०१ प्रास्ताविकविलासः

(Introductory section)

विश्वास-प्रस्तुतिः

माधुर्यपरमसीमा सारस्वतजलधिमथनसम्भूता ।
पिबताम् अनल्पसुखदा वसुधायां मम सुधा कविता ॥ १ ॥

मूलम्

माधुर्यपरमसीमा सारस्वतजलधिमथनसम्भूता ।
पिबताम् अनल्पसुखदा वसुधायां मम सुधा कविता ॥ १ ॥

अन्वयः

मम कविता वसुधायां सारस्वत-जलधि-मथन-सम्भूता माधुर्यपरमसीमा पिबताम् अनल्पसुखदा सुधा ।

गॊरूरु-श्रीनिवासमूर्तिः

On this earth my poetry is ambrosia. Those who savour it get unlimited pleasure. It is generated by the churning of the ocean of literature and is the ultimate in sweetness.

[ Jagannatha Pandita, who was quite conscious of his capabilities, does not appear to consider modesty a virtue!]

विश्वास-प्रस्तुतिः

दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः
करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः ।
इदानीं लोकेऽस्मिन् अनुपमशिखानां पुनरयम्
नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः ॥ २ ॥

मूलम्

दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः
करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः ।
इदानीं लोकेऽस्मिन् अनुपमशिखानां पुनरयम्
नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः ॥ २ ॥

अन्वयः

मदमलिनगण्डाः करटिनः दिगन्ते श्रूयन्ते । करिण्यः कारुण्यास्पदम् । मृगाः असमपदशीलाः खलु । इदानीम् अयं मृगपतिः अस्मिन् लोके अनुपमशिखानां नखानां पाण्डित्यं कस्मिन् प्रकटयतु ।

गॊरूरु-श्रीनिवासमूर्तिः

Elephants whose temples are darkened by the flow of ichor are only heard at the horizon. The she elephants are pitiable. The deer are of no match. Now in this world, where can this king of beasts display the proficiency of its nails of incomparable sharp edge?

[The poet obliquely bemoans his fate of not being able to wrestle with a matching scholar by describing the fate of a lion who does not find any elephant nearby to fight with. This is अन्योक्ति or अन्यापदेश, where the poet obliquely refers to some human situation through an analogical happening in nature. We shall come across many such अन्योक्तिs in this work.]

विश्वास-प्रस्तुतिः

पुरा सरसि मानसे विकचसारसालिस्खलत्-
-परागसुरभीकृते पयसि यस्य यातं वयः ।
स पल्वलजलेऽधुना मिलदनेकभेकाकुले
मरालकुलनायकः कथय रे कथं वर्तताम् ॥ ३ ॥

मूलम्

पुरा सरसि मानसे विकचसारसालिस्खलत्-
-परागसुरभीकृते पयसि यस्य यातं वयः ।
स पल्वलजलेऽधुना मिलदनेकभेकाकुले
मरालकुलनायकः कथय रे कथं वर्तताम् ॥ ३ ॥

अन्वयः

पुरा यस्य वयः विकच-सारस-आलि-स्खलत्-पराग-सुरभीकृते मानसे सरसि यातं सः मरालकुलनायकः अधुना मिलत्-अनेक-भेक-आकुले पल्वलजले कथं वर्तताम्, रे! कथय ।

गॊरूरु-श्रीनिवासमूर्तिः

Tell me how the chief of a swan-flock, who earlier spent its life in the waters of Manasa lake, which was made fragrant by the pollens fallen off rows of lotuses, could now live in the waters of a pond, full of many jostling frogs? [A person who had seen better days is in a pitiable plight in his old age.]

विश्वास-प्रस्तुतिः

तृष्णालोलविलोचने कलयति प्राचीं चकोरीगणे
मौनं मुञ्चति किंच कैरवकुले कामे धनुर्धुन्वति ।
माने मानवतीजनस्य सपदि प्रस्थानकामेऽधुना
धातः किन्नु विधुं पिधातुमुचितो धाराधराडम्बरः ॥ ४ ॥

मूलम्

तृष्णालोलविलोचने कलयति प्राचीं चकोरीगणे
मौनं मुञ्चति किंच कैरवकुले कामे धनुर्धुन्वति ।
माने मानवतीजनस्य सपदि प्रस्थानकामेऽधुना
धातः किन्नु विधुं पिधातुमुचितो धाराधराडम्बरः ॥ ४ ॥

अन्वयः

तृष्णालोलविलोचने चकोरीगणे प्राचीं कलयति, किञ्च कैरवकुले मौनं मुञ्चति, कामे धनुः धुन्वति, मानवतीजनस्य माने सपदि प्रस्थानकामे, (हे) धातः! धाराधराडम्बरः विधुं पिधातुम् उचितः नु किम्?

गॊरूरु-श्रीनिवासमूर्तिः

When the flock of chakori birds groups in the East with their eyes trembling with eagerness (for the moon-beams), when the white lotuses are no more silent, when the God of love is twanging his bow, when the modesty of bashful women is intending to make a hasty departure, o creator, is it right that the rumbling rain-bearing clouds cover the moon? [1.Chakori is the female of a type of partridge which is supposed to feed on moon beams. This is one of the many myths often encountered in Sanskrit literature. 2. The poet’s expression “ मौनं मुञ्चति किंच कैरवकुले” may either refer to the humming of the bees around the lotuses or to the fluttering of the full blown lotuses due to a breeze. 3. The poet indirectly refers to a state of helplessness felt at a last minute obstacle to an otherwise smooth flowing chain of events.]

विश्वास-प्रस्तुतिः

अयि दलदरविन्द स्यन्दमानं मरन्दम्
तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः ।
दिशि दिशि निरपेक्षः तावकीनं विवृण्वन्
परिमलमयमन्यो बान्धवो गन्धवाहः ॥ ५ ॥

मूलम्

अयि दलदरविन्द स्यन्दमानं मरन्दम्
तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः ।
दिशि दिशि निरपेक्षः तावकीनं विवृण्वन्
परिमलमयमन्यो बान्धवो गन्धवाहः ॥ ५ ॥

अन्वयः

अयि दलत्-अरविन्द! भृङ्गाः तव स्यन्दमानं मरन्दं लिहन्तः किम् अपि मञ्जु गुञ्जन्तु । अयम् अन्यः बान्धवः गन्धवाहः तावकीनं परिमलं दिशि दिशि निरपेक्षः विवृण्वन् (अस्ति) ।

गॊरूरु-श्रीनिवासमूर्तिः

O blooming lotus, after tasting a bit of your oozing nectar let the bumble bees hum pleasantly. Here is wind, another relative of yours who spreads your fragrance in all directions without any expectations. [ The contrast between the bumble bee which makes a lot of sound after sucking the nectar of lotus and the wind which carries the fragrance, without any expectations is beautifully brought out.]

विश्वास-प्रस्तुतिः

समुपागतवति दैवात् अवहेलां कुटज मधुकरे मा गाः ।
मकरन्दतुन्दिलानाम् अरविन्दानाम् अयं महामान्यः ॥ ६ ॥

मूलम्

समुपागतवति दैवात् अवहेलां कुटज मधुकरे मा गाः ।
मकरन्दतुन्दिलानाम् अरविन्दानाम् अयं महामान्यः ॥ ६ ॥

अन्वयः

कुटज! मधुकरे दैवात् समुपागतवति अवहेलां मा गाः । अयं मकरन्दतुन्दिलानाम् अरविन्दानां महामान्यः ।

गॊरूरु-श्रीनिवासमूर्तिः

O Kutaja (A flower bearing plant), do not neglect the bee which has fortunately come near you. It is highly respected by lotuses which are brimming with nectar.

विश्वास-प्रस्तुतिः

तावत् कोकिल विरसान् यापय दिवसान् वनान्तरे निवसन् ।
यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥ ७ ॥

मूलम्

तावत् कोकिल विरसान् यापय दिवसान् वनान्तरे निवसन् ।
यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥ ७ ॥

अन्वयः

कोकिल! वनान्तरे निवसन् दिवसान् तावत् यापय यावत् कोऽपि मिलत्-अलिमालः रसालः समुल्लसति ।

गॊरूरु-श्रीनिवासमूर्तिः

O kuckoo, spend some insipid days in any other forest, till a mango tree with a string of bees swarming around, blossoms.

विश्वास-प्रस्तुतिः

कमलिनि मलिनीकरोषि चेतः
किमिति बकैरवहेलिताऽनभिज्ञैः ।
परिणतमकरन्दमार्मिकास्ते
जगति भवन्तु चिरायुषो मिलिन्दाः ॥ ८ ॥

मूलम्

कमलिनि मलिनीकरोषि चेतः
किमिति बकैरवहेलिताऽनभिज्ञैः ।
परिणतमकरन्दमार्मिकास्ते
जगति भवन्तु चिरायुषो मिलिन्दाः ॥ ८ ॥

अन्वयः

कमलिनि! अनभिज्ञैः बकैः अवहेलिता चेतः किम् इति मलिनीकरोषि? जगति परिणतमकरन्दमार्मिकाः ते मिलिन्दाः चिरायुषः भवन्तु ।

गॊरूरु-श्रीनिवासमूर्तिः

O lotus-plant, why do you get your mind dirtied after being humiliated by the uncultured cranes? Let the bees who are connoisseurs of ripe nectar be long living in your world.

विश्वास-प्रस्तुतिः

नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः ।
अत्यन्तसरसहृदयो यतः परेषां गुणगृहीतासि ॥ ९ ॥

मूलम्

नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः ।
अत्यन्तसरसहृदयो यतः परेषां गुणगृहीतासि ॥ ९ ॥

अन्वयः

कूप! नितरां नीचः अस्मि इति कदा अपि खेदं मा कृथाः ।

गॊरूरु-श्रीनिवासमूर्तिः

यतः अत्यन्तसरसहृदयः परेषां गुणगृहीता असि ।

O well, do not ever feel sad thinking that you are very wicked ( नितरां नीचः=low in level). You have a very lively (सरस= liquescent) heart as you grasp others’ good qualities (परेषां गुणगृहीता=you are grasped by others by a rope). [The poet cleverly brings out the nicer aspect of a well by employing श्लेष= double entendre]

विश्वास-प्रस्तुतिः

येनामन्दमरन्दे दलदरविन्दे दिनान्यनायिषत ।
कुटजे खलु तेने हा तेनेहा मधुकरेण कथम् ॥ १० ॥

मूलम्

येनामन्दमरन्दे दलदरविन्दे दिनान्यनायिषत ।
कुटजे खलु तेने हा तेनेहा मधुकरेण कथम् ॥ १० ॥

अन्वयः

येन मधुकरेण अमन्द-मरन्दे दलत्-अरविन्दे दिनानि अनायिषत, हा, तेन कथं खलु कुटजे ईहा तेने ।

गॊरूरु-श्रीनिवासमूर्तिः

How is it that the bee which spent days in the blossoming lotus having abundant nectar is, alas, desirous of Kutaja? [ The poet laments the state of a person who was found in the past in the company of the great and has now developed a taste for the company of the lowly. Repetition of तेने हा and तेनेहा constitutes यमक.]

विश्वास-प्रस्तुतिः

अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते ।
उद्गिरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारे ॥ ११ ॥

मूलम्

अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते ।
उद्गिरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारे ॥ ११ ॥

अन्वयः

अयि मलयज, अयं ते महिमा कस्य गिरां विषयः अस्तु, यत् गरलम् उद्गिरतः फणिनः परिमलोद्गारैः पुष्णासि?

गॊरूरु-श्रीनिवासमूर्तिः

O, Sandal wood tree! You nurture poison-emitting snakes by the spread of your fragrance. Who can describe this greatness of yours? [The verse is addressed to a great person whose benevolence extends even to the vicious people. It is believed that snakes live on sandal wood trees.]

विश्वास-प्रस्तुतिः

पाटीर तव पटीयान् कः परिपाटीमिमाम् उरीकर्तुम् ।
यत्पिषतामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम्? ॥ १२ ॥

मूलम्

पाटीर तव पटीयान् कः परिपाटीमिमाम् उरीकर्तुम् ।
यत्पिषतामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम्? ॥ १२ ॥

अन्वयः

पाटीर, तव इमां परिपाटीम् उरीकर्तुं कः पटीयान्, यत् पिष्टोऽपि परिमलैः पिषतामपि नृणां पुष्टिं तनोषि?

गॊरूरु-श्रीनिवासमूर्तिः

Sandal wood! Who is capable of accepting this method of yours, by which, you while being powdered, nurture people who powder you? [The verse addresses a great man who does good to those who harm him.]

विश्वास-प्रस्तुतिः

नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् ।
विश्वस्मिन् अधुनान्यः कुलव्रतं पालयिष्यति कः ॥ १३ ॥

मूलम्

नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् ।
विश्वस्मिन् अधुनान्यः कुलव्रतं पालयिष्यति कः ॥ १३ ॥

अन्वयः

हंस, नीरक्षीरविवेके आलस्यं त्वमेव तनुषे चेत्, अधुना विश्वस्मिन् अन्यः कः कुलव्रतं पालयिष्यति?

गॊरूरु-श्रीनिवासमूर्तिः

O swan, if you yourself show lethargy in discriminating between milk and water, who in this world now will follow the family customs? [The word हंस suggests that it is addressed to a recognized saint, who has not been able to discriminate between good and bad. Swans are supposed to filter milk from a mixture of water and milk. It is one of the many beliefs that recur in Sanskrit literature.]

विश्वास-प्रस्तुतिः

उपरि करवालधाराकाराः क्रूरा भुजङ्गमपुङ्गवाः ।
अन्तः साक्षात् द्राक्षादीक्षागुरवः जयन्ति केऽपि जनाः ॥ १४ ॥

मूलम्

उपरि करवालधाराकाराः क्रूरा भुजङ्गमपुङ्गवाः ।
अन्तः साक्षात् द्राक्षादीक्षागुरवः जयन्ति केऽपि जनाः ॥ १४ ॥

अन्वयः

केऽपि जनाः, उपरि करवालधाराकाराः क्रूराः भुजङ्गमपुङ्गवाः, अन्तः साक्षात् द्राक्षादीक्षा गुरवः जयन्ति ।

गॊरूरु-श्रीनिवासमूर्तिः

There are some persons who flourish who, while being outwardly cruel like a serpent and sharp like a sword are inwardly dedicated

to being as soft and tender as grapes.

विश्वास-प्रस्तुतिः

स्वच्छन्दं दलदरविन्द ते मरन्दम्
विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः ।
आमोदानथ हरिदन्तराणि नेतुम्
नैवान्यो जगति समीरणात् प्रवीणः ॥ १५ ॥

मूलम्

स्वच्छन्दं दलदरविन्द ते मरन्दम्
विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः ।
आमोदानथ हरिदन्तराणि नेतुम्
नैवान्यो जगति समीरणात् प्रवीणः ॥ १५ ॥

अन्वयः

दलदरविन्द, मिलिन्दाः ते मरन्दं स्वच्छन्दं विन्दन्तः गुञ्जितं विदधतु । अथ आमोदान् हरिदन्तराणि नेतुं जगति समीरणात् प्रवीणः न अन्यः एव ।

गॊरूरु-श्रीनिवासमूर्तिः

Blossoming lotus! Let the bees obtain your nectar freely and hum. There is no one in this world other than the wind which could take your fragrance to other greeneries. [There are a set of people who get benefits from a good person and enjoy themselves. There are only a few who spread the good word.]

विश्वास-प्रस्तुतिः

याते मय्यचिरान्निदाघमिहिरज्वालाशनैः शुष्कताम्
गन्ता कं प्रति पान्थसन्ततिरसौ सन्तापमालाकुला ।
एवं यस्य निरन्तराधिपटलैः नित्यं वपुः क्षीयते
धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः ॥ १६ ॥

मूलम्

याते मय्यचिरान्निदाघमिहिरज्वालाशनैः शुष्कताम्
गन्ता कं प्रति पान्थसन्ततिरसौ सन्तापमालाकुला ।
एवं यस्य निरन्तराधिपटलैः नित्यं वपुः क्षीयते
धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः ॥ १६ ॥

अन्वयः

“मयि अचिरात् निदाघ-मिहिर-ज्वाला-अशनैः शुष्कतां याते, असौ सन्ताप-माला-आकुला पान्थ-सन्ततिः कं प्रति गन्ता”-एवं निरन्तर-आधि-पटलैः यस्य वपुः क्षीयते, अस्य मार्गसरसः जीवनं धन्यम् । वारिधीनां जनुः धिक् ।

गॊरूरु-श्रीनिवासमूर्तिः

“When I get dried up soon being eaten up by the flames of summer sun, to whom will these groups of travelers, who are agitated by a series of sufferings, go?” The life of the road-side pond whose body gets dissipated by such continuous anxieties is worthwhile. Fie be to the life of oceans. [ Oceans are of no avail to a weary traveler in summer. It is only a small road-side pond which comes to his rescue by slaking his thirst. Similarly it is the ordinary people who help a person in distress not the mighty.]

विश्वास-प्रस्तुतिः

आपेदिरेऽम्बरपथं परितः पतङ्गा
भृङ्गा रसालमुकुलानि समाश्रयन्ते ।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो
मीनो नु हन्त कतमां गतिमभ्युपैतु ॥ १७ ॥

मूलम्

आपेदिरेऽम्बरपथं परितः पतङ्गा
भृङ्गा रसालमुकुलानि समाश्रयन्ते ।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो
मीनो नु हन्त कतमां गतिमभ्युपैतु ॥ १७ ॥

अन्वयः

सरः, त्वयि सङ्कोचम् अञ्चति पतङ्गाः परितः अम्बरपथम् आपेदिरे । भृङ्गाः रसालमुकुलानि समाश्रयन्ते । हन्त दीनदीनः मीनः कतमां गतिम् अभ्युपैतु ?

गॊरूरु-श्रीनिवासमूर्तिः

O lake! While you shrink away, birds fly around towards the sky and the bees take refuge in mango buds. Alas, where can the poor fish go? [ When a generous person loses his wealth some of his dependants manage to survive by moving away but what happens to those who are totally dependant on him?]

विश्वास-प्रस्तुतिः

मधुप इव मारुतेऽस्मिन् मा सौरभलोभमम्बुज मंस्थाः ।
लोकानामेव मुदे महितोऽप्यात्मामुनार्थितां नीता ॥ १८ ॥

मूलम्

मधुप इव मारुतेऽस्मिन् मा सौरभलोभमम्बुज मंस्थाः ।
लोकानामेव मुदे महितोऽप्यात्मामुनार्थितां नीता ॥ १८ ॥

अन्वयः

अम्बुज, सौरभलोभं मधुपे इव अस्मिन् मारुते मा मंस्थाः । अमुना आत्मा महितः अपि लोकानामेव मुदे अर्थितां नीता ।

गॊरूरु-श्रीनिवासमूर्तिः

O lotus, do not exhibit the miserliness of fragrance that you show to bees with this wind. Although he is well-placed he has brought himself to being a suppliant for the sake of the general public. [The poet addresses the lotus to generously allow its fragrance to be carried away by the wind as it propagates the fragrance all over unlike bees which carry the fragrance for themselves. Poets who are well looked after by a king spread the fame of the king all over.]

विश्वास-प्रस्तुतिः

गुञ्जति मञ्जु मिलिन्दे मा मालति मानमौनमुपयासीः ।
शिरसा वदान्यगुरवः सादरमेनं वहन्ति सुरतरवः ॥ १९ ॥

मूलम्

गुञ्जति मञ्जु मिलिन्दे मा मालति मानमौनमुपयासीः ।
शिरसा वदान्यगुरवः सादरमेनं वहन्ति सुरतरवः ॥ १९ ॥

अन्वयः

मालति, मिलिन्दे मञ्जु गुञ्जति मानमौनं मा उपयासीः । वदान्यगरवः सुरतरवः एनं सादरं शिरसा वहन्ति ।

गॊरूरु-श्रीनिवासमूर्तिः

O Jasmine flower, do not become taciturn because of anger while the bumble bee hums pleasantly. The divine trees which are foremost among the munificent carry them in their heads with respect. [It seems to be applicable to a lady who is not responding to the advances of a suitor, who is well respected among the elite.]

विश्वास-प्रस्तुतिः

यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां नीतः ।
तानपि वहसि पटीरज किं कथयामस्त्वदीयमौन्नत्यम् ॥ २० ॥

मूलम्

यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां नीतः ।
तानपि वहसि पटीरज किं कथयामस्त्वदीयमौन्नत्यम् ॥ २० ॥

अन्वयः

पटीरज, त्वं गुणगणवान् अपि यैः द्विजिह्वैः असेव्यतां नीतः तान् अपि वहसि । त्वदीयम् औन्नत्यं किं कथयामः ।

गॊरूरु-श्रीनिवासमूर्तिः

O Sandal tree, although you have very good qualities the good do not come near you because of the snakes. You carry even such snakes. What shall we say of your greatness! [ Use of word द्विजिह्वा suggests that the poet refers to a very good person whom other virtuous persons do not approach because of his double-tongued dependants.]

विश्वास-प्रस्तुतिः

गाहितमखिलं गहनं परितो दृष्टाश्च विटपिनः सर्वे ।
सहकार न प्रपेदे मधुपेन भवत्समं जगति ॥ २१ ॥

मूलम्

गाहितमखिलं गहनं परितो दृष्टाश्च विटपिनः सर्वे ।
सहकार न प्रपेदे मधुपेन भवत्समं जगति ॥ २१ ॥

अन्वयः

सहकार! मधुपेन अखिलं गहनं गाहितम्, सर्वे विटपिनः दृष्टाः च । भवत्समं जगति न प्रपेदे ।

गॊरूरु-श्रीनिवासमूर्तिः

O Mango tree, all the woods were explored and all the trees were seen by the bee. It could not obtain anyone like you. [It is suggestive of a poet praising a king in his presence.]

विश्वास-प्रस्तुतिः

अपनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुसुमे ।
पुष्पान्तररेऽपि गन्तुं वाञ्छसि चेद्भ्रमर धन्य्ऽसि ॥ २२ ॥

मूलम्

अपनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुसुमे ।
पुष्पान्तररेऽपि गन्तुं वाञ्छसि चेद्भ्रमर धन्य्ऽसि ॥ २२ ॥

अन्वयः

भ्रमर! अपनीतपरिमलान्तरकथे देवतरुकुसुमे पदं न्यस्य पुष्पान्तरे अपि गन्तुं वाञ्छसि चेत् धन्यः असि ।

गॊरूरु-श्रीनिवासमूर्तिः

O bee, having set foot on the flower of the divine tree which surpasses in fragrance any other flower, if you want to go to some other flower, you are indeed blessed! [This is a sarcastic remark against a person who having spent time in the presence of the great wants to be in company of the lowly.]

विश्वास-प्रस्तुतिः

तटिनि चिराय विचारय विन्ध्यभुवस्तव पवित्रायाः ।
शुष्यन्त्या अपि युक्तं किं खलु रथ्योदकादानम् ॥ २३ ॥

मूलम्

तटिनि चिराय विचारय विन्ध्यभुवस्तव पवित्रायाः ।
शुष्यन्त्या अपि युक्तं किं खलु रथ्योदकादानम् ॥ २३ ॥

अन्वयः

तटिनि! तव पवित्रायाः विन्ध्यभुवः शुष्यन्त्या अपि रथ्योदकादानं युक्तं खलु किम्? चिराय विचारय ।

गॊरूरु-श्रीनिवासमूर्तिः

O river, while your holy Vindhya mountain (from which you originated) goes dry, is it right that you should receive street waters? Think over for long. [A river gets water from even a drain while its originating place may be dry. The poet seems to connect it with a person’s attitude by which he manages to get on in life by mingling with the sundry, although his own parents and family of exalted status are suffering.]

विश्वास-प्रस्तुतिः

पत्रफलपुष्पलक्ष्म्या कदाप्यदृष्टं वृतं च खलु शूकैः ।
उपसर्पेम भवन्तं बर्बुर वद कस्य लोभेन ॥ २४ ॥

मूलम्

पत्रफलपुष्पलक्ष्म्या कदाप्यदृष्टं वृतं च खलु शूकैः ।
उपसर्पेम भवन्तं बर्बुर वद कस्य लोभेन ॥ २४ ॥

अन्वयः

बर्बुर! पत्रफलपुष्पलक्ष्म्या कदा अपि अदृष्टं शुकैः वृतं च भवन्तं कस्य लोभेन उपसर्पेम खलु ? वद ।

गॊरूरु-श्रीनिवासमूर्तिः

O Barbura ( thorny tree)! You have never been seen with the luster of leaves, fruits or flowers. You are covered by thorns. For what purpose shall we come near you? Tell. [ How can some one who is always surrounded by scoundrels and who is never seen to be associated with the virtuous expect that good people should come to him?]

विश्वास-प्रस्तुतिः

एकस्त्वं गहनेऽस्मिन् कोकिल न कलं कदाचिदपि कुर्याः ।
साजात्यशङ्कयामी न त्वां निघ्नन्तु निर्दयाः काकाः ॥ २५ ॥

मूलम्

एकस्त्वं गहनेऽस्मिन् कोकिल न कलं कदाचिदपि कुर्याः ।
साजात्यशङ्कयामी न त्वां निघ्नन्तु निर्दयाः काकाः ॥ २५ ॥

अन्वयः

कोकिल, अस्मिन् गहने त्वम् एकः कदाचित् अपि कलं न कुर्याः ।

गॊरूरु-श्रीनिवासमूर्तिः

अमी निर्दया काकाः साजात्यशङ्कया त्वां न निघ्नन्तु ।

Cuckoo, do not ever coo alone in this forest, lest these merciless crows attack you thinking you to be one of their type. [It is safer for a good person not to open his mouth among a group of bad persons.]

विश्वास-प्रस्तुतिः

तरुकुलसुखमपहरां जनयन्तीं जगति जीवजातार्तिम् ।
केन गुणेन भवानीतात हिमानीमिमां वहसि ॥ २६ ॥

मूलम्

तरुकुलसुखमपहरां जनयन्तीं जगति जीवजातार्तिम् ।
केन गुणेन भवानीतात हिमानीमिमां वहसि ॥ २६ ॥

अन्वयः

भवानीतात! तरुकुलसुखम् अपहरां जगति जीवजातार्तिं जनयन्तीम् इमां हिमानीं केन गुणेन वहसि?

गॊरूरु-श्रीनिवासमूर्तिः

O, father of Parvati (Himalaya), for the sake of what quality do you carry this snow which robs the happiness of trees and which creates discomfort for all living beings ? [The poet looks at snow as a destroyer of happiness and does not understand why the father of Parvati, the Himalaya, carries it.]

विश्वास-प्रस्तुतिः

कलभ तवान्तिकमागतमलिमेनं मा कदाप्यवज्ञासीः ।
अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥ २७ ॥

मूलम्

कलभ तवान्तिकमागतमलिमेनं मा कदाप्यवज्ञासीः ।
अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥ २७ ॥

अन्वयः

कलभ, तव अन्तिकम् आगतम् एनम् अलिं कदा अपि मा अवज्ञासीः । अयं दानसुन्दराणां द्विपधुर्याणां शिरोधार्यः ।

गॊरूरु-श्रीनिवासमूर्तिः

Young Elephant! Do not ever neglect this bee which has come near you. It is carried on the head by great elephants, which are elegant with their ichor. [It is repetition of the sentiment expressed in verse 6]

विश्वास-प्रस्तुतिः

अमरतरुकुसुमसौरभसेवनसंपूर्णसकलकामस्य ।
पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥ २८ ॥

मूलम्

अमरतरुकुसुमसौरभसेवनसंपूर्णसकलकामस्य ।
पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥ २८ ॥

अन्वयः

अमरतरु-कुसुम-सौरभ-सेवन-संपूर्ण-सकल-कामस्य भ्रमरस्य इयं पुष्पान्तरसेवा महती विडम्बना ।

गॊरूरु-श्रीनिवासमूर्तिः

It is matter of great ridicule that the bee which has had all its desires fulfilled in entirety by the flowers of the divine tree goes to serve another flower. [ A person who has been in the company of the high and mighty should maintain his dignity by not mingling with the lowly.]

विश्वास-प्रस्तुतिः

पृष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे ।
माकन्द न प्रपेदे मधुपेन तवोपमा जगति ॥ २९ ॥

मूलम्

पृष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे ।
माकन्द न प्रपेदे मधुपेन तवोपमा जगति ॥ २९ ॥

अन्वयः

माकन्द! मधुपेन परपुष्टाः पृष्टाः खलु, सर्वे विटपिनः दृष्टाश्च । तवोपमा जगति न प्रपेदे ।

गॊरूरु-श्रीनिवासमूर्तिः

Mango tree! The cuckoos were asked, all round all trees were searched by the bee. It could not find any like you. [ Apparently in praise of some dignitary.]

विश्वास-प्रस्तुतिः

तोयैरल्पैरपि करुणया भीमभानौ निदाघे
मालाकार व्यरचि भवता या तरोरस्य पुष्टिः ।
किञ्चिन्मात्रं जनयितुमिह प्रावृषेण्यॆन वाराम्
धारासारानपि विकिरता विश्वतो वारिदेन ॥ ३० ॥

मूलम्

तोयैरल्पैरपि करुणया भीमभानौ निदाघे
मालाकार व्यरचि भवता या तरोरस्य पुष्टिः ।
किञ्चिन्मात्रं जनयितुमिह प्रावृषेण्यॆन वाराम्
धारासारानपि विकिरता विश्वतो वारिदेन ॥ ३० ॥

अन्वयः

मालाकार! भीमभानौ निदाघे अल्पैः अपि तोयैः भवता अस्य तरोः या पुष्टिः व्यरचि, वारां धारासारान् अपि विकिरता प्रावृषेण्येन वारिदेन (तस्याः पुष्ट्याः) किञ्चिन्मात्रं अपि जनयितुं (अलम्) ।

गॊरूरु-श्रीनिवासमूर्तिः

Gardener! what, Only a small part of nurture you provided by small amounts of watering to this tree in summer when the sun was fierce, can be provided by the clouds during the rainy season pouring water in torrents. [ A small amount of help when needed is more meaningful than a lot of it in times of abundance.]

विश्वास-प्रस्तुतिः

आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा
वात्याभिः परुषीकृता दश दिशः चण्डातपो दुस्सहः ।
एवं धन्वनि चम्पकस्य सकले संहारहेतावपि
त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥ ३१ ॥

मूलम्

आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा
वात्याभिः परुषीकृता दश दिशः चण्डातपो दुस्सहः ।
एवं धन्वनि चम्पकस्य सकले संहारहेतावपि
त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥ ३१ ॥

अन्वयः

तोयद! आरामाधिपतिः विवेकविकलः, रसा नूनं नीरसा, दश दिशः वात्याभिः परुषीकृताः,चण्डातपः दुस्सहः, धन्वनि एवं चम्पकस्य सकले संहारहेतौ अपि (सति), वेधसा कुतः अपि आविष्कृतः त्वं अमृतेन सिञ्चन् (असि) ।

गॊरूरु-श्रीनिवासमूर्तिः

O cloud! The chief of the gardens is devoid of power of reasoning; the earth is indeed absolutely dry; storms are raging in all directions; the sun is fierce; thus in the desert when everything is causing your destruction, you, who has been created from somewhere by the creator, pour ambrosia. [When everything seems to be lost someone, as if sent by God comes and helps.]

विश्वास-प्रस्तुतिः

न यत्र स्थेमानं दधुरतिभयभ्रान्तनयनाः
गलद्दानोद्रेकभ्रमदलिकदम्बाः करटिनः ।
लुठन् मुक्ताभारे भवति परलोकं गतवतो
हरेरद्य द्वारे शिव शिव शिवानां कलकलः ॥ ३२ ॥

मूलम्

न यत्र स्थेमानं दधुरतिभयभ्रान्तनयनाः
गलद्दानोद्रेकभ्रमदलिकदम्बाः करटिनः ।
लुठन् मुक्ताभारे भवति परलोकं गतवतो
हरेरद्य द्वारे शिव शिव शिवानां कलकलः ॥ ३२ ॥

अन्वयः

यत्र अतिभय-भ्रान्त-नयनाः गलत्-दानोद्रेक-भ्रमत्-अलि-कदम्बाः करटिनः स्थेमानं न दधुः, अद्य लुठन्-मुक्ता-भारे परलोकं गतवतः हरेः द्वारे शिवानां कलकलः भवति । शिव! शिव!

गॊरूरु-श्रीनिवासमूर्तिः

Where elephants which had swarms of bees running around due to the excessive flow of ichor did not dare to stay, there at the door of the dead lion where pearls (from the heads of killed elephants) are strewn is now the uproar of jackals! What a pity! [When a valourous person of whom everyone was afraid departs, it often happens that all and sundry usurp his place.]

विश्वास-प्रस्तुतिः

दधानः प्रेमाणं तरुषु समभावेन विपुलम्
न मालाकारोऽसौ अकृत करुणां बालवकुले ।
अयं तु द्रागुद्यत्कुसुमनिकराणां परिमलैः
दिगन्तानातेने मधुपकुलझङ्कारभरितान् ॥ ३३ ॥

मूलम्

दधानः प्रेमाणं तरुषु समभावेन विपुलम्
न मालाकारोऽसौ अकृत करुणां बालवकुले ।
अयं तु द्रागुद्यत्कुसुमनिकराणां परिमलैः
दिगन्तानातेने मधुपकुलझङ्कारभरितान् ॥ ३३ ॥

अन्वयः

असौ मालाकारः तरुषु समभावेन विपुलं प्रेमाणं दधानः बाल-वकुले करुणां न अकृत । अयं तु द्राक् उद्यत्-कुसुम-निकराणां परिमलैः दिगन्तान् मधुप-कुल-झङ्कार-भरितान् आतेने ।

गॊरूरु-श्रीनिवासमूर्तिः

This gardener, who shared his immense love towards trees equally did not show compassion at the young Vakula plant. This Vakula plant quickly filled up all the directions with the humming of the swarms of bees through the spread of the fragrance of springing bunches of (its) flowers. [The poet notices that although the gardener has neglected to water a Vakula plant adequately, the plant has brought forth its fragrant bunches of flowers, attracting swarms of bees all around. A parallel human situation like the following comes to the mind of the reader. A student by his own brilliance may shine despite teacher not devoting his attention to the student adequately.]

विश्वास-प्रस्तुतिः

मूलं स्थूलमतीवबन्धनदृढं शाखाः शतं मांसलाः
वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव ।
एकः किंतु मनागयंजनयति स्वान्ते ममाधिज्वरम्
ज्वालालीवलयीभवन्नकरुणो दावानलो घस्मरः ॥ ३४ ॥

मूलम्

मूलं स्थूलमतीवबन्धनदृढं शाखाः शतं मांसलाः
वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव ।
एकः किंतु मनागयंजनयति स्वान्ते ममाधिज्वरम्
ज्वालालीवलयीभवन्नकरुणो दावानलो घस्मरः ॥ ३४ ॥

अन्वयः

तरुपते, तव मूलम् अतीव बन्धनदृढं स्थूलं, शतं शाखाः मांसलाः, वासः दुर्गमहीधरे । तव भीतिः कुत्र अस्ति? किंतु अयम् एकः मनाक् मम स्वान्ते आधिज्वरं जनयति:-अकरुणः घस्मरः दावानलः ज्वाला-अली-वलयी-भवन् (अस्ति) ।

गॊरूरु-श्रीनिवासमूर्तिः

O Chief of trees! Your roots are firm and well bonded (to the earth); your hundreds of branches are brawny; you live in a formidable mountain. What fear do you have? Yet I get perturbed in my mind that this gluttonous forest fire is encircling with its chain of flames. [There is someone who can threaten the mighty too.]

विश्वास-प्रस्तुतिः

ग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपि यश्चातकः
त्वां ध्यायन् घनवासरान् कथमपि द्राघीयसो नीतवान् ।
दैवाल्लोचनगोचरेण भवता तस्मिन् इदानीं यदि
स्वीचक्रे करकानिपातनकृपा तत् कं प्रति ब्रूमहे ॥ ३५ ॥

मूलम्

ग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपि यश्चातकः
त्वां ध्यायन् घनवासरान् कथमपि द्राघीयसो नीतवान् ।
दैवाल्लोचनगोचरेण भवता तस्मिन् इदानीं यदि
स्वीचक्रे करकानिपातनकृपा तत् कं प्रति ब्रूमहे ॥ ३५ ॥

अन्वयः

यः चातकः ग्रीष्मे दिनकृता भीष्मतरैः करैः दग्धः अपि, त्वां ध्यायन् द्राघीयसः घनवासरान् कथमपि नीतवान् । इदानीं तस्मिन् दैवात् लोचनगोचरेण भवता यदि करकानिपातनकृपा स्वीचक्रे तत् कं प्रति ब्रूमहे?

गॊरूरु-श्रीनिवासमूर्तिः

The Chataka bird, somehow spends the long and dense days thinking about you, despite being scalded by the fierce rays of the sun in summer. Now, o cloud! when you are in sight providentially, if you shower him with your kindness in the form of hail stones, whom shall we speak about it? [ Poet laments about the harsh treatment a person gets from a dignitary on whom the former is dependant.]

विश्वास-प्रस्तुतिः

दवदहनजटालज्वालजालाहतानाम्
परि गलितलतानां म्लायतां भूरुहाणाम् ।
अपि जलधर शैलश्रेणिशृङ्गेषु तोयम्
वितरसि बहु कोऽयं श्रीमदस्तावकीनः ॥ ३६ ॥

मूलम्

दवदहनजटालज्वालजालाहतानाम्
परि गलितलतानां म्लायतां भूरुहाणाम् ।
अपि जलधर शैलश्रेणिशृङ्गेषु तोयम्
वितरसि बहु कोऽयं श्रीमदस्तावकीनः ॥ ३६ ॥

अन्वयः

जलधर! दव-दहन-जटाल-ज्वाल-जाल-आहतानाम् गलितलतानाम् म्लायतां भूरुहाणाम् परि, अपि शैल-श्रेणि-शृङ्गेषु तोयम् बहु वितरसि, तावकीनः कः अयं श्री-मदः?

गॊरूरु-श्रीनिवासमूर्तिः

Cloud! What sort of a haughtiness of wealth do you display that you shower rains copiously on the peaks of mountain ranges while you neglect the parched trees with fallen branches devastated by the flames of swirling forest fire?

विश्वास-प्रस्तुतिः

शृण्वन् पुरः परुषगर्जितमस्य हन्त
रे पान्थ विस्मितमना न मनागपि स्याः ।
विश्वार्तिवारणसमर्पितजीवितोऽयम्
नाकर्णितः किमु सखे भवताम्बुवाहः ॥ ३७ ॥

मूलम्

शृण्वन् पुरः परुषगर्जितमस्य हन्त
रे पान्थ विस्मितमना न मनागपि स्याः ।
विश्वार्तिवारणसमर्पितजीवितोऽयम्
नाकर्णितः किमु सखे भवताम्बुवाहः ॥ ३७ ॥

अन्वयः

रे पान्थ! अस्य परुषगर्जितम् पुरः शृण्वन्, मनाक् अपि न विस्मितमना स्याः । हन्त, सखे! भवता अयम् अम्बुवाहः विश्वार्ति-वारण-समर्पित-जीवितः (इति) न किमु आकर्णितः?

गॊरूरु-श्रीनिवासमूर्तिः

Dear traveler! Do not get disturbed even to the slightest extent hearing the harsh sound of this (cloud). Alas, friend! Have you not heard (of the fact) that the cloud’s life is dedicated to the cause of preventing the suffering of this world? [ One should not judge a person by the tone of his voice.]

विश्वास-प्रस्तुतिः

सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं तु लोकोत्तरम्
कीर्तिः किं च दिगङगनाङ्गणगता किन्त्वेतदेकं शृणु ।
सर्वानेव गुणानियं निगिरति श्रीखण्ड ते सुन्दरान्
उज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥ ३८ ॥

मूलम्

सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं तु लोकोत्तरम्
कीर्तिः किं च दिगङगनाङ्गणगता किन्त्वेतदेकं शृणु ।
सर्वानेव गुणानियं निगिरति श्रीखण्ड ते सुन्दरान्
उज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥ ३८ ॥

अन्वयः

श्रीखण्ड! ते सौरभ्यं भुवनत्रये अपि विदितं, शैत्यं तु लोकोत्तरम्, किं च कीर्तिः दिगङ्गना-अङ्गण-गता । किन्तु एतत् एकं शृणु । ते सुन्दरान् एव गुणान् इयं द्विजिह्वावली कोटरेषु गरलज्वालां उज्झन्ती निगिरति ।

गॊरूरु-श्रीनिवासमूर्तिः

Sandal tree! Your fragrance is known through out the three worlds. Your coolness is extraordinary. Your fame has spread in all directions. But listen to this one thing. Groups of snakes emitting flames of poison in (your) hollows swallow all your good qualities. [The poet employs the myth of snakes living in the hollows of sandal wood tree to bring home the truth that one blemish will eclipse a whole lot of good qualities. This is in contrast to Kalidasa’s well known statement: एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः| Poets generalize on what suits the occasion! ]

विश्वास-प्रस्तुतिः

नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च सङ्गतिः ।
तथापि हरते तापं लोकानामुन्नतो घनः ॥ ३९ ॥

मूलम्

नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च सङ्गतिः ।
तथापि हरते तापं लोकानामुन्नतो घनः ॥ ३९ ॥

अन्वयः

न अपेक्षा, न च दाक्षिण्यम्, न प्रीतिः, न च सङ्गतिः (अस्ति) । तथापि लोकानाम् उन्नतः घनः तापं हरते ।

गॊरूरु-श्रीनिवासमूर्तिः

It has no desire (for anything); it has no agreement (with any one); it has no love (towards any one); it has no companionship (with any one). Even then, staying well above all, the cloud (the great) removes distress. [By raining all over, clouds remove distress of all living beings, without any expectations.]

विश्वास-प्रस्तुतिः

समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसतिः
विलासः पद्मायाः सुरहृदयहारी परिमलः ।
गुणैरेतैरन्यैरपि च ललितस्याम्बुज तव
द्विजोत्तंसे हंसे यदि रतिरतीवोन्नतिरियम् ॥ ४० ॥

मूलम्

समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसतिः
विलासः पद्मायाः सुरहृदयहारी परिमलः ।
गुणैरेतैरन्यैरपि च ललितस्याम्बुज तव
द्विजोत्तंसे हंसे यदि रतिरतीवोन्नतिरियम् ॥ ४० ॥

अन्वयः

अम्बुज! तव समुत्पत्तिः स्वच्छे सरसि, निवसतिः हरिहस्ते, , परिमलः सुरहृदयहारी । (त्वं) पद्मायाः विलासः । एतैः अन्यैः अपि च गुणैः ललितस्य तव द्विजोत्तंसे हंसे यदि रतिः (भवेत्), इयम् अतीव उन्नतिः ।

गॊरूरु-श्रीनिवासमूर्तिः

O Lotus! Your origin is a clean lake; your dwelling is the hand of Vishnu; your fragrance steals the hearts of divine beings. You are the abode of Goddess Lakshmi. You are charming endowed by these and other qualities. If you get interested in the swan which is best among birds, it would be indeed great. [The use of words द्विजोत्तंस and हंस suggest a realized soul among Brahmins. The poet perhaps addresses through this अन्योक्ति a cultured and well known king suggesting that it would be appropriate if he cultivates the company of a specific great realized soul.]

विश्वास-प्रस्तुतिः

साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमा
नीरे नीरचरैः समं स भगवान् निद्राति नारायणः ।
एवं वीक्ष्य तवाविवेकमपि च प्रौढिं परामुन्नतेः
किं निन्दान्यथवा स्तवानि कथय क्षीरार्णव त्वामहम् ॥ ४१ ॥

मूलम्

साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमा
नीरे नीरचरैः समं स भगवान् निद्राति नारायणः ।
एवं वीक्ष्य तवाविवेकमपि च प्रौढिं परामुन्नतेः
किं निन्दान्यथवा स्तवानि कथय क्षीरार्णव त्वामहम् ॥ ४१ ॥

अन्वयः

क्षीरार्णव! (तव) तीरे अर्कबिम्बोपमा मणयः ग्रावगणैः साकं लुठन्ति । नीरे सः भगवान् नारायणः नीरचरैः समं निद्राति । एवं तव अविवेकम् अपि उन्नतेः प्रौढिं च वीक्ष्य किं अहं त्वां निन्दानि अथवा स्तवानि? कथय ।

गॊरूरु-श्रीनिवासमूर्तिः

O Ocean of milk! On your shores gems which are like sun’s orb lie side by side of heaps of stones. In your waters, the great Lord Narayana sleeps along with other aquatic animals. Seeing thus your lack of discretion and the great heights you have attained, shall I find fault with you or praise you? [This refers to some person who although great cultivates the company of the lowly.]

विश्वास-प्रस्तुतिः

किं खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते ।
सलिलमपि यन्न तावकम् अर्णव वदनं प्रयाति तृषितानाम् ॥ ४२ ॥

मूलम्

किं खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते ।
सलिलमपि यन्न तावकम् अर्णव वदनं प्रयाति तृषितानाम् ॥ ४२ ॥

अन्वयः

अर्णव! एतैः रत्नैः किम्? पुनः ते अभ्रायितेन वपुषा किं ? यत् तावकं सलिलं तृषितानां वदनं न प्रयाति ।

गॊरूरु-श्रीनिवासमूर्तिः

Ocean! Of what use are these gems? Of what use is your sky-like body? Your water does not enter the mouths of the thirsty. [Any so called great person is worthless if he does not help the needy.]

विश्वास-प्रस्तुतिः

इयत्त्यां सम्पत्तावपि च सलिलानां त्वमधुना
न तृष्णामार्तानां हरसि यदि कासार सहसा ।
निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरम्
कृशीभूतः केषामहह परिहर्तासि खलु ताम् ॥ ४३ ॥

मूलम्

इयत्त्यां सम्पत्तावपि च सलिलानां त्वमधुना
न तृष्णामार्तानां हरसि यदि कासार सहसा ।
निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरम्
कृशीभूतः केषामहह परिहर्तासि खलु ताम् ॥ ४३ ॥

अन्वयः

कासार! अधुना सलिलानां इयत्त्यां सम्पत्तौ अपि त्वम् आर्तानां तृष्णां सहसा यदि न हरसि, निदाघे चण्डांशौ परितः अङ्गारनिकरं किरति, कृशीभूतः केषां (आर्तानां) तां (तृष्णां) परिहर्ता असि खलु ? अहह ।

गॊरूरु-श्रीनिवासमूर्तिः

O Lake, Even when there is so much of water wealth if you are not able to quickly quench the thirst of the distressed, in summer when the sun spreads around embers of charcoal, whose thirst can you, having become emaciated, quench? [If a person when he has much wealth does not share it with the needy, how can you expect him to be helpful when he falls into bad times?]

विश्वास-प्रस्तुतिः

अयि रोषमुरीकरोषि नो चेत् किमपि त्वां प्रति वारिधे वदामः ।
जलदेन तवार्थिना विमुक्तान्यपि तोयानि महान् न हा जहासि ॥ ४४ ॥

मूलम्

अयि रोषमुरीकरोषि नो चेत् किमपि त्वां प्रति वारिधे वदामः ।
जलदेन तवार्थिना विमुक्तान्यपि तोयानि महान् न हा जहासि ॥ ४४ ॥

अन्वयः

अयि वारिधे! यदि रोषं नो उरीकरोषि चेत्, त्वां प्रति किमपि वदामः । तव अर्थिना जलदेन विमुक्तानि अपि तोयानि, महान् (त्वं) न जहासि । हा ।

गॊरूरु-श्रीनिवासमूर्तिः

Dear Ocean, if you do not get angry we tell you something about you. You do not leave the water that your supplicant cloud releases. Alas! [Although clouds draw water from the ocean, ocean does not hesitate to collect the water released by the cloud. The poet suggests a situation where a benefactor stoops to collect what his supplicants had thrown away.]

विश्वास-प्रस्तुतिः

न वारयामो भवतीं विशन्तीम् वर्षानदि स्रोतसि जह्नुजायाः ।
न युक्तमेतत्तु पुरो यदस्याः तरङ्गभङ्गान् प्रकटीकरोषि ॥ ४५ ॥

मूलम्

न वारयामो भवतीं विशन्तीम् वर्षानदि स्रोतसि जह्नुजायाः ।
न युक्तमेतत्तु पुरो यदस्याः तरङ्गभङ्गान् प्रकटीकरोषि ॥ ४५ ॥

अन्वयः

वर्षानदि! जह्नुजायाः स्रोतसि विशन्तीं भवतीं न वारयामः । अस्याः पुरः तरङ्गभङ्गान् प्रकटीकरोषि (इति) यत्, एतत् तु न युक्तम् ।

गॊरूरु-श्रीनिवासमूर्तिः

O storm water! We do not obstruct your entering into the stream of Ganga. But displaying your folds of waves in front of her is not correct. [A common man can certainly be in the presence of a great person. But displaying his capabilities in front of the great is ill manners.]

विश्वास-प्रस्तुतिः

पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहाम्
येनाघ्रातसमुज्झितानि कुसुमान्याजघ्रिरे निर्जरैः ।
तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकांक्षति
त्वं चेदञ्चसि लोभमम्बुज तदा किं त्वां प्रति ब्रूमहे ॥ ४६ ॥

मूलम्

पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहाम्
येनाघ्रातसमुज्झितानि कुसुमान्याजघ्रिरे निर्जरैः ।
तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकांक्षति
त्वं चेदञ्चसि लोभमम्बुज तदा किं त्वां प्रति ब्रूमहे ॥ ४६ ॥

अन्वयः

अम्बुज! पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहां कुसुमानि येन आघ्रात- -समुज्झितानि निर्जरैः आजघ्रिरे, तस्मिन् मधुव्रते अद्य विधिवशात् माध्वीकम् आकांक्षति त्वं लोभम् अञ्चसि चेत्, त्वां प्रति किं ब्रूमहे ।

गॊरूरु-श्रीनिवासमूर्तिः

O Lotus! If you display miserliness to a bee which is now, as fate would have it, seeking honey (from you) what shall we speak about you? Even divine beings were smelling the flowers of the divine trees which had been smelt and abandoned by this bee in the garden of Indra. [It is not an ordinary bee. It had seen better days when it used to dwell on the flowers of Indra’s garden. It should be treated with generous hospitality. Apparently the poet has in mind a parallel where a person of eminence who had seen better days is forced to seek shelter with an ordinary person.]

विश्वास-प्रस्तुतिः

प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरी-
पुञ्जे मञ्जुलगुञ्जितानि रचयन् तानातनोरुत्सवान् ।
तस्मिन्नद्य रसालशाखिनि दृशां दैवात् कृशामञ्चति
त्वं चेन्मुञ्चसि चञ्चरीक विनयं नीचस्त्वदन्योऽस्ति कः ॥ ४७ ॥

मूलम्

प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरी-
पुञ्जे मञ्जुलगुञ्जितानि रचयन् तानातनोरुत्सवान् ।
तस्मिन्नद्य रसालशाखिनि दृशां दैवात् कृशामञ्चति
त्वं चेन्मुञ्चसि चञ्चरीक विनयं नीचस्त्वदन्योऽस्ति कः ॥ ४७ ॥

अन्वयः

चञ्चरीक! कुसुमाकरस्य प्रारम्भे यस्य उल्लसत्-मञ्जरी-पुञ्जे मञ्जुल-गुञ्जितानि परितः रचयन् तान् उत्सवान् आतनोः, तस्मिन् रसाल-शाखिनि दैवात् दृशाम् कृशाम् अञ्चति, त्वं विनयं मुञ्चसि चेत् त्वदन्यः नीचः कः अस्ति?

गॊरूरु-श्रीनिवासमूर्तिः

O bee! At the advent of spring how well you celebrated by humming sonorously all around in the bunches of new shoots that were appearing in the mango tree! When due to quirk of fate that mango tree looks emaciated, if you were to lose your regard (for it), who could be more worthless than you? [Apparently the poet finds fault with someone who was only a friend in fine weather.]

विश्वास-प्रस्तुतिः

भुक्ता मृणालपटली भवता निपीता-
न्यम्बूनि यत्र नलिनानि निषेवितानि ।
रे राजहंस वद तस्य सरोवरस्य
कृत्येन केन भवितासि कृतोपकारः ॥ ४८ ॥

मूलम्

भुक्ता मृणालपटली भवता निपीता-
न्यम्बूनि यत्र नलिनानि निषेवितानि ।
रे राजहंस वद तस्य सरोवरस्य
कृत्येन केन भवितासि कृतोपकारः ॥ ४८ ॥

अन्वयः

रे राजहंस! भवता यत्र मृणालपटली भुक्ता, अम्बूनि निपीतानि, नलिनानि निषेवितानि, तस्य सरोवरस्य केन कृत्येन कृतोपकारः भविता असि? वद ।

गॊरूरु-श्रीनिवासमूर्तिः

O Royal swan! By which act will you repay your debt of gratitude to the lake, where you ate bunches of lotus fibres, drank water and enjoyed the lotuses? Tell. [ It is not possible to repay the debt of gratitude one owes to certain people.]

विश्वास-प्रस्तुतिः

एणीगणेषु गुरुगर्वनिमीलिताक्षः
किं कृष्णसार खलु खेलसि काननेऽस्मिन् ।
सीमामिमां कलय भिन्नकरीन्द्रकुम्भ-
मुक्तामयीं हरिविहारवसुन्धरायाः ॥ ४९ ॥

मूलम्

एणीगणेषु गुरुगर्वनिमीलिताक्षः
किं कृष्णसार खलु खेलसि काननेऽस्मिन् ।
सीमामिमां कलय भिन्नकरीन्द्रकुम्भ-
मुक्तामयीं हरिविहारवसुन्धरायाः ॥ ४९ ॥

अन्वयः

कृष्णसार! गुरुगर्वनिमीलिताक्षः एणीगणेषु अस्मिन् कानने किं खेलसि? भिन्न-करीन्द्र-कुम्भ-मुक्तामयीम् इमां सीमाम् हरि-विहार-वसुन्धरायाः (इति) कलय ।

गॊरूरु-श्रीनिवासमूर्तिः

O spotted antelope! With eyes closed due to great pride, why do you play in this forest with groups of does? Count this area which is full of gems spilt from the forehead of great elephants, as the playground of a lion. [This is not a place fit for you. This is the place of a lion which has killed elephants and has spread the gems from the head of killed elephants all over the place. This is directed to a weak person who is trying to show off at a place where powerful persons live.]

विश्वास-प्रस्तुतिः

जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः ।
करिणामरिणा हरिणाली हन्यतां नु कथम् ॥ ५० ॥

मूलम्

जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः ।
करिणामरिणा हरिणाली हन्यतां नु कथम् ॥ ५० ॥

अन्वयः

जठर-ज्वलन-ज्वलता करिणाम् अरिणा हरिण-अली अपगत-शङ्कम् समागता अपि कथम् नु हन्यताम्?

गॊरूरु-श्रीनिवासमूर्तिः

How will a lion, the enemy of elephants, burning with the fire of stomach (feeling acute hunger), kill the group of deer which has come in front without any hesitation? [Directed to some powerful person advising him not to hurt the helpless when they come seeking his shelter. Note the alliteration –यमक- in करिणामरिणाहरिणा.]

विश्वास-प्रस्तुतिः

येन भिन्नकरिकुम्भविस्खलन्मौक्तिकावलिभिरञ्चिता मही ।
अद्य तेन हरिणान्तके कथं कथ्यताम् नु हरिणा पराक्रमः ॥ ५१ ॥

मूलम्

येन भिन्नकरिकुम्भविस्खलन्मौक्तिकावलिभिरञ्चिता मही ।
अद्य तेन हरिणान्तके कथं कथ्यताम् नु हरिणा पराक्रमः ॥ ५१ ॥

अन्वयः

येन करिणा मही भिन्न-करि-कुम्भ-विस्खलत्-मौक्तिक-आवलिभिः अञ्चिता, तेन अद्य पराक्रमः हरिणान्तके कथं नु कथ्यताम् ?

गॊरूरु-श्रीनिवासमूर्तिः

How can the lion which spread on the ground groups of gems falling out of the broken foreheads of elephants, talk of its valour in front of a deer? [ It is not right for a person of great valour to show his strength in front of a weak person.]

विश्वास-प्रस्तुतिः

स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण सखे
गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि ।
असौ कुम्भिभ्रान्त्या खरनखरविद्रावितमहा-
गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥ ५२ ॥

मूलम्

स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण सखे
गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि ।
असौ कुम्भिभ्रान्त्या खरनखरविद्रावितमहा-
गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥ ५२ ॥

अन्वयः

रे गजश्रेणीनाथ मदान्धेक्षण सखे!, त्वम् इह जटिलायां वनभुवि क्षणमपि स्थितिं नो दध्याः । असौ हरिपतिः कुम्भि-भ्रान्त्या खर-निखर-विद्रावित-महा-गुरु-ग्राव-ग्रामः गिरिगर्भे स्वपिति ।

गॊरूरु-श्रीनिवासमूर्तिः

Dear Leader of elephant group who is blind with pride! Do not stay in this dense forest even for a moment. Here deep in these hills sleeps the chief of lions, who mistaking for an elephant has scattered heaps of large boulders by its sharp nails. [Apparently it is a warning to a weakling to beware of a much stronger enemy.]

विश्वास-प्रस्तुतिः

गिरिगह्वरेषु गुरुगर्वगुम्फितो
गजराजपोत न कदापि सञ्चरेः ।
यदि बुध्यते हरिशिशुः स्तनन्धयो
भविता करेणुपरिशेषिता मही ॥ ५३ ॥

मूलम्

गिरिगह्वरेषु गुरुगर्वगुम्फितो
गजराजपोत न कदापि सञ्चरेः ।
यदि बुध्यते हरिशिशुः स्तनन्धयो
भविता करेणुपरिशेषिता मही ॥ ५३ ॥

अन्वयः

गजराजपोत! गुरुगर्वगुम्फितः गिरिगह्वरेषु कदा अपि न सञ्चरेः । यदि स्तनन्धयः हरिशिशुः बुध्यते, मही करेणु-परिशेषिता भविता ।

गॊरूरु-श्रीनिवासमूर्तिः

O Child of chief elephant! Puffed up by great pride do not ever move around the caves of the hill. If the suckling infant of the lion comes to know, there will be only she elephants left in this world. [The sentiment of warning expressed in the previous verse is repeated in a different way.]

विश्वास-प्रस्तुतिः

निसर्गादारामे तरुकुलसमारोपसुकृती
कृती मालाकारो बकुलमपि कुत्रापि निदधे ।
इदं को जानीते यदयमिह कोणान्तरगतो
जगज्जालं कर्ता कुसुमभरसौरभ्यभरितम् ॥ ५४ ॥

मूलम्

निसर्गादारामे तरुकुलसमारोपसुकृती
कृती मालाकारो बकुलमपि कुत्रापि निदधे ।
इदं को जानीते यदयमिह कोणान्तरगतो
जगज्जालं कर्ता कुसुमभरसौरभ्यभरितम् ॥ ५४ ॥

अन्वयः

तरुकुलसमारोपसुकृती कृती मालाकारः निसर्गात् बकुलम् अपि कुत्र अपि निदधे । यत् कोणान्तरगतः अयम् इह जगज्जालं कुसुम-भर-सौरभ्य-भरितं कर्ता. इदं कः जानीते ।

गॊरूरु-श्रीनिवासमूर्तिः

The gardener who was competent in growing groups of trees planted the Bakula creeper somewhere (in the garden) by nature (as was his wont). Who knows (knew) that this creeper would make the whole connected world full of its heavy fragrance? [A talented person who grows up in an unknown corner of the world can become famous.]

विश्वास-प्रस्तुतिः

यस्मिन् वेल्लति सर्वतः परिचलत्कल्लोलकोलाहलैः
मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे ।
सोऽयं तुङ्गतिमिङ्गिलाङ्गकवलीकारक्रियाकोविदः
क्रोडे क्रीडतु कस्य केलिकलहत्यक्तार्णवो राघवः ॥ ५५ ॥

मूलम्

यस्मिन् वेल्लति सर्वतः परिचलत्कल्लोलकोलाहलैः
मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे ।
सोऽयं तुङ्गतिमिङ्गिलाङ्गकवलीकारक्रियाकोविदः
क्रोडे क्रीडतु कस्य केलिकलहत्यक्तार्णवो राघवः ॥ ५५ ॥

अन्वयः

यस्मिन् सर्वतः परिचलत्-कल्लोल-कोलाहलैः वेल्लति, हरित्-दन्तावलाः हृदि मन्थाद्रि-भ्रमण-भ्रमं पेदिरे, सः तुङ्ग-तिमिङ्गिला-अङ्ग-कवलीकार-क्रिया-कोविदः अयं राघवः केलि-कलह-त्यक्त-अर्णवः कस्य क्रोडे क्रीडतु?

गॊरूरु-श्रीनिवासमूर्तिः

The great fish, Raghava, while he moved around creating a commotion of circling waves caused the elephants guarding the eight directions –दिग्गज- a delusion in their minds that the Manthara mountain was rotating. In which trough can that fish who was an expert in devouring the parts of large whales play if it leaves the ocean due to a love-quarrel? [राघव is a type of large fish. दन्तावल=elephant. The verse seems to refer to some specific instance where a renowned and valourous person had to flee his country due to a petty quarrel.]

विश्वास-प्रस्तुतिः

लूनं मत्तमतङ्गजैः कियदपि च्छिन्नं तुषारार्दितैः
शिष्टं ग्रीष्मजभानुतीक्ष्णकिरणैः भस्मीकृतं काननम् ।
एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो
हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते ॥ ५६ ॥

मूलम्

लूनं मत्तमतङ्गजैः कियदपि च्छिन्नं तुषारार्दितैः
शिष्टं ग्रीष्मजभानुतीक्ष्णकिरणैः भस्मीकृतं काननम् ।
एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो
हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते ॥ ५६ ॥

अन्वयः

काननं मत्तमतङ्गजैः लूनम्, कियत् अपि तुषार-अर्दितैः छिन्नं, शिष्टं ग्रीष्मज-भानु-तीक्ष्ण-किरणैः भस्मीकृतम्, एषा कोणगता दिशः मुहुः परिमलैः आमोदयन्ती ललिता लवङ्गलतिका दावाग्निना दह्यते । हा, कष्टम् ।

गॊरूरु-श्रीनिवासमूर्तिः

The forest has been cut down by elephants in rut, some of it has been destroyed by the ravages of snow, rest of it has been burnt to ashes by the fierce rays of summer sun, this tender clove plant in a corner of the forest which is spreading fragrance in all directions repeatedly is being burnt by forest fire. What a pity! [Cruel fate did not leave even the fragrant clove plant which was in some inconspicuous corner of the forest.]

विश्वास-प्रस्तुतिः

स्वर्लोकस्य शिखामणिः सुरतरुग्रामस्य धामाद्भुतम्
पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि ।
सत्यं नन्दन किन्त्विदं सहृदयैर्नित्यं विधिः प्रार्थ्यते
त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः ॥ ५७ ॥

मूलम्

स्वर्लोकस्य शिखामणिः सुरतरुग्रामस्य धामाद्भुतम्
पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि ।
सत्यं नन्दन किन्त्विदं सहृदयैर्नित्यं विधिः प्रार्थ्यते
त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः ॥ ५७ ॥

अन्वयः

नन्दन! (त्वं) स्वर्लोकस्य शिखामणिः, सुरतरुग्रामस्य अद्भुतं धाम, पौलोमी-पुरुहूतयोः पुण्यावलीनाम् परिणतिः असि, सत्यम् । किम् तु, विधिः सहृदयैः नित्यम् इदम् प्रार्थ्यते, खाण्डव-रङ्ग-ताण्डव-नटः वैश्वानरः त्वत्तः दूरे अस्तु ।

गॊरूरु-श्रीनिवासमूर्तिः

O Nandana garden! You are indeed the crest jewel of the world of the divine beings; you are the amazing residence for the groups of Divine trees. You are the result of the meritorious deeds of Indra and his wife, true. But well-wishers are daily praying to fate only this: may not Fire which danced wildly on the dais of Khandava forest be far removed from you. [ Nandana is the mythical garden of Indra. The reference is to the burning of Khandava forest by Fire God, in an episode of Mahabharata. The poet suggests that a person who is admired by all should not fall a prey to an evil force which could destroy him.]

विश्वास-प्रस्तुतिः

स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने
चञ्चूकोटिविपाटितार्गलपुटो यास्याम्यहं पञ्जरात् ।
एवं कीरवरे मनोरथमयं पीयूषमास्वादय-
त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः ॥ ५८ ॥

मूलम्

स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने
चञ्चूकोटिविपाटितार्गलपुटो यास्याम्यहं पञ्जरात् ।
एवं कीरवरे मनोरथमयं पीयूषमास्वादय-
त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः ॥ ५८ ॥

अन्वयः

“ जने स्व-स्व-व्यापृति-मग्न-मानसतया मत्तः निवृत्ते, अहं चञ्चू-कोटि-विपाटित-अर्गल-पुटः पञ्जरात् यास्यामि” एवम् कीरवरे मनोरथमयं पीयूषम् आस्वादयति, वारण-कर-आकारः फणि-ग्रामणीः अन्तः संप्रविवेश ।

गॊरूरु-श्रीनिवासमूर्तिः

“When people, minding their own activities, go away from me, I will go out of the cage after removing the leaf of the bolt with my beak.” Thus while the precious parrot was tasting the ambrosia of its wishes, a big serpent of the size of an elephant’s tusk entered into the cage. [How cruel fate spoils ones plans is nicely brought out by this instance. It echoes the famous saying:

विश्वास-प्रस्तुतिः

रात्रिर्र्गमिष्यति भविष्यति सुप्रभातम्
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥ ]

रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुलाम्
एतामम्बुधगामिनीं व्यवसिताः सङ्गाहितुं वा कथम् ।
अत्रैवोच्छलदम्बुनिर्भरमहावर्तैः समावर्तितो
यद्ग्राहेण रसातलं पुनरसौ नीतो गजग्रामणीः ॥ ५९ ॥

मूलम्

रात्रिर्र्गमिष्यति भविष्यति सुप्रभातम्
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥ ]

रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुलाम्
एतामम्बुधगामिनीं व्यवसिताः सङ्गाहितुं वा कथम् ।
अत्रैवोच्छलदम्बुनिर्भरमहावर्तैः समावर्तितो
यद्ग्राहेण रसातलं पुनरसौ नीतो गजग्रामणीः ॥ ५९ ॥

अन्वयः

रे चाञ्चल्यजुषः श्रितनगाः मृगाः, कल्लोल-माला-आकुलाम् एताम् अम्बुदगामिनीम् सङ्गाहितुम् कथम् वा व्यवसिताः? यत् अत्र एव असौ गजग्रामणीः उच्छलत्-अम्बु-निर्भर-महावर्तैः समावर्तितः ग्राहेण पुनः रसातलं नीतः ।

गॊरूरु-श्रीनिवासमूर्तिः

O mountain-dwelling deer who enjoy unsteadiness! How are you engaged in diving into this sea-joining river, which is disturbed by a series of waves? Here only has this chief of elephants which was forced back by huge violent waves been again drawn into the netherworld by the crocodile. [The poet warns innocent persons not to enter into an area of influence of a ruthless dangerous person.]

विश्वास-प्रस्तुतिः

पिब स्तन्यं पोत त्वमिह मददन्तावलधिया
दृगन्तानाधत्से किमिति हरिदन्तेषु परुषान् ।
त्रयाणां लोकानामपि हृदयतापं परिहरन्
अयं धीरं धीरं ध्वनति नवनीलो जलधरः ॥ ६० ॥

मूलम्

पिब स्तन्यं पोत त्वमिह मददन्तावलधिया
दृगन्तानाधत्से किमिति हरिदन्तेषु परुषान् ।
त्रयाणां लोकानामपि हृदयतापं परिहरन्
अयं धीरं धीरं ध्वनति नवनीलो जलधरः ॥ ६० ॥

अन्वयः

पोत! इह स्तन्यं पिब । मद-दन्तावल-धिया परुषान् दृक्-अन्तान् हरित्-अन्तेषु किम् इति आधत्से? अयं नवनीलः जलधरः त्रयाणां लोकानाम् अपि हृदयतापं परिहरन् धीरं धीरं ध्वनति ।

गॊरूरु-श्रीनिवासमूर्तिः

O cub (of a lion)! Suckle the milk. Why do you look fiercely through the corner of your eyes in all directions, thinking that there is an elephant in rut (somewhere around)? The fresh blue cloud majestically roars removing the heat of all the three worlds. [Do not get unnecessarily worked up that your eternal enemy has come. It is only the sound of a benevolent person.]

विश्वास-प्रस्तुतिः

धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः ।
उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति ॥ ६१ ॥

मूलम्

धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः ।
उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति ॥ ६१ ॥

अन्वयः

नीरद! ते धीरध्वनिभिरलम् । मे मासिकः गर्भः उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति ।

गॊरूरु-श्रीनिवासमूर्तिः

O cloud! Enough of your majestic rumblings. My one month old cub in womb is jumping up thinking that there is an elephant in rut. [A pregnant lioness says thus. The baby is already getting ready to fight an elephant.]

विश्वास-प्रस्तुतिः

वेतण्डगण्डकण्डूतिपांडित्यपरिपन्थिना ।
हरिणा हरिणालीषु कथ्यतां कः पराक्रमः ॥ ६२ ॥

मूलम्

वेतण्डगण्डकण्डूतिपांडित्यपरिपन्थिना ।
हरिणा हरिणालीषु कथ्यतां कः पराक्रमः ॥ ६२ ॥

अन्वयः

वेतण्ड-गण्ड-कण्डूति-पाण्डित्य-परिपन्थिना हरिणा हरिण-आलीषु कः पराक्रमः? कथ्यताम् ।

गॊरूरु-श्रीनिवासमूर्तिः

What sort of display of prowess can there be in front of a group of deer for a lion which is competing with the itching sensation on the hump of an elephant in rut? Tell.[The lion is always looking forward to a fight with an elephant in rut to neutralize the itch that an elephant gets on its hump when in rut. Deer are no match.]

विश्वास-प्रस्तुतिः

नीरान्निर्मलतो जनिर्मधुरता वामामुखस्पर्धिनी
वासो यस्य हरेः करे परिमलो गीर्वाणचेतोहरः ।
सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह
त्वं चेत् प्रीतिमुरीकरोषि मधुपे तत्त्वां किमाचक्ष्महे ॥ ६३ ॥

मूलम्

नीरान्निर्मलतो जनिर्मधुरता वामामुखस्पर्धिनी
वासो यस्य हरेः करे परिमलो गीर्वाणचेतोहरः ।
सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह
त्वं चेत् प्रीतिमुरीकरोषि मधुपे तत्त्वां किमाचक्ष्महे ॥ ६३ ॥

अन्वयः

अम्भोरुह! जनिः निर्मलतः जलात्; मधुरता वामा-मुख-स्पर्धिनी; यस्य वासः हरेः करे; परिमलः गीर्वाण-चेतो-हरः; तत् महाकविगिरां कामस्य च सर्वस्वम्; अहो, त्वं मधुपे प्रीतिम् उरीकरोषि चेत् तत् त्वां किम् आचक्ष्महे ।

गॊरूरु-श्रीनिवासमूर्तिः

O lotus! (Your) birth is from clear water; your sweetness(beauty) competes with that of a beautiful lady; your dwelling is the hand of Vishnu; your fragrance captivates even the divine beings; All that (your attributes) is the property of the great poets and the God of love; If you admit of love to a bee, what can we say? [You are so great. If you show warmth to a mere bee what can we say?]

विश्वास-प्रस्तुतिः

लीलामुकुलितनयनं किं सुखशयनं समातनुषे ।
परिणामविषमहरिणा करिनायक वर्द्धते वैरम् ॥ ६४ ॥

मूलम्

लीलामुकुलितनयनं किं सुखशयनं समातनुषे ।
परिणामविषमहरिणा करिनायक वर्द्धते वैरम् ॥ ६४ ॥

अन्वयः

करिनायक! लीला-मुकुलित-नयनं सुखशयनं किं समातनुषे? परिणाम-विषम-हरिणा वैरं वर्धते ।

गॊरूरु-श्रीनिवासमूर्तिः

O Chief of elephants! How do you sleep comfortably with your eyes playfully closed? Enmity with the lion who can lead you to an unsavoury end is increasing. [The poet seems to be cautioning a king who was ignoring his enemy for long.]

विश्वास-प्रस्तुतिः

विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः ।
याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ ६५ ॥

मूलम्

विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः ।
याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ ६५ ॥

अन्वयः

वाचः विदुषां वदनात् सहसा बहिः नो यान्ति । याताः चेत् द्विरदानां रदा इव न पराञ्चन्ति ।

गॊरूरु-श्रीनिवासमूर्तिः

Words do not come out of the mouth of scholars suddenly. And if they come out, like the tusks of elephants they do not turn back. [Scholars will not retract what they say after deliberation.]

विश्वास-प्रस्तुतिः

औदार्यं भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधेः
वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः ।
एवं दातृगुरोः गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः
स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥ ६६ ॥

मूलम्

औदार्यं भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधेः
वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः ।
एवं दातृगुरोः गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः
स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥ ६६ ॥

अन्वयः

औदार्यं भुवनत्रये अपि विदितम्; सम्भूतिः अम्भोनिधेः; नन्दनकानने वासः; परिमलः गीर्वाण-चेतो-हरः; अर्थि-प्रवर-अर्थित-अर्पण-विधौ विवेकः यदि स्यात्, एवं दातृ-गुरोः सुर-तरोः सर्वे अपि गुणाः लोकोत्तराः (स्युः) ।

गॊरूरु-श्रीनिवासमूर्तिः

(Its) generosity is renowned over the three worlds; (its) origin is the ocean; (its) dwelling place is the Nandana garden; (its) fragrance captivates the minds of the divine beings; All these qualities of the Divine-tree (kalpavrksha), which is the preceptor of all donors, would have been outstanding in the world if only there had been discrimination in the method of granting the wishes of the supplicants. [The poet stresses the need for discrimination in meeting the requirements of supplicants by criticizing the divine-tree which is supposed to fulfill all wishes.]

विश्वास-प्रस्तुतिः

एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिनाम्
इत्येवं परिचिन्त्य मा स्वमनसि व्याधाऽनुतापं कृथाः ।
भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः
साधूनामरयो वसन्ति कति नो त्वत्तुल्यकक्षाः खलाः ॥ ६७ ॥

मूलम्

एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिनाम्
इत्येवं परिचिन्त्य मा स्वमनसि व्याधाऽनुतापं कृथाः ।
भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः
साधूनामरयो वसन्ति कति नो त्वत्तुल्यकक्षाः खलाः ॥ ६७ ॥

अन्वयः

व्याध! अहम् एकः अपघृणः विश्वसतां प्राणिनां प्राणान् हरामि इति एवं परिचिन्त्य स्वमनसि अनुतापं मा कृथाः । त्वत्तुल्यकक्षाः खलाः साधूनाम् अरयः गूढाशयाः भूपानां भवनेषु किं च विमलक्षेत्रेषु कति नो वसन्ति?

गॊरूरु-श्रीनिवासमूर्तिः

O hunter! Do not grieve in your mind by thinking, “I am the only one without compassion, who takes the lives of animals who repose trust. “

How many are not there in the palaces of kings and in holy places who are equal to you in deceit, who are enemies of the virtuous and who have secret longings? [ A satirical verse about the type of people who move around kings and in holy places.]

विश्वास-प्रस्तुतिः

विश्वास्य मधुरवचनैः साधून् ये वञ्चयन्ति नम्रतमाः ।
तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ ६८ ॥

मूलम्

विश्वास्य मधुरवचनैः साधून् ये वञ्चयन्ति नम्रतमाः ।
तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ ६८ ॥

अन्वयः

मातः काश्यपि! ये नम्रतमाः साधून् मधुरवचनैः विश्वास्य वञ्चयन्ति, तानपि दधासि । तव अपि विवेकः च यातः ।

गॊरूरु-श्रीनिवासमूर्तिः

Mother earth! You support even those who, bent low, cheat the virtuous by their sweet words. You have also lost the power of discrimination also.

विश्वास-प्रस्तुतिः

अन्या जगद्धितमयी मनसः प्रवृत्तिः
अन्यैव कापि रचना वचनावलीनाम् ।
लोकोत्तरा च कृतिराकृतिरार्तहृद्या
विद्यावतां सकलमेव गिरां दवीयः ॥ ६९ ॥

मूलम्

अन्या जगद्धितमयी मनसः प्रवृत्तिः
अन्यैव कापि रचना वचनावलीनाम् ।
लोकोत्तरा च कृतिराकृतिरार्तहृद्या
विद्यावतां सकलमेव गिरां दवीयः ॥ ६९ ॥

अन्वयः

मनसः प्रवृत्तिः जगद्-हितमयी अन्या; वचनावलीनाम् रचना का अपि अन्या; कृतिः लोकोत्तरा; आकृतिः आर्तहृद्या; विद्यावतां सकलम् एव गिरां दवीयः ।

गॊरूरु-श्रीनिवासमूर्तिः

Everything of the educated is far beyond words. Their mental outlook which comforts the whole world is special; their way of speech is indescribably different; their actions are extra-ordinary; their form is pleasing to the afflicted. [The poet now changes over to wise sayings.]

विश्वास-प्रस्तुतिः

आपद्गतः किल महाशयचक्रवर्ती
विस्तारयत्यकृतपूर्वमुदारभावम् ।
कालागुरुर्दहनमध्यगतः समन्तात्
लोकोत्तरं परिमलं प्रकटीकरोति ॥ ७० ॥

मूलम्

आपद्गतः किल महाशयचक्रवर्ती
विस्तारयत्यकृतपूर्वमुदारभावम् ।
कालागुरुर्दहनमध्यगतः समन्तात्
लोकोत्तरं परिमलं प्रकटीकरोति ॥ ७० ॥

अन्वयः

माहाशयचक्रवर्ती आपद्गतः उदारभावम् अकृतपूर्वं विस्तारयति किल । कालागुरुः दहनमध्यगतः लोकोत्तरं परिमलं समन्तात् प्रकटीकरोति ।

गॊरूरु-श्रीनिवासमूर्तिः

A great man displays large heartedness in a manner hitherto not seen when he is in difficulties. The black aguru exhibits extraordinary fragrance all around when amidst fire.

विश्वास-प्रस्तुतिः

विश्वाभिरामगुणगौरवगुम्फितानां
रोषोऽपि निर्मलधियां रमणीय एव ।
लोकम्पृणैः परिमलैः परिपूरितस्य
काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ७१ ॥

मूलम्

विश्वाभिरामगुणगौरवगुम्फितानां
रोषोऽपि निर्मलधियां रमणीय एव ।
लोकम्पृणैः परिमलैः परिपूरितस्य
काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ७१ ॥

अन्वयः

विश्व-अभिराम-गुण-गौरव-गुम्फितानाम् निर्मलधियां रोषः अपि रमणीयः एव । लोकम्पृणैः परिमलैः परिपूरितस्य काश्मीरजस्य कटुता अपि नितान्त-रम्या ।

गॊरूरु-श्रीनिवासमूर्तिः

Even anger of persons of pure mind whose abundance of lofty virtues charms the world is pleasant only. Even the pungency of saffron which is full of fragrances that delight the world is very pleasing.

विश्वास-प्रस्तुतिः

लीलालुण्ठितशारदापुरमहासंपन्नराणां पुरः
विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत् पामराः ।
अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः
सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः ॥ ७२ ॥

मूलम्

लीलालुण्ठितशारदापुरमहासंपन्नराणां पुरः
विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत् पामराः ।
अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः
सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः ॥ ७२ ॥

अन्वयः

विद्या-सद्म-विनिर्गलत्-कण-मुषः पामराः लीला-लुण्ठित-शारदापुर-महा-सम्पत्-नराणां पुरः वल्गन्ति चेत्, अद्य श्वः शकुन्त-शिशवः फणिनां मूर्धसु शशाः दन्तावलानां मुर्धसु शालावृकाः सिंहानां मुर्धसु सुखेन पदं धास्यन्ति ।

गॊरूरु-श्रीनिवासमूर्तिः

If the ordinary folk who have stolen a few particles emanating from the repositories of knowledge stroll in front of persons who have easily looted the riches of the city of scholarship, today or tomorrow baby birds will put their foot with ease on the heads of snakes, hares on the heads of elephants and dogs on the heads of lions! [Persons of limited knowledge should not try to show off in front of the really learned.]

विश्वास-प्रस्तुतिः

गीर्भिर्गुरूणां परुषाक्षराभिः तिरस्कृता यान्ति नरा महत्त्वम् ।
अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥ ७३ ॥

मूलम्

गीर्भिर्गुरूणां परुषाक्षराभिः तिरस्कृता यान्ति नरा महत्त्वम् ।
अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥ ७३ ॥

अन्वयः

गुरूणां परुषाक्षराभिः गीर्भिः तिरस्कृता नरा महत्त्वं यान्ति । अलब्ध-शाण-उत्कषणा मणयः नृपाणां मौलौ न वसन्ति जातु ।

गॊरूरु-श्रीनिवासमूर्तिः

Persons who have been rebuked through harsh words by their preceptors attain greatness. At no time do gems which have not been rubbed by the whetstone adorn the heads of kings.

विश्वास-प्रस्तुतिः

वहति विषधरान् पटीरजन्मा
शिरसि मषीपटलं दधाति दीपः ।
विधुरपि भजतेतरां कलङ्कं
पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ ७४ ॥

मूलम्

वहति विषधरान् पटीरजन्मा
शिरसि मषीपटलं दधाति दीपः ।
विधुरपि भजतेतरां कलङ्कं
पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ ७४ ॥

अन्वयः

पटिरजन्मा विषधरान् वहति; दीपः मषीपटलं दधाति; विधुः अपि कलङ्कं भजतेतराम्; क्षितीन्द्राः पिशुनजनं बिभ्रति खलु ।

गॊरूरु-श्रीनिवासमूर्तिः

Sandal tree carries snakes; lamp carries a coating of lamp-black at its top; even moon carries a black mark; great kings do support slanderers.

विश्वास-प्रस्तुतिः

सत्पूरुषः खलु हिताचरणैरमन्दम्
आनन्दयत्यखिललोकमनुक्त एव ।
आराधितः कथय केन करैरुदारैः
इन्दुर्विकाशयति कैरविणीकुलानि ॥ ७५ ॥

मूलम्

सत्पूरुषः खलु हिताचरणैरमन्दम्
आनन्दयत्यखिललोकमनुक्त एव ।
आराधितः कथय केन करैरुदारैः
इन्दुर्विकाशयति कैरविणीकुलानि ॥ ७५ ॥

अन्वयः

सत्पूरुषः अखिललोकम् अनुक्त एव हिताचरणैः अमन्दम् आनन्दयति खलु । इन्दुः केन आराधितः कैरविणीकुलानि उदारैः करैः विकाशयति?

गॊरूरु-श्रीनिवासमूर्तिः

A good person delights the whole world by his comforting actions without being told (prompted). Worshipped by whom does the moon open up the groups of blue lotuses with his generous rays?

विश्वास-प्रस्तुतिः

कृतमपि महोपकारं पय इव पीत्वा निरातङ्कम् ।
प्रत्युत हन्तुं यतते काकोदरसोदरखलो जगति ॥ ७६ ॥

मूलम्

कृतमपि महोपकारं पय इव पीत्वा निरातङ्कम् ।
प्रत्युत हन्तुं यतते काकोदरसोदरखलो जगति ॥ ७६ ॥

अन्वयः

जगति काकोदर-सोदर-खलः कृतं महोपकारं पय इव पीत्वा प्रत्युत निरातङ्कं हन्तुं यतते ।

गॊरूरु-श्रीनिवासमूर्तिः

In this world the wicked, who is like the brother of a serpent, drinks like milk (benefits from) the great help done to him and without any compunction tries to kill (harm).

विश्वास-प्रस्तुतिः

खलः कापट्यदोषेण दूरेणैव विसृज्यते ।
अपायशङ्किभिर्लोकैः विषेणाशीविषो यथा ॥ ७७ ॥

मूलम्

खलः कापट्यदोषेण दूरेणैव विसृज्यते ।
अपायशङ्किभिर्लोकैः विषेणाशीविषो यथा ॥ ७७ ॥

अन्वयः

खलः अपायशङ्किभिः लोकैः कापट्यदोषेण आशीविषः विषेण यथा दूरेण एव विसृज्यते ।

गॊरूरु-श्रीनिवासमूर्तिः

A wicked person is avoided from a distance because of his defect of being deceitful by persons who are afraid of danger just as a snake is avoided because of its venom.

विश्वास-प्रस्तुतिः

पाण्डित्यं परिहृत्य यस्य हि कृते बन्दित्वमालम्बितम्
दुष्प्राप्यं मनसापि यो गुरुतरैः क्लेशैः पदं प्रापितः ।
रूढस्तत्र स चेन्निगीर्य सकलां पुर्वोपकारावलीम्
दुष्टः प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे ॥ ७८ ॥

मूलम्

पाण्डित्यं परिहृत्य यस्य हि कृते बन्दित्वमालम्बितम्
दुष्प्राप्यं मनसापि यो गुरुतरैः क्लेशैः पदं प्रापितः ।
रूढस्तत्र स चेन्निगीर्य सकलां पुर्वोपकारावलीम्
दुष्टः प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे ॥ ७८ ॥

अन्वयः

यस्य हि कृते पाण्डित्यं परिहृत्य बन्दित्वम् आलम्बितम्, यः मनसापि दुष्प्राप्यं पदं गुरुतरैः क्लेशैः प्रापितः, सः दुष्टः तत्र रूढः सकलां पूर्वोपकारावलीं निगीर्य अवतिष्ठते चेत् तत् अधुना कस्मै किम् आचक्ष्महे ।

गॊरूरु-श्रीनिवासमूर्तिः

For the sake of a person one set aside all the scholarship and became a bard and one got him a position which could not even be thought of. If after getting established in the position that wicked person devours (forgets) all the past help given to him, what shall we say to whom? [The poet laments the attitude of an ungrateful person.]

विश्वास-प्रस्तुतिः

परार्थव्यासङ्गादुपजहदपि स्वार्थपरताम्
अभेदैकत्वं यो वहति गुणभूतेषु सततम् ।
स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा
समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ ७९ ॥

मूलम्

परार्थव्यासङ्गादुपजहदपि स्वार्थपरताम्
अभेदैकत्वं यो वहति गुणभूतेषु सततम् ।
स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा
समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ ७९ ॥

अन्वयः

यः परार्थव्यासङ्गात् स्वार्थपरताम् उपजहत् अपि गुणभूतेषु सततं अभेदैकत्वं वहति, यस्य अन्तः स्वभावात् ललितोदात्तमहिमा स्फुरति, यः नित्यं समर्थः सः कः अपि पुरुषः जयतितराम् ।

गॊरूरु-श्रीनिवासमूर्तिः

That extraordinary person indeed thrives who in association with others, without sacrificing ones own interests, shows a sense of oneness with those full of good qualities, who internally by nature shines with the quality of being charmingly liberal and who is always capable. [By the use of words that are associated with the technical description of a तत्पुरुष compound in Sanskrit grammar, the poet tries to bring out a parallel meaning. तत्पुरुष is a compound where the last member is qualified by its preceding member without losing its own meaning. Details are not of much interest to the general reader.]

विश्वास-प्रस्तुतिः

वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः ।
न हि तूंबीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥ ८० ॥

मूलम्

वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः ।
न हि तूंबीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥ ८० ॥

अन्वयः

वंशभवः गुणवान् अपि पुरुषः सङ्गविशेषेण पूज्यते । तूम्बीफलविकलः वीणादण्डः महिमानम् न प्रयाति हि ।

गॊरूरु-श्रीनिवासमूर्तिः

A person who is of good descent [वंशभवः] and has good qualities [गुणवान्] is honored if he is associated with the right persons. The beam of Veena (musical instrument) made of bamboo [वंशभवः] and has strings [गुणवान्] will get its respect only in association with the gourd fruit. [ A veena beam made of bamboo with strings across it will make musical sounds only when a spherical dried gourd is attached to it. The poet uses the figure of speech श्लेष to bring out similarity.]

विश्वास-प्रस्तुतिः

अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ ८१ ॥

मूलम्

अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ ८१ ॥

अन्वयः

पदार्थः अमितगुणः अपि निखिलरसायनमहितः अपि लशुनः उग्रेण गन्धेन इव निन्दितः भवति ।

गॊरूरु-श्रीनिवासमूर्तिः

An object of considerable benefit becomes rejected because of a single blemish like garlic which although praised as a total elixir becomes rejected because of its strong smell. [The point of view given in Verse 38 is repeated here.]

विश्वास-प्रस्तुतिः

उपकारमेव तनुते विपद्गतः सद्गुणो नितराम् ।
मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥ ८२ ॥

मूलम्

उपकारमेव तनुते विपद्गतः सद्गुणो नितराम् ।
मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥ ८२ ॥

अन्वयः

सद्गुणः विपद्गतः नितरां उपकारमेव तनुते । अत्र पारदः रसः मूर्च्छां गतः मृतः वा (उपकारम् एव तनुते इति) निदर्शनम् ।

गॊरूरु-श्रीनिवासमूर्तिः

A person of virtue does good even when he is subjected to difficulties just as mercury is useful even when it is heated for oxidizing it. [ मूर्च्छितः and मृतः are technical terms used with reference to chemical reduction of mercury. ]

विश्वास-प्रस्तुतिः

वनान्ते खेलन्ती शशकशिशुमालोक्य चकिता
भुजप्रान्तं भर्तुः भजति भयहर्तुः सपदि या ।
अहो सेयं सीता दशवदननीता हलरदैः
परीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥ ८३ ॥

मूलम्

वनान्ते खेलन्ती शशकशिशुमालोक्य चकिता
भुजप्रान्तं भर्तुः भजति भयहर्तुः सपदि या ।
अहो सेयं सीता दशवदननीता हलरदैः
परीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥ ८३ ॥

अन्वयः

या वनान्ते खेलन्ती शशकशिशुम् आलोक्य चकिता भयहर्तुः भर्तुः भुजप्रान्तं सपदि भजति सा इयम् सीता दशवदननीता हलरदैः रक्षोभिः परीता विवशा काम् अपि दशाम् श्रयति (इति) अहो ।

गॊरूरु-श्रीनिवासमूर्तिः

This Seeta, who got frightened and quickly reached the shoulders of her husband, who could remove her fear when she got frightened by seeing a baby hare while she was playing in the middle of the forest is now, after being brought by Ravana, helpless and has reached an indescribable state surrounded by demons who have plough-like teeth. What a pity! [The poet laments the fate that befell Seeta.]

विश्वास-प्रस्तुतिः

पुरो गीर्वाणानां निजभुजबलाहोपुरुषिकाम्
अहो कारंकारं पुरभिदि शरं सम्मुखतया ।
स्मरस्य स्वर्बालानयनशुभमालार्चनपदम्
वपुःसद्यॊ भालानलभसितजालास्पदमभूत् ॥ ८४ ॥

मूलम्

पुरो गीर्वाणानां निजभुजबलाहोपुरुषिकाम्
अहो कारंकारं पुरभिदि शरं सम्मुखतया ।
स्मरस्य स्वर्बालानयनशुभमालार्चनपदम्
वपुःसद्यॊ भालानलभसितजालास्पदमभूत् ॥ ८४ ॥

अन्वयः

गीर्वाणानां पुरः निज-भुज-बल-आहोपुरुषिकां कारं कारं पुरभिदि शरं सम्मुखतया स्मरस्य स्वर्-बाला-नयन-शुभ-माला-अर्चनपदं वपुः सद्यः भाल-अनल-भसित-जाल-आस्पदम् अभूत् (इति) अहो ।

गॊरूरु-श्रीनिवासमूर्तिः

Manmatha, the God of Love, often boasted with pride his prowess in front of the divine beings. When he pointed his arrows to Siva, his body which was the point of attraction for the auspicious eyes of the divine damsels instantly became a heap of ashes burnt by the fire of Siva’s forehead. What a pity! [ Boastful persons meet their justified ends.]

विश्वास-प्रस्तुतिः

युक्तं सभायां खलु मर्कटानां शाखास्तरूणां मृदुलासनानि ।
सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखाग्रैश्च विपाटनानि ॥ ८५ ॥

मूलम्

युक्तं सभायां खलु मर्कटानां शाखास्तरूणां मृदुलासनानि ।
सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखाग्रैश्च विपाटनानि ॥ ८५ ॥

अन्वयः

मर्कटानां सभायां तरूणां शाखाः मृदुलासनानि; चीत्कृतिः सुभाषितं; दन्तैः नखाग्रैः विपाटनानि आतिथेयी; (सर्वं) युक्तं खलु ।

गॊरूरु-श्रीनिवासमूर्तिः

It is quite appropriate that in an assembly of monkeys the branches of trees become the soft seats; their shrill cries the sayings of the wise and tearing with their teeth and edges of nails the hospitality. [ A satirical comment on assemblies of the uncivilized.]

विश्वास-प्रस्तुतिः

किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः
किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः ।
किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे
कः शत्रुर्वद खेदकुशलो दुर्वासनासञ्चयः ॥ ८६ ॥

मूलम्

किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः
किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः ।
किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे
कः शत्रुर्वद खेदकुशलो दुर्वासनासञ्चयः ॥ ८६ ॥

अन्वयः

सखे वद । किं तीर्थं? हरिपादपद्मभजनम्; किं रत्नम्? अच्छा मतिः; किं शास्त्रं? यस्य श्रवणेन द्वैत-अन्धकार-उदयः गलति; किं सतत-उपकार-रसिकं मित्रम्? तत्त्व-अवबोधः; कः शत्रुः? खेदकुशलः दुर्वासना-सञ्चयः ।

गॊरूरु-श्रीनिवासमूर्तिः

Dear friend, tell, which is an object of veneration? Worshipping the lotus feet of Narayana; which is a gem? A fault-free mind; which is a scripture? That by hearing which the rise of the darkness of duality vanishes; who is a friend who enjoys helping all the time? The knowledge of the Truth. which is an enemy? Accumulation of bad impressions which are capable of causing pain. [The poet makes wise statements through the technique of questions and answers.]

विश्वास-प्रस्तुतिः

निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः ।
चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् ॥ ८७ ॥

मूलम्

निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः ।
चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् ॥ ८७ ॥

अन्वयः

दुर्जनः वेदान्ते निष्णातः अपि, चिरं जलनिधौ मग्नः मैनाकः मार्दवम् इव, साधुत्वं न एति ।

गॊरूरु-श्रीनिवासमूर्तिः

A bad person, even if well versed in philosophy, does not become virtuous just as the mountain Mainaka, even if immersed in the ocean does not become soft. [Mainaka is a legendary mountain submerged in ocean which came up to ask Hanuman to take rest on him while the latter was flying across the ocean in search of Sita.]

विश्वास-प्रस्तुतिः

नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् ।
शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः ॥ ८८ ॥

मूलम्

नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् ।
शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः ॥ ८८ ॥

अन्वयः

नैर्गुण्यम् एव साधीयः; गुणगौरवं धिक् अस्तु; अन्ये शाखिनः विराजन्ते, चन्दनद्रुमाः खण्ड्यन्ते ।

गॊरूरु-श्रीनिवासमूर्तिः

Lack of good qualities is better; Fie be to the weight of good qualities; Sandal trees are cut down while other trees flourish. [ A person who is capable or valourous or scholarly has to shoulder higher responsibilities and thus has to suffer while someone bereft of such qualities is left alone.]

विश्वास-प्रस्तुतिः

परोपसर्पणानन्तचिन्तानलशिखाशतैः ।
अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥ ८९ ॥

मूलम्

परोपसर्पणानन्तचिन्तानलशिखाशतैः ।
अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥ ८९ ॥

अन्वयः

पर-उपसर्पण-अनन्त-चिन्ता-अनल-शिखा-शतैः अचुम्बित-अन्तःकरणाः पादपाः साधु जीवन्ति ।

गॊरूरु-श्रीनिवासमूर्तिः

Trees, whose minds are not affected (kissed) by hundreds of flames of endless worries on account of others approaching them, indeed live well. [ The poet refers to worries arising out of human interactions from which trees are thankfully free from, perhaps because they have no feelings. Trees generously give what they have without any feeling of loss, while human beings do not.]

विश्वास-प्रस्तुतिः

शून्येऽपि गुणवत्तामातन्वानः स्वकीयगुणजालैः ।
विवराणि मुद्रयन् द्रागूर्णायुरिव सुजनो जयति ॥ ९० ॥

मूलम्

शून्येऽपि गुणवत्तामातन्वानः स्वकीयगुणजालैः ।
विवराणि मुद्रयन् द्रागूर्णायुरिव सुजनो जयति ॥ ९० ॥

अन्वयः

सुजनः शून्येऽपि स्वकीयगुणजालैः गुणवत्ताम् आतन्वानः, विवराणि द्राक् मुद्रयन् ऊर्णायुः इव जयति ।

गॊरूरु-श्रीनिवासमूर्तिः

A person of good character endows with quality, persons who are ciphers (शून्ये) by virtue of his own qualities (स्वकीयगुणजालैः), quickly covering up (मुद्रयन्) their faults (विवराणि) like a spider which weaves threads in empty spaces (शून्ये) with its own network of threads (स्वकीयगुणजालैः) and seals (मुद्रयन्) cavities (विवराणि). [By the use of double-meaning words-श्लेष- the poet contrives to bring out similarity between a person of character and a spider.]

विश्वास-प्रस्तुतिः

खलः सज्जनकार्पासरक्षणैकहुताशनः ।
परदुःखाग्निशमने मारुतः केन वर्ण्यताम् ॥ ९१ ॥

मूलम्

खलः सज्जनकार्पासरक्षणैकहुताशनः ।
परदुःखाग्निशमने मारुतः केन वर्ण्यताम् ॥ ९१ ॥

अन्वयः

सज्जन-कार्पास-रक्षण-एक-हुताशनः पर-दुःख-अग्नि-शमने मारुतः खलः केन वर्ण्यताम् ।

गॊरूरु-श्रीनिवासमूर्तिः

Who can describe (the qualities of) a wicked person, who acts as fire in (not) protecting the persons of virtue who are like cotton and who acts as wind in (not) quenching the fire of distress of others? [The wicked person acts as fire and acts as wind too. Who can describe him?]

विश्वास-प्रस्तुतिः

परगुह्यगुप्तिनिपुणं गुणमयमखिलैः समीहितं नितराम् ।
ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः ॥ ९२ ॥

मूलम्

परगुह्यगुप्तिनिपुणं गुणमयमखिलैः समीहितं नितराम् ।
ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः ॥ ९२ ॥

अन्वयः

खलाः पर-गुह्य-गुप्ति-निपुणं गुणमयं नितराम् अखिलैः समीहितं सज्जनं आखवः ललिताम्बरम् इव दूषयन्ति ।

गॊरूरु-श्रीनिवासमूर्तिः

Wicked persons spoil (the reputation of) persons of good character, who are good in hiding what needs to be hidden from others, who are full of virtues, and who are always very much liked by all, like rats which spoil fine cloth which are good in covering what needs to be hidden from others, which are made of thread (गुणमयम्) and which are coveted by all. [Again the poet uses श्लेष to bring out similarity between a mouse and a wicked person.]

विश्वास-प्रस्तुतिः

कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः ।
यशःसौरभ्यलशुनः खलः सज्जनदुःखदः ॥ ९३ ॥

मूलम्

कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः ।
यशःसौरभ्यलशुनः खलः सज्जनदुःखदः ॥ ९३ ॥

अन्वयः

खलः कारुण्य-कुसुम-आकाशः शान्ति-शैत्य-हुताशनः यशः-सौलभ्य-लशुनः सज्जन-दुःखदः ।

गॊरूरु-श्रीनिवासमूर्तिः

A wicked person brings grief to the virtuous person; Just as there can be no flower in the sky there can be no compassion in a wicked person; Just as cold keeps away from fire he keeps away from peace; just as no fragrance can remain in company with garlic fame cannot be in the company of a wicked person.

विश्वास-प्रस्तुतिः

धत्ते भरं कुसुमपत्रफलावलीनाम्
मर्मव्यथां स्पृशति शीतभवां रुजं च ।
यो देहमर्पयति चान्यसुखस्य हेतोः
तस्मै वदान्यगुरवे तरवे नमोऽस्तु ॥ ९४ ॥

मूलम्

धत्ते भरं कुसुमपत्रफलावलीनाम्
मर्मव्यथां स्पृशति शीतभवां रुजं च ।
यो देहमर्पयति चान्यसुखस्य हेतोः
तस्मै वदान्यगुरवे तरवे नमोऽस्तु ॥ ९४ ॥

अन्वयः

कुसुम-पत्र-फल-आवलीनाम् भरं धत्ते; शीतभवां मर्मव्यथां रुजं च स्पृशति; यः अन्यसुखस्य हेतोः देहम् च अर्पयति तस्मै वदान्यगुरवे तरवे नमः अस्तु ।

गॊरूरु-श्रीनिवासमूर्तिः

( A tree) bears the weight of the flowers, leaves and fruits; it bears the pain of (hurt) to its vital parts; it bears the distresses caused by the cold. May (our) salutations be to the tree which is the preceptor(foremost) among the generous, who offers its body for the comfort of others.

विश्वास-प्रस्तुतिः

हालाहलं खलु पिपासति कौतुकेन
कालानलं परिचुचुम्बिषति प्रकामम् ।
व्यालाधिपं च यतते परिरब्धुमद्धा
यो दुर्जनं वशयितुं कुरुते मनीषाम् ॥ ९५ ॥

मूलम्

हालाहलं खलु पिपासति कौतुकेन
कालानलं परिचुचुम्बिषति प्रकामम् ।
व्यालाधिपं च यतते परिरब्धुमद्धा
यो दुर्जनं वशयितुं कुरुते मनीषाम् ॥ ९५ ॥

अन्वयः

यः दुर्जनं वशयितुं मनीषां कुरुते (सः) हालाहलं कौतुकेन पिपासति खलु, कालानलं प्रकामं परिचुचुम्बिषति, व्यालाधिपम् परिरब्धुम् अद्धा यतते च ।

गॊरूरु-श्रीनिवासमूर्तिः

One who tries to keep a wicked person under control wants to drink the poison “haalaahala”, wants to repeatedly kiss the destructive fire at the end of the universe and wants to embrace the chief of serpents. [All these attempts are equally foolish.]

विश्वास-प्रस्तुतिः

दीनानामिह परिहाय शुष्कसस्यान्
औदार्यं प्रकटयतो महीधरेषु ।
औन्नत्यं परममवाप्य दुर्मदस्य
ज्ञातोऽयं जलधर तावकोऽविवेकः ॥ ९६ ॥

मूलम्

दीनानामिह परिहाय शुष्कसस्यान्
औदार्यं प्रकटयतो महीधरेषु ।
औन्नत्यं परममवाप्य दुर्मदस्य
ज्ञातोऽयं जलधर तावकोऽविवेकः ॥ ९६ ॥

अन्वयः

जलधर! दुर्मदस्य परमम् औन्नत्यम् अवाप्य इह दीनानां शुष्कसस्यान् परिहाय महीधरेषु औदार्यं प्रकटयतः तावकः अयम् अविवेकः ज्ञातः ।

गॊरूरु-श्रीनिवासमूर्तिः

O cloud! Having attained the pinnacle of vanity, by showing your generosity to mountains leaving the dry plants of the poor, your lack of discrimination becomes known.

विश्वास-प्रस्तुतिः

गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् ।
तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥ ९७ ॥

मूलम्

गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् ।
तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥ ९७ ॥

अन्वयः

गिरयः गुरवः; तेभ्यः अपि उर्वी गुर्वी; ततः अपि जगदण्डम्; तस्मात् अपि प्रलये अपि अचला महात्मानः अतिगुरवः ।

गॊरूरु-श्रीनिवासमूर्तिः

Mountains are great; greater is the earth; greater than that is universe; greater than that are the great souls who are steady even during “pralaya”, the great annihilation. [The poet praises the steadfastness of the great souls.]

विश्वास-प्रस्तुतिः

व्योम्नि स वासं कुरुते चित्रं निर्माति सुन्दरं पवने ।
रचयति रेखाः सलिले चरति खले यस्तु सत्कारम् ॥ ९८ ॥

मूलम्

व्योम्नि स वासं कुरुते चित्रं निर्माति सुन्दरं पवने ।
रचयति रेखाः सलिले चरति खले यस्तु सत्कारम् ॥ ९८ ॥

अन्वयः

यः कहले सत्कारं कुरुते, सः व्योनि वासं कुरुते, पवने सुन्दरं चित्रं निर्माति, सलिले तु रेखाः रचयति ।

गॊरूरु-श्रीनिवासमूर्तिः

One who does good to wicked person lives in the sky, draws beautiful picture in air and draws lines on water! [Doing good to a wicked person is as useful as doing any of the three mentioned !]

विश्वास-प्रस्तुतिः

हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः ।
लेढि जिघ्रति संक्षिप्य करोत्युन्नतमाननम् ॥ ९९ ॥

मूलम्

हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः ।
लेढि जिघ्रति संक्षिप्य करोत्युन्नतमाननम् ॥ ९९ ॥

अन्वयः

मर्कटः केन अपि अज्ञेन वक्षसि दत्तं हारं लेढि, जिघ्रति, आननं संक्षिप्य उन्नतं करोति ।

गॊरूरु-श्रीनिवासमूर्तिः

The monkey to whom some stupid person has given a necklace, licks it, smells it and contracting his face puts it up. [What does a monkey know of the value of a necklace?]

विश्वास-प्रस्तुतिः

मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि ।
त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि॥ १०० ॥

मूलम्

मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि ।
त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि॥ १०० ॥

अन्वयः

भ्रमर! त्वयि मलिने अपि रागपूर्णां, अनल्पजल्पे अपि रागपूर्णां, चपले अपि सरसां च सरोजिनीं कथं वा त्यजसि?

गॊरूरु-श्रीनिवासमूर्तिः

O bumble bee! Even though you are dark (have defects) it is full of colour (love); even though you make noise endlessly (chatter) it is fully open (has cheerful face); even though you are fickle-minded it is juicy (light hearted); how at all do you neglect such a lotus plant? [The poet, using श्लेष indirectly refers to the attitude of a fickle-minded person towards a lady of stead-fast love.]

विश्वास-प्रस्तुतिः

स्वार्थं धनानि धनिकात् प्रतिगृह्णतो यत्-
आस्यं भजेन्मलिनतां किमिदं विचित्रम् ।
गृह्णन् परार्थमपि वारिनिधेः पयोऽपि
मेघोऽयमेति सकलोऽपि च कालिमानम् ॥ १०१ ॥

मूलम्

स्वार्थं धनानि धनिकात् प्रतिगृह्णतो यत्-
आस्यं भजेन्मलिनतां किमिदं विचित्रम् ।
गृह्णन् परार्थमपि वारिनिधेः पयोऽपि
मेघोऽयमेति सकलोऽपि च कालिमानम् ॥ १०१ ॥

अन्वयः

धनानि स्वार्थं धनिकात् प्रतिगृह्णतः आस्यं मलिनतां भजेत् इति यद् इदं किं विचित्रम्? अयं सकलः मेघः अपि परार्थम् अपि वारिनिधेः पयः अपि गृह्णन्, कालिमानम् एति ।

गॊरूरु-श्रीनिवासमूर्तिः

What is there if the face of a person, who receives money for his selfish ends from a rich person becomes pale? Even the whole cloud which takes just water from the ocean for the sake of others becomes black.

विश्वास-प्रस्तुतिः

जनकः सानुविशेषः जातिः काष्ठं भुजङ्गमैः सङ्गः ।
स्वगुणैरेव पटीरज यातोऽसि तथापि महिमानम् ॥ १०२ ॥

मूलम्

जनकः सानुविशेषः जातिः काष्ठं भुजङ्गमैः सङ्गः ।
स्वगुणैरेव पटीरज यातोऽसि तथापि महिमानम् ॥ १०२ ॥

अन्वयः

पटीरज! (तव) जनकः सानुविसेषः; जातिः काष्ठं; भुजङ्गमैः सङ्गः; तथा अपि स्वगुणैः एव महिमानं यातः असि ।

गॊरूरु-श्रीनिवासमूर्तिः

O sandal wood tree! Your origination is a specific mountain; you belong to the class of wood; your company is with snakes; even then you have attained fame by your own qualities. [People endowed with innate qualities shine irrespective of their heritage, class or company they keep.]

विश्वास-प्रस्तुतिः

कस्मै हन्त फलाय सज्जन गुणग्रामार्जने सज्जसि
स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय ।
ये भावा हृदयं हरन्ति नितरां शोभाभरैः सम्भृताः
तैरेवास्य कलेः कलेवरपुषो दैनन्दिनं वर्धनम् ॥ १०३ ॥

मूलम्

कस्मै हन्त फलाय सज्जन गुणग्रामार्जने सज्जसि
स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय ।
ये भावा हृदयं हरन्ति नितरां शोभाभरैः सम्भृताः
तैरेवास्य कलेः कलेवरपुषो दैनन्दिनं वर्धनम् ॥ १०३ ॥

अन्वयः

सज्जन! कस्मै फलाय गुणग्रामार्जने सज्जसि? हन्त, स्वात्मिपस्करणाय चेत् मम पथ्यं वचः समाकर्णय । शोभाभरैः सम्भृताः

गॊरूरु-श्रीनिवासमूर्तिः

ये भावाः हृदयं नितरां हरन्ति तैः एव अस्य कलेवर-पुषः कलेः दैनन्दिनं वर्धनम् ।

O good man, for what purpose do you indulge in earning a host of good qualities? If you want to embellish yourself, listen to my words of comfort.

It is those manners which are full of things heavy with luster and which very much attract the hearts that enables Kali, the nurturer of the body to grow every day. [ Kaliyug, the last of the four yugs is characterized by general degeneration where it is not the internal qualities of the mind that matter but only external appearance and show.]

विश्वास-प्रस्तुतिः

धूमायिता दशदिशो दलितारविन्दा
देहं दहन्ति दहना इव गन्धवाहाः ।
त्वामन्तरेण मृदुताम्रदलाम्रमञ्जु-
गुञ्जन्मधुव्रत मधो किल कोकिलस्य ॥ १०४ ॥

मूलम्

धूमायिता दशदिशो दलितारविन्दा
देहं दहन्ति दहना इव गन्धवाहाः ।
त्वामन्तरेण मृदुताम्रदलाम्रमञ्जु-
गुञ्जन्मधुव्रत मधो किल कोकिलस्य ॥ १०४ ॥

अन्वयः

मृदु-ताम्र-दल-आम्र-मञ्जु-गुञ्जन्-मधुव्रत मधो! त्वाम् अन्तरेण कोकिलस्य दलितारविन्दा दशदिशः धूमायिता; गन्धवाहाः दहना इव देहं दहन्ति किल ।

गॊरूरु-श्रीनिवासमूर्तिः

O spring time, when the bees buzz pleasantly on the mango tree having soft coppery shoots! Without you the cuckoo finds all the directions to be smoky with the lotuses torn asunder and its body being burnt by the wind like fire. [ The poet imagines that the cuckoo finds its life miserable without the spring, which is the main source of strength for it. He thereby suggests that the talent of a talented person withers without the proper support.]

विश्वास-प्रस्तुतिः

भिन्ना महागिरिशिलाः करजाग्रजाग्र-
-दुद्दामशौर्यनिकरैः करटिभ्रमेण ।
दैवे पराचि करिणामरिणा तथापि
कुत्रापि नापि खलु हा पिशितस्य लेशः ॥ १०५ ॥

मूलम्

भिन्ना महागिरिशिलाः करजाग्रजाग्र-
-दुद्दामशौर्यनिकरैः करटिभ्रमेण ।
दैवे पराचि करिणामरिणा तथापि
कुत्रापि नापि खलु हा पिशितस्य लेशः ॥ १०५ ॥

अन्वयः

करिणाम् अरिणा करटिभ्रमेण करज-अग्र-जाग्रत्-उद्दाम-शौर्य-निकरैः महागिरिशिलाः भिन्नाः खलु । हा, दैवे पराचि तथा अपि कुत्र अपि पिशितस्य लेशः अपि न (अस्ति) ।

गॊरूरु-श्रीनिवासमूर्तिः

Falsely believing them to be elephants, boulders of mountains were indeed broken to pieces by the lion, the enemy of elephants, through its unbounded prowess arising out of its nails. Alas, fate being adverse, even then it could not get even a bit of meat anywhere. [No amount of your prowess will work if fate is adverse.]

विश्वास-प्रस्तुतिः

गर्जितमाकर्ण्य मनागङ्के मातुर्निशार्धजातोऽपि ।
हरिशिशुरुत्पतितुं द्रागङ्गान्याकुञ्च्य लीयते निभृतम् ॥ १०६ ॥

मूलम्

गर्जितमाकर्ण्य मनागङ्के मातुर्निशार्धजातोऽपि ।
हरिशिशुरुत्पतितुं द्रागङ्गान्याकुञ्च्य लीयते निभृतम् ॥ १०६ ॥

अन्वयः

हरिशिशुः मातुः अङ्के निशार्धजातः अपि मनाक् गर्जितम् आकर्ण्य

गॊरूरु-श्रीनिवासमूर्तिः

उत्पतितुं द्राक् अङ्गानि आकुञ्च्य निभृतम् लीयते ।

The Lion’s cub born half a night earlier sitting at its mother’s lap, having heard a little rumbling (from somewhere) tries to jump up contracting its body and lies there itself (having insufficient strength). [ Even as a cub it tries to display its prowess.]

विश्वास-प्रस्तुतिः

किमहं वदामि खल दिव्यतमं गुणपक्षपातमभितो भवतः ।
गुणशालिनो निखिलसाधुजनान् यदहर्निशं न खलु विस्मरसि ॥ १०७ ॥

मूलम्

किमहं वदामि खल दिव्यतमं गुणपक्षपातमभितो भवतः ।
गुणशालिनो निखिलसाधुजनान् यदहर्निशं न खलु विस्मरसि ॥ १०७ ॥

अन्वयः

खल! भवतः गुणपक्षपातम् अभितः अहम् किं वदामि, यत् गुणशालिनः निखिलसाधुजनान् अहर्निशं न विस्मरसि खलु ।

गॊरूरु-श्रीनिवासमूर्तिः

O wicked person! What shall I say of your partiality towards the good persons as you never (day and night) forget all the saintly persons rich with good qualities. [The wicked person may not forget the virtuous as he is bent on harming them. Or, the statement may be taken as ironic.]

विश्वास-प्रस्तुतिः

रे खल तव खलु चरितं विदुषां मध्ये विविच्य वक्ष्यामि ।
अथवालं पापात्मन् कृतया कथयापि ते हतया ॥ १०८ ॥

मूलम्

रे खल तव खलु चरितं विदुषां मध्ये विविच्य वक्ष्यामि ।
अथवालं पापात्मन् कृतया कथयापि ते हतया ॥ १०८ ॥

अन्वयः

रे खल! तव चरितं विदुषां मध्ये विविच्य वक्ष्यामि खलु । अथवा, पापात्मन्! ते हतया कृतया कथया अपि अलम् ।

गॊरूरु-श्रीनिवासमूर्तिः

O wicked man! I will tell in detail your conduct among the learned. Or, O Bad soul! Even mentioning your wretched conduct is not worth it!

विश्वास-प्रस्तुतिः

आनन्दमृगदावाग्निः शीलशाखिमदद्विपः ।
ज्ञानदीपमहावायुरयं खलसमागमः ॥ १०९ ॥

मूलम्

आनन्दमृगदावाग्निः शीलशाखिमदद्विपः ।
ज्ञानदीपमहावायुरयं खलसमागमः ॥ १०९ ॥

अन्वयः

अयं खलसमागमः आनन्द-मृग-दावाग्निः शील-शाखि-मद-द्विपः ज्ञान-दीप-महा-वायुः ।

गॊरूरु-श्रीनिवासमूर्तिः

Meeting with a wicked person is forest fire to the animal called happiness, is an elephant in rut to a tree called good manners, is hurricane to the lamp called knowledge. [In three apt metaphors the poet brings out the destructive influence of a wicked person on ones happiness, manners and knowledge.]

विश्वास-प्रस्तुतिः

खलास्तु कुशलाः साधुहितप्रत्यूहकर्मणि ।
निपुणाः फणिनः प्राणानपहर्तुं निरागसाम् ॥ ११० ॥

मूलम्

खलास्तु कुशलाः साधुहितप्रत्यूहकर्मणि ।
निपुणाः फणिनः प्राणानपहर्तुं निरागसाम् ॥ ११० ॥

अन्वयः

साधु-हित-प्रत्यूह-कर्मणि खला कुशलाः तु । निरागसां प्राणान् अपहर्तुं फणिनः निपुणाः खलु ।

गॊरूरु-श्रीनिवासमूर्तिः

The wicked are experts in obstructing what is good for the saintly. Snakes are after all experts in killing the innocent.

विश्वास-प्रस्तुतिः

वदने विनिवेशिता भुजङ्गी पिशुनानां रसनामिषेण धात्रा ।
अनया कथमन्यथावलीढा न हि जीवन्ति जना मनागमन्त्राः ॥ १११ ॥

मूलम्

वदने विनिवेशिता भुजङ्गी पिशुनानां रसनामिषेण धात्रा ।
अनया कथमन्यथावलीढा न हि जीवन्ति जना मनागमन्त्राः ॥ १११ ॥

अन्वयः

धात्रा पिशुनानां वदने रसनामिषेण भुजङ्गी विनिवेशिता । अनया अवलीढा अमन्त्राः जनाः न हि जीवन्ति (इति यत् तत्) अन्यथा कथं (भवेत्)।

गॊरूरु-श्रीनिवासमूर्तिः

A serpent has been placed in the guise of a tongue in the mouths of the crooked by Brahma. How could it otherwise happen that gullible people licked by the tongue do not survive? [ The wagging tongue of the crooked destroys gullible people as their tongue is a serpent in the guise of the tongue!]

विश्वास-प्रस्तुतिः

कृतं महोन्नतं कृत्यमर्जितं चामलं यशः ।
यावज्जीवं सखे तुभ्यं दास्यामो विपुलाशिषः ॥ ११२ ॥

मूलम्

कृतं महोन्नतं कृत्यमर्जितं चामलं यशः ।
यावज्जीवं सखे तुभ्यं दास्यामो विपुलाशिषः ॥ ११२ ॥

अन्वयः

सखे! (त्वया) महोन्नतं कृत्यं कृतम्, अमलं यशः च अर्जितम् ।

गॊरूरु-श्रीनिवासमूर्तिः

यावज्जीवं तुभ्यं विपुल-आशिषः दास्यामः ।

Dear friend! You did a great job and earned blemish free fame. We shall bless you profusely till our end. [ It could be a praise or a sarcastic statement!]

विश्वास-प्रस्तुतिः

अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् ।
अपि च मानसमम्बुनिधिः यशो विमलशारदपार्वणचन्द्रिका ॥ ११३ ॥

मूलम्

अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् ।
अपि च मानसमम्बुनिधिः यशो विमलशारदपार्वणचन्द्रिका ॥ ११३ ॥

अन्वयः

अविरतं परकार्यकृतां सतां अतिशयेन मधुरिमा वचः अमृतम् ।

गॊरूरु-श्रीनिवासमूर्तिः

अपि च (तेषां) मानसम् अम्बुनिधिः, यशः विमल-शारद-पार्वण-चन्द्रिका ।

The words of the virtuous who unceasingly work for the welfare of others are very sweet ambrosia. And their mind is the ocean; their fame is the pure autumnal moon light on a full moon night.

विश्वास-प्रस्तुतिः

एत्य कुसुमाकरो मे सञ्जीवयिता गिरं चिरं मग्नाम् ।
इति चिन्तयतो हृदये पिकस्य समधायि शौभिकेन शरः ॥ ११४ ॥

मूलम्

एत्य कुसुमाकरो मे सञ्जीवयिता गिरं चिरं मग्नाम् ।
इति चिन्तयतो हृदये पिकस्य समधायि शौभिकेन शरः ॥ ११४ ॥

अन्वयः

कुसुमाकरः एत्य मे चिरं मग्नां गिरं सञ्जीवयिता इति चिन्तयतः पिकस्य हृदये शौभिकेन शरः समधायि ।

गॊरूरु-श्रीनिवासमूर्तिः

While the cuckoo was thinking that spring would come and rejuvenate its sunken voice, a hunter shot it with his arrow. [A repetition of the idea in verse 58.]

विश्वास-प्रस्तुतिः

निर्गुणः शोभते नैव विपुलाडम्बरोऽपि ना ।
आपातरम्यपुष्पश्रीशोभिता शाल्मलिर्यथा ॥ ११५ ॥

मूलम्

निर्गुणः शोभते नैव विपुलाडम्बरोऽपि ना ।
आपातरम्यपुष्पश्रीशोभिता शाल्मलिर्यथा ॥ ११५ ॥

अन्वयः

यथा आपात-रम्य-पुष्प-श्री-शोभिता शाल्मलिः (न शोभते तथा) निर्गुणः ना विपुल-आडम्बरः अपि न शोभते एव ।

गॊरूरु-श्रीनिवासमूर्तिः

Just as the silk-cotton tree, which adorns itself with flowers whose beauty lasts till they fall down, does not shine, a person with no good qualities even if he puts on a show does not shine. [Called Simal in Hindi, silk-cotton tree has a thorny trunk and bears fruits which burst to give out cotton-like floss.]

विश्वास-प्रस्तुतिः

पङ्कैर्विना सरो भाति सदः खलजनैर्विना ।
कटुवर्णैर्विना काव्यं मानसं विषयैर्विना ॥ ११६ ॥

मूलम्

पङ्कैर्विना सरो भाति सदः खलजनैर्विना ।
कटुवर्णैर्विना काव्यं मानसं विषयैर्विना ॥ ११६ ॥

अन्वयः

सरः पङ्कैः विना भाति; सदः खलजनैः विना (भाति); काव्यं कटुवर्णैः विना (भाति); मानसं विषयैः विना (भाति) ।

गॊरूरु-श्रीनिवासमूर्तिः

A lake shines when it is free from slush; a conference shines if it is free of wicked persons; a literary work shines if it is free from harsh syllables; a mind shines if it is free from sensory desires.

विश्वास-प्रस्तुतिः

तत्त्वं किमपि काव्यानां जानाति विरलो भुवि ।
मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् ॥ ११७ ॥

मूलम्

तत्त्वं किमपि काव्यानां जानाति विरलो भुवि ।
मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् ॥ ११७ ॥

अन्वयः

भुवि काव्यानां किम् अपि तत्त्वं विरलः जानाति । मधुव्रतम् अन्तरेण मरन्दानां मार्मिकः कः?

गॊरूरु-श्रीनिवासमूर्तिः

It is only a rare person who understands anything of the essence of a literary work. Who has a deep insight into the honey of flowers other than the honey-bee? [Just as only a honeybee can appreciate the honey of flowers, only a rare set of persons can appreciate poetry.]

विश्वास-प्रस्तुतिः

सरजस्कां पाण्डुवर्णां कण्टकप्रकरान्विताम् ।
केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रप ॥ ११८ ॥

मूलम्

सरजस्कां पाण्डुवर्णां कण्टकप्रकरान्विताम् ।
केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रप ॥ ११८ ॥

अन्वयः

निस्त्रप रोलम्ब! सरजस्कां पाण्डुवर्णां कण्टक-प्रकर-अन्विताम् केतकीं कथं सेवसे? हन्त ।

गॊरूरु-श्रीनिवासमूर्तिः

Shameless bee! How do you pursue the pollen-ridden white ketaka flower, which is accompanied by a multitude of thorns? [ Using words having two meanings the poet indirectly shames a man who pursues a woman in her monthly periods-सरजस्काम्- who is pale-पाण्डुवर्णाम्- and who has horripilation,-कण्टकप्रकरान्विताम्- apparently due to fear of being pursued in her state.]

विश्वास-प्रस्तुतिः

यथा तानं विना रागः यथा मानं विना नृपः ।
यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ॥ ११९ ॥

मूलम्

यथा तानं विना रागः यथा मानं विना नृपः ।
यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ॥ ११९ ॥

गॊरूरु-श्रीनिवासमूर्तिः

Just as music does not shine without taan, just as a king does not shine without dignity, just as an elephant does not shine without ichor an ascetic does not shine without knowledge.

विश्वास-प्रस्तुतिः

सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् ।
आमोदो न हि कस्तूर्याः शपथेनानुभाव्यते ॥ १२० ॥

मूलम्

सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् ।
आमोदो न हि कस्तूर्याः शपथेनानुभाव्यते ॥ १२० ॥

अन्वयः

नृणां सन्तः गुणाः स्वतः प्रकाशन्ते, न परतः । कस्तूर्याः आमोदः शपथेन न अनुभाव्यते ।

गॊरूरु-श्रीनिवासमूर्तिः

The good qualities of persons spread on their own and not because of others. The fragrance of kasturi is not experienced through an oath of proclamation. [Just as the fragrance of kasturi spreads on its own, the good qualities of a person become known to others without anyone’s assistance.]

विश्वास-प्रस्तुतिः

अपि बत गुरु गर्वं मा स्म कस्तूरि यासीः
अखिलपरिमलानां मौलिना सौरभेण ।
गिरिगहनगुहायां लीनमत्यन्तदीनं
स्वजनकममुनैव प्राणहीनं करोषि ॥ १२१ ॥

मूलम्

अपि बत गुरु गर्वं मा स्म कस्तूरि यासीः
अखिलपरिमलानां मौलिना सौरभेण ।
गिरिगहनगुहायां लीनमत्यन्तदीनं
स्वजनकममुनैव प्राणहीनं करोषि ॥ १२१ ॥

अन्वयः

कस्तूरि बत! अखिलपरिमलानां मौलिना सौरभेण गुरु गर्वं मा स्म यासीः अपि । गिरि-गहन-गुहायां लीनम् अत्यन्तदीनं स्वजनकम् अमुना एव प्राणहीनं करोषि ।

गॊरूरु-श्रीनिवासमूर्तिः

O musk! Fie on you! Do not be excessively proud that your fragrance is foremost among all fragrances. You make your own father who led a hapless life hidden in the cavern of a hilly forest lifeless. [Musk is extracted from the glands of the musk deer, which in the process gets killed. The poet berates a famous person who in the process of becoming famous has harmed his own people.]

विश्वास-प्रस्तुतिः

दूरीकरोति कुमतिं विमलीकरोति
चेतश्चिरन्तनमघं चुलुकीकरोति ।
भूतेषु किं च करुणां बहुलीकरोति
सङ्गः सतां किमु न मङ्गलमातनोति ॥ १२२ ॥

मूलम्

दूरीकरोति कुमतिं विमलीकरोति
चेतश्चिरन्तनमघं चुलुकीकरोति ।
भूतेषु किं च करुणां बहुलीकरोति
सङ्गः सतां किमु न मङ्गलमातनोति ॥ १२२ ॥

अन्वयः

सतां सङ्गः कुमतिं दूरीकरोति, चेतः विमलीकरोति, चिरन्तनम् अघः चुलुकीकरोति, किं च भूतेषु करुणां बहुलीकरोति; किमु मङ्गलम् न आतनोति?

गॊरूरु-श्रीनिवासमूर्तिः

Company of the virtuous drives away bad intentions, cleans the mind, diminishes long acquired sin, and broadens the attitude of compassion toward all beings; what benefits does it not bring?

विश्वास-प्रस्तुतिः

अनवरतपरोपकारव्यग्रीभवदमलचेतसां महताम् ।
आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥ १२३ ॥

मूलम्

अनवरतपरोपकारव्यग्रीभवदमलचेतसां महताम् ।
आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥ १२३ ॥

अन्वयः

अनवरत-परोपकार-व्यग्रीभवत्-अमल-चेतसाम् महताम् वचनानि भेषजानि इव आपातकाटवानि स्फुरन्ति ।

गॊरूरु-श्रीनिवासमूर्तिः

The words of the great who are unceasingly engaged in doing good to others appear bitter at first like medicines.

विश्वास-प्रस्तुतिः

व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीता-
न्याकर्ण्य श्रुतिमदजाल्लयातिरेकात् ।
आभूमीतलनतकन्धराणि मन्येऽ
-रण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥ १२४ ॥

मूलम्

व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीता-
न्याकर्ण्य श्रुतिमदजाल्लयातिरेकात् ।
आभूमीतलनतकन्धराणि मन्येऽ
-रण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥ १२४ ॥

अन्वयः

अस्मिन् अरण्ये अवनिरुहां कुटुम्बकानि व्यागुञ्जत्-मधुकर-पुञ्ज-मञ्जु-गीतानि आकर्ण्य श्रुति-मदजात् लय-अतिरेकात् आभूमीतल-नत-कन्धराणि (इति) मन्ये ।

गॊरूरु-श्रीनिवासमूर्तिः

I think that in this forest, families of trees have their branches bent low touching the ground enchanted by the tunes and the rhythms after listening to the sonorous songs of swarms of humming bees. [The poet exaggerates that forest trees are bent low listening to the enchanting hums of the bees.]

विश्वास-प्रस्तुतिः

मृतस्य लिप्सा कृपणस्य दित्सा
विमार्गगायाश्च रुचिः स्वकान्ते ।
सर्पस्यशान्तिः कुटिलस्य मैत्री
विधातृसृष्टौ न हि दृष्टपूर्वा ॥ १२५ ॥

मूलम्

मृतस्य लिप्सा कृपणस्य दित्सा
विमार्गगायाश्च रुचिः स्वकान्ते ।
सर्पस्यशान्तिः कुटिलस्य मैत्री
विधातृसृष्टौ न हि दृष्टपूर्वा ॥ १२५ ॥

गॊरूरु-श्रीनिवासमूर्तिः

Desire to get back (life) for the dead, desire to give for the miser, liking towards ones husband for a woman who has gone astray, peace for a snake, friendship for a wicked person, all these have not been so far seen in the creation of Brahma. [These things are not realizable.]

विश्वास-प्रस्तुतिः

उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते ।
राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥ १२६ ॥

मूलम्

उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते ।
राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥ १२६ ॥

गॊरूरु-श्रीनिवासमूर्तिः

There is nothing like being faithful even among the best of women. The night-lotuses dear to the moon (राजन्=moon) flirt with bees. [ The poet suggests that even those women dear to a king enjoy the company of other lovers.]

विश्वास-प्रस्तुतिः

अयाचितः सुखं दत्ते याचितश्च न यच्छति ।
सर्वस्वं चापि हरते विधिरुच्छ्रंखलो नृणाम् ॥ १२७ ॥

मूलम्

अयाचितः सुखं दत्ते याचितश्च न यच्छति ।
सर्वस्वं चापि हरते विधिरुच्छ्रंखलो नृणाम् ॥ १२७ ॥

अन्वयः

नृणां विधिः उच्छृंखलः : अयाचितः सुखं दत्ते, याचितः च न यच्छति, सर्वस्वं च अपि हरते ।

गॊरूरु-श्रीनिवासमूर्तिः

Destiny is unbridled; it gives happiness unasked for, does not give when asked for, it steals all your belongings.

विश्वास-प्रस्तुतिः

दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डांशुग-
ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम् ।
वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव-
भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ १२८ ॥

मूलम्

दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डांशुग-
ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम् ।
वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव-
भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ १२८ ॥

अन्वयः

अथ कः क्षितीशः मध्येरणं दोर्-दण्ड-द्वय-कुण्डलीकृत-लसत्-कोदण्ड-चंडांशुग-ध्वस्त-उद्दण्ड-विपक्षमण्डलं त्वां वीक्ष्य वल्गत्-गाण्डिव-मुक्त-काण्ड-वलय-ज्वालावली-ताण्डव-भ्रश्यत्-खाण्डव-रुष्ट-पाण्डवम् अहो न स्मरेत् ।

गॊरूरु-श्रीनिवासमूर्तिः

Now which king will not remember angry Arjuna in Khandava forest which was getting destroyed by the dancing flames arising out of the groups of arrows leaving the vibrating Gandiva bow when he sees you in the battle field destroying the formidable enemy forces with the arrows from the shining bow bent by (your) staff like shoulders? [ The poet is apparently praising a king and to impress him has used long harsh-sounding compound words to suit the mood of heroism.]

विश्वास-प्रस्तुतिः

खण्डितानेत्रकञ्जालिमञ्जुरञ्जनपण्डिताः ।
मण्डिताखिलदिक्प्रान्ताः चण्डांशोः पान्तु भानवः ॥ १२९ ॥

मूलम्

खण्डितानेत्रकञ्जालिमञ्जुरञ्जनपण्डिताः ।
मण्डिताखिलदिक्प्रान्ताः चण्डांशोः पान्तु भानवः ॥ १२९ ॥

अन्वयः

खण्डिता-नेत्र-कञ्जालि-मञ्जु-रञ्जन-पण्डिताः मण्डित-अखिल-दिक्-प्रान्ताः चंडांशोः भानवः पान्तु ।

गॊरूरु-श्रीनिवासमूर्तिः

May the rays of the sun, which decorate the horizon all round and which expertly gladden the lotus-like eyes of a lady of Khandita variety protect (us). [It is a closing benedictory verse being the last verse in the first chapter. Khandita is a woman who has been cheated by the husband who returns home early in the morning after having slept with another woman. She is glad that the long night has ended as she sees the sun’s rays.]

॥ इति श्रीमत्पण्डितराजजगन्नाथकविविरचिते

भामिनीविलासे

प्रथमः विलासः ॥

Thus ends the first section of Bhaminivilasa

composed by the poet

Panditaraaja (king among scholars) Jagannatha.