पतिपत्नीसंलापः
कच्चित् प्रिये स्मरसि तानि दिनानि वीथ्यां
वर्षागमेऽविगणय्य वचो गुरूणाम्।
स्थित्वा गृहाद्बहिरनर्गलवृष्टिपाते
आवामभूव सुतरामुदकार्द्रवस्त्रौ॥१॥
कच्चित्प्रिय स्मरसि यद्भवता तदानीं
त्वत्पांसुपङ्किलकरेण समन्दहासम्।
मुद्राङ्किता सुविशदा खलु मे कपोले
बाष्पाम्बुरुद्धनयनाभवमस्मये+++(??)+++ च॥२॥
कच्चित्प्रिये स्मरसि ते प्रणयाज्जनन्या
यत्स्वादुभक्ष्यमशनाय तव प्रदत्तम्।
विद्यालयेऽहनि मया सह तत्त्वमादः
बाल्योचितप्रहसनप्रकरोपदंशम्॥३॥
कच्चित्प्रिय स्मरसि यद्भवदीयमात्रा
संप्रेषिते चणकजीरकभक्तभक्ष्ये।
संदश्य रक्तमरिचं त्वयि बद्धदृष्टिः
बाष्पप्रवाहपरिरुद्धविलोकनासम्॥४॥
कच्चित् प्रिये स्मरसि मे गुरुणा परीक्षा-
काले त्वया सह वृथालपने निषिद्धे।
आगत्य मद्गृहमपूर्वसुमप्रदान-
व्याजेन ते स्मितरुचा नितरामलिम्पः॥५॥
कच्चित् प्रिय स्मरसि रोषपरीतचित्ता
वक्तुं त्वया सह नैच्छमहानि सेर्ष्यम्।
अङ्कार्जने परिणतं प्रतिभान्वितं त्वाम्
अन्याश्च यान्ति ललना इति शिक्षणाय॥६॥
कच्चित् प्रिये स्मरसि ते जननी न्यगादीत्
मां हर्षदुःखतटबद्धनदीनिभोक्तीः।
अद्यप्रभृत्यभिमतं न ममात्मजायाः
क्रीडाप्रमोदचरितं भवता सहेति॥७॥
कच्चित् प्रिय स्मरसि मत्सदनस्य पृष्ठे
मन्नामपत्रसहितं कुसुमं गुलाबिम्।
पीतं सुगन्धि सुभगं निभृतं गवाक्षे
विन्यस्य सत्वरमगा विनिवृत्तदृष्टिः॥८॥
कच्चित्प्रिये स्मरसि देवनिकेतनान्तः
संत्यज्य भक्तजनयोग्यमतिं सलीलम्।
आवां कदाचिदभिजातजनैरुपेतौ
अन्योन्यदृष्टिमिलनैरवदाव नाल्पम्॥९॥
कच्चित्प्रिय स्मरसि मामुपवीणयन्तीं
श्रुत्वा मदालयसमीपमुपेयिवान् त्वम्।
त्वामाह्वयन्ममपिता विनयाद्यदैव
गीतं ह्रिया स्खलनपूर्णमभूत्तदैव॥१०॥
कच्चित्प्रिये स्मरसि ते जननीं मदीया
मातावदत् तव ततावयवेषु पुत्र्याः |
काचित्स्फुरत्यतुलयौवनरूपदीप्तिः
भद्रं भवेत् तदनुरूपवरो वृतः किम्॥११॥
कच्चित्प्रिय स्मरसि मद्भ्रुकुटीं विलोक्य
मातावदन्नगरतो वरयन्ति नैके।
विद्यार्जनं हि ममलक्ष्यमिति प्रवक्ति
पुत्रीत्यपूर्णवचना त्वयि सन्निकृष्टे॥१२॥
कच्चित्प्रिये स्मरसि शिक्षणसत्रचर्चा-
स्पर्धोत्सवे ननु मयाग्रपदेऽर्जिते त्वम्।
उच्चैः प्रशस्य करवादनरूपनुत्या
व्रीडाजिता पदयुगे न्यविशः स्वदृष्टिम्॥१३॥
कच्चित्प्रिय स्मरसि मां वटवृक्षमूले
गन्तुं पुरीं व्यवसिते त्वयि शिक्षणार्थम्।
त्वां द्रष्टुमागतवतीं जनकात्प्रभीतां
वृष्ट्यातपावृतधरामिव सस्मितास्राम्॥१४॥
कच्चित्प्रिये स्मरसि चैत्रविरामकाले
पुर्या निवृत्य तव गोप्यसखीगृहे त्वाम्।
संदृश्य जातपुलको न किमप्यवोचं
शक्तिंह्यदास्तव कटाक्षसुधानुपानैः॥१५॥
कच्चित्प्रिय स्मरसि बाष्पनिरुद्धदृष्ट्या
मां पत्तनं मम पितोन्नतशिक्षणाय।
संप्रेषितुं मतिमतीं न ददावनुज्ञाम्
इत्युक्त एव हि मया त्वमसान्त्वयो माम्॥१६॥
कच्चित्प्रिये स्मरसि तत्र मया यदुक्तं
भावीपतिस्तव करिष्यति पण्डितां त्वाम्।
पाणिं मनागुदनयो मम दण्डनार्थं
रुष्टेव हन्त न तु मे करपातभाग्यम्॥१७॥
कच्चित्प्रिय स्मरसि पुस्तकपृष्टमध्ये
प्रच्छाद्य पत्रमनुरागरसाप्लुतं ते।
स्वस्रा सह प्रणिहितं मम वाचनार्थं
दैवादवेन्नजनको मम तं प्रसङ्गम्॥१८॥
कच्चित्प्रिये स्मरसि ते प्रथमं प्रयत्नं
पत्रं विलिख्य विरचय्य च पुष्पमेकम्।
वक्रीकृताक्षरविभाव्यकराग्रकम्पं
संप्रेषितं यदभवन्मदुपोपधानम्॥१९॥
कच्चित्प्रिय स्मरसि ते पदवीधरत्वं
संश्रुत्य हर्षपुलकैर्विनिगूह्य लज्जाम्।
त्वद्दर्शनोत्सुकतया त्वरयाऽऽगतां मां
द्वार्येव सुस्मितकरैरबलामबध्नाः॥२०॥
कच्चित्प्रिये स्मरसि मज्जनके त्वदीयं
गेहं मया सह गते पितरं मदर्थम्।
त्वां याचितुं तव पिता तरसाह्वयत्त्वां
स्तम्भाकृतिव्यवहिता स्मितवागभूस्त्वम्॥२१॥
कच्चित्प्रिय स्मरसि बन्धुपुरोहिताद्यैः
सम्प्रेक्षितः परिणयोत्सववेदिकायाम्।
उच्चैर्ध्वनत्यविरतं शुभवेदघोषे
कर्णान्तिकं त्वमजपो ह्यनुरागमन्त्रम्॥२२॥
कच्चित्प्रिये स्मरसि सप्तपदीविधौ त्वं
वेदीं हुताशनवतीं परितः चरन्ती।
त्वत्पाणिना मृदुतमेन मदीयपाणिं
गाढं निपीड्य किमपि व्यलिखो नखाभ्याम्॥२३॥
कच्चित्प्रिय स्मरसि कामवशं गतस्त्वं
दाम्पत्यजीवनसुखप्रथमप्रभाते
क्लान्तां विमुच्य शयनं गमनोद्यतां माम्
उद्यम्य बाहुमबलां सबलं न्यरुन्द्धाः॥२४॥
कच्चित्प्रिये स्मरसि मां तदनु न्यगादीः
ग्रामात्पुरं जिगमिषुं विभवार्जनाय।
मा गा हृदीश न भवेयमहं विना त्वाम्
इत्यन्वगाश्च झटिति प्रणयार्दितं माम्॥२५॥
कच्चित्प्रिय स्मरसि दौहृदलक्षणस्थां
विद्यार्जने शिथिलिताध्यनप्रवृत्तिम्।
संचोदयन् बहुमुखैः प्रविलोभनैर्मां
भूयो प्रशिक्षणविधावकरोः प्रवृत्ताम्॥२६॥
कच्चित्प्रिये स्मरसि मां प्रति सूतिगेहे
सूतिव्यथाजनितरूक्षवचांसि तानि।
संश्रुत्य ते प्रलपितानि नियम्य हासं
शुश्रूषिका सकरुणं समसान्त्वयत्त्वाम्॥२७॥
कच्चित्प्रिय स्मरसि मोहकमर्भकं मे
पार्श्वे प्रसुप्तमवलोक्य मुहुर्मुहुस्त्वम्।
हर्षापगारयनिमज्जनधौतचित्तां
मां प्रेमपूरितदृशा नितरामचूषः॥२८॥
कच्चित्प्रिये स्मरसि ता युगदीर्घरात्रीः
यासु त्वया सह सुतां ज्वरपीडिताङ्गीम्।
अङ्के निवेश्य हिमशीतलपट्ट्बन्धैः
शीर्षस्य तापशमने बहुशोऽयतेऽहम्॥२९॥
कच्चित्प्रिय स्मरसि सोत्सवसंभ्रमान् तान्
पादौ परिक्षिपति च स्मयतेऽधुनेति।
अद्यात्मनैव विचलत्युरसेति पुत्री
पद्भ्यां स्वयं चरति संप्रति जल्पतीति॥३०॥
कच्चित्प्रिये स्मरसि रोषपरीतनेत्रां
केनापि कारणलवेन मयि प्ररुष्टाम्।
त्वां निन्दनैर्बहुविधैः खलु मां तुदन्तीं
पुत्री स्वमुग्धवचनैरकरोत् हसन्तीम्॥३१॥
कच्चित्प्रिय स्मरसि नागरपाठशालां
यावद्गता तव सुता खलु तावदेव।
मां पाककर्मणि रतां प्रसभं बलाढ्यः
शय्यागृहं ह्यगमयस्त्वमदम्यकामः॥३२॥
कच्चित्प्रिये स्मरसि नृत्यदभूतकान्तिः
पुत्रोत्सवेऽभ्युपगते सुतमात्ममूर्तिम्।
अङ्के निवेश्य तव मानसराजहंसं
बालानवाप्यवचनैस्समभाषथास्त्वम्॥३३॥
कच्चित् प्रिय स्मरसि तानि मनोहराणि
वर्षाण्यपत्ययुगलालनशिक्षणेषु।
प्रत्यूहकण्टकशतैरवरुद्धमार्गे
काष्ठार्धवद्द्रुतगतेन हि यापितानि॥३४॥
कच्चित् प्रिये स्मरसि तावकदुःखधारां
पुत्र्यां नवोढललनोचितदीप्तिमूर्त्याम्।
भर्त्रा सह श्वशुरगेहमभि प्रयान्त्यां
हर्षावगुण्ठनतिरोहितनैजरूपाम्॥३५॥
कच्चित् प्रिय स्मरसि दारपरिग्रहार्थं
पुत्रस्य बन्धुसुहृदाप्तजने विचिन्वन्।
पुत्रे त्वदुद्धृतवधूषु न जातमोहे
पुत्रानुरक्तललनां स्व्यकरोः स्नुषात्वे॥३६॥
कच्चित् प्रिये स्मरसि मातृधरां विहाय
पत्न्या सह स्वनवसौख्यसुधावसिक्तः।
पुत्रो विमानगमनोत्सुकतापरीतः
मात्रा त्वया सह न किञ्चिदपि न्यगादीत्॥३७॥
कच्चित् प्रिय स्मरसि हर्षमदप्रणुन्नः
पौत्रोत्सवेऽभ्युपगते भगवत्प्रसादात्।
उच्चैर्वदन् श्रुणुत पौत्रपितामहोऽस्मी-
त्यास्वाद्यभक्ष्यनिकरान्व्यतरः परेषु॥३८॥
कच्चित्प्रिये स्मरसि मामवदः सखेदं
दौहित्रपौत्रगणजातसुखानुबद्ध-॥
चित्तस्य मे स्वभवनानि गतेषु तेषु
तै रिक्तमालयमहो नरकं हि मन्वे॥३९॥
कच्चित्प्रिय स्मरसि सान्त्वनमाददास्त्वं
पक्षी पतत्रयुगमाप्य जहाति मातुः।
नीडं यथा खलु तथापि जहात्यपत्यं
मातुर्गृहं स्वगृहनिर्मितिमग्नचित्तम्॥४०॥
कच्चित्प्रिय स्मरसि पौत्रविवाहकाले
मय्यामयेन नितरां परिपीडितायाम् ।
शुश्रूषणे मम रतस्त्वमभूः नितान्तम्
आवां विना परिणयः खलु सन्निवृत्तः ॥ ४१ ॥
कच्चित् प्रिये स्मरसि मां सुदृढद्विजालि-
युक्तं कठोरचणकाशनकर्मदक्षम् ।
अद्यास्म्यहो चटकवत् रदनैर्विहीनः
कालस्य निष्ठुरगतिः न कदापि रुद्धा ॥ ४२ ॥
कच्चित् प्रिय स्मरसि मां ससुखं पचन्तीम्
विंशद्विधान् दशजनोचितभक्ष्यभोज्यान् ।
अद्यावयोः अशनपाचनकर्म एव
कृच्छ्रं प्रयासबहुलं प्रतिभाति हन्त ॥ ४३ ॥
कच्चित् प्रिये स्मरसि ते भिषजा प्रदत्ते
जानुव्यथाप्रशमके गुटिकेऽशितव्ये।
हन्ताधुना स्वतनुपालनकार्य एव
स्वाधीनता यदि हि सिद्ध्यति सा प्रशस्या॥४४॥
कच्चित् प्रिय स्मरसि मामकसुप्तिमोहः
पूर्वं त्वयोपहसित: बहुशोऽधुना वै।
निद्राऽऽगता यदि तदा शिथिलं शनैर्माम्
आलिङ्गति त्वमिव शान्तमनोजवह्निः॥४५॥
कच्चित् प्रिये स्मरसि नौ स्मरचापविद्धौ
संश्लेषचुन्बनरतौ तरुणौ इदानीम्।
प्रेमानिलप्रशमितो मदनङ्गवह्निः
प्रेम त्वहो त्वयि विवर्धत एव नित्यम्॥४६॥
कच्चित् प्रिय स्मरसि मां नवयौवनस्थां
मिष्टान्नभोजनसुखेष्वमिताभिलाषाम्।
अद्यत्वहं मधुरभक्ष्यसुखान्निवृत्ता
तृप्ता तवातिमधुरैः स्मितपूर्ववाग्भिः॥४७॥
कच्चित् प्रिये स्मरसि मे लवणे स्पृहां तां
व्यज्ञापयः खलु हिताय न सेति पूर्वम्।
संप्रत्यहो मदशने लवणं निषिद्धं
लावण्यमेव तव देवि भवेदलं मे॥४८॥
कच्चित् प्रिय स्मरसि सानुनयं त्ववादीः
संवाहयामि तव पादयुगं दिनान्ते।
क्लान्तास्म्यवश्यगृहकर्मभरेण नाथ
तां संविदं सफलय प्रसभं गुणाढ्य॥४९॥
कच्चित् प्रिये स्मरसि केशवपादयुग्मं
सर्वामयप्रशमकं शरणागतानाम्।
संस्मृत्य यत् प्रणतधीः ममतां विहाय
निद्रां भजस्व विमले ससुखं शयीथाः॥५०॥