अथ भामिनीविलासे
चतुर्थः शान्तो विलासः
The fourth part of Bhaminivilasa,
Called “peaceful”.
विश्वास-प्रस्तुतिः
विशालविषयाटवीवलयलग्नदावानल-
प्रसृत्वरशिखावलीविकलितं मदीयं मनः ।
अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे
मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ॥ १ ॥
मूलम्
विशालविषयाटवीवलयलग्नदावानल-
प्रसृत्वरशिखावलीविकलितं मदीयं मनः ।
अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे
मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ॥ १ ॥
अन्वयः
इदं विशाल-विषय-अटवी-वलय-लग्न-दावानल-प्रसृत्वर-शिखावली-विकलितं मदीयं मनः अमन्द-मिलत्-इन्दिरे निखिल-माधुरी-मन्दिरे मुकुन्द-मुख-चन्दिरे चिरं चकोरायताम् ।
गॊरूरु-श्रीनिवासमूर्तिः
May my mind which has been disturbed by the flames spreading around the wild forest fire engulfed in the periphery of the large forest called sensual pleasures act as a cakora bird at the moonlike face of Krishna, which is an abode of sweetness in its entirety and whose luster is copious. [ The poet having described the pleasures enjoyed during youth in the Section on Love and having described the pangs of separation after losing the life partner in the Section on Compassion now describes his inclination to devotion to God.]
विश्वास-प्रस्तुतिः
अये जलधिनन्दिनीनयननीरजालम्बन
ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम् ।
प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषैः
जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः ॥ २ ॥
मूलम्
अये जलधिनन्दिनीनयननीरजालम्बन
ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम् ।
प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषैः
जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः ॥ २ ॥
अन्वयः
अये जलधिनन्दिनी-नयन-नीरज-आलम्बन! ज्वलत्-ज्वलन-जित्वर-ज्वर-भर-त्वरा-भङ्गुरं मां प्रभात-जलज-उन्नमत्-गरिम-गर्व-सर्वङ्कषैः लोचनैः माम् आशु शिशिरय।
गॊरूरु-श्रीनिवासमूर्तिः
O Vishnu, who is the support for the lotus-like eyes of Lakshmi, ocean’s daughter! May your glances which destroy the rising pride of lotuses in the morning (which outshine the lotuses in beauty) cool me, who has become fragile due to the high fever (of worldly pleasures) which conquers the heat of a glowing fire.[ Just as a piece of metal, which has become ductile due to heating is cooled by water, may your glances cool me.]
विश्वास-प्रस्तुतिः
स्मृतापि तरुणातपं करुणया हरन्ती नृणाम्
अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् ।
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी ॥ ३ ॥
मूलम्
स्मृतापि तरुणातपं करुणया हरन्ती नृणाम्
अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् ।
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी ॥ ३ ॥
अन्वयः
नृणां तरुणातपं करुणया स्मृता अपि हरन्ती, अभङ्गुर-तनु-त्विषां विद्युतां शतैः वलयिता कलिन्द-गिरि-नन्दिनी-तट-सुरद्रुम-आलम्बिनी का अपि कादम्बिनी मदीयमतिचुम्बिनी भवतु ।
गॊरूरु-श्रीनिवासमूर्तिः
May the indescribable garland of clouds (namely Krishna), which out of compassion removes the heat of youth even if just remembered and which is surrounded by a myriad steady lightenings and which rests on the divine trees on the banks of Yamuna kiss my mind. [ The poet contemplates on Krishna imagining that he is a garland of clouds.]
विश्वास-प्रस्तुतिः
कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन्
सदा पथि गतागतश्रमभरं हरन् प्राणिनाम् ।
लतावलिशतावृतो मधुरया रुचा संभृतो
ममाशु हरतु श्रमानतितरां तमालद्रुमः ॥ ४ ॥
मूलम्
कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन्
सदा पथि गतागतश्रमभरं हरन् प्राणिनाम् ।
लतावलिशतावृतो मधुरया रुचा संभृतो
ममाशु हरतु श्रमानतितरां तमालद्रुमः ॥ ४ ॥
अन्वयः
कलिन्द-गिरि-नन्दिनी-तट-वन-अन्तरं भासयन्, सदा पथि प्राणिनां गत-आगत-श्रम-भरं हरन्, लता-आवलि-शत-आवृतः तमालद्रुमः मम श्रमंम् आशु अतितरां हरतु ।
गॊरूरु-श्रीनिवासमूर्तिः
May the Tamal tree, which brightens the interior of forests on the banks of river Yamuna (daughter of Kalida mountain), which takes away the tiredness of travelling creatures on the road, which is surrounded by hundreds of creepers and which is full of pleasant glow take away my severe tiredness quickly. [ The poet implies his prayer to Krishna through a suggestion that he, who is dark like a Tamal tree on the banks of Yamuna and who is surrounded by creeper-like Gopikas removes the tiredness of living beings by his divine Grace. ]
विश्वास-प्रस्तुतिः
जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिलयन्
जनानां सन्तापं त्रिविधमपि सद्यः प्रशमयन् ।
श्रितो वृन्दारण्यं नतनिखिलवृन्दारकवृतो
मम स्वान्तर्ध्वान्तं निरयतु नवीनो जलधरः ॥ ५ ॥
मूलम्
जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिलयन्
जनानां सन्तापं त्रिविधमपि सद्यः प्रशमयन् ।
श्रितो वृन्दारण्यं नतनिखिलवृन्दारकवृतो
मम स्वान्तर्ध्वान्तं निरयतु नवीनो जलधरः ॥ ५ ॥
अन्वयः
नवीनः जलधरः ज्योत्स्नामय-नव-सुधाभिः जगज्जालं जटिलयन्, जनानां त्रिविधम् अपि सन्तापं प्रशमयन्, वृन्दारण्यं श्रितः नत-निखिल-वृन्दारक-वृतः मम स्वान्तः-ध्वान्तं निरयतु ।
गॊरूरु-श्रीनिवासमूर्तिः
May the fresh rain-bearing cloud (Krishna) which is stationed over the Vrunda forest and which is surrounded by the whole group of divine beings who have bent low remove my inner darkness as it loosens the net of this worldly life through the fresh ambrosia made up of moonlight and which removes all the three distresses (taapatraya) of people. [ The three distresses referred are those caused by nature, divine beings and self-made.]
विश्वास-प्रस्तुतिः
ग्रीष्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्तेः ।
प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः ॥ ६ ॥
मूलम्
ग्रीष्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्तेः ।
प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः ॥ ६ ॥
अन्वयः
वृष्णिवरेण्यः मे वेदनां ग्रीष्म-चण्ड-कर-मण्डल-भीष्म-ज्वाल-संसरण-तापित-मूर्तेः (वेदनां) वारिधरः प्रावृषेण्यः इव हरतु ।
गॊरूरु-श्रीनिवासमूर्तिः
May Krishna, the Lord of Vrishnis remove my pains like the cloud in the rainy season removes the heat of a person whose body has been heated up by the spread of terrible flames of the solar orb in summer.
विश्वास-प्रस्तुतिः
अपारे संसारे विषमविषयारण्यसरणौ मम भ्रामं भ्रामं विगलितविरामं जडमतेः ।
परिश्रान्तस्यायं तरणितनयातीरनिलयः समन्तात् सन्तापं हरिनवतमालस्तिरयतु ॥ ७ ॥
मूलम्
अपारे संसारे विषमविषयारण्यसरणौ मम भ्रामं भ्रामं विगलितविरामं जडमतेः ।
परिश्रान्तस्यायं तरणितनयातीरनिलयः समन्तात् सन्तापं हरिनवतमालस्तिरयतु ॥ ७ ॥
अन्वयः
अपारे संसारे विषम-विषय-अरण्य-सरणौ विगलितविरामं भ्रामं भ्रामं परिश्रान्तस्य जडमतेः मम सन्तापम् अयं तरणि-तनया-तीर-निलयः हरि-नव-तमालः समन्तात् तिरयतु ।
गॊरूरु-श्रीनिवासमूर्तिः
May the Tamal tree in the form of Krishna remove the distress of this dull-witted self who is tired of restless wandering in the series of forests of rugged sensory pleasures amidst this endless worldly life. [Just as a Tamal tree provides shade and thus provides solace to a traveller weary of wandering in the forest, may Krishna provide me who is weary of worldly pleasures, solace.]
विश्वास-प्रस्तुतिः
आलिङ्गितो जलधिकन्यकया सलीलं लग्नः प्रियङ्गुलतयेव तरुस्तमालः ।
देहावसानसमये हृदये मदीये देवश्चकास्तु भगवानरविन्दनाभः ॥ ८ ॥
मूलम्
आलिङ्गितो जलधिकन्यकया सलीलं लग्नः प्रियङ्गुलतयेव तरुस्तमालः ।
देहावसानसमये हृदये मदीये देवश्चकास्तु भगवानरविन्दनाभः ॥ ८ ॥
अन्वयः
भगवान् देवः अरविन्दनाभः प्रियङ्गुलतया लग्नः तमालः तरुः इव जलधिकन्यकया सलीलम् आलिङ्गितः मदीये देहावसानसमये हृदये चकास्तु ।
गॊरूरु-श्रीनिवासमूर्तिः
May Lord Padmanabha, who is playfully embraced by Goddess Lakshmi like the Tamal tree entwined by the Priyangu creeper, shine in my heart at the time of my departing from this body.
विश्वास-प्रस्तुतिः
नयनानन्दसन्दोहतुन्दिलीकरणक्षमा ।
तिरयन्त्याशु सन्तापं कापि कादम्बिनी मम ॥ ९ ॥
मूलम्
नयनानन्दसन्दोहतुन्दिलीकरणक्षमा ।
तिरयन्त्याशु सन्तापं कापि कादम्बिनी मम ॥ ९ ॥
अन्वयः
नयन-आनन्द-सन्दोह-तुन्दिलीकरण-क्षमा का अपि कादम्बिनी मम सन्तापम् आशु तिरयन्ती (भवतु) ।
गॊरूरु-श्रीनिवासमूर्तिः
May that indescribable garland of clouds (namely Krishna) which is capable of making my eyes laden with heaps of pleasure remove my distress.
विश्वास-प्रस्तुतिः
वाचा निर्मलया सुधा मधुरया यां नाथ शिक्षामदाः
तां स्वप्नेऽपि न संस्मराम्यहमहंभावावृतो निस्त्रपः ।
इत्यागःशतशालिनं पुनरपि स्वीयेषु मां बिभ्रतः
त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः ॥ १० ॥
मूलम्
वाचा निर्मलया सुधा मधुरया यां नाथ शिक्षामदाः
तां स्वप्नेऽपि न संस्मराम्यहमहंभावावृतो निस्त्रपः ।
इत्यागःशतशालिनं पुनरपि स्वीयेषु मां बिभ्रतः
त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः ॥ १० ॥
अन्वयः
नाथ! यदुपते! मधुरया निर्मलया वाचा यां शिक्षाम् अदाः ताम् अहम् अहंभावावृतः निस्त्रपः स्वप्ने अपि न संस्मरामि; इति आगः-शत-शालिनं मां पुनः अपि स्वीयेषु बिभ्रतः त्वत्तः दयानिधिः न अस्ति; मत्तः अपरः मत्तः न अस्ति ।
गॊरूरु-श्रीनिवासमूर्तिः
My lord! Chief of Yadus! I, being full of ego, do not remember without any shame even in dreams the education you gave me through sweet and faultless words. There is no one kinder than you in that you have included me, who has committed hundreds of wrongs, as one among yours and there is no one who is more arrogant than me.
विश्वास-प्रस्तुतिः
पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः
पारावारपरम्परां तर तथाप्याशा न शान्तास्तव ।
आधिव्याधिपराहतो यदि सदा क्षेमं निजं वाञ्छसि
श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः ॥ ११ ॥
मूलम्
पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः
पारावारपरम्परां तर तथाप्याशा न शान्तास्तव ।
आधिव्याधिपराहतो यदि सदा क्षेमं निजं वाञ्छसि
श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः ॥ ११ ॥
अन्वयः
रे! पातालं सुरपुरीं वा व्रज; मेरोः शिरः आरोह; पारावारपरम्परां तर; तथा अपि तव आशाः न शान्ताः । आधि-व्याधि-पर-आहतः सदा निजं क्षेमं वाञ्छसि यदि, श्रीकृष्ण इति रसायनं रसय; अन्यैः श्रमैः किम्?
गॊरूरु-श्रीनिवासमूर्तिः
You can go to the netherworld or the city of divine beings; you can climb to the top of Meru mountain; you can cross the series of oceans; even then your desires will not calm down. If you, tormented by the enemies such as mental and physical distress desire your well-being, savour the tonic of calling, “Srikrishna”; of what use are any other efforts?
विश्वास-प्रस्तुतिः
गणिकाजामिलमुख्यानवता भवता बताहमपि ।
सीदन् भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः ॥ १२ ॥
मूलम्
गणिकाजामिलमुख्यानवता भवता बताहमपि ।
सीदन् भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः ॥ १२ ॥
अन्वयः
करुणामूर्ते! गणिका-अजामिल-मुख्यान् अवता भवता भव-मरु-गर्ते सीदन्, बत अहम् अपि सर्वथा न उपेक्ष्यः ।
गॊरूरु-श्रीनिवासमूर्तिः
O Compassion personified! I, who have pitiably fallen into the desert pit of worldly life, may not be forsaken at any cost by you, who has protected persons like the prostitute and Ajamila. [ Reference is to the story of Krishna showing kindness to a prostitute and who gave deliverance to king Ajamila, who was way-ward.]
विश्वास-प्रस्तुतिः
विदित्वेदं दृश्यं विषमरिपुदुष्टं नयनयोः
विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् ।
विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा
निमग्नः स्यां कस्याञ्चन नवनभस्यांबुदरुचौ ॥ १३ ॥
मूलम्
विदित्वेदं दृश्यं विषमरिपुदुष्टं नयनयोः
विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् ।
विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा
निमग्नः स्यां कस्याञ्चन नवनभस्यांबुदरुचौ ॥ १३ ॥
अन्वयः
इदं विषमरिपुदुष्टं विदित्वा, नयनयोः अन्तर्मुद्रां विधाय, अथ सपदि विषयान् विद्राव्य, विधूत-अन्तः-ध्वान्तः कदा कस्याञ्चन मधुर-मधुरायां नव-नभस्य-अम्बुद-रुचौ चिति निमग्नः स्याम् ।
गॊरूरु-श्रीनिवासमूर्तिः
Having realized that all that I see is polluted by the antagonistic enemy ( senses) and having drawn the eyes inwards and then quickly driving away sensual desires, and having cast off the internal darkness, when will I immerse my mind in that indescribable extremely sweet spirit (Krishna) which has the luster of a cloud in the early part of Bhadrapada month?
विश्वास-प्रस्तुतिः
मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः
स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः ।
सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता
कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥ १४ ॥
मूलम्
मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः
स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः ।
सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता
कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥ १४ ॥
अन्वयः
मदीय जीव! भूयः भवे भ्राम्यता भवता मृद्वीका रसिता, सिता समशिता, स्फीतं पयः निपीतम्, स्वर्-यातेन सुधा अपि अधायि, कतिधा रम्भा-अधरः खण्डितः । कृष्ण इति अक्षरयोः मधुरिमा उद्गारः क्वचित् लक्षितः? सत्यं ब्रूहि।
गॊरूरु-श्रीनिवासमूर्तिः
My life! Having repeatedly wandered in this world, you have enjoyed bunches of grapes, you have tasted sugar-candy, you have drunk plenteous milk, having gone to the world of divines you have tasted ambrosia, you have bitten the lips of Rambha (celestial danseuse) several times. Tell me the truth, have you ever come across anything as sweet as the two syllables, “Krishna”?
विश्वास-प्रस्तुतिः
वज्रं पापमहीभृतां भवगतोद्रेकस्य सिद्धौषधम्
मिथ्याज्ञाननिशाविशालतमसः तिग्मांशुबिम्बोदयः ।
क्रूरक्लेशमहीरुहामुरुतरज्वालाजटालः शिखी
द्वारं निर्वृतिसद्मनः विजयते कृष्णेति वर्णद्वयम् ॥ १५ ॥
मूलम्
वज्रं पापमहीभृतां भवगतोद्रेकस्य सिद्धौषधम्
मिथ्याज्ञाननिशाविशालतमसः तिग्मांशुबिम्बोदयः ।
क्रूरक्लेशमहीरुहामुरुतरज्वालाजटालः शिखी
द्वारं निर्वृतिसद्मनः विजयते कृष्णेति वर्णद्वयम् ॥ १५ ॥
अन्वयः
पापमहीभृतां वज्रम्, भव-गत-उद्रेकस्य सिद्धौषधम्, मिथ्या-ज्ञान-निशा-विशाल-तमसः तिग्मांशु-बिम्ब-उदयः, क्रूर-क्लेश-महीरुहाम् उरुतर-ज्वाला-जटालः शिखी, निर्विति-सद्मनः-द्वारं कृष्ण इति वर्णद्वयं विजयते ।
गॊरूरु-श्रीनिवासमूर्तिः
The two-syllable word “Krishna” which acts as a thunderbolt to the mountains called sin, which acts as a proven medicine to the illnesses due to worldly life, which acts as the rise of sun’s orb in (vanquishing) the vast darkness of the night of false knowledge, which acts as a forest-fire swirling intense flames to the trees called cruel distresses (of worldly life) and which acts as a gateway to the abode of peace keeps flourishing.
विश्वास-प्रस्तुतिः
रे चेतः कथयामि ते हितमिदं वृन्दावने चारयन्
वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्नकार्यस्त्वया ।
सौन्दर्यामृतमुद्गिरद्भिरभितः संमोह्य मन्दस्मितैः
एष त्वां तव वल्लभान्श्च विषयानाशु क्षयं नेष्यति ॥ १६ ॥
मूलम्
रे चेतः कथयामि ते हितमिदं वृन्दावने चारयन्
वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्नकार्यस्त्वया ।
सौन्दर्यामृतमुद्गिरद्भिरभितः संमोह्य मन्दस्मितैः
एष त्वां तव वल्लभान्श्च विषयानाशु क्षयं नेष्यति ॥ १६ ॥
अन्वयः
रे चेतः! ते इदं हितं कथयामि । वृन्दावने गवां वृन्दं चारयन् कः अपि नवाम्बुदनिभः त्वया बन्धुः न कार्यः । सौन्दर्यामृतम् अभितः उद्गिरद्भिः मन्दस्मितैः त्वां संमोह्य तव वल्लभाण् विषयान् च आशु क्षयं नेष्यति ।
गॊरूरु-श्रीनिवासमूर्तिः
O Mind! I am telling you what is in your interests. Do not develop kinship with that indescribable person (Krishna) having a hue of new clouds who grazes a herd of cows in Vrindavan. By mesmerizing you with his smiles which spill all round the ambrosia of charm he will quickly destroy your worldly pleasures, dear to you. [ Apparently the poet suggests the opposite using irony.]
विश्वास-प्रस्तुतिः
अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना
कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम् ।
तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीम्
कृष्णेत्याख्यां कथय रसने यद्यसि त्वं रसज्ञा ॥ १७ ॥
मूलम्
अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना
कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम् ।
तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीम्
कृष्णेत्याख्यां कथय रसने यद्यसि त्वं रसज्ञा ॥ १७ ॥
अन्वयः
रसने! या अन्तः निमग्ना अव्याख्येयां परां प्रीतिं वितरति, कण्ठे लग्ना अनतर-ध्वान्त-जालं नितरां हरति, द्राक्षाद्यैः अपि बहुमतां माधुरीम् उद्गिरन्तीं कृष्ण इति आख्यां त्वं रसज्ञा यदि कथय ।
गॊरूरु-श्रीनिवासमूर्तिः
O Tongue! If you are a connoisseur recite the name “Krishna”, which when delved in gives indescribable joy, which when memorized totally removes the web of internal darkness and which exudes sweetness far superior to that of grapes and other fruits.
विश्वास-प्रस्तुतिः
सन्त्येवास्मिन् जगति बहवो पक्षिणो रम्यरूपाः
तेषां मध्ये मम तु महती वासना चातकेषु ।
यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भिः
चित्तारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥ १८ ॥
मूलम्
सन्त्येवास्मिन् जगति बहवो पक्षिणो रम्यरूपाः
तेषां मध्ये मम तु महती वासना चातकेषु ।
यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भिः
चित्तारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥ १८ ॥
अन्वयः
अस्मिन् जगति रम्यरूपाः पक्षिणः बहवः सन्ति एव । तेषां मध्ये मम तु चातकेषु वासना महती यैः अध्यक्षैः निजसखं नीरदं स्मारयद्भिः किमपि कृष्णाभिधानं ब्रह्म चित्तारूढं भवति ।
गॊरूरु-श्रीनिवासमूर्तिः
In this world there are certainly many beautiful birds. But among them I like most cataka birds, which when present remind their bosom-friend “Cloud” bringing to mind that indescribable Brahman, called Krishna.[ Cataka birds bring to mind clouds which bring to mind the cloud-coloured Krishna.]
विश्वास-प्रस्तुतिः
विष्वद्रीच्या भुवनमखिलं भासते यस्य भासा
सर्वासामप्यहमिति विदां गूढमालम्बनं यः ।
तं पृच्छन्ति स्वहृदयमनावेदिनो विष्णुमन्यान्
अन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥ १९ ॥
मूलम्
विष्वद्रीच्या भुवनमखिलं भासते यस्य भासा
सर्वासामप्यहमिति विदां गूढमालम्बनं यः ।
तं पृच्छन्ति स्वहृदयमनावेदिनो विष्णुमन्यान्
अन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥ १९ ॥
अन्वयः
यस्य विष्वद्रीच्या भासा अखिलं भुवनं भासते, यः अहम् इति विदां सर्वासां गूढम् आलम्बनम्, तं विष्णुं स्व-हृदयम् अनावेदिनः अन्यान् पृच्छन्ति, नृणाम् अयम् अन्यायः केन वर्णनीयः? शिव,शिव ।
गॊरूरु-श्रीनिवासमूर्तिः
Who can describe this unjust state of affairs in men, who ask others who Vishnu is without being able to communicate with their own hearts, while Vishnu is the secret support of all who know him to be their own atman and whose all pervading glow lights the whole world? What a pity! [ The poet refers to an Upanishadic passage where it is said that the glow of Brahman lights the whole world.]
विश्वास-प्रस्तुतिः
सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यताम्
चिन्तायामसि सस्पृहं यदि तदा चक्रायुधश्चिन्त्यताम् ।
आलापं यदि काङ्क्षसि स्मररिपोर्गाथा तदालाप्यताम्
स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ॥ २० ॥
मूलम्
सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यताम्
चिन्तायामसि सस्पृहं यदि तदा चक्रायुधश्चिन्त्यताम् ।
आलापं यदि काङ्क्षसि स्मररिपोर्गाथा तदालाप्यताम्
स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ॥ २० ॥
अन्वयः
रे सखे! यदि सेवायां साभिलाषम् असि, लक्ष्मीपतिः सेव्यताम्; यदि चिन्तायां सस्पृहम् असि तदा चक्रायुधः चिन्त्यताम्; यदि आलापं काङ्क्षसि तदा स्मररिपोः गाथा आलाप्यताम्; स्वापं वाञ्छसि चेत् चेतः निरर्गलसुखे सुप्यताम् ।
गॊरूरु-श्रीनिवासमूर्तिः
O friend! If you are interested in serving serve Vishnu, the lord of Lakshmi. If you are interested in contemplation, contemplate on Vishnu, the wielder of the discus. If you want to indulge in conversations, talk about the stories of Shiva. If you want to have (restful) sleep, may your mind sleep in Brahman, who gives unhindered joy. [The poet, perhaps without being conscious of it, reflects the ideas from Mukundamala, which as a southerner he would have known.]
विश्वास-प्रस्तुतिः
भवग्रीष्मप्रौढातपनिवहसन्तप्तवपुषो
बलादुन्मूल्य द्राङ्निगडमविवेकव्यतिकरम् ।
विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे
विगाहन्ते दूरीकृतकलुषजालाः सुकृतिनः ॥ २१ ॥
मूलम्
भवग्रीष्मप्रौढातपनिवहसन्तप्तवपुषो
बलादुन्मूल्य द्राङ्निगडमविवेकव्यतिकरम् ।
विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे
विगाहन्ते दूरीकृतकलुषजालाः सुकृतिनः ॥ २१ ॥
अन्वयः
भव-ग्रीष्म-प्रौढ-आतप-निवह-सन्तप्त-वपुषः निगडम् अविवेकव्यतिकरं द्राक् बलात् उन्मूल्य दूरीकृतकलुषजालाः सुकृतिनः अस्मिन् विशुद्धे नैराश्यशिशिरे आत्मामृतसरसि विगाहन्ते ।
गॊरूरु-श्रीनिवासमूर्तिः
The blessed persons who get rid of their sins by casting away quickly and forcibly the chains of obstruction in the form of foolishness, after having got their bodies scorched by the peak summer heat called worldly living, dive into the pure lake of ambrosia for the soul, which chills despondency.
विश्वास-प्रस्तुतिः
बन्धोन्मुक्त्यै खलु मखमुखान् कुर्वते कर्मपाशान्
अन्तःशान्त्यै मुनिशतमतानल्पचिन्तान् भजन्ति ।
तीर्थे मज्जन्त्यशुभजलधेः पारमारोढुकामाः
सर्वं प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥ २२ ॥
मूलम्
बन्धोन्मुक्त्यै खलु मखमुखान् कुर्वते कर्मपाशान्
अन्तःशान्त्यै मुनिशतमतानल्पचिन्तान् भजन्ति ।
तीर्थे मज्जन्त्यशुभजलधेः पारमारोढुकामाः
सर्वं प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥ २२ ॥
अन्वयः
बन्धोन्मुक्त्यै मखमुखान् कर्मपाशान् कुर्वते । अन्तःशान्त्यै अल्पचिन्तान् मुनिशतमतान् भजन्ति । अशुभजलधेः पारम् आरोढुकामाः तीर्थे मज्जन्ति । इह भवभ्रान्तिभाजां नराणां सर्वं प्रामादिकम् ।
गॊरूरु-श्रीनिवासमूर्तिः
For getting released from the bindings of worldly life (people) make fetters of action(karma) in the form of sacrifices. For obtaining internal peace they go to hundreds of religions of sages who have little thought. In order to rise up from the banks of ocean of the inauspicious they get into the sacred waters. Here in this world people who are deluded by worldly life do everything in a contrary manner.
विश्वास-प्रस्तुतिः
प्रथमं चुम्बितचरणा जङ्घाजानूरुनाभिहृदयानि ।
आश्लिष्य भावना मे खेलतु विष्णोर्मुखाब्जशोभायाम् ॥ २३ ॥
मूलम्
प्रथमं चुम्बितचरणा जङ्घाजानूरुनाभिहृदयानि ।
आश्लिष्य भावना मे खेलतु विष्णोर्मुखाब्जशोभायाम् ॥ २३ ॥
अन्वयः
मे भावना प्रथमं चुम्बितचरणा विष्णोः जङ्घा-जानु-ऊरु-नाभि-हृदयानि आश्लिष्य मुख-अब्ज-शोभायां खेलतु ।
गॊरूरु-श्रीनिवासमूर्तिः
May my thought after having kissed the feet, embracing the shanks, knee, thigh and the navel play in the luster of the lotus-face of Vishnu.
विश्वास-प्रस्तुतिः
मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः ।
श्वपचात्मभुवोर्निरन्तरा मम भूयात् परमात्मनि स्थितिः ॥ २४ ॥
मूलम्
मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः ।
श्वपचात्मभुवोर्निरन्तरा मम भूयात् परमात्मनि स्थितिः ॥ २४ ॥
अन्वयः
मम परमात्मनि स्थितिः मलयानिल-कालकूटयोः रमणीकुन्तल-भोगिभोगयोः श्वपच-आत्मभुवोः निरन्तरा भूयात् ।
गॊरूरु-श्रीनिवासमूर्तिः
May my stay be eternal in the Supreme Spirit such that I do not perceive any difference between the breeze from the Malaya mountains and the deadly poison, between the braids of a damsel and the hood of a serpent, between the Brahma and the low-caste who eats dog’s meat.
विश्वास-प्रस्तुतिः
निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम् ।
अथ तस्य कृते कियानयं क्रियते हन्त जनैः परिश्रमः ॥ २५ ॥
मूलम्
निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम् ।
अथ तस्य कृते कियानयं क्रियते हन्त जनैः परिश्रमः ॥ २५ ॥
अन्वयः
निखिलं जगत् एव नश्वरम्; पुनः अस्मिन् कलेवरं नितरां (नश्वरम्) । अथ तस्य कृते जनैः कियान् अयं परिश्रमः क्रियते । हन्त ।
गॊरूरु-श्रीनिवासमूर्तिः
This whole world is transient. In that world again this body is more so. And having known that, how much of effort is put in by people for the sake of the transient body? Alas!
विश्वास-प्रस्तुतिः
प्रतिपलमखिलान् लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि ।
हा हन्त किमिति चित्तं विरमति नाद्यापि विषयेभ्यः ॥ २६ ॥
मूलम्
प्रतिपलमखिलान् लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि ।
हा हन्त किमिति चित्तं विरमति नाद्यापि विषयेभ्यः ॥ २६ ॥
अन्वयः
अखिलान् लोकान् प्रतिपलं मृत्युमुखं प्रविशतः निरीक्ष्य अपि, अद्य अपि विषयेभ्यः चित्तं किम् इति न विरमति? हा हन्त!
गॊरूरु-श्रीनिवासमूर्तिः
Even having seen every minute the whole worlds getting into the jaws of death why is it that the mind does not desist from indulging in worldly pleasures? Alas!
विश्वास-प्रस्तुतिः
सपदि विलयमेतु राज्यलक्ष्मीः उपरि पतन्त्वथवा कृपाणधाराः ।
अपहरतुतरां शिरः कृतान्तो मम तु मतिर्न मनागपैतु धर्मात् ॥ २७ ॥
मूलम्
सपदि विलयमेतु राज्यलक्ष्मीः उपरि पतन्त्वथवा कृपाणधाराः ।
अपहरतुतरां शिरः कृतान्तो मम तु मतिर्न मनागपैतु धर्मात् ॥ २७ ॥
अन्वयः
राज्यलक्ष्मीः सपदि विलयम् एतु; अथवा कृपाणधाराः उपरि पतन्तु; कृतान्तः शिरः अपहरतुतराम्; मम मतिः तु धर्मात् मनाक् (अपि) न अपैतु ।
गॊरूरु-श्रीनिवासमूर्तिः
Let the stately wealth get destroyed; let the sharp edge of the sword fall on me; let the God of death take away my head; but let not my mind swerve even slightly from the path of righteousness.
विश्वास-प्रस्तुतिः
अपि बहलदहन जालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु ।
पातयतु वासिधारामहमणुमात्रं न किञ्चिदपभाषे ॥ २८ ॥
मूलम्
अपि बहलदहन जालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु ।
पातयतु वासिधारामहमणुमात्रं न किञ्चिदपभाषे ॥ २८ ॥
अन्वयः
मे रिपुः बहलदहनजालम् अपि मे मूर्ध्नि निरन्तरं धमतु; असिधारां वा पातयतु; अहम् अणुमात्रं किञ्चित् न अपभाषे ।
गॊरूरु-श्रीनिवासमूर्तिः
Let my enemy blow on my head a swirl of dense flames continuously; let him make the sharp edge of a sword fall on me; I will not say any bad words even a bit.
विश्वास-प्रस्तुतिः
तरणोपायमपश्यन्नपि मामक जीव ताम्यसि कुतस्त्वम् ।
चेतःसरणावस्यां किं नागन्ता कदापि नन्दसुतः ॥ २९ ॥
मूलम्
तरणोपायमपश्यन्नपि मामक जीव ताम्यसि कुतस्त्वम् ।
चेतःसरणावस्यां किं नागन्ता कदापि नन्दसुतः ॥ २९ ॥
अन्वयः
मामक जीव! तरणोपायम् अपश्यन् अपि कुतः त्वं ताम्यसि? अस्यां चेतःसरणौ कदा अपि नन्दसुतः न आगन्ता किम्?
गॊरूरु-श्रीनिवासमूर्तिः
My life! Why do you agitate for not being able to see a way to cross (this worldly life)? Will not Krishna, the son of Nanda come to you some time or the other in this chain of lives?
विश्वास-प्रस्तुतिः
श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा-
मदभ्राम्यद्भृङ्गावलिमधुरझङ्कारसुभगाः ।
निमग्नानां यासु द्रविणमदिराघूर्णितदृशाम्
सपर्यासौकर्यं हरिचरणयोरस्तमयते ॥ ३० ॥
मूलम्
श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा-
मदभ्राम्यद्भृङ्गावलिमधुरझङ्कारसुभगाः ।
निमग्नानां यासु द्रविणमदिराघूर्णितदृशाम्
सपर्यासौकर्यं हरिचरणयोरस्तमयते ॥ ३० ॥
अन्वयः
माद्यत्-गजघटा-मद-भ्राम्यत्-भृङ्ग-आवलि-मधुर-झङ्कार-सुभगाः श्रियः क्षणम् अपि मे मा सन्तु, यासु निमग्नानां द्रविण-मदिरा-घूर्णित-दृशां हरिचरणयोः सपर्यासौकर्यम् अस्तम् अयते ।
गॊरूरु-श्रीनिवासमूर्तिः
Let not wealth, which is attractive because of the buzzing sound of bees around the troop of rutting elephants, come to me at all even for a second. For those immersed in such wealth with their eyes rolling due to the intoxication of money, the benefit of worshipping Krishna does set (does not come their way). [ Possessing elephants was a sign of being very wealthy.]
विश्वास-प्रस्तुतिः
किं निःशङ्कं शेषे शेषे वयसः समागतो मृत्युः ।
अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी जननी ॥ ३१ ॥
मूलम्
किं निःशङ्कं शेषे शेषे वयसः समागतो मृत्युः ।
अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी जननी ॥ ३१ ॥
अन्वयः
किं निश्शङ्कं शेषे? वयसः शेषे मृत्युः समागतः । अथवा सुखं शयीथा । जननी जाह्नवी निकटे जागर्ति ।
गॊरूरु-श्रीनिवासमूर्तिः
How is it you are sleeping carefree? Death is nearing at the remaining period of life. Or, you sleep comfortably. Nearby river Ganga is awake. [There is an apocryphal story about this verse. When Jagannatha Pandita was sleeping on the banks of Ganga in his oldage, Appayya Dikshita, an equally well known scholar and poet, but a literary adversary of JagnnathapaNdita happened to see him and uttered this verse. Basically the verse is a tribute to river Ganga who takes care of those who go to her seeking her protection.]
विश्वास-प्रस्तुतिः
सन्तापयामि किमहं धावंधावं धरातले हृदयम् ।
अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ॥ ३२ ॥
मूलम्
सन्तापयामि किमहं धावंधावं धरातले हृदयम् ।
अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ॥ ३२ ॥
अन्वयः
अहं धरातले धावं धावं हृदयं किं सन्तापयामि । परमः प्रभुः नन्दकुमारः मम शिरसि सततम् अस्ति ।
गॊरूरु-श्रीनिवासमूर्तिः
Why do I trouble my mind wandering all over the world? The ultimate Lord, Krishna, the son of Nanda is present all the time in my mind.
विश्वास-प्रस्तुतिः
रे रे मनो मनोभवशासनस्य पादाम्बुजद्वयमनारतमानमन्तम् ।
किं मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोकः ॥ ३३ ॥
मूलम्
रे रे मनो मनोभवशासनस्य पादाम्बुजद्वयमनारतमानमन्तम् ।
किं मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोकः ॥ ३३ ॥
अन्वयः
रे रे मनः! मनोभव-शासनस्य पादाम्बुजद्वयम् अनारतम् आनमन्तं मां संसृति-गर्त-मध्ये किं निपातयसि? एतावता तव पुत्रशोकः न गमिष्यति ।
गॊरूरु-श्रीनिवासमूर्तिः
O mind! Why do you make me fall into the vortex of worldly life, when I am continuously bowing to the lotus-like feet of Shiva, who conquered Manmatha, who in turn was the son of Mind. Just by this act, your grief on account of the loss of your son will not go away.[ Manmatha, God of love is considered to have his origin in Mind, which is equivalent to saying that falling in love is essentially a mental act. Shiva burnt Manmatha and thus caused Mind to lose his son! In revenge as it were Mind is pestering the poet who is a devotee of Shiva!]
विश्वास-प्रस्तुतिः
मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः ।
रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥ ३४ ॥
मूलम्
मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः ।
रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥ ३४ ॥
अन्वयः
ऋषिनिकरैः रघुपतिम् दूरात् अवलोक्य “एषः मरकत-मणि-मेदिनीधरः वा तरुणतरः तमालः तरुः वा” इति संशयः प्रपेदे ।
गॊरूरु-श्रीनिवासमूर्तिः
When the group of sages (in Dandakaranya) saw Rama from a distance, they got a doubt if what they were seeing was a mountain made of emerald or a young Tamala tree. [ Rama is described as dark blue in colour and therefore looks like a mountain of blue emerald or a dark Tamala tree.]
विश्वास-प्रस्तुतिः
तरणितनया किं स्यादेषा न तोयमयी हि सा
मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः ।
इति रघुपतेः कायच्छायाविलोकनतत्परैः
उदितकुतुकैः कैः कैरादौ न सन्दिदिहे जनैः ॥ ३५ ॥
मूलम्
तरणितनया किं स्यादेषा न तोयमयी हि सा
मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः ।
इति रघुपतेः कायच्छायाविलोकनतत्परैः
उदितकुतुकैः कैः कैरादौ न सन्दिदिहे जनैः ॥ ३५ ॥
अन्वयः
“एषा तरणितनया किं स्यात्? न, सा हि तोयमयी; मरकत-मणि-ज्योत्स्ना स्यात् वा? सा न; कुतः? (एषा) मधुरा ;” इति उदितकुतुकैः रघुपतेः काय-छाया-विलोकन-तत्परैः कैः कैः जनैः आदौ न सन्दिदिहे?
गॊरूरु-श्रीनिवासमूर्तिः
“Is it Yamuna, the daughter of Sun? No, Yamuna is full of water. Is it the radiance of emerald stone? No, that radiance is not sweet” Who are those persons, who were curiously looking at the radiance of Rama’s form, in whose mind doubts in this manner did not occur? [There are none. In a typically poetic way the poet says that the luster of Yamuna or of emerald fell short of being compared to Rama’s radiance.]
विश्वास-प्रस्तुतिः
चपला जलदच्युता लता वा तरुमुख्यादिति संशये निमग्नः ।
गुरुनिःश्वसितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥ ३६ ॥
मूलम्
चपला जलदच्युता लता वा तरुमुख्यादिति संशये निमग्नः ।
गुरुनिःश्वसितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥ ३६ ॥
अन्वयः
“जलदच्युता चपला स्यात्, वा तरुमुख्यात् (च्युता) लता वा” इति संशये निमग्नः कपिः मनीषी (तस्याः) गुरुनिःश्वसितैः तां (सीतां) वियोगिनी इति निरणैषीत् ।
गॊरूरु-श्रीनिवासमूर्तिः
After doubting if she could be a streak of lightening that has been separated from the cloud or a creeper which has separated from a major tree the monkey (Hanuman), intelligent that he was, concluded based on her heavy breathings that she is indeed the love-lorn Sita.
विश्वास-प्रस्तुतिः
भूतिर्नीचगृहेषु विप्रसदने दारिद्र्यकोलाहलः
नाशो हन्त सतामसत्पथजुषामायुः समानां शतम् ।
दुर्नीतं तव वीक्ष्य कोपदहनज्वालाजटालोऽपि सन्
किं कुर्वे जगदीश यत्पुनरहं दीनो भवानी पतिः ॥ ३७ ॥
मूलम्
भूतिर्नीचगृहेषु विप्रसदने दारिद्र्यकोलाहलः
नाशो हन्त सतामसत्पथजुषामायुः समानां शतम् ।
दुर्नीतं तव वीक्ष्य कोपदहनज्वालाजटालोऽपि सन्
किं कुर्वे जगदीश यत्पुनरहं दीनो भवानी पतिः ॥ ३७ ॥
अन्वयः
जगदीश! नीचगृहेषु भूतिः, विप्रसदने दारिद्र्यकोलाहलः, सतां नाशः, असत्पथजुषाम् आयुः समानां शतम्; तव दुर्नीतं वीक्ष्य कोषदहनज्वालाजटालः अपि सन् किम् अहं कुर्वे? यत् पुनः भवानीपतिः दीनः, हन्त ।
गॊरूरु-श्रीनिवासमूर्तिः
Lord of the world! There is wealth among lowly born people, poverty pervades the houses of Brahmins, the good people are getting destroyed and those that tread the path of evil live for one hundred years. Looking at your injustice my anger is such that its flames are swirling around me. Even then, what shall I do? Because, after all even Shiva is poor. [That Shiva is poor shows the height of injustice. What can I, a poor poet, do?]
विश्वास-प्रस्तुतिः
आमूलाद्रत्नसानोः मलयवलयितादा च कूलात् पयोधेः
यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु ।
मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजाम्
वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥ ३८ ॥
मूलम्
आमूलाद्रत्नसानोः मलयवलयितादा च कूलात् पयोधेः
यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु ।
मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजाम्
वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥ ३८ ॥
अन्वयः
मलयवलयितात् रत्नसानोः आमूलात्, आ पयोधेः कूलात् च यावन्तः काव्य-प्रणयन-पटवः सन्ति ते विशङ्कं वदन्तु । मृद्वीका-मध्य-निर्यत्-मसृण-रस-झरी-माधुरी-भाग्य-भाजां वाचाम् आचार्यतायाः पदम् अनुभवितुं मदन्यः कः धन्यः अस्ति?
गॊरूरु-श्रीनिवासमूर्तिः
All those poets competent to compose poetry who live right from the origin of Ratnagiri ranges enveloped by Malaya mountains up to the shores of the ocean speak fearlessly. Who else is the blessed person other than me who can enjoy the position of being the preceptor of composition which exudes the sweetness of the stream of juice dripping from a bunch of grapes? [ While concluding this work the poet displays in a few verses his justified pride in his unquestioned ability to create juicy poetry.]
विश्वास-प्रस्तुतिः
गिरां देवी वीणागुणरणनहीनादरकरा
यदीयानां वाचाममृतमयमाचामति रसम् ।
वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपतेः
अधुन्वन् मूर्धानं नृपशुरथवायं पशुपतिः ॥ ३९ ॥
मूलम्
गिरां देवी वीणागुणरणनहीनादरकरा
यदीयानां वाचाममृतमयमाचामति रसम् ।
वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपतेः
अधुन्वन् मूर्धानं नृपशुरथवायं पशुपतिः ॥ ३९ ॥
अन्वयः
गिरां देवी यदीयानां वाचाम् अमृतमयं रसं वीणा-गुण-रणन-हीन-आदर-करा आचामति, तस्य पण्डितपतेः श्रवणसुभगं वचः आकर्ण्य मूर्धानम् अधुन्वन् अयं नृपशुः अथवा पशुपतिः ।
गॊरूरु-श्रीनिवासमूर्तिः
He is either an animal in the garb of a human or Shiva himself who does not shake his head (in appreciation) after listening to the mellifluous words of Pandita Jagannatha, whose words the Goddess of learning herself enjoys while her hand stops to pluck the string of the Veena. [ Perhaps Shiva as an ascetic has no taste for music!]
विश्वास-प्रस्तुतिः
मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा
कदाचित् केषांचिन्न खलु विदधीरन्नपि मुदम् ।
ध्रुवं ते जीवन्तो ऽप्यहह मृतका मन्दमतयो
न येषामानन्दं जनयति जगन्नाथभणितिः ॥ ४० ॥
मूलम्
मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा
कदाचित् केषांचिन्न खलु विदधीरन्नपि मुदम् ।
ध्रुवं ते जीवन्तो ऽप्यहह मृतका मन्दमतयो
न येषामानन्दं जनयति जगन्नाथभणितिः ॥ ४० ॥
अन्वयः
मधु, द्राक्षा, साक्षात् अमृतम् अथ वामा-अधर-सुधा केषाञ्चित् कदाचित् मुदं न विदधीरन् अपि, येषाम् आनन्दं जगन्नाथभणितिः न जनयति ते मन्दमतयः जीवन्तः अपि मृतका खलु, अहह ।
गॊरूरु-श्रीनिवासमूर्तिः
Sometimes for some persons honey, grapes and even ambrosia or the ambrosia of a lady’s lips may not bring joy. But those dull-headed persons are as good as dead for whom Jagannatha’s words do not bring joy.
विश्वास-प्रस्तुतिः
निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रवन्-
मृद्वीकामधुमाधुरीमदपरीहारोद्घुराणां गिराम् ।
काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशाम्
नो चेद्दुष्कृतमात्मना कृतमिव स्वान्ताद्बहिर्मा कृथाः ॥ ४१ ॥
मूलम्
निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रवन्-
मृद्वीकामधुमाधुरीमदपरीहारोद्घुराणां गिराम् ।
काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशाम्
नो चेद्दुष्कृतमात्मना कृतमिव स्वान्ताद्बहिर्मा कृथाः ॥ ४१ ॥
अन्वयः
सखे! यदि अत्यन्त-पाक-द्रवत्-मृद्वीका-मधु-माधुरी-मद-परीहार-उद्घुराणां गिरां निर्माणे नितरां मार्मिकः असि, तर्हि सुखेन मादृशां सम्मुखे कथय, नो चेत् आत्मना कृतं दुष्कृतम् इव स्वान्तात् बहिः मा कृथाः ।
गॊरूरु-श्रीनिवासमूर्तिः
Dear friend! If you are very competent in composing works which have the strength to repel the intoxicating sweetness of ripe grape juice then recite them with ease in presence of persons like me or else, as if you had committed a bad deed, do not expose yourself.
विश्वास-प्रस्तुतिः
मद्वाणि मा कुरु विषादमनादरेण
मात्सर्यमग्नमनसां सहसा खलानाम् ।
काव्यारविन्दमकरन्दमधुव्रतानाम्
आस्येषु धास्यतितमां कियतो विलासान् ॥ ४२ ॥
मूलम्
मद्वाणि मा कुरु विषादमनादरेण
मात्सर्यमग्नमनसां सहसा खलानाम् ।
काव्यारविन्दमकरन्दमधुव्रतानाम्
आस्येषु धास्यतितमां कियतो विलासान् ॥ ४२ ॥
अन्वयः
मद्वाणि! मात्सर्य-मग्न-मनसां खलानाम् अनादरेण सहसा विषादं मा कुरु ।(भवती) काव्य-अरविन्द-मकरन्द-मधुव्रतानाम् आस्येषु कियतः विलासान् धास्यतितमाम् ।
गॊरूरु-श्रीनिवासमूर्तिः
O my speech! Do not grieve suddenly at the disinterestedness of bad persons whose mind is immersed in jealousy. You will provide for many types of appreciation from the mouths of those who act as bees to enjoy the nectar of lotus of literature.
विश्वास-प्रस्तुतिः
विद्वांसो वसुधातले परवचः श्लाघासु वाचंयमाः
भूपालाः कमलाविलासमदिरोन्मीलन्मदाघूर्णिताः ।
आस्ये धास्यति कस्य लास्यमधुना धन्यस्य कामालस-
स्वर्वामाधरमाधुरीमधरयन् वाचां विपाको मम ॥ ४३ ॥
मूलम्
विद्वांसो वसुधातले परवचः श्लाघासु वाचंयमाः
भूपालाः कमलाविलासमदिरोन्मीलन्मदाघूर्णिताः ।
आस्ये धास्यति कस्य लास्यमधुना धन्यस्य कामालस-
स्वर्वामाधरमाधुरीमधरयन् वाचां विपाको मम ॥ ४३ ॥
अन्वयः
वसुधातले विद्वांसः पर-वचः-श्लाघासु वाचंयमाः; भूपलाः कमला-विलास-मदिरा-उन्मीलत्-मद-आघूर्णिताः; अधुना मम वाचां विपाकः काम-अलस-स्वर्-वामा-अधर-माधुरीम् अधरयन् कस्य धन्यस्य आस्ये लास्यं धास्यति?
गॊरूरु-श्रीनिवासमूर्तिः
In this world scholars are tongue-tied when it comes to appreciating others’ literary works. Rulers are tipsy by the intoxicating drink called wealth. Now, in whose mouths will my mature words dance while downgrading the sweetness of the lips of celestial nymphs languid with desire?
विश्वास-प्रस्तुतिः
धुर्यैरपि माधुर्यैः द्राक्षाक्षीरेक्षुमाक्षिकादीनाम् ।
वन्द्यैव माधुरीयं पण्डितराजस्य कवितायाः ॥ ४४ ॥
मूलम्
धुर्यैरपि माधुर्यैः द्राक्षाक्षीरेक्षुमाक्षिकादीनाम् ।
वन्द्यैव माधुरीयं पण्डितराजस्य कवितायाः ॥ ४४ ॥
अन्वयः
पण्डितराजस्य कवितायाः इयं माधुरी धुर्यैः द्राक्षा-क्षीर-इक्षु-माक्षिक-आदीनां माधुर्यैः अपि वन्द्या एव ।
गॊरूरु-श्रीनिवासमूर्तिः
Even leaders have to pay obeisance to the sweetness of the poetry of the king of scholars (Jagannatha Pandita) which excels the sweetness of grapes, milk, sugarcane, honey etc.
विश्वास-प्रस्तुतिः
शास्त्राण्याकलितानि नित्यविधयः सर्वेऽपि सम्भाविता
दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः ।
सम्प्रत्युज्झितवासनं मधुपुरीमध्ये हरिः सेव्यते
सर्वं पण्डितराजराजितिलकेनाकारि लोकाधिकम् ॥ ४५ ॥
मूलम्
शास्त्राण्याकलितानि नित्यविधयः सर्वेऽपि सम्भाविता
दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः ।
सम्प्रत्युज्झितवासनं मधुपुरीमध्ये हरिः सेव्यते
सर्वं पण्डितराजराजितिलकेनाकारि लोकाधिकम् ॥ ४५ ॥
अन्वयः
शास्त्राणि आकलितानि; सर्वे नित्यविधयः अपि सम्भाविताः; नवं वयः दिल्ली-वल्लभ-पाणि-पल्लव-तले नीतम्; सम्प्रति पण्डितराजतिलकेन मधुपुरीमध्ये हरिः उज्झितवासनं सेव्यते, सर्वं लोकाधिकम् अकारि ।
गॊरूरु-श्रीनिवासमूर्तिः
All branches of study were enquired into; all daily duties were properly performed; youth was spent on the sprout-like palms of king of Delhi; now having relinquished worldly pleasures he serves Krishna in Mathura; whatever he did was all extraordinary.
विश्वास-प्रस्तुतिः
दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया ।
मदीयपद्यरत्नानां मञ्जूषैषा मया कृता ॥ ४६ ॥
मूलम्
दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया ।
मदीयपद्यरत्नानां मञ्जूषैषा मया कृता ॥ ४६ ॥
अन्वयः
दुर्वृत्ता जारजन्मानः हरिष्यन्ति इति शङ्कया एषा मदीयपद्यरत्नानां मञ्जूषा मया कृता ।
गॊरूरु-श्रीनिवासमूर्तिः
Lest bad persons of poor descent steal my poems, I have hereby made a jewel-box of gems of my verses.
इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे शान्तो नाम चतुर्थो विलासः ॥
समाप्तोऽयं ग्रन्थः
Thus ends the fourth section called “peace” in Bhaminivilasa composed by the scholar Jagannatha.
THE END.