मल्लिनाथः

मेघदूतम्।

संजीविन्या समेतम्।

पूर्वमेघः।

मातापितृभ्यां जगतो नमो आमार्धजानये।
सद्यो दक्षिणदृक्पातसंकुचद्वामदृष्टये ॥
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम्।
तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्विलं महः ॥
शरणं करवाणि कामदं ते चरणं वाणि चारचरोमजीव्यम्।
करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ॥
इहान्वयमुखेनैव सर्वं व्याख्यायते मया।
नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥
`आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम्।’ इति शास्त्रात्काव्यादौ वस्तुनिर्देशात्कथां प्रस्तौति—

कश्र्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः
शापेनास्तंगमित्महिमा वर्शभोय्येण भर्तुः।
यक्षश्चक्रे जनकतनयास्नातपुण्योदकेषु
स्निग्धच्छायातरुधु वसतिं रामगिर्याश्रमेषु ॥ 1 ॥
कश्चिदिति॥ स्वाधिकारातु स्वनियोगात् प्रमत्तः अनवहितः॥ प्रमादोऽनवथानता' इत्यमरः। जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्’ इत्यपादानत्वम् तस्मात्पञ्चमी॥ अत एवापराधाद्देतोः। [कान्ताविरहगुरुणा] कान्ताविरहेण गुरुणा दुर्भरेण। दुस्तरेणेत्यर्थः ॥ गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे।' इति शब्दार्णवे॥ वर्षभोग्येण संवत्सरभोग्येण॥ कालाध्वनोरत्यन्तसंयोगे’ इति द्वितीया। अत्यन्तसंयोगेच' इति समासः। कुमति च’ इति णत्वम्। भर्तुः स्वामिनः शापेन। अस्तंगमितो महिमा सामर्थ्यं यस्य सः अस्तंगमितमहिमा। अस्तमिति मकारान्तमव्यम्। तस्य द्वितीया-' इति योगविभागात्समासः। कश्चित् अनिर्दिष्टनामा यक्षः देवयोनिविशेषः॥ विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः। पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥’ इत्यमरः॥ [कजनकतनयास्नानपुण्योदकेषु] जनकतनयायाः सीतायाः स्नानैरवगाहनैः पुण्यानि पवित्राण्युदकानि येषु तेषु। पावनेष्वित्यर्थः ॥ [स्निग्धच्छायातरुषु] छायाप्रधानास्तरवश्छायातरवः॥ शाकपार्थिवादित्वात्समासः॥ स्निग्धाः सान्द्राश्छायातरवो नमेरुवृक्षा येषु तेषु। वसतियोग्येष्वित्यरथः॥ स्निग्धं तु मसृयणे सान्द्रे' इति, छायावृक्षो नमेरुः स्यात्’ इति च शब्दार्णंवे॥ [रामगिर्याश्रमेषु] रामगिरेश्चित्रकूटस्याश्रमेषु वसतिम्। `वहिवस्यर्तिभ्यश्य’ इत्यौणादिकोऽतिप्रत्ययः। चक्रे कृतवान्॥ अत्र रसो विप्रलम्भाख्यः श्रृङ्गारः। तत्राप्युन्मादावस्था। अत एवैकत्रानवस्तानं सूचितमाश्रमेष्विति बहुवचनेन॥ सीतां प्रति रामस्य हनूमत्संदेशं मनसि निधाय मेघसंदेशं कविः कृतवानित्याहुः॥ अत्र काव्ये सर्वत्र मन्दाक्रान्ता वृत्तम्। तदुक्त्म् मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्।’ इति ॥

तस्मिन्नद्रौ कतिचिदूबलावलिप्रयुक्तः स कामी
नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्टः।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ 2 ॥
तस्मिन्निति॥ तस्मिन् अद्रौ चित्रकूटाद्रौ। अबलाविप्रयुक्तः कान्ताविरहा। [कनकवलयभ्रंशरिक्तप्रकोष्ठः] कनकस्य वलयः कटकम्। कटकं वलयोऽस्त्रियाम्' इत्यमरः॥ तस्य ब्रंशेन पातेन रिक्तः शून्यः प्रकोष्ठः कूर्परादधः प्रदेशो यस्य स तथोक्तः॥ कक्षान्तरे प्रकोष्ठः स्यात्प्रकोष्ठः कूर्परादधः।’ इति शाश्वतः॥ विरहदुःखात्कृश इत्यर्थः। कामी कामुकः स यक्षः। कतिचित् मासान्। अष्टौ मासानित्यर्थः। शेषान्मासान्गमय चतुरः' इति वक्ष्यमाणत्वात्। नीत्वा यापयित्वा। [आषाढस्य। आषाढानक्षत्रेण युक्ता पौर्णमास्याषाढी॥ नक्षत्रेण युक्तः कालः’ इत्यण् टिअढाण्यु-' इत्यादिना डीप्। साऽऽषाढी अस्मिन्पौर्णमासीत्याषाढो मासः] साऽस्मिन्पौर्णमासीति संज्ञायाम्’ इत्यण्। तस्य। प्रथमदिवसे आश्लिष्टसानुम् आक्रान्तकूटम्। [वप्रक्रीडापरिणतगजप्रेक्षणीयं] वप्रक्रीडा उत्शानकेलयः। उत्खातकेलिः श्रृङ्गाद्यैर्वप्रक्रीडा निगद्यते' इति शब्दार्णवे। तासु परिणतस्तिर्यग्दन्तप्रहारः। तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः।’ इति हलायुधः। स चासौ गजश्च तमिव प्रेक्षणीयं दर्शनीयं मेघं ददर्श॥ गजपेक्षणीयमित्यत्रेवलोपाल्लुप्तोपमा॥ केचित् आषाढस्य प्रथमदिवसे' इत्यत्र प्रत्यासन्ने नभसि’ इति बक्ष्यमाणनभोमासप्रत्या सत्त्यर्थं प्रशमदिवसे' इति पाठं कल्पयन्ति। तदसंगतम्। प्रथमातिरेके कारणाभावात्। नभोमासस्य प्रत्यासत्त्यर्थमित्युक्तमिति चेन्न। प्रत्यासत्तिमात्रस्य मासप्रत्यासत्त्यैव प्रथमदिवसस्याप्युपपत्तेः। अत्यन्तप्रत्यासत्तेरुपयोगाभावेनाविवक्षितत्वात्। विवक्षितत्वे वा स्वपक्षेऽपि प्रथमदिवसातिक्रमेण मेघदर्शनकल्पनायां प्रमाणाभावेन तदसंभवात्। प्रत्युतास्मत्पक्ष एव कुशलसंदेशस्य भाव्यनर्थप्रतीकारार्थस्य पुरत एवानुमानमुक्तं भवतीत्युपयोगसिद्धिः॥ ननून्भत्तस्य नायं विवेक इति चेन्न। उन्मत्तस्य नानर्थस्य प्रतीकारार्थं प्रवृतिरपीति संदेश एव मा भूत्। तथा च काव्यारम्भ एवाप्रसिद्धः स्यादित्यहो मूलच्छेदी पाण्डित्यप्रकर्षः॥ कथं तर्हि शापान्तो मे भुजगशयनादुत्थिते शाङ्र्गपाणौ’ इत्यादिना बगवत्प्रबौधावधिकस्य शापस्य मासचतुष्टयावशिष्टस्योक्तिः, दशदिवसाधिक्यादिति चेत्-स्वपक्षेऽपि कथं सा विंशतिदिवसैर्न्यूनत्वादिति संतोष्टव्यम्। तस्मादीषद्वैषम्यमविवक्षितमिति सुष्ठूक्तं `प्रथमदिवसे’ इति ॥

तस्य स्थित्वा कथमपि पुरः कौतुगाधानेहतो-
रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठा श्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ 3 ॥
तस्येति॥ राजानो यक्षाः। राजा प्रभौ नृपे चन्द्रे यक्षे क्षात्रियशक्रयोः।' इति विश्वः॥ [राजराजस्य] राज्ञां राजा राजराजः कुबेरः। राजराजो घनाधिपः’ इत्यमरः। राजाहःसखिब्यष्टच्' इति टच्प्रत्ययः। तस्य अनुचरः यक्षः। अन्तर्बांष्पः धीरोदात्तत्वादन्तःस्तम्भिताश्रुः सन्। कौतुकाधानहेतोः अभिलाषोत्पादकारणस्य। कौतुकं चाभिलाषे स्यादुत्सवे नर्महरषयोः।‘इति विश्वः॥ तस्य मेघस्य पुरः अग्रे कथमपि। गरीयसा प्रयत्नेनेत्यर्थः॥ ज्ञानहेतुविवक्षायामप्यादि तथमव्ययम्। कथमादि तथाऽप्यन्तं यत्नगौरवबाढयोः॥'इत्युज्जवलः। स्थित्वाचिरं दध्यौ चिन्तयामास। ध्यै चिन्तायमाम्’ इति धातोर्लिट्॥ मनोविकारोपशमनपर्यन्तमिति शेषः॥ विकारहेतुमाह-मेघालेक इति। मेघालोके मेघदर्शने सति सुखिनः अपि प्रियादिजनसंगतस्यापिचेतः चित्तमन्यथाबूता वृत्तिर्व्यापारो यस्य तद् अन्यथावृत्ति भवति। विकृतिमापद्यत इत्यर्थः। कण्ठाश्लेषप्रणयिनि कण्ठालङ्गनार्थिनि जने। दूरे संस्था स्थितिर्यस्य तस्मिन् दूरसंस्थे सति किं पुनः। विरहिणः किमुत वक्तव्यमित्यर्थः। विरहिणां मेघसंदर्शनपुद्दीपनं भवतीति भावः॥ अर्थान्तरन्यासोऽलंकारः। तदुक्तं दण्डिना—`ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन्। तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः॥’ इति॥

प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थीं
जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम्।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ 4 ॥
प्रत्यासन्न इति॥ स यक्षः। यश्चिरं दध्यौ स इत्यर्थः। नभसि श्रावणे॥ नभः खं श्रावणो नभाः' इत्यमरः॥ प्रत्यासन्ने आषाढस्यानन्तरं संनिकृष्टे। प्राप्ते सतीत्यर्थः। दयिताजीवितालम्बनार्थी सन् वर्षाकालस्य विरहदुःखजनकत्वात् उत्पन्नानर्थप्रतीकारादनर्थोत्पत्तिप्रतिबनध एव वरम्।’ इति न्यायेन प्रागेव प्रियाप्राणधारणोपायं चिकीर्षुरित्यर्थः। जीवनस्योदकस्य मूतः पटबन्धो वस्त्रबन्धो जीमूतः॥ पृषोदरादित्वात्साधुः। मूतः स्यात्पटबन्धेऽपि' इति रुद्रः। तेन जीमूतेन जलधरेण प्रयोज्येन स्वकुशलमयीं स्वक्षेमप्रधानां प्रवृत्तिं वार्ताम्॥ वार्ता प्रवृत्तिर्वृत्तान्तः’ इत्यमरः॥ हारयिष्यन् प्रापयिष्यन्। लट् शेषे च' इति चकारात्क्रियार्थक्रियोपपदाल्लृट्प्रत्ययः।क जीवनार्थं कर्म जीवनप्रदेनैव कर्तव्यमिति भावः। हृक्रोरन्यतरस्याम्’ इति कर्मसंज्ञाया विकल्पात्पक्षे कर्तरि तृतीया॥ प्रत्यग्रैः अभिनवैः कुटजकुसुमैः गिरिमल्लिकाभिः॥ कुटजो गिरिमल्लिका' इति हलायुधः॥ कल्पितार्घायकल्पितोऽनुष्ठितोऽर्घः पूजाविधिर्यस्मै तस्मै॥ मूल्ये पूजाविधावर्घः’ इत्यमरः॥ तस्मै जीमूताय।क्रियाग्रहणमपि कर्तव्यम्' इति संप्रदानत्वाच्चतुर्थी॥ प्रीतिप्रमुखानि प्रीतिपूर्वकाणि वचनानि यस्मिन्कर्मणि तत् प्रीतिप्रमुखवचनं यथा तथा। शोभनमागतं स्वागतं स्वागतवचनं प्रीतः सन् व्याजहार। कुशलागमनं पप्रच्छेत्यर्थः। नाथेन त्वत्र प्रत्यासन्ने मनसि’ इति साधीयान्पाठः कल्पितः। प्रत्यासन्ने प्रकृतिमापन्ने सतीत्यर्थः। यस्तु तेनैव पूर्वपाठविरोधः प्रदर्शितः सोऽस्माभिः आषाढस्य `प्रथमदिवसे’ इत्येतत्पाठविकल्पसमाधानेनैव परिहृतः ॥

धूमज्योतिःसलिलमरूतां संनिपातः क्व मेघः
संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः।
इत्यौत्सुक्यादपरिणणयन्गुह्यकस्तं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ 5 ॥
धूमेति॥ [धूमज्योतिः सलिलमरुतां] धूमश्च ज्योतिश्च शलिलं च मरुद्वा युस्च तेषां संनिपातः संघातो मेघः क्व। अचेतनत्वात्संदेशानर्हः। पटुकरणैः समर्थेन्द्रियैः॥ करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि।' इत्यमरः। प्राणिभिः चेतनैः॥ प्राणी तु चेतनो जन्मी’ इत्यमरः। प्रापणीयाः प्रापयितव्याः। [संदेशार्थाः] संदिश्यन्त इति संदेशास्त एवार्थाः क्व। इति एवम् औत्सुक्यात् इष्टार्थोद्युक्तत्वात्। इष्टार्थोद्युक्तं उत्सुकः' इत्यमरः॥ अपरिगणयन् अविचारयन् गुह्यकः यक्षः तं मेघं ययाचे याचितवान्। याचृ याच्ञायाम्’। तथा हि। कामार्ता मदनातुराः [चेतनाचेतनेषु] चेतनाश्चाचेतनाश्च तेषु विषये प्रकृतिकृपणाः स्वभावदीनाः। कामान्धानां युक्तायुक्तविवेकशून्यत्वादचेतनयाच्ञा न विरुध्यत इत्यर्थः॥ अत्र मेघसंदेशयोर्विरूपयोर्घटनाद्विषमालंकारः। तदुक्तम्—`विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत्। विरूपघटना चासौ विषमालंकृतिस्त्रिधा॥’ इति। सा चार्थान्तरन्यासानुप्राणिता तत्समर्थकत्वेनैव चतुर्थपादे तस्योपन्यासात् ॥

संप्रति याच्ञाप्रकारमाह—
जातं वेशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरममिधिगुणए नाधमे लब्धकामा ॥ 6 ॥
जातमिति॥ हे मेघ त्वां भुवनेषु विदिते बुवनविदिते॥ निष्ठा' इति भूतार्थे क्तः। मतिबुद्धि—’ इत्यादिना वर्तमानार्थत्वे तु क्तस्य च वर्तमाने' इति भुवनशब्दस्य षष्ठ्यन्ततानियमात्समासो न स्यात्। क्तेन च पूजायाम्’ इति निषेधात्॥ [पुष्करावर्तकानां] पुष्कराश्चावर्तकाश्च केचिन्मेघानां श्रेष्ठास्तेषां वंशेजातम्। महाकुलप्रसूतमित्यर्थः। कामरूपम् इच्छाधीनविग्रहम्। दुर्गादिसंचारक्षममित्यर्थः। मघोनः इन्द्रस्य प्रकृतिपुरुषं इच्छाधीनविग्रहम्। दुर्गादिसंचारक्षममित्यर्थः। मघोनः इन्द्रस्य प्रकृतिपुरुषं प्रदानपुरुषं जानामि। तेन महाकुलप्रसूतत्वादिगुणयोगित्वेन हेतुना विधिवशात् दैवायत्तत्वात्। विधिर्विधाने दैव च' इत्यमरः। वशमायत्ते। वशमिच्छाप्रभुत्वयोः’ इति विश्वः। दूरे बन्धुर्यस्य च’ इत्यमरः। वशमायत्ते। वशमिच्छाप्रभुत्वयोः' इति विश्वः। दूरे बन्धुर्यस्य स दूरबन्धुः वियुक्तभार्यः अहं त्वयि अर्थित्वं गतः। ननु याचकस्य याच्ञायां याच्यगुणोत्कर्षः कुत्रोपयुज्यत इत्याशङ्क्य दैवाद्याच्ञाभङगेऽपि लाघवदोषाभाव एवोपयोग इत्याह---याच्ञेति। तता हि। अधिगुणे अधिकगुणे पुंसि विषये याञ्चा मोघा निष्पलाऽपि वरमीषत्प्रियम्। दातुर्गुणाढ्यत्वात्प्रियत्वं याच्ञवैफल्यादीषत्प्रियत्वमिति भावः ॥ अधमे निर्गुणे याच्ञा लब्धकामा अपि सफलाऽपि न वरम्। ईषत्प्रियमपि न भवतीत्यर्थः॥ देवाद्वृते वरः श्रेष्ठे त्रियु क्लीबं मनाक्प्रिये।’ इत्यमरः॥ अर्थान्तरन्यासानुप्राणितः प्रेयोऽलंकारः। तदुक्तं दण्डिना—`प्रेयः प्रियतराख्यानम्’ इति॥ एतदाद्ये पादत्रये चतुर्थपादस्थेनार्थान्तरन्यासैनोपजीवित मिति सुव्यक्तमेतत्॥

संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः
संदेशं मे हर धनपतिक्रोधविश्लेषितस्य।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधैतहर्म्या ॥ 7 ॥
संतप्तानामिति॥ हे पयोद त्वं संतप्तानाम् आतपेन वा प्रवासविरहेण वा संज्वरितानाम्॥ संतापःसंज्वरः समौ' इत्यमरः॥ शरणं पयोदानेनांतपखिन्नानां प्रोषितानां स्वस्थानप्ररेणया च रक्षकः असि शरणं गृहरक्षित्रोः’ इत्यमरः। तत् तस्मात्कारणात् [धनपतिक्रोधविश्लेषितस्य] धनपतेः कुबेरस्य क्रोधेन विश्लेषितस्य प्रियया वियोजितस्य मे मम संदेशं वार्तां प्रियायाः हर। प्रियां प्रति नयेत्यर्थः॥ संबन्धसामान्ये षष्ठी॥ संदेशहरणेनावयोः संतापं नुदेत्यर्थः। कुत्र स्थाने सा स्थिता तत्स्थानस्य वा किं व्यावर्तकं तत्राह—गन्तव्येति। [बाह्योद्यानस्थितहरशिरश्चंद्रिकाधौतहर्म्या] बहिर्भवं बाह्यम्। बहिर्देवपञ्चजनेब्पश्च' इति यञ्॥ बाह्य उद्याने स्थितस्य हरस्य शिरसि या चन्द्रिका तया धौतानि निर्मलानि हर्म्याणि धनिकभवनानि यस्यां सा तथोक्ता॥ हर्म्यादि धनिनां वासः’ इत्यमरः। अनेन व्यावर्तकमुक्तम्। अलका नाम अलकेति प्रसिद्धा यक्षेश्वराणां वसतिः स्थानां ते तव गन्तव्या। त्वया गन्तव्येत्यर्थः। `कृत्यानां कर्तरि वा’ इति षष्ठी॥

मदर्थं प्रस्थितस्य ते पथिकाङ्गनाजनाश्वासनमानुषडिगकं फलमित्याह—
त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः
प्रेक्षिष्यन्ते पथिकावनिताः प्रत्यायादाश्वसत्यः।
कः संनद्धे विरहविधुरां त्वय्युंपक्षेत जायां
न स्यादन्योऽ प्यहमिव जनो यः पराधीनवृत्तिः ॥ 8 ॥
त्वामिति॥ पवनपदवीम् आकाशम् आरूढं त्वाम् [पथिकवनिताः] पन्थानं गच्छन्ति ते पथिकाः पथः ष्कन्' इति ष्कन्प्रत्ययः। तेषां वनिताः प्रोषितभर्तृकाः। प्रत्ययात् प्रियागमर्नावश्वासात्॥ प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु।’ इत्यमरः। आश्वसत्यः विश्वसिताः॥ श्वसिधातोः शत्रन्तात् उगितश्च' इति ङीप्॥ तथा उद्गृहीतालकानताः दृष्टिप्रसारार्थमुन्नमय्य धृतालकाग्राः सत्यः प्रेक्षिष्यन्ते। अत्युत्कण्ठतया द्रक्ष्यन्तीत्यर्थः॥ मदागमनेन पथिकाः कथमागमिष्यन्तीत्यत्राह-तथा हि। त्वयि संनद्धे व्यापृते सति [विरहविधूरां] विरहेण विधुरां विवशां जायां कः उपेक्षेत। न कोऽपीत्यर्थः। अन्योऽपि मद्व्यतिरिक्तोऽपि यो जनो अहमिव पराधीनवृत्तिः परायतजीवनकः न स्यात्। स्वदन्त्रस्तु न कोऽप्युपेक्षेतेति भावः॥ अत्रार्थान्तरन्यासोऽलंकारः। तदुक्तम्--कार्यकारणसामान्यविशेषाणां परस्परम्। समर्थनं यत्र सोऽर्थान्तरन्यास उदाहृतः॥’ इति लक्षणात्॥

न च तस्या नाशाद् व्रतस्खलनाद्वा निरर्थकस्त्वप्रयास इत्याह—
तां चावश्यं दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगातिर्द्रक्ष्यसि भ्रातृजायाम्।
आशाबन्धः कुसुमसदृशं प्रायसो ह्यङ्गनानां
सद्यः पाति प्रणायि हृदयं विप्रयोगे रुणाद्वि ॥ 9 ॥
तां चेति॥ हे मेघ [दिवसगणनातत्परां] दिवसानामवशिष्टदिनानं गणनायां संख्याने तत्पराम् आसक्ताम्। तत्परे प्रसितासक्तौ' इत्यमरः। अत एव अव्यापन्नाम् अमृताम्। शापावसाने मदागमनप्रत्याशया जीवन्तीमित्यर्थः। [एकपत्नीम्] एकः पतिर्यस्याः सा एकपत्नी ताम्। पतिव्रतामित्यर्थः॥ नित्यं सपत्न्यादिषु’ इति ङीप् नकारश्च। भ्रातुर्मे जायां भ्रातृजायाम्। भ्रातृवन्निःशङ्कं दर्शंनीयामित्याशयः। तां मत्प्रियाम्। अविहतगतिः अविच्छिन्नगतिः सन्। अवश्यं द्रक्ष्यसि च आलोकयिष्यस एव॥ तथा हि आशाऽतितृष्णा. आशा दिगतितृण्णयोः इति यादवः। बध्यतेऽनेनेति बन्धो बन्धनम्। वृन्तमिति यावत्। आशैव बन्धः आशबन्धः कर्ता॥ प्रणयि प्रेमयुक्तमत एव कुसुमसदृशम् सुकुमारमित्यर्थः। अत एव विप्रयोगे विरहे सद्यःपाति सद्योभ्रांशनशीलम् अङगनानं हृदयं जीवितम्। हृदयं जीविते चित्ते वक्षस्याकूतहृद्ययोः’ इति शब्दार्णवे। प्रायशः प्रायेण रुणद्धि प्रतिबध्नाति। अर्थन्तरन्यासः॥

निमित्तान्यपि शुभानि दृश्यन्त इत्याह—
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं नदति मधुरं चातकस्ते सगन्धः।
गर्भाधानक्ष णपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ 10 ॥
मन्दं मन्दमिति॥ अनुकूलः पवनः वायुः [च] त्वं मन्दं मन्दम्। अतिमन्दमित्यर्थः।. अत्र कथंचिद्वीप्सायामेव द्विरुक्तिर्निर्वाह्या॥प्रकारे गुणवचनस्य' इत्येतदाश्रयणे तु कर्मधारयवद्भावे सुब्लुकि मन्दमन्दमिति स्यात्। तदेवाह वामनः--मन्दमन्दमित्यत्र प्रकारार्थं द्विर्भावः’ इति। यथा सदृशम्। भाविफलानुरूपमित्यर्थः। यथा सादृश्ययोग्यत्ववीप्सास्वार्थानतिक्रमे।' इति यादवः॥ नुदति प्रेरयति। अयं सगन्धः सगर्वः। संबन्धीति केचित्॥ गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः।’ इत्युभयत्रापि विश्वः। ते तवल वामः वामभागस्थः। वामस्तु वक्रे रम्ये स्यात्सव्ये वामगतेऽपि च' इति शब्दार्णवे। चातकः वक्षिविशेषः च मधुरं श्राव्यं नदति व्याहरति॥ इदं निमित्तद्वयं वर्तते। वर्तिष्यते चापरं निमित्तमित्याह-गर्भिति। [गर्बाधानक्षणपरिचयात्] गर्भः कुक्षिस्थो जन्तुः। गर्भोपकारके ह्यग्नौ सुखे पानसकण्टके। कुक्षौ कुक्षिस्थजन्तौच।’ इति यादवः॥ तस्याधानमुत्पादनं तदेव क्षण उत्सवः। सुखहेतुत्वादिति भावः। निर्व्यापारस्थितौ कालविसेषोत्सवयोः क्षणः।’ इत्यमरः॥ तस्मिन्परिचयादभ्यासाद्वेतोः खे व्योम्नि। आबद्धमालाः। गर्भाधानसुखार्थं त्वत्समिपे वद्धपङक्तय इत्यर्थः। उक्तं च कर्णोदये—गर्भं बलाका दधतेऽभ्रयोगान्नाके निबद्धावलयः समन्तात्।' उक्तं च कर्णोदये--गर्भं बलाका दधतेऽभ्रयोगान्नाके निबद्धावलयः समन्तात्।’ इति॥ बलाकाः बलाकाङ्गनाः नयनसुभगं दृष्टिप्रयं भवन्तं नुनं सत्यं सेविष्यन्ते॥ अनुकूलमारुतचातकशब्दितबलाकादर्शनानां शुभसुचकत्वं शकुनशास्त्रे दृष्टं तद्विस्तरभयान्नालेखि॥

संप्रति सहायसंपत्तिश्चास्तीत्याह—
कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्यां
तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसेत्काः।
आ कैलासाद्विसकिसलयच्छेदपाथेयवन्तः
संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ 11 ॥
कर्तुमिति॥ यत् गर्जितं कर्तृ महीम् उच्छिलीन्ध्राम् उद्भूतकन्दलिकाम्। कन्दल्यां च शिलीन्ध्रा स्यात्' इति शब्दार्णवे॥ अत एव अवन्ध्यां सफलां कर्तुं प्रभवति शक्नोति। शिलीन्ध्राणां भाविसस्यसंपत्तिसूचकत्वादिति भावः। तदुक्तं निमित्तनिदाने-कालाभ्रयोगादुदिताः शिलीन्द्राः संपन्न सस्यां कथयन्ति धात्रीम्। इति। तत् श्रवणसुभगं श्रोत्रसुखम्। लोकस्योति शेपः। ते तव जर्जितं श्रुत्वा मानसोत्काः मानसे सरस्युन्मनसः। उत्सुका इति यावत्॥ उत्क उन्मनाः' इति निपातात्साधु। कालान्तरे मानसस्य हिमदुष्टत्वाद्धिमस्य च हंसानां रोगहेतुत्वादन्यत्र गता हंसाः पुनर्वर्षासु मानसमेव गच्छन्तीति प्रसिद्धिः॥ [बिसकिसलयच्छेदपाथेयवन्तः] बिसकिसलयानां मृणालाग्राणां छेदैः शकलैः। पाथेपवन्तः पथि साधु पाथेयं पथि भोज्यम्। पथ्यतिथिवसतिस्वपतेर्ढङ्’। तद्वन्तः। मृणालाग्रशकलसंबन्धवन्त इत्यर्थः। राजहंसाः हंसविशेषाः॥ राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः। इत्यमरः। नभसि व्योम्नि भवतः तव आ कैलासात् कैलासपर्यन्तम्। पदद्वयं चैतत्। सहायाः सयात्राः। सहायस्तु सयात्रः स्यात्’ इति शपब्दार्णंवे। संपतस्यन्ते भविष्यन्ति [च]॥

आपृच्छस्व प्रियसखममुं तुह्गमालिङ्ग्य शैलं
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु।
काले काले भवति भवतो यस्य संयोगमेत्य
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्ममुष्णम् ॥ 12 ॥
आपृच्छस्वेति॥ प्रियं सखायं प्रियसखम्॥ राजाहः सखिभ्यष्टच्' इति टच् समासान्तः॥ तुङ्गम् उन्नतं पुसां वन्द्यैः नराराधनीयः रघुपतिपदैः रामपादन्यासैः मेखलासु कटकेषु अथ मेखला। श्रोणिस्थानेऽद्रिकटके कटिबन्धे भवन्धने। इति यादवः। अङ्कितं चिह्नितम्। इत्यं सखित्वान्हत्त्वात्पवित्रत्वाच्च संभावनार्हम्। अमुं शैलं चित्रकूटाद्रिम्। आलिङग्य आपृच्छस्व साधो यामीत्यामन्त्रणेन सभाजय॥ आमन्त्रणसभाजने। आप्रच्छन्म्' इत्यमर॥ आङ्गिनुप्रच्छ्योरुपसंख्यानम्’ इत्यात्मनेपदम्॥ सखित्वं निर्वाहयति-काल इति॥ काले काले प्रतिप्रावृट्कालम्। सुहृत्समागमनकालश्च कालशब्देनोच्यते वीत्सायां द्विरुक्तिः भवतः संयोगं संपर्कम्। एत्य चिरविरहजम् उष्णं बाष्पं उष्माणं नेत्रजलं च॥ `वाष्पो नेत्रजलोष्मणोः’ इति विश्वः॥ मुञ्चतः यस्य शैलस्य स्नेहव्यक्तिः प्रेमाविभविः भवति। स्निग्धानां हि चिरविरहसंगतानां बाष्पणातो भवतीति भावः ॥

संप्रति तस्य मार्गं कथयति–
मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं
संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम्।
खिन्नः खिन्न शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ 13 ॥
मार्गमिति॥ हे जलद तावत् इदानीं कथयतः। मत्त इति शेषः। [त्वत्प्रयाणानुरुपं] त्वत्प्रयाणस्यानुरूपमनुकूलं मार्गम् अध्यानम्॥ मार्गो मृगपदे मासि सौम्यर्क्षेऽन्वेषणेऽध्वनि।' इति यादवः॥ शृणु। तदन् मार्गश्रवणानन्तरं [श्रोत्रपेयं] श्रोत्राभ्यां पेयं पानार्हम्। अतितृष्णया श्रोतव्यमित्यर्थः॥ पेयग्रहणात्संदेशस्यामृतसाम्यं गम्यते॥ मे संदेशं वाचिकम्॥ संदेशवाग्वाचिकं स्यात्’ इत्यमरः॥ श्रोष्यसि। यत्र मार्गे खिन्नः खिन्नः अभीक्ष्णं क्षीणबलः सन्।नित्यवीप्सयोः' इति नित्यार्थे द्विर्भावः॥ शिखरिषु पर्वतेषु पदं न्यस्य निक्षिप्य। पुनर्बललाभार्थं क्वचिद्विश्रम्येत्यर्थः। क्षीणः क्षीणः अभीक्ष्णं कृशाङगः सन्॥ आत्रापि कृदन्तत्वात्पूर्ववद्विरुक्तिः॥ स्रोतसां परिलघु गुरुत्वदोषरहितम्। उपलास्फालनखेदितत्वात्पथ्यमित्यर्थः॥ तथा च वाग्भटः--उपलास्फालनक्षेपविच्छेदैः खेदितोदकाः। हिमवन्मलयोद्भूताः पथ्या नद्यो भवन्त्यमूः॥’ इति। पयः पानीयम् उपभुज्य शरीरपोषणार्थमभ्यवहृत्य च गन्तासि गमिष्यसि। गमेर्लुट्॥

अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभि-
र्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः।
स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥ 14 ॥
अद्रेरिति॥ पवनः वायुः अद्रेः चित्रकूटस्य शृङ्गं हरति किंस्वित्। किंस्विच्छब्दो विकल्पवितर्कार्थादिषु पठितः। इति शङ्कया उन्मुखीभिः उन्नतमुखीबिः॥ स्वाङ्गाच्छोपसर्जनादसंयोगोपधात्' इति ङीप्॥ [मुग्धसिद्धाङगनाभिः] मुग्धा भिर्मूढाबिः।. मुग्धःसुन्दरमूढयोः’ इत्यमरः। सिद्धानां देवयोनिविशेषाणामह्गनाबिः। चकितचकितं चकितप्रकारं यथा तथा॥ प्रकारे सुणवचनस्य' इति द्विर्भावः॥ दृष्टोत्साहः दृष्टोद्योगः सन्। [सरसनिचुलात्] सरसा आर्द्रा निचुलाः स्थलवेतसो यस्मिंस्तस्मात्॥ वानीरे कविबेदे स्यान्निचुलः स्थलवेतसे’ इति शब्दार्णवे॥ अस्मात् स्थानात् आश्रमात् पथि न भोमार्गे दिङनागानां दिग्गजानां [रथूलहस्तावलेपान्] स्थूला ये हस्ताः करास्तेषामवलेपानाक्षेपान् परिहरन्। हस्तो नक्षत्रबेदे स्यात्करेभकरयोरपि।' इति, अवलेपस्तु गर्वे स्यात्क्षेपणए दूषणेऽपि च।]’ इति च विश्वः॥ उदङमुखः सन्। अलकाया उदीच्यत्वादित्याशय॥ खम् आकाशम् उत्पत उद्गच्छ॥ अत्रेदमप्यर्थान्तरं ध्वनयति-रसिको निचुलो नाम महाकविः कालिदासस्य सहाद्यायी परापादितानां कालिदासप्रबनधदूषणानां परिहर्ता यस्मिन्स्थाने तस्मात् स्थानादुदङ्मुखो निर्दोषत्वादुन्नतमुखः सन् पथि सारस्वतमार्गे दिङ्नागानाम्। पूजायां वहुवचनम्। दिङ्नागाचार्यस्य कालिदासप्रतिपक्षस्य हस्तावलेपान्हस्तविन्यासपूर्वकाणि दूषणानि परिहरन्। अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च।' इति विश्वः। अद्रेरद्रिकल्पस्य दिङ्नागाचार्यस्य श्रृङ्गं प्राधान्यम्। श्रृङ्गं प्रादान्यसान्वोश्च’ इत्यमरः। हरति किंस्विदिति हेतुना सिद्धैः सारस्व्तसिद्धैर्महाकविभिरङ्गानाभिश्चदृष्टोत्साहः सन्खमुत्पतोच्चैर्भवेति स्वप्रबन्धमात्मानं वा प्रति कवेरुक्तिरिति॥ `संसर्गतो दोषगुणा भवन्तीत्येतन्मृषा येन जलाशयेऽपि। स्थित्वाऽनुकूलं निचुलश्चलन्तमात्मानमारक्षति सिन्धुवेगात्॥’ इत्येतच्छ्लोकनिर्माणात्तस्य कवेर्निचुलसंज्ञेत्याहुः॥

रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता-
द्वल्मीकाग्रात्प्रभवति धनुःखण्कडमाखण्डलस्य।
येन श्यामं वपुरतितरां कान्ति मापत्स्यते ते ॥
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ 15 ॥
रलेति॥ [रत्नच्छायाव्यतिकरः] रत्नच्छायानां पद्मरागादिमषिप्रभाणां व्यतिकरो मिश्रणम् इव प्रेक्ष्यं दर्शनीयम्। आखण्डलस्य इन्द्रस्य एतत् घनुःखण्कडम् ॥ एतदिति हस्तेन निर्देशो विवक्षितः। पुरस्तात् अग्रे वल्मीकाग्रात् वामलूरविवरात् ॥ वामलूरश्च नाकुश्च वल्मीकं पुंनपूंसकम्।' इत्यमरः॥ प्रभवति आविर्भवति। येन धनुःखण्डेन ते तव श्याम वपुः॥ स्फुरितरुचिना उज्जलकान्तिना बर्हेण पिच्छेन। पिच्छबर्हें नपुंसके’ इत्यमरः। गोपवेषस्य विष्णोः गोपालस्य कृष्णस्य श्यामं वपुः इव अतित्रां कान्तिं सोभाम् आपत्स्यते प्राप्स्यते ॥

त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः।
सद्यः सीरेत्कषण सुरभि क्षेत्रमारुह्य मालं
किंचित्पश्चाद्व्रज् लघुगतिर्भूय एवोत्तरेण ॥ 16 ॥
त्वयीति॥ [कृषिफलं] कृषेर्हलकर्मणः फलं सस्यं त्वयि। अधिकरणविवक्षायां सप्तमी। आयत्तम् अधीनम्। अधीनो निघ्न आयत्त' इत्यमरः। इति हेतोः। [प्रीतिस्निग्धेः] प्रीत्या स्निग्धैः। अकृत्रिमप्रेमार्द्रेरित्यर्थः। [भ्रूविकारनभिज्ञैः] भ्रूविकारणां भ्रुविलासानामनभिज्ञैः। पामरत्वादिति शेषः [जनपदवधूलोचनैः] जनपदवधूनां पल्लीयोषितां लोचनैः पीयमानः सादरं वीक्ष्यमाणः सन्। मालं मालाख्यं क्षेत्रं शैलप्रायमुन्नतस्थलम्॥ मालमुन्नतभूतलम्’ इत्युत्पलमालायाम् [सद्यः सीरोत्कषणसुरभि] सद्यस्तत्कालमेव सीरैर्हलैरुत्कर्षणेन कर्षणेन सुरबि घ्राणतर्पणं यथा तथा आरुह्य। तत्राभिवृष्येत्यर्थः। सुरभिर्ध्रांणतर्पणः' इत्यमरः। किंचित्पश्चात् लघुगतिः तत्र निर्वृष्टत्वात्क्षिप्रगमनः सन्॥ लघु क्षिप्रतरं द्रुतम्’ इत्यमरः। भूयः पुनरपि उत्तरेण एव उत्तरेण एव उत्तरमार्गेणैव व्रज गच्छ। तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया॥ यथा कश्चिद्वहुवल्लभः पतिः कुत्रचित्क्षेत्रे कलत्रे गूढंविहृत्य।क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः’ इति विश्वः। दाक्षिण्यभङ्गभयान्नीचमार्गेण निर्गत्य पुनः सर्वाध्यक्षं संचरति तद्विदिति द्धनिः।

त्वामासारप्रशभितवनोपप्लवं साधु मूर्ध्ना
वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ 17 ॥
त्वामिति॥ आम्राश्चूताः कूटेषु शिखरेषु यस्य स आम्रकूटः नाम सानुमान् पर्वतःआम्रश्चूतो रसालोऽसौ' इति, कूटोऽस्त्री शिखरं शृङ्गम्’ इति चामरः। [आसारप्रशमितवनोपल्वम्] आसारः धारावृष्टिः। धारासंपात आसारः' इत्यमरः। तेन प्रशमितः वनोपप्लवो दावाग्निर्येन तम्। कृतोपकारमित्यर्थः। [अध्वश्रमपरिगतं] अध्वश्रेमेण परिगतं व्याप्तं त्वां साधु सम्यङ् मूर्ध्ना वक्ष्यति वोढा॥ वहेः लृट्। तथा हि क्षुद्रः कृपणः अपि। क्षुद्रो दरिद्रे कृपणे नृशंसे’ इति यादवः। संश्रयाय संश्रयणाय मित्रे सुहृदि॥ अथ मित्रं सखा सुहृत्' इत्यमरः॥ प्राप्ते आगते सति। प्रथमसुकृतपेक्षया पूर्वोपकारपर्यालोचनया विमुखः न भवकति। यः तथा तेन प्रकारेण उच्चैः उन्नतः स आम्रकूचः किं पुनः। विमुखः न भवतीति किमु वक्तव्यमित्यर्थः। एतेन प्रथमावसथे सौख्यलाभात्ते कार्यसिद्धिरस्तीति सूचितम्। तदुक्तं निमित्तनिजाने---प्रथमावसथे यस्य सौख्यं तस्याखिलेऽध्वनि। शिवं भवति यात्रायामन्यथा त्वसुभं ध्रवम्’ ॥ इति ॥

छन्नोपान्तः परिणतफलद्येतिभिः काननाम्रै
स्त्वय्यारूढे शिखरमच्लः स्निग्धवेणीसवर्णे।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्य श्यामः स्तन् इव भुवः शेषविस्तारपाण्डुः ॥ 18 ॥
छन्नेति॥ हे मेघ [परिणतफलद्योतिभिः] परिणतैः परिपक्वैः फलैर्ध्यैतन्त इति तथोक्तैः। आषाढे वनयूताः फलन्ति पच्यन्ते च मेघवातेनेत्याशयः। काननाम्रैः वनचूतैः छन्नोपान्तः आवृतपार्श्वः अचलः आम्रकूटाद्रिः स्निधवेणीसवर्णे मसृणकेशबन्धच्छाये। श्यामवर्ण इत्यर्थः॥ वेणी तु केशबन्धे जलस्रुतौ' इति यादवः। त्वयी शिखरं सृङ्गम् आरूढे सति। यस्य च भावेन भावलक्षणम्’ इति सप्तमी॥ मध्ये श्यामः [शेषविस्तारपाण्डुः] शेष मध्यादन्यत्र विस्तारे परितः पाण्डुः हरिणः। `हरिणः पाण्डुरः पाण्टुः’ इत्यमरः। भुवः स्तन इव। [अमरमिथुनप्रेक्षणीयां] अमरमिथुनानाम् खेचराणामिति भावः। प्रेक्षणईयां दर्शनीयाम् अवस्थां नूनं यास्यति। मिथुनग्रहणं कामिनामेव स्तनत्वेनोत्प्रेक्षा संभवतीति कृतम्। यथा परिश्रान्तः कश्चित्कामी कामिनीनां कुचकलशे विश्रान्तः सन्स्वपिति तद्वद्भवानपि भुवो नायिकायाः स्तन इति ध्वनिः॥

स्थित्वा तस्मिन्वनचरवधूभुक्तकुञ्जे मुहूर्तं
तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ 19 ॥
स्थित्वेति॥ हे मेघ [वनचरवधूभुक्तकुञ्जे] वने चरन्ति ते वनचराः॥ तत्पुरुपे कृति बहुलम्' इति बहुलग्रहणाद् लुग्भवति। तेषां वधूभिर्भुक्ताः कुञ्जा लतागृहा यत्र तस्मिन्। निकुञ्जकुञ्जो वा क्लीबे लतादिपिहितोदरे।’ इत्यमरः। तत्र ते नयनविनोदोऽस्तीत्यर्थः। तस्मिन् आम्रकूटे मुहूर्तम् अल्पकालं। न तु चिरम्। स्वकार्यविरोधादिति भावः॥ मुहूर्तमल्पकाले स्याद्धटिकाद्वितयेऽपि च।' इति शब्दार्णवे। स्थित्वा विश्रम्य। [तोयोत्सर्गद्रुततरगतिः] तोयोत्सर्देण त्वामासार-’ इत्युक्त वर्षणेन द्रुततरगतिलघिवाद्धेतोरतिक्षिप्रगमनः सन् तस्मादाम्रकूटात्परमनन्तरं तत्परं वर्त्म मार्गं तीर्णः अतिक्रान्तः। [उपलविषमे] उपलैः पाषाणैर्विषमे [विन्ध्यपादे] विन्ध्यस्याद्रेः पादे प्रत्यन्तपर्वते। पादाः प्रत्यन्तपर्वताः' इत्यमरः॥ विशीर्णां समन्ततो विसृमराम्॥ एतेन कस्याश्चित्कामुक्याः प्रियतमचरणपातोऽपि ध्वन्यते॥ रेवां नर्मदाम्॥ रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका।’ इत्यमरः॥ गजस्य अङ्गेशरीरे [भक्तिच्छेदैः] भक्तयो रचनाः। रेखा इति यावत्। भक्तिर्निषेवणे भागे रचनायाम्' इति शब्दार्णवे॥ तासां छेदैर्भङ्गिभिर्भाभिः विरचितां भूतिं श्रृंगारं इव भसितमिव वा॥ भूतिर्मातङ्गश्रृङ्गारे जातौ भस्मनि संपदि’ इति विश्वः। द्रक्ष्यसि। अयमपि महांस्ते नयनकौतुकलाभ इति भावः।

18-19 श्लोकयोर्मध्ये क्वचित्प्रक्षिप्तोऽयं दृश्यते—
`अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूट-
स्तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघमानः।
आसारेण त्वमपि शमयेस्तस्य नैदाघमग्निं
सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥ '

तस्यस्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि-
र्जम्बूकुञ्जप्रतिहतरयं तेत्यमादाय गच्छेः।
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघु पूर्णता गौरवाय ॥ 20 ॥
तस्या इति॥ हे मेघ वान्तवृष्टिः) उद्गीर्णवर्षः सन्। कृतवमनश्च व्यज्यते। तिक्तैः सुगन्धिभिस्तिक्तरसवद्भिश्च॥ तिक्तो रसे सुगन्धौ च' इति विश्वः। वनगजमदैः वासितं सुरभितं भावितं च। हिमवद्विन्ध्यमलया गजानां प्रभवा इति विन्ध्यस्य गजप्रभवत्वादिति भावः [जम्बूकुञ्जप्रतिहतरयं] जम्बूकुञ्जैः प्रतिहतरयं प्रतिबद्धवेगम्। सुखपेयमित्यर्थः। अनेन लघुत्वं कषायभावना च व्यज्यते। तस्या रेवायाः तोयमादाय गच्छेः व्रज। हे घन मेघ [अन्तःसारं] अनतः सारः बलं यस्य तं त्वाम् अनिलः आकाशवायुः। शरीरस्थश्च गम्यते। तुलयितुं न शक्ष्यति शक्तो न भविष्यति। तता हि। रिक्तः अन्तःसारशून्यः सर्वः अपि लघुः भवति। प्रकाम्प्यो, भवतीत्यर्थः। पूर्णता सारवत्ता गौरवाय अप्रकम्प्यत्वाय भवतीत्यर्थः। अयमत्र ध्वनिः-आदौ वमनशोधितस्य पुंसः पश्चात् श्लेष्मसोषणाय लघुतिक्तकषायाम्बुपानाल्लब्धबलस्य वातप्रकम्पो न स्यादिति। तथाह वाग्भटः---कषायाश्चहिमास्तस्य विशुद्धौ श्लेष्मणो हिताः। किमु तिक्तकषाया वा ये निसर्गत्कफापहाः॥ कृतशुद्धेः क्रमात्पीतपेयादेः पथ्यभोजिनः वातादिभिर्न बाधा स्यादिन्द्रियैरिव योगिनः ॥ ’ इति ॥

नीपं दृष्ट्वा हरितकपिशं केशरैरर्धरूढै-
राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम्।
जग्ध्वाऽरण्येष्वधिकसुरभिं गन्धमाध्राय चोर्व्याः
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ 21 ॥
नीपमिति॥ सारङ्गाः मतङ्गजाः कुरङ्गा भृङ्गा वा [च]॥ सारङ्गश्चातके भृङ्गे कुरुङ्गे च मतङ्गजे' इति विश्वः। अर्धरुढैः एकदेशोद्गतैः केसरैःक किञ्जल्कैः [हरितकपिशं] इरितं पालाशवर्णं कपिशं कृष्णपीतं च। पालासो हरितो हरित्’ इति, श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते।' इति चामरः॥ श्यामवर्णमिति यावत्। वर्णो वर्णेन’ इति समासः॥ नीपं स्थलकदम्बकुसुमम्॥ अथ स्थलकदम्बके। नीपः स्यात्पुलके' इति शब्दार्णवे। दृष्टवा संप्रेक्ष्य। विदित्वेति यावत्। तथा कच्छेष्वनूपेषु अनुकच्छम्॥ अव्ययं विभक्ति–’ इत्यादिना विभक्त्यथ अव्वीभावः॥ जलप्रायमनुपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः [आविर्भूतप्रथममुकुलाः] आविर्भूताः प्रथमा प्रथमोत्पन्ना मुकुला यासां ताः कन्दलीः भूमिकदली ॥ द्रोणपर्णी स्निग्धकन्दा कन्दली भूकदल्यपि।’ इति शब्दार्णवे। जग्ध्वा भक्षयित्वा॥ अदो जग्धिः--' इति जग्ध्यादेशः॥ अरण्येषु अधिकसुरभिम् अतिग्राणतर्पणम्॥ दग्धारण्येषु’ इति पाठे `दग्धम्’ इत्यधिकविशेषणम्॥ अर्थवशात्कन्दलीश्च दृष्ट्वैवेत्यन्वयो द्रष्टव्यः। उर्व्या भूमेः गन्धम् आघ्राय जललवमुचः मेघस्य ते तव मार्गं सूचयिष्यन्ति अनुमापयिष्यन्ति। यत्र यत्र वृष्टिकार्यं कन्दलीमुकुलनीपकुसुमादिकं दृश्यते तत्र तत्र त्वया वृषमित्यनुमीयत इति भावः।

प्रक्षिप्तमपि व्याख्यायते—
अम्बोबिन्दुग्रहणचतुशंश्चातकान्वीक्षमाणाः
श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः।
त्वामासाद्य स्तनितसमये मानायिष्यन्ति सिद्धाः
सोत्क्रम्पानि प्रियसहचरीसंभ्रमालिङ्‌गितानि ॥ 22 ॥
अम्भ इति। [अम्बोबिन्दुग्रहणचतुरान्] अम्भोबिन्दूनां वर्षोदबिन्दूनां ग्रहणे `सर्वंसहापतितमम्बु न चातकस्य हितम्’ इति शास्त्राद्भूस्पृष्टोदकस्य तेषां रोगहेतुत्वादन्तराल एव स्वीकारे चतुरान् चातकान् वीक्षमाणाः कौतुकात्पश्यन्तः क्षेणीभूताः बद्धपङ्क्तीः॥ अभूततद्भावे च्विः ॥ बलाकाः बकपङ्क्तीः परिगणनया एका द्वे तिस्र इति संख्यानेन निर्दिशन्तः हस्तेन दर्शयन्तः सिद्धाः स्तनितसमये त्वद्गर्जितकाले सोत्कम्पानि उत्कम्परूर्वकाणि [प्रियसहचरीसं भ्रमालिङ्गितानि] प्रियसहचरीणां संभ्रमेणालिङ्गितानि आसाद्य। स्वयंग्रहणाश्लेषसुखमनुभूयेत्यर्थः। त्वां मानयिष्यन्ति। त्वन्निमित्तत्वात्सुखललाभस्येति भावः ॥

उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः
कालक्षेपं ककुसुरभौ पर्वते पर्वते ते।
शुक्लापाङ्गौः सजलनयनैः स्वागतीकृत्य केकाः
प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ 23 ॥
उत्पश्यामिति॥ हे सखे मेघ मत्पियार्थं यता तथा द्रुतं क्षिप्रम्। लघु क्षिप्रतरं द्रुतम्' इत्यमरः। यियासोः यातुमिच्छोः अपि। याते सन्नन्तादुप्रत्ययः। ते तव [ककुभसुरभौ] ककुभैः कुटजकुसुमैः सुरभौ सुगन्धिनि। ककुभः कुटजेऽर्जुने’ इति शब्धार्णवे। पर्वते पर्वते प्रतिपर्वतम्। वीप्सायां द्विरुक्तिः। कालक्षेपं कालविलम्बम्। क्षेपो विलम्बे निन्दायाम्' इति विश्वः। उत्पश्यामि उत्प्रेक्षे। विलम्बहेतुं दर्शयन्नाशुगमनं प्रार्थयति-शुक्लेति। [सजलनयनैः] सजलानि सानन्दबाष्पाणि नयनानि येषां तैः शुक्लापाङ्गैः मयूरैः। मयूरो बर्हिणो वर्ही शुक्लापाङ्गः शिखाबवः।’ इति यादवः। केकाः स्ववाणईः। क्का वाणी मयूरस्य' हत्यमरः। स्वागतीकृत्य स्वागतवचनीकृत्य प्रत्युद्यातः प्रत्युद्गतः। मयूरवाणीकृतातिथ्य इत्यर्थः। भवान् कथमपि यथाकथंचित् आशु गन्तुं व्यवस्येत् उद्युञ्जीत। प्रार्थने लिङ्। शेष प्रथमः' इति प्रथमपुरुषः। शेषश्चायं भवच्छब्दो युष्मदस्मच्छगब्दव्यतिरेकात्॥ स्वागतीकृत्तय केकाः’ इत्यत्र केकास्वारोप्यमाणस्य स्वागतवचनस्य प्रकृतप्रत्युद्गमनोपयोगात्परिणामालंकारः। तदुक्तमलंकारसर्वस्वे–`आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः’ इति॥

पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नै-
र्नीडारम्बैर्गृहबलिभुजामाकुलग्रामचैत्याः।
त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः।
संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ 24 ॥
पाण्डिवति॥ हे मेघ त्वयि आसन्ने संनिकृष्टे सति दशार्णाः नाम जनपदाः सूचिभिन्नैः सूचिषु मुकुलाग्रेषु भिन्नैर्विकसितैः। केतकीमुकुलाग्रेषु सूचिः स्यात्' इति शब्दार्णवे। केतकैः केतकीकुसुमैः [पाण्डुच्चायोपवनवृतयः] पाण्डुच्छाया हरितवर्णा उपवनानां वृतयः कण्टकशाकावरणा येषु ते तथोक्तः। प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृतिः’ इत्यमरः। तथा गृहबलिभुजां काकादिग्रामपक्षिणां नीडारम्भैः कुलायनिर्माणैः। कुलायो नीडमस्त्रियाम्' इत्यमरः। चित्याया इमानिचैत्यानि रथ्यावृक्षाः। चैत्यमायतने बुद्धवन्द्ये चोद्देसपादपे’ इति विश्वः। [आकुलग्रामचैत्याः] आकुलानि संकीर्णीनि ग्रामेषु चैत्यानि येषु ते तथोक्ताः। तथा [परिणतपलश्यमजम्बूवनान्ताः] परिणतैः पक्वैः श्यामानि यानि जम्बूवनानि तैरन्ता रम्याः। मृताववसिते रम्ये समाप्तावन्त इष्यते' इति शब्दार्णवे। तथा [कतिपयदिनस्तायिहंसाः] कतिपयेष्वेव दिनेषु स्थायिनो हंसा येषु ते ततोक्ता एवंविधाः संपत्स्यन्ते भविष्यन्ति। पोटायुवतिस्तोककतिपय–’ इत्यादिना कतिपयशब्दस्योत्तरपदत्वेऽपि न तच्छब्दस्योत्तरत्वमस्त्यस्य शास्त्रप्रायिकत्वात् ॥

तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं
गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मा-
त्सभ्रूभह्गं मुखभिव पयो वेत्रवत्याश्चलोर्मि ॥ 25 ॥
तेषामिति। दिक्षु [प्रथितविदिशालक्षणाम्] प्रथितं प्रसिद्धं विदिशेति लक्षणं नामधेयमस्यास्ताम्। लक्षणं नाम्नि चिह्ने च' इति विश्वः। तेषां दशार्णानां संबंधिनीम् धीयन्तेऽस्यामिति धानी। करणाधिकरणयेश्च’ इति ल्युट्॥ [राजघानीं] राज्ञां धानी राजधानी। कृद्योगलक्षणा षष्ठी समस्यते' इति वक्तव्यत्वात्समासः। तां प्रधाननगरीम्। प्रधाननगरी राज्ञां राजधानीति कथ्यते’ इति शब्दर्णवे। गत्वा प्राप्य सद्यः कामुकत्वस्य विलासितायाः। विलासी कामुकः कामी स्त्रीपरो रतिलम्पटः' इति शब्दार्णवे। अविकलं समग्रं फलं प्रयोजनं लब्धा लप्स्यते। त्वयेति शेषः। कर्मणि लुट्। कुतः। यस्मात् कारणात् स्वादु मधुरं चला ऊर्मयो यस्य तत् चलोर्मि तरङ्गितं वेत्रवत्याः नाम नद्याः पय ः सभ्रूभङ्गं भ्रुकुटियुक्तम्। दशनपीडयेति भावः। मुखमिव अधरमिवेत्यर्थः। [तीरोपान्तस्तनितसुभगं] तीरोपान्ते तटप्रान्ते यत्स्तनितं गर्जितं तेन सुभगं यथा तथा। स्तनितशब्देन भणितमपि व्यपदिश्यते। ऊर्ध्वमुच्चलित्कण्ठनासिकं हुङ्कृतं स्तनितमल्पघोषवत्।’ इति लक्षणात्। पास्यसि। पिबतेर्लृट्। `कामिनीनामधरास्वादः सुरतादतिरिच्यते।’ इति भावः॥

नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो-
स्त्वत्संपर्गात्पुलकितमिव प्रौढपुष्पैः कदम्बैः।
यः पण्यस्त्रीरतिपरिमलोद्रारिभिर्नागराणा-
मुद्दामानि प्रथयति शिलावेस्मभिर्यौवनानि ॥ 26 ॥
नीचैरिति॥ हे मेघ तत्र विदिशासमिपे। (विश्रामहेतोः) विश्रामो विश्रमः खेदापनयः। भावार्थे घञ्प्रत्ययः। तस्य हेतोः। विश्रामार्थमित्यर्थः। षष्ठी हेतुप्रयोगे' इति षष्ठी। विश्रामेत्यत्र नोदात्तोपदेशस्य मान्तस्यानाचमेः’ इति पाणिनीये वृद्धिप्रतिषेधेऽपि विश्रामो वा' इति चन्द्रवायाकरणे विकल्पेन वृद्धिविधानाद्रूपसिद्धिः। प्रौढपुष्पैः प्रबुद्धकुसुमैः कदम्बैः नीपवृक्षैः त्वत्संपर्कात् तव सङ्गात्। पुलका अस्य संजाताः पुलकितमिव संजातपुलकमिव स्थितम्। तारकादित्वादितच्प्रत्ययः। नीचैरित्याख्या यस्य तं नीच्चैराख्यं गिरिमघिवसेः। गिरौ वसेरित्यर्थः। उपान्वध्याङ्वसः’ इति कर्मत्वमअ। यः नीचैर्गिरिः। (पण्यस्त्रीरतिपरिमलोद्गारिभिः) पम्याः क्रेयाः स्त्रियः पण्यस्त्रियो वेश्याः। वारस्त्री गणिका वेश्या पण्यस्त्री रुपजीविनी। 'इति शब्दार्णवे। तासां रतिषु यः परिमलो गन्धविशेषः। विमर्दोत्ते परिमलो गन्दे जनमनोहरे।’ इत्यमरः। तमुद्गिरन्त्याविष्कुर्वन्तीति तथोक्तानि तैः। शिलावेश्मभिः कन्दरैः नागराणां पौराणाम् उद्दामानि उत्कटानि यौवनानि प्रथयति प्रकटयति। उत्कटयौवनाः क्वचिदनुरक्ता वाराङ्गाना विश्रम्भविहाराकाङ्क्षिण्यो मात्रादिभयान्निशीथसमये कंचन विविक्तं देशमाश्रित्य रमन्ते। तच्चात्र बहुलमस्तीति प्रसिद्धिः। अत्रोद्गारशब्दो गौणार्थत्वात् न जुगुप्सावहः। प्रत्युत काव्यस्यातिसोभाकर एव। तदुक्तं दण्डिना— `निष्ठ्यूतोद्गीर्णवान्तादि गौपवृत्तिव्यपाश्रयमअ। अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते॥ ’ इति ॥

विश्रान्तः सन्व्रज वननदीतीरजानां निषिञ्च-
न्नुद्यानानां नवजलकणैर्यूथिकाजालकानि।
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ 27 ॥
विश्रान्ता इति।विश्रान्तः सन् तत्र नीचैर्गिरौ विनीताध्वश्रमः सन्। अथ विश्रान्तेरनन्तरम् [वननदीतीरजानां] वनेऽरण्ये या नद्यस्तासां तीरेषु जातानि स्वयंरूढानि। अकृत्रिमाणीत्यर्थः। नदनदी-' इति पाठे पुमान्स्त्रिया’ इत्येकसेषो दुर्वारः। तेषां उद्यानानाम् आरामाणआं संबन्धीनि युथिकाजालकानि मागधीकुसुममुकुलानि। अथ मागधी। गणिका यूथिका' इत्यमरः। कोरकजालककलिकाकुङ्मलमुकुलानि। तुल्यानि। ’ इति हलायुधः। नवजलकणैः [निषिञ्चन्] सिञ्चन् आर्द्रीकुर्वन्। अत्र सिञ्चतेरार्द्रीकरणार्थत्वाद् द्रवद्रव्यस्य करणत्वम्। यत्र तु क्षरणमर्थस्तत्र द्रवद्रव्यस्य कर्मत्वम्। तथा रेतः सिक्त्वा कुमारीषु,' सुखैर्निषिञ्चन्तमिवामतं त्वचि’ इत्येवमादि। एवं किरतीत्यादीनामपि रजः किरति मारुतः,' अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः’ इत्यादिष्वर्थबेदाश्रयणेन रजोलाजादीनां कर्मत्वकरणत्वे गमयितव्ये। तथा [गण्कडस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां] गण्डयोः कपोलयोः स्वेदस्यापानयनेन प्रमार्जनेन या रुजा पीडा। भिदादित्वलादङ्प्रत्ययः। तया क्लान्तानि म्लानानि कर्णोत्पलानि येषां तेषां तथोक्तानाम्। [पुष्पलावीमुखानाम्] पुष्पाणि लुनन्तीति पुष्पलाव्यः कपुष्पावचायिताः स्त्रियः। कर्मण्यण्'। टिड्ढाणञ्-’ इत्यादिना ङीप्। तासां मुखानि। [छायादानात्] छायाया अनातप्स्य दानात्। कान्तिदानं च ध्वन्यते॥ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः। दानात्। कान्तिदानं च ध्वन्यते॥ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः। इत्यमरः। कामुकदर्शनात्कामिनीनां मुखविकासो भवतीति भावः। क्षणपरिचितः क्षणं संसृष्टः सन्। न तु चिरम्। व्रज गच्छ ॥

वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्गगणयविमुखो मा स्म भूरुज्जययिनायाः।
विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां
लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ 28 ॥
कक्र इति॥ उत्तराशाम् उदीचींदिशं प्रति प्रस्थितस्य भवतः पन्था उज्जयिनीमार्गो वक्रः यदपि दूरो यद्यपीत्यर्थः। विन्घ्यादुत्तरवाहिनाया निर्विन्ध्यायाः प्राग्बागे कियत्यपि दूरे स्थितोज्जयिनी। उत्तरपथस्तु निर्विन्ध्यायाः पश्चिम् इति वक्रत्वम्। तथापि उर्ज्जायन्याः विशालाननगरस्य। विशालोज्जयिनी समा' इत्युत्पलः। [सौधोत्सङ्गप्रणयविमुकः] सौघानामुत्सङ्गेषु परिभागेषु प्रणयः परिचयः। प्रणयः स्यात्परिचये याच्ञायां सौहृदेऽपि च। ’ इति यादवः। तस्य विमुखः पराङ्मुखः मा स्म भूः। न बवेत्यर्थः। स्मोत्तरे लङ् च इति चकारादाशीरर्थे लुङ्। न माङ्योगे’ इत्यडागमप्रतिषेधः। तत्र उज्जयिन्यां [विद्युद्दामस्पुरितचकितैः] विद्युद्दाम्नो विद्युल्लतानं स्पुरितेभ्यः स्फुरणेब्यस्चकितैः लोलापाङ्गैः चञ्चलकटाक्षैः पौराङ्गनानां लोचनैः न रमसे यदि तर्हि त्वं वञ्चितः प्रतारितः असि। जन्मवैफल्यं भवेदित्य्रथः ॥

संप्रत्युज्जयिनीं गच्छतस्तस्य मध्येमार्गं निर्विन्ध्यासंबन्धमाह—
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः।
निर्विन्ध्यायाःक पथि भव रसाभ्यन्तरः संनिपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ 29 ॥
३ीचीति॥ हे सके पथि उज्जयिनीपते [वीचिक्षोभस्तनितविहगश्रोणिकाञ्चीगुणायाः] वीचिक्षोभेण तरङ्गचलनेन स्तनितानां मुखराणाम्। कर्तरि क्तः। विहगानां हंसानां श्रेणिः पङ्क्तिरेव काञ्चीगुणो यस्यास्तस्याः। [स्खलितसुभगं] स्खलितेनोपस्खलनेन मदस्खलितेन च सुभगं यथा तथा संसर्पन्त्याः प्रवहन्त्या गच्छन्त्याश्च तथा [दर्शितावर्तनाभेः] दर्शितः प्रकटित आवर्तोऽभसां भ्रम एव नाभि र्यया स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः। [निर्विन्ध्यायाः] निष्क्रान्ता विन्द्या न्निर्विन्ध्या नाम नदी। निरादयः क्रान्ताद्यर्थे पञ्चम्या’ इति समासः। द्विगुप्राप्तदापन्नालम्--' इत्यादिना परवल्लिङ्गताप्रतिषेधः। तस्या नद्याः संनिप्त्य संगत्य। [रसाभ्यन्तरः] रसो जलमब्यन्तरे यस्य सः। अन्यत्र रसेन शृङ्गारेणाभ्यन्तरोऽन्तरङ्गः भव। सर्वथा तस्या रसमनुभवेत्यरथः। श्रृङ्गारादौ जले वीर्ये सुवर्णे विषशुक्रयोः। तिक्तादावमृते चैव निर्यासे पारदे ध्वनौ॥ आस्वादे च रसं प्राहुः’ इति शब्दार्णवे। ननु तत्पार्थनामन्तरेण कथं तत्रानुभवो युज्वतइ त्यत् आह स्त्रीणामिति। स्त्रीणां प्रियेषु विषये विभ्रमः विलास एव आद्यं प्रणयवचनं प्रार्थनावाक्यं हि। स्त्रीणामेष स्वभावो यद्विलासैरेव रागप्रकाशनम् न तु कणठत इति भावः। विभ्रमश्चात्र नाभिसंदर्शनादिरुक्त एव ॥

निर्विन्ध्याया विरहावस्थां वर्णयंस्तन्निराकरणं प्रार्थयते—
वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः
पाण्कडुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः।
सौभाग्यं ते सुभगं विरहावस्थया व्यञ्जयन्ती
कार्श्यं येन त्यजिति विधिना स त्वयैवोपपाद्यः ॥ 30 ॥
वेणीति।. [वेणीभूतप्रतनुसलिला] अवेणि वेणीभूतं वेण्याकारं प्रतनु स्तोकं च सलिलं यस्याः सा तथोक्ता। अन्यत्र वेणीभूतकेशपाशेति च ध्वन्यते। रुहन्तीति रुहाः। इगुपधलक्षणः कप्रत्ययः। [तटरुहतरुभ्रंशिभिः] कटयो रुहा ये तरवस्तेभ्यो भ्रश्यन्तीति तथोक्तैः जीर्णपर्णैः शुष्कापत्रैः पाण्डुच्छाया पाण्डुवर्णा। अतएव हे सुभगा विरहावस्थया पूर्वोक्तप्रकारया करणेन [तां निर्विन्ध्याम्] अतीतस्य एतावन्तं कालमतीत्य गतस्य प्रोषितस्येथ्यर्थः। ते तव सौभाग्यं सुभगत्वम्। हृद्भगसिन्ध्वन्ते पूर्वपदस्य च’ इत्युभयपदवृद्धिः। व्यञ्जयन्ती प्रकाशयन्ती। स खलु सुभगो यमह्गनाः कामयन्त इति भावः। असौ पूर्वौक्ता सिन्धुः नदी निर्विन्ध्या। स्त्री नद्यां ना नदे सिन्धूर्देसबेदेऽम्बुधौ गजे', इति वैजयन्ती। येन विधिना व्यापारेण कार्श्यं त्यजति स विधिः त्वया एव उपपाद्यः कर्तव्य इत्यर्थः, । स च विधिरेकत्रवृष्टिरन्यत्र संभोगस्तदभावनिबन्धतत्वात्कार्श्यस्येति बावः। इयं पञ्चमी मदनावस्था । तदुक्तं रतिरहस्ये--- नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः। निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः॥ उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दसैव स्युः॥' इति। सावतीतस्य’ इति पाठमाश्रित्य सिन्धुर्नाम नद्यन्तरमिति व्याख्यातम्। किं तु सिन्धुर्नाम कश्चिन्नदः कास्मीरदेशेऽस्ति नदी तु कुत्रापि नास्तीत्युपेक्ष्यमित्याचक्षते ॥

प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धा-
न्पर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम्।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ 31 ॥
प्राप्येति॥ [उदयनकथाकोविदग्रामवृद्धान्] विदन्तीति विदाः। इगुपधलक्षणः कः। ओकसो वेद्यस्थानस्य विदाः कोविदाः। ओकारलुप्ते पृषोदरादित्वत्साधुः। उदयनस्य वत्सराजस्य कथानां वासवदत्ताहरणाद्यद्भुतोपाख्यानानां कोविदास्तत्त्वज्ञा ग्रामेषु ये वृद्धास्ते सन्ति येषु तान। अवन्तीन् तन्नामजनपदान् प्राप्य। तव पूर्वोद्दिष्टां पूर्वोक्तां सौधोत्सङ्गप्रणयविमुको मा स्म भूरुज्जयिन्याः' इत्युक्तां श्रीविशालां संपत्तिमतीम्। शोभासंपत्तिपद्मसु लक्ष्मीः श्रीरिव दृश्यते’ इति शाश्वतः। विशालां पुरीम् उज्जयिनीम् उपसरं व्रज। कथमिव स्थितान्। सुचरितफले पुण्यफले स्वर्गोपबोगलक्षणे स्वल्पीभूते। अत्यल्पावशिष्टे सतीत्यर्थः। गां भूमिं गतानाम्। गौरिलाकुम्बिनी क्षमा' इत्यमरः। पुनरपि भूलोकगतानामित्यर्थः। स्वर्गिणां स्वर्गवतां जनानां शेषैः भुक्तशिष्टैः पुण्यैः सुकृतैः हृतम् आनीतम्। स्वर्गार्थानुष्ठितकर्मशेषाणां स्वर्गादानावश्यंभावादिति भावः। कान्तिरस्यास्तीति कान्तिमत् उज्जवलं सारभूतमित्यर्थः एकं भुक्तादन्यत्। एके मुख्यान्यकेवला’ इत्यमरः। दिवः स्वर्गस्य खण्डम् इव स्थितामित्युत्प्रेक्षा। एतेनातिक्रान्त्सकलभूलोकनगरसौभाग्यसारत्वमुज्जयिन्ताय व्यज्यते ॥

दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ 32 ॥
दीर्घीकुर्वन्निति॥ यत्र विशालायां प्रत्यूषेषु अहर्मुखेषु। प्रत्यूषोऽहर्मुखं कल्यम्' इत्यमरः। पटु प्रस्फुटम्। मदकलं मदेनाव्यक्तमधुरम्। ध्वनौ तु मधुरास्फुटे। कलः’ इत्यमरः। सारसानां पक्षिविशेषाणाम्। सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः।' इति यादवः। सारसानां हंसानाम्। चक्राङ्गः सार्सो हंसः’ इति शब्दार्णवे। कूजितं रुतं दीर्घीकुर्वन्। विस्तारयन्नित्यर्थः यावद्वातं शब्दावृत्तेरिति भावः। एतेन प्रियतमः स्वचाटुवाक्यानुसारि क्रीडापक्षिकूजितमविच्छिन्नीकुर्वन्नति च गम्यते। [स्फुटितकमलामोदमैत्रीकषायः] स्फुटितानं विकसितानां कमलानामामोदेन परिमलेन सह या मैत्री संसर्गस्तेन कषायः सुरभिः। रागद्रव्ये कषायोऽस्त्री निर्यासे सौरबे रसे। इति यादवः। अन्यत्र विमर्दगन्धीत्यर्थः। विमर्दोत्थे परिमलो गन्धे जनमनोहरे। आमोदः सोऽतिनिर्हारी’ इत्यमरः। अङ्गानुकूलः गात्रसुखस्पर्शः। अन्यत्र गाढालिङ्गनदत्तगात्रसंवाहन इत्यर्थः. भवभूतिना चोक्तम्—अशिथिलपरिरम्मैर्दत्तसंवाहनानि' इति। संवाह्यन्ते च सुरतश्रान्ताः प्रियैर्युवतयः। एतत्कविरेव वक्ष्यति---संभोगान्ते मम समुचितो हस्तसंवाहनानाम्।’ इति। शिप्रा नाम काचित्तत्रत्या नदी तस्या वातः शिप्रावातः। शिप्राग्रहणं शैत्यद्योतनार्थम्। [प्रार्थनाचाटुकारः] प्रार्थना सुरतस्य याच्ञा तत्र चाटु करोतीति तथोक्तः। पुनः सुरतार्थं प्रियवचनप्रयोक्तेत्यर्थः कर्मण्यण्प्रत्ययः। प्रियतमः वल्लभः इव स्त्रीणां सुरतग्लानिं संभोगखेदं हरति नुदति। चाटूक्तिभिर्विस्मृतपूर्वरतिखेदाः स्त्रियः प्रियतमप्रार्थनां सफलयन्तीति भावः। प्रार्थनाचाटुकारः' इत्यत्रखण्डितनायिकाऽनुनीता’ इति व्याख्याने सुरतग्लानिहरणं न संभवति। तस्याः पूर्वं सुरताभावात्पश्चात्तत्सुरतग्लानिहरणं तु नेदानींतनकोपशमनार्थचाटुवचनसाध्यमित्युत्प्रेक्षैवोचिता विवेकिनाम्। `ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता’ इति दशरुपके॥

हारांस्तारांस्तरलगुटिकान्कोटिशः शङ्खशुक्तीः
घासस्यामान्मरकतमणीनुन्मयूखप्ररोहान्।
दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणां च भङ्गा-
न्संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ 33 ॥
हारानिति॥ यस्यां विशालायां कोटिशः [विपणिरचितान्] विपणिषु पण्यवीथिकासु॥ विपणिः पण्यवीथिका' इत्यमरः। रचितान्प्रसारितान्। इदं विशेषणं यथालिङ्गं सर्वत्र संबध्यते। तारान् सुद्धान्। तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके’ इति विश्वः। तरलगुटिकान् मध्यमणीभूतमहारत्नान्। तरलोहारमध्यगः' इत्यमरः। पिण्डे मनौ महारत्ने गुटिका बद्धपारदे’ इति शब्दार्णवे। हारान् मुक्तावलीः। तथा कोटिशः [शङ्खशुक्तीः] शङ्खांश्च खुक्तींश्च मुक्तास्फोटांश्च। मुक्ताक्फोटः स्त्रियां शुक्तिः स्यात्कम्बुरस्त्रियाम्।' इत्यमरः। [शष्पश्यामान्] शष्पं वालतृणं तद्वच्छ्यामान् शष्पं बालतृणं घासो यवसं तृणमर्जुनम्।’ हत्यमरः। उन्मयूखप्ररोहान् उद्गतरम्याङ्कुरान् मरकतमणीन् गारुडरत्नानि तथा विद्रुमाणां भङ्गान् प्रवालखण्डान् च दृष्ट्वा सलिलनिधयः समुद्रा [तोपयमात्रावशेषाः] तोयमात्रमवशषो येषां ते तादृशाः संलक्ष्यन्ते। तथाऽनुमीयन्त इत्यर्थः। रत्नाकरादप्यतिरित्यते रत्नसंपद्भिरिति भावः॥

प्रद्योतस्य प्रियदुहितरं वत्सरजोऽत्र जह्रे
हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः।
अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा-
दित्यागन्तून्रमयति जनो यत्र बन्धूनभिज्ञः ॥ 34 ॥
प्रद्योतस्येति॥ अत्र प्रदेशे वत्सराजः वत्सदेशाधीश्वर उदयनः। प्रद्योतस्य नामोज्जयिनीनायकस्य राज्ञः प्रियदुहितरं वासवदत्तां जह्रे जहार। अत्र स्थले तस्य एव राज्ञः दर्पात् मदात् स्तम्भम् आलानम् उत्पाट्य उद्धृत्य भ्रमणं कृतवान् इति इत्थंभूताभिः कथाभिरित्यर्थः। अभिज्ञः पूर्वोक्तकथाभिज्ञः कोविदो जनः आगन्तून् देशान्तरादागतान्। औणादिकस्तुन्प्रत्ययः। बन्धून् यत्र विशालायां रमयति विनोदयतिः अत्र भाविकालंकारः। तदुक्त्म्—`अतीतानागते यत्र प्रत्यक्षत्वेन् लक्षिते। अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम्॥’ इति ॥

जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-
र्बन्धुप्रीत्या भवनशिशिभिर्दत्तनृत्योपहारः।
हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा
लक्ष्मीं पश्यंल्ललितवनितापादरागाङ्कितेषु ॥ 35 ॥
जालोद्गीर्णैरिति। जालोद्गीर्णैः गवाक्षमार्गनिर्गतैः। जालं गवाक्ष आनाये जालके कपटे गणए। ' इति यादवः। केशसंसंकारधूपैः। वनिताकेशवासनार्थैर्गन्धद्रव्यधूपैरित्यर्थः। अत्र संस्कारधूपयोस्तादर्थ्येऽपि यूपदार्वादिवत्प्रकृकतिविंकारत्वाभावादश्वघासादिवत्षष्ठीसमासो न चतुर्थीसमासः। उपचितवपुः परिपुष्टशरीरः [बन्धुप्रीत्या] बन्धौ बन्धुरिति वा प्रीत्या भवनशिखिमिः गृहमयूरैः [दत्तनृत्योपहारः] दत्तः नृत्यमेवोपहार उपायनं यस्मै स तथोक्तः। उपायनमुपग्राह्यमुपहारस्तथोपदा’ इत्यमरः। [कुसुमसुरभिषु] कुसुमैः सुरभिषु सुगन्धिषु। [ललितवनितापादरा गाङ्कितेषु] कलितवतनिताः सुन्दरस्त्रियः। `ललितं त्रिषु सुन्दरम्’ इति शब्दार्णंवे। तासां पादरागेण लाक्षारसेनाङ्कितेषु चिह्नितेषु हर्म्येषु धनिकभवनेषु अस्याः उज्जयिन्याः लक्ष्मीं पश्यन् [अध्वखेदं] अघ्वगमनेन खेदं वलेशं नयेथाः अपनय॥

भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः
पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य।
धूतोद्यानं कुवलयरजोर्गान्धमिर्गन्धवत्या-
स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ 36 ॥
भर्तुरिति॥ भर्तुः स्वामिनो नीलकण्ठस्य भगवतः कण्ठस्येव छविर्यस्यासौ कण्ठच्छविः इति हेतोः गणैः प्रमथैः। गणस्तु गणनायां स्याद्गणेशे प्रमथे चये।' इति शब्दार्णवे। सादरं यथा तथा वीक्ष्यमाणः सन्। प्रियवस्तुसादृश्यादतिप्रियत्वं भवेदिति भावः। [त्रिभुवनगुरोः] त्रयाणां भुवनानां समाहारस्त्रिभुवनम्। तद्धितार्थं–’ इत्यादिना समासः। तस्य गुरोस्त्रैलोक्यनाथस्य चण्डीवरस्य कात्यायनीवल्लभस्य पुण्यं पावनं धाम महाकालख्यं स्थानं यायाः गच्छेः विध्यर्थे लिङ्। श्रेयस्करत्वात्सर्वथा यातव्यमिति भावः। उक्तं च स्कान्दे--आकाशे तारकं लिङ्गं पाताले हाटकेश्वरम्। मर्त्यलोके महाकालं दृष्ट्वा काममवाप्नुयात्॥ ’ इति॥ न केवलं मुक्तस्थानमिदं किं तु विलासस्थानमपीत्याह–धृतेति। कुवलयरजोगन्धिमिः उत्पलपरागगन्धवद्भिः [तोयक्रीडानिरतयुवतिस्नानतिक्तैः] तोयक्रीडासु निरतानामासक्तानां युवतीनां स्नानं स्नानीयं चन्दनादि। करणे ल्युट्। `स्नानीयेऽभिषवे स्नानम्’ इति हलायुधः। सौगन्ध्यातिशयार्थं विशेषणद्वयम्। गन्धवत्याः नाम नद्याः तत्रत्यायाः मरुदभिः मारुतैः धूतोद्यानं कम्पिताक्रीडमिति धाम्नो वपिशेषणम्॥

अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदत्येति भानुः।
कुर्वन्संघ्याबलिपटहतां शूलिनः श्लाघनीया-
मामन्द्राणां फलमाविकलं लप्स्यसे गर्जितानाम् ॥ 37 ॥
अपीति॥ युग्मम्॥ हे जलधर महाकालं नाम पूर्वोंक्तं चण्डीस्वरस्थानम् अन्यस्मिन् संध्यातिरिक्ते अपि काले आसाद्य प्राप्य ते तव स्थातव्यं त्वया स्थानव्यमित्यर्थ। कृत्यानां कर्तरि वा' इति षष्ठी। यावत् यावता कालेन भानुः सुर्यः नयनविषयं दृष्टिपथम् अत्येति अतिक्रामति। अस्तमयकालपर्यन्तं स्थातव्यमित्यर्थः। यावदित्यतदवधारणार्थै। यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे। ’ इत्यमरः। किमर्थमत आह—कुर्वन्निति। श्लाघनीयां प्रशस्यां शूलिनः शिवस्य [संध्याबलिपटहतां] संध्यायां बलिः पूजा तत्र पटहतां कुर्वन् संपादयन् आमन्द्राणाम् ईषद्गम्भीराणां गर्जितानाम् अविकलम् अखण्डं फलं लप्स्यसे प्राप्स्यसि। लभेः कर्तरि लृट्। महाकालनाथबलिपटहत्वेन विनियोगात्ते गर्जितसाफल्यं स्यादित्यर्थं॥

पादन्यासैः क्वणिवरशनास्तत्र लीलावधूतै
रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः।
वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दू-
नामोक्ष्यन्ते त्वचि मधुकरश्रेणिदीघीन्कटाक्षान् ॥ 38 ॥
पादन्यासैरिति॥ तत्र संध्याकाले। पादन्यासैः चरणनिक्षेपैर्नृत्याह्गेः [क्वणितरशनाः] क्वणिताः शब्दायमाना रशना यासां तास्तथोक्तः। क्वणतेरकर्मकत्वात् गत्यर्थाकर्मक---' इत्यादिना कर्तरि क्तः। [लीलावधूतैः] लीलया विलासेनावधूतैः कम्पिनैः। [रत्नच्छायाखचितवलिभिः] रत्नानां कङ्कणमणीनां छायया कान्त्या खचिता रूपिता वलयश्चामारदण्डा येषां तैः। वलिश्चामरदण्डे च जराविश्लथचर्मणि।’ इति विश्वः। चामरैः बालव्यजनैः क्लान्तहस्ताः। एतन दैशिकं नृत्यं सूचितम्। तदुक्तं गृत्वसर्वंस्वे–खङ्नकन्दुकवस्त्रादिदण्डिकाचामरस्रजः. वीणां च धृत्वा यत्कुर्युर्नृत्यं तद्देशिकं भवेत्॥ इति। वेश्याः महाकालनाथमुपेत्य नृत्यन्त्यो गणिकाः त्वक्तः [नखपदसुखान्] नखपदेषु नखक्षतेषु सुखान्सुखकरान्। सुखहेतौ सुखे सुखम्’ इति शब्दार्णवे। [वषग्रिबिन्दून्] वर्षस्याग्रबिन्दून्प्रथमविन्दून् प्राप्य त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् अपाङ्गान् आमोक्ष्यन्ते। `परैरुपकृताः सन्तः सद्यः प्रत्युपकुर्वते’ इति भावः। कामिनीदर्शनीयत्वलक्षणं शिवोपासनाफलं सद्यो लप्स्यस इति ध्वनिः।

पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः।
नृत्तारम्बे हर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ 39 ॥
पश्चादिति॥ पश्चात् संध्याबल्यनन्तरं पशुपतेः शिवस्य नृत्तारम्भे ताण्डवप्रारम्भे प्रतिनवजपापुष्परक्तं प्रत्यग्रजपाकुसुमारुणं संध्यायां भवं सांध्यं तेजः दधानः।
उच्चैः अन्नतं [भुजतरुवनं] भुजा एव तरवस्तेषां वनं मण्डलेन मण्डलाकारेण अभिलीनः अभिव्याप्तः सन्। कर्तरि क्तः। भवान्या भवपत्न्या॥ इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवनमातुलाचार्याणामानुक्' इति ङीप्। आनुगागम्श्च॥ [शान्तोद्वेगस्तिमितनयनं] शान्त उद्वेगः गजाजिनदर्शनबयं ययोस्ते अत एव स्तिमिते निश्चले नयने यस्मिन्कर्मणि तत्तथोक्तम्। उद्वेगस्त्वरिते क्लेशे बये मन्थरगामिनि’ इति शब्दार्णवे। भक्तिः पूज्येष्वनुरागः। भावार्थे क्तिन्प्रत्ययः। दृष्टा भक्तिर्यस्य स दृष्टभक्तिः सन् पशुपतेः [आर्द्रनानगाजिनेच्छां] आर्द्रं शोणितार्द्रं यन्नागाजिनं गजचर्म॥ अजिनं चर्म कृत्तिः स्त्री' इत्यमरः॥ तत्रेच्छां हर निवर्तय। त्वेमेव तत्स्थाने भवेत्यर्थः. गजासुरमर्दनानन्तरं भगवान्महादेवस्तदीयमार्द्राजिनं भुजमण्डलेन विभ्रताण्कडवं चकारेति प्रसिद्धिः॥ दृष्टभक्तिरिति कथं रुपसिद्धिः। दृष्टशब्दस्य स्त्रियाः पुंवत्–’ इत्यादिना पुंवद्भावस्य दुर्घटत्वादपूरणीप्रियादिष्विति निषेधात्। भक्तिशब्दस्य प्रियादिषु पाठादिति। तदेतच्चोद्यं दृढभक्तिरिति शब्दमाश्रित्य प्रतिविहितं गणव्याख्याने दृढं भक्तिरस्येति। नपुंसकं पूर्वपदम्। अदाढर्येनिवृत्तिपरत्वे दृढशब्दाल्लिङ्गविशेषस्यानुपकारित्वात्स्त्रीत्वमविवक्षितमिति॥ भोजराजस्तु—भक्तो च कर्मसाधनायामित्यने सूत्रेण भज्जते सेव्यत्' इति कर्मार्थत्वे भवानीभक्तिरित्यादि भवति। भावसाधनायां तु स्थिरभक्तिर्भवान्यामित्यादि भवति इत्याह। तदेतत्सर्वं सम्यग्विवेचितं रघुवंशसंजीवन्यां दृढभक्तिरिति ज्येष्ठे’ इत्यत्र। तस्माद् दृष्टबक्तिरित्यत्रापि मतबेदेन पूर्वपदस्य स्त्रीत्वेन नपुंसकत्वेन च रूपसिद्धिरस्तीति स्थितम् ॥

इत्थं महाकालनाथस्य सेवाप्रकारमभिधाय पुनरपि नगरसंचारप्रकारमाह—
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः.
सौदामन्या कनकनिकषास्निग्धया दर्शयोर्वीं
तोयोत्सर्गस्तनितमुखरोमा च भूर्विक्लवास्ताः ॥ 40 ॥
गच्छन्तीनामिति॥ तत्र उज्जयिन्यां नक्त रात्रो रमणवसतिं प्रयभवनं प्रति गच्छातीनां योषिताम्। अभिसारिकाणामित्यर्थः। [सूचिभेद्यैः] सूचिभिर्बेद्यैः अतिसान्द्रैरित्यर्थः। तमोभिः रुद्धालोके निरुद्धदृष्टिप्रसारे नरपतिपथे राजमार्गे [कनकनिकषस्निग्धया] कनकस्य निकापो निकष्यत इति व्युत्पत्त्या निकप उपलगतरेखा तस्येव स्निग्धं तेजो यस्यास्तया। स्निग्धं तु मसृणे सान्द्रे रम्ये क्लीबे च तेजसि' इति शब्दार्णवे। [सौदामन्या] सुदाम्नाऽद्रिणैकदिक्सौदामनी विद्युत्। तेनैकदिक्’ इत्यणप्रत्यः। तया उर्वीम् मार्गं दर्शय। किं च [तोयोत्सर्गस्तनिति मुखरः] तोयोत्सर्गस्तनिताभ्यां वृष्टिगर्जिताभ्यां मुखरः शब्दायमानः मा च भूः। कुतः। ताः योषितः विक्लवाः भीरवः। ततो वृष्टिगर्जिते न कार्ये इत्यर्थः। नात्र तोयोत्सर्गसहितं स्तनितमिति विग्रहः। विशिष्टस्येव केवलस्तनितस्याप्यनिष्टत्वात् न च द्वन्द्वपक्षेऽल्पात्तरपूर्वनिपातशास्त्रविरोधः। `लक्षणहेत्वोः क्रियायाः’ इति सूत्र एव विपरीतनिर्देशेन पूर्वनिपातशास्त्रस्यानित्यत्वज्ञापनादिति ॥

तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात्खिन्नावद्युत्कलत्रः।
दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः । 41 ॥
तामात॥ [चिरविलसनात्] चिरं विलसनात् स्फुरणात् [खिन्नविद्युत्कलत्रः] खिन्नं विद्युदेव कलत्रं यस्य स भवान् [सुप्तपारावतायं] सुप्ताः पारावताः कलरवा यस्यां तसयाम्। विविक्तायामित्यर्थः॥ पारावतः कलरवः कपोतः इत्यमरः॥ जनसंचारस्तत्रासंभावित एवेति भावः। कस्यांचित् भवनवलमौ। गृहाच्छादनोपरिभागा इत्यर्थः॥ आच्छादनं स्याद्वलभी गृहाणाम्’ इति हलायुधः। तां रात्रिं नीत्वा सूर्ये दृष्टे सति उदिते सतीत्यर्थः। पुनरपि अध्वशेषं वाहयेत्। तथा हि। सुदृदां मित्राणां [अभ्युपेतार्थकृत्याः] अभ्युपेता अङ्गीकृताऽर्थस्य प्रयोजनस्य कृत्या क्रिया यैस्तेः। अभ्युपेतसुहृदर्था इत्यर्थः। सापेक्षत्वेपि गमकत्वात्समासः। कृत्याक्रियादेवातयोः कार्ये सत्री कुपिते त्रिपु।' इति यादवः। कृञः श च’ इति चकारातद्कयप्। न मन्दायन्ते खलु न मनदा भवन्ति हि। न विलम्बन्त इत्यर्थधः। लोहितादिडाज्भ्यः क्यष्' इति क्यष्। वा क्यषः’ इत्यात्मनेपदम् ॥

तस्मिन्काले नयनसलिलं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु।
प्रालेयास्त्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ 42 ॥
तस्मिन्निति॥ तस्मिन् काले पूर्वोक्ते सूर्योंदयकाले प्रणयिभिः प्रियतमैः खण्कडितानां योषितां नायिकाविसेषाणाम् ज्ञातोऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता' इति दशरूपके। च्यनसलिलं शान्तिं नेयं नेतव्यम्। नयतिर्द्विकर्मकः। अतः हेतोः भानोः वर्त्मं आशु शीघ्रं त्यज। तस्यावरको माबूरित्यर्थः विपक्षेऽनिष्टमाचष्टे-सः अपि भानुः। [नलिन्याः] नलिनान्यम्बूजानि यस्याः सन्तीति नलिनी पद्मिनी। तृणेऽम्बुजे नलं ना तु राज्ञि नाले तु न स्त्रियाम्।’ इति शब्दार्णवे। तस्याः स्वकान्तायाः [कमलवदनात्] कमलं स्वकुसुममेव वदनं तस्मात् [प्रालेयास्त्रं] प्रालेयं हिममेवास्त्रमश्रु हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः। नलिन्याश्च भर्तुर्भानोर्देशान्तरे नलिन्यन्तरगमनात्खण्डितात्वमित्याशयः। ततः त्वयि। करानंशून्रुणद्धीति कररुत्। क्किप्। तस्मिन कररुधि सति। हस्तरोधिनि सतीति च गम्यते। बलिहस्तांशवः कराः' इत्यमरः [अनल्पाभ्यसूयः अधिकविद्वेपः स्यात्। प्रायेणेच्छाविसेषविगाताद्द्वेषो रोषविशेषश्च कामिनां भवतीति भावः। किं च--आत्मानं चार्कमीशानं विष्णुं वला द्वेष्टि यो जनः श्रेयांसि तस्य नश्यन्ति रौखं च भवेद्ध्रूवम् ॥’ इति निषेधात्कार्यहानिर्भविष्यतीति ध्वनिः ॥

गभ्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्माऽपि प्रकृतिसुभगो लष्स्यते ते प्रवेशम्।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-
न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ 43 ॥
गम्बीरायाः इति॥ गम्भीरा नाम सरित्। उदात्तनायिका च ध्वन्यते। तस्ताः [गम्भीरायाः सरितः] प्रसन्न्े अनुरक्तत्वाद्दोषरहिते चेतसि इव प्रसन्नेऽतिनिर्मले पयसि। [प्रकृतिसुभगः] प्रकृत्या स्वभावेनैव सुभगः सुन्दरः। सुन्दरेऽधिकभाग्ये च दुर्दिनेतरवासरे। तुरीयांसे श्रीमति च सुभगः' इति शब्दार्णवे। ते तव [छायात्मा] छाया चासावात्मा च। सः अपि प्रतिबिम्बशरीरं वा प्रवेशं लप्स्यते। अपिशब्दात्प्रवेशमनिच्छोरपीति भावः। तस्मात् छायाद्वाराऽपि प्रवेसावश्यंबावित्वात् अस्या गम्भीरायाः [कुमुदविशदानि] कुमुदवद्विशदानि धवलानि [चटुलशफलोद्वर्तनप्रेक्षितानि] चटुलानि शीघ्राणि शफराणां मीनानामुद्वर्तनान्युल्लुण्ठनान्येव प्रेक्षितान्यवलोकनानि। त्रिषु स्याच्चटुलं शीघ्रम्’ इति विश्वः। एतावदेव गम्भीराया अनुरागलिङ्गम्। धैर्यात् धाष्टर्यात्। वैयात्यादिति यावत्। मोघीकर्तु विफलीकर्तुं [त्वं] न अर्हसि। नानुरक्ता विप्रलब्धव्येत्यर्थः। धूर्तलक्षणं तु—`क्लिश्नाति नित्यं गमितां कामिनीमिति सुन्दरः। उपैत्यरक्तां यत्नेन रक्तां धूर्तो विमुञ्चति॥ ’ इति ॥

तस्याः किंचित्करघृतमिव प्राप्तवानीरशाखं
हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम्।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ॥ 44 ॥
तस्या इति॥ हे सखे [प्राप्तवानीरशाखं] प्राप्ता वानीरशाखा ये तत्तथोक्तमत एव किंचित् ईषत् करघृतम् हस्तावलम्बितम् इव स्थितम्। [मुक्तरोघोनितम्बम्] मुक्तस्त्वक्तो रोघस्तटमेव नितम्बः कटिर्येन तत्तथोक्तम्॥ नितम्बः पश्चिमे श्रोणिभागेऽद्रिकटके कटौ।' इति यादवः॥ नीलं कृष्णवर्णं तस्या गम्भीरायाः [सलिलवसनं] सलिलमेव वसनं हृत्वा अपनीय। प्रस्थानसमयण प्रेयसीवसनग्रहणं विरहतापविनोदनार्थमिति प्रसिद्दम्। लम्बमानस्य पीतसलिलभराल्लम्बमानस्य। अन्यत्र जघनारूढस्य। ते तव प्रस्थानं प्रयाणं कथमपि कृच्छ्रेण भावि। कृच्छ्रत्वे हेतुमाह-ज्ञातेति। ज्ञातास्वादः अनुभूतरसः कः पुमान् [विवृतजघनां] विवृतं प्रकटीकृतं जघनं कटिस्तत्पूर्वभागो वा यसयास्ताम् ॥ जघनं स्मात्कटौ पूर्वश्रोणिभागापरांशयोः।’ इति यादवः। विहातुं त्यक्तुं समर्थः। न कोऽपीत्यर्थः॥

त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः
स्रेतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः।
नीचैर्वास्यत्युपजिगमिषोर्दैवपूर्वं गिरिं ते
शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ 45 ॥
त्वदिति॥ [त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः] त्वन्निष्यन्देन तव वृष्ट्योच्छ्वसिताया उपबृंहिलाया वसुधाया भूमेर्गन्धस्य संपर्केण रम्यः। सुरभिरित्यर्थः स्रोतःशब्दनेन्द्रियवाचिना तद्विशेषो घ्राणं लक्ष्यतए। स्रोतोऽम्बुवेगेन्द्रिययोः' इत्यमरः। [स्रोतोरन्द्रध्वनितसुभगं] स्रोतोरनध्रेषु नासाग्रकुहरेषु यद्ध्वनितं शब्दस्तेनं सुभगं। यथा तथा दन्तिभिः गजै पीयमानः। वसुवागन्धलोभादाघ्रायमाण इत्यर्थः। अनेन मान्द्यमुच्यते। [काननोदुम्बराणाम्] काननेषु वनेषूदुम्बराणां जन्तुफलानाम्। उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः॥’ इत्यमरः। परिणमयिता परिपाकयिता। मितां ह्रस्वः' इति ह्रस्वः। शीतो वायुः। देवपूर्वं देवशबप्दपूर्वं गिरिम् देवगिरिमित्यर्थः। उपजिगमिषोः उपगन्तुमिच्छोः। गमेः सन्न्न्तादुप्रत्ययः। ते तव नीचैः शनैः वास्यति। त्वां वीजयिष्यतीत्यर्थः। संवन्धमात्रविवक्षायां षष्ठी। देवपूर्वं गिरिम्’ इत्यत्र देवपूर्वत्वं गिरिशब्दस्य। न तु संज्ञिनस्तदर्थस्येति संज्ञायाः संज्ञित्वाभावादवाच्यवचनं दोषमाहुरालंकारिकाः। तदुक्तमेकावल्लाम्–`यदवाच्यस्य वचनमवाच्यवचनं हि तत्।’ इति। समाधानं तु देवशब्दविसेषितेन गिरिशब्देन शब्दपरेण मेघोपगमनयोग्यो देवगिरिर्लक्ष्यत इति कथंचित्संपाद्यम् ॥

तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः।
रक्षाहेतोर्नवशशिबृता वासवीनां चमूना-
मत्यादित्यं हुतवहमुखे सभृतं तद्वि तेजः ॥ 46 ॥
तत्रेति॥ तत्र देवगिरौ (नियतवसतिं) नियता वसतिर्यस्य तम्। नित्यसंनिहितमित्यर्थः। पुरा किल तारकाश्यासुरविजयसंतुष्टः सुरप्रार्थनावशाद्भगवान्भवानीनन्दनः स्कन्दो नित्यमहमिह सह शिवाभ्यां वसामीत्य्रुक्ताव तत्र वसतीति प्रसिद्धिः। स्कन्दं कुमारं स्वामिनम्। पुष्पाणां मेघः पुष्पमेघः। पुष्पमेघीकृतात्माकामरुपत्वात्पुत्पवर्पुकमेघीकृतविग्रहः सन्। व्योमगङ्गाजलार्द्रैः पुष्पासारैः पुष्पसंपातैः। धारासंपात आसारः' इत्यमरः। भवान् स्वयमेव स्नपयतु अभिषिञ्चत्। स्वयंपूजाया उत्तमत्वादिति भावः। तथा च शंभुरहस्ये--स्वयं यजति चेद्देवमुत्तमा सोदरात्मजैः। मध्यमा या यजेद्भृत्यैरधमा याजनक्रिया॥’ इति स्कन्दस्य पूज्यत्वसमर्थनेनार्थनायन्तिरं न्यस्वति—रक्षेति।. तत् भगवान् स्खन्द इत्यर्थः। विधेयप्राधन्यान्नपुंसकनिर्देशः। वासवस्येमा वासव्यः। तस्येदम् इत्यण्। तासां वासवीनाम् ऐन्द्रीणां चमूनं सेनानां रक्षाहेतोः रक्षया कारणेन। रक्षार्थमित्यरथः। षष्ठी हेतुप्रयोगे’ इति षष्ठी। नवशशिबृता भगवता चन्द्रशेशरेण [हुतवहमुके] वहतीति वहः। पचाद्यच्। हुतस्य वहो हुतवहो वह्निस्तस्य मुखे संभृतं संचितम्। आदित्यमतिक्रान्तम् अत्यादित्यम्॥ `अत्यादयः क्रान्ताद्यर्थे दिवितीयया’ इति समासः। तेजः हि आक्षाद्भगवतो हरस्यैव मूर्त्यन्तरमित्यर्थः। अतः पूज्यमिति भावः। मुखग्रहणं तु शुद्धत्वसूचनार्थम् तदुक्तं शंभुरहस्ये—गवां पश्चाद्द्विजस्याङिघ्रर्योगिनां हृत्कवेर्वचः। परं शुचितमं विद्यान्मुंखं स्त्रीवह्निवाजिनाम् ॥’ इति ॥

ज्योतिर्लेखावलयि गालितं यस्य बर्हं भवानी
पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति।
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयुरं
पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ 47 ॥
ज्योतिरिति॥ [ज्योतिंर्लेखावलयि] ज्योतिपस्तेजसो लेखा राजयस्तासां वलयं मण्डलं यस्यास्तीति तथोक्तम्। गलितं भ्रष्टम् न तु लौल्यात्स्वयं छिन्नमिति भावः। यस्य मयुरस्य बर्हं पिच्चम्। पिच्छबर्हे नपुंसके' इत्यमरः। भवानी गौरी। पुत्रप्रेम्णा पुत्रस्तेहेन। कुवलयदलप्रापि। कुवलयस्य दलं पत्रं तत्पापि तद्योगि यथा तथा कर्णे करोति। दलेन सह धारयतीत्यर्थः। यद्वा कुवलयस्य दलप्रापि दलभाजि दलार्हे कर्णे करोति। क्विबन्तात्सप्तमी। दलं परिहृत्य तत्स्ताने बर्हं धत्त इत्यर्थः। नाथस्तु कुवलयदलक्षेपि’ इति पाठमनुमसृत्य क्षेपो निन्दाऽपसारणं वा' इति व्याख्यातवान्। हरशशिरुचा। इरशिरश्चन्द्रिकवा धौतापाङ्गं स्वतोऽपि शौक्ल्यादतिधवलितनेत्रान्तम्। अपाङ्गौ नेत्रयोरन्तौ’ इत्यमरः। [पावकेः] पावकस्याग्नेरपत्यं पावकिः स्कन्दः. अत इञ। तस्य तं पूर्वोक्तं मयूरं पश्चात् पुष्पाभिषेचनानन्तरम् [अद्रिग्रहणगुरुभिः] अद्रेर्देवगिरेः कर्तुः ग्रहणेन गुहासंक्रमणेन गुरुभिः। प्रतिध्वानमहद्भिरित्यर्थः। गर्जितैः नर्तयेथाः नृत्यं कारय। मार्दङ्गिकभावेन भगवन्तं कुमारमुपास्वेति भावः। नर्तयेथा’ इत्यत्र आणावकर्मकाच्चित्तवत्कर्तृकात्' इत्यात्मनेपदापवादः। निगरणचलनार्थेभ्यश्च’ इति परस्मैपदं न भवति तस्य `न पादम्याड्यमाड्यसपरिमुरहुचिनृतिवदवसः’ इति प्रतिषेधात्॥

आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा
सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः।
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्य—
न्स्रोतोमूर्त्या भुवि परिणतांरन्तिदेवस्य कीर्तिम् ॥ 48 ॥
आराध्येति॥ एनं पूर्वीक्तं [शरवणभवं] शारा बाणतृणानि॥ शरो बाणे बाणतृणे' इति शब्दार्णवे॥ तेषां वनं शरवणम्॥प्रनिरन्तःशरे–’ इत्यादिनाणत्वम्। तत्र भवो जन्म यस्य तं शरवणभवम्॥ अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः।' इति वामनः। अवर्ज्योऽगतिकत्वादाश्रयणीय इत्यर्थः। देवं स्कन्दम्॥शरजन्मा षडाननः’ इत्यमरः आराध्य उपास्य वीणिभिः वीणावद्भिः॥ व्रीह्यादित्वादिनिः॥ सिद्धद्वन्द्वैः सिद्धमिथुनैः भगवन्तं स्कन्दमुपवीणयितुमागतैरिति भावः। जलकणभयात्। जलसेकस्य वीणाक्वणप्रतिबन्धकत्वादिति भावः। मुक्तमार्गः त्यक्तवर्त्मा सन् उलङ्धिताध्वा। कियन्तमध्वनानंगत इत्यर्थः। [सुरभितनयालम्भजा] सुरभितनयानां गवामालम्भेन संज्ञपनेन जायत इति तथोक्ताम्। भुवि लोके स्रोतोमूर्त्यां प्रवाहरूपेण परिणतां रुपविशेषमापन्नां रन्तिदेवस्य दशपुरपतेर्महाराजस्य कीर्तिम्। चर्मण्वत्याख्यां नदीमित्यर्थः। मानयिष्यन् सत्कारष्यन् व्यालम्बेयिथाः। आलम्ब्यावतरेरित्यर्थः। पुरा किल राज्ञो रन्तिदेवस्य गवालम्भेष्वेकत्र संभृताद्रक्तनिष्यन्दाच्चर्मंराशेः काचिन्नदी सस्दन्दे। सा चर्मण्वतीत्याख्यायत इति ॥

त्वय्यादातुं जलमवनते शाङ्र्गिणो वर्णचौरे
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम्।
प्रेक्षिष्यन्ते गगनगतदयो नुनमावर्ज्य दृष्टी-
रेकं मुक्तागुणामिव भुवः स्थूलमध्येन्द्रनीलम् ॥ 49 ॥
त्वयीति॥ शाङ्गिंणः कृष्णस्य वर्णस्य कान्तेश्चौरे वर्णचौरे। तत्तुल्यवर्ण इत्यर्थः। त्वयि जलसमादातुं अवनते सति पृथुमपि [दूरभावात्] दूरत्वात् तनुं सूक्ष्मतया प्रतीयमानं तस्याः सिन्धोः चर्मण्वत्याख्यायाः प्रवाहम्। गगने गतिर्येषां ते गगनगतयः खेचराः सिद्धगन्धार्वादयः। अयमपि बहुव्रीहिः पूर्ववज्जन्माद्युत्तरपदेषु द्रष्टव्यः. नूनं सत्यं दृष्टीः आवर्ज्य नियम्य एकं एकयष्टिकं [स्थूलमध्येन्द्रनीलम्] स्थूलोमहान्मघ्यो मध्यमणीभूत इन्द्रनीलो यस्य तं भुवः भूमेः मुक्तागुणं मुक्ताहारम् इव प्रेक्षिष्यन्ते। अत्रात्यन्तनीलमेघसंगतस्य प्रवाहस्य भूकणअठमुक्तागुणत्वेनोत्प्रेक्षणादुत्प्रेक्षैवेयमितीवशब्देन व्यज्यते।निरुक्तकारस्तु `तत्र तत्रोपमा यत्र इवशब्दास्य दर्शन्म्।’ इतीवलशब्ददर्शनादत्राप्यु पमैवेति बभ्राम॥

तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रभाणां
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम्।
कुन्दक्षेपानुगमधुकर श्रीमुषामात्मबिम्बं
पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ 50 ॥
तामिति॥ तां चर्मण्वतीम् उत्तीर्य [परिचितभ्रूलताविभ्रमाणां] भ्रुवो लता इव भ्रुलताः। उपमितसमासः। तासां विभ्रमा विलासाः परिचिताः क्लुप्ता येषु तेषां [पक्ष्मोत्क्षेपात्] पक्ष्माणि नेत्रलोमानि। पक्ष्म सूत्रे च सूक्ष्मांशे किञ्जल्के नेत्रलोमनि।' इतचि विश्वः। तेषामुत्क्षोपादुन्नमनाद्धेतोः। [उपरिविलसत्कृष्णशारप्रभाणां] कृष्णाश्च ताः शाराश्त्र कृष्णशारा नीलशबलाः। वर्णो वर्णेन’ इति समासः। कृष्णरक्तसिताः शाराः' इति यादवः। ततश्च शारशब्दादेव सिद्धे कार्ष्ण्ये पुनः कृष्णपदोपादानं कार्ष्ण्ये प्राधान्यार्थमअ। रक्तत्वं तु न विविक्षितमुपमानानुसारात्तस्य स्वाभाविकस्य स्त्रीनेत्रेषु सामुद्रिकविरोधादितरस्याप्रसङ्गात्। क्वचिद्भावकथनं तूपपत्तिविषयम्। उपरि विलसन्त्यः कृष्णाशाराः प्रभा येषां तेषाम्। [कुन्दक्षेपानुगमधुकरश्रीमुषाम्] कुन्दानि माध्यकुसुमानि। माध्य कुन्दम्’ इत्यमरः। तेषां क्षेष इतस्ततश्चलनं तस्यानुगा अनुसारिणो ये मधुकरास्तेषां क्षियं मुष्णन्तीति तथोक्तानाम्। क्षिप्यमाणकुन्दानुविधायिमधुकरकल्पनामित्यर्थः [दशपुरवधूनेत्रकौतूहलानाम्]

ब्रह्मावर्तं जनपदमथच्छायया गाहमानः
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः।
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ 51 ॥
ब्रह्मावर्तमिति॥ अथ अनन्तरं ब्रह्मावर्तं नाम जनपदं देशम्। अत्र मनुः सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम्। तं देवनिर्मितं देशं ब्रह्मवर्तं प्रचक्षते'॥ इति छायया अनातपमण्डलेन गाहमानः प्रविशन्न तु स्वरूपेण। पीठक्षेत्राश्रमादीनि परिवृत्यान्यतो व्रजेत्।’ इति वलचनात्। क्षत्रप्रधनपिशुनम्। अद्यापि शिरःकपालदिमत्तया कुरुपाण्डवयुद्धसूचकमित्यर्थः. युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्।' इत्यमरः। तत् प्रसिद्धं कुरूणामिदं कौरवं क्षेत्रं भजेथाः। कुरुक्षेत्रं व्रजेत्यर्थः। यत्र कुरुक्षेत्रे। गाण्ड्यस्यास्तीति गाण्डीवं धनुर्विशेषः। गाण्कड्यजगात्संज्ञायाम्’ इति मत्वर्थीयो वप्रत्ययः। कपिध्वजस्य गाण्कडीवगाण्कडीवौ पुंनपुंसकौ।' इत्यमरः। तद्धनुर्यस्य स गाण्डीवधन्वा अर्जुनः। वा संज्ञायाम्’ इत्यनङादेशः। शितशरशतैः निशितवाणसहस्रेः राजन्यानां `राज्ञां मुखानि [धारापातैः] दाराणामुदकधाराणआं पातैः कमलानि त्वं इव अभ्यवर्षत् अभिमुखं वृष्टवान्। शरवर्षेण शिरांसि चिच्छेदेत्यर्थः॥

हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे।
कृत्वा तासामधिगममपं सौम्य सारस्वतीना-
मन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ 52 ॥
हित्वेति॥ बन्धुप्रीत्या कुरुपाण्डवस्नेहेन। न तु भयेन। समरविमुखः युद्धनिःस्पृहः लाङ्गलमस्यास्तीति लाङ्गली हलधरः। अभिमतरसाम् अबीष्टस्वादां तथा [रेवतीलोचनाङ्कां] रेवत्याः स्वप्रियाया लोचने एवाङ्कःक प्रतिबिम्बितत्वचिह्नं यस्यास्तां हालां सुराम् सुरा हलिप्रिया हाला' इत्यमरः। अभिप्रयुक्तं देशभाषापदिमित्यत्र हालेति देशभाषापदमप्यतीव कविप्रयोगात्साधु’ इत्युदाजहर वामनः। हित्वा त्यक्त्वा। दुस्त्यजामीति भ्ावः। याः सारस्वतीरपः सिषेवे हे सौम्य सुभग त्वं तासां [सारस्वतीनाम्] सरस्वत्या नद्या इमाः सारस्वत्यस्तासाम् [अपां] अभिगमम् सेवां कृत्वा अन्तः अनतरात्मनि शुद्धः निर्मलो निर्दोषो भविता। ण्वुल्तृचौ' इति तृच्। अपि सद्य एव पूतो भविष्यसीत्यर्थः. वर्तमानसामीप्ये वर्तंमानवद्वा’ इति वर्तंमानप्रत्ययः. वर्णमात्रेण वर्णेनैव कृष्णः श्याम् । न तु पापेनेत्यर्थः। अन्तः शुद्धिरेव संपाद्यान तु बाह्या। बहिःशुद्धोऽपि सूतवधप्रायश्चित्तार्थं सारस्वतसलिलसेवी तत्र भगवान्बलभद्र एव निदर्शनम्। अतो भवताऽपि सरस्वती सर्वथा सेवितव्येति भवः॥

तस्माद्रच्छेरनुकनखलं शैलराजावतीर्णां
जाह्नोः कन्यां सगरतनयस्तर्गसोपानपङक्तिम्।
गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः
शंभोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ 53 ॥
तस्मादिति॥ तस्मात् कुरुक्षेत्रात्कनखलस्याद्रेः समीपे अनुकनखलम्। `अनुर्यत्समया’ इत्यव्ययीभावः [शैलराजावतीर्णा] शैलराजाद्धिमवतोऽवतीर्णा [सगरतनयस्वर्गसोपानपङ्क्तिम्] सगरतनयानां स्वर्गसोपानपङ्क्तिम्। स्वर्गप्राप्तिसाधनभूतामित्यर्थः जह्नोः। नाम राज्ञः कन्यां जाह्नवीं गच्छेः गच्छ। विध्यर्थे लिङ्। या जाह्नवी [गौरीवक्त्रभुकुटिरटनां] गोर्या वक्त्रे या भ्रुकुटिरचना सापत्नयरोषाद् भ्रूभङ्गकरणं तां पेनैः विहस्य अवहस्य इव। धावल्यात्फेनानां हासत्वेनोत्प्रेक्षा। हन्दौ शिरोमाणिक्यभूते लग्ना ऊर्मय एव हस्ता यस्याः सा इन्दुलग्नोर्मिहस्ता सती शंभोः केशग्रहणं अकरोत्। यथा काचित् प्रौढा नायिका सपत्नीमसहमाना स्ववाल्लभ्यं प्रकटयन्ती स्वभर्तारं सह शिरोरत्नेन केशेष्वाकर्षति तद्वदिति भावः। इदं च पुरा किल भगीरथप्रार्थनया भगवतीं गगपथात्पतन्तीं गङ्गां गङ्गाधरो जटाजूटेन जग्राहेति कथामुपजीव्योक्तम् ॥

तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धंलम्बी
त्वं चेदच्छस्फटिकविशदं तर्तयेस्तिर्यगम्भः!
संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययाऽसौ
स्यादस्थानोपगतयमुनासंगमेवाभिरामा ॥ 54 ॥
तस्या इति॥ सुरगज इव। कश्चिद्दिग्गज इव व्योम्नि पस्चादर्धं पश्चार्धम्। पश्चिमार्धम्नित्यर्थः। पृषोदरादित्वात्साधुः। तेन लम्बत इति पश्चार्धलम्बी सन्पश्चार्धबागेन व्योम्नि स्थित्वा। पूर्वोर्धेन जलोत्मुख इत्यर्थः अच्छस्फटिकविशदं निर्मलस्फटिकावदातं तस्याः गङ्गायाः अम्भः तिर्यक् तिरश्चीनं तथा यथा पातुं त्वं तर्कयेः विचारयेः चेत्। सपदि स्रोतसि प्रवाहे। संसर्पन्त्या संक्रामन्त्या भवतः छायया प्रतिबिम्बेन असौ गङ्गा [अस्थानोपगतयमुनासंगमा] अस्थाने प्रयागादन्यत्रोपगतः प्राप्तो यमुनासंगमो यथा सा तथाभूता इव अभिरामा स्यात् ॥

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषष्णः
शोभां शुभ्रां त्रिनयनवृषोत्शातपङ्कोपमेयाम् ॥ 55 ॥
आसीनानामिति॥ आसीनानाम् उपविष्टानां मृगाणां कस्तुरिकामृगाणाम् अन्यथा नाभिगन्धानुपपत्तेः। नाभिगन्धैः कस्तूरीगन्धैस्तेषां तदुद्भवत्वात्। अत एव मृगनाभिसंज्ञा च। मृगन्तभिर्मृगमदः कस्तूरी च' इत्यमरः॥ अथ वा नाभयः कस्तूर्यः॥ नाभिः प्रधाने कस्तूरीमदे च क्वचिदीरितः। ’ इति विश्वः॥ तासां गन्धैः [सुरभितशिलं] सुरभिताः सुरभङीकृताः शिला यस्य तं तस्याः गङायः एव [प्रभवम्] प्रभवत्यस्मादिति प्रभवः कारणम्। तुषारैः गौरं सितम्। अवदातः सितो गौरः' इत्यमरः। अचलं प्राप्य [अध्वश्रमविनयने] विनीयतेऽनेनेति विनयनम् करणे ल्युट्। अध्वश्रमस्य विनयनेऽपनोदके तस्य हिमाद्रेः श्रृङ्गे निषण्णः सन्। [शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्] शूभ्रो यस्त्रिनयनस्य वृषो वृषभः। सुकृते वृषभो वृषः’ इत्यमरः। तेनोत्खातेन विदारितेन पङ्केन सहोपमेयामुपमातुमर्हा शोभां वक्ष्यसि वोढासि। वहतेर्लृट्। त्रिनयन' इत्यत्र पूर्वपदात्संज्ञायामगः’ इति णत्वं न भवति `क्षुब्नादिषु च’ इति निषेधात्। त्स्याः प्रभवमित्यादिना हिमाद्रौ मेघस्य ववाहिको गृहविहारो ध्वन्यते॥

तं चेद्वायौ सरति सरलस्कन्धसंखघट्टजन्मा
बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः।
अर्हस्येनं शमयितुमलं वारिधारासहस्रै–
रापन्नर्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ 56 ॥
तमिति॥ वायौ वनवाते सरति वाति सति [सरलस्कन्धसंघट्टजन्मा] सरलानां देवदारुद्रुमाणां स्कन्धाः प्रदेशविशेषाः। अस्त्री प्रकाण्डः स्कंधः स्यान्मूलाः च्छाखावदेस्तरोः। ' इत्यमरः। तेषां संघट्टनेन संघर्षणेन जन्म यस्य स तथोक्तः। जन्मोत्तरपदत्वाद्व्यधिकरणोऽपि बहुव्रीहिः साधुरित्युक्तम्। [उत्काक्षपितचमरीबालभारः] उत्काभिः स्फुलिङ्गैः क्षपिता निर्दग्धाश्चमरीणां बालभाराः केशसमूहा येन। दव एवाग्निः दवाग्निः वनवह्निः। वने च वनपह्नौ च दवो दाव इतिष्यते।’ इति यादवः। तं हिमाद्रं बाधेत चेत् पीडयेद्यदि। एवं दवाग्निं वारिधारासहस्रैः [अलं साकल्येन] शमयितुम् अर्हसि। युक्तं चैतदित्याह-उत्तमानां महतां संपदः समृद्धयः [आपन्नार्तिप्रशमनफलाः] आपन्नानामार्तानामार्तिप्रशमनमापन्निवारणमेव फलं प्रयोजनं यासां तास्तथोक्ताः हि। अतो हिमाचलस्य दावानलस्त्वया शमयितव्य इति भावः ॥

ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मि
न्मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम्।
तात्कुव्रीथास्तुमुलकरकावृष्टिपातावकीर्णा-
न्के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ 57 ॥
य इति॥ तस्मिन् हिमाद्रौ [संरम्भोत्पतनरभसाः] संरम्भः कोपः। संरम्भसंभ्रमः कोपे' इति शब्दार्णवे। तेनोत्पतने उत्प्लवने रभसो वेगो येषां ते तथोक्ताः। रभसो वेगहर्षयोः’ इत्यमरः। ये शरभाः अष्टापदमृगविशेषाः। शरभः शलबे चाष्टापदे प्रोक्तो मृगान्तरे।' इति विश्वः। [मुक्ताध्वानं] मुक्तोऽध्वा शरभोत्प्लवनमार्गो येन तं भवन्तं सपदि स्वाङ्गभङ्गाय लङ्घयेयुः। संभावनायां लिङ्। भवतोऽतिदूरत्वात्स्वाङ्गभङ्गातिरिक्तं फलं नास्ति लङ्घनस्येथ्यर्थः। तान् शरभान् [तुमुलकरकावृष्टिपातावकीर्णान्] तुमुलाः संकुलाः कारका वर्षोपलाः। वर्षोपलस्तु करका’ इत्यमरः। तासां वृष्टिस्तस्याः पातेनावकीर्णान्विक्षिप्तान् कुर्वीथाः कुरुष्व। विध्यर्थे लिङ्। क्षुद्रोऽप्यधिक्षिपन्प्रतिपक्षः सद्यः प्रतिक्षेप्तव्य इति भावः। तथा हि। [निष्फ्लारम्भयत्नाः] आरभ्यन्त इत्यारम्भाः कर्माणि तेषु यत्न उद्योगः स निष्फ्लो येषां ते तथोक्तः। निष्फलकर्मोपक्रमा इत्यर्थः। अतः के वा परिभवपदं तिरस्कारपदं न स्युः न भवन्ति। सर्व एव भवन्तीत्यर्थः। यदत्र गनोपलस्तु करके' इति यादववचनात्करकशब्दस्य नियतपुलिङ्गताभिप्रायेण करकाणामवृष्टि’ इति केषांचिद्व्याख्यानं तदन्ये नानुमन्यन्ते। वर्षोपलस्तु करका' इत्यमरवचनव्याख्याने क्षीरस्वामिन् कमण्डलौ च करकः सुगते च विनायकः’ इति नानार्थे पुंस्यपि वक्ष्यतीति वदतोभयलिह्गताप्रकाशनात्। यादवस्य तु पुंलिह्गताविधाने तात्पर्यं न तु स्त्रीलिङ्गातानिषेध इति न तद्विरोधोऽपि। करकस्तु करङ्के स्याद्दाडिमे च कमण्डलौ। पक्षिभेदे करे चापि करका च घनोपले॥' इति विश्वप्रकाशवचने तूभयलिङ्गता व्यक्तैवेति न कुत्रापि विरोधवार्ता। अत एव रुद्रः---वर्षोपलस्तु करका करकोऽपि च दृश्यते’ इति ॥

तत्र व्यक्तं दृषदि चरणान्यासमर्धैन्दुमौलेः
शश्वत्सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः।
यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः
कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ 58 ॥
iतत्रेति॥ तत्र हिमाद्रौ दृषदि कस्यांचिच्छिलायां व्यक्तं प्रकटं शश्वत् सदा सिद्धैः योगिबिः। सिद्धिनिष्पत्तियोगयोः' इति विस्वः॥ उपचितबलिं रचितपूजाविधिम्। बलिः पूजोपहारयोः’ इति यादवः। [अर्धेन्दुमौलेः] अर्धस्चासाविन्दुश्चेत्यर्धेन्दुः। अर्धः खणेडे समेंऽशके' इति विश्वः॥ स मौलौ यस्य तस्येश्वरस्य चरणन्यासं पादविन्यासम्। [भक्तिनम्रः] भक्तिः पूज्येष्वनुरागस्तया नम्रः सन् परीयाः प्रदक्षिणं कुरु। परिपूर्वादिणो लिह्। यस्मिन पादन्यासे दृष्टे सति उद्धूतपापाः निरस्तकल्मषाः सन्तः श्रद्दधानाः विश्वसन्तः पुरुषाः श्रद्धा विश्वासः। आस्तिक्य बुद्धिरिति यावत्। श्रदन्तरोरुपसर्गवद्वृत्तिर्वक्तव्या’ इति श्रत्पूर्वाद्दधातेः शानच्। [करणविगमात्] करणस्य क्षेत्रस्य विगमात् ऊर्ध्वं देहत्यागानन्तरम्। करणं साधकतमं क्षेत्रगात्रेन्द्रियेषु च।' इत्यमरः। [स्थिरगणपदप्राप्तये] स्थिरं शाश्वतं गणानां प्रथमानां पदं स्थानम्। गणाः प्रथमसंख्यौघाः’ इति वैजयन्ती। तस्य प्राप्तये कल्पिष्यन्ते। समर्था भविष्यन्ति। कल्पेः पर्याप्तिवचनस्यालमर्थत्वात्तद्योगे’ नमःस्वस्ति-’ इत्यादिना चतुर्थी। `अलमिति पर्याप्त्यर्थग्रहणम्’ इति भाष्यकारः। अव्यक्तं व्यञ्जयामास शिवः श्रीचरणद्वयम्।’ हिमाद्रौ शांभवादीनां सिद्धये सर्वकर्मणाम्॥ दृष्टा श्रीचरणन्यासं साधकः स्थितये तनुम्। इच्छाधीनशरीरो हि विचरेच्च जगत्नयम्॥’ इति शंभुरहस्ये॥

शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः
संरक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः।
निर्ह्रादस्ते मुरज इव चेत्कन्दरेषु ध्वनिः स्या-
त्संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ 59 ॥
शब्दायन्त इति॥ हे मेघ अनिलैः पूर्यमाणाः कीचकाः वेणुविशेषा। वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः।' इत्यमरः। कीचको दैत्यभेदे स्याच्छुष्कवंशे द्रुमान्तरे।’ इति विश्वः। मघुरं श्रुतिसुखं यथा तथा शब्दायन्ते शब्दं कुर्वन्ति। स्वनन्तीत्यर्थः। शब्दवैरकलहाभ्रकण्वमैघेभ्यः करणे' इत्यादिना क्यङ्। अनेन वंशवाद्यचसंपत्तिरुक्तासंसक्ताभिः संयुक्ताभिर्वंशवाद्यानुषक्ताभिर्वा। संसक्ताभिः' इति पाठे संसक्तकण्ठीभिरित्यर्थः। किनरीभिः किंनरस्त्रीभिः। [त्रिपुरविजयः] त्रयाणां पुराणां समाहारस्त्रिपुरम्। तद्धितार्थोत्तरपद—’ इति समासः। पात्रादित्वान्नपुंसकत्वम्। तस्य विजयः गीयते। कन्दरेषु दरीषु। दरी तु कन्दरो वा स्त्री' इत्यमरः॥ ते तव निर्ह्रादः मुरजे वाद्यभेदे ध्वनिः इव मुरजध्वनिरिवेत्यर्थः. स्यात् चेत् तर्हि तत्र निर्ह्रादः मुरजे वाद्यभेदे ध्वनिः इव मुरजध्वनिरिवेत्यर्थः। स्यात् चेत् तर्हि तत्र चरणसमीपे पशुपतेः नित्यसंनिहितस्य शिवस्य। संगीतम्। तौर्यत्रिकं तु संकगीतं न्यायास्म्बे प्रसिद्धके। तूर्याणां त्रियते च’ इति शब्दार्णवे। तदेवार्थः संगीतार्थः संगीतवस्तु। अर्थोऽभिधेयैरवस्तुप्रयोजननिवृत्तिषु।' इत्यमरः। समग्रः संपूर्णः भावी ननु भविष्यति खलु। भविष्यति गम्यादयः’ इति भविष्यदर्थे णिनिः ॥

प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान्विशेषा—
न्हंसद्वारं भृगुपतिशयोवर्त्म यत्क्रौञ्चरन्ध्रम्।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी
श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ 60 ॥
प्रालेयेति॥ प्रालेयाद्रेः हिमाद्रेः उपतटं तटसमीपे। अव्ययं विभक्ति---' इत्यादिना समीपार्थेऽव्ययीभावः। तांस्तान्। वीप्सायां द्विरुक्तिः। विशेषान्। द्रष्टव्यार्थान्। विशेषोऽवयवे द्रव्ये द्रष्टव्योत्तमवस्तुनि।’ इति शब्दार्णवे। अतिक्रम्य अनुसरेर्गच्छेरित्यनागतेन संबन्धः। हंसानां द्वारं हंसद्वरम्। मानसप्रस्थायिनो हंसाः क्रौञ्चरन्ध्रेण संचरन्ते इत्यागमः। [भृगुपतियशोवर्त्म] भृगुपतेर्जामदग्न्यस्य यशोवर्त्म। यशःप्रवृत्तिकारणमित्यर्थः। यत् [क्रौञ्चरन्द्रम्] क्रौञ्चस्याद्रेः रन्ध्रमस्ति तेन क्रौञ्चबिलेन बलेर्दैत्यस्य नियमने बन्धने अभ्युद्यतस्य प्रवृत्तस्य [बलिनियमनाभ्युद्यतस्य] विष्णोः व्यापकस्य त्रिविक्रमस्य श्यामः कृष्णवर्णः पादः इव [तिर्यगायामशोभी] तिर्यगायामेन क्षिप्रप्रवेशनार्थ तिरश्चीनदैर्ध्येण शोभत इति तथाविधः सन् उदीचीम् उत्तरां दिशम् अनुसरेः अनुगच्छ। पुरा किल भगवतो देवाद्धूर्जटेर्धंनुरुपनिषदमधीयानेन भृगुनन्दनेन स्कन्दस्य स्पर्धया क्रौञ्चशिखरिणमतिनिशितविशि खमुखेन हेलया मृत्पिण्‍डभेदं भित्त्वा तत एव क्रौञ्चशिखरिणमतिनिशितविशिखमुखेन हेलया मृत्पिण्डभेदं भित्त्वा तत एव क्रौञ्चक्रोडादेव सद्यः समुज्जृम्भिते कस्मिन्नपि यशः क्षीरनिधौ निखिलमपि जगज्जालमाप्लावितमिति कथा श्रूयते ॥

गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः
कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः।
शृंङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं
राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ 61 ॥
गत्वेति॥ क्रौञ्चबिलनिर्गमनानन्तरम् ऊर्ध्वं च गत्वा [दशमुखभुजोच्छवासितप्रस्थसंधेः] दशमुखस्य रावणस्य भुजैर्बाहुभिरुच्छ्वासिता विश्लेषिताः प्रस्थानां सानूनां संधयो यस्य तस्य। एतेन नयनकौतुकसद्भाव उक्तः। त्रिर्दशं परिमाणमेषामस्तीति त्रिदशाः। संख्ययाव्यया--' इत्यादिना बहुव्रीहिः। बहुव्रीहौ संख्येये डच्’ इत्यादिना समासान्तो डचिति क्षारस्वामी। [त्रिदशवनितादर्पणस्य] त्रिदशानां देवानां वनितास्तासां दर्पणस्य। कैलासस्य स्फटिकत्वाद्रजतत्वाद्वा बिम्बग्राहित्वेनेदमुक्तम्। कैलासस्य अतिथिः स्याः। यः कैलासः कुमुदविशदैः निर्मलैः [शृङ्गोच्छ्रायैः] शृङ्गाणामुच्छ्रायैरौन्नत्यैः खम् आकाशं वितत्य व्याप्य प्रतिदिनं दिने दिने राशीभूतः त्र्यम्बकस्य त्र्यम्बकस्य त्रिलोचनस्य अट्टहासः अतिहास इव स्थितः। `अट्टावतिशयक्षौमौ’ इति यादवः। धावल्याद्धासत्वेनोत्प्रेक्षा। हासादीनां धावल्यं कविसमयसिद्धम् ॥

उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य।
शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भ्रवित्री-
मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ 62 ॥
उत्पश्यामीति॥ [स्निग्धभिन्नाञ्जनाभे] स्निग्धं मसृणं भिन्नं मर्दितं च यदञ्जनं कज्जलं तस्य आभेवाभा यस्य तस्मिन् त्वयि तटगते सानुं गते सति [सद्यःकृत्तद्विरददशनच्छेदगौरस्य] सद्यःकृतस्य छिन्नस्य द्विरददशनस्य गजदन्तस्य छेदवद्गौरस्य धवलस्य तस्य अद्रेः कैलासस्य मेचके श्यामले। `कृष्णे नीलासितश्यामकालश्यामलमेचकाः।’ इत्यमरः। वाससी वस्त्रे अंसन्यस्ते सति हलभृतो बलभद्रस्य इव [स्तिमितनयनप्रेक्षणीयां] स्तिमिताभ्यां नयनाभ्यां प्रेक्षणीयां सोभां भवित्रीं भाविनीम् उत्पश्यामि। शोभा भविष्यतीति तर्कयामीत्यर्थः। श्रौती पूर्णोपमालंकारः ॥

हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत्पादचारेण गौरी।
भङ्गगीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः
सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ 63 ॥
हित्वेति॥ तस्मिन् क्रीडाशैले कैलासे। `कैलासः कनकाद्रिश्च मन्दरो गन्धमादनः। क्रीडार्थं निर्मिताः शंभोर्देवैः क्रीडाद्रयोऽभवन्॥’ इति शंभुरहस्ये। शंभुना शिवेन [भुजगवलयं] भुजग एव वलयः कङ्कणं तं हित्वा गौर्या भीरुत्वात्त्यक्त्वा दत्तहस्ता इति गौरी पादचारेण [च ] विचरेद्यदि तर्हि अग्रयायी पुरोगतस्तथा [स्तम्भितान्तर्जलौघः] स्तम्भितो घनीभावं प्रापितोऽन्तर्जलस्यौघः प्रवाहो यस्य स तथाभूतः। [भङ्गीभक्त्या] भगङीनां पर्वणां भक्त्या रचनया विरचितवपुः कल्पितशरीरः सन् [मणितटारोहणाय] मणीनां तटं मणितटं तस्यारोहणाय सोपानत्वं कुरु। सोपानभावं भजेत्यर्थः।

तत्रावश्यं वलयकुलिसोद्धट्टनोद्गीर्णतोयं
नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम्।
ताब्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्या-
त्क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भ्रययेस्ताः ॥ 64 ॥
तत्रेति॥ तत्रं कलासे अवश्यं सर्वथा सुरयुवतयः [वलयकुलिशोद्धट्टनोव्गीर्णतेयं] वलयकुलिशानि कङ्कणकोटयः। शतरोटिबाचिना कुलिशशब्देन कोटिमात्रं लक्ष्यते। तैरुद्घट्टनानि प्रहारास्तैरुद्गीर्णमुत्सृष्टं तोयं येन तं त्वां [यन्त्रधारागृहत्वम्] यन्त्रेषु धारा यन्त्रधारास्तासां गृहत्वं कृत्रिमधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति। हे सखे मित्र। [घर्मलब्धस्य] घर्मे निदाघे लब्धस्य। घर्मलब्धत्वं चास्य देवबूमिषु सर्वर्तुसमाहारात्प्राथमिकमेघत्वाद्वा। यथोक्तम्–आषाढस्यप्रथमं' इति तव ताभ्यः सुरयुवतिभ्यतः मोक्षः न स्यात् यदि तदा क्रीडालोलाः क्रीडासक्ताः। प्रमत्ता इत्यर्थः। ताः सुरयुवतीः श्रवणपरूषैः कर्णकटुभिः गर्जितै करणैः भायये। त्रासये। अत्र हेतुभयाभावादात्मनेपदं षुगागमश्च न॥ हेमाम्भोदजप्रसवि शलिलं मानसस्याददानः कुर्वन्क्रामं क्षणमुखपटप्रीतिमैरावतस्य। धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव वातै- र्नानाचेष्टैर्जलद ललितैर्निर्विसेस्तं नगेन्द्रम् ॥ 65 ॥ हेमेति॥ हे जलद [हेमाम्भोजप्रसवि] हेमाम्भोजानां प्रसवि जनकम्। जिदृक्षि–’ इत्यादिनेनिप्रत्ययः मानसस्य सरसः सलिलम् आददानः। पिबन्नित्यर्थः। तथा एरावतस्य इन्द्रगजस्य। कामचारित्वाद्वा शिवसेवार्थमिन्द्रागमनाद्वा समागतस्येति भावः। [क्षणमुखपटप्रीतिम्] क्षणे जलदानकाले मुखे पटेन या प्रीतिस्तां कुर्वन्। तथा [कल्पद्रुमकिसलयानि] कल्पद्रुमाणआं किसलयानि पल्लवभूतानि अंशुकानि सूभ्मवस्त्राणि इव। अंशुकं वस्त्रभावे स्यात्परिघानोत्तरीययोः। सूक्ष्मवस्त्रे नातिदीत्तौ' इति शब्दार्णवे। वातैः मेघवातैः धुनवन्। [नानाचेष्टैः] नाना बहुविधाश्चेष्टास्तोयपानादयो यैषु तैः ललितैः क्रीडितैः। ना भावभेदे स्त्रीनृत्ये ललितं त्रिषु सुन्दरे। अस्त्रियां प्रमदागारे क्रीडितैः जातपल्लवे॥’ इति शब्दार्णवे। तं नगेद्रं कैलासं कामं यथेष्टं निर्विशेः समुपभुङ्क्ष्ल। `निर्वेशो भृतिभोगयोः’ इत्यमरः। यथेच्छविहारो मित्रगृहेषु मैत्र्याः फलम् सहजमित्रं च ते कैलासः। मेघपर्वतयोरब्जसूर्ययोरब्धिचन्द्रयोः शिखिजीमूतयोः मसीराग्न्योर्मित्रमा स्वयमिति भावः॥

तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन्।
या वः काले वहति सलिलोद्रारमुच्चैर्विमाना
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ 66 ॥
तस्येति॥ प्रणयिनः प्रियतमस्य इव तस्य कैलासस्य उत्सङ्गे उर्ध्वभागे कटौ च। उत्सह्गो मुक्तसंयोगे सक्थिन्युर्ध्वतलेऽपि च।' इति मालतीमालायाम्। [स्रस्तगङ्गादुकूलां] गङ्गादुकूलं शुभ्रवस्त्रमिवेत्युपमितसमासः।दुकूलं सूक्ष्मवस्त्रे स्यादुत्तरीये सितांशुके।’ इति शब्दार्णवे। अन्यत्र तु गङ्गैव दुकूलम्। तत्स्रस्तं यस्यास्तां तथोक्ताम्। अलकां कुबेरनगरीं दृष्ट्वा। कामिनीमिवेतिः शेषः। हे कामचारिन् त्वं पुनः त्वं तु न ज्ञास्यसे इति न। किं तु ज्ञास्यस एवेत्यर्थः। कामचारिणस्ते पूर्वमपि बहुकृत्वा दर्शनसंभधादज्ञानमसंभावितमेवेति निश्चयार्थं नञ्द्वयप्रयोगाः। तदुक्तम्—स्मृतिनिश्चयसिद्ध्यर्थेषु नञ्द्वयप्रयोगः' इति [उच्चैर्विमाना] उच्चैः उन्नतानि वि्मानानि सप्तभूमिकभवनानि यस्यां सा विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि।’ इति यादवः। मेघसंवाहनस्थानसूचनार्थमिदं विशेषणम्। अन्यत्र विममाना निष्कोपा या अलका। वः युष्माकं काले। मेघकाल इत्यर्थः। कालस्य सर्वमेघसाधारण्याद्व इति बहुवचनम्। सलिलमुद्गिरतीति सलिलोद्गारम्। स्रवत्सलिलधारमित्यर्थः। अभ्रवृन्दं मेघकदम्बकं कामिनी स्त्री [मुक्ताजालप्रथितं] मुक्ताजालैर्मौक्तिकसरैर्ग्रथितं प्रत्युप्तम्। पुंश्चल्यां मौक्तिके मुक्ता' इति यादवः। अलकं इव चूर्णकुन्तलानीव। जातावेकवचनम्। अलकाश्चूर्णकुन्तलाः’ इत्यमरः। वहति बिभर्ति। अत्र कैलासस्यानुकूलनायकस्त्वलकायाश्च स्वाधीनपतिकाख्यनायिकात्वं ध्वन्यते। एकायद्योऽनुकूलः स्यात्' इति प्रियोपलालिता नित्यं स्वाघीनपतिका मता।’ इति च लक्ष्यन्ति। उदाहरन्तदि। च—`लालयन्नलकप्रान्तारन्रचयन्पत्रमञ्जरीन्। एकां विनोदयन्कान्तां छायावदनुवर्तते॥’ इति॥

इति श्रीमहामहोपाध्यायमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया॥
व्याक्यया समेते महाकविक्षीकालिदासविरचिते
मेघदूते काव्ये पूर्वम्घः समाप्तः ॥


.

मेघदूतम्

उत्तरमेघः।

विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम्।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ 1 ॥
विद्यृत्वन्तमिति॥ यत्र अलकायां [ललितवनिताः] ललिता रम्या वनिताः स्त्रियो येषु ते। सह चित्रैर्वर्तन्त इति सचित्राः। आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः। तेन सहेति तुल्ययोगे’ इति बहुव्रीहिः। वोपसर्जनस्य' इति सहशब्दस्य समासः। संगीताय तौर्यत्रिकाय प्रहतमुरजाः ताडितमृदङ्गाः। मुरजा तु मृदङ्गे स्याड्ढक्कामुरजयोरपि’ इति शब्दार्णवे। [मणिमयभुवः] मणिमया मणिविकारा भुवो येषु। [अभ्रंलिहाग्राः] अभ्रं लिहन्तीत्यभ्रंलिहान्यभ्रंकषाणि। वहाभ्रे लिहः' इति खश्प्रत्ययः। अरुर्द्विषदजन्तस्य मुम्’ इत्यादिना मुमागमः। अग्राणि शिखराणि येषां ते तथोक्ताः। अतितुङ्गा इत्यर्थः। प्रासादाः देवगृहाणि। प्रासादो देवभूभुजाम्' इत्यमरः। विद्युतोऽडस्य सन्तीति विद्युत्वन्म्। सेन्द्रचापम् इन्द्रचापवन्तम् [स्निग्धगम्भीरघोषं] स्निग्धः श्राव्यो गम्भीरो घोषो गर्जितं यस्य तम् [अन्तस्तोयं] अन्तः अन्तर्गतं तोयं यस्य तम्। तुङ्गम् उन्नतं त्वां तैस्तैर्विशेषैः ललितवनितत्वादिधर्मैः तुलयितुं समीकर्तुम् अलं पर्याप्ताः। अलं भूषणपयीप्तिशक्तिवारणवाचकम्’ इत्यमरः। अत्रोपमानोपमेयभूतमेघप्रासादधर्माणां विद्युद्वनितादीनां यथासंख्यमन्योन्यसादृश्यान्मेघप्रासादयोः साम्यसिद्धिरिति। बिम्बप्रतिबिम्बभोवेनेयं पूर्णोपमा। वस्तुतो भिन्नयोः परस्परसादृश्यादभिन्नयोरुपमानोपमेयधर्मयोः पृथगुपादानाद्विम्बप्रतिबिम्बभावः॥

संप्रति सर्वदजा सर्वर्तुसंपत्तिमाह—
हस्ते लीलाकमलमलके बालकुन्दानुविद्धं
नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः।
चूडापाशे नवकुरबकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ 2 ॥
हस्त इति॥ यत्र अलकायां वधूनां स्त्रीणां हस्ते लीलार्थं कमलं लीलाकमलम्। शरल्लिङ्गमेतत्। तदुक्तम्—शरत् पङ्कजलक्षणा' इति। अलके कुन्तले। जातावेकवचनम्। अलकेष्वित्यर्थः [बालकुन्दानुविद्धं] बालकुन्दैः प्रत्यग्रमाध्यकुसुमैरनुविद्धम्। अनुवेधो ग्रन्थनम्। नपुंसके भावे क्तः। यद्यपि कुन्दानां शैशिरत्वमस्ति माध्यं कुन्दम्’ इत्यभिधानात्तथाऽपि हेमन्ते प्रादुर्भावः शिशिरे प्रौढत्वमिति व्यवस्थाभेदेन हेमन्तकार्यत्वमित्याशयेन बालेति विशेषणम्। अलकम्' इति प्रथमान्तपाठे सप्तमीप्रक्रमभङ्गः स्यात्। नाथस्तु नियतपुंल्लिङ्गताहानिश्चेति दोषान्तरमाह तद्सत्। स्वभाववक्राण्यलकानि तासाम्’,निर्धूतान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्कडितः' इत्यादिषु नपंसकलिङ्गतादर्शनात्। आनने मुखे [लोघ्रप्रसवरजसा] लोघ्रप्रसवानां लोघ्रपुष्पाणां शैशिराणां रजसा परागेण। प्रसवस्तु फले पुष्पे वृक्षाणां गर्भ मोचने।’ इति विश्वः। पाण्डुतां नीता श्रीः शोभा चूडापाशे केशपाशे। नवकुरबकं वासन्तपुष्पविशेषः। कर्णे चारु पेशलं शिरीषं ग्रैष्मः पुष्पविशेषः सीमन्ते मस्तककेशवीत्याम्। `सीमन्तमस्त्रियां मस्तककेशवीथ्यामुदाहृतम्’ इति शब्दार्णवे। तवोपगमः मेघागम इत्यर्थः। तत्र जातं त्वदुपगमजम्। वार्षिकमित्यर्थः। नीपं कदम्बकुसुमं च। सर्वत्रास्तीति शेषः अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति न्यायात्। इत्थं कमलकुन्दादितत्तत्कार्यसमाहाराभिधानादर्थात्सर्वर्तुसमाहारासिद्धिः। कारणं विना कार्यस्यासिद्धेरिति भावः ॥

यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा
हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः।
केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा
नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ 3 ॥
यत्रति॥ यत्र अलकायां पादपाः वृक्षाः [नित्यपुष्पाः] नित्यानि पुष्पाणि येषां ते तथा। न त्वतुनियमादिति भावः। अत एव [उन्मत्तभ्रमरमुखराः।] उन्मत्तैब्रमरैर्मुखराः शब्दायमानाः। नलिन्य पद्मिन्यः [नित्यपद्माः] नित्यानि पद्मानि यासां तास्तथा न तु हेमन्तवर्जितमित्यर्थः अत एव [हंसक्षेणीरचितरशनाः] हंसश्रेणीभी रचितरशनाः। नित्यं हंसपरिवेष्टिता इत्यर्थः। भवनशिखिनः क्रीडामयूराः। [नित्यभास्वत्कलापाः] नित्यं भास्वन्तः कलापा बर्हाणि येषां ते तथोक्ताः। न तु वर्षास्वेव। अत एव [केकोत्कण्ठाः] केकाभिरुत्कण्ठा उद्ग्रीवाः। प्रदोषाः रात्रय [नित्यज्योत्स्नाः] नित्या ज्योत्स्ना येषां ते। न तु शक्लुपक्ष एव। अत एव [प्रतिहततमोवृत्तिरम्याः] प्रतिहता तमसां वृत्तिर्व्याप्तिवेषां ते च ते रम्याश्चेति तथोक्ताः ॥

आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै
र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात्।
नाप्यन्यस्मात्प्रणयकलहाद्विप्रयोगोपपत्ति-
र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ 4 ॥
आनन्देति॥ यत्र अलकायां वित्तेशानां यक्षाणाम्। `वित्ताधिपः कुबेरः स्यात्प्रबौ धनिकयक्षयोः’ इति शब्दार्णवे। आनन्दोत्थम् आनन्दजन्यमेव नयनसलिलम्। अन्यैर्निमित्तैः शोकादिभिः न। [इष्टसंयोगसाध्यात्] इष्टसंयोगेन आध्यान्निवर्तनीयात्। न त्वप्रतीकार्यादित्यर्थः। कुसुमशरजात् मदनशरजाद् अन्यः तापः न अस्ति प्रणयकलहात् अन्यस्मात् कारणआत् विप्रयोगोपपत्तिः विरहप्राप्तिः अपि न अस्ति। किं च यौवनात् अन्यत् वयो वार्धकं [खलु] अस्ति। श्लोकद्वयं प्रक्षिप्तम् ॥

यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि
ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतषु ॥ 5 ॥
यस्यामिति॥ यस्याम् अलकायां यक्षाः देवयोनिविशेषाः उत्तमस्त्रीसहायाः ललिताङ्गनासहचराः सन्तः सितमणिमयानि स्फटिकमणिमयानि चन्द्रकान्तमयानिवा अत एव [ज्योतिश्छायाकुसुुमरचितानि] ज्योतिषां तारकाणां छायाः प्रतिबिम्बान्येव कुसुमानि तैः रचितानि परिष्कृतानि। ज्योतिस्ताराग्निभाज्वालादृक्पुत्रार्थाध्वरात्मसु।’ इति वैजयन्ती। एतेन पानभूमेरम्लानशोभत्वमुक्तम्। हर्म्यस्थलानि एत्य प्राप्य [त्वद्गम्भीरध्वनिषु] त्वद्गम्भीरध्वनिरिव ध्वनिर्येषां तेषु पुष्करेषु वाद्यभाण्डमुकेषु पुष्करं श्वहिहस्ताग्रे वाद्यमाणुमुखे जले।' इत्यमरः। शनकैः मन्दम् आहतेषु सत्सु। एतच्च नृत्तगीतयोरप्युलक्षणम्। कल्पवृक्षप्रसूतं कल्पवृक्षस्य काङ्क्षितार्थप्रदत्वान्मध्वपि तत्र प्रसूतम्। [रतिफल] रतिः फलं यस्य तद्रतिफलाख्यं मधु मद्यम् आसेवन्ते आदृत्य पिबन्तीत्यर्थः। लालक्षीरसितामृतामलगुडोन्मत्तास्थिकालाङ्वयादार्विन्द्रद्धुममोरटेक्षुकदलीगुग्लुप्रसूनैर्युतम्। इत्थं चेन्मधुपुष्पभङ्ग्युपचितं पुष्पद्रुमूलावृतं क्वाथेन स्मरदीपनं रतिफालाख्यं स्वादु शीतं मधु॥’ इति मदीरार्णवे ॥

मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि-
र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः।
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ 6 ॥
मन्दाकिन्या इति॥ यत्र अलकायां [अमरप्रार्थिताः] अमरैः प्रार्थिताः। सुन्दर्य इत्यर्थः। कन्या यक्षकुमार्यः। कन्या कुमारिकानार्योः' इति विश्वः। मन्दाकिन्याः गङ्गायाः [सलिलशिशिरैः] सलिलेन शिशिरैः शीतलैः मरुद्बिः सेव्यमानाः सत्यः। तथा [अनुतटरुहां] अनुतटं तटेषु रोहन्तीत्यनुतटरुहः। क्विप्। तेषां मन्दाराणां छायया अनातपेन वारितोष्णाः शमितातपाः सत्यः [कनकसिकतामुष्टिनिक्षेपगूढैः] कनकस्य सिकतासु मुष्टिभिर्निक्षेपेण गूढैः संवृतैरत एव अन्वेष्टव्यै मृग्यैः मणिभिः रत्नै संक्रीडन्ते। गुम्पमणिसंज्ञया दैशिकक्रीडया सम्यक्क्रीडन्तीत्यर्थः। क्रीडो।़नुसंपरिभ्यश्च’ इत्यात्मनेपदम्। `रत्नादिभिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः। कुमारीभिः कृता क्रीकडा नाम्रा गुप्तमणिः स्मृता॥ रासक्रीडा गृढमणिर्गुप्तकेलिस्तु लायनम्। पिच्छकन्दुकदण्डाद्यैः स्मृता दैशिककेलयः॥’ इति शब्दार्णवै॥

नीविबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु।
अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान्
ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ 7 ॥
नीवीति॥ यत्र अलकायाम् अनिभृतकरेषु चपलहस्तेषु प्रियेषु। [नीबीबन्धोच्छ्वसितशिथिलं] नीवी वसनग्रन्थिः नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि।' इति विश्वः। सैव बनधो नीवीवन्धः। चूतवृक्षवदपौनरुक्त्यम्। तस्योच्छ्वसितेन त्रुटितेन शिथिलं क्षोमं दुकूलं रागत् आक्षिपत्सु आहरत्सु सत्सु ह्रीमूढानां लज्जाविधुराणाम्। बिम्बं विम्बिकाफलम्। बिम्बं फले बिम्बिकायाः प्रतिबिम्बे च मण्डले’ इति विश्वः। विम्बमिवाधरो यासां तासां बिम्बाधराणां स्त्रीविशेवाणाम्। विशेषाः कामिनीकान्ताभीरुविम्वाधराङ्गनाः' इति शब्दार्णवे [चूर्णमुष्टिः] चूर्णंस्य कूड्कुमादेर्मुष्टिः। [अर्चिस्तुङ्गान्] अर्चिर्भिर्मयूखैः तुङ्गान्। अर्चिर्मयूखशिखरोः’ इति विश्वः। [रत्नप्रदीपान्] रत्नान्येव प्रदीपान् अभिमुखं यथा तथा प्राप्य अपि विफलप्रेरणा दीपनिर्वापणाक्षमत्वान्निष्फलक्षेपा भवति। अत्राङ्गनानां रत्नप्रदीपनिर्वापणप्रवृत्त्या मौग्ध्यं व्यज्यते॥

नेत्रा नीताः सततगतिना यद्विमानाग्रमभूमी-
रालेख्यानां सलिलकणिकादोषमुत्पाद्य सद्यः।
शङ्गास्पृष्टा इव जलमुचस्तावादृशा जालमार्गै-
र्धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ 8 ॥
नेत्रेति॥ हे मेघ नेत्रा प्रेरकेण सततगतिना सदागतिना वायुना। मातरिश्वा सदागतिः' इत्यमरः। [यद्विमानाग्रभूमीः] यस्या अलकाया विमानानां सप्तभूमिकभवनानामग्रभूमीरुपरिभूमिकाः नीताः प्रापिताः। त्वमिव दृश्यन्त इति [त्वामिव पश्यन्ति यांस्ते---इति पाठः] त्वादृसाः त्वत्सदृशा इत्यर्थः। गत्यदादिषु दृशोऽनालोचने कञ्च’ इति कञ्प्रत्ययः। जलमुचः मेघाः। आलेख्यानां सच्चित्राणाम्। चित्रं लिखितरूपाढ्यं स्यादालेख्यं तु यत्नतः' इति शबादार्णवे। [सलिलकणिकादोषम्] सलिलकणिकाभिर्जलकणैर्दोषं स्फोटनम् उत्पाद्य सद्यः शङ्कास्पृष्टा इव सापराधत्वाद्भयाविष्टा इव।शङ्का वितर्कभवयोः’ इति शब्दार्णवे। [धूमोद्गारानुकृतिनिपुणाः।] घूमोद्गारस्य घूमनिर्गमस्यानुकृतावनुकरणे निपुणाः कुशलाः जर्जराः विशीर्णाः सन्तो जालमार्गेः गवाक्षरन्ध्रैः निष्पतन्ति निष्क्रामन्ति। यथा केनचिदन्तः-पुरसंचारवता दूतेन गूढवृत्त्या रहस्यभूमिं प्रापितास्तत्र स्त्रीणां व्यभिचारदोषमुत्पाद्य सद्यः शाशङ्काः क्लृप्तवेशान्तरा जाराः क्षुद्रमार्गैः र्निष्क्रामन्ति तद्वदिति ध्वनिः। प्रकृतार्थे शङ्कास्पृष्टा इवेत्युत्प्रेक्षा॥

यत्र स्त्रीणआं प्रियतमभुजोच्छ्वासितालिङ्गिताना-
मङ्गग्लानि सुरतजनितां तन्तुजालावलम्बाः।
त्वत्संरोधापगमविशदश्चन्द्रपादैर्निशीथे
व्यालुम्पन्ति स्फुटजललवत्सन्दिनश्चन्द्रकान्ताः ॥ 9 ॥
यत्रैति॥ यत्र अलकायां निशीथे अर्धरात्रे। अर्धरात्रनिशीथौ द्वौ' इत्यमरः। [त्वत्संरोधापगमविशदैः] त्वत्संरोधस्य मेघाव रणस्यापगमेन विशदैर्निर्मलैः चन्द्रपादैः जन्द्रमरीचिभिः। पादा रज्ञ्म्यङ्ध्रितुर्यांशाः’ इत्यमरः। स्फुटजललवस्यन्दिनः उल्बणाम्बुकणस्राविणः तन्तुजालावलम्बाः वितानलम्बिसूत्रपुञ्जाधाराः। तद्गुणगुम्फिता इत्यर्थः। चन्द्रकान्ताः चन्द्रकान्तमणयः [प्रियतमभुजोच्छ्वासितालिङिगतानां] प्रियतमानं भुजैरुच्छ्वासितानि श्रान्त्या जलसेकाय वा प्रशिथिलितान्यालिङ्गितानि यासाम् [भुजैरालिङ्गनेषु उच्छ्वासितानां प्रशिथिलीकृतानाम्। श्रान्त्या जलसेकाय वा शिथिलितालिङ्गनानामिति यावत्-इति पाठः] स्त्रीणां सुरतजनिताम् अङ्गग्लानिं शरीरखेदम्। अवयचवानां ग्लानतामिति यावत्। व्यालुम्पन्ति अपनुदन्ति॥

अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै-
रुद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम्।
वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ 10 ॥
अक्षय्येति॥ यत्र अलकायाम्। क्षेतुं शक्याः क्षत्याः। क्षय्यजय्यौ शक्यार्थे' इति निपातः। ततो नञ्समास। भवनानामन्तरन्तर्भवनम्। अव्ययं विभक्ति–’ इत्यादिनाऽव्ययीभावः। [अक्षय्यान्तर्भवननिधयः] अक्षय्या अन्तर्भवने निधयो येषां ते तथोक्ताः। यतेच्छाभोगसंभावनार्थमिदं विशेषणम्। [विबुधवनितावारमुख्या सहायाः] विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता एव सहाया येषां ते तथोक्ताः। वारस्त्री गणिका वेश्या रूपाजीवाऽथ सा जनैः सत्कृता वारमुख्या स्यात्।' इत्यमरः। बद्धालापाः संभावितसंलापाः कामिन कामुकाः प्रत्यहम् अहन्यहनि। अव्ययं विभक्ति—’ इत्यादिना समासः। [रक्तकण्ठैः] रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां ते तैः सुन्दरकण्ठध्वनिभिः धनपतियशः कुबेरकीर्तिम् उद्गायद्भिः उच्चैर्गाथनशीलैः। देवगातस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः। किंनरैः सार्ध सह। विभ्राजस्येदं वैभ्राजमित्याख्या यस्य तत् वैभ्राजाख्यम्। `विभ्राजेन गणेन्द्रेण त्रातं वैभ्राजमाख्यया।’ इति शंभुरहस्ये। चैत्ररथस्य नामान्तरमेतद्। यहिरुपवनं बाह्योद्यानं निविशन्ति अनुभवन्ति ॥

गच्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च।
मुक्तोजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै-
र्नैशो मार्ग सवितुरुदये सूच्यते कामिनीनाम् ॥ 11 ॥
गतीति॥ यत्र अलका कामिनीनाम्। अभिसारिकाणाम्। निशि भवो नैशो मार्गः सवितुः उद्दये सति [गत्युत्कम्पात्] गत्या गमनेनोत्कम्पश्चलनं तस्माद्धेतोः अलकेभ्यः पतितैः [अलकपतितैः] मन्दारपुष्पैः सुरतरुकुसुमैः। तथा [पत्रच्छेदैः] पत्राणां पत्रलतानां छेदैः खण्डैः। पतितैरिति शेषः। तथा [कर्णविभ्रंशिबिः] कर्णोब्यो विभ्रश्यन्तीति कर्णविभ्रंशीनि तैः च [कनककमलैः] कनकस्य कमलैः। षष्ठ्या विवक्षियन्तीति कर्णविभ्रंशीनि तैः च [कनककमलैः] कनकस्य कमलैः। षष्ठ्या विवक्षितार्थलाभे सति मयटा चविग्रहेऽध्याहारदोषः. एवमन्यत्राप्यनुसंधेयम्। तथा मुक्ताजालैः मौक्तिकसरैः। शिरोनिहितैरित्यर्थः. तथा [स्तनपरिसरच्छिन्नसुत्रैः] स्तनयोः परिसरः प्रदेशस्तत्र छिन्नानि सूत्राणि येषां तैः हारैः च सूच्यते ज्ञाप्यते। मार्गपतितमनदारकुसुमादिलिङ्गैरयमभिसारिकाणां पन्था इत्यनुमीयत इत्यर्थः॥
`कचधार्थं देहधार्यं परिधेयं विलेपनम्। चतुर्धा भूषणं प्राहुः स्त्रीणामन्यच्च दैशिकम्॥’ इति रसाकरे। तदेवैतदाह—

वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं
पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पम्।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्या-
मेकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ 12 ॥
वास इति॥ यस्याम् अलकायां चित्रं नानावर्णः वासः वसनम्। परिधेयमण्डनमेतत्। नयनयोः [विभ्रमादेशदक्षं] विभ्रमाणामादेश उपदेशे दक्षम्। अनेन विभ्रमद्वारा मधुनो मण्डनत्वमनुसंधेयम्। तच्च मण्डनादिवद्देहधार्येऽन्तर्भाव्यम्। मधु मद्यम्। किसलयैः पल्लवैः सह पुष्पोद्भेदम् उभयं चेत्यर्थः। इदं तु कचधार्यम्। भूषणानां विकल्पान् विशेषान्। देहधार्यमेतत्। तथा [चरणकमलन्यासयोग्यं] चरणकमलयोर्न्यासस्य समर्पणस्य योग्यमअ। रज्यतेऽनेनेति रागो रजकद्रव्यम्। लाक्षैव रागस्तं लाक्षारागं च। चकारोऽङ्करागादिविलेपनमण्डनोपालक्षणार्थः। सकलं सर्वम्। चतुर्विधमपीत्यर्थः। अबलामण्डनं योषित्प्रसाधनजातम्। एकः कल्पवृक्षः एव सूते जनयति। न तु नानासाधनसंपादनप्रयास इत्यर्थः ॥

पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः
शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात्।
योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः
प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कै ॥ 13 ॥
पत्रेति। हे जलद यत्र अलकायां वाहाः हयाः वत्रश्यामाः पलाशवर्णाः। अत एव दिनकरहयस्पर्धिनः वर्णतो वेगतश्च सूर्याश्वकल्पाः। तथा शैलोदग्राः शैलवदुन्नताः करिणः प्रभेदात् मदस्रावाद्धेतोः त्वमिव वृत्तिमन्तः। [योघाग्रण्यः] अग्रं नयन्तीत्यग्रम्यः। सत्सूद्विष--' इत्यादिना क्विप्। अग्रग्रामाब्यं नयतेः’ इति वक्तव्याण्णात्वम्॥ योधानामग्रण्यो भटश्रेष्ठाः संयुगे युद्धे प्रतिदशमुखम् अभिरावणं तस्थिवांसः स्थितवन्तः। अत एव [चन्द्रहासव्रणाङ्कैः] चन्द्रहासस्य रावणासेर्व्रणानि क्षतान्येवाङ्काश्चिह्नानि तैः। `चन्द्रहासो रावणासावसिमात्रेऽपि च क्वचित्’ इति शाश्वतः। प्रत्यादिष्टा भरणरुचयः प्रतिषिद्धभूषणकान्तयः। शस्त्रप्रहारा एव वीराणां भूषणमिति भावः। अत्रापि भाविकालंकारः ॥

मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं
प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम्।
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघै-
स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ 14 ॥
मत्वेति॥ यत्र अलकायां मन्मथः कामः। [धनपतिसखं] धनपतेः ककुबेरस्य सखेति धनपतिसखः। `राजाहःसखिभ्यष्टच्’ तं देवं महादेवं साक्षात् वसन्तं सखि स्नहान्निजरुपेण वर्तमानं मत्वा ज्ञात्वा भयात् भालेक्षणभयात्षट्पदा एव ज्या मौर्वी यस्य तं [षट्पदज्यं] चापं प्रायः प्राचुर्येण न वहति न विभर्ति। कथं तर्हि तस्य कार्यसिद्धिरत आह-सभ्रूभङ्गेति। तस्य मन्मथस्य आरम्भः कामिजनविजयव्यापारः [सभ्रूभङ्गप्रहितनयनै] सभ्रूभङ्गं प्रहितानि प्रयुक्तानि नयनानि दृष्टयो येषु तैस्तथोक्तैः [कामिलक्ष्येषु] कामिन् एव लक्ष्याणि तेषु अमोधैः। सफलप्रयोगैरित्यर्थः। मन्मथचापोऽपि क्वचिदपि मोघः स्यादिति भावः। [चतुरवनिताविभ्रमैः] चतुराश्च ता वनिताश्च तासां विभ्रमैर्विलासैः एव सिद्धः निष्पन्नः। यदनर्थकरं पक्षिकफलं च तत्प्रोगाद्वरं निश्चितसाधनप्रयोग इति भावः ॥

इत्थमलकां वर्णयित्वा तत्र स्वभवनस्याभिज्ञानमाह–
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन।
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे
हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ 15 ॥
तत्रेति॥ तत्र अलकायां धनपतिगृहान् कुबेरगृहान् उत्तरेण उत्तरस्मिन्नदूरदेशे। एनवन्यतरस्यामदूरेऽपञ्चम्याः' इत्येनप्प्रत्यः। एनपा द्वितीया’ इति द्विताया। गृहाः पुसि च भूम्नयेव' इत्यमरः। धनपतिगृहात्’ इति पाठे उत्तरेण' इति नैनत्प्रत्ययान्तं किं तु तोरणेन’ इत्यस्य विशेषणं तृतीयान्तम्। धनपतिगृहादुत्तरस्यां दिशि यत्तोरणं वहिर्द्वारं ते लक्षितमित्यर्थः। अस्माकमिदं अस्मदीयम्। वृद्धाच्छः' इति पक्षे छप्रत्ययः अगारं गृहम्। सुरपतिधनुश्चारुणा मणिमयत्वा दभ्रंकषत्वाच्चेन्द्रचापसुन्दरेण तोरणेन बहिर्द्वारेण दूरात् लक्ष्यं दृशम्। अनेनाभिज्ञानेन दूरत एव ज्ञातुं शक्यमित्यर्थः। अभिज्ञानान्तरमाह-यस्य अगारस्य उपान्ते प्राकारान्तः पार्श्वदेसे मे मम कान्तया वर्धितः--पोषितः कृतकतनयः कृत्रिमसुतः। पुत्रत्वेनाभिमन्यमान इत्यर्थः। [हस्तप्राप्यस्तबकनमितः] हस्तेन प्राप्यैर्हस्तावचयैः स्तबकैर्गुच्छैर्नमितः। स्याद्गुच्छकस्तु स्तबकः’ इत्यमरः। बालमन्दारवुक्षः कल्पवृक्षोऽस्तीति शेषः॥

इतः परं चतुर्भिः श्लोकैरभिज्ञानान्तरमाह-
वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा
हैमैच्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः।
यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं
नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ 16 ॥
वापीति॥ अस्मिन् मदीयागारे [मरकतशिलाबद्धसोपानमार्गा] मरकतशिलाभिर्बद्धः सोपानमार्गो यस्याः सा तथोक्ता। [स्निग्धवैदूर्यनालैः] विदूरे भवा वैदूर्याः विदूराञ्ञ्यः' इति ञ्यप्रत्ययः। वैदूर्याणां विकारा वैदूर्याणि। विकारार्थेऽण्प्रत्ययः। स्निग्धानि वैदूर्याणि नालानि येषां तैः हैमैः सौवर्णैः विकचकमलैः छन्ना वापी च अस्तीति शेषः। यस्याः वाप्याः तोये कृतवसतयः कृतनिवासाः हंसाः त्वां मेघं प्रेक्ष्य अपि व्यपगतशुचः वर्षाकालेऽपि व्यपगतकलुषजलत्वाद्वीतदुःखाः सन्तः संनिकृष्टं संनिहितमअ। सुगममपीत्यर्थः। मानसं मानससरः न अध्यास्यन्ति नोत्कण्ठया स्मरिष्यन्ति। आध्यानमुत्कणअठापूर्वकं स्मरणम्’ इति काशिकायाम्॥

तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः।
मद्रेहिन्याः प्रिय इति सखे चेतस्या कातरेण
प्रेक्षयोपान्तस्फुरिततडितं त्वां तमेव स्मरमि ॥ 17 ॥
तस्या इति॥ तस्याः वाप्या तीरे पेशलैः चारुभिः। चारौ दक्षे च पेशलः' इत्यमरः। इन्द्रनीलैः रटचितशिखरः हन्द्रनीलमणिमयशिखर इत्यर्थः [कनककदलीवेष्टनप्रेक्षणीयः] कनककदलीनां वेष्टनेन परिधिना प्रेक्षणीयो दर्शनीयः क्रीडाशैलः। अस्तीति शेषः। हे सखे [उपान्तस्फुरिततडितम्] उपान्तेषु प्रान्तेषु स्फुरितास्तडितो यस्य तत्तथोक्ताम्। इदं विशेषणं कदलीसाम्यार्थमुक्तम्। इन्द्रनीलसाम्यं तु मेघस्य स्वाभाविक्मित्यनेन सूच्यते। त्वां प्रेक्ष्य मद्गेहिन्याः प्रिय इति हेतोः तस्य शैलस्य मद्गृहिणीप्रियत्वाद्देतोरित्यर्थः। कातरेण भीतेन चेतसा भयं चात्र सानन्दमेव। वस्तूनामनुभूतानां तुल्यश्रवणदर्शनात्। श्रवणात्कीर्तनाद्वाऽपि सानन्दा भीर्यथा भवेत्॥’ इति रसाकरे दर्शनात्। तमेव क्रीडाशैलमेव स्मरामि। एवकारो विषयान्तरव्यवच्छेदार्थः। सदृशवस्त्वनुभवादिष्टार्थस्मृतिर्जायत इत्यर्थः। अत एवात्र स्मरणाख्योऽवलंकारः। तदुक्त्म्—सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते' इति। निरुक्तकारस्तु त्वां तमेव स्मरामि’ इति योजयित्वा मेघे शैलत्वारोपमाचष्टे तदसंत्रतमं अदरयाकारारोपस्य पुरोवर्तिन्यनुभवात्मकत्वेन स्मरतिशब्दप्रयोगानुपपत्तेः शैलत्वभावनास्मृतिरित्यपि नोपपद्यते। भावनायाः स्मृतित्वे प्रमाणाभावादनुभवायोगात्सादृश्योपन्यासस्य वैयर्थ्याच्च विसदृसेऽपि शालग्रामे हरिभावनादर्शनादिति ॥

रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः
प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य।
एकः सख्यास्तव सह मया वामपादभिलाषी
काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः ॥ 18 ॥
रक्तेति॥ अत्र क्रीडाशैले [कुरबकवृतेः] कुरबका वृतिरावरणं यस्य तस्य [माधवीमण्डपस्य] मधौ वसन्ते भवा माधव्यस्तासां मण्डपस्तस्य अतिमुक्तलतागृहस्य। अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता।' इत्यमरः। प्रत्यासन्नौ संनिकृष्टौ चलकिसलयः चञ्चलपल्लवः। अनेन वृक्षस्य पादताडनेषु प्राञ्जलित्वं व्यज्यते। रक्ताशोकः। रक्तविशेषणं तस्य स्मरोद्दीपकत्वादुक्तम्।प्रसूनकैरशोकस्तु श्वेतो रक्त इति द्विधा। बहुसिद्धइकरः श्वेतो रक्तोऽत्र स्मरवर्धनः ॥’ इत्यशोककल्पे दर्शनात्। कान्तः कमनीयः केसरः वकूलः च अथ केसरे' बकुलो वञ्जुलः’ इत्यमरः। स्त इति शेषः एकः तयोरन्यतरः। प्राथमिकत्वादशोक इत्यर्थः। मया सह तव सख्याः स्वप्रियाया इत्यर्थः। वामपादाभिलाषी। दोहदच्छद्मनेत्यत्रापि संबन्धमीयम्। स चाहं च। अभिलाषिणावित्यर्थः। अन्यः केसरः [दोहदच्छद्मना] दोहदं वृक्षादीनां प्रसवकारणं संस्कारद्रव्यम्। तरुगुल्मलतादीनामकाले कुशलैः कृतम्. पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तत्क्रिया।' इति शब्दार्णवे। तस्य छद्मना व्याजेन। कपटाऽस्त्री व्याजदभ्भोपधयः श्छद्मकैतवे॥' इत्यमरः। अस्याः तव सख्याः वदनमदिरां गण्डूषमद्यं काङ्क्षति। सहेत्यत्रापि संबन्धनीयम्। अशोकबकुलयोः स्त्रीपादताडनगण्डू,मदिरे दोहदमिति प्रसिद्धिः। स्त्रीणां वीक्षणालिङ्गनाभ्याम्। मन्दारो नर्मवाक्यात्पटुमृदुहसनाच्चम्पको वक्त्रवाताच्चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः॥’

तन्मध्ये च स्फुटिकफलका काञ्चनी वासयष्टि-
र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः।
तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे
यामध्यास्ते दिवसविगमे नीलकण्ठः सुदृद्वः ॥ 19 ॥
तन्मध्य इति॥ [च] किं चेति चार्थः। तन्मध्ये तयोर्वृक्षयोर्मध्ये [अनतिप्रौढवंशप्रकाशैः] अनतिप्रौढानामनतिकठोराणां वंशानां प्रकाश इव प्रकाशो येषां तस्तरुणवेणुसच्छायैः मणिभिः मरकतशिलाभिः मूले बद्धा। कृतवेदिकेत्यर्थः। [स्फटिकफलका] स्फटिकं स्फटिकमयं पलकं पीठं यस्याः सा। काञ्चनस्य विकारः काञ्च्नी सौवर्णी वासयष्टिः निवासदण्डः अस्तीति शेषः। [शिञ्जावलयसुभगैः] शिञ्जा बूषणध्वनिः। भूषणानां तुं शिञ्जितम्' इत्यमरः॥ भिदादित्वादङ्। शिञ्जिधातुरयं तालव्यादिर्न तु दन्त्यादिः। शिञ्जाप्रधानानि वलयानि तैः सुभगा रम्यास्तैः। तालैः करतलवादनैः मे मम कान्तया नर्तितः वः युष्माकं सुहृत् सखा नीलकण्ठो मयूरः। मयूरो वर्हिणो बर्हिर्नीलकण्ठो भुजङ्गभुक्।’ इत्यमरः। दिवसविगमे सायंकाले यां यष्टिकाम् अध्यास्तेष। यष्ट्यामास्त इत्यर्थः। अधिसीङ्स्थासां कर्म' इति कर्मत्वाद्द्वितीया। तत्रागारान्’ इत्याराभ्य पञ्चसु श्लोकेषु समृद्धवस्तुवर्णना दुदात्तालंकारः। तदुक्तम्–तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते' इति। न चैषा स्वभावोक्तिर्भाविकं वा तत्र यथास्थितवस्तुवर्णनात्। अत्र तुकविप्रतिभोत्थापितसंभाव्यमानैर्श्वशालिवस्तुवर्णनादारोपितविषयत्वमिति ताभ्यामस्य भेदः।’ इत्यलंकारसर्वस्वकारः ॥

एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा
द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्टा।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ 20 ॥
एभिरिति॥ हे साधो निपुण। साधुः समर्थो निपुणो वा' इति काशिकायाम्। हृदयनिहितैः। अविस्मृतैरित्यर्थः। एभिः पूर्वोक्तैः लक्षणैः तोरणादिभिरभिज्ञानैः द्वारोपान्ते। एकवचनमविवक्षितम् द्वारपार्श्वयोरित्यर्थः। [लिखइतवपुषौ] लिखिते वपुषी आकृती ययोस्तौ तथोक्तौ शङ्खपद्मौ नाम निधिविशेषौ। निधिर्ना शेवधिर्मैदाः। पद्मशङ्खादयो निधेः’ इत्यमरः। दृष्ट्वा च नूनं सत्यम् अधुना इदानीम्। अधुना' इति निपातः। मद्वियोगेन मम प्रवासेन क्षामच्छायं मन्दच्छायमुत्सवोपर मात्क्षीणकान्ति भवनं मद्गृहं लक्षयेथाः निश्तिनुयाः। तथा हि। सूर्यापाये सति कमलं पद्मं स्वाम् आत्मीयाम् अभिख्यां शोभाम्। अभिख्या नामसोभयोः’ इत्यमरः। न पुष्यति नोपचिनोति खलु। सूर्यविरहितं पद्ममिव पतिविरहितं गृहं न शोभत इत्यर्थः ॥

निजगृहनिश्चयानन्तरं कृत्यमाह—
गत्वा सद्यः कलभतनुतां शीघ्रसंपाहतेतोः
क्रीडाशैले प्रथमकथिते रम्यसानौ निष्ण्णः।
अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ 21 ॥
गत्वेति॥ हे मेघ। [शीघ्रसंपातहेतोः] शीघ्रसंपात एव हेतुस्तस्य। शीघ्रप्रवेशार्थमित्यर्थः॥ षष्ठी हेतुप्रयोगे इति षष्ठी।' संपातः पतने वेगे प्रवेशे वेदसंविदे’ इति शब्दार्णवे। सद्यः सपदि [कलभतनुतां] कलभस्य करिपोतस्य तनुरिव तनुर्यस्य तस्य भावस्तामल्पशरीरतां गत्वा प्राप्य प्रथमकथिते तस्यास्तीरे' इत्यादिना पूर्वोद्दिष्टे रम्यसानौ। निषीदनयोग्य इत्यर्थः। क्रीडाशैले निषण्णः उपविष्टः सन्। [अल्पाल्पभासम्] अल्पा अल्पप्रकारा भाः प्रकाशो यस्यास्ताम् प्रकारे गुणवचनस्य’ इति द्विरुक्तिः। [खद्योतालीविलसितनिभां] खद्योतानामाली तस्या विलसितेन स्फुरितेन निभां समानां [विद्युदुन्मेषदृष्टिम्] विद्युदुन्मेषो विद्युत्प्रकाशः स एव दृष्टिस्तां [अन्तर्भवनपतितां] भवनस्यान्तरन्तर्भवनं तत्र पतितां प्रविष्टां कर्तुम् अर्हसि। यथा कश्चित्किंचिदन्विष्यन्क्वचिदुन्नते स्थित्वा शनैः शनैरतितरां द्राघीयसीं दृष्टिमिष्टदेशे पातयति तद्वदित्यर्थः ॥

संप्रति दृष्टिपातफलस्याभिज्ञानं श्लोकद्वयेनाह–
तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननामभइः।
श्रोणीभारदलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ 22 ॥
तन्वीति॥ तन्दी कृसाङ्गा। न तु पीवरी। श्लक्ष्णं दभ्रं कृशं तनु' इत्यमरः। वोतो गुणवचनात्’ इति ङीप् श्यामा युवतिः। श्यामा यौवनमध्यस्था' इत्युत्पलमालायाम् [शिखरिदशाना] शिखराण्येषां सन्तीति शिखरिणः कोटिमन्तः। शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु।’ इति विश्वः। शिखरिणो दशना दन्ता यस्याः सा। एतेनास्या भाग्यवत्तवं पत्यायुष्करत्वं च सूच्यते। तदुक्तं सामुद्रिके–स्निग्घाः समानरूपाः सुपङ्क्तयः शिखरिणः श्लि,्टाः। दन्ता भवन्ति यासां तासां पादे जगत्सर्वम्॥' ताम्बूलरसरक्तेऽपि स्फुटभासः समोदयाः। दन्ता शिखरिणो यस्या दीर्घं जीवति तत्पिय॥’ इति। पक्वं परिणतं बिम्बं बिम्बिकाफलमिवाधरोष्ठो यस्याः सा पक्वबिम्बाधरोष्ठी। शाकपार्थिवादित्वान्मध्यमपदलोपी समासः।' इति वामनः। नासिकोदरौष्ठ–’ इत्यादिना ङीप्। मध्ये क्षामा कृशोदरीत्यर्थः [चकितहरिणीप्रक्षेण] चकितहरियण्याः प्रेक्षणानीव प्रेक्षणानि दृष्टयो यस्याः सा तथोक्ता। एतेतास्याः पद्मिनीत्वं व्यज्यते। तदुक्तं रतिरहस्ये पद्मिनीलक्षणप्रस्तावे- `चकितमृगदृशाभे प्रान्तरक्ते च नेत्रे।’ इतिनिम्ननाभिः गम्भीरनाभिः। अनेन नारीणां नाभिगाम्भीर्यान्मदनातिरेक इति। कामसूत्रार्थः सूच्यते। श्रोणीभारात् अलसगमना मन्दगामिनी। न तु जघनदोषात्। स्तनाभ्यां स्तोकनम्रा ईषदवनता। न तु वपुर्दोषात्। युवतय एव विषयस्तस्मिन् युवतिविषये। युवतीरधिकृत्येत्यर्थः। धातुः ब्रह्मणः आद्या सृष्टिः प्रथमशिल्पम् इव स्थितेत्युत्प्रेक्षा प्रथमनिर्मिता युवतिरियमेवेत्यर्थः प्रायेण शिल्पिनां प्रथमनिर्माणे प्रयत्नातिशयवशाच्छिल्पनिर्माणसैष्ठवं दृश्यत इत्याद्यविसेषणम्। तथा चास्मिन्प्रापञ्चे न कुत्राप्येवंविधं रामणीयकं रमणीरत्नमस्तीति भावः। तदेवंभूता या स्त्री तत्र अन्तर्भवने स्यात्। तत्र निवसेदित्यर्थः। तामित्युत्तरश्लोकेन संबन्धः ॥

तां जानीथाः परिमितकथां जीवितं मे द्वितीयं
दूरीभते मयि सहचरे चक्रवाकीमिवैकाम्।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां
जातां मन्ये शिसिरमथितां पद्मिनीं वाऽन्यरूपम् ॥ 23 ॥
तामिति॥ सहचरे सहचारिणि। अनेन वियोगासहिष्णुत्वं व्यज्यते। मयिदूरीभूते दूरस्थिते सति। सहचरे चक्रवाके दूरीभूते सति चक्रवाकीं चक्रवाकवधूम्। इव॥ जातेरस्त्रीविषयादयोपधात्' इति ङीष्॥ परिमितकथां परिमितवाचम्। एकाम् एकाकिनीं स्थितां ताम् अन्तर्भवनगतां मे द्वितीयं जीवितं जीनीथाः। जीयिततुल्या मत्प्रेयसीमवगच्छेरित्यर्थः। तन्वी’ इत्यादिसर्वलक्षणैरिति शेषः॥ लक्षणानामन्यथाभावभ्रममाशङ्क्याह—गाढेति॥ गाढोत्कण्ठा प्रबलविरहवेदनाम्। रागे त्वलब्धविषये वेदना महती तु या। संशोषणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः॥' इत्यभिधानात्। बालां गुरुषु विरहमत्सु एषु वर्तमानेषु दिवसेषु गच्छत्सु सत्सु [शिशिरमथितां] शिशिरेण शिशिरकालेन मथितां पद्मिनीं वा पद्मिनीमिव। इवद्वायथाशब्दौ’ इति दण्डी। अन्यरूपां पूर्वविपरीताकारां जातां मन्ये। हिमहतपद्मिनीव विरहेणान्यादृशी जातेति तर्कयामीत्यर्थः। एतावता नेयमन्येति भ्रमितव्यमिति भावः॥

नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया
निःसवासनामशिशिरतया भिन्नवर्णाधरोष्ठम्।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-
दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति । 24 ॥
नूनमिपि॥ [प्रवलरुदितोच्छ्ननेत्र] प्रबलरुदितेनोच्छूने उच्छ्वसिते नेत्रे यस्य तत्। उच्छूनेति स्वयतेः कर्तरि क्तः। ओदितश्च' इति निष्ठानत्वम्। वचिस्वपि-’ इत्यादिना संप्रसारणम् संप्रसारणाच्च' इति पूर्वरूपत्वम्। हल’ इति दीर्घः। च्छ्वोः शुडनुनासिके च' इति (ऊठ्) आदेशे कृते रूपसिद्धिरिति वर्तमाना सामीप्यप्रक्रिया प्रामादिकीत्युत्प्रेक्षा। तमा सति धातोरिकारस्य गत्यभावादूडादेशे च्छोरन्त्यत्वेन विशेषणाच्चेति। एतेन विषादो व्यज्यते। निःश्वासानां अशिशिरतया अन्तस्तापोष्णत्वेन [भिन्नवर्णाधरोष्ठं] भिन्नवर्णो विच्छायोऽधरोष्ठो यस्य तत्। हस्ते न्यस्तं हस्तन्यस्तम्। एतेन चिन्ता व्यज्यते। लम्बालकत्वात् संस्काराभावाल्लम्बमानकुन्तलत्वाद् असकलव्यक्ति असंपूर्णाभिव्यक्ति तस्याः प्रियायाः मुखं [त्वदनुसरणक्लिष्टकालान्तेः] त्वदनुसरणेन। मेघानुसरणेनेति यावत्। क्वलिष्टकान्तैः क्षीणकान्तेः हन्दो दैन्यम् शोच्यतां बिभर्ति नूनम् इति वितर्के। नूनं तर्केऽर्थनिश्चये’ इत्यमरः। पूर्ववत् तथाऽपि न भ्रमितव्यमिति भावः ॥

सर्वविरहिणीसाधारणानि लक्षणानि संभावनयोत्प्रेक्ष्याणीत्याह आलोके' इत्यादिभिस्त्रिभिः--- आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती। पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ 25 ॥ आलोक इति॥ हे मेघ सा मत्प्रिया। [बलिव्याकुला] बलिषु नित्येषु प्रोषितागगनार्तेषु च देवताराधनेषु व्याकुला व्यापृता वा [विरहतनु] विरहेण तनु कृशं भावगम्यम्। तत्कार्श्यस्यादृष्टचरत्वात्संप्रति संभावनयोत्प्रेक्ष्यमित्यर्थः। मत्सादृश्यं। मदाकारसाम्यम्। मत्प्रतिकृतिमित्यर्थः। यद्यपि सादृश्यं नाम प्रसिद्धवस्त्वन्तरगतमाकारसाम्यं तथाऽपि प्रतिकृतित्वेन विवक्षितमितरथालेख्यात्वासंभवात्। अक्षय्यकोसे आलेख्येऽपि च सादृश्यम्’ इत्यभिधानात्। लिखन्ती क्वचित्फलकादौ विन्यस्यन्ती वा। चित्रदर्शनस्य विरहिणीविनोदोपायत्वादिति भावः। एतच्च कामशास्त्रसंवादेन सम्यग्विवेचितमस्माभी रघुवंशसंजीविन्याम् सादृश्यप्रतिकृतिदर्शनैः प्रियायाः' इत्यत्र। मधुरवचनां मन्जुभाषिणीम्। अत एव पञ्जरस्थाम्। हिंस्रेभ्यः कृतसंरक्षणामित्यर्थः। सारिकां स्त्रीपक्षिविशेषाम्। हे रसिके भर्तुः स्वामिनः स्मरसि कच्चित् कच्चित्कामप्रवेदने’ इत्यमरः। भर्तारं स्मरसि किमित्यर्थः। अधीगर्थयदेशां कर्मणि इति कर्मणि षष्ठी। स्मरणे कारणमाह—हि यस्मात्कारणात् त्वं तस्य भर्तुः। प्रीणातीति प्रिया। इगुपधज्ञाप्रीकिरः क' इति कप्रत्ययः। अतः प्रेमास्पदत्वात्स्मर्तुमर्हसीति भावः। इति एवं पृच्छन्ती वा। वाशब्दो विकल्पे। उपमायां विकल्पे वा’ इत्यमरः। ते तव आलोके दृष्टिपथे पुरा निपतति। सद्यो निपतिष्यतीत्यर्थः स्यात्प्रबन्धे पुरातीते निकटागामिके पुरा।' इत्यमरः। यावत्पुरानिपातयोर्लट्’ इति लट् ॥

उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा।
तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथंचि-
द्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विश्मरन्ती ॥ 26 ॥
उत्सङ्गा इति॥ हे सौम्य साधो मलिनवसने। प्रोषिते मलिना कृसा' इति शास्त्रादित्यर्थः॥ उत्सङ्गे उरौ वीणआं निक्षिप्य। मम गोत्रं नामाङ्कश्चिङ्नं यस्मिंस्तत् मद्गोत्राह्कं मन्नामाङ्कं यथा तथा। गोत्रं नाम्नि कुलेऽपि च’ इत्यमरः। [विरचितपदं] विरचितानि पदानि यस्य तत्तथोक्तं गेयं गानाहं प्रबन्दादि। गीतम्' इति पाठे स एवार्थ। [उद्गातुकामा] उद्गातुमुच्चैर्गातुं कामो यस्याः सा॥ तुं काममनसोरपि’ इति मकारलोपः॥ देवयोनित्वाद्गान्धारग्रामेण गातुकामेत्यर्थः। तदुक्तम्–षड्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः न तु गान्धारनामानं स लभ्यो देवयोनिभिः॥' इति। तथा नयनसलिलैः प्रियतमस्मृतिजनितैरश्रुभिः आर्द्रां तन्त्रीं कथंचित् कृच्छ्रेम सारयित्वा। आर्द्रत्वापहरणाय करेण प्रमृज्य अनयथा क्वणना संभवादिति भावः। भूयो भूयः पुनः पुनः स्वयम् आत्मना कृताम् अपि। विस्मरणानर्हामपीत्यर्थः। मूर्च्छनां स्वरारोहावरोहक्रमम्। स्वराणां स्थापनाः सान्ता मूर्च्छनाः सप्त सप्त हि’ इति संगीतरत्नाकरे। विस्मरन्ती वा। आलोके ते निपतति' इति पूर्वेणान्वयः। विस्मरणं चात्र दयितगुणस्मृतिजनितमूर्च्छावशादेव। तथा च रसरत्नाकरे--वियोगायगयोरिष्ट गुणानां कीर्तनास्मृतेः। साक्षात्कारोऽथ वा मूर्च्छा दशधा जायते तथा॥ ’ इति। मत्सादृश्यमित्यादिना मनः सङ्गानुवृत्तिः सूचिता॥

शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा
विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः।
संभोगं वा हृदयनिहितारम्भमास्वादयन्ती
प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ 27 ॥
शेषानिति॥ अथ वा (विरहदिवसस्थापितस्य) विरहस्य दिवसस्तस्मात्स्थापितस्य तत आरब्य निश्चितस्य अवधेः अन्तस्य शेषान् गतावशिष्टान् मासान् देहलीदत्तपुष्पैः। देहली द्वारस्याधारदारु। गृहावग्रहणी देवली' इत्यमरः। तत्र दत्तानि राशीकृतत्वेन निहितानि यानि पुष्पाणि तैः। गणनया एको द्वावित्यादिसंख्यानेन भुवि भूतले विन्यस्यन्ती वा। पुष्पविन्यासैर्मासान्गणयन्ती वेत्यर्थः यद्वा (हृदयनिहितारम्भम्) हृदये निहितो मनसि संकल्पित आरम्भ उपक्रमो यस्य तम्। अथ वा हृदयनिहिता आरम्भाश्चुम्बनादयो व्यापारा स्मिंमस्तं संभोगं रतिम् आस्वादयन्ती वा। आलोके ते निपतति’ इति पूर्वेण संबन्धः। ननु कथमयं निश्चय इत्याशङ्कामर्थधान्तरन्यासेन परिहरति। प्रायेण बाहुल्येन अङ्गनानां रमणविरहेषु एते पूर्वोक्ताः विनोदाः कालयापनोपायाः। एतेन संकल्पावस्थोक्ता। तदुक्तम्—`संकल्पो नाथविषये मनोरथ उदाहृतः।’ इति। त्रिभिः कुलकम् ॥

सव्यापारामहनि न तथा पीडयेद्विप्रयोगः
शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते।
मत्संदेशः सुखयितुमलं पश्य साध्वीं निशीथे
तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥ 28 ॥
सव्यापारामिति॥ हे सखे अहनि दिवसे सव्यापारां पूर्वोक्तबलिचित्रलेखनादिव्यापारवतीं ते सखीं स्वप्रियां विप्रयोगः मद्विरहः तथा तेन प्रकारेण। प्रकारवचने थालु' इति थाल्प्रत्ययः। न पीडयेत्। यथा रात्रौ इहि शेषः। किं तु रात्रौ निर्विनोदां विर्व्यापारां ते सखीं गुरुतरां शुरुतरां शुग्यस्यास्तां गुरुतरशुचम् अतिदुर्भरदुःखां शङ्के तर्कयामि। शङ्का वितर्कभययोः’ इति शब्दार्णवे। अतो निशीथे अर्धरात्रे उन्निद्राम् उत्सृष्टनिद्राम्। [अवनिशयनां] अवनिरेव शयनं शय्या यस्यास्ताम्। नियमार्थं स्थण्डिलशायिनीम्। साध्वीं पतिव्रताम्। `साध्वी पतिव्रता’ इत्यमरः। अतो नान्यथा शङ्कितव्यमिति भावः। तां त्वत्सखीं मत्संदेशैः मद्वार्तदाभिः अलं पर्याप्तं सुखयितुम् आनन्दयितुं सौधवातायनस्थ सन् पश्य सखी धात्री च पितरौ मित्रदूतशुकादयः। सुखयन्तीष्टकथनसुखोपायैर्वियोगिनीम्॥’ इति रत्नाकरे। दूतश्चायं मेघ इति भावः। अनेन जागरावस्थोक्ता॥

पुनस्तामेव विशिनष्टि आधिक्षामाम्' इत्यादिभिश्चतुर्भिः--- आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः। नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ 29 ॥ आधिक्षामामिति। [आधिक्षामां] आधिना मनोव्यथया क्षामां कृशाम्। पुंस्याधिर्मानसी व्यथा’ इत्यमरः। क्षायतेः। क्षायतेः करि क्तः। क्षायो मः' इति निष्ठात कारस्य मकारः। विरहे शयनं तस्मिन् विरहशयने। पल्लवादिरचिते इत्यर्थः [संन्निषण्णैकपार्श्वां] संनिषण्णमेकं पार्श्वं यस्यास्ताम्। अत एव [प्राचीमुले] प्राच्याः पूर्वस्या दिशो मूले। उदयगिरिप्रान्त इत्यर्थः। प्राचीग्रहणं क्षीणावस्थाद्योतनार्थम्। मूलग्रहणं दृश्यतार्थम्। [कलामात्रशेषां] कलामात्रं कलेव शेषो यस्यास्तां हिमांशोऋः तनुं मूर्तिं इवल स्थिताम् तथा या रात्रिः मया सार्धम् [इच्छारतैः] इच्छाया कृतानि रतानि तैः शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। क्षण इव नीता यापिता तां तज्जातीयाम् एव रात्रिं [विरहमहतीम्] विरहेण महतीं महत्त्वेन प्रतीयमानाम् उष्णैः अश्रुभिः यापयन्तीम्। यातेर्ण्यन्ताच्छतृप्रत्ययः। अर्तिह्री–’ इत्यादिना पुगागमः। स एव कालः सुखिनामल्पः प्रतीयते। दुःखिना तु विपरीत इति भावः। एतेन कार्श्यावस्थोक्ता॥

पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टा-
न्पूर्वप्रीत्या गतमभिमुख संनिवृत्तं तथैव।
चक्षुः खेदात्सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं
साब्रेऽह्नीव स्थलकमलिनी नप्रबुद्धां नसुप्तान् ॥ 30 ॥
पादानिति॥ जालमार्गप्रविष्टान् गवाक्षविवरगतान् अमृतशिशिरान् इन्दोः पादान् रश्मीन् पूर्वप्रीत्या पूर्वस्नेहेन पूर्ववदानन्दकरा भविष्यन्तीति बुद्ध्येति भावः। अभिमुखं यथा तथा गतं तथैव संनिवृत्तं यथा गतं तथैव प्रतिनिवृत्तम्। तदा तेषामतीव दुःसहत्वादिति भावः चक्षुः दृष्टिं खेदात् सलिलगुरुभिः अश्रुदुर्भरैः पक्ष्मभिः छादयन्तीम्। अत एव साभ्रे दुर्दिने अह्नि दिवसे नप्रबुद्धां मेघावरणआदविकसितां नसुप्ताम् अहरित्यमुकुलिता। उभयत्रापि नञर्थस्य नशब्दस्य सुप्सुपेति समासः। स्थलकमलिनीम् इव स्थइताम्। एतेन विषयद्वेषाख्या षष्ठी दशा सूचिता॥

निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम्।
मत्संभोगः कथमुपनमेत्स्वप्नजोऽपीति निद्रा-
माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम् ॥ 31 ॥
निःश्वासेनेति॥ शुद्धस्नानात् तैलादिरहितस्नानात् पुरुषं कठिनस्पर्शं नूनम् आगणअडलम्बम्। सुप्सुपेति समासः। अलकं चूर्णकुन्तलान्। जातावेकवचनम्। [अधरकिसलयक्लेशिना] अधरकिसलयं क्लेशयति क्लिशनातीति वा तेन तथोक्तेन। उष्णेनेत्यर्थः। क्लिश्यतेर्ण्यन्तात्क्लिश्नातेरण्यन्ताद्वा ताच्छील्ये णिनिः। निःश्वासेन विक्षिपन्तीं चालयन्तीम्। तथा स्वप्नजः अपि स्वप्नावस्थाजन्योऽपि। साक्षात्संबोगासंभवादिति भावः। म्त्संभोगः कथं केनापि प्रकारेण उपनमेत् आगच्छेत्। अति आशयेनेति शेषः। इति नैवोक्तार्थत्वादप्रयोगः। `प्रयोगे चापौनरुक्त्यम्’ इत्यालंकारिकाः। प्रार्थनायां लिङ्। [नयनसलिलोत्पीडरुद्धावकाशां] नयनसलिलोत्पीडेनाश्रुप्रवृत्त्या रुद्धावकाशामाकान्तस्थानाम्। दुर्लभामित्यर्थः। निद्राम् आकाइक्षन्तीम्। स्नेहातुरत्वादिति भावः। अत्राश्रुविसर्जनेन लज्जात्यागो व्यज्यते ॥

आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम्।
स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं
गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ 32 ॥
आद्य इति॥ आद्ये विरहदिवसे दाम मालां हित्वा त्यक्त्वा या शिखा बद्धा ग्रथिता शापस्य अन्ते विगलितशुचा। वीतशोकेन मया उद्वेष्टनीयां मोचनीयां स्पर्शविलष्टाम्। स्पर्शे सति मूलकेशेषु सव्यथामित्यर्थः [कठिनविषमाम्] कठिना च सा विपमा निम्नोन्नता च ताम्। खञ्जकुब्जादिवदन्यतरस्य प्राधान्यविवक्षया विशेषणं विशेष्येण बहुलम्' इति समासः। एकवेणीम् एकीभूतवेणीम्। पूर्वकाल–’ इत्यादिना तत्पुरुषः। तां शिखाम्। [अयमितनखेन] अयमिता अकर्तितोपान्ता नखा यस्य तेन करेण गाण्डाभोगात् कपोलविस्तारात् असकृत् मुहुर्मुहुः सारयन्तीम् प्रसारयन्तीम्। `तां पश्य’ इति पूर्वेण संबन्धः। असकृत सारणाच्चित्तविभ्रमदशा सुचिता ॥

सा संन्यस्ताबरणमबला पेशलं धारयन्ती
शप्योत्सङ्गे निहितमसकृदुःखदुःखेन गात्रम्।
त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं
प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ 33 ॥
सेति॥ अबला दुर्बला संन्यस्ताभरणं कृशत्वात्परित्यक्ताभरणम् असकृत् अनेकशो दुःखदुःखेन दुःखप्रकारेण। प्रकारे गुणवचनस्य' इति द्विर्भावः। शय्योत्सङ्गे निहितं पेशलं मृदुलं गात्रं शरीरं धारयन्ती वहन्ती। अनेनात्यन्ताशक्त्या मर्च्छावस्था सूच्यते। सा त्वत्सखी त्वाम् अपि नवजलमयं नवाम्बुरुपम्' अस्रं बाष्पम् अवश्यं सर्वथा मोचयिष्यति। द्विकर्मसुपचादीनामुपसंख्यानम्’ इति मुचेः पचादित्वात् द्विकर्मत्वम्। तथा हि। प्रायः प्रायेण आर्द्रान्तरात्मा मृदुहृदयः। मेघस्तु द्रवान्तः- शरीरः। सर्वः करुणामयी वृत्तिरन्तःकरणवृत्तिर्यस्य स करुणावृत्तिः भवति हि यस्मात्। अस्मिन्नवसरे सर्वथा त्वया शीघ्रं गन्तव्यमनन्तरदशापरिहारायेति संदर्भाबिप्रायः। ननु किमिदमादिमां चक्षुःप्रीतिमुपेक्ष्यावस्थान्तराण्येव तत्रभवान्कविरादृतवान्। उच्यते—संभोगो विप्रलम्भश्च द्विधा श्रृङ्गार उच्यते। संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोः॥ पूर्वानुरागमानाख्यप्रवासकरुणात्मना। विप्रलम्भस्चतुर्धाऽत्र प्रवासस्तत्र च त्रिधा॥ कार्यतः संभ्रमाच्चापादस्मिन्काव्ये तु शापजः। प्रागसंगतयोर्यूनोः सति पूर्वानुरञ्जने॥ चक्षुःप्रीत्यादयोत्वस्था दश स्युस्तत्क्रमो यथा। दृङ्मनः--सङ्गसंकल्पा जागरः कृशता रतिः॥ ह्रीत्यागोन्मादमूर्छान्ता इत्यनङ्गदशा दश। पूर्वसंगतयोरेव प्रवास िति कारणात्॥ न तत्रापूर्ववच्चक्षुःप्रीतिरुत्पत्तुमर्हति। तत्सङ्गस्य तु सिद्दस्याप्यविच्छेदोऽत्र वर्घ्यते॥ अन्यथा पूर्ववद्वाच्या इति तावद्व्यवस्थितेः। वैयर्थ्यादादिमां हित्वा वैरस्यादन्तिमां तथा॥ हृत्सङ्गादिरिहाचष्टं कविरष्टाविति स्खथितिः। मत्सादृश्यं लिखन्तीति पद्येऽस्मिन्प्रतिपादिता। चक्षुःप्रीतिरिति प्रोक्तं निरुत्तरकृताननम्। चक्षुःप्रीतिर्भवेच्चित्रेष्वदृष्टचरदर्शनात्। यथा मालविसकारूपमग्निमित्रस्य पश्यतः। प्रोषितानां च भर्तृणां क्व दृष्टाऽदृष्टपूर्वंता॥ अथ तत्रापि संदेहे स्वकलत्राणि पच्छतु। किं भर्तृप्रत्यभिज्ञा स्यात्किं वैदेशिकभावना॥ प्रवासादागते स्वस्मिन्नत्यलं कलहैर्वृथा॥’ इति ॥

नन्वीदृशीं दशामापन्नेति कथं त्वया निश्चितमत आह—
जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा-
दित्थंभूतां प्रथमविरहे तामहं तर्कयामि।
वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलमचिराभ्द्रातरुक्तं मया यत् ॥ 34 ॥
जान इति। हे मेघ तव सख्याः मनः मयि संभृतस्नेह संचितानुरागं जाने। अस्मात् स्नेहज्ञानकारणात् प्रथमविरहे। प्रथमग्रहणं दुःखातिशयद्योतनार्थम्। तां त्वत्सखीम् इत्थंभूतां पूर्वोक्तावस्थामापन्नां [अहं] तर्कयामि। ननु सुभगमानिनामेष स्वभावो यदात्मनि स्त्रीणामनुरागप्रकटनं तत्राह—वाचलमिति। सुभगमात्मानं मन्यत इति सुभगंमन्यः। आत्ममाने खश्च' इति खश्प्रत्ययः। अरुर्द्विषत्–’ इत्यादिना मुमागमः। तस्य भावः सुभगंमन्यभावः सुभगमानित्वं मां वाचालं बहुभाषिणं न करोति खलु। सौन्दर्याभिमानिता न प्रकटयामीत्यर्थः। स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्।' इत्यमरः। आलजाटचौ बहुभाषिणि’ इत्यालच्प्रत्ययः। किं तु हे भ्रातः मया उक्तं यत् `अधिक्षामाम्’ इत्यादि तत् निखिलं सर्वम् अचिरात् शीघ्रमेव ते तव प्रत्यक्षम्। भविष्यतीति शेषः॥

रुद्धापाङ्गप्रसरमलकैरञ्जनस्नहशून्यं
प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम्।
त्वथ्यासन्ने नयनमुपरिस्पन्दि शङ्गे मृगाक्ष्या
मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ 35 ॥
रुद्धेति॥ अलकैः [रुद्धापाङ्गप्रसरम्] रुद्धा अपाङ्गयोः प्रसारा यस्य तत्तथोक्तम्। [अञ्जनस्नेहशून्यं] अञ्जनेन स्नेह तेन शून्यम्। स्निग्धाञ्जनरहितमित्यर्थः। अपि च किं च मधुनो मद्यस्य प्रत्यादेशात् निराकरणात्। परित्यागादित्यर्थः प्रत्यादेशो निराकृतिः' इत्यमरः। [विस्मृतभ्रूविलासम्] विस्मृतो भ्रूविलासो भ्रूभङ्गो येन तत्। नयनस्य रुद्धापाङ्गप्रसरत्वादिकं विरहसमुत्पन्नमिति भावः। त्वयि आसन्ने सति। स्वकुशलवार्ताशंसिनीति शेषः। अपर्यूर्ध्वभागे स्पन्दते स्फुरति इति उपरिस्पन्दि। तथा च निमित्तनिदाने--स्पन्दान्मूर्ध्निच्छत्रलाभं ललाटे पट्टमंशुकम्। इष्टप्राप्तिं दृशोरूर्ध्वमपाङ्गे हानिमादिशेत्॥’ इति। मृगाक्ष्याः त्वत्सख्याः नयनम्। वाममिति शेषः। वामभागस्तु नारीणां पुंसां श्रेष्ठस्तु दक्षिणः। दाने देवादिपूजायां स्पन्देऽलंकरणेऽपि च॥' इति स्त्रीणां वामभागप्राशस्यात्। मीन*****भात् मीनचलनात् [चलकुवलयश्रीतुलाम्] चलस्य कुवलयस्य श्रिया शोबया तुलां सादृश्यम् एष्यति इति शङ्के तर्कयामि। [तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्’ इत्यत्र सदृशपर्यायस्य तुलाशब्दस्य प्रतिषेधादत्र च सादृश्यवाचित्वात्तद्योगेऽपि तृतीया]॥

वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै-
र्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या।
संभोगान्ते मम समुचितो हस्तसंवाहनानां
यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ 36 ॥
वाम इति॥ मद्रीयैः कररुहपदैः। नखपदैः। पुनर्भवः कररुहो नकोऽस्त्री नखरोऽलस्रियाम्।' इत्यमरः। मुच्यमानः परिहीयमाणः नखाङ्करहित इत्यर्थः। ऊर्वोर्नखपदास्पदत्वं तु रतिरहस्ये---कण्ठकुक्षिकुचपार्श्वभुजोरः श्रोणिसक्थिषु नखास्पदमाहुः।’ इति। चिरपरिचितं चिराभ्यस्तं मुक्ताजालं मौक्तिकसरमयं कटिभूषणं दैवगत्या दैववशेन त्याजितः। संप्रति नखपदोषमाभावेन शीतोपचारस्य तस्य वैयर्थ्यादिति भावः। त्यजतेर्ण्यन्तात्कर्मकर्तरि क्तः। द्विकर्मसु पचादीनां चोपसंख्यानमिष्यते' इति पचादित्वाद्विकर्मत्वम्। संभोगान्ते मम हस्तसंवाहनानां हस्तेन मर्दनानाम्। संवाहनं मर्दनं स्यात्’ इत्यमरः। समुचितः योग्यः [सरसकदलीस्तम्भयौरः] सरसो रसार्द्रः परिपक्वो न शुष्कश्च स एव विवक्षितः। तत्रैव पाण्डिमसंभवात्। स चासी कदलीस्तम्भश्च स इव गौरः पाण्डुरः। गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च' इति मालतीमालायाम्। अस्याः प्रियाया बामः रूरुः चलत्वं स्पन्दनं यास्वति [च] प्राप्स्यते। ऊरोः स्पन्दाद्रतिं वि***दूर्वोः प्राप्ति सुवाससः।’ इति निमित्तानदाने॥

तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्या-
दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचि-
त्सद्यः कण्ठच्युतभुजलपताग्रन्थि गाढोपगूढम् ॥ 37 ॥
तस्मिन्नति॥ हे जलद तस्मिन् काले त्वदुपसर्पणकाले सा मत्पिया [लब्दनिद्रासुखा] लब्धं निद्रासुखं यया तादृशी स्यात् यदि स्याच्चेत्। एनां निद्राणाम् अन्वास्य। पश्चादासित्वेत्यर्थः। उपसर्गवशात्सकर्मकत्वाम्। स्तनितविमुखो गर्जितपराङ्गमुखो निःशब्दः सन्। अन्यथा निद्राभङ्गः स्यादिति भावः। याममात्रं प्रहरमात्रम्। द्वौ यामप्रहरौसमौ' सहस्व प्रतीक्षस्व। प्रार्थनायां लोट् ॥ शक्तयोरेकवारसुरतस्य यामावधिकत्वात्स्वप्नेऽपि तथा भवितव्यमित्यभिप्रायः। तथा च रतिसर्वस्वे--एकवारावधिर्यामो रतस्य परमो मतः. चण्डशक्तिमतोर्यूनोरद्भुतक्रमवर्तिनोः’ इति। यामसहनस्य प्रयोजनमाह–मा भूदिति। अस्याः प्रियायाः प्रणयिनि प्रेयसि मयि कथंचित् कृच्छ्रेण स्वप्नलब्दे सति। गाढोपगुढं गाढालिङ्गनम्। नपुंशके बावे क्तः। [सद्यः कण्ठच्युतभुजलताग्रन्थि] सद्यस्तत्क्षणं कण्ठात् च्युतः स्रस्तो भुजलतयोर्ग्रथिर्बन्धो यस्य तत् मा भूत् माऽस्तु। कथंचिल्लब्धस्यालिङ्गनस्य सद्यो विघातो मा भूदित्यर्थः। न चात्र निद्रोक्तिःतामुन्निद्राम् इति पूर्वोक्तेन विरुद्यते। पुनः सप्तम्याद्यवस्थासु पाक्षिकनिद्रासंभवात्। तथा च रसरत्नाकरे--आसक्ती रोदनं निद्रा निर्लज्जानर्थवाग्भ्रमः। सप्तमादिषु जायन्ते दशाभेदेषु वासुके’ इति ॥

तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां सममभिनवैर्जालकर्मालतीनाम्।
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीरः स्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥ 38॥
तामिति॥ तां प्रियां [स्वजलर्काणकशीतलेऩ]स्वजलकणिकाभिर्जलबिन्दुभि शीतलेन अनिलेन उत्थाप्य प्रबोध्य। एतेन तस्याः प्रभुत्वाद्व्यजनानिलसमाधिर्व्यज्यते। यथाऽऽह भोजराजः–मृदुभिर्मर्दनैः पादे शी तलर्व्यजनैस्तनौ। श्रुतौ च मधुरैर्गीतैनिद्रातो बोधयेत्प्रभुम्॥' इति। अभिनवैः नूतनैः। मालतीनां जालकैः समं जातिमुकुलैः सह। सुमना मालती जातिः’ इति, साकं सत्रा समं सह।' इति, क्षारको जालकं क्लीबे कलिका कोरकः पुमान्।’ इति चामरः। प्रत्याश्वस्तां सुस्थिताम्। शिशिरानिलसंपर्कात्पुनरुज्जीवितामित्यर्थंः। श्वसेः कर्तरि क्तः। आदितश्च' इति चकारादिट्प्रतिषेधः। एतेनास्याः कुसुमसौकुमार्यं गम्यते। त्वत्सनाथे। त्वत्सहिते। सनाथं प्रबुमित्याहुः सहिते चित्ततापिनि’। इति शब्दार्णंवे। गवाक्षे स्तिमितनयनां कोऽसाविति विस्मयान्निश्चलनेत्रां मानिनीं मनस्विनम्। जनानौचित्यासहिष्णुमित्यर्थः। विद्युद् गर्भः अन्तःस्थो यस्य स विद्युद्गर्भः। अन्तर्लीनविद्युत्क इत्यर्थः। गर्भोऽपवरकेऽन्तस्ते गर्भोऽग्नौ कुक्षिणोऽर्भके।' इति शब्दार्णवे। दृष्टिप्रतिधातेन वक्तुर्मुखावलोकनप्रतिबन्धकत्वान्न विद्युता द्योतितव्यमिति भावः। धीरः धैर्यविशिष्टश्च सन्। अन्यथाशीलत्वादिनैतदनास्वासनप्रसङ्गादिति भावः। स्तनितवचनैः स्तनितान्येव वचनानि तैः वक्तुं प्रक्रमेथाः उपक्रमस्व। विध्यर्थें लिङ्। प्रोपाभ्यां समर्थाभ्याम्’ इत्यात्मनेपदम् ॥

संप्रति दूतस्य श्रोतृजनाभिमुखीकरणचातुरीमुपदिशति–
भर्तुर्मित्रं प्रियमविधवे विद्धि मामाम्बुवाहं
तत्संदेशैर्हदयनिहितैरागतं त्वत्समीपम्।
यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ 39 ॥
भर्तुरिति॥ विधवा गतभर्तृका न भवतीत्यविधवा सभर्तृका हे अवि वे। अनेन भर्तृजीवनसूचनादनिष्टाशङ्कां वारयति। मा भर्तुः तव पत्युः प्रियं मित्रं प्रियसुहृदम्। तत्रापि हृदयनिहितैः मनसि स्थापितैः मनसि स्थापितै- तत्संदेशैः तस्य भर्तुः संदेशैः त्वत्समीपम् आगतम् भर्तुः संदेशकथनार्थमागतामित्यर्थः। अम्बुवाहं मेघं विद्धि जानीहि। न केवलमहं वार्ताहरः किं तु घटकोऽपीत्याशयेनाहः। यः अम्बुवाहो मेघः मन्द्रस्निग्धैः स्निग्धगम्भीरैः ध्वनिभिः गर्जितैः करणैः। [अबलावेणिमोक्षोत्सुकानि] अबलानां स्त्रीणां वेणयस्तासां मोक्षे मोचन उत्सुकानि पथि श्राम्यतां श्रान्तिमापन्नानां प्रोषितानां प्रवासिनाम्। पान्थानामित्यर्थः। वृन्दानि संघान् त्वरयति। पान्तोपकारिणो मे किम् वक्तव्यं सुहृदुपकारित्वमिति भावः ॥

भर्तृसख्यादिज्ञापनस्य फलमाह—
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव।
श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां
कान्तोदन्तः सुहृदुपनतः संगमात्किचिदूनः ॥ 40 ॥
इतीति॥ इति एवम् आख्याते सति पवनतनयं हनूमन्दं मैथिली इव सीतेव सा मत्प्रिया। ुन्मखी [उत्कण्ठोच्छ्वसितहृदया] उत्कण्ठयौत्सुक्येनोच्छ्वसितहृदया विकसितचित्ता सती त्वां वीक्ष्य संभाव्य सत्कृत्य च। अत्मात् भर्तृमैत्रीज्ञापनात् परं सर्वं श्रोतव्यम्। अवहिता। अप्रमत्ता सती श्रोष्यति एव। अत्र सीताहनूमदुपाख्यानादस्याः पातिव्रत्यं मेघस्य दूतगुणसंपत्तिश्च व्यज्यते। तद्‌गुणास्तु रसाकरे—ब्रह्मचारी बली धीरो मायावी मानवर्जितः। धीमानुदारो निःशङ्को वक्त दूतः स्त्रियां भवेत्॥' इति। ननु वार्तामात्रश्रवणादस्याः को लाभ इत्याशङ्क्यार्थान्तरमुपन्यस्यति--हे सौम्य साधो। सीमन्तिनीनां वधूनाम्। नारी सीमन्तिनी वधूः’ इत्यमरः. [सुहृदुपनतः] सुहृदा सुहृन्मुखनोपनतः प्राप्तः सन्। सुहृत्पदं विप्रलम्भशङ्कानिवारणार्थम्। कान्तस्योदन्तो वार्ता कान्तोदन्तः। `वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्’ इत्यमरः। संगमात् कान्तसंपर्कात् किंचिदूनः ईषदूनस्तद्वदेवानन्दकारीत्यर्थः॥

संप्रति संदिशति—
तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं
बूया एवं तव सहचरो रामगिर्याश्रमस्थः।
अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः
पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ 41 ॥
तामिति॥ हे आयुष्मन्। प्रशंसायां मतुप्। परोपकारश्लाध्यजीवितेत्यर्थः। मम [वचनात्]वचनं प्रार्थनावचनं तस्मात् च आत्मनः स्वस्य उपकर्तुं च। परोपकारेणात्मानं कृतार्थयितुमित्यर्थः। उपकारक्रियां प्रति कर्मत्वेऽपि तस्योपकरोतीत्यादिवत्सबन्धमात्रा विवक्षायामात्मन इति षष्ठी न विरुध्यते। यथाऽऽह भारविः–सा लक्ष्मीरुपकुरुते यया परेषाम्' इति। तथा श्रीहर्षश्च--साधूनामुपकर्तुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम्।’ इति। तथा च क्वचित्कवचिद्द्वितीयादर्शनात्सर्वस्य तथा’ इति नाथवचनमनाथवचनमेव। तां प्रियाम् एवं ब्रूयाः। किमित्याह–हे अबले तव सहचरः भर्ता रामगिरश्चित्रकूटस्याश्रमेषु तिष्ठतीति–रामगिर्याश्रमस्थः सन्। अव्यापन्नः न मृत इत्यर्थः. अमरणे हेतुमाह—वियुक्तः वियोगं प्राप्तो दुःखी सन् त्वां कुशलं पृच्छति। दुह्यादित्वात्पृच्छतेर्द्विकर्मकत्वम्। तथा हि सुलभविपदाम् अयन्नसिद्धविपत्तीनां प्राणिनां एतदेव कुशलमेव पूर्वाभाष्यम् प्रथममवश्यं प्रष्टव्यम्। `कृत्याश्च’ इत्यावश्यकार्थे ण्यत्प्रत्ययः॥

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं
सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन।
उष्णोच्छ्वासं समधिततरोच्छ्वासिना दूरवर्ती
संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ 42 ॥
अङ्गेनेति॥ किं च। दूरवर्तीं दूरस्थः। न चागन्तुं शक्यत इत्याह। वैरिण विरोधिना विधिना दैवेन रुद्धमार्गः प्रतिबद्धवर्त्मा स ते सहचरः तनुना कृशेन गाढतप्तेन अत्यन्तसंतप्तेन सास्रेण साश्रुणा। उत्कण्ठा वेदनास्य जातोत्कण्ठितं तेन उत्कण्ठितेन।’ तदस्य संजातम्–’ इत्यादिनेतच्प्रत्ययः उत्कण्ठतेर्वा कर्तरि क्तः। [समधिकतरोच्छ्वासिना] समधिकतरमधिकमुच्छ्वसितीति समधिकतरोच्छ्वासि तेन। दीर्घनिःश्वासिनेत्यर्थः। ताच्छील्ये णिनिः। अङ्गेन स्वशरीरेण प्रतनु कृसं तप्तं वियोगदुःखेन संतप्तं अश्रुद्रुतम् अश्रुक्लिन्नम्। अश्रु नेत्राम्बु रोदनं चास्रमस्रु च।' इत्यमरः। अविरतोत्कण्ठम् अविच्छिन्नवेदनम् उष्णोच्छ्वासं तीव्रनिःश्वासम्। तिग्मं तीव्रं खरं तीक्ष्णं चण्डमुष्णं समं स्मृतम्।’ इति हलायुधः। अङ्गं त्वदीयं शरीरं तैः स्वसंवेद्यैः संकल्पैः मनोरथैः विशति। एकीभवतीत्यर्थः अत्र समरागित्वद्योतनाय नायकेन नायिकायाः समानावस्थत्वमुक्तम्॥

संप्रति स्वावस्थानिवेदनाय प्रस्तौति—
सब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता-
त्कर्णे लोकः कथयितुमभूदाननस्पर्शलोभात्।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यचामदृष्ट-
स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ 43 ॥
शब्दाख्येयमिति॥ हे अबले यः ते प्रियः सखीनां पुरस्तात् अग्रे [आननस्पर्शलोभात्] आननस्पर्शे त्वन्मुखसंपर्के लोभाद्गर्ध्न्यात्। अधरपानलोभादित्यर्थः। शब्दाख्येयं शब्देन रवेणाख्येयमुच्चैर्वाच्यम् अपि यत् तत्। वचनमपीति शेषः। कर्णे कथयितुं लोलः लालसः अभूत् किल। लोलुपो लोलुभो लोलो लालसो लम्पटोऽपि' च । इति यादवः। श्रवणविषयं कर्णंपथम् अतिक्रान्तः। तथा लोचनाभ्याम् अदृष्टः। अतिदूरत्वाद्द्रष्टुं श्रोतुं च न शक्य इति भावः। स ते प्रियः। त्वाम् [उत्कण्ठाविरचितपदं] उत्कण्ठया विरचितानि पदानि सुप्तिङ्न्तशब्दा वाक्यानि वा यस्य तत्तथोक्तम्। पदं शब्दे च वाक्ये च’ इति विश्वः। इदं वक्ष्यमाणं `स्यामास्वङ्गम्’ इत्यादिकं मन्मुखेन आह। मन्मुखेन स एव ब्रूत इत्यर्थः॥

सादृश्यप्रतिकृतिस्वप्नदर्शनतदङ्गस्पृष्टस्पर्शाख्यानि चत्वारि विरहिणां विनोदस्थानानि। तथा चोक्तं गुणपताकायाम्–`वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि। तदङ्गस्पृष्टानामुपनतवतां दर्शनमपि प्रतीकारोऽनङ्गव्यथितमनसां कोऽपि गदितः॥’ इति। तत्र सदृशवस्तुदर्शनमाह–

श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं
वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान्।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्
हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥ 44 ॥
श्यामास्विति॥ श्यामासु प्रियङ्गुलतासु। श्यामा तु महिलाह्वया। लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली।’ इत्यमरः। अङ्गं शरीरम् उत्पश्यामि। सौकुमार्यादिसाम्याङ्गमिति तर्कयामीत्यर्थः। तथा [चकितहरिणीप्रेक्षणे] चकितहरिणीनां प्रेक्षणे ते दृष्टिपातं। शशिनि चन्द्रे वक्त्रच्छायं मुखकान्तिं तथा शिखिनां बर्हिणां बर्हभारेषु बर्हसमूहेषु केशान् प्रतनुषु स्वल्पासु [नदीवीचिषु] नदीनां वीचिषु। अत्र वीचीनां विशेषणोपादाने नानुक्तगुणग्रहो दोषः। भ्रूसाम्यनिर्वांहाय महत्त्वदोषनिराकरणार्थत्वात्तस्येति। तदुक्तं रसरत्नाकरे–ध्यन्युत्पादे गुणोत्कर्षे भोगोक्तौ दोषवारणे। विशेषणादि दोषस्य नास्त्यनुक्तगुणाग्रहः' इति भ्रूविलासान्। भ्रूपताकाः’ इति पाठे भ्रुवः पताका इवेत्युपमितसमासः। उत्पश्यमीति। सर्वत्र संवध्यते। तथाऽपि नास्ति मनोनिर्वृतिरित्याशयेनाह-हन्तेति। हन्त विषादे। हन्तहर्षेऽनुकम्पायां वाक्यारम्भविषादयोः' इत्यमरः। हे चण्डि कोपने। चण्डस्त्वत्यन्तकोपनः। इत्यमरः। गौरादित्वात् ङीष्। उपमानकथनमात्रेण न कोपितव्यमिति भावः। क्वचिदपि कस्मिन् अपि एकस्मिन् वस्तुनि ते तव सादृश्यं न अस्ति। अतो न निर्वृणोमीत्यर्थः। अनेनास्याः सौन्दर्यमनुपममिति व्यज्येते ।

संप्रति प्रतिकृतिदर्शनमाह—
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया–
मान्मानं ते चरणपतितं यावदिच्छामि कर्तुम्।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
कूरस्तस्मिन्नापि न सहते संगमं नौ कृतान्तः ॥ 45 ॥
त्वामिति॥ हे प्रिये [प्रणयकुपिताम्] प्रणयेन प्रेमातिशयेन कुपितां कुपितावस्थायुक्ता त्वाम्। त्वत्प्रतिकृतिमित्यर्थः धातवो गैरिकादयः। धातुर्भवादिशब्दादिगैरिकादिष्वजादिषु।' इति यादवः। ते एव रागा रञ्जकद्रव्याणि। चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः। सारङ्गादौ च रागाः स्यादारुण्ये रञ्जते पुमान्॥’ इति शब्दार्णवे। तैः धातुरागैः शिलायां शिलापट्टे आलिख्य निर्माय। आत्मानं माम। मत्प्रतिकृतिमित्यर्थः। ते तव। चित्रगताया इत्यर्थः। चरणपतितं कर्तुं तथा लेखितुं यावद् इच्छामि तावत् इच्छासमकालं मुहुः उपचितैः प्रवृद्धैः अस्रैः अश्रुभिः कर्तृभिः। अस्रमश्रुणि शोणिते' इति विश्वः मे दृष्टिः आलुप्यते। आव्रियत इत्यर्थः। ततो दृष्टिप्रतिबन्धनाल्लेखनं प्रतिबध्यत इति भावः। किं बहुना। कूरुः घातुकः। नृशंसो घातुकः क्रूरः।’ इत्यमरः। कृतान्तः दैवम्। कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु।' इत्यमरः। तस्मिन् अपि चित्रेऽपि। नौ आवयोः। युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ’ नावादेशः। संगमं सहवासं न सहते। संगमलेखनमप्यावयोरसहमानं दैवमावयोः संगं न सहत इति किमु वक्तव्यमित्यपिशब्दार्थः॥

45-46 श्लोकयोर्मध्ये क्षेपको।़यं दृश्यते–
`धारासिक्तस्थलसुरभिणस्त्वन्मुखस्यास्य बाले
दूरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति।
धर्मान्तेऽस्मिन्विगणय कथं वासराणि व्रजेयु-
र्दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि ॥'

अधुना स्वप्नदर्शनमाह—
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-
र्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु।
पश्यन्तीनां न खलु बहुशो न श्थलीदेवतानां
मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ 46 ॥
मापिति॥ सुम्तस्य विज्ञानं स्वप्नः स्वप्नः सुप्तस्य विज्ञानम्' इति विश्वः। संदर्शनं संवित्। दर्शनं समये शास्त्रे दृष्टौ स्वप्नेऽक्षिण संविदि।’ इति शब्दार्णवे। [स्वप्नसंदर्शनेषु] स्वप्नसंदर्शनानि स्वप्नज्ञानानि। चूतवृक्षादिवत्सामान्यविशेषभावेन सहप्रयोगः। तेषु मया मथमपि महता प्रयत्नेन लब्धायाः गृहीतायाः। दृष्टाया इति यावत्। ते तव [निर्दयाश्लेषहेतोः] निर्दयाश्लेषो गाढालिङ्गनं स एव हेतुस्तस्य। निर्दयाश्लेषार्थमित्यर्थः। षष्ठी हेतुप्रयोगे' इति षष्ठी। [आकाशप्रणिहितभुज] आकाशे निर्विषये प्रणिहितभुजं प्रसारितबाहुं मां पश्यन्तीनां स्यलीदेवतानां [मुवतास्थूलाः] मुक्ता मौक्तिकानीव स्थूलाः अश्रुलेशाः बाष्पविन्दवः तरुकिसलयेषु अनेन चेलाञ्चलेनाश्रुधारणसमाधिर्ध्वन्यते [खलु] बहुसो न पतन्ति इति न किं तु पतन्त्येवेत्यर्थः। निश्चये नञ्द्वयप्रयोगः। तथा चाधिकारसुत्रम्--स्मृतिनिश्चयसिद्धार्थेषु नञ्द्वयप्रयोगः सिद्धः’इति। महात्मगुरुदेवानामश्रुपातः क्षितौ यदि। देशभ्रंशो महद् दुःखं मरणं च भवेद् द्रुवम्॥ इति क्षितौ देवताश्रुपातनिषेधदर्शनाद्यक्ष्स्य मरणाभावसूचनार्थं तरुकिसलयेषु पतन्तीत्युक्तम् ॥

इदानीं तदङ्गस्पृष्टवस्तुदर्शनमाह–
भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः।
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः
पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ 47 ॥
भित्त्वेति॥ देवदारुद्रुमाणां किसलयपुटान् पल्लवपुटान् सद्यः भित्त्वा तत्क्षीरस्रुतिसुरभयः तेषां देवदारुद्रुमाणां क्षीरस्रुतिभिः क्षीरनिष्यन्दैः सुरभयः सुगन्धयः। तुषाराद्रिजातत्वे लिङ्गमिदम्। ये वाताः दक्षिणेन दक्षिणमार्गेण। तृतीयाविधाने प्रकृत्यादिभ्यं उपसंख्यानात्तृतीया समेन यातीतिवत्। तत्रापि करणत्वस्य प्रतीयमानत्वात्कर्तुकरणयोरेव तृतीया' इति भाष्यकारः। प्रवृत्ताः चलिताः। हे गुणवति सौशील्यसौकुमार्यादिगुणसंपन्ने ते तुषखाराद्विवाताः पूर्वं प्राक् एभिः वातैः तव अङ्कम् स्पृष्टं भवेद् यदि किल इति संभावितमेतदिति बुद्ध्येत्यर्थः। वार्तासंभाव्ययोः किल’ इत्यमरः। मया आलिङ्ग्यन्ते आश्लिष्यन्ते। अत्र वायूनां स्पृश्यत्वेऽप्यमूर्तत्वेनालिङ्गनायोगादालिङ्ग्यन्त इत्यभिधानं यक्षस्योन्मत्तत्वात्प्रलपितमित्यदोष इति वदन्निरुक्तकारः स्वयमेवोन्मत्तप्रलापीत्युपेक्षणीयः॥

संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा
सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात्।
इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे
गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ 48 ॥
संक्षिप्येतेति॥ दीर्घाः यामाः प्रहरा यस्यां सा दीर्घयामा। विरहवेदनया तथा प्रतीयमानेत्यर्थः। त्रियामा रात्रिः आद्यन्तयारधयामर्यादिनव्यवहारास्त्रियामा' इति क्षीरस्वामी। क्षण इव कथं केन प्रकारेण संक्षिप्येन लघूक्रियेत। अहः अपि सर्वावस्थास्। सर्वकालेष्वित्यर्थः। मन्दमदो मन्दप्रकारः। प्रकारे गुणवचनस्य’ इति द्वि क्तिः। `कर्मधारयवदुत्तरेषु’ इति कर्मधारयवद्भावात्सुपो लुक्। मन्दमन्दातपम् अत्यल्पसंतापं कथं स्यात्। न स्यादेव। हे चटुलनयने चञ्चलाक्षि इत्थम् अनेन प्रकारेण दुर्लंभप्रार्थनम् अप्राप्यमनोरथं मे मम चेतः गाढोष्माभिः अतितीव्राभिः त्वद्वियोमव्यथाभिः अशरणम् अनाथं कृतम् ॥

न च मदीयदुर्धसाश्रवणाद्भेतव्यमित्याह—
नत्वात्मानं बहु विगणयन्नात्मनैवावलम्बे
तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम्।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ 49 ॥
नन्विति॥ न तु इत्येकं वाक्यम्। तु शब्दो भेदकः किं तु न बेतव्यमित्यर्थः। अथ वा तत्विति पाठः। ननु इति आमन्त्रणे। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु' इत्यमरः। ननु प्रिये बहु विगणयन् शापान्ते सत्येवमेवं करिष्यामीत्यावर्तयन् आत्मानम् आत्मनैव स्वेनैव। प्रकृत्यादिभ्य उपसंख्यानम्’ इति तृतीया। अवलम्बे धारयामि। यथाकथंचिज्जीवामीत्यर्थः। तत् तस्मात्कारणात् हे कल्याणि सुभगे। त्वत्सौभाग्येनैव जीवलामीति भावः। बह्वादिभ्यश्च इति ङीष्। त्वमपि नितराम् अत्यन्तं कातरत्वं भीरुत्वं मा गमः मा गच्छ। गमेर्माङि लुङ् न माङ्ग्योगे’ इत्यमाभावः तादृक्सुखिनोरावयोरीदृशि दुःखे कथं न बिभेमीत्याशङ्‌कयाह–कस्येति कस्य जनस्य अत्यन्तं नियतं सुखं उपनतं प्राप्तम् एकान्ततः नियमेन दुःखं वा उपनंतम्। किं तु दशा अवस्था [चक्रनेमिक्रमेण] चक्रस्य रथाङ्गस्य नेमिस्तदन्तः। चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्' इत्यमरः। तस्याः क्रमेण परिपाट्या। क्रमः शक्तौ परीपाट्यामम्’ इति विश्वः। नीचैः अधः उपरि च गच्छति प्रवर्तते। एवं जन्तोः। सुखदुःखे पर्यावर्ते इत्यर्थः ॥

न ट निरवधिकमेतद् दुःखमित्याह—
सापान्तो मे बुजगशयनादुत्थिते शार्ङ्गपाणौ
शेषान्मासान्गमय चतुरो लोचने मीलयित्वा
पश्चादावां विरहगुणितं तं तमात्माभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ 50 ॥
शापान्त इति॥ शाङ्गं पाणौ यस्य स तस्मिन् शार्ङ्गपाणौ विष्णौ। सप्तमीविशेषणे-' इत्यादिना बहुव्रीहिः। प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः’ इति वक्तव्यात्पाणिशब्दस्योत्तरनिपातः। [भुजगशयनात्] भुजगः शेष एव शयनं नस्मात् उत्थिते सति मे शापान्तः शापावसानम्। भविष्यतीति शेषः। शेषान् अवशिष्टान् चतुरः मासान्। मेघदर्शनप्रभृति हरिबोधनदिनान्तमित्यर्थः। दशदिवसाधिक्यं त्वत्र न विवक्षितमित्युक्तमेव। लोचने मीलयित्वा निमील्य गमय। घैर्येणातिवाहयेत्यर्थः। पश्चात् अनन्तरं त्वं चाहं च आवाम्। त्यदादीनि सर्वैर्नित्यम्' इत्येकशेषः। त्यदादीनां मिथो द्वन्द्वे यत्परं तच्छिष्यते’ इत्यस्मदः शेषः। [विरहगुणितं] विरहे गुणितमेवमेवं करिष्यामिती मनस्यावर्तितं तं तम्। वीप्सायां द्विरुक्तिः। [आत्माभिलाषं] आत्मनोरावयोरभिलाषं मनोरथम् [परिणतशरच्चन्द्रिकासु] परिणताः शरच्चन्द्रिकाः यासां तासु क्षपासु रात्रिषु निर्वेक्ष्यावः भोक्ष्यावहे। विशतेर्लृट्। निर्वेशो भृतिभोगयो' इत्यमरः। अत्र कैश्चित् नबोनभस्ययोरेव वार्षिकत्वात्कथमाषाढादिचतुष्टयस्य वार्षिकत्वमिति चोदयित्वर्तुंत्रयपक्षाश्रयणादविरोधः’ इति पर्यहारि। तत्सर्वमसंगतम्। अत्र गतशेषाश्चत्वारो मासा इत्युक्तं कविना न तु ते वार्षिका इति। तस्मादनुक्तोपालम्भ एव। यच्च नाथेनोक्तम् `कथमाषाढादिचतुष्टयात्परं शरत्कालः’ इति तत्राप्याकार्तिकसमाप्तेः शरत्कालानुवृत्तेः परिणतशरच्चन्द्रिकास्वित्युक्तम्। न तु तदैव शरत्पादुर्भाव उक्त इत्यविरोध एव ॥

संप्रति तस्या मेघवञ्चकत्वाशङ्कानिरासायातिगूढमभिधेयमुपदिशति—
भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किमपि रुदती सस्वरं विप्रबुद्धा।
सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे
दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ 51 ॥
भूय इति॥ हे अबले भूयः च पुनरपि आह। त्वद्भर्ता मन्मुखेनेति शेषः। मेघवचनमेतत्। किमित्यत् आ पुरा पूर्वम्। पुराशब्दश्चिरातीते। `स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा’ इत्यमरः। शयने मे कण्ठलग्ना अपि त्वम्। गले बद्धस्य कथमपि गमनं न संभवेदिति भावः। निद्रां गत्वा किमपि केन वा निमित्तेनेत्यर्थः सस्वरं सशब्दम्। उच्चैरित्यर्थः रुदती सती विप्रबुद्धा। आसिरिति शेषः। असकृत् बहुशः पृच्छतः। रोदनहेतुमिति शेषः मे मम हे कितव त्वं कामपि रमयन् मया स्वप्ने दृष्टः इति त्वया सान्तर्हासं समन्दहासं यथा तथा कथितं च इति। त्वद्भर्ता भूयश्चाहेति योजना ॥

एतस्मान्मां कुशलिनमबिज्ञानदानाद्विदित्वा
मा कौलीनादसितनयने मय्यविश्वासिनी भूः।
स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगा-
दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ 52 ॥
एतस्मादिति॥ एतस्मात् पूर्वोक्तात्। (अभिज्ञानदानात्) अभिज्ञायतेऽनेनेत्यभिज्ञानं लक्षणं तस्य दानात्प्रापणात् मां कुशलिनं क्षेमवन्तं विदित्वा ज्ञात्वा। हे असितनयने कुले जनसमूहे भवात् कौलीनात् लोकप्रवादात्। एतावता कालेन परासुर्नो चेदागच्छतीति जनप्रवादादित्यर्थः।स्यात्कोलीनं लोकवादे युद्धे पश्वहिपक्षिणाम्।' इत्यमरः। मयि विषये अविश्वासिनी मरणशङ्किनी मा भूः न भव। भवतेर्लृङ्। न माङ्योगे’ इत्यङ्गामप्रतिषेधः। न च दीर्घकालविप्रकर्षात्पूर्वंस्नेहनिवृत्तिराशङ्क्येत्याह-स्नेहानिति। किमपि किंचिन्निमित्तम्। न विद्यत इति शेषः। स्नेहान् प्रीतीः विरहे सत्यन्योन्यविप्रकर्षे सति ध्वंसिनः विनस्वरान् आहुः। तत्तथा न भवतीत्यभिप्रायः। (तु) किं तु ते स्नेहाः अभोगात् विरहे बोगाभावाद्धेतोः प्रसज्यत्रतिषेदेऽपि नञ्समास इष्यते। इष्टे वस्तुनि विषये। उपचितोरसः स्वादो येषु ते उपचितरसाः सन्तः। प्रवृद्धतृष्णा इत्यर्थः। रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः' इति विश्वः। प्रेमराशीभवन्ति। वियोगासहिष्णुत्वमापद्यन्त इत्यर्थः। स्नेहप्रेम्णोरवस्थाभेदाद्बेदः। तदुक्तम्--आलोकनाभिलाषौ रागस्नेहौ ततः प्रेमा। रतिश्रृङ्गारौ योगे वियोगता विप्रलम्भश्च॥’ इति। तदेव स्फुटीकृतं रसाकरे–`प्रेक्षा दिदृक्षा रम्येषु तच्चिन्ता त्वभिलाषकः रागस्तत्सङ्गबुद्धिः स्यात्स्नेहस्तत्प्रवणक्रिया॥ तद्वियोगासहं प्रेम रतिस्तत्सहवर्तनम्। श्रृङ्गारस्तत्समं क्रीडा संयोगः सप्तधा क्रमात् ॥ इति ॥

इत्थं स्वकुशलं संदिश्य तत्कुशलसंदेशानयनमिदानीं याचते—
आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते
शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ 53 ॥
अश्विस्येति॥ (प्रथमविरहोदग्रशोकां) प्रथमविरहेणोदग्रशोकां तीव्रदुःखां ते सखीम् एवं पूर्वोक्तरीत्या आश्वास्य उपजीव्य [त्रिनयनवृषोत्खातकृटात्] त्रिनयनस्य त्र्यम्बकस्य वृषेण वृषभेणोत्खाता अवदारिताः कटाः शिखराणि यस्य तस्मात्। `कूटोऽस्त्री शिखरं श्रृङ्गम्’ इत्यमरः। शैलात् कैलासान् आशुनिवृत्तः सन्प्रत्यावृत्तः सन् (साभिज्ञानप्रहितकुशलैः) साभिज्ञानं सलक्षणं यथा तथा प्रहितं प्रेपितं कुशलं येषु तैः (तद्वचोभिः) तस्यास्त्वत्सरुया वचोभिः। मम अपि प्रातः(कुन्दप्रसवशिथिलं) कुन्दप्रसवमिव शिथिलं जीवितं धारयेथाः स्थापय। प्रार्थनायां लिङ् ॥

संप्रति मेघस्य प्रार्थनङ्गीकारं प्रश्नपूर्वकं कल्पयति–
कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि।
निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ 54 ॥
कच्छिदिति॥ हे सौंम्य साधो इदं मे बन्धुकृत्यं बन्धुकार्यं। देवदत्तस्य गुरुकुलमितिवत्प्रयोगः। [त्वया] व्यवसितं कच्चित् करिष्यामीति निश्चितं किम्। कच्चित्कामप्रवेदने' इत्यमरः। अभिप्रायज्ञापनं कामप्रवेदनम्। न च ते तूष्णीभावादनङ्गीकारं शङ्गे यतस्ये स एवोचित इत्याह-प्रत्यादेशात् करिष्यामि’ इति प्रविवचनात्। उक्तिराभाषणं वाक्यमादेशो वचनं वचः इति' शब्दार्णवे। भवतः तव धीरतां गम्भीरत्वं न कल्पयामि न समर्थये खलु। तर्हि कथमङ्गीकारज्ञानं तत्राह याचितः सन् निःशब्दोऽपि निर्गर्जिनोऽपि। अप्रतिजानानोऽपीत्यर्थः। चातकेभ्यः जलं प्रदिशसि ददासि। युक्तं चैतदित्याह-हि यस्मात् सातं सत्पुरुषाणां प्रणयिषु याचकेषु विषये इप्सितार्थक्रियैव अपेक्षितार्थसंपादनमेव प्रत्युक्तं प्रतिवचनम्। क्रिया केवलमुत्तरमित्यर्थः। गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः। नीचो वदति न कुरुते न वदति सुजनः करोत्येव॥’ इति भावः॥

संप्रति स्वापराधसामाधानपूर्वकं स्वकार्यस्यावश्यंकरणं प्रार्थयमानो मेघं विसृजति–

एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे
सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या।
इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्री-
र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ 55 ॥
एतदिति॥ हे जलद सौहार्दात् सुहृद्भावात्। हृद्भगसिन्ध्वन्ते पूर्वपदस्य च।' इत्युभयपदवृद्धिः। विधुरः वियुक्तः इति हेतोः वा। विधुरं तु प्रविश्लेषे’ इत्यमरः। मयि विषये अनुक्रोशबुद्ध्या करुणाबुद्ध्या वा। [अनुचितप्रार्थनावर्तिनः] अनुचिता तवाननुरूपा या प्रार्थना प्रियां प्रति संदेशं मे हर' इत्येवंरूपा तत्र वर्तिनो निर्बन्धपरस्य मे मम एतत संदेशहरणारूपं प्रियं कृत्वा संपाद्य। प्रावृषा वर्षाभिः। स्त्रिया प्रावृट् स्त्रियां भूम्न वर्षाः’ इत्मरः। संभृतश्रीः उपचितसोभाः सन् इष्टान् स्वभिलषितान् देशान् विचर। यथेष्टदेशेषु विहरेत्यर्थः। देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्।' इति वचनात्कर्मत्वम्। एवं मद्वत् क्षयमपि च स्वल्पकालमपि ते तव विद्युता। कलत्रेणएति शेषः। विप्रयोगः विरहः मा भूत् माऽस्तु। माङीत्याशिषि लुङ्। अन्ते काव्यस्य नित्यत्वात्कुर्यादाशिषमुत्तमाम। सर्वत्र प्राप्यते विद्वान्नायकेच्छानुरूपिणीम्॥’ इति सारस्वतालंकारे दर्शनात्काव्यान्ते नायकेच्छानुरूपोऽयमाशीर्वादः प्रयुक्त इत्यनुसंधेयम् ॥


  1. प्रियमनुचितं प्रार्थनादात्मनः, प्रियसमुचितं प्रार्थनादात्मनः, प्रियसमुचितं प्रर्थनं चेतसः, प्रियमनुचितं प्रार्थनावर्त्मंनः, प्रियसमुचितं प्रार्थितं चेतसः.
  2. क्वचिदपि न।
  3. सखे.

44 श्लोकस्यान्त इमे प्रक्षिप्ता दृश्यन्ते—
``इत्याख्यांते सुरपतिसखः शैलकुल्यापुरीषु
स्थित्वा स्थित्वा धनपतिपुरीं वासरैः कैश्चिदाप।
मत्वाऽगारं कनकरुचिरं लक्षणैः पूर्वंमूक्तै-
स्तस्योत्सङ्गं क्षितितलगतां तां च दीनां ददर्श॥
तस्मादद्रेर्निगदितमथो (पथा) शीघ्रमेत्यालकायां
यक्षागारं विगलितनिभं दृष्टचिह्नैर्विदित्वा।
यत्संदिष्टं प्रणयमधूरं गुह्यकेन प्रयत्ना-
त्तद्गेरहिन्या सकलमवदत्कामरूपी पयोदः॥
तं संदेशं जलधरवरो दिव्यवाचाऽऽचचक्षे
प्राणांस्तस्या जनहितरतो रक्षितुं यक्षवध्वाः।
प्राप्योदन्तं प्रमुदितमनाः साऽपि तस्यौ स्वभर्तुः
केषां न स्यादभिमतफला प्रार्थनाः ह्युत्तमेषु (भ्युन्नतेषु)॥
श्रुत्वा वार्तां जलदकथितां तां घनेशोऽपि सद्यः
शापस्यान्तं सदयहृदयः संविधायास्तकोपः।
संयोज्यैनो वियलितशुचौ दंपती हृष्टचितौ
भोगानिष्टानविर (निम) तसुखं भोजयामास शश्वत्॥
इत्थंभूतं सुरचितपदं मेघदूताभिधानं
कामक्रीडाविरहतजने विप्रयोगे विनोदः।
मेघस्यास्मिन्नतिनिपुणताबुद्धिभावः कवीनां
नत्वाऽऽर्यायाश्चरणकमलं कालिदासश्चकार॥

इति श्रीमहोपाध्यायमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्याया समेते महाकविश्रीकालिदासविरचिते मेघदूतकाव्य उत्तरमेघः समाप्तः ॥