ऋतुसंहारम्

प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः
सदावगाहक्षतवारिसञ्चयः ।
दिनान्तरम्योऽभ्युपशान्तमन्मथो
निदाघकालः समुपागतः प्रिये ॥१॥
निशाः शशाङ्कक्षतनीलराजयः
क्वचिद्विचित्रं जलयन्त्रमन्दिरम् ।
मणिप्रकाराः सरसं च चन्दनं
शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥२॥
सुवासितं हर्म्यतलं मनोरमं
प्रियामुखोच्छ्वासविकम्पितं मधु ।
सुतन्त्रि गीतं मदनस्य दीपनं
शुचौ निशीथेऽनुभवन्ति कामिनः ॥३॥
नितम्बबिम्बैः सुदुकूलमेखलैः
स्तनैः सहाराभरणैः सचन्दनैः ।
शिरोरुहैः स्नानकषायवासितैः
स्त्रियो निदाघं शमयन्ति कामिनाम् ॥४॥
नितान्तलाक्षारसरागलोहितैर्
नितम्बिनीनां चरणैः सुनूपुरैः ।
पदे पदे हंसरुतानुकारिभिर्
जनस्य चित्तं क्रियते समन्मथम् ॥५॥
पयोधराश्चन्दनपङ्कचर्च्छितास्
तुषारगौरार्पितहारशेखराः ।
नितम्बदेशाश्च सहेममेखलाः
प्रकुर्वते कस्य मनो न सोत्सुकम् ॥६॥
समुद्गतस्वेदचिताङ्गसन्धयो
विमुच्य वासांसि गुरूणि साम्प्रतम् ।
स्तनेषु तन्वंशुकमुन्नतस्तना
निवेशयन्ते प्रमदाः सयौवनाः ॥७॥
सचन्दनाम्बुव्यजनोद्भवानिलैः
सहारयष्टिस्तनमण्डलार्पितैः ।
सवल्लकीकाकलिगीतनिः स्वनैः
प्रबुध्यते सुप्त इवाद्य मन्मथः ॥८॥
सितेषु हर्म्येषु निशासु योषितां
सुखप्रसुप्तानि मुखानि चन्द्रमाः ।
विलोक्य निर्यन्त्रणमुत्सुकश्चिरं
निशाक्षये याति ह्रियेव पाण्डुताम् ॥९॥
असह्यवातोद्धतरेणुमण्डला
प्रचण्डसूर्यातपतापिता मही ।
न शक्यते द्रष्टुमपि प्रवासिभिः
प्रियावियोगानलदग्धमानसैः ॥१०॥
मृगाः प्रचण्डातपतापिता भृशं
तृषा महत्या परिशुष्कतालवः ।
वनान्तरे तोयमिति प्रधाविता
निरीक्ष्य भिन्नाञ्जनसन्निभं नभः ॥११॥
सविभ्रमैः सस्मितजिह्मवीक्षितैर्
विलासवत्यो मनसि प्रसङ्गिनाम् ।
अनङ्गसन्दीपनमाशु कुर्वते
यथा प्रदोषाः शशिचारुभूषनाः ॥१२॥
रवेर्मयूखैरभितापितो भृशं
विदह्यमानः पथि तप्तपांशुभिः ।
अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः
फणी मयूरस्य तले निषीदति ॥१३॥
तृषा महत्या हतविक्रमोद्यमः
श्वसन्मुहुर्भूरिविदारिताननः ।
न हन्त्यदूरेऽपि गजान्मृगाधिपो
विलोलजिह्वश्चलिताग्रकेशरः ॥१४॥
विशुष्ककण्ठाहतशीकराम्बसो
गभिस्तभिर्भानुमतोऽभितापिताः ।
प्रवृद्धतृष्णोपहता जलार्थिनो
न दन्तिनः केशरिणोऽपि बिभ्यति ॥१५॥
हुताग्निकल्पैः सवितुर्मरीचिभिः
कलापिनः क्लान्तशरीरचेतसः ।
न भोगिनं घ्नन्ति समीपवर्तिनं
कलापचक्रेषु निवेशिताननम् ॥१६॥
सभद्रमुस्तं परिपाण्डुकर्दमं
सरः खनन्नायतपोत्रमण्डलैः ।
प्रदीप्तभासा रविणा वितापितो
वराहयूथो विशतीव भूतलम् ॥१७॥
विवस्वता तीक्ष्णतरांशुमालिना
सपङ्कतोयात्सरसोऽभितापितः ।
उत्प्लुत्य भेकः तृषितस्य भोगिनः
फणातपत्रस्य तले निषीदति ॥१८॥
रविप्रभोद्भिन्नशिरोमणिप्रभो
विलोलजिह्वाह्वयलीढमारुतः ।
विषाग्निसूर्यातपतापितः फणी
न हन्ति मण्डूककुलं तृषाकुलः ॥१९॥
समुद्धृताशेषमृणालजालकं
विपन्नमीनं द्रुतभीतसारसम् ।
परस्परोत्पीडनसंहतैर्गजैः
कृतं सरः सान्द्रविमर्दकर्दमम् ॥२०॥
सफेणलालावृतवक्त्रसम्पुटं
विनिर्गतालोहितजिह्वमुन्मुखम् ।
तृषाकुलं निः सृतमद्रिगह्वराद्
गवेषमाणं महिषीकुलं जलम् ॥२१॥
पटुतरवनदाहात्प्लुष्टशष्पप्ररोहाः
परुषपवनवेगात्क्षिप्तसंशुष्कपर्णाः ।
दिनकरपरितापात्क्षीणतोयाः समन्ताद्
विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः ॥२२॥
श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः
कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् ।
भ्रमति गवययूथः सर्वतः तोयमिच्छन्
शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥२३॥
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
प्रबलपवनवेगोद्धूतवेगेन तूर्णम् ।
तरुविटपलताग्रालिङ्गनव्याकुलेन
दिशि दिशि परिदग्धा भूमयः पावकेन ॥२४॥
ध्वनति पवनविद्धः पर्वतानां दरीषु
स्फुटति पटुनिनादः शुष्कवंशस्थलीषु ।
प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन
क्षपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥२५॥
बहुतर इव जातः शाल्मलीनां वनेषु
स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् ।
परिणतदलशाखादुत्पतत्याशु वृक्षाद्
भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥२६॥
गजगवयमृगेन्द्रा वह्निसन्तप्तदेहाः
सुहृद इव समेता द्वन्द्वभावं विहाय ।
हुतवहपरिखेदादाशु निर्गत्य कक्षाद्
विपुलपुलिनदेशां निन्नगामाश्रयन्ते ॥२७॥
कमलवनचिताम्बुः पाटलामोदरम्यः
सुखसलिलनिषेकः सेव्यचन्द्रांशुजालः ।
व्रजतु तव निदाघः कामिनीभिः समेतो
निशि सुललितगीतैर्हर्म्यपृष्टे सुखेन ॥२८॥

सशीकराम्बोधरमत्तकुञ्जरः
तडित्पताकोऽशनिशब्दमर्दलः ।
समागतो राजवदुद्धतध्वनिर्
घनागमः कामिजनप्रियः प्रिये ॥१॥
नितान्तनीलोत्पलपत्रकान्तिभिः
क्वचित् प्रभिन्नाञ्जनरागसन्निभैः ।
क्वचित् सगर्भप्रमदास्तनप्रभैः
समाचितं व्योम घनैः समन्ततः ॥२॥
तृषाकुलैश्चातकपक्षिणां कुलैः
प्रयाचिताः तोयभरावलम्बिनः ।
प्रयान्ति मन्दं बहुवारिवर्षिणो
वलाहकाः श्चोत्रमनोहरस्वनाः ॥३॥
वलाहकाश्चाशनिशब्दभीषणाः
सुरेन्द्रचापं दधतः तडिद्गुणम् ।
सतीक्ष्णधारापतनोग्रसायकाः
तुदन्ति चेतो नितरां प्रवासिनाम् ॥४॥
प्रभिन्नवैदूर्यनिभैस्तृणाङ्कुरैः
समाचिता प्रोत्थितकन्दलीदलैः ।
विभाति कण्ठे वररत्नभूषिता
वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥५॥
सदा मनोज्ञं सुरतोत्सवोत्सुकं
विकीर्णविस्तीर्णकलापशोभितम् ।
सविभ्रमालिङ्गनचुम्बनाकुलं
प्रवृद्धनृत्यं कुलमद्य वर्हिणाम् ॥६॥
निपातयन्त्यः परितः तटद्रुमान्
प्रवृद्धवेगाः सलिलैरनिर्मलैः ।
स्त्रियः प्रदुष्टा इव जातविभ्रमाः
प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥७॥
तृणोड्गमैरुद्धतकोमलाङ्कुरैश्
चितानि नीलैर्हरिणीमुखक्षतैः ।
वनानि रम्याणि हरन्ति मानसं
विभूषितान्युद्गतपल्लवद्रुमैः ॥८॥
विलोलनेत्रोत्पलशोभिताननैर्
मृगैः समन्तादुपजातसाध्वसैः ।
समाचिता सैकतिनी वनस्थली
समुत्सुकत्वं प्रकरोति चेतसः ॥९॥
सुतीक्ष्णमुच्चै रसतां पयोमुचां
घनान्धकारावृतशर्वरीष्वपि ।
तडित्प्रभादर्शितमार्गभूमयः
प्रयान्ति रागादभिसारिकाः स्त्रियः ॥१०॥
पयोधरैर्भीमगभीरनिः स्वनैर्
ध्वनद्भिरुद्वेजितचेतसो भृशम् ।
कृत्वापराधानपि योषितः प्रियान्
परिष्वजन्ते शयने निरन्तरम् ॥११॥
विलोचनेन्दीवरवारिविन्दुभिर्
निषिक्तबिम्बाधरचारुपल्लवाः ।
निरस्तमाल्याभरणानुलेपनाः
स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥१२॥
विपाण्डवं कीटरजस्तृणान्वितं
भुजङ्गवद्वक्रगतिप्रसर्पितम् ।
ससाध्वसैर्भेककुलैर्विलोकितं
प्रयाति निम्नाभिमुखं नवोदकम् ॥१३॥
प्रफुल्लपत्रां नलिनीं समुत्सुकां
विहाय भृङ्गाः श्रुतिहारिनिः स्वनाः ।
पतन्ति मुढाः शिखिनां प्रनृत्यतां
कलापचक्रेषु नवोत्पलाशयाः ॥१४॥
वनद्विपानां नवतोयदस्वनैर्
मदान्वितानां ध्वनतां मुहुर्मुहुः ।
कपोलदेशा विमलोत्पलप्रभाः
सभृङ्गयूथैर्मदवारिभिश्चिताः ॥१५॥
सतोयनम्राम्बुदचुम्बितोपलाः
समाचिताः प्रश्रवणैः समन्ततः ।
प्रवृत्तनृत्यैः शिखिभिः समाकुलाः
समुत्सुकत्वं जनयन्ति भूधराः ॥१६॥
कदम्बसर्जार्जुननीपकेतकान्
विकम्पयंस्तत्कुसुमाधिवासितः ।
सशीकराम्भोधरसङ्गशीतलः
समीरणः कं न करोति सोत्सुकम् ॥१७॥
शिरोरुहैः श्रोणितटावलम्बिभिः
कृतावतंसैः कुसुमैः सुगन्धिभिः ।
स्तनैः सहारैर्वदनैः सशीधुभिः
स्त्रियो रतिं सञ्जनयन्ति कामिनाम् ॥१८॥
वहन्ति वर्षन्ति नदन्ति भान्ति
ध्यायन्ति नृत्यन्ति समाश्रयन्ति ।
नद्यो घना मत्तगजा वनान्ताः
प्रियाविहीनाः शिखिनः प्लवङ्गाः ॥१९॥
तडिल्लताः शक्रधनुर्विभूषिताः
पयोधरास्तोयभरावलम्बिनः ।
स्त्रियः स्वकाञ्चीमणिकुन्दलोज्ज्वला
हरन्ति चेतो युगपत्प्रवासिनाम् ॥२०॥
मालाः कदम्बनवकेशरकेतकीनां
आयोजिताः शिरसि बिभ्रति योषितोऽद्य ।
कर्णान्तरेषु ककुभद्रुममञ्जरीभिः
श्रोत्रानुकूलरचितानवतंसकांश्च ॥२१॥
कालागुरुप्रचुरचन्दनचर्चिताङ्ग्यः
पुष्पावतंससुरभीकृतकेशपाशाः ।
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥२२॥
कुवलयदलनीलैरुन्नतैः तोयनम्रैर्
मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः ।
अपहृतं इव चेतस्तोयदैः सेन्द्रचापैः
पथिकजनबधूनां तद्वियोगक्षतानाम् ॥२३॥
मुदित इव कटम्बैर्जातपुष्पैः समन्तात्
पवनचलितशाखैः शाखिभिर्नृत्यतीव ।
हसितमिव विधत्ते सूचिभिः केतकीनां
नवसलिलनिषेकाच्छान्ततापो वनान्तः ॥२४॥
शिरसि बकुलमालां मालतीभिः समेतां
कुसुमितनवपुष्पैर्यूथिकाकुद्मलैश्च ।
विकचनवकदम्बैः कर्णपूरं बधूनां
रचयति जलदौघः कान्तवत्कल एषः ॥२५॥
दधति कुचयुगाग्रैरुन्नतैर्हारयष्टिं
प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः ।
नवजलकणसेकादुन्नतां रोमराजीं
त्रिबलिवलितशोभां मध्यदेशैश्च नार्यः ॥२६॥
नवजलकणसङ्गाच्छीततां आदधानः
कुसुमभरनतानां लासकः पादपानाम् ।
जनितसुरभिगन्धः केतकीनां रजोभिर्
अपहरति नभस्वान्प्रोषितानां मनांसि ॥२७॥
जलभरनमितानामाश्रयोऽस्माकमुच्चैर्
अयमिति जलसेकैः तोयदाः तोयनम्राः ।
अतिशयपरुषाभिर्ग्रीष्मवाह्नेः शिखाभिः
समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥२८॥
बहुगुणरमणीयो योषितां चित्तहारी
तरुविटपलतानां बान्धवो निर्विकारः ।
जलदसमय एषः प्राणिनां प्राणभूतो
दिशतु तव हितानि प्रायसो वाञ्चितानि ॥२९॥
काशांशुका विकचपद्ममनोज्ञवक्त्रा
सोन्मादहंसरुतनूपुरनादरम्या ।
आपक्वशालिललितानतगात्रयष्टिः
प्राप्ता शरन्नवबधूरिव रम्यरूपा ॥१॥
काशैर्मही शिशिरदीधितिनो रजन्यो
हंसैर्जलानि सरितां कुमुदैः सरांसि ।
सप्तच्छदैः कुसुमभारनतैर्वनान्ताः
शुक्लीकृताण्युपवनानि च मालतीभिः ॥२॥
चञ्चन्मनोज्ञसफरीरसनाकलापाः
पर्यन्तसंस्थितसिताण्डजपङ्क्तिहाराः ।
नद्यो विशालपुलिनोरुनितम्बबिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥३॥
व्योम क्वचिद्रजतशङ्खमृणालगौरैः
त्यक्ताम्भुभिर्लघुतया शतशः प्रयातैः ।
उत्प्रेक्ष्यते पवनवेगचलैः पयोदै
राजेव चामरशतैरभिवीज्यमानः ॥४॥
भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञं
बन्धूकपुष्परजसारुणिता च भूमिः ।
वप्राश्च पक्वकलमावृतभूमिभागा
उत्कण्टयन्ति न मनो भुवि कस्य यूनः ॥५॥
मन्दानिलाकुलितचारुविशालशाखः
पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।
मत्तद्विरेफपरिपीतमधुप्रसेकश्
चित्तं विदारयति कस्य न कोविदारः ॥६॥
तारागणप्रचुरभूषणमुद्वहन्ती
मेघोपरोधपरिमुक्तशशाङ्कवक्त्रा ।
ज्योत्स्नादुकूलममलं रजनी दधाना
वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥७॥
कारण्डवाननविघट्टितवीचिमालाः
कादम्बसारसकुलाकुलतीरदेशाः ।
कुर्वन्ति हंसविरुतैः परितो जनस्य
प्रीतिं मनोज्ञकमलारुणिताश्च नद्यः ॥८॥
नेत्रोत्सवो हृदयहारिमरीचिमालः
प्रह्लादकः शिशिरशीकरवारिवर्षी ।
पत्युर्वियोगविषदिग्धशरक्षतानां
चन्द्रो दहत्यनुदिनं तनुमङ्गनानाम् ॥९॥
आकम्पयन् फलभरानतशालिजालं
आनर्तयंस्तरुवरान् कुसुमावनाम्रान् ।
उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन्
यूनां मनश्चलयति प्रसभं नभस्वान् ॥१०॥
सोन्मादहंसमिथुनैरुपशोभितानि
स्वच्छानि फुल्लकमलोत्पलभूषितानि ।
मन्दप्रचारपवनोद्गतवीचिमालान्य्
उत्कण्ठयन्ति हृदयं सहसा सरांसि ॥११॥
नष्टं धनुर्बलभिदो जलदोदरेषु
सौदामिनी स्फुरति नाद्य वियत्पताका ।
धुन्वन्ति पक्षपवनैर्न नभो वलाकाः
पश्यन्ति नोन्नतमुखा गगनं मयूराः ॥१२॥
नृत्यप्रयोगरहितान् शिखिनो विहाय
हंसानुपैति मदनो मधुरप्रगीतान् ।
त्यक्त्वा कदम्बकुटजार्जुनसर्जनीपान्
सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥१३॥
शेफालिकाकुसुमगन्धमनोहराणि
शाखास्थिताण्डजकुलप्रतिनादितानि ।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ॥१४॥
कह्लारपद्मकुमुदानि मुहुर्विधुन्वन्
तत्सङ्गमादधिकशीतलतां उपेतः ।
सोत्कां करोति वनितां पवनः प्रभाते
पत्रान्तलग्नतुहिनाम्बुविधूयमानः ॥१५॥
सम्पन्नशालिनिचयावृतभूतलानि
सुष्टुस्थितप्रचुरगोकुलशोभितानि ।
हंसैश्च सारसकुलैः प्रतिनादितानि
सीमान्तराणि जनयन्ति जनप्रमोदम् ॥१६॥
हंसैर्जिता सुललिता गतिरङ्गनानां
अम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः ।
नीलोत्पलैर्मदचलानि विलोचनानि
भ्रूविभ्रमाश्च सरितां तनुभिस्तरङ्गैः ॥१७॥
श्यामा लताः कुसुमभारनतप्रबालाः
स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम् ।
दन्तावभासविशदस्मितवक्त्रकान्तिं
साशोकपुष्परचिता नवमालती च ॥१८॥
केशान्नितान्तघननीलविकुञ्चिताग्रान्
आपूरयन्ति वनिता नवमालतीभिः ।
कर्णेषु च प्रचलकाञ्चनकुण्डलेषु
नीलोत्पलानि विविधानि निवेशयन्ते ॥१९॥
हारैः सचन्दनरसैः स्तनमण्डलानि
श्रोणीतटं सुविपुलं रसनाकलापैः ।
पादाम्बुजं कनकनूपुरशेखरैश्च
नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥२०॥
स्फुटकुमुदचितानां राजहंसस्थितानां
मरकतमणिभासा वारिणा भूषितानाम् ।
श्रियमतिशयरूपां व्योम तोयाशयानां
वहति विगतमेघं चन्द्रतारावकीर्णम् ॥२१॥
शरदि कुमुदसङ्गाद्वायवो वान्ति शीता
विगतजलदवृन्दा दिग्विभागा मनोज्ञाः ।
विगतकलुषमम्भः शालिपक्वा धरित्री
विमलकिरणचन्द्रं व्योम ताराविचित्रम् ॥२२॥
करकमलमनोज्ञाः कान्तसंसक्तहस्ताः
वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः ।
चितकुसुमसुगन्धि प्राविशन्तीव वेश्म
प्रबलमदनहेतोः त्यक्तसङ्गीतरागाः ॥२३॥
सुरतरसविलासात्सत्सखीभिः समेता
असमरसविनोदं सूचयन्त्य प्रकामम् ।
अनुपममुखरागा रात्रिमध्या विनोदं
शरदि तरुणकान्ताः सूचयन्ति प्रमोदात् ॥२४॥
दिवसकरमयूखैर्बोध्यमानं प्रभाते
वरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य ।
कुमुदमपि गतेऽस्तं लीयते चन्द्रबिम्बे
हसितमिव बधूनां प्रोषितेषु प्रियेषु ॥२५॥
असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु
क्वणितकनककाञ्चीं मत्तहंसस्वनेषु ।
अधररुचिरशोभां बन्धुजीवे प्रियाणां
पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥२६॥
स्त्रीणां निधाय वदनेषु शशाङ्कलक्ष्मीं
हास्ये विशुद्धवदने कुमुदाकरश्रीम् ।
बन्धूककान्तिमधरेषु मनोहरेषु
क्वापि प्रयाति सुभगा शरदागमश्रीः ॥२७॥
विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी
कुसुमितनवकाशा श्वेतवासोवसाना ।
कुमुदरुचिरहासा कामिनीवोन्मदेयं
उपदिशतु शरद्वश्चेतसां प्रीतिमग्र्याम् ॥२८॥

नवप्रबालोद्गमशस्यरम्यः
प्रफुल्ललोध्रः परिपक्वशालिः ।
विलीनपद्मः प्रपतत्तुषारो
हेमन्तकालः समुपागतोऽयम् ॥१॥
मनोहरैः कुङ्कुमरागपिङ्गैः
तुषारकुन्देन्दुनिभैश्च हारैः ।
विलासिनीनां स्तनशालिनीनां
नालङ्क्रियन्ते स्तनमण्डलानि ॥२॥
न वाहुयुग्मेषु विलासिनीनां
प्रयान्ति सङ्गं वलयाङ्गदानि ।
नितम्बबिम्बेषु नवं दुकूलं
तन्वंशुकं पीनपयोधरेषु ॥३॥
काञ्चीगुणैः काञ्चनरत्नचित्रैर्
न भूषयन्ति प्रमदा नितम्बान् ।
न नूपुरैर्हंसरुतं भजद्भिः
पादाम्बुजान्यम्बुजकान्तिभाञ्जि ॥४॥
गात्राणि कालीयकचर्चितानि
सपत्रलेखानि मुखाम्बुजानि ।
शिरांसि कालागुरुधूपितानि
कुर्वन्ति नार्यः सुरतोत्सवाय ॥५॥
रतिश्रमक्लान्तविपाण्डुगण्डाः
प्राप्ताश्च हर्षाभ्युदयं तरुण्यः ।
हसन्ति नोचैर्दशनाग्रभिन्नान्
प्रपीड्यमानानधरानवेक्ष्य ॥६॥
पीनस्तनोरुस्थलभागशोभां
आसाद्य तत्पीडनजातखेदः ।
तृणाग्रलग्नैस्तुहिनैः पतद्भिर्
आक्रन्दतीवोषसि शीतकालः ॥७॥
प्रभूतशालिप्रसवैश्चितानि
मृगाङ्गनायूथविभूषितानि ।
मनोहरक्रौञ्चनिनादितानि
सीमान्तराण्युत्सुकयन्ति चेतः ॥८॥
प्रफुल्लनीलोत्पलशोभितानि
शरारिकादम्बविघट्टितानि ।
प्रसन्नतोयानि सशैवलानि
सरांसि चेतांसि हरन्ति पुंसाम् ॥९॥
पाकं व्रजन्ती हिमपातशीतैर्
आधूयमाना सततं मरुद्भिः ।
प्रिये प्रियङ्गुः प्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥१०॥
पुष्पासवामोदसुगन्धिवक्त्रो
निः श्वासवातैः सुरभीकृताङ्गः ।
परस्पराङ्गव्यतिसङ्गशायी
शेते जनः कामशरानुविद्धः ॥११॥
दन्तच्छदैर्दन्तविघातचिह्नैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्दयमङ्गनानां
रतोपभोगो नवयौवनानाम् ॥१२॥
काचिद्विभूषयति दर्पणयुक्तहस्ता
बालातपेषु वनिता वदनरविन्दम् ।
दन्तच्छदं प्रियतमेन निपीतसारं
दन्ताग्रभिन्नमपकृष्य निरीक्षते च ॥१३॥
अन्याः प्रकामसुरतश्रमभिन्नदेहा
रात्रिप्रजागरविपाटलनेत्रयुग्माः ।
शय्यान्तरेषु लुलिताकुलकेशपाशा
निद्रां प्रयान्ति मृदुसूर्यकराभितप्ताः ॥१४॥
निर्माल्यदामपरिभूतमनोज्ञगन्धं
मूर्ध्नीपनीय घननीलशिरोरुहान्ताः ।
पीनोन्नतस्तनभरानतगत्रयष्ट्यः
कुर्वन्ति केशरचनामपरास्तरुण्यः ॥१५॥
अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं
हर्षान्विता विरचिताधररागशोभा ।
कुर्पासकं परिदधाति नवं नताङ्गी
व्यालम्बिनी विलुलितालककुञ्चिताक्षी ॥१६॥
अन्याश्चिरं सुरतकेलिपरिश्रमेण
खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।
सम्पीड्यमानविपुलोरुपयोधरार्त्ता
अभ्यञ्जनं विदधति प्रमदाः सुशोभम् ॥१७॥
बहुगुणरमणीयो योषितां चित्तहारी
परिणतबहुशालिव्याकुलग्रामसीमः ।
विनिपतिततुषारः क्रौञ्चनादोपनीतः
प्रदिशतु हिमयुक्तः काल एषः प्रियं वः ॥१८॥
प्ररुढशालिप्रचयावृतक्षितिं
निद्रोत्थितक्रौञ्चनिनादशोभितम् ।
प्रकामकामं प्रमदाजनप्रियं
वरोरु कालं शिशिराह्वयं शृणु ॥१॥
निरुद्धवातायनमन्दिरोदरं
हुताशनो भानुमतो गभस्तयः ।
गुरूणि वासांस्यबलाः सयौवनाः
प्रयान्ति कालेऽद्य जनस्य सेव्यताम् ॥२॥
न चन्दनं चन्द्रमरीचिशीतलं
न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।
न वायवः सान्द्रतुषारशीतला
जनस्य चित्तं रमयन्ति साम्प्रतम् ॥३॥
तुषारसङ्घातनिपातशीतलाः
शशाङ्कभाभिः शिशिरीकृताः पुनः ।
विपाण्डुतारागणचारुभूषणा
जनस्य सेव्या न भवन्ति रात्रयः ॥४॥
गृहीतताम्बूलावलेपनस्रजः
पुष्पासवामोदितवक्त्रपङ्कजाः ।
प्रकामकालागुरुधूपवासिता
विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥५॥
कृतापराधान् बहुशो वितर्जितान्
सवेपथून् साध्वसमन्दचेतसः ।
निरीक्ष्य भर्तॄन् सुरताभिलाषिणः
स्त्रियोऽपराधान् समदा विसस्मरुः ॥६॥
प्रकामकामैः सुरतैश्च निर्दयं
निशासु दीर्घास्वतिपीडिताश्चिरम् ।
भ्रमन्ति मन्दं श्रमखेदितोरवः
क्षपावसाने नवयौवनाः स्त्रियः ॥७॥
मनोज्ञकुर्पासकपीडितस्तनाः
सरागकौशेयविभूषितोरवः ।
निवेशितान्तः कुसुमैः शिरोरुहैर्
विभूषयन्तीव हिमागमं स्त्रियः ॥८॥
पयोधरैः कुङ्कुमरागपिञ्जरैः
सुखोपसेव्यैर्नवयौवनोन्नतैः ।
विलासिनीनां परिपीडितोरसः
क्षपन्ति शीतं परिभूय कामिनः ॥९॥
सुगन्धिनिः श्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधनम् ।
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिवन्ति मद्यं मदनीयमुत्तमम् ॥१०॥
अपगतमदरागा योषिदेका प्रभाते
कृतनिविडकुचाग्रा पत्युरालिङ्गनेन ।
प्रियतमपरिभुक्तं वीक्ष्यमाणा स्वदेहं
व्रजति शयनगेहाद्वस्त्रमाकर्षयन्ती ॥११॥
अगुरुसुरभिधूपाशोभितं केशपाशं
गलितकुसुममालं धुन्वती कुञ्जिताग्रम् ।
त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या
ऽप्युषसि शयनवासः कामिनी कामशोभा ॥१२॥
कनककमलकान्तैश्चारुताम्राधरोष्ठैः
श्रवणतटनियुक्तैः पाटलोपान्तनेत्रैः ।
उषसि वदनबिम्बैरंशसंसक्तकेशैः
श्रिय इव गृहमध्ये संस्थिता योषितोऽद्य ॥१३॥
पृथुजघनभरार्त्ताः किञ्चिदानम्रमध्याः
स्तनभरपरिखेदान् मन्दमन्दं व्रजन्त्यः ।
सुरतसमयवेशं नैशमन्त्यं विहाय
दधति दिवसयोग्यं वेशमेताः तरुण्यः ॥१४॥
नखपदरचिताग्रान्वीक्ष्यमाणाः स्तनान्तान्
अधरकिशलयाग्नान् दन्तभिन्नान् स्पृशन्त्यः ।
अभिमततरमोदं वर्णयन्त्यस्तरुण्यः
सवितुरुदयकाले भूषयन्त्याननानि ॥१५॥
प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः
प्रबलसुरतकेलिर्जातकन्दर्पदर्पः ।
प्रियतमरहितानां चित्तसन्तापहेतुः
शिशिरसमय एषः श्रेयसे वोऽस्तु नित्यम् ॥१६॥

प्रफुल्लचूताङ्कुरतीक्ष्णशायको
द्विरेफमालां विदधद्धनुर्गुणाम् ।
मनांसि भेत्तुं सुरतप्रसङ्गिनां
वसन्तयोधः समुपागतः प्रिये ॥१॥
द्रुमाः सपुष्पाः सलिलं सपद्मं
स्त्रियः सकामाः पवनः सुगन्धिः ।
सुखाः प्रदोषा दिवसाश्च रम्याः
सर्वं प्रिये चारुतरं वसन्ते ॥२॥
वापीजलानां मणिमेखलानां
शशाङ्कभासां प्रमदाजनानाम् ।
चूतद्रुमाणां कुसुमानतानां
तनोति सौभाग्यमयं वसन्तः ॥३॥
स्तनेषु हाराः सितचन्द्रनार्द्रा
मुखेषु ताम्बूलसुगन्धिवाताः ।
प्रयान्ति निः शङ्कमनङ्गसौख्यं
विलासिनीनां जघनेषु काञ्च्यः ॥४॥
कुसुम्भरागारुणितैर्दुकूलैर्
नितम्बबिम्बानि विलासिनीनाम् ।
तन्वंशुकैः कुङ्कुमरागगौरैर्
अलङ्क्रियन्ते स्तनमण्डलानि ॥५॥
कर्णेषु योग्यं नवकर्णिकारं
केशेषु नीलेष्वलकेष्वशोकम् ।
शिखासु फुल्ला नवमल्लिकाश्च
प्रयान्ति सङ्गं प्रमदा जनस्य ॥६॥
सपत्रलेखेषु विलासिनीनां
वक्त्रेषु हेमाम्बुरुहोपमेषु ।
रत्यन्तरे मौक्तिकतुल्यरूपः
स्वेदोद्रमो विस्तरतामुपैति ॥७॥
उल्लासयन्त्यः श्लथबन्धनानि
गात्राणि कन्दर्पसमाकुलानि ।
समीपवर्त्तिष्वपि कामुकेषु
समुत्सुका एव भवन्ति नार्यः ॥८॥
तनूनि पाण्डूनि सुकम्पितानि
मुहुर्मुहुर्जृम्भनतत्पराणि ।
अङ्गान्यनङ्गः प्रमदाजनस्य
करोत्यसौ प्रोषितभर्तृकस्य ॥९॥
नेत्रेषु लोलो मदिरालसेषु
गण्डेषु पाण्डुः कठिनः स्तनेषु ।
मध्येषु नम्रो जघनेषु पीनः
स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥१०॥
अङ्गानि निद्रालसितानि नित्यं
वाक्यानि किञ्चिन्मदिरालसानि ।
भ्रूक्षेपजिह्मानि विलोचनानि
करोति कामः प्रमदाजनानाम् ॥११॥
प्रियन्ङ्गुकालीयककुङ्कुमानि
स्तनाङ्गरागेषु विचर्चितानि ।
आसेव्यते चन्दनमङ्गनाभिर्
मदालसाभिर्मृगनाभियुक्तम् ॥१२॥
गुरूणि वासांसि विहाय तूर्णं
तनूनि लाक्षारसरञ्जितानि ।
सुगन्धिकालागुरुधूपितानि
धत्ते जनः कामशरानुविद्धः ॥१३॥
पुंस्कोकिलश्चूतरसेन मत्तः
प्रियामुखं चुम्बति सादरोऽयम् ।
गुञ्जत्द्विरेफोऽप्ययमम्बुजस्थः
प्रियः प्रियायाः प्रकरोति चाठुम् ॥१४॥
प्रबालताम्रस्तवकावनम्राश्
चूतद्रुमाः पुष्पितचारुशाखाः ।
कुर्वन्ति कान्ते पवनावधूताः
समुत्सुकत्वं मनसोऽङ्गनानाम् ॥१५॥
आमूलतो विद्रुमरागताम्राः
सपल्लवं पुष्पचयं दधानाः ।
कुर्वन्त्यशोका हृदयं सशोकं
निरीक्ष्यमाणा नवयौवनानाम् ॥१६॥
मत्तद्विरेफपरिचुम्बितचारुपुष्पा
मन्दानिलाकुलितचारुमृदुप्रबालाः ।
कुर्वन्ति कामिमनसां सहसोत्सुकत्वं
बालातिमुक्तकलिकाः समवेक्ष्यमाणाः ॥१७॥
कान्तामुखद्युतिमुषामचिरोद्गतानां
शोभां परां कुरवकद्रुममञ्जरीनाम् ।
हृष्टा प्रिये प्रियतमारहितस्य पुंसः
कन्दर्पवाणनिकरैर्व्यथितं हि चेतः ॥१८॥
आदीप्तवह्निसदृशैरपि पारिजातैः
सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।
सद्यो वसन्तसमये समुपागते च
रक्तांशुका नवबधूरिव भाति भूमिः ॥१९॥
किं किंशुकैः शुकमुखच्छविभिर्न दग्धं
किं कर्णिकारकुसुमैर्न कृतं मनोज्ञम् ।
यत्कोकिलाः पुनरमी मधुरैर्वचोभिर्
यूनां मनः सुवदने नियतं हरन्ति ॥२०॥
पुंस्कोकिलैः कलवचोभिरुपात्तहर्षैः
कूजद्भिरुन्मदकराणि वचांसि पुंसाम् ।
लज्जान्वितं सविनयं हृदयं क्षणेन
पर्याकुलं कुलगृहेऽपि कृतं बधूनाम् ॥२१॥
आकम्पयन् कुसुमितां सहकारशाखां
विस्तारयन् परभृतस्य वचांसि दिक्षु ।
वायुर्विवाति हृदयानि हरन्नराणां
नीहारपातविगमात्सुभगो वसन्ते ॥२२॥
कुन्दैः सविभ्रमबधूहसितावदातैः
संशोभितान्युपवनानि मनोहराणि ।
चित्तं मुनेरपि हरन्ति निरस्तरागं
प्रायेण रागमलिनानि मनांसि पुंसाम् ॥२३॥
आलम्बिहेमरसनाः स्तनसक्तहाराः
कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः ।
मासे मधौ मधुरकोकिलभृङ्गनादैर्
नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥२४॥
नानामनोज्ञकुसुमद्रुमपुष्पिताग्रान्
हृष्टान्यपुष्टकुलशोभितसानुदेशान् ।
शैलेयजालपरिणद्धशिलातलान्तान्
दृष्ट्वा जनः क्षितिभृतो मदमेति सर्वः ॥२५॥
नेत्रे निमीलयति रोदिति याति मोहं
घ्राणं करेण विरुणद्धि विरौति चोच्चैः ।
कान्तावियोगपरिखेदितचित्तवृत्तिर्
दृष्ट्वा जनः कुसुमितान् सहकारवृक्षान् ॥२६॥
समदमधुकराणां कोकिलानां च नादैः
कुसुमितसहकारैः कर्णिकारैश्च रम्यैः ।
इषुभिरिव सुतीक्ष्णैर्मानसं कामिनीनां
तुदति कुसुमचापो मन्मथोद्दीपनाय ॥२७॥
रुचिरकनककान्तं मुञ्चतः पुष्पवृन्दं
मृदुपवनविधूतान् पुष्पितांश्चूतवृक्षान् ।
अभिमुखमभिवीक्ष्य क्षामदेहोऽपि मार्गे
मदनशरसुविद्धो मोहमेति प्रवासी ॥२८॥
परभृतकलगीतैर्ह्लादिभिः सद्वचांसि
स्मितदशनमयूखं कुन्दपुष्पप्रभाभिः ।
करकिशलयकान्तिं पल्लवैर्विद्रुमाभैर्
अभिभवति वसन्तः कामिनीनामिदानीम् ॥२९॥
कनककमलकान्तैराननैः पाण्डुगण्डैर्
उपनिहितसुहारैश्चन्दनार्द्रैः स्तनाग्रैः ।
मदनजनितलासैः सालसैर्दृष्टिपातैर्
मुनिवरमपि नार्यः कामयन्ते वसन्ते ॥३०॥
मधुसुरभिमुखाब्जं लोचने लोलतारे
नवकुरवकपूर्णः केशपाशो मनोज्ञः ।
अतिगुरुकुचयुग्मं श्रोणिबिम्बं तथैव
न भवति किमिदानीं योषितां ब्रूहि चारु ॥३१॥
आकम्पितानि हृदयानि मनस्विनीनां
वातैः प्रफुल्लसहकारकृताधिवासैः ।
उत्कूजितैः परभृतस्य मदाकुलस्य
श्रोत्रप्रियैर्मधुकरस्य च गीतशब्दैः ॥३२॥
रम्यप्रदोषसमयः स्फुतचन्द्रभासः
पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।
मत्तालियूथविरुतं निशि सीधुपानं
सर्वं हि साधनमिदं कुसुमायुधस्य ॥३३॥
नीलाशोकविकल्पिताधरमधुर्मत्तद्विरेफस्वनः
कुन्दापीडविशुद्धदन्तनिकरः प्रोत्फुल्लपद्माननः ।
चूतामोदसुगन्धिमन्दपवनः शृङ्गारदीक्षागुरुः