विश्वास-प्रस्तुतिः
मध्ये बहूनां रोगानाम्
एष मे बाधतेतराम् ।
डौन्-लोड् सिन्ड्रोम् इत्यवैमि
प्रधानं यस्य लक्षणम् ॥
भवतीत्थं यदा यद् यत्
“डौन्-लोडबल्” इति श्रुतम् ।
तत् तत् तदैव तत्रैव
डौन्-लोड् कर्तुं यते द्रुतम् ॥
डौन्-लोड् कृतानां ग्रन्थानां
संख्या ऽगण्येति मे मतिः।
तेषाम् उद्घाटनायापि
समयो नास्ति मे यदि ।
का वार्ताध्ययनस्य स्यात्
चिन्तयन्त्व् इह पण्डिताः ॥
यः कालो मुद्रितग्रन्थ-
पठने यापितो भवेत् ।
तम् एव भक्षयत्य् एष
व्याधिः किं करवाण्य् अहम् ॥
शान्तं पापं भवेद् अन्यः
कोऽप्य् एतद् व्याधिपीडितः ।
को भिषक् किं भेषजं च
कृपया बोधयेद् इमम् ॥
मूलम्
मध्ये बहूनां रोगानामेष मे बाधतेतराम् ।
डौन्-लोड् सिन्ड्रोम् इत्यवैमि प्रधानं यस्य लक्षणम् ॥
भवतीत्थं यदा यद्यत् डौन्-लोडबलिति श्रुतम् ।
तत्तत् तदैव तत्रैव डौन्-लोड् कर्तुं यते द्रुतम् ॥
डौन्-लॊड् कृतानां ग्रन्थानां संख्याऽगण्येति मे मतिः।
तेषामुद्घाटनायापि समयो नास्ति मे यदि ।
का वार्ताध्ययनस्य स्यात् चिन्तयन्त्विह पण्डिताः ॥
यः कालो मुद्रितग्रन्थपठने यापितो भवेत् ।
तमेव भक्षयत्येष व्याधिः किं करवाण्यहम् ॥
शान्तं पापं भवेदन्यः कोऽप्येतद्व्याधिपीडितः ।
को भिषक् किं भेषजं च कृपया बोधयेदिमम् ॥