जनानामस्मिता माया जगत्यस्मिन्निरर्थके ।
हन्तेयं भणितिश्चापि कल्पिता मायया तया ॥ १ ॥
ब्ला ब्लाब्लेति सुपुष्टबस्तरटनं कुर्वन् पुरीचत्वरे
भृत्यश्लाघनदर्पितो बहुमुखो दक्षः स्वनिर्वाचने ।
सर्वान् तोषयते जनान् सुमधुरासत्यैः स्ववित्तार्जने
शूरो विन्दति राजनीतिचतुरः श्रेयः सदास्मिन्युगे ॥ २ ॥
माता क्रन्दत्यधीरा ममशिशुरनघः कुत्र गतवान्
अन्यत्रार्तो जनन्यै त्वविरतमबलो रोदिति शिशुः ।
सर्वे पृष्टा रमण्यायि वद किमिह दृष्टो मम पतिः
कस्मै देवाय भूयान्मम नमनमिदानीं वद सखे ॥ ३ ॥
उपयासि तमसि राधां रजसा लिप्तश्च चरसि गोपालः ।
पुलिनेषु पङ्किलस्त्वं तथापि सत्त्वगुणपूर्णः किम् ॥ ४ ॥
अम्बरावृतपयोधरा स्त्रियः शीलवत्य इति मेनिरे बुधाः ।
अम्बरं तव पयोधरावृतं श्रावणागमनमोहिते निशे ॥ ५ ॥
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टभानुं
पश्यन्वातैर्विपदमतुलां प्राप्य नश्यत्तितिक्षा ।
आकाशस्त्री स्वमुखमभितः कम्बलैर्धूम्रवर्णै
राच्छाद्यैतीत्यनुभवमगां मानसे बेङ्गलूरौ ॥ ६ ॥
“किंवर्षीयः कवे त्वं जरठ वद” “मयास्योत्तरं नोक्तपूर्वम्”
“अस्तु, प्रश्नोऽपरो मे, कविवर कतिकृत्वो धरा कर्मनिष्ठा ।
आ त्वज्जन्मात् स्वमार्गे दिनकरमभितः सञ्चचालेति” “बाढम्,
श्लोकेऽस्मिन्नुच्यमाने गणय शितमते योजितान्यक्षराणि”॥
७ ॥[२०२१]
“मन्दाक्रान्ता तव मतिरहो दुःशकालोचनैर्यत्
त्वं मां ब्रूषे ‘गणय कति सन्त्यक्षराण्यत्र पद्ये
संख्या लब्धा मम खलु वयोब्दे’ष्विति स्यादसत्यम्
त”न्मामेवं वदति गृहिणी मन्दहासान् किरन्ती
तां वच्म्यार्ये निशितधिषणे पञ्चमः पाद एषः’ || ८ ॥ [२०२२]
वाणिज्यं करवावेत्थं भवेत्ते लाभदायकम् ।
स्वीकृत्य मे कामधनं देहि क्रोधदरिद्रताम् ।
स्वीकृत्य मे लोभधनं देहि मोहदरिद्रताम् ।
स्वीकृत्येर्ष्याधनं देव देहि गर्वदरिद्रताम् ॥ ९ ॥