अनुचर्या
+++(अ५)+++
दम्पतिभ्याम्
विश्वास-प्रस्तुतिः
अथ प्रजानाम् अधिपः प्रभाते
जाया-प्रतिग्राहित-गन्ध-माल्यम्।
वनाय पीत-प्रतिबद्ध-वत्सां
यशोधनो धेनुम् ऋषेर् मुमोच ॥ १ ॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रभाते प्रातःकाले जायया सुदक्षिणया प्रतिग्राहयित्र्या। प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या। तां तथोक्तम्। पीतं पानमस्यास्तीति पीतः। पीतवानित्यर्थः। ‘अर्शआदिभ्योऽच्’(पा.5।2।127) इत्यच्प्रत्ययः। ‘पीता गावो भुक्ता ब्राह्मणाः’ इति महाभाष्ये दर्शनात्। पीतः प्रतिबद्धो वत्सो यस्यास्तामृषेर्धेनुं वनाय वनं गन्तुम्। ‘क्रियार्थोपपद-’(पा.2।3।14) इत्यादिना चतुर्थी। मुमोच मुक्तवान्। ‘जायां’ पदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसंधेयम्। तथा हि श्रुतिः-‘पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम्। तस्यां पुनर्नवो भूत्वा दशमे मासि जायते। तज्जाया जाया भवति यदस्यां जायते पुनः।’ इति। ‘यशोधन’ इत्यनेन पुत्रवत्ताकीर्तिलोभाद्राजानर्हे गोरक्षणे प्रवृत्त इति गम्यते। अस्मिन्सर्गे वृत्तमुपजातिः-‘अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः’इति ॥ 1 ॥
विश्वास-प्रस्तुतिः
तस्याः खुर-न्यास-पवित्र-पांसुम्
अपांसुलानान् धुरि कीर्तनीया +++(राज्ञी)+++ ।
मार्गम् मनुष्येश्वर-धर्मपत्नी
श्रुतेर् इवार्थं स्मृतिर् अन्वगच्छत् ॥ २ ॥+++(र५ अ५)+++
मल्लिनाथः ...{Loading}...
तस्या इति॥ पांसवो दोषा आसां सन्तीति पांसुलाः स्वैरिण्यः। ‘स्वैरिणी पांसुला’ इत्यमरः। ‘सिध्मादिभ्यश्च’(पा.5।2।97) इति लच्प्रत्ययः। अपांसुलानां पतिव्रतानां धुर्यग्रे कीर्तनीया परिगणनीया मनुष्येश्वरधर्मपत्नी। खुरन्यासैः पवित्राः पांसवो यस्य तम्। ‘रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः’ इत्यमरः। तस्या धेनोर्मार्गम्। स्मृतिर्मन्वादिवाक्यं श्रुतेर्वेदवाक्यस्यार्थमभिधेयमिव। अन्वगच्छदनुसृतवती च। यथा स्मृतिः श्रुतिक्षुण्णमेवार्थमनुसरति तथा सापि गोखुरक्षुण्णमेव मार्गमनुससारेत्यर्थः। धर्मपत्नीत्यत्राश्वघासादिवत्तादर्थ्ये षष्ठीसमासः,प्रकृतिविकाराभावात्। पांसुलपथप्रवृत्तावप्यपांसुलानामिति विरोधालंकारो ध्वन्यते॥ 2 ॥
विश्वास-प्रस्तुतिः
निवर्त्य राजा दयितान् दयालुस्
तां सौरभेयीं सुरभिर्+++(=मनोज्ञः)+++ यशोभिः ।
पयो-धरी-भूत-चतुः-समुद्रां +++(उर्वीं)+++
जुगोप गोरूप-धराम् इवोर्वीम् ॥ ३ ॥
मल्लिनाथः ...{Loading}...
निवर्त्येति॥ दयालुः कारुणिकः। ‘स्याद्दयालुः कारुणिकः’ इत्यमरः। ‘स्पृहिगृहि-’(पा.3।2।158)इत्यादिनालुच्प्रत्ययः। यशोभिः सुरभिर्मनोज्ञः। ‘सुरभिः स्यान्मनोज्ञेऽपि’ इति विश्वः। स राजा तां दयितां निवर्त्य सौरभेयीं कामधेनुसुतां नन्दिनीम्। धरन्तीति धराः। पचाद्यच्। पयसां धराः पयोधराः स्तनाः। ‘स्त्रीस्तनाब्दौ पयोधरौ’ इत्यमरः। अपयोधराः पयोधराः संपद्यमानाः पयोधरीभूताः। अभूततद्भावे च्विः। ‘कुगतिप्रादयः’(पा.2।2।18) इति समासः। पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम्। ‘अनेकमन्यपदार्थे’(पा.2।2।24) इत्यनेकपदार्थग्रहणसामर्थ्यात्त्रिपदो बहुव्रीहिः। गोरूपधरामुर्वीमिव। जुगोप ररक्ष। भूरक्षणप्रयत्नेनेव ररक्षेति भावः। धेनुपक्षे,-पयसा दुग्धेनाधरीभूताश्चत्वारः समुद्रा यस्याः सा तथोक्ता ताम्। दुग्धतिरस्कृतसागरामित्यर्थः॥ 3 ॥
व्रतप्रकारः
विश्वास-प्रस्तुतिः
व्रताय तेनानुचरेण धेनोर्
न्यषेधि शेषो ऽप्य् अनुयायि-वर्गः ।
न चान्यतस् तस्य शरीर-रक्षा
स्व-वीर्य-गुप्ता हि मनोः प्रसूतिः ॥ ४ ॥+++(र५ अ५)+++
मल्लिनाथः ...{Loading}...
व्रतायेति॥ व्रताय धेरोरनुचरेण। न तु जीवनायेति भावः। तेन दिलीपेन शेषोऽवशिष्टोऽप्यनुयायिवर्गोऽनुचरवर्गो न्यषेधि निवर्तितः। शेषत्वं सुदक्षिणापेक्षया। कथं तर्ह्यात्मरक्षणमत आह-न चेति। तस्य दिलीपस्य शरीररक्षा चान्यतः पुरुषान्तरान्न। कुतः? हि यस्मात्कारणान्मनोः। प्रसूयत इति प्रसूतिः संततिः स्ववीर्यगुप्ता स्ववीर्येणैव रक्षिता। न हि स्वनिर्वाहकस्य परापेक्षेति भावः ॥ 4 ॥
विश्वास-प्रस्तुतिः
आस्वादवद्भिः कवलैस् तृणानाङ्,
कण्डूयनैर्, दंश-निवारणैश् च ।
अव्याहतैस् स्वैर-गतैस् - स तस्याः
सम्राट् समाराधन-तत्-परो ऽभूत् ॥ ५ ॥ +++(र५ अ५)+++
मल्लिनाथः ...{Loading}...
आस्वादवद्भिरिति॥ सम्राट् मण्डलेश्वरः। ‘येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाज्ञया राज्ञः स सम्राट्’ इत्यमरः। स राजा। आस्वादवद्भी रसवद्भिः। स्वादयुक्तैरित्यर्थः। तृणानां कवलैर्ग्रासैः ‘ग्रासस्तु कवलार्थकः’ इत्यमरः। कण्डूयनैः खर्जनैः। दंशानां वनमक्षिकाणां निवारणैः। ‘दंशस्तु वनमक्षिका’ इत्यमरः। अव्याहतैरप्रतिहतैः स्वैरगतैः स्वच्छन्दगमनैश्च तस्या धेन्वाः समाराधनतत्परः शुश्रूषासक्तोऽभूत्। तदेव परं प्रधानं यस्येति तत्परः। ‘तत्परे प्रसितासक्तौ’ इत्यमरः॥ 5 ॥
विश्वास-प्रस्तुतिः
स्थितः स्थिताम्, उच्चलितः प्रयातान्,
निषेदुषीम् आसन-बन्ध-धीरः ।
जलाभिलाषी जलम् आदधानां -
छायेव ताम् भूपतिर् अन्वगच्छत् ॥ ६ ॥ +++(र५ अ५)+++
मल्लिनाथः ...{Loading}...
स्थित इति॥ भूपतिस्तां गां स्तितां सतीं स्थितः सन्। स्थितिरूर्ध्वावस्थानम्। प्रयातां प्रस्थितामुञ्चलितः प्रस्थितः। निषेदुषीं निषण्णाम्। उपविष्टामित्यर्थः। ‘भाषायां सदवसश्रुवः’ (पा.3।2।108) इति क्वसुप्रत्ययः। ‘उगितश्च’ (पा.4।1।6) इति ङीप्। आसनबन्ध उपवेशने धीरः स्थितः। उपविष्टः सन्नित्यर्थः। जलमाददानां पिबन्तीं जलाभिलाषी। पिबन्नित्यर्थः। इत्थं छायेवान्वगच्छदनुसृतवान् ॥ 6 ॥
धीरगतिः
विश्वास-प्रस्तुतिः
स न्यस्त-चिह्नाम् अपि राज-लक्ष्मीन्
तेजो-विशेषानुमितान् दधानः ।
आसीद् अनाविष्कृत-दानराजिर्
अन्तर्-मदावस्थ इव द्विपेन्द्रः ॥ ७ ॥
मल्लिनाथः ...{Loading}...
स इति॥ न्यस्तानि परिहृतानि चिह्नानि छत्रचामरादीनि यस्यास्तां तथाभूतामपि तेजोविशेषेण प्रभावातिशयेन। अनुमितां सर्वथा राजैवायं भवेदित्यूहितां राजलक्ष्मीं दधानः स राजा। अनाविष्कृतदानराजिर्वहिरप्रकटितमदरेखः। अन्तर्गता मदावस्था यस्य सोऽन्तर्मदावस्थः। तथाभूतो द्विपेन्द्र इव। आसीत्॥ 7 ॥
विश्वास-प्रस्तुतिः
लता-प्र-तान+++(=प्रवाल)++++उद्ग्रथितैः स केशैर्
अधिज्य-धन्वा विचचार दावम्+++(=वनम्)+++ ।
रक्षापदेशान् मुनि-होम-धेनोर्
वन्यान् +++(दुष्टताया)+++ वि-नेष्यन्न् इव दुष्ट-सत्त्वान् ॥ ८ ॥ +++(4)+++
मल्लिनाथः ...{Loading}...
लतेति॥ लतानां वल्लीनां प्रतानैः कुटिलतन्तुभिरुद्ग्रथिता उन्नमय्य ग्रथिता ये केशास्तैरुपलक्षितः। ‘इत्थंभूतलक्षणे’(पा.2।3।21) इति तृतीया। स राजा। अधिज्यमारोपितमौर्वीकं धनुर्यस्य सोऽधिज्यधन्वा सन्। ‘धनुषश्च’(पा.5।4।132) इत्यनङादेशः। मुनिहोमधेनो रक्षापदेशाद्रक्षणव्याजात्। वन्यान् वने भवान् दुष्टसत्त्वान् दुष्टजन्तून्। ‘द्रव्यासुव्यवसायेषु सत्त्वमस्त्त्री तु जन्तुषु’ इत्यमरः। विनेष्यञ्छिक्षयिष्यन्निव। दावं वनम्। ‘वने च वनवह्नौ च दवो दाव इहेष्यते’ इति यादवः। विचचार। वने चचारेत्यर्थः। ‘देशकालाघ्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्’इति दावस्य कर्मत्वम्॥ 8 ॥
वनदेवतापूजादि
विश्वास-प्रस्तुतिः
विसृष्ट-पार्श्वानुचरस्य तस्य
पार्श्व-द्रुमाः पाश-भृता+++(=वरुणेन)+++ समस्य ।
उदीरयाम् आसुर् इवोन्मदानाम्
आलोक-शब्दं वयसां विरावैः ॥ ९ ॥
मल्लिनाथः ...{Loading}...
विसृष्टेति॥ विसृष्टाः पार्श्वानुचराः पार्श्ववर्तिनो जना येन तस्य। पाशभृता वरुणेन समस्य तुल्यस्य। ‘प्रचेता वरुणः पाशी’ इत्यमरः। अनुभावोऽनेन सूचितः। तस्य राज्ञः पार्श्वयोर्द्रुमाः। उन्मदानामुत्कटमदानां वयसां खगानाम्। ‘खगबाल्यादिनोर्वयः’ इत्यमरः। विरावैः शब्दैः। आलोकस्य शब्दं वाचकमालोकयेति शब्दम्। जयशब्दमित्यर्थः। ‘आलोको जयशब्दः स्यात्’इति विश्वः। उदीरयामासुरिवावदन्निव। इत्युत्प्रेक्षा॥ 9 ॥
विश्वास-प्रस्तुतिः
मरुत्-प्रयुक्ताश् च मरुत्-सखा+++(=अग्नि)+++ऽऽभन्
तम् अर्च्यम् आराद् अभिवर्तमानम् ।
अवाकिरन् बाल-लताः प्रसूनैर्
आचार-लाजैर् इव पौर-कन्याः ॥ १० ॥
मल्लिनाथः ...{Loading}...
मरुदिति॥ मरुत्प्रयुक्ता वायुना प्रेरिता बाललता आरात् समीपेऽभिवर्तमानम्। ‘आराद्दूरसमीपयोः’ इत्यमरः। मरुतो वायोः सखा मरुत्सखोऽग्निः। स इवाभातीति मरुत्सखाभः। ‘आतश्चोपसर्गे’(पा.3।1।136) इति कप्रत्ययः। तम्,अर्च्यं पूज्यं तं दिलीपं प्रसूनैः पुष्पैः। पौरकन्याः पौराश्च ताः कन्या आचारार्थैर्लाजैराचारलाजैरिव। अवाकिरन्। तस्योपरि निक्षिप्तवत्य इत्यर्थः। सखा हि सखायमागतमुपचरतीति भावः ॥ 10 ॥
विश्वास-प्रस्तुतिः
धनुर्-भृतो ऽप्य् अस्य दयार्द्र-भावम्
आख्यातम् अन्तः-करणैर् विशङ्कैः ।
विलोकयन्त्यो +++(राज-)+++वपुर् आपुर् अक्ष्णाम्
प्रकाम-विस्तार-फलं हरिण्यः ॥ ११ ॥
मल्लिनाथः ...{Loading}...
धनुर्भृत इति॥ धनुर्भृतोऽप्यस्य राज्ञः। एतेन भयसंभावना दर्शिता। तथापि विशङ्कैर्निर्भीकैरन्तः करणैः कर्तृभिः। दयया कृपारसेनार्द्रो भावोऽभिप्रायो यस्य तद्दयार्द्रभावं तदाख्यातम्। दयार्द्रभावमेतदित्याख्यातमित्यर्थः। ‘भावः सत्त्वस्वभावाभिप्रायचेष्टात्मजन्मसु’ इत्यमरः। तथाविधं वपुर्विलोकयन्त्यो हरिण्योऽक्ष्णां प्रकामविस्तारस्यात्यन्तविशालतायाः फलमापुः। ‘विमलं कलुषीभवञ्च चेतः कथयत्येव हितैषिणं रिपुं च’ इति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धं ददृशुरित्यर्थः॥ 11 ॥
विश्वास-प्रस्तुतिः
स कीचकैर् मारुत-पूर्ण-रन्ध्रैः
कूजद्भिर् आपादित-वंश-कृत्यम् ।
शुश्राव कुञ्जेषु यशस् स्वम् उच्चैर्
उद्गीयमानं वनदेवताभिः ॥ १२ ॥ +++(5 वंशे श्लेषः)+++
मल्लिनाथः ...{Loading}...
स इति॥ स दिलीपो मारुतपूर्णरन्ध्रैः। अत एव कूजद्भिः स्वनद्भिः कीचकैर्वेणुविशेषैः। ‘वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः’ इत्यमरः। वंशः सुषिरवाद्यावशेषः। ‘वंशादिकं तु सुषिरम्’ इत्यमरः। आपादितं संपादितं वंशस्य कृत्यं कार्यं यस्मिन्कर्मणि तत्तथा। कुञ्जेषु लतागृहेषु। ‘निकुञ्जकुञ्जौ वा क्लिबे लतादिपिहितोदरे’
इत्यमरः। वनदेवताभिरुद्गीयमानमुञ्चैर्गीयमानं स्वं यशः शुश्राव श्रुतवान्॥ 12 ॥
विश्वास-प्रस्तुतिः
पृक्तस् तुषारैर् गिरि-निर्झराणाम्
अन्-ओक-हा+++(=वृक्ष)+++–कम्पित-पुष्पगन्धी ।
तम् आतप-क्लान्तम् अनातपत्रम्
आचार-पूतम् पवनस् सिषेवे ॥ १३ ॥
मल्लिनाथः ...{Loading}...
पृक्त इति॥ गिरिषु निर्झराणां वारिप्रवाहाणाम्। ‘वारिप्रवाहो निर्झरो झरः’इत्यमरः। तुषारः सीकरैः। ‘तुषारौ ह्रिमसीकरौ’ इति शाश्वतः। पृक्तः संपृक्तोऽनोकहानां वृक्षाणामाकम्पितानीषत्कम्पितानि पुष्पाणि तेषां यो गन्धः सोऽस्यास्तीत्याकम्पितपुष्पगन्धी ईषत्कम्पितपुष्पगन्धवान्। एवं शीतो मन्दः सुरभिः पवनो वायुरनातपत्रं व्रतार्थं परिहृतच्छत्रम्। अत एव,आतपक्लान्तमाचारेण पूतं शुद्धं तं नृपं सिषेवे। आचारपूतत्वात्स राजा जगत्पावनस्यापि सेव्य आसीदिति भावः ॥ 13 ॥
विश्वास-प्रस्तुतिः
शशाम वृष्ट्या ऽपि विना दवाग्निर्+++(5)+++
आसीद् विशेषा फल-पुष्प-वृद्धिः ।
ऊनं न सत्त्वेष्व् अधिको बबाधे
तस्मिन् वनं गोप्तरि गाहमाने ॥ १४ ॥+++(5)+++
मल्लिनाथः ...{Loading}...
शशामेति॥ गोप्तरि तस्मिन् राज्ञि वनं गाहमाने प्रविशति सति वृष्ट्या विनापि। दवाग्निर्वनाग्निः। ‘दवदावौ वनानले’इति हैमः। शशाम। फलानां पुष्पाणां च वृद्धिः। विशेष्यत इति विशेषा। अतिशयिताऽऽसीत्। कर्मार्थे धञ्प्रत्ययः। सत्त्वेषु जन्तुषु मध्ये। ‘यतश्च निर्धारणम्’(पा.2।3।41) इति सप्तमी। अधिकः प्रबलो व्याघ्रादिरूनं दुर्बलं हरिणादिकं न बबाधे ॥ 14 ॥
प्रत्यागतिः
विश्वास-प्रस्तुतिः
सञ्चार-पूतानि दिग्-अन्तराणि
कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लव-राग-ताम्रा
प्रभा पतङ्गस्य मुनेश् च धेनुः ॥ १५ ॥+++(5)+++
मल्लिनाथः ...{Loading}...
संचारपूतानीति॥ पल्लवस्य रागो वर्णः पल्लवरागः। ‘रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु’ इति शाश्वतः। स इव ताम्रा पल्लवरागताम्रा पतङ्गस्य सूर्यस्य प्रभा कान्तिः। ‘पतङ्गः पक्षिसूर्ययोः’ इति शाश्वतः। मुनेर्धेनुश्च। दिगन्तराणि दिशामवकाशान्। ‘अन्तरमवकाशावधिपरिधानान्तर्धिभादतादर्थ्ये’ इत्यमरः। संचारेण पूतानि शुद्धानि कृत्वा दिनान्ते सायंकाले निलयायास्तमयाय;धेनुपक्षे,-आलयाय च। गन्तुं प्रचक्रमे॥ 15 ॥
विश्वास-प्रस्तुतिः
तान् देवता-पित्र्-अतिथि-क्रियार्थाम्
अन्वग् ययौ मध्यम-लोकपालः ।
बभौ च सा तेन सताम् मतेन
श्रद्धेव साक्षाद् विधिनोपपन्ना ॥ १६ ॥+++(5)+++
मल्लिनाथः ...{Loading}...
तामिति॥ मध्यमलोकपालो भूपालः। देवतापित्रतिथीनां क्रिया यागश्राद्धदानानि ता एवार्थः प्रयोजनं यस्यास्तां तां धेनुमन्वगनुपदं ययौ। ‘अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्’ इत्यमरः। सतां मतेन सिद्धिर्मान्येन। ‘गतिबुद्धि-’(पा.1।4।52)इत्यादिना वर्तमाने क्तः। ‘क्तस्य च वर्तमाने’(पा.2।3।67)इति षष्ठी। तेन राज्ञोपपन्ना युक्ता सा धेनुः। सतां मतेन विधिनाऽनुष्ठानेनोपपन्ना युक्ता साक्षात् प्रत्यक्षा श्रद्धाऽऽस्तिक्यबुद्धिरिव। बभौ च ॥ 16 ॥
विश्वास-प्रस्तुतिः
स पल्वलोत्तीर्ण-वराह-यूथान्य्
आवास-वृक्षोन्मुख-बर्हिणानि ।
ययौ मृगाध्यासित-शाद्वलानि
श्यामायमानानि वनानि पश्यन् ॥ १७ ॥+++(4)+++
मल्लिनाथः ...{Loading}...
स इति॥ स राजा। पल्वलेभ्योऽल्पजलाशयभ्य उत्तीर्णानि निर्गतानि वराहाणां यूथानि कुलानि येषु तानि। बर्हाण्येषां सन्तीति बर्हिणा मयूराः। ‘मयूरो बर्हिणो बर्ही’इत्यमरः। फलबर्हाभ्यामिनच्प्रत्ययो वक्तव्यः। आवासवृक्षा णामुन्मुखा बर्हिणा येषु तानि श्यामायमानानि वराहबर्हिणादिमलिनिम्ना श्यामानि। श्यामानि भवन्तीति श्यामायमानानि। ‘लोहितादिडाज्भ्यः क्यष्’(पा.3।1।13) इति क्यष्प्रत्ययः। ‘वा क्यषः’(पा.1।3।90) इत्यात्मनेपदे शानच्। मृगैरध्यासिता अधिष्ठिताः शाद्वला येषु तानि। शादाः शष्पाण्येषु देशेषु सन्तीति शाद्वलाः शष्पश्यामदेशाः। ‘शाद्वलः शादहरिते’इत्यमरः। ‘शादः कर्दमशष्पयोः’ इति विश्वः। ‘नडशादादूङ्वलच्’(पा.4।2।88)इति ड्वलच्प्रत्ययः। वनानि पश्यन्ययौ ॥ 17 ॥
विश्वास-प्रस्तुतिः
आपीनभारोद्वहन-प्रयत्नाद्
गृष्टिर्+++(=सकृत्-प्रसूता गौः)+++, गुरुत्वाद् वपुषो नरेन्द्रः ।
उभाव् अलञ्चक्रतुर् अञ्चिताभ्यान्
तपोवनावृत्ति-पथं गताभ्याम् ॥ १८ ॥
मल्लिनाथः ...{Loading}...
आपीनेति॥ गृष्टिः सकृत्प्रसूता गौः। ‘गृष्टिः सकृत्प्रसूता गौः’ इति हलायुधः। नरेन्द्रश्च। उभौ यथाक्रमम्। आपीनमूधः। ‘ऊधस्तु क्लीबमापीनम्’ इत्यमरः। आपीनस्य भारोद्वहने प्रयत्नात् प्रयासात् वपुषो गुरुत्वादाधिक्याञ्च। अञ्चिताभ्यां चारुभ्यां गताभ्यां गमनाभ्यां तपोवनादावृत्तेः पन्थास्तं तपोवनावृत्तिपथम्। ‘ऋक्पूः-’(पा.5।4।74)इत्यादिना समासान्तोऽप्रत्ययः। अलंचक्रतुर्भूषितवन्तौ ॥ 18 ॥
विश्वास-प्रस्तुतिः
वसिष्ठ-धेनोर् अनुयायिनन् तम्
आवर्तमानं वनिता वनान्तात् ।
पपौ निमेषालस-पक्ष्म-पङ्क्तिर्
उपोषिताभ्याम् इव लोचनाभ्याम् ॥ १९ ॥ +++(5)+++
मल्लिनाथः ...{Loading}...
वसिष्ठेति॥ वसिष्ठधेनुयायिनमनुचरं वनान्तादावर्तमानं प्रत्यागतं तं दिलीपं वनिता सुदक्षिणा निमेषेष्वलसा मन्दा पक्ष्मणां पङ्क्तिर्यस्याः सा। अनिमेषा सतीत्यर्थः,लोचनाभ्यां करणाभ्याम्। उपोषिताभ्यामिव। उपवासो भोजननिवृत्तिः। तद्विद्भ्यामिव। वसतेः कर्तरि क्तः। पपौ। यथोपोषितोऽतितृष्णया जलमधिकं पिबति तद्वदतितृष्णयाधिकं व्यलोकयदित्यर्थः ॥ 19 ॥
विश्वास-प्रस्तुतिः
पुरस्-कृता वर्त्मनि पार्थिवेन,
प्रत्युद्गता पार्थिव-धर्म-पत्न्या ।
तद्-अन्तरे सा विरराज धेनुर्
दिन-क्षपा-मध्य-गतेव सन्ध्या ॥ २० ॥
मल्लिनाथः ...{Loading}...
पुरस्कृतेति॥ वर्त्मनि पार्थिवेन पृथिव्या ईश्वरेण। ‘तस्येश्वरः’(पा.5।1।42)इत्यञ्प्रत्ययः। पुरस्कृताऽग्रतः कृता। धर्मस्य पत्नी धर्मपत्नी। धर्मार्थपत्नीत्यर्थः। अश्वघासादिवत्तादर्थ्ये षष्ठीसमासः। पार्थिवस्य धर्मपत्न्या सा धेनुस्तदन्तरे तयोर्दंपत्योर्मध्ये। दिनक्षपयोर्दिनरात्र्योर्मध्यगता संध्येव। रराज॥ 20 ॥
विश्वास-प्रस्तुतिः
प्रदक्षिणी-कृत्य पयस्विनीन् तां
सुदक्षिणा साक्षत-पात्र-हस्ता ।
प्रणम्य चानर्च विशालम्
अस्याः शृङ्गान्तरन् द्वारम् इवार्थ-सिद्धेः ॥ २१ ॥
मल्लिनाथः ...{Loading}...
प्रदक्षिणीकृत्येति॥ अक्षतानां पात्रेण सह वर्तेते इति साक्षतपात्रौ ह्रस्तौ यस्याः सा सुदक्षिणा पयस्विनीं प्रशस्तक्षीरां तां धेनुं प्रदक्षिणीकृत्य प्रणम्य च। अस्याः धेन्वा विशालं शृङ्गमध्यम्। अर्थसिद्धेः कार्यसिद्धेर्द्वारं प्रवेशमार्गमिव। आनर्चार्चयामास,अर्चतेर्भौवादिकाल्लिट्॥ 21 ॥
विश्वास-प्रस्तुतिः
वत्सोत्सुकापि स्तिमिता सपर्याम्
प्रत्यग्रहीत् सेति ननन्दतुस् तौ ।
भक्त्योपपन्नेषु हि तद्-विधानाम्
प्रसाद-चिह्नानि पुरः-फलानि ॥ २२ ॥
विश्रान्ताव् उपचारः
मल्लिनाथः ...{Loading}...
वत्सोत्सुकेति॥ सा धेनुर्वत्सोत्सुकापि वत्स उत्कण्ठितापि स्तिमिता निश्चला सती सपर्यां पूजां प्रत्यग्रहीदिति होतः,तौ दंपती ननन्दतुः। पूजास्वाकारस्यानन्दहेतुत्वमाह-भक्त्येति। पूज्येष्वनुरागो भक्तिः। तयोपपन्नेषु युक्त्वेषु विषये तद्विधानाम्। तस्या धेन्वा विधेव विधा प्रकारो येषां तेषाम्। महतामित्यर्थः। प्रसादस्य चिह्नानि लिङ्गानि पूजास्वीकारादीनि पुरःफलानि। पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि हि। अविलम्बितफलसूचकलिङ्गदशनादानन्दो युज्यत इत्यर्थः॥ 22 ॥
विश्वास-प्रस्तुतिः
गुरोः सदारस्य निपीड्य पादौ
समाप्य सान्ध्यञ्च विधिन् दिलीपः ।
दोहावसाने पुनर् एव दोग्ध्रीम्
भेजे भुजोच्छिन्न-रिपुर् निषण्णाम् ॥ २३ ॥
मल्लिनाथः ...{Loading}...
गुरोरिति॥ भुजोच्छिन्नरिपुर्दिलीपः सदारस्य दारैररुन्धत्या सह वर्तमानस्य गुरोः,उभयोरपीत्यर्थः। ‘भार्या जायाथ पुं भूम्नि दाराः’इत्यमरः। पादौ निपीड्याभिवन्द्य। सांध्यं संध्यायां विहितं विधिननुष्ठानं च समाप्य। दोहावसाने निषण्णामासीनां दोग्ध्रीं दोहनशीलम्। ‘तृन्’(पा.3।2।135)इति तृन्प्रत्ययः। धेनुमेव पुनर्भेजे सेवितवान्। ‘दोग्ध्रीम्’इति निरुपपदप्रयोगात्कामधेनुत्वं गम्यते ॥ 23 ॥
विश्वास-प्रस्तुतिः
ताम् अन्तिक-न्यस्त-बलि-प्रदीपाम्
अन्वास्य गोप्ता गृहिणीसहायः ।
क्रमेण सुप्ताम् अनुसंविवेश
सुप्तोत्थिताम् प्रातर् अनूदतिष्ठत् ॥ २४ ॥
मल्लिनाथः ...{Loading}...
तामिति॥ गोप्ता रक्षको गृहिणीसहायः पत्नीद्वितीयः सन्। उभावपीत्यर्थः। अन्तिके न्यस्ता बलयः प्रदीपाश्च यस्यास्तां तथोक्तां तां पूर्वोक्तां निषण्णां धेनुमन्वास्यानूपविश्य क्रमेण सुप्तामन्वनन्तरं संविवेश सुष्वाप प्रातः सुप्तोत्थितामनूदष्ठिदुत्थितवान्। अत्र ‘अनु शब्देन धेनुगजव्यापारयोः पौर्वापर्यमुच्यते।’ ‘क्रम’शब्देन धेनुव्यापाराणामेवेत्यपौनरुक्त्यम्। ‘कर्मप्रवचनीययुक्ते-’(पा.2।3।8)इति द्वितीया ॥ 24 ॥
विश्वास-प्रस्तुतिः
इत्थं व्रतन् धारयतः प्रजार्थं
समम् महिष्या महनीय-कीर्तेः ।
सप्त व्यतीयुस् त्रिगुणानि तस्य
दिनानि दीनोद्धरणोचितस्य ॥ २५ ॥
मल्लिनाथः ...{Loading}...
इत्थमिति॥ इत्थमनेन प्रकारेण प्रजार्थं संतानाय महिष्या सममभिषिक्तपत्न्या सह। ‘कृताभिषेका महिषी’इत्यमरः। व्रतं धारयतः। महनीया पूज्या कीर्तिर्यस्य तस्य दीनानामुद्धरणं दैन्दविमोचनम्। तत्रोचितस्य परिचितस्य तस्य नृपस्य। त्रयो गुणा आवृत्तयो येषां तानि त्रिगुणानि त्रिरावृत्तानि सप्त दिनान्येकविंशतिदिनानि व्यतीयुः ॥ 25 ॥
परीक्षा
ग्रहः
विश्वास-प्रस्तुतिः
अन्येद्युर् आत्मानुचरस्य भावं
जिज्ञासमाना मुनि-होम-धेनुः ।
गङ्गा-प्रपातान्त-विरूढ-शष्पं
गौरी-गुरोर् गह्वरम् आविवेश ॥ २६ ॥
मल्लिनाथः ...{Loading}...
अन्येद्युरिति॥ अन्येद्युरन्यस्मिन्दिने द्वाविंशे दिने। ‘सद्यः परुत्परारि-(पा.5।3।22)’ इत्यादिना निपातनादव्ययम्। ‘अद्यात्राह्लाय पूर्वेऽह्रीत्यादौ पूर्वोत्तरापरात् । तथाधरान्यान्यतरेतरात्पूर्वेंद्युरादयः ॥’ इत्यमरः। मुनिहोमधेनुः आत्मानुचरस्य भावमभिप्रायं दृढभक्तित्वम्। ‘भावोऽभिप्राय आशयः’ इति यादवः। जिज्ञासमाना ज्ञातुमिच्छन्ती। ‘ज्ञाश्रुस्मृदृशां सनः’(पा.1।3।57)इत्यात्मनेपदे शानच्। प्रपतत्यस्मिन्निति प्रपातः पतनप्रदेशः गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्मिंस्तत्। ‘शष्पं बालतृणं घासः’ इत्यमरः। गौरीगुरोः पार्वतीपितुर्गह्वरं गुहामाविवेश ॥ 26 ॥
विश्वास-प्रस्तुतिः
सा दुष्-प्रधर्षा मनसापि हिंस्रैर्
इत्य् अद्रि-शोभा-प्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण
प्रसह्य सिंहः किल तां चकर्ष ॥ २७ ॥
मल्लिनाथः ...{Loading}...
सेति॥ सा धेनुर्हिंस्रैर्व्याघ्रादिभिर्मनसाऽपि दुष्प्रधर्षा दुर्धर्षेति हेतोः,अद्रिशोभायां प्रहितेक्षणेन दत्तदृष्टिना नृपेणालक्षितमभ्युत्पतनमाभिमुख्येनोत्पतनं यस्य स सिंहस्तां धेनुं प्रसह्य हठात्। ‘प्रसह्य तु हठार्थकम्’ इत्यमरः। चकर्ष। ‘किल’ इत्यलीके ॥ 27 ॥
स्तम्भः
विश्वास-प्रस्तुतिः
तदीयम् आक्रन्दितम् आर्त-साधोर्
गुहा-निबद्ध–प्रति-शब्द-दीर्घम् ।
रश्मिष्व् इवादाय नगेन्द्र-सक्तान्
निवर्तयाम् आस नृपस्य दृष्टिम् ॥ २८ ॥
मल्लिनाथः ...{Loading}...
तदीयमिति॥ गुहानिबद्धेन प्रतिशब्देन प्रतिध्वनिना दीर्घम्। तस्या इदं तदीयम्। आक्रन्दितमार्तघोषणम्। आर्तेष्वापन्नेषु साधोर्हितकारिणो नृपस्य नगेन्द्रसक्तां दृष्टिम्। रश्मिषु प्रग्रहेषु। ‘किरणप्रग्रहौ रश्मी’इत्यमरः। आदायेव गृहीत्वेव। निवर्तयामास॥ 28 ॥
विश्वास-प्रस्तुतिः
स पाटलायाङ्+++(=रक्तवर्णायां)+++ गवि तस्थिवांसं
धनुर्-धरः केसरिणन् ददर्श ।
अधित्यकायाम्+++(=उन्नत-भागे)+++ इव धातुमय्यां
+++(पिङ्गल-प्राय-)+++लोध्र-द्रुमं सानु-मतः +++(अद्रेः)+++ प्रफुल्लम् ॥ २९ ॥
मल्लिनाथः ...{Loading}...
स इति॥ धनुर्धरः स नृपः पाटलायां रक्तवर्णायां गवि तस्थिवांसं स्थितम्। ‘क्कसुश्च’(पा.3।2।102)इति क्वसुप्रत्ययः। केसरिणं सिंहम्। सानुमत्तोऽद्रेः। धातोर्गैरिकस्य विकारो धातुमयी। तस्यामधित्यकायामूर्ध्वभूमौ। ‘उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमाधित्यका’ इत्यमरः। ‘उपाधिभ्यां त्यकन्नासन्नारूढयोः (पा.5।2।34) इति त्यकन्प्रत्ययः। प्रफुल्लो विकसितस्तम्। ‘फुल्ल विकसने’ इति धातोः पचाद्यच्। ‘प्रफुल्तम्’इति तकारपाठे ञिफला विशरणे’ इति धातोः कर्तरि क्तः। ‘उत्परस्यातः’(पा.7।4।88)इत्युकारादेशः। लोध्राख्यं द्रुममिव ददर्श॥ 29 ॥
विश्वास-प्रस्तुतिः
ततो मृगेन्द्रस्य मृगेन्द्र-गामी
वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो+++(=जातपराभवो)+++ नृपतिर् निषङ्गाद्
उद्धर्तुम् ऐच्छत् प्रसभोद्धृतारिः ॥ ३० ॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततः सिंहदर्शनानन्तरं मृगेन्द्रगामी सिंहगामी। शरणं रक्षणम्। ‘शरणं गृहरक्षित्रोः’ इत्यमरः। ‘शरणं रक्षणे गृहे’इति यादवः। शरणे साधुः शरण्यः,‘तत्र साधुः’(पा.4।4।98) इति यत्प्रत्ययः। प्रसभेन बलात्कारेणोद्धृता अरयो येन स नृपती राजा जाताभिषङ्गो जातपराभवः सन्। ‘अभिषङ्गः पराभवे’ इत्यमरः। वध्यस्य वधार्हस्य। ‘दण्डादिभ्यो यत्’(पा.5।1।66) इति यत्प्रत्ययः। मृगन्द्रस्य वधाय निषङ्गात्तूणीरात् ‘तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः’ इत्यमरः। शरमुद्धर्तुमैच्छत् ॥ 30 ॥
विश्वास-प्रस्तुतिः
वामेतरस् तस्य करः प्रहर्तुर्
नख-प्रभा-भूषित-कङ्क-पत्त्रे ।
सक्ताङ्गुलिः सायक-पुङ्ख एव
चित्रार्पितारम्भ इवावतस्थे ॥ ३१ ॥
मल्लिनाथः ...{Loading}...
वामेति॥ प्रहर्तुस्तस्य वामेतरो दक्षिणः करः। नखप्रभाभिर्भूषितानि विच्छुरितानि कङ्कस्य पक्षिविशेषस्य पत्राणि यस्य तस्मिन्। ‘कङ्कः पक्षिविशेषे स्याद्गुप्ताकारे युधिष्टिरे’ इति विश्वः। ‘कङ्कस्तु कर्कटः’ इति यादवः। सायकस्य पुङ्ख एव कर्तर्याख्ये मूलप्रदेशे। ‘कर्तरी पुङ्खे’इति यादवः। सक्ताङ्गुलिः सन्। चित्रार्पितारम्भश्चित्रलिखितशरोद्धरणोद्योग इव। अवतस्थे ॥ 31 ॥
विश्वास-प्रस्तुतिः
बाहु-प्रतिष्टम्भ-विवृद्ध-मन्युर्
अभ्यर्णम् आगस्-कृतम् अस्पृशद्भिः ।
राजा स्व-तेजोभिर् अदह्यतान्तर्
भोगीव मन्त्रौषधि-रुद्ध-वीर्यः ॥ ३२ ॥
मल्लिनाथः ...{Loading}...
बाह्विति॥ बाह्वोः प्रतिष्मम्भेन प्रतिबन्धेन। ‘प्रतिबन्धः प्रतिष्टम्भः’ इत्यमरः। विवृद्धमन्युः प्रवृद्धरोषो राजा। मन्त्त्रौषधिभ्यां रुद्धवीर्यः प्रतिबद्धशक्तिर्भोगीसर्प इव। ‘भोगी राजभुजंगयोः’ इति शाश्वतः। अभ्यर्णमन्तिकम्। ‘उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्’ इत्यमरः। आगस्कृतमपराधकारिणम्,अस्पृशद्भिः स्वतेजोभिरन्तरदह्यत। ‘अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि’ इति यादवः॥ 32 ॥
सिंह-प्रभावः
विश्वास-प्रस्तुतिः
तम् आर्य-गृह्यं निगृहीत-धेनुर्
मनुष्य-वाचा मनु-वंश-केतुम् ।
विस्माययन् विस्मितम् आत्मवृत्तौ
सिंहोरुसत्त्वन् +++(राजानं)+++ निजगाद सिंहः ॥ ३३ ॥
मल्लिनाथः ...{Loading}...
तमिति॥ निगृहीता पीडिता धेनुर्येन स सिंहः। आर्याणां सतां गृह्यं पक्ष्यम्। ‘पदास्वैरिबाह्यापक्ष्येषु च’(पा.3।1।119) इति क्यप्। मनुवंशस्य केतुं चिह्नं केतुवद्व्यावर्तकम्। सिंह इवोरुसत्त्वो महाबलस्तम्। आत्मनो वृत्तौ बाहुस्तम्भरूपे व्यापारेऽभूतपूर्वत्वाद्विस्मितम्। कर्तरि क्तः। तं दिलीपं मनुष्यवाचा करणेन। पुनर्विस्माययन् स्मयमाश्चर्यं प्रापयन्निजगाद। ‘स्मिं ईषद्धसने’ इति धातोर्णिचि वृद्धावायादेशे शतृप्रत्यये च सति विस्माययन्निति रूपं सिद्धम्। ‘विस्मापयन्’ इति पाठे पुगागममात्रं वक्यव्यम्। तञ्च ‘नित्यं स्मयतेः’(पा.6।1।57) इति हेतुभयविवक्षायामेवेति ‘भीस्म्योर्हेतुभये’ (पा.1।3।68) इत्यात्मनेपदे विस्मापयमान इति स्यात्। तस्मान्मनुष्यवाचा विस्माययन्निति रूपं सिद्धम्। करणविवक्षायां न कश्चिद्दोषः॥ 33 ॥
विश्वास-प्रस्तुतिः
अलम् महीपाल तव श्रमेण
प्रयुक्तम् अप्य् अस्त्रम् इतो वृथा स्यात् ।
न पादपोन्मूलन-शक्ति रंहः
शिलोच्चये मूर्छति मारुतस्य ॥ ३४ ॥
मल्लिनाथः ...{Loading}...
अलमिति॥ हे महीपाल! तव श्रमेणालम्,साध्याभावाच्छ्रमो न कर्तव्य इत्यर्थः। अत्र गम्यमानसाधनक्रियापेक्षया श्रमस्य करणत्वात्तृतीया। उक्तं च न्यासोद्द्योते-‘न केवलं श्रूयमाणैव क्रिया निमित्तं करणभावस्य । अपि तर्हि गम्यमानापि’ इति। ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकम्’ इत्यमरः। इतोऽस्मिन्मयि। सार्वविभक्तिकस्तसिः। प्रयुक्तमप्यस्त्त्रं वृथा स्यात्। तथा हि-पादपोन्मूलने शक्तिर्यस्य तत्तथोक्तं मारुतस्य रंहो वेगः शिलोञ्चये पर्वते न मूर्च्छति न प्रसरति ॥ 34 ॥
विश्वास-प्रस्तुतिः
कैलास-गौरं वृषम् आरुरुक्षोः
पादार्पणानुग्रह-पूत-पृष्टम् ।
अवेहि माङ् किङ्करम् अष्ट-मूर्तेः
कुम्भोदरं नाम निकुम्भ-मित्रम् ॥ ३५ ॥
मल्लिनाथः ...{Loading}...
कैलासेति॥ कैलास इव गौरः शुभ्रस्तम्। ‘चामीकरं च शुभ्रं च गौरमाहुर्मनीषिणः’ इति शाश्वतः। वृषं वृषभम्,आरुरुक्षोरारोढुमिच्छोः। स्वस्योपरि पदं निक्षिप्य वृषमारोहतीत्यर्थः। अष्टौ मूर्तयो यस्य स तस्याष्टमूर्तेः शिवस्य पादार्पणं पादन्त्यासस्तदेवानुग्रहः प्रसादस्तेन पूतं पृष्ठं यस्य तं तथोक्तं निकुम्भमित्रं कुम्भोदरं नाम किंकरं मामवेहि विद्धि। ‘पृथिवी सलिलं तेजौ वायुराकाशमेव च । सूर्यां चन्द्रमसौ मोमयाजी चेत्यष्टमूर्तयः ॥’ इति यादवः॥ 35 ॥
विश्वास-प्रस्तुतिः
अमुम् पुरः पश्यसि देव-दारुम्
पुत्री-कृतो ऽसौ वृषभ-ध्वजेन ।
यो हेम-कुम्भ-स्तन-निःसृतानां
स्कन्दस्य मातुः पयसां रसज्ञः ॥ ३६ ॥
मल्लिनाथः ...{Loading}...
अमुमिति॥ पुरोऽग्रतोऽग्रतोऽमुं देवदारुं पश्यसि। इति काकुः। असौ देवदारुः। वृषभो ध्वजे यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः। अभूततद्भावे च्विः। यो देवदारुः स्कन्दस्य मातुर्गौर्या हेम्नः कुम्भ एव स्तनः तस्मान्निःसृतानां पयसामम्बूनां रसज्ञः स्वादज्ञः। स्कन्दपक्षे,-हेमकुम्भ इव स्तन इति विग्रहः। पयसां क्षीराणाम्। ‘पयः क्षीरं पयोऽम्बु च’ इत्यमरः। स्कन्दसमानप्रेमास्पदमिति भावः ॥ 36 ॥
विश्वास-प्रस्तुतिः
कण्डूयमानेन कटं कदाचिद्
वन्य-द्विपेनोन्मथिता त्वग् अस्य ।
अथैनम् अद्रेस् तनया शुशोच
सेनान्यम् आलीढम् इवासुरास्त्रैः ॥ ३७ ॥
मल्लिनाथः ...{Loading}...
कण्डूयमानेनेति॥ कदाचित् कटं कपोलं कण्डूयमानेन कर्षता। ‘कण्ड्वादिभ्यो यक्’(पा.3।2।61) इति यक। ततः शानच्। वन्यद्विपेनास्य देवदारोस्त्वगुन्मथिता अथाद्रेस्तनया गौरी। असुरास्त्त्रैरालीढं क्षतम्। सेनां नयत्तीति सेनानीः स्कन्दः। ‘पार्वतीनन्दनः स्कन्दः सेनानीः’ इत्यमरः। ‘सत्सूद्विष-’ (पा.3।1।27)इत्यादिना क्विप्। तमिव। एवं देवदारुं शुशोच ॥ 37 ॥
विश्वास-प्रस्तुतिः
तदा प्रभृत्य् एव वन-द्विपानान्
त्रासार्थम् अस्मिन्न् अहम् अद्रि-कुक्षौ ।
व्यापारितः शूल-भृता विधाय
सिंहत्वम् अङ्कागत-सत्त्व-वृत्ति ॥ ३८ ॥
मूलम्
तदा प्रभृत्येव वनद्विपानान् त्रासार्थम् अस्मिन्नहम् अद्रिकुक्षौ ।
व्यापारितः शूलभृता विधाय सिंहत्वम् अङ्कागतसत्त्ववृत्ति ॥ ३८ ॥
मल्लिनाथः ...{Loading}...
तदेति॥ तदा तत्कालः प्रभृतिरादिर्यस्मिन्कर्मणि तत्तथा तदाप्रभृत्येव वनद्विपानां त्रासार्थं भयार्थं शूलभृता शिवेन । अङ्गंसमीपमागताः प्राप्ताः सत्त्वाः प्राणिनो वृत्तिर्यस्मिंस्तत्। ‘अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः’ इति केशवः। सिंहत्वं विधाय। अस्मिन्नद्रिकुक्षौ गुहायामहं व्यापारितो नियुक्तः ॥ 38 ॥
विश्वास-प्रस्तुतिः
तस्यालम् एषा क्षुधितस्य तृप्त्यै
प्रदिष्ट-काला परमेश्वरेण ।
उपस्थिता शोणित-पारणा मे
सुर-द्विषश् चान्द्रमसी सुधेव ॥ ३९ ॥
मूलम्
तस्यालम् एषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ॥ ३९ ॥
मल्लिनाथः ...{Loading}...
तस्येति॥ परमेश्वरेण प्रदिष्टो निर्दिष्टः कालो भोजनवेला यस्याः सोपस्थिता प्राप्ता एषा गोरूपा शोणितपारणा रुधिरस्य व्रतान्तभोजनम्। सुरद्विषोराहोः चन्द्रमस इयं चान्द्रमसी सुधेव क्षुधितस्य तस्याङ्कागतसत्त्ववृत्तेर्मे मम सिंहस्य तृप्त्या अलं पर्याप्ता। ‘नमःस्वस्ति-’(पा.2।3।16) इत्यादिना चतुर्थी ॥ 39 ॥
मोहन-यत्नः
विश्वास-प्रस्तुतिः
स त्वं निवर्तस्व विहाय लज्जां
गुरोर् भवान् दर्शित-शिष्य-भक्तिः ।
शस्त्रेण रक्ष्यं यद् अशक्य-रक्षं
न तद् यशः शस्त्र-भृतां क्षिणोति ॥ ४० ॥
मूलम्
स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ॥ ४० ॥
मल्लिनाथः ...{Loading}...
स इति॥ स एवमुपायशून्यस्त्वं लज्जां विहाय निवर्तस्व। भवांस्त्वं गुरोर्दर्शिता प्रकाशिता शिष्यस्य कर्तव्या भक्तिर्येन स तथोक्तोऽस्ति। ननु गुरुधनं विनाश्य कथं तत्समीपं गच्छेयमत आह-शस्त्त्रेणेति। यद्रक्ष्यं धनं शस्त्त्रेणायुधेन। ‘शस्त्त्रमायुधलोहयोः’ इत्यमरः। अशक्या रक्षा यस्य तदशक्यरक्षम्; रक्षितुमशक्यमित्यर्थः। तद्रक्ष्यं नष्टमपि शस्त्रभृतां यशो न क्षिणोति न हिनस्ति। अशक्यार्थेष्वप्रतिविधानं न दोषायेति भावः ॥ 40 ॥
विश्वास-प्रस्तुतिः
इति प्रगल्भम् पुरुषाधिराजो
मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरि-श-प्रभावाद्
आत्मन्य् अवज्ञां शिथिलीचकार ॥ ४१ ॥
मूलम्
इति प्रगल्भम् पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ॥ ४१ ॥
मल्लिनाथः ...{Loading}...
इति प्रगल्भं पुरुषाणामधिराजो नृप इति प्रगल्भं मृगाधिराजस्य वचोनिशम्य श्रुत्वा गिरिशस्येश्वरस्य प्रभावात्प्रत्याहतास्त्त्रः’ कुण्ठितास्त्त्रः सन् आत्मनि विषयेऽववज्ञामपमानं शिथिलीचकार। तत्याजेत्यर्थः। अवज्ञातोऽहमिति निर्वेदं न प्रापेत्यर्थः। समानेषु हि क्षत्रियाणामभिमानः न सर्वेश्वरं प्रतीति भावः ॥ 41 ॥
विश्वास-प्रस्तुतिः
प्रत्यब्रवीच् चैनम् इषु-प्रयोगे
तत्-पूर्वसङ्गे वितथ-प्रयत्नः ।
जडीकृतस् त्र्य्-अम्बक-वीक्षणेन
वज्रम् मुमुक्षन्न् इव वज्रपाणिः ॥ ४२ ॥
मूलम्
प्रत्यब्रवीच्चैनम् इषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः ।
जडीकृतस्त्र्यम्बकवीक्षणेन वज्रम् मुमुक्षन्निव वज्रपाणिः ॥ ४२ ॥
मल्लिनाथः ...{Loading}...
प्रतीति॥ स एव पूर्वः प्रथमो भङ्गः प्रतिबन्धो यस्य तस्मिस्तत्पूर्वभङ्ग इषुप्रयोगे वितथप्रयत्नो विफलप्रयासः। अत एव वज्रं कुलिशं मुमुक्षन् मोक्तुमिच्चन्। अम्बुकं लोचनम्। दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि’ इति हलायुधः। त्रीण्यम्बकानि यस्य स त्र्यम्बको हरः। तस्य वीक्षणेन जडीकृतो निष्पन्दीकृतः। वज्रं पाणौ यस्य स वज्रपाणिरिन्द्रः। ‘प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्’(वा.1415) इति पाणेः सप्तम्यन्तस्योत्तरनिपातः। स इव स्थितो नृप एनं सिंहं प्रत्यब्रवीञ्च। ‘बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः’ इति महाभारते ॥ 42 ॥
विश्वास-प्रस्तुतिः
प्रत्याह चैनं शर-मोक्ष-वन्ध्यो
भय-त्रपत्वात् स्वर-भेदम् आप्तः ।
प्रहीण-पूर्व-ध्वनिना ऽधिरूढस्
तुलाम् असारेन शरद्-घनेन ॥ ४२* ॥
मूलम्
प्रत्याह चैनं शरमोक्षवन्ध्यो भयत्रपत्वात् स्वरभेदम् आप्तः ।
प्रहीणपूर्वध्वनिनाधिरूढस्तुलाम् असारेन शरद्घनेन ॥ ४२* ॥
विश्वास-प्रस्तुतिः
संरुद्ध-चेष्टस्य मृगेन्द्र कामं
हास्यं वचस् तद् यद् अहं विवक्षुः ।
अन्तर्गतम् प्राण-भृतां हि वेद
सर्वम् भवान्, भावम् अतो ऽभिधास्ये ॥ ४३ ॥
मूलम्
संरुद्धचेष्टस्य मृगेन्द्र कामं हास्यं वचस्तद्यदहं विवक्षुः ।
अन्तर्गतम् प्राणभृतां हि वेद सर्वम् भवान्भावम् अतोऽभिधास्ये ॥ ४३ ॥
मल्लिनाथः ...{Loading}...
संरुद्धेति॥ हे मृगेन्द्र! संरुद्धचेष्टस्य प्रतिबद्धव्यापारस्य मम तद्वचोवाक्यं कामं हास्यं परिहसनीयम्। यद्वचः ‘स त्वं मदीयेन’(2।45) इत्यादिकमहं विवक्षुर्वक्तुमिच्छुरस्मि। तर्हि तूष्णीं स्थीयतामित्याशङ्क्येश्वरकिंकरत्वात्सर्वज्ञं त्वां प्रति न हास्यमित्याह-अन्तरिति। हि यतो भवान् प्राणभृतामन्तर्गतं हृद्गतं वाग्वृत्त्या बहिरप्रकाशितमेव सर्वं भावं वेद वेत्ति। ‘विदो लटो वा’(पा.3।4।83)इति णलादेशः। अतोऽभिधास्ये वक्ष्यामि। वच इति प्रकृतं कर्म संबध्यते। अन्ये त्वीदृग्वचनमाकर्ण्यासंभावितार्थमेतदित्युपहसन्ति। अतस्तु मौनमेव भूषणम्। त्वं तु वाङ्मनसयोरेकविध एवायमिति जानासि। अतोऽभिधास्ये यद्वचोऽहं विवक्षुरित्यर्थः॥ 43 ॥
विश्वास-प्रस्तुतिः
मान्यः स मे स्थावर-जङ्गमानां
सर्ग-स्थिति-प्रत्यवहार-हेतुः ।
गुरोर् अपीदन् धनम् आहिताग्नेर्
नश्यत् पुरस्ताद् अनुपेक्षणीयम् ॥ ४४ ॥
मूलम्
मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदन् धनम् आहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥ ४४ ॥
मल्लिनाथः ...{Loading}...
मान्य इति॥ प्रत्यवहारः प्रलयः। स्थावराणां तरुशैलादीनां जंगमानां मनुष्यादीनां सर्गस्थितिप्रत्यवहारेषु हेतुः स ईश्वरो मे मम मान्यः पूज्यः। अलङ्घ्यशासन इत्यर्थः। शासनं च ‘सिंहत्वमङ्कागतसत्त्ववृत्ति’(2।38) इत्युक्तरूपम्। तर्हि विसृज्य गम्यताम्; नेत्याह-गुरोरपीति। पुरस्तादग्रे नश्यदिदमाहिताग्नेगुरोर्धनमपि गोरूपमनुपेक्षणीयम्। ‘आहिताग्नेः’ इति विशेषणेनानुपेक्षाकारणं हविः साधनत्वं सूचयति॥ 44 ॥
विश्वास-प्रस्तुतिः
स त्वम् मदीयेन शरीर-वृत्तिन्
देहेन निर्वर्तयितुम् प्रसीद ।
दिनावसानोत्सुक-बाल-वत्सा
विसृज्यतान् धेनुर् इयम् महर्षेः ॥ ४५ ॥+++(5)+++
मूलम्
स त्वम् मदीयेन शरीरवृत्तिन् देहेन निर्वर्तयितुम् प्रसीद ।
दिनावसानोत्सुकबालवत्सा विसृज्यतान् धेनुरियम् महर्षेः ॥ ४५ ॥
मल्लिनाथः ...{Loading}...
स इति॥ सोऽङ्कागतसत्त्ववृत्तिस्त्वं मदीयेन देहेन शरीरस्य वृत्तिं जीवनं निर्वर्तयितुं संपादयितुं प्रसीद। दिनावसान उत्सुको ‘माता ममागमिष्यति’ इत्युत्काण्ठतो बालवत्सो यस्याः सा महर्षेरियं धेनुर्विसृज्यताम् ॥ 45 ॥
विश्वास-प्रस्तुतिः
अथान्धकारं गिरि-गह्वराणान्
दंष्ट्रा-मयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वर-पार्श्व-वर्ती
किञ्चिद् विहस्यार्थपतिम् बभाषे ॥ ४६ ॥
मूलम्
अथान्धकारं गिरिगह्वराणान् दंष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किञ्चिद्विहस्यार्थपतिम् बभाषे ॥ ४६ ॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथ भूतेश्वरस्य पार्श्ववर्त्यनुचरः स सिंहो गिरेर्गह्वराणां गुहानाम्। ‘देवखातबिले गुहा। गह्वरम्’ इत्यमरः। अन्धकारं ध्वान्तं दंष्ट्रामयूखैः शकलानि खण्डानि कुर्वन्,निरस्यन्नित्यर्थः। किंचिद्विहस्य। अर्थपतिं नृपं भूयो बभाषे। हासकारणम् ‘अल्पस्य हेतोर्बहु हातुमिच्छन्’(2।47) इति वक्ष्यमाणं द्रष्टव्यम्॥ 46 ॥
विश्वास-प्रस्तुतिः
एकातप-त्रं जगतः प्रभुत्वं
नवं वयः, कान्तम् इदं वपुश्च ।
अल्पस्य हेतोर् बहु हातुम् इच्छन्
विचार-मूढः प्रतिभासि मे त्वम् ॥ ४७ ॥
मूलम्
एकातपत्रं जगतः प्रभुत्वं नवं ययः कान्तम् इदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुम् इच्छन्विचारमूढः प्रतिभासि मे त्वम् ॥ ४७ ॥
मल्लिनाथः ...{Loading}...
एकेति॥ एकातपत्रमेकच्छत्रं। जगतः प्रभुत्वं स्वामित्वम्। नवं वयो यौवनम्। इदं कान्तं रम्यं वपुश्च। इत्येवं बहु अल्पस्य हेतोरल्पेन कारणेन अल्पफलायेत्यर्थः। ‘षष्ठी हेतुप्रयोगे’(पा.2।3।36) इति षष्ठी। हातुं त्यक्तुमिच्छंस्त्वं विचारे कार्याकायविमर्शे मूढो मूर्खो मे मम प्रतिभासि ॥ 47 ॥
विश्वास-प्रस्तुतिः
भूतानुकम्पा तव चेद् इयं गौर्
एका भवेत् स्वस्तिमती त्वद्-अन्ते ।
जीवन् पुनः शश्वद्-उपप्लवेभ्यः
प्रजाः प्रजा-नाथ पितेव पासि ॥ ४८ ॥
मूलम्
भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते ।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥ ४८ ॥
मल्लिनाथः ...{Loading}...
भूतेति॥ तव भूतेष्वनुकम्पा कृपा चेत्। ‘कृपा दयानुकम्पा स्यात्’इत्यमरः। कृपैव वर्तते चेदित्यर्थः। तर्हि त्वदन्ते तव नाशे सति,इयमेका गौः। स्वस्ति क्षेममस्या अस्तीति स्वस्तिमती। भवेत्,जीवेदित्यर्थथः। ‘स्वस्त्याशीःक्षेमपुण्यादौ’इत्यमरः। हे प्रजानाथ! जीवन् पुनः पितेव प्रजा उपप्लवेभ्यो विपद्भ्यः शश्वत् सदा ।‘पुनः सदार्थयोः शश्वत्’ इत्यमरः। पासि रक्षसि। स्वप्राणव्ययेनैकधेनुरक्षणाद्वरं जीवितेनैव शश्वदखिलजगत्त्राणमित्यर्थः॥ 48 ॥
विश्वास-प्रस्तुतिः
अथैक-धेनोर् अपराध-चण्डाद्
गुरोः कृषानु-प्रतिमाद् बिभेषि ।
शक्यो ऽस्य मन्युर् भवता विनेतुं
गाः कोटिशः स्पर्शयता घटो-ध्नीः ॥ ४९ ॥
मूलम्
अथैकधेनोरपराधचण्डाद्गुरोः कृषानुप्रतिमाद्बिभेषि ।
शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥ ४९ ॥
मल्लिनाथः ...{Loading}...
अथेति॥ अथेति पक्षआन्तरे,अथवा। एकैव धेनुर्यस्य तस्मात्। अयं कोपकारणोपन्यास इति ज्ञेयम्। अत एवापराधे गवोपेक्षालक्षणे सति चण्डादतिकोपनात्। ‘चण्डस्त्वत्यन्तकोपनः’ इत्यमरः। अत एव कृशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद्गुरोर्बिभेषि इति काकुः। ‘भीत्रार्थानां भयहेतुः’(पा.1।4।25)इत्यपादानात्पञ्चमी। अल्पवित्तस्य धनहानिरतिदुःसहेति भावः। अस्य गुरोर्मन्युः क्रोधः। ‘मन्युर्दैन्ये क्रतौ क्रुधि’ इत्यमरः। घटा इवोधांसि यासां ता घटोध्नीः। ‘ऊधसोऽनङ्’(पा.5।4।131) इत्यनङादेशः। ‘बहुव्रीहेरूधसो ङीष्’(पा.4।1।25) इति ङीष्। कोटिशो गाः स्पर्शयता प्रतिपादयता। ‘विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्’ इत्यमरः। भवता विनेतुमपनेतुं शक्यः ॥ 49 ॥
विश्वास-प्रस्तुतिः
तद् रक्ष कल्याण-परम्पराणाम्
भोक्तारम् ऊर्जस्वलम् आत्म-देहम् ।
मही-तल-स्पर्शन-मात्र-भिन्नम्
ऋद्धं हि राज्यम् पदम् ऐन्द्रम् आहुः ॥ ५० ॥+++(र5)+++
मूलम्
तद्रक्ष कल्याणपरम्पराणाम् भोक्तारम् ऊर्जस्वलम् आत्मदेहम् ।
महीतलस्पर्शनमात्रभिन्नम् ऋद्धं हि राज्यम् पदम् ऐन्द्रम् आहुः ॥ ५० ॥
मल्लिनाथः ...{Loading}...
तदिति॥ तत्तस्मात्कारणात् कल्याणपरम्पराणां भोक्तारम्। कर्मणि षष्ठी। ऊर्जो बलमस्यास्तीत्यूर्जस्वलम्। ‘ज्योत्स्नातमिस्रा-’(पा.5।2।114) इत्यादिना बलच्प्रत्ययान्तो निपातः। आत्मदेहं रक्ष। ननु गामुपेक्ष्यात्मदेहरक्षणे स्वर्गहानिः स्यात्। नेत्याह-महीतलेति। ऋद्धं समृद्धं राज्यं महीतलस्पर्शनमात्रेण भूतलसंबन्धमात्रेण भिन्नमैन्द्रमिन्द्रसंबन्धि पदं स्थानमाहुः। स्वर्गान्न भिद्यत इत्यर्थः॥ 50 ॥
विश्वास-प्रस्तुतिः
एतावद् उक्त्वा विरते मृगेन्द्रे
प्रतिस्वनेनास्य गुहागतेन ।
शिलोच्चयो ऽपि क्षितिपालम् उच्चैः
प्रीत्या तम् एवार्थम् अभाषतेव ॥ ५१ ॥+++(5)+++
मूलम्
एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।
शिलोच्चयोऽपि क्षितिपालम् उच्चैः प्रीत्या तम् एवार्थम् अभाषतेव ॥ ५१ ॥
श्रेयश्-चितिः
मल्लिनाथः ...{Loading}...
एतावदिति॥ मृगेन्द्र एतावदुक्त्वा विरते सति गुह्नागतेनास्य सिंहस्य प्रतिस्वनेन शिलोञ्चयः शैलोऽपि प्रीत्या तमेवार्थँ क्षितिपालमुञ्चैरभाषतेव। इत्युत्प्रेक्षा। भाषिरयं ब्रुविसमानार्थत्वाद्दिकर्मकः। ब्रुविस्तु द्विकर्मकेषु पठितः। तदुक्तम्-‘दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ। ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥’ इति ॥ 51 ॥
विश्वास-प्रस्तुतिः
निशम्य देवानुचरस्य वाचम्
मनुष्य-देवः पुनर् अप्य् उवाच ।
धेन्वा तद्-अध्यासित-कातराक्ष्या
निरीक्ष्यमाणः सुतरान् दयालुः ॥ ५२ ॥
मूलम्
निशम्य देवानुचरस्य वाचम् मनुष्यदेवः पुनरप्युवाच ।
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरान् दयालुः ॥ ५२ ॥
मल्लिनाथः ...{Loading}...
निशम्येति॥ देवानुचरस्येश्वरकिंकरस्य सिंहस्य वाचं निशम्य,मनुष्यदेवो राजा पुनरप्युवाच। किंभूतः सन्? तेन सिंहेन यदध्यासितं व्याक्रमणम्। नपुंसके भावे क्तः। तेन कातरे अक्षिणी यस्यास्तया। ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्’(पा.5।4।113) इति षच्। ‘षिद्गौरादिभ्यश्च’(पा.4।1।41) इति ङीष्। ‘किंवा वक्ष्यति’ इति मीत्यैवं स्थितयेत्यर्थः। धेन्वा निरीक्ष्यमाणः। अत एव सुतरां दयालुः सन्। ‘सुतराम्’ इत्यत्र ‘द्विवचनविभज्य-’(पा.4।1।41) इत्यादिना सुशब्दात्तरप्। ‘किमेत्तिङव्यय-’(पा.5।4।11) इत्यादिनाम्प्रत्ययः। ‘तद्धितश्चासर्वविभक्तिः’(पा.1।1।38) इत्यव्ययसंज्ञा ॥ 52 ॥
विश्वास-प्रस्तुतिः
क्षतात् किल त्रायत इत्य् उदग्रः
क्षत्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किन् तद् विपरीत-वृत्तेः
प्राणैर् उपक्रोश+++(=निन्दा)+++-मलीमसैर् वा ॥ ५३ ॥+++(5)+++
मूलम्
क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किन् तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥ ५३ ॥
मल्लिनाथः ...{Loading}...
क्षतादिति॥ ‘क्षणु हिंसायाम्’ इति धातोः संपदादित्पात्क्विप्। ‘गमादीनाम्’(वा.4073) इति वक्तव्यादनुनासिकलोपे तुगागमे च क्षदिति रूपं सिद्धम्। क्षतो नाशात्त्रायत इति क्षत्त्रः। ‘सुपि-’(पा.3।2।4) इति योगविभागात्कः। तामेतां व्युत्पत्तिं कविरर्थतोऽनुक्रामति-क्षतादित्यादिना। उदग्र उन्नतः क्षत्त्रवर्णस्य शब्दो वाचकः। क्षत्त्रशब्द इत्यर्थः। क्षतात्त्रायत इति व्युत्पत्त्या भुवनेषु रूढः किल प्रसिद्धः। खलु। नाश्वकर्णादिवत्केवलरूढः किंतु पङ्कजादिवद्योगरूढ इत्यर्थः। ततः किमित्य आह-तस्य’क्षत्त्र’शब्दस्य विपरीतवृत्तेर्विरुद्धव्यापारस्य क्षतस्त्राणमकुर्वतः पुंसो राज्येन किम्? उपक्रोशमलीमसैर् निन्दामलिनैः। ‘उपक्रोशोजुगुप्सा च कुत्सा निन्दा च गर्हणे’इत्यमरः। ‘ज्योत्स्नातमिस्रा-’(पा.5।2।114)इत्यादिना ‘मलीमैस’शब्दो निपातितः। ‘मलीमसं तु मलिनं कञ्चरं मलदूषितम्’इत्यमरः। तैः प्राणैर्वा किम्? निन्दितस्य सर्वं व्यर्थमित्यर्थः। एतेन ‘एकातपत्रम्’(2।47)इत्यादिना श्लोकद्वयेनोक्तं प्रत्युक्तमिति वेदितव्यम् ॥ 53 ॥
विश्वास-प्रस्तुतिः
कथं नु शक्यो ऽनुनयो महर्षेर्
विश्राणनाच् चान्य-पयस्विनीनम्।
इमाम् अन्-ऊनां सुरभेर् अवेहि
रुद्रौजसा तु पहृतन् त्वया ऽस्याम् ॥ ५४ ॥
मूलम्
कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनम्।
इमाम् अनूनां सुरभेरवेहि रुद्रौजसा तु पहृतन् त्वयास्याम् ॥ ५४ ॥
मल्लिनाथः ...{Loading}...
कथमिति॥ अनुनयः क्रोधापनयः। चकारो वाकारार्थः। महर्षेरनुनयो वाऽन्यासां पयस्विनीनां दोग्ध्रीणां गवां विश्राणनाद्दानात्। ‘त्यागो वितरणं दानमुत्सर्जनविसर्जने। विश्राणनं वितरणम्’ इत्यमरः। कथं नु शक्यः? न शक्य इत्यर्थः। अत्र हेतुमाह-इमां गां सुरभेः कामधेनोः। ‘पञ्चमी विभक्ते’(पा.2।3।42)इति पञ्चमी। अनूनामन्यूनामवेहि जानीहि। तर्हि कथमस्याः परिभवोऽभूदित्याह-रुद्रौजसेति। अस्यां गवि त्वया कर्त्रा प्रहृतं तु प्रहारस्तु। नपुंसके भावे क्तः। रुद्रौजसेश्वरसामर्थ्येन। न तु त्वयेत्यर्थः। ‘सप्तम्यधिकरणे च’(पा.2।3।36) इति सप्तमी॥ 54 ॥
विश्वास-प्रस्तुतिः
सेयं स्व-देहार्पण-निष्क्रयेण
न्याय्या मया मोचयितुम् भवत्तः ।
न पारणा स्याद् विहता तवैवम्
भवेद् अलुप्तश् च मुनेः क्रियार्थः ॥ ५५ ॥
मूलम्
सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुम् भवत्तः ।
न पारणा स्याद्विहता तवैवम् भवेदलुप्तश्च मुनेः क्रियार्थः ॥ ५५ ॥
मल्लिनाथः ...{Loading}...
सेयमिति॥ सेयं गौर्मया। निष्क्रीयते प्रत्याह्रियतेऽनेन परगृहीतमिति निष्क्रयः प्रतिशीर्षकम्। ‘एरच्’(पा.3।3।56) इत्यच्प्रत्ययः। स्वदेहार्पणमेव निष्क्रयस्तेन भवत्तस्त्वत्तः। पञ्चम्यास्तसिल्। मोचयितुं न्याय्या न्यायादनपेता। युक्तेत्यर्थः। ‘धर्मपथ्यर्थं-’(पा.4।4।92) इत्यादिना यत्प्रत्ययः। एवं सति तव पारणा भोजनं विहता न स्यात्। मुनेः क्रिया होमादिः स एवार्थः प्रयोजनम्। स चालुप्तो भवेत्। स्वप्राणब्ययेनापि स्वामिगुरुधनं संरक्ष्यमिति भावः॥ 55 ॥
विश्वास-प्रस्तुतिः
भवान् अपीदम् परवान् अवैति
महान् हि यत्नस् तव देवदारौ ।
स्थातुं नियोक्तुर् न हि शक्यम् अग्रे
विनाश्य रक्ष्यं स्वयम् अक्षतेन ॥ ५६ ॥+++(5)+++
मूलम्
भवानपीदम् परवानवैति महान्हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्न हि शक्यम् अग्रे विनाश्य रक्ष्यं स्वयम् अक्षतेन ॥ ५६ ॥
मल्लिनाथः ...{Loading}...
भवानिति॥ परवान् स्वामिपरतन्त्त्रो भवानपि। ‘परतन्त्त्रः पराधीनः परवान्नाथवानपि’ इत्यमरः। इदं वक्ष्यमाणमवैति। भवतानुभूयत एवेत्यर्थः। ‘शेषे प्रथमः’(पा.1।4।108) इति प्रथमपुरुषः। किमित्यत आह-हि यस्माद्धेतोः,‘हि हेताववधारणे’इत्यमरः। तव देवदारौ विषये महान् यत्नः। महता यत्नेन रक्ष्यत इत्यर्थः। इदंशब्दोक्तमर्थं दर्शयति-स्थातुमिति॥ रक्ष्यं वस्तु विनाश्य विनाशं गमयित्वा स्वयमक्षतेनाव्रणेन। नुयुक्तेनेति शेषः। नियोक्तुः स्वामि नोऽग्रे स्थातुं शक्यं न हि ॥ 56 ॥
विश्वास-प्रस्तुतिः
किम् अप्य् अहिंस्यस् तव चेन् मतो ऽहं
यशःशरीरे भव मे दयालुः ।
एकान्त-विध्वंसिषु मद्-विधानाम्
पिण्डेष्व् अनास्था खलु भौतिकेषु ॥ ५७ ॥+++(5)+++
मूलम्
किम् अप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ।
एकान्तविध्वंसिषु मद्विधानाम् पिण्डेष्वनास्था खलु भौतिकेषु ॥ ५७ ॥
मल्लिनाथः ...{Loading}...
किमिति॥ किमपि किं वाऽहं तवाहिंस्योऽवध्यो मतश्चेत्तर्हि मे यश एव शरीरं तस्मिन् दयालुः कारुणिको भव। ‘स्याद्दयालुः कारुणिकः’ इत्यमरः। ननु मुख्यमुपेक्ष्यामुख्यशरीरे कोऽभिनिवेशः? अत आह-एकान्तेति॥ मद्विधानां मादृशानां विवेकिनामेकान्तविध्वंसिष्ववश्यविनाशिषु भौतिकेषु पृथिव्यादिभूतविकारेषु पिण्डेषु शरीरेष्वनास्था खल्वनपेक्षैव। ‘आस्था त्वालम्बनास्थानयत्नापेक्षासु कथ्यते’ इति विश्वः ॥ 57 ॥
विश्वास-प्रस्तुतिः
सम्बन्धम् आभाषण-पूर्वम् आहुर्
वृत्तः स नौ सङ्गतयोर् वनान्ते ।
तद्-भूत-नाथानु-ग नार्हसि त्वं
सम्बन्धिनो मे प्रणयं विहन्तुम् ॥ ५८ ॥+++(4)+++
मूलम्
सम्बन्धम् आभाषणपूर्वम् आहुर्वृत्तः स नौ सङ्गतयोर्वनान्ते ।
तद्भूतनाथानुग नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम् ॥ ५८ ॥
मल्लिनाथः ...{Loading}...
संबन्धमिति॥ संबन्धं सख्यम्। आभाषणमालापः पूर्वं कारणं यस्य तमाहुः। ‘स्यादाभाषणमालापः’इत्यमरः। स तादृक्संबन्धो वनान्ते संगतयोर्नावावयोर्वृत्तो जातः। तत्ततो हेतोर्हे भूतनाथानुग शिवानुचर!। एतेन तस्य महत्त्वं सूचयति। अत एव संबन्धिनो मित्रस्य मे प्रणयं याञ्चाम्। ‘प्रणयास्त्मी। विश्रम्भयाञ्चाप्रेमाणः’ इत्यमरः। विहन्तुं नार्हसि ॥ 58 ॥
प्रसादः
विश्वास-प्रस्तुतिः
तथेति गां मुक्तवते दिलीपः
सद्यः प्रतिष्टम्भ-विमुक्त-बाहुः ।
स न्यस्त-शस्त्रो हरये स्व-देहम्
उपानयत् पिण्डम् इवामिषस्य ॥ ५९ ॥+++(र4)+++
मूलम्
तथेति गां मुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः ।
स न्यस्तशस्त्रो हरये स्वदेहम् उपानयत्पिण्डम् इवामिषस्य ॥ ५९ ॥
मल्लिनाथः ...{Loading}...
तथेति॥ तथेति गामुक्तवते हरये सिंहाय। ‘कपौ सिंहे सुवर्णे च वर्णे विष्णौ हरिं विदुः’ इति शाश्वतः। सद्यस्तत्क्षणे प्रतिष्टम्भात्प्रतिबन्धाद्विमुक्तो बाहुर्यस्य सः। दिलीपः। न्यस्तशस्त्त्रस्त्यक्तायुधः सन्। स्वदेहं,आमिषस्य मांसस्य,‘पललं क्रव्यमामिषम्’ इत्यमरः। पिण्डं कवलमिव। उपानयत् समर्पितवान्। एतेन निर्ममत्वमुक्तम्॥ 59 ॥
विश्वास-प्रस्तुतिः
तस्मिन् क्षणे पालयितुः प्रजानाम्
उत्पश्यतः सिंह-निपातम् उग्रम् ।
अवाङ्-मुखस्योपरि पुष्प-वृष्टिः
पपात विद्या-धर-हस्त-मुक्ता ॥ ६० ॥+++(5)+++
मूलम्
तस्मिन्क्षणे पालयितुः प्रजानाम् उत्पश्यतः सिंहनिपातम् उग्रम् ।
अवाङ्मुखमुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ ६० ॥
मल्लिनाथः ...{Loading}...
तस्मिन्निति॥ तस्मिन्क्षणे उग्रं सिंहनिपातमुत्पश्यत उत्प्रेक्षमाणस्य तर्कयतोऽवाङ्मुखस्याधोमुखस्य। ‘स्यादवाङप्यधोमुखः’ इत्यमरः। प्रजानां पालयितू राज्ञ उपर्युपरिष्टात्। ‘उपर्युपरिष्टात्’(पा.5।3।31) इति निपातः। विद्याधराणां देवयोनिविशेषणां हस्तैर्मुक्ता पुष्पवृष्टिः पपात ॥ 60 ॥
विश्वास-प्रस्तुतिः
उत्तिष्ठ वत्सेत्य् अमृतायमानं
वचो निशम्योत्थितम् उत्थितः सन् ।
ददर्श राजा जननीम् इव स्वां
गाम् अग्रतः प्रस्रविणीं, न सिंहम् ॥ ६१ ॥+++(र4)+++
मूलम्
उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितम् उत्थितः सन् ।
ददर्श राजा जननीम् इव स्वां गाम् अग्रतः प्रस्रविणीं न सिंहम् ॥ ६१ ॥
मल्लिनाथः ...{Loading}...
उत्तिष्ठेति॥ राजा। अमृतमिवाचरतीत्यमृतायमानम्। ‘उपमानादाचारे’(पा.3।1।10)इति क्यच्। ततः शानच्। उत्थितमुत्पन्नम्,‘हे वत्स! उत्तिष्ठ’ इति वचो निशम्य श्रुत्वा। उत्थितः सन्। अस्तेः शतृप्रत्ययः। अग्रतोऽग्रे प्रस्रवः क्षीरस्रावोऽस्ति यस्याः सा तां प्रस्रविणीं गां स्वां जननीमिव ददर्श। सिंहं न ददर्श ॥ 61 ॥
विश्वास-प्रस्तुतिः
तं विस्मितन् धेनुर् उवाच “साधो
मायाम् मयोद्भाव्य परीक्षितोऽसि ।
ऋषि-प्रभावान् मयि नान्तकोऽपि
प्रभुः प्रहर्तुं किम् उतान्य-हिंस्राः ॥ ६२ ॥+++(4)+++
मूलम्
तं विस्मितन् धेनुरुवाच साधो मायाम् मयोद्भाव्य परीक्षितोऽसि ।
ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किम् उतान्यहिंस्राः ॥ ६२ ॥
मल्लिनाथः ...{Loading}...
तमिति॥ विस्मितमाश्चर्यं गतम्। कर्तरि क्तः। तं दिलीपं धेनुरुवाच । किमित्यत्राह-हे साधो! मया मायामुद्भाव्य कल्पयित्वा परीक्षितोऽसि। ऋषिप्रभावान्मय्यन्तको यमोऽपि प्रहर्तुं न प्रभुर्न समर्थः। अन्ये हिंस्ना घातुकाः। ‘शरारुर्घातुको हिंस्रः’ इत्यमरः। ‘नमिकम्पि-’(पा.3।1।167)इत्यादिना रप्रत्ययः। किमुत सुष्ठु,न प्रभव इति योज्यम्। ‘बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरे’ इत्यमरः ॥ 62 ॥
विश्वास-प्रस्तुतिः
भक्त्या गुरौ मय्य् अनुकम्पया च
प्रीतास्मि ते पुत्र वरं वृणीष्व ।
न केवलानाम् पयसाम् प्रसूतिम्
अवेहि मां काम-दुघाम् प्रसन्नाम् ॥ ६३ ॥+++(5)+++
मूलम्
भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र वरं वृणीष्व ।
न केवलानाम् पयसाम् प्रसूतिम् अवेहि मां कामदुघाम् प्रसन्नाम् ॥ ६३ ॥
मल्लिनाथः ...{Loading}...
भक्त्येति॥ हे पुत्र! गुरौ। भक्त्या। मय्यनुकम्पया च। ते तुभ्यं प्रीताऽस्मि। ‘क्रियाग्रहणमपि कर्तव्यम्’ इति चतुर्थी। वरं देवेभ्यो वरणीयमर्थम्। ‘देवाद्धृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये’ इत्यमरः। वृणीष्व स्वीकुरु। तथा हि-मां केवलानां पयसां प्रसूतिं कारणं नावेहि न विद्धिः। किंतु प्रसन्नां माम्। कामान्दोग्धीति कामदुघा। तामवेहि। ‘दुहः कब्थश्च’(पा.3।2।70) इति कप्प्रत्ययः ॥ 63 ॥
विश्वास-प्रस्तुतिः
ततः समानीय स मानितार्थी
हस्तौ स्व-हस्तार्जित-वीरशब्दः ।
वंशस्य कर्तारम् अनन्त-कीर्तिं
सुदक्षिणायान् तनयं ययाचे ॥ ६४ ॥
मूलम्
ततः समानीय समानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।
वंशस्य कर्तारम् अनन्तकीर्तिं सुदक्षिणायान् तनयं ययाचे ॥ ६४ ॥
मल्लिनाथः ...{Loading}...
तत इति॥ ततो मानितार्थी। स्वहस्तार्जितो वीर इति शब्दो येन सः। एतेनास्य दातृत्वं दैन्यराहित्यं चोक्तम्। स राजा हस्तौ समानीय संधाय। अञ्जलिं बद्ध्वेत्यर्थः। वंशस्य कर्तारं प्रवर्तयितारम्। अत एव रघुकुलमिति प्रसिद्धिः। अनन्तकीर्तिं स्थिरयशसं तनयं सुदक्षिणायां ययाचे ॥ 64 ॥
विश्वास-प्रस्तुतिः
सन्तान-कामाय तथेति कामं
राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
“दुग्ध्वा पयः पत्त्र-पुटे मदीयम्
पुत्रोपभुङ्क्ष्वे"ति तम् आदिदेश ॥ ६५ ॥
मूलम्
सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
दुग्ध्वा पयः पत्त्रपुटे मदीयम् पुत्रोपभुङ्क्ष्वेति तम् आदिदेश ॥ ६५ ॥
मल्लिनाथः ...{Loading}...
संतानेति॥ सा पयस्विनी गौः। संतानं कामयत इति ह्यंतानकामः। ‘कर्मण्यण्’(पा.3।2।1)तस्मै राज्ञे तथेति। काम्यत इति कामो वरः। कर्मार्थे घञप्रत्ययः। तं प्रतिश्रुत्य प्रतिज्ञाय,‘हे पुत्र!मदीयं पयः पत्रपुटे पत्रनिर्मिते पात्रे दुग्ध्वोपभुङ्क्ष्व पिब’ इति तमादिदेशाज्ञापितवती। ‘उपयुङ्क्ष्व’ इति वा पाठः॥ 65 ॥
विश्वास-प्रस्तुतिः
“वत्सस्य होमार्थविधेश् च शेषम्
ऋषेर् अनुज्ञाम् अधिगम्य मातः ।
ऊधस्यम् इच्छामि तवोपभोक्तुम्यं
षष्ठांशम् उर्व्या इव रक्षितायाः” ॥ ६६ ॥+++(5)+++
मूलम्
वत्सस्य होमार्थविधेश्च शेषम् ऋषेरनुज्ञाम् अधिगम्य मातः ।
ऊधस्यम् इच्छामि तवोपभोक्तुम्यं षष्ठाम्शम् उर्व्या इव रक्षितायाः ॥ ६६ ॥
मल्लिनाथः ...{Loading}...
वत्सस्येति॥ हे मातः!वत्सस्य वत्सपीतस्य शेषम्। वत्सपीतावशिष्टमित्यर्थथः। होम एवार्थः। तस्य विधिरनुष्ठानम्। तस्य च शेषम्। होमावशिष्टमित्यर्थः। तव। ऊधसि भवमूधस्यं क्षीरम्। ‘शरीरावयवाञ्च’(पा.4।3।55)इति यत्प्रत्ययः। पक्षिताया उर्व्याः षष्ठांशं षष्ठभागमिव। ऋषेरनुज्ञामधिगम्य उपभोक्तुमिच्छामि ॥ 66 ॥
विश्वास-प्रस्तुतिः
इत्थं क्षितीशेन वसिष्ठ-धेनुर्
विज्ञापिता प्रीततरा बभूव ।
तद्-अन्विता हैमवताच् च कुक्षेः
प्रत्याययाव् आश्रमम् अश्रमेण ॥ ६७ ॥
मूलम्
इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।
तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रमम् अश्रमेण ॥ ६७ ॥
मल्लिनाथः ...{Loading}...
इत्थमिति॥ इत्थं क्षितीशेन विज्ञापिता वसिष्ठस्य धेनुः प्रीततरा पूर्वं शुश्रूषया प्रीता। संप्रत्यनया विज्ञापनया प्रीततराऽतिसंतुष्टा बभूव। तदन्विता तेन दिलीपेनान्विता हैमवताद्धिमवत्संबन्धिनः कुक्षेगुहायाः सकाशादश्रमेणानायासेनाश्रमं प्रत्याययावागता च ॥ 67 ॥
विश्वास-प्रस्तुतिः
तस्याः प्रसन्नेन्दु-मुखः प्रसादं
गुरुर् नृपाणां, गुरवे निवेद्य ।
प्रहर्ष-चिह्नानुमितम् प्रियायै
शशंस वाचा पुनर् उक्तयेव ॥ ६८ ॥+++(5)+++
मूलम्
तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितम् प्रियायै शशंस वाचा पुनरुक्तयेव ॥ ६८ ॥
मल्लिनाथः ...{Loading}...
तस्या इति॥ प्रसन्नेन्दुरिव मुखं यस्य स नृपाणां गुरुर्दिलीपः प्रहर्षचिह्नैर्मुखरागादिभिरनुमितमभ्यूहितं तस्या धेनोः प्रसादमनुग्रहं प्रहर्षचिह्नैरेव ज्ञातत्वात्पुनरुक्तयेव वाचा गुरवे निवेद्य विज्ञाप्य पश्चात्प्रियायै शशंस । कथितस्यैव कथनं पुनरुक्तिः,न चेह तदस्ति। किंतु चिह्नैः कथितप्रायत्वात्पुनरुक्तयेव स्थितयेवेत्युत्प्रेक्षा ॥ 68 ॥
विश्वास-प्रस्तुतिः
स नन्दिनी-स्तन्यम् अ-निन्दितात्मा
सद्-वत्सलो वत्स-हुतावशेषम् ।
पपौ वसिष्ठेन कृताभ्यनुज्ञः
शुभ्रं यशो मूर्तम् इवातितृष्णः ॥ ६९ ॥
मूलम्
स नन्दिनीस्तन्यम् अनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् ।
पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तम् इवातितृष्णः ॥ ६९ ॥
मल्लिनाथः ...{Loading}...
स इति॥ अनिन्दितात्माऽगर्हितस्वभावः। सत्सु वत्सलः प्रेमवान् सद्वत्सलः। ‘वत्सांसाभ्यां कामबले’(पा.5।2।98)इति लच्प्रत्ययः। वसिष्ठेन कृताभ्यनुज्ञः कृतानुमतिः स राजा वत्सस्य हुतस्य चावशेषं पीतहुतावशिष्टं नन्दिन्याः स्तन्यं क्षीरम्। शुभ्रं मूर्तं परिच्छिन्नं यश इव। अतितृष्णः सन्पपौ ॥ 69 ॥
प्रतिगतिः
विश्वास-प्रस्तुतिः
प्रातर् यथोक्त-व्रत-पारणान्ते
प्रास्थानिकं स्वस्त्य्-अयनम् प्रयुज्य ।
तौ दम्पती स्वाम् प्रति राज-धानीम्
प्रस्थापयाम् आस वशी वसिष्ठः ॥ ७० ॥
मूलम्
प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनम् प्रयुज्य ।
तौ दम्पती स्वाम् प्रति राजधानीम् प्रस्थापयाम् आस वशी वसिष्ठः ॥ ७० ॥
मल्लिनाथः ...{Loading}...
प्रातरिति॥ वशी वसिष्ठः प्रातः। यथोक्तस्य पूर्वोक्तस्य व्रतस्य गोसेवारूपस्याङ्गभूता या पारणा तस्या अन्ते प्रास्थानिकं प्रस्थानकाले भवम्। तत्कालोचितमित्यर्थथः। ‘कालाट्टञ्’(पा.4।3।11) इति ठञ्प्रत्ययः। ‘यथाकथंचिद्गुणवृत्त्यापि काले वर्तमानत्वात्तत्प्रत्यय इष्यते’ इति वृत्तिकारः। ईयते प्राप्यतेऽनेनेत्ययनं स्वस्त्ययनं शुभावहमाशीर्वादं प्रयुज्य । तौ दंपती स्वां राजधानीं पुरीं प्रति प्रस्थापयामास ॥ 70 ॥
विश्वास-प्रस्तुतिः
प्रदक्षिणी-कृत्य हुतं हुताशम्
अनन्तरम् भर्तुर्, अरुन्धतीं च ।
धेनुं स-वत्सां च, नृपः प्रतस्थे
सन्-मङ्गलोदग्रतर-प्रभावः ॥ ७१ ॥
मूलम्
प्रदक्षिणीकृत्य हुतं हुताशम् अनन्तरम् भर्तुररुन्धतीं च ।
धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः ॥ ७१ ॥
मल्लिनाथः ...{Loading}...
प्रदक्षिणीकृत्येति॥ नृपो हुतं तर्पितम्। हुतमश्नातीति हुताशो ऽग्निः। ‘कर्मण्यण्’(पा.3।2।12)।
तं भर्तुर् मुनेरनन्तरम्। प्रदक्षिणानन्तरमित्यर्थः। अरुन्धतीं च सवत्सां धेनुं च प्रदक्षिणीकृत्य । प्रगतो दक्षिणं प्रदक्षिणम्। ‘तिष्ठद्गुप्रभृतीनि च’(पा.2।1।17) इत्यव्ययीभावः। ततश्चिवः। अप्रदक्षिणं प्रदक्षिणं संपद्यमानं कृत्वा प्रदक्षिणीकृत्य। सद्भिर्मङ्गलैः प्रदक्षिणादिभिर्मङ्गलाचारैरुदग्रतरप्रभावः सन्। प्रतस्थे ॥ 71 ॥
विश्वास-प्रस्तुतिः
श्रोताभिराम-ध्वनिना रथेन
स धर्म-पत्नी-सहितः सहिष्णुः ।
ययाव् अन्-उद्घात+++(=jolt)+++-सुखेन मार्गं
स्वेनेव पूर्णेन मनोरथेन ॥ ७२ ॥+++(4)+++
मूलम्
श्रोताभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः ।
ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥ ७२ ॥
मल्लिनाथः ...{Loading}...
श्रोत्रेति॥ धर्मपत्नीसहितः सहिष्णुर्व्रतादिदुःखसहनशीलः स नृपः श्रोत्राभिरामध्वनिना कर्णाह्लादकरस्वनेनानुद्धातः पाषाणादि प्रति घातरहितः। अत एव सुखयतीति सुखः,तेन रथेन। स्वेन पूर्णेन सफलेन मनोरथेनेव। मार्गमध्वानं ययौ। मनोरथपक्षे,-ध्वनिः श्रुतिः। अनुद्धातः प्रतिबन्धनिवृत्तिः॥ 72 ॥
विश्वास-प्रस्तुतिः
तम् आहितौत्सुक्यम् अदर्शनेन
प्रजाः प्रजार्थ-व्रत-कर्शिताङ्गम् ।
नेत्रैः पपुस् तृप्तिम् अनाप्नुवद्भिर्
नवोदयं नाथम् इवौषधीनाम् ॥ ७३ ॥+++(5)+++
मूलम्
तम् आहितौत्सुक्यम् अदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम् ।
नेत्रैः पपुस्तृप्तिम् अनाप्नुवद्भिर्नवोदयं नाथम् इवौषधीनाम् ॥ ७३ ॥
मल्लिनाथः ...{Loading}...
तमिति॥ अदर्शनेन प्रवासनिमित्तेनाहितौत्सुक्यं जनितदर्शनोत्कण्ठम्। प्रजार्थेन संतानार्थेन व्रतेन नियमेन कर्शितं कृशीकृतमङ्गं यस्य तम्। नवोदयं नवाभ्युदयं प्रजास्तृप्तिमनाप्नुवद्भिरतिगृध्नुभिर्नेत्रैः। ओषधीनां नाथं सोममिव। तं राजानं पपुः । अत्यास्थया ददृशुरित्यर्थः। चन्द्रपक्षे,-अदर्शनं कलाक्षयनिमित्तम्। प्रजार्थे लोकहितार्थम्। व्रतं देवताभ्यः कलादाननियमः-‘तं च सोमं पपुर्देवाः पर्यायेणानुपूर्वशः’ इति व्यासः। उदय आविर्भावः । अन्यत्समानम्॥ 73 ॥
विश्वास-प्रस्तुतिः
पुरन्दर-श्रीः पुरम् उत्पताकम्
प्रविश्य पौरैर् अभिनन्द्यमानः ।
भुजे भुजङ्गेन्द्र-समान-सारे
भूयः स भूमेर् धुरम् आससञ्ज ॥ ७४ ॥
मूलम्
पुरन्दरश्रीः पुरम् उत्पताकम् प्रविश्य पौरैरभिनन्द्यमानः ।
भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धुरम् आससञ्ज ॥ ७४ ॥
मल्लिनाथः ...{Loading}...
पुरंदरेति॥ पुरः पुरीरसुराणां दारयतीति पुरंदरः शकः। ‘पूःसर्वयोर्दारिसहोः’(पा.3।2।41)इति खच्प्रत्ययः। ‘वाचंयमपुरंदरौ च’(पा.6।3।69)इति मुमागमो निपातितः। तस्य श्रीरिव श्रीर्यस्यसः। स नृपः पौरैरभिनन्द्यमानः। उत्पताकमुच्छ्रितध्वजम्। ‘पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्’इत्यमरः। पुरं प्रविश्य भुजंगेन्द्रेण समानसारे तुल्यबले। ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रुषु’ इत्यमरः। भुजे भूयो भूमेर्धुरमाससञ्ज अर्पितवान्॥ 74 ॥
विश्वास-प्रस्तुतिः
अथ नयन-समुत्थं ज्योतिर् अत्रेर् +++(→चन्द्र)+++ इव द्यौः
सुर-सरिद् इव तेजो वह्नि-निष्ठ्यूतम् ऐशम् ।
नर-पति-कुल-भूत्यै गर्भम् आधत्त राज्ञी
गुरुभिर् अभिनिविष्टं लोक-पालानुभावैः ॥ ७५ ॥
मूलम्
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतम् ऐशम् ।
नरपतिकुलभूत्यै गर्भम् आधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥ ७५ ॥
मल्लिनाथः ...{Loading}...
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः।
अथेति॥ अथ द्यौः सुरवर्त्म। ‘द्यौः स्वर्गसुरवर्त्मनोः’ इति विश्वः। अत्रेर्महर्षेर्नयनयोः समुत्थमुत्पन्नं नयनसमुत्थम्। ‘आतश्चोपसर्गे’(पा.3।1।136)इति कप्रत्ययः। ज्योतिरिव। चन्द्रमिवेत्यर्थः। ‘ऋक्षेशः स्यादत्रिनेत्रप्रसूतः’ इति हलायुधः। चन्द्रस्यात्रिनेत्रोद्भूतत्वमुक्तं हरिवंशे-‘नेत्राभ्यां वारि सुस्नाव दशधा द्योतयद्दिशः। तद्गर्भविधिना हृष्टा दिशो देव्यो दधुस्तदा। समेत्य धारयामासुर्न चैताः समशक्नुवन्। स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः। पपात पावयँल्लोकाञ्छीतांशुः सुरभावनः॥’ इति। सुरसरिद्गङ्गा वह्निना निष्ठ्यूतं विक्षिप्तम्। ‘च्छ्वोः शूडनुनासिके च’(पा.6।4।19)इत्यनेन निपूर्वात्ष्ठीवतेर्वकारस्य ऊठ्। ‘नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः’ इत्यमरः। ऐशं तेजः स्कन्दमिव। अत्र रामायणम्(बाल.3।6।10)-‘ते गत्वा पर्वतं राम! कैलासं धातुमण्डितम्। अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः। देवकार्यमिदं देव समाधत्स्व हुताशन!। शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज। देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः। गर्भँ धारय वै देवि! देवतानामिदं प्रियम्। इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत्। स तस्यामहिमां दृष्ट्वा समन्तादवशीर्यत। समन्ततस्तु तां देवीमभ्यषिञ्चत पावकः। सर्वस्नोतांसि पूर्णानि गङ्गाया रघुनन्दन!॥’ इति। राज्ञी सुदक्षिणा नरपतेर्दिलीपस्य कुलभूत्यै संततिलक्षणायै गुरुभिर्महद्भिर्लोकपालानामनुभावैस्तेजोभिरभिनिविष्टमनुप्रविष्टं गर्भमाधत्त। दधावित्यर्थः। अत्र मनुः(5।96)-‘अष्टानां लोकपालानां वपुर्धारयते नृपः’ इति। अत्र ‘आधत्त’ इत्यनेन स्त्रीकर्तृकधारणमात्रमुच्यते। तथा मन्त्रे च दृश्यते-‘यथेयं पृथिवी मह्युत्ताना गर्भमादधे। एवं त्वं गर्भमाधेहि दशमे मासि सूतवे।’ इत्याश्वलायनानां सीमन्तमन्त्रे स्त्रीव्यापारधारण आधानशब्दप्रयोगदर्शनादिति। मालिनीवृत्तमेतत्। तदुक्तम्-‘ननमयययुतेयं मालिनी भोगिलोकैः’ इति लक्षणात् ॥ 75 ॥
नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः ।। २ ।।