परिचयः
उत्कण्ठितो यक्षः।
अत्र खल्वेतच्छ्रोतव्यम्।
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १.१ ॥
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ १.२ ॥
तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोर्
अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ १.३ ॥
मेघे प्रीतिः॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी
जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ १.४ ॥
धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ १.५ ॥
प्रार्थनम्
जातं वंशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ १.६ ॥
सन्तप्तानां त्वमसि शरणं तत्पयोद प्रियायाः
सन्देशम् मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ १.७ ॥
त्वामारूढम् पवनपदवीमुद्गृहीतालकान्ताः
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः ।
कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ १.८ ॥
ताञ् चावश्यन् दिवसगणनातत्परामेकपत्नीम्
अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यः पाति प्रणयि-हृदयं विप्रयोगे रुणद्धि ॥ १.९ ॥
प्रेषणम्
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ १.१० ॥
[उच्छिलीन्ध्रा = उत्कदली, पथि साधु-पाथेयम् भोजनम्]
कर्तुं यच्च प्रभवति महीम् उच्छिलीन्ध्राम्+++(=उत्कदलीम्)+++ अवन्ध्यां
तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।
आ कैलासाद्बिसकिसलयच्छेदपाथेय+++(=पथि साधु [भोजनम्])+++वन्तः
संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ १.११ ॥
चित्रकूट-मेलनम्
आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १.१२ ॥
पुनः प्रेषणम् - मार्गे श्रान्तिः, विश्रान्तिः च
मर्गं तावच्छृणु कथयतस् त्वत्प्रयाणानुरूपं
संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु-पयः स्रोतसां चोपभुज्य ॥ १.१३ ॥
[निचुलः वृक्षविशेषः]
अद्रेः शृङ्गं हरति पवनः किं स्विदित्युन्मुखीभिर्
दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
स्थानादस्मात्सरस-निचुलाद्+++(=वृक्षविशेषः)+++ उत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १.१४ ॥
गमने दृश्यः श्यामीभावो मेघस्य
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद्
वल्मीकाग्रात्प्रभवति धनुःखण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १.१५ ॥
कृषिका-रञ्जनम्
[मालः = उन्नतभूमिः, सीरोत्कषणम् = हलकर्षणम्]
त्वय्य् आयन्तं कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
सद्यःसीरोत्कषण+++(=हलकर्षण)+++सुरभि क्षेत्रमारुह्य मालं+++(=उन्नतभूमिम्)+++
किंचित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ॥ १.१६ ॥
आम्रकूट-प्रीतिः
त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना
वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तत्थोच्चैः ॥ १.१७ ॥
आम्रकूटस्य स्तनीभावः
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्
त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १.१८ ॥
{अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूटस्
तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघमानः ।
आसारेण त्वमपि शमयेस्तस्य नैदाघमग्निं
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ १.१९ } ॥
रेवा-दर्शनम्
स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं
तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः ।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १.१९ ॥
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिर्
जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ १.२० ॥
मतङ्गज-तोषः
[नीपम् = स्थलकदम्बकुसुमम्, कच्छम् = जलप्रायदेशः, अनूपः, सारङ्गा = गजा अपि]
नीपं+++(=स्थलकदम्बकुसुमम्)+++ दृष्ट्वा हरितकपिशं केसरैरर्धरूढैर्
आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ।
जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः
सारङ्गास्+++(=गजा अपि)+++ ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ १.२१ ॥
सिद्ध-दम्पत्य्-उल्लासः
अम्भोबिन्दुग्रहणचतुरांश्चातकान् वीक्षमाणाः
श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः ।
त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः
सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ १.२२ ॥
केक-पर्वत-मेलनेऽपि यियासा
[ककुभम् = कुटजकुसुमम्, प्रत्युद्यातः = प्रत्युद्गतः]
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः
कालक्षेपं ककुभ+++(=कुटजकुसुमम्)+++सुरभौ पर्वते पर्वते ते ।
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः
प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥ १.२३ ॥
दशार्ण-प्राप्तिः
[वृतयः = परिधयः, सूचयः = कण्टकानि]
पाण्डुच्छायोपवन-वृतयः+++(=परिधयः)+++ केतकैः सूचि+++(=कण्टक)+++भिन्नैर्
नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ।
त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः
संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ १.२४ ॥
विदिशायाम् वेत्रावती-मेलनम्
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं
गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा ।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात्
सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥ १.२५ ॥
नीचैर्गिरौ विश्रान्तिः
नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोस्
त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः ।
यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणाम्
उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ १.२६ ॥
[यूथिका = मागधीकुसुमम्]
विश्रान्तः सन् व्रज वननदी-तीरजानां निषिञ्चन्न्
उद्यानानां नवजलकणैर्यूथिका+++(=मागधीकुसुमम्)+++जालकानि ।
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ १.२७ ॥
उज्जयिनी-दर्शन-भाग्यम्
वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः ।
विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां
लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ १.२८ ॥
निर्विन्ध्या-दर्शनम्
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः ।
निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ १.२९ ॥
वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः
पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ।
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ १.३० ॥
अवन्ती-प्राप्तिः
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्
पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ १.३१ ॥
शिप्रावात-महिमा
दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटित-कमलामोदमैत्री-कषायः ।
यत्र स्त्रीणां हरति सुरत-ग्लानिमङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ १.३२ ॥
विपण-समृद्धिः
[तारः = संशुद्धः, तरलः = हारमध्यभागः, गुटिकः = महारत्नः]
हारांस् तारांस्+++(=संशुद्धान्)+++ तरल-गुटिकान्+++(=महारत्नान्)+++ कोटिशः शङ्कशुक्तीः
शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् ।
दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान्
संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ १.३३ ॥
रम्यं जनजीवितम्
[नलगिरिः = इन्द्रदत्तगजः]
प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे
हैमं ताल-द्रुमवनमभूदत्र तस्यैव राज्ञः ।
अत्रोद्भ्रान्तः किल नलगिरिः+++(=इन्द्रदत्तगजः)+++ स्तम्भमुत्पाट्य दर्पाद्
इत्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः ॥ १.३४ ॥
जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपैर्
बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः ।
हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा
लक्ष्मीं पश्यंल्ललितवनितापादरागाङ्कितेषु ॥ १.३५ ॥
महाकाल-प्रीतिः
भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः
पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ।
धूतोद्यानं कुवलयरजो-गन्धिभिर्गन्धवत्यास्
तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ १.३६ ॥
अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदत्येति भानुः ।
कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयाम्
आमन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ १.३७ ॥
वेश्यामोदः
पादन्यासैः क्वणितरशनास्तत्र लीलावधूतै
रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून्
आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटक्षान् ॥ १.३८ ॥
नटेश-प्रीतिः
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ १.३९ ॥
योषिद्-अनुनयः
[विक्लवा = भीरूः]
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
सौदामन्या कनक-निकषस्निग्धया दर्शयोर्वीं
तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्+++(भीरवः)+++ ताः ॥ १.४० ॥
निर्गतिः
तां कस्याञ्चिद्भवनवलभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः ।
दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ १.४१ ॥
[प्रालेयम् = हिमम्]
तस्मिन् काले नयनसलिलं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्त्रं+++(=हिमास्त्रम्)+++ कमलवदनात्सोऽपि हर्तुं नलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पभ्यसूयः ॥ १.४२ ॥
गम्भीरा-दर्शनम्
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान्
मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ १.४३ ॥
[वानीरः = वेतसः]
तस्याः किंचित्करधृतमिव प्राप्त-वानीर+++(=वेतस)+++शाखं
हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ॥ १.४४ ॥
देवगिरि-मार्गे वायुः
त्वन्निष्यन्दोच्छ्वसित-वसुधा-गन्ध-सम्पर्क-रम्यः
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते
शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ १.४५ ॥
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः ।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूनाम्
अत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ १.४६ ॥
स्कन्दमयूर-नर्तनम्
ज्योतिर्लेखा-वलयि गलितं यस्य बर्हं भवानी
पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति ।
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं
पश्चादद्रि-ग्रहण-गुरुभिर्गर्जितैर्नर्तयेथाः ॥ १.४७ ॥
दशपुरे चर्मण्वती
(व्यालम्बेथाः = आलम्ब्य+अवतरेः)
आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा
सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः ।
+++(अवतरणे)+++ व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ १.४८ ॥
चर्मण्वत्या मेघसंसर्गे परिणामः
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टिर्
एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ १.४९ ॥
दशपुरवधू-नेत्र-विभ्रमः
[कुन्दः = पुष्प-वृक्ष-विशेषः]
तामुत्तीर्य व्रज परिचित-भ्रूलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशार-प्रभाणाम् ।
कुन्द+++(=श्वेतपुष्प)+++-क्षेपानुग-मधुकर-श्रीमुषाम् आत्मबिम्बं
पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥ १.५० ॥
ब्रह्मावर्त-गतिः
[प्रधनपिशुनम् = युद्धसूचकम्]
ब्रह्मावर्तं जनपदमथ च्छायया गाहमानः
क्षेत्रं क्षत्र-प्रधन+++(=युद्धधन)+++पिशुनं कौरवं तद्भजेथाः।
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ १.५१ ॥
सरस्वत्यवगाहः
[रेवती = बलराम-पत्नी, हाला = सुरा]
हित्वा हालाम्+++(=मदिराविशेषः)+++ अभिमतरसां रेवती+++(=बलरामपत्नी)+++लोचनाङ्कां
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे ।
कृत्वा तासामधिगममपां सौम्य सारस्वतीनाम्
अन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ १.५२ ॥
गङ्गाप्राप्तिः
[कनखलो ऽद्रिः]
तस्माद्गच्छेरनु-कनखलं+++(=तन्नामाद्रिम्)+++ शैलराजावतीर्णां
जाह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः
शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ १.५३ ॥
यमुनासङ्गमाभिरामम् दृश्यम्
तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी
त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ
स्यादस्थानोपगतयमुनासंगमेवाभिरामा ॥ १.५४ ॥
हिमालयप्राप्तिः
आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः
शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ १.५५ ॥
[क्षपितः = दग्धः]
तं चेद्वायौ सरति सरल-स्कन्धसंघट्टजन्मा
बाधेतोल्का-क्षपित+++(=दग्ध)+++-चमरी-बाल-भारो दवाग्निः ।
अर्हस्येनं शमयितुमलं वारिधारासहस्रैर्
आपन्नार्ति-प्रशमनफलाः संपदो ह्युत्तमानाम् ॥ १.५६ ॥
शरभ-चेष्टा
ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन्
मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान् कुर्वीथास्तुमुल-करका-वृष्टि-पातावकीर्णान्
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ १.५७ ॥
शिवपदपद्धतिः
[बलिः = पूजा। करण-विगमः = देहत्यागः]
तत्र व्यक्तं दृषदि चरण-न्यासम् अर्धेन्दुमौलेः
शश्वत् सिद्धैर् उपचितबलिं भक्तिनम्रः परीयाः।
यस्मिन् दृष्टे करणविगमाद्+++(=देहत्यागाद्)+++ ऊर्ध्वमुद्धूतपापाः
कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ १.५८ ॥
[भावी = भविष्यति]
शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः
संरक्ताभिस्त्रिपुरविजयो गीयते किंनराभिः ।
निर्ह्रादस्ते मुरज इव चेत्कन्दरेषु ध्वनिः स्यात्
संगीतार्थो ननु पशुपतेस्तत्र भावी+++(=भविष्यति)+++ समग्रः ॥ १.५९ ॥
तिर्यगायतस्य हंसद्वारेण निर्गमः
प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान्
हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी
श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ १.६० ॥
स्फटिक-कैलासः
[प्रस्थः = सानुः]
गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थ+++(=सानु)+++सन्धेः
कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।
शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं
राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ १.६१ ॥
कैलासस्य बलभद्रीभावः
[मेचके = कृष्णे]
उत्पश्यामि त्वयि तटगते स्निग्ध-भिन्नाञ्जनाभे
सद्यः कृत्त-द्विरद-दशन-च्छेदगौरस्य तस्य ।
शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम्
अंसन्यस्ते सति हलभृतो मेचके+++(=कृष्णे)+++ वाससीव ॥ १.६२ ॥
पार्वत्यै सोपानभावः!
[भङ्गीभक्त्या = सोपानांश-रीत्या]
हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत्पादचारेण गौरी ।
भङ्गीभक्त्या+++(=सोपानांश-रीत्या)+++ विरचितवपुः स्तम्भितान्तर्जलौघः
सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ १.६३ ॥
यन्त्र-धारा-बन्धनय् उपायः
[वलय-कुलिशः = कङ्कण-कोटिः]
तत्रावश्यं वलय+++(=कङ्कण)+++-कुलिशोद्घट्टनोद्गीर्णतोयं
नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात्
क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥ १.६४ ॥
अलका-प्रवेशे चेष्टाः
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
कुर्वन् कामं क्षणमुखपटप्रीतिमैरावतस्य ।
धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वातैर्
नाना-चेष्टैर्जलद-ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ १.६५ ॥
तस्योत्सङ्गे प्रणयिन इव स्रस्त-गङ्गा-दुकूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
या वः काले वहति सलिलोद्गारमुच्चैर्विमाना
मुक्ताजाल-ग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ १.६६ ॥