वृत्त-कुसुमार्पणम्

पूर्वार्धम्

योगमुद्रामुपारूढं नरसिंहं हृदि स्मरन् ।
वृत्तलक्षणजिज्ञासुः नामसंकीर्तनं हरेः ॥१॥

कुर्वन्नाप्नोत्ववगमं वृत्तानां लक्षणे जवात् ।
इति सञ्चिन्त्य यतते कर्तुमेषां कृतिं ह्रिया ॥२॥

गोरूरुग्रामसञ्जातः शेल्वपिल्लैसुतोऽल्पधीः ।
मूर्त्युपाह्वः श्रीनिवासः सावधानं निबोधत ॥३॥

प्रारम्भकांशाः शास्त्रस्य पूर्वार्धेऽत्र दर्शिताः ।
ह्रस्वाक्षरोच्चारणाय यः कालः समपेक्षितः ॥४॥

स एकमात्रामित इत्युच्यते पूर्वसूरिभिः।
दीर्घाक्षरमनुस्वारविसर्गान्ताक्षराणि च ॥५॥

मात्राद्वयमितानीति च्छन्दःशास्त्रे निगद्यते।
संयुक्ताक्षरपृष्ठस्थं द्विमात्रमिति गण्यते ॥६॥

ह्रस्वाक्षरं चेत्त्पादान्ते द्विमात्रं तदपि स्मृतम् ।
एकमात्रामितः कालः लघुरित्यादृतैर्बुधैः ॥७॥

द्विमात्राप्रमितस्तावद्गुरुरित्यभिधीयते ।
छन्दसां लक्षणं वक्तुं सुकरं भवतादिति ॥८॥

अक्षराणि त्रिशः पद्ये गुम्फितान्यादितः क्रमात् ।
तमक्षरगणं प्राहुः वृन्दं त्र्यक्षरसम्मितम् ॥९॥

लघ्वादिर्यगणः प्रोक्तः रगणः लघुमध्यमः ।
लघ्वन्तस्तगणश्चाथ गुर्वादिर्भगणः स्मृतः ॥१०॥

गुरुमध्यस्तु जगणः गुर्वन्तः सगणो भवेत् ।
नगणः स्यात्सर्वलघुर्मगणो लघुवर्जितः ॥११॥

यत्रावश्यो विरामः स्यात् पद्यवाचनकर्मणि ।
तत्स्थानं यतिमाहुः सा पादान्ते नियता भवेत् ॥१२॥

यतिस्थाने पदान्तस्स्यादितिच्छन्दोविदां मतम् ।
प्रदर्श्यन्तेऽत्रोत्तरार्धे हृद्यवृत्तानि कानिचित् ॥१३॥

समवृत्तस्याद्यपादे दृश्यते वृत्तलक्षणम् ।
यत्राक्षरगणस्याद्यमक्षरं गणसूचकम् ॥१४॥

“यशस्विन्” यगणं ब्रूते “रक्ष मां” रगणं तथा ।
“तृप्तोऽस्मि” तगणं वक्ति “सततं” सगणं तथा ॥१५॥

भगणं “भार्गव"पदं सूचयत्यत्र पश्यत।
“जयन्त"पदमेवं हि जगणं सूचयेदिह ॥१६॥

तथा “निमिष"शब्दस्तु निर्दिशेन्नगणं स्तुतौ ।
“माजाने” मगणं ब्रूते “हरे” लघुगुरू तथा ॥१७॥

स्तोत्रे “विष्णो"ऽथवा “शौरे” गुरुद्वन्द्वे प्रयुज्यते ।
पुनरुक्तिनिरोधार्थं युज्यन्तेऽन्यपदानि च ॥१८॥

क्वचिल्लघुगुरुद्वन्द्वं गुरुद्वन्द्वं गुरु क्वचित् ।
पृथङ्निर्दिश्यते तत्र हेतुर्यतिनिबन्धनम् ॥१९॥

पद्योत्तरार्धे दत्तौ स्तः यतिर्वृत्तस्य नाम च ।
गुणाश्च वसवश्चैव मुनयोऽन्यपदानि च ।२०॥

संख्यावाचीनि युज्यन्ते यतिनिर्देशने क्वचित् |

न सर्वेषां तु वृत्तानां लक्षणं दिश्यतेऽधुना ॥२१॥

निर्दिशेदन्यवृत्तानि यथानिर्दिष्टमञ्जसा ।
बाल एव यथाशक्ति च्छन्दोव्युत्पत्तिहेतुना ॥२२॥

उत्तरार्धम्

तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे

गोविन्द नारायण कृष्ण विष्णो ।
नाम्नेन्द्रवज्रेति वदन्ति लोके

छन्दोविदो वृत्तमिदं प्रतीच्छ ॥ २३ ॥

जयन्त तुष्टोऽस्मि जयेश शौरे

रमेश लक्ष्मीश मुकुन्द विष्णो ।
उपेन्द्रवज्रेति बुधैः प्रतीतं

समर्प्यते पादयुगे तवात्र ॥२४ ॥

शौरे विष्णो राम हे रक्ष शार्ङ्गिन्

त्रातासि त्वं मत्प्रमादान् क्षमस्व ।
भिद्येतादौ देव वर्णैश्चतुर्भिः

शालिन्याख्यं वृत्तमेतत्प्रतीच्छ ॥ २५ ॥

रक्ष मां निमिष राम हे हरे

कृष्ण शार्ङ्गधर राघव प्रभो ।
आमनन्ति कवयो रथोद्धतां-

वृत्तमेतदधुना समर्प्यते ॥ २६ ॥

रक्ष मां निमिष भार्गव शौरे

राम हे वरद केशव कृष्ण ।
स्वागतेति विदितं कविवृन्दे

सन्निधौ तव समर्पितमद्य ॥ २७ ॥

भार्गव भावन भूषण शौरे

श्रीधर केशव मोहनमूर्ते ।
दोधकमेतदितिप्रथितं भोः

स्वीकुरु मामव राघव विष्णो ॥२८ ॥

तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे

जनेश तोत्रास्त्र जयेश विष्णो ।
उपेन्द्रवज्रा क्वचिदिन्द्रवज्रा

नाम्नोपजातिः कृपया प्रतीच्छ ॥ २९ ॥

भार्गव विष्णो निमिष यशस्विन्

भूषण शौरे दमय ममत्वम् ।
भूतयतिस्स्यादिह नरकारे

मौक्तिकमालां वरद गृहाण ॥ ३० ॥

रक्ष मां निमिष जयन्त विष्णो

प्रत्यहं वितर मनः प्रशान्तिम् ।
अक्षरैर्भवति यतिस्तु षड्भिः

चन्द्रिकाख्यनववृत्तमवेहि ॥ ३१ ॥

रक्ष मां निमिष भार्गव शौरे

पुष्कराक्ष मधुसूदन कृष्ण ।
नूत्नवृत्तमिह नन्दननाम

प्रार्थये भवतु तेऽमितभोग्यम् ॥ ३२ ॥

जयन्त तृप्तोऽस्मि जयेश राम हे

मुकुन्द गोविन्द रमेश मध्वरे ।
वदन्ति वंशस्थमिदं पुरातनाः

समर्पयाम्यत्र तवांघ्रिपङ्कजे ॥३३ ॥

सततं सुमते सदयं सहसे

मम मन्दमतिं मम धार्ष्ट्यमहो ।
कथयन्ति हि तोटकमेतदिति

प्रथिताः कृपयानुगृहाण हरे ॥ ३४ ॥

निमिष भार्गव भावन राम हे

वरद केशव माधव रक्ष माम् ।
द्रुतविलम्बितमद्य मयार्पितं

सदयमद्य गृहाण बलानुज ॥ ३५ ॥

तृप्तोऽस्मि तुष्टोऽस्मि जयन्त राम हे

गोविन्द लक्ष्मीश नमामि मध्वरे ।
क्त्येन्द्रवंशाख्यमिदं कृतं मया

स्वीकृत्य मां पाहि कृपापयोनिधे ॥ ३६ ॥

यशस्विन् यथेष्टं यदीत्थं यतेऽहं

कवित्वे क्षमस्व प्रभो वेङ्कटेश ।
भुजङ्गप्रयाते मदीयं प्रयासं

प्रतीच्छात्र दोषानशेषान्क्षमस्व ॥ ३७ ॥

निमिष यशस्विन् नियम यतेऽहम्

मम कविताया कुसुममकिञ्चित् ।
तव पदयुग्मे सपदि निधातुं

वितरतु तोषं कुसुमविचित्रा॥ ३८ ॥

राम हे रक्ष मां रंहसा राविणम्

कृच्छ्रगर्ते गतं श्रीनिधे मध्वरे ।
पण्डिता मण्डिताः स्रग्विणीं मन्वते

वृत्तमेतत्प्रभो स्वीकुरु प्रार्थये ॥ ३९ ॥

सततं भार्गव रक्ष मां यशस्विन्

सदयं सान्त्वय दुःखितं कृपालो ।
मधुराख्यं नवमर्पयामि वृत्तं

यदि हृद्यं न भवेत्तदा क्षमस्व ॥ ४० ॥

माजाने निमिष जयन्त रक्ष मां भोः

कंसारे वरद रमेश राम शौरे ।
प्रोक्तं यद्भुवनयतिः प्रहर्षिणीति

प्रेम्णा ते पदयुगले समर्पयामि ॥ ४१ ॥

निमिष भार्गव जयन्त जनेश भोः

वरद केशव रमेश हरे प्रभो ।
अभिनवं तव पदेऽद्य निवेशितं

मदनिकाख्यमिह वृत्तमधोक्षज ॥ ४२ ॥

तृप्तोऽस्मि भार्गव जयन्त जयेश शौरे

गोविन्द केशव रमेश रथाङ्गपाणे ।
ख्यातं वसन्ततिलकेति कविप्रधानैः

वृत्तं भवत्पदयुगेऽद्य समर्पयामि ॥ ४३ ॥

निमिष राम विष्णो रक्ष मां रम्यमूर्ते

शमय कामबाधां दुर्भरां सत्वरं मे ।
बदरिकाख्यवृत्ते सप्तवर्णैर्यतिः स्यात्

इदमपूर्वमीश प्रार्थये स्वीकुरु त्वम् ॥ ४४ ॥

निमिष नियम विष्णो रक्ष मां राम शौरे

वरद सुखद भक्तं पश्य मां सत्यवाक्य ।
यतिरिह वसुसंज्ञा मालिनीति प्रसिद्धं

तवपदयुगलेऽहं वृत्तमार्तोऽर्पयामि ॥ ४५ ॥

यतेऽहं माजाने निमिष सततं भार्गव हरे

कवित्वे वैदुष्यं न मयि सुतरां यादवपते ।
यतिः षद्भिर्वर्णैरिह शिखरिणीवृत्तमधुना

प्रतीच्छेदं विष्णो परिहर मदीयानघगणान् ॥४६॥

जगत्सु सततं हरे नियम राम हे रक्षकाः

भवन्ति न भवद्विधाः प्रणतपालने जागराः ।
रमेश भुवि कथ्यते बुधजनेषु पृथ्वीति यन्-

मयात्र हि समर्प्यते यतिरिहाष्टवर्णैः प्रभो ॥४७॥

शौरे विष्णो शार्ङ्गिन् निमिश सुमते भूषण हरे

दृप्तं मत्तं दुष्टं शमद सुरुचे मामव विधो ।
वृत्तं संरम्भाख्यं ऋतुयतियुतं स्वीकुरु नवम्

प्रीत्यै भूयात्तेऽदो वरद करुणाब्धे नरहरे ॥ ४८ ॥

विष्णो शौरे निमिष सततं रक्ष मां राम दासं

प्रह्वं भक्तं रघुवर हरे देव कारुण्यमूर्ते ।
मन्दाक्रान्तेत्यभिहितमिदं वृत्तमास्वाद्यलास्यं

त्वत्पादाब्जे मुनियतियुतं न्यस्य शान्तिं व्रजामि॥ ४९॥

शौरे विष्णो यशस्विन् निमिष सुमते भार्गव हरे

पश्चात्तापात्प्रदग्धं वरद कृपया पारय भवात् ।
प्रोक्तं मन्दारनाम्ना मुनियतियुतं स्वीकुरु नवं

भूयात्तुभ्यं मुदार्थं सहृदयहितं माधव विभो ॥५०॥

माजाने सततं जडोऽस्मि सुमतेऽतृप्तोऽस्मि तप्तोऽस्मिभोः

शान्तिं देहि भवत्कटाक्षसलिलैर्मद्विग्रहं स्नापयन्।
वर्णैर्द्वादशभिर्यतिर्नियमिता शार्दूलविक्रीडिते

वृत्तेऽस्मिन् भवते समर्पितमिदं लक्ष्मीप्रिय स्वीकुरु॥ ५१ ॥

विष्णो शौरे यशस्विन् नियत नियम ते देव तृप्तोऽस्मि दासः

कंसाराते विधातः मधुमथन हरे चक्रपाणे दयालो।
यस्मिन् द्विः स्यान्मुनियतिनियमः स्रग्धरेतीरिते भोः

तत्त्वत्प्रीत्यै कृपालो तवपदयुगले सादरं निक्षिपामि॥ ५२ ॥

सुमते सततं जयन्त भोः सदयं भावन रक्ष मां हरे ।
ललितेति बुधैरुदाहृते तव नेत्रद्युतिपातमादिशेः ॥ ५३ ॥

वरद निमिष रक्ष मां यशस्विन्

नियम जयन्त जनेश रामभद्र ।
तव पदयुगले निवेश्य भक्त्या

दृढचरणां प्रणमामि पुष्पिताग्राम् ॥ ५४ ॥

वृत्तकुसुमानि तवपदयुगले भक्त्या समर्पितानि हरे ।
स्वीकुर्वकिञ्चननृणा सुरभिःप्रसरतु तव करुणया ॥ ५५ ॥