०५ तपःफलोदयः

पञ्चमः सर्गः

तपो-निश्चयः

विश्वास-प्रस्तुतिः

तथा समक्षं दहता मनो-भवं पिनाकिना भग्न-मनो-रथा सती ।
निनिन्द रूपं हृदयेन पार्वती
प्रियेषु सौभाग्य-फला हि चारुता ॥ 5.1 ॥

मूलम्

तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती ।
निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ॥ 5.1 ॥

अन्वयः

पार्वती तथा समक्षं मनोभवं दहता पिनाकिना भग्नमनोरथा सती हृतयेन रूपं निनिन्द; हि चारुता प्रियेषु सौभग्यफला (भवति)।

मल्लिनाथः

तथेति ॥ पर्वतस्यापत्यं स्त्री पार्वती तथा तेन प्रकारेणाक्ष्णोः समीपे समक्षं पुरतः । ‘अव्ययं विभक्तिसमीपसमृद्धी-’ त्यादिनाव्ययीभावः । मनोभवं मन्मथं दहता भस्मीकुर्वता पुनाकिनेश्वरेण भग्नः खण्डितो मनोरथोऽभिलाषो यस्याः सा तथोक्ता सती हृदयेन मनसा रूपं सौन्दर्यं निनिन्द । ‘धिङ् मे रूपं यद्धरमनोहरणाय नालमिति गर्हतवतीत्यर्थः’ । यक्तं चैतदित्याह-तथाहि । चारुता सैन्दर्यं प्रियेषु विषये सौभाग्यं प्रियवाल्लभ्यं फलं यस्याः सा तथोक्ता । सौ न्दर्यस्य तदेव फलं यद्भर्तृसौभाग्यं लभ्यते । नो चेद्विफलं तदिति भावः । अस्मिन्सर्गे वंशस्थं वृत्तम्- ‘जतौ तु वंशस्थमुदीरितं जरौ’ इति लक्षणात् ॥ 5.1 ॥

विश्वास-प्रस्तुतिः

इयेष सा कर्तुम् अवन्ध्य-रूपतां
समाधिम् आस्थाय तपोभिर् आत्मनः ।
अवाप्यते वा कथम् अन्यथा द्वयं
तथा-विधं प्रेम, पतिश् च तादृशः ॥ 5.2 ॥+++(5)+++

मूलम्

इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥ 5.2 ॥

अन्वयः

सा समाधिम् आस्थाय तपोभिः आत्मनः अवन्ध्यरूपतां कर्तुम् इयेष; अन्यथा तथाविधं प्रेम वा तादृशः पतिश्च द्वयं कथम् अवाप्यते ।

मल्लिनाथः

इयेषेति ॥ सा पार्वती समाधिमेकाग्रतामास्थायावलम्ब्यतपोभिर्वक्ष्यमाणनियमैः करणभूतैरात्मनः स्वस्याबन्ध्यरूपतां सफलसौन्दर्यं कर्तुमियेषेच्छति स्म । तपसा शिवं वशीकर्तुमुद्युक्तेत्यर्थः । अन्यथा ततोऽन्यप्रकारेण कथं वा तद्‌द्वयमवाप्यते । किं तद्द्वयम् ? तथाभूता विधा प्राकारो यस्य तत्तथाविधं प्रेम स्नेहः येनार्धाङ्गहरा हरस्य भवेदिति भावः । तादृशः पतिश्च । यो मृत्युंजय इति भावः । द्वयमेव खलु क्त्रीणामपेक्षितं यद्भर्तृवाल्लभ्यं जीवद्भर्तृकत्वं चेति । तच्च तपश्चर्यैकसाध्यमिति निश्चिकायेत्यर्थः । अत्र मनुः- ‘यद् दुष्करं यद् दुरापं यद् दुर्गं यच्च दुस्तरम् । तत्सर्व तपसा प्राप्यं तपो हि दुरतिक्रमम् ॥’ इति ॥ 5.2 ॥

निषेध-प्रयासादि

विश्वास-प्रस्तुतिः

निशम्य चैनां तपसे कृतोद्यमां
सुतां गिरीश-प्रतिसक्त-मानसाम् ।
उवाच मेना परिरभ्य वक्षसा
निवारयन्ती महतो मुनि-व्रतात् ॥ 5.3 ॥

मूलम्

निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् ।
उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥ 5.3 ॥

अन्वयः

मेना गिरीशप्रतिसक्तमानसां, तपसे कृतेद्यमां सुतां निशम्य एनां वक्षसा परिरभ्य महतो मुनिव्रतात् निवारयन्ती उवाच ।

मल्लिनाथः

निशम्येति ॥ मेना मेनका च गिरीशप्रतिसक्तमानसां हरासक्तचित्तां तपसे तपश्चरणाय कृतोद्यमां कृतोद्योगां सुतां निशम्य श्रुत्वैनां पार्वतीं वक्षसा परिरभ्यालिङ्ग्य महतो मुनिव्रतात्तपसो निवारयन्त्युवाच । मुनिव्रतादित्यत्र यद्यपि मुनिव्रतस्य मेनकाया अनीप्सितत्वात् ‘वारणार्थानामीप्सितः इति नापादानत्वं तथापि कृतेद्यमामिति मानसप्रवेशोक्तत्वात् “ध्रुवमपायेऽपादानम्’ इत्यपादानत्वमेव स्यात् । यथाह भाष्यकारः- ‘यच्च मिथ्या संप्राप्य निवर्तते तच्च ध्रुवमपायेऽपादानमिति प्रसिद्धम्’ इति ॥ 5.3 ॥

सामान्य-निषेधम् उक्त्वा विशेषनिषेधमाह-

विश्वास-प्रस्तुतिः

मनीषिताः सन्ति गृहेषु दैवतास्
तपः क्व वत्से क्व च तावकं वपुः ।
पदं सहेत भ्रमरस्य पेलवं+++(=मृदुलं)+++
शिरीष-पुष्पं न पुनः पतत्त्रिणः ॥ 5.4 ॥+++(4)+++

मूलम्

मनीषिताः सन्ति गृहेषु दैवतास्तपः क्व वत्से क्व च तावकं वपुः ।
पदं सहेत भ्रमरस्य पेलवं
शिरीष-पुष्पं न पुनः पतत्त्रिणः ॥ 5.4 ॥

अन्वयः

‘हे वत्से ! मनीषिता देवता गृहेषु सन्ति तपः क्व ? तावकं वपुश्च क्व ? पेलवं शिरीषपुष्पं भ्रमरस्य पदं सहेत पतत्रिणः पुनः पदं न सहेत ।’

मल्लिनाथः

मनीषिता इति ॥ हे वत्से ! मनस ईषिता इष्टा मनीषिताः । शकन्ध्वादित्वात्साधुः । देवताः शच्यादयोगृहेषु सन्ति । त्वं तामाराधयेति शेषः । तपः क्व तवेदं तावकम् । ‘युष्मदस्मदोरन्यतरस्यां खञ्च’ इत्यण्प्रत्ययः । ‘तवकममकावेकवचन’ इति तवकादेशः । वपुश्च क्व । तथाहि । पेलवं मृदुलं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थितिं सहेत । पतत्त्रिणः पुनः पक्षिणस्तु पदं न सहेत । अतिसौकुमार्याद्दिव्योपभोगभोग्यं ते वपुर्न दारुणतपःक्षममित्यर्थः । अत्र द्दष्टान्तालंकारः ॥ 5.4 ॥

विश्वास-प्रस्तुतिः

इति ध्रुवेच्छाम् अनुशासती सुतां
शशाक मेना **न नियन्तुम् उद्यमात् ।
क इप्सितार्थ-स्थिर-निश्चयं मनः
पयश् च निम्नाऽभिमुखं प्रतीपयेत् ॥ 5.5 ॥+++(5)+++

मूलम्

इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् ।
क इप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाऽभिमुखं प्रतीपयेत् ॥ 5.5 ॥

अन्वयः

इति अनुशासती मेना ध्रुवेच्छां सुताम् उद्यमात् नियन्तुं न शशाक; ईप्सिसाऽर्थस्थिरनिश्चयं मनो निम्नाऽभिमुखं पयश्च कः प्रतीपयेत् ।

मल्लिनाथः

इतीति ॥ इत्येवमनुशासत्युपदिशन्ती मेना ध्रुवेच्छां स्थिरव्यवसायां पार्वतीमुद्यमादुद्योगात्तपोलक्षणान्नियन्तुं न शशक समर्था नाभूत् । तथाहि । ईप्सितार्थ इष्टार्थे स्थिरनिश्चयं मनो निम्नाभिमुखं पयश्च कः प्रतीपयेत्प्रतिकूलयेत् । प्रतिनिवर्तयेदित्यर्थः । निम्नप्रवणं पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमिति भावः । अत्र दीपकानुप्राणितोऽर्थान्तरन्यासालंकारः ॥ 5.5 ॥

विश्वास-प्रस्तुतिः

कदाचिद् आसन्न-सखी-मुखेन
मनो-रथ-ज्ञं पितरं मनस्विनी ।
अयाचतारण्य-निवासम् आत्मनः
फलोदयान्ताय तपः-समाधये ॥ 5.6 ॥

मूलम्

कदाचिदासन्नसखीमुखेन मनोरथज्ञं पितरं मनस्विनी ।
अयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ॥ 5.6 ॥

अन्वयः

कदाचित् मनस्विनी सा मनोरज्ञज्ञं पितरम् आसन्नसखीमुखेन फलोदयाऽन्ताय तपःसमाधये आत्मनः अरण्यनिवासम् अयाचत ।

मल्लिनाथः

कदाचिदिति ॥ अथ कदाचिन्मन्स्विनी स्थिरचित्ता सा पार्वती मनोरथज्ञमभिलाषाभिज्ञं पितरं हिमवन्तमासन्नसख्याप्तखी सैव मुखमुपायः । ‘मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि’ इति विश्वः ।’ तेन फलोदयः फलोत्पत्तिरन्तोऽवधिर्यस्य तस्मै तपःसमाधये तपोनियमार्थमात्मनःस्वस्यारण्यनिवासं वनवासमयाचत । ‘दुह्याच्-’ इत्यादिना द्विकर्मकत्वम् ॥ 5.6 ॥

आरम्भः

विश्वास-प्रस्तुतिः

अथानुरुपाभिनिवेश-तोषिणा
कृता ऽभ्यनुज्ञा गुरुणा गरीयसा ।
प्रजासु पश्चात्-प्रथितं +++(गौरी-शिखरम् इति)+++ तद्-आख्यया
जगाम गौरी शिखरं शिखण्डिमत् +++(न तु व्याल-मृगवत्)+++ ॥ 5.7 ॥

मूलम्

अथानुरुपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।
प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरी शिखरं शिखण्डिमत् ॥ 5.7 ॥

अन्वयः

अथ गौरी अनुरुपाऽभिनिवेशतोषिणा गरीयसा गुरुणा कृताऽभ्यनुज्ञा (सती) पश्चात् प्रजासु तदाख्यया प्रथितं शिखण्डिमत् शिखरं जगाम ।

मल्लिनाथः

अथेति ॥ अथ गौर्यनुरुपेण योग्येनाभिनिवेशेनाग्रहेण तुष्यतीति तथोक्तेन गरीयसा पूज्यतमेन गुरुणा पित्रा कृताभ्यनुज्ञा तपः कुर्विति कृतानुमतिः सती पश्चात्तपःसिद्ध्यतरकालं प्रजासु जनेषु तदाख्यया तस्या गौर्याः संज्ञया प्रथितम् । गौरीशिखरमिति प्रसिद्धमित्यर्थः । शिखण्डिमत् । न तु हिंस्र-प्राणिप्रचुरमिति भावः । शिखरं श्रृङ्गं जगाम ययौ ॥ 5.7 ॥

विश्वास-प्रस्तुतिः

विमुच्य सा हारम् अ-हार्य-निश्चया
विलोल-यष्टि-प्रविलुप्त-+++(स्तनान्त-)+++चन्दनम् +++(→हारम्)+++।
बबन्ध बालारुण-बभ्रु वल्कलं
पयो-धरोत्सेध-विशोर्ण-+++(अवययव-)+++संहति ॥ 5.8 ॥

मूलम्

विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् ।
बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशोर्णसंहति ॥ 5.8 ॥

अन्वयः

अहायंनिश्चया सा विलोलयष्टिप्रविलुप्तचन्दनं हार विमुच्य बालारुणबभ्रु पयोधरोत्सेधविशीर्णसंहति वल्कलं बबन्ध ।

मल्लिनाथः

विमुच्येति ॥ अहार्यनिश्चया अनिवार्यनिश्चया सा गौरी विलोलाभिश् चलाभिर् यष्टिभिः प्रतिसरैः प्रविलुप्तं प्रमुष्टं चन्दनं स्तनान्तगतं येन तं तथोक्तं हारं मुक्तावलीं विमुच्य विहाय बालारुणबभ्रु बालार्कपिङ्गलं पयोधरयोः स्तनयोर् उत्सेधेनोच्छ्रायेण विशीर्णा विघटितां संहतिर् अवयवसंश्लेषो यस्य तत्तथोक्तं वल्कलं कण्ठलम्बि स्तनोत्तरीयभर्त बबन्ध । धारयामासेन्यर्थः ॥ 5.8 ॥

विश्वास-प्रस्तुतिः

यथा प्रसिद्धैर् मधुरं शिरो-रुहैर्
जटाभिर् अप्य् एवम् अभूत् तद्-आननम् ।
न षट्-पद-श्रेणिभिर् एव पङ्कजं
स-शैवलासङ्गम् अपि प्रकाशते ॥ 5.9 ॥

मूलम्

यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम् ।
न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ 5.9 ॥

अन्वयः

तदाननं प्रसिद्धैः शिरोरुहैः यथा मधुरम् अभूत्, जटाभिः अपि एवम् अभूत् । पङ्कजं षट्पदश्रेणिभिः एव न (किन्तु) सशैवलासङ्गम् अपि प्रकाशते ।

मल्लिनाथः

यथेति ॥ तस्या देव्या आननं तदाननं प्रसिद्धैर्भूषितैः । ‘प्रसिद्धौ ख्यातभूषितौ’ इत्यमरः । जटाभिरप्येवं मधुरमभूत् । तथाहि पङ्कजं पद्मं षट्पद्श्रेणिभिर्भ्रमरपङ्किभिरेव न किंतु सह शैवालसङ्गेन सशैवालसङ्गमपि । ‘तेन सहेति तुल्ययोग’ इति बहुव्रीहिः । प्रकाशते । शैवलेनापि शोभत एवेत्यर्थः ॥ 5.9 ॥

विश्वास-प्रस्तुतिः

प्रतिक्षणं सा कृत-रोम-विक्रिया,
व्रताय मौञ्जीं त्रिगुणां बभार याम् ।
अकारि तत्-पूर्व-निबद्धया तया
स-रागम् अस्या रसना+++(=रशना)+++-गुणास्पदम् +++(कटिक्षेत्रम्)+++ ॥ 5.10 ॥

मूलम्

प्रतिक्षणं सा कृतरोमविक्रिया व्रताय मौञ्जीं त्रिगुणां बभार याम् ।
अकारि तत्पूर्वनिबद्धया तया सरागमस्या रसनागुणास्पदम् ॥ 5.10 ॥

अन्वयः

सा प्रतिक्षणं कृतरोमविक्रियां त्रिगुणा यां मौञ्जीं व्रताय बभार । तत्पूर्वनिबद्धया तया अस्या रसनागुणास्पदं सरागम् अकारि ।

मल्लिनाथः

प्रतीति । सा देवी प्रतिक्षणं क्षणे क्षणे कृतरोमविक्रियां पारुष्या(त्??)कृतरोमाञ्चां त्रिगुणां त्रिरावृतां यां मौञ्जीं मुञ्जमयीं मेखलां व्रताय तपसे बभार
तदेव पूर्वं प्रथमं यस्य तत्पूर्वं यथा तथा निबद्धया तया मौञ्ज्यास्या देव्या रसनागुणस्यास्पदं स्थानं जघनम् । सह रागेण सरागं सरोहितम् अकारि कृतम् । सौकुमार्यातिशयादिति भावः ॥ 5.10 ॥

नारायणः - प्रस्तावः

कुशादानम् अक्षमालाधारणं चाह-

विश्वास-प्रस्तुतिः

विसृष्ट-रागाद् अधरान् निवर्तितः +++(- न खल्व् अधुना रागस्थापनम्)+++,
स्तनाङ्ग-रागारुणिताच् च कन्दुकात् +++(तत्-क्षेप-क्रीडायाम्)+++ ।
कुशाङ्कुरादान-परिक्षताङ्गुलिः
कृतो ऽक्ष-सूत्र-प्रणयी तया करः ॥ 5.11 ॥

English

(11.) By her hand, turned away from (no longer employed in painting) the nether lip from which the red colour bad disappeared, and from the ball becoming red by the anguent of the breasts, and with the fingers pricked by plucking the tender blades of Kus’a grass, was made the friend of the rosary of Akshas.

English - Note

(Sl.) 11. विसृष्ट० - As she had to practise penance, Parvati could no more attend to such decorations of the person as the painting of the lips &c., nor to such pastimes as playing with the ball &c.; she willingly (as the use of the word qŋŋ shows) exchanged these every-day-duties for those of plucking the Kus’a grass, counting the beads &c. S1. quoted in the 8. D. as an instance of पर्याय (अत्र एकं वस्तु कररूपं अनेककर्मणि कृतम् ). ( 76 )

अरुणगिरिनाथः

निसृष्टेति । निसृष्टस्त्यक्तः रागो लाक्षादिः । कन्दुकस्य पतनसमये स्तनयोरुपरि स्थापितत्वादङ्गरागारुणितत्वम् । अत्र पर्यायः परिवृत्तितुल्यफलः ।। ११ ।।

नारायणः

निसृष्टेति । तया करः निसृष्टरागाद् अधरात्,
स्तनाङ्गरागारुणितात् कन्दुकाच्च निवर्तितः
कुशाङ्कुरादानपरिक्षताङ्गुलिः अक्षसूत्रप्रणयी कृतः ।
निसृष्टस् त्यक्तो रागो लाक्षादिर्यस्मात्।
इदं करनिवर्तने हेतुः ।

स्तनतटघटितैरङ्गरागैः कुङ्कुमाद्यनुलेपनैर् अरुणिताद् अरुणीकृतात् कन्दुकाच्च निवर्तितो वारितः ।
कन्दुकस्य पतन-समये स्तनयोर् उपरि स्थापितत्वात् तस्य तदङ्गरागारुणितत्वम् ।
एतच्च कन्दुक-सेवा-स्वभावाद् अवसेयम्।
कुशानां दर्भाणाम् अङ्कुराः कुशाङ्कुराः । ‘अङ्कुरोऽभिनवोद्भिदी’त्यमरः ।
तेषां परिस्तरणाद्यर्थम् आदानेन
परिक्षताः परितः समन्तात् क्षता अङ्गुलयो
यस्य स तथा।
कुशानां क्रूर-स्पर्शत्वम् अङ्गुलि-परिक्षतौ हेतुः । अङ्कुरशब्दोपादानादत्यन्तक्रूरस्पर्शत्वं सूचितम् । अक्षसूत्रमक्षमाला । प्रणयः स्नेहः परिचयो वा । ‘प्रणयः स्यात् परिचये याच्ञायां सौहृदेऽपि च’ इति वैजयन्ती । अक्षसूत्रे प्रणयोऽस्यास्तीत्यक्षसूत्रप्रणयी। पार्वती तपस्समये निजकरमधररञ्जनकन्दुकाघातरूपात् कार्यद्वयान्निवार्य कुशाङ्कुरादानाक्षमालापरिवर्तनरूपकार्यद्वयपरमकरोदित्यर्थः । अत्रैकस्यैव करस्याधरादौ दर्भाङ्कुरादौ च क्रमेण वर्तनात् पर्यायोऽलङ्कारः । ‘एकमनेकस्मिन्ननेकमेकस्मिन् वा क्रमेण पर्यायः’ [अठं.स.] इति । फलतस्तु परिवृत्तिरेव पर्यायस्यात्र वैचित्र्यविशेषाभावात्।। ११ ।।

मूलम्

विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ 5.11 ॥

अन्वयः

तया विसृष्टरागात् अधरात् निवर्तितः स्तनाऽङ्गरागाऽरुणितात् कन्दुकाच्च निवर्तितः, कुशाऽङ्कुरादानपरिक्षताऽङ्गुलिः करः अक्षसूत्रप्रणयी कृतः ।

मल्लिनाथः

विसृष्टेति ॥ तया देव्या विसृष्टरागात् त्यक्त-लाक्षा-रस-रञ्जनाद् अधराद् अधरोष्ठान् निवर्तितः । ‘निसृष्टरागात्’ इति पाठे - नितरां त्यक्त-लाक्षा-रागात् ।
रागत्यागेन निष्प्रयोजनत्वादिति भावः ।

तथा स्तनाङ्गरागेणारुणिताद् अरुणीकृतात् । पतनसमये तस्य स्तनयोर् उपरोधाद् इति भावः । कन्दुकाच् च निवर्तितः । कुशाङ्कुराणाम् आदानेन लवनेन परिक्षता व्रणिता अङ्गुलयो यस्य स तथोक्तः करः पाणिर् अक्षसूत्रप्रणय्य् अक्षमालासहचरः कृतः ॥5.11 ॥

विश्वास-प्रस्तुतिः

महार्ह-शय्या-परिवर्तन-च्युतैः स्व-केश-पुष्पैर् अपि या स्म +++(मर्दनेन)+++ दूयते
अशेत सा बाहु-लतोपधायिनी +++(उपधानान्तरं विना!)+++
निषेदुषी स्थण्डिल+++(→भूमाव्)+++ एव केवले ॥ 5.12 ॥+++(5)+++

English

(12.) She, who would experience pain even by the flowers dropped down from her hair in her rollings on her costly bed, sat and lay down (now) on the bare earth-platform using her creeper-like arm as a pillow.

English - Note

Bl. 12. महाईशय्या - Cf. नवपलव संस्तरेपि से मृदु दूयेत यदङ्गमर्पितम् । Rag, VIII. 67. निषेदुषी ( and ) sat. स्थण्डिले-on & purified piece of ground; स्थण्डिलं संस्कृता भूमिः | Haláyudha. Cf. शेते या किल हंसतू शयने निद्राति सा स्थण्डिले वस्ते या मृदुलं दुकूलमबला गृह्णाति सा वल्कलम् । यावा चन्दनपङ्गुलेपशिशिरे धारागृह वर्तते पञ्चानामुदितोष्मणा हुतभुजा सा मध्यमासेवते । Par. P. IV. 2.

मूलम्

महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते ।
अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ॥ 5.12 ॥

अन्वयः

या महाऽर्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैः अपि दूयते सम्, सा बाहुलतोपधायिनी (सती) केवले स्थण्डिले एव अशेत, निषेदुषी च ।

मल्लिनाथः

महार्हेति ॥ महानर्हो मूल्यं यस्याः सा महार्हा श्रेष्ठा या शय्या तस्यां परिवर्तनेन लुण्ठनेन च्युतैर्भ्रष्टैः स्वकेशपुष्पैरपि या देवी दूयते स्म विलश्यते स्म । पुष्पाधिकसाकुमार्यादिति भावः । सादेवी बाहुलतामुपधत्त उपधानीकरोतीति बाहुलतोपधायिती सती केवले संस्तरणरहिते स्थण्डिले भूमाव् एवाशेत शयितवती । तथा निषेदुष्युपविष्टा च । ‘क्वसुश्च’ इति क्वसुः । ‘इगितश्च’ इति ङीप् । भूमावेव शयनादिव्यवहारो न जातूपरीत्यर्थः ॥ 5.12 ॥

विश्वास-प्रस्तुतिः

पुनर् ग्रहीतुं नियम-स्थया तया
द्वयेऽपि निक्षेप इवार्पितं द्वयम् ।
लतासु तन्वीषु विलास-चेष्टितं
विलोल-दृष्टं हरिणाङ्गनासु च ॥ 5.13 ॥ +++(5)+++

English

(13.) By her who was under the vow, had been left as a deposit to be taken back, the two things with the two vẻ…. her sportive gestures with the slender creepers, and her unsteady glances with the female deer.

English - Note

(Sl.) 13. द्वयेपि - The reading द्वयीषु is grammatically faulty, remarks Malli.; for द्वयी fem. of द्वय means having two parts’ ( द्वौ अवयव यस्या: ); see Páp, V. 2. 42, 43. ( संख्याया अवयवे तय, द्वित्रिभ्यां तयस्यायज्या ); so the dual and plural terminations cannot be affixed to it, unless different sets of things possessing two parts are meant लतामु &c. - For the idea of कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम् । पुषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः । &c. Rag. VIII. 69; for & poetic description of लताविलास of Rag. IX 35.

मूलम्

पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम् ।
लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥ 5.13 ॥

अन्वयः

नियमस्थया तया तन्वीषु लतासु विलासचेष्टितं हरिणाऽङ्गनासु विलोलदृष्टं च द्वयं द्वये अपि पुनः ग्रहीतुं निक्षेप इव अर्पितम् किमु ।

मल्लिनाथः

पुनरिति ॥ नियमस्थया व्रतस्थया तया देव्या द्वयेऽपि द्वयं पुनर्ग्रहीतुं निक्षेपोऽर्पितमिव निक्षेपत्वेनार्पितं किमु । क्वचित् । ‘द्वयीषु’ इति प्रामादिकः पाठः । कुत्र द्वये किं द्वयमर्पितमित्याह-तन्वीषु लतासु विलासएव चेष्टितं विलासचेष्टितं हरिणाङ्गनासु विलासदृष्टं चञ्चलावलोकितं च व्रतस्थायां तस्यां तयोरदर्शनाल्लतादिषु दर्शनाच्चार्पितमिवेत्युत्प्रेक्षा न तु वस्तुतोऽर्पणमस्तीति भावः ॥ 5.13 ॥

वात्सल्यम्

विश्वास-प्रस्तुतिः

अ-तन्द्रिता सा स्वयम् एव वृक्षकान्
घट-+++(रूप-)+++स्तन-प्रस्रवणैर् व्यवर्धयत्
गुहो ऽपि येषां प्रथमाप्त-जन्मनां
न +++(मातुः)+++ पुत्र-वात्सल्यम् अपाकरिष्यति ॥ 5.14 ॥+++(5)+++

English

(14.) Never slack in her care she personally rented up the saplings with outpourings from breast-like-jars-saplings, her motherly affection for which, being first-born, even Guha would not be able to set aside.

English - Note

(61.) 14 विलासत्रे ० - Actions due due to coquetry, blandishments; from the quotation given above it will appear that the poet uses विलास and विभ्रम promiscuously; for विलास see supra. IV. 5. विश्रम means wantonnoss of action due to मद, राग, &c. (मदरागहर्षजनितो विपर्यासो विभ्रमः ) स्वयमेव वृक्षकान् &c. One of the favourite avocations of maidens leading a hermit life. Cf. Rag. I. 51; II. 36 ( यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञ :) Sak I &o. घटस्तन० -As Pârvati was not yet married, the idea that she reared tho trees like children by the fow from ber water-jaw-breasts is not very happyगुहःगूहति देवसेनां इति । or according to the Mah. Bhar.—स्कन्दत्वात्स्कन्दतां प्राप्तो गुहावासाद्नुहोभवत् । 80 called because he waa_reared in & cave पुत्रवात्सल्यं - of. Rag. II. 37; संवर्धितानां सुतनिर्विशेषम् | Jhil. V. 6. a

मूलम्

अतन्द्रिता सा स्वयमेव वृक्षकान्घटस्तनप्रस्रवणैर्व्यवर्धयत् ।
गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ॥ 5.14 ॥

अन्वयः

सा स्वयम् एव अतन्द्रिता (सती) वृक्षकान् घदस्तनप्रस्त्रवणैः व्यवर्द्धयत्, गुहः अपि प्रथमाप्तजन्मनां येषां पुत्रवात्सल्यं न अपाकरिष्यति ।

मल्लिनाथः

अतन्द्रितेति ॥ सा देवी स्वयमेवातन्द्रितासंजाततन्द्रा सती । तारकादित्वादितच्प्रययः । वृक्षकान्स्वल्पवृक्षान् । ‘अल्पे’ इत्यल्पार्थे कप्रत्ययः । घटावेव स्तनौ तयोः प्रस्त्रवणैः प्रसतपयोभिर्व्यवर्धयत् । गुहः कुमारोऽपि प्रथमाप्तजन्मनां प्रथमलब्धजन्मनाम् । अग्रजातानामित्यर्थः । येषां वृक्षकाणां संबन्धि पुत्रवात्सल्यं सुतप्रेम नापाकरिष्यति । उत्तरत्र कुमारोदयेऽपि न तेषु पुत्रवात्सल्यं निवर्तिष्यत इत्यर्थः ॥ 5.14 ॥

विश्वास-प्रस्तुतिः

अरण्य-बीजाञ्जलि-दान-लालितास्
तथा च तस्यां हरिणा विशश्वसुः
यथा तदीयैर् नयनैः कुतूहलात्
पुरः सखीनाम् अमिमीत लोचने ॥ 5.15 ॥

English

(15.) And the fawns, fondled by giving (them) handfuls of forest-grain, trusted her so far that she could measure” (the length of) her own eyes before her friends (or, of the eyes of her friends before her), by their eyes out of curiosity.

English - Note

(51.) 15. भरण्यबीजाखाले &c. - Cf. Rag. 150; 8&k. IV. 14. श्यामाकमुष्टिपरिवर्धितको (मृगः &c.); करकमलवितीर्णेरम्बुनीवारशीलरुशकनिकुरङ्गान्मैथिली यानपुष्यत् । Uttar III. 26. अमिमीत लोचने-of परस्पराक्षिसादृश्यमदूरोज्झितवत्मसु । मृगद्वंद्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥ Rag. I. 40. The construction given by Malli is better; the poet’s object is ovidontly to describe the Sadrs va of Parvati’s eyes to those of the fawns.

मूलम्

अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः ।
यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने ॥ 5.15 ॥

अन्वयः

अरण्यबीजाऽञ्जलिदानलालिता हरिणाश्च तस्यां तथा विशश्वसुः, यथा कुतूहलात् तदीयैः नयनैः लोचने सखीनां पुरः अमिमीत ।

मल्लिनाथः

अरण्येति ॥ अरण्यबीजानां नीवारादोनामञ्जलयस्तेषां दानेन लालिता हरिणाश्च तस्यां देव्यां तथा विशश्वसुर्विस्त्रिम्भं जग्मुः ‘समौ विस्त्रम्भविश्वासौ’ इत्यमरः । यथा कुतूहलादौत्सुक्यात्तदीयैर्हरिण संबन्धिभिर्नयनैर्नेत्रैः । करणैः । स्वकीये लोचमे सखीनां पुरः पुरतः अनेन तेषां संबन्धसहत्वमुक्तम् । अमिमीत । अक्षिपरिमाणतारतम्यज्ञानाय मानं चकारेत्यर्थः । केचित्तु सा पार्वती तदीयैर्नेत्रैः कुतूहलात्पुरोऽग्रे वर्तमानां सखीनां लोचने अमिमीत व्रतस्थत्वात्मन इत्याहुः । ‘माङ् माने’ इत्यस्माद्धातोलंङ् । इयमेव खलु विश्वासस्य परा काष्ठा यदक्षिपीडनेऽपि न क्षुभ्यन्तीति भावः ॥ 5.15 ॥

आतिथ्यम्

विश्वास-प्रस्तुतिः

कृताभिषेकां हुतजातवेदसं त्वग्-उत्तरासङ्गवतीम् अधीतिनीम् ।
दिदृक्षवस् ताम् ऋषयो ऽभ्युपागमन्
न धर्म-वृद्धेषु वयः समीक्ष्यते ॥ 5.16 ॥ +++(5)+++

English

(16.) Sages came there, desirous of seeing her, who used to take a sacred bath, sacrificed to the fire, wore n bark as her upper garment and recited (sacred texts): age is no consideration in the case of those who are old in spiritual attainments.

English - Note

(61.) 16. कृताभिषेकां &c. This was the daily course of her life. त्वगुत्तरासङ्ग०-The comp. must be taken as Malli, has done it. Cf Chár त्वग् उत्तरासङ्गमस्या अस्तीति । अत्र बहुव्रीहिमत्वर्थी- (77) ययोः समार्थत्वात्कथं मतुपू उच्यते । एकीयमतमेतदिति कर्मधारवादपि मत्व र्थीयः । यद्वा ध्वचा उत्तरासङ्गवतीति तृतीयासमासः । अधीतिनीं - one more reference to the social customs of those times, which shows that Women were educated.

To see her who led such a life &c, ऋषयाभ्युपागमन् -/ तपःप्रधानाकृतबुद्धयोपि तं द्रष्टुमीयुर्न महानभीयुः । Bad Ch. VII. 4. न धर्मवृद्धषु - For गुणाः पूजास्थानं गुणिषु न च लि न च वयः । also because कमिवंशत रमयितुं न गुणाः । Kir. VI. 24. तेजसां हि न वयः समीक्ष्यते Rag. XI. 1. प्रकृतिरियं सत्यवतां न खलु वयस्तेनसां हेतुः । Bh. N. 58; and शिशुत्वं स्त्रेण वा भवतु ननु वन्द्यासि जगताम् । Uttar. VI. 11.

मूलम्

कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् ।
दिदृक्षवस्तामृषयोऽभ्युपागमन्न धर्मवृद्धेषु वयः समीक्ष्यते ॥ 5.16 ॥

अन्वयः

कृताऽभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीम् अधीतिनीं तां दिदृक्षवः ऋषयः अभ्युपागमन्, धर्मवृद्धेषु वयो न समीक्ष्यते ।

मल्लिनाथः

कृतेति । कृताभिषेका कृतस्नानां हुतजातवेदसं हुताग्निकाम् । कृतहोमामित्यर्थः । त्वया वल्कलेनोत्तरासङ्गनतोमुत्तरीयवतीं त्वगृत्तरासङ्गवतीम् । अधीतमस्या अस्तीत्यधीतिनीं स्तुतिपाठादि कुर्वतीम् । ‘इष्टादिभ्यश्च’ इतीनिप्रत्ययः । तां देवीं दिदृक्षवा द्रषटुमिच्छव ऋषयो मुनयोऽभ्युपागमन्समुपागताः । न चात्र कनिष्ठसेवादोष इत्याह-धर्मवृद्धेषु वयो न समीक्ष्यते न प्रमाणीक्रियते । सति धर्मज्यैष्ठ्ये वयोज्यैष्ठ्यं न प्रयोजकमित्यर्थः । तथा च मनुः- ‘न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥’ इति ॥ 5.16 ॥

विश्वास-प्रस्तुतिः

विरोधि-सत्वोज्झित–पूर्व-मत्सरं
द्रुमैर् अभीष्ट-प्रसवार्चितातिथि ।
नवोटजाभ्यन्तर-संभृतानलं
तपो-वनं तच् च बभूव पावनम् ॥ 5.17 ॥+++(5)+++

English

(17.) The sacred grove too became holy, where the previous antipathy between warring beasts was abandoned, where the guests (travellers) were well gratified with the (30) (gifts of) desired fruit by the trees, and where the sacred fires were kindled in newly built buts of leaves.

English

(Sl.) 17. विधि - Such an effect of the presence of s holy persons in a ponance-grove is not unusual. Cf. Rag. II. 14. अस्य भगवतः प्रसादादेवोपशान्तंवरमपगतमत्सरं तपोवनम् । अहो प्रभावो महारमनाम् । अत्र हि शाश्वतिकमपहाय विरोध &c. Kad दुमैरभीष्ट &c. - Such descriptions are common enough; of तस्यातिथानामधुना सपर्या स्थिता सुपुत्रेष्विव पादपषु । lag. XIII. 46 ); soe also Bhatti III. 42.

मूलम्

विरोधिसत्वोज्झितपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि ।
नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम् ॥ 5.17 ॥

अन्वयः

विरोधिसत्वोज्झितपूर्वमत्सरं द्रुमैः अभूष्टप्रसवाऽर्चिताऽतिथि नवोटजाऽभ्यन्तरसंभृताऽनलं तच्च तपोवनं पावनं बभूव ।

मल्लिनाथः

विरोधीति ॥ विरोधिभिः सत्त्वैर्गोव्याघ्रादिभिरुज्झितपूर्वमत्सरं त्यक्तपूर्ववैरम् । हिंसारहितमित्यर्थः । द्रुमैरभूष्टप्रसवेनेष्टफलेनार्चिताः पूजिता अतिथयो यस्मिंस्तत्तथोक्तम् । नवानामुटजानां पर्णशालानामभ्यन्तरेषु संभृताः संचिता अनला अग्नयो यस्मिंस्तत्तथोक्तं तच्च तपोवनम् । पावयतीति पावनं बभूव । अहिंसातिथिसत्काराग्निपरिचर्याभिर्जगत्पावनं बभूवेत्यर्थः ॥ 5.17 ॥

महातपः

ग्रीष्मे

विश्वास-प्रस्तुतिः

यदा फलं पूर्व-तपः-समाधिना
तावता लभ्यम् अमंस्त काङ्क्षितम् ।
तदा ऽनपेक्ष्य स्व-शरीर-मार्दवं
तपो महत् सा चरितुं प्रचक्रमे ॥ 5.18 ॥

English

(18.) When she thought the desired fruit not to be attainable by that kind of penance which she had been already practising, then, disregardful of the delicacy of her body, she began a mightier penance.

English - Note

(Sl.) 18. तपः समाधि - The degree of austerity as at undertakon सर्वसमाधि०-९ / is explained as सर्वसमाधीन साधयति इत्येवंशीलम् प्रचक्रमं - See supra note on प्राक्रमत: JII. 2. Bl. 19 ध्रुवं ludicates उत्प्रेक्षा. of मन्ये शङ्क ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्देरिव शब्दोपि तादृशः । Kav, D. II. 234. काञ्चन०—-The word काञ्चन is happily chosen; it not only bears resemblance to her bodily complexion but indicates softucss and at the same time power to resist any destructive influence.

मूलम्

यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काङ्क्षितम् ।
तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे ॥ 5.18 ॥

अन्वयः

सा यदा तावता पूर्वसमाधिना काङ्क्षितं फलं लभ्यं न अमंस्त, तदा स्वशरीरमार्दवम् अनपेक्ष्य महत् तपः चरितुं प्रचक्रमे ।

मल्लिनाथः

यदेति ॥ सा देवी यदा यस्मिंन्काले तावता तावत्प्रमाणेन पूर्वतपःसमाधिना पूर्वेणानुष्ठीयमानप्रकारेण तपोनियमेन काङ्क्षितं फलं लभ्यं लब्धुं शक्यं नामंस्त । अशक्यमंस्तेत्यर्थः । तदा तत्काले । अविलम्बेनेत्यर्थः । स्वशरीरस्य मार्दवं मृदुत्वं सौकुमार्यमनपेक्ष्याविगणय्य महद् दुश्चरं तपश्चरितुं साधयितुं प्रयक्रम उपचक्रमे ॥ 5.18 ॥

विश्वास-प्रस्तुतिः

क्लमं ययौ कन्दुक-लीलया ऽपि या
तया मुनीनां चरितं व्यगाह्यत
ध्रुवं वपुः काञ्चन-पद्म-निर्मितं
मृदु प्रकृत्या च स-सारम् एव च ॥ 5.19 ॥+++(4)+++

English

(19.) She, who was fatigued even by playing with the ball, entered upon the course of life of anchorites: verily her body was composed of gold lotuses, as it was delicate by nature and yet touch (full of substance).

मूलम्

क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत ।
ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारमेव च ॥ 5.19 ॥

अन्वयः

या कन्दुकलीलया अपि क्लमं ययौ, चा मुनीनां चरितं व्यागाह्यत । ध्रुवम् अस्या वपुः काञ्चनपद्मनिर्मितं, (यत्) प्रकृत्या मृदु ससारम् एव च ।

मल्लिनाथः

क्लममिति ॥ या देवी कन्दुकलीलया कन्दुकक्रीडयापि क्लमं ययौ ग्लानिं प्राप तया देव्या मुनीनां चरितं तीव्रं तपो व्यगाह्यत प्रविष्टम् । अत्रोत्प्रेक्षते-ध्रुवमस्या वपुः काञ्चनपद्मेन सुवर्णकमलेन निर्मितं घतितम् । अत एव प्रकृत्या पद्मस्वभावेन मृदु च सुकुमारमपि काञ्चनस्वभावेन ससारं च कठिनमेव ।तथा च तदुपादानकत्वाद्देव्या वपुषः सुकुमारस्थापि तीव्रतपःक्षमत्वमित्युत्प्रेक्षार्थः ॥ 5.19 ॥

विश्वास-प्रस्तुतिः

शुचौ +++(मासे ग्रीष्मे)+++ चतुर्णां ज्वलतां हविर्-भुजां
शुचि-स्मिता मध्य-गता सुमध्यमा ।
विजित्य नेत्र-प्रतिघातिनीं प्रभाम्
अनन्य-दृष्टिः सवितारम् ऐक्षत ॥ 5.20 ॥

English

(20.) In summer, she of sweet smiles and delicate waist, sitting in the midst of four blazing fires, gazed at the sun (the source of life) with her sight not directed to any thing else, having got the better of (being accustomed to bear) his lustre that dazzles the eye.

English - Note

(Sl.) 20. चतुर्णा &c. This is what is called the Parichágnisâdhana Tapas. fafter-At first the solar raya dazzled her eyos; but by and by she got used to the powerful light of the sun and could fix her gaze on the luminary; cf. gftyadvant चतुर्णां मध्ये ललाटंतपसप्तसप्तिः । Rag. XIII. 41. सविट - सुत्रति इति he who impels creatures to action; or the producer of things; the vivifier; i, e., the sun. In the Veda he is sometimes spoken of as a different deity from the sun.

मूलम्

शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा ।
विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत ॥ 5.20 ॥

अन्वयः

शुचौ शुचिस्मिता सुमध्यमा ज्वलतां चतुर्णां हविर्भुजां मध्यगता (सती) नेत्रप्रतिघातिनीं प्रभां विजित्य अनन्यदृष्टिः (सती) सवितारम् ऐक्षत ।

मल्लिनाथः

शुचाविति ॥ शुचौ ग्रोष्मे शुचिस्मिता विशदमन्दहासा सुमध्यमा पार्वती ज्वलतां दीप्तिमतां चतुर्णां हविर्भुजामग्नीनां मध्यगता सती । नेत्रे प्रतिहन्तीति तां नेत्रप्रतिघातिनीं प्रभां सावित्रं तेजो विजित्य म विद्यतेऽन्यत्र दृष्टिर्यस्याः सानन्यदृष्टिः सती सवितारं सूर्यमैक्षत ददर्श । ‘ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः’ इति स्मरणात् । पञ्चाग्निमध्ये तपश्चचारेत्यर्थः तत्र सवितैव पञ्चमोऽग्निः- ‘अग्निः सविता सवितैवाग्रिः’ इति श्रौतलिङ्गात् ॥ 5.20 ॥

विश्वास-प्रस्तुतिः

तथा ऽतितप्तं सवितुर् गभस्तिभिर्
मुखं तदीयं कमल-श्रियं दधौ
अपाङ्गयोः केवलम् अस्य दीर्घयोः
शनैः शनैः श्यामिकया कृतं पदम् ॥ 5.21 ॥

English

(21.) Then her face scorched by the rays of the sun in that manner, bore the Leauty of a day lotus; but gradually round the long corners of her eyes only dark colour made its appearance.

मूलम्

तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ ।
अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् ॥ 5.21 ॥

अन्वयः

सवितुः गभस्तिभिः तथा अतितप्तं तदीयं मुखं कमलश्रियं दधौ, अस्य दीर्धयोः अपाङ्गयोः शनैः शनैः श्यामिकया पदं कृतम् ।

मल्लिनाथः

तथेति ॥ सवितुः सूर्यस्य गभस्तिभिः किरणैस्तथा पूवोक्तप्रकारेणातितप्तं र्सतप्तं तस्या इदं तदीयं मुशं कमलश्रियं कमलस्य शोभां दधौ प्राप । यथा रवितापात्कमलं न म्लायति प्रत्युत विकसति तथा तदीयं मुखमासीदिति भावः । किन्त्वस्य मुखस्य दीर्धयोरपाङ्गयोः केवलं नेत्रान्तयोरेव शनैर्मन्दंमन्दं श्यामिकया कालिम्ना पदं स्थानं कृतम् । तयोः सौकुमार्यादित्यर्थः ॥ 5.21 ॥

विश्वास-प्रस्तुतिः

अयाचितोपस्थितम् अम्बु केवलं,
रसात्मकस्योडु-पतेश् च रश्मयः ।
बभूव तस्याः किल पारणा-विधिर्
न वृक्ष-वृत्ति-व्यतिरिक्त साधनः ॥ 5.22 ॥

English

(22.) Only the water that came to her without any effort on her part, and the rays of the moon (lit. Lord of the constellations), full of nectar, broke her fast, not unlike the means of subsistence of the trees.

English - Note

(Sl.) 22. अयाचितो०-i. 6. rain water and dew water. रसात्मकस्य -जलमयस्य watory; C/ सलिलमये शशिनि रवेर्दीधितयो मूच्छितास्तमो नैशम् । क्षपयन्ति । Vará. Brhatsamhita. The moon is supposed to be watery on account of its cooling rays; or may mean nectar; Cf. the name सुधाकर ; Malli’s अमृतमयस्य may have either meannig. पारणाविधिःPáraná has a technical meaning; it means food taken after a fast. Malli, says (78) MIETTER 1. e, eating, taking her usual food; but it may have its usual meaning also. Pár, observed a fast during the day and subsisted only on the dow drops and lunar rays obtained at night. or. अग्राम्यमन्नं सलिलपटं पर्णानि तोयं फलमूलमेव । यथागमं gíaf4 gĦai &c. Bud. Ch. VII. 14.

मूलम्

अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः ।
बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्त साधनः ॥ 5.22 ॥

अन्वयः

अयाचितोपस्थितं केवलम् अम्बु रसात्मकस्य उडुपतेः रश्मयश्च तस्याः पारणाविधिः बभूव किल, वृक्षवृत्तिव्यतिरिक्तसाधनः पारणाविधिः न बभूव ।

मल्लिनाथः

अयाचितेति ॥ अयाचितोपस्थितमप्रार्थितोपनतं केवलमम्बूदकं रसात्मकस्यामृतमयस्योडूनां नक्षत्राणां पतिश्चन्द्रस्तस्य रश्मयश्च तस्याः पार्वत्याः पारणाविधिरभ्यवहारकर्म बभूव । तावन्मात्रसाधनकोऽभूदित्यर्थः । साध्यसाधनयोरभेदेन व्यपदेशः साधनान्तरव्यावृत्त्यर्थः । किलेति प्रसिद्धौ । वृक्षाणां या वृत्तिर्जीवनोपायस्तद्व्यतिरिक्तं साधनमुपायो यस्य स तथोक्तः पारणाविधिर्न बभूव । वृक्षोऽप्ययाचितोपस्थितेन मेधोदकेनेन्दुकिरणैश्च जीवतीति प्रसिद्धम् । अम्बिकापि तावन्मात्रमवालम्बतेत्यर्थः ॥ 5.22 ॥

वृष्टौ

विश्वास-प्रस्तुतिः

निकाम-तप्ता विविधेन वह्निना
नभश्-चरेण +++(सूर्येण)+++, +इन्धन-संभृतेन सा ।
तपात्यये वारिभिर् उक्षिता नवैर्
भुवा सहोष्माणम् अमुञ्चद् ऊर्ध्व-गम् ॥ 5.23 ॥

English

(23.) She, extremely heated by various fires-that wandering in the sky and those lighted by means of fuel, being drenched with the fresh showers at the end of summer, gave out, along with the earth (reeking) heat that ascended upwards.

English - Note

Sl. 23. fara-Fivefold, see s1. 20 supra. fafia-v. 1. twofold i, e. that in the sky (the sun) and that on earth (fire kindled with fuel ). This reading seems to be better as the four earthly fires wore of the same sort. (gyaryA } aaa-ig is used here in the sense of burning onergy.

मूलम्

निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन सा ।
तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥ 5.23 ॥

अन्वयः

विविधेन नभश्चरेण इन्धनसंभृतेन वह्निना निकामतप्ता सा तपाऽत्यये नवैः वारिभिः उक्षिता (सती) भुवा सह ऊर्ध्वगम् ऊष्माणम् अमुञ्चत् ।

मल्लिनाथः

निकामेति । विविधेन पञ्चविधेनेत्यर्थः । नभश्चरेण खेचरेण । आदित्यरुपेणेत्यर्थः । इन्धनसंभृतेन काष्ठसमिद्धेन वह्निना निकाममत्यन्तं तप्ता साम्बिका तपात्यये ग्रीष्मान्ते । प्रावृषीत्यर्थः । नवैर्वारिभिरुक्षिता सिक्ता सती भुवा पञ्चाग्नितप्तया सहोर्ध्वगमूष्माणं वाष्पममुञ्चत् । ‘ग्रीष्मोष्मवाष्पमूष्माणम्’ इति यादवः ॥ 5.23 ॥

विश्वास-प्रस्तुतिः

स्थिताः क्षणं पक्ष्मसु, ताडिताधराः,
पयो-धरोत्सेध+++(=ऊर्ध्वभाग)+++-निपात-चूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे
चिरेण नाभिं प्रथमोदबिन्दवः ॥ 5.24 ॥+++(5)+++

English

(24.) The drops of first water (showers) rested for a moment on her eye-lashes, then sriking against the netherlip, broke as they fell on the elevation of ber breasts; and theuce stumbling through the threefolds of her skin, reach. ed, after a long delay, her navel.

English - Note

$1. 24. ???-Indicates the thickness of her eyolashes. -bulk, protrusion. S1. quoted in 8. D. as an instance of Paryaya परिकर.

मूलम्

स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥ 5.24 ॥

अन्वयः

प्रथमोदबिन्दवः तस्याः पक्ष्मसु क्षणं स्थिताः ताडिताऽधराः पयोधरोत्सेधनिपातचूर्णिताः वलीषु स्खलिताः सन्तः चिरेण नाभिं प्रपेदिरे ।

मल्लिनाथः

स्थिता इति ॥ उदकस्य बिन्दव उदबिन्दवः । ‘मन्थौदन-’ इत्यादिनोदकशब्दस्योदादेशः । प्रथम उदबिन्दवः । प्रथमविशेषणाद्विन्दूनां विरलत्वं बहुवचनान्नातिविरलत्वं च गम्यते । तथा च चिरत्वनाभ्यन्तरगमनयोर्निर्वाहः । तस्याः पार्वत्याः पक्ष्मसु नेत्रमोमसु क्षणं स्थिताः स्थितिं गताः । स्थिता इत्यनेन पक्ष्मणां सान्द्रत्वं क्षणमिति स्नैग्द्यंच गम्यते । अनन्तरं ताडितो व्यथितोऽधर ओष्ठो यैस्तैस्तथोक्तैः एतेनाधरस्य मार्दवं गम्यते । ततः पयोधरयोः स्तनयोरुत्सेध उपरिभागे निपातेन पतनेन चूर्णिता जर्जरिताः कुचकाठिन्यादिति भावः । तदनु वलीषूदररेखासु स्खलिताः । निम्रोन्नतत्वादिति भावः । इत्थं चिरेण न तु शीघ्रम् । प्रतिबन्धबाहुल्यादिति भावः । नाभिं प्रपेदिरे प्रविष्टा न तु निर्जग्मुः । एतेन नाभेर्गाम्भूर्यं गम्यते । अत्र प्रतिपदमर्थवत्त्वात्परिकरालंकारः ॥ 5.24 ॥

विश्वास-प्रस्तुतिः

शिला-शयां ताम् अनिकेत-वासिनीं
निरन्तरास्व् अन्तर-वात-वृष्टिषु ।
व्यलोकयन्न् उन्मिषितैस् तडिन्मयैर्
महा-तपः-साक्ष्य इव स्थिताः क्षपाः ॥5.25 ॥

English

(25.) The nights, the witnesses of the rigid penance of her who slept on a (bare) stone slab, and who lived in open space (lit. not under a sheltered roof) and in the midst of unceasing showers accompanied by winds, watched her, as it were, with their glances in the shape of lightning (flashes). (31)

English - Note

$1. 25. ?? During the rainy season she sat or slept in open spaco on a stone-slab, exposed to the rain and winds &c. fast: —The flashes of lightning are fancied as the twinklings of the eyes of the Nights.

मूलम्

शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु ।
व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य इव स्थिताः क्षपाः ॥5.25 ॥

अन्वयः

निरन्तरासु अन्तरवातवृष्टिषु अनिकेतवासिनीं शिलाशयां तां महातपः साक्ष्ये स्थिता इव क्षपाः तडिन्मयैः उन्मिषितैः व्यलोकयन् इव ।

मल्लिनाथः

शिलाशयामिति । निरन्तरासु नीरन्ध्रास्वन्तरे मध्ये वाती यासां तादृश्यो या वृष्टयस्तास्वन्तरवातवृष्टिषु । न निकेते गृहे वसतीत्यनिकेतबासिनीम् । अनावृतदेशवासिनीमित्यर्थः । शिलायां शेत इति शिलाशयां शिलातलशायिनीम् । ‘अधिकरणे शेतेः’ इत्यच्प्रत्ययः । तां पार्वतीं ‘साक्षाद्द्रष्टा साक्षी’ । ‘साक्षाद्‌द्रष्टरि संज्ञायाम्’ इतिनिप्रत्ययः । तस्य कर्म साक्ष्यं महातपसः साक्ष्ये स्थिताः क्षपास्तडिन्मयैर्विद्युद्द्रूपैतैरवलोकनैर्व्यलोकयन्निव । इवेति चक्षुषा विलोकनमेवोत्प्रेक्ष्यते । साक्ष्यं तु ‘आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥’ इति प्रमाणसिद्धत्वान्नोत्प्रेक्ष्यमित्यनुसंधेयम् ॥ 5.25 ॥

हेमन्ते

विश्वास-प्रस्तुतिः

निनाय सा ऽत्यन्त-हिमोत्किरानिलाः
सहस्य-रात्रीर् उद-वास-तत्परा ।
परस्पराक्रन्दिनि+++(→मिथुने)+++ चक्रवाकयोः
पुरा वियुक्ते मिथुने कृपावती ॥ 5.26 ॥

English

(26.) Determinately standing in water she passed the nights of Pansha (cold season) with (winter) winds scattering about a thick mass of snowy sleet, pitying the pair of the Chakravaka birds (which stood) before her, separated and crying to each other.

English - Note

Sl. 26. ??? is changed to a before & &c.; उदपेष, उदवाहन, उदधि see Malli परम्परा०—By the rule ‘कर्म3804, व्यतिहारे सर्वनाम्रो दे वान्ये ’ the pronomina अन्य, पर इनर and उत्तर are doubled when reciprocity of action is expressed, and replaces the case of the first part of 354 and qy and does not disappear even in a comp.; this doubled form may further be compounded on the authority of the Bhashyakára (as ho has used it in अन्योन्यसंश्रयत्वे तद्). चक्रवाकa kind of ruddy goose; according to VII, 15, there appears to ho a yellow species of these birds; the female and the male are supposed to be separated at right which they spend in crying for each other’s company; sco S’ak. IV. 16; mud Vik. 20. हेमन्त जाह्नवी तांये करकाम्यधिशीतले । आकण्ठमना ध्यायन्ती संस्थिता चन्द्रशेखरे ॥ S . P .

मूलम्

निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा ।
परस्पराक्रन्दिनि चक्रवाकयोः पुरा वियुक्ते मिथुने कृपावती ॥ 5.26 ॥

अन्वयः

सा अत्यन्तहिमोत्किराऽनिलाः सहस्यरात्रीः उदवासतत्परा परस्पराक्रन्दिनि पुरो वियुक्ते चक्रवाकयोः मिथुने कृपावती सती निनाय ।

मल्लिनाथः

निनायेति । सा पार्वती । उत्किरन्ति क्षिपन्तीत्युत्किराः । ‘इगुपधज्ञा-’ इत्यादिना कः । अत्यन्तं हिमानामुत्किरा अनिला यासु ताः सहस्यरात्रीः पोषरात्रीः । ‘पौषे तैषसहस्यौ द्वौ’ इत्यमरः । उदके वास उदवासः ‘पेषंवासवाहनधिषु च’ इत्युदादेशः । उदवासे तत्परा आसक्ता तथा परस्पमाक्रन्दिन्य् अन्योन्यमाक्रोशिनि पुरोऽग्रे वियुक्ते विरहिणि । वियोगं प्राप्त इति यावत् । चक्रवाकी च चक्रवाकश्च चक्रवाकौ तयोश्चक्रवाकयोर्मिथुने द्वन्द्वे कृपावती सती निनाय । दुःखिषु कृपालुत्वं महतां स्वभाव इति चक्रवाकमितुने कृपा न तु कामितयेति वाच्यानवकाशः । ‘अप्सु वासस्तु हेमन्ते क्रमशो वर्धयेत्तपः’ । इति मनः ॥ 5.26 ॥

विश्वास-प्रस्तुतिः

मुखेन सा पद्म-सुगन्धिना निशि प्रवेपमाना ऽधर-पत्त्र-शोभिना ।
तुषार-वृष्टि-क्षत-पद्म-सम्पदाम् सरो-ज–सन्धानम् इवाकरोद् अपाम् ॥ 5.27 ॥ +++(5)+++

English

(27.) At night, she replaced the (beauty of) lotuses, of the waters (of the stream), the wealth of lotuses of which was destroyed by the showers of snow, by her face, as fragrant as the lotus (itself) and shining with the quivering leaf of the nether lip.

English - Note

Sl. 27. तुषार &c. -/ हिमसेक विपत्तिरत्र मे नलिनी पूर्वनिदर्शनं Rag. VIII. 45. HỞĦ-Her lotus-like face being reflected in the rippling water made up for the loss of lotuses which still appeared to bo there.

मूलम्

मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्त्रशोभिना ।
तुषारवृष्टिक्षतपद्मसम्पदाम् सरोजसन्धानमिवाकरोदपाम् ॥ 5.27 ॥

अन्वयः

सा निशि पद्मसुगन्धिना प्रवेपमानाऽधरपत्त्रशोभिना मुशेन तुषारवृष्टिक्षतपद्मसम्पदाम् अपां सरोजसन्धानम् अकरोत् इव ।

मल्लिनाथः

मुखेनेति । सा पार्वती निशि रात्रौ पद्मवत्सुगन्धिना सुरभिणा । ‘गन्धस्येत्-’ इत्यादिनेकारः । प्रवेपमानः कम्पमानोऽधर ओष्ठ एव पत्त्रं दलं तेन शोभत इति तथोक्तेन सुखेन तुषारवृष्ट्या तुहिनवर्षेण क्षता नाशिताः पद्मसंपदो यासां तासामपां सरोजसंधानं पद्मसंघट्टनमकरोदिव । इत्युत्प्रेक्षालंकारः पद्मान्तरं तुहिनेनोपहन्यतं तन्मुखपद्मं तु न तथेति व्यतिरेकालंकारो व्यज्यत इत्युभयोः संकरः ॥ 5.27 ॥

विश्वास-प्रस्तुतिः

स्वयं विशीर्ण-द्रुम-पर्ण-+++(भोजन-)+++वृत्तिता
परा हि काष्ठा तपसस्, तया पुनः ।
तद् अप्य् अपाकीर्णम्, अतः प्रियंवदां
वदन्त्य् अपर्णेति च तां पुरा-विदः ॥ 5.28 ॥

English

(28.) The sternest severity of austerities lies in subsisting on leaves fallen from the trees of their own accord; but that also she spurued; hence was that gentle-talker named Aparna by those conversant with history.

English - Note

(Sl.) 28. ???-Although thus mortifying herself she did not lose her habit of sweet speaking; mark the nasal coming in; see com. and supra note on II. 38. The reading ??? is grammatically faulty as remarked by Malli.; Chár, also remarks - अत्रेतिशब्दे कर्मणोभिहितत्वादपर्णामिति चिन्त्यम् । The reading 3rqat se at is not faulty.(79)

मूलम्

स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः ।
तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥ 5.28 ॥

अन्वयः

स्वयं विशीर्णद्रुमपर्णवृत्तिता तपसः परा काष्ठा हि । तया पुनः तद् अपि अपकीर्णम्, अतः तां पार्वतीं पुराविदः ‘अपर्णा’ इति च वदन्ति ।

मल्लिनाथः

स्वयमिति । स्वयं विशीर्णानि स्वतश्च्युतानि द्रुमपर्णान्येव वृत्तिर्जीवनं यस्य तस्य भावस्तत्ता तपसः परा काष्ठा परमुत्कर्षो हि । ‘काष्ठोत्कर्षे स्थितौ दिशि’ इत्यमरः । तया देव्या पुनस्तत्पर्णवर्तनमप्यपाकीर्णमपाकृतम् । अतः पर्णापाकरणाद्धेतोः । प्रियं वदतीति प्रियंवदा । ‘अपर्णाम्’ इत्यपपाठः इति शब्दाभिहितद्वितीयानुपपत्तेः । यथाह वामनः- ‘निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्’ इति । स्वयं प्रियंवदाः परेशामपि प्रियवादभाजनानि भवन्तीति भावः ॥ 5.28 ॥

विश्वास-प्रस्तुतिः

मृणालिका-पेलवम्+++(=कोमलम्)+++ एवम् आदिभिर्
व्रतैः स्वम् अङ्गं ग्लपयन्त्य् अहर्-निशम् ।
तपः शरीरैः कठिनैर् उपार्जितं
तपस्विनां दूरम् अधश् चकार सा ॥ 5.29 ॥ +++(5)+++

English

(29.) By this and other kinds of penance, she, wasting her frame delicate as a lotus fibre, day and night, left far behind the tapas practised by auchorites with hardened frames.

English - Note

(Sl.) 20. मृणालिका &c. - So in Vik. अनेन कल्याणि मृगाउकोमल व्रतेन गात्रं ग्लपयस्यहर्निशम् । III. 18. CF. एषा शिरीषकुमा शरीरयष्टिश्वान्द्री कलेव नयनोत्सवमावहन्ती । संचेतुमिच्छति शिलाकटिनेः शरीरैः संपादितान्यपि तपांसि तपोधनानाम् ॥ Pár. P. IV. 1. (Sl.) between 20-30. ???.-This seems to be necessary; of सोहं तृष्णातुरेवृष्टिं विद्यत्वानिव चातकैः । अरिविप्रकृतदेवैः प्रसृतिं प्रतियाचितः ॥ VI. 27.

मूलम्

मृणालिकापेलवमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् ।
तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा ॥ 5.29 ॥

अन्वयः

मृणालिकापेलवं स्वम् अङ्गम् एवमादिभिः व्रतैः अहर्निशं ग्लपयन्ती सा कठिनैः शरीरैः उपार्जितं तपस्विनां तपः दूरम् अधश्चकार ।

मल्लिनाथः

मृणालिकेति । मृणालिकापेलवं पद्मिनीकन्दकोमलं स्वं स्वकीयमङ्गं शरीमेवमुक्तप्रकारतोयाग्निमध्यवासव्रतमादिर्येषां तैर्व्रतेरहश्च निशा चाहर्निशम् । समाहारे द्वन्द्वैकवद्भावः, अत्यन्तसंयोगे द्वितीया । ग्लपयन्ती कर्शयन्ती सा पार्वती कठिनैः क्लेशसहैरित्यर्थः । शरीरैरुपार्जितं संपादितं तपस्विनामृषीणां तपो दूरमत्यन्तमधश्चकार तिरश्चकार । अतिशिश्य इत्यर्थः । तपस्विभिरप्यवं तपः कर्तुं न शक्यत इति तात्पर्यार्थः ॥ 5.29 ॥

वटु-संवादः

कुशल-प्रश्नः

विश्वास-प्रस्तुतिः

अथाजिनाषाढ+++(=पलाश-दण्ड)+++-धरः प्रगल्भ-वाग्
ज्वलन्न् इव ब्रह्ममयेन तेजसा ।
विवेश कश्चिज् जटिलस् तपो-वनं
शरीर-बद्धः प्रथमाश्रमे यथा ॥ 5.30 ॥+++(4)+++

English

(30.) Then a certain ascetic (lit, one with matted hair ) wearing an antelope’s skin, and holding a staff of Palàsha, of ripe speech and burning, as it were. (refulgent) with Brahmanic lustre, entered the penance forest, like the first stage of life (Brahmacharya) embodied.

English - Note

(Sl.) 30. अथ - After this, ie, when Parvati has reachod, in her practice of penance, a point far higher than that attained by ascetics. अजिना० - Biva canne disguised as an ascetic to try Parvati’s devotion. अजिन - The skin of a black antelope on which a Brahmachárin sits. Cf. Apastamba - हारिणमयं वा काणं वा बाह्मणस्य; 800 Mauns. II. 41. आषाढ : – The palás’a staff carried by an ascetic. See Manus. II. 45 ( त्राह्मणो बैल्वपालाशी ). प्रगल्भवाक् whose powers of speech wers highly developed, eloquent in apeech. ज्वलन्निव &c. - he was refulgent with the lustre which the study of tho Vedas gives, शरीरबद्धः Also बद्धशरीरः ; seo com. प्रथमाश्रम He looked, as it were, the very embodiment of the 1st A’s’rama ie the perfect type of a Brahmachárin. Tho religions life of Dvija ( especially & Bráhmana ) is divided into four stages: - ( 1 ) Brahmacharya or the life of a student (ह्मचारिन ) passed at the Guru’s house in aeqniring sacred knowledge: ( 2 ) गार्हस्थ्य or that of married life which he leads as a house-holder; (3) that of age or the life of an anchorite when he retires to a forest with or without his wife and (4) esate wherein renouncing all worldly concerns he fixes his mind on Brahman to attain Moksha. ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये । आश्रमोस्त्री Amara A Brahmacharin, while at his Guru’s house, must wear the proper girdle, decr’s skin &e learn the prescribed portion of the Vedas, bathe every day, offer prayers to the gods, sages and the Pitris, fetch holy sticks and so on. He must not frequent the company of women must not think of personal decorations &c.; in short he must live a perfectly holy life. The Pár. P. thus describes the divine ascetic :अंसे कृष्णाजिनश्रीत्रिगुणविरचिता मेखला श्रोणिभागे पाणावाषाढदण्डो भसितविरचितं पुण्ड्रकं भालदेशे । दर्भेः कृतं पवित्रं श्रवसि परिणमन्मानतुङ्गी पिशङ्गी मौलो पंक्तिजंटानां जपवलयमिदं स्फाटिकं च प्रकोष्ठे ॥ IV. 6. ( 80 )

मूलम्

अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा ।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमे यथा ॥ 5.30 ॥

अन्वयः

अथ अजिनाषाढधर प्रगल्भवाक् ब्रह्ममयेन तेजसा ज्वलन् इव कश्चित् जटिलः शरीरबद्धः प्रथमाश्रमे यथा तपोवनं विवेश ।

मल्लिनाथः

अथेति । अथानन्तरमजिनं कृष्णमृगत्वक् । आषाढः प्रयोजनमस्येत्याषाढः पालाशदण्डः । ‘पालाशो दण्ड आषाढः’ इत्यमरः । ‘विशाखाषाढादण्मन्थदण्डयोः’ इत्यण्प्रत्ययः । तयोर्धरस्तथोक्तः प्रगल्भवाक्प्रौढवचनो ब्रह्ममयेन वैदिकेन तेजसा । ब्रह्मवचंसेनेत्यर्थः । ज्वलन्निव स्थितः । इवशब्दो निर्धारणार्थः । कश्चिदनिर्दिष्टो जटिलो जटावान् । ब्रह्मचारीति शेषः । पिच्छादित्वादिलच्प्रत्ययः । शरीरबद्धो बद्धशरीरः । शरीरवानित्यर्थः । वाहिताग्न्यादिषु पाठात्साधुः । प्रथमाश्रमो यथा ब्रह्मचर्याश्रम् इव यथाशब्द इवार्थे । तपोवनम् । देव्या इति शेषः । विवेश प्रविष्टवान् ॥ 5.30 ॥

विश्वास-प्रस्तुतिः

तम् आतिथेयी बहु-मान-पूर्वया
सपर्यया प्रत्युदियाय पार्वती ।
भवन्ति साम्ये ऽपि +++(धर्म-)+++निविष्ट-चेतसां
वपुर्-विशेषेष्व् अतिगौरवाः क्रियाः ॥ 5.31 ॥

English

(31.) To meet him went forth, offering worship with great reverence, Parvati, kindly disposed towards (all) guests; even when there is equality, the acts of the firmminded towards special personages are such as are full of extreme reverence.

English - Note

(Sl.) 31. safafago-And hence not ruffled by feelings of jealousy &c. वपुविशेषेषु - C/ आकृतिविशेषेषु आदरः पदं करोति ।

मूलम्

तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती ।
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ 5.31 ॥

अन्वयः

आतिथेयी पार्वती तं बहुमानपूर्वया सपर्यया प्रत्युदियाय । सम्येऽपे निवष्टचेतसां वपुर्विशेषेपु अति गौरवाः क्रिया भवन्ति ।

मल्लिनाथः

तमिति । अतिथिषु साध्व्यातिथेयी । ‘पथ्यतिथी-’ त्यादिना ढञ्प्रत्ययः । ‘टिढ्ढाणञि’-त्यादिना ङीप् । पार्वती तं ब्रह्मचारिणं बहुमानपूर्वया । बहुमान पूर्वो यस्यास्तया । गौरवपूर्वयेत्यर्थः । सपर्ययार्चया ‘सपर्यार्चाहंणाः समाः’ इत्यमरः । प्रत्युदियाय प्रत्युज्जगाम । कथं समानेऽपि तस्यास्तदृशी प्रतिपत्तिरत आह-साम्ये सत्यपि निविष्टचेतसां गौरवसहिताः क्रियाश्चेष्टा भवन्ति । प्रवर्तन्त । इत्यर्थः । साधवो न साम्याभिनिवेशिन इति भावः ॥ 5.31 ॥

विश्वास-प्रस्तुतिः

विधि-प्रयुक्तां परिगृह्य सत्-कियां
परिश्रमं नाम विनीय च क्षणम् ।
उमां स पश्यन्न् ऋजुनैव चक्षुषा
प्रचक्रमे वक्तुम् अन्-उज्झित-क्रमः ॥ 5.32 ॥

English

(32.) Having accepted the worship (hospitality) performed according to proper rites, and apparently eased his fatigue for a moment he, looking at Umà with quite pure eyes, began to speak to her, not forgetting proper manners.

English - Note

(61.) 32. सत्क्रिया - Here सत् is treated like a proposition by भादरानादरयोः सदसती । lan. I 4. 63. नाम He showed that he took rest although not really fatigued. The disguise required this. Cf. farra fet i Kir. XI. 9. -He did not :-¶¶ क्रमः परिपाठी

at all betray his feeling of love by his looks. i. e. the regular order or order or course: hence proper method, propriety.

मूलम्

विधिप्रयुक्तां परिगृह्य सत्कियां परिश्रमं नाम विनीय च क्षणम् ।
उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ॥ 5.32 ॥

अन्वयः

स विधिप्रयुक्तां सत्क्रियां परिगृह्य क्षणं परिश्रमं च विनीय नाम उमाम् ऋजुना एव चक्षुषा पश्यन् अनुज्झितक्रमः (सन्) वक्तुं प्रचक्रमे ।

मल्लिनाथः

विधीति । स ब्रह्मचारी विधिना प्रयुक्तामनुष्ठितां सत्क्रियां पूजां परिगृह्य स्वीकृत्य क्षणं परिश्रमं च विश्रामं च विनीय नामेत्यपरमार्थे । अथोमामृजुनैव विलासरहितेनैव चक्षुषा पश्यन्ननुज्झितक्रमोऽत्यक्तोचितपरिपाजीकः सन् । वक्तुं प्रचक्रमे प्रारेभे ॥ 5.32 ॥

विश्वास-प्रस्तुतिः

अपि क्रियाऽर्थं सुलभं समित्-कुशं,
जलान्य् अपि स्नान-विधि-क्षमाणि ते ।
अपि स्वशक्त्या तपसि प्रवर्तसे
शरीरम् आद्यं खलु धर्म-साधनम् ॥ 5.33 ॥+++(5)+++

English

(33.) Are sacrificial wood and Kus’a grass easily obtainable for holy rites? Is the water suitable for thy bathing? Dost thou practise austerities proportionate to thy strength ? For the body is the ultimate means of performing religious duties.

English - Note

Sl. 33. क्रियार्थक्रियाये इदं; & Nityasamása. समिस्कुर्श - Sam. Dvan, by the rule fargiforat Pây. II. 4. 6. i. e. of words expressive of ??? (not qualities &c.) and not denoting animals when the species is prominently referred to (anäyra ç¶17मेकवद्भावः Sid. Kan elso चदरामलकानि). Cf अपि क्रियार्थं सुलभं पुष्पवारिसमित्कुशम् । अपि देवि तपोमूनि स्वशतयापि प्रवर्तसे ।। S. I’.; soe also Rag. V. 5. a -i . hast thou the strength to bear the groat strain of thy penance and practise it? For ATअतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्या विपाकः | Bh. Nit. 98. 51.

मूलम्

अपि क्रियाऽर्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते ।
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥ 5.33 ॥

अन्वयः

(हे पार्वति !) क्रियाऽर्थं समित्कुशं सुलभम् अपि ? जलानि ते स्नानविदिक्षमाणि अपि ? स्वशक्त्या तपसि प्रवर्तसे अपि ? शरीरम् आद्यं धर्मसाधनम् खलु ।

मल्लिनाथः

अपीति । अत्रापिशब्दः प्रश्ने । क्रियार्थ होमादिकर्मनुष्ठानार्थम् । समिधश्च कुशाश्च समित्कुशम् । ‘जातिरप्राणिनाम्’ इति द्वन्द्वैकवद्भावः । सुलभमपि सुलभं कच्चित् । जलानि ते तव स्नानविधिक्षमाणि स्नानक्रियायोग्यान्यपि कच्चित् । किञ्चि स्वशक्त्या निजसामर्थ्यानुसारेण तपसि प्रवर्तसेऽपि । देहमपीडयित्वा तपश्चरसि कच्चिदित्यर्थः । युक्तं च नामैतत् । खलु यस्माच्छरीमाद्यं धर्मसाधनम् । धर्मस्तु कायेन वाचा बुद्ध्या धनादिना च बहिभिः साध्यते तेषु च वपुरेव मुख्यं साधनम् । सति देहे धर्मार्थकाममोक्षलक्षणाश्चतुर्वर्गाः साध्यन्ते । अतएव ‘सततमात्मानमेव गोपायीत’ इति श्रुतिः ॥ 5.33 ॥

विश्वास-प्रस्तुतिः

अपि त्वद्-आवर्जित-वारि-संभृतं
प्रवालम् आसाम् अनुबन्धि+++(=अनुस्यूतं)+++ वीरुधाम् ।
चिरोज्झितालक्तक-पाटलेन ते
तुलां यद् आरोहति दन्त-वाससा ॥ 5.34 ॥+++(5)+++

English

(34.) Are the young leaves of these creepers made to sprout by the water sprinkled by thee, thriving ?-the leaves (32) which vie with thy nether lip, red though long bereft of the scarlet of Alaktaka (red lac. )

English - Note

34 वीरुधां विरुध fr. रुहू with fa with the aff किपू, the being changed to y and fa lengthened irregularly (faqıaata), Tanean goi-According to Pan, the Inst. cannot be used with the word ge. Malli.’s defence does not seem to be convincing. He says here the word तुला is साश्य (noun) वाची and so the Inst. may be used while the a requires it to be Hea (adj.) qr but there is no such distinction in the Sútra. Bome defend this by supplying सह witor the वाससा. करस्थदर्भ

मूलम्

अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम् ।
चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥ 5.34 ॥

अन्वयः

(हे पार्वति !) त्वदावर्जितवारिसंभृतम् आसां वीरुधां प्रवालम् अनुबन्धि अपि ? यत् चिरोज्झिताऽलक्तकपाटलेन ते दन्तवाससा तुलाम् आरोहति ।

मल्लिनाथः

अपीति । त्वयावर्जितेन सक्तेन वारिणा संभृतं जनितमासां वीरुधां लतानां प्रवाल पल्लवमनुबन्ध्यप्य् अनुस्यूतं किम् । यत्प्रवालं चिरोज्झितश्चिरकालत्यक्तो लाक्षारागो येन तत्तथापि पाटलम् । स्वभावरक्तमित्यर्थः । तेन चिरोज्झितालक्तकपाटलेन ते तव दन्तवाससाधरेण । ‘ओष्ठाधरौ तु रदनच्छदौ दशनवाससी’ इत्यमरः । तुलां साम्यमारोहति । गच्छतीत्यर्थः । अत्र तुलाशब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि ‘तुल्यार्थैरतुलोपमाभ्यामि’- ति न तृतीयाप्रतिषेधस्तत्र सूत्रे सदृशवाचिन एव ग्रहणादिति ॥ 5.34 ॥

विश्वास-प्रस्तुतिः

अपि प्रसन्नं हरिणेषु ते मनः
कर-स्थ-दर्भ-प्रणयापहारिषु ।
य उत्पलाक्षि ! प्रचलैर् विलोचनैस्
तवाक्षि-सादृश्यम् इव प्रयुञ्जते ॥ 5.35 ॥

English

(35.) Is thy mind pleasingly disposed towards the fawns, who take the Kus’a grass from thy hands through their love (for thee) and who, O lotus-eyed one, present a close resemblance to thy eyes with their unsteady glances ?

English - Note

Sl. 35. -The deer were allowed such liberty by the ascetics. Cf. Rag. V. 7; cf. supra. sl. 15.

मूलम्

अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु ।
य उत्पलाक्षि ! प्रचलैविंलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते ॥ 5.35 ॥

अन्वयः

(हे पार्वति !) करस्थदर्भप्रणयाऽपहारिषु हरिणेषु ते मनः प्रसन्नम् अपि ? हे उत्पलाक्षि ! ये प्रचलैः विलोचनैः तव अक्षिसादृश्यं प्रयुञ्जते इव ।

मल्लिनाथः

अपीति । करस्थान्दर्भान्प्रणयेन स्नेहेनापहरन्तीति ते तथोक्तेषु । सापराधेष्विति भावः । ‘करस्थदर्भप्रणयापराधिषु’ इति पाठे दर्भाणां प्रणयेन प्रार्थनयापराधिषु हरिणेषु विषये ते मनः प्रसन्नमपि ? न क्षुभितं किम् । सापराधेध्वपि न कोपितव्यं तपस्विभिरिति भावः । हे उत्पलाक्षि, ये हरिणाः प्रचलैश्चञ्चलैर्विलोचनैर्नेत्रैस्तवाक्षिसादृश्यं प्रयुञ्जत इवाभिनयन्तीव । प्रसन्नत्वान्मृगनेत्राणि त्वन्नयनैः साम्यमुपयान्तीति भावः । ‘उत्पलक्षेपचलैः’ इति पाठान्तर उत्पलकम्पचलैः । भावानयने द्रव्यानयनमिति न्यानेन क्षिप्यमाणोत्पलचलैरित्यर्थः ॥ 5.35 ॥

विश्वास-प्रस्तुतिः

यद् उच्यते पार्वति ! “पाप-वृत्तये
न रूपम् +++(पुण्यजं तद् यत)+++” इत्य् अव्यभिचारि तद् वचः ।
तथाहि ते शीलम् उदार-दर्शने ! तपस्विनाम् अप्य् उपदेशातां गतम् ॥ 5.36 ॥

English

(36.) O Mountain-born lady, the observation that beauty never leads to a sinful course of life is not false (lit. not a deviation from a general rule) as, O thou of noble form, thy conduct has become worthy of imitation even for the ascetics.

English - Note

Sl. 36. gada -For beauty of person presupposes degree of religious merit on the part of the person endowed with it; hence such a person cannot be expected to lead a sinful life (of आकारो रुचिरः &c. Bhar ). Cf. यत्राकृतिस्तत्र गुणा वसन्ति; and न ह्याकृतिः सुसदृशं विजहाति शीलम् ; Mrch. IX. 16.

मूलम्

यदुच्यते पार्वति ! पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः ।
तथाहि ते शीलमुदारदर्शने ! तपस्विनामप्युपदेशातां गतम् ॥ 5.36 ॥

अन्वयः

हे पार्वति ! ‘रूपं पापवृत्तये न’ इति यत् उच्यते, तद् वचः अव्यभिचारि । तथाहि हे उदारदर्शने ! ते शीलं तपस्विनाम् अपि उपदैशतां गतम् ।

मल्लिनाथः

यदिति । हे पार्वति ! रूपं सौम्याकृतिः पापवृत्तये पापाचरणाय न भवतीति यदुच्यते । लोकैरिति शेषः । तद्वचो न व्यभिचरति न स्खलतीत्यव्यभिचारि सत्यम् । ‘यत्राकृतिस्तत्र गुणाः’ ‘न सुरुपाः पापसमाचारा भवन्ति’ इत्यादयो लोकवादा न विसंवादमासादयन्तीत्यर्थः । क्मिति ज्ञायते-तथाहि । हे उदारदर्शने आयताक्षि ! सुरुपे इत्यर्थः । अथवोन्नतज्ञोने । विकेकवतीत्यर्थः । ते तव शीलं सद्वृत्तम् । ‘शीलं स्वभावे सद्वृत्ते’ इत्यमरः । तपस्विनामप्युपदिश्यतेऽनेनेत्युपदेशः प्रवर्तकं प्रमाणं तत्तामुपदेशतां गतं प्राप्तम् । मुनयोऽपि, त्वां वीक्ष्य स्ववृत्तै प्रवर्तन्त इति भावः ॥ 5.36 ॥

कारण-प्रश्नः

विश्वास-प्रस्तुतिः

विकीर्ण-सप्त-र्षि–बलि-प्रभासिभिस् +++(→सलिलैः)+++
तथा गाङ्गैः सलिलैर् दिवश्-च्युतैः ।
यथा त्वदीयैश् चरितैर् अनाविलैर्
महीधरः पावित एष सान्वयः ॥ 5.37 ॥

English

(37.) This Up-holder of the earth (Mountain) together with his family, has not been so sanctified by the waters of the Ganges, dropping from the firmament and resplendent with the offerings of flowers scattered by the seven (heavenly) Sages, as he has been by thy pure acts (lit. free from the taint of sin).

English - Note

Sl. 37. frafoto &c.—The seven Rshis are described as bathing in the heavenly Ganges and sitting in its waters practising Pránayáma &c. Cf ततः सप्तर्षयो यस्यां प्राणायामपरायणाः । faufta difameify: feequggage || V. P. f-i, e. the flowers therein which are poetically regarded, on account of their white colour, as the smiles of Mandákinf.

मूलम्

विकीर्णसप्तर्षिबलिप्रहा(भा)सिभिस् तथा न गाङ्गैः सलिलैर्दिवश्च्युतैः ।
यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ॥ 5.37 ॥

अन्वयः

एष महीधरो यथा अनाविलैः त्वदीयैः चरितैः साऽन्वयः पावितस्तथा विकीर्णसप्तर्षिबलिप्रहासिभिः दिवः च्युतैः गाङ्गैः सलिलैः न पावितः ।

मल्लिनाथः

विकीर्णेति । एष महीधरो हिमवान् । सप्त च ते ऋषयश्च सप्तर्षयः । ‘द्क्संख्ये संज्ञायाम्’ इति समासः । विकीर्णैः पर्यस्तैः सप्तर्षीणां सम्बन्धिभिर्वलिभिः पुष्पोपहारैः प्रहसन्ति यानि तथोक्तैर्दिवोऽन्तरिक्षाच्च्युतैर्गाङ्गैः सलिलैस्तथा न पावितः । अनाविलैरकलुषैस्त्वदीयैश्चरितैर्यथा सान्वयः सपुत्रपौत्रः पावितः पवित्रीकृतः ॥ 5.37 ॥

विश्वास-प्रस्तुतिः

अनेन धर्मः सविशेषम् अद्य मे
त्रि-वर्ग-सारः प्रतिभाति भाविनि ! ।
त्वया मनो-निर्विषय-+अर्थ-कामया
यद् एक +++(धर्म)+++ एव प्रतिगृह्य सेव्यते ॥ 5.38 ॥ +++(5)+++

English

(38.) O thou of pure intentions, on account of this thy. conduct, pursuit of religion strikes me pre-eminently as the best of the group of the three (viz. Dharma, Artha and Kàma), as this only has been selected and followed by thee, with a mind from which all thought of Artha (wealth) and Kama (desire) has been sent out.

English - Note

(Sl.) (38.) ( 81 ) अनेन धर्मः &c. - ef अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः । Rag. I. 25. The reading भाविनी - one having excellent ( pure ) thoughts-is preferable to भामिनी which means either a beautiful or passionate woman and is out of place here.

मूलम्

अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि ! ।
त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥ 5.38 ॥

अन्वयः

हे भाविनि ! यत् मनोनिर्विषयाऽर्थकामया त्वया एको धर्ण एव प्रतिगृह्य सेव्यते, अनेन अद्य मेधर्मः सविशेषं त्रिवर्गसारः प्रतिभाति ।

मल्लिनाथः

अनेनेति । हे भाविनि प्रशास्ताभिप्राये ! अनेन कारणेन धर्मः सविशेषं सातिशयमद्य मे । त्रयाणां धर्मकामार्थानां वर्गस्त्रिवर्ग) । ‘त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समीक्षकैः’ । इत्यमरः । तत्र सारः श्रेष्ठः प्रतिभाति । यद्यस्मात्कारणान्मनसो निर्विषयावर्थकामौ यस्यास्तया त्वयैको धर्म एव प्रतिगृह्य स्वीकृत्य सेव्यते । यत्त्वयार्थकामौ यस्यास्तया त्वयैको धर्म एव प्रतिगृह्य स्वीकृत्य केव्यते । यत्त्वयार्थकामौ विहाय धर्म एवावलम्भितः, अतः सर्वेषां नः स श्रेयानिति प्रतिपद्यत इत्यर्थः ॥ 5.38 ॥

मल्लिनाथः - प्रस्तावः

सम्प्रति मनोरथं जिज्ञासुः प्रस्तौति-

विश्वास-प्रस्तुतिः

प्रयुक्त-सत्-कार-विशेषम् आत्मना
मां परं संप्रतिपत्तुम् अर्हसि
यतः सतां सन्नतगात्रि ! संगतं
मनीषिभिः साप्तपदीनम् उच्यते ॥ 5.39 ॥+++(5)+++

English

(39.) It does not behove thee to regard me as a stranger, To whom special hospitality was accorded by thee; for, O thon of stooping body, the friendship of good people is de clared to be formed after seven words have been exchanged between them (or seven steps gone over together).

English - Note

seven steps Sl. 39. साप्तपदीनं - Formed when seven words are uttered. Fr. सप्तपदं Dviga + खन्न ( ईन ) ; formed irregularly by Pan. V. 2. 22. Cf संबन्धमाभाषणपूर्वमाहुः &c. Rag. II. 58. According to some qu̟ means a footstep; formed by walking over together. The Sutra admits of both the senses. मैत्री सत्eni त्रिपदा स्मृता । सत्सतामपि ये सन्तस्तेषां मैत्री पंद पदे as quoted by Mr. Des’páude, सतां सप्तपदा ॥ Avachiri

मूलम्

सम्प्रति मनोरथं जिज्ञासुः प्रस्तौति-
प्रयुक्तसत्कारविशेषमात्मना न मां परं संप्रतिपत्तुमर्हसि ।
यतः सतां सन्नतगात्रि ! संगतं मनीषिभिः साप्तपदीनमुच्यते ॥ 5.39 ॥

अन्वयः

हे सन्नतगात्रि ! यतो मनीषिभिः सतां सङ्गतं साप्तपदीनम् उच्यते, (अतः) आत्मना प्रयुक्तसत्कारविशेषं मां परं संप्रतियन्तुं न अर्हसि ।

मल्लिनाथः

प्रयुक्तेति । आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं मां परमन्यं संप्रतिपत्तुमवगन्तुं नार्हसि । हे संनतगात्रि संनताङ्गी ! ‘अङ्गगात्रकण्ठेभ्यः’ इति वक्तव्यान्ङीप् । यतः कारणान्मनस ईषिभिर्मनीषिभिर्विद्वद्भिः । शकन्ध्वादित्वात्साधुः । सतां संगतं सख्यं सप्तभिः पदैरापद्यत इति साप्तपदीनं सप्तपदोच्चारणसाध्यमुच्यते । ततश्चावयोस्त्वत्कृतसत्कारप्रयोगादेव सिद्धमित्यर्थः । ‘साप्तदीनं सख्यम्’ इति निपातनात्साधु ॥ 5.39 ॥

विश्वास-प्रस्तुतिः

अतोऽत्र किंचिद् भवतीं बहु-क्षमां द्वि-जाति-भावाद् उपपन्न-चापलः ।
अयं जनः प्रष्टु-मनास् तपोधने !
न चेद् रहस्यं प्रतिवक्तुम् अर्हसि ॥ 5.40 ॥

English

(40.) Hence, O thou to whom penance is a reasure, I, whom curiosity, natural to the twice-born (a Brahmana), - roused, au desirous of asking something to thee, a lady of great forbearance. If it be not a secret, thou wilt kindly give a reply.

English - Note

S1. 40. द्विजाति० Although the term द्विजाति refers to the first three classes it here means the Brahmaņu class alone. मातुर्यदये जायन्ते द्वितीयं मोजिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः fgar: ; see also Manus. II. 169. चापल - want of patience, loquacity. प्रभुमनाः -The nasal of the inf. is dropped before काम and मनम, तुं काममनसोरपि is part of a परिभाषा quoted by ancient grammarians and sanctioned by Pân. Its full text is लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि । समो वा हितततयो मसिस्य पचि युषञोः ॥ प्रथमस्य वेधसः - For the mountain Himalaya was created by Brahma, the primeval creator; see com. त्रिलोक ०Dissolve व्यवयवो लोकत्रिलोकस्तस्य; otherwise we should expect त्रिलोकी सो०. Cf. Par. P. जन्मान्ववाये प्रथमस्य धातु: पिता गरीयान् गिरिसार्वभौमः । वर्मनोहारि वचश्व रम्यं पदं च लोकादतिलोकमस्याः ॥ IV. 11. SI.

मूलम्

अतोत्र किंचिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः ।
अयं जनः प्रष्टुमनास्तपोधने ! न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥ 5.40 ॥

अन्वयः

हे तपोधने ! अतः अत्र बहुक्षमां भवतीं द्विजातिभावात् उपपन्नचापलः अयं जनः किञ्चित् प्रष्टुमनाः; रहस्यं न चेत् प्रतिवक्तुम् अर्हसि ।

मल्लिनाथः

अत इति । हे तपोधने ! अतः सख्याद्वेतोरत्र बहुक्षमाम् । बहूक्तिसहाम् यद्वा क्षमावतीम् । भवतीं त्वां द्विजातिभावाद् ब्राह्मणात्वादुपपन्नचापलः सुलभधार्ष्ट्योयं जनः । स्वयमित्यर्थः । किंचित्प्रष्टुं मनो यस्य स किञ्चित्प्रष्टुमनाः प्रष्टकामः । ‘तुं काममनसोरपी’ ति मकारलोपः । रहसि भवं रहस्य गोप्यं न चेत्प्रतिवक्तुमर्हसि ॥ 5.40 ॥

मल्लिनाथः - प्रस्तावः

प्रष्टव्यमाह-

विश्वास-प्रस्तुतिः

कुले प्रसूतिः प्रथमस्य वेधसस्,
त्रिलोक-सौन्दर्यम् इवोदितं वपुः ।
अमृग्यम् ऐश्र्वर्य-सुखं, नवं वयस्
तपःफलं स्यात् किम् अतः परं वद ॥ 5.41 ॥+++(5)+++

English

(41.) Thy birth is in the family of the first progenitor of mankind); thy shape is as if the manifestation of the collected beauty of the three worlds, the happiness of afflunce is not for thee to seek; and thine is fresh youth; say what blessings, other than these, can be the reward of Penance.

मूलम्

प्रष्टव्यमाह-
कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः ।
अमृग्यमैश्र्वर्यसुखं, नवं वयस्तपःफलं स्यात्किमतः परं वद ॥ 5.41 ॥

अन्वयः

प्रथमस्म वेधसः कुले प्रसूतिः, वपुः त्रिलोकसौन्दर्यम् इव उदितम्, ऐश्वर्यसुखम् अमृग्यं, नवं वयः, अतः परं किं तपः फलं ? वद ।

मल्लिनाथः

कुल इति । प्रथमस्य वेधसो हिरण्यगर्भस्य कुलेऽन्ववाये प्रसूतिरुत्पत्तिः । ‘यज्ञार्थ हि मया सृष्टो हिमवानचलेश्वरः’ इति ब्रह्मपुराणवचनात् । वपुः शरीरं त्रयाणां लोकानां सौन्दर्यमिवोदितमेकत्र समाहृतम् ऐश्वर्यसुखं सपत्सुखममृग्यमन्वेषणीयं न भवति । किन्तु सिद्धमेवेत्यर्थः । वयो नवम् । यौवनमित्यर्थः । अतः परमतोऽन्यत्किं तपःफलं स्याद्वद । अस्ति चेदिति शेषः । किञ्चिदस्तीत्यर्थः ॥ 5.41 ॥

विश्वास-प्रस्तुतिः

भवत्य् अनिष्टाद् अपि नाम दुःसहान्
मनस्विनीनां प्रतिपत्तिर् ईदृशी ।
विचार-मार्ग-प्रहितेन चेतसा
न दृश्यते तच्च कृशोदिरि ! त्वयि ।. 5.42 ॥

English

(42.) Such a course of action is possibly followed by high- ( 33 ) minded ladies when overtaken by an unbearable evil; but such a one, O thon of slender waist, can not be discovered in thy case by the mind directed through the channel of thought.

मूलम्

भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी ।
विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदिरि ! त्वयि ।. 5.42 ॥

अन्वयः

दुःसहात् अनिष्टात् अपि मनस्विनीनाम् ईदृशी प्रतिपत्तिः भवति नाम । हे कृशोदरि ! विचारमार्गप्रहितेन चेतसा तच्च त्वयि न दृश्यते ।

मल्लिनाथः

भवतीति ॥ दुःसहात्सोढुमशक्यादनिष्टाद्भर्त्रादिकृतादपि मनस्विनीनां धीरस्त्रीणामीदृशी तपश्चणलक्षणा प्रतिपत्तिः प्रवृत्तिः । ‘प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रगल्भ्ये’ इति केशवः । भवति नाम । नामेति सम्भावनायाम् । विचारमार्गे प्रहितेन चेतसा चित्तेन तदनिष्टं च । हे कृशोदरि ! त्वयि न दृश्यते । विचार्यमाणे तदपि नास्त्यसम्भावितत्वादित्यर्थः ॥ 5.42 ॥

मल्लिनाथः - प्रस्तावः

अनिष्टाभावमेव प्रपञ्चयति-

विश्वास-प्रस्तुतिः

अलभ्य-शोकाभिभवेयम् +++(तवोत्तमा)+++ आकृतिर् +++(पुण्यजा)+++,
विमानना सुभ्रु ! कुतः पितुर् गृहे ।
पराभिमर्शो न तवास्ति, कः करं
प्रसारयेत् पन्नग-रत्न-+++(प्रभा-)+++सूचये ॥ 5.43 ॥

English

(43.) O thou of beautiful brows, this thy form is incapable of the humiliation of grief; and whence can there be dis-respectful treatment under the parental roof? Nor can there be any insult from strangers; for who can stretch his hand to snatch away the jet of the lustre of the serpent’s gem?

English - Note

(Sl.) 43. अलभ्य - It is a supposition that graceful porsona cannot be subject to misery; f अहो दुर्निवारता व्यसनोपनिपातामां यदीदृशीमप्याकृतिमनभिभवनीयामात्मसात्कुर्वन्ति | Kad परा० परेणाभिमर्शः । सुभ्रु -Strictly, this should be सुश्रूः ; but according to the Bhashyakára, the shortening of the final vowel may be allowed in rare cases; for in his com. on the Vârtika on Páṇ. IV. 1. 66 he has instanced अलाबू, कर्कन्धू thereby indicating that sometimes ऊकारान्त words may tako ऊङ्ग and be नदीसंज्ञक so that they can shortou thoir vowel in the Voc. sing. ; seo Malli.

मूलम्

अनिष्टाभावमेव प्रपञ्चयति-
अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु ! कुतः पितुर्गृहे ।
पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ॥ 5.43 ॥

अन्वयः

हे सुभ्रु ! इयम् आकृतिः अलभ्यशोकाऽभिभवा । पितुः गृहे विमानना कुतः ? पराऽभिमर्शः तव न अस्ति, पन्नगरत्नसूचते कः करं प्रसारयेत् ?

मल्लिनाथः

अलभ्येति । हे सुभ्रु ! इयं त्वदीयाकृतिर्मीर्तिरलभ्यो लब्धुमनर्हः शोकेन भर्त्राद्यवमानजेन दुःखेनाभिभवस्तिरस्कारो यस्याः सा तथोक्ता । दृश्यत इति शेषः । असम्भावितश्चायमर्थ इत्याह-पितुर्गृहे विमाननावमानः कुतः । न सम्भाव्यत एवेत्यर्थः । ‘सुभ्रु ! कुतस्तातगृहेऽवमाननम्’ इति पाठान्तरकरणं तु साध्वसमेवोक्तोपपत्तिसम्भवात् । अन्यत्रापि ‘सुभ्रु ! त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम्’ । इत्यादिप्रयोगदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गप्रसङ्गाच्चेत्यलं गोष्ठीभिः । न चान्यस्माद्भावीत्याह-परीभिमर्शः परधर्षणं तु तव नास्ति । पन्नगरत्नसूचये फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । ‘क्रियार्थोपददस्य च कर्मणि स्थानिनः’ इति चतुर्थी । करं हस्तं कः प्रसारयेत् ‘सुभ्रु’ इत्यत्र भ्रूशब्दस्योवङ्स्थानीयत्वात् ‘नेयङुवङ्स्थानावस्त्री’ इति नदीसंज्ञाप्रतिषेधात्, “अम्बार्थनद्योर्ह्रस्वः” इति ह्रस्वत्वं नास्ति । तेन ह्रस्वः प्रामादिक इति केचित् । अन्ये तु ‘अप्राणिजातेश्चारज्ज्वादीनाम्’ इत्यत्र ‘अलाबूः’ ‘कर्कन्धूः’ इत्युकारन्तस्याप्यूङ्प्रत्ययमुदाजहार भाष्यकारः । एतस्मादेव ज्ञापकात्ववचिदूकारन्तस्याप्यूङन्तत्वान्नदोत्व ह्रस्वत्वमित्याहुः । अतएवाह वामनः- ‘ऊकारादप्यूङ्प्रकृतेः’ इति ॥ 5.43 ॥

विश्वास-प्रस्तुतिः

किम् इत्य् अपास्याभरणानि यौवने
धृतं त्वया वार्द्धकशोभि वल्कलम् ।
वद प्रदोषे स्फुटचन्द्रतारका
विभावरी यद्य् अरुणाय कल्पते ॥ 5.44 ॥+++(4)+++

English

(44.) Why is it that thou hast put on a bark garment suitable to old age (only), in youth, abandoning ornaments Say if the night at its beginning, with the moon and the stars prominently displayed, can hint at the ( approach of) dawn.

English - Note

(Sl.) 44 बार्द्धक -Malli. derives वार्द्धक by adding वुञ ( अक) to वृद्ध by including the word in the group मनोज्ञादि (Pan. V. I. 133 ); but the word बुद्ध is not found in that list. बुञ is added to वृद्ध in the sense of समूह or multitude by the Vártika वृद्धाव on Pâṇ. IV. 2. 39; but that is not the sense hore; hence it is explained by including it in the मनोज्ञादि group. ‘यदि वृद्धत्वेपि ( 82 ) वार्द्धकमिति प्रयोगोरित तर्हि मनाज्ञादित्वं कल्पनीयमित्याहुः ॥ Tatvabodhini. प्रदोषे & - When the night is in its youth, as it were. अरुणThe son of Kas’yapa and Vinatá and the elder brother of Garuda. He was born without thighs and is hence culled ‘Anâru.’ He is the charioteer of the Sun, and the harbinger of the dawn. Here 3750 means ’the dawn.’

मूलम्

किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् ।
वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥ 5.44 ॥

अन्वयः

(हे गौरि !) किमिति यौवने त्वया आभरणानि अपास्य वार्धकशोभि वल्कलं धृतम् ? प्रदोषे स्फुटचन्द्रतारका विभावरी अरुणाय कल्पते यदि ? वद ।

मल्लिनाथः

किमितीति । हे गौरि ! किमिति केन हेतुना यौवने त्वयाभरणान्यपास्य विहाय । वृद्धस्य भावो वार्धकम् । मनोज्ञादित्वाद् वुञ्प्रत्ययः । ‘वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि’ । इति विश्वः । तत्र शोभत इति वार्धकशोभि वल्कलं धृतम् । प्रतोषे रजनीमुखे स्फुटाः प्रकटाश्चन्द्रस्तारसाश्च यस्याः सा स्फुटचन्द्रतारका विभावरी रात्रिरुणाय सूर्याय कल्पते यद्यरुणं गन्तुं कल्पते किम् । वद ब्रूहि । ‘क्रियार्थोपपदस्ये-’ त्वादिना चतुर्थी । दीप्यमानशशाङ्कतारके प्रदोषे यद्यरुण उदेति ततो विभूषणापहारेण तव वल्कलधारणं संघटत इति भावः ॥ 5.44 ॥

मल्लिनाथः - प्रस्तावः

तपः-प्रयोजनं निराकर्तुमाह-

विश्वास-प्रस्तुतिः

दिवं यदि प्रार्थयसे वृथा श्रमः,
पितुः प्रदेशास् तव देव-भूमयः ।
अथोपयन्तारम् +++(=पतिम्)+++ अलं समाधिना,
न रत्नम् अन्विष्यति, मृग्यते हि तत् ॥ 5.45 ॥

English

(45.) If thou art seeking heaven, boot-less is thy effort the regions (on the slopes ) of thy father are the land of gods; if thou dost desire a (suitable) husband, cease from thy austerities; a jewel is sought after and has not to seek.

मूलम्

तपःप्रयोजनं निराकर्तुमाह-
दिवं यदि प्रार्थयसे वृथा श्रमः, पितुः प्रदेशास्तव देवभूमयः ।
अथोपयन्तारमलं समाधिना, न रत्नमन्विष्यति मृग्यते हि तत् ॥ 5.45 ॥

अन्वयः

दिवं प्रार्थयसे यदि (तर्हि) श्रमो वृथा । तव पितुः प्रदेशा देवभूमयः । अथ उपयन्तारं प्रार्थयसे यदि (तर्हि) समाधिना अलम् । हि रत्नं न अन्विष्यति तत् मृग्यते ।

मल्लिनाथः

दिवमिति ॥ दिवं स्वर्ग प्रार्थयसे कामयसे यदि तर्हि श्रमस्तपश्चरणप्रयासो वृथा निष्फलः । यदि स्वर्गार्थ तप्यसे ततः श्रमं मा कार्षिः । तव पितुर्हंमवतः प्रदेशा देवभूमयः स्वर्गपदार्थाः इत्यर्थः । अथोपयन्तारं वरं प्रार्थयसे तर्हि समाधिना तपसालम् । न कर्तव्यमित्यर्थः । निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया । तथाहि । रत्नं कर्तृ । नान्विष्यति न मृगयते । ग्रहीतारमिति शेषः । किंतु तद्रत्नं मृग्यते ग्रहीतृभिरिति शेषः । न हि वरार्थं त्वया तपसि वर्तितव्यं किंतु तेनैव त्वदर्थमिति भावः ॥ 5.45 ॥

मल्लिनाथः - प्रस्तावः

वर-वाचकाक्षर-श्रवणानन्तरम् एव
देव्या उषणोच्छ्वासम् आलक्ष्य
प्रश्नेषु च प्रत्युत्तरम् अनुपलभ्य
स्वयम् एवाशङ्क्याह-

विश्वास-प्रस्तुतिः

निविदेतं निश्वसितेन सोष्मणा
मनस् तु मे संशयम् एव गाहते
न दृश्यते प्रार्थयितव्य एव ते
भविष्यति प्रार्थित-दुर्लभः कथम् ॥ 5.46 ॥

English

(46.) Thy hot sighs have betrayed (the secret); and yet my mind is still more plunged in doubts ; I see not that a husband is at all to be sought after by thee; how then can there be one who is unobtainable when sought after.

मूलम्

वरवाचकाक्षरश्रवणानन्तरमेव देव्या उषणोच्छ्वासमालक्ष्य प्रश्नेषु च प्रत्युत्तरमनुपलभ्य स्वयमेवाशङ्क्याह-
निविदेतं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते ।
न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥ 5.46 ॥

अन्वयः

सोष्मणा निःश्वसितेन निवेदितं, मे मनस्तु संशयम् एव गाहते, ते प्रार्थयितव्य एव न दृश्यते, प्रार्थतदुर्लभः कथं भविष्यति ?

मल्लिनाथः

निवेदितमिति ॥ सोष्मणा निश्वसितेन निश्वासवायुना निवेदितम् । चिन्तानुभावेनोष्णौच्छ्वासेन ते वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसनेनेत्याह-मनस्तु तथापि मे संशयमेव गाहते प्राप्नोति । कुतः ? ते तव । ‘कृत्यानां कर्तरि वा’ इति षष्ठौ । प्रार्थयितव्यः प्रार्थयितुमर्ह एव न दृश्यते । प्रार्थितदुर्लभः प्रार्थितो यो दुर्लभा स कथं भविष्यति ? नास्त्येवेत्यर्थः ॥ 5.46 ॥

मल्लिनाथः - प्रस्तावः

अथ पतिप्रार्थनामेव सिद्धवत्कृत्वाह-

विश्वास-प्रस्तुतिः

अहो! स्थिरः कोऽपि तवेप्सितो युवा,
चिराय +++(आभरण-भूत-)+++कर्णोत्पल-शून्यतां गते ।
उपेक्षते यः श्लथ+++(=शिथिल)+++-लम्बिनीर् जटाः
कपोल-देशे कलमाऽग्र+++(=तण्डुलाग्र)+++-पिङ्गला ॥ 5.47 ॥

English

(47.) The youth thou yearnest after is, indeed, hardhearted, since he still holds off, seeing the matted hair. tawny like the tips of the blades of paddy, hanging loosely on thy broad cheeks from which the ear-lotus has been long missing.

English - Note

(Sl.) 47. स्थिर - May mean firm, not easily affected or moved; heuco ‘stern, relentless;’ or quiescent free from passion, There may also be a covert reference to Stháņu.‘ईप्सितःp. p. p. of the Desid. of आपू to obtain.

अरुणगिरिनाथः

अथ सोष्मणो विनिःश्वसितस्यैव बलवत्तां मन्यमानस्तं वरमुपालभते- अहो इति । स्थिरशब्देन स्थैर्यगुणवाचिनापि यद्वृत्तमाहात्म्यात् पाषाणप्रख्येऽस्य जडत्वे पर्यवस्यता केवलोपालम्भकक्ष्या समारूढा । कोऽपि, ईश्वरो वा भवत्वित्यर्थः । युवा युवत्वाभिमानवञ्चितः । श्लथबन्धत्वं विरहखेदात् । ततश्च कपोललम्बित्वम्। ततश्चालकसमाधिः । तथा सेतुकाव्ये— ‘लंबालअमलिअपह्मलकबोला’ इति । कलमाग्रं कलमकणिशम् ।। ४७ ।।

मूलम्

अथ पतिप्रार्थनामेव सिद्धवत्कृत्वाह-
अहो! स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते ।
उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥ 5.47 ॥

अन्वयः

अहो! तव ईप्सितो युवा कोऽपि स्थिरः । यः चिराय कर्णोत्पलशून्यतां गते (तव) कपोलदेशे श्लथलम्बिनीः कलमाऽग्रपिङ्गला जटा उपेक्षते ।

मल्लिनाथः

अहो इति । अहो चित्रम् । तवेप्सित आप्तुमिष्टो युवा कोऽपि स्थिरः कठिनः । वर्तत इति शेषः । कुतः । यो युवा चिराय चिरात् प्रभृति कर्णोत्पलशून्यतां गते प्राप्ते कपोलदेशे गण्डस्थले श्लथाः शिथिलबन्धना अत एव लम्बिन्यस् ताः श्लथलम्बिनीः कलमाः शालिविशेषास्
तेषाम् अग्राणि तद्वत् पिङ्गला जटा उपेक्षते यस् त्वामीदृशीं दृष्ट्वा न व्यथते स नूनं वज्रहृदय इत्यर्थः ॥ 5.47 ॥

विश्वास-प्रस्तुतिः

मुनिव्रतैस् त्वाम् अतिमात्र-कर्शितां
दिवाकर-प्लुष्ट+++(=दग्ध)+++-विभूषणास्पदाम् ।
शशाङ्क-लेखाम् इव पश्यतो दिवा
सचेतसः कस्य मनो न दूयते ॥ 5.48 ॥ +++(4)+++

English

(48.) Of what person, having a heart, the mind is not afflicted, on seeing thee, extremely emaciated by the observance of saintly vows,
with the places of ornaments burnt mercilessly by the sun and therefore looking like the crescent of the moon by day ?

मूलम्

मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकरप्लुष्टविभूषणास्पदाम् ।
शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥ 5.48 ॥

अन्वयः

मुनिव्रतैः अतिमात्रकर्शितां दिवाकरप्लुष्टविभूषणास्पदाम् (अत एव) दिवा शशाङ्कलेखाम् इव त्वां पश्यतः कस्य मनो न दूयते ?

मल्लिनाथः

मुनिव्रतैरिति । मुनिव्रतैश्चान्द्रायणादिभिरतिमात्रमत्यन्तं कर्शितां कृशिकृतां दिवाकरेण सूर्येणाप्लुष्टानि यस्यास्तां तथोक्ताम् । अत एव दिवाहनि शशाङ्करेखामिव स्थितां त्वां पश्यतः सचेतसो जीवतः कस्य पुंसो मनो न दूयते न परितष्यते । अपि तु सर्वस्यैवेत्यर्थः ॥ 5.48 ॥

विश्वास-प्रस्तुतिः

अवैमि सौभाग्य-मदेन वञ्चितं
तव प्रियं, यश् चतुर+++(=मधुर)++++अवलोकिनः ।
करोति लक्ष्यं चिरम् अस्य चक्षुषो
वक्त्रम् आत्मीयम् अराल+++(=वक्र←अर)+++-पक्ष्मणः ॥ 5.49 ॥

English

(49.) I take thy lover to be cheated by the pride of his beauty
who does not, for a long time, make his face the mark for
( present himself to the view of) thy eyes of lovely looks and arching eyeslashes.

मूलम्

अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः ।
करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ॥ 5.49 ॥

अन्वयः

(हे पार्वति !) तव प्रियं सौभाग्यमदेन वञ्चितम् अवैमि, यः चतुराऽवलोकिनः अरालपक्ष्मणः अस्य चक्षुषः आत्मीयं वक्त्रं चिरं ल्क्ष्यं न करोति ।

मल्लिनाथः

अवैमीति । तव प्रियं वल्लभं सौभाग्यमदेन सौन्दर्यगर्वेण कर्त्रा । वञ्चितं विप्रलब्धमवैमि वेद्मि । यः प्रियश् चतुरं मधुरम् अवलोकत इति चतुरावलोकिनो ऽरालपक्ष्मणः कुटिलरोम्णः । ‘अरालं वृजिनं जिह्मम्’ इत्यमरः । अस्य त्वदीयस्य चक्षुष आत्मीयं वक्त्रं मुखं चिरं लक्ष्यं विषयं न करोति दृष्टिपथं न गच्छतीत्यर्थः । तदयं गर्वेण हतो निष्फलात्मलाभो जात इति भावः ॥ 5.49 ॥

विश्वास-प्रस्तुतिः

कियच् चिरं श्राम्यसि गौरि ! विद्यते
ममापि पूर्वाश्रम-संचितं तपः ।
तद्-अर्ध-भागेन लभस्व काङ्क्षितं
वरं तम् इच्छामि च साधु वेदितुम् ॥ 5.50 ॥

English

(50.) O Gauri, how long wilt thou torture thyself? I too have religious merit accumulated in my peviourst stage of life; do thou get thy desired husband by (the grant of } half of it; him, however. I desire to know well (fully) (34)

मूलम्

कियच्चिरं श्राम्यसि गौरि ! विद्यते ममापि पूर्वाश्रमसंचितं तपः ।
तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥ 5.50 ॥

अन्वयः

हे गौरि ! कियत् चिरं श्राम्यसि । मम अपि पूर्वाश्रमसञ्चितं तपो विद्यते । तदर्द्धभागेन गाङ्क्षितं वरं लभस्व । तं साधु वेदितुम् इच्छामि ।

मल्लिनाथः

कियदिति ॥ हे गौरि, कियत्किंप्रमाणकम् । किमवधिकमित्यर्थः । चिरं श्राम्यसि तपस्यसि । अत्यन्तसंयोगे द्वितीया । ममापि पूर्वाश्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तत्र संचितं संचितं संपादितं तपो विद्यते अर्धश्चासौ भागश्च तेन तस्य तपसोऽर्धभागेनैकदैशेन काङ्क्षितमिष्टं वरमुपयन्तारं लभस्व । तं वरं साधु सम्यग्वेदितु ज्ञातुमिच्छामि । यद्यसौ योग्यो भवति तदा संमतिरिति भावः ॥ 5.50 ॥

इष्ट-वरः, गौर्य्-अवस्था च

विश्वास-प्रस्तुतिः

इति प्रविश्याभिहिता द्विजन्मना
मनोगतं सा न शशाक शंसितुम्
अथो वयस्यां परिपार्श्ववर्तिनीं
विवर्तितानञ्जन-नेत्रम् ऐक्षत ॥ 5.51 ॥

English

(51.) She, thus addressed by the Brahmana, who had divined the inmost secret ( of her heart), could not speak out the desire of her heart (through bashfulness). So she only looked at her friend standing by her side with eyes not besmeared with collyrium.

मूलम्

इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् ।
अथो वयस्यां परिपार्श्ववर्तिनीं
वि(नि)वर्तितानञ्जननेत्रमैक्षत ॥ 5.51 ॥

अन्वयः

इति द्विजन्मना प्रविश्य अभिहिता सा मनोगतं, शंसितुं न शशाक । अथो परिपार्श्ववर्तिनीं वयस्यां विवर्तिनाऽननेत्रम् ऐक्षत ।

मल्लिनाथः

इतीति । इतीत्थं द्विष्ट्वजन्मना द्विजेन प्रविश्यान्तर्गत्वा । आप्तवद्रहत्यमुद्भाव्येत्यर्थः । अभिहितोक्ता सा पार्वती मनोगतं हृदिस्थं वरं शंसितुं वक्तुं न शशाक समर्था नाभूत् । लज्जयेति शेषः । अथोनन्तरं परिपार्श्ववर्तिनीं वयस्यां सखीं विवर्तितं विचालितमनञ्जनं व्रतवशाद्वर्जितकज्जलं नेत्रं यस्मिन्कर्मणि तत्तथैक्षत नेत्रसंज्ञयैव प्रत्युत्तरं वाचयांचकारेत्यर्थः ॥ 5.51 ॥

विश्वास-प्रस्तुतिः

सखी तदीया तम् उवाच वर्णिनं
निबोध साधो ! तव चेत् कुतूहलम् ।
यद्-अर्थम् अम्भो-जम् इवोष्ण-वारणं+++(=च्छत्रम्)+++
कृतं तपः-साधनम् एतया वपुः ॥ 5.52 ॥+++(5)+++

English

(52.) Her friend said to the ascetic-O sage, know thou then, if such is thy curiosity, him for whom this lady has made her body a means for practising religious austerities, as one should a lotus for warding off the sun.

मूलम्

सखी तदीया तमुवाच वर्णिनं निबोध साधो ! तव चेत्कुतूहलम् ।
यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥ 5.52 ॥

अन्वयः

तदीया सखी तं वर्णिनम् उतवाच-हे साधो ! तव कुतूहलं चेत् निबोध । यदर्थम् एतया अम्भोजम् उष्णबारणम् इव वपुः तपःसाधनं कृतम् ।

मल्लिनाथः

सखीति ॥ तस्याः पार्वत्या इयं तदीया सखी वयस्यातम् । ‘वर्णः प्रशस्तः’ इति क्षीरस्वामी । सोऽस्यास्तीति वर्णि तं ब्रह्मचारिणम् । ‘वर्णाद्ब्रह्मचारिणि’ इतीनिप्रत्ययः । उवाच ब्रूते स्म । किमिति । हे साधो विद्वन् ! तव कुतूहलं चेत् । श्रोतुमस्तीति शेषः । तर्हि निबोधानगच्छ । आकर्णयेत्यर्थः । ‘बुध अवगमने’ इति धातोर्भौवादिकाल्लोट् । श्रोतव्यं किं तदाह-यस्मै लाभायेदं यदर्थम् । ‘अर्थेन सह नित्यसमासः सर्वलिङ्घता चेति वक्तव्यम् इति वार्तिक नियमात्क्रियाविशेषणम् । एतया पार्वत्याम्भोजं पद्मम् उष्णवारणम् आतपत्रमिव वपुः शरीरं तपःसाधनं कृतम् । तपःप्रवृत्तिकारणमुच्यते श्रूयतामित्यर्थः ॥ 5.52 ॥

विश्वास-प्रस्तुतिः

इयं महेन्द्र-प्रभृतीन् अधि+++(क)+++श्रियश्
चतुर्-दिगीशान् अवमत्य भामिनी ।
अ-रूप-हार्यं मदनस्य निग्रहात्,
पिनाक-पाणिं पतिम् आप्तुम् इच्छति ॥ 5.53 ॥

English

(53.) This lady, disdaining all the lords of the four quarters, Mahendra and others, of exalted dignity, seeks a husband in the Trident-holder, who is not to be conquered by charms, as is evinced by his destruction of the mind-born.

मूलम्

इयं महेन्द्रप्रभृतीनधिश्रिय- श्चतुर्दिगीशानवमत्य भामिनी । अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति ॥५३॥ 5.53 ॥

अन्वयः

मानिनी इयम् अधिश्रियः महेन्द्रप्रभृतीन् चतुर्दिगीशान् अवमत्य मदनस्य विग्रहात् अरुपहर्यं पिनाकपाणिं पतिम् आप्तुम् इच्छति ।

मल्लिनाथः

इयमिति । मानिनीन्द्राणीप्रभृतीरतिशय्य वर्तितव्यमित्यभिमानवतीयं पार्वत्यधिश्रियो ऽधिकैश्वर्यान्महेन्द्रप्रभृतीनिन्द्रादींश्चतसृणां दिशामीशानिन्द्रयमवरुणकुबेरान् । ‘तद्धितार्थे-’ त्यादिनोत्तरपदसमासः । अवमत्यवधूय मदनस्य निग्रहान्निबर्हणाद्धेतोः । अकामुकत्वादित्यर्थः । रुपेण सौनेदर्येण हार्यो वशीकरणीयो न भवतीत्यरुपहार्यं पिनाकः पाणौ यस्य तं पिनाकपार्णि हरम् । ‘प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः’ इति साधु । पतिं भर्तारमाप्तुमिच्छति । एतेन संकल्पावस्था सूचिता ॥ 5.53 ॥

मल्लिनाथः - प्रस्तावः

‘दृङ्मनःसङ्गसंकल्पो जागरः कृशतारतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश ॥’ इति । तत्रास्याः काश्चिद्दशाः क्रममनादृत्यैव योजयति ‘इयम्’ इत्यादिभिः षङ्भिः श्लोकैः-

विश्वास-प्रस्तुतिः

अ-सह्य-हुंकार-निवर्तितः पुरा
पुरारिम् अ-प्राप्त-मुखः शिली-मुखः+++(=बाणः)+++ ।
इमां हृदि व्यायत-पातम् अक्षिणोद्+++(←क्षिणु हिंसायाम्)+++
विशीर्ण-मूर्तेर् अपि पुष्पधन्वनः ॥ 5.54 ॥
+++(दुर्बलेषु के नाम न प्रगल्भन्ते!)+++

English

(54.) The arrow of the Flower-bowed god, whose point failed to reach the enemy of the p’uras, being first hurled back with the Hunkára sound, difficult to be borne, struck her in the heart with a cruel blow, although his body had been destroyed.

अरुणगिरिनाथः

कथं प्रतिकूलेऽपि प्रेमेत्याशङ्क्य तदेव हि प्रेमकारणमित्याह- असह्येति । व्यायतपातं दीर्घतरपातम् । अक्षिणोदबाधत । दुर्बले हि सर्वः प्रगल्भत इति भावः । । ५४ ।।

नारायणः

अथ वक्ष्यमाणानां मदनवेदनानामतिमहतीनां दग्धे मदनेऽप्युपपत्तिं दर्शयति — असह्येति । विशीर्णमूर्तेः अपि पुष्पधन्वनः शिलीमुखः पुरा असह्यहुङ्कारनिवर्तितः पुरारिम् अप्राप्तमुखः इमां हृदि व्यायतपातम् अक्षिणोत् । विशीर्णा दग्धा मूर्तिः शरीरं यस्य तस्यापि । अपिशब्दः शिलीमुखप्रवृत्तावनुपपत्तिं वक्ति । पुष्पधन्वनः पुष्पमेव धनुः यस्य तस्य कामदेवस्य । शिलीमुखः शरः । ‘अलिबाणौ शिलीमुखावित्यमरः । पुरा कामदहनावस्थायाम् । असह्येन सोढुमशक्येन हुङ्कारेण कोपोद्रेकजनितेन शब्दविशेषेण करणभूतेन निवर्तितः व्यावर्तितः । पुरारिणेति शेषः । अत एव पुरारिम् अप्राप्तमुखः, पुराणामरिः पुरारिः । अनेन हरस्यानभिभवनीयत्वमुक्तम् । अप्राप्तं मुखमग्रं यस्य तथाभूतः सन् । इमां स्त्रीत्वेन बाल्यावस्थया च दुर्बलां पार्वतीम् । हृदि हृदये । अनेन मर्मस्थलपात उक्तः । येन च वेदनाधिक्यं ध्वन्यते । व्यायतपातमिति क्रियाविशेषणम् । व्यायतः विशेषेण आयतः दीर्घः चिरकालावस्थायी पातः पतनं यथा भवति तथा अक्षिणोत् । ’ क्षिणु हिंसायामिति धातुः । अत्यन्तमबाधतेत्यर्थः । शरमोक्षानन्तरं हरकोपकृशानुना मदने दग्धे हरमेव लक्षीकृत्य सरभसमभिपतन् मदनवाणो भगवता हुङ्कारमात्रेण निवर्तितः सन् भगवत्परिचर्यार्थं तत्पार्श्ववर्तिनीं दुर्बलामनाथामिमामबाधत ।

दुर्बलेषु के नाम न प्रगल्भन्त इति भावः ॥ ५४ ॥+++(5)+++ [[३०२]]

मूलम्

असह्यहुंकारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः ।
इमां हृदि व्यायतपातमक्षिणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥ 5.54 ॥

अन्वयः

पुरा असह्यहुङ्कारनिवर्तितः पुराऽरिम् अप्रप्तमुखः विशीर्णमूर्ते अपि पुष्पधन्वनः शिलीमुखः इमां हृदि व्यायतपातम् अक्षिणोत्।

मल्लिनाथः

असह्येति । पुरा पूर्वमसह्येन सोढुमशक्येन हुङ्कारेण रौद्रेण निवर्तितः । अतएव पुरारिं हरमप्राप्तमुखोऽप्राप्तफलो विशीर्णमूर्तेर्नष्टशरीरस्यापि पुष्पधन्वनः कामस्य शलीमुखो बाण इमां पार्वतीं हृदि
व्यायतः - सुदूरावगाढ इति यावत् -
तादृक्पातः प्रहारो यस्मिन्कर्मणि तत्तथाक्षिणोद् अकर्शत् । दग्धदेहस्यापि मार्गणो लग्नः । ‘मृदुः सर्वत्र बाध्यते’ इति भावः । अनेन ‘विवृण्वसी शैलसुतापि भावम्’ (3/68) इत्यत्रोक्तं चक्षु प्रीतिमनः- सङ्गाख्यमवस्थाद्वयमनन्तरावस्थोपयोगितयानूद्य कार्श्यवस्था सूचिता ॥ 5.54 ॥

विश्वास-प्रस्तुतिः

तदा प्रभृत्य् उन्मदना पितुर् गृहे
ललाटिका-चन्दन-धूसरालका ।
जातु बाला लभते स्म निर्वृतिं
तुषार-संघात-शिला-तलेष्व् अपि ॥ 5.55 ॥

English

(55.) From that time forth, powerfully affected by love, and with her curling tresses whitened by the sandal paste on her forehead, the maiden never felt ease even when reclining on the surfaces, of snow-slabs while in her father’s house.

मूलम्

तदा प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका ।
न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि ॥ 5.55 ॥

अन्वयः

तदा प्रभृति पितुः गुहे उन्मदना ललाटिकाचन्दनधूसराऽलका बाला तुषारसङ्घातशिलातलेषु अपि जातु निर्वतिं न लभते ।

मल्लिनाथः

तदेति । तदेति छेदः । तदा प्रभृति । तत आरभ्येत्यर्थः । सप्तम्यर्थस्यापि दाप्रत्ययस्य पञ्चम्यर्थे लक्षणा । प्रभृतियोगे पञ्चमीनियमात् । पितुर्गृह उन्मदनोत्कटमन्मथा ललाटस्थालंकारो ललाटिका तिलकः । ‘कर्णललाटत्कनलंकारे’ इति कन्प्रत्ययः । तस्याश्चन्दनेन धूसरा धूसरंवर्णा अलकाश्चूपर्णकुन्तला यस्याः सा तथोक्ता बाला पार्वती जातु कदाचिदपि तुषारसंघातस्षुरघनास्त एव शिलास्तासां तलेषूपरिभागेष्वपि निर्वृतिं सुखं न लभते स्म । एतेनारत्यपरसंज्ञा विषयविद्वेषाऽवस्था द्वादशावस्थापक्षे संज्वरश्च व्यज्यते ॥ 5.55 ॥

विश्वास-प्रस्तुतिः

उपात्त-वर्णे+++(→ त्रिपुरजयादौ)+++ चरिते पिनाकिनः
स-बाष्प-कण्ठ-स्खलितैः पदैर् इयम् ।
अनेकशः किंनर-राज-कन्यका वनान्त-संगीत-सखीर् अरोदयत् ॥ 5.56 ॥

English

(56.) Many a time did she make the daughters of the Kinnara kings, her companions in the songs sung in the woods, burst into tears, by her words ( of grief) scarcely articulate in the throat choking with tears, while the exploits of the Pináka-holder were being sung.

मूलम्

उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् ।
अनेकशः किंनरराजकन्यका वनान्तसंगीतसखीररोदयत् ॥ 5.56 ॥

अन्वयः

इयं पिनाकिनः चरिते उपात्तवर्णे सबाष्पकण्ठस्खलितैः पदैः वनाऽन्तसङ्गीतसखीः किन्नरराजकन्यकाः अनेकशः अरोदयत् ।

मल्लिनाथः

उपात्तेति । पिनाकिनः शंभोश्चरिते त्रिपुरविजयादिचेष्टित उपातवर्णे प्रारब्धगोतक्रमे । ‘गीतक्रमेस्तुतौ वेदे वर्णशब्दः प्रयुज्यते’ । इति हलायुधः । सबाष्पे गद्गदे कण्ठे स्खलितैर्विशीर्णैः पदैः सुप्तिङन्तरुपैः करणैः वनान्ते संगीतेन निमितेन सखीर्वयस्याः । किन्न्रराजकन्यका अनेकशो बहुशोऽरोदयदश्रुमोक्षमकारयत् । हरचरितगानजनितमदनवेदनामेनां वीक्ष्यकिंनर्योऽपि रुरुदुरिति भावः । अत्र वर्णस्खलनलक्षणकार्योक्त्या पुनः पुनस्तत्कारणीभूतमूर्च्छावस्थाप्रादुर्भावो व्यज्यतेऽन्यथा सखीरोदनानुपपतेरिति । द्वादशावस्थापक्षे तु प्रलापावस्था च व्यज्यते । ‘प्रलापो गुणकीर्तनम्’ इत्यालंकारिकाः ॥ 5.56 ॥

विश्वास-प्रस्तुतिः

त्रिभागशेषसु निशासु च क्षणं
निमील्य नेत्रे सहसा व्यबुध्यत
क्व नीलकण्ठ ! व्रजसीत्य् अ-लक्ष्य-वाग्
अ-सत्य-कण्ठार्पित-बाहु-बन्धना ॥ 5.57 ॥+++(5)+++

English

(57.) At night, when the third part was still remaining, she could scarcely close her eyes for a moment, when all of a sudden she would start up with incoherent cries of—“O Thou of azure neck, where dost thou go?” and would throw her arms tight round an imaginary neck.

मूलम्

त्रिभागशेषसु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यत ।
क्व नीलकण्ठ ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ॥ 5.57 ॥

अन्वयः

त्रिभागशेषासु निशासु क्षणं नेत्रे निमील्य सहसा ‘हे नोलककण्ठ ! क्व व्रजसि’ इति अलक्ष्यवाक् असत्यकण्ठाऽर्पितबाहुबन्धना (सती) व्यबुध्यत ।

मल्लिनाथः

त्रिभागेति । किंचेति चार्थः । शिष्यत इति शेषः । कर्मणि घञ् । निभ्यो भागेभ्यः शेषास्वशिष्टासु । यद्वा रात्रेस्त्रियामत्वेन प्रसिद्धत्वात्तृतीयो भागास्त्रिभागः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमिष्यते । यथा ‘शतांशः’ ‘सहस्रांशः’ इति । त्रिभागः शेषो यासां तासु निशासु क्षणं क्षणमात्रं नेत्रे निमील्य मीलचित्वा सहसा सद्यः । हे नीलकण्ठ ! क्व व्हजसि कुव गच्छसीत्यलक्ष्या निर्विषया वाग्वयवनं यस्याः सा यथोक्ता तथोक्ता तथासत्ये मिथ्याभूते कण्ठेऽर्पितं बाहुबन्धनं यस्याः सा यथोक्ता तथासत्ये मिथ्याभूते कण्ठेऽर्पितं बाहुबन्धनं यस्याः सा तथा सती व्यबुध्यत विबुद्धवती । एतेन जागरोन्मादौ सूचितौ ॥ 5.57 ॥

विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः

स्वप्नसादृश्य-प्रतिकृति-दर्शन–
तद्-अङ्ग-स्पृष्ट-स्पर्शाख्याश्
चत्वारो विरहिणां विनोदाः ।
तत्र स्वप्न-संदर्शनम् उक्त्वा प्रतिकृति-दर्शनम् आह-

विश्वास-प्रस्तुतिः

यदा बुधैः सर्व-गतस् त्वम् उच्यसे
न वेत्सि भाव-स्थम् इमं कथं जनम् ।
इति स्व-हस्तोल्लिखितश् च मुग्धया
रहस्य् उपालभ्यत चन्द्रशेखरः ॥ 5.58 ॥

English

(58.) And He of the cresent-crest, drawn with her own hands by this silly girl, was upbraided in private with the words: Thou hast been considered all-pervading by the wise; how, then, dost thou not know this person, slave to thy love?

मूलम्

यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं कथं जनम् ।
इति स्वहस्तोल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ॥ 5.58 ॥

अन्वयः

‘यदा त्वं बुधैः सर्वगत उच्यसे, ततः भावस्थम् इमं जनं कथं न वेत्सि ?’ इति मुग्धया स्वहस्तोल्लिखितः चन्द्रशेखरो रहसि उपालभ्यत ।

मल्लिनाथः

यदेति । यदा यत यत इत्यर्थः । यदेति हेतावित्युक्त्वा गणव्याख्यानेऽस्योदाहृतत्वात् । त्वं बुधैर्मनीषिभिः सर्वगतः सर्वव्यापीत्युच्यसे । तत इत्यध्याहारः । भावे रत्याख्ये तिष्ठतीति भावस्थम् । त्वय्यनिरागिणमित्यर्थः । इमं जनम् । इममित्यात्मनिर्देशः । कथं न वेत्सि न जानासीति मुग्धया मूढया अकिंचित्करशिचित्रगतोपालम्भ इत्यजानानयेत्यर्थः । तया स्वहस्तेनोल्लिखितश्चित्रे लिखितश्चन्द्रशेखरो रहस्येकान्ते । सखीमात्रसमक्षमित्यर्थः । उपालभ्यत साधिक्षेपमुक्तश्च । उक्तसमुच्चयार्थश्चकारः । यद्यपि रहसीत्युक्तं तथापि सखीसमक्षकरणाल्लज्जत्यगो व्यज्यत एव ॥ 5.58 ॥

विश्वास-प्रस्तुतिः

यदा च तस्याधिगमे जगत्-पतेर्
अपश्यद् अन्यं , विधिं विचिन्वती
तदा सहास्माभिर् अनुज्ञया गुरोर्
इयं प्रपन्ना तपसे तपोवनम् ॥ 5.59 ॥

English

(59.) When at last she could find no other way to win the Lord of the universe though deliberately searching, she ( 35 ) came with us to this sacred forest for practising austerities permitted by her father.

मूलम्

यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती ।
तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ॥ 5.59 ॥

अन्वयः

जगत्पतेः तस्य अधिगमे अन्यं विधिं विचिन्वती (पार्वती) यदा न अपश्यत् , तदा इयं गुरोः अनुज्ञया अस्माभिः सह तपसे तदोवनं प्रपन्ना ।

मल्लिनाथः

यदेति ॥त जगत्पतेस्तस्येश्वरस्याधिगमे प्राप्ताबन्यं विधिमुपायं विचिन्वती मृगयमाणा यदा नापश्यत्तदेयं पार्वतीक गुरोः पितुरनुज्ञयास्माभिः सह तपसे तपश्चरितुं तपोवनं प्रपन्ना प्राप्ता ॥ 5.59 ॥

विश्वास-प्रस्तुतिः

द्रुमेषु सख्या कृत-जन्मसु स्वयं
फलं तपः-साक्षिषु दृष्टम् एष्व् अपि ।
च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलि-संश्रयः ॥ 5.60 ॥

English

(60.) This our friend has seen fruit appearing on these trees (planted) (lit. given birth to) by herself and the witnesses of her austerities: and yet the craving of her heart, which has for its basis the moon-crested God, does not seem even to be near sprouting time (about to bear fruit).

मूलम्

द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपः साक्षिषु दृष्टमेष्वपि ।
न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ॥ 5.60 ॥

अन्वयः

सख्या स्वयं कृतजन्मसु तपःसाक्षिषु एषु द्रुमेषु अपि फलं दृष्टम् । (परम्) अस्याः शशिमौलिसंश्रयो मनोरथश्च प्ररोहाऽभिमुशोऽपि न दृश्यते ।

मल्लिनाथः

द्रुमेष्विति । सख्या पार्वत्या स्वयं कृतं जन्म येषां तेषु । स्वयं रोपितेष्वित्यर्थः । तपसः साक्षिषु साक्षाद्रष्टृष्वेषु द्रुमेष्वपि फलं दृष्टम् लब्धम् । जनितमित्यर्थः । अस्या पार्वत्याः शशिमौलिसंश्रयश्चन्द्रशेखरविषयो मनोरथस्तु प्ररोहाभिमुखोऽङकुरोन्मुखोऽपि न दृश्यते । ‘प्ररोहस्त्वङ्कुरोङ्कुरः’ इति वैजयन्ती । स्वयं रोपितवृक्षफलकालेऽप्यस्या मनोरथस्य नाङ्कुरोऽप्यस्ति । फलाशा तु दूरापास्तेत्यर्थः ॥ 5.60 ॥

विश्वास-प्रस्तुतिः

न वेद्मि स प्रार्थित-दुर्लभः कदा
सखीभिर् अस्रान्तरम्+++(=बाष्पान्तरम्)+++ ईक्षिताम् इमाम् ।
तपः-कृशाम् अभ्युपपत्स्यते सखीं
वृषेव+++(=इन्द्र इव)+++ सीतां+++(=लाङ्गल-पद्धतिम्)+++ तद्-अवग्रह-क्षताम् ॥ 5.61 ॥

English

(61.) I do not know when he, difficult to be secured though sought after, will favour this our friend, worn by penance and looked at by us, her friends, with tears, as Indra favours (with showers) the earth, distressed by his holding off (the rain).

अरुणगिरिनाथः

एषा च चिन्तास्माकमेव, न त्वस्याः । एषा त्वतिधैर्यादद्यापि विषादादिभिर्न स्पृश्यते । आरम्भतुल्यावस्थैव भवतीत्यभिप्रायेण स्वावस्थां दर्शयति- नेति ।

प्रार्थितो दुर्लभश्चेति प्रार्थितदुर्लभः । प्रार्थनायां दुर्लभ इति [[३०९]] सासूयकथनम् ।
अत्रान्तरे अस्रस्य परिपतनोद्गमयोर् अन्तराल इत्यर्थः । अनेनास्रस्य निर्विच्छेदत्वं द्योत्यते । अभ्यवपत्स्यते अनुग्रहीष्यति । वृषा इन्द्रः । सीतां हलक्षतां भूमिम् । ‘सीता लाङ्गलपद्धतिरिति हलायुधः । तच्छब्देन वृषा परामृश्यते । इन्द्रवर्षविघातशोषितामित्यर्थः ॥ ६१ ॥

नारायणः

सखीनामस्माकमेवैषा चिन्ता । इयं पुनरतिधैर्यादद्यापि विषादैर्नाभिभूयते इत्यभिप्रायेणातिदीनां निजावस्थामाह- नेति । प्रार्थितदुर्लभः सः कदा तपः कृशां सखीभिः अत्रान्तरवीक्षिताम्’ इमां सखीम् अभ्यवपत्स्यते, न वेद्मि । प्रार्थितदुर्लभः प्रार्थितश्चासौ दुर्लभश्चेति प्रार्थितदुर्लभः । सर्वप्रार्थनीययास्मत्प्रियवयस्यया प्रकर्षेण अर्थितोऽपि दुर्लभ इति सासूयं वचनमिदम्। सः हरः । ’ भविष्यति प्रार्थितदुर्लभ कथम् (कु. ५.४६) इत्यादिवचनस्योत्तरमेतत् । कदा कस्मिन् काले । अनुग्रहकालस्त्विदानीमेवातिक्रान्तः । इतः परं किमस्मत्प्रियवयस्ययासौ कारयिष्यतीति भावः । अत एव सखीभिः अस्मदादिभिः । अत्रान्तरवीक्षिताम् अस्राणामन्तरे निपतनोद्गमयोरन्तराले । अनवरतप्रवृत्तानामश्रुबिन्दूनाम् अतिक्षणिकयोर्निपतनोद्गमनकर्मणोर्मध्ये एकस्मिन् बिन्दौ पतिते सत्यन्यस्योद्गमनात् पूर्वमित्यर्थः । अनेनाश्रूणामविच्छिन्नता ध्वन्यते । वीक्षितां दृष्टाम् इमां सखीम् अभ्यवपत्स्यते अनुग्रहीष्यति । ‘अभ्यवपत्तिरनुग्रह’ इत्यमरः । इतिशब्दोऽत्र द्रष्टव्यः । न वेद्मि न जानामि । कदा अनुग्रहीष्यतीति न जानामीत्यर्थः । अनुग्रहे सन्देह एवास्माकमिति भावः । अत्रानुरूपामुपमां दर्शयतिवृषा तदवग्रहक्षतां सीतामिव इति । वृषा वासवः । तच्छब्देन वृषैव परामृश्यते । तस्यावग्रहः तदवग्रहः । तेन क्षतां शोषिताम् । इन्द्रकृतेन वर्षप्रतिबन्धेन शोषितामित्यर्थः । सीतां हलक्षतां भूमिमिव । ‘सीता लाङ्गलपद्धतिरि’ त्यमरः । वर्षकारित्वमिव वर्षप्रतिबन्धकत्वमपि प्रसिद्धं मघोनः । यदुक्तं शुकसन्देशे- वीरः स्वे यो व्यतनुत पदे वृष्टिहीने किलाज्ञां मोघां मेघोदरभिदुरया बाणवृष्ट्या मघोनः ॥ (पू.भा. २७) इति । यथा प्रार्थितोऽपि दुर्लभप्रसादो वृषा निजप्रसादमात्रलभ्यस्य वर्षस्य विनाशेन शोषितां सस्यैकशरणैर्जनैः अत्रान्तरवीक्षितां वर्षैकनिमित्तसस्याद्यभावेन कृशतया लक्ष्यमाणां लाङ्गलक्षतत्वात् प्रत्यासन्नबीजवापकालां वसुन्धरां प्रसादाभिमुखः सन् सम्यगनुगृह्णाति, तथेमां कदा परमेश्वरोऽनुग्रहीष्यतीति भावः । तथाभूतवसुन्धरोपमया देव्या अस्माकमेव दुःखाभिभवः, न तु देव्या इति ध्वन्यते । तथा हलक्षता भूमिः इन्द्रप्रसादमात्रशरणा, तथैवेयं परमेश्वरमात्रशरणा । वयं तु देवीमात्रशरणा इति चानेन तु वाक्येन द्योत्यते ॥ ६१ ॥ ३१०

मूलम्

न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्रोत्तरमीक्षितामिमाम् / सखीभिरस्रान्तरवीक्षितामिमाम्।
तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम् ॥ 5.61 ॥

अन्वयः

प्रार्थितदुर्लभः स तपःकुशां सखीभिः अस्त्रोत्तरम् ईक्षिताम् इमां सखीं तदवग्रहक्षतां सीताम् इव कदा अभ्युपपत्स्यते (इति) न वेद्म ।

मल्लिनाथः

नेति । प्रार्थितः सन्दुर्लभः सदेवस्तपःकृशां तपसा कृशां क्षीणामत एव सखीभिर् अस्त्रोत्तरम् अश्रुप्रधानं यथा भवति तथेक्षितामिमां नः सखीं तस्येन्द्रस्यावग्रहेणानावृष्ट्या क्षतां पीडिताम् । ‘वृष्टिर्वर्ष दद्वघातेऽवग्रहावग्रहौ समौ’ इत्यमरः । अवग्रहः । वर्षप्रतिबन्ध इत्यर्थः । सीतां कृष्टभुवम् । ‘सीता लाङ्गलपद्धतिः’ इत्यमरः । वृषा वासव इव । ‘वासवो वृत्रहा वृषा’ इत्यमरः । कदाभ्युपपत्स्यते कदानुग्रहक्षतामित्यनेनैव गतार्थत्वे तत्पदस्य वैयर्थ्यापत्तेस्तदिति भिन्नं पदं वेद्मीत्यस्य कर्मेति युक्तमुत्पश्यामः ॥ 5.61 ॥

उररीकरणम्

विश्वास-प्रस्तुतिः

अगूढ-सद्-भावम् इतीङ्गितज्ञया
निवेदितो नैष्ठिक-सुन्दरस् तया ।
“अयीदम् एवं +++(उत)+++ परिहास?” इत्य् उमाम्
अपृच्छद् अव्यञ्जित-हर्ष-लक्षणः ॥ 5.62 ॥

English

(62.) Thus informed by her, who knew the secrets of Pârvati’s heart, so as to make her noble intention clear, that handsome Brahmacharin, without showing signs of delight, asked Umà whether it was so or a joke.

मूलम्

अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया ।
अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ॥ 5.62 ॥

अन्वयः

इङ्गितज्ञया तया इति अगूढसद्भावं निवेदितो नैष्ठिकसुन्दरः अव्यञ्जितहर्षलक्षणः (सन्) ‘अयि ! इदम् एवं, परिहासो वा’ ? इति उमाम् अपृच्छत् ।

मल्लिनाथः

अगूढेति । इङ्गितज्ञया पार्वतीहृदयाभिज्ञया । ‘इङ्गितंहृद्गतो भावः’ इति सज्जनः । तया गौरीसख्योत्येवमगूढसद्भावं प्रकाशितसदभिप्रायं यथा तथा निवेदितो ज्ञापितो निष्ठा मरणमवधिर्यस्य स नैष्ठिको यावज्जीवब्रह्मचारी सुन्दरो विलासी । नैष्ठिकश्चासौ सुन्दरश्चेति तथोक्तः । द्वयोरन्यतरस्य विशेषणत्वविवक्षायां विशेषणसमासः । किंतु नैषठिकत्वविशेषणेन कामित्वविरोधः । अथवा देवस्यालौकिकमहिमत्वादुभयं तात्त्विविशेषणेन कामित्वविरोधः । अथवा देवस्यालौकिकमहिमत्वादुभयं तात्त्वि कमिति न विरोधः । अव्यञ्जितं हर्षलक्षणं मुखरागादि हर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरि ! अयिति कोमलामन्त्रणे । इदं त्वत्सखीभाषितमेवम् । सत्यं किमित्यर्थः । परिहासः केलिर्वा । ‘द्रवकेलिपरीहासाः’ इत्यमरः । इत्येवमुमामपृच्छत्पृष्टवान् ॥ 5.62 ॥

विश्वास-प्रस्तुतिः

अथाग्र-हस्ते मुकुली-कृताङ्गुलौ
समर्पयन्ती स्फटिकाक्ष-मालिकाम् ।
कथंचिद् अद्रेस् तनया मिताक्षरं
चिर-व्यवस्थापित-वाग् अभाषत ॥ 5.63 ॥

English

(63.) Then the daughter of the mountain, putting the rosary of crystal beads on (or into) her forehand, with the fingers drawn together so as to resemble a bud, spoke, with great difficulty, in measured words, having adjusted her speech (in her mind) for a long time.

मूलम्

अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् ।
कथंचिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ॥ 5.63 ॥

अन्वयः

अथ अद्रेः तनया मुकुलीकृताऽङ्गुलौ अग्रहस्ते स्फटिकाऽक्षमालिकां समर्पयन्ती कथंचित् चिरव्यवस्थापितवाक् मिताऽक्षरम् अभाषत ।

मल्लिनाथः

अथेति । अथानन्तरमद्रेस्तनया पार्वती मुकुलीकृताङ्गुलौ संपुटीकृताङ्गुलौ । अग्रश्चासौ हस्तश्चेति समानाधिकरणसमासः ।हस्ताग्राग्रहस्तयोगुणगुणिनोर्भेदाभेदादिति वामनः । तस्मिन्नग्रहस्ते स्फटिकानामक्षमालिकां जपमालिकामर्पयन्त्यामुञ्चती कथंचिन्महता कष्टेन चिरव्यवस्थापितवाक्चिरेण स्वीकृतवाक् । एतेन लज्जोपरोधो व्यज्यते । मिताक्षरं परिमितवर्णं यथा तथाभाषत बभाषे ॥ 5.63 ॥

विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः

किमुवाचेत्याह-

विश्वास-प्रस्तुतिः

यथा श्रुतं वेदविदां वर ! त्वया
जनोयम् उच्चैः-पद-लङ्घनोत्सुकः
तपः किलेदं तद्-अवाप्ति-साधनं
मनो-रथानाम् अ-गतिर् न विद्यते ॥ 5.64 ॥+++(5)+++

English

(64.) O thou, worshipped of those who know the Vedas, thou hast heard the truth (lit. as it is); this (humble) These person is ambitious of attaining the highest post. austerities are a means of getting that: nothing is in accessible to desire (fancy).

मूलम्

किमुवाचेत्याह-
यथा श्रुतं वेदविदां वर ! त्वया जनोयमुच्चैःपदलङ्घनोत्सुकः ।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥ 5.64 ॥

अन्वयः

हेवेदविदां वर ! त्वया यथा श्रुतम् । अयं जनः उच्चैःपदलङ्घनोत्सुकः । इदं तपः तदवाप्तिसाधनं, (यतः) मनोरथानाम् अगतिः न विद्यते ।

मल्लिनाथः

यथेति । हे वेदविदांवर वैदिकश्रेष्ठ ! त्वया यथा श्रुतां सम्यक् श्रुतम् । श्रुतार्थमेवाह-अयं जनः । स्वयमित्यर्थः । उच्चैःपदस्य शिवलाभरुपोन्नतस्थानस्य लङ्घन आक्रमण उत्सुकः । किमत्रायुक्तमित्यत्राह- इदं तपस्तदवाप्तेस्तस्योच्चैः पदस्यावाप्तेः प्राप्तेः साधनं किलेत्यलीके । अतितिच्छत्वादसाधकमेवेत्यर्थः । तर्हि त्यज्यतामित्याशङ्क्य दुराशा मां न मुञ्चतीत्याशयेनाह-मनोरथानां कामानामगतिरविषयो न विद्यते । न हि स्वशक्तिपर्यालोचनया कामाः प्रवर्तन्त इति भावः ॥ 5.64 ॥

अनौचिय-कथा

विश्वास-प्रस्तुतिः

अथाह वर्णी विदितो महेश्वरस्
तद्-अर्थिनी त्वं पुनर् एव वर्तसे
अमङ्लाभ्यास-रतिं विचिन्त्य तं
तवानुवृत्तिं च कर्तुम् उत्सहे ॥ 5.65 ॥

English

(65.) Then said the ascetic- Mahes’wara is well known: and yet thou hast a yearning after him; knowing him possess a love for inauspicious things, I cannot see my way to approve of thy desire.

मूलम्

अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे ।
अमङ्लाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥ 5.65 ॥

अन्वयः

अथ वर्णी आह- ‘महेश्वरो विदितः, पनः त्वं तदर्थिनी वर्तसे ? तम् अमङ्गलाऽभ्यासरतिं विचिन्त्य तव अनुवृत्तिं कर्तुं न उत्सहे’ ।

मल्लिनाथः

अथेति । अथ वर्णी ब्रह्मचारी । ‘वर्णिनो ब्रह्मचारिणः’ इत्यमरः । आह । उवाचेत्यर्थः । ‘आहेति भूतार्थे लट्प्रयोगो भ्रान्तमूलः’ इत्याह वामनः । किमित्याह-महेश्वरो महादेवो विदितः । मया ज्ञायत इत्यर्थः । बुद्धर्थत्वाद्वर्तमाने क्तप्रत्ययः, तद्योगात्षष्ठी च । येन त्वं प्रग्भग्नमनोरथा कृतेतिभावः । पुनरेव त्वं तीश्वरमर्थयसे तदर्थिन्येव तत्कामैव प्रवर्तसे । तत्प्रभावमनुभूयापीति भावः । अनुसरेणे को दोषस्तत्राह- अमङ्गलाभ्यासेऽमङ्गलाचारे रतिर्यस्त तं यथोक्तमीश्वरं विचिन्त्य तवानुवृत्तिमनुसरणं कर्तु नोत्सहे । नानुमन्तुं शक्नोमीत्यर्थः ॥ 5.65 ॥

विश्वास-प्रस्तुतिः

अ-वस्तु-निर्बन्ध-परे कथं नु ते
करोऽयम् आमुक्त+++(=आसक्त)+++-विवाह-कौतुकः+++(=रक्षा-सूत्रः)+++ ।
करेण शंभोर् वलयी-कृताहिना
सहिष्यते तत्-प्रथमावलम्बनम् ॥ 5.66 ॥

English

(66.) O thou who hast fixed (thy mind) on a worthless object, how can this thy hand with the nuptial string still tied round it, bear the first clasp of S’ambhu’s hand decked with circling snakes?

मूलम्

अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः ।
करेण शंभोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ 5.66 ॥

अन्वयः

हे अवस्तुनिर्बन्धपरे ! आमुक्तविवाहकञ्चुकः ते अयं करः वलयीकृताषऽहिना शम्भोः करेण तत्प्रथमाऽवलम्बनं कथं नु सहिष्यते ?

मल्लिनाथः

अवस्त्विति । अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिविवेशः परं प्रधानं यस्यस्तस्याः संबुद्धिरवस्तुनिर्बन्धपरे पार्वति, आमुक्तम् आसञ्जितं विवाहे यत्कौतुकं हस्तसूत्रं तद्यस्य स तेऽयं करः । ‘कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले’ इति शास्वतः । वलयीकृताहिना भूषणीकृतसर्पेण शंभोर्महादेवस्य करेण करणभूतेन । तदेव प्रथमं तत्प्रथमम् । अपरिचितत्वादतिभयंकरमिति भावः । तच्च तदवलम्बनं ग्रहणं चेति कथं नु सहिष्यते । न कथंचिदपि सहिष्यत इत्यर्थः । अग्रतो यद्भावि तद् दूरेऽवतिष्ठतां प्रथमं करग्रह एव दुःसह इति भावः ॥ 5.66 ॥

विश्वास-प्रस्तुतिः

त्वम् एव तावत् परिचिन्तय स्वयं
कदाचिद् एते यदि योगम् अर्हतः
वधू-दुकूलं कल-हंस-लक्षणं
गजाजिनं शोणित-बिन्दु-वर्षि च ॥ 5.67 ॥

English

(67.) Do thou thyself consider adequately whether these two things can ever bear being together the bridal ( 36 ) silks gleaming with the (figures of) swans and the elephanthide dripping with blood?

मूलम्

त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः ।
वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥ 5.67 ॥

अन्वयः

हे गौरि ! त्वम् एव तावत् परिचिन्तय । कलहंसलक्षणं वधूदुकूलं शोणितबिन्दुवषिं गजाऽजिनं च, एते कदाचित् योगम् अर्हतः यदि ? ।

मल्लिनाथः

त्वमेवेति । हे गौरि ! त्वमेव स्वयमात्मना । तावदितिमात्रार्थे। यावन्मात्रं विचारणीयं तावन्मात्रमित्यर्थः । इदमेवोदाहृतं च गणव्याख्याने । परिचिन्तय पर्यालोचय । किमिति । कलहंसलक्षणं कलहंसचिह्नम् । ‘चिह्नं लक्ष्म च लक्ष्मणम्’ इत्यमरः वध्वा नवोढाया दुकूलं वधूदुकूलम् । ‘वधूः स्नुषा मनोढा स्त्री’ इति विश्वः । तथा शोणितबिन्दून्वर्षतीति यथोक्तम् । आर्द्रमित्यर्थः । गजाजिनं च कृत्तिवासश्च । तत्पिनाकिन इत्याशयः । एते कदाचिज्जात्वपि योगं संगतिमर्हतो यद्यर्हतः किम् । एतत् त्त्वमेव चिन्तयेति पूर्वेणान्वयः । पाणिग्रहणकाले वधूवरयोर्वस्त्रान्तग्रन्थिः क्रियते । कृत्तिवाससा पाणिपीडने तु दुकीलधारिण्यास्तव कथं संघटिष्यत इति भावः ॥ 5.67 ॥

विश्वास-प्रस्तुतिः

चतुष्क-पुष्प-प्रकर+++(=समूह)++++अवकीर्णयोः
परो+++(=अमित्रो)+++ऽपि को नाम तवानुमान्यते
अलक्तकाङ्कानि पदानि पादयोर्
विकीर्ण-केशासु परेत-भूमिषु ॥ 5.68 ॥+++(4)+++

English

(68.) Who, even an enemy, consent (to see) the footprints, leaving marks of red vermeil of thy feet treading upon flowers in the saloon, traced upon the ground of the dead spread over with hair?

मूलम्

चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमान्यते ।
अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु ॥ 5.68 ॥

अन्वयः

चतुष्कपुष्पप्रकाराऽवकीर्णयोः तव पादयोः अलक्तकाऽङ्कानि पदानि विकीर्णकेशासु परेतभूमिषु परोऽपि के नाम अनुमन्यते ?

मल्लिनाथः

चतुष्केति । चतुष्के गृहविशेषे यः पुष्पप्रकरस्तत्राऽवकीर्णयोर्न्यस्तयोः । कुसुमास्तृतदिव्यभवनभूसंचारोचितयोरित्यर्थः । तव पादयोरलक्तकाङ्कानि लाक्षारञ्जितानि पदानि पादाकाराणि पादन्यासचिह्नानि लाक्षारञ्जितानि पदानि पादाकाराणि पादन्यासचिह्नानि । ‘पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चिह्नयोः’ इति विश्वः । विकीर्णा विक्षिप्ताः केशाः शवशिरोरुहा यासु तासु विकार्णकेशासु । ‘अतत्स्थं तत्र दृष्टं च’ इति वचनात् । ‘स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्’ इति विकल्पान्न ङीष् । परेतभूमिषु प्रेतभूमिषु प्रेतभूमिषु । श्मशानेष्वित्यर्थः । परोऽपि शत्रुरपि को नामानिमन्यते । न कोऽपीत्यर्थः । नामेति कुत्सायाम् । पिनाकपाणिग्रहणे तस्य परेतभूसंवारित्वेन साहचर्यात्तवापि तत्र संचारोऽवश्यंभावीति भावः ॥ 5.68 ॥

विश्वास-प्रस्तुतिः

अ-युक्त-रूपं किम् अतः परं वद -
त्रि-नेत्र-वक्षः सुलभं तवापि यत् ।
स्तन-द्वयेऽस्मिन् हरि-चन्दनास्पदे
पदं चिताभस्म-रजः करिष्यति ॥ 5.69 ॥

English

(69.) Say-Is there any thing more ungainly than this that the ashes of the funeral pyres easy to be obtained from the bosom of the three-eyed God will make their home on thy bosom, a (fitting) place for sandal wood paste?

मूलम्

अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।
स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥ 5.69 ॥

अन्वयः

त्रिनेत्रवक्षः तव सुलभम् अपि, अतःपरम् अयुक्तरूपं किं ? वद यत् हरिचन्दनास्पदे अस्मिन् स्तनद्वये चिताभस्मरजः पदं करिष्यति ।

मल्लिनाथः

अयुक्तेति । त्रिनेत्रवक्षः, त्र्यम्बकालिङ्नमित्यर्थः । तव तत्संबन्धितया सुलभमपि सुप्रापं च । भवतीति शेषः । तवेति शेषे षष्ठी । ‘न लोकाव्यये-’ त्यादिना कृद्योगगलक्षणषष्ठ्या निषेधात् । अतः परमस्मात्त्रिनेत्रवक्षोलाभादन्यदयुक्तरुपमत्यन्तायुक्तं किं वद । न किंचिदित्यर्थः । ‘प्रशंसायां रुपप्’ इति रुपप्प्रत्ययः । कुतः । यद्यस्मात्कारणाद्धरिचन्दनास्पदे हरिचन्दनस्यास्पदे स्थानभूतेऽस्मिन्स्तनद्वये चिताभस्म श्मशानभस्म तदेव रजश्चीर्ण कर्तृ । पदं करिष्यति पदं निधास्यति । भर्तुर्भवस्य भस्माङ्गरायादिति भावः ॥ 5.69 ॥

विश्वास-प्रस्तुतिः

इयं च तेऽन्या पुरतो विडम्बना
यद्-ऊढया वारण-राज-हार्यया ।
विलोक्य वृद्धोक्षम् अधिष्ठितं त्वया
महा-जनः स्मेर-मुखो भविष्यति ॥ 5.70 ॥

English

(70.) Then again this another humiliation will await thee-great men will have smiling countenances, on seeing thee, fit to be borne by a lordly elephant, striding the bull, after marriage.

मूलम्

इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया ।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥ 5.70 ॥

अन्वयः

इयं च ते पिरतः अन्या बिडम्बना, यत् ऊढया वारणराजहार्यया त्वया अधिष्ठितं वृद्धोक्षं विलोक्य महाजनः स्मेरमुखो भविष्यति ।

मल्लिनाथः

इयमिति । इयं च ते तव पुरत आदावेवान्या विडम्बना । परिहास इत्यर्थः । का सेत्यत्राह-ऊढया परिणीतया । वहेः कर्मणि क्तः । वारणराजहार्यया त्वयाधिष्ठितमारुढं वृद्धमुक्षाणं वृद्धोक्षम् । ‘अचतुरे-’ त्यादिना निपातः । विलोक्य महाजनः साधुजनः स्मेरमुखः स्मितमुखो भविष्यत्युपहसिष्यति यत् । इयमिति पूर्वेण सबन्धः । स्मेरेति ‘नमिकम्पिस्म्यजसे-’ त्यादिना रप्रत्ययः ॥ 5.70 ॥

विश्वास-प्रस्तुतिः

द्वयं गतं संप्रति शोचनीयतां
समागम-प्रार्थनया पिनाकिनः ।
कला च सा कान्तिमती कलावतस्
त्वम् अस्य लोकस्य च नेत्र-कौमुदी ॥ 5.71 ॥ +++(4)+++

English

(71.) By their earnest (desire) for union with the Tridentholder, two things have now become objects of commiseration: the digit of the (moon) and thyself, the moonlight of the eyes of the world.

मूलम्

द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ 5.71 ॥

अन्वयः

पिनाकिनः समागमप्रार्थनया सम्प्रति कलावतः कान्तिमती सा कला अस्य लोकस्य नेत्रकौमुदी त्वं च द्वयं शोचनीयतां गतम् ।

मल्लिनाथः

द्वयमिति । पिनाकिन ईश्वरस्य समागमप्रार्थनया प्राप्तिकामनया । क्रियमाणयेति शेषः । संप्रति द्वयं शोचनीयतां शोच्यत्वं गतम् । किं तदह-सा प्रागेव हरशिरोगता । अत्र सेति प्रसिद्धार्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशं-प्रकान्तप्रसिद्धानिभूतार्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशे-प्रकान्तप्रसिद्धानिभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते इति । कान्तिमती । नित्ययोगे मतुप् । कलावतश्चन्द्रस्य कला षोडशो भागश्चास्य लोकस्य नेत्रकौमुदी । नेत्रानन्दिनीत्यर्थः । त्वं च । कान्तिमतीत्वनेत्रकौमुदौत्वविशेषणयोरुभयत्राप्यन्वयः । प्रागेकैव शोच्या । संप्रति तु त्वमप्यपरेति द्वयं शोच्यमिति पिण्डितार्थः । शोच्यात्वं च निकृष्टाश्रयणादिति भावः ॥ 5.71 ॥

विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः

‘कन्या वरयते रूपं,
माता वित्तं, पिता श्रुतम् ।
बान्धवाः कुलमिच्छन्ति,
मिष्टान्नमितरे जनाः ॥’

इति लोकानामाभाषणम् ।
तत्र किंचिदपि नास्तीत्याह-

विश्वास-प्रस्तुतिः

वपुर् विरुपाक्षम्, अ-लक्ष्य-जन्मता
दिग्-अम्बरत्वेन निवेदितं वसु ।
वरेषु यद् बालमृगाक्षि ! मृग्यते
तद् अस्ति किं व्यस्तम् अपि त्रिलोचने ? ॥ 5.72 ॥

English

(72.) His body is (deformed) having monstrous eyes, his descent is obscure (not to be found out), and his wealth is shown by his having the quarters for a garment. O thou having eyes like those of a young gazelle, is whatever expected in a husband found in the three-eyed One, even taken singly?

मूलम्

वपुर्विरुपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि ! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ? ॥ 5.72 ॥

अन्वयः

वपुः विरुपाक्षम्, अलक्ष्वजन्मना, वसु दिगम्बरत्वेन निवेदितम् । हे बालमृगाक्षि ! वरेषु यत् मृग्यते तत् त्रिलोचने व्यस्तम् अपि अस्ति किम् ?

मल्लिनाथः

वपुरिति । वपुस्तावदस्य विरुपाणि विकृतरुपाण्यक्षीणि नेत्राणि यस्य तद्विरुपाक्षम् । ‘बहुव्रोहौ सक्थ्यक्षणोः स्वाङ्गात्षच्’ इति षच् प्रत्ययः । वैरुप्यं च त्रिनेत्रत्वादिति क्षीरस्वामी । अतो न सौन्दर्यवार्त्तापीत्यर्थः । ‘अलक्ष्यमज्ञातं जन्म’ इति पाठे जनिरुत्पत्तिरलक्षिता न ज्ञाता । ‘जनिरुत्पत्तिरुद्भवः’ इत्यमरः । वसु वित्तं दिगम्बरत्वेनैव निवेदितम् । नास्तीति ज्ञापितमित्यर्थः । यदि वित्तं भवति तदा कथं दिगम्बरो भवति । अतो ज्ञेयं निर्धनोऽयमिति । कि बहुना हे बालमगाक्षि पार्वति ! वरेषु वोढृषु । ‘वरौ जामातृवोढारौ’ इति विश्वः । यद्रूपवित्तादिकं मृग्यते कम्यातद्वन्धुभिरन्विष्यते तत्त्रिलोचने त्र्यम्बके व्यस्तम् । एकमपि समस्तं मा भूदिति भावः । अस्ति किम् । नास्त्येवेत्यर्थः ॥ 5.72 ॥

विश्वास-प्रस्तुतिः

निवर्तयास्माद् अ-सद्-ईप्सितान् मनः
क्व तद्-विधस्, त्वं क्व च पुण्य-लक्षणा ?
अपेक्ष्यते साधु-जनेन वैदिकी +++(→यूप-सत्-क्रिया)+++
श्मशान-शूलस्य यूप-सत्-क्रिया ॥ 5.73 ॥

English

(73.) Turn thy heart from this evil desire; what a disance is there between one of that kind, and thee with auspicious marks? A gibbet of the burial ground is not expected to be treated with the Vedic rites proper for a sacrificial post, by the good.

मूलम्

निवर्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा ?
अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ॥ 5.73 ॥

अन्वयः

अस्मात् असदीप्सितात् मनी निवर्तय । तद्विधः क्व ? पुण्यलक्षणा त्वं च क्व ? साधुजनेन श्मशानशूलस्य वैदिकी यूपसत्क्रिया न अपेक्ष्यते ।

मल्लिनाथः

निवर्तयेति । अस्मादसदीप्सितादनिष्टमनोरथान्मनो निवर्तय निवारय । सा पूर्वोक्ता विधा प्रकारो यस्य तथोक्तः । अमङ्गलशील इत्यर्थः । क्व । महदन्तरमित्यर्थः । पुण्यलक्षणा प्रशस्तभागयचिह्ना त्वं च क्व । अतो न तवायमर्ह इत्यर्थः । तथाहि साधुजनेन । ‘साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्’ । इति विश्वः । श्मशानशूलस्य श्मशानभूमिनिखातस्य वध्याशङ्कोर्वैदिकी वेदोक्ता । यूपो नाम पशुबन्धनसाधनभूतः संस्कृतदारुविशेषस्तस्य सत्क्रिया प्रोक्षणाभ्युक्षणादिसंस्कारो यूपसत्क्रिया नापेक्ष्यते नेष्यते । यथा श्मशानशूले यूपसत्क्रिया न क्रियते तथा त्वमपि तस्मै न घटस इति तात्पर्यार्थः ॥ 5.73 ॥

प्रत्युत्तरम्

विश्वास-प्रस्तुतिः

इति द्विजातौ प्रतिकूल-वादिनि
प्रवेपमानाधर-लक्ष्य-कोपया ।
विकुञ्चित-भ्रूलतम् आहिते तया
विलोचने तिर्यग् उपान्त-लोहिते ॥ 5.74 ॥

English

(74.) By her, whose anger could be guessed from her quivering nether lip, were cast askance upon the twiceborn, talking adversely, her eyes, red at the corners, with a hown gathered on the creeper like-brows.

मूलम्

इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ।
विकुञ्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ॥ 5.74 ॥

अन्वयः

इति द्विजातौ प्रतिकूलवादिनि सति प्रवेपमानाऽधरलक्ष्यकोपया तया उपान्तलोहिते विलोचने विकुञ्चिताभ्रूलतं तिर्यक् आहिते ।

मल्लिनाथः

इतीति । इत्येवंप्रकारेण द्विजातौ द्विजे प्रतिकूलवादिनि सति प्रवेपमानेन चञ्चलेनाधरेणाधरोष्ठेन लक्ष्योऽनुमेयः कोपः क्रोधो यस्यास्तथोक्तया तया पार्वत्योपान्तलोहिते प्रान्तरक्ते विलोचने विकुञ्चिते कुटिलिते भ्रूलते यस्मिंस्तत्तथा । सभ्रूभङ्गमित्यर्थः । तिर्यक्साच्याहिते निहिते अनादरात्तिर्यगैक्ष्यतेत्यर्थः ॥ 5.74 ॥

विश्वास-प्रस्तुतिः

उवाच चैनं - “परमार्थतो हरं
न वेत्सि नूनं, यत एवम् आत्थ माम् ।
अ-लोक-सामन्यम् अ-चिन्त्य-हेतुकं
द्विषन्ति मन्दाश् चरितं महात्मनाम्” ॥ 5.75 ॥

English

(75.) And him she thus addressed: -“Indeed thou dost not know Hara aright, since thou talkest thus to me. The dullwitted find fault with the course of life of the magnanimous, which is not in common with that of other people, and the motive of which is difficult to divine.” ( 37 )

मूलम्

उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् ।
अलोकसामन्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ 5.75 ॥

अन्वयः

अथ एनम् उवाच च-त्वं परामार्थतो हरं न वेत्सि नूनम्, यत एवम् आत्थ । मन्दा अलोकसामान्यम् अचिन्त्यहेतुकं महात्मनां चरितं द्विषन्ति ।

मल्लिनाथः

उवाचेति । अथैनं ब्रह्मचारिणमुवाच च । किमिति ? परमार्थतस्तत्त्वतो हरं न वेत्सि न जानासि नूनम् । कुतः । यतो मामेवमुक्तया रीत्यात्थ ब्रवीषि । ‘ब्रुवः पञ्चानामादित-इति रुपसिद्धिः । अज्ञानादेवायं शिवद्वेषस्तवेत्याशयेनाह-मन्दा मृढाः ‘मूढाल्पापटुनिर्भाग्या मन्दाः’ इत्यमरः । लोकसामान्यमितरजनसाधारणं न भवतीत्यलोकसामान्यमचितन्त्हेतुकं दुर्बोधकारणकं महात्मनां चरितम् । द्विषन्ति हेत्वपरिज्ञानाद् दूषयन्ति । विद्वांसस्तु कोऽप्यत्र हेतुरस्तीति बहु मन्यन्त इत्यर्थः ॥ 5.75 ॥

विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः

संप्रति ‘अमङ्गलाभ्यासरतिम्’ (5/65) इत्याद्युक्तं दूषणजातम् ‘विपद्’ इत्यादिभिः षङ्भिः श्लोकैः परिहर्तुमारभते-

विश्वास-प्रस्तुतिः

विपत्-प्रतीकार-परेण मङ्गलं
निषेव्यते भूति-समुत्सुकेन वा ।
जगच्-छरण्यस्य निराशिषः सतः
किम् एभिर् आशोपहतात्म-वृत्तिभिः ? ॥ 5.76 ॥+++(5)+++

English

(76.) Auspicious things are resorted to by one, who is anxious to ward off calamities or to attain prosperity. What has he, who is the protector of the world and has nothing to wish for, to do with these, which corrupt the functions of the mind by generating desires?

मूलम्

विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।
जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ? ॥ 5.76 ॥

अन्वयः

विपत्प्रतीकारपरेण भूतिसमुत्सुकेन वा मङ्गलं निषेव्यते । जगच्छरण्यस्य निराशिषः सतः आशोपहतात्मवृत्तिभिः एभिः किम् ?

मल्लिनाथः

विपदिति । विपत्प्रतीकारपरेण । अनर्थपरिहारार्थिनेत्यर्थः । ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ इति दीर्घः । भूतिसमुत्सुकेनैश्वर्यकामेन वा मङ्गलं गन्धमाल्यादिकं निषेव्यते । शरणे रक्षणे साधुः शरण्यः । ‘तत्र साधुः’ इति यत्प्रत्ययः । ‘शरणं गृहरक्षित्रोः’ इत्यमरः । जगतः शरण्यस्तस्य जगच्छरण्यस्य निराशिषो निरभिलाषस्य सतः शिवस्य । ‘आशीरिरगदंष्टायां विप्रवाक्याभिलाषयोः’ इति शाश्वतः । आशया तृष्णयोपहतादूषितात्मवृत्तिरन्तःकरणवृत्तिर्येषां तैरेभिर्मङ्गलैः किम् । वृथेत्यर्थः पूर्वमङ्लमित्येकवचनस्य जात्यभिप्रायत्वादेभिरिति बहुवचनेन परामर्शो न विरुध्यते । इष्टावाप्त्यनिष्टपरिहारार्थिनो हि मङ्गलाचारनिर्बन्धः । तदुभयासंसृष्टस्य तु यथाकथंचिदास्ताम् । को दोष इत्यर्थः । एतेन ‘अमङ्गलाभ्यासरतिम्’ । (5/65) इत्युक्तं प्रत्युक्तम् ॥ 5.76 ॥

विश्वास-प्रस्तुतिः

अकिचनः सन् प्रभवः स संपदां,
त्रिलोक-नाथः पितृ-सद्म-गोचरः
स भीम-रूपः शिव इत्य् उदीर्यते,
न सन्ति याथार्थ्य-विदः पिनाकिनः ॥ 5.77 ॥

English

(77.) Himself poor, he is the spring of wealth; living (lit. found) in the cremation ground (the above of the dead) he is the lord of the three worlds; of terrible form he is called S’iva (of gentle aspect). None are there who know the Trident-holder for what he is,

मूलम्

अकिचनः सन्प्रभवः स संपदां, त्रिलोकनाथः पितृसद्मगोचरः ।
स भीमरूपः शिव इत्युदीर्यते, न सन्ति याथार्थ्यविदः पिनाकिनः ॥ 5.77 ॥

अन्वयः

सः अकिञ्चिनः सन् सम्पदां प्रभवः, पितृसद्मगोचरः सन् त्रिलोकनाथः भीमरूपः सन् ‘शिव’ इति उदीर्यते । (अतः) पिनाकिनः याथार्थ्यविदो न सन्ति ।

मल्लिनाथः

अकिंचनेति । स हरः । न विद्यते किंचन द्रव्यं यस्य सोऽकिंचनो दरिद्रः सन् । संपदां प्रभवत्यस्मादिति प्रभवः कारणम् । पितृसद्मगोचरः श्मशानाश्रयः सन् । त्रयाणां लोकानां नाथः ‘तद्धितार्थे-’ त्यादिनोत्तरपदसमासः । सदेवो भीमरुपो भयंसराकारः सन् । शिवः सौम्यरुप इत्युदीर्यते उच्यते । अतः पिनाकिनो हरस्य यथाभूतोऽर्थो यथार्थस्तस्य भावो याथार्थ्य तत्वं तस्य विदो न सन्ति । लोकोत्तरमहिम्नो निर्लेपस्य यथाकथञ्चिदवस्थानं न दोषायेति भावः । एतेन ‘अवस्तुनिर्बन्धपरे’ (5/66) इति परिहृतं वेदितव्यम् ॥ 5.77 ॥

विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः

देवस्य लौकिकमलौकिकं च प्रसाधनं नास्तीत्याशयेनाह-

विश्वास-प्रस्तुतिः

विभूषणोद्भासि, पिनद्ध-भोगि वा
गजाजिनालम्बि दुकूल+++(=क्षौम)+++-धारि वा ।
कपालि वा स्याद् अथवेन्दु-शेखरं
विश्वमूर्तेर् अवधार्यते वपुः ॥ 5.78 ॥

English

(78.) The shape of one whose form is the universe can not be determined: It may be resplendent with ornaments or entwined with serpents, dressed in the elephant-hide or again in silken garments, or it may have a vessel of skull or the moon on the crest.

मूलम्

विभूषणोद्भासि, पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।
कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ॥ 5.78 ॥

अन्वयः

विश्वमूर्तेः वपुः विभूषणोद्भासि, पिनद्धभोगि वा, गजाऽजिनालम्बि, दुकूलधारि वा, कपालि वा, अथवा इन्दुशेखलरे स्यात् न अवधार्यते ।

मल्लिनाथः

विभूषणेति । विश्वं मूर्तिर्यस्येति विश्वमूर्तेरष्टमूर्तेः शिवस्य वपुः शरीरं भूषणैरुद्भासत इति भूषणोद्भासि स्यात् । पिनद्धभोग्यामुक्तभुजङ्गमं वा स्यात् । पिनद्धेति नह्यतेरपिपूर्वात्कर्मणि क्तः । ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः’ इत्यकारलोपः । गजाजिनालम्बि स्यात् अथवा दुकूलधारि स्यात् । कपालमस्यास्तीति कपालि ब्रह्मशिरःकपालशेखरं वा स्यात् इन्दुशेकरं वा स्यात्म । नावधार्यते न निर्धार्यते । सर्वं संभवतीत्यर्थः । एतेन ‘त्वमेव तावत्’ (5/67) इति श्लोकोक्तं प्रत्युक्तमिति ज्ञेयम् ॥ 5.78 ॥

विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः

अयुक्तरूपं किमतः परं वद (5/69) इति श्लोकोक्तं प्रत्याह-

विश्वास-प्रस्तुतिः

तद्-अङ्ग-संसर्गम् अवाप्य कल्पते
ध्रुवं चिता-भस्म-रजो विशुद्धये
तथा हि नृत्याभिनय-क्रियाच्युतं
विलिप्यते मौलिभिर् अम्बरौकसाम् ॥ 5.79 ॥ +++(5)+++

English

(79.) Certainly the particles of the ashes of the funeral pyre even become sanctifying by having obtained a touch of his body; and hence are held on the head by the dwellers of heaven when dropped in the act of exhibiting the gestures of dancing.

मूलम्

तदङ्ग संसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये ।
तथाहि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसाम् ॥ 5.79 ॥

अन्वयः

तदङ्गसंर्गम् अवाप्य चिताभस्मरजो विशुद्धये कल्पते ध्रुवम् । तथा हि-नृत्याऽभिनयक्रियाच्युतं चिताभस्मरजः अम्बरौकसां मौलिभिः विलिप्यते !

मल्लिनाथः

तदिति । शिवस्याङ्गम् तस्य संसर्गमवाप्यासाद्य चिताभस्मैव रचो विशुद्धये कल्पते । अलं पर्याप्नोतीत्यर्थः । अलमर्थयोगात् ‘नमः- स्वस्तिस्वाहे-’ त्यादिना चतुर्थी । ध्रुवं शोधकत्वम् । प्रमाणसिद्धमित्यर्थः । प्रमाणमेवाह–तथाहि । प्रसिद्धमेवेत्यर्थः । वृत्ये ताण्डवे योऽभिनयोऽर्थव्यञ्जकचेष्टाविशेषः स एव क्रिया तया निमित्तेन च्युतं पतितम् । चिताभस्मरज इति शेषः । अम्बरौकसां देवानां मौलिभिर्विलिप्यते ध्रियते । अशुद्धं चेत्कथमिन्द्रादिभिर्ध्रियेतेत्यर्थापत्तिरनुमानं वा प्रमाणमित्यर्थः ॥ 5.79 ॥

विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः

यदुक्तम् ‘दिगम्बरत्वेन निवेदितं वसु (5/72) ‘इयं च तेऽन्या पुरतो विडम्बना’ (5/70) इत्यादि च तत्रोत्तरमाह-

विश्वास-प्रस्तुतिः

अ-संपदस् तस्य वृषेण गच्छतः
+++(मद-)+++प्रभिन्न-+++(पूर्व-)+++दिग्-वारण-वाहनो वृषा+++(=इन्द्रः)+++ ।
करोति पादाव् उपगम्य मौलिना
विनिद्र-मन्दार-रजोऽरुणाङ्गुली ॥ 5.80 ॥

English

(80.) Indra, having for his vehicle the rutting elephant of the (eastern) quarter, touches, with his crest, the feet of that poor God, who goes about on the bull and makes their toes red with the pollen-dust of the full-blown flowers of the heavenly trees.

मूलम्

असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा ।
करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥ 5.80 ॥

अन्वयः

प्रभिन्नदिग्वारणवाहनो वृषा असम्पदो वृषेण गच्छतः तस्य पादौ मौलिना उपगम्य विनिद्रमन्दारजोऽरुणाऽङ्गुली करोति ।

मल्लिनाथः

असंपद इति । प्रभिन्नो मदस्त्रावी दिग्वारणो दिग्गजो वाहनं यस्य सः । ऐरावतेनोढ इत्यर्थः । वृषा देवेन्द्रोऽसंपदो दरिद्रस्य वृषेण गच्छतो वृषभारुढस्य तस्येश्वरस्य पादौ मौलिना मुकुटेनोपगम्य प्रणम्येत्यर्थः । विनिद्राणां विकसितानां मन्दाराणां कल्पतरुकुसुमानां रजोभिः परागैररुणा अङ्गुलयो ययोस्तै तथोक्तौ करोति । दिग्गजारोहिणामिन्द्रादीनामपि वन्द्यस्येन्दुमौलेः किं संपदा, वृषारोहणे वा को दोष इत्यर्थः ॥ 5.70 ॥

विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः

यदुक्तम् ‘अलक्ष्यजन्मता’ (5/72) इति तत्रोत्तरमाह-

विश्वास-प्रस्तुतिः

विवक्षता दोषम् अपि च्युतात्मना
त्वयैकम् ईशं प्रति साधु भाषितम्
यम् आमनन्त्य् आत्म-भुवोऽपि कारणं
कथं स लक्ष्य-प्रभवो भविष्यति ? ॥ 5.81 ॥

English

(81.) Thou, of depraved soul, although wishing to speak the faults of the Lord, hast said one good thing about him. How can he, who is considered the parent of even the selfexistent Brahmá, have his origin known?

मूलम्

यदुक्तम् ‘अलक्ष्यजन्मता’ (5/72) इति तत्रोत्तरमाह-
विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् ।
यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ? ॥ 5.81 ॥

अन्वयः

च्युतात्मना, दोषं विवक्षता अपि त्वया ईशं प्रति एकं साधु भाषितम । यम् आत्मभुवोऽपि कारणम् आमनन्ति स कथं लक्ष्यप्रभवो भविष्यति ।

मल्लिनाथः

विवक्षतेति । च्युतात्मना नष्टस्वभावेनात एव दोषं दूषणं विवक्षता वक्तुमिच्छतापि त्वयेशं प्रत्येकम् ‘अलक्ष्यजन्मता’ इत्येतदेकम् । वच इत्यर्थः । साधु भाषितं सम्यगुक्तम् । कुतः ? यमीश्वरमात्मभुवोऽपि ब्रह्माणोऽपि । ‘ब्रह्मात्मभूः सुरज्येष्ठ’ इत्यमरः । कारणमामनन्त्युदाहरन्ति । विद्वांस इति शेषः । ‘पाध्राध्मास्थाम्नादाणि-’ त्यादिना मनादेशः । स ईश्वरः कथं लक्ष्यजन्मा भविष्यति । अनादिनिधनस्य भगवतः कारणशङ्काकलङ्कश्च नान्विष्यत इत्यर्थः ॥ 5.81 ॥

विश्वास-प्रस्तुतिः

अलं विवादेन यथा श्रुतस् त्वया
तथा-विधस् तावद् अ-शेषम् अस्तु सः ।
ममात्र भावैक-रसं मनः स्थितं,
काम-वृत्तिर् वचनीयम् ईक्षते ॥ 5.82 ॥ +++(4)+++

English

(82.) Though of disputing let him be, without any reservation, what you have heard him to be, My heart, however, is set on him, pervaded by the one sentimet of love; one, who wants to act as one likes, does not regard (care for) criticism (Ill-talk ).

मूलम्

अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः ।
ममात्र भावैकरसं मनः स्थितं, न कामवृत्तिर्वचनीयमीक्षते ॥ 5.82 ॥

अन्वयः

(अथवा) विवादेन अलम् । त्वया यथा स श्रुतः, अशेषः तथाविधः अस्तु । मम मनः अत्र भावैकरसं स्थितम् । कामवृत्तिः वचनीयं न ईक्षते ।

मल्लिनाथः

-अलमिति । अथवा विवादेन कलहेनालम् । त्वया यथा येन प्रकारेण स ईश्वरः श्रुतोऽशेषं कर्त्स्न्येन तथाविधस्तावत्प्रकार एवास्तु । मम मनस्त्वत्रेश्वरे भावः श्रृङ्गार एकोऽद्वितीयो रस आस्वाद्यो यस्य तत्तथा स्थितम् । तथाहि । कामवृत्तिः स्वेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेक्षते न विचारयति । न हि स्वेच्छासंचारिणो लोकापवादाद् बिभ्यतीति भावः ॥ 5.82 ॥

स्वरूप-प्रकटनम्

विश्वास-प्रस्तुतिः

निवार्यताम् आलि ! किम् अप्य् अयं वटुः
पुनर् विवक्षुः स्फुरितोत्तराधरः ।
न केवलं यो महतो ऽपभाषते
श्रृणोति तस्माद् अपि यः स पाप-भाक् ॥ 5.83 ॥

English

(83.) O friend, stop this boy who seems desirous of saying something as his upper lip quivers. Not only he, who talks ill of the mighty, but also he who listens to him is a sinner. K. T. 4 (38)

मूलम्

निवार्यतामालि ! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः ।
न केवलं यो महतोऽपभाषते श्रृणोति तस्मादपि यः स पापभाक् ॥ 5.83 ॥

अन्वयः

हे आलि ! स्फुरितौत्तराऽधरः अयं वटुः पुनः किमपि विवक्षुः निवार्यताम् । यो महतः अपभाषते न केवलं स पापभाक् भवति, यः तस्मात् श्रृणोति शोऽपि पापभाग् भवति ।

मल्लिनाथः

निवार्यतामिति । हे आलि सखि ! ‘आलिः सखी वयस्या च’ इत्यमरः । स्फुरितोत्तराधरः स्फुरणभूयिष्ठोऽयं बटुर्माणवकः पुनः किमपि विवक्षुर्वक्तुमिच्छुः । ब्रवः सन्नन्तादुप्रत्ययः । निवार्यताम् । तर्हि वक्तुमेव कथं न ददासीत्याह-तथाहि । यो महतः पूज्यानपभाषतेऽपवदति न केवलं स पापभाग्भवति । किंतु तस्मादपभाषमाणात्पुरुषाद्यः श्रृणोति सोऽपि पापभाक् । भवतीति । शेषः । अत्र स्मृतिः-‘गुरोः प्राप्तः परीवादो न श्रीतव्यः कथंचन । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ।’ इति ॥ 5.83 ॥

विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः

संप्रति गन्तव्यपक्षमाश्रयते-

विश्वास-प्रस्तुतिः

इतो गमिष्याम्य् अथवेति वादिनी
चचाल बाला स्तन-भिन्न-वल्कला ।
स्व-रुपम् आस्थाय च तां कृत-स्मितः
समाललम्बे वृष-राज-केतनः ॥ 5.84 ॥

English

(84.) Or rather I will bence; so saying the malden, with the bark garment slipping from her bosom, started and the bull-emblemed God, with a smile, held her having discovered his self.

मूलम्

इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।
स्वरुपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥ 5.84 ॥

अन्वयः

‘अथवा इतो गमिष्यामि’ इति वादिनी स्तनभिन्नवल्कला बाला चचाल । वृषराजकेतनः स्वरूपम् आस्थाय कृतस्मितः सन् तां समाललम्बे ।

मल्लिनाथः

इत इति । अथवेतोऽन्यत्र गमिष्यामिति वादिनी वदन्ती स्तनाभ्यां भिन्नवल्कला रयवशात्कुचस्त्रस्तचीरा बाला पार्वती चचाल । वृषराजकेतनो वृषभध्वजश्च स्वरुपमास्थाय निजरुपमाश्रित्य कृतस्मितः सन् तां पार्वतीं समाललम्बे जग्राह ॥ 5.84 ॥

विश्वास-प्रस्तुतिः

तं वीक्ष्य वेपथुमती सरसाङ्ग-यष्टिर्
निक्षेपणाय पदम् उद्धृतम् उद्वहन्ती
मार्गाचल-व्यतिकराकुलितेव सिन्धुः
शैलाधिराज-तनया न ययौ न तस्थौ ॥ 5.85 ॥

English

(85.) On seeing him, all a-trembling and her body covered with perspiration, the daughter of the Mountain-lord, having one foot raised to tread, was uncertain whether to go or to stay, like a river, hampered by the impediment of a mountain in the path.

मूलम्

तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेपणाय पदमुद्धृतमुद्वहन्ती ।
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ 5.85 ॥

अन्वयः

तं वीक्ष्य वेपथुमती सरसाऽङ्गयष्टिः निक्षेपणाय उद्धृतं पदम् उद्वहन्ती शैलाऽधिराजतनया मार्गाऽचलव्यतिकराकुलिता सिन्धुः इव न ययौ न तस्वौ ।

मल्लिनाथः

तमिति । तं देवं वीक्ष्य वेपथुमती कम्पवती सरसाङ्गयष्टिः स्विन्नगात्री । महादेवदर्शनेन देव्याः सात्विभावोदयः उक्तः । निक्षेपणायान्यत्र विन्यासायोद्धृतमुत्क्षिप्तं पदमङ्‌ध्रिमुद्वहन्ती शैलाधिराजतनया पार्वती मार्गैऽचलस्तस्य व्यतिकरेण समाहत्या । अवरोधनेनेति यावत् । आकुलिता संभ्रमिता सिन्धुर्नदीव । ‘देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्’ इत्यमरः । न ययौ न तस्थौ । लज्जयेति भावः । वसन्ततिलकावृत्तमेतत् ॥ 5.85 ॥

विश्वास-प्रस्तुतिः

“अद्य प्रभृत्यवनताङ्गि ! तवास्मि दासः
क्रीतस् तपोभिर्” इति वादिनि चन्द्र-मौलौ ।
अह्नाय सा नियम-जं क्लमम् उत्ससर्ज
क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ 5.86 ॥

मूलम्

अद्य प्रभृत्यवनताङ्गि ! तवास्मि दासः
क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
अह्नाय+++(=सद्यः)+++ सा नियमजं क्लमम् उत्ससर्ज
क्लेशः फलेन हि पुनर् नवतां विधत्ते ॥ 5.86 ॥

English

(86.) O thou of stooping limbs, henceforth I am thy slave bought by thy austerities”-as the Moon-crested God said these words, she forgot all her exhaustion caused by the austertles at once: fatigue gives fresh vigour again by the fruition (the achievement of the desired object ).

अन्वयः

‘हे अवनताङ्गि ! अद्यप्रभृति तव तपोभिः क्रीतः दासः अस्मि’ इति चन्द्रमौलौ वादिनि (सति) सा अह्नाय नियमजं क्लमम् उत्ससर्ज । हि क्लेशः फलेन पुनः नवतां विधत्ते ।

मल्लिनाथः

अद्येति । चन्द्रमौलौ शिवे । हे अवनताङ्गि पार्वति ! अद्य प्रभृति । अस्माद्दिनादारभ्येत्यर्थः । प्रभृतियोगादद्येति सप्तम्यर्थवाचिना पञ्चम्यर्यो लक्ष्यते । तव तपोभिः क्रीतः । दासृ दाने । दासत आत्मनं ददातीति दासोऽस्मीति वादिनि वदति सति । सा देव्यह्नाय सपदि । ‘स्त्रग्झटित्यञ्जसाह्नाय द्राङ् मङ्क्षु सपदि द्रुतम्’ इत्यमरः । नियमजं तपोजन्यं क्लमं क्लेशमुत्ससर्ज । फलप्राप्त्या क्लेशं विसस्मारेत्यर्थः । तथाहि । क्लेशः फलेन फलसिद्ध्या पुनर्नवतां विधत्ते पूर्ववदेवाक्लिष्टतामापादयतीत्यर्थः । सपलः क्लेशो न क्लेश इति भावः ॥ 5.86 ॥

विश्वास-प्रस्तुतिः

इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया
सञ्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतै
कुमारसंभवमहाकाव्ये तपःफलोदयो नाम पञ्चमः सर्गः ॥

मूलम्

इति श्रीमन्महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया
सञ्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतै
कुमारसंभवमहाकाव्ये तपःफलोदयो नाम पञ्चमः सर्गः ॥