Cricket-उपाख्यानम्

क्रिकेटोपाख्यानम्
रचयिता : जि एस् श्रीनिवासमूर्तिः

सूतं पुराणिकं विज्ञं पप्रच्छुस्तापसा वने ।
अस्माभिर्भारते देशे कथाश्रवणवञ्चिताः ।
क्रिकेट1खेलां रुचिरां खेलिष्यन्तीति वै श्रुतम् ।
केयं खेला कथं मर्त्याः खेलिष्यन्ति युगे कलौ ॥ १-२ ॥

कृपयाऽचक्ष्व सर्वज्ञ परं कौतूहलं हि नः ।
उवाच सूतः प्रहसन् मुनयः शृणुतोत्सुकाः ॥ ३ ॥

संग्रहेणैव वक्ष्यामि न शक्यं विस्तृतेरितम् ।
गणौ खेलत अन्योन्यं जिगीषू सौहृदान्वितौ ॥ ४ ॥

गणे तत्रान्यतरस्मिन्सन्त्यैकादशखेलकाः ।
खेलनोपस्करा दण्डो विकेटः2 कन्दुकस्त्रयः॥ ५ ॥

लम्बदण्डत्रयं स्निग्धं स्टम्प3नाम्नेरितं बुधैः ।
बेलौ4 सूक्ष्मौ दारुकृतौ स्टम्पस्योपरि तिष्ठतः ।
बेलस्टम्पसमाहारो विकेट इति कीर्तितः ॥ ६ ॥

गणे केचित् ताडकाश्च क्षेपकाश्चापरे सदा ।
विकेटरक्षकश्चैव सर्वे दक्षाश्च धावने ॥ ७ ॥

गणस्यान्यतरस्यैकः खेलको गणनायकः ।
काप्टनाह्वो5 वर्तते यो दक्षः क्रीडाविचक्षणः ॥ ८ ॥

क्रिकेटक्षेत्रविस्तारः यार्डानां6 पञ्चषष्ठितः ।
भवेन्नवतिपर्यन्तं मध्ये रोपितशाद्वलः ।
चतुरस्रो खेलनार्थं स्थितः पिच7 इतीरितः ॥ ९-१० ॥

पिचे विकेटौ हरिते स्थाप्येतेऽन्योन्यसंमुखौ ।
यार्डानां द्वाविंशतिः स्यादनयोरन्तरं सदा ॥ ११ ॥

यदा प्रारभते क्रीडा गणस्यैकस्य ताडकौ ।
विकेटौ समया स्यातां खेलका अपरस्य तु ।
तिष्ठन्ति खेलनक्षेत्रे एकैकं नियतस्थले ॥ १२ ॥

विकेटरक्षकस्तिष्ठेत् ताडकस्यैव पृष्ठतः ।
पश्चाद्विकेटस्य यथा गृह्यते चलकन्दुकः ॥ १३ ॥

विकेटं पालयन् दण्डधरे तिष्ठति ताडके ।
क्षेपकोऽन्यगणस्यान्यविकेटात् कन्दुकं क्षिपन् ।
उत्पतत्कन्दुकाघातात् विकेटं पातयेत् द्रुतम् ।
पतेद्यदि विकेटस्तु निष्क्रमेत स ताडकः ॥ १४-१५ ॥

ताडकस्तु स्वदण्डेन ताडयत्यञ्जसा तथा ।
कन्दुकं स यथा दूरं प्लवन् भूमौ चलन् व्रजेत् ॥ १६ ॥

विकेटं च सुसंरक्ष्य कन्दुकं ताडयेद्यदि ।
खेलकोऽरिगणात्कश्चित् धावन् गृह्णाति कन्दुकम् ।
विकेटलक्ष्यमुद्दिश्य द्राक् तं क्षिपति धावकः ॥ १७॥

अत्रान्तरे ताडकौ तौ विकेटमपरं प्रति ।
गतागतं धावतो द्राक् यावन्नायाति कन्दुकः ।
गतागतानां गणनाद्धावनाङ्को विगण्यते॥ १८ ॥

डयमानः कन्दुकश्चेत् धावकेन विगृह्यते ।
धरण्यां पतनात्पूर्वं निष्क्रमेत स ताडकः ॥ १९ ॥

धावत्यतीत्य सीमानं तरसा यदि कन्दुकः ।
चत्वारो धावनाङ्कास्तु गण्यन्ते ताडकार्जिताः ॥ २० ॥

प्लवेदतीत्य सीमानं कन्दुको यदि ताडितः ।
षडङ्कानर्जयत्याशु ताडकः संस्तुतो जनैः ॥ २१ ॥

भवेन्निष्क्रमणं साध्यं दशधा ताडकस्य हि ।
तेषां विवरणं नात्र क्रियते कार्यगौरवात् ॥ २२ ॥

षड्कृत्व एवं क्षिपति क्षेपकः कन्दुकं दृढम् ।
षट्कृत्वः क्षेपणं ह्येवं निर्वर्तनमितीरितम् ।
पर्यायेण विकेटाभ्यां भवेन्निर्वर्तनं सदा ॥ २३ ॥

गणस्य प्रविशत्यन्यः निष्क्राम्येद्यदि ताडकः ।
एवमेकैकशः स्वाङकान्लभन्ते गणखेलकाः ।
आहत्याङ्कान् खेलकानां गणाङ्क उपलभ्यते ॥ २४ ॥

योऽद्यावधि गणो क्षेत्रपालने क्षेपणे रतः ।
स इदानीं ताडनेऽथ धावने सक्रियो भवेत् ॥ २५ ॥

लभन्त उक्तरीत्यैव स्वाङ्कान्श्च गणखेलकाः ।
गणौ खेलत अन्योऽन्यं विपरीतक्रियारतौ ॥ २६ ॥

क्रीडायां खेलनावर्तः इनिङ्ग इति कथ्यते ।
यद्गणस्य भवत्यङ्कः ज्यायान् जयति तद्गणः ॥ २७ ॥

प्रायेण त्रिविधा प्रोक्ताः क्रिकेटक्रीडने बुधैः ।
यदा द्वयमिनिङ्गाणां गणाभ्यां खेल्यते तदा ॥

क्रीडानिकष इत्युक्तां टेस्ट-माचि8त्युदाहृताम् ।
चतुर्वा पञ्चदिवसान् खेलन्ति युवखेलकाः ॥ २८-२९॥

इनिङ्गे निर्वर्तनानामस्ति पञ्चाशदेव चेत् ।
एकस्मिन्नेव दिवसे पूर्णतां याति खेलनम् ॥ ३० ॥

निर्वर्तनानां संख्या चेदिनिङ्गे विंशतिस्तदा ।
त्रिष्वेव घटिकानां हि क्रीडा याति समापनम् ॥ ३१ ॥

क्रीडाप्रयोगो निर्दिष्टः स्थूलरूपेण साम्प्रतम् ।
भवतां लघुबोधार्थमौत्सुक्यशमनाय च ॥ ३२ ॥

कन्दुकक्षेपणं कर्मासरलं चातिसङ्कुलम् ।
तत्र प्रवीणतां प्राप्तुं दुश्शक्यं चतुरैरपि ॥ ३३ ॥

शीघ्रप्रतिक्रियाशीला दृढकाया मनोजवाः ।
एकाग्रमनसो लक्ष्ये स्निग्धा खेलकसंश्रये ।
धनं यशश्च विपुलं लभन्ते खेलका: कलौ ॥ ३४ ॥

जनिष्यन्ति भवन्तो चेत् भारतेऽस्मिन् कलौ युगे ।
दिष्ट्या क्रिकेटं शृण्वन्तः पश्यन्तः दूरदर्शके ।
कदाचित् क्रीडयन्तश्च चिरं सुखमवाप्स्यथ ॥ ३५ ॥

घूर्णत्कन्दुकमत्र पश्यत करात्क्षिप्तं बिषेन्बेडिनः ।
अत्राहो गगने प्लवन्तमपरं टेण्डुल्करेणोच्छ्रितम् ।
गृह्णात्यत्र कृताञ्जलिर्वरकपिल्देवो भ्रमत्कन्दुकम् ।
राहुल्-द्राविडमत्र पश्यत जनैः संस्तूयमानं मुदा ॥ ३६ ॥

निमीलिताक्षं गायन्तमसम्बद्धं पुराणिकम् ।
पश्यन्तः प्राहसन् सर्वे मुनिवर्या मुहुर्मुहुः ॥ ३७ ॥

नेत्रे निमील्य सहसा क्रोधपर्याकुलेक्षणः ।
शशाप सूतः शृण्वत्सु मुनिष्वेवं तपोवने ॥ ३८ ॥

क्रीडां कथयतो चित्तं तस्यां मग्नमभून्मम ।
अद्राक्षं तानि दृश्यानि भविष्यन्ति सकौतुकम् ॥ ३९ ॥

प्रत्याख्यातोऽस्मि मुनयो भवद्भिर्मुनिपुङ्गवैः ।
इदं क्रिकेटोपाख्यानं कलौ नष्टं भविष्यति ।
न स्मरन्ति जना हन्त मयैतत् समुदीरितम् ॥ ४० ॥

तत्र कश्चिन्मुनिश्रेष्ठः पश्चात्तापेन यन्त्रितः ।
सूतं पुराणिकं नम्र उवाच वदतां वरम् ॥ ४१ ॥

क्षमस्वास्मान् मुनिश्रेष्ठ न कश्चिन्नापहास्यते ।
इदं श्रेष्ठमुपाख्यानं यदि नष्टं भवेदहो ॥

न शृण्वन्त इदं मर्त्या भविष्यन्ति निरुत्सुकाः ।
अतोऽहं प्रार्थये प्राज्ञं भवेत् शापविमोचनम् ॥ ४२-४३ ॥

तथास्त्विदमुपाख्यानं द्वितीयजनिमेष्यति ।
यः कश्चित्पण्डितंमन्यः कलौ हैमवती तटे ।
जनिं प्राप्य क्रिकेटस्य न स्पृशन् दण्डकन्दुकौ ।
अप्यैकवारं रचयेदुपाख्यानमतन्द्रितः ॥ ४४-४५ ॥

यद्वर्तमानमधुना शापं चास्य विमोचनम् ।
लेखिष्यति यथावत्सः मदाशीर्भिःप्रचोदितः ॥ ४६ ॥

क्रिकेटोपाख्यानमिदं व्याहृतं प्रथमं मया ।
ये शृण्वन्ति पठन्त्यन्यैः पाठयन्ति लिखन्ति च ।
तेषां निःसंशयं वासः स्यात्क्रिकेटत्रिविष्टपे ॥ ४७ ॥

एवं पुराणिको सूतो व्याहृत्य मुनिमण्डले ।
आपृच्छ्य तापसान् सर्वान् जगाम स्वाश्रमं वशी ॥ ४८ ॥

इति क्रिकेटोपाख्यानं समाप्तम्


Notes

cricket

wicket

stump

bails

captain

yard

pitch

Test match