जगन्नाथपण्डितप्रशंसा

लहर्यः कालिन्द्याः, क्वचिद्, अमृदु-रश्मिर् दिनमणेः,
क्वचिद् गङ्गा-देव्या जलद-निभ-गम्भीर-रणितम् ।
क्वचिद् गोपालस्य प्रणत-जन-संरक्षण-विधा,
रमाया अन्यत्र प्रतत-करुणार्द्रेक्षण-सुधा ॥

विलासा भामिन्या, मधुर-रस-गङ्गा-धर गुरो
क्वचित् त्वां काव्य-श्री-प्रणय-निरतं चक्रुर् अहह ।
त्वद्-उत्पत्तिः श्लाघ्या सहृदय-जनामोद-जननी
जगन्नाथाचार्य प्रणतिर् इह ते नः कवि-मणे ॥