04 उत्तरमेघः

मेघसन्देशः - दक्षिणावर्तनाथः - १९१९ कालिदासः

पूर्वमेघः

मेघसन्देशः - दक्षिणावर्तनाथः - १९१९
उत्तरमेघः
कालिदासः

मुखे लम्बमानशरीरस्त्वं तस्य मुखावगुण्ठनप्रीतिं जनयेरित्यर्थः । कल्पद्रुमकिसलयानि कल्पद्रुमकिसलयभूतानि । नानाचेष्टैः, नानाविधा चेष्टा येषाम् । ललितैर्लीलायुतैः । निर्बिशेः अनुभव । इदमत्रानुसन्धेयं – कश्चित् सखा स्वप्रियसखस्य गृहं गत्वा तदीयानि वापी वाहनारामादीनि स्वैरं निर्विशतीर्यर्थो ध्वन्यते इति ॥ ६२॥

तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां

न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन!।
या वः काले वहति सलिलोद्गारमुच्चैर्विमानै-

र्मुक्ताजालग्रथितमलकं कामिनीवाभ्रबृन्दम्॥६३॥

तस्येति । उत्सङ्गे उपरितले अङ्के च । प्रणयिनो भर्त्तुः । प्रणयिन उत्सङ्गे कामिनीमिति वक्तव्ये कामिनीशब्दानुपादानमुत्तरार्धे वक्ष्यमाणत्वात् । स्रस्तगङ्गादुकूलां, ‘दुकूलं शुक्लवस्रेऽपी’ति यादवः । इदमुभयत्र योज्यम् । न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यस इति, पूर्वमेवालकाज्ञानं मेधस्यास्तीति सूचयितुं नञ्दूयं प्रयुक्तम् । कामचारिन्!, अनेन सर्वचारित्वं कामुकत्वं च विवक्षितम् । वः काल इति । वः त्वादृशानां मेघानां काले वर्षाकाल इत्यर्थः । सलिलोद्गारं, सलिलमुद्गिरतीति सलिलोद्गारः । ‘कर्मण्यण्’ (३.२.१) इत्यण्प्रत्ययः । उच्चैरुत्तुङ्गैर्विमानैः । सप्तभूमिकं भवनं विमानम् ।

“विमानोऽस्त्री देवयाने सप्तभूमे च सद्मनि”

इति यादवः । मुक्ताजालग्रथितं मौक्तिकगुणाबद्धम् । अत्रेदमनुसन्धेयं – प्रोषिता उदात्ताः पुरुषाः^([१]) वर्षाकाले समागत्य विगतमाना भूत्वा स्त्रीणां कपोललम्बानलकान् मुक्ताजालैरुद्गृह्य बध्नन्तीत्यर्थो विवक्षितः । उत्तरार्धेनाप्यलकाया ज्ञानोपाय उक्तः ॥ ६३॥

पूर्वसन्देशः समाप्तः ।

अतः परं च सप्तसु श्लोकेषु ययाकयाचन विघया मेघसम्बन्धमुक्त्वा अलकां वर्णयति –

विद्युन्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः

सङ्गीतार्थप्रहतमुरवाः स्निग्धगम्भीरघोषम् ।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः

प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः॥१॥

विद्युत्वन्तमिति । सचित्रा आलेख्यसहिताः । सङ्गीतार्थप्रहतमुखा इति पाठः । नृत्तवाद्यगीतानां त्रयं सङ्गीतम् । अर्थशब्दो हेतुवचनः । सङ्गीतार्थाः प्रहता मुरवा येषाम् । स्निग्धपर्जन्यघोषं, पर्जन्योऽभ्रध्वनितम् ।

“पर्जन्यो गर्जदभ्रेऽभ्रध्वाने शक्रेऽस्त्रयन्त्रके”^([२])

इति यादवः । स्तिग्धगर्जितघोषमित्यर्थः । अत्र मेघगर्जितवाचिनः पर्जन्यशब्दस्य प्रयोगेणैव सिद्धेऽप्यर्थे घोषशब्दप्रयोगः ‘केकारवैर्बर्हिण’ इत्यत्र केकारववत् सोढव्यः । अभ्रंलिहाग्राः, ‘वहाभ्रे लिहः’ (३.२.३२) इति खश् । तुलयितुं तुलां कर्तुम् । तुलाशब्दः सदृशवाचकोऽप्यस्ति । त्वां सदृशीकर्तुमित्यर्थः । ननु ‘तुल उन्मान’ इत्ययं धातुश्चौरादिकः तुलेति कथं व्युत्पन्नः णिचोऽनित्यत्वात् तुलेत्यपि भवति । अलं पर्याप्तम् ^([३]) । तैस्तैर्विशेषैः तै लितवनितादिभिर्विशेषैः । पूर्वोक्तानां विशेषाणां समासवृत्तितिरोहितत्वात् स्पष्टार्थं तैस्तैर्बिशेषैरित्युक्तम् । अत्र मेघसंबन्धः स्पष्टः ॥१॥

हस्ते लीलाकमलमलके बालकुन्दानुवेधो

नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः ।
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥

हस्त इति । अनेन श्लोकेन शरद्धेमन्तशिशिरवसन्तग्रीष्मप्रावृषां षष्णामृतूनां लिङ्गभूतैरसाधारणैः पुष्पैरलकायां युगपदेव प्रवृत्तिरुक्ता । तद्यथा – हस्ते लीलाकमलमित्यत्र शरल्लिङ्गेन कमलेन शरत्कालस्य सन्निधिरुक्ता । अलकं वालकुन्दानुविद्धमित्यपपाठः । अलकशब्दस्य पुल्लिङ्गत्वात् । ‘अलकाश्चूर्णकुन्तला’ इत्यमरः । अलके बालकुन्दानुवेध इति पाठः । अस्मिन् पाठे रीतिभङ्गश्च न भवति । कुन्देन हेमन्तसंनिधिरुक्तः । ननु

“निषिञ्चन् माघवीवृत्तिं कुन्दशेषं च वर्धयन्”

इत्यत्र वसन्तात् प्राचीनस्य शिशिरस्य लिङ्गं कुन्दमिति प्रतीयते । कथं हेमन्तस्य लिङ्गमित्युक्तम् । उच्यते । हेमन्तशिशिरयोर्द्वयोरपि लिङ्गं कुन्दम् । हेमन्ते प्रादुर्भवति शिशिरे प्रौढीभवतीति विशेषः । अत एव बालकुन्दानुवेध इति बालशब्दः प्रयुक्तः । नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीरिति सप्तम्यन्तः पाठः । आनने कान्तिलोध्रप्रसवरजसा पाण्डुतां नीतेत्यर्थः । लोध्रपुष्पं हि शिशिरस्य लिङ्गम् । तथा माघकाव्ये शिशिरवर्णने – “अभिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः” (स० ६. श्लो० ६४) इत्यादि । चूडापाशे नबकूरवकं, चूडापाआशे शिखाकलापे । ‘शिखा चूडा केशपाश’ इत्यमरः ।^([४]) नवकुरवकं हि वसन्तलिङ्गम् । उक्तं च ‘अग्रे स्त्रीनखपाटलं कुरवकम्’ इति । चारु कर्णे शिरीषं, शिरीषं हि ग्रीष्मस्य लिङ्गम् । उक्तं च –

“स्वेदानुविद्धार्द्रनखक्षताङ्के सन्दष्टभूयिष्ठशिखं कपोले । च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात” ॥

इति । त्वदुपगमजमित्यनेन नीपस्य वर्षालिङ्गत्वं प्रतीयते । वधूनां स्त्रीणाम् । ’वधूर्जाया स्नुषा चे’त्यमरः । त्वदुपगमजं यत्र नीपमिति मेघसंबन्ध उक्तः ॥२॥

यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि

ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः ।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं

त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥३॥

यस्यामिति । सितमणिः स्फटिकमणिः । स्फटिकमणीनां प्रसादवत्तया रात्रिषु प्रतिबिम्बातिशयः सम्भवतीत्पनुसन्धेयम् । आसेवन्ते आदृत्य सेवन्ते । त्वद्गम्भीरध्वनिषु अनेन मेघम्बन्ध उक्तः । पुष्करेषु वाद्यभाण्डमुखेषु ।

“द्विरदकराग्रे पद्मे खड्गफले व्योम्नि वाद्यभाडासुखे । अगदे जले च तीर्थे पुष्करमष्टासु निर्दिष्टम्” ॥

इति भट्टहलायुघः । आहतेषु वाद्यमानेषु ॥३॥

^([५])[मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि-

र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः॥]
नीवीबन्धोच्छ्वासितशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
विद्युद्दीप्रानभिमुखमपि प्राप्य रत्नप्रदीपान्

ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः॥४॥

नीवीति । बिम्बाधराणां बिम्बफलमिवाधरो यासां ता विम्बाधरा इति स्त्रीणां नामधेयम् । अनिभृतकरेषु व्याप्रियमाणकरेषु । आक्षिपत्सु अहितस्तु । विद्युद्दीप्रानिति पाठः । त्वदीयविद्युत्तुल्यानित्यर्थः । अनेन मेघसम्बन्ध उक्तः । अभिमुखमपि प्राप्य ओभिमुख्येन^([६]) प्राप्यापीत्यर्थः^([७]) । हीमूढानां लज्जाविमनस्कानाम् । चूर्णमुष्टिः मुखवासकर्पूरादिचूर्णसुष्टिः ॥४॥

नेत्रा नीताः सततगतिना यद्विमानाग्रभूमी-

रालेख्यानां सलिलकणिकादोषमुत्पाद्य सद्यः ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालजालै-

र्धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति॥५॥

नेत्रेत्ति । नायकेन प्रापकेणेत्यर्थः । सततगतिना वायुना । सलिलकणिकादोषं सलिलकणिकास्पर्शदूषणम् । जलस्पर्शेन चित्राणि विनश्यन्तीत्यभिप्रायः । शङ्कास्पृष्टाः आलेख्यविनाशं दृष्ट्वा कोऽप्यस्मान् ग्रहीष्यतीति शङ्कमाना इत्यर्थः । यन्त्रजालैः सुखबन्धादिरुपजालकैः । धूमोद्गारानुकृतिनिपुणाः धूमनिर्गमानुकारेषु^([८]) सम्यक् समर्थाः । ‘साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः (२.३.४३) इति समासः । जर्जराः, निर्गमद्वारानुरूपं कृतवेषवैषम्यत्वाज्जर्जराः । निष्पतन्ति निर्यान्ति । अनेन मेघसम्बन्धः स्पष्टः ॥५॥

यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गिताना-

मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे

व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः॥

यत्रेति । प्रियतमभुजोच्छवासितालिङ्गितानां, बलात्कारात् सञ्जातोच्छवासत्वादुछवासितं, प्रियतमभुजदृढालिङ्गितानामित्यर्थः । तन्तुजालावलम्बाः । हिमजलपातनिवारणार्थमुपरि बद्धे विताने प्रलम्बमानानि मुक्तादामस्थानीयानि तन्तुजालानि अवलम्बमानास्तन्तुजालावलम्बाः । यद्वा तन्तुमयं जालमानायः तन्तुजालम् । प्रासादानामुप- रितलेषु भेकादीनामवतरणनिषेधाय जालं वितन्वन्तीति प्रसिद्धम् । अत्र चन्द्रकान्तमणिबद्धरचनतन्तुजालं विवक्षितम् । त्वत्संरोधापगमविशदैः, अनेन मेघसंबन्ध उक्तः । व्यालुम्पन्ति अपहरन्ति ^([९]) । चन्द्रपादैः स्फुटजललवस्यन्दिन इत्यन्वयः । चन्द्रकान्ताश्चन्द्रकान्तमणयः ॥ ६॥

[अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै-

रुद्गायद्भिर्धनपतियशः किन्नरैर्यत्र सार्धम् ।
वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति॥

^([१०])गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै-
र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम्॥]
मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं
प्रायश्चापं न वहति भयात् त्वामपि प्रेक्ष्य कामः ।
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघै-

स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः॥७॥

मत्वा देवं धनपतिसखमिति । अनेन वैश्रवणसख्यात् कैलासे नित्यं शिवो वसतीत्युक्तम् । प्रायः, उत्प्रेक्षायामिदमव्ययम् ।

“मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥”

इत्यलङ्कारे । भयात् त्वामपि प्रेक्ष्य काम इति पाठः । विरहिणां प्रोत्साहकारिणं भवन्तं प्रेक्ष्यापीत्यर्थः । मयि तं देशं प्रविष्टे मदनव्यापारः कथं भविष्यतीत्याशङ्क्याह- सभ्रूभङ्गप्रहितनयनैरिति । तस्यारम्भः तस्य प्रवृत्तिः । सिद्धः सिद्धो भविष्यतीत्यर्थः । त्वामपि प्रेक्ष्येत्यनेन मेघसंबन्ध उक्तः । मन्मथः षट्पदज्यमिति पाठे पूर्वश्लोकेष्विव मेघसांबन्धो न स्यात् ॥७॥

^([११])[वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं

पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान्
लाक्षारागं चरणकमलन्यासयोग्यं च यस्या-
मेकः सूते सकलमबलामण्डनं कल्पवृक्षः॥]
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
दूराल्लक्ष्यं त्वदमरधनुश्चारुणा तोरणेन ।
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे

हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः॥ ८ ॥

तत्रेति । तस्यामलकायाम् । इतः परं पञ्चसु श्लोकेषु ययाकयाचन विधया मेघसंबन्धमुक्त्वा स्वगृहस्य लक्षणमाह । वक्ष्यति च ‘एभिः साघो! हृदयनिहितैर्लक्षणैर्लक्षयेथाः’ इति । घनपतिगृहानुत्तरेणेति पाठः । घनपतिगृहान् वैश्रवणगृहान् । ‘गृहाः पुंसि च भूम्न्येव’ इत्यमरः । उत्तरेणोत्तरतः समीपे । ‘एनबन्यतरस्यामदूरेऽपञ्चम्याः’ (५.३.३५) इत्येनपप्रत्ययः । ‘एनपा द्वितीया’ (२.३.३१) इति द्वितीया । कृतकतनयः कृत्रिमपुत्रकः । बालमन्दारवृक्षः बालकल्पवृक्षः । त्वदमरघनुश्चारुणा तोरणेनेति मेघसंबन्ध उक्तः ॥ ८ ॥

वापी चास्मिन् मरतकशिलाबद्धसोपानमार्गा

हैमै स्फीता कमलमुकुलैर्दीर्घवैदूर्यनालैः ।

यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं

नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥

वापीति । अस्मिन् अगारे । स्फीता पुष्टा । यस्यास्तोये इति, यस्यां कृतवसतय इति वक्तव्ये तोयग्रहणं वर्षाकालेऽपि तोयस्य प्रसादातिशयसूचकम् । आध्यास्यन्तीति पाठः । आध्यानमुत्कण्ठा । ‘आध्यानमुत्कण्ठोत्कलिके समे’ इत्यमरः । त्वामपि प्रेक्ष्येत्यनेन मेघसंबन्ध उक्तः ॥९॥

तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।
मद्गेहिन्याः प्रिय इति सखे! चेतसा कातरेण

प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि॥ १० ॥

तस्या इति । पेशलैः चारुभिः । ‘चारौ दक्षे च पेशलः’ इत्यमरः । मद्गेहिन्याः प्रिय इति,शतिशब्दो हेतौ । तमेव क्रीडाशैलमेव । उपान्तस्फुरिततडितं त्वां प्रेक्ष्य कातरेण चेतसा तमेव स्मरामि इत्यन्वयः । अत्र मेघसंबन्धः स्पष्टः ॥१०॥

रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः

प्रत्यासन्नौ कुरुवकवृतेर्माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी

काङ्क्षत्यन्यो वदनमदिरां दोहदच्छ्द्मनास्याः॥

रक्तेति केसरो वकुलः । कुरवकवृतेः कुरवक एव वृतिरावरणं यस्य । माघवीमण्डपस्य, माधवी अतिमुक्तः, माधवीवेष्टितमण्डपस्येत्यर्थः । तव सख्या इति मेघसंबन्ध उक्तः । सह मया वामपादाभिलाषीति वाक्यच्छेदः । दोहलच्छद्मना, दोहलं नाम फुसुमाद्युत्पादकं संस्कारद्रव्यम् | तथा सप्तशत्यां-

^([१२])" दोहळिअमप्पणो किं ण मग्गसे मग्गसे कुरवअस्स ।
एअं तुह सुहग! हसइ वळिआणणपङ्कअं जाआ" ॥

अयमभिप्रायः – अहं कृतयाच्ञाञ्जलिस्तव सख्या वामपादाभिताडनं दोहलव्याजेन यथाभिलषामि, तथायं चलकिसलयो रक्ताशाकः तस्या वामपादाभिताडनं दोहलव्याजेनाभिलषतीति (न?) तथा कान्तः केसरद्रुमोऽपि दोहलच्छद्मना तस्या वदनमदिरां काङ्क्षतीति च ॥११॥

तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-

र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।
तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे

यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥

तन्मध्ये गृहमध्ये । स्फटिकफलका स्फटिकमयी निवासफलका यस्याः । स्फटिकफलकोपादानं मयूरस्य शीतप्रियत्वापेक्षया कृतम् । अनतिप्रौढवंशप्रकाशैः तरुणवेणुकादण्डसमानवर्णैः । शिञ्जावलयसुभगौरिति ।^([१३]) शिञ्जा शिञ्जितं, शिञ्जावन्ति वलयानि शिञ्जावलयानि । शाखावृक्षवत् समासः । शिञ्जद्वलयसुभगैरिति पाठे, ‘शिञ्जि अव्यक्ते शब्दे’ इत्ययं धातुरात्मनेपदी । तस्मात् परस्मैपदं न भवति । नीलकण्ठः सुहृद् वः इति मेघसंबन्ध उक्तः ॥१२॥

एभिः साधो! हृदयनिहितैर्लक्षणैर्लक्षयेथा

द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्॥

एभिरिति । साधो! विद्वन्! लक्षणैः चिह्नैः । लक्ष्येथाः पश्येरित्यर्थः । शङ्खपद्मौ शङ्खपद्माख्यौ निधिविशेषौ ।

“निधिर्ना शेवधिर्भेदाः शङ्खपद्मादयो निधेः”

इत्यमरः । लक्षयतेः कर्मादर्शनाल्लक्षयेस्तदिति केचित् पठन्ति । तस्मिन् पाठे तदिति पूर्वोक्तमगारं परामृश्यते । इदानीमात्मीयं तद्भवनं संस्मृत्य विषण्ण आह –क्षामच्छायमिति, क्षामकान्ति । अभिख्यां शोभाम् ॥१३॥

गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः

क्रीडाशैले प्रथमकथिते रत्नसानौ निषण्णः ।
अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं

खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम्॥१४॥

गत्वेति । श्रीघ्रसंपातहेतोः । प्रथमकथिते ‘तस्यास्तीरे विहितशिखर’ इति पूर्वोक्ते । रत्नसानौ, इदं विशेषणं सौदामनीदर्शनेऽपि रत्नप्रभेति तस्या बुद्धिजननाय कृतम् । विद्युदुन्मेषदृष्टिम् । विद्युदुन्मेषो विद्युत्स्फुरणं तदेव दृष्टिरिति विद्युदुन्मेषदृष्टिः ॥

इदानीं स्वप्रेयस्या लक्षणान्याह –

तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी

मध्येक्षामा चकितहरिणीप्रेक्षिणी निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद् युवतीविषये सृष्टिराद्यैव धातुः ॥

तन्वीति । श्यामा श्यामवर्णा, हरितवर्णेत्यर्थः । अस्यार्थस्यानुकूलमेव वक्ष्यति – ‘श्यामास्वङ्गमि’ति । यद्वा-

“श्यामा यौवनमध्यस्था प्रौढा निष्क्रान्तयौवना”

इत्युत्पलमालायाम् । अस्यार्थस्यानुकूलं द्योतकं युवतिविषय इति पदम् । शिखरिदशनेति पाठः । शिखरीणि कोटिमन्ति दशनानि यस्याः सा शिखरिदशना । तथा सामुद्रे –

" स्निग्धाः समानरूपाः सुपङ्क्तयः शिखरिणः श्लिष्टाः । दन्ता भवन्ति यासामासां पादे जगत् सर्वम् ॥"

इति ।

“पक्वडाडिमबीजाभं माणिक्यं शिखरं विदुः ।

" ।

मध्येक्षामा, ‘अमूर्धमस्तकात् –’ (६.३.१२) इत्यलुक् । क्षामा क्षीणा ^([१४])। चकितहरिणीप्रेक्षिणीति पाठः । ‘कर्तर्युपमाने’ (३.२.७९) इति णिनिः । तत्र तस्मिन् भवने । स्याद्, आख्यातप्रतिरूपमव्ययमिदं यद्यर्थे वर्तते । तथा श्रीरामायणे प्रयोगश्च – “पठन् द्विजो वागृषभत्वमीयात् स्यात् क्षत्रियो भूमिपतित्वमीयात्” इति । युवतिविषये युवतिपक्षे, युवतिगोचर इत्यर्थः । आद्या प्रथमा । धातुः प्रथमाया युवतिसृष्टेरादरेण^([१५]) निर्मितत्वात् तद्रामणीयकमस्तीति भावः । एवंरुपा तस्मिन् भवने यद्यस्ति^([१६]), तां जानीया इत्युत्तरत्र सम्बन्धः ॥१५॥

तां जानीयाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बाला

जाता मन्ये शिशिरमथिता पद्मिनीवान्यरूपा ॥

तामिति । परिमितकथां स्वभावतः स्वल्पभाषिणीम् दूरीभूते दूरस्थे । सहचरे चक्रवाकीमिवैकामिति वाक्यच्छेदः । सहचरे चक्रवाके दूरीभूत इत्यर्थः । अस्यार्थस्य मूलं “सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना” । इति श्रीरामायणवचनम् । एकामसहायाम् । पूर्वोक्तानां लक्षणानामन्यथाभावमाशङ्क्याह – गाढोत्कण्ठेति । शिशिरमथिता हिमसंपर्कविशीर्णा । अन्यरूपा नष्टशोभा । अस्यार्थस्य मूलं ‘हिमहतनलिनीव नष्टशोभा’ इति वचनम् । अनेन श्रीरामायणवचनार्थानुसारेण कवेः पूर्वोक्तो राङ्कथाभिलाषः स्पष्टः ॥१६॥

सर्वेषामङ्गानां प्रघानभूतस्य मुखस्यान्यरूपत्वमाह -

नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया

निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-

दिन्दोर्दैन्यं त्वदुपगमनक्लिष्टकान्तेर्बिभर्ति॥१७॥

नूनमिति । नूनं वितर्के । प्रबलरुदितोच्छूननेत्रं भूयिष्ठरोदनोच्छ्वसितनेत्रम् । उच्छूनं, ‘टुओश्वि गतिवृद्धयोः’ इति धातोर्निष्ठानत्वे ‘वचिस्वपि –’ (६.१.१५) इत्यादिना संप्रसारणे कृते रूपमिदम् । असकलव्यक्ति अस्पष्टसकलप्रदेशम् । त्वदुपगमनक्लिष्टकान्तेरिति मेघसम्बन्धः । मेघसंवृतत्वमलकलम्बनस्थानीयम् ॥१७॥ तां ज्ञातुं लक्षणान्तराण्याह –

आलोके ते निपतति पुरा सा बलिव्याकुला वा

मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां

कच्चिद भर्तुः स्मरसि गिरिके! त्वं हि तस्य प्रियेति॥

आलोक इति । आलोके दर्शने । ‘आलोको दर्शनोदद्योतावि’-त्यमरः । पुरा, भविष्यत्कालद्योतकमव्ययमिदम् । पुरा निपततीति निपतिष्यतीत्यर्थः । त्वां दृष्ट्वा सा भृशं मद्विरहाद् भूमौ निपतिष्यतीति यावत् । अस्मिन्नर्थे लिङ्गं- ‘तामुन्निद्रामवनिशयनाम्’ इति वक्ष्यमाणवचनम् । अथवा त्वद्दर्शनात् पुरा वक्ष्यमाणान् कुर्वती सा तवालोके भूमौ निपततीत्यर्थः । बलिव्याकुला, अत्र प्रियतमागमनार्थं देवताभ्यो बलिप्रदानं विवक्षितम् । तथा सप्तशत्यां – ^([१७])“णेच्छइ पासासङ्की काओ दिण्णं पि पहिअवहुआए । ओअन्तकरअळोज्झिअवळअअमज्झट्ठिअं पिण्डं” ॥ इति । मत्सादृश्यं मत्प्रतिकृतिं मद्विषयमालेख्यम् । ‘आलेख्येऽपि च सादृश्यम्’ इत्यजयः । उक्तं ‘सादृश्यप्रतिकृतिदर्शनैः प्रियाया’ इति । विरहतनु विरहेण तनुसंस्थानम् । इदं विशेषणं सादृश्यशब्दस्यालेख्यवाचित्वे घटते । भावगम्यं, विरहात् प्राक् तादृशस्य संप्रत्येवमन्यथाभावः संभवतीत्युत्प्रेक्षागम्यमित्यर्थः । शारिकां, शारिकेति व्यक्तवाक् कापि चटकविशेषस्त्री । ‘वाचाला मुखरा शारी’ इति यादवः । पञ्जरस्थां, विलालादिभयेन पञ्जरस्थामित्यर्थः । भर्तुः स्मरसीति ‘अधीगर्थदयेशां कर्मणि’ (२.३.५२) इति कर्मणि षष्ठी । स्मरसि उत्कण्ठस इत्यर्थः । गिरिके!, मार्जारादिसन्निघानात् पञ्जराभ्यन्तरं प्रविश्य बालमूषिकेव बिभेतीति बालमूषिकानामान्तरेण शारिकाया उपालम्भपूर्वं संबोधनम् । ‘गिरिका बालमूषिका’ इत्यमरः ॥ १८॥

उत्सङ्गे वा मलिनवसने सौम्य! निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथञ्चिद्

भूयो भूयः स्वयमधिकृतां मूर्च्छनां विस्मरन्ती॥

उत्सङ्ग इति । मद्गोत्राङ्कं मन्नामधेयचिह्नम् । सारयित्वा करेण परामृश्य । स्वयमधिकृताम् आत्मप्रस्तुताम् । कथञ्चित् स्वयमधिकृता मित्यन्वयः । मूर्छनां सप्तस्वारक्रमस्थापनाम् ।

“क्रमयुक्ताः स्वराः सप्त मूर्छना परिकीर्तिता” ॥

इति^([१८]) भरते ॥१९॥

शेषान् मासान् विरहदिवसस्थापितस्यावधेर्वा

विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः ।
मत्संयोगं वा हृदयनिहितारम्भमास्वादयन्ती

प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः॥२०॥

शेषानिति । शेषान् गतशेषान् । अवधेः शापान्तावधेरित्यर्थः । देहलीमुक्तपुष्पैः, गृहद्वारयन्त्रस्य तिरश्चीनफलकं देहली । सा च बहिर्द्वारदेहली, तत्रैव तस्याः प्रियतमालोकनोत्सुकतयावस्थानात् ॥२०॥

सव्यापारमहनि न तथा पीडयेन्मद्वियोगः

शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे

तामुन्निद्रां विरहशयनां सद्मवातायनस्थः॥

सव्यापारामिति । सव्यापारां सविनोदाम् । रात्रौ निर्विनोदां तव सखीं यथा विप्रयोगः पीडयति, अहनि सव्यापारां न तथा पीडयेदित्यर्थः सद्मवातायनस्थ इति पाठः । भवनवातायनस्थ इत्यर्थः । निशीथे साध्वीमत एवोन्निद्रां तां मत्सन्देशैः सुखयितुमलं पश्येत्यर्थः ॥२१॥ कीदृशीं तां सुखयामीत्यपेक्षायामाह –

आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां

प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या

तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम्॥२२॥

आधिक्षामामिति । प्राचीमूले तनुमिवेति, प्राचीमूलग्रहणं दिने दिने क्षीयमाणत्वं सूचयितुं कृतम् । तनुं शरीरम् । कलामात्रशेषां, मात्रशब्दोऽवधारणे । क्षण इवेति पाठः । या यज्जातीया तामेव तज्जातीयामेव ॥२२॥

निश्श्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं

शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बम् ।
मत्संभोगः कथमुपनमेत् स्वप्नजोऽपीति निद्रा-

माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम्॥

निःश्वासेनेति । विक्षिपन्तीं चलयन्तीम् । शुद्धस्नानाद् गन्धामलकादिरहितस्नानात् । परुषमस्निग्धम् । आगण्डलम्बम् गण्डावधि लम्बमानामित्यर्थः । उपनमेत् उपगच्छेत् । नयनसलिलोत्पीडरुद्धावकाशां बाष्पौधनिरुद्धनिद्रावसराम् ॥ २३॥

आद्ये बद्धा विरहदिवसे या शिरोदाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्शक्लिष्टामयमितनखेनासकृत् सारयन्तीं

गण्डाभोगात् कठिनविषमामेकवेणीं करेण॥२४॥

आद्य इति । शिरोदाम हित्वेति पाठः । शिखादाम हित्वेति पाठे शिखाशब्दः शिरःशब्दपर्यायो न भवति । ’घृणिज्वाले अपि शिखे’ इत्यमरसिंहवचने, ‘शिखा ज्वालाकेकिमौल्योरि’ ति यादवप्रकाशवचनेऽपि शिखाशब्दस्य शिरःशब्दपर्यायत्वादर्शनात् । स्पर्शक्लिष्टां स्पर्शने सक्लेशाम् । परस्परव्यतिषक्तफकेशविश्लेषणार्थं हस्तस्पर्शे कृते केशमूलेषु सव्यथामित्यर्थः । अयमितनखेन अकृत्तोपान्तनखेन । सारयन्तीं परामृशन्तीम् । गण्डाभोगाद् गण्डस्थलात् । कठिनविषमां कठिनोच्चावचाम् । एकवेणीम्, एकबन्धनवती वेणी एकवेणी ॥२४॥

पादानिन्दोरमृतशिशिरान् जालमार्गप्रविष्टान्
पूर्वप्रीत्या गतमपि ततः संनिवृत्तं तथैव ।
चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्च्छादयन्तीं

साभ्रेऽह्नीव स्थलकमलिनीं नप्रबुद्धां नसुप्ताम्॥

पादानिति । पूर्वप्रीत्या पूर्वकालस्नेहेन । गतमपि इन्दोः पादान् प्राप्तमपि । ततः सन्निवृत्तं तथैवेति पाठः । तत इन्दुपादेभ्यः । सन्निवृत्तं स्वयमेव सन्निवृत्तम् खेदात् विरहव्यसनात् । पूर्वकालप्रीत्या चन्द्रकिरणान् गत्वा तेभ्यो विरहखेदाद् यथागतं निवत्तं चक्षुरित्यर्थः । पक्ष्मभिरक्षिरोमभिः । साभ्रेऽह्नि मेघच्छन्ने दिने । नप्रबुद्धां नसुप्तां स्थलकमलिनी सूर्यकिरणस्पृष्टा विकसति मेघच्छन्नैः किरणैरस्पृष्टा निमीलति च ॥२५॥

सा संन्यस्ताभरणमबला पेलवं धारयन्ती

शय्योत्सङ्गे निहितमसकृद् दुःखदुःखेन गात्रम् ।
त्वामप्यास्रं नवजलमयं मोचयिष्यत्यवश्यं

प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा॥२६॥

सेति । संन्यस्ताभरणं शरीरसादात् त्यक्ताभरणम् । पेलवं मृदु । त्वामप्यास्रं नवजलमयं मोचयिष्यत्यवश्यमिति, तथा दुःखितां दृष्ट्वा त्वमप्यवश्यं बाष्पं मोक्ष्यसीत्यर्थः । करुणावृत्तिः करुणामयचित्तवृत्तिर्यस्य । आर्द्रान्तरात्मा, मेघस्य जलार्द्रान्तरात्मत्वं विवक्षितम् ॥२६॥

सा त्वद्विरहे खिन्नां दशां प्राप्तुं किं कारणमित्याशङ्क्याह –

जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा-

दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभावः करोति

प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत्॥

जान इति । इत्यम्भूतां पूर्वोक्तदुःखावस्थाम् । भवान् सौभामग्येनैवमाहेत्याशङ्क्याह- वाचालं मामिति । सुभगंमन्यभावः । सुभगशब्दोपपदान्मन्यतेर्धातोः ‘आत्ममाने खश्च’ (३.२.८३) इति खश् । ‘अरुर्द्विषदजन्तस्य मुम्’ (६.३.६७) सुभगंमन्यः । तस्य भावः, सुभगंमन्यभावः । प्रत्यक्षं ते सकलमिति, मयोक्तमिदं सर्वं तवाचिरेण प्रत्यक्षं भविष्यतीत्यर्थः ॥२७॥

रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं

प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि वामं मृगाक्ष्या

मन्ये मीनोञ्चलकुवलयश्रीतुलामेष्यतीति॥२८॥

रुद्धापाङ्गप्रसरं रुद्धापाङ्गे प्रसरो यस्य । अपाङ्गो नेत्रान्तः । अञ्जनस्नेहशून्यम् अञ्जनेन स्नेहः स्निग्धत्वम् अञ्जनस्नेहः तेन शून्यम् । प्रत्या देशात् निराकरणात्, निषेधादित्यर्थः । ‘प्रत्यादेशो निराकृतिरि’त्यमरः । मधुनः मधुपानस्य निषेधाद् विस्मृतभ्रूविलासमित्यर्थः । ननु विलासिनीनां स्वभावत एव भ्रूविलासः सम्भवति । उक्तं च –

“तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरायतरेखयोर्या ।

तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥ " ॥

इति । कथमत्र मधुपानायत्तो भ्रूविलास इत्युक्तम् । सत्यम् । अत्र स्वभावसिद्धोऽपि भ्रूविलासः स्वोद्दीपनविभावस्य मधुपानस्याभावान्नाभिव्यज्यत इति कवेरभिप्रायः । अत एव विस्मृतभ्रूविलासमिति विस्मृतपदं प्रयुक्तम् ^([१९]) । त्वद्दर्शनेन तस्याः कुशलसूचकं वामाक्षिस्पन्दनरूपं निमित्तं भविष्यतीत्याह ^([२०])– त्वय्यासन्ने, भवति समीपप्राप्ते । उपरिस्पन्दि वामं मृगाक्ष्या मन्ये मीनोच्चलकुवलयश्रीतुलामेष्यतीतीति पाठः । स्त्रीणां वामाक्षिस्पन्दनमेतन्निमित्तमिति श्रीरामायणे दर्शितं –

“तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् ।

प्रास्पन्दतैकं नयनं मृगाक्ष्या मीनाहतं पद्ममिवाभिताम्रम्” ॥

इति ॥२८॥

त्वद्दर्शनात् तस्या वामोरुस्पन्दनमपि भविष्यतीत्याह –

वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै-

र्मुक्ताजालं चिरविरचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्तसंवाहनानां

यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम॥ २९ ॥

वाम इति । कररुहपदैः नखपदैः । मुक्ताजालं, स्त्रीणां मुक्तामयं दृटीभूषणं मुक्ताजालमित्युच्यते । हारयष्टिप्रभेदाधिकारे कौटिल्यः – ‘सुवर्णसूत्रान्तरं सोपानकं मणिमध्यं वा मणिसोपानकम् । तेन शिरोहस्त

पादकटीकलापजालकविकल्पा व्याख्याता’ इति । चिरविरचितं चिरकालेन विनिर्मितम् । इदमत्रानुसन्धेयम् – ऊरुमूले निहितानां नखक्षतानां निर्वापणाय स्त्रियः खलु प्रियतमैः सार्धं स्वयं विरचितानि मुक्ताजालकानि बिभ्रति । सा पुनरिदानीं नखक्षताभावाद् नखक्षतनिर्वापणं मुक्ताजालकं दैवगत्या न बिभर्तीति खेदवचनमिति । अस्मिन्नर्थे लिङ्गं तज्जातीयदन्तक्षतनिर्वापणवचनम् । यथा कुमारसंभवे –

“दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा ।

शीतलेन निरवापयत् क्षणं मौलिचन्द्रशकलेन शूलिनः ॥”।

इति । हस्तसंवाहनानां हस्ताभ्यां सुखमर्दनानाम् । ‘संवाहनं मर्दनं स्याद्’ इत्यमरः । सरसकदलीस्तम्भगौरम् आर्द्रकदलीस्तम्भपाण्डुरम् । ऊर्वोर्गौरत्वं च निवातवर्तित्वात् । चलत्वं स्फुरणम् ॥ २९॥

तस्मिन् काले जलद! यदि सा लब्धनिद्रासुखा स्या-

दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथञ्चित्

सद्यःकण्ठच्युतभुजलताग्रन्थि गाढोपगूढम्॥ ३० ॥

तस्मिन्निति । तस्मिन् निशीथे काले । ‘मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे’ इत्युक्तत्वात् । लब्धनिद्रासुखा स्यादिति, सा सततं विरहवेदनादनिद्रा भवति दैवाद् यदि सुप्ता स्यादित्यर्थः । अन्वास्य याममात्रं सहस्वेति । ननु विरहिणां याममात्रं स्वापो न भवति । उक्तं च –

“त्रिभागशेषासु निशासु च क्षणं

निमील्य नेत्रे सहसा व्यबुध्यत”

इति । सत्यमिदम् । न तत्स्वापापेक्षया याममात्रपदं प्रयुक्तं किन्तु संभोगापेक्षया । संभोगस्य परमावधिरेकवारो यामावसायिक^([२१]) इति कामतन्त्रविदो वदन्ति । तथा रतिविलासे –

“परमा तु रतिर्यूनामिष्टा यामावसायिकी”^([२२])

इति । सद्यःकण्ठच्युतभुजलताग्रन्धीति पदच्छेदः । गाढोपगूढं गाढालिङ्गनम् ॥३०॥

तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीरैः स्तनितवचनैर्मानिनीं प्रक्रमेथाः॥ ३१ ॥

तामिति । प्रत्याश्वस्तां प्रतियुद्धाम् । सममभिनवैर्जालकैर्मालतीनामिति, यथा जालकानि मेघजलकणिकाशीतलेनानिलेन रात्रौ समुच्छ्वसन्ति तथा प्रत्यागताश्वासां तामुत्थाप्येत्यर्थः । अनेन जातीकुसुमेभ्योऽप्यधिकं तस्याः सौकुमार्यमस्तीति सूचितम् । मालत्यः^([२३]) खलु वर्षासु पुष्प्यन्ति रात्रौ च विकसन्ति । अस्मिन्नर्थे लिङ्गं श्रीरामायणवचनं –

“निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः ।

विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः” ॥

इति । विद्युद्गर्भः अन्तःस्तम्भितविद्युत्कः । इदं विशेषणं तस्या मेघसन्दर्शनसुखार्थमुक्तम् । स्तिमितनयनां निश्चलनयनाम् त्वत्सनाथे त्वदधिष्ठिते त्वत्सहित इत्यर्थः । भर्तृसकाशादेव ^([२४])कोऽप्यागच्छेद् इत्युत्कण्ठया सर्वदा वातायनदत्तदृष्टिमित्यभिप्रायः । धीरैर्गम्भीरैः । स्तनितवचनैः गर्जितबचनैः । मानिनीमुन्नतचित्तां मनस्विनीमित्यर्थः । ‘मानश्चित्तसमुन्नतिरि’त्यमरः । अनेन विशेषणेन तस्याः पुरस्ताद् धीरमेव वक्तव्यं कातरवचने तु सा मिथ्येति जानातीत्युक्तम् ॥३१॥

भर्तुर्मित्रं प्रियमविधवे! विद्धि मामम्बुवाहं
तत्सन्देशान्मनसि निहितादागतं त्वत्समीपम्

यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि॥३२॥

भर्तुरिति । अविधवे!, अनेन तव भर्ता जीवतात्युक्तम् । अविधवापदं कविसमये भ्रष्टमिति न मन्तव्यं, तथा श्रीरामायणे प्रयोगात् –

“ये मामाहुः पितुर्गेहे पुत्रिण्यविघवेति च”

इति । तत्सन्देशात् तत्सन्देशवचनकरणात् । अस्यार्थस्य द्योतकं मनसि निहितादिति वाक्यम् । न केवलं मित्रमात्रमहं, किन्तु त्वत्समागमाय तस्य प्रेरकश्च भवामीत्यभिप्रायेणाह- यो वृन्दानि त्वरयतीति । पथि श्राम्यतां पथिकानामित्यर्थः । प्रोषितानां स्वभार्यादिकं विहाय कार्यवशाद् देशान्तरगामिनामित्यर्थः । मन्द्रस्निग्धैः गम्भीरसुखश्रवैः । इदं विशेषणम् उग्रगर्जितश्रवणे प्रोषितानां विनाशो मा भीदित्यभिप्रायेण प्रयुक्तम् ॥३२॥

इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव ।
श्रोष्यत्यस्मात् परमवहिता सौम्य! सीमन्तिनीनां

कान्तोदन्तः सुहृदुपनतः संगमात् किञ्चिदूनः॥३३॥

इतीति । पवनतनयं हनूमन्तम् । सम्भाव्य चैव सम्भावनां च कृत्वैवेत्यर्थः ^([२५])। अन्योऽयमिति न तूष्णीमास्ते, भर्तुर्मित्रमिति बुद्ध्वा सा निश्शङ्कमेव त्वां प्रेक्षिष्यते सम्भावयति चेत्यर्थं द्योतयितुमेवकारः प्रयुक्तः । अस्मात् परं भर्तुर्मित्रमित्येतस्माद् वचनात् परम् । अतः परभवधाने किं कारणमित्यपेक्षायामाह – सङ्गमात् ॥ ३३॥

तामायुष्मन् मम च वचनादात्मनश्चोपकर्तु-
र्ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः ॥ ३४ ॥

अव्यापन्नः कुशलमबले! पृच्छति त्वां वियुक्तः

पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव॥३४॥

तामिति । आयुष्मन्नित्यनेन त्वयि जीवति साहं च जीवा (ब)^([२६]) इत्युक्तम् । आत्मनश्चोपकर्तुरिति पाठः । उपकर्तुरुपकारिणः । मम वचनाच्चायुष्मन्! उपकारिणस्तव वचनाच्च तामेवं ब्रूया इत्यर्थः । मेघवचनप्रकारमाह – तव सहचरो रामगिर्याश्रमस्थ इति । आश्रमपदं तत्रापि तपस्विप्राय एव वर्तते इति द्योतयितुं प्रयुक्तम् । अत्रेदमनुसन्धेयं – तव सहचर इत्यादि मन्मुखेनेदमाह इत्यन्तं वाक्यजातं मेघस्य वचनम् । अतः परं श्यामास्वङ्गमित्यादिवचनं यक्षस्य चेति । पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेवेति, स्वयमव्यापन्नः सन् प्रियजनं प्रति कुशलप्रश्नं करोतीति यद् एतदेव सुलभविपदां प्राणिनां प्रथमप्रार्थनीयमित्यर्थः ॥३४॥

अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं
सास्रेणास्त्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती

सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥३५॥

अङ्गेनेति । अङ्गेन शरीरेण । कीदृशेन शरीरेण कीदृशमित्यपेक्षायामाह – तनु च तनुनेति । चकारः प्रतिविशेषणमाख्यातसम्बन्धं कर्तुं प्रयुक्तः । अङ्गस्य तनुत्वे निदानमाह –गाढतप्तेन तप्तमिति । तापस्य किमभिव्यञ्जकमित्यपेक्षायामाह – सास्रेणेति । आस्रद्रुतमिति पाठः । द्रुतास्रमित्यर्थः । आहिताम्न्यादिषु पाठात् साधुत्वम् । आस्रस्य किं निमित्तमित्यपेक्षायामाह – अविरतोत्कण्ठमुत्कण्ठितेन । आत्मधर्मा अप्युत्कण्ठादयः शरीरेऽपि प्रयुज्यन्ते । उक्तं च – त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैरिति । उत्कण्ठायाः किमभिव्यञ्जक- मित्यपेक्षायामाह- उष्णोच्छ्वासमिति । समधिकखरोच्छ्वासिनेति पाठः । खरमुष्णम् ।

“तिग्मं तीव्रं खरं तीक्ष्णं चण्डमुष्णं पटु स्मृतम्”

इति भट्टहलायुधः । उच्छ्वासशब्देन निःश्वासो विवक्षितः । सङ्कल्पैस्तैरिति । सङ्कल्पैर्मानसकर्मीभूतैस्तनुत्वतापादिविशिष्टैः शरीरावस्थान्तरैः । किमर्थमेवं करोतीत्याशङ्क्याह- विधिना वैरिणा रुद्धमार्ग इति ॥३५॥

शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्

कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट-

स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह॥ ३६ ॥

शब्देति । शब्दाख्येयं शब्दा एवाख्येयमभिधेयं यस्य तच्छब्दाख्येयं निरर्थकमित्यर्थः । सखीनां पुरस्तादिति वचनं जनाकीर्णत्वान्निर्व्याजाननस्पर्शदौर्लभ्यादुक्तम् । श्रवणविषयं श्रवणदेशम्, अन्योन्यवार्ताश्रवणदेशमित्यर्थः । उत्कण्ठाविरचितपदम् उत्कण्ठामधिकृत्य विरचितशब्दमित्यर्थः । इदं वक्ष्यमाणं वाक्यजातम् ॥३६॥ अतः परं चतुर्भिः श्लोकैर्विरहिणां कामतन्त्रोक्तानि विरहिणीसदृशावलोकनचित्रकर्मस्वप्नसमागमतदङ्गस्पृष्टस्पर्शनानि चत्वारि विनोदनान्युक्तानीत्यनुसन्धेयम् । यथा गुणपताकायां –

“वियोगे चायोगे प्रियजनसदृक्षानुगमनं^([२७])

ततश्चित्रालोकं स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपगतवतां स्पर्शनमिति

प्रतीकारः कामव्यथितमनसां कोऽपि गदितः” ॥

इति । तेषु प्रियासदृशावलोकनमाह –

श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं

वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूपताकां

हन्तैकस्थं क्वचिदपि न ते चण्डि! सादृश्यमस्ति॥

श्यामास्विति । श्यामासु प्रियङ्गुलतासु । उत्पश्यामि उत्प्रेक्षे । प्रतनुषु अतिशयेन तन्वीषु । भ्रूपताकां, पताका ध्वजं भ्रूरेव पताका भ्रूपताका । भ्रुबः पताकात्वेन रूपणं भावादिसूचकत्वात् । हन्त विषादे । एकस्थं एकत्र स्थितम् । चण्डि! अत्यन्तकोपने! । अनेनैकत्र सादृश्यं लब्धं चेद् भवति तदेवालं भवति किं मया कार्यमिति मह्यं मा कुप्य इति परिहासाभिप्रायेण प्रयुक्तम् । सदृशमेव सादृश्यं, पूर्वोदाहृतानां सदृशवाचित्वात् ॥३७॥

चित्रदर्शनमाह–

त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-

मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
आस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे

क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः॥३८॥

त्वामिति । धातुरागैः धात्वाख्याञ्जनद्रव्यैः । आत्मानं माम् । तस्मिन्नप्यालेख्येऽपि । नौ आवयोः । कृतान्तः दैवम् ॥३८॥

स्व्प्रसमागममाह-

मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-

र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां

मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति॥ ३९ ॥

मामिति । सम्भावनार्थं नञ्द्वयं प्रयुक्तम् । स्थलीदेवतानां, त रुकिसलयेष्विप्ति वक्ष्यमाणत्वाद् वनशब्दाप्रयोगः । तरुकिसलयेषु, इदं पतितानामश्रुलेशानां प्रकाशनाय प्रयुक्तम् । स्वप्नसन्दर्शने कथमपि लप्स्यमानायास्तव निर्दया श्लेषहेतोः स्वापात् प्रागेवाकाशप्रणिहितमुजं मां दृष्ट्वा करुणरसाविद्धहृदया वनस्थलीदेवता बाष्पं मुञ्चन्तीत्यर्थः । अन्ये तु पश्यन्तीनां तुहिनकणिकाच्छद्मना देवतानामिति पाठमादृत्य व्याचक्षते । इदं रसावहं न भवति । कामार्तस्य तत्त्वं विहाय व्याजबाष्पमोचनवर्णनस्यायुक्तत्वात् ^([२८]) ॥३९॥

तदङ्ग्स्पृष्टस्पर्शनमाह–

भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः
आलिङ्ग्यन्ते गुणवति ! मया ते तुषाराद्रिवाताः

पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति॥४०॥

भित्त्वेति । देबदारुद्रुमाणाम् । दारुशब्दे सति किमर्थं द्रुमशब्दः प्रयुक्त इति नाशङ्कनीयं, संज्ञापातित्वाद् दारुशब्दस्य । उक्तं च – ‘स देवदारुद्र्मवेदिकायाम्’ इति । दक्षिणेन, मार्गेणेति शेषः। ‘प्रकृत्यादिभ्य उपसंख्यानम्’ (वा० २.३.१८) इति तृतीया । अस्य विशेष्याप्रयोगः समेन धावति विषमेण धावतीतिवत् । प्रयुक्तं च ‘भूय एवोत्तरेण’ इति । गुणवति!, गुणः शरीरस्य हृद्यः स्पर्शगुणो विवक्षितः । गुणवति!, आलिङ्गनादिषु सुखस्पर्शवतीत्यर्थः । एतदेव विवृणोति- पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति । किलशब्दः सम्भावनायाम् । एभिः तुषाराद्रिवातैः । इतिशब्दो हेतौ । अस्यार्थस्य मूलं –

“वाहि वात! यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश”

इति श्रीरामायणवचनम् ॥४०॥

संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा

सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात्

इत्थं चेतश चटुलनयने दुर्लभप्रार्थनं मे
गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः॥ ४१॥

सङक्षिप्येतेति । प्रार्थनायां लिङ् । सर्वावस्थासु ग्रीष्ममध्यन्दिनावस्थासु । मन्दमन्दातपं ‘प्रकारे गुणवचनस्य’ (८.१.१२) इति द्विर्वचनम् । अहरपि मन्दातपमेव स्यादित्यर्थः । दुर्लभप्रार्थनं दुर्लभत्रियामासंक्षेपादिप्रार्थनम् । गाढोष्णाभिः, अनेन दिवसस्य मन्दातपस्य विघातो विवक्षितः । अशरणम् अरक्षकं त्वद्वियोगव्यथाभिः । अनेन त्रियामासंक्षेपप्रतिबन्धो विवक्षितः ॥४१॥

इदानीं स्वशोकावस्थाकर्णनेन सा दुःखिता भविष्यतीत्याशङ्क्य तामाश्वासयति –

न त्वात्मानं बहु विगणयन्नात्मना नावलम्बे

तत् कल्याणि! त्वमपि नितरां मा गमः कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा

नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥ ४२ ॥

नेति । तुशब्दोऽवधारणे । बहु विगणयन् बहु भद्रकं भविष्यतीति । आत्मना स्वयमेव । अबलम्बे धारयामि । बहु विगणयन्नात्मानं स्वदेहं स्वयमेव धारयामीत्यर्थः । अस्य मूलं –

“दुष्करं कुरुते रामो हीनो यदनया प्रभुः ।

धारयत्यात्मनो देहं न शोकेनावसीदति”॥

इति श्रीरामायणवचनम् । तत् तस्मात् । कल्याणि! कल्याणार्थिनि! त्वमपि कल्याणाशंसिनी भूत्वा कातरत्वं मा गच्छेरित्यर्थः । मद्विशिष्टस्यापि सर्वस्य जनस्य सुखदुःखे पर्यायेण भवत इत्याह – कस्येति । अत्यन्तम् अतिक्रान्तावसानं, नित्यमिति यावत् । एकान्तत एकान्तम् । प्रथमार्थे तसिल् ॥४२॥

कदा कल्याणमावयोर्भविष्यतीत्यपेक्षायामाह-

शापान्तो मे भुजगशयनाद उत्थिते शार्ङ्गपाणौ

शेषान मासान गमय चतुरो लोचने मीलयित्वा
पश्चाद आवां विरहगुणितं तं तम आत्माभिलाषं

निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥ ४३ ॥

शापान्त इति । भुजगशयनादुत्यिते शार्ङ्गषाणाविति, अनेन यस्मिन् शरत्काले परमपुरुषः प्रबुध्यते तस्मिन् काले मम शापान्त इत्युक्तम् । तथा कौर्मे पुराणे –

“क्षीराब्धौ शेषपर्यङ्क आषाढयां संविशेध्दरिः ।

निद्रां त्यजति कार्तिक्यां तयोः संपूजयेध्दरिम्” ॥

इति । मासानन्यान् गमय चतुर इति, आषाढमासादिकानाश्वयुजमा सान्तानित्यर्थः । ननु आषाढस्य प्रथमदिवस इत्युक्तम् । आषाढश्रावणौ प्रावृद् । ततः परं शरदिति प्रसिध्दम् । तस्मात् कथमाषाढात् प्रभृति मासचतुष्टयात् परः शरत्काल इत्युक्तम् । उच्यते । ऋतूनां कल्पना द्विधा । केचित् षडृतव इति वदन्ति । अपरे त्रय इति । अत्र तावद् ऋतुत्रयपक्षाश्रयेणोक्तम् । तथा श्रीरामायणे –

“चत्वारो वार्षिकाः प्रोक्ता गता वर्षशतोपमाः”

इति । लोचने मीलयित्वेति वचनं ;लोकोक्तिच्छाययोक्तम् । विरहगणितमिति पाठः । विरहकाले पश्चादेवमनुभविष्याव इति गणितं सङ्कल्पितम् । आत्माभिलाधं गण्यित्वा हृदये निहितमित्यर्थः । निर्वेक्ष्यावोऽनुभविष्यावः ॥४३॥

सर्वमिदं वञ्चकवचनमिव प्रतिभाति । मया ज्ञातपूर्व किमपिलक्षणं वदेत्याशङ्कयाह –

भूयश्चाह त्वम अपि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किम अपि रुदती सस्वरं विप्रबुद्धा

सान्तर्हासं कथितमसकृत् पृच्छ्तश्च त्वया मे

दृष्टः स्वप्ने कितव! रमयन् कामपि त्वं मयेति॥

भूय इति । भूयश्चाह इति पाठः । भूयश्चाह पुनरपि मन्मुखेनाहेत्यर्थः । मन्मुखेनेदमाह इत्युक्तत्वात्! त्वमसीति पाठः । सस्वरं सशब्दम् । कितव! धूर्त! अयमर्थः – निद्रासमये रुदित्वा सशब्दं प्रबुद्धासि । किमिति बहुशः पृच्छतो मे कितव! स्वप्ने त्वं कामपि रमयन् मया दृष्ट इति सान्तर्हासं पुरा त्वया कथितमिति ते प्रियतमो भूयश्च मन्मुखेनेदमभिज्ञानमाहेति ॥४४॥

एतस्मान्मां कुशलिनमभिज्ञानदानाद् विदित्वा

मा कौलीनादसितनयने! मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि विरहे ह्रासिनास्ते ह्यभोगा-

दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति॥४५॥

एतस्मादिति । अभिज्ञानदानाद् अभिज्ञानस्य वाचा प्रदानात् । कौलीनाल्लोकवादाद्, एतावता कालेन तव भर्ता परासुः स्यान्नोचेदागमिष्यतीति जनवादादित्यर्थः । असितनयने!, इदमप्यभिज्ञानम् । कौलीनान्मय्यविश्वासिनी मा भूः इत्यर्थः । एतावन्तं कालं विरहितयोरावयोः स्नेहा विगलन्तीत्याह – स्नेहानाहुः किमपि विरहे ह्रासिन इति । स्नेहान् विरहे हासिन इत्याहुः । तत् किमपि किञ्चिदतितुच्छमित्यर्थः । प्रत्युत स्नेहा विरहे वर्धन्ते इति स्वमतेनाह – ते ह्मभोगादिति । अभोगाद् भोगालाभात् । वस्तुनि प्रयोजनादिविषये । उपचितरसा उपचितश्रृङ्गारादिरसाः । ते स्नेहाः इष्टे वस्तुनि भोगालाभादेव उपचितरसाः प्रेमराशीभवन्तीत्यर्थः । ननु ‘प्रेमा ना प्रियता हार्दम्’ इत्यमरसिंहवचनात् प्रेमस्नेहयोरैक्यं प्रतीयते । कथं तयोर्भेदवचनमिति । उच्यते । स्नेहादन्यत् प्रेम । यथाहुरलङ्कारविदः –

“अवलोकनाभिलाषौ रागस्नेहौ ततः प्रेम ।

रतिश्रृङ्गारौ योगे वियोगगतो विप्रलम्भश्च” ॥

इति ॥४५॥

[आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते

शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः ।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः॥]
इदानीं मेघं स्तौति-
कच्चित् सौम्य! व्यवसितमिदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव॥४६॥

कच्चिदिति । इदं बन्धुकृत्यं त्वया व्यवसितं कच्चिदित्यन्वयः । अहं करिष्यामीति प्रत्युत्तरं न ब्रूषे । तथाप्यन्येषामिव प्रत्युत्तरप्रदानात् तव धैर्यं न कल्पयामीत्याह – प्रत्यादेशादिति । आदेशो वचनं, प्रत्यादेशः प्रतिवचनम् इत्युत्तरं विनापि भवतो धीरतां कल्पयामीत्यभिप्रायः । यद्यपि प्रत्यादेशशब्दः प्रत्याख्यानवचनः, तथाप्यत्र प्रतिवचनवाचको भवति प्रत्युक्तमिति वक्ष्यमाणत्वात् । उक्तमर्थमुपपादयति – निश्शब्दोऽपीति । अनेन निरुत्तरत्वं विवक्षितम् । प्रत्युक्तं प्रतिवचनम् । प्रणयिषु प्रार्थयमानेषु । सतामुत्तमानाम् । ईप्सितार्थक्रिया ईप्सितार्थसम्पादनम् । प्रणयिषु ईप्सितार्थादनतिर्वृत्तिरेव प्रतिवचनं भवतीत्यर्थः ॥४६॥

<poem>

एतत् कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे

सौहार्दाद् वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।

**इष्टान् देशान् विचर जलद! प्रावृषा संभृतश्री- **

र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः॥ ४७ ॥

एतदिति । अनुचितप्रार्थनावर्त्मनः भवतः प्राधान्यमनादृत्य मत्प्रियायै सन्देशं हरेत्येवमनुचितप्रार्थनाप्रकरस्य । सौहार्दाद् वा एतावन्तं कालमाभाषणादिजनितात् सुहृद्भावादित्यर्थः । उक्तं च – ‘सम्बन्धमाभाषणपूर्वमाहुः’ इति । विधुर इति वा । विधुरः प्रियाविश्लिष्टः । मयि विधुर इत्यनुग्रहबुद्ध्या वेत्यर्थः । विचर, विपूर्वश्चरतिः सकर्मको भवति । ‘अधिज्यधन्वा विचचार दावम्’ इत्युक्तत्वात् । प्रावृषा संभृतश्रीः वर्षाकालेन संभृतशोभः । अयमत्र समाधिः –कश्चित् पथिको देशान्तराणि गच्छन् कयापि दास्या संभृतार्थो भवतीति । एवं मम वियोगप्रकारेण । तव विद्युता विप्रयोगो मा भूदिति देशान्तरगमनात् पथिकायमानस्य भवतः क्षणमपि मम कान्तयेव विद्युता विप्रयोगो मा भूदित्यभिप्रायः ॥४७॥

इति श्रीदक्षिणावर्तनाथविरचितो

मेघसन्देशप्रदीपः समाप्तः ।


शुभं भूयात् ॥

  1. १. ‘षाः का’ क. पाठः.

  2. ‘न्त्रिते इ’

  3. २. ‘प्तैः’ क. पाठः.

  4. १. ‘रः । कु’ क. पाठः

  5. *अव्याख्यातत्वन्मेघसम्बद्धार्थाप्रतिपादकत्वाच्च श्लोकोऽयं नूनं प्रक्षिप्तः, मल्लिनाथेन तु व्याख्यातः ।

  6. १.‘अभिमुखमपि प्रा’ क. प्राठः

  7. २.‘प्येत्य’,

  8. ३.‘सा ख. पाठः’,

  9. १. ‘न्ति । स्फुटजललवस्यन्दिनः च’ क. पाठः

  10. * इमावपि श्लोकौ मन्दाकिन्या इतिश्लोकवत् ।

  11. * प्रक्षिप्तत्वधियायं श्लोको न व्याख्यातोऽन्यव्याख्यातोऽपि ।

  12. दोहदमात्मनः किं न मृगचसे मृगयसे कुरवकस्य |
    एवं तव सुभगा हसति वलिताननपङ्कजं जाया ॥

  13. १. ‘ति वामे शि’ क. पाठः.

  14. १. ‘कुक्षौ च’

  15. २. ‘तिविषये सृ’

  16. ३. ‘यास्ति चेत् तां’ क. पाठः

  17. *‘नेच्छति पाशाशङ्की काको दत्तमपि पथिकवध्वा ।
    अवनतकरतलोज्झितवलयमध्यस्थितं पिण्डम् ॥

  18. १. ‘ति निघण्टुः ॥’ ख. पाठः.

  19. १. ‘मिति’

  20. २. ‘ह उ’ क पाठः

  21. १. ‘नि’ ख. पाठः.

  22. १. ‘नि’ ख. पाठः

  23. २. ‘त्यः व’

  24. ३. ‘व न को’ क. पाठः

  25. १. ‘त्वेत्य’ व पाठः

  26. १. ‘वित इ’ क. पाठः.

  27. १. ‘भवनं’ ख. पाठः.

  28. १. ‘प्पस्य यु’ क. पाठः.