विश्वास-प्रस्तुतिः
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।
उत्पातविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥ १॥
मूलम्
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।
उत्पातविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥ १॥
मल्लिनाथः ...{Loading}...
तमिति॥ विश्वजिति विश्वजिन्नाम्र्यध्वरे यज्ञे। ‘यज्ञः सवोऽध्वरो यागः’ इत्यमरः। निःशेषं विश्राणितं दत्तम्। ‘श्रण दाने’चुरादिः। कोशानामर्थराशीनां जातं समूहो येन तं तथोक्तम्। ‘कोशोऽस्त्त्री कुड्भले खङ्गपिधानेऽर्यौघदिव्ययोः’ इत्यमरः। ‘जातं जनिसमूहयोः’ इति शाश्वतः। एतेन कौत्सस्यानवसरप्राप्तिं सूचयति। त्तं क्षितीशं रघुमुपात्तविद्यो लब्धविद्यो वरतन्तोः शिष्यः कौत्सः। ‘ऋष्यन्धक-’(पा.4।1।114) इत्यण्। इञोऽपवादः। गुरुदक्षिणार्थी। ‘पुष्करादिभ्यो देशे’(पा.5।2।135) इत्यत्रार्थाञ्चासंनिहिते तदन्ताञ्चेतीनेः। अप्रत्याख्येय इति भावः। प्रपेदे प्राप। अस्मिन्सर्गे वृत्तमुपजातिः। तल्लक्षणं तु-‘स्यादिन्द्रवज्रा यदि तौ जगौ गः। उपेन्द्रवज्रा जतजास्ततो गौ। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीथावुपजातयस्ताः’ इति॥ 1 ॥
विश्वास-प्रस्तुतिः
स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्यमनर्घशीलः ।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः ॥ २॥
मूलम्
स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्यमनर्घशीलः ।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः ॥ २॥
मल्लिनाथः ...{Loading}...
स इति॥ अनर्घशीलोऽमूल्यस्वभावः। असाधारणस्वभाव इत्यर्थः। ‘मूल्ये पूजाविधआवर्धः’ इति। ‘शीलं स्वभावे सद्वृत्ते’ इति चामरशाश्वतौ। यशसा कीर्त्या। प्रकाशत इति प्रकाशः। पचाद्यच्। अतिथिषु साधुरातिथएयः। ‘पथ्यतिथिवसतिस्वपतेर्ढञ’(पा.4।4।104) इति ढञ्। स रघुः। हिरण्यस्य विकारो हिरण्मयम्। ‘दाण्डिनायन-’(पा.6।4।174) आदिसूत्रेण निपातः। वीतहिरण्मयत्वादपगतसुवर्णपात्रत्वात्। यज्ञस्य सर्वस्वदक्षिणाकत्वादिति भावः। मृण्मये मृद्विकारे पात्रे। अर्घार्थमिदमर्घअयम्। ‘पादार्घाभ्यां च’(पा.5।4।25)इति यत्। पूजार्थं द्रव्यं निधआय श्रुतेन शास्त्त्रेण प्रकाशं प्रसिद्धम्। श्रूयत इति श्रुतं वेदशास्त्त्रम्।‘श्रुतं शास्त्त्रावधृतयोः’इत्यमरः। अतिथिमभ्यागतं कौत्सम्। ‘अतिथिर्ना गृहागते’इत्यमरः। प्रत्युज्जगाम ॥ 2 ॥
विश्वास-प्रस्तुतिः
तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।
विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच ॥ ३॥
मूलम्
तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।
विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच ॥ ३॥
मल्लिनाथः ...{Loading}...
तमिति॥ विधिज्ञः शास्त्त्रज्ञः। अकरणे प्रत्यवायभीरुरित्यर्थः। मानधनानामग्रयाय्यग्रेसरः। अपयशोभीरुरित्यर्थः। कृत्यवित् कार्यज्ञः। आगमन प्रयोजनमवश्यं प्रष्टव्यमिति कृत्यवित्। विशांपतिर्मनुजेश्वरः। ‘द्वौ विशौ वैश्यमनुजौ’ इत्यमरः। विष्टरभाजमासनगतम्। उपविष्टमित्यर्थः। ‘विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्’। इत्यमरः। ‘वृक्षासनयोर्विष्टरः’(पा.8।3।93) इति निपातः। तं तपोधनं विधिवद्विध्यर्हम्। यथाशास्त्त्रमित्यर्थः। ‘तदर्हम्’(पा.5।1।117)इति वतिप्रत्ययः। अर्चयित्वा। आरात् समीपे। ‘आराद्दूरसमीपयोः’ इत्यमरः। कृताञ्जलिः सन्। इति वक्ष्यमाणप्रकारेणोवाच ॥ 3 ॥
विश्वास-प्रस्तुतिः
अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते ।
यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ॥ ४॥
मूलम्
अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते ।
यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ॥ ४॥
मल्लिनाथः ...{Loading}...
अप्यग्रणीरिति॥ हे कुशाग्रबुद्धे सूक्ष्मबुद्धे!‘कुशाग्रीयमतिः प्रोक्तः सूक्ष्मदर्शी च यः पुमान्’ इति हलायुधः। मन्त्रकृतां मन्त्रस्रष्टॄणाम्। ‘सुकर्मपापमन्त्र-’ (पा.3।2।89)इत्यादिना क्विप्। ऋषीणामग्रणीः श्रेष्ठस्ते तव गुरुः कुशल्यपि क्षेमवान्किम्? ‘अपि’प्रश्ने। ‘गर्हासमुञ्चयप्रश्नशङ्कासंभावनास्वपि’ इत्यमरः। यतो यस्माद्गुरोः सकाशात् त्वयाऽशेषं ज्ञानम्। लोकेनोष्णरश्मेः सूर्याञ्चैतन्यं प्रबोध इव। आप्तं स्वीकृतम् ॥ 4 ॥
विश्वास-प्रस्तुतिः
कायेन वाचा मनसाओइ शश्वद्यत्संभृतं वासवधैर्यलोपि ।
आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥ ५॥
मूलम्
कायेन वाचा मनसाओइ शश्वद्यत्संभृतं वासवधैर्यलोपि ।
आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥ ५॥
मल्लिनाथः ...{Loading}...
कायेनेति॥ कायेनोपवासादिकृच्छ्रचान्द्रायणादिना वाचा वेदपाठेन मनसा गायत्रीजपादिना कायेन वाचा मनसापि करणेन वासवस्येन्द्रस्य धैर्यं लुम्पतीति वासवधैर्यलोपि। स्वपदापहारशङ्काजनकमित्यर्थः। यत्तपः शश्वदसकृत्। ‘मुहुः पुनः पुनः शश्वदभीक्ष्णससकृत्समाः’ इत्यमरः। संभृतं संचितं महर्षेर्वरतन्तोस्त्त्रिविधं वाङ्मनः कायजं तत्तपोऽन्तरायैर्विघ्नैरिन्द्रप्रेरिताप्सरः शापैर्व्ययं नाशं नापाद्यते कञ्चित् न नीयते किम्? ‘कञ्चित् कामप्रवेदने’ इत्यमरः॥ 5 ॥
विश्वास-प्रस्तुतिः
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।
कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥ ६॥
मूलम्
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।
कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥ ६॥
मल्लिनाथः ...{Loading}...
आधारेति॥ आधारबन्धप्रमुखैरालवालनिर्माणादिभिः प्रयत्नैरुपायैः। ‘आधार आलवालेऽम्बुबन्धेऽधिकरणेऽपि च’ इति विश्वः। सुतेभ्यो निर्गतो विशेषोऽतिशयो यस्मिन्कर्मणि तत्तथा संवर्धितानां श्रमच्छिदां व आश्रमपादपानां वाय्वादिः। ‘आदि’शब्दाद्दावानलादिः। उपप्लवो बाधको न कञ्चिन्नास्ति किम्? ॥ 6 ॥
विश्वास-प्रस्तुतिः
क्रियानिमित्तेश्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः ॥ ७॥
मूलम्
क्रियानिमित्तेश्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः ॥ ७॥
मल्लिनाथः ...{Loading}...
क्रियेति॥ क्रियानिमित्तेष्वप्यनुष्टानसाधनेष्वपि कुशेषु मुनिभिर्वत्सलत्वान्मृगस्नेहादभग्नकामाऽप्रतिहतेच्छा। तेषां मुनीनामङ्का एव शय्यास्तासु च्युतानि नाभिनालानि यस्याः सा तथोक्ता मृगीणां प्रसीतिः संततिरनघाऽव्यसना कञ्चित्? अनपायिनी किमित्यर्थथः। ‘दुःखैनोव्यसनेष्वघम्’ इति यादवः। ते हि व्यालभयाद्दशरात्रमङ्क एव धारयन्ति ॥ 7 ॥
विश्वास-प्रस्तुतिः
निर्वत्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितॄणाम् ।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ ८॥
मूलम्
निर्वत्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितॄणाम् ।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ ८॥
मल्लिनाथः ...{Loading}...
निर्वर्त्यत इति॥ यैस्तीर्थजलैर्नियमाभिषेको नित्यस्नानादिर्निर्वर्त्यते निष्पाद्यते। येभ्यो जलेभ्यः। उद्धृत्येति शेषः। पितॄणामग्निष्वात्तादीनां निवापाञ्जलयस्तर्पणाञ्जलयः। ‘पितृदानं निवापः स्यात्’ इत्यमरः। निर्वर्त्यन्ते। उञ्छानां प्रकीर्णोद्धृतधान्यानां षष्टैः षष्ठभागैः पालकत्वाद्राजग्राहैरङ्कितानि सैकतानि पुनिनानि येषां तानि तथोक्तानि वो युष्माकं तानि तीर्थजलानि शिवानि भद्राणि कञ्चित्? अनुपप्लवानि किमित्यर्थः। ‘उञ्छो धान्यांशकादानं कणिशाद्यर्जनं शिलम्’ इति यादवः। ‘।षष्टाष्टमाभ्यां ञ च’(पा.5।3।50) इति षष्ठशब्दाद्भागार्थेऽन्प्रत्ययः। अत एवापूरणार्थत्वात् ‘पूरणगुण-’(पा.2।2।11) इत्यादिना न षष्ठीसमासप्रतिषेधः। सिकता येषु सन्ति सैकतानि। ‘सिकताशर्कराभ्यां च’(पा.5।2।104) इत्यण्प्रत्ययः ॥ 8 ॥
विश्वास-प्रस्तुतिः
नीवारपाकादि कडंगरीयैरामृश्यते जानपदैर्न कच्चित् ।
कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः ॥ ९॥
मूलम्
नीवारपाकादि कडंगरीयैरामृश्यते जानपदैर्न कच्चित् ।
कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः ॥ ९॥
मल्लिनाथः ...{Loading}...
नीवारेति॥ कालेषु योग्यकालेषूपपन्नानामगतानामतिथीनां कल्प्याभागा यस्य तत्तथोक्तम्। वने भवं वन्यम्। शरीरस्थिते र्जीवनस्य साधनं वो युष्माकम्। पच्यत इति पाकः फलम्। धान्यमिति यावत्। नीवारपाकादि। ‘आदि’शब्दाञ्छ्यामाकादिधान्यसंग्रहः। जनपदेभ्य आगतैर्जानपदैः। ‘तत आगतः’ (पा.4।3।74) इत्यण्। कडंगरीयैः। कडंगरं बुसमर्हन्तीति कडंगरीयाः। ‘कडंगरो बुसंक्लीबे धान्यत्वचि तुषः पुमान्’इत्यमरः। ‘कडंगरदक्षिणाच्छ च’(पा.5।1।69) इति छप्रत्ययः। तैर्गोमहिषादिभिर्नामृश्यते कञ्चित् ? न भक्ष्यते किमित्यर्थः॥ 9 ॥
विश्वास-प्रस्तुतिः
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ १०॥
मूलम्
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ १०॥
मल्लिनाथः ...{Loading}...
अपीति॥ किंच,त्वं प्रसन्नेन सता महर्षिणा सम्यग्विनीय शिक्षयित्वा। विद्यामुपदिश्येत्यर्थः। गृहाय गृहस्थाश्रमं प्रवेष्मुम्। ‘क्रियार्थोपपद-’(पा.2।3।14)इत्यादिना चतुर्थी। अनुमतोऽप्यनुज्ञातः किम् ? हि यस्मात्ते तव सर्वेषामाश्रमाणां ब्रह्मचर्य-वनप्रस्थ यतीनामुपकारे क्षमं शक्तम्। ‘क्षमं शक्ते हिते त्रिषु’ इत्यमरः। द्वितीयमाश्रमं गार्हस्थ्यं संक्रमितुं प्राप्तुमयं कालः। विद्याग्रहणानन्तर्यात्तस्येति भावः। ‘कालसमयवेलासु तुमुन्’(पा.3।3।164) इति तुमुन्। सर्वोपकारक्षममित्यत्र मनुः(3।77)-‘यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः। वर्तन्ते गृहीणस्तद्वदाश्रित्येतर आश्रमाः ॥’ इति ॥ 10 ॥
विश्वास-प्रस्तुतिः
तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।
अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम् ॥ ११॥
मूलम्
तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।
अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम् ॥ ११॥
मल्लिनाथः ...{Loading}...
तवेति॥ अर्हतः पूज्यस्य प्रशंस्यस्य। ‘अर्हः प्रशंसायाम्’(पा.3।2।113) इति शतृप्रत्ययः। तवाभिगमेनागमनमात्रेण मे मनो न तृप्तं न तुष्टम्। किंतु नियोगक्रिययाऽऽज्ञाकरणेनोत्सुकं सोत्कण्ठम्। ‘इष्टार्थोद्युक्त उत्सुकः’ इत्यमरः। ‘प्रसितोत्सुकाभ्यां तृतीया च’(पा.2।3।44) इति सप्तम्यर्थे तृतीया। शासितुर्गुरोराज्ञयाप्यात्मना स्वतो वा। ‘प्रकृत्यादिभ्य उपसंख्यानम्’(वा.1466) इति तृतीया। मां संभावयितुं वनात्प्राप्तोऽसि? गुर्वर्थं स्वार्थं वाऽऽगमनमित्यर्थः॥ 11 ॥
विश्वास-प्रस्तुतिः
इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य ।
स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्यः ॥ १२॥
मूलम्
इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य ।
स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्यः ॥ १२॥
मल्लिनाथः ...{Loading}...
इतीति॥ अर्घ्यपात्रेण मृष्मयेनानुमितो व्ययः सर्वस्वत्यागो यस्य तस्य रघोरित्युक्तप्रकारामुदारामौदार्ययुक्तामपि गां वाचम्। ‘मनो नियोगक्रिययोत्सुकं मे’ (5।11) इत्येवंरूपाम्। ‘स्वर्गेषुपशुवाग्वज्रदिङ्गेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः’ इत्यमरः। निशम्य श्रुत्वा वरतन्तुशिष्यः कौत्सः स्वार्थोपपत्तिं स्वकार्यसिद्धिं प्रति दुर्बलाशः सन् मृण्मयपात्रदर्शनाच्छिथिलमनोरथथः सन्। तं रघुमिति वक्ष्यमाणप्रकारेणावोचत् ॥ 12 ॥
विश्वास-प्रस्तुतिः
सर्वत्र नो वार्तमवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् ।
सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥ १३॥
मूलम्
सर्वत्र नो वार्तमवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् ।
सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥ १३॥
मल्लिनाथः ...{Loading}...
सर्वत्रेति॥ हे राजन्! त्वं सर्वत्र नोऽस्माकं वार्तं स्वास्थ्यमवेहि जानीहि। ‘वार्तं वल्गुन्यरोगे च’ इत्यमरः। ‘वार्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम्’ इति यादवः। न चैतदाश्चर्यमित्याह-नाथ इति। त्वयि नाथ ईश्वरे सति प्रजानामशुभं दुःखं कुतः? तथा हि-अर्थान्तरं न्यस्यति सूर्य इत्यादिना। सूर्ये तपति प्रकाशमाने सति तमिस्रा तमस्ततिः। ‘तमिस्रं तिमिरं रोगे तमिस्रा तु समस्ततौ । कृष्णपक्षे निशायां च’ इति विश्वः। ‘तमिस्रम्’ इति पाठे तमिस्रं तिमिरम्। ‘तमिस्रं तिमिरं तमः’ इत्यमरः। लोकस्य जनस्य। ‘लोकस्तु भुवने जने’ इत्यमरः। दृष्टेरावरणाय कथं कल्पेत? दृष्टिमावरितुं नालमित्यर्थः। क्लृपेरलमर्थत्वात्तद्योगे ‘नमःस्वस्ति-’(पा.2।3।16) इत्यादिना चतुर्थी। ‘अलमिति पर्याप्त्यर्थग्रहणम्’ इति भगवान्भाष्यकारः। कल्पेत। संपद्येत। न कल्पत इत्यर्थः। ‘क्लृपि संपद्यमाने चतुर्थी’ (वा.1459) इति वक्तव्यात् ॥ 13 ॥
विश्वास-प्रस्तुतिः
भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग तयातिशेषे ।
व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः ॥ १४॥
मूलम्
भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग तयातिशेषे ।
व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः ॥ १४॥
मल्लिनाथः ...{Loading}...
भक्तिरिति॥ प्रतीक्ष्येषु पूज्येषु। ‘पूज्यः प्रतीक्ष्यः’ इत्यमरः। भक्तिरनुरागविशेषस्ते तव कुलोचिता कुलाभ्यस्ता। ‘अभ्यस्तेऽप्युचितं न्याय्यम्’ इति यादवः। हे महाभाग सार्वभौम! तया भक्त्या पूर्वानतिशेषेऽतिवर्तसे। किंतु सर्वत्र वार्तं चेत्तर्हि कथं खेदखिन्न इव दृश्यसेऽत आह-व्यतीतेति। अहं व्यतीतकालोऽतिक्रान्तकालः सन्नर्थिभावात्त्वामभ्युपेत इति मे मम विषादः ॥ 14 ॥
विश्वास-प्रस्तुतिः
शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः ।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥ १५॥
मूलम्
शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः ।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥ १५॥
मल्लिनाथः ...{Loading}...
शरीरेति॥ हे नरेन्द्र! तीर्थे सत्पात्रे प्रतिपादिता दत्ता ऋद्धिर्येन स तथोक्तः। ‘योनौ जलावतारे च मन्त्त्र्याद्यष्टादशस्वपि। पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्शनेष्वपि ॥’ इति हलायुधः। शरीरमात्रेण तिष्ठन्। आरण्यका अरण्ये भवा मनुष्या मुनिप्रमुखाः। ‘अरण्यान्मनुष्ये’(पा.4।2।129) इति वुञ्प्रत्ययः। तैरुपात्ता फलमेव प्रसूतिर्यस्य स स्तम्बेन काण्डेनावशिष्टः। प्रकृत्यादित्वात्तृतीया। नीवार इव। आभासि शोभसे ॥ 15 ॥
विश्वास-प्रस्तुतिः
स्थाने भवानेकनराधिपः सन्नकिंचनत्वं मखजं व्यनक्ति ।
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥ १६॥
मूलम्
स्थाने भवानेकनराधिपः सन्नकिंचनत्वं मखजं व्यनक्ति ।
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥ १६॥
मल्लिनाथः ...{Loading}...
स्थान इति॥ भवानेकनराधिपः सार्वभौमः सन्। मखजं मखजन्यम्। न विद्यते किंचन यस्येत्यकिंचनः। मयूरव्यंसकादित्वात्तत्पुरुषः। तस्य भावस्तत्त्वं निर्धनत्वं व्यनक्ति प्रकटयति। स्थाने युक्तम्। ‘युक्ते द्वे सांप्रतं स्थाने’ इत्यमरः । तथा हि-सुरैर्देवैः पर्यायेण क्रमेण पीतस्य हिमांशोः कलाक्षयो वृद्धेरुपचयाच्छ्लाघ्यतरो हि वरः खलु। ‘मणिः शाणोल्लीढः समरविजयी हेति निहतो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः। क्रलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चिर्थिषु नृपाः॥’ (भर्तृ.2।44) इति भावः। अत्र कामन्दकः-‘धर्मार्थं क्षीणकोशस्य क्षीणत्वमपि शोभते। सुरैः पीतावशेषस्य कृष्णपक्षे विधोरिव ॥’ इति ॥ 16 ॥
विश्वास-प्रस्तुतिः
तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये ।
स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि ॥ १७॥
मूलम्
तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये ।
स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि ॥ १७॥
मल्लिनाथः ...{Loading}...
तदिति॥ तत्तस्मात्। तावदनन्यकार्यः। ‘यावत्तावञ्च साकल्येऽवधौ मानेऽवधारणे’ इति विश्वः। प्रयोजनान्तररहितोऽहमन्यतो वदान्यान्तराद्गुर्वर्थं गुरु-धनमाहर्तुमर्जयितुं यतिष्य उद्योक्ष्ये। ते तुभ्यं स्वस्ति शुभमस्तु। ‘नमःस्वस्ति-’ (पा.2।3।16) इत्यादिना चतुर्थी। तथा हि-चातकोऽपि। ‘धरणीपतितं तोयं चातकानां रुजाकरम्’ इतिहेतोरनन्यगतिकोऽपीत्यर्थः। निर्गलितोऽम्ब्वेव गर्भो यस्य तं शरद्धनं नार्दति न याचते। ‘अर्द गतौ याचने च’ इति धातुः। ‘याचनार्थे रणेऽर्दनम्’ इति यादवः ॥ 17 ॥
विश्वास-प्रस्तुतिः
एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।
किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त ॥ १८॥
मूलम्
एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।
किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त ॥ १८॥
मल्लिनाथः ...{Loading}...
एतावदिति॥ एतावद्वाक्यमुक्त्वा प्रतियातुं कामो यस्य तं प्रतियातुकामं गन्तुकामम् । ‘तुं काममनसोरपि’ इति मकारलोपः। महर्षेर्वरतन्तोः शिष्यं कौत्सं नृपती रघुर्निषिध्य निवार्य,हे विद्वन्! त्वया गुरवे प्रदेयं वस्तु किं किमात्मकं कियत् किंपरिमाणं वा? इत्येवं तं कौत्समन्वयुङ्क्तापृच्छत्। ‘प्रश्नोऽनुयोगः पृच्छा च’ इत्यमरः ॥ 18 ॥
विश्वास-प्रस्तुतिः
ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥ १९॥
मूलम्
ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥ १९॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततो यथावद्यथार्हम्। अर्हार्थे वतिः। विहिताध्वराय विधिवदनुष्ठितयज्ञाय। सदाचारायेत्यर्थः। स्मयावेशविवर्जिताय गर्वाभिनिवेशशून्याय। अनुद्धतायेत्यर्थः। वर्णानां ब्राह्मणादीनामश्रमाणां ब्रह्मचर्यादीनां च गुरवे नियामकाय। ‘वर्णाः स्युर्ब्राह्मणादयः’ इति। ‘ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये। आश्रमोऽस्त्त्री’ इति चामरः। सर्वकार्यनिर्वाहकायेत्यर्थः। तस्मै रघवे विचंक्षणो विद्वान् वर्णी ब्रह्मचारी। ‘वर्णिनो ब्रह्मचारिणः’ इत्यमरः। ‘वर्णाद्ब्रह्मचारिणि’ (पा.5।2।134) इतीनिप्रत्ययः। सः कौत्सः प्रस्तुतं प्रकृतमाचचक्षे ॥ 19 ॥
विश्वास-प्रस्तुतिः
समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै ।
स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥ २०॥
मूलम्
समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै ।
स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥ २०॥
मल्लिनाथः ...{Loading}...
समाप्तेति॥ समाप्तविद्येन मया महर्षिर्गुरुदक्षिणायै गुरुदक्षिणास्वीकारार्थं विज्ञापितोऽभूत्। स च गुरुश्चिरायास्खलितोपचारां तां दुष्करां मे भक्तिमेव पुरस्तात् प्रथमम्। अगणयत् संख्यातवान्। भक्त्यैव संतुष्टः,किं दक्षिणयेत्युक्तवानित्यर्थः। अथवा,-भक्तिमेव तां दक्षिणामगणयदिति योज्यम् ॥ 20 ॥
विश्वास-प्रस्तुतिः
निर्बन्धसंजातरुषार्थकार्श्यमचिन्तयित्वा गुरुणाहमुक्तः ।
वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥ २१॥
मूलम्
निर्बन्धसंजातरुषार्थकार्श्यमचिन्तयित्वा गुरुणाहमुक्तः ।
वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥ २१॥
मल्लिनाथः ...{Loading}...
निर्बन्धेति॥ निर्बन्धेन प्रार्थनातिशयेन संजातरुषा संजातक्रोधेन गुरुणा। अर्थकार्श्यं दारिद्र्यमचिन्तयित्वाऽविचार्य। अहं वित्तस्य धनस्य चतस्रो दश च कोटीश्चतुर्दशकोटीर्मे मह्यमाहरानयेति विद्यापरिसंख्यया विद्यपरिसंख्यानुसारेणैवोक्तः। अत्र मनुः-‘अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश॥’ इति ॥ 21 ॥
विश्वास-प्रस्तुतिः
सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् ।
अभ्युत्सहे संप्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥ २२॥
मूलम्
सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् ।
अभ्युत्सहे संप्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥ २२॥
मल्लिनाथः ...{Loading}...
सोऽहमितिः॥ सोऽहं सपर्याविधिभाजनेनार्घ्यपात्रेण भवन्तं ‘प्रभु’-शब्द एव शेषो यस्य तं मत्वा। निःस्वं निश्चित्येत्यर्थः। श्रुतनिष्क्रयस्य विद्यामूल्यस्याल्पेतरत्वादतिमहत्त्वात् संप्रत्युपरोद्धुं निर्बन्धुं नाभ्युत्सहे ॥ 22 ॥
विश्वास-प्रस्तुतिः
इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण ।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥ २३॥
मूलम्
इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण ।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥ २३॥
मल्लिनाथः ...{Loading}...
इत्थमिति॥ द्विजराजकान्तिश्चन्द्रकान्तिः। ‘द्विजराजः शशधरो नक्षत्रेशः क्षपाकरैः’ इत्यमरः। ‘तस्मात्सोमो राजा नो ब्राब्मणानाम्’इति श्रुतेः। द्विजराजकान्तित्वेनार्थावाप्तिवैराग्यं वारयति। एनसः पापान्निवृत्तेन्द्रियवृत्तिर्यस्य स जगदेकनाथो रघुर्वेदविदां वरेण श्रेष्ठेन द्विजेन कौत्सेन। इत्थमावेदितो निवेदितः सन्। एनं कौत्सं भूयः पुनर्जगाद ॥ 23 ॥
विश्वास-प्रस्तुतिः
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् ।
गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥ २४॥
मूलम्
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् ।
गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥ २४॥
मल्लिनाथः ...{Loading}...
गुर्वर्थमिति॥ श्रुतस्य पारं दृष्टवाञ्च्छ्रुतपारदृश्वा। ‘दृशेः क्वनिप्’(पा3।2।94) इति क्वनिप्। गुर्वर्थं गुरुदक्षिणार्थं यथा तथाऽर्थी याचकः। विशेषणद्वयेनाप्यस्याप्रत्याख्येयत्वमाह। रघोः सकाशात् कामं मनोरथमनवाप्याप्राप्य वदान्यान्तरं तात्रन्तरं गतः। ‘स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे’ इत्यमरः। इत्येवंरेूपोऽयं परीवादस्यापवादस्य नवो नूतनः प्रथमोऽवतार आविर्भावो मे मा भून्माऽस्तु। ‘रघोः’ इति स्वनामग्रहणं संभावितत्वद्योतनार्थम्। तथा च(भ.गी.2।34)-‘संभावितस्य चाकीर्तिर्मरणादतिरिच्यते’ इति भावः ॥ 24 ॥
विश्वास-प्रस्तुतिः
स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्निगारे ।
द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥ २५॥
मूलम्
स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्निगारे ।
द्वित्राण्यहान्यर्हसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ॥ २५॥
मल्लिनाथः ...{Loading}...
स इति॥ स त्वं महिते पूजिते प्रशस्ते प्रसिद्धे मदीयेऽग्न्यगारे त्रेताग्निशालायां चतुर्थोऽग्निरिव वसन् द्वित्राणि द्वे त्रीणि वाऽहानि दिनानि। ‘संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये’(पा.2।2।25) इति बहुव्रीहिः। ‘बहुव्रीहौ संख्येये डजबहुगणात्’(पा.5।4।73) इति डच्प्रत्ययः समासान्तः। सोढुमर्हसि। हे अर्हन्मान्य! त्वदर्थं तव प्रयोजनं साधयितुं यावद्यते यतिष्ये। ‘यावत्पुरानिपातयोर्लट्’(पा.3।3।4) इति भविष्यदर्थे लट् ॥ 25 ॥
विश्वास-प्रस्तुतिः
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा ।
गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥ २६॥
मूलम्
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा ।
गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥ २६॥
मल्लिनाथः ...{Loading}...
तथेतीति॥ अग्रजन्मा ब्राह्मणः प्रतीतः प्रीतः सन्,तस्य रघोरवितथममोघं संगरं प्रतिज्ञाम्। ‘अथ प्रतिज्ञाजिसंविदापत्सु संगरः’ इत्यमरः। ‘तां गिरम्’ इति केचित्पठन्ति। तथेति प्रत्यग्रहीत्। रघुरपि गां भूमिमात्तसारां गृहीतधनामवेक्ष्य कुबेरादर्थं निष्क्रष्टुमाहर्तुं चकम इयेष ॥ 26 ॥
विश्वास-प्रस्तुतिः
वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु ।
मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥ २७॥
मूलम्
वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु ।
मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥ २७॥
मल्लिनाथः ...{Loading}...
वसिष्ठेति॥ वसिष्ठस्य यन्मन्त्रेणोक्षणमभिमन्त्र्य प्रोक्षणं तज्जात्प्रभावात् सामर्थ्याद्धेतोः। उदन्वदाकाशमहीधरेषूदन्वत्युदधावाकाशे महीधरेषु वा। मरुत्सखस्य। मरुतः सखेति तत्पुरुषो बहुव्रीहौ समासान्ताभावात्। ततो वायुसहायस्येति लभ्यते। वारीणां वाहको बलाहकः। पृषोदरादित्वात्साधुः,तस्येव मेघस्येव। तद्रथस्य गतिः संचारो न विजघ्ने न विहता हि ॥ 27 ॥
विश्वास-प्रस्तुतिः
अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् ।
सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥ २८॥
मूलम्
अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् ।
सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥ २८॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ प्रदोषे रजनीमुखे। तत्काले यानाधिरोहणविधानात्। प्रयतो धीरो रघुः। समन्ताद्भवः सामन्तः राजमात्रमिति संभावनयैव कैलासनाथं कुबेरं तरसा बलेन जिगीषुर्जेतुमिच्छुः सन्। कल्पितं सज्जितं शस्त्त्रं गर्भे यस्य तं रथमधिशिश्ये। रथे शयितवानित्यर्थः। ‘अधिशीङ्स्थासां कर्म’(पा.1।4।46) इति कर्मत्वम् ॥ 28 ॥
विश्वास-प्रस्तुतिः
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोषगृहे नियुक्ताः ।
हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥ २९॥
मूलम्
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोषगृहे नियुक्ताः ।
हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥ २९॥
मल्लिनाथः ...{Loading}...
प्रातरिति॥ प्रातः प्रयाणाभिमुखाय तस्मै रघवे कोषगृहे नियुक्ता अधिकृता भाण्डागारिकाः सविस्मयाः सन्तः कोषगृहस्य मध्ये नभस्तो नभसः। पञ्चम्यास्तसिल्प्रत्ययः। पतितां हिरण्मयीं सुवर्णमयीम्। ‘दाण्डिनायन-’ (पा.6।4।174) इत्यादिना निपातनात्साधुः। वृष्टिं शशंसुः कथयामासुः ॥ 29 ॥
विश्वास-प्रस्तुतिः
स भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् ।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥ ३०॥
मूलम्
स भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् ।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥ ३०॥
मल्लिनाथः ...{Loading}...
तमिति॥ भूपती रघुः। अभियास्यमानादभिगमिष्यमाणात् कुबेराल्लब्धम्। वज्रेण कुलिशेन भिन्नं सुमेरोः पादं प्रत्यन्तपर्वनमिव स्थितम्। ‘पादाः प्रत्यन्तपर्वताः’ इत्यमरः। ‘शृङ्गम्’ इति क्वचित्पाठः। तं भासुरं भास्वरम्। ‘भञ्जभासमिदो घुरच्’(पा.3।2।161) इति घुरच्। हेमराशिं समस्तं कृत्स्नमेव कौत्साय दिदेश ददौ। न तु चतुर्दशकोटिमात्रमित्येवकारार्थः ॥ 30 ॥
विश्वास-प्रस्तुतिः
जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतानभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥ ३१॥
मूलम्
जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतानभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥ ३१॥
मल्लिनाथः ...{Loading}...
जनस्येति॥ तावर्थि-दातारौ द्वावपि साकेतनिवासिनोऽयोध्यावासिनः। ‘साकेतः स्यादयोध्यायां कोसला नन्दिनी च सा’ इति यादवः। जनस्याभिनन्द्यसत्त्वौ स्तुत्यव्यवसायावभूताम्। ‘द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु’ इत्यमरः। कौ द्वौ? गुरुप्रदेयादधिकेऽतिरिक्तद्रव्ये निःस्पृहोऽर्थी। अर्थिकामादर्थिमनोरथादधिकं प्रददातीति तथोक्तः। ‘प्रे दाज्ञः’। (पा.3।2।6) इति कप्रत्ययः। नृपश्च ॥ 31 ॥
विश्वास-प्रस्तुतिः
अथोष्ट्रवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना महर्षिः ।
स्पृशन्करेणानतपूर्वकायं संप्रस्थितो वाचमुवाच कौत्सः ॥ ३२॥
मूलम्
अथोष्ट्रवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना महर्षिः ।
स्पृशन्करेणानतपूर्वकायं संप्रस्थितो वाचमुवाच कौत्सः ॥ ३२॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ प्रीतमना महर्षिः कौत्सः संप्रस्थितः प्रस्थास्यमानः सन्। ‘आशंसायां भूतवञ्च’(पा.3।3।132) इति भविष्यदर्थे क्तः। उष्ट्राणां क्रमेलकानां वामीनां वडवानां च शतैर्वाहितार्थं प्रापितधनमानतपूर्वकायम्। विनयनम्रमित्यर्थः। प्रजेश्वरं रघुं करेण स्पृशन्,वाचमुवाच ॥ 32 ॥
विश्वास-प्रस्तुतिः
किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् ।
अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥ ३३॥
मूलम्
किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् ।
अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥ ३३॥
मल्लिनाथः ...{Loading}...
किमिति॥ वृत्ते स्थितस्य। ‘न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा। सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम्॥’ इति कामन्दकः। तस्मिन्वृत्ते स्थितस्य प्रजानामधिपतेर्नृपस्य भूः कामान्सूत इति कामसूर्यदि। ‘सत्सूद्विषद्रह-’(पा.3।2।61) इत्यादिना क्विप्। अत्र कामप्रसवने किं चित्रम्? न चित्रमित्यर्थः। किंतु तव प्रभावो महिमा त्वचिन्तनीयः। येन त्वया द्यौरपि मनीषितमभिलषितं दुग्धा। दुहेर्द्विकर्मकत्वादप्रधाने कर्मणि क्तः। ‘प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥’ इति स्मरणात् ॥ 33 ॥
विश्वास-प्रस्तुतिः
आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥ ३४॥
मूलम्
आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥ ३४॥
मल्लिनाथः ...{Loading}...
आशास्यमिति॥ सर्वाणि श्रेयांसि शुभान्यधिजग्मुषः प्राप्तवतस्ते तवान्यत् पुत्रातिरिक्तमाशास्यमाशीः साध्यमाशंसनीयं वा पुनरुक्तभूतम्। सर्वं सिद्धमित्यर्थः। किं त्वीड्यं स्तुत्यं भवन्तं भवतः पितेवात्मगुणानुरूपम्। त्वया तुल्यगुणमित्यर्थः। पुत्रं लभस्व प्राप्नुहि ॥ 34 ॥
विश्वास-प्रस्तुतिः
इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् ।
राजापि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोकः ॥ ३५॥
मूलम्
इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् ।
राजापि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोकः ॥ ३५॥
मल्लिनाथः ...{Loading}...
इत्थमिति॥ अग्रजन्मा ब्राह्मणः। ‘अग्रजन्मा द्विजे श्रेष्ठे भ्रातरि ब्रह्मणि स्मृतः’ इति विश्वः। इत्थं राज्ञ आशिषं प्रयुज्य दत्त्वा गुरोः सकाशं समीपं प्रतीयाय प्राप। राजाऽपि। जीवलोको जीवसमूहः। ‘जीवः प्राणिनि गीष्पतौ’ इति विश्वः। अर्गादालोकं प्रकाशमिव। ‘चैतन्यम्’ इति पाठे ज्ञानम्। तस्मादृषेराशु सुतं लेभे प्राप ॥ 35 ॥
विश्वास-प्रस्तुतिः
ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।
अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ॥ ३६॥
मूलम्
ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।
अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ॥ ३६॥
मल्लिनाथः ...{Loading}...
ब्राह्म इति॥ तस्य रघोर्देवी महिषी ब्राह्मे। ‘तस्येदम्’(पा.4।3।120)इत्यण्। ब्रह्मदेवताकेऽभिजिन्नामके मुहूर्ते किलेषदसमाप्तं कुमारं कुमारकल्पं स्कन्दसदृशम्। ‘ईषदसमाप्तौ-’(पा.5।6।67) इत्यादिना कल्पप्प्रत्ययः। कुमारं पुत्रं सुषुवे। ‘कुमारो बालके स्कन्दे’ इति विश्वः। अतो ब्राह्ममुनहूर्तोत्पन्नत्वात् पिता रघुर्ब्रह्मणो विधेरेव नाम्ना तमात्मजन्मानं पुत्रमज मजनामकं चकार। ‘अजो हरौ हरे कामे विधौ छागे रघोः सुते’ इति विश्वः ॥ 36 ॥
विश्वास-प्रस्तुतिः
रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥ ३७॥
मूलम्
रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥ ३७॥
मल्लिनाथः ...{Loading}...
रूपमिति॥ ओजस्वि तेजस्वि बलिष्ठं वा। ‘ओजस्तेजसि धातूनामवष्टम्भप्रकाशयोः। ओजो बले च दीप्तौ च’ इति विश्वः। रूपं वपुः। ‘अथ रूपं नपुंसकम्। स्वभावाकृतिसौन्दर्यवपुषि श्लोकशब्दयोः।’ इति विश्वः। तदेव पैतृकमेव । वीर्यं शौर्यं तदेव। नैसर्गिकं स्वाभाविकमुन्नतत्वं तदेव। तादृशमेवेत्यर्थः। कुमारो बालकः। प्रवर्तित उत्पादितो दीपः प्रदीपात् स्वोत्पादकदीपादिव। स्वात्स्वकीयात्। ‘पूर्वादिभ्यो नवभ्यो वा’(पा.7।1।16) इति स्माद्भावो वैकल्पिकः। कारणाज्जनकान्न बिभिदे भिन्नो नाभूत्। सर्वात्मनातादृश एवाभूदित्यर्थः ॥ 37 ॥
विश्वास-प्रस्तुतिः
उत्पातविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् ।
श्रीः साभिलाषापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥ ३८॥
मूलम्
उत्पातविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् ।
श्रीः साभिलाषापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥ ३८॥
मल्लिनाथः ...{Loading}...
उपात्तेति॥ गुरुभ्यो विधिवद्यथाशास्त्त्रमुपात्तविद्यं लब्धविद्यम्। यौवनस्योद्भेदादाविर्भावाद्धेतोर्विशेषेण कान्तं सौम्यं तमजं प्रति साभिलाषापि श्रीः। धीरा स्थिरोन्नतचित्ता। ‘स्थिरा चित्तोन्नतिर्या तु तद्धैर्यमिति संज्ञितम्’ इति भूपालः। कन्या पितुरिव। गुरोरनुज्ञामाचकाङ्क्षेयेष। यौवराज्यार्होऽभूदित्यर्थः। ‘अनुज्ञा’शब्दात्पितृपारतन्त्त्र्यमुपमासामर्थ्यात्पाणिग्रहणयोग्यता च ध्वन्यते ॥ 38 ॥
विश्वास-प्रस्तुतिः
अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः ।
आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥ ३९॥
मूलम्
अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः ।
आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥ ३९॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ स्वसुर्भगिन्या इन्दुमत्याः स्वयंवरार्थं कुमारस्याजस्यानयन उत्सुकेन क्रथकैशिकानां विदर्भदेशानामीश्वरेण स्वामिना भोजेन राज्ञाप्तो हितो दूतो रघवे विसृष्टः प्रेषितः। क्रियामात्रयोगेऽपि चतुर्थी ॥ 39 ॥
विश्वास-प्रस्तुतिः
तं श्लाघ्यसंबन्धमसौ विचिन्त्य दारक्रियायोग्यदशश्च पुत्रम् ।
प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ॥ ४०॥
मूलम्
तं श्लाघ्यसंबन्धमसौ विचिन्त्य दारक्रियायोग्यदशश्च पुत्रम् ।
प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ॥ ४०॥
मल्लिनाथः ...{Loading}...
तमिति॥ असौ रघुस्तं भोजं श्लाघ्यसंबन्धमनूचानत्वादिगुणयोगात्स्पृहणीयसंबन्धं विचिन्त्य विचार्य पुत्रं च दारक्रियायोग्यदशं विवाहयोग्यवयसं विचिन्त्य ससैन्यमेनं पुत्रमृद्धा विदर्भाधिपस्य धानी। ‘करणाधिकरणयोश्च’(पा.3।3।117) इत्यधिकरणे ल्युट्प्रत्ययः। राज्ञां धानीति विग्रहः॥ 40 ॥
विश्वास-प्रस्तुतिः
तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभिः ।
मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः ॥ ४१॥
मूलम्
तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभिः ।
मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः ॥ ४१॥
मल्लिनाथः ...{Loading}...
तस्येति॥ उपकार्यासु राजयोग्येषु पटभवनादिषु। ‘सौधोऽस्त्री राजसदनमुपकार्योपकारिका’ इत्यमरवचनव्याख्याने क्षीरस्वामी। उपक्रियत उपकरोति वा पटमण्डपादि राजसदनमिति। रचिता उपचाराः शयनादयो येषु ते तथोक्ताः। जानपदानां जनपदेभ्य आगतानामुपदाभिरुपायनैः। वन्या वने भवा इतरे येषां ते वन्येतराः। अवन्या इत्यर्थः। ‘न बहुव्रीहौ’(पा.1।1।29) इति सर्वनामसंज्ञानिषेधः। तत्पुरुषे सर्वनामसंज्ञा दुर्वारैव। तस्य मनुजेन्द्रसूनोरजस्य मार्गे निवासा वासनिका उद्यानान्याक्रीडाः। ‘पुमानाक्रीड उद्यानम्’ इत्यमरः। तान्येव विहारा विहारस्थानानि तत्कल्पाः। तत्सदृशा इत्यर्थः। ‘ईषदसमाप्तौ-’(पा.5।3।67) इति कल्पप्प्रत्ययः। बभूवुः ॥ 41 ॥
विश्वास-प्रस्तुतिः
स नर्मदारोधसि सीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले ।
निवेशयामास विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥ ४२॥
मूलम्
स नर्मदारोधसि सीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले ।
निवेशयामास विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥ ४२॥
मल्लिनाथः ...{Loading}...
स इति॥ विलङ्घिताध्वाऽतिक्रान्तमार्गः सोऽजः सीकरार्द्रैः। शीतलैरित्यर्थः। मरुद्भिर्वातैरानर्तिताः कम्पिता नक्तमालाश्चिरबिल्वाख्यवृक्षभेदाः। ‘चिरबिल्वो नक्तमालः करजश्च करञ्जके’ इत्यमरः। यस्मिंस्तस्मिन्। निवेशार्ह इत्यर्थः। नर्मदाया रोधसि रेवायास्तीरे क्लान्तं श्रान्तं रजोभिर्धूसराः केतवो ध्वजा यस्य तत्सैन्यं निवेशयामास ॥ 42 ॥
विश्वास-प्रस्तुतिः
अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः ।
निर्धौतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज ॥ ४३॥
मूलम्
अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः ।
निर्धौतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज ॥ ४३॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथोपरिष्टादूर्ध्वम्। ‘उपर्युपरिष्टात्’(पा.5।3।31) इति निपातः। भ्रमद्भिः। मदलोभादिति भावः। भ्रमरैः प्रागुन्मज्जनात्पूर्वं सूचितो ज्ञापितोऽन्तः सलिले प्रवेशो यस्य स तथोक्तः। निर्धौतदाने क्षालितमदे अत एव,अमले गण्डिभित्ती यस्य स तथोक्तः। ‘दानं गजमदे त्यागे’ इति शाश्वतः। प्रशक्तौ गण्डौ गण्डभित्ती। ‘प्रशंसावचनैश्च’(पा.2।1।66) इति समासः। ‘भित्ति’शब्दः प्रशस्तार्थः। तथा च गणरत्नमहोदधौ-ौ’मतल्लिकोद्धमिश्राः स्युः प्रकाण्डस्थलभित्तयः’ इति। भित्तिः प्रदेशो वा । ‘भित्तिः प्रदेशे कुड्येऽपि’ इति विश्वः। निर्धौतदानेनामला गण्डभित्तिर्यस्येति वा। वन्यो गजः सरित्तो नर्मदायाः सकाशात्। पञ्चम्यास्तसिल्प्रत्ययः। उन्ममज्जोत्थितः॥ 43 ॥
विश्वास-प्रस्तुतिः
निःशेषविक्षालितधातुनापि वप्रक्रियामृक्षवतस्तटेषु ।
नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ॥ ४४॥
मूलम्
निःशेषविक्षालितधातुनापि वप्रक्रियामृक्षवतस्तटेषु ।
नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ॥ ४४॥
मल्लिनाथः ...{Loading}...
निःशेषेति॥ कथंभूतो गजः? निःशेषविक्षालितधातुनापि धौतगैरिकादिनापि। नीलाभिरूर्ध्वाभी रेखाभिस्तटाभिघातजनिताभिः शबलेन कर्वुरेण। ‘चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे’ इत्यमरः। अश्मभिः पाषाणैर्विकुण्ठितेन कुण्ठीकृतेन दन्तद्वयेन ऋक्षवान्नाम कश्चित्तत्रत्यः पर्वतः तस्य तटेषु वप्रक्रियां वप्रक्रीडाम्। ‘उत्खातकेलिः शृङ्गाद्यैर्वप्रक्रीडा निगद्यते’ इति शब्दार्णवः। शंसन् कथयन्। सूचयन्नित्यर्थः। युग्मम्॥ 44 ॥
विश्वास-प्रस्तुतिः
संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् ।
बभौ स भिन्दन्बृहतस्तरंगान्वार्यर्गलाभङ्ग इव प्रवृत्तः ॥ ४५॥
मूलम्
संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् ।
बभौ स भिन्दन्बृहतस्तरंगान्वार्यर्गलाभङ्ग इव प्रवृत्तः ॥ ४५॥
मल्लिनाथः ...{Loading}...
संहारेति॥ संहारविक्षेपयोः संकोचनप्रसारणयोर्लघुक्रियेण क्षिप्रव्यापारेण। ‘लघु क्षिप्रमरं द्रुतम्’ इत्यमरः। हस्तेन शुण्डादण्डेन। ‘हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि’ इति विश्वः। सशब्दं सघोषं बृहतस्तरंगान्भिन्दन्विदारयंस्तीराभिमुखः स गजः वारी गजबन्धनस्थानम्। ‘वारी तु गजबन्धनी’ इति यादवः। वार्या अर्गलाया विष्कम्भस्य भङ्गे भञ्जने प्रवृत्त इव बभौ ॥ 45 ॥
विश्वास-प्रस्तुतिः
शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् ।
पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥ ४६॥
मूलम्
शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् ।
पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥ ४६॥
मल्लिनाथः ...{Loading}...
शैलेति॥ शैलोपमः स गजः शैवलमञ्जरीणां जालानि वृन्दान्युरसा कर्षन् पश्चात्तटमुत्ससर्प। पूर्वं तेन गजेनोत्पीडितो नुन्नो वारिराशिर्यस्य स सरित्प्रवाहस्तटमुत्ससर्प ॥ 46 ॥
विश्वास-प्रस्तुतिः
तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमेकशान्ता ।
वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः ॥ ४७॥
मूलम्
तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमेकशान्ता ।
वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः ॥ ४७॥
मल्लिनाथः ...{Loading}...
तस्येति॥ तस्यैकनागस्यैकाकिनो गजस्य कपोलभित्त्योर्जलावगाहेन क्षणमात्रं शान्ता निवृत्ता मददुर्दिनश्रीर्मदवर्षलक्ष्मीर्वन्येतरेषां ग्राम्याणामनेकपानां द्विपानां दर्शनेन पुनर्दिदीपे ववृधे ॥ 47 ॥
विश्वास-प्रस्तुतिः
सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् ।
विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥ ४८॥
मूलम्
सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् ।
विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥ ४८॥
मल्लिनाथः ...{Loading}...
सप्तच्छदेति॥ सप्तच्छदस्य वृक्षविशेषस्य क्षीरवत् कटुः सुरभिः प्रवाहः प्रसारो यस्य तम्। ‘कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः’ इति यादवः। असह्यं तदीयं मदमाघ्राय सेनागजेन्द्राः। विलङ्घितस्तिरस्कृत आधोरणानां हस्तिपकानां तीव्रो महान् यत्नो यैस्ते तथोक्ताः सन्तः। ‘आधोरणा हस्तिपका हस्त्यारोहा निषादिनः’ इत्यमरः। विमुखाः पराङ्मुखा बभूवुः ॥ 48 ॥
विश्वास-प्रस्तुतिः
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेननिवेशं तुमुलं चकार ॥ ४९॥
मूलम्
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेननिवेशं तुमुलं चकार ॥ ४९॥
मल्लिनाथः ...{Loading}...
स इति॥ स गजः। छिन्ना बन्धा यैस्ते छिन्नबन्धा द्रुताः पलायिताः युगं वहन्तीति युग्या वाहा यस्मिन्सः। स चासौ शून्यश्च तम्। भग्ना अक्षा रथावयवदारुविशेषाः। ‘अक्षो रथस्यावयवे पाशकेऽप्यक्षमिन्द्रियम्’ इति शाश्वतः। येषां ते भग्नाक्षा अत एव पर्यस्ताः पतिता रथा यस्मिंस्तम्। रामाणां स्त्त्रीणां परित्राणे संरक्षणे विहस्ता व्याकुलाः। ‘विहस्तव्याकुलौ समौ’ इत्यमरः। योधा यस्मिंस्तं सेनानिवेशं शिबिरं क्षणेन तुमुलं संकुलं चकार ॥ 49 ॥
विश्वास-प्रस्तुतिः
तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः ।
निर्वर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः ॥ ५०॥
मूलम्
तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः ।
निर्वर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः ॥ ५०॥
मल्लिनाथः ...{Loading}...
तमिति॥ नृपते राज्ञो वन्यः कर्यवध्य इति श्रुतवान् शास्त्त्राज्ज्ञातवान्। कमार आपततन्मभिधावन्तं तं गजं निवर्तयिष्यन्न तु प्रहरिष्यन्। अत एव नात्यायतमनतिदीर्घँ यथा स्यात्। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। कृष्टशार्ङ्गं ईषदाकृष्टचापः सन्विशिखेन बाणेन कुम्भे जघान। अत्र चाक्षुषः- ‘लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात्। इयं हि श्रीर्ये करिणः’ इति। अत एव ‘युद्धादन्यत्र’ इति द्योतनार्थमेव ‘वन्य’ग्रहणं कृतम् ॥ 50 ॥
विश्वास-प्रस्तुतिः
स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः ।
स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरः प्रपेदे ॥ ५१॥
मूलम्
स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः ।
स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरः प्रपेदे ॥ ५१॥
मल्लिनाथः ...{Loading}...
स इति॥ स गजो विद्धमात्रस्तडितमात्रः किल न तु प्रहृतस्तथापि नागरूपं गजशरीरमुत्सृज्य तेन वृत्तान्तेन विस्मितैस्तद्विस्मितैः सैन्यैर्दृष्टः सन् । स्फुरतः प्रभामण्डलस्य मध्यवर्ति कान्तं मनोहरं व्योमचरं वपुः प्रपेदे प्राप ॥ 51 ॥
विश्वास-प्रस्तुतिः
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः ।
उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः ॥ ५२॥
मूलम्
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः ।
उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः ॥ ५२॥
मल्लिनाथः ...{Loading}...
स इति॥ विलङ्घिताध्वाऽतिक्रान्तमार्गः सोऽजः सीकरार्द्रैः। शीतलैरित्यर्थः। मरुद्भिर्वातैरानर्तिताः कम्पिता नक्तमालाश्चिरबिल्वाख्यवृक्षभेदाः। ‘चिरबिल्वो नक्तमालः करजश्च करञ्जके’ इत्यमरः। यस्मिंस्तस्मिन्। निवेशार्ह इत्यर्थः। नर्मदाया रोधसि रेवायास्तीरे क्लान्तं श्रान्तं रजोभिर्धूसराः केतवो ध्वजा यस्य तत्सैन्यं निवेशयामास ॥ 52 ॥
विश्वास-प्रस्तुतिः
मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।
अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥ ५३॥
मूलम्
मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।
अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥ ५३॥
मल्लिनाथः ...{Loading}...
मतङ्गेति॥ अवलेपमूलाद्गर्वहेतुकात्। ‘अवलेपस्तु गर्वे स्याल्लेपने द्वेषणेऽपि च’ इति विश्वः। मतङ्गस्य मुनेः शापान्तमङ्गजत्वमवाप्तवानस्मि। मां प्रियदर्शनस्य प्रियदर्शनाख्यस्य गन्धर्वपतेर्गन्धर्वराजस्य तनूजं पुत्रम्। ‘स्त्त्रियां मूर्तिस्तनुस्तनूः’ इत्यमरः। ‘तन्वादेर्वा’(पा.3।1।79) इत्यूङिति केचित्। प्रियंवदं प्रियंवदाख्यमवेहि जानीहे। प्रियं वदतीति प्रियंवदः। ‘प्रियवशे वदः खच्’(पा.3।2।38) इति खच्प्रत्ययः ॥ 53 ॥
विश्वास-प्रस्तुतिः
स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् ।
उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥ ५४॥
मूलम्
स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् ।
उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ॥ ५४॥
मल्लिनाथः ...{Loading}...
स इति॥ स महर्षिश्च प्रणतेन मयाऽनुनीतः सन् पश्चान्मृदुतां शान्तिमगच्छत्। तथा हि-जलस्योष्णत्वमग्नेरातपस्य वा संप्रयोगात् संपर्कात्। न तु प्रकृत्योष्णत्वम्। यच्छैत्यं सा प्रकृतिः स्वभावः। विधेयप्राधान्यात् ‘सा’ इति स्त्रीलिङ्गनिर्देशः। महर्षीणां शान्तिरेव स्वभावो न क्रोध इत्यर्थः ॥ 54 ॥
विश्वास-प्रस्तुतिः
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन ।
संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ॥ ५५॥
मूलम्
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन ।
संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ॥ ५५॥
मल्लिनाथः ...{Loading}...
हक्ष्वाक्विति॥ इक्ष्वाकुवंशः प्रभवो यस्य सोऽजो यदा ते कुम्भमयोमुखेन लोहाग्रेण शरेण भेत्स्यति विदारयिष्यति तदा स्वेन वपुषो महिम्ना पुनः संयोक्ष्यसे संगंस्यस इति स तपोनिधिर्मामवोचत् ॥ 55 ॥
विश्वास-प्रस्तुतिः
संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन ।
प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः ॥ ५६॥
मूलम्
संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन ।
प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः ॥ ५६॥
मल्लिनाथः ...{Loading}...
संमोचित इति॥ चिरं प्रार्थितं दर्शनं यस्य तेन सत्त्ववता बलवता त्वयाऽहं शापात्संमोचितो मोक्षं प्रापितः। भवतः प्रतिप्रियं प्रत्युपकारं न कुया चेन्मे स्वपदोपलब्धिः स्वस्थानप्राप्तिः। ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घिवस्तुषु’ इत्यमरः। वृथा स्याद्धि। तदुक्तम्-‘प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम्’ इति ॥ 56 ॥
विश्वास-प्रस्तुतिः
संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् ।
गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ॥ ५७॥
मूलम्
संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् ।
गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ॥ ५७॥
मल्लिनाथः ...{Loading}...
संमोहनमिति॥ हे सखे! ‘सखि’शब्देन समप्राणतोक्ता। यथोक्तम्-‘अत्यागसहनो बन्धुः सदैवानुमतः सुहृत्। एकक्रियं भवेन्मित्रं समप्राणः सखा मतः ॥’ इति॥ प्रयोगसंहारयोर्विभक्तमन्त्रं गान्धर्वं गन्धर्वदेवताकम्। संमोह्यतेऽनेनेति संमोहनं नाम ममास्त्रमादत्स्व गृहाण। यतोऽस्त्रात्प्रयोक्तुरस्त्रप्रयोगिणोऽरिहिंसा न च विजयश्च हस्ते। हस्तगतो विजयो भवतीत्यर्थः॥ 57 ॥
विश्वास-प्रस्तुतिः
अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभूः प्रहरन्नपि त्वम् ।
तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् ॥ ५८॥
मूलम्
अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभूः प्रहरन्नपि त्वम् ।
तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् ॥ ५८॥
मल्लिनाथः ...{Loading}...
अलमिति॥ किं च,मां प्रति ह्रिया प्रहारनिमित्तयाऽलम्। कुतः? यद्यतो हेस्तोस्त्वं मां प्रहरन्नपि मुहूर्तं दयापरः कृपालुरभूः। तस्मादुपच्छन्दयति प्रार्थयमाने मयि त्वया। प्रतिषेधः परिहारः स एव रौक्ष्यं पारुष्यम्। तन्न प्रयोज्यं न कर्तव्यम् ॥ 58 ॥
विश्वास-प्रस्तुतिः
तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः ।
उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् ॥ ५९॥
मूलम्
तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः ।
उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् ॥ ५९॥
मल्लिनाथः ...{Loading}...
तथेति॥ ना सोमश्चन्द्र इव नृसोमः। उपमितसमासः। ‘सोम ओषधिचन्द्रयोः’ इति शाश्वतः। पुरुषश्रेष्ठ इत्यर्थः। अस्त्रविदस्त्रज्ञः सोऽजः। ‘तथा’ इति। सोम उद्भवो यस्याः सा तस्याः सोमोद्भवायाः सरितो नर्मदायाः। ‘रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका’ इत्यमरः। पवित्रं पय उपस्पृश्य पीत्वा। आचम्येत्यर्थः। उदङ्मुखः सन्निगृहीतऽशापान्निवर्तितशापात्। उपकृतादित्यर्थः। तस्मात् प्रियंवदादस्त्रमन्त्रं जग्राह ॥ 59 ॥
विश्वास-प्रस्तुतिः
एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु ।
एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान् ॥ ६०॥
मूलम्
एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु ।
एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान् ॥ ६०॥
मल्लिनाथः ...{Loading}...
एवमिति॥ एवमध्वनि मार्गे दैवयोगाद्दैववशादचिन्त्यहेत्वनिर्धार्यहेत्तुकं सख्यं सखित्वम्। ‘सख्युर्यः’(पा.5।1।126) इति यप्रत्ययः। आसेदुषोः प्राप्तवतोस्तयोर्मध्य एको गन्धर्वश्चैत्ररथस्य कुबेरोद्यानस्य प्रदेशान्। ‘अस्योद्यानं चैत्ररथम्’ इत्यमरः। अपरोऽजः सौराज्येन राजन्वत्तया रम्यान्विदर्भान्विदर्भदेशान् ययौ ॥ 60 ॥
विश्वास-प्रस्तुतिः
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः ।
प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ॥ ६१॥
मूलम्
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः ।
प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ॥ ६१॥
मल्लिनाथः ...{Loading}...
तमिति॥ नगरस्योपकण्ठे समीपे तस्थिवांसं स्थित तमजं तस्याजस्यागमेनागमनेनारूढ उत्पन्नो गुरुः प्रहर्षो यस्य स क्रथकैशिकेन्द्रो विदर्भराजः। प्रवृद्धोर्मिरूर्मिमाली समुद्रश्चन्द्रमिव। प्रत्युज्जगाम ॥ 61 ॥
विश्वास-प्रस्तुतिः
प्रवेश्य चैनं पुनरग्रयायी नीचैस्तथोपाचरदर्पितश्रीः ।
मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥ ६२॥
मूलम्
प्रवेश्य चैनं पुनरग्रयायी नीचैस्तथोपाचरदर्पितश्रीः ।
मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥ ६२॥
मल्लिनाथः ...{Loading}...
प्रवेश्येति॥ एनमजमग्रयीयी। सेवाधर्मेण पुरो गच्छन्नित्यर्थः। नीचैर्नम्रः पुरं प्रवेश्य प्रवेशं कारयित्वा प्रीत्याऽर्पितश्रीस्तथा तेन प्रकारेणोपाचरदुपचरितवान्। यथा येन प्रकारेण तत्र पुरे समेतो मिलितो जनो वैदर्भं भोजमागन्तुं प्राघूर्णिकं मेने। अजं गृहेशं गृहपतिं मेने ॥ 62 ॥
विश्वास-प्रस्तुतिः
तस्याधिकारपुरुषैः प्रणतैः प्रदिष्टां
प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम्।
रम्यां रघुप्रतिनिधिः स नवोपकार्यां
बाल्यात्परामिव दशां मदनोऽध्युवास ॥ ६३॥
मूलम्
तस्याधिकारपुरुषैः प्रणतैः प्रदिष्टां
प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम्।
रम्यां रघुप्रतिनिधिः स नवोपकार्यां
बाल्यात्परामिव दशां मदनोऽध्युवास ॥ ६३॥
मल्लिनाथः ...{Loading}...
तस्येति॥ रघुप्रतिनिधी रघुकल्पः। रघुतुल्य इत्यर्थः। उक्तं च दण्डिना सादृश्यवाचकप्रस्तावे-‘कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि’ इति। सोऽजः प्रणतैर्नमस्कृतवद्भिः। कर्तरि क्तः। तस्य भोजस्याधिकारो नियोगस्तस्य पुरुषैः। अधिकृतैरित्यर्थः। प्रदिष्टां निर्दिष्टां प्राग्द्वारस्य वेद्यां विनिवेशितः प्रतिष्ठापितः पूर्णकुम्भो यस्यास्ताम्। स्थापितमङ्गलकलशामित्यर्थः। रम्यां रमणीयां नवोपकार्यां नूतनं राजभवनम्। ‘उपकार्या राजसद्मन्युपचारचितेऽन्यवत्’ इति विश्वः। मदनो बाल्यात्परां शैशवादनन्तरां दशामिव। यौवनमिवेत्यर्थः। अध्युवासाधिष्ठितवान्। तत्रोषितवानित्यर्थः। ‘उपान्वध्याङ्वसः’(पा.1।4।48) इति कर्मत्वम् ॥ 63 ॥
विश्वास-प्रस्तुतिः
तत्र स्वयंवरसमाहृतराजलोकं
कन्याललाम कमनीयमजस्य लिप्सोः।
भावावबोधकलुषा दयितेव रात्रौ
निद्रा चिरेण नयनाभिमुखी बभूव ॥ ६४॥
मूलम्
तत्र स्वयंवरसमाहृतराजलोकं
कन्याललाम कमनीयमजस्य लिप्सोः।
भावावबोधकलुषा दयितेव रात्रौ
निद्रा चिरेण नयनाभिमुखी बभूव ॥ ६४॥
मल्लिनाथः ...{Loading}...
तत्रेति॥ तत्रोपकार्यायाम्। स्वयंवरनिमित्तं समाहृतः संमेलितो राजलोको येन तत्कमनीयं स्पृहणीयं कन्याललाम कन्यासु श्रेष्ठम्। ‘ललामोऽस्त्री ललामापि प्रभावे पुरुषे ध्वजे। श्रेष्ठभूषाशुण्डशृङ्गपुच्छचिह्नाश्वलिङ्गिषु’ इति यादवः। लिप्सोर्लब्धुमिच्छोः। लभेः सन्नन्तादुप्रत्ययः। अजस्य भावावबोधे पुरुषस्याभिप्रायपरिज्ञाने कलुषाऽसमर्था दयितेव। रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव। ‘राजानं कामिनं चौरं प्रविशन्ति प्रजागराः’ इति भावः। ‘अभिमुखी’शब्दो ङीषन्तश्च्व्यन्तो वा ॥ 64 ॥
विश्वास-प्रस्तुतिः
तं कर्णभूषणनिपीडितपीवरांसं
शय्योत्तरच्छदविमर्दकृशाङ्गरागम् ।
सूतात्मजाः सवयसः प्रथितप्रबोधं
प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥ ६५॥
मूलम्
तं कर्णभूषणनिपीडितपीवरांसं
शय्योत्तरच्छदविमर्दकृशाङ्गरागम् ।
सूतात्मजाः सवयसः प्रथितप्रबोधं
प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥ ६५॥
मल्लिनाथः ...{Loading}...
तमिति॥ कर्णभूषणाभ्यां निपीडितौ पीवरौ2 पीनावंसौ यस्य तम्। शय्याया उत्तरच्छदस्योपर्यास्तरणवस्त्रस्य विमर्देन घर्षणेन कृशो विरलोऽङ्गरागो यस्य तम्। न त्वङ्गनासङ्गादिति भावः। प्रथितप्रबोधं प्रकृष्टज्ञानं तमेनमजं सवयसः समानवयस्का उदारवाचः प्रगल्भगिरः सूतात्मजा बन्दिपुत्राः। ‘वैतालिकाः’ इति वा पाठः। ‘वैतालिका बोधकराः’ इत्यमरः। वाग्भिः स्तुतिपाठैः। उषसि। प्राबोधयन् प्रबोधयामासुः ॥ 65 ॥
विश्वास-प्रस्तुतिः
रात्रिर्गता मतिमतां वर मुञ्च शय्यां
धात्रा द्विधैव ननु धूर्जगतो विभक्ता ।
तामेकतस्तव बिभर्ति गुरुर्विनिद्र-
स्तस्या भवानपरधुर्यपदावलम्बी ॥ ६६॥
मूलम्
रात्रिर्गता मतिमतां वर मुञ्च शय्यां
धात्रा द्विधैव ननु धूर्जगतो विभक्ता ।
तामेकतस्तव बिभर्ति गुरुर्विनिद्र-
स्तस्या भवानपरधुर्यपदावलम्बी ॥ ६६॥
मल्लिनाथः ...{Loading}...
रात्रिरिति॥ हे मतिमतां वर! निर्धारणे षष्टी। रात्रिर्गता। शय्यां मुञ्च। विनिद्रो भवेत्यर्थः। विनिद्रत्वे फलमाह-धात्रेति॥ धात्रा ब्रह्मणा जगतो धूर्भारः ‘धूः स्याद्यानमुखे भारे’ इति यादवः। द्विधैव। द्वयोरेवेत्यर्थः। एवकारस्तृतीयनिषेधार्थः। विभक्ता ननु विभज्य स्थापिता खलु। तत्कितम आह-तां धुरमेकत एककोटौ तव गुरुः पिता विनिद्रः सन् बिभर्ति। तस्या धुरो भवान्। धुरं वहतीति धुर्यो भारवाही। तस्य पदं वहनस्थानम्। अपरं यद्धुर्यपदं तदवलम्बी। ततो विनिद्रो भवेत्यर्थः। न ह्युभयवाह्यमेको वहतीति भावः॥ 66 ॥
विश्वास-प्रस्तुतिः
निद्रावशेन भवताप्यनवेक्षमाणा
पर्युत्सुकत्वमबला निशि खण्डितेव ।
लक्ष्मीर्विनोदयति येन दिगन्तलम्बी
सोऽपि त्वदाननरुचिं विजहाति चन्द्रः ॥ ६७॥
मूलम्
निद्रावशेन भवताप्यनवेक्षमाणा
पर्युत्सुकत्वमबला निशि खण्डितेव ।
लक्ष्मीर्विनोदयति येन दिगन्तलम्बी
सोऽपि त्वदाननरुचिं विजहाति चन्द्रः ॥ ६७॥
मल्लिनाथः ...{Loading}...
निद्रेति॥ चन्द्रारविन्दराजवदनादयो लक्ष्मीनिवासस्थानानीति प्रसिद्धिमाश्रित्योच्यते। निद्रावशेन निद्राधीनेन। स्त्र्यन्तरासङ्गेऽत्र ध्वन्यते। भवता पर्युत्सुः कत्वमपि त्वय्यनुरक्तत्वमपीत्यर्थः। ‘प्रसितोत्सुकाभ्यां तृतीया च’(पा.2।3।44) इति सप्तम्यर्थे तृतीया। ‘अपि’शब्दस्तद्विषयानुरागस्यानपेक्ष्यत्वद्योतनार्थः। निशिखण्डिता भर्तुरन्यासङ्गज्ञानकलुषिताऽबलेव नायिकेव। ‘ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता’(2।25) इति दशरूपके। अनवेक्षमाणाऽविचारयन्ती सती। उपेक्षमाणेत्यर्थः। ‘ह्यनवेक्ष्यमाणा’ इति पाठे निद्रावशेन भवताऽनवेक्ष्यमाणाऽनिरीक्ष्यमाणा। कर्मणि शानच्। लक्ष्मीः प्रयोजककत्रीं। येन। प्रयोज्येन चन्द्रेण। पर्युत्सुकत्वं त्वद्विरहवेदनाम्। ‘कालाक्षमत्वमौत्सुक्यं मनस्तापज्वरादिकृत्’ इत्यलंकारे। विनोदयति निरासयतीति योजना। शेषं पूर्ववत्। नाथस्त्वर्थोपपत्तिमपश्यन्निमं पक्षमुपैक्षिष्ट। लक्ष्मीर्येन चन्द्रेण सह। त्वदाननसदृशत्वादिति भावः। विनोदयति विनोदं करोति। ‘विनोद’शब्दात् ‘तत्करोति तदाचष्टे’(ग.सू.204) इति णिच्प्रत्ययः। सादृश्यदर्शनादयो हि विरहिणां विनोदस्थानानीति भावः। स चन्द्रोऽपि दिगन्तलम्बी पश्चिमाशां गतः सन्। अस्तं गच्छन्नित्यर्थः। अत एव त्वदाननरुचिं त्वन्मुखसादृश्यं विजहाति। त्यजतीत्यर्थः। अतो निद्रां विहाय तां लक्ष्मीमनन्यशरणं परिगृहाणेति भावः ॥ 67 ॥
विश्वास-प्रस्तुतिः
तद्वल्गुना युगपदुन्मिषितेन तावत्-
सद्यः परस्परतुलामधिरोहतां द्वे ।
प्रस्पन्दमानपरुषेतरतारमन्त-
श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥ ६८॥
मूलम्
तद्वल्गुना युगपदुन्मिषितेन तावत्-
सद्यः परस्परतुलामधिरोहतां द्वे ।
प्रस्पन्दमानपरुषेतरतारमन्त-
श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥ ६८॥
मल्लिनाथः ...{Loading}...
तदिति॥ तत्तस्माल्लक्ष्मीपरिग्रहणाद्वल्गुना मनोज्ञेन। ‘वल्गु स्थाने मनोज्ञे च वल्गु भाषितमन्यवत्’ इति विश्वः। युगपत्तावदुन्मिषितेन युगपदेवोन्मीलनेन सद्यो द्वे अपि परस्परतुलामन्योन्यसादृश्यमधिरोहतां प्राप्नुताम्। प्रार्थनायां लोट्। के द्वे? अन्तः प्रस्पन्दमाना चलन्ती परुषेतरा स्निग्धा तारा कनीनिका यस्य तत्तथोक्तम्। ‘तारकाक्ष्णः कनीनिका’ इत्यमरः। तव चक्षुः। अन्तः प्रचलितभ्रमरं चलद्भृङ्गं पद्मं च। युगपदुन्मिषिते सति संपूर्णसादृश्यलाभ इति भावः ॥ 68 ॥
विश्वास-प्रस्तुतिः
वृन्ताच्छ्लथं हरति पुष्पमनोकहानां
संसृज्यते सरसिजैररुणांशुभिन्नैः ।
स्वाभाविकं परगुणेन विभातवायुः
सौरभ्यमीप्सुरिव ते मुखमारुतस्य ॥ ६९॥
मूलम्
वृन्ताच्छ्लथं हरति पुष्पमनोकहानां
संसृज्यते सरसिजैररुणांशुभिन्नैः ।
स्वाभाविकं परगुणेन विभातवायुः
सौरभ्यमीप्सुरिव ते मुखमारुतस्य ॥ ६९॥
मल्लिनाथः ...{Loading}...
वृन्तादिति॥ विभातवायुः प्रभातवायुः स्वाभाविकं नैसर्गितं ते तव मुखमारुतस्य निःश्वासपवनस्य सौरभ्यम्। तादृक्सौगन्ध्यमित्यर्थः। परगुणेनान्यदीयगुणेन। सांक्रामिकगन्धेनेत्यर्थः। ईप्सुराप्नुमिच्छुरिव। ‘आप्ज्ञप्यृधामीत्’ (पा.7।4।55) इतीकारादेशः। अनोकहानां वृक्षाणां श्लथं शिथिलं पुष्पं वृन्तात् प्रसवबन्धनात्। ‘वृन्तं प्रसवबन्धनम्’ इत्यमरः। हरत्यादत्ते। अरुणांशुभिन्नैस्तरणिकिरणोद्बोधितैः सरसि जातैः सरसिजैः कमलैः सह। ‘तत्पुरुषे कृति बहुलम्’(पा.6।3।14) इति सप्तम्या अलुक्। संसृज्यते संगच्छते। सृजेर्दैवादिकात्कर्तरि लट् ॥ 69 ॥
विश्वास-प्रस्तुतिः
ताम्रोदरेषु पतितं तरुपल्लवेषु निर्धौतहारगुलिकाविशदं हिमाम्भः आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिरिव त्वदीयम् ॥ ७०॥
मूलम्
ताम्रोदरेषु पतितं तरुपल्लवेषु निर्धौतहारगुलिकाविशदं हिमाम्भः आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिरिव त्वदीयम् ॥ ७०॥
मल्लिनाथः ...{Loading}...
ताम्रेति॥ ताम्रोदरेष्वरुणाभ्यन्तरेषु तरुपल्लवेषु पतितं निर्धौता या हारगुलिका मुक्तामणयस्तद्वद्विशदं हिमाम्भो लब्धपरभागतया लब्धोत्कर्षतया। ‘परभागो गुणोत्कर्षे’ इति यादवः। अधरोष्ठे त्वदीयं सदशनार्चिर्दन्तकान्तिसहितं लीलास्मितमिवाभाति शोभते ॥ 70 ॥
विश्वास-प्रस्तुतिः
यावत्प्रतापनिधिराक्रमते न भानु-
रह्नाय तावदरुणेन तमो निरस्तम् ।
आयोधनाग्रसरतां त्वयि वीर याते
किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति ॥ ७१॥
मूलम्
यावत्प्रतापनिधिराक्रमते न भानु-
रह्नाय तावदरुणेन तमो निरस्तम् ।
आयोधनाग्रसरतां त्वयि वीर याते
किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति ॥ ७१॥
मल्लिनाथः ...{Loading}...
यावदिति॥ प्रतापनिधिस्तेजोनिधिर्भानुर्यावन्नाक्रमते नोद्गच्छति। ‘आङउद्गमने’(पा.1।3।40) इत्यात्मनेपदम्। तावत्। भानावनुदित एवेत्यर्थः। अह्नाय झिटिति। ‘द्राग्झटित्यञ्जसाह्राय’ इत्यमरः। अरुणेनानूरुणा। ‘सूर्यसूतोऽरुणोऽनूरुः’ इत्यमरः। तमो निरस्तम्। तथा हि- हे वीर। त्वय्यायोधनेषु युद्धेषु। ‘युद्धमायोधनं जन्यम्’ इत्यमरः। अग्रसरतां पुरःसरतां याते सति तव गुरुः पिता रिपून् स्वयमुच्छिनत्ति किं वा? नोच्छिनत्त्येवेत्यर्थः। न खलु योग्यपुत्रन्यस्तभाराणां स्वामिनां स्वयं व्यापारखेद इति भावः ॥ 71 ॥
विश्वास-प्रस्तुतिः
शय्यां जहत्युभयपक्षविनीतनिद्राः
स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ।
येषां विभाति तरुणारुणरागयोगा-
द्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ॥ ७२॥
मूलम्
शय्यां जहत्युभयपक्षविनीतनिद्राः
स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ।
येषां विभाति तरुणारुणरागयोगा-
द्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ॥ ७२॥
मल्लिनाथः ...{Loading}...
शय्यामिति॥ उभाभ्यां पक्षाभ्यां पार्श्वाभ्यां विनीताऽपगता निद्रा येषां त उभयपक्षविनीतनिद्राः। अत्र समासविषय ‘उभ’शब्दस्थाने ‘उभय’ शब्दप्रयोग एव साधुरित्यनुसंधेयम्। यथाह कैयटः-’-“उभादुदात्तो नित्यम्” इति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय ‘उभ’शब्दस्य प्रयोगो मा भूत्। ‘उभय’शब्दस्यैव यथा स्यात्। उभयपुत्र इत्यादि भवति’ इति। मुखराण्युत्थानचलनाच्छब्दायमानानि शृङ्खलानि निगडानि कर्षन्तीति तथोक्तास्ते तव स्तम्बे रमन्त इति स्तम्बेरमा हस्तिनः। ‘स्तम्बकर्णयो रमिजपाः’(पा.3।2।13)इत्यच्प्रत्ययः। ‘हस्तिसूचकयोः’(वा.1994)इति वक्तव्यात्। ‘इभः स्तम्बेरमः पद्मी’इत्यमरः। ‘तत्पुरुषे कृति बहुलम्’(पा.6।3।14) इति सप्तम्या अलुक्। शय्यां जहति त्यजन्ति येषां स्तम्बेरमाणाम्। दन्ताः कोशाः इव दन्तकोशाः। दन्तकुडम्भलास्तरुणारुणरागयोगाद्बालार्कारुणसंपर्काद्धेतोर्भिन्नाद्रागैरिकतटा इव विभान्ति। धातुरक्ता इव भान्तीत्यर्थः॥ 72 ॥
विश्वास-प्रस्तुतिः
दीर्घेष्वमी नियमिताः पटमण्डपेषु
निद्रां विहाय वनजाक्ष वनायुदेश्याः ।
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि
लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥ ७३॥
मूलम्
दीर्घेष्वमी नियमिताः पटमण्डपेषु
निद्रां विहाय वनजाक्ष वनायुदेश्याः ।
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि
लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥ ७३॥
मल्लिनाथः ...{Loading}...
दीर्घेष्विति॥ हे वनजाक्ष नीरजाक्ष! ‘वनं नीरं वनं सत्त्वम्’ इति शाश्वतः। दीर्घेषु पटमण्डपेषु नियमिता बद्धा वनायुदेश्या वनायुदेशे भवाः। ‘पारसीका वनायुजाः’ इति हलायुधः। अमी वाहा अश्वा निद्रां विहाय पुरोगतानि लेह्यान्यास्व्नाद्यानि सैन्धवशिलाशकनलानि। ‘सैन्धवोऽस्त्त्री सितशिवं माणिमन्थं च सिन्धुजे’ इत्यमरः। वक्त्रोष्मणा मलिनयन्ति मलिनानि कुर्वन्ति। उक्तं च सिद्धयोगसंग्रहे-‘पूर्वाह्णकाले चाश्वानां प्रयाशो लवणं हितम्। शूलानाहविबन्धघ्नं लवणं सैन्धवं वरम् ॥’ इत्यादि ॥ 73 ॥
विश्वास-प्रस्तुतिः
भवति विरलभक्तिर्म्लानपुष्पोपहारः
स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः ।
अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्ता-
मनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः ॥ ७४॥
मूलम्
भवति विरलभक्तिर्म्लानपुष्पोपहारः
स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः ।
अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्ता-
मनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः ॥ ७४॥
मल्लिनाथः ...{Loading}...
भवतीति॥ म्लानः पुष्पोपहारः पुष्पपूजा म्लानत्वादेव विरलभक्तिर्विरलरचनो भवति। प्रदीपाश्च स्वकिरणानां परिवेषस्य मण्डलस्योद्भेदेन स्फुरणेन शून्या भवन्ति,निस्तेजस्का भवन्तीत्यर्थः। अपि चायं मञ्जुवाङ्मधुरवचनः पञ्चरस्थस्ते तव शुकस्त्वत्प्रबोधनिमित्ते प्रयुक्तामुञ्चारितां नोऽस्माकं गिरं वाणीमनुवदति,अनुकृत्य वदतीत्यर्थः। इत्थं प्रभातलिङ्गानि वर्तन्ते, अतः प्रबोद्धव्यमिति भावः ॥ 74 ॥
विश्वास-प्रस्तुतिः
इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः
सपदि विगतनिद्रस्तल्पमुज्झांचकार ।
मदपटुनिनदद्भिर्बोधितो राजहंसैः
सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥ ७५॥
मूलम्
इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः
सपदि विगतनिद्रस्तल्पमुज्झांचकार ।
मदपटुनिनदद्भिर्बोधितो राजहंसैः
सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥ ७५॥
मल्लिनाथः ...{Loading}...
इतीति॥ इतीत्थँ विरचितवाग्भिर्बन्दिपुत्रैर्वैतालिकैः। ‘पुत्र’ग्रहणं समानवयस्कत्वद्योतनार्थम्। सपदि विगतनिद्रः कुमारः। तल्पं शय्याम्। ‘तल्पं शय्याट्टदारेषु’ इत्यमरः। उज्झांचकार विससर्ज। ‘इजादेश्च गुरुमतोऽनृच्छः’ (पा.3।1।36) इत्याम्प्रत्ययः। कथमिव? मदेन पटु मधुरं निनदद्भी राजहंसैर्बोधितः सुप्रतीकाख्यः सुरगज ईशानदिग्गजः। गङ्गाया इदं गाङ्गम्। सैकतं पुलिनमिव। ‘तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्’ इत्यमरः। ‘सिकताशर्कराभ्यां च’(पा.5।2।104) इत्यण्प्रत्ययः। ‘सुप्रतीक’ग्रहणं प्रायशः कैलासवालिनस्तस्य नित्यं गङ्गातटविहारसंभवादित्यनुसंधेयम् ॥ 75 ॥
विश्वास-प्रस्तुतिः
अथ विधिमवसाय्य शास्त्रदृष्टं
दिवसमुखोचितमञ्चिताक्षिपक्ष्मा ।
कुशलविरचितानुकूलवेशः
क्षितिपसमाजमगात्स्वयंवरस्थम् ॥ ७६॥
मूलम्
अथ विधिमवसाय्य शास्त्रदृष्टं
दिवसमुखोचितमञ्चिताक्षिपक्ष्मा ।
कुशलविरचितानुकूलवेशः
क्षितिपसमाजमगात्स्वयंवरस्थम् ॥ ७६॥
मल्लिनाथः ...{Loading}...
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतावजस्वयंवराभिगमनो नाम पञ्चमः सर्गः ।
अथेति॥ अथोत्थानानन्तरम्। अञ्चितानि चारुण्यक्षिपक्ष्माणि यस्य सोऽजः शास्त्रे दृष्टमवगतं दिवसमुखोचितं प्रातःकालोचितं विधिमनुष्ठानमवसाय्य समाप्य। स्ततेर्ण्यन्ताल्लयम्। कुशलैः प्रसाधनदक्षैर्विरचितोऽनुकूलः स्वयंवरोचितो वेषो नेपथ्यं यस्य स तथोक्तः सन् स्वयंवरस्थं क्षितिपसमाजं राजसमूहमगादगमत्-‘इणो गा लुङि’(पा.2।4।45)इति गादेशः। पुष्पिताग्रावृत्तमेतत्। तल्लक्षणम्-‘अयुजि नयुगरेफलो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा’ इति॥ 76 ॥
इति श्रीकालिदासकृते रघुवंशे महाकाव्ये पञ्चमः सर्गः ॥