विश्वास-प्रस्तुतिः
अथोपयन्त्रा सदृशेण युक्तां स्कन्देन साक्षादिव देवसेनाम् ।
स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥ १॥
मूलम्
अथोपयन्त्रा सदृशेण युक्तां स्कन्देन साक्षादिव देवसेनाम् ।
स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥ १॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ विदर्भनाथो भोजः सदृशेनोपयन्त्रा वरेण युक्ताम्। अत एव साक्षात् प्रत्यक्षम्। ‘साक्षात्प्रत्यक्षतुल्ययोः’ इत्यमरः। स्कन्देन युक्तां देवसेनामिव। देवसेना नाम देवपुत्री स्कन्दपत्नी तामिव स्थितां स्वसारं भगिनीमुन्दुमतीमादाय गृहीत्वा पुरप्रवेशाभिमुखो बभूव। उपजातिवृत्तं सर्गेऽस्मिन् ॥ 1 ॥
विश्वास-प्रस्तुतिः
सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः ।
भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेशेषु च साभ्यसूया ॥ २॥
मूलम्
सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः ।
भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेशेषु च साभ्यसूया ॥ २॥
मल्लिनाथः ...{Loading}...
सेनेति॥ भोजस्य राज्ञो गोत्रापत्यं स्त्री भोज्या तामिन्दुमतीं प्रति व्यर्थमनोरथत्वाद्रूपेष्वाकृतिषु वेशेषु नेपथ्येषु च साभ्यसूया वृथेति निन्दन्तः। किंच विभाते प्रातःकाले ये ग्रहाश्चन्द्रादयस्त इव मन्दभासः क्षीणकान्तयः पृथिवीक्षितो नृपा अपि सेनानिविशान् शिबिराणि जग्मुः ॥ 2 ॥
विश्वास-प्रस्तुतिः
सांनिध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः ।
काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः ॥ ३॥
मूलम्
सांनिध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः ।
काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः ॥ ३॥
मल्लिनाथः ...{Loading}...
सांनिध्येति॥ तत्र स्वयंवरक्षेत्रे शच्या इन्द्राण्या। संनिधइरेव सांनिध्यम्। तस्य योगात्सद्भावाद्धेतोः स्वयंवरस्य क्षोभकृतां विघ्नकारिणामभावः किस। ‘किल’इति स्वयंवरविघातकाः शच्या विनाश्यन्त इत्यागमसूचनार्थम्। तेन हेतुना काकुत्स्थमजमुद्दिश्य समत्सरोऽपि सवैरोऽपि क्षितिपाललोकः शशाम नाक्षुभ्यत् ॥ 3 ॥
विश्वास-प्रस्तुतिः
तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् ।
वरः सवध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥ ४॥
मूलम्
तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् ।
वरः सवध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥ ४॥
मल्लिनाथः ...{Loading}...
तावदिति॥ ‘यावत्तावञ्च साकल्ये’ इत्यमरः। तावत्प्रकीर्णा साकल्येन प्रसारिता अभिनवा नूतना उपचाराः पुष्पप्रकरादयो यस्य तं तथोक्तम्। इन्द्रायुधानीव द्योतितानि प्रकाशितानि तोरणान्यङ्काश्चिह्नानि यस्य तम्। ध्वजानां छाया ध्वजच्छायम्,‘छाया बाहुल्ये’(पा.2।4।22) इति नपुंसकत्वम्। तेन निवारित उष्ण आतपो यत्र तं तथा राजमार्गं स वरो वोढावध्वा सह प्राप विवेश ॥ 4 ॥
विश्वास-प्रस्तुतिः
ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु ।
बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ॥ ५॥
मूलम्
ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु ।
बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ॥ ५॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततस्तदनन्तरं चामीकरजालवत्सु सौवर्णगवाक्षयुक्तेषु सौधेषु तस्याजस्यालोकने तत्पराणामासक्तानां पुरसुन्दरीणामित्थं वक्ष्यमाणप्रकाराणि त्यक्तान्यन्यकार्याणि केशबन्धनादीनि येषु तानि विचेष्टितानि व्यापाराः। नपुंसके भावे क्तः। बभूवुः ॥ 5 ॥
विश्वास-प्रस्तुतिः
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥ ६॥
मूलम्
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥ ६॥
मल्लिनाथः ...{Loading}...
आलोकेति॥ सहसाऽऽलोकमार्गं गवाक्षपथं व्रजन्त्या कयाचित्कामिन्योद्वेष्टनवान्तमाल्यः। उद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनः। अत एव वांन्तमाल्यो बन्धविश्लेषेणोद्गीर्णमाल्यः। करेण रुद्धो गृहीतोऽपि च केशपाशः केशकलापः। ‘पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे’ इत्यमरः। तावदालोकमार्गप्राप्तिपर्यन्तं बद्धुं बन्धनार्थं न संभावितो न चिन्तित एव ॥ 6 ॥
विश्वास-प्रस्तुतिः
प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥ ७॥
मूलम्
प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥ ७॥
मल्लिनाथः ...{Loading}...
प्रसाधिकेति॥ काचित्। प्रसाधिकयाऽलंकर्त्र्या लम्बितं रञ्जनार्थं धृतं द्रवरागमेवार्द्रालक्तकमेव। अग्रश्चासौ पादश्चेत्यग्रपाद इति कर्मधारयसमासः। ‘‘हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदाभ्याम्’(का.सू.) इति वामनः। तमाक्षिप्याकृष्य। उत्सृष्टलीलागतिस्त्यक्तमन्दगमना सती। आ गवाक्षाद्गवाक्षपर्यन्तं पदवीं पन्थानमलक्तकाङ्कां लाक्षारागचिह्नां ततान विस्तारयामास ॥ 7 ॥
विश्वास-प्रस्तुतिः
विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा।
तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ॥ ८॥
मूलम्
विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा।
तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ॥ ८॥
मल्लिनाथः ...{Loading}...
विलोचनमिति॥ अपरा स्त्री दक्षिणं विलोचनमञ्जनेन संभाव्यालंकृत्य। संभ्रमादिति भावः। दद्वञ्चितं तेनाञ्जनेन वर्जितं वामनेत्रं यस्याः सा सती तथैव शलाकामञ्जनतूलिकां वहन्ती सती वातायनसंनिकर्षं गवाक्षसमीपं ययौ। ‘दक्षिण’ग्रहणं संभ्रमाद्व्युत्क्रमकरणद्योतनार्थम्। ‘सव्यं हि पूर्वं मनुष्या अञ्जते’ इति श्रुतेः ॥ 8 ॥
विश्वास-प्रस्तुतिः
जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
नाभिप्रविष्टाभरणप्रभेन हस्तेन तस्थाववलम्ब्य वासः ॥ ९॥
मूलम्
जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
नाभिप्रविष्टाभरणप्रभेन हस्तेन तस्थाववलम्ब्य वासः ॥ ९॥
मल्लिनाथः ...{Loading}...
जालेति॥ अन्या स्त्री जालान्तरप्रेषितदृष्टिर्गवाक्षमध्यप्रेरितदृष्टिः सती प्रस्थानेन गमनेन भिन्नां त्रुटितां नीवीं वसनग्रन्थिम्। ‘नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि’ इति विश्वः। न बबन्ध। किंतु नाभिप्रविष्टाभरणानां कङ्कणादीनां प्रभा यस्य तेन। प्रभैव नाभेराभरणमभूदिति भावः। हस्तेन वासोऽवलम्ब्य गृहीत्वा तस्थौ ॥ 9 ॥
विश्वास-प्रस्तुतिः
अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ १०॥
मूलम्
अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ १०॥
मल्लिनाथः ...{Loading}...
अर्धेति॥ सत्वरमुत्थितायाः कस्याश्चिदर्धाञ्चिता मणिभिरर्धगुम्फिता दुर्निमित्ते संभ्रमाद्दुरुत्क्षिप्ते। ‘डुमिञ्प्रक्षेपणे’ इति धातोः कर्मणि क्तः। पदे पदे प्रतिपदम्। वीप्सायां द्विर्भावः। गलन्ती गलद्रत्ना सती रशना मेखला तदानीं गमनसमयेऽङ्गुष्ठमूलेऽर्पितं सूत्रमेव शेषो यस्याः सा। आसीत् ॥ 10 ॥
विश्वास-प्रस्तुतिः
तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥ ११॥
मूलम्
तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥ ११॥
मल्लिनाथः ...{Loading}...
तासामिति॥ तदानीं सान्द्रकुतूहलानां तासां स्त्रीणामासवगन्धो गर्भे येषां तैः। विलोलानि नेत्राण्येव भ्रमरा येषां तैः। मुखैर्व्याप्तान्तराश्छन्नावकाशा गवाक्षाः सहस्रपत्राभरणा इव कमलालंकृता इव। ‘सहस्रपत्रं कललम्’इत्यमरः। आसन् ॥ 11 ॥
विश्वास-प्रस्तुतिः
ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥ १२॥
मूलम्
ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥ १२॥
मल्लिनाथः ...{Loading}...
ता इति॥ ता नार्यो रघारपत्यं राघवमजम्। ‘तस्यापत्यम्’ (पा.4।1।92)इत्यण्प्रत्ययः। दृष्टिभिरापिबन्त्योऽतितृष्णया पश्यन्त्यो विषयान्तराण्यन्यान्विषयान्न जग्मुः। न विविदुरित्यर्थः। तथा हि-आसां नारीणां शेषेन्दियवृत्तिश्चक्षुर्व्यतिरिक्तश्रोत्रादीन्द्रियव्यापारः सर्वात्मना स्वरूपकार्त्स्न्येन चक्षुः प्रविष्टेव। श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणाशक्तेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु। अन्यथा स्वस्वविषयाधिगमः किं न स्यादिति भावः ॥ 12 ॥
विश्वास-प्रस्तुतिः
स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुममंस्त भोज्या ।
पद्मेव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम् ॥ १३॥
मूलम्
स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुममंस्त भोज्या ।
पद्मेव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम् ॥ १३॥
मल्लिनाथः ...{Loading}...
स्थआन इति॥ भोज्येन्दुमती परोक्षैरदृष्टैर्भूपतिभिर्वृता ‘ममैवेयम्’ इति प्रार्थितापि यं वरमेव साधुं हितममंस्त मेने। न तु परोक्षमेव कंचित्प्रार्थकं वव्रे। स्थाने युक्तमेतत्। ‘युक्ते द्वे सांप्रतं स्थाने’इत्यमरः। कुतः? अन्यथा स्वयंवराभवे। असाविन्दुमती। पद्ममस्या अस्तीति पद्मा लक्ष्मीः। ‘अर्शआदिभ्योऽच्’(पा.5।1।127)इत्यच्प्रत्ययः। नारायणमिव। आत्मतुल्यं स्वानुरूपं कान्तं पतिं कथं लभेत? न लभेतैव। सदसद्विवेकासौकर्यादिति भावः ॥ 13 ॥
विश्वास-प्रस्तुतिः
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ॥ १४॥
मूलम्
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ॥ १४॥
मल्लिनाथः ...{Loading}...
परस्परेणेति॥ स्पृहणीयशोभं सर्वाशास्यसौन्दर्यमिदं द्वन्द्वं मिथुनम्। ‘द्वन्द्वं रहस्य-’(पा.8।1।15) इत्यादिना निपातः। परस्परेण नायोजयिष्यञ्चेत् न योजयेद्यदि तर्हि प्रजानां पत्युर्विधातुरस्मिन्द्वये द्वन्द्वे रूपविधानयत्नः सौन्दर्यनिर्माणप्रयासो वितथो विफलोऽभविष्यत्। एतादृशानुरूपस्त्रीपुंसान्तराभावादिति भावः। ‘लिङ्निमित्ते लृङ्क्रियातिपत्तौ’(पा.3।3।139) इति लृङ्। ‘कुतश्चित्कारणवैगुण्याक्रियाया अनभिनिष्पत्तिः क्रियातिपत्तिः’ इति वृत्तिकारः ॥ 14 ॥
विश्वास-प्रस्तुतिः
रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथा हि बाला ।
गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ॥ १५॥
मूलम्
रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथा हि बाला ।
गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ॥ १५॥
मल्लिनाथः ...{Loading}...
रतीति॥ रतिस्मरौ यौ नित्यसहचरावित्यभिप्रायः। नूनं तावेवेयं चायं चेमौ दंपती। अभूताम्। एतद्रूपेणोत्पन्नौ। कुतः? तथा हि-इयं बाला राज्ञां सहस्रेषु राजसहस्रमध्ये। सत्यपि व्यत्यासकरण इति भावः। आत्मप्रतिरूपं स्वतुल्यमेव। ‘तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः’ इति दण्डी। गता प्राप्ता। तदपि कथं जातमत आह-हि यस्मान्मनो जन्मान्तरसंगतिज्ञं भवति। ‘तदेवेदम्’ इति प्रत्यभिज्ञाभावेऽपि वासनाविशेषशादनुभूतार्थेषु मनः प्रवृत्तिरस्तीत्युक्तम्। जन्मान्तरसाहचर्यमेवात्र प्रवर्तकमिति भावः ॥ 15 ॥
विश्वास-प्रस्तुतिः
इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोत्रसुखाः कुमारः ।
उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥ १६॥
मूलम्
इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोत्रसुखाः कुमारः ।
उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥ १६॥
मल्लिनाथः ...{Loading}...
इतीति॥ इति ‘स्थाने वृता’(7।13) इत्याद्युक्तप्रकारेण पौरवधूमुखेभ्य उद्गता उत्पन्नाः श्रोक्षयोः सुखा मधुराः। ‘सुख’ शब्दो विशेष्यनिघ्नः। ‘पापपुण्यसुखादि च’ इत्यमरः। कथा गिरः शृण्वन् कुमारोऽजो मङ्गलसंविधाभिर्मङ्गलरचनाभिरुद्भासितं शोभितं-संबन्धिनः कन्यादायिनः सद्म गृहं समाससाद प्राप ॥ 16 ॥
विश्वास-प्रस्तुतिः
ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः ।
वैदर्भनिर्दिष्टमथो विवेश नारीमनांसीव चतुष्कमन्तः ॥ १७॥
मूलम्
ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः ।
वैदर्भनिर्दिष्टमथो विवेश नारीमनांसीव चतुष्कमन्तः ॥ १७॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततोऽनन्तरं करेणुकाया हस्तिन्याः सकाशादाशु शीघ्रमवतीर्य। कामरूपेश्वरे दत्तो हस्तो येन सोऽजः। अथो अनन्तरं वैदर्भेण निर्दिष्टं प्रदर्शितमन्तश्चतुष्कं चत्वरम्। नारीणां मनांसीव विवेश ॥ 17 ॥
विश्वास-प्रस्तुतिः
महार्हसिंहासनसंस्थितोऽसौ सरत्नमर्घ्यं मधुपर्कमिश्रम् ।
भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ॥ १८॥
मूलम्
महार्हसिंहासनसंस्थितोऽसौ सरत्नमर्घ्यं मधुपर्कमिश्रम् ।
भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ॥ १८॥
मल्लिनाथः ...{Loading}...
महार्हेति॥ महार्हसिंहासने संस्थितोऽसावजः। भोजेनोपनीतम्। रत्नैः सहितं सरत्नम्। मधुपर्कमिश्रमर्ध्यं पूजासाधनद्रव्यं दुकूलयोः क्षौमयोर्युग्मं च वनिताकटाक्षैरन्यस्त्रीणामपाङ्गदर्शनैः सार्धम्। जग्राह गृहीतवान् ॥ 18 ॥
विश्वास-प्रस्तुतिः
दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः ।
वेलासकाशं स्फुटफेनराशिर्नवैरुदन्वानिव चन्द्रपादैः ॥ १९॥
मूलम्
दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः ।
वेलासकाशं स्फुटफेनराशिर्नवैरुदन्वानिव चन्द्रपादैः ॥ १९॥
मल्लिनाथः ...{Loading}...
दुकूलेति॥ दुकूलवासाः सोऽजः विनीतैर्नम्रैरवरोधरक्षैरन्तःपुराधिकृतैर्वधूसमीपं निन्ये। तत्र दृष्टन्तः-स्फुटफेनराजिरुदन्वान् समुद्रो नवैर्नूतनैश्चन्द्रपादैश्चन्द्रकिरणैर्वेलायाः सकाशं समीपमिव। पूर्णदृष्टान्तोऽयम् ॥ 19 ॥
विश्वास-प्रस्तुतिः
तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः ।
तमेव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयांचकार ॥ २०॥
मूलम्
तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः ।
तमेव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयांचकार ॥ २०॥
मल्लिनाथः ...{Loading}...
तत्रेति॥ तत्र सद्मन्यर्चितः पूजितोऽग्निकल्पोऽग्नितुल्यो भोजपतेर्भोजदेशाधीश्वरस्य पुरोधाः पुरोहितः। ‘पुरोधास्तु पुरोहितः’ इत्यमरः। आज्यादिभिर्द्रव्यैरग्निं हुत्वा तमेव चाग्निं विवाहसाक्ष्य आधाय। साक्षिणं च कृत्वेत्यर्थः। वधूवरौ संगमयांचकार योजयामास ॥ 20 ॥
विश्वास-प्रस्तुतिः
हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकासे ।
अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥ २१॥
मूलम्
हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकासे ।
अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥ २१॥
मल्लिनाथः ...{Loading}...
हस्तेनेति॥ स राजसूनुर्हस्तेन स्वकीयेन वध्वा हस्तं परिगृह्य। अनन्तरायाः संनिहिताया अशोकलतायाः प्रवालं पल्लवं प्रतिपल्लवेन स्वकीयेन प्राप्य चूत आम्र इव। सुतरां चकासे ॥ 21 ॥
विश्वास-प्रस्तुतिः
आसीद्वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी ।
तस्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥ २२॥
मूलम्
आसीद्वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी ।
तस्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥ २२॥
मल्लिनाथः ...{Loading}...
आसीदिति॥ वरः कण्टकितः पुलकितः प्रकोष्ठो यस्य स आसीत्। ‘सीच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः’ इत्यमरः। कुमारी स्विन्नाङ्गुलिः संववृते बभूव। अत्रोत्प्रेक्षते-तस्मिन्द्वये मिथुने तत्क्षणमात्मवृत्तिः सात्त्विकोदयरूपा वृत्तिर्मनोभवेन कामेन समं विभक्तेव पृथक्कृतेव। प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणिस्पर्शकृतत्वमुत्प्रेक्षते। अत्र वात्स्यायनः-‘कन्या तु प्रथमसमागमे स्विन्नाङ्गुलिः स्विन्नमुखी च भवति। पुरुषस्तु रोमाञ्चितो भवति। एभिरनयोर्भावं परीक्षित्।’ इति। स्त्री-पुरुषयोः स्वेदरोमाञ्चाभिधानं सात्त्विकमात्रोपलक्षणम्। न तु प्रतिनियमो विवक्षितः; ‘एभिः’ इति बहुवचनसामर्थ्यात्। एवं सति कुरामसंभवे(7।77)-‘रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुंगवकेतुरासीत्’ इति व्युत्क्रमवचनं न दोषायेति। ‘वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ‘इत्यपरार्धस्य पाठान्तरे व्याख्यानान्तरम्-पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा तयोर्वधूवरयोर्मनोभवस्य वृत्तिः स्थितिः समं विभक्तेव। समीकृतेवेत्यर्थः ॥ 22 ॥
विश्वास-प्रस्तुतिः
तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिनिवर्तितानि ।
ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥ २३॥
मूलम्
तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिनिवर्तितानि ।
ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥ २३॥
मल्लिनाथः ...{Loading}...
तयोरिति॥ अपाङ्गेषु नेत्रप्रान्तेषु प्रतिसारितानि प्रवर्तितानि क्रिययोर्निरीक्षणलक्षणयोः समापत्त्या यदृच्छासंगत्या निवर्तितानि प्रत्याकृष्टान्यन्योन्यस्मिंल्लोलानि सतृष्णानि। ‘लोलश्चलसतृष्णयोः’इत्यमरः। तयोर्दंपत्योर्विलोचनानि दृष्टयो मनोज्ञां रम्यां ह्रिया निमित्तेन यन्त्रणां संकोचमानशिरे प्रापुः ॥ 23 ॥
विश्वास-प्रस्तुतिः
प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे ।
मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ २४॥
मूलम्
प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे ।
मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ २४॥
मल्लिनाथः ...{Loading}...
प्रदक्षिणेति॥ तन्मिथुनमुदर्चिष उन्नतज्वालस्य कृशानोर्वह्नेः प्रदक्षिणप्रक्रमणात् प्रदक्षिणीकरणात्। मेरोरुपान्तेषु समीपेषु वर्तमानमावर्तमानम्। मेरुं प्रदक्षिणीकुर्वदित्यर्थः। अन्योन्यसंसक्तं परस्परसंगतम्। मिथुनस्याप्येतद्विशेषणम्। अहश्च त्रियामा चाहस्त्रियामं रात्रिंदिवमिव। समाहारे द्वन्दैकवद्भावः। चकासे दिदीपे ॥ 24 ॥
विश्वास-प्रस्तुतिः
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ॥ २५॥
मूलम्
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ॥ २५॥
मल्लिनाथः ...{Loading}...
नितम्बेति॥ नितम्बेन गुर्व्यलघ्वी। ‘दुर्धरालघुनोर्गुर्वी’ इति शाश्वतः। विधातृप्रतिमेन ब्रह्मतुल्येन तेन गुरुणा याचकेन प्रयुक्ता ‘जुहुधि’ इति नियुक्ता। मत्तचकोरस्येव नेत्रे यस्याः सा वधूः। अग्नौ लाजविसर्गं चकार ॥ 25 ॥
विश्वास-प्रस्तुतिः
हविःशमीपल्लवलाजगन्धी पुण्यः कृशानोरुदियाय धूमः ।
कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ २६॥
मूलम्
हविःशमीपल्लवलाजगन्धी पुण्यः कृशानोरुदियाय धूमः ।
कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ २६॥
मल्लिनाथः ...{Loading}...
हविरिति॥ हविष आज्यादेः शमीपल्लवानां लाजानां च गन्धोऽस्यास्तीति हविः-शमीपल्लवलाजगन्धी। ‘शमीपल्लवमिश्राँल्लाजानञ्जलिना वपति’ इति कात्यायनः। पुण्यो धूमः कृशानोः पावकादुदियायोद्धूतः। कपोलयोः संसर्पिणी प्रसहरणशीला शिखा यस्य स तथोक्तः स धूमस्तस्या वध्वा मुहूर्तं कर्णोत्पलतां कर्णाभरणतां प्रपेदे ॥ 26 ॥
विश्वास-प्रस्तुतिः
तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरम् ।
वधूमुखं पाटलगन्धलेखमाचारधूमग्रहणाद्बभूव ॥ २७॥
मूलम्
तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरम् ।
वधूमुखं पाटलगन्धलेखमाचारधूमग्रहणाद्बभूव ॥ २७॥
मल्लिनाथः ...{Loading}...
तदिति॥ तद्वधूमुखमाचारेण प्राप्ताद्धूमग्रहणात्। अञ्जनस्य क्लेदोऽञ्जनक्लेदः। अञ्जनभिश्रबाष्पोदकमित्यर्थः। तेन समाकुलाक्षम्। प्रम्लानो बीजाङ्कुरो यवाङ्कुर एव कर्णपूरोऽवतंसो यस्य तत् पाटलगण्डलेखमरुणगण्डस्थलं च बभूव ॥ 27 ॥
विश्वास-प्रस्तुतिः
तौ स्नातकैर्बन्धुमता च राज्ञा पुरंध्रिभिश्च क्रमशः प्रयुक्तम् ।
कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणमन्वभूताम् ॥ २८॥
मूलम्
तौ स्नातकैर्बन्धुमता च राज्ञा पुरंध्रिभिश्च क्रमशः प्रयुक्तम् ।
कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणमन्वभूताम् ॥ २८॥
मल्लिनाथः ...{Loading}...
ताविति॥ कनकासनस्थौ तौ क्याकुमारौ स्नातकैर्गृहस्थविशेषैः। ‘स्नातकस्त्वाप्लुतो व्रती’इत्यमरः। बन्धुमता। बन्धुपुरः सरेणेत्यर्थः। राज्ञा च पुरंध्रिभिः पतिपुत्रवतीभिर्नारीभिश्च क्रमशः प्रयुक्तं स्नातकादीनां पूर्वपूर्ववैशिष्ट्यात्क्रमेण कृतमार्द्राक्षतानामारोपणमन्वभूतामनुभूतवन्तौ ॥ 28 ॥
विश्वास-प्रस्तुतिः
इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा ।
महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्रीः ॥ २९॥
मूलम्
इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा ।
महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्रीः ॥ २९॥
मल्लिनाथः ...{Loading}...
इतीति॥ अधिश्रीरधिकसंपन्नो भोजकुलप्रदीपः स राजा। इति स्वसुरिन्दुमत्याः पाणिग्रहणं विवाहं संपाद्य कारयित्वा। महीपतीनां राज्ञां पृथगेकैकशोऽर्हणार्थं पूजार्थमधिकृतानधिकारिणः समादि देशाज्ञापयामास ॥ 29 ॥
विश्वास-प्रस्तुतिः
लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्राः ।
वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ॥ ३०॥
मूलम्
लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्राः ।
वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ॥ ३०॥
मल्लिनाथः ...{Loading}...
लिङ्गैरिति॥ मुदः संतोषस्य लिङ्गैश्चिह्नैः कपटहासादिभिः संवृतविक्रिया निगूहितमत्सराः। अत एव प्रसन्ना बहिर्निर्मला गूढनक्रा अन्तर्लीनग्राहा ह्रदा इव स्थइतास्ते नृपा वैदर्भं भोजमामन्त्र्यापृच्छय तदीयां वैदर्भीयां पूजामुपदाछलेनोपायनमिषेण प्रत्यर्प्य ययुर्गतवन्तः ॥ 30 ॥
विश्वास-प्रस्तुतिः
स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम् ।
आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥ ३१॥
मूलम्
स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम् ।
आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥ ३१॥
मल्लिनाथः ...{Loading}...
स इति॥ आरम्भसिद्धौ कार्यसिद्धौ विषये। पूर्वं कृता कृतपूर्वा। सुप्सुपेति समासः। कृतपूर्वा संवित् संकेतो मार्गावरोधरूप उपायो येन स तथोक्तः। ‘संविद्युद्धेप्रतिज्ञायां संकेताचारनामसु’ इति केशवः। स राजलोकः समयोपलभ्यमजप्रस्थानकाले लभ्यम्। तदा तस्यैकाकित्वादिति भावः। ‘समरोपलभ्यम्’ इति पाठे युद्धसाध्यमित्यर्थः। तत्प्रमदैवामिषं भोग्यवस्तु। ‘आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि’ इति केशवः। आदास्यमानो ग्रहीष्यमाणः सन्,अजस्य पन्थानमावृत्यावरुध्य तस्थौ ॥ 31 ॥
विश्वास-प्रस्तुतिः
भर्तापि तावत्क्रथकैशिकानामनुष्ठितानन्तरजाविवाहः ।
सत्त्वानुरूपाहरणीकृतश्रीः प्रास्थापयद्राघवमन्वगाच्च ॥ ३२॥
मूलम्
भर्तापि तावत्क्रथकैशिकानामनुष्ठितानन्तरजाविवाहः ।
सत्त्वानुरूपाहरणीकृतश्रीः प्रास्थापयद्राघवमन्वगाच्च ॥ ३२॥
मल्लिनाथः ...{Loading}...
भर्तेति॥ अनुष्ठितः संपादितोऽनन्तरजाया अनुजाया विवाहो येन स तथोक्तः क्रथकैशिकानां देशानां भर्ता स्वामी भोजोऽपि तावत् तदा सत्त्वानुरूपमुत्साहानुरूपं यथा तथा। आ समन्तात्। अनेनानियतवस्तुदानमित्यर्थः। हरणं कन्यायै देयं धनम्। ‘यौतकादि तु यद्देयं सुदायो हरणं च तत्’ इत्यमरः। आहरणीकृता श्रीर्येन तथोक्तः सन्,राघवमजं प्रास्थापयत् प्रस्थापितवान्। स्वयमन्वगादनुजगाम च ॥ 32 ॥
विश्वास-प्रस्तुतिः
तिस्रस्त्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा ।
तस्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ॥ ३३॥
मूलम्
तिस्रस्त्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा ।
तस्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ॥ ३३॥
मल्लिनाथः ...{Loading}...
तिस्र इति॥ कुण्डिनं विदर्भनगरं तस्येशो भोजस्त्रिषु लोकेषु प्रथितेनाजेन सार्धं मार्गं पथि तिस्रो वसती रात्रीरुषित्वा स्थित्वा। ‘वसती रात्रिवेश्मनोः’ इत्यमरः। ‘कालाध्वनोरत्यन्तसंयोगे’(पा.2।3।5) इति द्वितीया। पर्यात्यये दर्शान्त उष्णरश्मेः सूर्यात् सोमश्चन्द्र इव। तस्मादजादपावर्तत । तं विसृज्य निवृत्त इत्यर्थः ॥ 33 ॥
विश्वास-प्रस्तुतिः
प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः ।
अतो नृपश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदाजत्मस्य ॥ ३४॥
मूलम्
प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः ।
अतो नृपश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदाजत्मस्य ॥ ३४॥
मल्लिनाथः ...{Loading}...
प्रमन्यव इति॥ नृपा राजानः प्रागपि प्रत्येकमात्तस्वतया दिग्विजये गृहीतधनत्वेन कोसलेन्द्रे रघौ प्रमन्यवो रूढवैरा बभूवुः। अतो हेतोः समेताः संगताः सन्तस्तदात्मजस्य रघुसूनोः स्त्रीरत्नलाभं न चक्षमिरे न सेहिरे ॥ 34 ॥
विश्वास-प्रस्तुतिः
तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगण स दृप्तः ।
बलिप्रदिष्टां श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ॥ ३५॥
मूलम्
तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगण स दृप्तः ।
बलिप्रदिष्टां श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ॥ ३५॥
मल्लिनाथः ...{Loading}...
तमिति॥ दृप्त उद्वतः स राजन्यगणो राजसंघातः। भोजकन्यामुद्वहन्तं नयन्तं तमजम्। बलिना वैरोचनिना प्रदिष्टां दत्तां श्रियमाददानं स्वीकुवाणम्। त्रिविक्रमस्येमं त्रैविक्रमम्। पादमिन्द्रशत्रुः प्रह्लाद इव। पथिरुरोध। तथा च ब्राह्माण्डपुराणे-‘विरोचनविरोधेऽपि प्रह्लादः प्राक्तनं स्मरन्। विषअणोस्तु क्रममाणस्य पादाम्भोजं रुरोध ह ॥’ इति ॥ 35 ॥
विश्वास-प्रस्तुतिः
तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः ।
प्रत्यग्रहीत्पार्थिववाहिनीं तां भागीरथीं शोण इवोत्तरङ्गः ॥ ३६॥
मूलम्
तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः ।
प्रत्यग्रहीत्पार्थिववाहिनीं तां भागीरथीं शोण इवोत्तरङ्गः ॥ ३६॥
मल्लिनाथः ...{Loading}...
तस्या इति॥ स कुमारोऽजस्तस्या इन्दुमत्या रक्षार्थमनल्पयोधं बहुभटम्। पितुरागंत पित्र्यम्। आप्तमित्यर्थः। सचिवमादिश्याज्ञाप्य तां पार्थिव वाहिनीं रामसेनाम्। ‘ध्वजिनी वाहिनी सेना’ इत्यमरः। भागीरथीमुत्तरंगः शोणः शोणाख्यो नद इव। प्रत्यग्रहीदभियुक्तवान् ॥ 36 ॥
विश्वास-प्रस्तुतिः
पत्तिः पदातिं रथिनं रथेशस्तुरंगसादी तुरगाधिरूढम् ।
यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ ३७॥
मूलम्
पत्तिः पदातिं रथिनं रथेशस्तुरंगसादी तुरगाधिरूढम् ।
यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ ३७॥
मल्लिनाथः ...{Loading}...
पत्तिरिति॥ पत्तिः पादचारो योद्धा पदातिं पादचारमभ्यपतत्। पदा पादाभ्यामततीति पदातिः । ‘पादस्य पद्-’(पा.6।3।52)इत्यादिना पदादेशः। ‘पदातिपत्तिपदगपादातिकपदाजयः’ इत्यमरः। रथेशो रथिको रथिनं रथारोहमभ्यपतत्। तुरंगसाद्यश्वारोहस्तुरगाधिरूढमश्वारोहमभ्यपतत्। ‘रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः’ इत्यमरः। गजस्य यन्ता हस्त्यारोहो गजस्थं पुरुषमभ्यपतत्। इत्थमनेन प्रकारेण तुल्यप्रतिद्वन्द्व्येकजातीयप्रतिभटं युद्धं बभूव। अन्योन्यं द्वन्द्वं कलहोऽस्त्येषामिति प्रतिद्वन्द्विनो योधाः। ‘द्वन्द्वं कलहयुग्मयोः’ इत्यमरः ॥ 37 ॥
विश्वास-प्रस्तुतिः
नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् ।
बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः ॥ ३८॥
मूलम्
नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् ।
बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः ॥ ३८॥
मल्लिनाथः ...{Loading}...
नदत्स्विति॥ तूर्येषु नदत्सु सत्सु,अविभाव्यवाचोऽनवधार्यगिरश्चापभृतो धानुष्काः कुलमुपदिश्यते प्रख्याप्यते यैस्ते कुलोपदेशास्तान्कुलनामानि नोदीरयन्ति स्म नोञ्चारयामासुः। श्रोतुमशक्यत्वाद्वाचो नाब्रुवन्नित्यर्थः। किंतु बाणाक्षरैर्बाणेषु लिखिताक्षरैरेव परस्परस्यान्योन्यस्योर्जितं प्रख्यातं नाम शशंसुरूचुः ॥ 38 ॥
विश्वास-प्रस्तुतिः
उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ।
विस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यम् ॥ ३९॥
मूलम्
उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ।
विस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यम् ॥ ३९॥
मल्लिनाथः ...{Loading}...
उत्थापित इति॥ संयति संग्रामेऽश्वैरुत्थापितः । स्यन्दनवंशानां रथसमूहानां चक्रै रथाङ्गैः सान्द्रीकृतो घनीकृतः। ‘वंशः पृष्ठास्थि गेहोर्ध्वकाष्ठे;वेणौ गणे कुले’ इति केशवः। कुञ्जरकर्णानां तालैस्तानैर्विस्तारितः प्रसारितो रेणुर्नेत्रक्रमेणांशुकपरिपाट्या। अंशुकमिवेत्यर्थः। ‘स्याज्जटांशुकयोर्नेत्रम्’ इति,‘क्रमोऽङ्घ्रौ परिपाट्यां च’ इति च केशवः। सूर्यमुपरुरोधाच्छादयामास ॥ 39 ॥
विश्वास-प्रस्तुतिः
मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धध्वजिनीरजांसि ।
बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥ ४०॥
मूलम्
मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धध्वजिनीरजांसि ।
बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥ ४०॥
मल्लिनाथः ...{Loading}...
मत्स्येति॥ वायुवशाद्विदीर्णैर्विवृतैर्मुखैः प्रवृद्धानि ध्वजिनीरजांसि सैन्यरेणून् पिबन्तो गृह्णन्तो मत्स्यध्वजा मत्स्याकारा ध्वजाः पर्याविलानि परितः कलुषाणि नवोदकानि पिबन्तः परमार्थमत्स्याः सत्यमत्स्या इव। बभुर्भान्ति स्म ॥ 40 ॥
विश्वास-प्रस्तुतिः
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः ।
स्वभर्तुनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः ॥ ४१॥
मूलम्
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः ।
स्वभर्तुनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः ॥ ४१॥
मल्लिनाथः ...{Loading}...
रथ इति॥ सान्द्रे प्रवृद्धे रजसि रथो रथाङ्गध्वनिना चक्रस्वनेन विजज्ञे ज्ञातः। नागो हस्ती विलोलानां घण्टानां क्वणितेन नदिन विजज्ञे। आत्मपरावबोधः स्वपरविवेकः। योधानामिति शेषः। स्वभर्तॄणां स्वस्वामिनां नामग्रहणान्नामोञ्चारणाद्बभूव। रजोऽन्धतया सर्वे स्वं परं च शब्दादेवानुमाय प्रजह्रुरित्यर्थः ॥ 41 ॥
विश्वास-प्रस्तुतिः
आवृण्वतो लोचनमार्गमाजौ रजोन्धकारस्य विजृम्भितस्य ।
शस्त्रक्षताश्वद्वीपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥ ४२॥
मूलम्
आवृण्वतो लोचनमार्गमाजौ रजोन्धकारस्य विजृम्भितस्य ।
शस्त्रक्षताश्वद्वीपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥ ४२॥
मल्लिनाथः ...{Loading}...
आवृण्वत इति॥ लोचनमार्गमावृण्वतो दृष्टिपथमुपरुन्धतः। आजौ युद्धे विजृम्भितस्य व्याप्तस्य। रज एवान्धकारं तस्य। शस्त्रक्षतेभ्योऽश्वद्विपवीरेभ्यो जन्म यस्य स तथोक्तो रुधिरप्रवाहो बालारुणो बालार्कोऽभूत्। ‘अरुणो भास्करेऽपि स्यात्’ इत्यमरः। बालविशेषणं रुधइरसावर्ण्यार्थम् ॥ 42 ॥
विश्वास-प्रस्तुतिः
स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनापधूतः ।
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥ ४३॥
मूलम्
स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनापधूतः ।
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥ ४३॥
मल्लिनाथः ...{Loading}...
स इति॥ क्षतजेन रुधइरेण छिन्नमूलः। त्याजितभूतलसंबन्ध इत्यर्थः। तस्य क्षतजस्योपरिष्टात् पवनावधूतो वाताहतः स रेणुः। अङ्गारशेषस्य हुताशनस्याग्नेः पूर्वोत्थितो धूम इव। आबभासे दिदीपे ॥ 43 ॥
विश्वास-प्रस्तुतिः
प्रहारमूर्च्छापगमे रथस्था यन्तॄनुपालभ्य निवर्तिताश्वान् ।
यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः ॥ ४४॥
मूलम्
प्रहारमूर्च्छापगमे रथस्था यन्तॄनुपालभ्य निवर्तिताश्वान् ।
यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः ॥ ४४॥
मल्लिनाथः ...{Loading}...
प्रहारेति॥ रथस्था रथिनः प्रहारेण या मूर्च्छा तस्या अपगमे सति। मूर्च्छितानामन्यत्र नीत्वा संरक्षणं सारथिधर्म इति कृत्वा। निवर्तिताश्वान्यन्तॄन् सारथीनुपालभ्य ‘असाधु कृतम्’इत्यधिक्षिप्य। पूर्वं यैः स्वयं सादिता हताः। लक्षितपूर्वकेतून्। पूर्वदृष्टैः केतुभिः प्रत्यभिज्ञातानित्यर्थः। तानेव सामर्षतया सकोपत्वेन हेतुना निजघ्नुः प्रजह्रुः ॥ 44 ॥
विश्वास-प्रस्तुतिः
अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः ।
संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥ ४५॥
मूलम्
अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः ।
संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥ ४५॥
मल्लिनाथः ...{Loading}...
अपीति॥ अर्धश्चासौ मार्गश्च तस्मिन्नर्धमार्गे परेषां बाणैर्लूनाश्छिन्ना अपि हस्तवतां कृतहस्तानां धनुर्भृतां पृषत्काः शरा आत्मजवानुवृत्त्या स्ववेगानुबन्धेन हेतुना फलिभिर्लोहाग्रवद्भिः। ‘सस्यबाणाग्रयोः फलम्’ इति विश्वः। पूर्वार्धभागैः। शृणातीति शरुः। तस्मै हितं शरव्यं लक्ष्यम्। ‘उगवादिभ्यो यत्’(पा.5।1।2)इति यत्प्रत्ययः। ‘लक्षं लक्ष्यं शरव्यं च’ इत्यमरः। संप्रापुरेव,न तु मध्ये पतिता इत्यर्थः॥ 45 ॥
विश्वास-प्रस्तुतिः
आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः ।
हतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥ ४६॥
मूलम्
आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः ।
हतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥ ४६॥
मल्लिनाथः ...{Loading}...
आधोरणानामिति॥ गजसंनिपाते गजयुद्धे निशितैरत एव क्षुराग्रैः क्षुरस्याग्रमिवाग्रं येषां तैश्चक्रैरायुधविशेषैर्हृतानि छिन्नान्यपि। श्येनानां पक्षिविशेषाणाम्। ‘पक्षी श्येनः’इत्यमरः। नखाग्रकोटिषु व्यासक्ताः केशा येषां तानि। आधोरणानां हस्त्यारोहाणाम्। ‘आधोरणा हस्तिपका हस्त्यारोहा निषादिनः’ इत्यमरः। शिरांसि चिरेण पेतुः पतितानि। शिरः पातात्प्रागेवारुह्य पश्चादुत्पततां पक्षिणां नखेषु केशसङ्गश्चिरपातहेतुरिति भावः ॥ 46 ॥
विश्वास-प्रस्तुतिः
पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी ।
तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष ॥ ४७॥
मूलम्
पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी ।
तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष ॥ ४७॥
मल्लिनाथः ...{Loading}...
पूर्वमिति॥ पूर्वं प्रथमं प्रहर्ताऽश्वसादी तौरंगिकः प्रतिहारेऽक्षममशक्तं तुरंगमस्कन्धे निषण्णदेहम्। मूर्च्छितमित्यर्थः। रिपुं भूयो न जघान पुनर्न प्रजहार। किंतु प्रत्याश्वसन्तं पुनरुज्जीवन्तमाचकाङ्क्ष। ‘नायुधव्यसनं प्राप्तं नार्तं नातिपरिक्षतम्’(मनु.7।93) इति निषेधादिति भावः ॥ 47 ॥
विश्वास-प्रस्तुतिः
तनुत्यजां वर्मभृतां विकोशैबृहत्सु दन्तेष्वसिभिः पतद्भिः ।
उद्यन्तमग्निं शमयांबभूवुर्गजा विविग्नाः करशीकरेण ॥ ४८॥
मूलम्
तनुत्यजां वर्मभृतां विकोशैबृहत्सु दन्तेष्वसिभिः पतद्भिः ।
उद्यन्तमग्निं शमयांबभूवुर्गजा विविग्नाः करशीकरेण ॥ ४८॥
मल्लिनाथः ...{Loading}...
तनुत्यजामिति॥ तनुत्यजाम्। तनुषु निःस्पृहाणामित्यर्थः। वर्मभृतां कवचिनां संबन्धिभिर्बृहत्सु दन्तेषु पतद्भिरत एव विकोशैः पिधानादुद्धृतैः। ‘कोशोऽस्त्री कुङ्मले खङ्गपिधानेऽथौघदिव्ययोः’ इत्यमरः। असिभिः खङ्गैरुद्यन्तमुत्थितमग्निं विविग्ना भीता गजाः करशीकरेण शुण्डादण्डजलकणेन शमयां बभूवुः शान्तं चक्रुः ॥ 48 ॥
विश्वास-प्रस्तुतिः
शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव ।
रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः ॥ ४९॥
मूलम्
शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव ।
रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः ॥ ४९॥
मल्लिनाथः ...{Loading}...
शिलीमुखेति॥ शिलूमुखैर्बाणैरुत्कृत्तानि शिरांस्येव फलानि तैराढ्या संपन्ना। च्युतैर्भ्रष्टैः शिरांसि त्रायन्त इति शिरस्त्राणि शीर्षण्यानि। ‘शीर्षण्यं च शिरस्त्रे च’ इत्यमरः। तैश्चषकोत्तरा चषकः पानपात्रमुत्तरं यस्याः सेव। ‘चषकोऽस्त्री पानपात्रम्’ इत्यमरः। शोणितान्येव मद्यं तस्य कुल्याः प्रवाहा यस्यां सा। ‘कुल्याल्पा कृत्रिमा सरित्’ इत्यमरः। रणक्षितिर्युद्धभूमिर्मृत्योः पानभूमिरिव रराज ॥ 49 ॥
विश्वास-प्रस्तुतिः
उपान्तयोर्निष्कुषितं विहंगैराक्षिप्य तेभ्यः पिशितप्रियापि ।
केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार ॥ ५०॥
मूलम्
उपान्तयोर्निष्कुषितं विहंगैराक्षिप्य तेभ्यः पिशितप्रियापि ।
केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार ॥ ५०॥
मल्लिनाथः ...{Loading}...
उपान्तयोरिति॥ उपान्तयोः प्रान्तयोर्विहंगैः पक्षिभिर्निष्कुषितं खण्डितम्। ‘इण्निष्ठायाम्’(पा.7।2।47)इतीडागमः। भुजच्छेदं भुजखण्डं तेभ्यां विहंगेभ्य आक्षिप्याच्छिद्य पिशितप्रिया मांसप्रियाऽपि शिवा कोष्ट्री। ‘शिवः कीलः शिवा क्रोष्ट्री’ इति विश्वः। केयूरकोट्याऽङ्गदाग्रेण क्षतस्तालुदेशो यस्याः सा सती। अपाचकारापसारयामास। किरतेः करोतेर्वा लिट्॥ 50 ॥
विश्वास-प्रस्तुतिः
कश्चिद्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य ।
वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ॥ ५१॥
मूलम्
कश्चिद्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य ।
वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ॥ ५१॥
मल्लिनाथः ...{Loading}...
कश्चिदिति॥ द्विषतः खङ्गेन हृतोत्तमाङ्गश्छिन्नशिराः कश्चिद्वीरः सद्यो विमानप्रभुतां विमानाधिपत्यम्। देवत्वमित्यर्थः। उपेत्य प्राप्य वामाङ्गसंसक्ता सव्योत्सङ्गसङ्गिनी सुराङ्गना यस्य स तथोक्तः सन्,समरे नृत्यत्स्वं निजं कबन्धं अशिरस्कं कलेवरं ददर्श। ‘कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्’ इत्यमरः ॥ 51 ॥
विश्वास-प्रस्तुतिः
अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचित् ।
व्यश्वौ गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ ॥ ५२॥
मूलम्
अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचित् ।
व्यश्वौ गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ ॥ ५२॥
मल्लिनाथः ...{Loading}...
अन्योन्येति॥ कौचिद्वीरावन्योन्यस्य सूतयोः सारथ्योरुन्मथनान्निघनात्तावेव सूतौ रथिनौ योद्धारौ चाभूताम्। तावेव व्यश्वौ नष्टाश्वौ सन्तौ गदाभ्यां व्यायतो दीर्घः संप्रहारो युद्धं ययोस्तावभूताम्। ततो भग्नायुधौ सन्तौ बाहुविमर्दे निष्ठा नाशो ययोस्तौ बाहुयुद्धसक्तावभूताम्। ‘निष्ठा निष्पत्तिनाशान्ताः’ इत्यमरः॥ 52 ॥
विश्वास-प्रस्तुतिः
परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव ।
अमर्त्यभावेऽपि कयोश्चिदासीदेकाप्सरःप्रार्थितयोर्विवादः ॥ ५३॥
मूलम्
परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव ।
अमर्त्यभावेऽपि कयोश्चिदासीदेकाप्सरःप्रार्थितयोर्विवादः ॥ ५३॥
मल्लिनाथः ...{Loading}...
परस्परेणेति॥ परस्परेणान्योन्यं क्षतयोः क्षततन्वोः समकालमेककालं यथा तथोत्क्रान्तवाय्वोर्युगपदुद्गतप्राणयोः। एकैवाप्सराः प्रार्थिता याभ्यां तयोरेकाप्सरः प्रार्थितयोः। प्रार्थितैकाप्सरसोरित्यर्थः। ‘वाहिताग्न्यादिषु’(पा.2।2।37) इति परनिपातः। अथवा,-एकस्यामप्सरसि प्रार्थितं प्रार्थना ययोरिति विग्रहः। ‘स्त्रियां बाहुष्वप्सरसः’ इति बहुत्वाभिधानं प्रायिकम्। कयोश्चित्प्रहर्त्रोर्योधयोरमर्त्यभावेऽपि देवत्वेऽपि विवादः कलह आसीत्। एकामिषाभिलाषो हि महद्वैरबीजमिति भावः ॥ 53 ॥
विश्वास-प्रस्तुतिः
व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थम् ।
पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्येव महार्णवोर्मी ॥ ५४॥
मूलम्
व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थम् ।
पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्येव महार्णवोर्मी ॥ ५४॥
मल्लिनाथः ...{Loading}...
व्यूहाविति॥ तावुभौ व्यूहौ सेनासंघातौ। ‘व्यूहस्तु बलविन्यासः’ इत्यमरः। पश्चात्पुरश्च यौ मारुतौ तयोः पर्यायवृत्त्या क्रमवृत्त्या प्रवृद्धौ महान्तावर्णवोर्मी महार्णवोर्मी इव। इतरेतरस्मादन्योन्यस्मादव्यवस्थं व्यवस्थारहितमनियतं जयं भङ्गं पराजयं चापतुः प्राप्तवन्तौ ॥ 54 ॥
विश्वास-प्रस्तुतिः
परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव ।
धूमो निवर्त्येत समीरणेन यतस्तु कक्षस्तत एव वह्निः ॥ ५५॥
मूलम्
परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव ।
धूमो निवर्त्येत समीरणेन यतस्तु कक्षस्तत एव वह्निः ॥ ५५॥
मल्लिनाथः ...{Loading}...
परेणेति॥ बले स्वलैन्ये परेण परबलेन भग्नेऽपि महौजा महाबलोऽजोऽरिसैन्यं प्रत्येव ययौ। तथा हि–समीरणेन वायुना धूमो निवर्त्येत कक्षादपसार्येत। वर्ततेर्ण्यन्तात्कर्मणि संभावनायां लिङ्। वह्निस्तु यतो यत्र कक्षस्तृणम्। ‘कक्षौ तु तृणवीरुधौ’ इत्यमरः। तत एव तत्रैव। प्रवर्तत इति शेषः। सार्वविभक्तिकस्तसिः ॥ 55 ॥
विश्वास-प्रस्तुतिः
div class=“audioEmbed” caption=“वेदभूमिपाठः” src=“https://archive.org/download/Raghuvamsha-mUlam-vedabhoomi.org/Raghuvamsha-Sarga07-56-71.mp3">
रथी निषङ्गी कवची धनुष्मान्दृप्तः स राजन्यकमेकवीरः ।
निवारयामास महावराहः कल्पक्षयोद्वृत्तमिवार्णवाम्भः ॥ ५६॥
मूलम्
div class=“audioEmbed” caption=“वेदभूमिपाठः” src=“https://archive.org/download/Raghuvamsha-mUlam-vedabhoomi.org/Raghuvamsha-Sarga07-56-71.mp3">
रथी निषङ्गी कवची धनुष्मान्दृप्तः स राजन्यकमेकवीरः ।
निवारयामास महावराहः कल्पक्षयोद्वृत्तमिवार्णवाम्भः ॥ ५६॥
मल्लिनाथः ...{Loading}...
रथीति॥ रथी रथारूढो निषङ्गी तूणीरवान्। ‘तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः’ इत्यमरः। कवची वर्मधरो धनुष्मान् धनुर्धरो दृप्तो रणदृप्त एकवीरोऽसहायशूरः सोऽजो राजन्यकं राजसमूहम्। ‘गोत्रोक्ष-’(पा.4।2।39) इत्यादिना वुञ्प्रत्ययः। महावराहो वराहावतारो विष्णुः कल्पक्षये कल्पान्तकाल उद्वृत्तमुद्वेलमर्णवाम्भ इव। निवारयामास ॥ 56 ॥
विश्वास-प्रस्तुतिः
स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ ।
आकर्णकृष्टा सकृदस्य योद्धुर्मौर्वीव बाणान्सुषुवे रिपुघ्नान् ॥ ५७॥
मूलम्
स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ ।
आकर्णकृष्टा सकृदस्य योद्धुर्मौर्वीव बाणान्सुषुवे रिपुघ्नान् ॥ ५७॥
मल्लिनाथः ...{Loading}...
स इति॥ सोऽजः। आजौ संग्रामे दक्षिणं हस्तं तूणमुखेन निषङ्गविवरेण वाममतिसुन्दरम्। ‘वामं सव्ये प्रतीते च द्रविणे चातिसुन्दरे’ इति विश्वः। व्यापारयन्नलक्ष्यत,शरसंधानादयस्तु दुर्लक्ष्या इत्यर्थः। सकृदाकर्णकृष्टा। योद्धुरस्याजस्य मौर्वी ज्या रिपून्घ्नन्तीति रिपुघ्नाः। तान्। ‘अमनुष्यकर्तृके च’(पा.3।2।53) इति क्प्रत्ययः। बाणान्सुषुव इव सुषुवे किमु। इत्युत्प्रेक्षा ॥ 57 ॥
विश्वास-प्रस्तुतिः
स रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेखा भृकुटीर्वहद्भिः ।
तस्तार गां भल्लनिकृत्तकण्ठैर्हूंकारगर्भैर्द्विषतां शिरोभिः ॥ ५८॥
मूलम्
स रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेखा भृकुटीर्वहद्भिः ।
तस्तार गां भल्लनिकृत्तकण्ठैर्हूंकारगर्भैर्द्विषतां शिरोभिः ॥ ५८॥
मल्लिनाथः ...{Loading}...
स इति॥ शोऽजः रोषेण दष्टा अत एवाधिकलोहिता ओष्ठा येषां तानि तैः। व्यक्ता ऊर्ध्वा रेखा यासां ता भ्रुकुटीर्भ्रूभङ्गान्वहद्भिः। भल्लनिकृत्ता बाणविशेषच्छिन्नाः कण्ठा येषां तैः। हूंकारगर्भैः सहूंकारैः। हूंकुर्वद्भिरित्यर्थः। द्विषतां शिरोभिर्गां भूमिं तस्तार छादयामास ॥ 58 ॥
विश्वास-प्रस्तुतिः
सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च ।
सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह्रुर्युधि सर्व एव ॥ ५९॥
मूलम्
सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च ।
सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह्रुर्युधि सर्व एव ॥ ५९॥
मल्लिनाथः ...{Loading}...
सर्वैरिति॥ द्विरदप्रधानैर्गजमुख्यैः सर्वैर्बलाङ्गैः सेनाङ्गैः। ‘हस्त्यश्वरथपादातं सेनाङ्गं स्याञ्चतुष्टयम्’ इत्यमरः। कङ्कटभेदिभिः ककवचभेदिभिः। ‘उरश्छदःकङ्कटकोऽजगरः कवचोऽस्त्रियाम्’इत्यमरः। सर्वायुधैश्च बाह्यबलमुक्त्वान्तरमाह-सर्वप्रयत्नेन च सर्व एव भूमिपाला युधि तस्मिन्नजे प्रजह्रुः। तं प्रजह्रुरित्यर्थः। सर्वत्र सर्वकारकशक्तिसंभवात्कर्मणोऽप्यधिकरणविवक्षायां सप्तमी। तदुक्तम्-‘अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः। सर्वदा सर्वथाभावात्क्वचित्किंचिद्विवक्ष्यते’ ॥ 59 ॥
विश्वास-प्रस्तुतिः
सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः ।
नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥ ६०॥
मूलम्
सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः ।
नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥ ६०॥
मल्लिनाथः ...{Loading}...
स इति॥ परेषां द्विषामस्त्रव्रजैश्छन्नरथः सोऽजः। नीहारैर्हिमैर्मग्नो दिनपूर्वभागः प्रातःकालः किंचित्प्रकाशेनेषल्लक्ष्येण विवस्वतेव। ध्वजाग्रमात्रेण लक्ष्यो बभूव। ध्वजाग्रादन्यन्न किंचिल्लक्ष्यते स्मेत्यर्थः ॥ 60 ॥
विश्वास-प्रस्तुतिः
प्रियंवदात्प्राप्तमसौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः ।
गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलौल्यः ॥ ६१॥
मूलम्
प्रियंवदात्प्राप्तमसौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः ।
गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलौल्यः ॥ ६१॥
मल्लिनाथः ...{Loading}...
प्रियंवदादिति॥ अधिराजसूनुर्महाराजपुत्रः कुसुमास्त्रकान्तो मदनसुन्दरः स्वप्ननिवृत्तलौल्यः स्वप्नवितृष्णः। जागरूक इत्यर्थः। असौ कुमारोऽजः प्रियंवदात्पूर्वोक्ताद्गन्धर्वात्प्राप्तं गान्धर्वं गन्धर्वदेवताकम्। ‘सास्य देवता’ (पा.4।2।24) इत्यण्। प्रस्वापयतीति प्रस्वापनं निद्राजनकमस्त्रं राजसु प्रायुङ्क्त प्रयुक्तवान् ॥ 61 ॥
विश्वास-प्रस्तुतिः
ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् ।
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥ ६२॥
मूलम्
ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् ।
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥ ६२॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततो धनुष्कर्षणे चापकर्षणे मूढहस्तमव्यापृतहस्तम्। एकस्मिन्नंसे पर्यस्तं स्रस्तं शिरस्त्राणां शीर्षण्यानां जालं समूहो यस्य तत्। ध्वजस्तम्भेषु निषण्णा अवष्टब्धा देहा यस्य तत्। नरदेवानां राज्ञां सेनैव सैन्यम्। चतुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः। निद्राविधेयं निद्रापरतन्त्रं तस्थौ ॥ 62 ॥
विश्वास-प्रस्तुतिः
ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः ।
तेन स्वहस्तार्जितमेकवीरः पिबन्यशो मूर्तमिवाबभासे ॥ ६३॥
मूलम्
ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः ।
तेन स्वहस्तार्जितमेकवीरः पिबन्यशो मूर्तमिवाबभासे ॥ ६३॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततः कुमारोऽजः प्रिययेन्दुमत्योपात्तरस आस्वादितमाधुर्ये। अतिश्लाघ्य इति भावः। अधरोष्ठे जलजं शङ्खं निवेश्य। ‘जलजं शङ्खपद्मयोः’इति विश्वः। दध्मौ मुखमारुतेन पूरयामास। तेनौष्ठनिविष्टेन शङ्खेनैकवीरः स स्वहस्तार्जितं मूर्तं मूर्तिमद्यशः पिबन्निवाबभासे । यशसः शुभ्रत्वादिति भावः ॥ 63 ॥
विश्वास-प्रस्तुतिः
शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशुः स्वयोधाः ।
निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥ ६४॥
मूलम्
शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशुः स्वयोधाः ।
निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥ ६४॥
मल्लिनाथः ...{Loading}...
शङ्खेति॥ शङ्खस्वनस्याजशङ्खध्वनेरभिज्ञतया प्रत्यभिज्ञातत्वान्निवृत्ताः प्रक्पलाय्य संप्रति प्रत्यागताः स्वयोधाः सन्नशत्रुं निद्राणशत्रुं तमजम्। निमीलितानां मुकुलितानां पङ्कजानां मध्ये स्फुरन्तं प्रतिमा चासौ शशाङ्कश्च तं प्रतिमाशशाङ्कं प्रतिबिम्बचन्द्रमिव ददृशुः ॥ 64 ॥
विश्वास-प्रस्तुतिः
सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् ।
यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥ ६५॥
मूलम्
सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् ।
यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥ ६५॥
मल्लिनाथः ...{Loading}...
सशोणितैरिति॥ संप्रति राघवेण रघुपुत्रेण। पूर्वं रघुणेति भावः। हे राजानः। वो युष्माकं यशो हृतं,जीवितं तु कृपया न हृतम्। न त्वशक्त्येति भावः। इत्येवंरूपा वर्णाः। एतदर्थप्रतिपादकं वाक्यमित्यर्थः। सशोणितैः शोणितदिग्धैः शिलीमुखाग्रैर्बाणाग्रैः साधनैस्तेनाजेन प्रयोजककर्त्रा। पार्थिवानां राज्ञां केतुषु ध्वजस्तम्भेषु निक्षेपिताः प्रयोज्यैरन्यैर्निवेशिताः लेखिता इत्यर्थः। क्षिपतेर्ण्यन्तात्कर्मणि क्तः ॥ 65 ॥
विश्वास-प्रस्तुतिः
स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः ।
ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे ॥ ६६॥
मूलम्
स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः ।
ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे ॥ ६६॥
मल्लिनाथः ...{Loading}...
स इति॥ चापकोट्यां निहित एकबाहुर्येन सः। शिरस्त्रस्य निष्कर्षणेनापनयनेन भिन्नमौलिः श्लथकेशबन्धः। ‘चूडाकिरीटं केशाश्च संयता मौलयस्त्रयः’इत्यमरः। ललाटे बद्धाः श्रमवारिबिन्दवो यस्य सः सोऽजो भीतां प्रियामिन्दुमतीमेत्यासाद्य वचो बभाषे ॥ 66 ॥
विश्वास-प्रस्तुतिः
इतः परानर्भकहार्यशस्त्रान्वैदर्भि पश्यानुमता मयासि ।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः ॥ ६७॥
मूलम्
इतः परानर्भकहार्यशस्त्रान्वैदर्भि पश्यानुमता मयासि ।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः ॥ ६७॥
मल्लिनाथः ...{Loading}...
स इति॥ हे वैदर्भि इन्दुमति! इत इदानीमर्भकहार्यशस्त्रान् बालकापहार्यायुधान् पराञ्शत्रून्पश्य। मयाऽनुमतासि। द्रष्टुमिति शेषः। एभिर्नृपैरेवंविधेन निद्रारूपेणाहवचेष्टितेन रणकर्मणा मम हस्तगता। हस्तगतवद्दुर्ग्रहेत्यर्थः। त्वं प्रार्थ्यसे। अपजिहीर्ष्यस इत्यर्थः। ‘एवंविधेन’इत्यत्र स्वहस्तनिर्देशेन सोपहासमुवाचेति द्रष्टव्यम् ॥ 67 ॥
विश्वास-प्रस्तुतिः
तस्याः प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखमाबभासे ।
निःश्वासबाष्पापगमात्प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः ॥ ६८॥
मूलम्
तस्याः प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखमाबभासे ।
निःश्वासबाष्पापगमात्प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः ॥ ६८॥
मल्लिनाथः ...{Loading}...
तस्या इति॥ प्रतिद्वन्द्विभवाद्रिपूत्थाद्विषादाद्दैन्यात् सद्यो विमुक्तं तस्या मुखम्। निःश्वासस्य यो बाष्प ऊष्मा। ‘बाष्पो नेत्रजलोष्मणोः’ इति विश्वः। तस्यापगमाद्धेतोरात्मीयं प्रसादं नैर्मल्यं प्रपन्नः प्राप्तः। आत्मा स्वरूपं दृश्यतेऽनेनेत्यात्मदर्शो दर्पण इव। आबभासे ॥ 68 ॥
विश्वास-प्रस्तुतिः
हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत् ।
स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ॥ ६९॥
मूलम्
हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत् ।
स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ॥ ६९॥
मल्लिनाथः ...{Loading}...
हृष्टेति॥ सेन्दुमती हृष्टापि पत्युः पौरुषेण प्रमुदितापि ह्रिया बिजिता यतोऽतः प्रियमजं साक्षात् स्वयं नाभ्यनन्दन्न प्रशशंस। किंतु नवैरम्भः षृषतैः पयोबिन्दुभिरभिवृष्टाऽभिषिक्ता स्थल्वकृत्रिमा भूमिः। ‘जानपदकुण्डगोणस्थल-’(पा.4।1।49)इत्यादिनाऽकृत्रिमार्थे ङीष्। अभ्रवृन्दं मेघसंघं मयूरकेकाभिरिव सखीनां वाग्भिरभ्यनन्दत् ॥ 69 ॥
विश्वास-प्रस्तुतिः
इति शिरसि स वामं पादमाधाय राज्ञा-
मुदवहदनवद्यां तामवद्यादपेतः ।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा
समरविजयलक्ष्मीः सैव मूर्ता बभूव ॥ ७०॥
मूलम्
इति शिरसि स वामं पादमाधाय राज्ञा-
मुदवहदनवद्यां तामवद्यादपेतः ।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा
समरविजयलक्ष्मीः सैव मूर्ता बभूव ॥ ७०॥
मल्लिनाथः ...{Loading}...
इतीति॥ नोद्यते नोच्त इत्यवद्यं गर्ह्यम्। ‘अवद्यपण्य-’(पा.3।1।101)इत्यादिना निपातः। ‘कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः’ इत्यमरः। तस्मादपेतः। निर्दोष इत्यर्थः। सोऽज इति राज्ञां शिरसि वामं पादमाधायानवद्यामदोषां तामिन्दुमतीमुदवहदुपानयत्। आत्मसाञ्चकारेत्यर्थः। अयमर्थः ‘तमुद्वहन्तं पथि भोजकन्याम्’(7।35)इत्यत्र न श्लिष्टः। तस्याजस्य रथतुरगाणां रजोभी रूक्षाणि परुषाण्यलकाग्राणि यस्याः सा सेन्दुमत्येव मूर्ता मूर्तिमती समरविजयलक्ष्मीर्बभूव। एतल्लाभादन्यः को विजयलक्ष्मीलाभ इत्यर्थः॥ 70 ॥
विश्वास-प्रस्तुतिः
प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं
विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् ।
तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू-
न्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥ ७१॥
मूलम्
प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं
विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् ।
तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू-
न्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥ ७१॥
मल्लिनाथः ...{Loading}...
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतावजस्वयंवराभिगमनोनाम सप्तमः सर्गः ।
प्रथमेति॥ प्रथममजागमनात्प्रागेव परिगतो ज्ञातोऽर्थो विवाहविजयरूपो येन स प्रथमपरिगतार्थो रघुर्विजयिनं विजययुक्तं श्लाघ्यजायासमेतं संनिवृत्तं प्रत्यागतं तमजमभिनन्द्य। तस्मिन्नज उपहितकुटुम्बः सन्। ‘सुतविन्यस्तपत्नीकः’(प्राय.3।451) इति याज्ञवल्क्यस्मरणादिति भावः। शान्तिमार्गो मोक्षमार्ग उत्सुकोऽभूत्। तथा हि-कुलधुर्ये कुलधुरंधरे सति सूर्यवंश्या गृहाय गृहस्थाश्रमाय न भवन्ति ॥ 71 ॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदास- कृतावजस्वयंवराभिगमनो नाम सप्तमः सर्गः ॥