भूमिका
॥ श्रीः ॥
॥ भूमिका ।
महा-कवि-श्री-कालिदास-विरचितेषु काव्येषु, संक्षिप्तमक्षरेण, अधिकमर्थपोषेण, रम्यं रसविलासेन चेदं मेघसंदेशाभिधं काव्यरत्नम् ।
इदं च खण्डकाव्यमिति दर्पणकृदादयः । दण्डिमतानुसारिणस्तु महाकाव्यमेव मन्यन्ते । स्वाधिकारप्रमत्तो वर्षभोग्येण भर्तुः शापेन अस्तंगमितमहिमा कश्चिद्राजराजानुचरः, रामगिर्याश्रमेषु वसतिं कुर्वाणः, एकदा आषाढस्य प्रथम दिवसे मेघं पश्यन्, अन्तर्वाष्पश्चिरमनुध्याय कथंचिदात्मानं संस्तभ्य, स्वदयिताजीवितालम्बनार्थी सन्, रामगिरिमारभ्य यावदलकमादौ मार्गमनन्तरं संदेशार्योश्च कथयित्वा प्रेषयामास प्रियासमीपमित्येतदत्र कमनीयं कथावस्तु ।
‘सीतां प्रति रामस्य हनूमत्संदेशं मनसि निधाय मेघसंदेशं कविः कृतवानित्याहुः’ इति मल्लिनाथः । युक्तं चैतत् । न खल्वन्येषामिव महाकवीनां वचसि गूढतयापि विना महापुरुषचरितवर्णनपरिमलं केवलं निरभिसंधि यत्किंचिन्निरूपणदोहदं कदापि भविष्यति । तथा च भट्टभवभूतिः कल्पितेतिवृत्ते मालतीमाधवे नायकं माधवनाम्ना व्यपदिशन्, ‘कुवयदलश्यामः’ इति च तं वर्णयन्, मूढमात्माभिसंधिमभिदर्शयति । अयं किल महाकविर्वाल्मीकिसूक्तिसुधारसमनवरतमास्वादयन्सर्वेष्वपि स्वकीयेषु काव्येषु शब्दतोऽर्थतश्च श्रीमद्रामायणस्यैवानुकरोतीति नेदमविदितं मेधाविनाम् । अनुकरणं च बिम्बग्रहणे नियतमादर्शे विषमं विलोक्यत इति जीमूतस्य उत्तरदिशाप्रस्थानं नांशतोऽप्यत्रार्थे दूषणम्, परं तु व्यङ्ग्यैकजीविते महाकवेर्वचसि सर्वात्मना भवति भूषणम् । तथा च महाकविरयमत्र काव्ये शब्दार्थाभ्यां रामायणानुकरणमात्मना सूचयति । तथा हि-
प्रथमत एव कान्ताविरहितं यक्षम् ‘कश्चित्’ इति निर्दिशन् अनिर्वचनीयमहिमानं कंचन महापुरुषं नायकं क्रोडीकरोतीति युक्तं प्रतिपत्तुम्1। ‘जनकतनयास्नानपुण्योदकेषु’ ‘रामगिर्याश्रमेषु’ ‘रघुपतिपदैरङ्कितम्’ ‘दशमुखभुजोच्छ्वासितप्रस्थसंधेः’ ‘इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा’ इति पदानि प्रयुञ्जानो महाकविरयं नियतमेवात्र रामायणकथामासूत्रयतीति को वा सचेतनो भावुको न भावयतु ।
किं च रामायणोक्तमेव हनुमतो गजपर्वत शृङ्गादिसादृश्यं कामरूपत्वं च मेघेऽप्यत्र योजयता, सुग्रीवकथितं वानरगमनमार्गमनुस्मारयता, सुवेलस्थितां लङ्कामिव कैलासमधिष्ठिता कर्मठानां कर्मठः, ज्ञानिनां ज्ञानी, भक्तानां भक्तः, प्रपन्नानां प्रपन्नः, वादिनां वादी, शान्तानां शान्तः– साक्षादेव सीतारामव्यतिकरसखं हंससंदेशाभिधं मेघसंदेशानुकारि काव्यमात्मना रचयामास; एषा किल अस्य श्रीमतो निगमान्तमहादेशिकस्य प्रकृतिः, यदुत स्वानुगमनेन कविसार्वभौमे कालिदासे स्वकीयबहुमानप्रदर्शनप्रवणता नाम । अत एव रघुवंशसमकक्ष्यतया यादवाभ्युदयमारिरचयिषुरयं श्रीमान्वेदान्तदेशिकः, रघुवंश इव स्वकीयेऽपि काव्ये प्रथमं सर्गमानुष्टुभैः पद्यैरारभमाणः, ‘वागर्थाविव—’
अयं च कालिदास एव संदेशकाव्यस्य मार्गदर्शी महाकविः । श्रीमति रामायणे भागवते च परिदृश्यमाना संदेशपद्धतिः प्रथममेनेनैव महाकविना सरसकवितायाः संचारक्षमा संस्कृता । एतदनुसारेण प्रवृत्तेषु च संदेशकाव्येषु श्रीमद्वेदान्तदेशिकविरचितो हंससंदेशः, उद्दण्डशास्त्रिकृतः कोकिलसंदेशः, लक्ष्मीदासकलितः शुकसंदेशश्च सुप्रसिद्धाः । तत्र हंससंदेशश्च भूयसा मेघसंदेशमतिशेते सर्वतो रामणीयकेनेति प्रागेव निवेदितमस्माभिः । उद्धवदूतादीनि तु नास्माभिरवलोकितानि । मनोदूतवातदूतादीनि च भिन्नच्छायानि रसकृशानि चेति न तान्यत्र परिगणनामर्हन्ति ।
प्रायेण च सुप्रसिद्धानि संदेशकाव्यानि मन्दाक्रान्तावृत्तमवलम्ब्यैव सन्ति संदृब्धानि । अस्यैव च वृत्तस्य समादरणे को नु नाम हेतुः स्यात् ? न खलु दृश्यते लाक्षणिकेषु ग्रन्थेषु क्वचिदप्य् एवम् आलंकारिकेण छान्दसेन वा केनचिदेतदनुशिष्टम् । ऐच्छिकं तदिति इति श्लोके कविचक्रवर्तिना प्रयुक्तम् ‘वन्दे’ इति पदमेव’ वन्दे वृन्दावनचरम्’ इति प्रथमपद्ये प्रयुज्य काव्यमुपचक्राम । यथा च वागर्थाविति पद्यस्य व्यङ्या् र्थरसविलासादिभिर्नितरां चमत्कारकारिता श्रीमता अप्पय्यदीक्षितेन चित्रमीमांसायां प्रदर्शिता, तथा वन्दे वृन्दावनचरमिति पद्यस्यापि स्वकृते यादवाभ्युदयव्याख्याने सा प्रकटितेति तत एव शायतां रसिकवर्यैः । तथा हंससंदेशेऽपि ‘जातं वंशे भुवनविदिते’ इति मेघसंदेशे मेघविशेषणतया प्रयुक्तम् ‘जातं वंशे’ इत्येतत् ‘वंशे जातः सवितुरनघे’ इति प्रथमपद्ये नायकतु बहवः । वयं पुनः, मन्दाक्रान्तायां प्रतिपादं प्रथमतः चतुर्षु पश्चात् षट्सु परस्ताच्च सप्तस्वक्षरेषु यतेर्विद्यमानतया विरहविक्लवस्वस्य नायकस्य संदेशावसरे क्रमेण किंचिद्विलम्ब्य विलम्ब्य निश्वासविच्छेदः सुकर इति तदिदं वृत्तमानुभाविकेन महाकविना समनुसृतमिति ब्रूमः । अत एव चेदं वृत्तं क्रमेण आरोहस्य मन्दमाक्रमणान्मन्दाक्रान्तापदेन व्यपदिश्यत इति च कलयामः । अल्पाक्षराणामत्यधिकाक्षराणां वा वृत्तानामनुसरणं त्वेकतो वक्तव्यार्थपरिपूर्त्त्यसहत्वादपरतश्च हृदयोद्वेजकत्वात् न कार्यमिति मध्यस्थस्य सप्तदशाक्षरस्य वृत्तस्य परिग्रह इति च भावयामः । यथा च भवभूत्यादयः शिखरिण्यादिषु, तथा कालिदासोऽपि मन्दाक्रान्तायां विशिष्यत इति क्षेमेन्द्रः ।
अत्र च शापप्रवासविप्रलम्भशृङ्गारो रसः । कालिदासस्य चान्यादृशं दृशं कौशलं विप्रलम्भशृङ्गारवर्णने । न खलु विप्रलम्भमन्तरा संभोगस्य परिस्फुरिष्यति कापि विच्छित्तिः । ‘न विना विप्रलम्भेन सं
विशेषणतया संघटयन्सर्वात्मना शब्दतोऽर्थतश्च कालिदासीयेषु काव्येषु निरतिशयमात्मनो बहुमानमभिदर्शयति श्रीमान्कवितार्किकसिंह: । सानुस्वारस्य वकारस्य अमृतबीजत्वात् स्वयं भगवद्भक्ति: परिपूर्णत्वाच्च यादवाभ्युदये प्रथमतः एव ‘वन्दे’ पदनिर्देशः कवि तार्किकसिंहस्य । हंससंदेशेऽपि ‘जातो वंशे’ इत्युक्तौ शैथिल्यापत्त्या तत्परिहाराय, दूतभूतमेघविशेषणत्वापेक्षयापि नायके तद्विशेषणमेव नितरां शोभत इत्यभिमत्य, ‘कश्चित्’ इति निर्देशमसहमानेन महावेदान्तिना परमभागवतेन वेङ्कटनाथार्येण प्रथमतोऽमृतबीजं सानु: भोग: पुष्टिमश्नुते’ इति ह्यभियुक्ताः । तत्रापि शापप्रवासविप्रलम्भे भूयानादरः परिदृश्यतेऽस्य महाकवेः । तथा च शाकुन्तले विक्रमोर्वशीये च रुचिरतममयमुपनिबद्धवान्महाकविः शापप्रवासविप्रलम्भम् । रसानुगुणाश्च नायकस्य नायिकायाश्च तास्ता दशा: सुनिपुणं महाकविना तत्र तत्र प्रतिपादिता इति सुगममेवेदं सुधियाम् ।
प्रायेण हि भारतीयानां पण्डितानां कवीनां वा न खलु स्वदेशसंनिकृष्टमपि देशान्तरमधिकृत्य विद्यते ज्ञानलवोऽपीति सर्वसंप्रतिपन्नमिदम् । अस्य तु महाकवेरनितरसाधारणमत्याश्चर्यकरं भूगोलपरिज्ञानं देशान्तरपरिचयश्चेति मेघसंदेशमार्गकथनघट्टमनुशीलयन्को हि नाम सचेता नाम्युपगमिष्यति।
अस्य च रसमयस्य लघुनः संदेशकाव्यस्य सन्ति व्याख्यानान्युपविंशानि । तेषु च सकलैरपि गुणैः सर्वतोऽपि सारतमं मल्लिनाथीयं व्याख्यानमिति निर्विवादं समकण्ठं सर्वेऽपि पण्डिताः प्रशंस्वारो वकारः प्रयुक्त इत्याकलयतां कृतमतीनां यत्सत्यमन्यादृश एव प्रादुर्भविष्यति परमानन्दसंदोहः । अथ वा, अयमस्य निगमान्तगुरोः कोऽपि कवितासंप्रदायः, यदन्यानाक्रान्तेन पथा संचरणम्, उत वा परप्रहतामेव पद्धतिमात्मना सविशेषं परिष्कृत्य तया पुनर्गमनं नाम । अत एव भूयःसु स्थलेषु मेघसंदेशापेक्षयापि हंससंदेशे नूनमनुभूयते विशिष्टः कोऽपि रसादिभिश्चमत्कारातिशयः । यथां चैतत्तथा संदेशविमर्शे सनिदर्शनं सविस्तरं निरूपयिष्यामः । इदं पुनरन्यादृशमानन्दसर्वस्वम्, यदयं श्रीमान् वेङ्कटनाथः स्वयं सन्ति । अस्मद्देशीयानां हि विदुषां वेदपुरुष इव खलु भूयसी: बहु मतिर्मल्लिनाथमहोपाध्याये । तदुक्तं हि सर्वमप्यर्थजातं स्वतः प्रमाणपदवीमर्हतीति दृढाभिमानेन तदुक्तिषु साधुत्वासाधुत्वस्वारस्यास्वारस्यादिविचारणां महापातककृत्यमाकलयन्तः, तद्विमर्शप्रवृत्तान्गजनिमीलिकया सुदूरमधिक्षिपन्तो भूयसा समुपलभ्यन्ते यथाश्रुतग्राहिणः पण्डितप्रथाजीविन इत्यन्याय्यमिदमतिशोचनीयमवस्थान्तरमखिलस्यापि भारतस्य । यदि नाम वयं मल्लिनाथादप्यतिप्रकृष्टः कश्चन काव्यव्याख्यातास्तीति ब्रूमः, नियतमेव तर्हि वयमपरैरर्धमुग्धैरनेकधा परिहस्येमहीत्येतदनुभवपुनरुक्तमस्माकम् । अस्त्येवास्माकमपि मल्लि नाथमहोपाध्याये महती संभावना, नूनमयं बहूनां काव्यानां व्याख्याता दार्शनिको विद्वान् बहुश्रुतश्चेति । परं तु काव्यव्याख्यानकरणे यावती पुनरस्य पण्डितैः प्रशस्यमाना प्रसिद्धिरस्ति, तावतीमर्हति वायं मल्लिनाथ इत्यत्रैव बलवती विप्रतिपत्तिर्विद्यतेऽस्माकम् । यतो वयं बहुत्र तद्व्याख्यानेषु प्रमादमुपलभामहे, जानीमश्च
हंससंदेशे तावन्त्येव पद्यानि विरचयामास; यावन्ति पुनर्मेघसंदेशे । (मे. प्र. ६३. द्वि. ४७. आहत्य= ११०. हं. ६०+५०=११०) ‘दशेन्द्रियाननं घोरम्’ इति प्रमाणमनुसृत्य ‘दर्पोदग्रदशेन्द्रियाननमनोनक्तंचराधिष्ठिते’ इति स्वयं प्रणयता हनुमत्संदेशस्याध्यात्मिकमान्तरार्थमन्यमनुभावयता वेङ्कटनाथेन यथा हंससंदेशे आध्यात्मिकार्थव्यञ्जनक्षमाणि सांकेतिकानि श्रुतिप्रत्यभिज्ञापकानि च निशाकाम्यादिपदानि सन्ति प्रयुक्तानि, तथा अत्रापि मेघसंदेशे प्रकृतिपुरुषादिपदानि तादृशानि वर्तन्त इति सुधियः स्वयमेव जानन्तु । तदुक्तादपि व्याख्येयग्रन्थस्य स्वरसवाहि पुष्टं च परिपूर्णे च व्याख्यानम् । किं च नास्ति तादृशमेकमपि काव्यं मल्लिनाथेन व्याख्यातम्, यन्मल्लिनाथात्प्राक्पञ्चधैर्वापि व्याख्यातृभिर्न व्याख्यायि । स्वोपज्ञं किल व्याख्यानमसाधारणीमापादयिष्यति व्याख्यातुः समाख़्याम् । सुलभश्च सुकरश्च खलु जगति परप्रहतया पदव्या कस्यचि द्गमनानुसारः, तमेव पन्थानं तत्र तत्र परिष्कृत्य तेनैव सुखसंचारो वा। बहुषु व्याख्यानग्रन्थेषु विशीर्णान्यर्थजातान्येकत्र संकलय्य प्रदर्शनम्, काव्यव्याख्यानप्रवृत्तेषु ब्राह्मणेष्वस्य महोपाध्यायस्य प्राथमिकत्वं वा, यत्सत्यमस्या अनन्यसामान्याया विख्यातेः स्यात्कारणमित्यूहस्प तु, विश्वसिमः, बलवानेव मूलबन्धोऽस्तीति ।
सति चैवमविमृश्यवादिनि पक्षपातिनि प्रायेण पण्डितलोके, कथंकारमस्मदीयं वचनमधिरोहतु श्रद्धापदवीम्, यन्मेघसंदेशस्य मल्लिनाथव्याख्यानातिशायि सर्वाङ्गसुन्दरमस्ति किंचित्प्राचीनं व्या ख्यानमित्यभिदध्मः । ‘माघे मेघे गतं वयः’ इति मल्लिनाथेनैव कथितमिति हि सर्वतोऽपि प्रसरति कापि बहोश्चिरात्किंवदन्ती । अथ वा, सन्ति सांप्रतमपि सरसहृदया: कतिपये भावुका इति, ते च तारतम्यपर्यालोचनेन सारासारपरिशीलनेन च ज्ञास्यन्ति वस्तुतत्त्वमिति च विश्वसन्तो वयं निर्भयं निःसंकोचं च वदामः, यदस्ति मेघसंदेशस्य पूर्णसरस्वतीनाम्ना महामतिना विरचिता विद्युल्लताख्या कापि व्याख्या; सा च विद्योतते विश्वातिशायिनीति । अस्यां खलु व्याख्यायां मौलानां सर्वेषामपि पदानां सुप्रसिद्धानि प्रतिपदानि विवरणतया प्रकटितानि ! पदार्थप्रदर्शनपूर्वकं वाक्यार्थः साधु निरूपितः । तत्र तत्र शङ्कासमाधाने च सयुक्तिप्रमाणं प्रदर्शिते । रसगमनिका च रम्यतरं विचारिता । कोशव्याकरणादिकं च निपुणं निरूपितम् । अलंकारश्च सातिशयं विवेचितः । व्यङ्यारमर्थश्च विशेषेण विशदीकृतः, यः किल मल्लिनाथेन मनसापि न कलितः । समादृतश्च समीचीनतरः पाठः, यो बहुत्र मल्लिनाथीयेन पाठेन विसंवदति, संवदति च पार्श्वाभ्युदयस्थितेन तेन तेन पाठेन । इदं पुनरन्यादृशमस्य व्याख्यानस्य सौभाग्यसर्वस्वम्, यदयमेतत्काव्यश्रवणपठनजन्यं प्रयोजनमत्र विचारयति1 । यद्यप्यलंकारलाक्षणिकैः ‘काव्यं यशसे’ इत्यादिना काव्यस्य प्रयोजनानि प्रतिपादितान्येव, अथापि विहाय पूर्णसरस्वतीं न किल कश्चिदपि व्याख्याता व्याख्येये काव्ये शृङ्गग्राहिकया एवमेतावत्सु गणरात्रेषु फलं नाम प्रत्यपादयत्; यथा अनेन प्रतिपादितं व्याख्याता । इदमेव हि नव्यानां विमर्शकानां सर्वात्मना संवननम् । एवं प्रातिस्विकतया फलविचारादिकं भारतीयानां पण्डितानां व्याख्यातॄणां च न परिचितचरमित्युच्चैरुद्धुष्यन्तो नव्या विमर्शका अपि, मन्यामहे, दृष्ट्वेदं व्याख्यातुः कौशलमतिमात्रमाश्चर्यपरवशा भवेयुः । किं बहुना-नास्ति कापि न्यूनता अस्मिन्व्याख्याने, या दोषैकगवेषणपरतायामपि विमर्शकानां स्फुरिष्यति । इमे च व्याख्यातुरादावन्ते च विद्यमाने पद्ये व्याख्यातुराशयं व्याख्यायाश्च गमनिकां स्फुटं प्रकटयिष्यत इति ते एते सहृदयेभ्य उपहरिष्यामः– ‘निधौ रसानां निलये गुणांना
[^1] दृश्यतां ६ पुटे ९ पङ्क्तिमारभ्य विद्यमानो विचारः: । मलंकृतीनामुदधावदोषे । काव्ये कवीन्द्रस्य नवार्थतीर्थे या व्याचिकीर्षा मम तां नतोऽस्मि ॥’ ‘सुकविवचसि पाठानन्यथाकृत्य मोहाद्रसगतिमवधूय प्रौढमर्थे विहाय । विबुधवरसमाजे व्याक्रियाकामुकाणां गुरुकुलविमुखानां धृष्टतायै नमोऽस्तु ॥’
अयं च पूर्णसरस्वतीनामा पण्डितमाणः कः ? कतरं देशमलंचकार? को वास्य गुरुः १ कश्चास्य जीवयात्राप्रकार: ? इति जिज्ञासमानानां न वयमामूलमपनेतुं प्रभवामः कुतूहलम् । यतो बहुधा तच्चरितावगमाय प्रयतमानानामपि नैतावतापि समग्रमवगतमस्माकं तच्चरितम् । एतावत्परमवगम्यते– अयं किल पूर्णसरस्वत्याख्यः पण्डितमाणः केरलेषु ‘काटमाटस्’ इति सुप्रसिद्धे मान्त्रिककुले लब्धजन्मा कश्चन केरलीयो ब्राह्मण इति । अयं च केरलीय इत्यत्र नास्ति नः संदेहः । यतोऽयमादावन्ते च पूर्णज्योतिरभिधमीश्वरं स्मरति । स च गोश्रीराज्ये (कोच्चि) ‘तृप्पूणित्तुरै’ इति सुप्रथिते देशे महति क्षेत्ररत्ने अद्यापि कृतसंनिधानः । अयं च व्याख्याता मल्लिनाथादर्वाचीन इति ज्ञायते, यतोऽयं मल्लिनाथीयं व्याख्यानमेव केचिदिति तत्र तत्र निर्दिशति । किं च तत्र तत्र अलंकारलक्षणकथनावसरे शब्दप्रक्रियाप्रकाशनप्रकरणे च प्राचां मम्मटवृत्तिकारादीनां वचनान्येव प्रमाणतया प्रदर्शयति, न पुनरप्पयदीक्षितभट्टोजिभट्टप्रभृतीनाम् । अतश्च संभाव्यते कुवलयानन्दकर्तुः श्रीमतोऽप्पयदीक्षितात् तत्समकालिकात्सिद्धान्तकौमुदीकाराद्भट्टोजिभट्टादपि प्राचीनोऽयं व्याकर्तेति । ततश्च वयं निश्चिनुमः– अयं व्याख्याता सार्धवर्षशतत्रयात्पूर्वमुत्पन्नः स्यादिति । व्याख्यानावसरे चायं तत्र तत्र तात्पर्यावेदनाय गद्यकाव्यरीतिमाश्रित्य मधुराणि सानुप्रासानि च वाक्यानि विलिखन्नियतमावर्जयति सहृदयानां हृदयानि । पद्यप्रणयनेऽप्यस्य परिदृश्यते प्रशंसनीया पटीयस्ता । ‘स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्’ इत्येतद्विवरणावसरे कथाभागं पद्यैरेव प्रतिपादयन्नयं महामतिरन्येषामपि पद्यानामेतत्कृतानामन्वेषणे नूनमतिमहतीमुपजनयत्युत्कण्ठाम् । न जानीमः– अपि नाम कृतं स्यादनेन गद्यतः पद्यतो वा किमपि काव्यम् ? अनेन च विरचितमतिप्रशस्तं मालतीमाधवस्य व्याख्यानमपि केरलेषु क्वचित्क्वचिदुपलभ्यते । कालिदासीयानां सर्वेषामपि काव्यानामयं व्याख्यातेत्यपि केरलेषु बहवः कथयन्ति । उपलभ्य च तदीयानि व्याख्यानानि समूलमचिरात्प्रकटयितुमभिलषामः ।
इति
श्रीवत्सचक्रवर्ती
अभिनवभट्टबाणः कृष्णमाचार्यः ।
-
‘अस्ति कश्चिद्वागर्थः’ इति स्वसहचर्या पृष्टेन समधिगतदेवीप्रसादेन महाकविना कालिदासेन स्वपत्न्युच्चारितं पदत्रयमादौ घटयित्वा क्रमेण ‘अस्त्युत्तरस्याम्–’ इति कुमारसंभवः, ‘कश्चित्कान्ताविरहगुरुणा—’ ‘इति मेघसंदेशः, ‘वागर्थाविव–’ इति रघुवंशश्च संग्रथित इति तु चिरादैतिह्यवादिनः । मलकामालोचयता, हनूमतो लङ्कायामिव मेघस्यालकायां सायं प्रवेश समर्थयता, हनूमत इव रात्रौ तनुतनूकरणपूर्वकं मेघस्य संदेशार्थकथनं संगमयता, अशोकवनिकामध्यवर्तिन्या अशरणाया जानक्या अतिकरुणामवस्थां वर्णयन्तमनुसृत्य वाल्मीकिमन्यूनानतिरिक्तं तदुक्तानि मैथिलीविशेषणान्येव प्रकृतेऽपि नायिकायां घटयता, संदेशप्रघट्टकस्थितमेवाभिज्ञानदानमत्राप्यन्तर्भावयता महाकविनानेन साधु समाकलितः स्वाभिसंधिप्रकाशनप्रकार इति न खल्विदं तिरोहितं सहृदयानाम् । अस्य चार्थस्य समासोक्तिगर्भाप्रस्तुतप्रशंसावान्तरभेदरीत्या प्रबन्धव्यङ्ग्यत्वाभ्युपगमात् तत्रेवात्राप्युक्ता अर्थाः शब्दाश्च सर्वथा अनुकूला एवेति न काचिदनुपपत्तिः । एतेन “कवेर्यक्षवृत्तान्ते सीताराघववृत्तान्तसमाधिरस्तीति केचित्, तन्न सहृदयसंवादाय; प्रयोजनाभावात्, कविनैव ‘जनकतनयास्नान’ इति ‘रघुपतिपदैः’ इति चात्यन्ततटस्थतया प्रतिपादितत्वात्, उपरि च ‘इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा’ इत्यत्र उपमानतया प्रतिपादयिष्यमाणत्वात् उपमेयस्यार्थस्यात्यन्तभेदः कण्ठोक्त इति” इति केषां चिद्यत्यवस्थानमपि प्रशान्तम्; संचारिस्वशब्दोक्तिन्यायेन इतरव्यावर्तनाय उपमानतयोक्तेः संभवत्समर्थनत्वात् । अस्तु वा तत्र शास्त्रीयः कश्चन विरोधः ; कवेर्मनसि तु हनुमत्संदेश एक विपरिवर्तत इत्यत्र सचेतसां हृदयमेव प्रमाणम्।1 ↩︎ ↩︎ ↩︎