पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम् ।
रघुरप्यजयत्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥ २१॥
मूलम्
पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम् ।
रघुरप्यजयत्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥ २१॥
मल्लिनाथः ...{Loading}...
पणबन्धेति॥ ‘पणबन्धः संधिः’ इति कौटिल्यः। अजः पणबन्धमुखान् संध्यादीन्षङ्गुणान्। ‘संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः। षङ्गुणाः’ इत्यमरः। तत्फलं तेषां गुणानां फलं समीक्ष्यालोच्य। उपायुङ्क्त। फलिष्यन्तमेव गुणं प्रायुङ्क्तेत्यर्थः। ‘प्रोपाभ्यां युजेरयज्ञपात्रेषु’(पा.1।3।64)इत्यात्मनेपदम्। समस्तुल्यतया भावितो लोष्टो मृत्पिण्डः काञ्चनं सुवर्णं च यस्य स समलोष्टकाञ्चनः निःस्पृह इत्यर्थः। ‘लोष्टानि लेष्टवः पुंसि’ इत्यमरः। रघुरपि गुणत्रयं सत्त्वादिकम्। ‘गुणाः सत्त्वं रजस्तमः’ इत्यमरः। प्रकृतौ साम्यावस्थायमेव तिष्ठतीति प्रकृतिस्थं पुनर्विकारशून्यं यथा तथाऽजयत् ॥ 21 ॥
विश्वास-प्रस्तुतिः
न नवः प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मणः ।
न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनात् ॥ २२॥
मूलम्
न नवः प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मणः ।
न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनात् ॥ २२॥
मल्लिनाथः ...{Loading}...
नेति॥ स्थिरकर्मा फलोदयकर्मकारी नवः प्रभुरज आ फलोदयात् फलसिद्धिपर्यन्तं कर्मण आरम्भान्न विरराम न निवृत्तः। जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्’(वा.1079) इत्यपादानात्पञ्चमी। ‘व्याङ्परिभ्यो रमः’(पा.1।3।83)इति परस्मैपदम्। स्थिरधीर्निश्चलचित्तो नवेतरो रघुश्चापरमात्मदर्शनात् परमात्मसाक्षात्कारपर्यन्तं योगविधेरैक्यानुसंधानान्न विरराम ॥ 22 ॥
विश्वास-प्रस्तुतिः
इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
प्रसितावुदयापवर्गयोरुभयीं सिद्धिमुभाववापतुः ॥ २३॥
मूलम्
इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
प्रसितावुदयापवर्गयोरुभयीं सिद्धिमुभाववापतुः ॥ २३॥
मल्लिनाथः ...{Loading}...
इतीति॥ इत्येवं प्रतिषिद्धः प्रसरः स्वार्थप्रवृत्तिर्येषां तेषु शत्रुषु चेन्द्रियेषुप च जाग्रतावप्रमत्तावुदयापवर्गयोरभ्युदयमोक्षयोः प्रसितावासक्तौ। ‘तत्परे प्रसितासक्तौ’इत्यमरः। उभघावजरघू उभयीं द्विविधामभ्युदयमोक्षरूपाम्। ‘उभादुदात्तो नित्यम्’(पा.5।2।44) इति तपप्प्रत्ययस्यायजादेशः। ‘टिड्ढा-’(पा.4।1।15)इति ङीप्। सिद्धिं फलमवापतुः। उभावुभे सिद्धी यथासंख्यमवापतुरित्यर्थः॥ 23 ॥
विश्वास-प्रस्तुतिः
अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः ।
तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥ २४॥
मूलम्
अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः ।
तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥ २४॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ रघुः समदर्शनः सर्वभूतेषु समदृष्ठिः सन्नजव्यपेक्षयाऽजाकाङ्क्षानुरोधेन काश्चित्समाः कतिचिद्वर्षाणि। ‘समा वर्षं समं तुल्यम्’ इति विश्वः। गमयित्वा नीत्वा योगसमाधिनैक्यानुसंधानेन। ‘संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः’इति वसिष्ठः। अव्ययमविनाशिनं तमसः परमविद्यायाः परम्। मायातीतमित्यर्थः। पुरुषं परमात्मानम्। आपात् प्राप। सायुज्यं प्राप्त इत्यर्थः॥ 24 ॥
विश्वास-प्रस्तुतिः
श्रुतदेहविसर्जनः पितुश्चिरमश्रूणि विमुच्य राघवः ।
विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निरग्निचित् ॥ २५॥
मूलम्
श्रुतदेहविसर्जनः पितुश्चिरमश्रूणि विमुच्य राघवः ।
विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निरग्निचित् ॥ २५॥
मल्लिनाथः ...{Loading}...
श्रुतेति॥ अग्निचिदग्निं चितवानाहितवान्। ‘अग्नौ चेः’(पा.3।2।91) इति क्विप्प्रत्ययः। राघवोऽजः पितुः श्रुतदेहविसर्जन आकर्णितपितृतनुत्यागः संश्चिरमश्रूणि बाष्पान्विमुच्य विसृज्यास्य पितुरनग्निम्। अग्निसंस्काररहितमित्यर्थः। नैष्ठिकं निष्ठायामन्ते भवं विधिमाचारंमन्त्येष्टिं यतिभिः संन्यासिभिः सार्धं सह विदधे चक्रे। ‘अनग्निं विधिम्’इत्यत्र शौनकः-‘सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च। न तस्य दहनं कार्यं नैव पिण्डोदकक्रिया। निदध्यात्प्रणवैनैव बिलेभिक्षोः कलेवरम्। प्रोक्षणं खननं चैव सर्वं तेनैव कारयेत् ॥‘इति ॥ 25 ॥
विश्वास-प्रस्तुतिः
अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् ।
न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ॥ २६॥
मूलम्
अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् ।
न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ॥ २६॥
मल्लिनाथः ...{Loading}...
अकरोदिति॥ पितृकार्यस्य तातश्राद्धस्य कल्पविद्विधानज्ञः सोऽजः पितृभक्त्या पितरि प्रेम्णा करणेन न पितुः परलोकसुखापेक्षया। मुक्तत्वादिति भावः। तस्य रघोरौर्ध्वदैहिकम्। देहादूर्ध्वं भवतीति तत्तिलोदकपिण्डदानादिकमकरोत्। ‘ऊर्ध्वं देहाञ्च’ इति वक्तव्याट्टक्प्रक्ययः। अनुशतिकादित्वादुभयपदवृद्धिः। ननु कथं भक्तिरेव श्राद्धादिफलप्रेप्सापि कस्मान्नाभूदित्याशङ्क्याह-न हीति। तेन पथा योगरूपेण मार्गेण तनुत्यजः शरीरत्यागिनः पुरुषास्तनयेनावर्जितं दत्तं पिण्डं काङ्क्षन्तीति तथोक्ता न हि भवन्ति ॥ 26 ॥
विश्वास-प्रस्तुतिः
स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ।
शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥ २७॥
मूलम्
स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ।
शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥ २७॥
मल्लिनाथः ...{Loading}...
स इति॥ परार्ध्यगतेः प्रशस्तगतेः प्राप्तमोक्षस्य पितुरशोच्यतामशोचनीयत्वमुद्दिश्याभिसंधाय। शोको न कर्तव्य इत्युपदिश्येत्यर्थः। सदर्थविदिभिः परमार्थज्ञैर्विद्वद्भिः शमिताधिर्निवारितमनोव्यथः। ‘पुंस्याधिर्मानसी व्यथा’ इत्यमरः। सोऽजोऽधिज्यकार्मुकः अधिज्यमारोपितमौर्वीकं कार्मुकं यस्य स तथोक्तः सन्। जगत् कर्मभूतमप्रतिशासनं द्वितीयाज्ञारहितम्। आत्माज्ञाविधेयमित्यर्थः। कृतवांश्चकार ॥ 27 ॥
विश्वास-प्रस्तुतिः
क्षितिरिन्दुमती च भामिनी पतिमासाद्य तमग्र्यपौरुषम् ।
प्रथमा बहुरत्नसूरभूदपरा वीरमजीजनत्सुतम् ॥ २८॥
मूलम्
क्षितिरिन्दुमती च भामिनी पतिमासाद्य तमग्र्यपौरुषम् ।
प्रथमा बहुरत्नसूरभूदपरा वीरमजीजनत्सुतम् ॥ २८॥
मल्लिनाथः ...{Loading}...
क्षितिरिति॥ क्षितिर्मही भामिनी कामिनीन्दुमती च। ‘भामिनी कामिनी च’ इति हलायुधः। अग्र्यपौरुषं महापराक्रममुत्कृष्टभोगशक्तिं च तमजं पतिमासाद्य प्राप्य। तत्र प्रथमा क्षितिः। बहूनि रत्नानि श्रेष्ठवस्तूनि सूत इति बहुरतन्सूरभूत्। ‘रत्नं स्वजातिश्रेष्ठेऽपि’ इत्यमरः। अपरेन्दुमती वीरं सुतमजीजनज्जनयति स्म। जायतेर्णौ लुङि रूपम्। सहोक्त्या सादृश्यमुच्यते॥ 28 ॥
विश्वास-प्रस्तुतिः
दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।
दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥ २९॥
मूलम्
दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।
दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥ २९॥
मल्लिनाथः ...{Loading}...
दशेति॥ दश रश्मिशतानि यस्य स दशरश्मिशतः सूर्यः स उपमा यस्याः सा दशरश्मिशतोपमा द्युतिर्यस्य तम्। यशसा करणेन दशस्वपि दिक्ष्वाशासु श्रुतं प्रसिद्धम्। दशकण्ठारे रावणारे रामस्य गुरुं पितरं यं सुतम्। आख्यया नाम्ना दशपूर्वो ‘दश’ शब्दपूर्वो रथो रथशब्दस्तम्। दशरथमित्यर्थः। बुधा विद्वांसो विदुर्वदन्ति। ‘विदो लटो वा’(पा.3।4।83)इति झेर्जुसादेशः ॥ 29 ॥
विश्वास-प्रस्तुतिः
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः ।
अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥ ३०॥
मूलम्
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः ।
अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥ ३०॥
मल्लिनाथः ...{Loading}...
ऋषीति॥ श्रुतयागप्रसवैरध्ययनयज्ञसंतानैः करणैः यथासंख्यमृषीणां देवगणानामिन्द्रादीनां स्वधाभुजां पितॄणामनृणत्वमृणविमुक्तत्वम्। उपेयिवान् प्राप्तवान्। ‘एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा’ इति श्रुतेः। स पार्थिवोऽजः परिधेः परिवेषात्। ‘परिवेषस्तु परिधिः’इत्यमरः। मुक्तो पार्थिवोऽजः परिधेः परिवेषात्। ‘परिवेषस्तु परिधिः’इत्यमरः। मुक्तोनिर्गतः। कर्मकर्ता। उष्णदीधितिः सूर्य इव। बभौ दिदीपे। इत्युपमा ॥ 30 ॥
विश्वास-प्रस्तुतिः
बलमार्तभयोपशान्तये विदुषां सत्कृतये बहु श्रुतम् ।
वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना ॥ ३१॥
मूलम्
बलमार्तभयोपशान्तये विदुषां सत्कृतये बहु श्रुतम् ।
वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना ॥ ३१॥
मल्लिनाथः ...{Loading}...
बलमिति॥ तस्य विभोरजस्य केवलं वसु धनमेव परप्रयोजनं परोपकारकं नाभूत्। किंतु गुणवत्तापि गुणत्वमपि परप्रयोजना परेषामन्येषां प्रयोजनं यस्यां सा। विधेयांशत्वेन प्राधान्याद्गुणवत्ताया विशेषणं विस्वित्यत्र तूहनीयम्। तथा हि-बलं पौरुषमार्तानामापन्नानां भयस्योपशान्तये निषेधाय। न तु स्वार्थं परपीडनाय वा। बहु भूरि श्रुतं विद्या विदुषां सत्कृतये सत्काराय। न तृत्सेकाय बभूव तस्य धनं परोपयोगीति किं वक्तव्यम्। बलश्रुतादयोऽपि गुणाः परोपयोगिन इत्यर्थः ॥ 31 ॥
विश्वास-प्रस्तुतिः
स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः ।
नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥ ३२॥
मूलम्
स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः ।
नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥ ३२॥
मल्लिनाथः ...{Loading}...
स इति॥ अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः। ‘नित्यमसिच्प्रजामेधयोः’(पा.5।4।122) इत्यसिच्प्रत्ययः। न केवलं स्त्रैण इति भावः। शोभना प्रजा यस्यासा सुप्रजाः सुपुत्रवान्। पुत्रन्यस्तभार इति भावः। सोऽजः कदाचिद्देव्या महिष्येन्दुमत्या सह नगरोपवने। नन्दने नन्दनाख्येऽमरावत्युपकण्ठवने शचीसखः। शच्या सहेत्यर्थः। मरुतां देवानां पालयितेन्द्र इव। विजहार चिक्रीड॥ 32 ॥
विश्वास-प्रस्तुतिः
अथ रोधसि दक्षिणादधेः श्रितगोकर्णनिकेतमीश्वरम् ।
उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः ॥ ३३॥
मूलम्
अथ रोधसि दक्षिणादधेः श्रितगोकर्णनिकेतमीश्वरम् ।
उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः ॥ ३३॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ दक्षिणस्योदधेः समुद्रस्य रोधसि तीरे श्रितगोकर्णनिकेतमधिष्ठितगोकर्णाख्यस्थानमीश्वरं शिवमुपवीणयितुं वीणयोप समीपे गातुम्। ‘सत्यापाश-’(पा.3।1।25)इत्यादिना ‘वीणा’शब्दादुपगानार्थे णिच्प्रत्ययः। ततस्तुमुन्। नारदो देवर्षी रवेः सूेर्यस्य संबन्धिना। उदयावृत्तिपथेनाकाशमार्गेण ययौ जगाम। सूर्योपमानेनास्यातितेजस्त्वमुच्यते ॥ 33 ॥
विश्वास-प्रस्तुतिः
कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् ।
अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः ॥ ३४॥
मूलम्
कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् ।
अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः ॥ ३४॥
मल्लिनाथः ...{Loading}...
कुसुमैरिति॥ आपार्थिवैरभौमैः। दिव्यैरित्यर्थः। कुसुमैर्ग्रथितां रचिताम्। तस्य नारदस्यातोद्यस्य वाद्यस्य वीणायाः शिरस्यग्रे निवेशिताम्। ‘चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्’इत्यमरः। स्रजं मालां वेगवान्मारुतः। अधिवासे वासनायां स्पृहयेव। स्रजा स्वाङ्गं संस्कर्तुमित्यर्थः। ‘संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्’इत्यमरः। अहरत्किल। ‘किल’इत्यैतिह्ये ॥ 34 ॥
विश्वास-प्रस्तुतिः
भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः ।
ददृशे पवनापलेपजं सृजती बाष्पमिवाञ्जनाविलम् ॥ ३५॥
मूलम्
भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः ।
ददृशे पवनापलेपजं सृजती बाष्पमिवाञ्जनाविलम् ॥ ३५॥
मल्लिनाथः ...{Loading}...
भ्रमरैरिति॥ कुसुमानुसारिभिः पुष्पानुयायिभिर्भ्रमरैरलिभिः परिकीर्णा व्याप्ता मुनेर्नारदस्य परिवादिनी वीणा ‘वीणा तु वल्लकी। विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी॥’ इत्यमरः। पवनस्य वायोरवलेपोऽधिक्षेपस्तज्जमञ्जनेन कज्जलेनाविलं कलुषं बाष्पमश्रु सृजतीव मुञ्चतीव। ददृशे दृष्टा। भ्रमराणां साञ्जनबाष्पबिन्दुसादृश्यं विवक्षितम्। ‘वा नपुंसकस्य’(पा.7।1।79) इति वर्तमाने ‘आच्छीनद्योर्नुम्’(पा.7।1।80)इति नुम्विकल्पः ॥ 35 ॥
विश्वास-प्रस्तुतिः
अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् ।
नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितीम् ॥ ३६॥
मूलम्
अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् ।
नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितीम् ॥ ३६॥
मल्लिनाथः ...{Loading}...
अभिभूयेति॥ साऽमरस्रग्दिव्यमाला। मधुगन्धयोर्मकरन्दसौरभयोरतिशयेनाधिक्येन। वीरुधां लतानाम्। ‘लता प्रतानिनी वीरुत्’इत्यमरः। ऋतोः प्राप्तामार्तवीमृतुसंबन्धिनीं विभूतिं समृद्धिमभिभूय तिरस्कृत्य नृपतेरजस्य दयिताया इन्दुमत्या उर्वोर्विशालयोः स्तनयोर्ये कोटी चूचुकौ तयोः सुस्थितिं गोप्यस्थाने पतितत्वात्प्रशस्तं स्थानम् । आप प्राप्ता ॥ 36 ॥
विश्वास-प्रस्तुतिः
क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वला ।
निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥ ३७॥
मूलम्
क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वला ।
निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ॥ ३७॥
मल्लिनाथः ...{Loading}...
क्षणमिति॥ सुजातयोः सुजन्मनोः। सुन्दरयोरित्यर्थः। स्तनयोः क्षणमात्रं सखीं सखीमिव स्थिताम्। सुजातत्वसाधर्म्यात्स्रजः स्तनसखीत्वमिति भावः। तां स्रजमवलोक्येष्द्दृष्ट्वा विह्वला परवशा नरोत्तमप्रियेन्दुमती। तमसा राहुणा। ‘तमस्तु राहुः स्वर्भानुः’ इत्यमरः। हृतचन्द्रा कौमुदी चन्द्रिकेव। निमिमील मुमोह,ममारेत्यर्थः। ‘निमीलो दीर्घनिद्रा च’ इति हलायुधः। कौमुद्या निमीलनं प्रतिसंहारः ॥ 37 ॥
विश्वास-प्रस्तुतिः
वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ॥ ३८॥
मूलम्
वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ॥ ३८॥
मल्लिनाथः ...{Loading}...
वपुषेति॥ करणैरिन्द्रियैरुज्झितेन मुक्तेन। ‘करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि’इत्यमरः। वपुषा निपतन्ती सेन्दुमती पतिमजमप्यपातयत् पातयति स्म। तथा हि-निषिच्यत इति निषेकः। तैलस्य निषेकस्तैलनिषेकः। क्षरत्तैलमित्यर्थः। तस्य बिन्दुना सह दीपार्चिर्दीपज्वाला मेदिनीं भुवमुपैति ननूपैत्येव। ‘ननु’अत्रावधारणे। ‘प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु’इत्यमरः। इन्दुमत्या दीपार्चिरुपमानम्। अजस्य तैलबिन्दुः। तत एव तस्या जीवितसमाप्तिस्तस्य जीवितशेषश्च सूच्यते ॥ 38 ॥
विश्वास-प्रस्तुतिः
उभयोरपि पार्श्ववर्तिनां तुमुलेनार्तरवेण वेजिताः ।
विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ॥ ३९॥
मूलम्
उभयोरपि पार्श्ववर्तिनां तुमुलेनार्तरवेण वेजिताः ।
विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ॥ ३९॥
मल्लिनाथः ...{Loading}...
उभयोरिति॥ उभयोर्दम्पत्योः पार्श्ववर्तिनां परिजनानां तुमुलेन संकुलेनार्तरवेण करुणस्वनेन वेजिता भीताः कमलाकरालयाः सरःस्थिता विहगा हंसादयोऽपि तत्रोपवने समदुःखा इव तत्पार्श्ववर्तिनां समानशोका इव चुक्रुशुः क्रोशन्ति स्म ॥ 39 ॥
विश्वास-प्रस्तुतिः
नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता ।
प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥ ४०॥
मूलम्
नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता ।
प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥ ४०॥
मल्लिनाथः ...{Loading}...
नृपतेरिति॥ नृपतेरजस्य तमोऽज्ञआनं व्यजनादिभिः साधनैर्नुनुदेऽपसारितम्। ‘आदि’शब्देन जलसेककर्पूरक्षोदादयो गृह्यन्ते। सा त्विन्दुमती तथैव संस्थिता मृता। तथा’ हि-प्रतिकारविधानं चिकित्सायुषो जीवितकालस्य शेषे सति विद्यमाने। ‘आयुर्जीवितकालो ना’ इत्यमरः। फलाय सिद्धये कल्पत आरोग्याय भवति,नान्यथा। नृपतेरायुःशेषसद्भावात्प्रतीकारस्य साफल्यम्। तस्यास्तु तदभावाद्वैफल्यमित्यर्थः ॥ 40 ॥
विश्वास-प्रस्तुतिः
प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात् ।
स निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम् ॥ ४१॥
मूलम्
प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात् ।
स निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम् ॥ ४१॥
मल्लिनाथः ...{Loading}...
प्रतीति॥ अथ सत्त्वस्य चैतन्यस्य विप्लवाद्विनाशाद्धेतोः। ‘द्रव्यासुव्यवसायेषु सत्त्वम्’ इत्यमरः। प्रतियोजयितव्या तन्त्रीभिर्योजनीया। न तु योजिततन्त्रीत्यर्थः। या वल्लकी वीणा। तस्याः समाऽवस्था दशा यस्यास्तामङ्गनां वनितां नितान्तवित्सलोऽतिप्रेमवान् सोऽजः परिगृह्य हस्ताभ्यां गृहीत्वोचितं परिचितमङ्कमुत्सङ्गं निनाय नीतवान्। वल्लकीपक्षे तु-सत्त्वं तन्त्रीणामवष्टम्भकः शलाकाविशेषः ॥ 41 ॥
विश्वास-प्रस्तुतिः
पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया ।
समलक्ष्यत बिभ्रदाविलां मृगलेखामुषसीव चन्द्रमाः ॥ ४२॥
मूलम्
पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया ।
समलक्ष्यत बिभ्रदाविलां मृगलेखामुषसीव चन्द्रमाः ॥ ४२॥
मल्लिनाथः ...{Loading}...
पतिरिति॥ पतिरङ्कनिषण्णयोत्सङ्गस्थितया करणानामिन्द्रियाणामपायेनापगमेन हेतुना विभिन्नवर्णया विच्छायया तया। उषसि प्रातःकाल आविलां मलिनां मृगलेखां मृगरेखारूपं लाञ्छनं बिभ्रद्धारयंश्चद्रमा इव। समलक्ष्यतादृश्यत। इत्युपमा ॥ 42 ॥
विश्वास-प्रस्तुतिः
विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ४३॥
मूलम्
विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ४३॥
मल्लिनाथः ...{Loading}...
विललापेति॥ सोऽजः सहजां स्वाभाविकीमपि धीरतां धैर्यमपहाय विप्रकीर्य बाष्पेण कण्ठगतेन गद्गदं विशीर्णाक्षरं यथा तथा ध्वनिमात्रानुकारिगद्गदशब्दैर्विललाप प्ररिदेवितवान्। ‘विलापः परिदेवनम्’ इत्यमरः। अभितप्तमग्निना संतप्तमयो लोहमचेतनमपि मार्दवं मृदुत्वमवैरत्वं च भजते प्राप्नोति। शरीरिषु देहिषु। अभिसंतप्तेष्विति शेषः। विषये कैव कथा वार्ता? अनुक्तसिद्धमित्यर्थः ॥ 43 ॥
विश्वास-प्रस्तुतिः
कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि ।
न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥ ४४॥
मूलम्
कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि ।
न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥ ४४॥
मल्लिनाथः ...{Loading}...
कुसुमानीति॥ कुसुमानि पुष्पाण्यपि। ‘अपि’ शब्दो नितान्तमार्दवद्योतनार्थः। गात्रसंगमाद्देहसंसर्गादायुरपोहितुमपहर्तुं प्रभवन्ति यदि। हन्त विषादे। ‘हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः’इत्यमरः। प्रहरिष्यतो हन्तुमिच्छतो विधेर्दैवस्यान्यत् कुसुमातिरिक्तं किमिव वस्तु। ‘इव’शब्दो वाक्यालंकारे। कीदृशमित्यर्थः। साधनं प्रहरणं न भविष्यति न भवेत्? सर्वमपि साधनं भविष्यत्येवेत्यर्थः ॥ 44 ॥
विश्वास-प्रस्तुतिः
अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।
हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ॥ ४५॥
मूलम्
अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।
हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ॥ ४५॥
मल्लिनाथः ...{Loading}...
अथवेति॥ अथवा पक्षान्तरे। प्रजान्तकः कालो मृत्युः मृदु कोमलं वस्तु मृदुनैव वस्तुना हिंसितुं हन्तुमारभत उपक्रमते। अत्रार्थे हिमसेकेन तुषारनिष्यन्देन विपत्तिर्मृत्युर्यस्याः सा तथा नलिनी पद्मिनी मे पूर्वं प्रथमं निदर्शनमुदाहरणं मता,द्वितीयं निदर्शनं पुष्पमृत्युरिन्दुमतीति भावः ॥ 45 ॥
विश्वास-प्रस्तुतिः
स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् ।
विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥ ४६॥
मूलम्
स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् ।
विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥ ४६॥
मल्लिनाथः ...{Loading}...
स्रगिति॥ इयं स्रक् जीवितमपहन्तीति जीवितापहा यदि। हृदये वक्षसि। ‘हृदयं वक्षसि स्वान्ते’ इत्यमरः। निहिता सती मां किं न हन्ति? ईश्वरेच्छया क्वचित् प्रदेशे विषमप्यमृतं भवेत् क्वचिदमृतं वा विषं भवेत् । दैवमेवात्र कारणमित्यर्थः ॥ 46 ॥
विश्वास-प्रस्तुतिः
अथवा मम भाग्यविप्लवादशनिः कल्पित एव वेधसा ।
यदनेन तरुर्न पातितः क्षपिता तद्विटपाश्रिता लता ॥ ४७॥
मूलम्
अथवा मम भाग्यविप्लवादशनिः कल्पित एव वेधसा ।
यदनेन तरुर्न पातितः क्षपिता तद्विटपाश्रिता लता ॥ ४७॥
मल्लिनाथः ...{Loading}...
अथवेति॥ अथवा मम भाग्यस्य विप्लवाद्विपर्ययात् एषः। स्रगित्यर्थः। विधेयप्राधान्यात्पुंलिङ्गनिर्देशः। वेधसा विधात्राऽशनिर्वैद्युतोऽग्निः कल्पितः। ‘दम्भोलिरशनिर्द्वयोः’इत्यमरः। अपूर्वत्वमेव स्पष्टयति-यद्यस्मात्कारणात्। अनेनाप्यशनिना प्रसिद्धाशनिना तरुस्तरुस्थानीयः स्वयमेव न पातितः। किंतु तस्य तरोर्विटपाश्रिता लता वल्ली क्षपिता नाशिता ॥ 47 ॥
विश्वास-प्रस्तुतिः
कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि ।
कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥ ४८॥
मूलम्
कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि ।
कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥ ४८॥
मल्लिनाथः ...{Loading}...
कृतवतीति॥ मयि चिरं भूरिशोऽपराद्धेऽप्यपराधं कृतवत्यपि। राधेः कर्तरि क्तः। यदा यस्माद्धेतोः। यदेति हेत्वर्थः। ‘स्वरादौ पठ्यते यदेति हेतौ’ इति गणव्याख्यानात्। अवधीरणामवज्ञां न कृतवत्यसि नाकार्षीः। तत्कथमेकपदे तत्क्षणे। ‘स्यात्तत्क्षण एकपदम्’इति विश्वः। निरागसं नितरामनपराधमिमं जनम्। ‘इमम्’इति स्वात्मनिर्देशः। मामित्यर्थः। आभाष्यं संभाष्यं न मन्यसे न चिन्तयसि? ॥ 48 ॥
विश्वास-प्रस्तुतिः
ध्रुवमस्मि शठः शुचिस्मिते विदितः कैतववत्सलस्तव ।
परलोकमसंनिवृत्तये यदनापृच्छ्य गतासि मामितः ॥ ४९॥
मूलम्
ध्रुवमस्मि शठः शुचिस्मिते विदितः कैतववत्सलस्तव ।
परलोकमसंनिवृत्तये यदनापृच्छ्य गतासि मामितः ॥ ४९॥
मल्लिनाथः ...{Loading}...
ध्रुवमिति॥ हे शउचिस्मिते धवलहसिते! शठो गूढविप्रियकारी कैतवेन कपटेन वत्सलः कैतवस्निग्धा इति ध्रुवं सत्यं तव विदितस्त्वया विज्ञातोऽस्मि। ‘मतिबुद्धि-’(पा.3।2।188) इत्यादिना कर्तरि क्तः। ‘क्तस्य च वर्तमाने’ (पा.2।3।67)इति कर्तरि षष्ठी। कुतः? यद्यस्मात्,मामनापृच्छ्यानामन्त्र्य। इतोऽस्माल्लोकात्। परलोकमसंनिवृत्तयेऽपुनरावृत्तये गतासि ॥ 49 ॥
विश्वास-प्रस्तुतिः
दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना ।
सहतां हतजीवितं मम प्रबलामात्मकृतेन वेदनाम् ॥ ५०॥
मूलम्
दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना ।
सहतां हतजीवितं मम प्रबलामात्मकृतेन वेदनाम् ॥ ५०॥
मल्लिनाथः ...{Loading}...
दयितामिति॥ इदं मम हतजीवितं कुत्सितं जीवितं तावदादौ दयितामिन्दुमतीमन्वगादन्वगच्छद्यदि अन्वगादेव। ‘यदि’ अत्रावधारणे। पूर्वं मूर्च्छितत्त्वादिति भावः। तर्हि तया दयितया विना किं किमर्थं विनिवृत्तं प्रत्यागतम्? प्रत्यागमनं न युक्तमित्यर्थः। अत एवात्मकृतेन स्वदुश्चेष्टितेन निवृत्तिरूपेण प्रबलामधिकां वेदनां दुःखं सहतां क्षमताम्। स्वयंकृतापराधेषु सहिष्णुतैव शरणमिति भावः ॥ 50 ॥
विश्वास-प्रस्तुतिः
सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते ।
अथ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् ॥ ५१॥
मूलम्
सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते ।
अथ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् ॥ ५१॥
मल्लिनाथः ...{Loading}...
सुरतेति॥ सुरतश्रमेण संभृतो जनितः स्वेदलवोद्गमोऽपि ते तव मुखे ध्रियते वर्तते। अथ च त्वमात्मना स्वरूपेणास्तं प्राप्ताः। अतः कारणाद्देहभृतां प्राणिनामिमां प्रत्यक्षामसारतामस्थिरतां धिक् ॥ 51 ॥
विश्वास-प्रस्तुतिः
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् ।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥ ५२॥
मूलम्
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् ।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥ ५२॥
मल्लिनाथः ...{Loading}...
मनसेति॥ मया मनसापि तव विप्रियं न कृतपूर्वम्। पूर्वं न कृतमित्त्यर्थः। सुप्सुपेति समासः। किं केन निमित्तेन मां जहासि त्यजसि? नन्वहं क्षितेः शब्दपतिः शब्दत एव पतिः। न त्वर्थत इत्यर्थः। भावनिबन्धनाऽभिप्रायनिबन्धना स्वाभावहेतुका मे रतिः,प्रेम तु त्वय्येव। अस्तीति शेषः ॥ 52 ॥
विश्वास-प्रस्तुतिः
कुसुमोत्खचितान्वलीभृतश्चलयन्भृङ्गरुचस्तवालकान् ।
करभोरु करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः ॥ ५३॥
मूलम्
कुसुमोत्खचितान्वलीभृतश्चलयन्भृङ्गरुचस्तवालकान् ।
करभोरु करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः ॥ ५३॥
मल्लिनाथः ...{Loading}...
कुसुमेति॥ कुसुमैरुत्खचितानुत्कर्षेण रचितान् वलीभृतो भङ्गीयुक्तान्। कुटिलानित्यर्थः। भृङ्गरुचो नीलांस्तवालकांश्चलयन्कम्ययन् मारुतः हे करभोरु करभसदृशोरु!‘मणिबन्धादाकनिष्ठं करस्य करभो बहिः’ इत्यमरः। मे मनस्त्वदुपावर्तनशङ्कि तव पुनरागमने शङ्कावत्करोति। त्वदुज्जीवने शङ्कां कारयतीत्यर्थः ॥ 53 ॥
विश्वास-प्रस्तुतिः
तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे ।
ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः ॥ ५४॥
मूलम्
तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे ।
ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः ॥ ५४॥
मल्लिनाथः ...{Loading}...
तदिति॥ हे प्रिये! तत्तस्मात्कारणादाशु विषादं दुःखम्। नक्तं रात्रावोषधिस्तृणज्योतिराख्या लता ज्वलितेन प्रकाशेन तुहिनाद्रेर्हिमाचलस्य गुहागतं तमोऽन्धकारमिव। प्रतिबोधेन ज्ञानेनापोहितुं निरसितुमर्हसि ॥ 54 ॥
विश्वास-प्रस्तुतिः
इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।
निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ ५५॥
मूलम्
इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।
निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ ५५॥
मल्लिनाथः ...{Loading}...
इदमिति॥ इदमुच्छ्वसितालकं चलितचूर्णकुन्तलं विश्रान्तकथं निवृत्तसंलापं तव मुखम्। निशि रात्रौ सुप्तं निमीलितं विरतोऽभ्यन्तराणामन्तर्वर्तिनां षट्पदानां स्वनो यत्र तत्। निःशब्दभृङ्गमित्यर्थः। एकपङ्कजमद्वितीयं पद्ममिव। मां दुनोति परितापयति ॥ 55 ॥
विश्वास-प्रस्तुतिः
शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् ।
इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥ ५६॥
मूलम्
शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् ।
इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥ ५६॥
मल्लिनाथः ...{Loading}...
शशिनमिति॥ शर्वरी रात्रिः शशिनं चन्द्रं पुनरेति प्राप्नोति। द्वन्द्वीभूटचरतीति द्वन्द्वचरः तं पतत्रिणं चक्रवाकं दयिता चक्रवारी पुनरेति। इति हेतोस्तौ चन्द्र-चक्रवाकौ विरहान्तरक्षमौ विरहावधिसहौ। ‘अन्तरमवकाशावधिपरिधानन्तर्द्धिभेदतादर्थ्ये’ इत्यमरः। अत्यन्तगता पुनरावृत्तिरहिता त्वं कथं न मां दहेर्न संतापयेः? अपि तु दहेरेवेत्यर्थः ॥ 56 ॥
विश्वास-प्रस्तुतिः
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् ।
तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् ॥ ५७॥
मूलम्
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् ।
तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् ॥ ५७॥
मल्लिनाथः ...{Loading}...
नवेति॥ नवपल्लवसंस्तरे नूतनप्रवालास्तरणेऽप्यर्पितं स्थापितं मृदु ते तव यदङ्गं शरीरं दूयेत परिपप्तं भवेत्। वामौ सुन्दरौ ऊरू यस्याः सा हे वामोरु। ‘वामं स्यात्सुन्दरे सव्ये’ इति केशवः। ‘संहितशफलक्षण-’ इत्यादिनोङ्प्रत्ययः। तदिदमङ्गं चितायाः काष्ठसंचयस्याधिरोहणं कथं विषहिष्यते वद ॥ 57 ॥
विश्वास-प्रस्तुतिः
इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ।
गतिविभ्रमसादनीरवा न शुचा नानु मृतेव लक्ष्यते ॥ ५८॥
मूलम्
इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ।
गतिविभ्रमसादनीरवा न शुचा नानु मृतेव लक्ष्यते ॥ ५८॥
मल्लिनाथः ...{Loading}...
इयमिति॥ इयं प्रथमाऽऽद्या रहःसखी। सुरतसमयेऽप्यनुयानादिति भावः। गतिविभ्रमसादेन नीरवा विलासोपरमेण निःशब्दा रशना मेखलाऽप्रतिबोधमपुनरुद्बोधं यथा तथा शायिनीम्। मृतामित्यर्थः। त्वामनु त्वया सह। ‘तृतीयार्थे’(पा.1।4।85)इत्यनुशब्दस्य कर्मप्रवचनीयत्वात् द्वितीया। शुचा शोकेन मृतेव न लक्ष्यत इति न। लक्ष्यत एवेत्यर्थः। संभाव्यनिषेधनिवर्तनाय द्वौ प्रतिषेधौ ॥ 58 ॥
विश्वास-प्रस्तुतिः
कलमन्यभृतासु भासितं कलहंसीषु मदालसं गतम् ।
पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः ॥ ५९॥
मूलम्
कलमन्यभृतासु भासितं कलहंसीषु मदालसं गतम् ।
पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः ॥ ५९॥
मल्लिनाथः ...{Loading}...
अग्रिमं श्लोकम् ईक्षताम्।
विश्वास-प्रस्तुतिः
त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया ।
विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः ॥ ६०॥
मूलम्
त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया ।
विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः ॥ ६०॥
मल्लिनाथः ...{Loading}...
कलमिति॥ त्रिदिवेति॥ युग्मम्। उभयोरेकान्वयः। अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणम्। कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं गमनम्। पृषतीषु हरिणीषु विलोलमीक्षितं चञ्चला दृष्टिः। पवनेन वायुना धूतलतास्वीषत्कम्पितलतासु विभ्रमा विलासाः। इत्यमी पूर्वोक्ताः कलभाषणादयो गुणाः। एषु कोकिलादिस्थानेष्विति शेषः। त्रिदिवोत्सुकयापीह जीवन्त्येव स्वर्गं प्रति प्रस्थितयापि त्वया मामवेक्ष्य विरहासहं विचार्य सत्यं निहिताः। मत्प्राणधारणोपायतया स्थापिता इत्यर्थथः। तव विरहे गुरुव्यथमतिदुःखं मे हृदयं मनोऽवलम्बितुं स्थापयितुं न क्षमा न शक्ताः। ते तु तत्संगम एव सुखकारणः,नान्यथा। प्रत्युत प्राणानपहरन्तीति भावः ॥ 59-60 ॥
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ । ॥ 60 ॥
विश्वास-प्रस्तुतिः
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ ।
अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ॥ ६१॥
मूलम्
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ ।
अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ॥ ६१॥
मल्लिनाथः ...{Loading}...
मिथुनमिति॥ ननु हे प्रिये! सहकारस्तरुविशेषः फलिनी प्रियंगुलता चेमौ त्वया मिथुनं परिकल्पितं मिथुनत्वेनाभ्यमानि। अनयोः फलिनी-सहकारयोर्विवाहसत्क्रियां विवाहमङ्गलमविधायाकृत्वा गम्यत इत्यसांप्रतमुक्तम्। मातृहीनानां न किंचित्सुखमस्तीति भावः ॥ 61 ॥
विश्वास-प्रस्तुतिः
कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति ।
अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम् ॥ ६२॥
मूलम्
कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति ।
अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम् ॥ ६२॥
मल्लिनाथः ...{Loading}...
कुसुममिति॥ वृक्षादिपोषकं दोहदम्। त्वया कृतं दोहदं पादताडनरूपं यस्य सोऽयमशोको यत्कुसुममुदीरयिष्यति प्रसविष्यते। तवालकानामाभरममाभरणभूतं तत्कुसुममुदीरयिष्यति प्रसविष्यते। तवालकानामाभरणमाभरणभूतं तत्कुसुमं कथं नु केन प्रकारेण निवापमाल्यतां दाहाञ्जलेरर्ध्यतां नेष्यामि? ‘निवापः पितृदानं स्यात्’ इत्यमरः ॥ 62 ॥
विश्वास-प्रस्तुतिः
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् ।
अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे ॥ ६३॥
मूलम्
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् ।
अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे ॥ ६३॥
मल्लिनाथः ...{Loading}...
स्मरतेति॥ अन्यदुर्लभम्। किंतु स्मर्तव्यमेवेत्यर्थः। सशब्दं ध्वनियुक्तं नूपुरं मञ्जीरं यस्य तं चरणेनानुग्रहं पादेन ताडनरूपं स्मरतेव चिन्तयतेव कुसुमान्येवाश्रूणि तद्वर्षिणाऽमुना पुरोवर्तिनाऽशोकेन। हे सुगात्रि!‘अङ्गगात्रकण्ठेभ्यश्च’ इति वक्तव्यान्ङीप्। त्वं शोच्यसे ॥ 63 ॥
विश्वास-प्रस्तुतिः
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया ।
असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि सुप्यते ॥ ६४॥
मूलम्
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया ।
असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि सुप्यते ॥ ६४॥
मल्लिनाथः ...{Loading}...
तवेति॥ तव निःश्वसितानुकारिभिर्बकुलैर्बकुसुमैर्मया समं सार्धमर्धचितामर्धं यथा तथा रचितां विलासमेखलामसमाप्यापूरयित्वा। किंनरस्य देवयोनिविशेषस्य कण्ठ इव कण्ठो यस्यास्तत्संबुद्धिर्हे किन्नरकण्ठि!‘अङ्गगात्रकण्ठेभ्यश्च’ इति ङीप्। किमिदं सुप्यते निद्रा क्रियते? ‘वचिस्वपि-’(पा.6।1।15)इत्यादिना संप्रसारणम्। अनुचितमिदं स्वपनमित्यर्थः ॥ 64 ॥
विश्वास-प्रस्तुतिः
समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः ।
अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥ ६५॥
मूलम्
समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः ।
अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥ ६५॥
मल्लिनाथः ...{Loading}...
समेति॥ सखीजनः समदुःखसुखः,त्वद्दुःखेन दुःखी,त्वत्सुखेन सुखीत्यर्थः। अयमात्मजो बालः,प्रतिपञ्चन्द्रनिभः। दर्शनीयो वर्धिष्णुश्चेत्यर्थः। ‘प्रतिपत्’शब्देन द्वितीया वक्षअयते; प्रतिपदि चन्द्रस्यादर्शनात्। अहमेकरसोऽभिन्नरामः। ‘शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः’ इत्यमरः। तथापि। जीवितसामग्रीसत्त्वेऽपीत्यर्थः। ते तव व्यवसायोऽस्मत्परित्यागरूपो व्यापारः प्रतिपत्त्या निश्चयेन निष्ठुरः क्रूरः। ‘प्रतिपत्तिः पदप्राप्तौ प्रकृतौ गौरवेऽपि च। प्रागल्भ्ये च प्रबोधे च’ इति विश्वः। स्मर्तुं न् शक्यः किमुताधिकर्तुमिति भावः ॥ 65 ॥
विश्वास-प्रस्तुतिः
धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः ।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ ६६॥
मूलम्
धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः ।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ ६६॥
मल्लिनाथः ...{Loading}...
धृतिरिति॥ अद्य मे धृतिर्धैर्यं प्रतीतिर्वाऽस्तं नाशमिता। रतिः क्रीडाच्युता गता। गेयं गानं विरतम्। ऋतुर्वसन्तदिर्निरुत्सवः। आभरणानां प्रयोजनं गतमपगतम्। शेतेऽस्मिन्निति शयनीयं तल्पम्। ‘कृत्यल्युटो बहुलम्’ (पा.3।3।113)इत्यधिकरणार्थेऽनीयर्प्रत्ययः। परिशून्यम्। त्वां विना सर्वमपि निष्फलमिति भावः ॥ 66 ॥
विश्वास-प्रस्तुतिः
गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥ ६७॥
मूलम्
गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥ ६७॥
मल्लिनाथः ...{Loading}...
गृहीणीति॥ त्वमेव गृहिणी दाराः। अनेन सर्वं कुटुम्बं त्वदाश्रयमिति भावः। सचिवो बुद्धिसहायो मन्त्री। सर्वो हितोपदेशस्त्वदायत्त इत्यनेनोच्यते। मिथो रहसि सखी नर्मसचिवः। सर्वोपभागस्त्वदाश्रय इत्यमुना प्रकटितम्। ललिते मनोहरे कलाविधौ वादित्रादिचतुःषष्टिकलाप्रयोगे प्रियशिष्या। प्रियत्वं प्राज्ञत्वादित्यभिसंधिः। सर्वानन्दोऽनेन त्वन्निबन्धन इत्युद्वाटितम्। अतस्त्वां समष्टिरूपां हरताऽत एव करुणाविमुखेन कृपाशून्येन मृत्युना मे मत्संबन्धि किं वत्सु न हृतं वद। सर्वमपि हृतमित्यर्थः ॥ 67 ॥
विश्वास-प्रस्तुतिः
मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे ।
अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥ ६८॥
मूलम्
मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे ।
अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ॥ ६८॥
मल्लिनाथः ...{Loading}...
मदिरेति॥ माद्यत्यनयेति मदिरा लोकप्रसिद्धा। तथापि ‘नार्यो मदिरलोचनाः’ इत्यादिप्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे आक्षिणी यस्यास्तत्संबुद्धिर्हे मदिराक्षि! मदाननेनार्पितं रसवत् स्वादुतरं मधु मद्यं पीत्वा बाष्पदूषितमश्रुतप्तं परलोकोपनतं परलोकप्राप्तं मे जलाञ्जलिं तिलोदकाञ्जलिं कथं न्वननन्तरं पास्यसि? तदनन्तरमिदमनर्हमित्यर्थः। यथाह भट्टमल्लः-‘अनुपानं हिमजलं यवगोधूमनिर्मिते। दध्नि मद्ये विषे द्राक्षे पिष्टे पिष्ठमयेऽपि च॥’ इति । तञ्चेहैव युज्यते। इदं तूष्णं लोकान्तरोपयोगि चेत्यायुर्वेदविराधात्कथमनुपास्यसीति भावः ॥ 68 ॥
विश्वास-प्रस्तुतिः
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् ।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥ ६९॥
मूलम्
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् ।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥ ६९॥
मल्लिनाथः ...{Loading}...
विभव इति॥ विभव ऐश्वर्ये सत्यपि त्वया विनाऽजस्यैतावदेव सुखं गण्यताम्। यावत्त्या सह भुक्ते ततोऽन्यन्न किंचिद्भविष्यतीत्यर्थथः। कुतः? विलोभनान्तरैरन्यैर्विशेषेण लोभजनकवस्तुभिरैश्वर्यादिभिरहृतस्यानाकृष्टस्य मम सर्वे विषया भोगादयः। त्वदाश्रयास्त्वदधीनाः। त्वां विना मे न किंचिद्रोचत इत्यर्थः ॥ 69 ॥
विश्वास-प्रस्तुतिः
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।
अकरोत्पृथिवीरुहानपि स्रुतशाखारसबाष्पदूषितान् ॥ ७०॥
मूलम्
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।
अकरोत्पृथिवीरुहानपि स्रुतशाखारसबाष्पदूषितान् ॥ ७०॥
मल्लिनाथः ...{Loading}...
विलपन्निति॥ कोसलानामधिपोऽज इति करुणः शोकरसः स एवार्थस्तेन ग्रथितं संबद्धं यथा तथा प्रियां प्रतीन्दुमतीमुद्दिश्य विलपन्,पृथिवीरुहान् वृक्षानपि स्रुताः शाखारसा मकरन्दा एव बाष्पास्तैर्दूषितानकरोत्। अचेतनानप्यरोदयदित्यर्थः ॥ 70 ॥
विश्वास-प्रस्तुतिः
अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् ।
विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे ॥ ७१॥
मूलम्
अथ तस्य कथंचिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् ।
विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे ॥ ७१॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ स्वजनो बन्धुवर्गः। तस्याजस्याङ्कत उत्सङ्गात् कथंचिदपिनीय। तद्दिव्यकुसुममेवान्त्यं मण्डनमलंकारो यस्यास्ताम्। तां सुन्दरीमगुरूणि चन्दनान्येधांसीन्धनानि यस्य तस्मा अनलायाग्नये विससर्ज विसृष्टवान्। ‘क्रियाग्रहणमपि कर्तव्यम्’ इति क्रियामात्रप्रयोगे संप्रदानत्वाञ्चतुर्थी ॥ 71 ॥
विश्वास-प्रस्तुतिः
प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् ।
न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ॥ ७२॥
मूलम्
प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् ।
न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ॥ ७२॥
मल्लिनाथः ...{Loading}...
प्रमदामिति॥ नृपतिरजः सन्नपि विद्धानपि शुचा शोकेन प्रमदामनुप्रमदया सह संस्थितो मृत इति वाच्यदर्शनान्निन्दादर्शनाद्देव्येन्दुमत्या सह शरीरमग्निसादग्न्यधीनं न चकार। ‘तदधीनवचने’(पा.5।4।54) इति सातिप्रत्ययः। जीविताशया प्राणेच्छया तु नेति ॥ 72 ॥
विश्वास-प्रस्तुतिः
अथ तेन दशाहतः परे गुणशेषामपदिश्य भामिनीम् ।
विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥ ७३॥
मूलम्
अथ तेन दशाहतः परे गुणशेषामपदिश्य भामिनीम् ।
विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥ ७३॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ विदुषा शास्त्रज्ञेन तेनाजेन। गुणा एव शेषा रूपादयो यस्यास्तां गुणशेषां भामिनीमिन्दुमतीमपदिश्योद्दिश्य। दशानामह्रां समाहारो दशाहः। ‘तद्धितार्थ-’(पा.2।1।51) इत्यादिना समासः। समाहारस्यैकत्वादेकवचनम्। ‘राजाहःसखिभ्यष्टच्’(पा.5।4।51) इति टच्। ‘रात्राह्राहाः पुंसि’(पा.2।4।29) इति पुंवत्। ततस्तसिल्। तस्माद्दशाहतः पर ऊर्ध्वं कर्तव्या महर्द्धयो महासमृद्धयो विधयः क्रियाः पुरः पुर्या उपवन उद्यान एव समापिताः संपूर्णमनुष्ठिताः। ‘दशाहतः’ इत्यत्र ‘विप्रः शुद्ध्योद्दशाहेन द्वादशाहेन भूमिपः’(5।83) इति मनुवचनविरोधो नाशङ्कनीयः; तस्य निर्गुणक्षत्रियविषयत्वात्। गुणवत्क्षत्रियस्य तु दशाहेन शुद्धिमाह पराशरः-‘क्षत्रियस्तु दशाहेन स्वधर्मनिरतः शुचिः’इति। सूच्यतेऽस्यापि गुणवत्त्वं ‘विदुषा’ इत्यनेन ॥ 73 ॥
विश्वास-प्रस्तुतिः
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः ।
परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु ॥ ७४॥
मूलम्
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः ।
परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु ॥ ७४॥
मल्लिनाथः ...{Loading}...
स इति॥ तयेन्दुमत्या विना। क्षणदाया रात्रेरपायेऽपगमे यः शशाङ्कश्चन्द्रः स इव दृश्यत इति क्षणदापायशशाङ्कदर्शनः। प्रातःकालिकचन्द्र इव दृश्यमान इत्यर्थः। दृश्यत इति कर्मार्थे ल्युट्। सोऽजः पौरवधूमुखाश्रुषु स्वशुचः स्वशोकस्य परिवाहं जलोच्छ्वासमिवावलोकयन्। ‘जलोच्छ्वासाः परीवाहाः’इत्यमरः। स्वदुःखपूरातिशयमिव पश्यन् पुरीं विवेश। ‘वधू’ग्रहणात्तस्यामिन्दुमत्यां सख्याभिमानादजसमानदुःखसूचकपरीवाहोक्तिर्निर्वहति ॥ 74 ॥
विश्वास-प्रस्तुतिः
अथ तं सवनाय दीक्षितः प्रणिधानाद्गुरुराश्रमस्थितः ।
अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥ ७५॥
मूलम्
अथ तं सवनाय दीक्षितः प्रणिधानाद्गुरुराश्रमस्थितः ।
अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥ ७५॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ सवनाय यागाय दीक्षितो गुरुर्वसिष्ठ आश्रमे स्वकीयाश्रमे स्थितः सन्। तमजमभिषङ्गजडं दुःखमोहितं प्रणिधानाञ्चित्तैकाग्र्याद्विजज्ञिवाञ्ज्ञातवान्। ‘क्वसुश्च’(पा.3।2।107) इति क्वसुप्रत्ययः। इति वक्ष्यमाणप्रकारेण शिष्येणान्वबोधयत्किल। बुधेर्ण्यन्ताण्णिचि लङ् ॥ 75 ॥
विश्वास-प्रस्तुतिः
असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् ।
न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं पथश्च्युतम् ॥ ७६॥
मूलम्
असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् ।
न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं पथश्च्युतम् ॥ ७६॥
मल्लिनाथः ...{Loading}...
असमाप्तेति॥ यतो हेतोर्मुनिरसमाप्तविधिरसमाप्तक्रतुस्ततस्तव तापकारणं दुःखहेतुं कलत्रनाशरूपं विद्वाञ्जानन्निपि । ‘विदेः शतुर्वसुः’(पा.7।1।36) इति वस्वादेशः। ‘न लोक-’(पा.2।3।69)इत्यादिना षष्ठीप्रतिषेधः। पथश्च्युतं स्वभावाद्भ्रष्टं भवन्तं प्रकृतौ स्वभावे स्थापयितुम्। समाश्वासयितुमित्यर्थः। स्वयं नोपस्थितो नागतः ॥ 76 ॥
विश्वास-प्रस्तुतिः
मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती ।
श्रुणु विश्रुतसत्त्वसार तां हृदि चैनामपधातुमर्हसि ॥ ७७॥
मूलम्
मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती ।
श्रुणु विश्रुतसत्त्वसार तां हृदि चैनामपधातुमर्हसि ॥ ७७॥
मल्लिनाथः ...{Loading}...
मयीति॥ हे सुवृत्त सदाचार! संदिश्यत इति संदेशः संदेष्टव्यार्थः। तस्य पदानि वाचकानि लघूनि संक्षिप्तानि संदेशपदानि यस्यां सा लघुसंदेशपदा तस्य मुनेः सरस्वती वाक् मयि वर्तते। हे विश्रुतसत्त्वसार प्रख्यातधैर्यातिशय। तां सरस्वतीं शुणु। एनां वाचं हृद्युपधातुं धर्तुं चार्हसि ॥ 77 ॥
विश्वास-प्रस्तुतिः
पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च ।
स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥ ७८॥
मूलम्
पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च ।
स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ॥ ७८॥
मल्लिनाथः ...{Loading}...
पुरुषस्येति॥ अजन्मनः पुराणपुरुषस्य भगवतस्त्रिविक्रमस्य पदेषु विक्रमषु। त्रिभुवनेष्वपीत्यर्थः। समतीतं भूतं च भवद्वर्तमानं च भावि भविष्यञ्चेति त्रितयं स मुनिर्निष्प्रतिधेनाप्रतिबन्धेन ज्ञानमयेन चक्षुषा ज्ञानदृष्ट्या पश्यति हि। अतस्तदुक्तिषु न संशयितव्यमित्यर्थथः॥ 78 ॥
विश्वास-प्रस्तुतिः
चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा ।
प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥ ७९॥
मूलम्
चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा ।
प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥ ७९॥
मल्लिनाथः ...{Loading}...
चरत इति॥ पुरा किल दुश्चरं तीव्रं तपश्चरतस्तृणबिन्दोस्तृणबिन्दुनामकात्कस्माञ्चिदृषेः परिशङ्कितो भीतः। कर्तरि क्तः। ‘भीत्रार्थानां भयहेतुः’(पा.1।4।25)इत्यपादानात्पञ्चमी। हरिरिन्द्रः समाधिभेदिनीं तपोविघातिनीं हरिणीं नाम सुराङ्गनामस्मै तृणबिन्दवे प्रजिघाय प्रेरितवान् ॥ 79 ॥
विश्वास-प्रस्तुतिः
स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमम् ।
अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा भुवि ॥ ८०॥
मूलम्
स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमम् ।
अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा भुवि ॥ ८०॥
मल्लिनाथः ...{Loading}...
स इति॥ स मुनिः। शमः शान्तिरेव वेला मर्यादा यस्याः। प्रलयोर्मिणा प्रलवकासतरङ्गेण। शमविघातकेनेत्यर्थः। ‘अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि’ इत्यमरः। तपसः प्रतिबन्धेन विघ्नेन यो मन्युः क्रोधस्तेन हेतुना। प्रमुखेऽग्रे आविष्कृतचारुविभ्रमां प्रकाशितमनोहरविलासां तां हरिणीं भुवि भूलोके मानुषी मनुष्यस्त्री भवेत्यशपच्छशाप ॥ 80 ॥
विश्वास-प्रस्तुतिः
भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे ।
इति चोपनतां क्षितिस्पृशं कृतवाना सुरपुष्पदर्शनात् ॥ ८१॥
मूलम्
भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे ।
इति चोपनतां क्षितिस्पृशं कृतवाना सुरपुष्पदर्शनात् ॥ ८१॥
मल्लिनाथः ...{Loading}...
भगवन्निति॥ हे भगवन्महर्षे! अयं जनः। परोऽस्यास्तीति स्वामित्वेन परवान् पराधीनः। ‘अयम्’ इत्यात्मनिर्देशः। अहं पराधीनेत्यर्थः। मे मम प्रतिकूलाचरितमपरराधं क्षमस्वेत्यनेन प्रकारेणोपनतां शरणागतां च हरिणीमा सुरपुष्पदर्शनात् पुष्पदर्शनपर्यन्तम्। क्षितिं स्पृशतीति क्षितिस्पृक्,तां क्षितिस्पृशं मानुषीं कृतवानकरोत्। दिव्यपुष्पदर्शनं शापावधिरित्यनुगृहीतवानित्यर्थः ॥ 81 ॥
विश्वास-प्रस्तुतिः
क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा ।
उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम् ॥ ८२॥
मूलम्
क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा ।
उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम् ॥ ८२॥
मल्लिनाथः ...{Loading}...
क्रथेति॥ क्रथकैशिकानां राज्ञां वंशे संभवो यस्याः सा हरिणी तव भहिष्यभिषिक्ता स्त्री। ‘कृताभिषेका महिषी’ इत्यमरः। भूत्वा चिराय दिवः स्वर्गाञ्च्युतं पतितं शापनिवृत्तिकारणं सुरपुष्परूपलब्धवती विवशा। अभूदिति शेषः। मृतेत्यर्थः॥ 82 ॥
विश्वास-प्रस्तुतिः
तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता ।
वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥ ८३॥
मूलम्
तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता ।
वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥ ८३॥
मल्लिनाथः ...{Loading}...
तदिति॥ तत्तस्मात्तस्या अपायचिन्तयाऽलम्। तस्य मरणं न चिन्त्यमित्यर्थः। निषेधक्रियां प्रति करणत्वाञ्चिन्तयेति तृतीया। कुतो न चिन्त्यमत आह-उत्पत्तिमतां जन्मवतां विपद्विपत्तिरुपस्थिता सिद्धा। जातस्य हि ध्रुवो मृत्युरित्यर्थः। तथापि कलत्ररहितस्य किं जीवितेन तत्राह-त्वयेयं वसुधा भूमिरवेक्ष्यतां पाल्यताम्। हि यस्मान्नृपा वसुमत्यां पृथिव्या कलत्रिणः कलत्रवन्तः। अतो न शोचितव्यमित्यर्थः॥ 83 ॥
विश्वास-प्रस्तुतिः
उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया ।
मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ॥ ८४॥
मूलम्
उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया ।
मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ॥ ८४॥
मल्लिनाथः ...{Loading}...
उदय इति॥ उदयेऽभ्युदये सति मदेन यद्वाच्यं निन्दादुःखं तदुज्झता परिहरता सत्यपि मदहेतावमाद्यता त्वया यदात्मवदध्यात्मप्रचुरं श्रुतं शास्त्रम्। तज्जनितं ज्ञानमिति यावत्। आविष्कृतं प्रकाशितम्। तच्छ्रुतं मनसो ज्वरेसंताप उपस्थित प्राप्तेऽक्लीबतया धैर्येण लिङ्गेन पुनः प्रकाश्यताम्। विदुषा सर्वास्ववस्थास्वपि धीरेण भवितव्यमित्यर्थः ॥ 84 ॥
विश्वास-प्रस्तुतिः
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ ८५॥
मूलम्
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ ८५॥
मल्लिनाथः ...{Loading}...
रुदतेति॥ रुदता भवता सा कुत एव लभ्यते? न लभ्यत एव। अनुम्रियत इत्यनुमृत्। क्विप्। तेनानुमृतानुमृतवताऽपि भवता पुनर्न लभ्यते। कथं न लभ्यत इत्याह-परलोकजुषां लोकान्तरभाजां देहिनाम्। गम्यत इति गतयो गम्यस्थानानि स्वकर्मभिः पूर्वाचरितपुण्यपापैर्भिन्नपथाः पृथक्कृतमार्गा हि। परत्रापि स्वस्वधर्मानुरूपफलभोगाय भिन्नदेहगमनान्न मृतेनापि लभ्यत इत्यर्थः ॥ 85 ॥
विश्वास-प्रस्तुतिः
अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः ।
स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥ ८६॥
मूलम्
अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः ।
स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥ ८६॥
मल्लिनाथः ...{Loading}...
अपेति॥ किंतु,अपशोकमना निर्दुःखचित्तः सन् कुटुम्बिनीं पत्नीं निवापदत्तिभिः पिण्डोदकादिदानैरनुगृह्णीष्व। तर्पयेत्यर्थः। अन्यथा दोषमाह-अतिसंततमविच्छिन्नं स्वजनानां बन्धूनाम्। ‘बन्धुस्वस्वजनाः समाः’ इत्यमरः। अश्रु कर्तृ प्रेतं मृतं दहतीति प्रचक्षते मन्वादयः किल। अत्र याज्ञवल्क्यः (याज्ञ.प्राय.1।11)-‘श्लेष्माश्रु बन्धिभिर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः। अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥’ इति ॥ 86 ॥
विश्वास-प्रस्तुतिः
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः ।
क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ ८७॥
मूलम्
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः ।
क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ ८७॥
मल्लिनाथः ...{Loading}...
मरणमिति॥ शरीरिणां मरणं प्रकृतिः स्वभावः। ध्रुवमित्यर्थः। जीवितं विकृतिर्यादृच्छिकं बुधैरुच्यते। एवं स्थिते जन्तुः प्राणी क्षणमपि। अत्यन्तसंयोगे द्वितीया। श्वसञ्जिवन्नवतिष्ठते। यद्यसौ क्षणजीवी लाभवान्ननु। जीवने यथालाभं संतोष्टव्यम्;अलभ्यलाभात्,मरणे तु न शोचितव्यम्; अस्य स्वाभाव्यादिति भावः ॥ 87 ॥
विश्वास-प्रस्तुतिः
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ८८॥
मूलम्
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ८८॥
मल्लिनाथः ...{Loading}...
अवेति॥ मूढचेतनो भ्रान्तबुद्धिः प्रियनाशमिष्टनाशं हृद्यर्पितं निखातं शल्यं शङ्कुमवगच्छति मन्यते। स्थिरधीर्विद्धांस्तु तदेव शल्यं समुद्धृतमुत्खातं मन्यते। प्रियनाशे सतीति शेषः। कुतः? कुशलद्वारतया। प्रियनाशस्य मोक्षोपायतयेत्यर्थः। विषयलाभविनाशयोर्यथाक्रमं हिताहितसाधनत्वामिमानः पामरणाम्। विपरीतं तु विपश्चितामिति भावः ॥ 88 ॥
विश्वास-प्रस्तुतिः
स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा ।
विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ॥ ८९॥
मूलम्
स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा ।
विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ॥ ८९॥
मल्लिनाथः ...{Loading}...
स्वेति॥ स्वस्य शरीरशरीरिणौ देहात्मानावपि यदा यतः श्रुतौ श्रुत्यवगतौ संयोगविपर्ययौ संयोगवियोगौ ययोस्तौ तथोक्तौ। तदा बाह्यैर्विषयैः पुत्रमित्रकलत्रादिभिर्विरहो विपश्चितं विद्वांसं किमिवानुतापयेत्त्वं वद। न किंचिदित्यर्थः। अथवा,-‘स्व’शब्दस्य शरीरेणैव संबन्धः ॥ 89 ॥
विश्वास-प्रस्तुतिः
न पृथग्जनवच्छुचो वशं वशिनामुत्तम गन्तुमर्हसि ।
द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥ ९०॥
मूलम्
न पृथग्जनवच्छुचो वशं वशिनामुत्तम गन्तुमर्हसि ।
द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥ ९०॥
मल्लिनाथः ...{Loading}...
नेति॥ वशिनामुत्तम जितेन्द्रियवर्य! पृथग्जनवत् पामरजनवत् शुचः शोकस्य वशं गन्तुं नार्हसि। तथा हि द्रुमसानुमतां तरुशिखरिणां किमन्तरं को विशेषः? वायौ सति द्वितयेऽपि द्विप्रकारा अपि। ‘प्रथमचरम-’(पा.1।1।33)इत्यादिना जसि विभाषया सर्वनामसंज्ञा। ते द्रुमसानुमन्तश्चलाश्चञ्चला यदि। सानुमतामपि चलने द्रुमवत्तेषामप्यचलसंज्ञा न स्यादित्यर्थः ॥ 90 ॥
विश्वास-प्रस्तुतिः
स तथेति विनेतुरुदारमतेः प्रतिगॄह्य वचो विससर्ज मुनिम् ।
तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः ॥ ९१॥
मूलम्
स तथेति विनेतुरुदारमतेः प्रतिगॄह्य वचो विससर्ज मुनिम् ।
तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः ॥ ९१॥
मल्लिनाथः ...{Loading}...
स इति॥ सोऽज उदारमतेर्विनेतुर्गुरोर्वसिष्ठस्य वचस्तच्छिष्यमुखेरितं तथेति प्रतिगृह्याङ्गीकृत्य मुनिं वसिष्ठशिष्यं विससर्ज प्रेषयामास। किंतु तद्वचः शोकघने दुःखसान्द्रेऽस्याजस्य हृद्यलब्धपदमप्राप्तावकाशं सद्गुरोर्वसिष्ठस्यान्तिकं प्रतियातमिव प्रतिनिवृत्तं किमु-इत्युत्प्रेक्षा। तोटकवृत्तमेतत्-‘इह तोटकमम्बुधिसैः प्रथितम्’ इति तल्लक्षणात् ॥ 91 ॥
विश्वास-प्रस्तुतिः
तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः ।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च ॥ ९२॥
मूलम्
तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः ।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च ॥ ९२॥
मल्लिनाथः ...{Loading}...
तेनेति॥ अवितथं यथार्थं सूनृतं प्रियवचनं यस्य तेनाजेन। सूनोः पुत्रस्य बालत्वात्। राज्याक्षमत्वादित्यर्थः। प्रियाया इन्दुमत्याः सादृश्यं वस्त्वन्तरगतमाकारसाम्यं प्रतिकृतिश्चित्रं तयोर्दर्शनैः। स्वप्नेषु क्षणिकाः क्षणभङ्गुरो ये समागमोत्सवास्तैश्च। कथंचित् कृच्छ्रेण। अष्टौ समा वत्सराः। ‘संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः’ इत्यमरः। परिगमिता अतिवाहिताः। उक्तं च-‘वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि। तदङ्गस्पृष्टानामुपगतवतां स्पर्शनमपि प्रतीकारः कामव्यथितमनसां कोऽपि कथितः॥’ इति। प्रकृते सादृश्यादित्रितयाभिधानं तदङ्गस्पृष्टपदार्थस्पृष्टेरप्युपलक्षणम्। प्रहर्षिणीवृत्तमेतत् ॥ 92 ॥
विश्वास-प्रस्तुतिः
तस्य प्रसह्य हृदयं किल शोकशङ्कुः
प्लक्षप्ररोह इव सौधतलं बिभेद ।
प्राणान्तहेतुमपि तं भिषजामसाध्यं
लाभं प्रियानुगमने त्वरया स मेने ॥ ९३॥
मूलम्
तस्य प्रसह्य हृदयं किल शोकशङ्कुः
प्लक्षप्ररोह इव सौधतलं बिभेद ।
प्राणान्तहेतुमपि तं भिषजामसाध्यं
लाभं प्रियानुगमने त्वरया स मेने ॥ ९३॥
मल्लिनाथः ...{Loading}...
तस्येति॥ शोक एव शङ्कुः कीलः। ‘शङ्कुः कीले शिवेऽस्त्रे च’ इति विश्वः। तस्याजस्य हृदयम्। प्लक्षप्ररोहः सौधतलमिव। प्रसह्य बलात्किल बिभेद। सोऽजः प्राणान्तहेतुं मरणकारणमपि भिषजामसाध्यमप्रतिसमाधेयं तं शोकशङ्कुं रोगपर्यवसितं प्रियाया अनुगमने त्वरयोत्कण्ठया लाभं मेने। तद्विरहस्यातिदुःसहत्वात्तत्प्राप्तिकारणं मरणमेव वरमित्यमन्यतेत्यर्थः ॥ 93 ॥
विश्वास-प्रस्तुतिः
सम्यग्विनीतमथ वर्महरं कुमार-
मादिश्य रक्षणविधौ विधिवत्प्रजानाम् ।
रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः
प्रायोपवेशनमतिर्नृपतिर्बभूव ॥ ९४॥
मूलम्
सम्यग्विनीतमथ वर्महरं कुमार-
मादिश्य रक्षणविधौ विधिवत्प्रजानाम् ।
रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः
प्रायोपवेशनमतिर्नृपतिर्बभूव ॥ ९४॥
मल्लिनाथः ...{Loading}...
सम्यगिति॥ अथ नृपतिरजः सम्यग्विनीतं निसर्गसंस्काराभ्यां विनयवन्तं वर्म हरतीति वर्महरः कवचधारणार्हवयस्कः। ‘वयसि च’(पा.3।2।10)इत्यच्प्रत्ययः। तं कुमारं दशरथं प्रजानां रक्षणविधौ राज्ये विधिवद्विध्यर्हम्। यथाशास्त्रमित्यर्थः। ‘तदर्हम्’(पा.5।1।117) इति वतिप्रत्ययः। आदिश्य नियुज्य रोगेणोपसृष्टाया व्याप्तायास्तनोः शरीरस्य दुर्वसतिं दुःखावस्थइतिं मुमुक्षुर्जिहासुः सन्। प्रायोपवेशनेऽनशनावस्थाने मतिर्यस्य स बभूव। ‘प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि’ इति विश्वः। अत्र पुराणवचनम्-‘समासक्तो भवेद्यस्तु पातकौर्महदादिभिः। दुश्चिकित्स्यैर्महारोगैः पीडितो वा भवेत्तु यः। स्वयं देहविनाशस्य काले प्राप्ते महामतिः। आब्रह्माणं वा स्वर्गादिमहाफलजिगीषया। प्रविशेज्ज्वलनं दीप्तं कुर्यादनशनं तथा। एतेषामधिकारोऽस्ति नान्येषां सर्वजन्तुषु। नराणामथ नारीणां सर्ववर्णेषु सर्वदा॥’ इति। अनयोर्वसन्ततिलकाच्छन्दः। तल्लक्षणम्-‘उक्ता वसन्ततिलका तभजा जगौ गः’ इति ॥ 94 ॥
विश्वास-प्रस्तुतिः
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वो-
र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः ।
पूर्वाकाराधिकतररुचा संगतः कान्तयासौ
लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ ९५॥
मूलम्
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वो-
र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः ।
पूर्वाकाराधिकतररुचा संगतः कान्तयासौ
लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ ९५॥
मल्लिनाथः ...{Loading}...
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतावजविलापो नामाष्टमः सर्गः ।
तीर्थ इति॥ असावजो जह्नुकन्यासरय्वोस्तोयानां जलानां व्यतिकरेण संभेदेन भघवे तीर्थे गङ्गासरयूसंगमे देहत्यागात्सद्य एवामरगणनायां लेख्यं लेखनम्। ‘तयोरेव कृत्यक्तखलर्थाः’(पा.3।4।70)इति भावार्थे ष्यत्प्रत्ययः। आसाद्य प्राप्य। पूर्वस्मादाकारादधिकतरा रुग्यस्यास्तया कान्तया रमण्या संगतः सन्। नन्दनस्येन्द्रोद्यानस्याभ्यन्तरेष्वन्तर्वर्तिषु लीलागारेषु क्रीडाभवनेषु पुनररमत। ‘यथाकथंचित्तीर्थेऽस्मिन्देहत्यागं करोति यः। तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि॥’ इति स्कान्दे। मन्दाक्रान्ताच्छन्दः। तल्लक्षणम्-‘मन्दाक्रान्ता जलधिषडगैम्भौ नतौ ताद्गुरू चेत्’ इति॥ 95 ॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदास- कृतावजविलापो नामाष्टमः सर्गः ॥