०३ करुणाविलासः

अथ भामिनीविलासे तृतीयः करुणाविलासः

Now starts the third section of Bhamnivilasa on Compassion

विश्वास-प्रस्तुतिः

दैवे पराग्वदनशालिनि हन्त जाते
याते च संप्रति दिवं प्रति बन्धुरत्ने।
कस्मै मनः कथयितासि निजामवस्थाम्
कः शीतलैः शमयिता वचनैस्तवाधिम् ॥ १ ॥

मूलम्

दैवे पराग्वदनशालिनि हन्त जाते
याते च संप्रति दिवं प्रति बन्धुरत्ने।
कस्मै मनः कथयितासि निजामवस्थाम्
कः शीतलैः शमयिता वचनैस्तवाधिम् ॥ १ ॥

अन्वयः

मनः! दैवे पराग्वदनशालिनि जाते, दिवं प्रति बन्धुरत्ने याते, संप्रति कस्मै निजाम् अवस्थां कथयिता असि? तव आधिं कः शीतलैः वचनैः शमयिता?

गॊरूरु-श्रीनिवासमूर्तिः

O mind! When the fate is not favourable and the gem among relatives has left for heaven, now to whom will you tell your real state and who is there to relieve you of your pains with kind words? [Lamentations of a bereaved person.]

विश्वास-प्रस्तुतिः

प्रत्युद्गता सविनयं सहसा पुरेव
स्मेरैः स्मरस्य सचिवैः सरसावलोकैः ।
मामद्य मञ्जुरचनैर्वचनैश्च बाले
हा लेशतोऽपि न कथं शिशिरीकरोषि ॥ २ ॥

मूलम्

प्रत्युद्गता सविनयं सहसा पुरेव
स्मेरैः स्मरस्य सचिवैः सरसावलोकैः ।
मामद्य मञ्जुरचनैर्वचनैश्च बाले
हा लेशतोऽपि न कथं शिशिरीकरोषि ॥ २ ॥

अन्वयः

बाले! स्मरस्य सचिवैः सरसावलोकैः स्मेरैः सविनयं प्रत्युद्गता (त्वं) पुरा इव अद्य मञ्जुरचनैः वचनैः च लेशतः अपि कथं न शिशिरीकरोषि? हा ।

गॊरूरु-श्रीनिवासमूर्तिः

Young lady! How is it that you who would get up with courtesy suddenly with smiles and charming glances which are the helpers of Cupid now do not cool me with your pleasantly composed words even to a small extent? Alas!

विश्वास-प्रस्तुतिः

सर्वेऽपि विस्मृतिपथं विषयाः प्रयाताः
विद्यापि खेदकलिता विमुखीबभूव ।
सा केवलं हरिणशावकलोचना मे
नैवापयाति हृदयादधिदेवतेव ॥ ३ ॥

मूलम्

सर्वेऽपि विस्मृतिपथं विषयाः प्रयाताः
विद्यापि खेदकलिता विमुखीबभूव ।
सा केवलं हरिणशावकलोचना मे
नैवापयाति हृदयादधिदेवतेव ॥ ३ ॥

अन्वयः

सर्वे अपि विषयाः विस्मृतिपथं प्रयाताः; खेदकलिता विद्या अपि विमुखीबभूव; सा हरिणसावकलोचना मे हृदयात् अधिदेवता इव न एव अपयाति ।

गॊरूरु-श्रीनिवासमूर्तिः

All sensory objects are forgotten; knowledge possessed with difficulty has turned away (from me); Only that doe-eyed lady does not move away from my mind as if she is my guardian angel.

विश्वास-प्रस्तुतिः

निर्वाणमङ्गलपदं त्वरया विशन्त्या मुक्ता दयावति दयापि किल त्वयासौ ।
यन्मां न भामिनि निभालयसि प्रभातनीलारविन्दमदभङ्गिमदैः कटाक्षैः ॥ ४ ॥

मूलम्

निर्वाणमङ्गलपदं त्वरया विशन्त्या मुक्ता दयावति दयापि किल त्वयासौ ।
यन्मां न भामिनि निभालयसि प्रभातनीलारविन्दमदभङ्गिमदैः कटाक्षैः ॥ ४ ॥

अन्वयः

दयावति भामिनि! निर्वाणमङ्गलपदं त्वरया विशन्त्या त्वया असौ दया अपि मुक्ता किल, यत् प्रभात-नील-अरविन्द-मद-भङ्गि-मदैः कटाक्षैः मां न निभालयसि ।

गॊरूरु-श्रीनिवासमूर्तिः

Merciful lady! Hastily entering the auspicious state of eternal peace, you have left behind even your kindness as you did not look at me with your glances which are proud of having broken the pride of morning blue lotuses. [Perhaps a lamentation of a lover as his lady-love departs from this world.]

विश्वास-प्रस्तुतिः

धृत्वा पदस्खलनभीतिवशात् करं मे या रूढवत्यसि शिलाशकलं विवाहे ।
सा मां विहाय कथमद्य विलासिनि द्यामारोहसीति हृदयं शतधा प्रयाति ॥ ५ ॥

मूलम्

धृत्वा पदस्खलनभीतिवशात् करं मे या रूढवत्यसि शिलाशकलं विवाहे ।
सा मां विहाय कथमद्य विलासिनि द्यामारोहसीति हृदयं शतधा प्रयाति ॥ ५ ॥

अन्वयः

विलासिनि! या विवाहे पदस्खलनभीतिवशात् मे करं धृत्वा शिलाशकलं रूढवती असि सा अद्य कथं मां विहाय द्याम् आरोहसि इति हृदयं शतधा प्रयाति ।

गॊरूरु-श्रीनिवासमूर्तिः

Playful lady! How is it that you, who during marriage stepped on the seat of stone holding my hand fearing a false step, have gone up to heaven leaving me? My heart breaks into hundred pieces.

विश्वास-प्रस्तुतिः

निर्दूषणा गुणवती रसभावपूर्णा सालङ्कृतिः श्रवणमङ्गलवर्णराजिः ।
सा मामकीनकवितेव मनोऽभिरामा रामा कदापि हृदयान्मम नापयाति ॥ ६ ॥

मूलम्

निर्दूषणा गुणवती रसभावपूर्णा सालङ्कृतिः श्रवणमङ्गलवर्णराजिः ।
सा मामकीनकवितेव मनोऽभिरामा रामा कदापि हृदयान्मम नापयाति ॥ ६ ॥

अन्वयः

निर्दूषणा गुणवती रसभावपूर्णा सालङ्कृतिः श्रवणमङ्गलवर्णराजिः मनोऽभिरामा सा रामा मामकीनकवित इव मम हृदयात् कदा अपि न अपयाति ।

गॊरूरु-श्रीनिवासमूर्तिः

Being faultless, having positive qualities, being full of sentiments, being well adorned, speaking melodious words my lady like my poetry is always delightful and never leaves my heart.[ All the epithets निर्दूषणा, गुणवती, रसभावपूर्णा, सालङ्कृतिः, श्रवणमङ्गलवर्णराजिः are applicable to both poetry and the lady.]

विश्वास-प्रस्तुतिः

चिन्ता शशाम सकलापि सरोरुहाणामिन्दोश्च बिम्बमसमां सुषमामयासीत् ।
अभ्युद्गतः कलकलः किल कोकिलानां प्राणप्रिये यदवधि त्वमितो गतासि ॥ ७ ॥

मूलम्

चिन्ता शशाम सकलापि सरोरुहाणामिन्दोश्च बिम्बमसमां सुषमामयासीत् ।
अभ्युद्गतः कलकलः किल कोकिलानां प्राणप्रिये यदवधि त्वमितो गतासि ॥ ७ ॥

अन्वयः

यदवधि त्वम् इतः गता असि (तदवधि) सरोरुहाणां सकला अपि चिन्ता शशाम, इन्दोः बिम्बं च असमां सुषमाम् अयासीत्, कोकिलानां कलकलः अभ्युद्गतः किल ।

गॊरूरु-श्रीनिवासमूर्तिः

Ever since you left this place (world), the anxiety of lotuses was quenched, the orb of moon got an unequalled grace and the cooing of cuckoos became prominent. [ So long as you were around, lotuses were not in ascendance, the moon was not at his best and the cooing of cuckoos were not the sweetest as you were a rival to them.]

विश्वास-प्रस्तुतिः

सौदामिनीविलसितप्रतिमानकाण्डान् दत्त्वा कियन्त्यपि दिनानि महेन्द्रभोगान् ।
मन्त्रोज्झितस्य नृपतेरिव राज्यलक्ष्मीः भाग्यच्युतस्य करतो मम निर्गतासि ॥ ८ ॥

मूलम्

सौदामिनीविलसितप्रतिमानकाण्डान् दत्त्वा कियन्त्यपि दिनानि महेन्द्रभोगान् ।
मन्त्रोज्झितस्य नृपतेरिव राज्यलक्ष्मीः भाग्यच्युतस्य करतो मम निर्गतासि ॥ ८ ॥

अन्वयः

कियन्ति अपि दिनानि सौदामिनीविलसितप्रतिमान कान्डान् महेन्द्रभोगान् दत्त्वा मन्त्रोज्झितस्य नृपतेः राज्यलक्ष्मीः इव भाग्यच्युतस्य मम करतः निर्गता असि ।

गॊरूरु-श्रीनिवासमूर्तिः

Having given me the pleasures just for a few days fit for Mahendra, like the flash of a lightning, you have slipped away from my hands who is bereft of good fortune in the way the kingdom slips away from a king who is not properly counseled.

विश्वास-प्रस्तुतिः

काव्यात्मना मनसि पर्यणमन् पुरा मे पीयूषसारसरसास्तव ये विलासाः ।
तानन्तरेण रमणीरमणीयशीले चेतोहरा सुकविता भविता कथं नः ॥ १० ॥

मूलम्

काव्यात्मना मनसि पर्यणमन् पुरा मे पीयूषसारसरसास्तव ये विलासाः ।
तानन्तरेण रमणीरमणीयशीले चेतोहरा सुकविता भविता कथं नः ॥ १० ॥

अन्वयः

रमणीयशीले! तव ये पीयूषसारसरसाः विलासाः पुरा मे मनसि काव्यात्मना पर्यणमन्, तान् अन्तरेण नः सुकविता रमणी चेतोहरा कथं भविता?

गॊरूरु-श्रीनिवासमूर्तिः

Lady of charming manners! At one time your playfulness which was the essence of ambrosia transformed itself into soul of my poetry. Now without it how will my poetry be enchanting and captivating?

विश्वास-प्रस्तुतिः

या तावकीनमधुरस्मितकान्तिकान्ते
भूमण्डले विफलतां कविषु व्यतानीत् ।
सा कातराक्षि विलयं त्वयि यातवत्यां
राकाधुना वहति वैभवमिन्दिरायाः ॥ ११ ॥

मूलम्

या तावकीनमधुरस्मितकान्तिकान्ते
भूमण्डले विफलतां कविषु व्यतानीत् ।
सा कातराक्षि विलयं त्वयि यातवत्यां
राकाधुना वहति वैभवमिन्दिरायाः ॥ ११ ॥

अन्वयः

कातराक्षि! तावकीन-मधुर-स्मित-कान्ति-कान्ते भूमण्डले या कविषु विफलतां व्यतानीत्, सा राका त्वयि विलयं यातवत्याम् अधुना इन्दिरायाः वैभवं वहति ।

गॊरूरु-श्रीनिवासमूर्तिः

Lady of tremulous eyes! The full moon night which had made poets feel fruitless in this world which had acquired brightness from the luster of your sweet smile has now obtained the grace of Lakshmi after your demise. [Lamentation of a lover who has lost his beloved. So long as the lady was alive, the full moon night had been robbed of its grandeur.]

विश्वास-प्रस्तुतिः

मन्दस्मितेन सुधया परिषिच्य या मां नेत्रोत्पलैर्विकसितैरनिशं समीट्टे ।
सा नित्यमङ्गलमयी गृहदेवता मे कामेश्वरी हृदयतो दयिता न याति ॥ १२ ॥

मूलम्

मन्दस्मितेन सुधया परिषिच्य या मां नेत्रोत्पलैर्विकसितैरनिशं समीट्टे ।
सा नित्यमङ्गलमयी गृहदेवता मे कामेश्वरी हृदयतो दयिता न याति ॥ १२ ॥

अन्वयः

या मां मन्दस्मितेन सुधया परिषिच्य विकसितैः नेत्रोत्पलैः अनिशं समीट्टे दयिता सा मे नित्यमङ्गलमयी गृहदेवता मे हृदयतः न याति ।

गॊरूरु-श्रीनिवासमूर्तिः

My beloved who was the queen of my house, who is full of auspiciousness, who commands all my desires and who sprinkles me with ambrosia-like smiles and who worships me all the time through blossomed lotus-like glances does not leave my heart.

विश्वास-प्रस्तुतिः

भूमौ स्थिता रमण नाथ मनोहरेति सम्बोधनैर्यमधिरोपितवत्यसि द्याम् ।
स्वर्गं गता कथमिव क्षिपसि त्वमेणशावाक्षि तं धरणिधूलिषु मामिदानीम् ॥ १३ ॥

मूलम्

भूमौ स्थिता रमण नाथ मनोहरेति सम्बोधनैर्यमधिरोपितवत्यसि द्याम् ।
स्वर्गं गता कथमिव क्षिपसि त्वमेणशावाक्षि तं धरणिधूलिषु मामिदानीम् ॥ १३ ॥

अन्वयः

भूमौ स्थिता रमण नाथ मनोहर इति सम्बोधनैः यं द्याम् अधिरोपितवती असि, (सा) त्वं स्वर्गं गता इदानीं मां धरणिधूलिषु कथम् इव क्षिपसि?

गॊरूरु-श्रीनिवासमूर्तिः

Doe-eyed lady! How is it that You, who, while on earth, raised me to the sky by calling me my beloved! my lord! and enchanter!, having gone to heaven have thrown me to the dirt laid soil?

विश्वास-प्रस्तुतिः

लावण्यमुज्ज्वलमपास्ततुलं च शीलं लोकोत्तरं विनयमर्थमयं नयं च ।
एतान् गुणानशरणानथ मां च हित्वा हा हन्त सुन्दरि कथं त्रिदिवं गतासि ॥ १४ ॥

मूलम्

लावण्यमुज्ज्वलमपास्ततुलं च शीलं लोकोत्तरं विनयमर्थमयं नयं च ।
एतान् गुणानशरणानथ मां च हित्वा हा हन्त सुन्दरि कथं त्रिदिवं गतासि ॥ १४ ॥

अन्वयः

सुन्दरि! उज्ज्वलं लावण्यम्, अपास्ततुलं शीलं च, लोकोत्तरं विनयम्, अर्थमयं नयं च, एतान् अशरणान् गुणान् अथ मां च हित्वा हा हन्त कथं त्रिदिवं गता असि ।

गॊरूरु-श्रीनिवासमूर्तिः

Beautiful lady! Leaving behind brilliant beauty, incomparable character, extraordinary humility, and meaningful behavior and me also shelterless how is it you have gone away to the other world?

विश्वास-प्रस्तुतिः

कान्त्या सुवर्णवरया परया च शुद्ध्या नित्यं स्विकाः खलु शिखाः परितः क्षिपन्तीम् ।
चेतोहरामपि कुशेशयलोचने त्वां जानामि कोपकलुषो दहनो ददाह ॥ १५ ॥

मूलम्

कान्त्या सुवर्णवरया परया च शुद्ध्या नित्यं स्विकाः खलु शिखाः परितः क्षिपन्तीम् ।
चेतोहरामपि कुशेशयलोचने त्वां जानामि कोपकलुषो दहनो ददाह ॥ १५ ॥

अन्वयः

कुशेशयलोचने! कोपकलुषः दहनः परया शुद्ध्या सुवर्णवरया कान्त्या स्विकाः शिखाः परितः क्षिपन्तीं चेतोहराम् अपि त्वां ददाह (इति) जानामि ।

गॊरूरु-श्रीनिवासमूर्तिः

Lotus-eyed lady! Angered by the fact that your extraordinary pure luster was sending away its flames all over, the angry Fire-god burnt you, despite your attractiveness.

विश्वास-प्रस्तुतिः

कर्पूरवर्तिरिव लोचनतापहन्त्री फुल्लाम्बुजस्रगिव कंठसुखैकहेतुः ।
चेतश्चमत्कृतिपदं कवितेव रम्या नम्या नरीभिरमरीव हि सा विरेजे ॥ १६ ॥

मूलम्

कर्पूरवर्तिरिव लोचनतापहन्त्री फुल्लाम्बुजस्रगिव कंठसुखैकहेतुः ।
चेतश्चमत्कृतिपदं कवितेव रम्या नम्या नरीभिरमरीव हि सा विरेजे ॥ १६ ॥

अन्वयः

सा कर्पूरवर्तिः इव लोचनतापहन्त्री फुल्ल-अम्बुज-स्रक् इव कंठसुखैकहेतुः, रम्या कविता इव चेतश्चमत्कृतिपदं, अमरी इव नरीभिः नम्या विरेजे ।

गॊरूरु-श्रीनिवासमूर्तिः

She removed the distress in the eye lick a wick of camphor, she was the sole cause of comfort to my neck like a garland of blossomed lotuses, like beautiful poetry she captivated my mind, like divine damsels she shone being worthy of obeisance.

विश्वास-प्रस्तुतिः

स्वप्नान्तरेऽपि खलु भामिनि पत्युरन्यं या दृष्टवत्यसि न कञ्चन साभिलाषम् ।
सा सम्प्रति प्रचलितासि गुणैर्विहीनं प्राप्तुं कथं कथय हन्त परं पुमांसम् ॥ १७ ॥

मूलम्

स्वप्नान्तरेऽपि खलु भामिनि पत्युरन्यं या दृष्टवत्यसि न कञ्चन साभिलाषम् ।
सा सम्प्रति प्रचलितासि गुणैर्विहीनं प्राप्तुं कथं कथय हन्त परं पुमांसम् ॥ १७ ॥

अन्वयः

भामिनि! स्वप्नान्तरे अपि पत्युः अन्यं कञ्चन साभिलाषं न दृष्टवती असि, सा सम्प्रति गुणैः विहीनं परं पुमांसम् प्राप्तुं प्रचलिता असि ?

गॊरूरु-श्रीनिवासमूर्तिः

My dear lady! How is it that you, who did not look at a person other than your husband with desire even in the middle of a dream, have now gone to attain Parampurush (another man) who has no attributes, nirgun(is characterless)? [ Using श्लेष the poet brings out an apparent contradiction.]

विश्वास-प्रस्तुतिः

दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत् ।
अधुना किल हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि ॥ १८ ॥

मूलम्

दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत् ।
अधुना किल हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि ॥ १८ ॥

अन्वयः

संप्रति या शयने दयितस्य गुणान् अनुस्मरन्ती विलोकिता आसीत्, सा कृशाङ्गी अधुना भाषिता अपि गिरं न अङ्गीकुरुते किल, हन्त।

गॊरूरु-श्रीनिवासमूर्तिः

The tender-limbed lady who, laid up in bed, was seen remembering her beloved’s qualities is not uttering a word even when spoken to, alas!

विश्वास-प्रस्तुतिः

रीतिं गिराममृतवृष्टिकरीं तदीयां तां चाकृतिं कविवरैरभिनन्दनीयाम् ।
लोकोत्तरामथ कृतिं करुणारसार्द्रां स्तोतुं न कस्य समुदेति मनःप्रसादः ॥ १९ ॥

मूलम्

रीतिं गिराममृतवृष्टिकरीं तदीयां तां चाकृतिं कविवरैरभिनन्दनीयाम् ।
लोकोत्तरामथ कृतिं करुणारसार्द्रां स्तोतुं न कस्य समुदेति मनःप्रसादः ॥ १९ ॥

अन्वयः

तदीयां अमृतवृष्टिकरीं रीतिं, कविवरैः अभिनन्दनीयाम् आकृतिं च, अथ लोकोत्तरां करुणारसार्द्रां कृतिं च स्तोतुं कस्य मनःप्रसादः न समुदेति?

गॊरूरु-श्रीनिवासमूर्तिः

Who does not feel elated to praise her conduct which would rain ambrosia, her form worthy of being praised by great poets and her extraordinary actions full of compassion?

॥ इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे करुणा नाम तृतीयः विलासः ॥

Thus ends the third section called “compassion” in Bhaminivilasa authored by the king of Scholars Jagannatha.