२ उत्तरमेघः

विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः सङ्गीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् ।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ६४॥

हस्ते लीलाकमलमलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः ।
चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ ६५॥

यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः | केकोत्कण्ठा भवनशिखिनो नित्यभस्वत्कलापा नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ||

आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तैः नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ।
नाप्यन्यस्मात्प्रणयकलहाद्विप्रयोगोपपत्तिः वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ ६६॥

यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः ।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ६७॥

मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिः मन्दाराणामनुतटरुहां छायया वारितोष्णाः ।
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ६८॥

नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ६९॥

नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीः आलेख्यानां स्वजलकणिका दोषमुत्पाद्य सद्यः ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गैः धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ७०॥

यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासितानां अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७१॥

अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैः उद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् ।
वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ ७२॥

गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
मुक्ताजालैः स्तनपरिसरश्छिन्नसूत्रैश्च हारैः नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ७३॥

मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं प्रायश्चापं न वहति भयान् मन्मथः षट्पदज्यम् ।
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघैः तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ७४॥

वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोभ्देदं सह किसलयैर्भूषणानां विकल्पान् ।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् एकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ७५॥

तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ ७६॥

वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः ।
यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ ७७॥

तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।
मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ७८॥

रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ ७९॥

तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिः मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।
तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥ ८०॥

एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ ८१॥

गत्वा सद्यः कलभतनुतां शीघ्रसम्पातहेतोः क्रीडाशैले प्रथमकथिते रम्यसाणौ निषण्णः ।
अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ ८२॥

तन्वी श्यामा शिख दशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद् युवतिविषये सृष्टिराद्येव धातुः ॥ ८३॥

तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ ८४॥

नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया निःष्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वाद् इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ ८५॥

आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां शारिकां (सारिकां) पञ्जरस्थां कच्चित् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ ८६॥

उत्सङ्गे वा मलिनवसने सोम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथं चिद् भूयो भूयः स्वयमपि कृतां मूर्छनां विस्मरन्ती ॥ ८७॥

शेषान् मासान् विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।
सम्भोगंं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ८८॥

सव्यापारामहनि न तथा पीडयेन्मद्वियोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
मत्संदेशैः सुखयितुमलं पश्य साध्वीं निशीथे तामुन्निद्रामवनिशयनां सद्मवातायनस्थः ॥ ८९॥

आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ ९०॥

पादानिन्दोरमृतशिशिरान् जालमार्गप्रविष्टान् पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव ।
चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥ ९१॥

निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बम् ।
मत्संभोगः कथमुपनमेत् स्वप्नजोऽपीति निद्राम् आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ ९२॥

आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्शद्विष्टामयमितनखेनासकृत् सारयन्तीं गण्डाभोगात् कठिनविषमामेकवेणीं करेण ॥ ९३॥

सा संन्यस्ताभरणमबला पेशलं धारयन्ती शय्योत्सङ्गे निहितमसकृद् दुःखदुःखेन गात्रम् ।
त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ ९४॥

जाने सख्यास्तव मयि मनः संभ्र्तस्नेहमस्माद् इत्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत् ॥ ९५॥

रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विष्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ ९६॥

वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ ९७॥

तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथं चित् सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ ९८॥

तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरस्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥ ९९॥

भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्संदेशैहृदयनिहितैरागतं त्वत्समीपम् ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ १००॥

इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभव्य चैव ।
श्रोष्यत्यस्मात् परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः सङ्गमात्किंचिदूनः ॥ १०१॥

तामायुष्मन् मम च वचनादात्मनः चोपकर्तुं ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः ।
अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ १०२॥

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ १०३॥

शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृश्यः त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ १०४॥

श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन्क्वचिदपि न ते चण् साद्र्श्यमस्ति ॥ १०५॥

त्वामालिख्य प्रणयकुपिता धातुरागैः शिलायां आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्रैस्तावन् मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ १०६॥

मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोः लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ १०७॥

भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ १०९॥

संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ११०॥

नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बे तत् कल्याणि त्वमपि नितरां मा गमः कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ १११॥

शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान्मासान् गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ११२॥

भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा ।
सान्तर्हासं कथितमसकृत् पृच्छतश्च त्वया मे द्र्ष्टः स्वप्ने कितव रमयन् कामपि त्वं मयेति ॥ ११३॥

एतस्मान् मां कुशलिनमभिज्ञानदानाद् विदित्वा मा कौलीनाच्चकितनयने मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगाद् इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ११४॥

आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयन्वृषोत्खातकूटान्निवृत्तः ।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ११५॥

कच्चित् सोम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ११६॥

एतत् कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे सौहर्दाद् वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।
इष्टान् देशान् विचर प्रावृषा संभृतश्रीः मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ ११७॥